दानकेलिचिन्तामणिः

[[दानकेलिचिन्तामणिः Source: EB]]

[

दानकेलिचिन्तामणि

कुर्वाणैः शतमाशिषं निजनिजप्रेयोजयायोत्सुकैः

स्वीयस्वीयगणैः स्फुटं कुटिलया वाचातितुङ्गीकृतः ।

गव्यानां नवदानकल्पनाकृते प्रौढं मिथः स्पर्धिनोर्

गान्धर्वागिरिधारिणोर्गिरितटे केलिकलिः पातु वः ॥१॥

केलिकलिरित्यनेन वस्तुनिर्देशः पात्विति कर्णचषकेण पाययित्वा तद्रसाविष्टं करोत्वित्याशीर्वादश्च व्यञ्जितः ॥१॥

उद्दामनर्मरसरङ्गतरङ्गकान्त

राधासरिद्गिरिधरार्णवसङ्गमोत्थम् ।

श्रीरूपचारुचरणाब्जरजःप्रभावाद्

अन्धोऽपि दाननवकेलिमणिं चिनोमि ॥२॥

चयनं कृत्वा कुण्डलं करोमि येन श्रोत्रपरिसरमण्डनं सुष्ठु सम्पत्स्यतेतरामिति भावः । अत्र .चन्द्राब्जरजः इत्यनेन सुन्दरसुगन्धिरसमयभक्तिजनकत्वं परागस्य ज्ञापत्ये,

तथा चित्तरूपदर्पणस्य मलापसरणकारित्वं सुन्दरनयनामृताञ्जनमिवाज्ञानतिमिरनाशपूर्वकश्रीराधागोविन्दरहोलीलाप्रकाशत्वं च व्यज्यते ॥२॥

साहाराख्यं जयति सदनं गोकुले गोकुलेश

भ्राता मन्त्री वसति सुमतिस्तत्र नाम्नोपनन्दः ।

तस्य श्रीमन्निखिलगुणवान्सूनुरद्य सुभद्रो

भार्या तस्यातुलकुलवती कुन्दपूर्वलतास्ते ॥३॥

पुष्पैर्भृङ्गैर्विविधविहगैर्भ्राजऊर्वीरुहाणां

षण्डैः सम्यग्विलसिततमे निष्कुटे सौरभाढ्ये ।

खेलन्त्योरुप्रणयमनया हन्त कुत्राधुना तौ

कुर्वाते किं किमिति सुमुखी तत्र पृष्टा वयस्या ॥४॥

तस्याः श्रीमद्वदनकमलाज्जल्पमाध्वीकधारा

स्यन्दं राधागिरिवरधरप्रश्नकर्पूरकम्रम् ।

पीत्वानन्दोच्छलितपुलकोज्जृम्भसम्भावुकश्रीः

स तद्वार्तां प्रथयितुमथारम्भमुत्का चकार ॥५॥

शस्तस्यार्थे स्वसुतहलिनो मित्रपुत्राघशत्रोर्

अप्यासक्त्या प्रतिनिधितया शौरिणा सन्नियुक्तः ।

सत्रं कर्तुं रहसि भगवान्भागुरिर्दीक्षितोऽभूत्

स्नेहोल्लासैः सहमुनिगणस्तत्र गोविन्दकुण्डे ॥६॥

तस्मिन्सत्रे रुचिरमचिरं नव्यगव्यं स्वयं या

धृत्वा नीतं शिरसि शुचयो दद्युरभीरवामाः ।

ताभ्यः कामानथ मणिगणालङ्कृतीः सौभगं च

प्रीत्या सत्यं सदसि मुनयो हन्त यच्छन्ति सद्यः ॥७॥

नानावृक्षैर्मधुकररुतस्यन्दिपुष्पाभिरम्यैः

कुञ्जस्तोमैरपि च परितस्तादृशैर्भ्राजितस्य ।

सौरभ्याढ्यैः कुमुदकमलैः साधुफुल्लैर्विराजत्

पानीयस्य स्वकृतसरसस्तीरकुञ्जे वसन्ती ॥८॥

श्रुत्वैवैतन्निभृतविवृतिं सूक्ष्मधीसारिकास्याद्

उत्कण्ठाभिस्तरलितमनाः सप्रियालिगणा सा ।

स्नात्वा सम्यग्विविधवसनैर्भूषणैर्भूषिता द्राक्

काश्मीरैस्तत्प्रणयपटलैरप्यलं रूषिता च ॥९॥

कृत्वा पूजामथ दिनपतेः शुद्धभावेन शुद्धा

बद्धाकाङ्क्षं हृदयगगने गोष्ठचन्द्रं स्मरन्ती ।

हैमं कुम्भं निहितविकसद्गन्धहैयाङ्गवीनं

धृत्वा प्रीत्या शिरसि चलिता राधिका स्वीयकुण्डात॥१०॥

पूर्वाह्न एव दानलीलाप्रसङ्गः स्यादित्यत्रैषा महाजनानुमोदितप्रथानुसर्तव्या । कदाचिद्रविवासरे अरुणोदये ब्राह्मणमुखाच्छ्रुतयज्ञवृत्तान्ता जरती पूर्वाह्नव्यापिन्यां शुक्लसप्तम्यामेव सूर्यपूजामवश्यकर्तव्यत्वेन निर्णीय यज्ञभवने घृतदानमपि स्वमङ्गलनिमित्तिकमिति च बुद्धा श्रीराधाया नन्दालयगमनं वर्जयित्वादिष्टवती—

हे कल्याणि ! अद्य पूर्वाह्नमध्य एव सूर्यकुण्डं गत्वा स्नातानुलिप्ता भास्करमर्चयित्वा झटिति यज्ञभवनं गच्छ इति । तेन च श्रीराधाया नन्दालयगोष्ठगमनादिप्रसङ्गे श्रीश्यामसुन्दरस्य दर्शनाभावे जाते महोत्कण्ठिता सा श्रीराधाकुण्डं गत्वैव स्थिता,

तदैव शारिकामुखात्श्रुतकृष्णवृत्तान्ता आश्वस्ता सती स्नानपूजादिकं द्रुतं समाचर्य गोविन्दकुण्डाभिमुखं चलितेति सर्वं समञ्जसम् ॥१०॥

स्मित्वा स्मित्वा पथि पथि मिथः कुर्वती कृष्णवार्ताम्

आर्ता तस्यानवकलनतः स्निग्धता शालभञ्जी ।

प्रेमस्तोमोल्ललितललितां नर्मफुल्लद्विशाखां

दृष्ट्वा दृष्ट्वा सुदति मुमुदे नर्मभङ्ग्या निकामम् ॥११॥

गन्धैर्भ्राजत्कुसुमपटलीमृष्टमाध्वीकमाद्यद्

भ्राम्यद्भृङ्गप्रकरविलसच्छाखशाखिप्रपञ्चः ।

शष्पैः सान्द्रैः सुवलितभुवः स्वादुसत्कन्दमूला

न्यञ्चद्ध्वानद्विजमृगगणाश्चारुनानाफलानि ॥१२॥

स्थाने स्थाने विविधविटपिक्रोडरत्नोरुवेद्यः

स्थाने स्थाने परिमलवलद्रत्नसिंहासनौघः ।

स्थाने स्थाने वरझरदरीसानवो भान्ति यस्मिन्

शैलेन्द्रं स गिरिधरकरप्राप्तमानं ददर्श ॥१३॥

लब्ध्वा गोवर्धनगिरिमथ प्राप्य सौरभ्यसारं

शश्वत्प्रीत्या मुनिवरगणैर्दत्तगव्या हुतीनाम् ।

आकृष्टोद्यत्सुखभररसेनाशु गन्तुं समुत्का

स्थूलश्रोणीकुचयुगभरान्मन्थरा तान्निनिन्द ॥१४॥

ज्ञात्वा तासां गमनमचिरं कीरवर्यस्य वक्त्रात्

स्मित्वा नर्मप्रियसखगणैरावृतः सावधानः ।

शैलेन्द्रस्योपरि परिलसन्नुद्भटश्यामवेद्यां

घट्टीपट्टं विदधदतुलं वल्लभाधीशसूनुः ॥१५॥

गोपराजनन्दनः,

एतेन तस्य धीरललितनायकोचितनिश्चिन्तत्वं ध्वनितम् ।

स्मेरां सुरक्तपट्टभूषणभूषिताङ्गीं

मूर्ध्नीं स्फुरत्सघृतहेमघाटीं वहन्तीम् ।

सार्धं तथाविधसखीनिवहेन राधां

यान्तीं मरालगतिचारु ललाप पश्यन॥१६॥

अग्रे पूर्णविधुं तदन्तरलसद्बन्धूकपुष्पद्वयं

मध्ये निस्तलदाडिमीफलयुगं भङ्ग्या प्रकाश्य क्षणम् ।

मन्नेत्रस्य चकोरभृङ्गशुकतामासादयन्त्यद्भुता

केयं मामपि पद्मिनी कृतवती रक्तं मरालं द्रुतम् ॥१७॥

अत्र पद्मिन्यां विधुबन्धूकदाडिमानं सर्वथैवासद्भावेऽपि तदवस्थानप्रदर्शनात्तस्याः प्रथममद्भुतत्वं ज्ञेयम् । तथा मरालनेत्रस्यापि युगपच्चकोरभृङ्गशुकत्वप्रापणेऽसम्भवत्वं प्रदर्श्यापि द्वितीयमद्भुतत्वं ज्ञापितम् । एवं चास्य श्लोकरत्नस्य बहव एव ध्वनयो निष्काशिताः स्युरिति बोध्यम् ।

