प्रथमः सर्गः
श्री-गोविन्दं व्रजानन्द-
सन्दोहानन्द-मन्दिरम् ।
वन्दे वृन्दावनानन्दं
श्री-राधा-सङ्ग-नन्दितम् ॥१॥
श्री-कृष्ण-चैतन्य-चन्द्राय नमः ।
वन्दे वृन्दावनाधीशौ प्रिय-वर्ग-समन्वितौ ।
तल्-लीलाकृष्ट-चित्तेभ्यस् तेभ्यो नमो नमः ॥
नत्वा गुरुं कृष्ण-देवं विश्वनाथं नरोत्तमम् ।
लोकनाथं नमस्कृत्य कृष्ण-चैतन्यम् आश्रये ॥
नित्यानन्दं प्रभुं वन्दे अद्वैताचार्यम् ईश्वरम् ।
गदाधरं प्रणम्याथ गौर-भक्तान् नमाम्य् अहम् ॥
सनातनं नमस्कृत्य श्री-रूप-चरणं भजे ।
यद्-आश्रयाद् अयोग्योऽपि लीला-सिन्धौ निमज्जति ॥
श्रीमद्-गोविन्द-लीलामृतम् अतुलतमं केश-शेषाद्य्-अगम्यं
स्वास्वाद्यं श्रील-वृन्दावन-जन-निकरैः श्रील-चैतन्य-भक्तैः ।
योऽकार्षीत् काव्यम् अस्मिन् सुचरितम् अमृतं श्रील-चैतन्य-विष्णोः
शास्त्रं च श्री-युतं तं कवि-नृपतिम् अहं कृष्ण-दासाख्यम् ईडे ॥
गोविन्द-लीलामृत-नामकस्य
टीका महा-काव्य-मणेर् मयास्य ।
आरभ्यते तत्-कृपयास्तु पूर्णा
नाम्ना सद्-आनन्द-विधायिनीयम् ॥
वैदुष्याः कणिकापि यद्यपि न मे कुर्वे तथापीदृशं
पङ्गुच्चाद्रि-विलङ्घनोद्यमम् इव स्वान्ते महा-साहसम् ।
कारुण्येन सुदुर्लभेप्सित-ततेर् दात्रा निजेनाप्य् अमूं
श्री-सन्तः पतितैक-पावनतमाः संशोधयन्तु ध्रुवम् ॥
अथ ग्रन्थ-कर्ता आदौ ग्रन्थस्य निर्विघ्नं परिसमाप्त्य्-अर्थं स्व-ग्रन्थे वर्णितव्य-लीलाधिकर्तरि श्री-गोविन्द-देवे नमस्क्रियतेआ-रूपं मङ्गलम् आचरति श्री-गोविन्दम् इति । श्रिया शोभया युक्तः । एकान्त-धाम यशसः श्रिय ऐश्वर्यस्य इति । त्रैलोक्य-लक्ष्म्य्-एक-पदं वपुर् दधत् इति । त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपम् इत्य् आद्य् उक्तेः । श्रिया सम्पत्त्या वा युक्तः । श्रयत इन्दिरा शश्वद् अत्र हि इत्य् आद्य् उक्तेः । चिन्तामणेश् चरण-भूषणम् अङ्गनानाम् इत्य् आद्य् उक्तेश् च । श्रिया लक्ष्म्या वक्षः-स्थ-स्वर्ण-रेखा-रूपया वा युक्तः, स्वर्ण-रेखेव ते नाथ वस्तुम् इच्छामि वक्षसि इत्य् आद्य् उक्तेः । शब्धिर् व्रज-सुन्दरीभिर् वा युक्तः । श्रियः कान्ताः कान्तः परम-पुरुषः इति ब्रह्म-संहितोक्तेः । एवम्भूतश् चासौ गोविन्दः, ईश्वरः परमः कृष्णः सच्-चिद्-आनन्द-विग्रहः । अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥
कृष्णस् तम् अहं वन्दे नमस्करोमि स्तौमि वा । वदि अभिवादन-स्तुत्योः । कीदृशं ? व्रजानन्द-सन्दोहामन्द-मन्दिरम् । व्रज-पदेन व्रज-भूमेर् व्रज-स्थ-स्थावर-जङ्गमानां वानन्दस्य सन्दोहः समूहः सम्यग्-दोहः प्रपूरणं वा तस्यामन्दं स पूर्णं मन्दिरम् आश्रयम् ।
किं वा, व्रज एवानन्द-सन्दोहानन्द-मन्दिरं यस्य[^१] तम् । कृष्णस्य पूर्णतमता व्यक्ताभूद् गोकुलान्तरे [भ।र।सि। २.१.२२३] इत्य् उक्तेः ।
पुनः कीदृशं ? वृन्दावनानन्दम् । तत्र[^२] श्री-व्रज-मण्डलाद् अप्य् अधिकम् आनन्दयति इति तम् । ३यद् वा, वृन्दावनस्यानन्दम् आनन्द-रूपम् । यद् वा, वृन्दावनस्यानन्दो यस्मात् तम् ।[^३] यद् वा, वृन्दावने आनन्दो यस्य तम् ।
लीला प्रेम्णा प्रियाधिक्यं माधुर्यं वेणु-रूपयोः । इत्य् असाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ॥ [भ।र।सि। २.१.४३] चतुर्धा माधुरी तस्य व्रज एव विराजते ॥ [ल।भा। १.५.५२६] इत्य् उक्तेः ।
अत्र व्रज-शब्देन श्लोकार्थ-सङ्गत्यै श्री-वृन्दावनम् एव ज्ञेयम् ।
पुनः कीदृशं ? श्री-राधा-सङ्ग-नन्दितम् । तत्र श्री-वृन्दावन-मध्ये तु तस्मात् वृन्दावनानन्दात् अधिकं श्री-राधया सङ्गेन नन्दितं जातानन्दं—राधा-सङ्गे यदा भाति तदा मदन-मोहनः [गो।ली। १३.३२] इत्य् अस्मिन् ग्रन्थे वक्ष्यमाणाद्य्-उक्तेः । एषां विशेषण-त्रयाणाम् उत्तरोत्तरम् आधिक्यं ज्ञेयम् ॥१॥
योऽज्ञान-मत्तं भुवनं दयालुर्[^४]
उल्लाघयन्न् अप्य् अकरोत् प्रमत्तम् ।
स्व-प्रेम-सम्पत्-सुधयाद्भुतेहं
श्री-कृष्ण-चैतन्यम् अमुं प्रपद्ये ॥२॥
अथ स्व-वाञ्छित-सिद्ध्य्-अर्थं निजाभीष्टं श्री-कृष्ण-चैतन्य-देवं स्तौति—योऽज्ञान-मत्तम् इति । अमुं श्री-कृष्ण-चैतन्यं प्रपद्ये अहम् इति शेषः । अद्भुता ईहा चेष्टा यस्य तम् । अत्र अद्भुतत्वे हेतुः—यः कृपालुः कृपा-पूर्णः सन् स्व-प्रेम-सम्पत्-सुधया अज्ञानेन मत्तं भुवनम् उल्लाघयन् संसार-रोग-रहितं कुर्वन्न् अपि प्रमत्तम् अनवहितम् अकरोद् इति । उल्लाघो निर्गतो गदात् इत्य् अमरः ॥२॥
श्री-राधा-प्राण-बन्धोश् चरण-कमलयोः
केश-शेषाद्य्-अगम्या
या साध्या प्रेम-सेवा व्रज-चरित-परैर्
गाढ-लौल्यैक-लभ्या ।
सा स्यात् प्राप्ता यया तां प्रथयितुम् अधुना
मानसीम् अस्य सेवां
भाव्यां रागाध्व-पान्थैर् व्रजम् अनु चरितं
नैत्यिकं तस्य नौमि ॥३॥
अथ ग्रन्थ-कर्ता स्वाभीष्ट-देवं संस्तुत्य श्री-राधा-कृष्णयोर् नित्य-लीला-वर्णन-ग्रन्थम् आरभमाणः सन् श्री-रूप-गोस्वामि-कृत-सङ्क्षिप्त-नित्य-लीला-स्मरण-मङ्गल-स्तोत्रम् अवलम्ब्य स्व-ग्रन्थादौ तत्-प्रथम-श्लोकेन श्री-कृष्णस्य व्रज-कृत-नित्य-लीला-चरितं स्तौति—श्री-राधा-प्राण-बन्धोर् इति । श्री-राधा६ प्राण-बन्धुः श्री-राधैव प्राण-बन्धुर् यस्येति वा, सः श्री-राधा-प्राण-बन्धुः श्री-कृष्णस् तस्य चरण-कमलयोः पाद-पद्म-द्वयस्य या प्रेम-सेवा, प्रेम-स्वरूपाभिर् नित्य-सिद्धाभिः श्री-ललिता-विशाखादि-रूप-मञ्जरी-रति-मञ्जर्य्-आदिभिस् तत्-तद्-गण-प्रविष्ट-तत्-तद्-अनुगादिभिश् च प्रतिदिनं प्रतिक्षणं समयोचितं प्रेम्णा क्रियमाण-सेवा । केश-शेषाद्य्-अगम्या को ब्रह्मा ईशो महेशः शेषोऽनन्तः इत्य् आदिभिः सन्ततं श्रव्णार्चन-स्मरण-कीर्तनादि-भक्तीः कुर्वद्भिर् अप्य् अगम्या अज्ञेया । अधिकृतत्वाच् छुद्ध-माधुर्योपासकत्वाभावाद् इत्य् अभिप्रायः, अन्यस्य का वार्तेत्य् अर्थः । तथापि व्रज-चरित-परैः व्रज-चरितम् एव परं सर्वोत्कृष्टं येषां तैः । व्रज-चरितेषु परिअर् आसक्तैर् वा जनैः साध्या साधयितुं योग्या, तैर् विनान्यैः साधयितुं न युज्यत इति भावः ।
अत्र तु गाढ-लौल्यैक-लभ्या, लोलश् चल-सतृष्णयोः आनन्द् लोलस्य भावः लौल्यं, गाढं च तत् लौल्यं चेति गाढ-लौल्यं, सन्निपातिनां दिव्य-पानकेष्व् इवातिशय-तृष्णा-चाञ्चल्यं प्रेम-सेवायाम् अत्युत्कण्ठया व्यग्रता वा, तत् गाढ-लौल्यम् एवैकं मुख्यं येषां ते । तस्मिन् गाढ-लौल्ये एका अद्वितीया मुख्याः श्रेष्ठाः अन्या भिन्ना असाधारणा वा केवला विरला वा ते गाढ-लौल्यैकाः लोलश् चल-सतृष्णयोः आनन्द्, तैर् लभ्या लब्धुं योग्या सा प्रेम-सेवा यया प्राप्ता स्यात् ताम् । अस्य श्री-कृष्णस्य मानसीं सेवां साधक-भक्तैर् मनसा भाविता श्री-गुर्वाज्ञातः गोपिकाकार-तन्वा क्रियतेअमाणा सती सा प्रेम-सेवा मानसी सेवोच्यते । तां कीदृशीं ? रागाध्व-पान्थैः राग-मार्ग-पथिकैर् भाव्यां भावना-विषयां, अधुना प्रथयितुं प्रख्यापयितुं तस्य श्री-कृष्णस्य व्रजम् अनु व्रजे नैत्यिकं चरितं प्रतिदिन-भवं चेष्टितं नौमि स्तौमीत्य् अर्थः ॥३॥
**कुञ्जाद् गोष्ठं निशान्ते प्रविशति कुरुते दोहनान्नाशनाद्यां
प्रातः सायं च लीलां विहरति सखिभिः सङ्गवे चारयन् गाः ।
मध्याह्ने चाथ नक्तं विलसति विपिने राधयाद्धापराह्ने
गोष्ठं याति प्रदोषे रमयति सुहृदो यः स कृष्णोऽवतान् नः ॥४॥ **
अथाष्ट-काल-निरूपण-पूर्वकम् अष्ट-काल-कृतं श्री-कृष्णस्य नैत्यिकं चरितं सूत्र-रूपेण स्मरण-मङ्गल-श्लोकेनाह—कुञ्जाद् इति । तत्राष्ट-कालाः—
निश्नातः प्रातः पूर्वाह्नो मध्याह्नश् चापराह्नकः । सायं प्रदोषो नक्तं चेत्य् अष्टौ कालाः प्रकीर्तिताः ॥ चत्वारोऽह्नि प्रातर् आद्या एषां शेषा निशि स्मृताः । ऋतु-दण्डा अमी किन्तु तृतीयौ मास-दण्डके ॥ इति काल-निर्णयः ।
अथ कुञ्जाद् इति श्लोकार्थः । यः श्री-कृष्णः निशान्ते रात्रि-शेषे कुञ्जात् प्रेयसीभिः सह विविध-मधुर-विलास-शय्यादि-विशिष्ट-लताद्य्-आवृत-रम्य-स्थानात् गोष्ठं नन्दीश्वरीय-निज-मन्दिरं प्रविशतीत्य् एकः कालः । निकुञ्ज-कुञ्जौ वा क्लीबे लतादि-पिहितोदरे इत्य् अमरः । प्रातः-काले सायं-काले च गो-दोहन-भोजनाद्यं लीलां कुरुते इति द्वौ । सङ्गवे पूर्वाह्न-काले गाश् चारयन् सखिभिः सह विहरतीत्य् एकः । मध्याह्ने नक्तं रात्रौ च विपिने रूपतया सह अद्धा साक्षात् विलसतीति द्वौ । अपराह्ने गोष्ठं यातीत्य् एकः । प्रदोषे रजनी-मुखे सुहृदो रमयतीत्य् एकः । प्रदोषो रजनी-मुखम् इत्य् अमरः । स श्री-कृष्णो नः अस्मान् अवताद् रक्षतु इत्य् आशीर्वादः सूचितः ॥४॥
