चैतन्यचन्द्रामृतम्

विस्तारः (द्रष्टुं नोद्यम्)

Pरबोधनन्द Sअरस्वति Gओस्वमि- Cऐतन्यचन्द्रम्र्त

थेरे अरे त्wओ नुम्बेरिन्ग् स्य्स्तेम्स् फ़ोर् थिस् तेxत्। थे मतेरिअल् इस्
सोमेतिमेस् ओर्गनिज़ेद् इन्तो त्wएल्वे थेमेस् अन्द् नुम्बेरेद् अच्चोर्दिन्ग्ल्य्।
थोसे नुम्बेर्स् अरे गिवेन् इन् ब्रच्केत्स्। थे एदितिओन्स् उसेद् wएरे-

  • स्तव-कल्प-द्रुम, (एद्।) भक्ति सरन्ग गोस्wअमि। व्रिन्दवन्, १९५९
  • श्री-श्री-चैतन्य-चन्द्रामृत, (एद्।) भक्ति विलस तिर्थ। मयपुर्,

छैतन्य मथ्। ३र्द् एदितिओन्, १९९२।
तेxत्स् wइथोउत् अन् अल्तेर्नतिवे नुम्बेर् अरे नोत् फ़ोउन्द् इन् एइथेर् ओने ओफ़्
थे एदितिओन्स्। नो अत्तेम्प्त् हस् बेएन् मदे तो प्रोविदे अल्तेर्नतिवे रेअदिन्ग्स्।

स्तुमस् तं चैतन्याकृतिम् अतिविमर्याद-परमा-
द्भुतौदार्यं वर्यं व्रज-पति-कुमारं रसयितुम् ।
विशुद्ध-स्व-प्रेमोन्मद-मधुर-पीयुष-लहरीं
प्रदातुं चान्येभ्यः पर-पद-नवद्वीप-प्रकटम् ॥१॥ (१)

सर्वैर् आम्नाय-चूडामणिभिर् अपि न संलक्ष्यते यत् स्वरूपं
श्रीश-ब्रह्माद्य्-अगम्या सुमधुर-पदवी कापि यस्यास्ति रम्या ।
येनाकस्य्माज् जगच्-छ्री-हरि-रस-मदिरा-मत्तम् एतद् व्यधायि
श्रीमच्-चैतन्य-चन्द्रः स किम् उ मम गिरां गोचरश् चेतसो वा ॥२॥ (१३७)

धर्मे निष्ठां दधद् अनुपमां विष्णु-भक्तिं गरिष्ठां
सम्बिभ्राणो दधद् अहह हृत्-तिष्ठतीवाश्म-सारम् ।
नीचो गोघ्राद् अपि जगद् अहो प्लावयत्य् अश्रु-पूरैः
को वा जानात्य् अहह गहनं हेअम-गौराङ्ग-रङ्गम् ॥३॥ (१२७)

धर्मास्पृष्टः सतत-परमाविष्ट एवात्यधर्मे
दृष्टिं प्राप्तो न हि खलु सतां सृष्टिषु क्वापि नो सन् ।
यद् दत्त-श्री-हरि-रस-सुधा-स्वाद-मत्तः प्रनृत्य-
त्य् उच्चैर् गायत्य् अथ विलुठति स्तौमि तं कञ्चिद् ईशम् ॥४॥ (२)

अकस्माद् एवाविर्भवति भगवन्-नाम-लहरी
परीतानां पापैर् अपि पुरुभिर् एषां तनु-भृताम् ।
अहो वज्र-प्रायं हृद् अपि नवनीतायितम् अभून्
नॄणां यस्मिन् लोकेऽवतरति स गौरो मम गतिः ॥५॥ (११०)

न योगो न ध्यानं न च जप-तपस्-त्याग-नियमा
न वेदा नाचारः क्व नु बत निषिद्धाद्य्-उपरतिः ।
अकस्माच् चैतन्येऽवतरति दयासार-हृदये
पुमर्थानां मौलिं परम् इह मुदा लुण्ठति जनः ॥६॥ (१११)

यन् नाप्तं कर्म-निष्ठैर् न च समधिगतं यत् तपो-ध्यान-योगै-
र्वैराग्यैस् त्याग-तत्त्व-स्तुतिभिर् अपि न यत् तर्कितं चापि कैश्चित् ।
गोविन्द-प्रेम-भाजाम् अपि न च कलितं यद्-रहस्यं स्वयं तन्-
नाम्नैव प्रादुरासीद् अवतरति परे यत्र तं नौमि गौरम् ॥७॥ (३)

धिग् अस्तु ब्रह्माहं वदन-परिफुल्लान् जड-मतीन्
क्रियासक्तान् धिग् धिग् विकड-तपसो धिक् च यमिनः ।
किम् एतान् शोचामो विषय-रस-मत्तान् नर-पशून्
न केषाञ्चिल् लेशोऽप्य् अहह मिलितो गौर-मधुनः ॥८॥ (३२)

बध्नन् प्रेम-भर-प्रकम्पित-करो ग्रन्थीन् कटी-डोरकैः
सङ्ख्यातुं निज-लोक-मङ्गल-हरे-कृष्णेति-नाम्नां जपन् ।
अश्रु-स्नात-मुखः स्वम् एव हि जगन्नाथं दिदृक्षुर् गता-
यातैर् गौर-तनुर् विलोचन-मुदं तन्वन् हरिः पातु वः ॥९॥ (१६)

पाषाणः परिषोचितोऽमृत-रसैर् नैवाङ्कुरः सम्भवेत्
लाङ्गूलं सरमापतेर् विवृणतः स्याद् अस्य नैवार्जवम् ।
हस्ताव् उन्नयता बुधाः कथम् अहो धार्यं विधोर् मण्डलं
सर्वं साधनम् अस्तु गौर-करुणाभावे न भावोत्सवः ॥१०॥ (३६)

सौन्दर्ये काम-कोटिः सकल-जन-समाह्लादने चन्द्र-कोटिर्
वात्सल्ये मातृ-कोटिस् त्रिदश-विटपितोऽप्य् अद्भुतौदार्य-कोटिः ।
गाम्भीर्येऽम्भोधि-कोटिर् मधुरमणि सुधा-क्षीर-माध्वीक-कोटिर्
गौरो देवः स जीयान् प्रणय-रस-पदे दर्शिताश् चर्य-कोटिः ॥११॥ (१०१)

प्रेमा नामाद्भुतार्थः श्रवण-पथ-गतः कस्य नाम्नां महिम्नः
को वेत्ता कस्य वृन्दावन-विपिन-महा-माधुरीषु प्रवेशः ।
को वा जानाति राधां परम-रस-चमत्कार-माधुर्य-सीमाम्
एकश् चैतन्य-चन्द्रः परम-करुणया सर्वम् आविश्चकार ॥१२॥ (१३०)

नमश् चैतन्य-चन्द्राय कोटि-चन्द्रानन-त्विषे ।
प्रेमानन्दाब्धि-चन्द्राय चारु-चन्द्रांशु-हासिने ॥१३॥ (८)

