Source: TW
Varadarajastava
WITH COMMENTARY
BY
APPAYYA DIKSHITA
॥ श्रीः ॥
॥ वरदराजस्तवः ॥
श्रीमदप्पय्यदीक्षितेन्द्रैर्विरचितः तैरेव विरचितया व्याख्यया समुद्भासितः ।
श्रीरङ्गम्
श्रीवाणीविलासमुद्रायन्त्रालये संमुद्रितः
१९१७.
॥ श्रीः ॥
१
॥ वरदराजस्तवः ॥
अभिवन्द्य चन्द्रशेखरमाद्यं गौरीसखं परं ज्योतिः । व्याकुर्वे स्वेन कृतां गूढार्थां वरदराजनुतिम् ॥
इह खलु कविर्भक्तानुजिघृक्षया स्वीकृतदिव्यरूपस्य भगवतो वरदराजस्य पादारविन्दप्रभृतिकुन्तलभरपर्यन्तसकलावयवानुसंधानजन्यपरमानन्दं प्रयोजनमुद्दिश्य स्तोत्रं चिकीर्षमाणः स्वाभिमतं फलमाशासान एव चिकीर्षितस्तोत्रस्य निरन्तरायपरिपूरणप्रचयगमनाद्यर्थं तदनुस्मरणरूपं मङ्गलमाचरति-
उद्घाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारूचि गृह्यमाणः । यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ १ ॥
हृदयाब्जकोशं हृत्पद्ममुकुलं कदलीपुष्पसदृशं योगकलया रेचकप्राणायामाभ्यासरूपयोगशिल्पेन । तद्भ्यासपाटवेनेति यावत् । उद्घाट्य विकास्य चिरात् धन्यैः सुकृतिभिः । चिरका- लसंभृततपोबललब्धेन भगवद्भक्तिविरोधिसकलपापविध्वंसकेन सुकृतपरिपाकेण युक्तैरिति यावत् । ‘सुकृती पुण्यवान्धन्यः’ इत्यमरः । ’ जन्मान्तरसहस्रेषु तपोज्ञानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥’ इति हि पुराणवच- नम् । एवंभूतैः पुरुषधौरेयैः यथारूचि ध्यानकालानुसंधेय- त्वेन श्रुतिपुराणप्रतिपन्नानां नीवारशूकाङ्गुष्ठप्रादेशादिपरिमा- णानां मध्ये स्वस्वरुच्यनुसारिणा परिमाणेन गृह्यमाणः हृद- यकमले दृश्यमानोऽपि यः अविरतं नित्यं गगनवत्परिपूर्ण- रूपः प्रस्फुरति प्रकाशते, ध्यानकालेषु यैः परिच्छिन्नो दृश्यते तेषामपि परिपूर्णरूपो भगवान्प्रकाशते । ‘नीवारशूकवत्तन्वी पीता भास्वत्यनूपमा । तस्याः शिखाया मध्ये परमात्मा व्यव- स्थितः ॥’ इत्येतत्संनिधौ ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ इति, ‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः’ इत्येतत्संनिधौ ‘या- वान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ इति, ’ एष आत्मा अन्तर्हृदये अणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा ' इत्येतत्संनिधौ · ज्यायान्दिवो ज्यायानन्तरिक्षाज्ज्यायान्पृथि- व्याः ’ इति च व्यापित्वस्य, अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’ इत्येतत्संनिधौ ’ यस्मिन्द्यौः पृथिवी चान्त- रिक्षमोतं मनः सह प्राणैश्च सर्वैः’ इति व्यापित्वनियतस्य जगदाधारत्वस्य. ‘केचित्स्वदेहे हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् । चतुर्भुजं कंजरथाङ्गशङ्खगदाधरं धारणया स्मरन्ति ॥’ इति भागवतीयहृदयावकाशानुसारिप्रादेशपरि- माणोक्तिसंनिधौ वैराजरूपस्य, वैश्वानररूपमेव गुप्रभृतिपृथि- व्यन्तप्रदेशावच्छिन्नतया प्रादेशमात्रं कृत्वा प्रवृत्ते ’ यस्त्वेत- मेषं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’ इत्यत्र विगतमानत्वस्य चाम्नानात्, कृतश्रवणमननानामुपासनाका- लानुसंधेयभगवद्गुणजातसहाम्नातगुणान्तराणामपि स्फुरण- स्यावर्जनीयत्वात्, गायत्रीविद्यायाम् ‘पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ इति श्रुतस्य गायत्रीरू - पेणानुसंधेयतया विहितस्य पादचतुष्टयस्याग्रिमसंदर्भश्रुतप्रा- कयामूर्ध्वान्तसुषिरपञ्चकजाग्रद्ब्रह्मपुरुषलक्षणद्वारपालयुगलपञ्च- फशालिहृदयकमलरूपराजधानीस्थितत्वस्य चानुसंधेयत्वात्, मरविद्याविष्वपि ’ आनन्दादयः प्रधानस्य’ इति सूत्रे उप- संहर्तव्यत्वेनोक्तस्य त्रिविधपरिच्छेदराहित्यलक्षणस्यानन्त्यस्या- नुसंधानावश्यंभावाच्च । एकस्य ब्रह्मणः परिच्छिन्नतया दृश्य- मानस्यैवापरिच्छिन्नतया स्फुरणमनुपपन्नमित्यनुपपत्त्युद्घाटना- यापि-शब्दः । परिच्छेदापरिच्छेदयोरौपाधिकत्वस्वाभाविकत्वा- भ्याम् , हरिवंशगताश्चर्योपाख्यानोक्तरीत्या भगवतः परमाश्च- र्यरूपत्वेन परिच्छिन्नतया दृश्यमाने भगवन्मुखे यशोदया सर्वस्य प्रपञ्चस्य दृष्टत्वेन च परिच्छेदापरिच्छेदयोः स्वत एव संभवाद्वा तत्समाधानम् । एवंभूतो मुकुन्दः मे मह्यं शाश्वतिकं नित्यं श्रेयो दिशत्वित्यर्थः । अत्र मुकुन्दशब्दशक्त्या निधिवि- शेषोऽपि प्रतीयते । स तु हृदयाब्जवत् गूढप्रदेशे स्थितं कोशं धनागारं योगकलया उपायसामर्थ्येन उद्घाट्य धन्यैः धनलाभ- शीलैः । ’ धनगणं लब्धा’ इति सूत्रेणोक्तार्थे यत्प्रत्ययः । यद्वा धन्यं धननिमित्तभूतः संयोगस्तद्वद्भिः । ‘गोव्यचोऽसं- ख्यापरिमाणाश्वादेर्यत्’ इति सूत्रेण धनस्य निमित्तं संयोग इत्यर्थे यत्प्रत्यये सति धन्यमेषामस्तीत्यर्थे ‘अर्शआदिभ्योऽच्’ इति सूत्रेण मत्वर्थीयोऽच्प्रत्ययः, अर्शआदेराकृतिगणत्वात् । चिरात् बहुकालमारभ्य यथारुचि यथेच्छं गृह्यमाण उपादीय- मानोऽपि न क्षीयते, किं तु अविरतं यथापूर्वं परिपूर्णरूपः प्रस्फुरति ; सः