०२

द्वितीयः सर्गः

राधां स्नात-विभूषितां व्रजपयाहूतां सखीभिः प्रगे
तद्-गेहे विहितान्न-पाक-रचनां कृष्णावशेषाशनाम् ।
कृष्णं बुद्धम् अवाप्त-धेनु-सदनं निर्व्यूढ-गो-दोहनं
सुस्नातं कृत-भोजनं सहचरैस् तां चाथ तं चाश्रये ॥१॥

अथ प्रातः-काल-लीलां वर्णयितुम् आदौ स्मरण-मङ्गल-श्लोकेन सङ्क्षिपति राधां स्नात-विभूषिताम् इति । तां राधां तं कृष्णं चाश्रये । कीदृशीं ? प्रगे प्रातः-काले स्नाता चैषा विभूषिता च ताम् । व्रजपया यशोदया आहूतां सखीभिः तस्याः यशोदायाः गृहे सखीभिः सह विहिता कृता अन्न-पाक-रचना यया तां कृष्ण-भुक्तावशेषाशस्य भोजनं यस्यास् ताम् । कृष्णं कीदृशं ? बुद्धं जागरितं प्राप्त-धेनु-गृहं निर्व्यूढं वृत्तं समाप्तं गो-दोहनम् । ततः सुष्ठु स्नातं सहचरैः सह कृत-भोजनम् इत्य् अर्थः ॥१॥

अथ प्रभाते कृत-नित्य-कृत्या
प्रीत्याच्युतस्याति-विहस्त-चित्ता ।
प्रेमेन्दु-पूर्णा किल पौर्णमासी
तूर्णं व्रजेन्द्रालयम् आससाद ॥२॥

प्रेमेन्दुना पूर्णा पौर्णमासी नाम्नी योगमाया व्रजेन्द्रालयम् आससाद । अच्युतस्य प्रीत्यातिविहस्तम् अतिव्यग्रं चित्तं यस्याः सा ॥२॥

मन्थानोद्धृत-गव्य-बिन्दु-निकरैर् व्याकीर्ण-रम्याङ्गनं
प्रेम-स्निग्ध-जनान्वितं बहु-विधै रत्नैर् विचित्रान्तरम् ।
क्षीरोर्म्य्-उच्छलितं मुदा हि विलसच्-छय्या प्रसुप्ताच्युतं
श्वेतद्वीपम् इवालयं व्रजपतेर् वीक्ष्यास सानन्दिता ॥३॥

श्वेतद्वीपम् इव व्रजपतेर् आलयं वीक्ष्य सा पूर्वाणांई आनन्दिता आस बभूव । श्वेतद्वीपं कीदृशं ? क्षीर-समुद्र-मथने मन्थानोद्धृत-दुग्ध-बिन्दु-समूहैर् व्याकीर्णं व्याप्तं रम्यं मनोहरम् अङ्गनं तट-भूमिर् यस्य तम् । एतत् तु अत्र दधि-मथनोद्धृत-दधि-बिन्दु-निकरैर् व्याकीर्णं व्याप्तं रम्यम् अङ्गनं यत्र तम् । प्रेम-स्निग्ध-जनैर् अन्वितम् इति बहु-विधै रत्नैर् विचित्रान्तरम् इत्य् उभयत्र साम्यं क्षीर-समुद्रस्य ऊर्मिभिर् उच्छलितम् । दुग्धस्य पाक-जन्योर्मिभिर् उच्छलितम् एतं मुदा हर्षेण अहिर् अनन्तः स एव विलसत् शय्या तस्यां सुप्तोऽच्युतो नारायणो यत्र तं हि निश्चितं मुदा विलसच्-छय्यायां सुप्तोऽच्युतः श्री-कृष्णो यत्र तम् एतम् ॥३॥

ताम् आगताम् अभिप्रेक्ष्य साक्षाद् इव तपः-श्रियम् ।
व्रज-राज्ञी पराभिज्ञा स्थिति-ज्ञाभ्युद्ययौ मुदा ॥४॥

परा चैषा अभिज्ञा च व्रज-राज्ञी आगतां तां पूर्वाणांईम् अभ्युद्ययौ ॥४॥

एहि भो भगवति व्रज-वन्द्ये
स्वागतासि भवतीं प्रणमामि ।
इत्य् उदीर्य सविधे प्रणमन्तीं
सा मुकुन्द जननीं परिरेभे ॥५॥

हे व्रज-वन्द्ये ! भवतीं प्रणमामीत्य् उक्त्वा समीपे प्रणमन्ती सा परिरेभे ॥५॥

आशीर्भिर् अभिनन्द्यामूं गोविन्द-दर्शनोत्सुक ।
पप्रच्छ कुशलं चास्याः स-धवात्मज-गो-ततेः ॥६॥

अमूं यशोदाम् आशीर्भिर् अभिनन्द्य स-पति-पुत्र-गो-ततेः । पत्य्-आदिभिः सहास्याः कुशलं पप्रच्छ ॥६॥

निवेद्य कुशलं चास्यै तयोत्कण्ठितया सह ।
उत्का शय्या-गृहं सूनोः प्रविवेश व्रजेश्वरी ॥७॥

उत्का उत्कण्ठिता व्रजेश्वरी तया सह सूनोः शय्या-गृहं प्रविवेश ॥७॥

तावद् गोभट-भद्रसेन-सुबल-श्री-स्तोककृष्णार्जुन-
श्रीदामोज्ज्वल-दाम-किङ्किणि-सुदामाद्याः सखायो गृहात् ।
आगत्य त्वरिता मुदाभिमिलिताः श्री-सीरिणा प्राङ्गणे
कृष्णोत्तिष्ठ निजेष्ट-गोष्ठम् अय भो इत्य् आह्वयन्तः स्थिताः ॥८॥

श्री-सीरिणा बलदेवेन सह गोभटादयः सखायो गृहाद् आगत्य प्राङ्गणेऽतिमुदा मिलिताः सन्तः । भो कृष्ण ! निजेष्टं गोष्ठम् अय गच्छ इत्य् आह्वयन्तः स्थिताः ॥८॥

ही ही प्रभातं किम् उ[^१२]** भो वयस्या
अद्यापि निद्राति कथं सखा नः ।
तद् बोधयाम्य् एनम् इतीरयन् स्व-
तल्पाद् उदस्थान् मधुमङ्गलोऽपि ॥९॥**

ही-हीति हास्य-जन्य-शब्दः । प्रभातं भो वयस्याः ! अद्यापि नोऽस्माकं सखा निद्राति तद् एनं बोधयामि ॥९॥

समुत्तिष्ठ वयस्येति जल्पंस् तल्पालयं हरेः ।
निद्रालस-स्खलद्-यानः प्राविशन् मधुमङ्गलः ॥१०॥

निद्रालसेन स्खलद्-यानं गमनं यस्य स मधुमङ्गलः ॥१०॥

तद्-वाग्-विगत-निद्रोऽयम् उत्तिष्ठासुर् अपीश्वरः ।
उत्थातुम् ईश्वरो नासीद् घूर्णा-पूर्णेक्षणः क्षणम् ॥११॥

ईश्वरः श्री-कृष्णः उत्तिष्ठासुर् उत्थातुम् इच्छुर् अपि क्षणम् उत्थातुम् ईश्वरो समर्थो नासीत् ॥११॥

सुक्षीर-रत्नाकर-मन्दिरान्तर्
अनन्त-रत्नोज्ज्वल-तल्प-मध्ये ।
सुप्तं हरिं बोधयितुं प्रवृत्ता
माता श्रुतिर् वा प्रलयावसाने ॥१२॥

प्रलयस्यावसाने सुक्षीर-रत्नाकर-मन्दिरान्तः सुन्दरं च तत् क्षीर-समुद्र-रूप-मन्दिरं चेति तस्यान्तर् मध्ये । अनन्त-रत्नोज्ज्वल-तल्प-मध्ये एव रत्नैः फण-रत्नैर् उज्ज्वलं तल्पं चेति तस्य मध्ये सुप्तं हरिं नारायणं बोधयितुं श्रुतिर् यथा प्रवृत्ता भवति, तथा निद्रा अवसाने । सुष्ठु क्षीराणां रत्नानां चाकरश् च तन्-मन्दिरं चेति तस्यान्तर् मध्ये अनन्त-रत्नैर् उज्ज्वलं च तत् तल्पं चेति तस्य मध्ये सुप्तं श्री-कृष्णं बोधयितुं माता प्रवृत्ताभूत् ॥१२॥

पर्यङ्के न्यस्य सव्यं तद्-उपरि निहित-स्वाङ्ग-भाराथ पाणिं
कृष्णस्याङ्गं स्पृशन्तीतर-कर-कमलेनेषद्-आभुग्न-मध्या ।
सिञ्चन्त्य् आनन्द-बाष्पैः स्नुत-कुच-पयसां धारया चास्य तल्पं
वत्सोत्तिष्ठाशु निद्रां त्यज मुख-कमलं दर्शयेत्य् आह माता ॥१३॥

अथ प्रवेशानन्तरं माता सव्यं वामं पाणिं पर्यङ्के न्यस्य तद्-उपरि पर्यङ्काङ्कित-वाम-हस्तोपरि निहितः स्वाङ्ग-भारो यया सा । इतर-कर-कमलेन दक्षिण-करेण कृष्णस्याङ्गं स्पृशन्ती आनन्दाश्रुभिः स्तन्द-दुग्ध-धारया च तल्पं सिञ्चन्ती आह वत्सेत्य् आदि ॥१३॥