यस्यैव पादाम्बुज-भक्ति-लभ्यः
प्रमाभिधानः परमः पुमर्थः ।
तस्मै जगन्-मङ्गल-मङ्गलाय
चैतन्य-चन्द्राय नमो नमस् ते ॥१४॥ (९)

दधन् मूर्धन्य् ऊर्ध्वं मुकुलित-कराम्भोज-युगलं
गलन्-नेत्राम्भोभिः स्नपित-मृदु-गण्ड-स्थल-युगम् ।
दुकूलेनावीतं नव-कमल-किञ्जल्क-रुचिना
परं ज्योतिर् गौरं कनक-रुचिर-चौरं प्रणमत ॥१५॥ (८१)

सिंह-स्कन्धं मधुर-मधुरं स्मेर-गण्ड-स्थलान्तं
दुर्विज्ञेयोज्ज्वल-रस-मयाश्चर्य-नाना-विकारम् ।
बिभ्रत् कान्तिं विकच-कनकाम्भोज-गर्भाभिरामाम्
एकीभूतं वपुर् अवतु वो राधया माधवस्य ॥१६॥ (१३)

पूर्ण-प्रेम-रसामृताब्धि-लहरी-लोलाङ्ग-गौर-च्छटा-
कोट्य्-आच्छादित-विश्वम् ईश्वर-विधि-व्यासादिभिः संस्तुतम् ।
दुर्लक्ष्यां श्रुति-कोटिभिः प्रकटयन् मूर्तिं जगन्-मोहिनीम्
आश्चर्यं लवणोद-रोधसि परं ब्रह्म स्वयं नृत्यति ॥१७॥ (१३१)

उद्दाम-दामनक-दाम-गणाभिराम-
मारामरामम् अविराम-गृहीत-नामा ।
कारुण्य-धाम कनकोज्ज्वल-गौर-धाम
चैतन्य-नाम परमं कलयाम धाम ॥१८॥ (६९)

अवतीर्णे गौर-चन्द्रे विस्तीर्णे प्रेम-सागरे ।
सुप्रकाशित-रत्नौघे यो दीनो दीन एव सः ॥१९॥ (३४)

श्रवण-मनन-सङ्कीर्त्यादि-भक्त्या मुरारेर्
यदि परम-पुमर्थं साधयेत् कोऽपि भद्रम् ।
मम तु परम-पार-प्रेम-पीयूष-सिन्धोः
किम् अपि रस-रहस्यं धाम गौरं नमस्यम् ॥२०॥ (५८)

निष्ठां प्राप्ता व्यवहृति-ततिर् लौकिकी वैदिकी या
या वा लज्जा प्रहसन्-समुद्गान-नाट्योत्सवेषु ।
ये वाभुवन्न् अहह सहज-प्राण-देहार्थ-धर्मा
गौरश् चौरः सकलम् अहरत् कोऽपि मे तीव्र-वीर्यः ॥२१॥ (६०)

महाकर्म-स्रोतो-निपतितम् अपि स्थैर्यम् अयते
महा-पाषाणेभ्योऽप्य् अतिकठिनम् एति द्रव-दशाम् ।
नटत्य् ऊर्ध्वं निःसाधनम् अपि महा-योगि-मनसां
भुवि श्री-चैतन्येऽवतरति मनश् चित्र-विभवे ॥२२॥ (११२)

स्त्री-पुत्रादि-कथां जहुर् विषयिणः शास्त्र-प्रवादं बुधा
योगीन्द्रा विजहुर् मरुन्-नियम-ज-क्लेशं तपस् तापसाः ।
ज्ञानाभ्यास-विधिं जहुश् च यतयश् चैतन्य-चन्द्रे पराम्
आविष्कुर्वति भक्ति-योग-पदवीं नैवान्य आसीद् रसः ॥२३॥ (११३)

भ्रान्तं यत्र मुनीश्वरैर् अपि पुरा यस्मिन् क्षमा-मण्डले
कस्यापि प्रविवेश नैव धिषणा यद् वेद नो वा शुकः ।
यत्र क्वापि कृपामयेन च निजेऽप्य् उद्घाटितं शौरिणा
तस्मिन्न् उज्ज्वल-भक्ति-वर्त्मनि सुखं खेलन्ति गौर-प्रियाः ॥२४॥ (१८)

ईशं भजन्तु पुरुषार्थ-चतुष्टयाशा
दासा भवन्तु च विधाय हरेर् उपासाः ।
किञ्चिद् रहस्य-पद-लोभित-धीर् अहं तु
चैतन्य-चन्द्र-चरणं शरणं करोमि ॥२५॥ (५९)

अप्य् अगण्य-महा-पुण्यम् अनन्य-शरणं हरेः ।
अनुपासित-चैतन्यम् अधन्यं मन्यते मतिः ॥२६॥ (३१)

भ्रातः कीर्तय नाम गोकुल-पतेर् उद्दाम-नामावलीं
यद् वा भावय तस्य दिव्य-मधुरं रूपं जगन्-मोहनम् ।
हन्त प्रेम-महा-रसोज्ज्वल-पदे नाशापि ते सम्भवेत्
श्री-चैतन्य-महाप्रभोर् यदि कृपा-दृष्टिः पतेन् न त्वयि ॥२७॥ (८२)

भूतो वा भवितापि वा भवति वा कस्यापि यः कोऽपि वा
सम्बन्धो भगवत्-पदाम्बुज-रसे नास्मिन् जगन्-मण्डले ।
तत् सर्वं निज-भक्ति-रूप-परमैश्वर्येण विक्रीडतो
गौरस्यैव कृपा-विजृम्भिततया जानन्ति निर्मत्सराः ॥२८॥ (२८)

स्वादं स्वादं मधुरिम-भरं स्वीय-नामावलीनां
मादं मादं किम् अपि विवशीभूत-विस्रस्त-गात्रः ।
वारं वारं व्रज-पति-गुणान् गाय गायेति जल्पन्
गौरो दृष्टः सकृद् अपि न यैर् दुर्घटा तेषु भक्तिः ॥२९॥ (३८)

अभूद् गेहे गेहे तुमुल-हरि-सङ्कीर्तन-रवो
बभौ देहे देहे विपुल-पुलकाश्रु-व्यतिकरः ।
अपि स्नेहे स्नेहे परम-मधुरोत्कर्ष-पदवी
दवीयस्याम्नायाद् अपि जगति गौरेऽवतरति ॥३०॥ (११४)

जाड्यं कर्मसु कुत्रचिज् जप-तपो-योगादिकं कुत्रचिद्-
गोविन्दार्चन-विक्रिया क्वचिद् अपि ज्ञानाभिमानः क्वचित् ।
श्री-भक्तिः क्वचिद् उज्ज्वलापि च हरेर् वाङ्-मात्र एव स्थिता
हा चैतन्य कुतो गतोऽसि पदवी कुत्रापि ते नेक्ष्यते ॥३१॥ (१३८)

विना बीजं किं नाङ्कुर-जननम् अन्धोऽपि न कथं
प्रपश्येन् नो पङ्गुर् गिरि-शिखरम् आरोहति कथम् ।
यदि श्री-चैतन्ये हरि-रस-मयाश्चर्य-विभवेऽ
प्य् अभक्तानां भावी कथम् अपि पर-प्रेम-रभसः ॥३२॥ (३९)