पद्मिनी लक्षणं,

यथा रतिमञ्जर्यां (५)—

भवति कमलनेत्रा नासिका क्षुद्ररन्ध्रा

अविरलकुचयुग्मा दीर्घकेशी कृशाङ्गी ।

मृदुवचनसुशीला नृत्यगीतानुरक्ता

सकलतनुसुवेशा पद्मिनी पद्मगन्धा ॥१६१७॥

ततो निरीक्ष्य सम्यक्तां प्रेमविह्वलमानसः ।

साशङ्कं पङ्कजाक्षोऽयं सोत्कण्ठोऽवर्णयत्पुनः ॥१८॥

फुल्लचम्पकवल्लिकावलिरियं किं नो न सा जङ्गमा

किं विद्युल्लतिकाततिर्न हि घने सा खे क्षणद्योतिनी ।

किं ज्योतिर्लहरी सरिन्नहि न सा मूर्तिं वहेत्तद्ध्रुवं

ज्ञातं ज्ञातमसौ सखीकुलवृता राधा स्फुटं प्राञ्चति ॥१९॥

इयं तु प्रत्यङ्गं लावण्यामृतलहरीविस्तारिण्यपि विग्रहवतीत्यहो सुविस्मयकरम् ॥१९॥

इयमिह न च राधा सा सखीभिः परीता

विदितमिदमिदानीं वस्तुतत्त्वं विचार्य ।

मम सविधमुपैति स्फारशृङ्गारलक्ष्मीः

सहकलितसुवर्ष्मालिङ्गनादिक्रियाभिः ॥२०॥

गौरी श्रीवृषभानुवंशविलसत्कीर्तिध्वजा कीर्तिदा

गर्भान्तःखनिरत्नकान्तिलहरी श्रीदामपुण्यानुजा ।

प्राणप्रेष्ठसखीनिकायकुमुदोल्लासोल्लसच्चन्द्रिका

मत्प्राणोरुशिखण्डिवासवडभी सेयं स्वयं राधिका ॥२१॥

ततो गोविन्दमालोक्य गोवर्धनशिरोमणिम् ।

स्मित्वा चारु चलापाङ्गी तुङ्गविद्येदमब्रवीत॥२२॥

यः कल्कनैर् दधिघटं प्रकटं विलुण्ठ्य

नीत्वा प्रगाढतमसा मिलितोऽतितृष्णः ।

सोऽयं गिरीन्द्रशिखरं स्फुटमारुरोह

राधे तव प्रियसखो महिलैकचौरः ॥२३॥

तथाविधं त्वत्कान्तं महातस्करमतिरसपिपासुं झटिति त्वत्सविधमागमिष्यन्तं पश्येति तस्या उद्दीपनाय आश्वासनाय च पूर्ववृत्तां रतिलीलां स्मारयति ॥२३॥

मूर्तिं निर्जितनूत्ननीरदवलद्गर्वोन्नतिं कैशवीं

स्फूर्जद्गोपवधूध्वनद्धृतिचमूध्वंसे स्मरोद्यद्गदाम् ।

विभ्राजद्गिरिवर्यसुन्दरशिरःपट्टे स्फुरन्तीं मनाग्

भङ्ग्यालिङ्ग्य दृशा प्रियालिवलिता राधाप्यधीराब्रवीत॥२४॥

किं नव्याम्बुद एष भव्यवदनाः किं नीलरत्नाङ्कुरः

किं नीलोत्पलनव्यमूर्तिरपि किं कस्तूरिकाविभ्रमः ।

आस्तेष्वेष न कोऽपि हन्त यदयं नस्तापयेन्निर्भरं

तस्माद्गोकुलचन्द्र एव भविता श्यामोऽद्भुतक्ष्माधरे ॥२५॥

श्यामलवर्णसाम्येऽपि सर्ववस्तुविलक्षणतापदायकत्वादद्भुतत्वमिति व्यञ्जितम् ॥२५॥

विजितभगणदीव्यत्पूर्णशुभ्रांशुशोभः

सखिनिकरवृतश्रीर्नापि कृष्णेन्दुरेषः ।

अयि पिकमधुभृङ्गस्मेरमाकन्दयुक्तः

स्मरनृपतिरुपेतः स्वेन वः सन्धिहेतोः ॥२६॥

सोऽयं गोष्ठमहेन्द्रपट्टमहिषीवात्सल्यलीलाकृतिः

सोऽयं गोपमहेन्द्रपुण्यविटपीप्रौढामृतोद्यत्फलम् ।

सोऽयं प्राणवयस्यजीवितघटारक्षैकदक्षौषधं

सोऽयं धेनुकमर्दिजीवितझषस्फाराम्बुधिर्माधवः ॥२७॥

निरूप्यैवं शश्वद्गिरिधरमुरुप्रेमनिवहैः

तदा सास्रस्वेदस्नपितशुभवर्ष्मस्मरवशा ।

मुहुः कम्पाघातस्खलदचलदीव्यद्घृतघटीं

दधारार्त्या शक्त्या सखि करसरोजेन सुदति ॥२८॥

नेपथ्यालीं ललितललितां दानिवर्योचितां तां

धृत्वा सन्तं ध्वनितमुरलीपत्रशृङ्गादिजुष्टम् ।

घट्टीपालैः कलितलकुटैर्वेष्टितं मित्रवृन्दैः

पश्यन्त्यस्ताः स्मितवलितया हेलया चारु चेलुः ॥२९॥

ग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविकाशकृत।

भावादीषत्प्रकाशो यः स हाव इति कथ्यते ॥ [उ.नी. ११.९]

मत्तास्ता मधुरैर्भावैर्मधुरा मधुमङ्गलः ।

दृष्ट्वा स्मित्वाथ सक्रोधमुवाच मधुमर्दनम् ॥३०॥

गर्वेण फुल्लमधुना मधुनातिमत्ता

मत्तालिभिः समममन्दबलाबलापि ।

गच्छत्यसौ स्फुटमदत्तकरा हि राधा

बाधाः कथं न हि वयस्य बलात्करोषि ॥३१॥

मधुपुष्परसं मर्दयतीति मधुमर्दनशब्दस्य व्युत्पत्त्या श्रीराधिकामुखपद्ममधुमत्तरसिकभ्रमरत्वेन तस्योपन्यासः,