सुचिरम् अपि सवत्सास् त्वाम् अनालोकयन्त्यो
न खलु सुरभयस् ता यद्यपि प्रस्नुवन्ति ।
तद् अपि तव पितागाद् गोष्ठम् एकः स निद्रा-
सुख-शमन-भयात् ते त्वाम् असम्बोध्य वत्स ॥१४॥

ताः सुरभयः सवत्सा अपि सुचिरम् अपि त्वाम् अदृष्ट्वा यद्यपि न प्रस्नुवन्ति, तद् अपि तव पिता ते निद्रा-सुखस्य शमन-भयात् भङ्ग-भयात् त्वाम् असम्बोध्य स एको गोष्ठम् अगात् । अत उत्तिष्ठेति परेणान्वयः ॥१४॥

उत्तिष्ठ कुर्यां मुख-मार्जनं ते
बलस्य वासः किम् इह त्वद्-अङ्गे ।
इति ब्रुवानाऽपनिनाय नीलं
वासस् तद्-अङ्गाद् अवदच् च सार्याम् ॥१५॥

सा यशोदा । हे वत्स ! उत्तिष्ठ ते मुख-मार्जनम् अहं कुर्याम् । इह समये त्वद्-अङ्गे बलदेवस्य वासः किं ? केन प्रकारेण इत्य् उक्त्वा इह तद्-अङ्गान् नीलं वासः सम्भ्रमाद् आनीतं राधिकोत्तरीयम् अपनिनाय दूरीचकार पूर्व्णीम् अवदच् च ॥१५॥

अयि भगवति पश्याचोटितं मेऽस्य सूनोः
कमल-मृदुलम् अङ्गं मल्ल-लीलासु लोलैः ।
खर-नखर-शिखाभिर् धातु-रागातिचित्रं
चपल-शिशु-समूहैर् हा हता किं करोमि ॥१६॥

प्रिय-सम्बोधने अयि । अस्य मे सूनोः कमलाद् अपि मृदुलं धातु-रागैर् गैरिकादिभिर् अतिचित्रम् । मनोहरम् अङ्गं मल्ल-लीलासु लोलैः सतृष्णैश् चपलैश् चञ्चलैः शिशु-समूहैः खर-नखर-शिखाभिर् आचोटितं पण्डितं हा हताहं किं करोमि ? अत्र यावक-सिन्दूरादिषु धातु-राग-ज्ञानम् । नायिका-कृत-नख-क्षतादिषु शिशु-कृत-नख-क्षतादि-ज्ञानं च तस्या वात्सल्याज् जातम् ॥१६॥

स्नेह-भरैः स्व-जनन्याश् चित्र-पदाम् अपि वाणीम् ।
ताम् अवधार्य मुरारिर् ह्री-चकितेक्षण आसीत् ॥१७॥

स्नेहातिशयैः स्व-मातुर् इत्य् अनेन प्रकारेण चित्र-पदां वाणीं श्रुत्वा मुरारिर् ह्रिया लज्जया चकितेक्षणोऽभूत् ॥१७॥

कृष्णं स-शङ्कम् आशङ्क्य परिहास-पटुर् बटुः ।
स्नेह-क्लिन्नान्तराम् अम्बाम् अवदन् मधुमङ्गलः ॥१८॥

बटुर् ब्राह्मण-बालको मधुमङ्गलः ॥१८॥

सत्यम् अम्ब वयस्याली वारितापि मयाऽनिशम् ।
रेमेऽनेनातिलुब्धेन कुञ्जेषु केलि-चञ्चलाः ॥१९॥

केलि-चञ्चला वयस्याली मया वारिताप्य् अनेनातिलुब्धेन रेमे । वयस्याली-शब्देन सखि-श्रेणी श्लेषेण सखी-श्रेणी च । इत्य् उक्ते नायिकाभी रमणं न ज्ञातं वात्सल्य-वशात् सखिभिः क्रीडनम् एव तया ज्ञातम् ॥१९॥

अथ प्रकाशीकृत-बाल्य-विभ्रमो
यत्नात् समुन्मील्य विलोचनं मुहुः ।
पश्यन् पुरं स्वां जननीं हरिः पुनर्
न्यमीलयत् स-स्मित-वक्त्र-पङ्कजः ॥२०॥

अथ श्री-कृष्णः प्रकाशीकृत-बाल्य-विभ्रमः सन् यत्नात् विलोचनं मुहुः समुन्मीय जननीं पश्यन् हास्य-मुखः पुनर् न्यमीलयत् ॥२०॥

आकर्ण्य वाचं व्रजराज-पत्न्याः
समीक्ष्य कृष्णस्य च बाल्य-चेष्टाम् ।
भावान्तराच्छाद-करीं जनन्यास्
तं पौर्णमासी स्मित-पूर्वम् आह ॥२१॥

पौर्णमासी जनन्या भावान्तरस्य वात्सल्येतरस्य भावस्याच्छादन-करीं वाणीं तं कृष्णम् आह ॥२१॥

सखीनां सन्दोहैर् निरवधि महा-केलि-ततिभिः
परिश्रान्तस् त्वं यत् स्वपिषि सुमते योग्यम् इह तत् ।
अनालोक्य त्वां भो तृषितम् अपि नो तर्णक-कुलं
धयत्य् ऊधः किन्तु व्रज-कुल-पते जागृहि ततः ॥२२॥

सखीनाम् इत्य् अत्र सखानां प्रेयसीनां समूहैः महा-केलि-ततिभिः, हे सुमते ! तत् स्वपनं योग्यं किन्तु त्वाम् अदृष्ट्वा तृषितम् अपि तर्णक-कुलं वत्स-कुलं ऊधः दुग्धं नो धयति न पिबति । धेट् पाने ॥२२॥

उत्तिष्ठ गोष्ठेश्वर-नन्दनारात्
पश्याग्रजोऽयं सह ते वयस्यैः ।
गोष्ठं प्रतिष्ठासुर् अपि प्रतीक्ष्य
त्वाम् अङ्गने तिष्ठति तर्णकैश् च ॥२३॥

ते अग्रजोऽयं वयस्यैस् तर्णकैश् च सह गोष्ठ-गमनेच्छुर् अपि त्वां प्रतीक्ष्याङ्गने तिष्ठति पश्य । अत आरात् शीघ्रम् उत्तिष्ठ ॥२३॥

स-मुष्टि-पाणि-द्वयम् उन्नमय्य
विमोटयन् सोऽथ रसाल-साङ्गम् ।
जृम्भा-विसर्पद्-दशनांशु-जालस्
तमाल-नीलः शयनाद् उदस्थात् ॥२४॥

स तमाल-नीलः कृष्णः । आदौ स-मुष्टि-पाणि-द्वयं ऊर्ध्वं कृत्वा रसाल-साङ्गं विमोटयन् शयनाद् उदस्थात् ॥२४॥

खट्टैक-देशे त्व् अथ[^१३]** सन्निविष्टो
विन्यस्त-पादाब्ज-युगः पृथिव्याम् ।
नमाम्य् अहं त्वां भगवत्य् अयीति
जगाद जृम्भोद्गम-गद्गदं सः ॥२५॥**

स खट्टैक-देश-स्थः । हे भगवति ! त्वाम् अहं नमामीति जगाद ॥२५॥

विस्रस्तम् अस्याञ्जन-पुञ्ज-मञ्जुं
गलत्-प्रसूनं मृदु-केश-पाशम् ।
विपक्त्रिम-स्नेह-भराकुलेयम्
उद्यम्य चूडां जननी बबन्ध ॥२६॥

विस्रस्तम् अस्याञ्जन-पुञ्ज-मञ्जुं गलत्-प्रसूनं मृदु-केश-पाशम् । विपक्त्रिम-स्नेह-भराकुलेयम् उद्यम्य चूडां जननी बबन्ध ॥२६॥

पूर-स्थ-जाम्बूनद-झर्झरीतः
पानीयम् आनीय करेण माता ।
प्रक्षाल्य सूनोर् अमृजन् मुदास्यं
घूर्णालसाक्षं स्व-पटाञ्चलेन ॥२७॥

माता पानीयं जलं पूरस्थ-स्वर्ण-झर्झरीत आनीय सूनोर् घूर्णालसाक्षम् आस्यं प्रक्षाल्य स्वस्य पटाञ्चलेनामृजत् ॥२७॥

सव्येन पाणिं मधुमङ्गलस्य
करेण वंशीम् इतरेण बिभ्रत् ।
मात्रार्यया चानुगतोऽथ कृष्णः
शय्यालयात् प्राङ्गणम् आससाद ॥२८॥

वामेन करेण मधुमङ्गलस्य पाणिं बिभ्रत् । दक्षिणेन वंशीं बिभ्रत् । मात्रा आर्यया पूर्व्साक्षाया चानुगतः प्राङ्गणम् आजगाम ॥२८॥

एके कराव् अस्य परे पटान्तम्
अङ्गानि चान्ये युगपत् स्पृशन्तः ।
प्रेम्ना समुत्काः परितः सखायः
प्रोत्फुल्ल-नेत्राः परिवव्रुर् एनम् ॥२९॥