अकस्माद् एवैतद् भुवनम् अभितः प्लावितम् अभून्
महा-प्रेमाम्भोधेः किम् अपि रस-वन्याभिर् अखिलम् ।
अकस्माच् चादृष्ट-श्रुत-चर-विकारैर् अलम् अभूच्
चमत्कारः कृष्णे कनक-रुचिराङ्गेऽवतरति ॥३३॥ (११५)

अरे मूढा गूढां विचिनुत हरेर् भक्ति-पदवीं
दवीयस्या दृष्ट्याप्य् अपरिचित-पूर्वां मुनिवरैः ।
न विश्रम्भश् चित्ते यदि यदि च दौर्लभ्यम् इव तत्
परित्यज्याशेषं व्रजत शरणं गौर-चरणम् ॥३४॥ (८०)

तावद् ब्रह्म-कथा विमुक्त-पदवी तावन् न तिक्ती-भवेत्
तावच् चापि विशृङ्खलत्वम् अयते नो लोक-वेद-स्थितिः ।
तावच् छास्त्र-विदां मिथः कल-कलो नाना-बहिर्-वर्त्मसु
श्री-चैतन्य-पदाम्बुज-प्रिय-जनो यावन् न दिग्-गोचरः ॥३५॥ (१९)

सदा रङ्गे नीलाचल-शिखर-शृङ्गे विलसतो
हरेर् एव भ्राजन्-मुख-कमल-भृङ्गेक्षण-युगम् ।
समुत्तुङ्ग-प्रेमोन्मद-रस-तरङ्गं मृग-दृशाम्
अनङ्गं गौराङ्गं स्मरतु गत-सङ्गं मम मनः ॥३६॥ (७०)

क्वचित् कृष्णावेशान् नटति बहुभङ्गीम् अभिनयन्
क्वचिद् राधाविष्टो हरि हरि हरीत्य् आर्त-रुदितः ।
क्वचिद् रिङ्गन् बालः क्वचिद् अपि च गोपाल-चरितो
जगद् गौरो विस्मापयति बहु-भङ्गी-मधुरिमा ॥३७॥ (१२८)

अये न कुरु साहसं तव हसन्ति सर्वोद्यमं
जनाः परित उन्मदा हरि-रसामृतास्वादिनः ।
इदं तु निभृतं शृणु प्रणय-वस्तु प्रस्तूयते
यद् एव निगमेषु तत् पतिर् अयं हि गौरः परम् ॥३८॥ (८३)

उद्गृह्णन्ति समस्त-शास्त्रम् अभितो दुर्वार-गर्वायिता
धन्यं-मन्य-धियश् च कर्म-तप-आद्य्-उच्चावचेषु स्थिताः ।
द्वित्राण्य् एव जपन्ति केचन हरेर् नामानि वामाशयाः
पूर्वं सम्प्रति गौरचन्द्र उदिते प्रेमापि साधारणः ॥३९॥ (११६)

पापीयान् अपि हीन-जातिर् अपि दुःशीलोऽपि दुष्कर्मणां
सीमापि श्वपचाधमोऽपि सततं दुर्वासनाढ्योऽपि च ।
दुर्देश-प्रभवोऽपि तत्र विहितावासोऽपि दुःसङ्गतो
नष्टोऽप्य् उद्धृत एव येन कृपया तं गौरम् एव स्तुमः ॥४०॥ (७८)

अचैतन्यम् इदं विश्वं यदि चैतन्यम् ईश्वरम् ।
न विदुः सर्व-शास्त्र-ज्ञा ह्य् अपि भ्राम्यन्ति ते जनाः ॥४१॥ (३७)

देवे चैतन्य-नामन्य् अवतरति सुर-प्रार्थ्य-पादाब्ज-सेवे
विष्वद्रीचीः प्रविस्तारयति सुमधुर-प्रेम-पीयूष-वीचीः ।
को बालः कश् च वृद्धः क इह जड-मतिः को बुधः को वराकः
सर्वेषाम् ऐकरस्यं किम् अपि हरि-पदे भक्ति-भाजां बभूव ॥४२॥ (११७)

दत्त्वा यः कम् अपि प्रसादम् अथ सम्भाष्य स्मित-श्री-मुखं
दूरात् स्निग्ध-दृशा निरीक्ष्य च महा-प्रेमोत्सवं यच्छति ।
येषां हन्त कुतर्क-कर्कश-धियां तत्रापि नात्यादरः
साक्षात् पूर्ण-रसावतारिणि हरौ दुष्टा अमी केवलम् ॥४३॥ (४५)

काशी-वासान् अपि न गणये किं गयां मार्गयेऽहं
मुक्तिः शुक्तीभवति यदि मे कः परार्थ-प्रसङ्गः ।
त्रासाभासः स्फुरति न महा-रौरवेऽपि क्व भीतिः
स्त्री-पुत्रादौ यदि कृपयते देव-देवः स गौरः ॥४४॥ (९९)

बेलायां लवणोदधेर् मधुरिम-प्राग्-भाव-सार-स्फुरल्-
लीलायां नव-वल्लवी-रस-निधेर् आवेशयन्ती जगत् ।
खेलायाम् अपि शैशवे निज-रुचा विश्वैक-सम्मोहिनी
मूर्तिः काचन काञ्चन-द्रव-मयी चित्ताय मे रोचते ॥४५॥ (१२९)

दृष्ट्वा माद्यति नूतनाम्बुद-चयं संवीक्ष्य बर्हं भवेद्
अत्यन्तं विकलो विलोक्य वलितां गुञ्जावलीं वेपते ।
दृष्टे श्याम-किशोरकेऽपि चकितं धत्ते चमत्कारिताम्
इत्थं गौर-तनुः प्रचारित-निज-प्रेमा हरिः पातु वः ॥४६॥ (१४)

दुष्कर्म-कोटि-निरतस्य दुरन्त-घोर-
दुर्वासना-निगड-शृङ्खलितस्य गाढम् ।
क्लिश्यन् मतेः कुमति-कोटि-कदर्थितस्य
गौरं विनाद्य मम को भवितेह बन्धुः ॥४७॥ (५१)

हा हन्त चित्त-भुवि मे परमोषरायां
सद्-भक्ति-कल्प-लतिकाङ्कुरिता कथं स्यात् ।
हृद्य् एकम् एव परमाशसत्नीयम् अस्ति
चैतन्य-नाम कलयन् न कदापि शोच्यः ॥४८॥ (५३)

कृपा-सिन्धुः सन्ध्यारुण-रुचिर-चित्राम्बर-दरो-
ज्ज्वलः पूर्ण-प्रेमामृत-मय-महाज्योतिर् अमलः ।
शची-गर्भ-क्षीराब्म्बुधिभव उदाराद्भुत-कलः
कलानाथः श्रीमान् उदयतु मम स्वान्त-नभसि ॥४९॥ (१५)

क्व तावद् वैराग्यं क्व च विषय-वार्तासु नरके-
ष्विवोद्वेगः क्वासौ विनय-भर-माधुर्य-लहरी ।
क्व तत् तेजो वालौकिकम् अथ महा-भक्ति-पदवी
क्व सा वा सम्भाव्या यद् अवकलितं गौर-गतिषु ॥५०॥ (२०)