तेन च मर्दनशब्दसाहचर्यात्तदधरपाने बलात्कारोऽपि ध्वनितः ॥३१॥

हरिं जेतुं शक्तां मदननृपतेः शक्तिमतुलां

भ्रमद्घण्टी ध्वानं गतिविलसितैस्तां स कलयन।

उदञ्चन्मारोद्यद्भ्रमविकृतिमागुण्ठ्य कपटान्

मृषा रोषादेवे स्फुटमिदमवादीत्सहचरान॥३२॥

सत्यं ब्रवीति मधुमङ्गल एष धूर्ता

दानं निपात्य मम यान्ति मदोरुगर्वाः ।

पश्याद्य दर्पमधुना मम मित्रवर्ग

गृह्णामि दानमचिरादहमेक एव ॥३३॥

शृङ्गानि वादयत भो मुरलीस्तथालीः

संरक्षत स्फुटमितस्तत एव यान्तीः ।

राधामहं कुटिलयौवतवर्यनाथां

रुद्धां करोमि सहसा भुजयोर्युगेन ॥३४॥

घट्टीपालसहस्रवर्य सुबल त्वं तां विशाखां हठाद्

घट्टीकुट्टिमपट्टरक्षक सखे चित्रां त्वमत्रोज्ज्वल ।

सभ्यश्रेष्ठ वसन्त चम्पकलतां त्वं तुङ्गविद्यां तथा

वर्त्मप्रेक्षकलक्षदक्ष ललितां त्वं कोकिलावेष्टय ॥३५॥

स्मेरैरेतैः सपदि परितो वेष्ट्यमानाभिराभिर्

वागाटोपैः प्रियसखकुलेष्वाशु संस्तम्भितेषु ।

रङ्गैर्भङ्ग्या कुटिलवचसां राधया संस्तुतोऽसौ

कृष्णः कोपादिव सखि तदा गर्वितं तामवादीत॥३६॥

नित्यं गर्विणि वन्यवर्त्मनि मिषात्सङ्गोप्य गव्यादिकं

विक्रीणासि शठे त्वमत्र पतिता भाग्येन हस्तेऽद्य मे ।

त्वां बद्ध्वोरुमनोजराजपुरतो नेष्याम्यवश्यं तथा

प्रीत्या यच्छति मह्यमेव स यथा तारुण्यरत्नानि वः ॥३७॥

आस्त्वद्विधानप्यबलागणान्

किं नेष्यामि तस्योरुनृपस्य पार्श्वे ।

दास्यामि शिक्षामहमेव साक्षात्

तदद्वितीयो व्रजपत्तनेऽस्मिन॥३८॥

बध्नामि तूर्णमनया वनमालया त्वां

मथ्नामि हन्त दशनच्छदमत्र दन्तैः ।

सन्दारयामि कुचयोर्युगलं नखास्त्रैर्

दानं न चेज्झटिति यच्छसि चौरिके त्वम् ॥३९॥

इत्थं प्रजल्परभसात्तरसा तदीय

रक्ताम्बराञ्चलमनल्पकचञ्चलेऽस्मिन।

धर्तुं समिच्छति रुषा परुषाक्षरं तं

चञ्चद्दृगञ्चलकला सुकला ललाप ॥४०॥

दूरेषु तिष्ठ न हि मां स्पृश धृष्ट धूर्त

यान्तीं सुयागभवनं व्रतिनीं पवित्राम् ।

स्पृष्टां तवाद्य मरुतापि मदीयगव्यं

श्यामीभवन्न भविता शुभयज्ञयोग्यम् ॥४१॥

कामार्णवोच्छलितघर्मजलाभेषेकैः

शुद्धोऽस्मि किं न किल पश्यसि दीर्घनेत्रे ।

तस्मात्त्वया सह महोज्ज्वलनामसत्रं

कर्तुं लसामि समया शुभधर्मपत्न्या ॥४२॥

तव नेत्रस्य दीर्घत्वात्दर्शनौचित्यमस्ति,

तथापि न पश्यसीत्यहो आश्चर्यम् ॥४२॥

एतां वयस्य मृदुहृद्यवचःप्रबन्ध

रङ्गैः सुरञ्जिततरां नितरां विधाय ।

दानं गृहाण निजमाश्विति कोकिलोक्तम्

आश्रुत्य सस्मितमनन्तविचित्रलीलः ॥४३॥

यद्वा,

हृदि कृत्वा मृदु यथा स्यात्तथा अवचःप्रबन्धरङ्गैः वाग्विहीनाश्लेषकौतुकैः ॥४३॥

सव्यं करेण सुभगसव्यकटौ निधाया

सव्येन कृष्टपटसृष्टमुखार्धगुण्ठाम्

शीर्ष्णि स्फुरन्नवघृतोज्ज्वलहेमकुम्भां

भङ्ग्या भ्रमत्स्मितदृशं स जगाद राधाम् ॥४४॥

घट्टीकुट्टिमसृष्टपट्टनिकटे राधे घटीं स्थापय

प्रोद्यत्सौरभसद्मपद्मपवनैः श्रान्तिं क्षणं वारय ।

दीव्यन्नव्यसुगव्यदानविलसल्लेखं मुहुः कारय

क्रूरस्यालिकुलस्य दानमचिरादारात्स्वयं दापय ॥४५॥

आगच्छ हे लिपिपते मधुमङ्गलेह

पञ्जिं पठन्दृढमतिः कुरु सत्यलेखम् ।

उत्कोचलोभभरतो यदि नाशयेस्त्वं

द्रव्याणि मे किल तदा भवितासि दण्ड्यः ॥४६॥

आगच्छ कच्छमवधेहि विधेहि लेखं

दानं नु देहि न हि देहि कलिं हि राधे ।

वीटीं च भुङ्क्ष्व सरसं कुरु वक्त्रबिम्बं

पुण्याहमाचर पुरः समयः शुभोऽयम् ॥४७॥

यस्य यन्नियतदानममुष्य

वस्तुनः सुदृढमुच्यते मया ।

तत्तदेव किल लिख्यतां त्वया

यत्नतो लिखनशूर वयस्य ॥४८॥

गव्यस्य भव्यवदने प्रति पात्रमत्र

दानं किल प्रति जनं व्रजसुन्दरीणाम् ।

वृन्दानि पञ्च विलसन्नवहीरकाणां

यत्सौभगादिकमलभ्यमनेन लभ्यम् ॥४९॥

लीलाविस्तारिणीं वन्दे सखीं श्रीललिताह्वयाम् ।

यत्कृपया प्रवृत्तोऽयं मूकोऽपि रहोवर्णने ॥

सौभगादिकं समृद्धिगौरवादिकम् ॥४९॥

सीमन्तकान्ति विलसन्नवरागवल्गु

सिन्दूरयोस्तपनकान्तमणीन्द्रलक्षम् ।

वेणीवरालककुलोज्ज्वलकज्जलानां

गारुत्मतेन्द्रमणिमञ्जुललक्षयुग्मम् ॥५०॥

अत्र पूर्वार्धे सीमन्तकान्तिसिन्दूरयोरनुपमयोर्न्यक्कृतलक्षसूर्यकान्तयोर्दानत्वेन रसिकमुकुटमणिरुत्कटलालसः श्यामसुन्दरः कटाक्षभङ्ग्या तत्तद्भोगविशेषमेव प्रार्थयति । परार्धेऽपि मरकतेन्द्रनीलमञ्जुलमणिविनिन्दिवेण्यलककज्जलानां विशेषभोग एव भङ्ग्या प्रार्थितः ।

अत्रेदं बोद्धव्यं—

दानश्लोकेषु प्रायशः उपमेयोपमाया दृष्टत्वात्तस्याश्च उपमेयभूतस्य वस्तुजातस्य उपमानविजयिव्यतिरेकमुखेन वर्णनौचित्यात्सर्वत्रैवोपमेयस्य माहात्म्यातिशयस्तथा रसचमत्कारावहत्वं च सूच्यतेतरामिति । यदुक्तमलङ्कारकौस्तुभे—

उपमानस्य निन्दायामयोग्यत्वे निषेधतः ।

उपमेयस्य प्रशंसा सोपमेयोपमापरा ॥ [अ.कौ. २३५]

स्वर्णार्धचन्द्रनिभभालतलस्य सुभ्रु

शुभ्रांशुकान्तमणिलक्षमतुच्छशोभम् ।

कस्तूरिकारचितभालविशेषकस्य

गारुत्मतैर्घटितचन्द्रमसोऽर्बुदानि ॥५१॥

अत्र पूर्वार्धे अत्युज्ज्वललक्षचन्द्रकान्ततिरस्कारिललाटार्धचन्द्रस्य स्वस्य ललाटस्थचन्दनचन्द्रेण सह सम्मिलनरूपभोगविशेष एव स्वाभिलाषः । परार्धे श्रीमत्याः कपोलदेशस्थमृगमदरचितपत्रभङ्गैः सह नागरवरस्यासीमलालसाभरस्येन्द्रनीलनिभकपोलस्थचन्दनबिन्दुभिर्मिलनमेव स्वाभीप्सितमिति बोध्यम् ॥५१॥

भ्रूयुग्मकस्य कुटिलस्य शरासनानि

सन्नीलरत्नरचितान्ययुतानि पञ्च ।

कर्णद्वयस्य रुचिरस्य मनोज्ञनव्य

वैदूर्यमौर्वदृढसद्गुणपुञ्जपुञ्जाः ॥५२॥

श्रुतिर्न च जगज्जये मनसिजस्य मौर्वीलता इति जगन्नाथवल्लभे । वैदूर्यमणिविनिन्दिकर्णयुगलस्य महाविलासकालीनाः शीत्कारभूषणशिञ्जितकलभाषणादय एव भङ्गीविशेषेण प्रार्थिता ॥५२॥

कामं कटाक्षविशिखस्य सुपर्णरत्न

सन्निर्मिता दशलक्षाणि शराः सुतीक्ष्णाः ।

अक्ष्णोर्युगस्य सुभगस्य मसारसार

नीलोत्पलानि नियुतानि युतानि गन्धैः ॥५३॥

अत्र पूर्वार्धे धिक्कृतमरकटनिर्मितसुतीव्रशराणां दानत्वेन विशेषसुरतभोगसाधकानि अङ्गानि भङ्ग्याऽभिलक्ष्यन्ते । यदुक्तमलङ्कारकौस्तुभे—

एहीति पृष्टगसखीक्षणकैतवेन

व्यावृत्य यो मयि तया निहितः कटाक्षः ।

प्रत्यस्त्रवन्मम कटाक्षमवाप्य शान्तोऽप्य्

अन्तर्बिभेद स निकृत्तशरार्धवन्मे ॥ [अ.कौ. ५.१८] इति ।

परार्धे च इन्द्रनीलमणिजटितनीलोत्पलमर्दी नयनयोर्दानत्वेन स्वनयनमिलनादिभोगजातं नयनभङ्ग्यैव प्रार्थितम् ॥५३॥

कार्तस्वरैर्घटितकीरकिशोरचञ्चू

पुञ्जः प्रकृष्टतिलपुष्पसुनासिकायाः ।

सद्गण्डयोर्मधुरकाञ्चनदर्पणानां

वृन्दं नवस्फटिकतोऽप्यतिचिक्कनानाम् ॥५४॥

पूर्वार्धे धिक्कृतस्वर्णजटितशुकचञ्चूरूपायाः,

तिलपुष्पविजयिन्याः कन्दर्पाद्भुततूणयुगयुतनासिकायाः सुरतोत्थपरिमलास्वादनादिकं नासिका भङ्ग्या सूचितम् ॥५४॥

सर्वोपमामहिममर्दिमुखस्य पूर्ण

शुभ्रांशुलक्षमथ फुल्लसरोजलक्षम् ।

उद्दामधाममणिदर्पणलक्षमत्र

सौवर्णमेव चिबुकस्य च रत्नपुञ्जः ॥५५॥

असङ्ख्यातपूर्णचन्द्रप्रफुल्लकमलमणिदर्पणादिविजयिनः अतुलनीयस्य मुखस्य दानत्वेन चुम्बनादिमहोत्सवरूपं परमानन्दजातं मुखभङ्ग्या सम्प्रार्थितम् । यदुक्तमलङ्कारकौस्तुभे—

अङ्काङ्कि सूवलनं कराकरि मनःसंवादसंवेदनं

कर्णाकर्णि वृथाकथासु युगपच्चुम्बाः शतं गण्डयोः । [अ.कौ. ५.२२] इत्यादि ।

तथा रत्नपुञ्जतिरस्कारि चिबुकस्य च भङ्गीक्रमेण तारुण्यरत्नास्वादो वा स्पर्शसुख एव वाभिप्रेतः ॥५५॥

बिम्बाधरस्य मधुरस्य सुरागपद्म

रागैकपद्ममिह पद्मवरप्रभायाः ।

सम्पक्वदाडिमफलोज्ज्वलबीजनिन्दि

दन्तावलेः शिखरलक्षमदृष्टकक्षम् ॥५६॥

पूर्वार्धे लक्षपद्मरागविनिन्दि बिम्बाधरस्यातुलनीयसुधास्वादनमेव स्वरसना भङ्ग्या प्रार्थितम् । परार्धे शिखरमाणिक्यविजयिदन्तावलेर्दानं तु वैपरीत्येन स्वाधरदंशनस्तथा स्वाभियोगप्रकाशनाय श्रीराधया कृतस्वाधरदंशरूपापूर्वास्वाद विशेष एव वा भङ्ग्याभिलक्षितः ॥५६॥

सोऽयं त्वद्वदनारविन्दचिबुके कस्तूरिकाकल्पितः

सम्यक्सुन्दरबिन्दुरिन्दुवदने निःसङ्गभृङ्गो मतः ।

स स्मेरां मम दृङ्मिलन्मधुकरीमालिङ्गतु प्रेमतः

सत्यं दानमिदं प्रिये नहि परं किञ्चिन्मया याच्यते ॥५७॥

मृगमदबिन्दोः निरन्तरस्वदृग्गोचरी करणमेव महासुरतलास्योद्दीपकमिति स्पष्टोक्त्याभियाचितम् ॥५७॥

गानामृताब्धिपरिवेषणदक्षदर्वी

दिव्यातिरक्तरसनारमणीयतायाः ।

कर्पूरसारपरिवासितनव्यहृद्य

माध्वीकपूर्णचषकावलिरद्य सद्यः ॥५८॥

सङ्गीतसुधापरिवेषकरसनायाः दानं तु वैपरीत्येन श्रीराधामुखारविन्दस्य परमास्वाद्य सीधुना स्वमुखचषकस्य पूर्णीकरणादिकमिति मुखभङ्ग्या ज्ञापितम् ॥५८॥

फुल्लीभवत्स्मितलवस्य सुतारमञ्जु

मुक्ताफलैर्विहितकैरवकोटिरद्धा ।

पीयूषसारपरिपूरितशातकुम्भ

कुम्भायुतं मसृणमञ्जुलजल्पितस्य ॥५९॥

पूर्वार्धे अनन्तविलाससम्पादकसामग्रीभिः सह वर्तमानायाः श्रीराधायाः सकाशं स्वस्य मौग्ध्याविष्कारेण वा स्वसन्मुखं समुपस्थापितस्य निखिलभोग्यवस्तुजातस्य यथात्यथमास्वादने नागरशेखरस्याप्यनैपुण्यदर्शनाद्वा श्रीमत्याः परममधुरस्मितलवस्योद्रेक एव भङ्ग्या प्रार्थितः ।