एके सखाय अस्य करौ परे पटान्तम् अन्येऽङ्गानि युगपद् एकदा स्पृशन्तः एनं परिवव्रुः । अनेन शोभा विशेषः सख्य-रस-स्वरूपश् च ध्वनितः ॥२९॥

भो वत्स गोष्ठं व्रज पाययित्वा
तांस् तर्णकान् स्वाः सुरभीश् च दुग्ध्वा ।
त्वं प्रातर्-आशाय पुनर् निकेतं
तूर्णं समेहीति तम् आह माता ॥३०॥

माता आह—गोष्ठं गो-स्थानं व्रज, तान् वत्सान् पाययित्वा स्वाः सुरभीश् च दुग्ध्वा प्रातर्-भोजनाय गृहं तूर्णं समेहि ॥३०॥

अथ तैः सहितः स तया प्रहितः
स्व-गवां त्वरितः सदनं चलितः ।
अवदत् स बटुः परिहास-पटुः
पथि तं गगने घटयन् नयने ॥३१॥

तया यशोदया प्रहितः स्व-स्व-गवां सदनं चलितः । पथि तं बटुर् अवदत् ॥३१॥

वयस्य पश्याम्बर-दीर्घिकायां
प्रसारयन्तं कर-जाल-मालाः ।
आदित्य-कैवर्तम् अवेक्ष्य भीतास्
तारा-सफर्यः परितो निलिल्युः ॥३२॥

आदित्यः सूर्य एव कैवर्तः मत्स्य-धर्ता तम् । कराः किरणा एव जाल-मालास् ता अम्बर-रूप-दीर्घिकायां प्रसारयन्तम् अवेक्ष्य तारा एव सफर्यः मत्स्य-विशेषा भीताः सत्यः निलिल्युः । हे वयस्य ! इति जानीहि ॥३२॥

मृगतृष्णाकरं प्रेक्ष्य प्रोद्यद्-अर्क-मृग्-आदनम् ।
मृगाङ्कः स्व-मृगं त्रातुं विशत्य् अस्त-गिरेर् गुहाम् ॥३३॥

मृगाङ्कश् चन्द्रः । प्रोद्यद्-अर्कः सूर्य एव मृगादनो मृग-भक्षकः, तं प्रेक्ष्य । कीदृशं ? मृगतृष्णाकरं मृगेषु या तृष्णा, तस्या आकरं खनिम् । किं वा, मृगेषु तृष्णां करोतीति तम् ॥३३॥

विसृष्ट-तारादि-विभूषणेयं
काल-क्रमान् निःसरद्-इन्दु-गर्भा ।
कपोत-घूत्कार-मिषाद् द्यु-योषा
श्रमेण पश्योषसि कुन्थतीव ॥३४॥

विसृष्टं तारादि-भूषणं यया सेयं द्यु-योषा आकाश-स्त्री काल-क्रमान् निःसरद्-इन्दुश् चन्द्रो गर्भाद् यस्याः, सा उषसि कपोत-घूत्कार-मिषात् श्रमेण कुन्थतीव पश्य । दिव्-शब्दस्य वश्य उत्वे द्युः ॥३४॥

त्वन्-मुख-स्व-सुहृदा परिभूतम्
अब्जम् अब्ज-मुख खाद् अपयान्तम् ।
वीक्ष्य भोः सहजम् अप्य् अहितम्
हा लोकयाब्जम् अधुना हसतीदम् ॥३५॥

भोऽब्ज-मुख ! पद्म-मुख ! चन्द्र-मुख वा । हा इति आश्चर्यम् । त्वन्-मुखम् एव स्वस्य सुहृदा पद्मस्य तस्य चन्द्रस्य वा सुहृत् तेन त्वन्-मुखेन । किं वा, त्वन्-मुखम् एवाब्ज-तुल्याद् अब्जं तस्य सुहृदा । किं वा, त्वन्-मुखं च स्व-सुहृत् सूर्यः, च समाहारे, तत् तेन ताभ्याम् इत्य् अर्थः । त्वन्-मुखेन स्व-सुहृदा सूर्येण परिभूतं सहजं सहोदरम् अप्य् अहितं शक्रम् अब्जं चन्द्रं खाद् आकाशात् पतन्तं वीक्ष्येदम् अब्जं कमलं कर्तृ अधुना हसति । समानोदयं सोदर-सगर्भ-सहजाः समा इत्य् अमरः ॥३५॥

इत्थं गिरस् ता मधुमङ्गलस्य
निशम्य ते हास-करीर् हसन्तः ।
गोपाल-पालाः पशुपाल-बालाः
गोशाल-माला विविशुर् यथा-स्वम् ॥३६॥

मधुमङ्गलस्य हास-करीस् ता गिरो निशम्य हसन्तो गो-बालकाः । यथा-स्वं स्व-स्व-गोशाल-समूहं विविशुः । कीदृशीः ? गोपालाः पालाः पालका यासाम् ॥३६॥

गोपालोऽपि स्व-गोशालां स-राम-मधुमङ्गलः ।
स-काव्य-गीष्पतिः सायं शशीवाम्बरम् आविशत् ॥३७॥

शुक्राचार्यं बृहस्पतिभ्यां सह शशी सायं-काले यथा अम्बरं प्रविशति तथा शुक्ल-गौर-वर्णाभ्यां राम-मधुमङ्गलाभ्याम् । यद् वा, स-कृष्णः काव्येषु गीष्पतिः सह स्व-गोशालां गोपालः कृष्णोऽप्य् आविशत् ॥३७॥

दधार द्युषदां रामो धवलावलि-वेष्टितः ।
कैलाश-गण्ड-शैलाली-मध्य-स्थैरावत-भ्रमम् ॥३८॥

गोभिर् वेष्टितो रामः । कैलाश-सम्बन्धि स्थूल-शिला-समूह-मध्य-स्थलस्य ऐरावत-हस्तिनो भ्रमं भ्रान्तिं द्युषदां देवानां दधार । शुक्ल-वर्णांशे स्थूलोच्च-सौन्दर्याद्य्-अंशे चोपमा ॥३८॥

मध्येऽच्युतोऽञ्चन् धवलावलीनाम्
उदाननानां परितः स्थितानाम् ।
दधौ जनानां स्फुट-पुण्डरीक-
श्रेण्य्-अन्तर्-अञ्चद्-भ्रमर-भ्रमं सः ॥३९॥

उत् ऊर्ध्वे आननं मुखं यासां तासां धवलावलीनां मध्येऽञ्चन् गच्छन् स कृष्णः स्फुटं च कमल-श्रेणी-मध्येऽञ्चतो गच्छतः क्रीडतो भ्रमरस्य भ्रमं जनानां दधौ । अत्रापि कृष्ण-वर्ण-शुक्ल-वर्णांशे साम्यम् ॥३९॥

हिही गङ्गे गोदावरि शबलि कालिन्दि धवले
हिही धूम्रे तुङ्गि भ्रमरि यमुने हंसि कमले ।
हिही रम्भे चम्पे करिणि हरिणीति व्रज-विधुर्
मुहुर् नाम-ग्राहं निखिल-सुरभीर् आह्वयद् असौ ॥४०॥

व्रज-भूमाव् अद्यापि सर्वे हिहीत्य् उक्त्वा पश्चात् गाः आह्वयन्तीय् आह हिहीत्य् उक्त्वा हे गङ्गे इत्य् आदि नाम-ग्राहं नाम गृहीत्वा व्रज-विधुः श्री-कृष्णः निखिलं सुरभीर् आह्वयन्ति ॥४०॥

न्यस्ताङ्गः प्रपदोपरि प्रघटयन् जानु-द्वये दोहनीं
काश्चिद् दोग्धि पयः स्वयं त्व् अथ पराः स्वैर् दोहयत्य् उन्मुखीः ।
अन्याः पाययति स्व-तर्णक-गणान् कण्डूयनैः प्रीणयन्न्
इत्थं नन्द-सुतः प्रगे स्व-सुरभीर् आनन्दयन् नन्दति ॥४१॥

गो-दोहन-प्रकारम् आह—प्रगे प्रातः-काले नन्द-सुतः स्व-सुरभीर् आनन्दयन् नन्दति । प्रपदोपरि पदाग्रोपरि न्यस्ताङ्गः सन् जानु-द्वये दोहनीं प्रकटयन् कुर्वन् काश्चिद् गाः पयः स्वयं दोग्धि द्वि-कर्मकोऽयं धातुः । अन्या उन्मुखीः गाः स्वैः स्वीयैर् गोपैर् दोहयति । अन्या गाः कण्डूयनेन प्रीणयन् स्व-स्व-तर्णक-गणान् स्व-वत्सान् पाययति ॥४१॥

अथान्यतः कल्य-विभग्न-निद्रा
विनिद्र-वात्सल्य-सुधां स्रवन्ती ।
उत्थाय तल्पाज् जरती समायाद्
गृहं समुत्का मुखरा स्व-नप्त्र्याः ॥४२॥

अथान्यतोऽन्यत्र यावटाख्य-ग्रामे मुखरा नाम्नी जरती । कीदृशी ? कल्ये प्रत्यूषे विभग्ना गता निद्रा यस्याः सा विनिद्रं सदा जाग्रद्-रूपं वात्सल्यम् एव सुधा तां स्रवन्ती तल्पाद् उत्थाय स्व-नप्त्र्याः श्री-राधायाः गृहं समायात् । प्रत्यूषोऽहर्-मुखं कल्यम् इत्य् अमरः ॥४२॥