स्व-पादाम्भोजैक-प्रणय-लहरी-साधन-भृतां
शिव-ब्रह्मादीनाम् अपि च सुमहा-विस्मय-भृताम् ।
महा-प्रेमावेशात् किम् अपि नटनाम् उन्मद इव
प्रभुर् गौरो जीयात् प्रकट-परमाश्चर्य-महिमा ॥५१॥ (१०२)

सर्वे नारद-शङ्करादय इहायाताः स्वयं श्रीर् अपि
प्राप्ता देव-हलायुधोऽपि मिलितो जाताश् च ते वृष्णयः ।
भूयः किं व्रज-वासिनोऽपि प्रकटा गोपाल-गोप्यादयः
पूर्ण-प्रेम-रसेश्वरेऽवतरति श्री-गौरचन्द्रे भुवि ॥५२॥ (११८)

भृत्याः स्निग्धा अथ सुमधुर-प्रोज्ज्वलोदार-भाजस्
तत्-पादाब्ज-द्वितय-सविधे सर्व एवावतीर्णाः ।
प्रापुः पूर्वाधिकतर-महाप्रेम-पीयूष-लक्ष्मीं
स्व-प्रेमाणं वितरति जगत्य् अद्भुतं हेम-गौरे ॥५३॥ (११९)

अलौकिक्या प्रेमोन्मद-रस-विलास-प्रथनया
न यः श्री-गोविन्दानुचर-सचिवेष्व् एषु कृतिषु ।
महाश्चर्यं प्रेमोत्सवम् अपि हढाद् दातरि न यन्
मतिर् गौरे साक्षात् पर इह स मूढो नर-पशुः ॥५४॥ (४०)

असङ्ख्याः श्रुत्य्-आदौ भगवद्-अवतारा निगदिताः
प्रभावं कः सम्भावयतु परम् ईशाद् इतरतः ।
किम् अन्यत् मत्-प्रेष्ठे कति कति सतां नाप्य् अनुभवास्
तथापि श्री-गौरे हरि हरि न मूढा हरि-धियः ॥५५॥ (४१)

रक्षो-दैत्य-कुलं हतं कियद् इदं योगादि-वर्त्म-क्रिया-
मार्गो वा प्रकटी-कृतः कियद् इदं सृष्ट्य्-आदिकं वा कियत् ।
मेदिन्य्-उद्धरणादिकं कियद् इदं प्रेमोज्ज्वलाया महा-
भक्तेर् वर्त्म-करीं परां भगवतश् चैतन्य-मूर्तिं स्तुमः ॥५६॥ (७)

साक्षान्-मोक्षादिकार्थान् विविध-विकृतिभिस् तुच्छतां दर्शन्तं
प्रेमानन्दं प्रसूते सकल-तनु-भृतां यस्य लीला-कटाक्षः ।
नासौ वेदेषु गूढो जगति यदि भवेद् ईश्वरो गौरचन्द्रस्
तत्-प्राप्तोऽनीश-वादः शिव शिव गहने विष्णु-माये नमस्ते ॥५७॥ (४२)

वासो मे वरम् अस्तु घोर-दहन-व्यालावली-पञ्जरे
श्री-चैतन्य-पदारविन्द-विमुखैर् मा कुत्रचित् सङ्गमः ।
वैकुण्ठादि-पदं स्वयं च मिलितं नो मे मनो लिप्सते
पादाम्भोज-रस-च्छटा यदि मनाक् गौरस्य नो रस्यते ॥५८॥ (६५)

सकृन् नयन-गोचरीकृत-तद्-अश्रु-धाराकुल-
प्रफुल्ल-कमलेक्षण-प्रणय-कातर-श्री-मुखः ।
न गौर-चरणं जिहासति कदापि लोकोत्तर-
स्फुरन्-मधुरिमार्णवं नव-नवानुरागोन्मदः ॥५९॥ (२१)

आचर्य धर्मं परिचर्य विष्णुं
विचर्य तीर्थानि विचार्य वेदान् ।
विना न गौर-प्रिय-पाद-सेवां
वेदादि-दुष्प्राप-पदं विदन्ति ॥६०॥ (२२)

ज्ञानादि-वर्त्म-विरुचिं व्रज-नाथ-भक्ति-
रीतिं न वेद्मि न च सद्-गुरवो मिलन्ति ।
हा हन्त हन्त मम कः शरणं निगूढ-
गौरो हरिस् तव न कर्ण-पथं गतोऽस्ति ॥६१॥ (८४)

मृग्यापि सा शिव-शुकोद्धव-नारदाद्यैर्
आश्चर्य-भक्ति-पदवी न दवीयस्ती नः ।
दुर्बोध-वैभव-पते मयि पामरेऽपि
चैतन्य-चन्द्र यदि ते करुणा-कटाक्षः ॥६२॥ (५५)

वृथावेशं कर्मस्व् अपनयत वार्ताम् अपि मनाक्
न कर्णाभ्यर्णेऽपि क्वचन नयताध्यात्म-सरणेः ।
न मोहं देहादौ भजत परमाश्चर्य-मधुरः
पुमर्थानां मौलिर् मिलति भवतां गौर-कृपया ॥६३॥ (८५)

अलं शास्त्राभ्यासैर् अलम् अहह तीर्थाटनिकया
सदा योषिद्-व्याघ्र्यास् त्रसत वितथं थूत्कुरुत रे ।
तृणं-मन्या धन्याःय् श्रयत किल सन्न्यासि-कपटं
नटन्तं गौराङ्गं निज-रस-मदाद् अम्बुधि-तटे ॥६४॥ (८६)

उच्चैर् आस्फालयन्तं कर-चरणम् अहो हेम-दण्ड-प्रकाण्डौ
बाहू प्रोद्धृत्य सत्-ताण्डव-तरल-तनुं पुण्डरीकायताक्षम् ।
विश्वस्यामङ्गलघ्नं किम् अपि हरि-हरीत्य् उन्मदानन्द-नादैर्
वन्दे तं देव-चूडामणिम् अतुल-रसाविष्ट-चैतन्य-चन्द्रम् ॥६५॥ (१०)

हुङ्कारैर् दश-दिङ्मुखं मुखरयन्न् अट्टहास-च्छटा-
वीचीभिः स्फुट-कुन्दकैरव-गण-प्रोद्भासि कुर्वन् नभः ।
सर्वाङ्गः पवनोच्चलच्-चल-दल-प्राय-प्रकम्पं दधन्
मत्तः प्रेम-रसोन्मदाप्लुत-गतिर् गौरो हरिः शोभते ॥६६॥ (१०६)

क्व सा निरङ्कुश-कृपा क्व तद्-वैभवम् अद्भुतम् ।
क्व सा वत्सलता शौरे यादृक् गौरे तवात्मनि ॥६७॥ (५६)

आनन्द-लीला-मय-विग्रहाय
हेमाभ-दिव्य-च्छवि-सुन्दराय ।
तस्मै महा-प्रेम-रस-प्रदाय
चैतन्य-चन्द्राय नमो नमस् ते ॥६८॥ (११)