शाश्वतिकं पुनः पुनर्भवं श्रेयो भोगरूपं दिशतु । एवं प्रतीयमानस्याप्रकृतार्थस्य प्रकृतार्थे उपमान - भावं विना अन्वयाभावात् निधिरिव भगवान्मह्यं श्रेयो दिशत्वित्यौपम्यप्रतीतेः शब्दशक्तिमूल उपमालंकारध्वनिः । परिच्छेदापरिच्छेदयोरौपाधिकत्वस्वाभाविकत्वाभ्यां संघटना- यामपिशब्देन प्रत्यायितस्य विरोधस्य वस्तुतत्त्वदृष्ट्या समा- धानाद्विरोधाभासालंकारः । भगवतः परमाश्चर्यरूपत्वेन तत्सं- घटनायामपिशब्देन तस्यैव प्रत्यायनात्तथाभूतसकलवस्त्वन्तरा- पेक्षया आधिक्यरूपो व्यतिरेकालंकारः । अप्रकृतार्थप्रतिपा- दने तु मुकुन्दकोशादिशब्देषु श्लेषः । हृदयाब्जकोशमित्यत्रो- पमा । यथारूचि गृह्यमाणोऽपि परिपूर्णरूपः प्रस्फुरतीत्यत्र प्रतीयमानो लौकिकनिध्यपेक्षया आधिक्यरूपो व्यतिरेकालं- कारश्च । एते प्रधानस्योपमालंकारध्वनेः शरीरिण इव हार- कटककेयूरादयोऽङ्गभूता इति तैः सह प्रकृतस्योपमालंकारस्य संकरः । यथा चाप्रकृतार्थेऽप्यभिधावृत्त्या श्लेषोऽप्यन्त्र प्रती- यते तथोपपादितं वृत्तिवार्त्तिके । लक्षणानि - ’ उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः । गङ्गेव भवतः कीर्त्तिः स्वर्नदी भवति प्रभो ॥ पाठान्तरम् - हंसीव कृष्ण ते कीर्त्तिः स्वर्ग- ङ्गामवगाहते ॥ व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नताः सन्तः किं तु प्रकृतिकोमलाः ॥ आभासत्वे विरो- धस्य विरोधाभास इष्यते । तन्वङ्गि तव वक्षोजावहारावपि हारिणौ ॥ नानार्थसंश्रयः श्लेषो वर्ण्यावण्योभयाश्रयः । सर्वदो
- माधवः पायात्स यो-गङ्गामदीधरत् ॥’ इति दर्शितालंका- राणां लक्षणोदाहरणानि । हृदयाब्जकोशमित्यत्र प्रकृतार्थे अब्जस्य कोशमिति षष्ठीसमासः ; एकस्यैव मुकुलविकसिता- वस्थाभेदेन भेदोपचारात्षष्ठ्युपपत्तिः, अब्जमेव कोशमिति समानाधिकरणसमासो वा; हृदयमब्जकोशमिवेति पुन - रुपमितसमासः, ’ पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम्’ इति श्रुतेः । अप्रकृतार्थे हृदयाब्जसदृशं कोशमिति शाक- पार्थिवादिसमासः । योगकलयेत्यत्र विषयविशेषे चित्तैका- ग्र्यरूपस्य योगस्याङ्गे प्राणायामे योगशब्दस्य, कोशशब्दस्य धनराशिवाचिनो धनागारे च निरूढा लक्षणा । ‘योगः संनहनोपायध्यानसंगतियुक्तिषु’ इति ’ कोशोऽस्त्री कुडूमले खड्गपिधानेऽर्थौघदिव्ययोः’ इति चामरसिंहः । शश्वच्छ- ब्दस्य ’ पुनःसदार्थयोः शश्वत्’ इत्यर्थद्वयेऽनुशिष्टत्वात्प्रकृते ऽर्थे सदार्थवृत्तेरप्रकृतेऽर्थे पौनःपुन्यवृत्तेश्च ततस्तद्धितः । वस- न्ततिलका वृत्तम् ।’ उक्ता वसन्ततिलका तभजा जगौ गः ' इति तल्लक्षणम् ॥ १ ॥
जातो न वेत्ति भगवन्न जनिष्यमाणः पारं परं परमपूरुष ते महिम्नः । तस्य स्तुतौ तव तरङ्गितसाहसिक्यः किं मादृशो बुधजनस्य भवेन्न हास्यः ॥ २ ॥ हे भगवन् षाड्गुण्यपरिपूर्ण परमपूरुष, ते तव महिम्नः
परं पारं जातो जनिष्यमाणश्च देवासुरमनुष्यादिषु कोऽपि न बत्ति न जानाति । अतः कैमुतिकन्यायेन मनुष्यबुद्धिदूरतरस्य तस्य तथाभूतमहिमशालिनस्तव स्तुतौ तरङ्गितसाहसिक्यो जृम्भितसाहसो मादृशः मनुष्येष्वपि प्रहीणो मद्विधः बुधज- नस्य प्रेक्षावल्लोकस्य तव महिमानं देवा अपि न जानन्तीति बुध्यमानस्य हास्यो न भवेत्किम् ? हास्यो भवेदेवेति संभाव- नायां लिङ् । अबुधजनस्येति वा पदविभागः । बुधजनः ’ स वाग्विसर्गो जनताघ विप्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि’ इति लोकार्थ बुध्यमानो यथाकथंचिदपि स्तुवन्तं प्रशंसेदेव । तस्मा- दिममर्थमबुध्यमानस्य तव महिमा वाङ्मनसातीत इत्येतावज्जा- नतो हास्य एव भवेदित्यर्थः । अत्र कैमुतिकन्यायप्रत्यायनादर्था- पत्तिरलंकारः । कैमुतिकन्यायेन पूर्ववाक्यार्थस्य माहश इत्या- गुन्तरवाक्यार्थ प्रति हेतुत्वाद्वाक्यार्थहेतुकं काव्यालङ्गमलंकारः । सम्मात्तस्य तेन संकरः । कैमुत्येनार्थसंसिद्धिः काव्यार्थाप- यस जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरु- Bाम् ॥ हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् । जितोऽसि म कन्दर्प मञ्चित्तेऽस्ति त्रिलोचनः ॥ जीयादम्बुधितनयाध- रममास्वादयन्मुरारातिः । अम्बुधिमथनक्लेशं कलय सफलं विफलं च ॥ ’ इति तेषां लक्षणोदाहरणानि । एकत्र नि- ÷ बद्धानामलंकाराणामङ्गाङ्गिभावेन समप्राधान्येन संदेहेनैकवा- चकानुप्रवेशेन वा मेलने संकरः, तदभावे संसृष्टिरिति भेदः । जातो न वेत्तीत्याद्यर्थे श्रुतिः – ‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप’ इति । नापेति, मनसापि न प्राप्तवानित्यर्थः । तत्रैव पुराणवचनानि च – ‘यो वा अनन्तस्य गुणाननन्ताननुक्रमिष्येत्स तु बालबुद्धिः । रजांसि भूमेर्गण- येत्कथंचित्कालेन नैवाखिलशक्तिधाम्नः ॥ चतुर्मुखायुर्यदि कोटिवक्त्रो भवेन्नरः क्वापि विशुद्धचेताः । स ते गुणानाम- युतैकमंशं वदेन्न वा देववर प्रसीद ॥’ इत्यादीनि, ‘न मे विदुः सुरगणाः प्रभवं न महर्षयः’ इत्यादिभगवद्वचनानि च ॥ २ ॥