परार्धे तदवस्थायां मिथः कलभाषितं वा श्रमविजडितमर्धस्फुटवाक्यजातं वा परममधुरात्वेनास्वादनीयमिति भङ्ग्या स्वाभिलषितं ज्ञापितमिति दिक॥५९॥

शब्दग्रहोच्चलितसुन्दरशातकुम्भ

ताटङ्कयोर्मसृणचुम्बकरत्नमेकम् ।

नासाग्रलग्ननवकाञ्चनतन्तुबद्ध

मुक्ताफलस्य रुचिविस्फुरितार्कमालाः ॥६०॥

शब्दग्रहौ कर्णौ । पूर्वार्ध अयस्कान्तमणिविजयिनोः चाञ्चल्यमानयोः कर्णताटङ्कयोर्दानं तु विलासविशेषावस्थायां गण्डदेशे मृदुचुम्बनादिकं स्वाभिप्रेतं मुखभङ्ग्या ज्ञापितम् ।

परार्ध अत्युज्ज्वलस्फटिकविजयिनो नासाग्रबिलन्मुक्ताफलस्य दानं तु वैपरीत्येन मुक्ताफलस्य सुन्दरनर्तनदर्शनमेव भङ्ग्याभिकाङ्क्षितम् ॥६०॥

सुरभिवदनरङ्गे मुग्धगन्धं यदा ते

स्फुरितमृदुलचालं चारु ताम्बूलमुत्कम् ।

नटति ललितरङ्गैस्तस्य दानं तदानीं

नटनभुवि मदास्येऽप्याशु सन्नर्तयेति ॥६१॥

अत्र प्राणेश्वर्याननचन्द्रगसुधादिग्धसञ्चर्वितताम्बूलानां मुहुरास्वादनविशेष एव प्रकटं परिमृग्यते ॥६१॥

कम्बुश्रिया कलितकण्ठवरस्य हेम

शङ्खावलिर्वलितवल्गुभुजद्वयस्य ।

स्वर्णोल्लसन्मसृणमञ्जुमृणालपालिर्

वैदूर्यपङ्कजततिः करयोर्द्वयोश्च ॥६२॥

अत्र हेमशङ्खावलिविनिन्दिकण्ठस्य विलासविशेषावस्थायां स्वभुजद्वन्द्वेन वेष्टनमेव बाहुभङ्ग्या द्योतितम् । तथा सुवर्तुलस्य बलशालिनो वा बाहुद्वयस्य वैपरीत्येन परिरम्भणादिकं सम्भोगजातं सम्प्रार्थितं तथा कराभ्यां पुरुषायितभावेन तया स्ववक्षोजमन्थनं वा तस्याः कुचमर्दने अनिपुणस्य स्वस्य हस्तोपरि तद्धस्तयुगलं निदधत्याः प्रियतमायाः उपर्यधोभावेनैवाङ्गद्वयस्यास्वादविशेषो वा भङ्ग्या सम्प्रार्थितः ॥६२॥

हस्ताङ्गुली समुदयस्य मनोहरस्य

गन्धोन्नतः कनकबन्धुरगन्धफल्यः ।

पृष्ठस्थलीपुरटसुन्दरपट्टिकायाः

कुञ्जे प्रसूनशयने स्वपनादिकेलिः ॥६३॥

गन्धफल्यः चम्पककलिकाः । पूर्वार्धे सुगन्धकनकचम्पकविनिन्दिहस्ताङ्गुलीभिः पुरुषायितेन नखाङ्कदानादिसम्भोगनिचयः भङ्ग्या प्रार्थितः ।

परार्धे पृष्ठापृष्ठी शयानयोर्मानवत्योः श्वासप्रश्वासादिप्रसङ्गैः स्पर्शसुखविशेष एव वा विलासविशेषावसरस्मारपृष्ठस्थनखाङ्ककज्जलादिचिह्नयुक्तभोगविशेषो वात्र स्वाभिलाषः ॥६३॥

मत्तद्विपेन्द्रमदगन्धितकुम्भयुग्म

गर्वप्रहारिकुचकुम्बयुगस्य तस्य ।

हैमानि मञ्जुमुखि दाडिमबिल्वताल

सद्धामनिस्तलललामफलानि लक्षम् ॥६४॥

एतद्भोगस्तु बहुधा सम्पद्यतेतरामिति कति खलु लेख्या । मत्तकरिराजमादकदानवारिगन्धिकुम्भयुगातिशायिनोः सुवृत्तकुचयोरपि मृगमदकुङ्कुमादियुक्तत्वेन महामादकत्वविधायकभोगविशेष एव वा कौटिल्यललितयुक्तातिसुरसनीयकुचाक्षेपो वात्र स्पृहणीयः । यदुक्तमुज्ज्वले—

चित्रं चिरस्पर्शसुखाय चूचुके

कुर्वन्तमक्षिप्रमियं चलेक्षणा ।

स्विन्नाङ्गुलीकं पुलकाञ्चितश्रिया

सव्येन चिक्षेप कुचेन केशवम् ॥ [उ.नी. १४.१०६]

एवं विशाखानन्ददस्तोत्रेऽपि द्रष्टव्यम्—

मञ्जुकुञ्जे मुकुन्दस्य कुचौ चित्रयतः करम् ।

क्षपयन्ती कुचक्षेपैः सुसख्यमधुनोन्मदा ॥ (१०२) इति ॥६४॥

मध्यं केशरीवर्यमध्यमिव यज्ज्यायो रसस्यास्पदं

वाद्यत्किङ्किणिरक्तवस्त्रविलसद्बद्धं बलीडोरकैः ।

तस्योरूत्कटदानमप्युरुनृपाद्यत्नैर्मया गोप्यते

यद्यादौ तव नीविबन्धनमणिं गूढं करे मेऽर्पयेः ॥६५॥

इयं नीवी राधे निजनिविडबन्धं दवयितुम्

भवद्भीत्या भङ्ग्या मयि वितनुते याचनविधिम् ।

तथा तं तूर्णं त्वं दवय मदनेन्दूदयकृते

यथासौ तुष्ट्या ते करमुरुकटौ नो रचयति ॥६६॥

यद्वा,

तव करं विपरीतविलासेन नः [ममेति वक्तव्ये बहुवचनमात्मनः आनन्दातिशयेन गुरुंमन्यत्वात्] उरुकटौ विशालकटिदेशे रचयति योजयति इति सर्वत्रैव स्वाभिलाषः स्फुटं वरीवर्ति । असाविति मदनचन्द्रं कामुकाः कामिनीमयमिति न्यायेन दिशि विदिशि स्फुरन्तमङ्गुल्या निर्दिश्यते ॥६६॥

नाभिस्फुरद्ध्रदतदुत्थितरोमपालि

व्यालिः शिरःस्फुरितरत्नसुनायकानाम् ।

वैदूर्यमञ्जुलमसारवराब्जराग

रत्नानि तानि नियुतानि नवक्रमेण ॥६७॥

वैदूर्याश्मसारपद्मरागविनिन्दि नाभिसरोवरतदुत्थरोमराजिसुन्दरनायकमणीनां च दानरूपेण तत्तत्स्थानस्पर्शदर्शनादिकं स्वाभिलषितं भङ्ग्या सूचितम् ॥६७॥

सन्नीलपट्टपटरञ्जकमञ्जुकाञ्चि

सञ्चारचारुचटुलोच्चनितम्बकस्य ।

सम्प्रोल्लसत्पुरटपीठनवार्बुदानि

दानीन्द्रकस्य मम योग्यवरासनानि ॥६८॥

अत्राति सुन्दरनितम्बस्य दानत्वेन नृत्यावसरे वा विलासविशेषे वा रतिलीलाविनोद एव भङ्ग्या प्रार्थितः ॥६८॥

उरुद्वयस्य कनकैः कृतचारुरम्भ

स्तम्भावलिर्दलितसत्करभप्रभस्य ।

मञ्जीरमञ्जुलरणच्चरणारविन्द

द्वन्द्वस्य रक्तमणिनिर्मितपल्लवालि ॥६९॥

पूर्वार्धे सुवर्तुलयोस्तथा क्रमक्रशिमयुतयोः करिकरविजयिनोरुरुयुगस्य भोगविशेष एवाभिलक्षितः । परार्धे पद्मरागयुक्तपल्लवविनिन्दिचरणपद्मयोः दानं विपरीतविलासे स्वाभाविके वातिधीरेण शब्दायमानस्य मञ्जीरस्य सुमधुरध्वनिभिः परिपुष्टसुरतवितानमेव ॥६९॥

स्मररसमयराजत्क्षीणतुन्दस्य तस्य

रुचिरतरतरङ्गप्रायतिर्यग्वलीनाम् ।

अयि तदनुभवाख्यं रत्नयुग्मं नखानां

उदयदरुणचन्द्रज्योतिषां रत्नचन्द्राः ॥७०॥

पूर्वार्धे क्षीणोदरवलीनां च विलासविशेषे दर्शनस्पर्शनादिकमनुभवजातं काङ्क्षितम् । परार्धे वैपरीत्येन प्राणेश्वरीपादपल्लवशेखरेषु लीलास्वयंवररसलाभ एवातिवाञ्छितः ॥७०॥

फुल्लकाञ्चनसमुद्गकगर्व

ध्वंसिनोस्तव वरेण्यजानुनोः ।

काञ्चनप्रकटितां कटकोटिं

काञ्चनप्रकटदानमनया ॥७१॥

गलितसुवर्णसम्पुटविजयिजानुयुगस्यातुलमदनरसमाधुरीपरिपोषितलीलाविलासादिकमत्राभिलक्ष्यम् ॥७१॥

हाराद्यलङ्कृतिचयस्य मनोज्ञराश्मेस्

त्वत्स्पर्शरत्नमतुलं मृदुकण्ठलग्नम् ।

त्वत्किङ्किणीवलयनूपुरनिक्वणानां

कामं महोन्नतमणिद्वयमेव हृद्यम् ॥७२॥

यथा स्पर्शमणिस्पर्शेन कृष्णायसमपि स्वर्णवर्णं दधाति,

तथा श्रीराधाकण्ठलग्नः सन्नपि स्वस्य कृष्णवर्णं विहाय निभृतनिकुञ्जमन्दिरे विलासविशेषे गौरीभवनं संप्रार्थितम् ॥