महा-पुरुष-मानिनां सुर-मुनीश्वराणां निजं
पदाम्बुजम् अजानतां किम् अपि गर्व-निर्वासनम् ।
अहो नयन-गोचरं निगम-चक्र-चूडा-चयं
शची-सुतम् अचीकरत् क इह भूरि-भाग्योदयः ॥६९॥ (२९)

आस्तां नाम महान् महान् इति रवः सर्व-क्षमा-मण्डले
लोके वा प्रकटास्तु नाम महती सिद्धिश् चमत्कारिणी ।
कामं चारु-चतुर्भुजत्वम् अयताम् आराध्य विश्वेश्वरं
चेतो मे बहुमन्यते नहि नहि श्री-गौर-भक्तिं विना ॥७०॥ (६६)

निर्दोषश् चारु-नृत्यो विधुत-मलिनता-वक्र-भावः कदाचिन्
निःशेष-प्राणि-ताप-त्रय-हरण-महा-प्रेम-पीयूष-वर्षी ।
उद्भूतः कोऽपि भाग्योदय-रुचिर-शचीगर्भ-दुग्धाम्बु-राशेर्
भक्तानां हृच्-चकोर-स्वदित-पद-रुचिर् भाति गौराङ्ग-चन्द्रः ॥७१॥ (१०७)

देवा दुन्दुभि-वादनं विदधिरे गन्धर्व-मुख्या जगुः
सिद्धाः सन्तत-पुष्प-वृष्टिभिर् इमां पृथ्वीं समाच्छादयन् ।
दिव्य-स्तोत्र-परा महर्षि-निवहाः प्रीत्योपतस्थुर् निज-
प्रेमोन्मादिनि ताण्डवं रचयति श्री-गौरचन्द्रे भुवि ॥७२॥ (१३३)

मत्त-केशरि-किशोर-विक्रमः
प्रेम-सिन्धु-जगद्-आप्लवोद्यमः ।
कोऽपि दिव्य-नव-हेम-कन्दली-
कोमलो जयति गौर-चन्द्रमाः ॥७३॥ (१००)
अलङ्कारः पङ्केरुह-नयन-निःस्यन्दि-पयसां
पृषद्भिः सन्-मुक्ता-फल-सुललितैर् यस्य वपुषि ।
उदञ्चद्-रोमाञ्चैर् अपि च परमा यस्य सुषमा
तम् आलम्बे गौरं हरिम् अरुण-रोचिष्णु-वसनम् ॥७४॥ (७१)

कन्दर्पाद् अपि सुन्दरः सुरसरित्-पूराद् अहो पावनः
शीतांशोर् अपि शीतलः सुमधुरो माध्वीक-साराद् अपि ।
दाता कल्प-महीरुहाद् अपि महान् स्निग्धो जनन्या अपि
प्रेम्णा गौर-हरिः कदा नु हृदि मे ध्यातुः पदः धास्यति ॥७५॥ (७२)

पुञ्जं पुञ्जं मधुर-मधुर्-प्रेम-माध्वी-रसानां
दत्त्वा दत्त्वा स्वयम् उरुदयो मोदयन् विश्वम् एतत् ।
एको देवः कटि-तट-मिलन्-मञ्जु-माञ्जिष्ट-वासा
भासा निर्भर्त्सित-नव-तडित्-कोटिर् एव प्रियो मे ॥७६॥ (७३)

दृष्टः स्पृष्टः कीर्तितः संस्मृतो वा
दूरस्थैर् अप्य् आनतो वादृतो वा ।
प्रेम्णः सारं दातुम् ईशो य एकः
श्री-चैतन्यं नौमि देवं दयालुम् ॥७७॥ (४)

सिञ्चन् सिञ्चन् नयन-पयसा पाण्डु-गण्ड-स्थलान्तं
मुञ्चन् मुञ्चन् प्रतिमुहुर् अहो दीर्घ-निःश्वास-जातम् ।
उच्चैः क्रन्दन् करुण-करुणो दीर्घ-हा-हेति-नादो
गौरः कोऽपि व्रज-विरहिणी-भाव-मग्नश् चकास्ति ॥७८॥ (१०८)

किं तावद् बत दुर्गमेषु विफलं योगादि-मार्गेष्व् अहो
भक्तिं कृष्ण-पदाम्बुजे विदधतः सर्वार्थम् आलुण्ठतः ।
आशा प्रेम-महोत्सवे यदि शिव-ब्रह्माद्य्-अलभ्येऽद्भुते
गौरे धामनि दुर्विगाह-महिमोदारे तदा रज्यताम् ॥७९॥ (८७)

हसन्त्य् उच्चैर् उच्चैर् अहह कुल-वध्वोऽपि परितो
द्रवीभावं गच्छन्त्य् अपि कुविषय-ग्राव-घटिताः ।
तिरस्कुर्वन्त्य् अज्ञा अपि सकल-शास्त्रज्ञ-समितिं
क्षितौ श्री-चैतन्येऽद्भुत-महिम-सारेऽवतरति ॥८०॥ (१२०)

प्रायश् चैतन्यम् आसीद् अपि सकल-विदां नेह पूर्वं यद् एषां
खअर्वा सर्वार्थ-सारेऽप्य् अकृत नहि पदं कुण्ठिता बुद्धि-वृत्तिः ।
गम्भीरोदार-भावोज्ज्वल-रस-मधुर-प्रेम-भक्ति-प्रवेशः
केषां नासीद् इदानीं जगति करुणया गौर-चन्द्रेऽवतीर्णे ॥८१॥ (१२१)

अभिव्यक्तो यत्र द्रुत-कनक-गौरो हरिर् अभून्
महिम्ना तस्यैव प्रणय-रस-मग्नं जगद् अभूत् ।
अभूद् उच्चैर् उच्चैस् तुमुल-हरि-सङ्कीर्तन-विधिः
स कालः किं भूयोऽप्य् अहह परिवर्तते मधुरः ॥८२॥ (१३९)

सैवेयं भुवि धन्य-गौड-नगरी वेलापि सैवाम्बुधेः
सोऽयं श्री-पुरुषोत्तमो मधुपतेस् तान्य् एव नामानि च ।
नो कुत्रापि निरीक्ष्यते हरि हरि प्रेमोत्सवस् तादृशो
हा चैतन्य कृपा-निधान तव किं विक्षे पुनर् वैभवम् ॥८३॥ (१४०)

अपारावारं चेदम् ऋतमय-पाथोधिम् अधिकं
विमथ्य प्राप्तं स्यात् किम् अपि परमं सारम् अतुलम् ।
तथापि श्री-गौराकृति-मदन-गोपाल-चरण-
च्छटा-स्पृष्टानां तद् वहति विकटाम् एव कटुताम् ॥८४॥ (२३)

तृणाद् अपि सुनीचता सहज-सौम्य-मुग्धाकृतिः
सुधा-मधुर-भाषिता विषय-गन्ध-थूथूत्कृतिः ।
हरि-प्रणय-विह्वला किम् अपि धीरनारम्भिता
भवन्ति किल सद्-गुणा जगति गौर-भाजाम् अमी ॥८५॥ (२४)