मन्ये निजस्खलनदोषमवर्जनीय- मन्यस्य मूर्ध्नि विनिवेश्य बहिर्बुभूषुः । आविश्य देव रसनानि महाकवीनां देवी गिरामपि तव स्तवमातनोति ॥ ३ ॥
हे देव, गिरां देवी सरस्वत्यपि भगवन्महिमस्तुतौ अवर्जनी- यमवश्यंभाविनं निजस्खलनदोषं वाङ्मनसातीते तव महिम्नि आत्मीयमतिविभ्रमदोषमन्यस्य मूर्ध्नि विनिवेश्य अन्यदीयत्वे - नाविष्कृत्य केनचिदुपायेन बहिर्बुभूषुः स्वयं बहिर्भवितुमिच्छुः सती महाकवीनां रसनान्याविश्य तव स्तवमातनोतीति मन्ये योजना । अत्र वाग्देव्येव महाकवीनां रसनाग्रेषु नृत्य- कविप्रौढोक्तिकल्पितस्यार्थस्य भगवन्महिमस्तुताववर्ज- सर्वसाधारणमपि स्खालित्यदोषापवादमसहमानायास्त - केनचिदुपायेन तदपह्नवः फलत्वेनोत्प्रेक्ष्यत इति फलो- । तच्च फलं स्वमर्मगुप्तये परातिसंधानरूपया युक्त्या- णितमिति तयोः गिरां देवीत्यत्रत्यातिशयोक्तेश्च संकरः । सरस्वत्या अप्येतादृशी गतिस्तत्र तव स्तोत्रे मादृशस्य अधिकार इत्यसंभवगमककैमुतिकन्यायरूपकाव्यार्थापत्ति- नमुखेनाक्षेपो दृढीकृतः । ‘संभावना स्यादुत्प्रेक्षा वस्तु- फलात्मना । उक्तानुक्तास्पदाद्यात्र सिद्धासिद्धास्पदे परे ॥ स्तोमं तमः शङ्के कोकीविरहशुष्मणाम् । लिम्पतीव तमो- तानि वर्षतीवाञ्जनं नभः ॥ रक्तौ तवाङ्घ्रि मृदुलौ भुवि क्षेपणाद्ध्रुवम् । त्वन्मुखाभेच्छया नूनं पद्मैर्वैरायते शशी ॥ यः किं कुचयोधृत्यै बद्धः कनकदामभिः । प्रायोऽब्जं पदेनैक्यं प्राप्तुं तोये तपस्यति ॥ ’ इत्युत्प्रेक्षालक्षणोदाहर- नि । ’ युक्तिः परातिसंधानं क्रियया मर्मगुप्तये । त्वामा- खन्ती दृष्ट्वान्यं धनुः पौष्पं करेऽलिखत् ॥ असंभवोऽर्थनि- त्तेरसंभाव्यत्ववर्णनम् । को वेद कुम्भजः कश्चिन्महाम्भोधिं वेदिति ॥’ इति युक्त्यसंभवालंकारयोर्लक्षणोदाहरणानि । रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः । पश्य नीलो- त्पलद्वन्द्वान्निः सरन्ति शिताः शराः ॥’ इति रूपकातिशयो- क्तिलक्षणोदाहरणे । अधिष्ठानस्य स्वशब्देन ग्रहणं विना तस्मिन्नारोप्यस्य वाचकेनैव ग्रहणं निगरणम् । तत्पूर्वकमधि- ष्ठानस्यारोप्यरूपतयाध्यवसानमाहार्यनिश्चयः । तस्मिन्सति रूपकातिशयोक्तिरिति लक्षणार्थः ॥ ३ ॥
अथ कृतस्याक्षेपस्य समाधानम्-
नेतस्तथापि तव निर्ममलोकसेव्यां मूर्तिं मदावलमहीधररत्नभूषाम् । वैकुण्ठ वर्णयितुमस्मि घृताभिलाष- स्त्वन्नामरूपगुणचिन्तनलाभलोभात् ॥ ४ ॥
हे नेतः प्रभो वैकुण्ठ, तथापि इत्थं हास्यो भविष्यन्नपि निर्ममलोकसेव्यां निरहंकारजनसेवनीयां मदावलमहीधररत्न- भूषां हस्तिगिरिशिखरमाणभूषायमाणां तव मूर्तिं त्वन्नाम- रूपगुणचिन्तनलाभलोभात् स्तोत्ररचनाकाले तव नाम्नो रूपस्य विग्रहस्य गुणानां च चिन्तनं लप्स्यत इति लोभात् वर्णयितुं घृताभिलाषोऽस्मि । स्वयं कविरित्यभिमानवता अहंकारिणा खल्वपहासः परिहरणीयः । निरहंकारस्य भगवन्नामादिचि- न्तनमेव फलमर्थयमानस्य लौकिकापहासः किं करिष्यतीति भावः । अनेन भगवद्विषया भक्तिरूपा रतिरभिव्यज्यत इति भावध्वनिः । देवतागुरुनृपादिष्वभिव्यज्यमाना रतिर्भाव इत्यु - च्यते । स्तोत्रनिर्माणप्रतिबन्धकलोकापहासे तथापीत्यनेनावि- ष्कृते सत्यपि स्तोत्रनिर्माणरूपकार्योत्पत्तिनिबन्धनाद्विभावना- विशेषोऽलंकारः सत्यपि प्रतिबन्धके कार्योत्पत्त्यनुकूलमुत्तेजकं स्वस्य कविताद्यभिमानरूपममताशून्यत्वमित्येतन्निर्ममलोकसे- व्यामिति विशेषणेन भगवतो निर्ममप्रियत्वाभिव्यक्त्या यथा- कथंचिद्भगवतः स्तवेनापि स्वाभिमतफलावश्यंभावनिश्चयाभि- प्रायगर्भेण व्यञ्जितमिति परिकरालंकार इत्येतयोः संकरः । रत्नभूषां मूर्तिमित्यत्र रूपकेण तयोः संसृष्टिः ’ कार्योत्पत्तिस्तृ- तीया स्यात्सत्यपि प्रतिबन्धके । नरेन्द्रानेव ते राजन्दशत्य- सिभुजंगमः ॥’ इति तृतीयविभावनाया लक्षणोदाहरणे । ’ अलंकारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोत्तं- सस्तापं हरतु वः शिवः ॥ वर्ण्यं विषयिरूपेण गद्यते यदि रूपकम् । पद्मं तन्वङ्गि ते नेत्रं मुखं ते चन्द्रमण्डलम् ॥ इति परिकररूपकयोर्लक्षणोदाहरणानि । निर्मम इत्यत्र मम - शब्देनाव्ययेन ममतारूपाभिमानविशेषपरेण निरित्युपसर्गस्य समासः ॥ ४ ॥
ननु तथापि वर्णयितुं धृताभिलाषोऽस्मीत्ययुक्तम्, ‘प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः’ इत्युक्तलक्षणप्रज्ञाविशेषभूषितशेमुषीकैर्महाकविभिः कृतस्यैव वर्णनस्य सहृदयहृदयाह्लादकारित्वाद्भगवन्महिमतत्त्वपरिज्ञानानपेक्षणेऽपि काव्यसरणौ तन्मात्रापेक्षणादित्याशङ्कय स्वस्य तथाभूतप्रतिभाराहित्यरूपं कवितामान्द्यं स्वाभिलषितफलसाधने भगवद्विग्रहवर्णने साधकमेव न तु बाधकमित्येतदुपपादयति —
मन्ये सृजन्त्वभिनुतिं कविपुंगवास्ते तेभ्यो रमारमण मादृश एव धन्यः । त्वद्वर्णने धृतरसः कवितातिमान्द्या द्यस्तत्तदङ्गचिरचिन्तनभाग्यमेति ॥ ५॥