यत् पीतं श्रुति-वाङ्-मनोभिर् अनिशं तृष्णा-प्रदम् अद्भुतं
संसारामय-हार्य् अपि प्रणयजोन्मादान्ध्य-मोहादि-कृत् ।
शश्वच् चर्वितम् अप्य् अनल्प-रसदं देहादि-हृत्-पुष्टिदं
तज् जीयाद् अमृत-स्पृहा-हरम् इदं गोविन्द-लीलामृतम् ॥५॥
अथास्य ग्रन्थस्य नाम-कथन-पूर्वकम् अद्भुतत्वम् आह—संसारेति धिष्ठातृ तद् इदं गोविन्द-लीलामृतं श्री-गोविन्दस्य लीलैवामृतं स्व-नाम-सिद्ध-महा-काव्य-रूपं जीयात् सर्वोत्कर्षेण वर्तताम् । किं-भूतं ? अद्भुतम् । अद्भुतत्वम् आह—संसार-रूपस्यामयस्य रोगस्य हार्य् अपि हरण-शीलं भूत्वापि प्रणय-जान् कृष्ण-प्रेमोभवानुन्मादान्ध्य-मोहादीन् रोगस्य धर्मान् करोतीत्य् अद्भुतत्वम् ।
पुनस् तद् आह—शश्वच् चर्वितम् अपीक्षु-दण्डादिवन् नाल्प-रसदं, नाप्य् अरसदं, किं तु दास्य-सख्य-वात्सल्य-मधुराद्य्-अनल्प-रसदम् इति । किं वा, चर्वितम् अपि सकृद् चर्वितम् अपि शश्वत् पुनः पुनर् बहु प्रेम-रसदम् इति चाद्भुतत्वम् । सकृद् इति पदम् अपि-शब्दोह्यं चर्वणम् अत्र पठन-रूपास्वादः । श्रुत्यादिभिः पीतं देहादि-हृत्-पुष्टिदम् अपि सदा तृष्णा-प्रदम् । किं वा, श्रुत्य्-आदि-पीतं सत् सदा तृष्णा-प्रदम् अपि देहादि-हृत्-पुष्टिदम् । लोके देहादि पुष्टिदं वस्तु सदा तृष्णा-प्रदं न भवति, सदा तृष्णा-प्रदं वस्तु देहादि-पुष्टिदं न भवति । अतोऽद्भुतत्वम् । पानम् अत्रासक्ति-पूर्वक-श्रवणादिकम् अस्यैकस्यापि वस्तुनो चर्वितत्वं, पेयं च नित्यत्व-रूपं घनी-भूतत्वाद् द्रवीभूतत्वाच् चेतीदम् अप्य् अद्भुतत्वम् ।
पुनस् तत् स्वयम् अमृतं भूत्वा अमृते देवैः पीयमान-पीयूषे मुक्तैः प्राप्यमाणे मोक्षे च या स्पृहा तं हरति निवारयतीति तत् । इत्य् अद्भुतत्वं च यद् इति सर्वत्र विशेषणे योज्यम् ॥५॥
अपटुर् अतितटस्थस् तुच्छ-बुद्ध्याम् अपात्रः
पुरु-रस-कलनेच्छुः कृष्ण-लीलामृताब्धेः ।
निरवधि हि तद्-अन्तः क्रीडतां वैष्णवानां
किम् उ न हि भविताहं हास्य-हेतुर् गरीयान् ॥६॥
अथ सर्वोत्तमोऽपि तृणाद् अपि सुनीचेति स्वाभाविक-गुणं दैन्यं प्रकाश्य कृष्ण-लीलामृत-मय्या अपि स्व-वाचः सार्थंअतां सद्भ्यः प्रार्थयते अपटुर् इति द्वाभ्याम् । अहं कृष्ण-लीलामृताब्धेः पुरु-रसस्य कलनेच्छुः समग्र-रसस्य कलने ग्रहणे वर्णने इच्छावान् सन्, तस्य कृष्ण-लीलामृताब्धेर् अन्तर् मध्ये हि निश्चितं निरवधि सन्तताशयं क्रीडतां वैष्णवानां गरीयान् उत्कृष्टो हास्य-हेतुर् न हि भविता किम् उ भवितैव ? भवितेति कर्त्र्-अर्थं तृणा-शीलार्थ-तृणापि वा वाक्य-समाप्तिः । यथा महा-नाटके श्री-सीतां प्रति रावणः—भवित्री रम्भोरु त्रिदश-वदन-ग्लानिर् अधुना [ह।ना। १०.१२] इति । श्री-विदग्ध-माधवे च—विधात्री सिद्धार्थान् हरि-गुण-मयी वः कृतिर् इयं [वि।मा। १.६] इति । अर्थान् न भविष्यामि किम् उ भविष्याम्य् एव ।
अहं कीदृशः ? अपटुर् एतल्-लीलामृत-वर्णनेऽनिपुणः । तटस्थः प्राकृतः । तुच्छ-बुद्ध्याम् अपात्रः तुच्छ-बुद्ध्या हेतुना अपक्व-पात्रः । तुच्छ-बुद्धिश् चासाव् आम-पात्रश् चेति वा । न ह्य् अपक्व-पात्रेणामृताहरणं सिध्यति ।
परम-भागवतस्यैवं दैन्यं ज्ञात्वा वाग्-अधिष्ठात्री सरस्वती स्वापराध-भयात् असहमाना तैः पदैः तं प्रस्तौति, यथा—अश्रुत-चराद् अद्भुत-लीला-श्रवणेन प्रेमानन्द-हास्य-हेतुर् भविता, यतोऽपटुः लीला-वर्णने न पटुर् यस्मात् । अतितटस्थः अतिशयेन कृष्ण-लीलामृताब्धि-तटे स्थितः । तुच्छ-बुद्ध्याम् अपात्रस् तुच्छ-पात्रं यस्मात् कृष्ण-लीलामृत-ग्रहणे ह्य् उत्तम-पात्र इत्य् अर्थः । पत्र-पात्र-पवित्र-सूत्र-च्छत्राः पंसि चेति लिङ्गानुशासनम् ॥६॥
श्री-रूप-सन्-नट-विकाशित-कृष्ण-लीला-
लास्यामृताप्लुत-धियां व्रज-वैष्णवानाम् ।
हास-प्रकाशन-करी प्रमद-प्रदा वाङ्
मन्दस्य मे भवतु भण्डतरस्य यद्वत् ॥७॥
विदग्ध-माधव-ललित-माधव-नाटकादि-कर्ता-श्री-रूप-गोस्वाम्य् एव सन्-नटस् तेन विकाशित-कृष्ण-लीलैव लास्यामृतम् । तत्राप्लुता मग्ना धीर् येषां तेषां व्रज-स्थ-वैष्णवानां मन्दस्य मूर्खस्य मे मम वाक् हास्य-प्रकाशिनी हास्यानन्द-प्रदा भवत्व् इत्य् अर्थः । यथा भण्डतरस्य अतिभण्डस्य वाक् प्राकृत-जनानां हास्य-करी प्रमद-प्रदा च भवति, तथा ।
सरस्वती-पक्षे मन्द-शब्दो भण्डतर-शब्दस्य विशेषणम् । मन्दस्य भण्डतरस्येत्य् अर्थः । तथा च नाट्ये भण्डोऽप्य् अङ्गी श्री-रूप-कृत-श्री-राधा-कृष्ण-वर्णन-नाट्य-शास्त्रे भण्डः असंलग्न-हास-जनक-वाक्-प्रयोगी कोऽपि न स्थितः, अहम् एवाधना जातः । तथापि तद्-अङ्गत्वान् ममेदं वचनम् अपि ग्राह्यम् एवेति स्वस्य तत्-सङ्गित्वं ज्ञापितं सख्य-रसे श्री-मधुमङ्गल इवेति ॥७॥
तद्-वाग्-विसर्गो जनताघ-विप्लवो
यस्मिन् प्रतीत्य् आदि सद्-उक्तिनोदितः ।
मन्दोऽपि गोविन्द-विलास-वर्णने
मन्दां गिरं स्वां विदधे सदादृताम् ॥८॥
ननु मन्दः कथं भगवल्-लीला-वर्णने प्रवृत्तोऽसीति चेत्, तत्राह—तद्-वाग् इति श्री-भागवते—
तद्-वाग्-विसर्गो जनताघ-विप्लवो यस्मिन् प्रति-श्लोकम् अबद्धवत्य् अपि । नामान्य् अनन्तस्य यशोऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ [भा।पु। १.५.११] इति ।
सतां व्यास-शुकादीनाम् उक्त्व्या वाक्येन नोदितः प्रेरितः सन् नुद प्रेरणे मन्दोऽप्य् अहं कृष्ण-लीला-वर्णनैर् मन्दाम् अपि स्वीयां गिरं सद्भिर् आदृतां विदधे करोमि विध्यास्यामीति भविष्यद्-अर्थेऽत्युत्साहेन विदधे इति लट् ॥८॥
मद्-आस्य-मरु-सञ्चार-खिन्नां गां गोकुलोन्मुखीम् ।
सन्तः पुष्णन्त्व् इमां स्निग्धाः कर्ण-कासार-सन्निधौ ॥९॥
मन् ममास्यं दुःखम् एव मरुर् निर्जला भूमिस् तत्र सञ्चारेण भ्रमणेन खिन्नां खेद-युक्तां गां, गौर् वाणी, श्लेषेण सैव पशुस् ताम् । कीदृशीं ? गोकुलोन्मुखीं गोकुलं श्री-वृन्दावनं तद् एव, गोकुलं गो-गणः स-तृण-जल-भूमि-सञ्चारी, तत्र सञ्चरितुं श्री-वृन्दावन-चरित-वर्णनम् एव तत्र सञ्चरणं तत् कर्तुम् उन्मुखीम् । अतः सन्तो महान्तः स्निग्धाः स्नेहवन्तः सन्तः कर्ण-रूप-सरोवर-निकटे इमां गां पुष्णन्तु । कासारः सरी सर इत्य् अमरः । सरोवरो यथा सतृण-जलादिना गाः पुष्णाति, तथा सादर-श्रवणेन वाणीं सार्थयन्ताम् इत्य् अर्थः ॥९॥
**रात्र्य्-अन्ते त्रस्त-वृन्देरित-बहु-विरवैर् बोधितौ कीर-शारी-
पद्यैर् हृद्यैर् अहृद्यैर् अपि सुख-शयनाद् उत्थितौ तौ सखीभिः ।
दृष्टौ हृष्टौ तदात्वोदित-रति-ललितौ कक्खटी-गीः-सशङ्कौ
राधा-कृष्णौ स-तृष्णाव् अपि निज-निज-धाम्न्य् आप्त-तल्पौ स्मरामि ॥१०॥ **
इदानीं तन्-नैत्यिक-चरित-रूप-लीलां निशान्ताद्य्-अष्टसु कालेषु विभाज्य स्मरण-मङ्गल-श्लोकैः सङ्क्षिप्य वर्णयिष्यमाणः सन्न् आदौ निशान्त-काल-लीलां तच्-छ्लोकेन सङ्क्षिपति—रात्र्य्-अन्त इति । श्री-राधा-कृष्णौ स्मरामीति । कीदृशौ ? रात्र्य्-अन्ते रात्र्य्-अन्त-काले त्रस्तया वृन्दया वृन्दा-देव्या दिवसे जाते सति, निगूढा श्री-राधा-कृष्णयोः शृङ्गार-लीला अन्यैर् एव ज्ञाता भविष्यतीति भीतया ईरितानां प्रेरितानां बहूनां वीणां पक्षिणां रवैः शब्दैः सखिभिः सह बोधितौ । पुनः कीदृशौ ? हृद्यैर् वचन-चातुर्येण श्रुति-रम्यत्वेन च प्रियैः अहृद्यैर् वियोग-हेतुतया अप्रियैश् च शारीणां शुकानां च पद्यैः श्लोकैः सुख-शयनाद् उत्थितौ । परस्परं दृष्टौ हृष्टौ सखीभिर् दृष्टौ वा । तदात्वोदितया तत्-कालोत्पन्नया रत्या ललितौ मनोहारी । तत्-कालं तु तदात्वं स्याद् इत्य् अमरः । तत्र स्थित्वा पुनर् विलासे स-तृष्णौ च । कक्खट्या कक्खटी-नाम-वानर्या गीर्भिः सशङ्कौ भूत्वा ततो गत्वा निज-निज-धाम्नि स्व-स्व-गृहे आप्त-तल्पौ स्व-तल्पे शायिताव् इत्य् अर्थः ॥१० ॥
निशावसानं समवेक्ष्य वृन्दा
वृन्दं द्विजानां निज-शासन-स्थम् ।
नियोजयामास स-राधिकस्य