व्याख्यान्तरं सङ्गच्छते,

तद्यथा—

हृद्यं तस्याः हृदिस्थं महोन्नतवक्षोजमणियुगलमेव मुहुर्मुहुरास्वादितुं साकूतं परिमृग्यते ॥७२॥

सन्नीलरक्तवसनद्वयकञ्चुकानां

प्रोद्यत्प्रवालनवमञ्जुमसारमालाः ।

त्वच्छारिका मृगवधू महती मयूरी

लीलाब्जनर्तनततेर्वररत्नकोट्यः ॥७३॥

पूर्वार्धे इन्द्रनीलगर्वध्वंसिनीलवसनस्य प्रवालद्युतिहारिरक्तवस्त्रस्य तथा कञ्चुकस्य च दानं विलासविशेषावस्थायामेतत्त्रयाणां स्वकरे समर्पणमेव भङ्ग्या प्रार्थितम् ।

परार्धे कस्यचित्स्वाभीष्तमङ्गलश्रीअङ्गविशेषस्य दर्शनस्पर्शनादिरूपं सम्भोगजातं भङ्ग्या प्रार्थितमिति ज्ञेयम् ॥७२॥

कान्त्या यस्य क्षितिवनगिरिग्रामलोकाः समस्ताः

साक्षाज्जाताः सुभगवदने हन्त जम्बूनदाभाः ।

तस्य भ्राम्यद्द्युतिभरवलद्गन्धफल्यावलीनां

जैत्रस्योच्चैः कनकगिरयो गौरवर्णस्य कोट्यः ॥७४॥

जैत्रस्य जयिनः । अत्र कनकगिरयः इत्यनेन श्रीराधावक्षोजयुगलस्याभीक्ष्ण्येन आस्वादनदानमेव सूचितम् ॥७४॥

गौराङ्गानां कमलघुसृणप्रायसौरभ्यसिन्धोर्

वातेनापि व्रजवनमिदं वासितं तन्वतस्ते ।

एतस्यान्यत्किमपि न मया दृश्यते दानयोग्यं

यातायातं कुरु सखि सदा दानमेतन्मदीयम् ॥७५॥

मसृणघुसृणचर्चाचारुकस्तूरिकोद्यन्

मकरकमलवल्लीपत्रभङ्गादिकानाम् ।

रतिवितरणशूरैस्तत्तदामोदपूरैः

परिमलय मदङ्गं नित्यमित्येव दानम् ॥७६॥

चरणकमललाक्षाश्लिष्टसौभाग्यमुद्रा

तटिरतिवलते या हारिणी हन्त तस्याः ।

मदुरसि नखराग्रैरर्धचन्द्रान्परार्धं

वितर पदकवर्यान्दानमाराद्वरोरु ॥७७॥

अत्र विलासविशेषावसरे करनखसमर्पणमेव भङ्ग्या प्रार्थितम् ॥७७॥

ध्वानैर्यस्य विपक्षलक्षहृदयोत्कम्पादिसम्पादकैर्

आ वैकुण्ठमजाण्डापालिरतुलानन्दैः परिप्लाविता ।

प्रीत्या तस्य रमादिवन्दितरुतेः सौभाग्यसद्दुन्दुभेर्

दानं कञ्जमरन्दसुन्दरतरं गानं तवानन्ददे ॥७८॥

नाम स्वस्त्ययनं यदत्र विलसत्पीयूषतोऽपि प्रियं

राधेति प्रथितं समस्तजगतीरोमाञ्चसञ्चारकम् ।

तस्यामूल्यतरस्य दानमपरं योग्यं क्वचित्किं भवेत्

तस्मादुज्ज्वलकेलिरत्नमतुलं राधे ममाधीयताम् ॥७९॥

दीव्यन्मतिप्रथितकीर्तिततिप्रगाढ

चित्तप्रगेयगुणगेयगुणोत्कराणाम् ।

सन्मौक्तिकप्रवरहीरकचारुनील

रत्नोज्ज्वलद्विविधरत्नकुलानि कामम् ॥८०॥

प्रकर्षेण गेयं गुणं यासां तां प्रगाढचितप्रगेयगुणाः उमाइरमण्यः [उमादिरमणीव्यूहस्पृहणीयगुणोत्करां (९) इति कार्पण्यपञ्जिकायामुक्तत्वात्] ताभिरपि गेयः यः गुणानामुत्करः । अत्रासमोर्ध्वगौरवमाधुर्य्पूर्णमतिकीर्तिगुणसमूहानां तत्तदास्वादप्रचूराः कलाविलासा एव भङ्ग्या प्रार्थिताः ॥८०॥

माद्यन्मतङ्गगतिनिन्दिगतेरनङ्ग

रङ्गस्य सङ्गविधये किल लग्निकायाः ।

तारोरुमौक्तिकमरालवरालिरालि

माणिक्यपालिरथ ते करचालनानाम् ॥८१॥

मदमत्तकरिविजयिनः तथा मुक्तामयमरालगतिगरिमहारिणः सौष्ठवभरपरिपोषितसुन्दरगमनस्य अभिसारादिसमये विभ्रमादिवैशिष्ट्यदर्शनाकाङ्क्सा सूचिता पूर्वार्धे । उत्तरार्धे तु विलासविशेषे स्वाङ्गे तत्करवारणादिरूपभोग एव स्वाभिलाषः ॥८१॥

आयुर्यशोजयविवर्धनरन्धनोद्यद्

उद्दामसौष्ठवभरस्य तु कल्पितं मे ।

कायस्थवर्तनतया मधुमङ्गलाय

नित्यं सुशष्कुलिसुकुण्डलिकादिदानम् ॥८२॥

अत्र रन्धनावसरे विस्रस्तवसनभूषणादेर्हेतोः परमोज्ज्वलानावृताङ्गशोभा सन्दर्शनमेव स्वाभिलाषः ॥८२॥

सौन्दर्यह्रीविनयपण्डिततासुगुण

वैदग्ध्यसद्गुणततेर्भवदालिवर्गः ।

दुःसाध्यमानविकृतेर्ललिता त्वदाली

त्वत्प्रीतिनर्मशुभकर्मतते विशाखा ॥८३॥

कान्त्यातिनिन्दितरमाशतलक्षकान्तेस्

त्वद्विग्रहस्य भवति सुदतीष्वमूल्या ।

लक्ष्मीसहस्रशततोऽप्यतिरम्यगोष्ठ

रामाशिरोवरमणेस्तव विग्रहोऽसौ ॥८४॥

अत्रान्योन्योपमा । यदुक्तमलङ्कारकौस्तुभे—

विपर्यास उपमेयोपमा द्वयोः [कारिका २३४] । तेन च विग्रह्तद्वत्योयभेदेनोक्तत्वाद्रमणेच्छुशतलक्षकामिनीविजयिकान्तिशीलस्य विग्रहस्य वा तत्कान्तियुक्तायाः वा निगूढसम्भोगातिशयः परिहासभङ्ग्या प्रार्थितः । यत्र गाढविलासविभ्रान्तौ सम्परिष्वक्तौ बाह्यान्तरसंवेदनरहितौ युगलकिशोरौ परमानन्दरसनिमग्नौ विराजतस्तमाम् ॥८४॥

तद्वाक्यमित्थमधिकं मधुरं निशम्य

राधा तिरस्कृतसुधातुलसिन्धुगर्वम् ।

उत्फुल्लकोपललितस्मितनर्मरम्यं

भङ्ग्या ललाप कुटिलं कुटिलं निरीक्ष्य ॥८५॥

यास्याम्यहं नहि पथा रतहिण्डकेन

सन्दूषितेन नितरां सखि तेन तेन ।

इत्थं मदुक्तमपि नैव निशम्य गर्वाद्

आनीय मामिह ददौ ललिता करेऽस्य ॥८६॥

अत्र श्रीराधायाः किलकिञ्चितभावोद्गमो द्रष्टव्यः । यदुक्तमुज्ज्वले—

गर्वाभिलाषरुदितस्मितासूयाभयक्रुधाम् ।

सङ्करीकरणं हर्षादुच्यते किलकिञ्चितम् ॥ [उ.नी. १०.४४]

उत्फुल्लेति हर्षाख्यस्थायिभावस्य,

ललितेति स्वाभिलाषस्य कुटिलमित्यसूयागर्वयोः,

कोपस्मिते तु व्यक्ते । एवमन्यद्द्वयमप्युन्नेयम् ॥

एवं निगद्य सहसा सह सा सखीभिर्

वाम्येन काम्यमपि तत्कृतनर्मशर्म ।

सन्निन्द्य वन्द्यवदना विधुना व्रजन्ती

रुद्धा बलेन विधुना विधुना व्रजस्य ॥८७॥

श्रुत्वा मुकुन्दमधुरस्मितसिक्तनर्म

मर्मप्रबन्धमतुलं किमपि स्मिताक्षी ।

अन्तःस्फुरत्सुखभरं प्रचुरं रुषेव

संरुद्ध्य हृद्यमधिकं ललिता ललाप ॥८८॥

कस्यापि गोष्ठनगरे दधिदुग्धदान

वार्तापि न श्रुतचरी किमु दृष्टपूर्वा ।

चिल्लाभ वर्गपतिना यदनेन सृष्टम्

एतत्तु वल्लववधूकुललुण्ठनाय ॥८९॥

एतस्य कृष्णभुजगस्य कठोरभोगात्

सख्यो यदि स्वमवितुं परमिच्छतैतत।

गत्वा व्रजेन्द्रगृहिणीपुरतो यशोऽस्य

सङ्गीयतां त्यजति वः सुखितो यथैषः ॥९०॥

स्वाभियोगपक्षे तु—

कृष्णस्य काममयविलासावलिमाश्रित्य यदि स्वरक्षणे युक्तिं कुर्यात,

तदा यशोदाया नगरतः अन्यत्र वनादौ गत्वा अस्य केलिविलासादियशोराशिं तथा गायत,

यथा तेनोद्दीपितः अयं युष्माभिः सह यथेच्छविहारादिकं कुर्वाणः सातिशयसुखमनुभवन्युष्मान्स्वस्वगृहेभ्यः प्रेरयति ॥९०॥