स्वभाव-कुटिलाप्य् आत्म-सुत-सम्पत्ति-काङ्क्षया ।
व्याकुला जटिलायातां मुखरां ताम् अथाब्रवीत् ॥४३॥

स्वभाव-कुटिलापि जटिला स्व-पुत्र-सम्पद्-आकाङ्क्षया व्याकुला आयातां तां मुखराम् अब्रवीत् ॥४३॥

सूनोः प्रजायुर्-धन-वृद्धयेऽसौ
त्वया स्नुषा ज्ञे नियतं नियोज्या ।
सुमङ्गल-स्नान-विभूषणादौ
गो-कोटि-हेतोस् तपनार्चनाय ॥४४॥

हे ज्ञे ! पण्डिते ! असौ स्नुषा वधू राधा मे सूनोः प्रजादि-वृद्धये गो-कोटि-हेतोश् च सूर्यार्चनार्थं नियतं नियम-युक्तं यथा स्यात् तथा स्नानादौ त्वया नियोज्यताम् ॥४४॥

आज्ञानवज्ञा निज-गोष्ठ-राज्ञ्याः
कार्यानभिज्ञोक्तिषु तेऽप्य् अवज्ञा ।
इत्य् आदिशत्य् अन्वहम् अर्थ-विज्ञा
विज्ञापिता मे किल पौर्णमासी ॥४५॥

अर्थ-विज्ञा पौर्णमासी सूनोः प्रजादि-वृद्धये मया विज्ञापिता सती अन्वहं प्रतिदिनम् इत्य् आदिशति आदेशम् आह । निज-गोष्ठ-राज्ञ्या यशोदाया आज्ञा ते त्वया अनवज्ञा कार्या अवज्ञा अनादरणीया न कार्या इत्य् अर्थः । अनभिज्ञानां मूर्खानाम् उक्तिषु अवज्ञा अपि कार्या सोक्तिर् न मान्येत्य् अर्थः ॥४५॥

तस्मात् त्वम् आर्ये स्वां नप्त्रीं
सर्व-मङ्गल-मण्डिताम् ।
विधेहि सर्व-सम्पत्तिर्
यथा सूनोर् भवेन् मम ॥४६॥

हे आर्ये मुखरे ! तस्मात् मम सूनोः सर्व-सम्पत्तिर् यथा भवेत् तथा स्वां नप्त्रीं सर्व-मङ्गल-मण्डितां विधेहि कुरु ॥४६॥

वधूम् अथाभाषत पुत्रि तल्पाद्
उत्तिष्ठ तूर्णं कुरु वास्तु-पूजाम् ।
त्वं मङ्गल-स्नान-विधिं विधाय
पूजोपहारं सवितुर् विधेहि ॥४७॥

अथ जटिला वधूं राधाम् अभाषत—हे पुत्रि ! तल्पाद् उत्तिष्ठेत्य् आदि स्फुटार्थः ॥४७॥

प्रभातम् आयातम् अहो तथापि
निद्राति नप्त्रीति मुहुर् वदन्ती ।
स्नेह-द्रुताङ्गी मुखरा प्रविश्य
शय्यालयं ताम् अवदत् तदेदम् ॥४८॥

तदा स्नेह-द्रुताङ्गी मुखरा अहो आश्चर्यं प्रभातम् आयातं तथापि नप्त्री निद्राति शेते । इति पुनः पुनर् वदन्ती सती तस्याः शय्यालयं प्रविश्य तां राधाम् इदम् अवदत् ॥४८॥

उत्तिष्ठ वत्से शयनात् प्रमुग्धे
व्यस्मारि वारोऽद्य रवेस् त्वया किम् ।
स्नात्वा प्रभातार्घ्य-विधानम् अस्मै
पूजोपहारं रचयास्य चाशु ॥४९॥

हे प्रमुग्धे ! अद्य रवेर् वारः त्वया किं व्यस्मारि ? अस्मै सूर्याय प्रभातार्घ्य-विधानं तथा अस्य सूर्यस्य पूजोपहारं चाशु रचय ॥४९॥

तद्-वचः-प्रतिबुद्धाथ
विशाखोत्थाय सालसा ।
सखि तूर्णं समुत्तिष्ठोत्-
तिष्ठेति प्राह सत्वरा ॥५०॥

तद्-वचसा प्रतिबुद्धा जागरिता सा प्रसिद्धा विशाखालसापि सत्वरा सती उत्थाय “हे सखि! उत्तिष्ठोत्तिष्ठेति प्राह ॥५०॥

तासां वचोभिः शयनेऽथ मुग्धा
मुहुः प्रजागर्य पुनर् निदद्रौ ।
विचालिता वीचि-चयैस् तडागे सा
राजहंसीव रतालसाङ्गी ॥५१॥

तासां जटिला-मुखरा-विशाखानां वचोभिः शयने शय्यायां मुग्धा सा मुहुः प्रजागर्य पुनर् निदद्रौ । पुनर् निद्रायां हेतुः—रतालसाङ्गी । तडागे वीचि-चयैस् तरङ्ग-समूहैः विचालिता राजहंसीव ॥५१॥

तदैवावसराभिज्ञा जग्राह रति-मञ्जरी ।
सखी वृन्दावनेश्वर्याः श्रीमच्-चरण-पङ्कजम् ॥५२॥

अवसराभिज्ञा रति-मञ्जरी सखी राधायाश् चरणं जग्राह ॥५२॥

इत्थम् इयं बहुभिः कृत-बोधा
स्वाच् छयनाद् उदतिष्ठद् अनल्पात् ।
ताम् अथ वीक्ष्य सुपीत-पटाङ्गीं
शङ्कित-हृन् मुखरेदम् उवाच ॥५३॥

अनल्पात् बाहुल्यात् शयनात् शय्यायाः उदतिष्ठत् । मुखरा कृष्णस्य सुपीत-पटेनावृताङ्गीं तां वीक्ष्य

शङ्कित-हृद् इदम् उवाच ॥५३॥

द्रुत-कनक-सवर्णं सायम् एतन् मुरारेर्
वसनम् उरसि दृष्टं यत् सखी ते बिभर्ति ।
किम् इदम् अयि विशाखे हा प्रमादः प्रमादो
व्यवसितम् इदम् अस्याः पश्य शुद्धान्वयायाः ॥५४॥

कनक-सदृशम् एतद् वसनं सायं-काले मुरारेर् उरसि मया दृष्टम् । तद् वसनं ते सखी बिभर्ति । शुद्ध-कुलोत्पन्नायाः अस्या व्यवसितं चेष्टितं पश्य । हा खेदे । प्रमादोऽनवधानता । अतीवायोग्य-कार्यादौ प्रमादम् उक्त्वा आक्षिपति प्राज्ञः ॥५४॥

तद्-वचश्-चकित-धीर् हृदि सख्याः
वीक्ष्य पीत-वसनं चल-दृष्ट्या ।
हा किम् एतद् इति तां च दिशन्ती
द्राग् उवाच जरतीं च विशाखा ॥५५॥

तद्-वचश्-चकित-धीर् सख्या हृदि पीत-वसनं वीक्ष्य तां जरतीं द्राक् शीघ्रं “एतत् किम्?” इति दिशन्ती विशाखा उवाच ॥५५॥

स्वभावान्धे जालान्तर-गत-विभातोदित-रवि-
च्छटा-जाल-स्पर्शोच्छलित-कनकाङ्ग-द्युति-भरैः ।
वयस्यायाः श्यामं वसनम् अपि पीतीकृतम् इदं
कुतो मुग्धे शङ्कां जरति कुरुषे शुद्ध-मतिषु ॥५६॥

हे स्वभावान्धे ! वयस्यायाः सख्याः गवाक्ष-जाल-मध्य-गत-प्रभातोदित-रवि-च्छटा-समूहस्य स्पर्शेनोच्छलितानां कनकाङ्ग-द्युतिनां भरैर् अतिशयैर् इदं श्यामम् अपि वसनं पीतीकृतम् । अतः हे मुग्धे ! मोहिते ! यतः हे जरति जरातुराया बुद्धि-भ्रमो भवेद् एव । शुद्ध-मतिषु शुद्धा मतिर् यासां तासु मत्-सखीषु बहु-वचनं गौरवेण गण-सूचनार्थं कृतः । शङ्कां पर-पुरुष-वस्त्र-धारणादि-शङ्कां कुरुषे ॥५६॥

ललिता-प्रमुखास् तावत् सख्यस् ताः स्व-स्व-गेहतः ।
आजग्मुस् त्वरिताः सख्याः प्रस्खलद्-गतयोऽन्तिकम् ॥५७॥

ललिताद्यास् ताः सख्या राधाया अन्तिकम् आजग्मुः । प्रस्खलद्-गतयो वेलाधिक्य-ज्ञानेन त्वरिताः सख्यः, अतः प्रस्खलन्ती गतिर् यासां ताः ॥५७॥

दास्योऽपि स्नान-सम्भारान् स्नान-वेदी-समीपतः ।
प्रतीक्ष्यमाणाः संस्थाप्य स्वेश्वरीं तस्थुर् अग्रतः ॥५८॥

दास्योऽपि स्नान-सम्भारान् स्नान-वेदी-समीपे संस्थाप्य अग्रत उत्थानात् पूर्वे स्वेश्वरीं प्रतीक्ष्यमाणास् तस्थुः ॥५८॥