प्रबोधनार्थं मधुसूदनस्य ॥११॥
अथ लीलां विस्तारयति निशावसानम् इत्य् आदिदिभिः । निशावसानं रात्रि-शेषं दृष्ट्वा राधया सह कृष्णस्य प्रबोधनार्थं वृन्दा देवी निजाज्ञा-वर्ति-पक्षिणां वृन्दं नियोजयामास ॥११॥
आसन् यद्-अर्थं प्रथमं द्विजेन्द्राः
सेवा समुत्कण्ठ-धियोऽपि मूकाः ।
वृन्दा-निदेशं तम् अवाप्य हर्षात्
क्रीडा-निकुञ्जं परितश् चुकूजुः ॥१२॥
द्विजेन्द्राः पक्षि-श्रेष्ठाः यद्-अर्थं वृन्दा-निदेशार्थं प्रथमं मूकाः शब्द-रहिता आसन् । एवं वृन्दा-निदेशं प्राप्य क्रीडा-निकुञ्जस्य चतुर्-दिक्षु चुकूजुः शब्दं चक्रुः ॥१२॥
द्राक्षासु सार्यः करकेषु कीराः
जगुः पिकीभिश् च पिका रसाले ।
पीलौ कपोताः प्रियके मयूराः
लतासु भृङ्गा भुवि ताम्रचूडाः ॥१३॥
द्राक्षासु सार्यः जगुः । करकेषु दाडिमेषु कीराः, रसाले आम्र-वृक्षे पिकीभिः सह पिकाः कोकिलाः । भुवि पृथिव्यां ताम्रचूडाः कुक्कुटाः । पिलौ वृक्ष-विशेषे कपोताः पारावताः घूकाः । प्रियके कदम्बे मयूराः । लतासु माधवी-मालत्य्-आदिषु भृङ्गाः । पूर्वं जाताव् एक-वचनत्वेऽपि लतासु इति बाहुल्याद् बहु-वचनम् ॥१३॥
तथालि-वृन्दं मकरन्द-लुब्धं
रतीशितुर् मङ्गल-कम्बु-तुल्यम् ।
प्रफुल्ल-वल्ली-चय-मञ्जु-कुञ्जे
जुगुञ्ज तल्पीकृत-कञ्ज-पुञ्जे ॥१४॥
रतीशितुः कामस्य मङ्गल-शङ्ख-तुल्यम् अलि-वृन्दं भ्रमर-समूहो जुगुञ्ज । कुत्र ? प्रफुल्ल-वल्ली-समूहेन मनोज्ञ-कुञ्जे । कीदृशे ? तल्पीकृतं कञ्जस्य पद्मस्य पुञ्जं यत्र तस्मिन् ॥१४॥
झङ्कृतिम् अङ्गीकुरुते रति-मङ्गल-झल्लरीव गोविन्दम् ।
बोधयितुं मधु-मत्ता मधुपी-ततिर् उद्भटानन्दा ॥१५॥
पिक-श्रेणी मनोजस्य वीणेव व्यक्त-पञ्चमम् ।
आललाप स्वरं तारं कुहूर् इति मुहुर् मुहुः ॥१६॥
पिक-श्रेणी कामस्य वीणेव व्यक्त-पञ्चमं पञ्चम-व्यञ्जक-कण्ठ-स्वरं कुहूर् इति तारं स्वरम् उच्च-स्वरम् आललाप ।
निषादर्षभ-गान्धार-षड्ज-मध्यम-धैवताः । पञ्चमश् चेत्य् अमी सप्त तन्त्री-कण्ट्थोत्थिताः स्वराः ॥ इति ।
तारोऽत्युच्चैर् इत्य् अमरः ॥१६॥
रति-मधुर-विपञ्ची नाद-भङ्गीं दधाना
मदन-मद-विकूजत्-कान्त-पार्श्वे निषण्णा ।
मृदुल-मुकुल-जालास्वाद-विस्पष्ट-कण्ठी
कलयति च रसाले काकलीं कोकिलाली ॥१७॥
कोकिलाली सहकारे रसाले इति च पाठः । आम्र-वृक्षे काकलीं मधुरास्फुट-सूक्ष्म-ध्वनिं कलयति करोति ।
काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे । कलौ मन्द्रस् तु गम्भीरे तारोऽत्युच्चैस् त्रयस् त्रिषु ॥ इत्य् अमरः ।
कलिहलि-धातू काम-धेनुवत् सर्वार्थादौ । कीदृशी ? रत्या मधुर-विपञ्ची तस्य नाद-भङ्गीं दधाना । वीणा तु वल्लकी विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी इत्य् अमरः । मदन-मदेन विकूजतः कान्तस्य पार्श्वे निषण्णा स्थिता । आम्रस्य मुकुलास्वादं विना कोकिलस्य स्पष्टः कण्ठ-ध्वनिर् न भवतीति प्रसिद्धम् ॥१७॥
विद्राव्य गोपी-धृति-धर्म-चर्या
लज्जा-मृगीर् मान-वृकेष्व् अमर्षी ।
कपोत-घुत्कार-मिषेण शङ्के
गर्ज्जत्य् अयं काम-तरक्षु-राजः ॥१८॥
काम एव तरक्षुर् मृग-भक्षकः । गोप्जिज्ञास् धृतिश् च धर्म-चर्या च धर्म-विषयिका चेष्टा च लज्जा च एता एव मृग्यस् ता विद्राव्य दूरीकृता मान-रूप-वृकेष्व् व्याघ्र-विशेषेषु अमर्षी क्रोधाविष्टः सन् कपोतस्य घुत्कारश् छलेन गर्जति । तरक्षुस् तु मृगादनः इत्य् अमरः ॥१८॥
राधा-धैर्य-धराधरोद्धृति-विधौ केऽन्ये समर्था विना
कृष्णं कृष्ण-सुमत्त-कुञ्जर-वशीकारेऽप्य् अलं शृङ्खलाः ।
अन्याः काः वृषभानुजाम् इह विना धन्याम् अतीवादृताः
के-काः किं समुदीरयन्ति शिखिनस् तौ बोधयन्तः प्रगे ॥१९॥
प्रगे निशावशेषे तौ राधा-कृष्णौ बोध्यन्तिअः । शिखिनो मयूराः केकाः शब्दं समुदीरयन्ति कुर्वन्ति । केका वाणी मयूरस्य इत्य् अमरः । इत्य् अत्रार्थान्तर-न्यासेनाह—राधायाः धैर्य-रूप-पर्वतस्योद्धृति-विधौ कृष्णं विनान्ये के जनाः केऽन्ये समर्थाः ? न केऽपीत्य् अर्थे के । कृष्ण-रूप-मत्त-हस्तिनो वशीकारे धन्यां वृषभानुजां विना अतीवादृता अन्याः काः स्त्रियः ? आदृता इति पाठे आदृताः सर्व-जनैः । के-का-वाणीः आदृताः शिखिनः इति वा । कृष्णं विनान्यः कः ? वृषभानुजां विनान्या का ? इतीव किं समुदीरयन्ती, अन्यथा कर्माभावः स्यात् । शृङ्खला निगडाः न कोऽपीत्य् अर्थे काः । शृङ्खले अन्दुको निगडोऽस्त्री स्याद् इत्य् अमरः॥१९॥
ह्रस्व-दीर्घ-प्लुतैर् युक्तं कु-कू-कू-कू इति स्वरम् ।
कुक्कुटोऽप्य् अपठत् प्रातर् वेदाभ्यासी बटुर् यथा ॥२०॥
बटुर् ब्राह्मण-बालको वेदाभ्यास-परः । ह्रस्वादि-स्वरैर् यथा पठति तथा । अत्र प्रथम-कु-शब्दो ह्रस्वो, द्वितीयः कू-शब्दो दीर्घः, तृतीयः कू-शब्दः प्लुतः । इत्य् उदाहृतोदात्तानुदात्त-स्वरिताख्यं स्वरं कुक्कुटोऽपि प्रातर् अपठत् ॥२०॥
अथ पक्षिणां कलकलैः प्रबोधिताव् अपि
तौ मिथोऽविदित-जागरौ तदा ।
निविडोपगूहन-विभङ्ग-कातरौ
कपटेन मीलित-दृशाव् अतिष्ठताम् ॥२१॥
पक्षिणां कलकलैः शब्दैः प्रबोधितौ निद्रा-रहितौ प्रबोधिताव् अपि तदा मिथः परस्परं निविडोपगूहनस्य दृढालिङ्गनस्य भङ्गेन कातरौ तौ राधा-कृष्णौ कपट्तेन मीलित-दृशौ मुद्रित-नेत्रौ अतिष्ठताम् ॥२१॥
अथ तौ स्फुरत्-कनक-पिञ्जर-
स्थिता वृषभानुजातिदयिता सुपण्डिता ।
अवदन् निशा-निखिल-केलि-साक्षिणी
गृह-सारिकाप्य् उषसि मञ्जुभाषिणी ॥२२॥
अथानन्तरम् उषसि उषः-काले तौ राधा-कृष्णौ । मञ्जुभाषिणी नाम्नी गृह-सारिकाप्य् अवदत् । कीदृशी ? स्फुरत्-कनक-पिञ्जरे स्थिता राधिकातिप्रिया । अतः निशि रात्रौ निखिलायाः लीलायाः साक्षिणी ज्ञात्री ॥२२॥
गोकुल-बन्धो! जय रस-सिन्धो!
जागृहि तल्पं त्यज शशि-कल्पम् ।
प्रीत्य्-अनुकूलां श्रीत-भुज-मूलां
बोधय कान्तां रति-भर-तान्ताम् ॥२३॥
शशि-कल्पं चन्द्र-तुल्यम् । शय्यां त्यजेत्य् अत्र शीतलांशे चोपमा प्रीत्य्-अनुकूलं श्रीत-भुज-मूलां रत्य्-अतिशयेन क्षीणां च कान्तां राधां बोधय ॥२३॥
उदयं प्रजवाद् अयम् एत्य् अरुणस्
तरुणी-निचये सहजाकरुणः ।
निभृतं निलयं व्रज-नाथ ततस्
त्वरितोऽट कलिन्द-सुता-तटतः ॥२४॥
हे व्रज-नाथ ! अरुणः प्रजवात् प्रकर्षेण वेगेन उदयम् एति तत् तस्मात् यमुना-तटात् निलयं स्व-गृहम् अट गच्छ । स्वोदयस्य प्रिय-वियोग-दातृत्वेन तरुणीषु सहजाकरुणः ॥२४॥
कमल-मुखि विलासायास-गाढालसाङ्गी
स्वपिषि सखि निशान्ते यत् तवायं न दोषः ।
दिग् इयम् अरुणितैन्द्री किन्तु पश्याविरासीत्
तव सुखम् असहिष्णुः साध्वि चन्द्रा-सखीव ॥२५॥
तव सुखम् असहिष्णुश् चन्द्रावल्याः सखी तव सुखं दृष्ट्वा यथा अरुण-वर्णा सती आविर्भवति, तथा इयम् ऐन्द्री दिग् अरुण-वर्णा भूत्वा आविरासीत् । अतस् तवाधुना शयने दोष उत्थानम् एवोचितम् इति भावः ॥२५॥
याता रजनी प्रातर् जातं
सौरं मण्डलम् उदयं प्राप्तम् ।
सम्प्रति शीतल-पल्लव-शयने
रुचिम् अपनय सखि पङ्कज-नयने ॥२६॥
पूर्व-श्लोकोक्तं व्यक्तम् आह—यातेति । रजनी गता प्रातर् आसीत् सूर्य-मण्डलम् उदयं प्राप्तम् । शीतल-शय्यायां रुचिम् अपनय दूरीकुरु ॥२६॥
कृष्णानुराग-गरिमाथ विचक्षणाख्यः
कीरोऽतिधीर-मतिर् उद्भट-वाग्-वरिष्ठः ।
दीप्त-प्रसन्न-मधुराक्षर-सङ्घ-हृद्यां
पद्यावलीं पठति माधव-बोध-दक्षाम् ॥२७॥
अथ कृष्णानुरागस्य गरिमा गौरवं यस्य सः । किं वा, कृष्णानुराग-गरिमा यत्र सः । अतोऽतिधीरा मतिर् यस्य सः । उद्भट-वाचा वरिष्ठश् च विचक्षणाख्यः कीरः पद्यावलीं पठति । कीदृशीं ? दीप्तः प्रसन्नः प्रसाद-गुण-युक्तश् च (वर्णान्तरैर् अनाश्लिष्टैश् च) मधुराक्षर-सङ्घस् तेन हृद्याम् । पुनः माधवस्य बोध-विषये दक्षाम् ॥२७॥
जय जय गोकुल-मङ्गल-कन्द !
व्रज-युवती-तति-भृङ्ग्य्-अरविन्द !
प्रतिपद-वर्धित-नन्दानन्द !
श्री-गोविन्दाच्युत ! नत-शन्द ! ॥२८॥
हे गोकुलस्य मङ्गलानां शुभानां कन्द मूलं ! तेषां वृष्टिवद् वितरणान् मेघ वा । हे व्रज-युवती-समूह-रूप-भ्रमरीणां महोत्पल ! प्रतिक्षणं वर्धितो नन्दस्यानन्दो येन हे तादृश ! नतानां शं सुखं दद्ंसीति हे नत-शन्द ! त्वं जय जय सर्वोत्कर्षेण वर्तस्वेत्य् आदरे वीप्सा ॥२८॥
प्रभातम् आयातम् अशेष-घोष-
तृषार्त-नेत्र-भ्रमरारविन्द !