राधा हृदाकूतमगाधमीषद्

व्यङ्गेन विज्ञाय मुकुन्द आरात।

प्रत्येकमल्पस्मितमत्र कृत्वा

जगाद भङ्ग्या ललितादिकास्ताः ॥९१॥

विद्याचयस्य तव सुन्दरि तुङ्गविद्ये

प्रत्येकमेव किल लक्षसुवर्णदक्षम् ।

यत्तेन तेन भवती व्रजयौवतं तज्

जित्वा स्फुरत्यनुदिनं मददर्पदृप्ता ॥९२॥

अत्राङ्गप्रत्यङ्गानां सम्भोगलालसा सूचिता ॥९२॥

चित्रा सुचित्रमृदुमन्दवचःप्रबन्धो

हृद्यो न कस्य तव सुन्दरि भूतलेऽस्मिन।

नो चेत्कथं तमवगम्य बुधः सुधाया

माधुर्यमप्यनुदिनं हि तिरस्करोति ॥९३॥

अस्मादमुष्य मधुरस्य न कोऽपि दान

योग्यः पदार्थ इह भाविनि दृश्यते यत।

तस्मादिदं मृदुलमञ्जुलमृष्टदिव्य

बिम्बाधरामृतमिदं स्मितचन्द्रगन्धी ॥९४॥

प्राणालि चम्पकलते तव वह्नितप्त

जाम्बूनदस्फुरितचम्पककम्पिकान्तेः ।

श्यामं मदङ्गमुचितं मुदिता तयैव

सन्मालया मधुरया किल मण्डयेति ॥९५॥

यत्ते मुखस्य मधु तन्मधुराङ्गि नर्म

कर्पूरवासिततरं रसदिग्धमुग्धम् ।

तस्यैव दुर्लभतरस्य परं विशाखे

दानं त्वमेव नियतं न परं त्रिलोक्याम् ॥९६॥

वैदग्ध्यनर्मरसलास्यविलासहास

सौन्दर्यसद्गुणततेर्ललिते परं ते ।

मानोरुशिक्षणविचक्षणतादिकूट

काठिन्यकौशलपरित्यजनं हि दानम् ॥९७॥

सुधानिधिसुधाभरैः कृतविचित्रसत्कुण्डिका

स्पृहाशतविसर्जकस्फुरितमाधुरीबिन्दुकम् ।

तयोर्व्रजविलासिनोर्मधुरकेलिवार्तासुधां

धयन्त्यपि सहस्रशः सुमुखि नैव तृप्तिं लभे ॥९८॥

कुण्डलीति पाठे—

सुधाप्राचुर्योत्थितविविधगभीरावर्तस्पृहालक्षाणां पर्त्याजकमित्यर्थः ॥९८॥

तस्मात्पुनः पुनरिमं कथयैव वार्ताम्

इत्यद्य कुन्दलतया प्रतिभाष्यमाणे ।

सन्तोषसागरनिमज्जनफुल्लरोम

प्रेमार्द्रवाग्विधुमुखी सुमुखी बभाषे ॥९९॥

तदा तदुक्ताखिलदानवस्तु

जातं निशम्यातिकुलेषु तेषु ।

हसत्सु सर्वेषु च तुङ्गनर्मा

स्मित्वा स्फुटं वाचमुवाच गोष्ठ्याम् ॥१००॥

वित्तानि यानि मधुमङ्गल याचितानि

तान्याशु नेष्यथ कथं बत दुर्बलाः स्थ ।

तस्माद्गृहात्शकटयूथमिहानयध्वं

शूरोष्ट्रसद्वृषभलोकखरांश्च वोढुम् ॥१०१॥

तत्कृष्णनर्मलपितं ललितं निशम्य

थुत्कारकारकमपीन्दुसुधाप्रवाहे ।

आनन्दसंस्फुरितसात्त्विकभावभारम्

आगुण्ठ्य वाम्यमधुरमधुरायताक्षी ॥१०२॥

श्रीमद्गोष्ठवनेश्वरीरसकलालीलोज्ज्वलन्नागरी

भ्राजद्गोष्ठमहेन्द्रनन्दनमनोमाणिक्यपाटच्चरी ।

प्रोद्यत्पुष्पधनुःप्रबन्धविविधव्याकारवागीश्वरी

गान्धर्वा गिरिधारिणा विवदते वाङ्नृत्यविद्याधरी ॥१०३॥

स्वामिन्नु दासवनिता न वयं भवामश्

चन्द्रावलिर्न च वयं न च पद्मिका ते ।

यद्गूढघोरगहने मिषतः करस्य

संलुण्ठनाय भवता बत रक्षिताः स्मः ॥१०४॥

स्वामिन्महामन्मथराजंमन्य कथामात्रस्वामिन्वा ॥१०३॥

राधे मुधा न कुरु वादविवादवृद्धिं

ज्ञात्वा हितं मदुदितं मम देहि दानम् ।

नो चेन्महामदन एष निशम्य रोषात्

संशास्ति वो यदि तदा मम नेह दोषः ॥१०५॥

मिथ्यैवायं सृजति नहि चेद्दानमेतत्ततोऽसौ

प्रेयश्चन्द्रावलिवरशिरःशापमङ्गीकरोतु ।

स्मित्वा गोवर्धनगिरिदरीगेहिनी रङ्गिणीत्थं

वाचं लास्यं सखि विदधति हासयामास गोष्ठीम् ॥१०६॥

अनेन दानलीलाप्रसङ्गान्ते गोवर्धनगिरिगुहायां भावि विलासः सूचितः ॥१०६॥

शुद्धा विभाति च धिया शुभया विशाखा

वैदग्ध्यनर्मनिपुणा भवदन्तरङ्गा ।

तस्मात्तया सह विचार्य विचार्यकार्यं

कुर्याः प्रमत्तललितामतिमाशु मुञ्च ॥१०७॥

दानीन्द्रचन्द्र भवतः स्तवतो यतोऽहं

प्राप्ता सुखं तदिह तेऽपि सुखानि दात्री ।

द्रष्टुं भवन्मधुरधार्ष्ट्यभुजङ्गनृत्यम्

उत्काभिमन्युगरुडं तरसानयामि ॥१०८॥

एवं निगद्य रभसान्महसातिहृद्य

रम्या महिष्ठगुणनर्मभिरद्य सद्यः ।

सद्मानि पद्मवदना चलितुं समुत्का

रुद्धा हठेन हठिना हरिना विशाखा ॥१०९॥

संरक्ष्य धर्ममबलाः सबलादमुष्मात्

कामाद्विमुक्तकुलकर्मसमस्तधर्मात।

व्याघुट्य यात गृहमेव सतीत्ववत्यः

किं वा घटीरिह समर्प्य सुयागशालम् ॥११०॥

अत्र स्वाभिलाषपक्ष एवं व्याख्येयम्—

सतीत्वमधिकं मन्यध्वे चेत्,

गृहं प्रत्यावर्तध्वं,

श्यामप्रीतिरधिका चेत्,

घट्टचत्वरे घृतघटीः परित्यज्य सुरतयज्ञमन्दिरं गच्छतेति ॥११०॥

चित्रोक्तमित्थमधिगत्य रुषेव तुङ्ग

विद्या जगाद कुटिलभ्रुवमुन्नयन्ती ।

जात्यातिभीततरगोपकवाक्यमात्रान्

मुग्धे मुधैव कथमत्र बिभेषि चित्रे ॥१११॥

राधा सदा जयति गोष्ठवनाधिनाथा

तस्याः प्रचण्डसचिवा ललिता च शूरा ।

पश्याद्य तद्वनविनाशकगोकरार्थं

बद्ध्वा नयामि मधुमङ्गलभण्डविप्रम् ॥११२॥

श्रुत्वा तदीयवचनं मधुमङ्गलं तं

भीत्या तदात्मसविधे सुबलादिमध्ये ।

सङ्कुच्य तत्र चकितं चकितं वसन्तं

चण्डं जगाद विहसन्सखि कृष्णचन्द्रः ॥११३॥

मा भैर्महाक्षितिसुरोत्तम मद्विधस्य

साक्षादमुष्य नरसिंहवरस्य दृष्ट्या ।

चण्डी प्रचण्डललितापि च तुङ्गविद्या

सा भैरवी द्रुतमपैष्यति वीतवस्त्रा ॥११४॥

तूर्णं हिरण्यकशिपुं भगवन्नृसिंह

चन्द्रावलीकटुकुचं नखरैर्विदार्य ।

प्रह्लादमुल्लसितमाशु कुरु त्वमित्या

कर्ण्यैष वल्गु ललितालपितं जहास ॥११५॥

चेद्गन्तुमिच्छसि सखीनिकरेण सार्धं

राधे समृद्धधनभूषणलोभतस्त्वम् ।

तद्गच्छ किन्तु ललितेह ममाच्छकच्छे

संरक्ष्यतां प्रतिनिधिः पुनरेषि यावत॥११६॥

पापेन केन महता रतहिण्डकेन

हस्ते तवैव विधिना बत पातिताः स्मः ।

किन्त्वद्य पश्य तरसा वचसां तवैषां

शास्तिं प्रसिद्धललितां ददती किलास्मि ॥११७॥

इति तं प्रतिभाष्य कर्कशं

ललिता रोषकषायरूषिता ।

निकटे कपटैः सखीगणान्

अवदत्सुन्दरि सा रसोन्मदा ॥११८॥

आर्यामिहानयतु तूर्णमिता सुदेवी

चित्राचिरेण कुटिलां जटिलां सपुत्राम् ।

वृन्दोत्तमं सपदि यज्ञिकविप्रमेकम्

आलोकितुं नटनमस्य नटेन्द्रभर्तुः ॥११९॥

इत्थं तया ललितया लपितं सरोषम्

आकर्ण्य गोष्ठरमणीधृतचित्तवृत्तिः ।

ईषद्विहस्य दर वीक्ष्य च राधिकां तां

संव्याजहार रुचिरं सखि गोष्ठचन्द्रः ॥१२०॥

गर्वाद्यस्य मदीयदानमनिशं युष्माभिरुल्लङ्घ्यते

मन्येऽहं च तृणाय नैव कुटिले दानैरलं तस्य वः ।

पश्याद्यैव तदेव नव्यविकसत्तारुण्यरत्नो मया

वक्षोजे परिभूय शूरललितां राधेऽधुना लुण्ठ्यते ॥१२१॥