उत्थायाथ वराङ्गी दास्या स्थापितम् अग्रे ।
अध्यास्तासन-वर्यं सा नाना-मणि-चित्रम् ॥५९॥

श्री-ललितादि-सखीनां दन्त-धावन-स्नानालङ्कारादिकम् अपि स्वस्यावसरे स्व-स्व-दासी-कृत-दन्त-धावन-स्नान-भूषणादिकं क्रमेण बोध्यम् । सा वराङ्गी राधा दास्या स्थापितम् आसन-वर्यं नाना-मणि-चित्रम् अध्यास्त अधिकृत्य उपविवेश ॥५९॥

सावातारयद् आभरण-निचयं
ललिता स्व-सखी-तनुतः स-दयम् ।
कनक-व्रततेर् इव स-प्रणयं
पल्लव-कुसुम-स्तवक-प्रचयम् ॥६०॥

सा ललिता स्व-सख्यास् तनुत आभरण-समूहम् अवतारयत् । कनक-व्रततेः स्वर्ण-लतायाः । पल्लवादि-समूहम् इवेत्य् अनेन तनोर् लतात्वेन अलङ्काराणां पत्र-पुष्प-गुच्छत्वेन साम्यं ज्ञेयम् ॥६०॥

तावद् वासांस्य् उपादाय रजकस्य किशोरिके ।
मञ्जिष्ठा-रङ्गवत्य्-आख्ये स्वेश्वरीम् उपतस्थतुः ॥६१॥

मञ्जिष्ठा-रङ्गवत्य्-आख्ये द्वे रजकस्य कन्ये वासांस्य् उपादाय किशोरिके स्वेश्वरीम् उपतस्थतुः ॥६१॥

गन्ध-चूर्ण-परिपूर्ण-विचूर्णद्-
अग्रया पुटिकयाम्र-दलस्य ।
पद्मराग-खचित-स्फटीकाभा-
निन्दिनः स्व-दशनान् परिमार्ज्य ॥६२॥

सा राधा गन्ध-चूर्णैः परिपूर्णा च सा विचूर्णद्-अग्रम् अग्र-भागो यस्याः सा चेति तया आम्र-दलस्य पुटिकया पद्मराग-मणिना खचितस्य स्फटीकाभां कान्तिं निन्दितुं शीलं येषां तान् स्व-दन्तान् आदौ परिमार्ज्य ॥६२॥

हैमीं जिह्वा-शोधनीं सा कराभ्यां
धृत्वा चादौ शोधयित्वा रसज्ञाम् ।
दासी दत्त-स्वर्ण-भृङ्गार-वारां
गण्डूषैः सङ्क्षालयामास वक्त्रम् ॥६३॥

कराभ्यां हैमीं हेम-निर्मितां जिह्वा-शोधनीं धृत्वा रसज्ञां शोधयित्वा च वारां पयसां गण्डूषैर् वक्त्रं सङ्क्षालयामास ॥६३॥

पाणी प्रोञ्छ्य श्री-मुखेन्दुं च ताभ्यां
दत्तं वासः स्नान-योग्यं गृहीत्वा ।
कुम्भैर् अम्भः-सम्भृतैः शातकुम्भैर्
व्याकीर्णां सा स्नान-वेदीम् अयासीत् ॥६४॥

पाणी पाणि-द्वयं मुखं च प्रोञ्छ्य सम्मार्ज्य ताभ्यां रजक-किशोरीभ्यां दत्तं स्नान-योग्यं वासः गृहीत्वा परिधाय शातकुम्भैः स्वर्ण-निर्मितैः । अम्भः-सम्भृतैर् जल-पूर्णैः कुम्भैर् व्याप्तां स्नान-वेदीं सा अयासीत् ॥६४॥

तत्र काञ्चन-मये मृदु-पीठे
चीन-चेल-पिहिते विनिविष्टाम् ।
सेवने परिजना निपुणा द्राक्
ताम् उपायन-कराः परिवव्रुः ॥६५॥

सेवने निपुणाः परिजना उपायन-कराः उपायनं तैलोद्वर्तनादि-करेषु यासां ताः दास्यः सूक्ष्म-चेलेन पिहिते मृदु-पीठे उपविष्टां तां द्राक् झटिति परिवव्रुः ॥६५॥

मर्दनोद्वर्तनालक्त-केश-संस्कार-कोविदे ।
सुगन्धा-नलिनी-नाम्न्याव् आगते नापितात्मजे ॥६६॥

मर्दनादौ कोविदे सुगन्धा-नलिनी-नाम्न्यौ नापित-कन्ये आगते ॥६६॥

अभ्यज्य नारायण-तैल-पूरैर्
उद्वर्तनैः स्निग्ध-सुगन्धि-शीतैः ।
उद्वर्तयामासातुर् अङ्गम् अस्याः
प्रेम्ना स्वभावोज्ज्वल-शीतम् एते ॥६७॥

एते नापितात्मजे अस्याः स्वभावोज्ज्वल-शीतम् अङ्गं प्रेम्ना नारायण-तैल-पूरैर् अभ्यज्य स्निग्ध-सुगन्धि-शीतैर् उद्वर्तनैर् उद्वर्तयामासातुर् ॥६७॥

गन्धाढ्य-पिष्टामलकैः कचांस् ते
संस्कृत्य चाङ्गान्य् अथ धारयापाम् ।
चीनांशुकामार्जन-पूर्वम् अस्याः
प्रक्षालयामासतुर् उज्ज्वलानि ॥६८॥

ते नापितात्मजे गन्ध-युक्तामलकैः कचान् संस्कृत्यास्या उज्ज्वलानि अङ्गानि अपां धारया चीनांशुकेन सूक्ष्म-वस्त्रेण आ सम्यक् मार्जन-पूर्वकं प्रक्षालयामासतुः ॥६८॥

मन्द-पक्व-परिवासित-कुम्भ-
श्रेणि-सम्भृत-जलैर् अलम् एताः ।
शातकुम्भ-घटिकात्त-विमुक्तैस्
तां मुदा सवयसः स्नपयन्ति ॥६९॥

एताः सवयसः सख्यः तां स्नपयन्ति कैः मन्द-पक्वानाम् अल्प-पक्वानां परिवासितानां कुम्भानां श्रेणीषु सम्यक् धृतैर् जलैः । पुनः कीदृशैः ? पश्चात् शातकुम्भ-घटिकासु स्वर्ण-क्षुद्र-घटेषु आत्त-मुक्तैः । आत्तैर् गृहीतैर् मुक्तैस् त्यक्तैः ॥६९॥

अङ्गानि तस्या मृदु-चीन-चेलैः
सम्मार्ज केशान् अपतोय-बिन्दुन् ।
विधाय प्रत्युद्गमनीय-वासः
सखीः स्व-सख्यः परिधापयन्ति ॥७०॥

मृदु कोमलं चीनं सूक्ष्मं च चेलं वस्त्रं तैर् अङ्गानि सम्मार्ज अपगतास् तोय-बिन्दवो येभ्यः । स्थित्भावान् केशान् विधाय कृत्वा प्रत्युद्गमनीय-वासः परिधेय-वस्त्र-युगं परिधापयन्ति ॥७०॥

अथागतां भूषण-वेदिकायां
सख्यः प्रभातोचित-भूषणैस् ताम् ।
विभूषयामासुर् अनङ्ग-चेष्टस्
तारुण्य-लक्ष्मीम् इव भाव-हावैः ॥७१॥

अनङ्ग-चेष्ट भाव-हावैः शरीर-भावजैः क्रियाभिस् तारुण्य-लक्ष्मीम् इव सख्यो भूषणैस् तां राधां विभूषयामासुः ॥७१॥

धूप-धूम-परिशुष्क-सुगन्धीन्
स्निग्ध-कुञ्चित-कचाल् ललिताऽस्याः ।
स्वस्तिदाख्य-बहु-रत्न-विराजद्-
दान्त-कङ्कतिकया परिशोध्य ॥७२॥

अगुरु-धूपस्य धूमेन परिशुष्कान् सुगन्धींश् च स्निग्ध-कुञ्चित-कचान् स्वस्तिदाख्य-बहु-रत्न-खचित-हस्ति-दान्त-कृत-कङ्कतिकया परिशोध्य ॥७२॥

दत्तं कृष्णेन चूडामणि-वरम् अमलं शङ्खचूडाद् गृहीतं
विन्यस्तानेक-मुक्ता-स्रजि धृत-बकुले मूर्ध्नि विन्यस्य वेणीम् ।
डोरी-सन्नद्ध
[^१४]-मूलां मणि-चय-खचित-स्वर्ण-बद्धान्त-भागा
रक्तोद्यत्-पट्ट-तन्तूच्चय-वर-चमरी-राजद्-अग्रां बबन्ध ॥७३॥