गरिष्ठ-भूयिष्ठ-विशिष्ट-निष्ठं
गोष्ठं प्रतिष्ठस्व दविष्टम् इष्टम् ॥२९॥
हे अशेष-घोषस्य घोष आभीर-पल्ली व्रजः समस्त-तद्-वासिनाम् इत्य् अर्थः । तृषार्त-नेत्र-रूप-भ्रमराणाम् अरविन्द ! श्री-कृष्ण ! प्रभातम् आयातम्, अतो गोष्ठं प्रतिष्ठस्व गच्छ । कीदृशं गोष्ठं ? गरिष्ठानं गुरुतराणां भूयिष्ठेषु बहुषु ये ये विशिष्टा उत्तमाः, तेषां निष्ठा स्थितिर् यत्र । दविष्टं दूरतरं, इष्टं प्रियं च । अतः शीघ्रम् अवश्य-गन्तव्यम् । अत एवात्र विलम्बे सति गुरु-जनाग्रे तव लज्जा भविष्यत्य् एवेति भावः ॥२९॥
सरसिज-नयनेनं व्यक्त-रागातिरक्तं
दिग् इयम् उदयम् ऐन्द्री पश्य वीक्ष्यारुरुक्षुम् ।
घन-घुसृण-विलिप्तेवोढ-रक्ताम्बरासीद्
इह निभृत-निकुञ्जे कृष्ण निद्रां जहीहि ॥३०॥
हे सरसिज-नयन कृष्ण ! अतिरक्त-मति-रागिणम् इनं सूर्यम् उदयं गिरिम् आरुरुक्षुं वीक्ष्य इयम् ऐन्द्री दिक् घन-केशर-लिप्तोढ-रक्ताम्बरा नायिकेव व्यक्त-रागासीत्, यथा नायिका इनं प्रभुं पतिम् आगच्छन्तं दृष्ट्वा एवं विशिष्टा भवति, तथा इयम् अपि घनैः सान्द्रैः घूसृणैर् इव घुसृआनिर् अरुण-किरणैर् विलिप्ता सती ऊढं स्वीकृतं परिहितं तैर् अरुण-किरणै रक्तम् अम्बरम् आकाशम् एव रक्ताम्बरं रक्त-वस्त्रं यया सासीद् इत्य् अर्थः । सत्यं न चेत् त्वं पश्य, तत् तस्मात् निद्रां जहीहि । सरसिज-नयनेति सम्बोधने अस्मिन्न् अरुनोदय-काले सरसिजानि विकसन्ति, तव नयने मुद्रिते स्त इति नोचितम् इति सूचितम् ॥३०॥
विधुना सहिता सवितुश् चकिता
रजनी वनिता चलिता त्वरिता ।
अनया समया प्रियया त्वरया
सहितः सरितस् तटतोऽट ततः ॥३१॥
सवितुः सूर्याच् चकिता भीता विधुना सहिता रजनी वनिता त्वरिता चलिता गता । ततस् त्वम् अपि अनया समया तुल्यया प्रियया अवक्र-स्वभावया वा प्रियया राधया सहितस् त्वरया शीघ्रं यमुना-तटाद् अट गच्छ ॥३१॥
एकं प्राच्याम् अरुण-किरण-पाटलायां विधत्ते
चक्षुः कान्ते त्वरितम् अपरं दूरगे चक्रवाकी ।
शङ्काक्रान्तास् तरु-कुहरगा मूकतां यान्ति घूकाः
शङ्के भास्वान् उदयम् उदगात् कृष्ण निद्रां जहीहि ॥३२॥
हे कृष्ण ! भास्वान् सूर्यः उदयं पर्वतम् उदगात् इति शङ्के । शङ्का-हेतुम् आह—रात्रौ प्रिय-विरहिणी चक्रवाकी एवं चक्षुर् अरुण-किरणेन आ ईषत् पाटल-वर्णायां प्राच्याम् अपरं चक्षुर् दूरगे कान्ते चक्रवाकी निधत्ते । घूकाः उलूकाः दिवान्धाः काकादिभ्यः शङ्काक्रान्ताः सन्तस् तरूणां कुहुर-गाः भूत्वा मूकतां यान्ति । अतस् त्वं निद्रां जहीहि ॥३२॥
वृन्दा-वक्त्राद् अधिगत-विद्या
सारी हारी-कृत-बहु-पद्या ।
राधा-स्नेहोच्चय-मधु-मत्ता
तस्या निद्रापनयन-यत्ता ॥३३॥
कल-वाक् सूक्ष्म-धी नाम्नी प्रेमोत्फुल्ल-तनूरुहा ।
स्व-रसज्ञा रङ्ग-भूमौ ततो वाणीम् अनर्तयत् ॥३४॥
ततः शुक-बोधानन्तरं, कला मधुरा वाक् यस्याः सा सूक्ष्मधी-नाम्नी सारी प्रेमोत्फुल्ल-तनुरुहा सती स्वस्या रसज्ञा जिह्वैव रङ्ग-भूमिस् तत्र वाणीम् अनर्तयत् । कीदृशी ? वृन्दा-वक्त्राद् अधिगता पठिता विद्या यया सा । हारी-कृतानि हारवत् कण्ठे कृतानि बहूनि पद्यानि श्लोकाः यया सा । राधा५ स्नेहोच्चयः स्नेह-समूहस् तद्-रूप-मधुना मत्ता, ततस् तस्या राधा६ निद्रापनयने निद्रा-दूरी-करणे यत्ता यत्नवती सावधानी वा ॥३३-३४॥
व्रजन्ति सर्वतो जना न यावद् अध्वनि व्रजे ।
व्रजेन्द्र-नन्दन-प्रिये व्रजाशु तावद् आलयम् ॥३५॥
हे राधे ! व्रजे यावत् सर्वतोऽध्वनि मार्गे जना न व्रजन्ति, तावद् आशु शीघ्रम् आलयं व्रज गच्छ ॥३५॥
सुमुखि ततस् त्वरितम् इतस्
त्यज शयनं व्रज भवनम् ।
उदय-धरं सरति परं
त्वरित-गतिर् दिवस-पतिः ॥३६॥
हे सुमुखि ! दिवस-पतिः सूर्यः उदय-पर्वतं त्वरित-गतिः सन् सरति गच्छति । सूर्ये तम् आरूढे सर्वत्रोज्ज्वले सति तव गमनं दुःसाध्यं भविष्यतीति । ततः शयनं त्यज, इतः कुञ्जाद् भवनं व्रज ॥३६॥
निद्रां जहीहि विजहीहि निकुञ्ज-शय्यां
वासं प्रयाहि सखि नालसतां प्रयाहि ।
कान्तं च बोधय न बोधय लोक-लज्जां
कालोचितां हि कृतिनः कृतिम् उन्नयन्ति ॥३७॥
हे सखि राधे ! निद्रां जहीहीति त्यज । कान्तं च बोधय जागरय । निकुञ्ज-शय्यां त्यज । अलसताम् आलस्यं न प्राप्नुहि । वासं गृहं याहि । लोक-लज्जां न बोधय न प्रकाशय । हि यतः कृतिनः कुशलाः कालोचितां कृतिं चेष्टां कुर्वन्ति ॥३७॥
कृष्णोऽप्य् अनिद्रः प्रिययोपगूढः
कान्ताप्य् अनिद्राप्य् अमुनोपगूढा ।
तल्पात् प्रभाताकुलम् अप्य् अनल्पान्
नोत्थातुम् एतन् मिथुनं शशाक ॥३८॥
श्री-कृष्णोऽनिद्रो निद्रा-रहितोऽपि प्रिययोपगूढ आलिङ्गितः । कान्ताप्य् अनिद्राप्य् अमुना प्रियेण आलिङ्गितान्ते । अतः प्रभातेन हेतुना आकुलम् अपि व्यग्र-चित्तम् अपि मिथुनं तल्पाद् उत्थातुं न शशाक । कीदृशात् ? अनल्पात्, क्रीडा-सुखैर् महतः ॥३८॥
कृष्णस्य जानूपरि-यन्त्रित-सन्-नितम्बा
वक्षः-स्थले धृत-कुचा वदनेऽर्पितास्या ।
कण्ठे निवेशित-भुजाऽस्य भुजोपधाना
कान्ता न हीङ्गति मनाग् अपि लब्ध-बोधा ॥३९॥
कान्ता श्री-राधा लब्ध-बोधापि मनाग् अल्पम् अपि नीङ्गति न चलति । इगि गत्य्-अर्थः । हि यतः । श्री-कृष्णस्य जानूभ्यां परि-यन्त्रितौ सन्-नितम्बौ यस्याः । वक्षः-स्थलेऽर्पितौ कुचौ यया । वदनेऽर्पितम् आस्यं यया । कण्ठे निवेशितौ भुजौ यया । अस्य श्री-कृष्णस्य भुज एवोपधानं यस्याः सा ॥३९॥
गोष्ठायन-त्वरित-धीः शयनात् समुत्कोऽप्य्
उत्थातुम् एकम् अपि रिङ्गयति स्वम् अङ्गम् ।
राधाङ्ग-गाढ-परिरम्भण-रङ्ग-भङ्ग-
शङ्का-विशृङ्खल-मना न मनाक् प्रियोऽपि ॥४०॥
प्रियः श्री-कृष्णोऽपि गोष्ठायने गोष्ठ-गमने त्वरिता बुद्धिर् यस्य स एवम्-भूतः सन् शयनाद् उत्थातुम् उत्सुकोऽपि एकम् अपि अङ्गम् अपि न रिङ्गयति न चालयति । कीदृशः ? राधाङ्गस्य गाढ-परिरम्भणे यो रङ्गस् तस्य भङ्गे या शङ्का तया विशृङ्खल-मना व्याकुल-मनाः ॥४०॥
श्री-कृष्ण-लीला-रचना-सुदक्षस्
तत्-प्रेमजानन्द-विफुल्ल-पक्षः ।
दक्षाख्य आह श्रित-कुञ्ज-कक्षः
शुकः समध्यापित-कीर-लक्षः ॥४१॥
सारी प्रोबोधान्तरम् अप्य् एवम् उक्त-प्रकारं श्री-राधा-कृष्णयोः परस्परासक्तत्वाद् अनुत्थानं दृष्ट्वा दक्षाख्यः शुक आह । कीदृशः ? समध्यापितं पाठितं कीराणां लक्षः लक्ष-सङ्ख्या येन । श्रितः कुञ्जस्य कक्षः प्रदेशो येन सः । अत एव श्री-कृष्ण-लीला-रचनायां सुनिपुणः । तस्य श्री-कृष्णस्य प्रेमजानन्देन विशेषेण फुल्लौ पक्षौ यस्य सः ॥४१॥
श्रान्त्योऽरण्य-भ्रमण-भरतः सुष्ठु निद्राति वत्सस्
तस्माद् उच्चैर् न दधि-मथनं दासिकाः संविधेयम् ।
नेत्थं यावद् गृहम् अधि जनन्य् आलपन्त्य् उत्थिता ते
तावत् तूर्णं प्रविश निभृतं कृष्ण शय्या-निकेतम् ॥४२॥
वत्सः पुत्रोऽरण्य-भ्रमणातिशयेन श्रान्तः सन् सुष्ठु निद्राति शेते । तस्मात् हे दासिकाः ! उच्चैर् दधि-मन्थनं युष्माभिर् न विधेयम् । एवम् आलपन्ती वदन्ती सती गृहम् अधि गृहते तव जननी श्री-यशोदा यावद् उत्थिता नास्ति, तावत् हे श्री-कृष्ण ! त्वं शय्या-निकेतं निभृतं यथा स्यात् तथा तूर्णं प्रविश । प्रेम्णः प्राबल्याद्न् निद्रा-भङ्गे सत्य् एवं रुदन्त्य् उत्तिष्ठतीति भावः ॥४२॥
कालिन्द्य्-आद्यास् तव सुरभयः स्तब्ध-कर्णोर्ध्व-वक्त्रा
हम्बा-रावैर् उषसि तृषितान् नाह्वयन्त्यः स्व-वत्सान् ।
युष्मन्-मार्गे निहित-नयनास् त्वन्-मुखालोकनोत्काः
सीदन्त्य् ऊधो-भर-जनितया पीडयेति प्रतीहि ॥४३॥
तव कालिन्द्य्-आद्याः सुरभयो धेनवस् त्वन्-मुखालोकनोत्कण्ठिताः । सत्यो युष्मन्-मार्गे नियुक्त-नेत्राः, स्तब्धा उच्चीभूताः स्थिराः कर्णा ऊर्ध्वं वक्त्राणि च यासां तथा-भूता धीर् भूत्वा उषसि हम्बा-रावैस् तृषितान् स्व-वत्सान् आह्वयन्त्यः । किं वा, तृषितांस् तान् हम्बा-रावैर् आह्वयन्त्यः सत्यः ऊधसां स्तनानां भयो भारस् तज्-जनितया पीडया सीदन्तीति प्रतीहि ॥४३॥
समाप्य वैभातिक-कृत्यम् उत्का
सा पौर्णमासी सह ते जनन्या ।
द्रष्टुं भवन्तं प्रविशेन् न यावच्
छय्यालयं तावद् उपैहि तूर्णम् ॥४४॥
भवन्तं द्रष्टुम् उत्का उत्सुका पौर्णमासी वैभातिक-कृत्यं प्रातः-कृत्यं समाप्य ते जनन्या सह ते शय्यालयं यावन् न प्रविशेत्, तावत् तूर्णं शय्या-गृहम् उपैहि याहि ॥४४॥
अथ कीर-गिरा गोष्ठ-गमने सत्वरो हरिः ।
उत्तस्थौ निभृतं स्वाङ्गान्य् अपकृष्य प्रियाङ्गतः ॥४५॥
न व्याख्यातम् ।
पूर्वं प्रबुद्धा अथ तद्-वयस्या
निकुञ्ज-जालाध्व-समर्पितास्याः ।
वृन्दा-समेता ददृशुर् मृदूनि
तयोः प्रभातोद्गत-चेष्टितानि ॥४६॥
तद्-वयस्या ललितादयः । तयो राधा-कृष्णयोर् मृदूनि प्रभातोद्गत-चेष्टितानि ददृशुः ॥४६॥