इत्यालप्य स्मरविलसितैः स्प्रष्टुमुत्के मुकुन्दे

भीत्येवैतास्तत इत उत स्मेरवक्त्रारविन्दाः ।

क्रूरं तिर्यङ्नयननटनैः शश्वदालोकयन्त्यः

प्रेमान्धास्तं प्रियसखि रसेनापसस्रुः समन्तात॥१२२॥

नित्यं राजान्वति जनपदे दिव्यगव्योपहारैर्

यातायातं विदधति जना गोष्ठतः कोटिसङ्ख्याः ।

नैतेभ्यः किं स्पृहयति भवान्दानमादातुमेतत्

सत्यं ते चेद्व्रजगिरिवने घट्टपट्टाधिपत्यम् ॥१२३॥

इति प्रकटराधिकावचनमाकलय्य प्रभुर्

नटन्नयनभङ्गीभिर्निटिलमीषदुच्चालयन।

अशेषरसिकाग्रणीः सुखभरेण राज्यन्मनास्

तथापि बहिरुद्धसन्निव जगाद गान्धर्विकाम् ॥१२४॥

अन्येभ्योऽपि प्रमदमधुना मत्तचित्ताः शृणुध्वं

गृह्णाम्येतन्निरवधि मुदा राजमार्गे व्रजद्भ्यः ।

यूयं त्यक्त्वा तदनुदिवसं गूढमत्राव्रजन्तीत्य्

एवं श्रुत्वा निजचरमुखान्मन्मथश्चक्रवर्ती ॥१२५॥

मामानीयान्तिकमथ रुषा भर्त्सयित्वा समन्ताद्

उग्रं दत्त्वा शपथमहमाशिक्षितस्तेन शश्वत।

तूर्णं गच्छन्त्वमिह सगणो घट्टविध्वंसिणीस्ता

वध्वा शास्तिं सपदि विदधन्मत्पुरः प्रापयेति ॥१२६॥

ततः कुम्भान्समुत्तर्य निर्वृता अपि ताः परम् ।

निर्विण्णा इव भङ्ग्यैव विविशुर्भूभृतस्तले ॥१२७॥

इत्यादितन्मधुरकेलिविलासवार्ता

पीयूषमुल्लसितकर्णपुटैर्निपीय ।

आनन्दतः पुलकगद्गदरावचारु

संव्याजहार मृदु कुन्दलता तदानीम् ॥१२८॥

शश्वत्तयोरतुलकेलिकलामृतानि

कामं धयन्त्यपि मनागपि नैमि तृप्तिं

तस्मात्पुनः कथय सुन्दरि किं ततोऽभूद्

एतत्तदुक्तमधिगम्य जगाद सा च ॥१२९॥

श्रुत्वा तयोर्दयितदानविहारवार्ताम्

आर्ता तदीक्षितुमलक्षितमागतोत्का ।

नान्दीमुखी निभृतकुञ्जगृहे प्रविष्टा

दृष्ट्वाद्भुतं सदसि साद्भुतमाजगाम ॥१३०॥

तां वीक्ष्य तत्र सकलाः परिरभ्य कामम्

आमोदितः कथितवत्य इतः स्ववृत्तम् ।

कृष्णोऽपि तल्लभनमाशु विहस्य शास्यम्

आशंस्य दानविवृतं कथयाम्बभूव ॥१३१॥

स्मित्वा राधामथोद्वीक्ष्य मुदितां रसविह्वलाम् ।

सानन्दं परमानन्दं मुकुन्दं निजगाद सा ॥१३२॥

दानिन्नद्भुतवस्तूनां श्रुत्वा दानमिहाद्भुतम् ।

तद्वाक्यमन्वभावीति जीवद्भिः किं न दृश्यते ॥१३३॥

कुलीना व्रतिनीरेता रहः संरक्षतस्तव ।

अपकीर्तिरलं वीर भविता गोकुले पुरे ॥१३४॥

कृतं कर्तव्यमत्रैव तदलं नर्मखेलया ।

समूह्य मुञ्च मुञ्चैताः सत्रं गच्छन्तु सत्वरम् ॥१३५॥

सर्वाङ्गानामुपरि लसता लङ्गिमेनोत्तमाङ्गे

नापि श्लाघ्यं मुखविधुमिमा द्योतयन्त्योऽपि धूर्ताः ।

तस्मान्नीचैर्हृदयमपि यन्नाभिमाच्छदयेषुर्

यत्नैर्बद्धस्तदिह भविता कोऽप्यपूर्वः पदार्थः ॥१३६॥

तस्मात्पूर्वं निभृतमनया स्थानयुग्मं प्रकाश्य

प्रायः सत्यं भवति नहि वा कार्यतां तत्प्रतीतिः ।

नो चेदेतद्विवृतिमचिरात्सूचकात् संनिशम्य

क्रुद्धोऽस्माकं मदननृपतिर्दण्डमुच्चैर्विधाता ॥१३७॥

गुप्तीकर्तुं तदपि परमं वस्तु यत्तु त्वयाहं

प्रार्थ्य भङ्ग्या सुमति ललिते दातुमुक्त्वा तदर्धम् ।

एतत्किं स्याद्यदिह विचरेल्लेखकः सूचकोऽसौ

राज्ञः प्रेयान्परममतिमानुज्ज्वलः प्रेक्षकोऽपि ॥१३८॥

अन्विष्यद्भ्यां निरवधि मम च्छिद्रमाभ्यां तदग्रे

व्याजादेतन्निभृतविवृतौ ज्ञापितायामवश्यम् ।

तीव्रोऽत्युच्चैर्मदननृपतिर्मामितस्त्वादृशीभिः

सार्धं बद्ध्वा निभृततमसि क्षेप्स्यति द्राग्गुहान्तः ॥१३९॥

मूर्तिमानेव रसराडुज्ज्वलश्च महोज्ज्वलः ।

विलासिशेखरो यस्य विलासेन वशीकृतः ॥ इति राधाकृष्णगणोद्देशदीपिकायाम् ।

अत्र निकुञ्जकन्दरायां मिलनमेव संसूच्यते ॥१३९॥

इति नान्दीमुखीं साक्षाच्छंसिते कंसविद्विषा ।

कपटक्रोधविद्धाद्धा राधा माधवमब्रवीत॥१४०॥

सद्धर्मोद्यत्कमलपटलप्रौढराजीवबन्धोर्

गोपेन्द्रस्य प्रथिततनयः शुद्धरामानुजोऽपि ।

दुष्टध्वंसी स्वयमपि वदस्याशु दुर्भाषितं यत्

तत्ते सेवाकुलफलमिदं दिव्यघट्टीषु देव्याः ॥१४१॥

अन्यदत्र च यत्किञ्चिन्न ब्रूते लज्जया सखी ।

तच्छृणु त्वमिति व्याजात्तुङ्गविद्या जगाद तम् ॥१४२॥

आत्मगह्वरमभङ्गभुजङ्ग

त्वं व्रज द्रुतमितोऽतिचञ्चल ।

आहितुण्डिक वराभिमन्युकः

सार्थकाह्वय उपैति न यावत॥१४३॥

यथा आहितुण्डिकस्याग्रे सर्पस्य चाञ्चल्यं न जायते,

तथा राधापतेरभिमन्योः सकाशे अतिकामुकस्य तस्य रसचाञ्चल्यमपि दूरीगच्छेदिति बाह्यथार्थः ।

स्वाभियोगपक्षे तु आत्मगह्वरं गिरिराजगह्वरं गच्छ,

यावन्न कोऽप्यागच्छतीति भावः ॥१४३॥

येषां भ्राम्यति पद्मिनी फलयुगं रक्तं चतुष्पङ्कजीं

बन्धूके भ्रमरौ विधूंश्च दधती सार्धत्रयोविंशतिम् ।

श्यामेन्दोः परपुंस आवकलनात्फुल्ला भवेत्सा सदा

स्वीयस्वामिरवेर्विलोकनभरन्म्लाना स्फुटं ताम्यति ॥१४४॥

अत्रातिशयोक्त्या पद्मिन्याः असम्भवसम्भवकारिते महाद्भुतत्वं व्यज्य स्वपतिरविकिरणसम्पर्कमसह्यं मन्यमानायास्तस्याः परपुरुषचन्द्रकिरणसहवासेन प्रफुल्लत्वं विज्ञाप्य विरोधाभासेन परमरसचमत्कारित्वं प्रदर्शितम् ॥१४४॥

इति हरिमुखपद्मक्ष्वेलिसौरभ्यसद्म

प्रतिवचनमधूनि प्रीणितैतत्सभानि ।

तदतिरचितबाधापीयमापीय राधा

प्रकटरुचमुदारां वाचमारादुवाच ॥१४५॥

कुमार भज धीरतां न कुरु दुर्मदाच्चापलं

पुरी निकटवर्तिनी दुरधिपोऽत्र कंसो बली ।

अतस्तव हितं ब्रुवे व्रजमहेन्द्रसम्बन्धतः

समूह्य गहनं व्रज प्रकटमत्र गाश्चारय ॥१४६॥

अत्रापि स्वाभियोगः—

कुमारः कुत्सितो मारः कन्दर्पः,

रसचाञ्चल्यविस्तारस्य स्थानास्थानविचाराभावात। अतो गहनमरण्यं व्रज,

तत्रैव तव रसचाञ्चल्यं युक्तियुक्तं,

तथा इन्द्रियाणामपि सुचारु तर्पणादिकं तत्रैव भावीति द्योतितम् ॥१४६॥

महामदनभूपतेरयमभिन्नदेहः स्वराट्

नृशंसनृपजीविताधिकवयस्यकेश्यादिकान।

विमथ्य दरलीलया स्फुरति योऽत्र गोष्ठान्तरे

स एष तव कंसतः सखि बिभेति किं मे सखा ॥१४७॥

अथैष पृथुमन्मथो य इह तस्य सामान्तकः

स एव लघुमन्मथः परममुष्य कंसो वशः ।

अतोऽस्य लिपिमङ्कितं सपदि तत्र नीत्वा ददन्

नृपात्कटकमानयन्पतिकुलानि बध्नामि वः ॥१४८॥

लघुमन्मथः चतुर्व्यूहान्तर्गतप्रद्युम्नाख्यः शाखास्थानीयः काम इत्यर्थः श्रिकृष्णकर्णामृतोक्तत्वात्—