कृष्णेन शङ्खचूडं हत्वा शङ्खचूडाद् गृहीतं श्री-बलदेवेन दत्तं, तेन माहात्म्येऽर्पिते, तेन श्री-विशेषा-द्वारा श्री-राधायै दत्तं चूडामणि-वरं स्यमन्तकं मूर्ध्नि विन्यस्य वेणीं बबन्ध । मूर्ध्नि कीदृशी ? विन्यस्त अनेक-मुक्तानां माला यत्र, धृतानि बकुलानि बकुल-पुष्पाणि यत्र तस्मिन् । कीदृशीं वेणीं ? डोरी-सन्नद्ध-मूलां नह-बन्धेअने पुनर् मणि-चयेन खचित-स्वर्णेन झापा इति ख्याता भूषणेन बद्धोऽन्त-भागो यस्याः सा चासाव् आरक्तः सम्यक् रक्त-वर्ण उद्यद्-उज्ज्वल-पट्ट-तन्तूनां पट्ट-सूट्राणाम् उच्चयः समूहस् तेन या वर-चमरी चेति तया राजद्-विराजमानम् अग्रम् अग्र-भागो यस्यास् ताम् ॥७३॥

स्वर्णासन्धित-रक्त-पट्ट-चमरी-युग्मान्त-डोरी-द्वया
बद्ध-कुञ्चित-मुष्टि-सम्मित-लसन्-मध्यं दुकूलं ततः ।
भृङ्गाली-रुचि पर्यधापयद् इमं मेघाम्बराख्यं मुदा
चित्रोद्यत्-कुरुविन्द-कन्दल-घटा शोणान्तरीयोपरि ॥७४॥

स्वर्णासन्धिता स्वर्णाच्छन्न-मूला या रक्त-पट्ट-चमरी थोपनेति ख्याता तस्या युग्मान्ते यस्य तथा-भूतेन डोरी-द्वयेन व्रजे घागरा इत्य् आख्यास्याधो-वाससोऽन्तर्वर्ति-बन्धन-रूपेणाबद्धम् आकुञ्चितं च मुष्टि-सम्मितम् । लसद् देदीप्यमानं मध्यं मध्य-देशो यस्य तद् दुकूलं घागरा इत्य् आख्यम् । ततस् तस्योद्यन्ती या कुरुविन्द-कन्दलानां प्रवालाङ्कुराणां श्रेणी ततः शोणस्यान्तरीयस्य घागराख्यस्य उपरि भृङ्गाल्या भ्रमर-श्रेण्याः रुचिर् इव रुचिर् यस्य तत् मेघाम्बराख्यं दुकूलम् इमां राधां चित्रा सखी पर्यधापयत् । अन्तरीयोपसंव्यान-परिधानान्य् अधोऽंशुके इत्य् अमरः ॥७४॥

अनेक-रत्नाचित-मूल-पञ्च-
वर्णाढ्य-पट्ट-स्तवकोच्चयान्ताम् ।
सुवर्ण-सूत्राञ्चित-किङ्किणीकां
काञ्चीं नितम्बे समुदानयच् च ॥७५॥

अनेक-रत्नैर् आचितं जटितं मूलं यस्याः सा चासौ पञ्च-वर्णैः शुक्ल-नील-रक्त-पीत-हरिद्भिर् गुणैर् आढ्या ये पट्ट-स्तवकाः पट्ट-गुच्छास् तेषाम् उच्चयः समूहोऽन्ते यस्याः सा चेति ताम् । सुवर्ण-सूत्रैर् अञ्चिता बद्धाः किङ्किण्यः क्षुद्र-घण्टिका यस्यास् तां काञ्चीं नितम्बे हर्ष-युक्ता सती अनयत् प्रापयन् न्ययोजयच् चेत्य् अर्थः । नीञ् प्रापणे । स्त्री-कट्यां मेखला काञ्ची सप्तकी रसना तथा इत्य् अमरः ॥७५॥

कर्पूरागुरु-काश्मीर-पङ्क-मिश्रित-चन्दनैः ।
समालिप्य विशाखाऽस्याः पृष्ठं बाहु-कुचाव् उरः ॥७६॥

विशाखाऽस्याः पृष्ठादिकं कर्पूरादिभिः समालिप्य ॥७६॥

कस्तूरी-पत्र-वल्ली-समुदय-खचितं पार्श्वयोर् आकपोलं
भाले श्रीखण्ड-बिन्दूत्कर-वृतम् अभितः काम-यन्त्राभिधानम् ।
अन्तः-कस्तूरिकोद्यन्-मलयज-शशभृल्-लेखयाधश् चितं सा
चक्रे सीमन्त-रेखान्वितम् अथ तिलकं सान्द्र-सिन्दूर-पङ्कैः ॥७७॥

भाले ललाटे सा विशेषा सान्द्र-सिन्दूर-पङ्कैः कामयन्त्राख्यं तिलकं चक्रे । कीदृशं ? पार्श्व-द्वये आकपोलं गण्डम् अभिव्याप्य कस्तूरी-कृत-पत्र-वल्ल्याः सम्यग्-उदयेन खचितं श्रीखण्डस्य चन्दनस्य बिन्दूनाम् उत्करेण समूहेनाभितो वृतम् अन्तर् मध्ये कस्तूरीकया उद्यन्त्याः मलयजस्य चन्दनस्य शशभृच् चन्द्रस् तस्य रेखयाधश् चितम् । लल्ताट-मध्य-देशोपरि द्विधा विभक्तस्य केशस्य मध्य-वर्ति-रेखा सीमन्त-रेखा, तद्-अन्वितम् ॥७७॥

पुष्प-गुच्छेन्दु-लेखाब्ज-मकरी-चूत-पल्लवम् ।
लिलेख चित्रं कस्तूर्या चित्रा तत्-कुचयोस् तटे ॥७८॥

पुष्प-गुच्छेन्दु-लेखाब्ज-मकरी-चूत-पल्लवम् । लिलेख चित्रं कस्तूर्या चित्रा तत्-कुचयोस् तटे ॥७८॥

मीनी प्रसून-नव-पल्लव-चन्द्र-लेखा
व्याजात् स्व-चिह्न-शर-कुन्त-धनूंसि कामः ।
तद्-भ्रू-धनुर्-धवन-मात्र-निरस्त-कर्मा
मन्ये न्यधत्त निज-तत्-कुच-कोष-गेहे ॥७९॥

तस्याः भ्रू-धनुः-कम्पनेन निरस्त-कर्मा कामः मीनी मकरी तद्-आदीनां चतसृणां व्याजात् क्रमेण मकरं मकराङ्कत्वात् स्व-चिह्नं शरं कुम्भं धनुश् चैतानि चत्वारि तस्या स्तन-रूप-निज-भाण्डार-गेहे निधत्त इत्य् अहं मन्ये ॥७९॥

चित्रार्पितानेक-विचित्र-रत्न-
मुक्ताचिता रक्त-दुकूल-चोली ।
कुचौ भ-जालेन्द्र-धनुर्-विचित्रा
तस्तार शैलाव् इव सान्ध्य-कान्तिः ॥८०॥

चित्रया अर्पिता अनेक-चित्र-रत्नैर् मुक्ताभिश् चाचिता खचिता रक्त-दुकूलस्य चोली कुच-पट्टिका कुचौ तस्तार आचच्छाद । कौ काव् इव भानि नक्षत्राणि तेषां जालं समूहस् तेन सह यत् इन्द्र-धनुस् तेन विचित्रा सान्ध्य-कान्तिः शैलाव् इव सान्ध्य-कान्ति-इन्द्र-धनुषोर् अनेक-वर्ण-साम्येन चोली इन्द्र-धनुषोर् आकारेण साम्याद् उपमा ॥८०॥

सौवर्ण-ताल-दल-संवलनोपपन्नं
श्रुत्योर् मसार-लघु-पुष्प-विराजद्-अग्रम् ।
भृङ्गास्य-हाटक-सरोरुह-कोरकाभं
ताडङ्क-युग्मम् अदधाद् अथ रङ्गदेवी ॥८१॥

रङ्गदेवी ताडङ्क-युग्मं कर्ण-भूषण-द्वयं श्रुत्योर् अदधात् । कीदृशं ? स्वर्ण-निर्मित-ताल-पत्रस्य सम्यक् वलनेन पद्म-कलिकाकार-निर्माणेनोपपन्नं निर्मितम् । पुनः कीदृशं ? भ्रमर आस्ये मुखे ययोस् तादृश-स्वर्ण-निर्मित-पद्म-कलिकयोर् आभेवाभा कान्तिर् यस्य तत् ॥८१॥

हैमे वज्रारुण-मणि-चित-स्थूल-नीलाश्म-मध्ये
तस्याः श्रुत्योर् उपरि सुतनोर् मौक्तिकाली-वृतान्ते ।
चित्रा प्रोद्यद्-द्युमणि-रुचिरे चारु-चक्री-शलाके
मुक्तास्याष्टापद-कलसिका-राजद्-अग्रे युयोज ॥८२॥

तस्याः सुतनोः श्री-राधायाः श्रुत्योर् उपरि चारु-चक्री-शलाके चित्रा सखी अपि पुनर् युयोज । ते कीदृश्यौ ? हैमे हेम-निर्मिते । वज्रैर् हिरकैर् अरुण-मणिभिर् लालाख्य-मणिभिर् माणिक्यैश् च चितौ खचितौ स्थूल-नीलमणि-मध्ये ययोस् ते । मुक्तावल्यावृतौ आवृतौ अन्त-भागो ययोस् ते मुक्ता आस्ये यस्यास् तादृश्या स्वर्ण-कल-सिकया राजद्-अग्रं ययोस् ते । अत एव उद्यद्-द्युमणिः सुप्रकाशित-सूर्यस् ततोऽपि रुचिरे ॥८२॥