राधिका-रति-भरैर् अथोद्धता स्व-प्रियं प्रियकतः कलापिनी ।
सुन्दरीति विदिता विसृज्य तर्ह्य् आजगाम रति-मन्दिराङ्गनम् ॥४७॥
अथ सुन्दरीति नाम्ना विदिता कलापिनी मयूरी प्रियकतः कदम्बात् स्व-प्रियं मयूरं विसृज्य रति-मन्दिराङ्गनम् आजगाम । कीदृशीं ? श्री-राधायाः रत्य्-अतिशयैर् उद्धता । श्लोक-जातिश् च रथोद्धता ॥४७॥
ततः कदम्बाद् अवरुह्य तूर्णम्
उन्मण्डली-कृत्य कलाप-वृन्दम् ।
पुरो नरीनर्ति मुदा परीतो
नाम्ना हरेस् ताण्डविकः कलापी ॥४८॥
यथा पूर्व-श्लोके राधिका रति-भरैर् उद्धता मयूरी, तथात्र कृष्ण-रति-भरैर् उद्धतो नाम्ना ताण्डविकः कलापी मयूरः कलाप-वृन्दं पुच्छ-समूहम् उन्मण्डली-कृत्य हर्षेण व्याप्तः सन् पुरो नरीनर्ति, पुनः पुनर् अतिशयं वा नृत्यति ॥४८॥
सपदि हरिणी रङ्गिण्य्-आख्या विहाय निज-प्रियं
मुदित-हृदया कुञ्ज-द्वारं रसाल-तलात् तदा ।
द्रुततर-गतिर् गत्वा प्रेम्ना विलोल-विलोचनं
विनिहितवती वक्त्राम्भोजे स्व-जीवित-नाथयोः ॥४९॥
रसाल-तलाद् आम्र-वृक्ष-मूलात् रङ्गिण्य्-आख्या हरिणी कुञ्ज-द्वारं गत्वा राधा-कृष्णयोर् मुखाम्भोजे स्व-लोल-नेत्रं प्रेम्णार्पितवती तस्थौ ॥४९॥
ययौ निकुञ्जं स हरेः कुरङ्गः
कृष्णानने प्रेरित-दृक्-तरङ्गः ।
नाम्ना सुरङ्गः कृत-कृष्ण-रङ्गस्
तदाम्र-मूलाद् अलसावशाङ्गः ॥५०॥
सुरङ्ग-नाम्ना कुरङ्गः कृष्णानने दत्त-नेत्रः सन् निकुञ्जं ययौ ॥५०॥
उत्थायेशः सन्निविष्टोऽथ तल्पे
व्याजान् निद्रा-शालिनीं मीलिताक्षीम् ।
दोर्भ्यां कान्तां स्वाङ्कम् आनीय तान्तां
पश्यत्य् अस्या माधुरीं साधु-रीति ॥५१॥
अथ ईशः श्री-कृष्णः साधु-रीति यथा स्यात् तथा तल्पे सन्निविष्टः सन् व्याजात् निद्रा-शालिनीं तान्तां क्षीणां कान्तां स्वाङ्कम् आनीय अस्या माधुरीं पश्यति । अस्त्य्-अर्थे शालिम् ॥५१॥
घूर्णायमानेक्षण-खञ्जरीटं
ललाट-लोलालक-भृङ्ग-जालम् ।
मुखं प्रभाताब्ज-निभं प्रियायाः
पपौ दृशेषत्-स्मितम् अच्युतोऽसौ ॥५२॥
अच्युतः प्रियाया मुखम् ईषत्-स्मितं यथा स्यात् तथा पपौ । कीदृशं ? प्रभाताब्ज-निभं प्रभात-पद्मं यथा नव-फुल्लत्वात भृङ्गैर् अभुक्तत्वान् मधु-पूर्णं तथा । माधुरी-पूर्णं साम्ये विशेषण-द्वयम् आह—घूर्णायेति । घूर्णायमानेक्षणे नेत्रे एव खञ्जरीटौ खञ्जनौ ताव् इव यत्र तत् । ललाटे लोलालका एव भ्रमर-समूहो यत्र तन् मुखम् ॥५२॥
संश्लिष्ट-सर्वाङ्गुलि-बाहु-युग्मम्
उन्मथ्य[^५]** देहं परिमोटयन्तीम् ।
उद्बुद्ध-जृम्भा-स्फुट-दन्त-कान्तिम्
आलोक्य कान्तां मुमुदे मुकुन्दः ॥५३॥**
संश्लिष्टाः परस्पर-मिलिताः सर्वा अङ्गुलयो यत्र तथा-भूतं बाहु-युग्मम् उन्मथ्य । उत्थाप्येति वा पाठः । देहं परिमोटयन्तीं कान्ताम् आलोक्य मुकुन्दो मुमुदे । कीदृशीं ? उद्बुद्धया जृम्भया “हाइ” इत्य्-आख्यया स्फुटा व्यक्ता दन्तानां कान्तिर् यस्यास् ताम् ॥५३॥
स्वीयाङ्कोत्तान-सुप्ताम् उषसि मृदु मृषा रोदनेषत्-स्मितास्याम्
अर्धोन्मुक्ताग्र-केशां विमृदित-कुसुम-स्रग्-धरां छिन्न-हाराम् ।
उन्मील्योन्मील्य घूर्णालस-नयन-युगं स्वाननालोकनोत्कां
कान्तां तां केलि-तान्तां मुदम् अतुलतमाम् आप पश्यन् व्रजेन्दुः ॥५४॥
व्रजेन्दुः तां कान्तां पश्यन् अतुलतमां मुदम् आप । कीदृशीं ? केलौ तान्तां ग्लानाम् उत्फुल्लां वा बाह्ये ग्लानाम् अन्तरे फुल्लाम् इत्य् अर्थः । तनु-ग्लानौ तनु-विस्तारे । स्वीये अङ्के क्रोडे उत्तानं ऊर्ध्व-मुखं यथा स्यात् तथा सुप्ताम् । मृदु कोमलं च तत् मृषा रोदनेन मिथ्या-रोदनेन सह ईषत्-स्मितं चेति तद् आस्ये यस्यास् ताम् । अर्धोन्मुक्तम् अग्र-भागो यस्माद् तथा-भूताः केशा वेणी-कृत-केशा यस्यास् ताम् । विशेषेण मृदितां मर्दितां कुसुमानां स्रजं मालां धरयति इति ताम् । छिन्नो हारो मुक्ता-माला अन्य-रत्न-हारो वा यस्यास् ताम् । घूर्णया अलसं नयन-युगम् उन्मील्योन्मील्य स्वस्य कृष्णस्य मुखावलोकने उत्काम् उत्कण्ठिताम् ॥५४॥
हेमाब्जाङ्ग्याः प्रबल-सुरतायास-जातालसायाः[^६]**
कान्तस्याङ्के निहित-वपुषः स्निग्ध-तापिञ्छ-कान्तेः ।
सम्पाकम्पा नव-जलधरे स्थास्नुतां चेद् अधास्यत्
श्री-राधायाः स्फुटम् इह तदा साम्य-कक्षाम् अवाप्स्यत् ॥५५॥**
इह जगति चेद् यदि सम्पा विद्युत् अकम्पा सती नव-जलधरे स्थास्नुतां स्थैर्यम् अधास्यत्, तदा इह जगति श्री-राधायाः साम्य-कक्षां तुल्यताम् अवाप्स्यत् । कीदृश्याः ? स्निग्धो यः तापिञ्छस् तमाल-वृक्षस् तत्-तुल्या कान्तिर् यस्माद् तस्माद् कान्तस्याङ्के निहित-वपुषः । कृष्णाङ्गे निहित-वपुषस्त्वे हेतुम् आह— प्रबल-सुरतात् य आयासस् तेन जातम् आलसम् अलस-भावो यस्यास् तस्याः । अत्र भावेन गाढालसाया इति पाठे तेन गाढं यथा स्यात् तथालसायाः ॥५५॥
स्फुरन्-मकर-कुण्डलं मधुर-मन्द-हासोदयं
मदालस-विलोचनं कमल-गन्धि-लोलालकम् ।
मुखं स्व-दशन-क्षताञ्जन-मलीमसौष्ठं हरेः
समीक्ष्य कमलेक्षणा पुनर् अभूद् विलासोत्सुका ॥५६॥
कमलेक्षणा हरेर् मुखं वीक्ष्य पुनर् विलासोत्सुका अभूत् । मुखं कीदृशं ? स्वस्या दशनैर् दंशैर् दन्तानां वा क्षतं यत्र तथा-भूतश् चासाव् अञ्जनेन तेन कृतात् । स्वस्याः नेत्र-चुम्बनात् संलग्नाञ्जनेन मलीमसो मलिनाश् चेति तादृशो ओष्ठो यत्र तत् । मलीमसं तु मलिनम् इत्य् अमरः । अन्यत् स्फुटार्थम् ॥५६॥
परस्परालोकन-जात-लज्जा-
निवृत्त-चञ्चद्-दर-कुञ्चिताक्षम् ।
ईषत् स्मितं वीक्ष्य मुखं प्रियाया
उद्दीप्त-तृष्णः पुनर् आस कृष्णः ॥५७॥
श्री-कृष्णः प्रियाया मुखं वीक्ष्य पुनः रति-विषयकोद्दीप्त-तृष्णः आस । परस्परालोकनेन जाता या लज्जा तया निवृत्ते चञ्चती चञ्चले दरम् ईषत् कुञ्चिते अक्षिणी यत्र तत् ॥५७॥
वामेन चाधः-शिर उन्नमय्य
करेण तस्याश् चिबुकं परेण ।
विभुग्न-कण्ठः स्मित-शोभि-गण्डं
मुखं प्रियायाः स मुहुश् चुचुम्ब ॥५८॥
स कृष्णः विशेषेण नम्रतया सह भुग्नो वक्रः कण्ठो यस्य सः । भुज-कौटिल्ये विशेषोऽत्र नम्रता । तथा-भूतः सन् प्रियाया अधः-शिरः शिरोऽधः वामेन करेण उन्नमय्योत्थाप्य, परेण दक्षिणेन करेण चिबुकम् उन्नमय्य स्मितेन शोभिनौ गण्डौ यत्र तन् मुखं मुहुश् चुचुम्ब ॥५८॥
कान्ताधर-स्पर्श-सुखाब्धि-मग्ना
करं धुनानादर-कुञ्चिताक्षी ।
मा मेति मन्दाक्षर-सन्न-कण्ठी
सखी दृशां सा मुदम् आततान ॥५९॥
वामा-भावेन निषध-वाचकमामेति मन्दाक्षरेण सन्न-कण्ठी सा सखी दृशां मुदम् आततान । अन्यत् स्पष्टम् ॥५९॥
अथास्या वयस्याः प्रमोदात् स्मितास्याः
सखीं तां हसन्त्यो मिथः प्रेरयन्त्यः ।
स-शङ्काः समन्तात् प्रभाताद् दुरन्तात्
प्रविष्टा निकुञ्जं स-शब्दालि-पुञ्जम् ॥६०॥
अथास्या राधाया वयस्याः सख्यः दुरन्तात् प्रभातात् दुरन्तम् अतिप्प्रकाशात् भयदं प्रभातं दृष्ट्वा स-शङ्का अपि (ल्यब्-लोपे पञ्चमी) राधायाः कृष्णेन सह विलासात् प्रमोदात् स्मितास्याः । तां राधां सखीत्वात् हसन्त्यः सत्यो मिथः परस्परं त्वम् अग्रेसरः त्वम् अग्रेसरः इति तन्-निकटं प्रेरयन्त्यः सत्यो निकुञ्जं प्रविष्टा बभूवुर् इति शेषः ॥६०॥
अभिलक्ष्य सखीर् विहसद्-वदनाः
सविधोपगता विचलन्-नयनाः ।
दयिताय मुदं द्विगुणां ददती
दयितोरु-युगाद् उदतिष्ठद् इयम् ॥६१॥
इयं श्री-राधा सखीर् अभिलक्ष्य दृष्ट्वा । कीदृशीः ? विहसन्ति वदनानि यासां ताः । विहसन्ताश् च ता वदन्तीति वदनाश् चेति, कर्त्-अर्थेऽनः सविधं निकटम् उपागताः । विचलन्ति माधुरी-दर्शनाय स्फुरन्ति नयनानि यासां ताः । दयितस्य ऊरु-युगात् उदतिष्ठत् । किं कुर्वती ? दयिताय तस्मै शयनाद् द्विगुणां मुदं ददती सती । दयिताय दयितोरु-युगाद् इति विभक्त्य्-अर्थ-भेदाद् अत्र पुनर् उक्तिर् न ॥६१॥
त्वरोत्थिता सम्भ्रम-सङ्गृहीत
पीतोत्तरीयेण वपुः पिधाय ।
पार्श्वे प्रियस्योपविवेश राधा
स-लज्जम् आसां मुखम् ईक्ष्यमाणा ॥६२॥
राधा त्वरोत्थिता सती सम्भ्रमेण वेगेन सम्यग्-गृहीतेन कृष्णस्य पीतोत्तरीयेण स्व-वपुर् आच्छाद्य स-लज्जं यथा स्यात् तथा सखीनां मुखं पश्यन्ती सती तस्य प्रियस्य पार्श्वे उपविवेश ॥६२॥
मिथो-दशन-विक्षताधर-पुटौ विलासालसौ
नखाङ्कित-कलेवरौ गलित-पत्र-लेखा-श्रियौ ।
श्लथाम्बर-सुकुन्तलौ त्रुटित-हार-पुष्प-स्रजौ
मुहुर् मुमुदिरे पुरः समभिलक्ष्य ताः स्व-प्रियौ ॥६३॥
ताः सख्यः स्व-प्रियौ सम्यक् दृष्ट्वा मुमुदिरे । कीदृशौ ? मिथो रदनैर् दन्तैर् विशेषेण क्षताधर-पुटौ ययोस् तौ । विलासाद् अलसौ । नखैर् अङ्किते कलेवरे ययोस् तौ । श्लथाम्बरे सुष्ठु कुन्तलाश् च ययोस् तौ । त्रुटिता हारा मुक्ता-मणि-मालाः पुष्प-स्रजश् च ययोस् तौ ॥६३॥
मध्येऽच्युताङ्ग-घन-कुङ्कुम-पङ्क-दिग्धं