कदा शौरे गौरे वपुषि परम-प्रेम-रसदे
सद्-एक-प्राणे निष्कपट-कृत-भावोऽस्मि भविता ।
कदा वा तस्यालौकिक-सद्-अनुमानेन मम हृद्य्
अकस्मात् श्री-राधा-पद-नख-मणि-ज्योतिर् उदभूत् ॥८६॥ (६८)

अश्रूणां किम् अपि प्रवाह-निवहैः क्षौणीं पुरः पङ्किली-
कुर्वन् पाणि-तले निधाय बदरी-पाण्डुं कपोल-स्थलीम् ।
आश्चर्यं लवणोद-रोधसि वसन् शोणं दधानोऽंशुकं
गौरीभूय हरिः स्वयं वितनुते राधा-पदाब्जे रतिम् ॥८७॥ (१३५)

सान्द्रानन्दोज्ज्वल-नव-रस-प्रेम-पीयूष-सिन्धोः
कोटिं वर्षन् किम् अपि कऔर्ण-स्निग्ध-नेत्राञ्चलेन ।
कोऽयं देवः कनक-कदली-गर्भ-गौराङ्ग-यष्टिश्
चेतोऽकस्मान् मम निज-पदे गाढम् उप्तं चकार ॥८८॥ (६१)

यथा यथा गौर-पदारविन्दे
विन्देत भक्तिं कृत-पुण्य-राशिः ।
तथा तथोत्सर्पति हृद्य् अकस्मात्
राधा-पदाम्भोज-सुधांशु-राशिः ॥८९॥ (८८)

कोऽयं पट्ट-घटी-विराजित-कटी-देशः करे कङ्कणं
हारं वक्षसि कुण्डलं श्रवणयोर् बिभ्रत् पदे नूपुरौ ।
ऊर्ध्वीकृत्य निबद्ध-कुन्तल-भर-प्रोत्फुल्ल-मल्ली-स्रगा-
पीडः क्रीडति गौर-नागर-वरो नृत्यन् निजैर् नामभिः ॥९०॥ (१३२)

संसार-दुःख-जलधौ पतितस्य काम-
क्रोधादि-नक्र-मकरैः कवलीकृतस्य ।
दुर्वासना-निगडितस्य निराश्रयस्य
चैतन्य-चन्द्र मम देहि पदावलम्बम् ॥९१॥ (५४)

कान्त्या निन्दित-कोटि-कोटि-मदनः श्रीमन्-मुखेन्दु-च्छटा-
विच्छायीकृत-कोटि-कोटि-शरद्-उन्मीलत्-तुषार-च्छविः ।
औदार्येण च कोटि-कोटि-गुणितं कल्प-द्रुमं ह्य् अल्पयन्
गौरो मे हृदि कोटि-कोटि-जनुषां भाग्यैः पदं धास्यति ॥९२॥ (७४)

क्षणं हसति रोदिति क्षणम् अथ क्षणं मूर्च्छति
क्षणं लुठति धावति क्षणम् अथ क्षणं नृत्यति ।
क्षणं श्वसिति मुञ्चति क्षणम् उदार-हाहा-रवं
महा-प्रणय-लीलया विहरतीह गौरो हरिः ॥९३॥ (१३४)

क्षणं क्षीणः पीनः क्षणम् अहह साश्रुः क्षणम् अथ
क्षणं स्मेरः शीतः क्षणम् अनल-तप्तः क्षणं अपि ।
क्षणं धावन् स्तब्धः क्षणम् अधिक-जल्पन् क्षणम् अहो
क्षणं मूको गौरः स्फुरतु मम देहो भगवतः ॥९४॥ (७६)

कैवल्यं नरकायते त्रि-दश-पूर् आकाश-पुष्पायते
दुर्दान्तेन्द्रिय-काल-सर्प-पटली प्रोत्खात-दंष्ट्रायते ।
विश्वं पूर्ण-सुखायते विधि-महेन्द्रादिश् च कीटायते
यत्-कारुण्य-कटाक्ष-वैभववतां तं गौरम् एव स्तुमः ॥९५॥ (५)

प्रवाहैर् अश्रूणां नव-जलद-कोटीर् इव दृशोर्
दधानं प्रेमार्ध्या परम-पद-कोटि-प्रहसनम् ।
वमन्तं माधुर्यैर् अमृत-निधि-कोटीर् इव तनू-
च्छटाभिस् तं वन्दे हरिम् अहह सन्न्यास-कपटम् ॥९६॥ (१२)

स्व-तेजसा कृष्ण-पदारविन्दे
महा-रसावेशित-विश्वम् ईशम् ।
कम् अप्य् अशेष-श्रुति-गूढ-वेशं
गौराङ्गम् अङ्गीकुरु मूढ-चेतः ॥९७॥ (५७)

चैतन्येति कृपामयेति परमोदारेति नानाविध-
प्रेमावेशित-सर्व-भूत-हृदयेत्य् आश्चर्य-धामन्न् इति ।
गौराङ्गेति गुणार्णवेति रसरूपेति स्वनाम-प्रिये-
त्य् आश्रान्तं मम जल्पतो जनिर् इयं यायाद् इति प्रार्थये ॥९८॥ (६७)

माद्यन्तः परिपीय यस्य चरणाम्भोज-स्रवत्-प्रोज्ज्वल-
प्रेमानन्द-मयामृताद्भुत-रसान् सर्वे सुपर्वेडिताः ।
ब्रह्मादींश् च हसन्ति नातिबहुमन्यन्ते महा-वैष्णवान्
धिक्-कुर्वन्ति स्च ज्ञान-कर्म-विदुषस् तं गौरम् एव स्तुमः ॥९९॥ (६)

यो मार्गो दुर-शून्यो य इह बत बलत्-कण्टको योऽतिदुर्गो
मिथ्यार्थ-भ्रामको यः सपदि रसमयानन्द-निःस्यन्दनो यः ।
सद्यः प्रद्योतयंस् तं प्रकटित-महिमा स्नेहवद्-धृद्-गुहायां
कोऽप्य् अन्तर्ध्वान्त-हन्ता स जयति नवद्वीप-दीप्यत्-प्रदीपः ॥१००॥ (१०४)

दूराद् एव दहन् कुतर्क-शलभान् कोटीन्दु-संशीतल-
ज्योतिःकन्दल-संवलन्-मधुरिमा बाह्यान्तर-ध्वान्त-हृत् ।
सस्नेहाशय-वृत्ति-दिव्य-विसरत्-तेजाः सुवर्ण-द्युतिः
कारुण्याद् इह जाज्वलीति स नवद्वीप-प्रदीपोऽद्भुतः ॥१०१॥ (१०५)

स्वयं देवो यत्र द्रुत-कनक-गौरः करुणया
महा-प्रेमानन्दोज्ज्वल-रस-वपुः प्रादुरभवत् ।
नवद्वीपे तस्मिन् प्रैभवन-भक्त्य्-उत्सव-मये
मनो मे वैकुण्ठाद् अपि च मधुरे धाम्नि रमते ॥१०२॥ (६२)

बिभ्रद्-वर्णं किम् अपि दहनोत्तीर्ण-सौवर्ण-सारं
दिव्याकारं किम् अपि कलयन् दृप्त-गोपाल-मौलेः ।
आविष्कुर्वन् क्वचिद् अवसरे तत्-तद्-आश्चर्य-लीलां
साक्षाद् राधा-मधुरिपुर्-वपुर् भाति गौराङ्ग-चन्द्रः ॥१०३॥ (१०९)