रुचिर-चिबुक-मध्ये रत्न-राजच्-छलाका
कलित-कर-विशाखा-निर्मितोऽस्याश् चकास्ति ।
नव-मृगमद-बिन्दुः शोभयन् श्री-मुखेन्दुं
भ्रमर इव दलाग्रे सन्निविष्टः सरोजम् ॥८३॥

दलाग्रे सन्निविष्टो भ्रमरः सरोजं शोभयन्न् इव अस्याः श्री-राधाया रुचिर-चिबुक-मध्ये रत्नै राजच्-छलाकया कलितो युक्तः करो यस्यास् तस्या विशाखया निर्मितो नव-मृगमद-बिन्दुः श्री-मुखेन्दुम् अस्याः श्री-मुखेन्दुं शोभयन् चकास्ति ॥८३॥

ललास हेमाङ्कुशिका-निबद्धं
नासाग्र-मुक्ता-फलम् आयताक्ष्याः ।
शुकास्य-दष्टं तनु-वृन्त-लग्नं
निनिन्द पक्वं लवली-फलं यत् ॥८४॥

आयताक्ष्या राधाया हेमाङ्कुशिकया वक्राग्र-हेम-गुणेन निबद्धं नासाग्र-मुक्ता-फलं ललास । यन् मुक्ता-फलं ललास, यन् मुक्ता-फलं शुकस्यास्येन चञ्चुना दष्टं सूक्ष्म-वृन्त-युक्तं पक्वं लवली-फलं निनिन्द ॥८४॥

सा वीक्ष्य कृष्णानन-पूर्ण-निर्मला
सितेन्दु-कान्त्य्-आचमनातिलालसाम् ।
तद्-दृक्-चकोरीं विदधेऽथ तद्-वपुः
श्री-पुञ्ज-मञ्ज्व्-अञ्जन-रेखयान्विताम् ॥८५॥

सा विशाखा श्री-कृष्ण-मुखम् एव पूर्ण-निर्मल-नील-चन्द्रस् तस्य कान्तेर् आचमनाय पानायातिलालसा यस्यास् तां तस्या राधाया दृक्-चकोरीं वीक्ष्य तस्य श्री-कृष्णस्य वपुषः श्रीः शोभा तस्याः पुञ्जवन् मञ्जु मनोज्ञं यद् अञ्जनं तेन रेखयान्वितां विदधे । शोभयान्विता इति च पाठः ॥८५॥

उपरि-खचित-नाना-रत्न-जालैः स्फुरन्त्या
विमल-पुरट-पत्र्या कण्ठम् अस्या विशाखा ।
हरि-कर-दर-चिह्न-श्री-हरं पुष्कराक्ष्याः
सपदि हरि-भियेव च्छादयामास मध्ये ॥८६॥

विशाखा अस्याः पुष्कराक्ष्या मध्ये कण्ठं कण्ठस्य मध्यं नाना-रत्न-समूहैः स्फुरन्त्या विमल-स्वर्ण-पत्र्या कण्ठाभरणेन छादयामास । कीदृशं ? हरि-कर-स्थस्य दर-रूप-चिह्नस्य शोभा-हरं स्व-रेखाश्रयेण इत्य् ऊहाः । आच्छादने हेतुम् आह—हरि-भियेव हरिः स्व-कर-चिह्न-शोभा-हरं दृष्ट्वा बलात् ग्रहीष्यतीति भयेनेवेत्य् अर्थः ॥८६॥

वज्राचिताखण्ड-रत्न-चित्र-सुस्थूल-
मध्यो गुण-बद्ध-चञ्चुः ।
ललास तस्या उपकण्ठ-कूपं
दत्तस् तया हाटक-चित्र-हंसः ॥८७॥

तस्या उपकण्ठ-कूपं कण्ठ-कूप-निकटे तया विशाखया दत्तो हाटकस्य स्वर्णस्य चित्र-हंसो (हांसुलीति ख्यातः) ललास । कीदृशः ? वज्रेण हिरकेणान्वितं यद् आखण्ड-रत्नम् इन्द्रनील-रत्नं, तेन चित्रं सुस्थूलं च मध्यं यस्य सः गुणेन बद्धश् चञ्चुर् मुखं यस्य सः ॥८७॥

सुवर्ण-गोली-युग-मध्यगोल्लसन्-
मसार-गोली-गिलितोऽन्तरान्तरा ।
सुसूक्ष्म-मुक्तावलि-गुम्फितस् तया
न्ययोजि हारो हृदि गोस्तनाभिधः ॥८८॥

तया विशाखया गोस्तनाख्यो हारो हृदि न्ययोजि । हार-भेदो यष्टि-भेदा गुच्छ-गुच्छार्धं गोस्तना इत्य् अमरः । स कीदृशः ? अन्तरान्तरा मध्ये मध्ये सुवर्णस्य गोली-युग-मध्याया अत उद्यन्त्या इन्द्रनील-मणि-गोल्या गिलितः सन् सुसूक्ष्म-मुक्तावलिर् गुम्फितश् च ॥८८॥

मसार-चन्द्रोपल-पद्मराग-
सुवर्ण-गोली-ग्रथितान्तरालैः ।
मुक्ता-प्रवालैः परिगुम्फितां सा
रत्न-स्रजं तद्-धृदये युयोज ॥८९॥

मसाराणाम् इन्द्रनील-मणीनां चन्द्रकान्त-मणीनां च पद्मराग-मणीनां च सुवर्णानां च गोलीभिर् ग्रथितम् अन्तरालं मध्यं येषां तैर् मुक्ता-प्रवालैः परिगुम्फितां रत्न-स्रजं तस्या हृदये सा विशाखा युयोज ॥८९॥

वैदूर्य-युग्माचित-हेम-धात्रिका-
बीजाभ-गोली-गिलितोऽन्तरान्तरा ।
विचित्र-मुक्तावलि-चित्र-गुच्छको
रराज तस्या हृदयेऽर्पितस् तया ॥९०॥

वैदूर्य-मणि-युग्मेनाचितया युक्तया हेम-निर्मित-धात्रिका-बीज-तुल्य-गोल्याः अन्तरान्तरा मध्ये मध्ये गिलितो विचित्र-मुक्तावलिभिः । चित्रश् चासौ गुच्छको गुच्छाख्यो हार-भेदश् चेति सः । तस्याः श्री-राधाया हृदयेऽनया विशाखयार्पितः सन् रराज स्वार्थकैः । यष्टि-भेदाद् हार-भेदो गुच्छेति ॥९०॥

रासे निशीथे सह नृत्य-गान-
तुष्टेन दत्तां हरिणा स्व-कण्ठात् ।
तस्यैव साक्षाद् इव राज-लक्ष्मीं
गुञ्जावलीं तद्-धृदि सा युयोज ॥९१॥

रासे रासोत्सवे निशीथे अर्ध-रात्रे सह मिलित्वा नृत्य-गानादिना तुष्टेन हरिणा स्व-कण्ठात् तस्यै श्री-राधायै दत्तां तस्य श्री-कृष्णस्य राज-लक्ष्मीम् इव गुञ्जावलीं तस्या राधाया हृदि सा विशाखा युयोज ॥९१॥

स्थूल-तारावली रम्या सन्-नायक-विभूषिता ।
तस्या एकावली ज्योत्स्नी हृद्-अम्बरम् अमण्डयत् ॥९२॥

एकावली तन्-नाम हार-भेदः सैव ज्योत्स्नी चन्द्रिका-युक्त-रात्रिः, सा तस्या हृद्-अम्बरं हृद्-रूपम् आकाशम् अमण्डयत् । कीदृशी ? स्थूल-तारावलिर् विशुद्ध-मुक्तावलिः सैव तारावलिः नक्षत्र-श्रेणी तया रम्या । तारा मुक्ता विशुद्धा च इत्य् अमरः । पुनः कीदृशी ? सन्-नायक उत्तम-हार-मध्य-रत्नं तद् एव सन्नायकः पूर्व-चन्द्रः, तेन विभूषिता ज्योत्स्नी चन्द्रिकयान्वितेति । नायको हार-मध्यगे इति चामरः ॥९२॥

कनक-खचित-वज्रैर् वेष्टितैः पद्मरागैश्
चित-हरिमणि-पूर्णाभ्यन्तरा शातकौम्भी ।
प्रतनु-पुरट-राजच्-छृङ्खलालम्बमाना
लसति हृदि विशाखा योजितास्याश् चतुष्की ॥९३॥

अस्या हृदि विशाखया योजिता दत्ता पदकेति ख्याता चतुष्की लसति । कीदृशी ? शातकौम्भी स्वर्ण-निर्मिता कनक-खचित-वज्रैर् स्वर्ण-जटित-हीरकैर् वेष्टितैः पद्मराग-मणिभिश् चितेन वेष्टितेन हरिमणिनेन्द्रनील-मणिना पूर्णम् अभ्यन्तरं मध्य-देशो यस्या सा । पुनः कीदृशी ? प्रतनुभिर्ः सूक्ष्माभिः स्वर्ण-राजच्-छृङ्खलालम्बमाना ॥९३॥

पृष्ठान्तः-क्रम-लम्बमानम् अमलं ग्रीवान्त-हारावली
वीटी-बन्धन-पट्ट-सूत्र-चमरी-जालं तद्-आस्या बभौ ।
मन्ये चारु-नितम्ब-शैल-कटकान् मूर्धाधिरोहार्थकं
सोपानं विधिना कृतं करुणया वेणी-भुजङ्ग्याः स्फुटम् ॥९४॥