राधाङ्घ्रि-यावक-विचित्रित-पार्श्व-युग्मम् ।
सिन्दूर-चन्दन-कणाञ्जन-बिन्दु-चित्रं
तल्पं तयोर् दिशति केलि-विशेषम् आभ्यः ॥६४॥
आभ्यः सखीभ्यः तल्पं शय्यां तयोः केलि-विशेषं दिशति कथयति । तल्पं कीदृशं ? मध्ये इत्य् आदि विशेषण-त्रयं विशिष्टम् ॥६४॥
प्रम्लिष्ट-पुष्पोच्चय-सन्निवेशां
ताम्बूल-रागाञ्जन-चित्रिताङ्गीम् ।
व्यक्तीभवत्-कान्त-विलास-चिह्नां
शय्याम् अपश्यन् स्व-सखीम् इवाल्यः ॥६५॥
आल्यः सख्यः स्व-सखीं राधाम् इव शय्याम् अपश्यन् । शय्या-राधयोः साम्यम् आह—प्रम्लिष्टेत्य्-आदि-विशेषण-त्रयेण प्रमर्दित-पुष्प-समूहस्य सन्निवेशः स्थितिर् यत्र ताम् ॥६५॥
प्रमिताक्षराञ्चित-परिहास-ततिं
गदितुं हरेश् चल-रद-च्छदनम् ।
सुतनोश् च नम्रम् अभितस् त्रपया
वदनाम्बुजं पपुर् अमूः स्व-दृशा ॥६६॥
अमूः सख्यः स्व-दृशा हरेः प्रमिताक्षराञ्चिनीम् अल्पाक्षर-युक्तां परिहास-ततिं वक्तुं चल-रद-च्छदनं चञ्चलौष्ठाधरम् । औष्ठाधरौ तु रदन-च्छदौ दशन-वाससी इत्य् अमरः । सुतनोः राधायास् त्रपया नम्रं वदनाम्बुजं पपुः । पपुर् इति माधुर्य-वदनयोर् अभेदात् ॥६६॥
वक्षः स्वं दर्शयंस् ताभ्यो
दृग्-भङ्ग्योवाच ता हरिः ।
दिदृक्षुः स्व-प्रिया-वक्त्र-
भाव-शावल्य-माधुरीम् ॥६७॥
स्व-प्रिया-वक्त्रस्य भावानां शावल्येन मिलनेन या माधुरी तां दिदृक्षुर् हरिस् ताभ्यो दृग्-भङ्ग्या स्वं वक्षः दर्शयन्न् उवाच ॥६७॥
विधुं प्रयस्यन्तम् अवेक्ष्य
कान्तं विश्लेष-भीतोषसि पश्यताल्यः ।
दिदृक्षयेवाम्बर-चित्र-पट्यां
राधेन्दु-लेखा-शतम् आलिलेख ॥६८॥
उषसि प्रातः-काले विधुं कान्तं प्रयस्यन्तम् अवेक्ष्य विश्लेष-भीता राधा-नाम्नी तारा राधा विशाखा इत्य् अमरः । कान्तं दिदृक्षया इवाम्बर-रूप-चित्र-पटे इन्दु-लेखा-शतम् आलिलेख इत्य् उक्त्वा श्लेषेण राधा-कृतानि स्व-वक्षः-स्थल-चिह्नान्य् अदर्शयत् । मेघान्तरित-तेजः-पुञ्जं गगने इन्दुलेखेव ॥६८॥
इति निगदति कृष्णे वीक्ष्य साऽग्रे वयस्याः
प्रहसित-वदनास् ताः सङ्कुचल्-लोल-नेत्रा ।
विकसद्-अमल-गण्डं दोलितारेचित-भ्रूः
प्रियम् अनृजु-कटाक्षैः पश्यति स्म घ्नतीव ॥६९॥
ताः प्रहसित-वदना वयस्या अग्रे वीक्ष्य विकसद्-अमल-गण्डं यथा स्यात् तथा दोलितारेचित-भ्रूर् दोलिते चालिते आ सम्यक् रेचिते क्षिप्ते च भ्रूवौ यया सा । सङ्कुचन्ती लोले नेत्रे यस्याः सा । प्रियं घ्नतीव वक्र-कटाक्षैः पश्यति स्म ॥६९॥
हेलोल्लासा दर-मुकुलिता बाष्प-सान्द्रारुणान्ता
लज्जा-शङ्का-चपल-चकिता भङ्गुरेर्ष्या-भरेण ।
स्मेर-स्मेराद् दयित-वदनालोकनोत्फुल्ल-तारा
राधा-दृष्टिर् दयित-नयनानन्दम् उच्चैर् व्यतानीत् ॥७०॥
राधा-दृष्टिः कृष्ण-नयनानन्दम् उच्चैर् व्यतानीत् । कीदृशी दृष्टिः ? हेलोल्लासा हेलया शृङ्गार-भावजया क्रियया उल्लासो यत्र सा । दरम् ईषन् मुकुलिता मुद्रिता । बाष्पेण नेत्र-जलेन सान्द्रा पूर्णा । अरुणोऽन्तो यस्याः सा । लज्जया शङ्कया च चपला चञ्चला चासौ चकिता आश्चर्यवती चेत् सा । ईर्ष्या-भरेण भङ्गुरा स्मेर-स्मेरा अत्युल्लासाद् धेतोः कृष्ण-मुखावलोकने विषये उत्फुल्ला तारा यत्र ॥७०॥
इत्थं मिथः प्रेम-सुखाब्धि-मग्नयोः
प्रगेतनीं विभ्रम-माधुरीं तयोः ।
निपीय सख्यः प्रमदोन्मदास् तदा
तदात्व-योग्याचरणं विसस्मरुः ॥७१॥
तदा इत्थम् अनेन प्रकारेण तयोः प्रगेतनीं रात्रि-शेषोत्पन्नां विभ्रम-माधुरीं निपीय आनन्दोन्मत्ताः सख्यः तदात्व-योग्यं तत्-काल-योग्यम् आचरणं स्व-स्व-गृह-गमनं विसस्मरुः ॥७१॥
विलोक्य लीलामृत-सिन्धु-मग्नौ
तौ ताः सखीश् च प्रणयोन्मदान्धाः ।
वृन्दा प्रभातोदय-जातशङ्का
निजेङ्गितज्ञां निदिदेश शारीम् ॥७२॥
वृन्दा तौ राधा-कृष्णौ लीला-समुद्र-मग्नौ ताः सखीश् च प्रणयोन्मदान्धा वीक्ष्य निजेङ्गितज्ञां शारीं निदिदेश ॥७२॥
गुरु-लज्जा-भर्तृ-भीति-लोक-हास-निवारिका ।
शुभाख्या सारिका प्राह राधिका बोध-साधिका ॥७३॥
राधिकाया बोध-साधिका शुभाख्या सारिका प्राह ॥७३॥
आगन्ता ग्राहयित्वा तव पतिर् अधुना गोष्ठतः क्षीर-भारान्
उत्तिष्ठोत्तिष्ठ राधे तद् इह कुरु गृहे मङ्गलां वास्तु-पूजाम् ।
इत्थं यावद् धवाम्बा तव न हि शयनाद् उत्थिता वावदन्ती
तावच् छय्या-निकेतं व्रज सखि निभृतं कुञ्जतः कञ्ज-नेत्रे ॥७४॥
गुरु-लज्जा-भर्तृ-भीति-निवारणम् आह—हे सखि राधे ! तव धवस्य स्वामिनः अम्बा माता जटिला तस्या वाक्यम् आह—हे राधे ! तव पतिः क्षीर-भारान् ग्राहयित्वा गोष्ठाद् अधुना आगन्ता आगमिष्यति, तत् तस्मात् त्वम् उत्तिष्ठोत्तिष्ठ, गृहे मङ्गलां वास्तु-पूजां कुरु । इत्थं वावदन्ती अतिशयेन पुनः पुनर् वा वदन्ती सती यावच् छयनान् न हि उत्थितास्तीति शेषः । हे कञ्ज-नेत्रे ! तावन् निभृतं यथा स्यात् तथा कुञ्जतः शय्या-निकेतं व्रज ॥७४॥
तारा-पतिना सह सखि तारा
निखिल-निशाकृत-विविध-विहाराः ।
लीनाः सम्प्रत्य् अम्बर-पटले
त्वम् अपि च कुञ्जाद् गृहम् अय सरले ॥७५॥
हे सखि ! तारा-पतिना चन्द्रेण सह तारा । कीदृश्यः ? निखिल-निशायां कृता विविध-विहारा याभिस् ताः । अम्बर-पटले आकाशे सम्प्रति लीनाः । त्वम् अपि कुञ्जाद् गृहम् अय गच्छ । अयम् उदयति इत्य् आदिवत् परस्मैपदं महा-कवि-प्रयोगात् ॥७५॥
चन्द्र-वर्त्म-कपिशं रवि-किरणैः
राज-वर्त्म-मिलितं जन निचयैः ।
कुञ्ज-वर्त्म-कुतुकं त्यज सरले
घोष-वर्त्म-गमनं हितम् अधुना ॥७६॥
रवि-किरणैश् चन्द्रस्य वर्त्म कपिशं पीत-वर्णम् अभूद् इति जन-समूहै राज-वर्त्म-मिलितं कुञ्ज-वर्त्मनि कुतुकं कौतूहलं त्यज । अतः गोष्ठ-गमनं तव हितम् ॥७६॥
शङ्का-पङ्काकलित-हृदया शङ्कतेऽस्या धवाम्बा
छिद्रान्वेषी पतिर् अतिकटुः सार्थ-नामाभिमन्युः ।
रुष्टाभीक्ष्णं परिवदति सा हा ननन्दापि मन्दा
प्रातर् जातं तद् अपि सरलां कृष्ण नैनां जहासि ॥७७॥
हे कृष्ण ! प्रातर् जातं तद् अपि सरलाम् एनां न जहासि । सरला भवति शुद्ध-प्रेमवती । अत्र हेतुम् आह—अस्या धवाम्बा श्वश्रूः शङ्का-रूप-पङ्केनाकलितं व्याप्तं हृदयं यस्याः सा शङ्कते सार्थ-नामा पतिर् अभिमन्युः । अभि सर्वतो-भावेन मन्युः क्रोध-रूपः । अतिकटुः क्रोधस्य कटुत्वं स्वरूपम् एवं पुनश् छिद्रान्वेषी । सा प्रसिद्धा मन्दा ननन्दा रुष्टा सत्य् अभीक्ष्णं परिवदति कलङ्कं करोति ॥७७॥
शारी-वचो-मन्दर-शैल-पात-
सङ्क्षुब्ध-हृद्-दुग्ध-पयोधिर् एषा ।
अथोद्भ्रमन्-नेत्र-नवीन-मीना
वियोग-दीना शयनाद् उदस्थात् ॥७८॥
अथ शारी-वाक्य-रूप-मन्दर-शैलस्य पातेन सङ्क्षुब्धो हृदय-रूप-दुग्ध-समुद्रो यस्याः सा । अत उद्भ्रमन्तौ नेत्र-रूप-नवीन-मीनौ बालक-मत्स्यौ यस्याः सा । एवं-भूता सती एषा राधा वियोग-दीना कृष्ण-सङ्ग-विच्छेदे आर्तापि शयनाद् उदस्थाद् उत्थितवती ॥७८॥
कृष्णोऽपि कान्तं वृषभानुजायाः
पश्यन् मुखं भीत-विलोल-नेत्रम् ।
नीलं सुचीनं दयिता-निचोलं
गृह्णन् स्व-तल्पात् त्वरयोदतिष्ठत् ॥७९॥
कृष्णोऽपि राधायाः कान्तं कमनीयं मुखं पश्यन् । दयितायास् तस्या नीलं सुचीनम् अतिसूक्ष्मं निचोलं वस्त्रं गृह्णन् उदतिष्ठद् उत्थितवान् ॥७९॥
परिवर्तित-संव्यानौ मिथस् ताव् अथ शङ्कितौ ।
परस्पर-करालम्बौ निरगातां निकुञ्जतः ॥८०॥
अथ तौ राधा-कृष्णौ शङ्कितौ सन्तौ मिथः परस्परं करालम्बौ भूत्वा निकुञ्जान् निरगाताम् । कीदृशौ ? परिवर्तित-संव्याने उत्तरीय-वस्त्रे ययोस् तौ ॥८०॥
राधा-पाणिं सव्येऽसव्ये पाणौ बिभ्रद्-वेणुं कृष्णः ।
रेजे कुञ्जान् निर्यन् यद्वद् विद्युन्-माला-श्लिष्टाम्भोदः ॥८१॥
सव्ये वामे पाणौ राधा-पाणिं, असव्ये दक्षिणे पाणौ वेणुं बिभ्रत् कृष्णः कुञ्जान् निर्यन् निर्गच्छन् विद्युन्-मालालिङ्गित-मेघवद् रेजे ॥८१॥
हैमं भृङ्गारम् एका व्यजनम् अथ परा स्वर्ण-दण्डं दधाना
काप्य् आदर्शं सुदर्शं घुसृण-मलयजामत्रम् अन्या विचित्रम् ।
काचित् ताम्बूल-पात्रं मणि-चितम् अपरा शारिकां पञ्जर-स्थाम्
इत्थं सख्यः कियत्यः प्रमुदित-हृदया निर्ययुः कुञ्ज-गेहात् ॥८२॥
एका सखी हैमं सौवर्णं भृङ्गारं झारीं जल-पात्र-विशेषं, अपरा अन्याः स्वर्ण-निर्मितो दण्डो यस्य तत् व्यजनं, कापि सुष्ठु दर्शो दर्शनं यत्र तम् आदर्शं दर्पणं, अन्या विचित्रं कुङ्कुम-चन्दनानाम् अमत्रं पात्रम् । काचिन् मणि-युक्तं ताम्बूल-पात्रं, अपरा पिञ्जर-स्थां शारिकां दधाना । इत्थं कियत्यः सख्यः कुञ्ज-गृहान् निर्ययुः । कीदृश्यः ? प्रमुदितं प्रकर्षेण हृषितं हृदयं यासां ताः ॥८२॥
माहेन्द्र-कान्त-च्छदनं स-काञ्चनं
दान्तं स-सिन्दूर-समुद्गकं परा ।
आपन्न-सत्त्वा कुच-कुट्मलोपमं
कुञ्जाद् गृहीत्वा निरगान् मृदु-स्मिता ॥८३॥