यत् तद् वदन्तु शास्त्राणि यत् तद् व्याख्यान्तु तार्किकाः ।
जीवनं मम चैतन्य-पादाम्भोज-सुधैव तु ॥१०४॥ (६३)

पादाघात-रवैर् दिशो मुखरयन् नेत्राम्भसां वेणीभिः
क्षौणिं पङ्किलयन्न् अहो विशदयन्न् अट्टाट्टहासैर् नभः ।
चन्द्र-ज्योतिर् उदार-सुन्दर-कटि-व्यालोल-शोणाम्बरः
को देवो लवणोद-कूल-कुसुमोद्याने मुदा नृत्यति ॥१०५॥ (१३६)

धिग् अस्तु कुलम् उज्ज्वलं धिग् अपि वाग्मितां धिग् यशो
धिग् अध्ययनम् आकृतिं नव-वयः श्रियं चापि धिक् ।
द्विजत्वम् अपि धिक् पर-अ विमलम् आश्रमाद्यं च धिक्
न चेत् परिचितः कलौ प्रकट-गौर-गोपी-पतिः ॥१०६॥ (४३)

ध्यायन्तो गिरि-कन्दरेषु बहवो ब्रह्मानुभूयासते
योगाभ्यास-पराश् च सन्ति बहवः सिद्धा मही-मण्डले ।
विद्या-शौर्य-धनादिभिश् च बहवो वल्गन्ति मिथ्योद्धताः
को वा गौर-कृपां विनाद्य जगति प्रेमोन्मदो नृत्यतु ॥१०७॥ (९८)

अन्तर्ध्वान्त-चयं समस्त-जगताम् उन्मूलयन्ती हठात्
प्रेमानन्द-रसाम्बुधिं निरवधिं प्रोद्वेलयन्ती बलात् ।
विश्वं शीतलयन्त्य् अतीव विकलं ताप-त्रयेणानिशं
सास्माकं हृदये चकास्तु सततं चैतन्य-चन्द्र-च्छटा ॥१०८॥ (१७,७५)

उपासतां वा गुरु-वर्य-कोटीर्
अधीयतां वा श्रुति-शात्र-कोटीः ।
चैतन्य-कारुण्य-कटाक्ष-भाजां
सद्यः परं स्याद् धि रहस्य-लाभः ॥१०९॥ (२५)

अपारस्य प्रेमोज्ज्वल-रस-रहस्यामृत-निधेर्
निधानं ब्रह्मेशार्चित इह हि चैतन्य-चरणः ।
अतस् तं ध्यायन्तु प्रणय-भरतो यान्तु शरणं
तम् एव प्रोन्मत्तास् तम् इह किल गायन्तु कृतिनः ॥११०॥ (८९)

श्रीमद्-भागवतस्य यत्र परमं तात्पर्यम् उट्टङ्कितं
श्री-वैयासकिना दुरन्वयतया रास-प्रसङ्गेऽपि यत् ।
यद् राधा-रति-केलि-नागर-रसास्वादैक-सद्-भाजनं
तद्-वस्तु-प्रथनाय गौर-वपुषा लोकेऽवतीर्णो हरिः ॥१११॥ (१२२)

पात्रापात्र-विचारणं न कुरुते न स्वं परं वीक्षते
देयादेय-विमर्शको न हि न वा काल-प्रतीक्षः प्रभुः ।
सद्यो यः श्रवणेक्षण-प्रणमन-ध्यानादिना दुर्लभं
दत्ते भक्ति-रसं स एव भगवान् गौरः परं मे गतिः ॥११२॥ (७७)

केचिद् दास्यम् अवापुर् उद्धव-मुखाः श्लाघ्यं परे लेभिरे
श्री-दामादि-पदं व्रजाम्बु-दृशां भावं भेजुः परे ।
अन्ये धन्यतमा धयन्ति मधुरं राधा-रसाम्भोनिधिं
श्री-चैतन्य-महाप्रभोः करुणया लोकस्य काः सम्पदः ॥११३॥ (१२३)

सर्वज्ञैर् मुनि-पुङ्गवैः प्रवितते तत्-तन्-मते युक्तिभिः
पूर्वं नैकतरत्र कोऽपि सुदृढं विश्वस्त आसीज् जनः ।
सम्प्रत्य् अप्रतिम-प्रभाव उदिते गौराङ्ग-चन्द्रे पुनः
श्रुत्य्-अर्थो हरि-भक्तिर् एव परमः कैर् वा न निर्धार्यते ॥११४॥ (१२४)

वञ्चितोऽस्मि वञ्चितोऽस्मि वञ्चितोऽस्मि न संशयः ।
विश्वं गौर-रसे मग्नं स्पर्शोऽपि मम नाभवत् ॥११५॥ (४६)

अहो वैकुण्ठ-स्थैर् अपि च भगवत्-पार्षद-वरैः
सरोमाञ्चं दृष्टा यद् अनुचर-वक्रेश्वर-मुखाः ।
महाश्चर्य-प्रेमोज्ज्वल-रस-सदावेश-विवशी-
कृताङ्गास् तं गौरं कथम् अकृत-पुण्यः प्रणयतु ॥११६॥ (४४)

कैर् वा सर्व-पुमर्थ-मौलिर् अकृतायासैर् इहासाद् इतो
नासीद् गौर-पदारविन्द-रजसा स्पृष्टे मही-मण्डले ।
हा हा धिग् मम जीवितं धिग् अपि मे विद्यां धिग् अप्य् आश्रमं
यद् दौर्भाग्य-भराद् अहो मम न तद्-सम्बन्धो-गन्धोऽप्य् अभूत् ॥११७॥ (४७)

विश्वं महा-प्रणय-सीधु-सुधा-रसैक-
पाथोनिधौ सकलम् एव निमज्जयन्तम् ।
गौराङ्ग-चन्द्र-नख-चन्द्र-मणि-च्छटायाः
कञ्चिद् विचित्रम् अनुभावम् अहं स्मरामि ॥११८॥ (१२५)

जितं जितं मयाद्यापि गौर-स्मृत्य्-अनुभावतः ।
तीर्णाः कुमत-कान्ताराः पूर्णाः सर्व-मनोरथाः ॥११९॥ (?)