तद् अस्या श्री-राधायाः पृष्ठान्तः पृष्ठ-देशस्य मध्ये क्रमेण एकस्याः चमर्या उपर्य् एका चमरीति क्रमेण लम्बमानम् अमलं निर्मलं ग्रीवान्त-हारावल्या वीटी-बन्धनेन ग्रन्थि-बन्धनेन पट्ट-सूत्रस्य चमरी-जालं बभौ । यत् तत् अस्या वेणी-रूप-सर्प्याश् चारु-नितम्ब-रूप-शैल-कटकात् मूर्ध्नः मूर्धन-रूप-पर्वतस्याधिरोहार्थकम् अधिरोहार्थं विधिना स्फुटं व्यक्तं यथा स्यात् तथा सोपानं कृतम् इत्य् अहं मन्ये ॥९४॥

प्रलम्ब-गुच्छासित-पट्ट-डोरिका-
पर्युप्त-राजन्-नव-रत्न-मालया ।
श्लिष्टेऽपि हैमे भुजयोर् विशाखया
न्यधायिषातां हरि-रङ्गदाङ्गदे ॥९५॥

अथ विशाखया हरेः श्री-कृष्णस्य रङ्गं दत्त इति हरि-रङ्गदे इति नाम्नी अङ्गदे बाजुबन्धेति ख्याते भुजओर् न्यधायिषाताम् । कीदृशे ? प्रलम्बा या गुच्छस्य थोपना इत्य् आख्यस्यासिता कृष्णा पट्ट-डोरी, तया पर्युप्ता ग्रथितया या राजन्-नव-रत्न-माला तया श्लिष्टे युक्ते हैमे हेम-निर्मिते ॥९५॥

फुल्लारुणाब्ज-विगलन्-मधु-लिप्त-नाल-
संविष्ट-भृङ्ग-पटली-द्युति-तस्कराणि ।
कान्तेन्द्र-नील-वलयानि कला-वियुग्मे
तस्यास् तदा ललितया घटितानि रेजुः ॥९६॥

तस्याः कला-वियुग्मे इन्द्रनील-मणेर् वलयानि ललितया घटितानि दत्तानि रेजुः । कीदृशानि ? फुल्लारुण-कमलाभ्यां विगलद्भिर् मधुभिर् लिप्तयोर् नालयोर् मृणालयोः संवेष्टित-भ्रमर-समूहानां द्युतेः कान्तेस् तस्कराणि चौराणि । फुल्लारुणाब्जे अत्र रक्त-वर्ण-कर-युगं विगलन्-मधु-लिप्त-नाले मृणाले, अत्र कला-वियुग्मं संवेष्ट-भ्रमरा, अत्र कान्ति-युक्तेन्द्र-नीलमणि-मय-वलयानि ॥९६॥

मुक्तावली-खचित-हाटक-कङ्कणाभ्यां
संवेष्टितः स वलयावलि-सन्निवेशः ।
बिम्बैर् विधोर् मिलित-भास्कर-मण्डलाभ्यां
तस्याश् चकास्ति नितराम् इव सैंहिकेयः ॥९७॥

मुक्तावल्या जडित-स्वर्ण-कङ्कणाभ्यां स पूर्वोक्त-वलयावलि-सन्निवेशः संवेष्टितः सन् चकास्ति काभ्यां क इव ? विधोर् बिम्बैर् मिलिताभ्यां सूर्य-मण्डलाभ्यां सह सैंहिकेयो राहुर् इव ॥९७॥

हैम-स्फुरन्-मर्दलिकालि-मण्डिता
प्रलम्ब-पट्ट-स्तवकावलम्बिनी ।
अनेक-रत्नावलि-लालितान्तरा ललास
तस्या मणिबन्ध-बन्धनी ॥९८॥

तस्याः मणि-बद्ध-बन्धनी ललास, चूरीबद्ध-प्रकोष्ठयोर् अस्तरालो मणि-बद्धस् तस्य बन्धनी पोठिया इति ख्याता । कीदृशी ? हैम-स्फुरन्-मर्दलिकालिभिः मादुली पौच्छीति ख्याताभिर् मण्डिता प्रलम्ब-पट्ट-स्तवकावलम्बिनी तेन अनेक-रत्नावलिभिर् लालितं जटितम् अन्तरं यस्याः ॥९८॥

निज-नामाङ्किता नाना-रत्न-द्युति-कराम्बिता ।
बभाव् अङ्गुलि-मुद्रास्या विपक्ष-मद-मर्दिनी ॥९९॥

अस्या अङ्गुलि-मुद्रा बभौ निजेन राधेत्य् अनेन नामाङ्किता विपक्षाणां मदं मर्दयतीति ॥९९॥

चटुल-चटक-रावौ हंसकौ कंस-शत्रोः
श्रुति-धृति-मतिहंसी-हारिनादौ विशाखा ।
कनक-खचित-नाना-रत्न-जालांशु-चित्रौ
लघु लघु निदधे तत्-पाद-पद्मोपरिष्टात् ॥१००॥

हंसकौ पाद-कटकौ तस्याः पादोपरिष्टात् पादयोः सुकुमारतया प्रेम्णा च लघु लघु यथा स्यात् तथा विशाखा निदधे । कीदृशौ ? चञ्चल-चटकानाम् इव रावो ययोस् तौ । श्री-कृष्णस्य श्रुति-धृति-मति-रूप-कंसीनां हारी हरण-शीलो नादो ययोस् तौ । कनक-जडित-नाना-रत्न-समूहानाम् अंशुभिश् चित्रौ मनोहरौ ॥१००॥

कालिन्दी कलहंसाली स्वाध्यायाध्यापकौ तथा ।
भातस् तत्-पदयोर् न्यस्तौ नूपुरौ रत्न-गोपुरौ ॥१०१॥

कालिन्द्याः कलहंसानां श्रेणी सैव शिष्य-भूता तस्याः स्वाध्याय-शोभनाध्यायनेऽध्यापकौ रत्न-गोपुराख्यौ रत्नानां गावः किरणास् तेषां पुरौ नगरे इति वा नूपुरौ पदयोर् न्यस्तौ भातः ॥१०१॥

रत्नावली-कान्ति-करम्बितानि
विधातृ-विस्मापक-शिल्प-भाङ्गि ।
तस्याः सुदेवी घटितानि रेजुः
पादाङ्गुलीयानि पदाङ्गुलीषु ॥१०२॥

विधातृ-सृष्टिषु तादृश-शिल्पाभावात् विधातुर् विस्मापक-शिल्प-युक्तानि पादाङ्गुलीयानि सुदेव्या दत्तानि तस्याः पादयोर् अङ्गुलीषु रेजुः ॥१०२॥

अस्या न्यधाद् उषसि नर्मदया स्व-सख्याः
माला-कृतस् तनुजयोपहृतं विशाखा ।
स्मेरारविन्द-वदनाथ करारविन्दे
लीलारविन्दम् अरविन्द-विलोचनायाः ॥१०३॥

विशाखा अस्याः स्व-सख्याः कर-कमले माला-कृतः कन्यया नर्मदया उषस्य् उपहृतम् आनीतं लीलारविन्दं न्यधात् ॥१०३॥

तदैव समयाभिज्ञा पुरस्तान् मणि-बन्धनम् ।
आदर्शं दर्शयामास सुगन्धा नापितात्मजा ॥१०४॥

सुगन्धा-नाम्नी नापित-कन्या आदर्शं दर्शयामास । मणिभिर् बन्धनं ददर्श ॥।१०४॥

सा कृष्ण-नेत्र-कुतुकोचित-रूप-वेशं
वर्ष्मावलोक्य मुकुरे प्रतिबिम्बितं स्वम् ।
कृष्णोपसत्ति-तरलास वराङ्गनानां
कान्तावलोकन-फलो हि विशेष-वेशः ॥१०५॥

मुकुरे दर्पणे प्रतिबिम्बितं श्री-कृष्ण-नेत्रयोः कुतुकाय कौतूहलाय उचित-रूपो वेषो यत्र तत् । उद्चित-रूपं वेशश् च वा यत्र तत् स्वं निजं वर्ष्म देहम् आलोक्य सा श्री-कृष्णस्योपसत्तये प्राप्तये तरला आस । अत्र हेतुम् आह—यतो वराङ्गनानां कान्तावलोकनं कान्त-कर्तृकावलोकन-रूप-फलं फल-स्वरूपो विशेष-वेशः भवति । फलो हीति पाठे कान्तस्यावलोकनं फलं यस्य इत्य् अर्थः । विशेष-वेशः परम-वेशः । गात्रं वपुः संहननं शृङ्गारं वर्ष्म विग्रहः ॥१०५॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः कल्य-विलास-वर्णन-मयः सोऽयं द्वितीयो गतः ॥१०६॥

कल्य-विलासः प्रत्यूष-विलास-वर्णन-मयः सर्गः द्वितीयो गतः । प्रत्युषः अहर्-मुखं कल्यम् उषः प्रत्युषसी इत्य् अमरः ॥१०६॥

इति श्री-गोविन्द-लीलामृते सदानन्द-विधायिन्यां टीकायां द्वितीयः सर्गः समाप्तः ॥२॥

॥।

(३)