इन्द्रनील-मणेश् छदनम् आच्छादनं यत्र स-काञ्चनं स्वर्ण-सहितं दान्त-हस्ति-दन्त-जातं स-सिन्दूर-समुद्गकं सिन्दूर-सहितं तद्-आधार-सम्पुटम् । कीदृशं सम्पुटं? आपन्न-सत्त्वायाः स-गर्भायाः स्त्रियः कुच-कुट्मलोपमम् । कुच-कुट्मलस्येत्य् अत्र कुचस्य स-गौर-शुक्लत्वात् स्वर्ण-दान्त-सम्पुटेन स्तनोपरि कालिम्नः । इन्द्रनील-मणि-कृत-च्छदनेन च सादृश्यम् । स्त्रीणां गर्भे जाते सति कुचयोः सशुक्ल-गौरत्वं, तद्-उपरि नीलस्याधिक्यं च भवति इति ज्ञेयम् । आपन्न-सत्त्वा स्याद् गुर्विण्य् अन्तर्वत्नी च गर्भिनी इत्य् अमरः ॥८३॥
आश्लेष-सञ्छिन्न-गुणात् परिच्युतं
हाराल् लसन्-मौक्तिक-सञ्चयं मुदा ।
विचित्य काचित् स्व-पटाञ्चले दृढं
निबध्नती कुञ्ज-गृहात् विनिर्ययौ ॥८४॥
आलिङ्गनेन सञ्छिन्न-सूत्रात् हारात् परिच्युतं लसन्-मौक्तिक-समूहं विचित्य ॥८४॥
ताडङ्क-केलि-विभ्रष्टं तल्पाद् आदाय सत्वरा ।
निर्गत्य स्वेश्वरी-कर्णे युयोज रति-मञ्जरी ॥८५॥
ताडङ्कं कर्ण-भूषणम् ॥८५॥
तल्प-प्रान्ताद् उपादाय कञ्चुलीं रूप-मञ्जरी ।
प्रिय-नर्म-सखी सख्यै निर्गत्य निभृतं ददौ ॥८६॥
प्रिय-नर्म-सखी रूप-मञ्जरी सख्यै राधा४ ॥८६॥
पतद्-ग्रहम् उपादाय दासिका गुण-मञ्जरी ।
ताम्बूलं चर्वितं ताभ्यो वितरन्ती बहिर् ययौ ॥८७॥
गुण-मञ्जरी पतद्-ग्रहं ताम्बूल-चर्विताधार-पात्रम् ॥८७॥
मञ्जुलाली तयोर् अङ्गाच् च्युत-माल्यानुलेपनम् ।
तल्पाद् आदाय सर्वाभ्यः प्रयच्छन्ती विनिर्गता ॥८८॥
मञ्जुलाली तयो राधा-कृष्णयोर् अङ्गात् ॥८८॥
विलोक्याग्रे मेघाम्बर-वृत-शरीरं प्रियतमं
वयस्यां तां पीताम्बर-परिवृताङ्गीं प्रमुदिताम् ।
हसन्त्यस् ताः सख्यः कर-पिहित मुख्यः प्रतिदिशं
दिशन्त्यश् चान्योन्यं कुटिल-चल-दृग्भिर् मुमुदिरे ॥८९॥
नील-वस्त्र्रावृतं कृष्णं, पीत-वस्त्रावृतां राधां विलोक्य अन्योन्यं चपल-दृग्भिर् दिशन्त्यः सख्यो मुमुदिरे ॥८९॥
समीक्ष्य तासां परिहास-भङ्गीम्
अन्योन्य-वक्त्रार्पित-फुल्ल-नेत्रौ ।
समुच्छलत्-प्रेम-सुखाब्धि-मग्नौ
चित्रार्पिताङ्गाव् इव ताव् अभूताम् ॥९०॥
तौ राधा-कृष्णौ । तासां सखीनाम् । परिहास-भङ्गीं दृष्ट्वा अन्योन्यं वक्त्रे अर्पिते फुल्ल-नेत्रे याभ्यां तौ । समुच्छलत्-प्रेम-सुखाब्धौ मग्नौ सन्तौ चित्रे चित्र-पटे अर्पिते लिखितेऽङ्गेऽङ्गाङ्गिनोर् अभेदान् मूर्ती ययोस् ताव् इवाभूताम् । ययोर् इति सम्बन्धोऽत्र स्थानदेश इति यौ अर्थात् तौ एव चित्र-पटे लिखिताव् इवाभूताम् इति ज्ञेयम् ॥९०॥
घन-श्यामं चीनं वसनम् अभिलीनं[^७]** प्रिय-तनौ
क्षमा नासीत् कान्ता स्वम् अपि परिचेतुं घन-रुचौ ।
स्वम् अज्ञासीत् स्फीतं हरिर् अपि न पीतं प्रियतमा-
तनौ लीनं कनक-रुचि कम्बाव् इव पयः ॥९१॥**
कान्ता श्री-राधा घन-रुचौ प्रियस्य तनौ अतिनीलं चीनं सूक्ष्मं घन-श्यामं स्वम् अपि वसनं परिचेतुं क्षमा समर्था नासीत् । हरिर् अपि कनकस्य रुग् इव रुक् कान्तिर् यस्यास् तस्यां प्रियतमा-तनौ लीनं युक्तं स्फीतं प्रकाशितं चीनं सूक्ष्मं स्वम् अपि पीतं वस्त्रं नाज्ञासीत् । कस्मिन् किम् इव ? कम्बौ शङ्खे पयः दुग्धम् इव शङ्ख-दुग्धयोर् वर्ण-साम्याद् इव तयोः वर्ण-वस्त्रयोः साम्याद् अज्ञानम् ॥९१॥
तयोर् लीला-सुधा-पान-प्रत्यूहामर्ष-सङ्कुला ।
निन्दन्त्य् अरुणम् उद्यन्तम् अथाह ललिता सखीम् ॥९२॥
लीला-सुधा-पानस्य प्रत्यूहेन विरोधेनामर्षः क्रोधस् तेन सङ्कुला ललिता उद्यन्तम् अरुणं निन्दन्त्य् आह । विघ्नोऽन्तराय इत्य् अमरः ॥९२॥
उषसि वर-वधूनां पश्य राधेऽरुणोऽयं
रमण-सहित-लीला-भङ्गतः पाप-रुग्भिः ।
गलित-पद-युगोऽप्य् अद्यापि तन् नो जहाति
ध्रुवम् इति वचनं यद् दुस्त्यजः स्व-स्वभावः ॥९३॥
अयम् अरुणः, उषसि वर-वधूनां रमण-सहित-लीला-भङ्गतः पापं तस्मात् रुग्भिः कुष्ठ-रोगैर् गलित-पद-युगोऽप्य् अद्यापि तत् तत् लीला-भङ्गं न जहातीति हेतोः स्व-स्वभावो दुस्त्यज इति वचनं ध्रुवं सत्यम् ॥९३॥
अरुणारुणे निदधती ततोऽम्बरे
रति-केलि-भङ्गज-रुषाऽरुणां दृशम् ।
ललितोपहास-जनित-स्मितानना
वृषभानुजाह मृदु मञ्जुभाषिणी ॥९४॥
ततोऽरुणेनारुण-वर्णे अम्बरे गगने रति-केलि-भङ्गज-रुषाऽरुणां दृशं निदधती । ललितोपहासेन जनित-स्मितम् आननम् अस्याः सा मञ्जुभाषिणी ह ॥९४॥
अनूरुर् अप्य् अस्तम् अयन् क्षणार्धान्
नभो विलङ्घ्योदयम् एति सोऽयम् ।
चेत् सोरुम् एनं स विधिर् व्यधास्यद्
वार्तापि रात्रेर् न तदाभविष्यत् ॥९५॥
सोऽयम् अरुणः, अनूरुर् ऊरु-रहितोऽपि अस्तम् अयन् क्षणार्धात् क्षणार्ध-कालम् अभिव्याप्य आकाशम् उल्लङ्घ्य उदयम् एति । अद्यापि अरुणः षष्टि-घटिकानन्तरं पुनर् उदयति, तद् अपि क्षणार्ध-कथनं तस्या अनुराग-बाहुल्यात् । विधिश् चेद् यदि एनम् अरुणं सोरुं व्यधास्यत्, तदा रात्रेर् वार्तापि नाभविष्यत् । अनेन विधातुः शोभन-सृष्टि-कर्तृत्वं वर-स्त्रीणां भाग्यवत्त्वं च ध्वनितम् ॥९५॥
मनोरमां वीक्ष्य विभात-लक्ष्मीं
निपीय तस्या वचनासवं च ।
मुदोन्मदो विस्मृत-गोष्ठ-यानः
प्राणेश्वरीं ताम् अवदन् मुकुन्दः ॥९६॥
विभात-लक्ष्मीं प्रातः-शोभां वीक्ष्य राधाया वचनामृतं च पीत्वा हर्षेणोन्मदः सन् विस्मृत-गोष्ठ-गमनो मुकुन्दस् तां राधाम् अवदत् ॥९६॥
इनं प्रभातोपगतं समीक्ष्य
कान्तेव कान्तान्तर-भुक्त-कान्तम् ।
पश्यान्य-दिक्-सङ्ग-कषायिताङ्गं
प्राचीयम् ईर्ष्यारुणितेव जाता ॥९७॥
इनं सूर्यं प्रभाते उप समीपे प्राप्तं वीक्ष्येयं प्राची दिक् ईर्ष्यया एवारुणिता जाता । कीदृशं ? अन्या दिशः सङ्गेन कषायितम् अङ्गं यस्य तम् । कं केव ? कान्तान्तर-भुक्तं कान्तम् अन्य-नायिकान्तर-भुक्तं कान्तं वीक्ष्य कान्तेव ॥९७॥
पश्योन्मत्ते द्विजेशोऽप्य् अखिल-जन-तमः-स्तोम-हन्तापि शान्तः
कान्तोऽयं ते समन्तात् सपदि निपतितो वारुणीं सन्निषेव्य ।
इत्थं स्वीयेन सङ्ग-प्रमुदित-नलिनी-हास-सञ्जात-लज्जा
शङ्के वक्त्रं पिधत्ते ह्य् उषसि कुमुदिनि सङ्कुचद्भिर् दलैः स्वैः ॥९८॥
हे उन्मत्ते ! कुमुदिनि ! त्वं पश्य ते कान्तो द्विजेशश् चन्द्रः स एव द्विजेशो ब्राह्मण-श्रेष्ठोऽपि अखिल-जनानां तमांस्य् अन्धकारा एव तमांसि पापानि तेषां समूहस्य हन्तापि शान्तः शीतलः स एव शान्तः शान्ति-गुण-युक्तोऽपि भूत्वा वारुणी-दिग् एव वारुणा मदिरा तां सन्निषेव्य । अत्र सेवा गमनं सैव पानं तत् कृत्वा सपदि निपतितस् ते जाति-भ्रष्टोऽभूद् इति शेषः । इत्थं स्वीयेन स्वस्य कान्तस्य सूर्यस्य सङ्गेन प्रमुदितायाः नलिन्याः हासेन सञ्जात-लज्जा कुमुदिनी उषसि सङ्कुचद्भिः स्वैर् दलैर् वक्त्रं पिधत्ते इत्य् अहं शङ्के ॥९८॥
दृष्ट्वा तमः क्षयम् अमी विधुनान्य-पुष्टा
नक्तं तमश्-चय-निभाश् चकिताः प्रभाते ।
मित्रं तद्-आश्रयतया तमसा चरन्तीं
ग्रस्तं कुहूर् इति कुहूं स्व-गिराह्वयन्ति ॥९९॥
अमी तमश्-चय-निभा अन्धकार-समूह-वर्णा अन्य-पुष्टाः कोकिला नक्तं रात्रौ विधुना कर्त्रा तमः-क्षयम् अन्धकार-नाशं दृष्ट्वा चकिताः । तमस्-तुल्यानाम् अस्माकम् अपि क्षयः स्याद् इति भीताः सन्तः प्रभाते कुहूर् इति स्व-गिरा कुह्वा सम्बोधन-रूपया स्व-वाण्या कुहूम् अमावस्याम् आह्वयन्ति । कीदृशीं ? तमसा राहुणा कर्त्रा तद्-आश्रयतया ज्योतिः-शास्त्रे चन्द्रस्यामा कला अमावस्यायां सूर्ये तिष्ठतीति हेतोस् तस्य चन्द्रस्याश्रयतया ग्रस्तं मित्रं सूर्यं चरन्तीं गच्छन्तीं प्राप्नुवन्तीं कुह्व्-आगमने सति तया प्राप्ते गृहीते चन्द्र-युक्त-सूर्ये आगच्छति सति । तयोर् ग्रासिनि राहौ आगत्य तौ ग्रसति सति अन्धकाराणाम् अस्माकम् अपि रक्षा भविष्यति इति भावः । तमस् तु राहुः स्वर्-भानुः सैंहिकेयो विधुन्तद इति । सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दु-कला कुहूर् इति चामरः ॥९९॥
वसन्त-कान्त-संसर्ग-जातानन्द-भराटवी ।
कपोती-घूत्कृति-मिषात् शीत्करोतीव सोन्मदा ॥१००॥
वसन्ते कान्तस्य संसर्गेण जात आनन्दातिशयो यस्याः सा अटवी सोन्मदेन कपोती-घूत्कृति-मिषात् शीत्करोति । उत्कृष्टो यो मदो मदन-मदस् तेन सहिता, अर्थान् नायिका यथा कान्त-संसर्ग-जातानन्द-भरा सती शीत्करोति, तथा । शीत्कारस् तु कान्त-संसर्ग-समये पीडा-जन्य-सुख-कृत-शब्द-विशेषः ॥१००॥
पश्यानुसरति चञ्चल-भृङ्गः
कैरविणी-कुल-केलि-पिशङ्गः ।
नलिनी-कोषे निशि कृत-सङ्गां
भृङ्गीं शशिमुखि कृत-नति-भङ्गाम् ॥१०१॥
कैरविणी-कुलेषु केलिना पिशङ्गस् तत्-परागैः पीत-वर्णः चञ्चल-भृङ्गः मधु-पानार्थं नलिनी-कोषे स्थितां भृङ्गीं रात्रौ पद्मस्य मुद्रितत्वे तत्र कृत-सङ्गाम् इदानीं तु कृतो नति-भङ्गी यया ताम् अनुसरति पश्य ॥१०१॥
कान्तम् आयान्तम् आशङ्क्यारुणाशु-द्विगुणारुणम् ।