दन्ते निधाय तृणकं पदयोर् निपत्य
कृत्वा च काकु-शतम् एतद् अहं ब्रवीमि ।
हे साधवः सकलम् एव विहाय दूराद्
गौराङ्ग-चन्द्र-चरणे कुरुतानुरागम् ॥१२०॥ (९०)

पतन्ति यदि सिद्धयः करतले स्वयं दुर्लभाः
स्वयं च यदि सेवकी-भवितुम् आगताः स्युः सुराः ।
किम् अन्यद् इदम् एव मे यदि चतुर्भुजं स्याद् वपुस्
तथापि न मनो मनाक् चलति गौरचन्द्रान् मम ॥१२१॥ (६४)

अहो न दुर्लभा मुक्तिर् न च भक्तिः सुदुर्लभा ।
गौरचन्द्र-प्रसादस् तु वैकुण्ठेऽपि सुदुर्लभः ॥१२२॥ (९१)

सोऽप्य् आश्चर्य-मयः प्रभुर् नयनयोर् यन् नाभवद् गोचरो
यन् नास्वादि हरेः पदाम्बुज-रसस् तद् यद् गतं तद् गतम् ।
एतावन् मम तावद् अस्तु जगतीं येऽद्याप्य् अलङ्कुर्वते
श्री-चैतन्य-पदे निखात-मनसस् तैर् यत् प्रसङ्गोत्सवः ॥१२३॥ (५०)

उत्ससर्प जगद् एव पूरयन्
गौरचन्द्र-करुणा-महार्णवः ।
बिन्दु-मात्रम् अपि नापतन् महा-
दुर्भगे मयि किम् एतद् अद्भुतम् ॥१२४॥ (४८)

कालः कलिर् बलिन इन्द्रिय-वैरि-वर्गाः
श्री-भक्ति-मार्ग इह कण्टक-कोटि-रुद्धः ।
हा हा क्व यामि विकलः किम् अहं करोमि
चैतन्य-चन्द्र यदि नाद्य कृपां करोषि ॥१२५॥ (४९)

कलिन्द-तनया-तटे स्फुरद्-अमन्द-वृन्दावनं
विहाय लवणाम्बुधेः पुलिन-पुष्प-वाटीं गतः ।
धृतारुण-पटः पराकृत-सुपीत-वासा हरिस्
तिरोहित-निज-च्छविः प्रकट-गौरिमा मे गतिः ॥१२६॥ (७९)

आस्तां वैराग्य-कोटिर् भवतु शम-दम-क्षान्ति-मैत्र्य्-आदि-कोटिस्
तत्त्वानुध्यान-कोटिर् भवतु भवतु वा वैष्णवी भक्ति-कोटिः ।
कोट्य्-अंशो ऽप्य् अस्य न स्यात् तद् अपि गुण-गणो यः स्वतः-सिद्ध आस्ते
श्रीमच्-चैतन्यचन्द्र-प्रिय-चरण-नख-ज्योतिर् आमोद-भाजाम् ॥१२७॥ (२६)

भजन्तु चैतन्य-पदारविन्दं
भवन्तु सद्-भक्ति-रसेन पूर्णाः ।
आनन्दयन्तु त्रि-जगद्-विचित्र-
माधुर्य-सौभाग्य-दया-क्षमाद्यैः ॥१२८॥ (९२)

ज्ञान-वैराग्य-भक्त्य्-आदि
साधयन्तु यथा तथा ।
चैतन्य-चरणाम्भोज-
भक्ति-लभ्य-समं कुतः ॥१२९॥ (९४)

हा हन्त हन्त परमोषर-चित्त-भूमौ
व्यर्थीभवन्ति मम साधन-कोटयोऽपि ।
सर्वात्मना तद् अहम् अद्भुत-भक्ति-बीजं
श्री-गौरचन्द्र-चरणं शरणं करोमि ॥१३०॥ (५२)

सर्व-साधन-हीनोऽपि परमाश्चर्य-वैभवे ।
गौराङ्गे न्यस्त-भावो यः सर्वार्थ-पूर्ण एव सः ॥१३१॥ (३०)

ब्रह्मेशादि-महाश्चर्य-महिमापि महाप्रभुः ।
मुग्ध-बालोदितं श्रुत्वा स्निग्धोऽवश्यं भविष्यति ॥१३२॥ (१४२)

दृष्टं न शास्त्रं गुरवो न पृष्टा
विवेचितं नापि बुधैः स्व-बुद्ध्या ।
यथा तथा जल्पतु बाल-भावात्
तथापि मे गौरहरिः प्रसीदतु ॥१३३॥ (१४३)

केचित् सागर-भूधरान् अपि पराक्रामन्ति नृत्यन्ति वै
केचिद् देव-पुरन्दरादिष् महा-क्षेपं क्षिपन्ते मुहुः ।
आनन्दोद्भट-जाल-विह्वलतया तेऽद्वैत-चन्द्रादयः
के किं नो कृतवन्त ईदृशि पुनश् चैतन्य-नृत्योत्सवे ॥१३४॥ (२७)

अवतीर्णे गौरचन्द्रे विस्तीर्णे प्रेम-सागरे ।
ये न मज्जन्ति मज्जन्ति ते महानर्थ-सागरे ॥१३५॥ (३५)

प्रसारित-महा-प्रेम-पीयूष-रस-सागरे ।
चैतन्य-चन्द्रे प्रकटे यो दीनो दीन एव सः ॥१३६॥ (३६)

गीता-भागवतं पठत्व् अविरतं तीर्थानि संसेवतां
शालग्राम-शिलां समर्चयतु वा काल-त्रयं प्रत्यहम् ।
मुक्तिभ्यो महतीं पुमान् न लभते तत्-कोष-भूषाङ्करीं
भक्तिं प्रेममयीं शचीसुत-पद-द्वन्द्वानुकम्पां विना ॥१३७॥ (?)

आशा यस्य पद-द्वन्द्वे चैतन्यस्य महाप्रभोः ।
तस्येन्द्रो दासवद् भाति का कथा नृप-कीटके ॥१३८॥ (९६)

यस्याशा कृष्ण-चैतन्ये राज-द्वारि किम् अर्थिनः ।
चिन्तामणि-चयं प्राप्य को गूढो रजतं व्रजेत् ॥१३९॥ (९७)

माद्यत्-कोटि-मृगेन्द्र-हुङ्कृति-रवस् तिग्मांशु-कोटि-च्छविः
कोटीन्दूद्भव-शीतलो गति-जित-प्रोन्मत्त-कोटि-द्विपः ।
नाम्ना दुष्कृत-कोटि-निष्कृति-करो ब्रह्मादि-कोडीश्वरः
कोट्य्-अद्वैत-शिरोमणिर् विजयते श्री-श्री-शची-नन्दनः ॥१४०॥ (१०३)

अति-पुण्यैर् अति-सुकृतैः कृतार्थीकृतः कोऽपि पूर्वैः ।
एवं कैर् अपि न कृतं यत् प्रेमाब्धौ निमज्जितं विश्वम् ॥१४१॥ (१२६)

यदि निगदित-मीनाद्य्-अंशवद् गौरचन्द्रो
न तद् अपि स हि कश्चिच् छक्ति-लीला-विकाशः ।
अतुल-सकल-शक्त्याश्चर्य-लीला-प्रकाशैर्
अनधिगत-महत्त्वः पूर्ण एवावतीर्णः ॥१४२॥ (१४१)

संसार-सिन्धु-तरणे हृदयं यदि स्यात्
सङ्कीर्तनामृत-रसे रमते मनश् चेत् ।
प्रेमाम्बुधौ विहरणे यदि चित्त-वृत्तिश्
चैतन्य-चन्द्र-चरणे शरणं प्रयातु ॥१४३॥ (९३)
अचैतन्यम् इदं विश्वं यदि चैतन्यम् ईश्वरम् ।
भजेत् सर्वतो मृत्युर् उपास्यम् अमरोत्तमैः ॥??॥ (९५)