कामावताराङ्कुरमिति ॥

इतीह मधुमङ्गलोल्लसितवक्त्रकञ्जस्खलद्

वचःप्रसरसौष्ठवोच्छलितसीधुधारामिमाम् ।

निपीय रभसोन्मदमृदु दधार हासध्वनिं

सदःसरसि सुन्दरीरसिकसभ्यभृङ्गावली ॥१४९॥

एतत्तदुक्तमधिगत्य मृषा रुषाऽयं

वाचं रुचातिरुचिरामिति तामुवाच ।

दानं न चेद्ददति मे तदिमा मयैव

सार्धं चलन्त्विह महामदनेन्द्रपार्श्वम् ॥१५०॥

को वा महामनसिजः सखि नैव जाने

कुत्रापि न श्रुतचरो जगतीतलेऽसौ ।

मिथ्यैष यन्महिमनामबलानि तस्य

सङ्कीर्तयेत्तदिह वः परिहासभङ्ग्यैः ॥१५१॥

इत्याद्यचम्पकलतालपितं तदानीम्

आकर्ण्य गोकुलविधुर्विधुवक्त्रबिम्बाम् ।

राधां निरीक्ष्य दर भाषितवान्सभायां

सोल्लुण्ठमिन्दुवदने मदनोऽद्वितीयः ॥१५२॥

अत्रैव हृद्यगिरिवर्यविसृष्टपट्ट

राष्ट्रे विराजति महामदनः सदैव ।

तत्सेविकाभिरपि यद्भवतीभिरेवम्

आभाष्यते तदिह वो मद एव हेतुः ॥१५३॥

संलभ्य सत्रसदने गमनेऽद्य बाधां

राधा मुधा स्फुरितरोषरसभिषिक्ता ।

तिर्यक्स्फुरन्नयननर्तनतीव्रबाणैर्

आविध्य कृष्णमधुना मधुवागुवाच ॥१५४॥

हे वीर वल्लववधूवदनारविन्द

माध्वीकपानभरतः परमातिशुद्ध ।

भाग्यात्त्वया सह यया चलितं वराक्ष्या

बाढं ररक्ष गृहधर्मकुलानि सैव ॥१५५॥

अत्र विपरीतलक्षणया सोल्लुण्ठवचनमिदं तेन च तस्याः इह परकालधर्मजातानि सर्वाण्येवास्तमितानीति महादुर्भाग्यं तस्याः सूचितम् ॥१५५॥

दृष्ट्वा तयोः कलिमनल्परसातिबद्धम्

आचार्ययोर्विविधनर्मकलाकलापे ।

शान्तीच्छया विनयवाक्यकुलैस्ततोऽसौ

नान्दीमुखी समभिनन्द्य हरिं जगाद ॥१५६॥

दानीन्द्रमाङ्गलिकयज्ञनिमित्तमेताः

शुद्धा नयन्ति शिरसा नवगव्यकुम्भान।

धर्मं निरीक्ष्य कुलचन्द्र विमुञ्च तस्मात्

कामं यथा भवति ते यशसि प्रचारः ॥१५७॥

गिरीन्द्रपुरतः स्फुरन्नवसरोवरस्योन्नत

प्रसन्नतरवारिणः कुसुमसङ्घसद्गन्धिनः ।

ध्वनाढ्यखगसङ्गिनः परित एव स भूरुहैः

समृद्धमधिकं वनं जयति यत्र खेलास्पदे ॥१५८॥

अत्रोद्दीपनविभावः खलु वर्ण्यते—

क्वचित्क्वचन सुन्दरं रणति मत्तभृङ्गावली

मधुप्रसरमन्दिरे सुरभिपुष्पवृन्दोदरे ।

क्वचित्क्वचन कोकिलाः कलरुतानि सन्तन्वते

रसालवनमञ्जरीवरमरन्दपानोन्मदः ॥१५९॥

क्वचित्क्वचन केकिनः पृथु नटन्ति केचिन्मदात्

क्वचित्क्वचन केचन प्रतिनदन्ति चामोदिनः ।

क्वचित्क्वचन माधुरीभररसालहृद्योज्ज्वलत्

फलप्रकरभक्षणे पटु रटन्ति शारीशुकाः ॥१६०॥

श्वस्तावदेतत्सरसो निकुञ्जं

एताः समेष्यन्ति महानपि त्वम् ।

तत्रैव युक्तं तव दानमेतत्

समादयिष्याम्यथ लग्निकाहम् ॥१६१॥

यतोऽत्र निर्वर्त्यमिदं हि दानं

गिरौ स्थितस्यास्य सरोवरस्य ।

तद्दाननिर्वर्तनमित्यभिख्या

भविष्यतीत्येव हि सा जगाद ॥१६२॥

अनेन तस्या वचनेन तेन

विहस्य मुक्ताः स्मितचारुवक्त्राः ।

तं वीक्षमाणा नयनाञ्चलैस्ताश्

चेलुर्मुदा यज्ञगृहाय पूर्णाः ॥१६३॥

अत्र पूर्णाः इत्यनेन पूर्णमनोरथा इत्यर्थे आयाते श्रीदानकेलिकौमुद्युक्तदिशा श्रीराधामाधवयोस्तत्रैव रहःकेलिकुञ्जे ललितादिभिः प्रवेशः कारितः । निभृतविलाससमापनान्ते च बहिरागतौ युगलकिशोरौ । तदनन्तरं च ता मुक्ता इति ज्ञेयम् । सर्वं समञ्जसं चेति दिक। उक्तं च,

श्रीदासगोस्वामिभिर्दाननिर्वर्तनकुण्डाष्टके—

निजनिजनवकुञ्जे गुञ्जिरोलम्बपुञ्जे

प्रणयिनवसखीभिः सम्प्रवेश्य प्रियौ तौ । (६) इत्यादिना ॥१६२॥

कृष्णाक्षिमत्तमधुपे निजदृष्टिभृङ्गीं

भङ्ग्या परिस्फुरदनङ्गतरङ्गिताङ्गी ।

ग्रीवार्धभङ्गरुचिरं दर योजयन्ती

स्मित्वालिवर्गवलिता चलिताथ राधा ॥१६३॥

तदैव तासां मुखपङ्कजानां

स्मितस्फुरन्मञ्जुमरन्दबिन्दुम् ।

नेत्रान्तवक्त्रेण पिबन्नितान्तं

मुकुन्दभृङ्गो मुदमाप सोऽपि ॥१६४॥

ततो वयस्यैः सह नागरोऽसौ

गोवर्धनाद्रेः शिरसोऽवतंसः ।

गाश्चारयन्दानकथामृतं तत्

कुर्वन्मिथो मोदमवाप कृष्णः ॥१६५॥

कान्त्या दिशो दश मुहुर्गुरु गौरयन्ती

भ्राजद्दृगन्तनटनैरतिनीलयन्ती ।

सापि स्मितार्धकलया परिशुक्लयन्ती

वार्तामृतैर्मधुरयन्त्युरुसत्रमाप ॥१६६॥

प्रणम्य गव्यं विनयेन दिव्यं

प्रदाय तेभ्यो वरभूषणादि ।

संलभ्य रम्याणि पुनः स्वकुण्डम्

आसाद्य तास्तत्कथया विजह्रुः ॥१६७॥

रेजुस्ताः प्रेमसौभाग्यसौन्दर्यादिगुणश्रिया ।

सारैर्मुनिवराल्लब्धैर्भूषणैश्च विभूषिताः ॥१६८॥

राधा महाप्रेमरसाभिषिक्ता

स्मरक्रियाशास्त्रविशारदा सा ।

सुविह्वला सात्त्विकमुख्यभावैः

प्रियं जगौ प्राणसखी वृतोच्चैः ॥१७०॥

त्रैलोक्यवर्तिनवदम्पतिमूर्ध्नरत्नं

दग्धस्मराङ्गघटनोन्नतसिद्धतन्त्रम् ।

लीलाविलासनवसर्जनवेधसं तद्

युग्मं न वर्णयितुमब्जभवोऽपि शक्तः ॥१७१॥

इति विलसितवार्तां कुन्दवल्ली रसाक्तां

रहसि परिनिशम्यानन्दसिन्धौ निमग्ना ।

द्रुतमथ निजसख्या सा समृद्धा तयाद्धा

तदिह मिथुनरत्नं द्रष्टुमुत्का चचाल ॥१७२॥

दध्यादिदाननवकेलिरसाब्धिमध्ये

मग्नं नवीनयुवरत्नयुगं व्रजस्य ।

नर्मालिहृद्यमुदितद्युतिगौरनीलम्

अन्धोऽपि लुब्ध इव लोकितुमुत्सुकोऽस्मि ॥१७३॥

राधामाधवयोर्दानकेलिचिन्तामणिं गिरौ ।

लब्धमन्धेन वीक्षन्तां श्रीमद्रूपगणाः प्रियाः ॥१७४॥

अन्धेनेत्यनेन स्वस्य दर्शनासामर्थं दैन्येन ज्ञापितम् । श्रीमद्रूपगोस्वामिचरणारविन्दानुगतरसिकजना एवास्य ग्रन्थरत्नस्य तात्पर्यावधारणायालमित्यपि द्योतितमनेनाधिकारी निर्णयोऽपि कृतः ॥१७४॥

आददानस्तृणं दन्तैरिदं याचे पुनः पुनः ।

श्रीमद्रूपपदाम्भोजरजोऽहं स्यां भवे भवे ॥१७५॥

विविधरससिद्धान्तसागरं प्रदर्श्य निष्प्रत्यूहरसनिष्पत्तौ तथा रसराजि सुपरिवेषाने चाद्वितीयाः श्रीमद्रूपगोस्वामीपादाः खलु गौडीयवैष्णवमात्राणामेव जीवातवः । किमुत तेषां तच्चरणारविन्दैकशरणानां श्रीदासगोस्वामिमहानुभावानामिति ज्ञेयम् ॥१७५॥

प्रेरितो ललिताशक्त्या मोहान्धमतिरप्ययम्

मूलग्रन्थस्य तात्पर्यव्याख्यायां लब्धसाहसः ॥

तत्पादनलिनीधूलिकारुण्यलेशलुब्धकः

यदत्र प्रालपं मूढः क्षमन्तां ते कृपाब्धयः

वसु बाणमती शाके गजचन्द्रसमन्विते ।

नवद्वीपे निवसता केनाप्यलं कृतोऽन्वयः ॥

इति दानकेलिचिन्तामणिः समाप्तः

]