कोकी कोकनदं चञ्च्वा चुम्बत्य् आनन्द-विह्वला ॥१०२॥
कोकी चक्रवाकी अरुण-किरणेन द्विगुणारुणं कोकनदं रक्तोत्पलम् आयान्तम् आगतं कान्तम् आशङ्क्य चुम्बति ॥१०२॥
कलस्वनाख्यः कल-कण्ठि हंसः
समीक्ष्य नौ सन्मद-फुल्ल-पक्षः ।
रिरंसुम् अप्य् एष विसृज्य हंसीं
तटं तटिन्याः पुरतः समेति ॥१०३॥
हे कल-कण्ठि ! एष कलस्वन-नामा हंसः नौ आवां समीक्ष्य रिरंसुं रमणेच्छुम् अपि हंसीं विसृज्य तटिन्या यमुनायास् तटं पुरतोऽग्रे समेति सम्यक् हृष्टः समागच्छति ॥१०३॥
स्व-सहचर-विसृष्टं स्वामि-भुक्तं मृणालं
मद-कल-कलकण्ठी बिभ्रती पश्य चञ्च्वा ।
रमणम् अनु समेति त्वन्-मुखाब्जार्पिताक्षी
सरसिज-मुखि नाम्ना तुण्डिकेरी मराली ॥१०४॥
हे सरसिज-मुखि ! मद-कला मदोत्कटा कलो मधुरास्फुट-ध्वनिः कण्ठे यस्याः सा । तुण्डिकेरी नाम्नी हंसी स्व-सहचरेण हंसेन विसृष्टं त्यक्तं स्वामि-भुक्तम् अर्ध-भुक्तं मृणालं चञ्च्वा बिभ्रती त्वन्-मुखाब्जेऽर्पितेऽक्षिणी यया स्थित्भावा सती रमणम् अनु रमणस्य पश्चात् समेति सम्यक् चलति पश्य । मदोत्कटो मद-कल इति ध्वनौ तु मधुरास्फुटे कल इत्य् अमरः ॥१०४॥
मलय-शिखर-चारी पङ्कजामोद-धारी
व्रतति-नट-कुमारी लास्य-शिक्षाधिकारी ।
वहति जल-विहारी वायुर् आयास-दारी
स-रमण-वर-नारी स्वेद-जालापहारी ॥१०५॥
वायुर् वहति । वायुः कीदृशः ? मलय-शिखर-चारीत्य् आदि विशेषण-द्वयेन सुगन्धः । व्रततिर् लतैव नट-कुमारी, तस्या लास्य-शिक्षायाम् अधिकारीत्य् अनेन मन्दः । जल-विहारीत्य् अनेन शीतलः । अत आयासं दारयितुं शीलं यस्य सः । रमणयोः स्वेद-समूह-हारी ॥१०५॥
इतीशयोः सुमधुर-वाग्-विलासयोः
समीक्ष्य तां स्व-भवन-यान-विस्मृतिम् ।
सखीश् च ताः स्मित-रुचिरा मुदोन्मदा[^८]
वनेश्वरी दिवस-भियास सोन्मनाः ॥१०६॥
सा वनेश्वरी वृन्दा ईशयोस् तां स्व-भवन-गमन-विस्मृतिं मदोन्मदाः सखीश् च समीक्ष्य उन्मना आस ॥१०६॥
अथ वृन्देङ्गिताभिज्ञा समय-ज्ञा तरु-स्थिता ।
पद्यम् उद्द्योतयामास कक्खटी वृद्ध-मर्कटी ॥१०७॥
वृन्देङ्गित-ज्ञा कक्खटी नाम्नी वृद्ध-मर्कटी वानरी सद्यः पपाठ ॥१०७॥
रक्ताम्बरा सतां वन्द्या प्रातः-सन्ध्या तपस्विनी ।
ऊर्ध्व-प्रसर्पद्-अर्कांशुर् जटिलेयम् उपस्थिता ॥१०८॥
इयं प्रातः-सन्ध्यैव तपस्विनी सोपस्थिता । कीदृशी ? रक्ताम्बरा किरणै रक्ताकाशम् एव रक्त-वस्त्रं यस्याः । ऊर्ध्वं प्रसर्पन्तोऽर्कांशव एव जटास् तद्-युक्तां ऊर्ध्वे प्रसर्पन्न् अर्कांशुर् यस्याः सा चासाव् इयं जटिला । कीदृशी रक्ताम्बरा ? रक्तं गैरिक-रञ्जितम् अम्बरं वस्त्रं स्नात्वा परिधानार्थं स्कन्धे स्थितं यस्याः । सतां गोपानां वन्द्या प्राचीनतरत्वात् जाति-श्रेष्ठत्वाच् च विरोध-भयेन वा । यद् वा, असतां कलह-रचकानां वन्द्या कलह-शिक्षा-गुरुत्वात् । पुनः कीदृशी ? प्रातः-सन्ध्यायां यमुनायां स्नात्वा जपादि तपस्कारिणी ॥१०८॥
अथ जटिलाया अतिकुटिलायाः
श्रवण-सशङ्कौ श्रित-भय-पङ्कौ ।
वर-तनु-कृष्णाव् अतिरति-तृष्णाव्
अपि निरितस् तौ व्रज-पुर-शस्तौ ॥१०९॥
अथ व्रज-पुरस्य शस्तौ मङ्गल-रूपौ तौ वर-तनु-कृष्णौ कुटिलायाः कौटिल्यवत्याः जटिलायाः जटिलेति नाम-श्रवण-मात्रेण स-शङ्कौ श्रित-भय-पङ्कौ शन्तौ निरितः निर्गच्छतः ॥१०९॥
भ्रंश्यद्-दुकूल-चिकुर-स्रजम् उन्नयन्तौ
भीतौ पृथग्-गहन-वर्त्मनि चापयान्तौ ।
तौ वीक्ष्य भीति-तरलौ जटिलेति नाम्ना
सख्यस् ततस् तत इतश् चकिता निरीयुः ॥११०॥
जटिलेति नाम्ना भीति-तरलौ भूत्वा भ्रंश्यन्तीः दुकूल-चिकुर-स्रजौ वस्त्र-केश-माला उन्नयन्तौ ऊर्ध्वं नयन्तौ पृथग् भूत्वा गहन-वर्त्मनि वन-मार्गे गूढ-मार्गे चापयान्तौ पलायन्तौ च तौ राधा-कृष्णौ वीक्ष्य सख्यस् ततस् ततः स्थानात् इतस् ततो निरीयुः निर्जग्मुर् अपालयन् । निनिल्युर् इति पाठे ततोऽन्यत्र लीना बभूवुः ॥११०॥
वामे चन्द्रावलि परिजनान् घोष-वृद्धान् पुरस्तत्
कृष्णः पश्चात् कुटिल-जटिलाम् आगतां मन्यमानः ।
यान्तीं कान्तां स-भय-चटुलां दक्षिणे द्रष्टुम्
उत्कश् चञ्चद्-ग्रीवं दिशि दिशि दृशौ प्रेरयन् गोष्ठम् आयात् ॥१११॥
वामे पुरस्ताद् अग्रे पश्चात् बन्धु-परिजनादीन् मन्यमानः कृष्णः दक्षिणे पथि कान्तां द्रष्टुम् उत्कः चञ्चत् ग्रीवं यथा स्यात् तथा दिशि दिशि दिशि दृशौ प्रेरयन् गोष्ठम् आयात् ॥१११॥
अनुगता जटिलेत्य् अभिशङ्किनी
गुरु-नितम्ब-कुचोद्वहनाकुला ।
द्रुत-विलम्बित-वल्गु ययौ व्रजं
कर-धृताम्बर-केश-चयेश्वरी ॥११२॥
ईश्वरी श्री-राधा-पृष्ठ-देशागता जटिलेति मन्यमाना सती गुरु-नितम्बादि वहनेनाकुला कराभ्यां धृतम् अम्बरं केश-समूहश् च यया सा । गन्तुम् उद्यमेन द्रुत-गुरु-नितम्बादि वहनाद् असामर्थ्याद् विलम्बितं ताभ्यां वस्तु मनोरमं यथा स्यात् तथा व्रजं ययौ ॥११२॥
भयानुरागोच्चय-धूम्र-लोल-दृक्
तिरस्करिण्या पिहिते मनोरथे ।
निजे निवेश्यैव हि रूप-मञ्जरी
गृहं निनीषुः पथि तां तद्-अन्वयात् ॥११३॥
रूप-मञ्जरी तां राधां गृहं निनीषुः सती निजे मनोरथे मन एव रथस् तस्मिन् निवेश्यैव पथि तद्-अन्वयात् तस्या राधाया अनु पश्चाद् अयात् अगच्छत् । कीदृशे पथि ? भयानुरागयोर् अतिशयेन धूम्र-लोल-दृग् एव तिरस्करिणी काण्ड-पटस् तया । हि निश्चितम् । पिहिते आच्छादिते इत्य् अनेन तस्यां सा सावधान-मना भूत्वा तां निनीषुः सती, तस्या मार्गस्य पार्श्व-द्वये दृक्-पातं कुर्वती तस्याः पश्चाद् अगाद् इत्य् अर्थः ॥११३॥
इतस् ततः क्षिप्त-चलेक्षणाशुगैर्
भीर् दुःस्थ-हृद्-वृत्ति-चयैर् भटैर् इव ।
अग्रेसरैस् तां रति-मञ्जरी च सा
निवारयन्त्य् अन्य-जनांस् तद्-आन्वयात् ॥११४॥
इतस् ततः क्षिप्तानि चलेक्षणान्य् एवाशुगा बाणा यैस् तैर् अग्रेसरैर् भटैर् इव भिया दुःस्थैः हृद्-वृत्ति-चयैर् अन्य-जनान् निवारयन्ति सती सा रति-मञ्जरी च तां राधां तदान्वयात् । चतुर्दिक्षु स-भयं मनो-वृत्तयो यत्र यत्र पतन्ति, तत्र तत्र दृक्-पातं कुर्वती पश्चात् ययाव् इति भावः ॥११४॥
चकित-चकितं विन्यस्यन्तौ पदानि निजाङ्गने
गुरु-जन-गृह-द्वारि न्यस्तातिलोल-विलोचनौ ।
निभृत-निभृतं वेश्म स्वं स्वं प्रविश्य
विसाध्वसाव् अपि सुषुपतुः स्वे स्वे तल्पेऽलसाकुल-मानसौ ॥११५॥
विसाध्वसाव् अपि राधा-कृष्णौ चकित-चकितं यथा स्यात् तथा निजाङ्गने पदानि विन्यस्यन्तौ गुरु-जनानां गृह-द्वारि न्यस्तेऽतिलोले विशिष्ट-लोचने ययोस् तौ, स्वं स्वं वेश्म प्रविश्य स्वे स्वे तल्पे सुषुपतुः । तत्र हेतुम् आह—अलसाकुल-मानसौ जागरेणालसं विच्छेदेनाकुलं मानसं ययोः ॥११५॥
निर्वर्त्य विभ्रम-भरं समये स्व-धाम्नि
सुप्तेऽच्युते प्रति-लये[^९]** श्रुतयो यथेशम् ।
लीला-वितान-निपुणाः सगुणाः समीयुः
सख्योऽप्य् अलक्ष्य-गतयः सदनं यथा-स्वम् ॥११६॥**
अलक्ष्य-गतयः श्रुतयो यथेशं सृष्ट्य्-आदि-कर्तारं पुरुषं समीयुः, तथा सख्योऽप्य् अलक्ष्य-गतयः सदनं समीयुः । कदा ? विभ्रम-भरं विलासं निर्वर्त्य समाप्य समये प्रति-लये स्व-धाम्नि अच्युते ईशे श्री-कृष्णे च सुप्ते सति । ईश-पक्षे जगत्-पालनादि-विलासातिशयं समाप्य समये प्रलयादि-समये, तत्रापि प्रति-लये प्रति-प्रलये स्व-धाम्नि अनन्त-शय्यायाम् । कृष्ण-पक्षे कुञ्ज-विलासातिशयं समाप्य समये प्रातः-काले, प्रति-प्रलये प्रति-दिवसम् एव गुर्व्-आदि-भीत्य्-आलये, स्व-धाम्नि नन्दालये । श्री-पक्षे लीलायाः सृष्ट्य्-आदि-लीलायाः विताने विस्तार्य कथने निपुणाः सुगुणाः सत्वरजस्तमो-मय्यः । त्रैगुण्या विषया वेदाः इत्य् आदेः । यद् वा, भगवतो गुण-मय्यः । सखी-पक्षे कुञ्जादि-लीला-विस्तारे निपुणाः, सगुणाः सौन्दर्य-वैदग्ध्य्-आदि-गुण-युक्ताः ॥११६॥[^१०]
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः कुञ्ज-निशान्त-केलि-रचनं नामायम् आदिर् गतः ॥
गोविन्द-लीलामृत-नाम्नि काव्ये कुञ्जे निशायाः अन्ते यत् केलि-रचनं तन्-नामायम् आदि-सर्गः गतः ।[^११] कीदृशे ? श्री-चैतन्य-पदारविन्दस्य मधुपो यो रूप-गोस्वामी तस्य सेवायाः फले सेवा-जन्ये । श्री-रघुनाथ-दास-गोस्वामिना दिष्टे प्रेरिते । श्री-जीव-गोस्वामिनः सङ्गाद् उद्गते उद्बुद्धे । श्री-रघुनाथ-भट्ट-गोस्वामिनो वरेण जाते । मत्-प्रभोः प्रभुणा श्री-विश्वनाथ-चक्रवर्ति-ठक्कुरेण स्व-कृत-भावनामृताख-काव्ये तथा तेनैव स्व-कृत-स्तव-मालाख्य-ग्रन्थ-मध्ये, सङ्कल्प-द्रुमे च, एवम् अन्यैर् अपि महानुभावैर् महद्भिर् स्व-स्व-कृत-गीत-पद्यादौ च वर्णिताया एतद्-ग्रन्थोक्त-लीला-रस-परिपाट्या यन् न्यूनाधिक्यं श्रूयते, तत् सर्वं दिवस-भेदाद् इति ज्ञेयम् ॥११७॥
॥ इति श्री-गोविन्द-लीलामृते सद्-आनन्द-विधायिन्यां टीकायां प्रथम-सर्गः ॥
॥।
(२)