हे रमारमण, कविपुंगवाः कविश्रेष्ठा महाकवयः । ’श्रेष्ठोक्षाणौ तु पुंगवौ’ इति वैजयन्ती । तवाभिनुतिं स्तोत्रं सृजन्तु शब्दतोऽर्थतश्च महाप्रबन्धरूपं स्तोत्रं निर्मिमताम् । प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च’ इत्यतिसर्गे लोट् । अतिसर्गः कामचाराभ्यनुज्ञानम् । तेभ्यो महाकविभ्यो मादृशो मन्द एव धन्यः सुकृती स्वाभिलषितफलरूपं धनं लब्धा वा इति मन्ये । ’मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका’ इत्यत्रेवेह मन्ये-शब्दः संभावनामात्रपरः, न तु प्रौढोक्तिकल्पितार्थविषयसंभावनारूपोत्प्रेक्षापरः, इह तदभावात् । यो ’ मादृशः त्वद्वर्णने धृतरसो धृतादरः कविताया अतिमान्द्यात्वरितं स्तोत्रं निर्मातुमशक्नुवन् तत्तदङ्गचिरचिन्तनभाग्यम् एति प्राप्नोति । महाकवयस्तु भगवन्तं तुष्टूषवस्तदवयववर्णनोचितविविधचित्रार्थसमूहालम्बनज्ञानवन्तो वश्यवाचः सन्तः क्षणेन भगवत्स्तोत्ररूपं प्रबन्धं सृजन्तीति न तैश्चिराचिन्तनभाग्यं लभ्यत इति भावः । उत्तरवाक्ये सत्यपि यत्पदे पूर्ववाक्ये विशेष्यनिर्देशकपदान्तरवति न तन्निर्देशकं तत्पदं प्रयोक्तव्यम् ; पूर्ववाक्यार्थावगतिसमये यत्पदश्रवणाभावेन तत्प्रतिनिर्देशकाकाङ्क्षाविरहात्, ’वृत्रस्य त्वावसथादीक्षमाणा विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्तु अथेमा विश्वाः पृतना जयासि ॥’ ‘वीरप्रसूर्जगति भार्गव रेणुकैव या त्वां त्रिलोकतिलकं सुतमभ्यसूत । शक्रेभकुम्भतटखण्डनचण्डधारो येनैष मे न गणितो युधि चन्द्रहासः ॥’ इत्यादिलौकिकवैदिकप्रयोगाणां तथैव दर्शनात् । अतोऽत्र पूर्ववाक्ये तत्पदाप्रयोगः । अत्र पूर्ववाक्यार्थे उत्तरवाक्यार्थस्य हेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः, तेभ्यो मादृशो धन्य इति महाकविभ्यः स्वस्याधिक्यवचनात्, कवितातिमान्द्यादिति तेभ्यो निकर्षवचनाच्चाधिकन्यूनरूपौ व्यतिरेकालंकारौ चेत्येतेषां संकरः । इहैकप्रतियोगिकन्यूनाधिक व्यतिरेकयोर्विरुद्धयोरपि ’ जीयादम्बुधितनया–’ इति श्लोके विफलत्वसफलत्वयोरिव मुखभेदेन प्रवृत्तेः समावेशोपपत्तिः । अलंकारसर्वस्वकृता न्यूनव्यतिरेकमप्यङ्गीकृत्य क्षीणः क्षीणोऽपि शशी भूयो भूयोऽपि वर्धते नित्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ’ इति तदुदाहरणीकृतम् । काव्यप्रकाशिकाकारेण तु – अतिरेको विशेषः, विशिष्टोऽतिरेको व्यतिरेक इत्यवयवव्युत्पत्तिमाश्रित्य अधिकव्यतिरेक एवालंकारः न्यूनव्यतिरेकस्य नास्त्युदाहरणम् ’क्षीणः क्षीणोsपि - ’ इति श्लोके चन्द्राद्यौवनस्यास्थायित्वगुणे आधिक्यं विवक्षितमिति सोऽप्यधिकव्यतिरेकस्यैवोदाहरणमित्युक्तम् । अस्माभिस्तु कुवलयानन्दे न्यूनाधिकसमानरूपास्त्रविधो व्यतिरेकः सोदाहरणं लिखितः । एवं प्रतिभारहितस्य स्तोत्रनिर्माणनिवृत्तिसाधकशङ्कास्पदस्य तत्प्रवृत्तावेव साधकत्वसमर्थने श्लोकस्य पर्यवसानादुक्तालंकारत्रयपरिष्कृतार्थशक्तिमूलो व्याघातविशेषालंकारध्वनिः । ‘सौकर्येण निबद्धा या क्रिया कार्यविरोधिनी । सा तु द्वितीया व्याघातालंकृतिः कथ्यते बुधैः ॥ लुब्धो न विसृजत्यर्थं नरो दारिद्र्यशङ्कया । दातापि विसृजत्यर्थं तयैव ननु शङ्कया ॥ ’ इति तल्लक्षणोदाहरणे ॥ एवं स्तोत्रारम्भ उपपादितः । अथ स्तोत्रमारभ्यते-
काञ्ची महार्घमणिकाञ्चनधामचित्रा विश्वंभरां विबुधनाथ विभूषयन्ती । भाला गजाद्रिशिखरे तव भक्तचिन्ता- रत्नेन राजतितरां शुभविग्रहेण ॥ ६ ॥ हे विबुधनाथ देवराज, महार्घाणां महामूल्यानां मणिका- ञ्चनानामुत्तमरत्नानां शुद्धसुवर्णस्य च संबन्धीनि यानि धामानि स्वर्णनिर्मितानि अन्तःप्रत्युप्तरत्नानि च नगरवासिनां गृहाणि, महार्घाणि महापूजायुक्तानि मणिस्वर्णरूपाणि भगवन्मन्दि- राणि च तैश्चित्रा भोगमोक्षप्रदत्वेनाश्चर्यभूता नानारूपा च । ’मूल्ये पूजाविधौ चार्घः’ इत्यमरः । ‘धाम जन्मप्रभास्थानप्र- भावसुखसद्मसु’ इति यादवः । ’ चित्रं नपुंसकं पुण्ड्रे स्यादा- लेख्येऽप्यथ त्रिषु । आश्चर्ये कर्बुराभिख्यवर्णयुक्तेऽप्यथो पुमान् ॥ ’ इति केशवः । अत एव विश्वंभरां भूमिं विभूषयन्ती अलंकुर्वती काञ्ची केन ब्रह्मणा सृष्टिवृद्धयर्थं नित्यमश्चिता पूजि- तेति काञ्ची । तदुक्तं शिवपुराणसंग्रहे– ‘अपूजयच्च तत्क्षेत्रमन्त- र्वेदीति तच्छ्रुतम् । निष्प्रत्यूहा ततः सृष्टिस्तेन प्रावर्तत द्विजाः ॥ केन स्वयंभुवा तेन सा पुरी नित्यमञ्चिता । ततः काञ्चीति विख्याता चतुर्वर्गफलप्रदा ॥’ इति । गजाद्रिशिखरे ’दिङ्नागैरर्चितस्तत्र पुरा विष्णुः सनातनः । ततो हस्तिगि- रिर्नाम ख्यातिरासीन्महागिरेः ॥’ इति पुराणप्रसिद्धाभिधान- श्रीहस्तिगिरिशृङ्गे भाता भासमानेन भक्तचिन्तारत्नेन भक्तानां चिन्तामणिवद्दर्शनादेवाभिमतसकलार्थप्रदेन तव शुभेन विप्र- हेण सुन्दरेण मङ्गलेन प्रशस्तेन च वपुषा । ’मञ्जुप्रशस्तवो- श्वापि मङ्गलेन समन्विते । शुभशब्दोऽपि नानार्थः प्रशस्त इति केशवः ॥’ तरुणीजनमोहनत्वेन भक्तजनभोगमोक्षप्रद- त्वेन भगवद्विग्रहो वर्णनीय इष्यत ’ इति तदनुसारेणार्थत्रयप - रिग्रहः । राजतितराम् । काञ्चीपुरी मणिगृहैर्विराजमाना तव दिव्याविग्रहणात्यर्थं राजतत्यिर्थः । अत्र काञ्चीति मेखला- व्यभिधीयते । सा मणिकाञ्चनानां धामभिः प्रभाभिश्चित्रा । विश्वंभरामिति स्त्रीलिङ्गांद्गम्यमानामुत्तमनायिकां विभूषयन्ती । गजाद्रिशिखर इति शिखरशब्देन प्रतीयमाने नायकरत्ननिधा- नोचिते मध्यदेशे भासमानेन भगवद्विग्रहेणैव दिव्यमणिना राजतितरामिति । अत्र शुभविग्रहेण चिन्तारत्नेनेति व्यस्त - रूपकम् । तदुत्थापितं काञ्चीधामशब्दयोः श्लिष्टरूपकम् । एवमेकदेशे वाच्यतया वर्तमानैर्व्यस्तश्लिष्टरूपकैर्विश्वंभराया मेखलाभूषणीयोत्तमस्त्रीत्वं गजाद्रिशिखरस्य मेखलानायकरत्न - निधानार्हमध्यदेशत्वं च गम्यत इत्येकदेशविवर्तिरूपकालं- कारः । एकदेशे विशेषेण वाच्यतया वर्तते अन्यत्र गम्यतये- त्येवमेकदेशविवर्तित्वमिह रूपकस्य । न च ’ अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः’ इत्यत्रेव विशेषणसाम्यादप्रस्तु- तस्य गम्यत्वे समासोक्तिरिति लक्षिता समासोक्तिरिह शङ्क- नीया । यत्र प्रस्तुते अप्रस्तुतरूपसमारोपस्तत्र रूपकम्, यत्र प्रस्तुते अप्रस्तुतवृत्तान्तमात्रसमारोपस्तत्र न रूपकं किं तु समा- सोक्तिरिति हि रूपकसमासोक्त्योर्भेदः । ततश्च ऐन्द्रीचन्द्रयोः परवनिताजारपुरुषसमभिव्याहाराभावेन तद्वृत्तान्तमात्रसमा- रोप इति तत्र समासोक्तिरस्तु । इह तु शुभविग्रहचिन्तार- त्नशब्दयोः सामानाधिकरण्यात्प्रस्तुते अप्रस्तुतरूपसमारोपो- Sस्तीति तदानुगुण्याद्विश्वंभरामित्यत्रापि नायिकाताद्रूप्यस्यैव गम्यमानस्य समारोप इत्येकदेशविवर्तिरूपकमेव युक्तम् ‘के- लीतल्पं भुवो बाहुशिखरं वेङ्कटप्रभोः’ इत्यत्रेवेति सर्वमनव- द्यम् । काशीखण्डे काञ्ची भगवत्प्रसादादैश्वर्यसमृद्धिमती व- र्णिता – ’ एवमाराध्य भूतेशं महाकालं ततो द्विजः । जगाम नगरीं काञ्चीं कान्तां त्रिभुवनादपि ॥ लक्ष्मीकान्तः स्वयं साक्षाज्जन्तूंस्तत्र निवासिनः । श्रीकान्तानेव कुरुते परत्रेह च निश्चितम् ॥’ इति । तदर्थस्मारणाय समृद्धिमत्ता वर्णिता । तस्य चान्तर्वेदिरूपायां काञ्च्यां भगवत्प्राधान्यप्रत्यायकस्य स्मारणं नायकरत्नत्वरूपणनिर्वाहार्थमिति । एवमनर्घमणिकाञ्चन- धामचित्रेति विशेषणं साभिप्रायम् । अतः परिकरालंकारः । तत्रैव समृद्धिमद्वस्तुवर्णनरूप उदात्तालंकार इति तयोरेकवा- चकानुप्रवेशलक्षणः संकरः । रूपकेण च तयोरङ्गाङ्गिभावेन संकरः । ’उदात्तं वर्णनं यत्र समृद्धियुतवस्तुनः’ इति तल्लक्षणम् । ’रत्नस्तम्भेषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः । ज्ञातः कथंचन मया सभायां वेङ्कटप्रभुः ॥’ इति तस्यो- दाहरणम् ॥ ६ ॥
अस्यां भवन्तमभितःस्थितदुग्धमिन्धौ मध्ये त्रयीमयमहारविमण्डलस्य । पश्यन्नधःकृतचतुर्मुखविष्टपायां धामत्र ऽपि कुतुकं विजहाति विद्वान् ॥
त्रयीमयमहारविमण्डलस्य त्रयीमयो वेदत्रयप्रचुरो महा- नारवो घोषोऽस्मिन्निति तथोक्तम्, तथाभूतस्य मण्डलस्य स्वराज्ये सर्वाणि वेदशास्त्राणि शिवनियोगात्प्रतिष्ठापितवतस्तु - ण्डीराख्यस्य नृपतेर्नाम्नाङ्कितस्य देशस्य मध्ये अभितः- स्थितदुग्धसिन्धौ अन्तिकप्रवहत्क्षीरसरिति समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः’ इत्यभिधानकोशः अधः कृत- चतुर्मुखविष्टपायां माहात्म्येन ब्रह्मलोकातिशायिन्याम् अस्यां काञ्च्यां भवन्तं पश्यन्विद्वान् धामत्रयेऽपि श्वेतद्वीपरविम- ण्डलपरमपदरूपे भगवतः स्थानत्रयेऽपि कुतुकं दिदृक्षां वि- जहाति, अस्या एव स्थानत्रयगुणयुक्तत्वात् । तथा हि- अभितःस्थितदुग्धसिन्धावित्यत्र श्वेतद्वीपगुण उक्तः । स हि क्षीरोदमध्ये भगवतो दिव्यस्थानविशेष इति प्रपञ्चितं कूर्म- पुराणे - ‘शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः । श्वेतद्वीपश्च तन्मध्ये नारायणसमाश्रयः ॥’ इत्युपक्रम्य ’ तत्र नारायणस्याद्यं दुर्गमं दुरतिक्रमम् । नारायणं नाम पुरं प्रा- सादैरुपशोभितम् ॥’ इत्यादिना भगवतः पुरं वर्णयित्वा ’तस्य मध्येऽतितेजिष्ठमुच्चप्राकारतोरणम् । स्थानं तद्वैष्णवं दिव्यं योगिनामपि दुर्लभम् ॥’ इति तत्र भगवतः स्थान- मुक्त्वा तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः । शेतेऽशे- पजगत्सूतिः शेषाहिशयने हरिः ॥ विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः । आत्मानन्दामृतं पीत्वा परस्तात्तमसः परम् ॥ स पीतवसनोऽनन्तो महामायो महाभुजः । क्षीरोदक- न्यया नित्यं गृहीतचरणद्वयः ॥ सा च देवी जगद्वन्द्या पाद- मूले हरिप्रिया । समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् ॥ न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः । वैकुण्ठं नाम तत्स्थानं त्रिदशैरपि वन्दितम् ॥ न मेऽत्र भवति प्रज्ञा कृत्स्नशस्तन्निरूपणे । एतावच्छक्यते वक्तुं नारायणपुरं हि तत् ॥ स एव परमं ब्रह्म वासुदेवः सनातनः । शेते नारायणः श्रीमान्मायया मोहयञ्जगत् ॥’ इति तत्र भगवतो नित्यसंनिधानमुक्तम् त्रयीमयस्य ’आदित्यो वा एष एतन्मण्डलम्’ इत्यादित्यमण्डलार्चिःपुरुषस्य वेद- श्रयरूपतयाऽऽम्नातस्य ’नवयोजनलाहस्रो विस्तारो मण्ड- लस्य तु । दशयोजनसाहस्रो विस्तारायामतो रथः ॥’ इति वायु- पुराणोक्तेर्नवयोजनसहस्रप्रमाणतया महतो मण्डलस्य सार्चिः- पुरुषस्य मध्ये भगवतोऽवस्थानम् ’ य एषोऽन्तरादित्ये हिर- ण्मयः पुरुषो दृश्यते’ इत्यादिश्रुतौ ’ध्येयः सदा सवितृमण्डलम- ध्यवर्ती नारायणः – इत्यादिपुराणवचनेषु च प्रसिद्धम् । ब्रह्मसदनात्परं भगवतः परमपदमिति च तेषु प्रसिद्धम् । यथा तावत्कूर्मपुराणे – तव नारायणस्यापि भवनं ब्रह्मणः परम् । शेते तत्र हरिः श्रीमान्मायी मायामयः परः ॥ स विष्णुलोकः कथितः पुनरावृत्तिवर्जितः । यान्ति तत्र महा- त्मानो ये प्रपन्ना जनार्दनम् ॥ ऊर्ध्वं तद्ब्रह्मसदनात्पुरं ज्योति- र्मयं शुभम् ॥’ इति । काञ्चीसमीपे क्षीरनदी ब्रह्माण्डपुराणे दर्शिता -— ’पुरा कदाचिद्वासिष्ठे कामधेनुस्तपोवने । अवत्सा पयसां पूरं होमार्थं दुहती स्वयम् । तस्थौ शुष्यद्भिरूधस्यैः संप्राप्ता परमं श्रमम् ॥ तस्या विकृतिमालोक्य वसिष्ठस्ताम- पोहितुम् । विधाय कूर्चं मन्त्रेण वत्सरूपं पुरोऽदिशत् ॥ म कूर्चः सहसा भूत्वा वत्सो धेनुमुपाययौ । सा वत्सलैव वत्सं तमङ्गे धेनुर्लिलेह च ॥ प्रीतिकण्टकितैरङ्गैः प्रस्तुतस्तनम- ण्डला । प्रक्षरद्भिस्तदा धेनुर्महौघैः पयसां निजैः । उल्लङ्घि- तोभयतटामुपादयदापगाम् ॥ एषा काञ्चीपुरं प्राप्य कलशा- र्णवकाङ्क्षिणी । अगादालोलशैवाला स्खलन्ती च पदे पदे ॥’ इति, ‘अस्ति वासिष्ठगोक्षीरधाराकृतमहापगा। क्षीरापगेति विख्याता नाम्ना तेन जगत्त्रये ॥ तस्या दक्षिणतः काञ्च्या नातिदूरे तरङ्गिणी । स्कन्दाभिषेकसंभूता स्कान्दीति प्रथिता- ऽऽपगा ॥ अन्तरालं तयोर्मध्यमन्तर्वेदीति विश्रुतम् । काञ्ची- स्थानमिदं विद्धि ख्यातं द्वादशनामभिः’ इति च । वामन- पुराणे तु–’ सरस्वती पञ्चरूपा कालिन्दी सहिरण्वती’ इत्यु- पक्रम्य ’ सरयूश्च समालक्ष्या हिमवत्पादनिःस्रुता’ इत्यन्तेन हिमवत्पादप्रभवा नदीः कीर्तयित्वा ततो विन्ध्यपादप्रभवाणा- मपि कीर्तनानन्तरम् ’ गोदावरी भीमरथी कृष्णवेणी सर- स्वती’ इत्युपक्रम्य एताश्चापि महानद्यः सह्यमूलाद्विनि- र्गताः’ इत्यन्तेन सह्योद्भवादिनामसंकीर्तनेऽपि सरस्वती परिग- णिता । सा वेगवती सैव क्षीरनदीति च वामनपुराण एव प्रदेशा- न्तरे स्पष्टीकृतम्–‘सरस्वती ततः सह्यमारुह्याशु महानदी । महा- प्रलयसंकाशा प्रायाद्वेगेन भारती ॥ नाम्ना वेगवती सेयं भूलोकेऽतीव विश्रुता । प्रागुदक्प्रवहा वेगात्प्रययौ सागरं प्रति ॥ तां तु क्षीरनदीं प्राहुः प्रसन्नसलिलोद्वहाम् ॥’ इति । कालभेदेन प्रवृत्तयोरुभयोरेकीभावान्न विरोधः । हरिवंशे वराहप्रादुर्भावे श्रीवराहरूपेण भगवता पृथिव्युद्धरणानन्तरं तस्यां चतसृष्वपि दिक्षु बहवः शैलाः सृष्टाः । एकैकस्यां दिशि एकैकशैलप्रभवा वसुधारा पयोधारा घृतधारा मधुधा- गेति चतस्रो नद्यश्च विसृष्टा इत्युक्तम् । तत्र दक्षिणस्यां दिशि विन्ध्ये सृष्टा पयोधाराख्या । ‘मेदिन्यां कृतवान्देवः प्रति- मेरुमिवाचलम् । सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् ॥ नदीं च विपुलावर्तां पुलिनश्रेणिभूषिताम् । क्षीरसंकाशसलिलां पयोधारामिति श्रुताम् ॥’ इति । सैषा क्षीरनद्येव भवितुम- र्हति, तत्र पयःसंबन्धिनो नद्यन्तरस्य प्रसिद्ध्यभावात् । न च विन्ध्याद्दक्षिणभाग एव क्षीरनदी वर्णिता न तु विन्ध्य इति शङ्कनीयम्, तस्य दक्षिणसमुद्रतीरपर्यन्तव्याप्तेः श्रीरा- मायणे दर्शितत्वात् । तत्र हि – एष विन्ध्यो गिरिः श्रीमा- न्नानाद्रुमलतायुतः । एष प्रस्रवणः शैलः सागरोऽयं महो- दधिः ॥’ इति हनूमदादीन्प्रति मेरुसावर्णितनयावचनम् । तदनन्तरम् ’ततस्ते ददृशुर्घोरं सागरं वरुणालयम्’ इति तत्र स्थितानामेव तेषां दक्षिणसमुद्रदर्शनं दार्शतम् – ’ते विन्ध्यस्य गिरेः पादे संप्रपुष्पितपादपे । उपविश्य महा- भागाश्चिन्तामापेदिरे तदा ॥’ इति तत्र तेषामुपवेशनं तत्र समागतस्य संपातेः सूर्यसामीप्याद्दग्धपक्षः स्वयमिहैव पतित इति कंचित्कालमनवहितः स्थितोऽस्मीत्युक्तवतः ‘हृष्टपक्षिगणाकीर्णः कंदरान्तरकूटवान् । दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः ॥’ इति । भ्रातुर्जटायोर्मरणं श्रुतवता तेन जटायुमुद्दिश्य निवापाञ्जलिदानं समुद्र एव कृतमिति चो- क्तम् । तदनन्तरवचनं च दर्शितम् । एवं श्रीवराहेण पृथिव्युद्धर- णानन्तरं क्षीरसमानवर्णतया सृष्टत्वेन क्षीरनदीति लब्धसंज्ञा- यामनादिसिद्धायामेव नद्यां कामधेनुप्रभवनद्याः सरस्वतीरूपाया वेगवत्याश्च समागम इति सर्वाविरोधः कल्पनीयः । अत्र काञ्चीस्थानस्यातिदुर्लभस्थानत्रयकुतुकनिवर्तकत्वोक्त्या किंचि त्करणेनाशक्यवस्त्वन्तरकरणाद्विशेषालंकारविशेषः, श्वेतद्वी- पाद्येकैकमपेक्ष्याधिक्यरूपो व्यतिरेकालंकारश्चेति तयोरेक- वाचकानुप्रवेशलक्षणः संकरः । तयोश्च सिन्ध्वाद्यभङ्गश्लेषेण महारवीति सभङ्गश्लेषेण अधःकृतेत्यतिशयोक्त्या चाङ्गाङ्गि- भावसंकरः । यद्यपि श्रीविष्णुपुराणे– ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः । एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥ निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् । स्थानं तत्परमं विप्र पुण्यपापपरिक्षये । अपुण्यपुण्योपरमे क्षीणाशे- पार्तिहेतवः । यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥ ' इति स्वर्लोकस्योपरितनभूमिभेदरूपं ध्रुवपदं तृतीयं वैष्णवं परमं पदमिति वर्णितम् ,तथापि ब्रह्मलोकाद्धस्तनं तदिह न गृह्यते, किं तूपरितनमेवेति द्रष्टव्यम् ॥ ७ ॥
अस्याममेयगुण पुर्यपराजिताया- मश्वत्थवर्यजुषि दिव्यसरः समीपे । मध्येह्निरण्मयगृहं महिषीयुतं त्वां दृष्ट्वा जनो न पुनरेति भवान्तरार्तिम् ॥ हे अमेयगुण असंख्येयकल्याणगुण, अपराजितायाम् अपराभिः पुरीभिरजितायाम् । सर्वपुर्यतिशायिन्यामिति यावत् । तथोक्तं वामनपुराणे -– ’तेजस्विनां यद्वदिहार्क उक्तो नारीषु रम्भाऽऽश्रमिणां गृहस्थः । काञ्ची तथा श्रेष्ठतया पुरीणां देशेषु सर्वेषु च मध्यदेशः ॥’ इति । सनत्कुमारसंहितायाम्- ’श्रीमत्काशी पुरीवासाद्वासः काञ्चीपुरे वरः । पुराणामुत्तमा द्वारैः शुशुभे द्वारकोपमा ॥ प्रासादैर्गोपुरैः शुभ्रैः प्राकारैरपि सूचकैः । विष्णोः प्रियालयैस्तीर्थैरयोध्येव पुरातनी ॥ योजन- त्रयविस्तीर्णा वासुदेवप्रियालया । नागपर्यङ्कशय्यायां यत्र शेते हरिः स्वयम् । नाशयञ्जगतां पापं काष्ठां गतमपि प्रभुः ॥’ इति । अपरैर्विमतैरजितायामिति वा । अस्यां पुरि काञ्चीपुर्यां दिव्य- सरःसमीपे ’ पञ्च तीर्थानि सन्त्यत्र नागाद्यैर्नामभिः शुभैः । अन- न्ततीर्थं ब्राह्मं च हेमाम्भोजसरस्तथा ॥ अग्नितीर्थं कुशाख्यं च कीर्तितानि मनीषिभिः । एतेषामपि सर्वेषां श्रेष्ठं नागाह्वयं सरः ॥’ इति पुराणप्रसिद्धमनन्तनामाङ्कितं सरो दिव्यसरः तस्य समीपे । कीदृशे ? अश्वत्थवर्यजुषि अनन्तसरःप्राग्भागे श्रीमानश्वत्थवृक्षः प्रसिद्धः तदलंकृते, मध्येहिरण्मयगृहम् । ’पुण्यकोटीति विख्यातं विमानं पुण्यवर्धनम् । वेदिमध्यात्स - मुत्तस्थौ तस्य मूर्तिः स्वयं पुरा ॥ तन्मध्ये भगवान्विष्णुर- भिव्यक्तो हरिः स्वयम् ॥’ इति पुराणप्रसिद्धं पुण्यकोटि- विमानं हिरण्मयगृहम् । तस्य मध्ये महिषीयुतं वक्षःस्थलस्थितया श्रिया वा पार्श्वद्वयवर्तिनीभ्यां श्रीभूमिभ्यां वा युतं त्वां जनो यः कश्चिदपि दृष्ट्वा पुनः भवान्तरार्तिं जन्मान्तरक्लेशं नैति न प्राप्नोति । अत्रापराजितादिशब्दशक्त्या भगवद्भक्तैस्तं प्रपन्नै - रर्चिरादिमार्गेणाप्राप्येति, ’ओं नमो नारायणाय’ इति मन्त्रोपासको वैकुण्ठं भगवल्लोकं गमिष्यतीति नारायणोपनि- षदि ’ वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः । आस्ते नित्यमचिन्त्यात्मा भक्तैर्भागवतैः सह ॥’ इत्यादिपुराणवचनेषु च प्रख्यातवैकुण्ठनामकपरमपदवद्भगवद्दर्शनमपुनरावृत्तिकारण- मित्यपि प्रतीयते। श्रूयते हि च्छन्दोगोपनिषदि परमपदसंस्था - नम् – ‘अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरंमदीयं सरस्तदश्वत्थः सोमसवनस्तदुपराजिता पूर्व- क्षणः प्रभुविमितं हिरण्मयम्’ इति । एवं चात्र सतामुक्तरूपे परमपदे भगवद्दर्शनं यथा अपुनरावृत्तिकारणमेवमिहापीत्यप- राजितशब्दश्लेषेण अश्वत्थाद्यर्थश्लेषेण च प्रतीतेः शब्दा- र्थशक्तिमूल उपमालंकारध्वनिः । ’यत्रार्थिकोऽपि शब्दा- नामनेकत्र समन्वयः । विदग्धहृदयाह्लादी सोऽर्थश्लेषः प्रकीर्त्यते ॥ दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् । पुण्यही - ना न पश्यन्ति गङ्गाधरमिवात्मजम ॥’ इत्यर्थश्लोषस्य लक्षणो- दाहरणे ॥ ८ ॥ संप्राप्य दुग्धतटिनीविरजां विशुद्धाः सन्तो भवद्भजनदां पदमागतास्ते । त्वत्पादतोयतुलसीकुसुमेषु लग्नं गन्धं रसं च गरुडध्वज ते लभन्ते ॥ ९ ॥
हे गरुडध्वज, भवद्भजनदां त्वयि भक्तिप्रदां विरजापक्षे भवत्प्राप्तिप्रदां दुग्धतटिनीमेव विरजां संप्राप्य दर्शनस्पर्शन- पानावगाहनैः पक्षे सूक्ष्मदेहस्यापि विलयेन विशुद्धा निर्मलाः सन्तः साधवः, ’ सत्ये साधौ च सच्छब्दः’ इति स्मरणात् । विरजापक्षे ब्रह्मज्ञाः, ’अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः’ इति श्रवणात् । ते तव पदं काञ्चीं पक्षे परमं पद- मागताः प्राप्ताः सन्तः, त्वत्पादतोयतुलसीकुसुमेषु त्वद- ङ्घ्रिपद्मक्षालनजलेषु तदर्चनतुलसीकुसुमेषु च त्वत्सेवावस- रलब्धेषु लग्नं संक्रान्तं ते तव संबन्धिनं त्वदङ्घ्रिकमलयोः कर्पूराद्यनुलेपनप्रयुक्तं सहजं च दिव्यं गन्धं रसं च लभन्ते । क्षीरसरितो भगवद्भक्तिप्रदत्वं विशुद्धिहेतुत्वं च भागवते वर्णि- तम् – ‘कलौ खलु भविष्यन्ति नारायणपरायणाः । क्वचिक्वचि- न्महाराज द्रविडेषु च भूरिशः ॥ ताम्रपर्णी नदी यत्न कृत- माला पयस्विनी। कावेरी च महापुण्या सुप्रती च महानदी ॥ ये पिबन्ति जलं तासां मनुजा मनुजाधिप । प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥’ इति । विरजायाः परमपद - प्राप्तिहेतुत्वम् ’ स आगच्छति विरजां नदीं तां मनसैवात्येति’ इति श्रुतम् । तदुत्तरणानन्तरमेव परमपदप्राप्तेस्तस्याः शुद्धिहे- तुत्वम्, तदुत्तरणानन्तरमेव मध्ये चन्द्रसंवादाद्यर्थं तावत्पर्य - न्तमनुवृत्तस्य प्राकृतस्य सूक्ष्मदेहस्यापि विलयात्ततिक्रमणान- न्तरमेव भगवल्लोकं प्रविष्टस्य भगवद्देहदिव्यगन्धरसप्राप्तिरपि पर्यङ्कविद्यायां श्रुता ’तं ब्रह्मगन्धः प्रविशति तं ब्रह्मरसः प्रविशति’ इति च । यद्यपि पर्यङ्कविद्यायाम् ‘तद्ब्रह्माहाभिधावत मम यशसा विजरां वा अयं नदीं प्रापन्न वा अयं जरिष्यति’ इत्यर्चि- रादिमार्गेण विरजानदीसमीपमागतस्य ब्रह्मज्ञस्य प्रत्यागमनार्थं पञ्चशतान्यप्सरसां प्रेषयतः परब्रह्मणो भगवतो वचने विज- रेति नदीनाम श्रुतं तथैव तत्र निरुक्तं च, तथापि लोकप्र- श्वादानुसाराद्विरजामिति श्लोके प्रयुक्तम् । विजरामिति वा पाठः कार्यः । अत्र भवद्भजनदामिति सामान्यप्रयोगात् दुग्ध- ताटिनीविरजामित्यत्र मयूरव्यंसकादिसमास इति रूपकालं- कारः । तन्मुखेन काञ्चीपुरस्य परमपदत्वरूपणं गम्यत इत्येकदेशविवर्ती । स च शब्दश्लेषेणार्थश्लेषैश्चानुप्राणित इति संकरः ॥ ९ ॥
मोषर्णसालवलयान्समनुप्रावश्य कोशानिव त्रिदशनायक कोऽपि धन्यः । आनन्दवल्ल्युदितदिव्यफलानुरूपं रूपं त्वदीयमवलोकयतेऽभिरूपम् ॥ १० ॥
हे त्रिदशनायक देवराज, सौवर्णसालवलयान् काञ्च्यां भवन्मन्दिरस्य ये काञ्चनप्राकारवलयाः तान् चतुरः पञ्च वा अनुप्रविश्य कोऽपि धन्यः अनेकजन्मार्जितसुकृतपरिपा- कशाली विपश्चित्कश्चित् त्वदीयमभिरूपं सुन्दरं रूपं दिव्य- विग्रहमवलोकयते । कीदृशम् ? आनन्दवल्ल्युदितादिव्यफ- लानुरूपम् आनन्दरूपायां लतायामुदितमुत्पन्नं यत्फलं तद- नुरूपं तत्समानम् । वल्ल्यपेक्षया फलमेव खलु स्वादुतरम् । ततश्चानन्दवल्ल्युत्पन्नफलसाम्योक्त्या लौकिकमानुषानन्दादि- हैरण्यगर्भानन्दपर्यन्तो य आनन्दः प्रसिद्धः तदपेक्षयात्यन्ता- तिशयशाल्यवाङ्मनसगोचरमानन्दरूपत्वमनयोक्तिभङ्गया द- र्शितं भवति । कोशानिवेत्युपमा । तैत्तिरीयाणामानन्दवल्ल्या- ख्येऽनुवाके यन्निरतिशयानन्दपरिपूर्णं परं ब्रह्म प्रतिपादितं ताद्रुष्यमिह भगवद्विग्रहस्यासूत्रितम् ।" तन्निर्व्यूढमुत्तरार्धेन । आनन्दवल्ल्यामन्नमयप्राणमयमनोमयविज्ञानमयाख्याश्चत्वारः कोशाः सानन्दमयाः पञ्च वा प्रतिपिपादयिषितस्य ब्रह्मणः सुखप्रतिपत्त्यर्था निरूपिताः । तेषामनुप्रवेशः प्रतिपत्तिः, ’यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् । अनुप्र- विश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥’ इति तस्यां तत्प्र- योगदर्शनात् । एवं च पूर्वपूर्वप्रहाणेनोत्तरोत्तरानुप्रवेशः को- शेषु सालेषु चास्तीति तत्साम्यम् । आनन्दवल्ल्यामुदितमुक्तं यत्फलम् ’सोऽश्नुते सर्वान्कामान्’ इति ’आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ इति च । तस्यानुरूपं तत्प्रदानोचि- तकरणे अभिरूपं विश्रुतं विचक्षणं वा । ’अभिरूपः सुरूपे च विश्रुते च विचक्षणे’ इति केशवः । विश्रुतं हि भगव- द्रूपमानन्दवल्ल्यादिषूपनिषत्सु । विपश्चिच्च सः, ’ब्रह्मणा विपश्चिता’ इति श्रुतेः । एवंभूतं रूपं निरतिशयानन्दपरि- पूर्णं परब्रह्मस्वरूपमेव । ताद्रूप्यमिह भगवत्स्वरूपस्य कवि- संरम्भगोचरः । न चोपमोपक्रमादग्रेऽप्युपमयैव भाव्यमिति नि- यमोऽस्ति, भेदगर्भोपमापेक्षया रूपकस्योत्कृष्टत्वेनोपमोपक्रम- म्यापि रूपकपर्यवसानोपपत्तेः । रूपकमुपक्रम्योपमापर्यवसा- नकरणे हि प्राक्प्रकर्षता स्यात् । तस्मादुपमया आनन्दवल्ल्यु- दितेत्यादिश्लेषेण चोत्थापिता भगवद्रूपमिदमेवानन्दवल्लीप्रति - पादितं परब्रह्मरूपमित्यभेदाध्यवसानरूपातिशयोक्तिरलंकारः ॥
मातङ्गशैलमणिशृङ्गमहाविमान सोपानपर्वचतुरुत्तरविंशतिर्या । तामेव तत्त्वविततिं पुरुषो विलङ्घ्य पश्यन्भवन्तमुपपाति भवाब्धिपारम् ॥
मातङ्गशैले हस्तिगिरौ प्रादुर्भूतं यत्पुण्यकोट्याख्यं महा- विमानं तत्समीपप्राप्त्यर्थं गिरेरधिरोहणाय चतुर्मुखेण क्लृप्ता या सोपानपर्वणां चतुर्विंशतिः तामेव तत्त्वविततिमिति व्यस्त- रूपकम् । तत्त्वानां मूलप्रकृतिमहदहंकारपञ्चतन्मात्रपञ्चभूतै- कादशेन्द्रियरूपतया चतुर्विंशतिसंख्यानां विततिं पक्तिमतिल- ङ्घ्य पुरुषः पञ्चविंशः भवन्तं षड्विंशमीश्वरं पश्यन्भवाब्धेः पारमुपयाति । विषयदोषदर्शनेन त्यक्तसकलप्रकृतिविकारो विरक्तः खलु पुरुषः परमेश्वरं दृष्ट्वा संसारं तरति इह तु यः कश्चिद्गिरिमारुह्य भगवन्तं पश्यन्संसारं तरतीति व्यस्तरूपकेण तामेव तत्त्वविततिमित्येवकारेण सा- हित्यादयत्नसाध्यत्वसूचकेन यद्धृन्यते तेन व्यतिरेकालंकार- पर्यवसायीदमधिकरूपकम् ॥ ११ ॥
नापारि लब्धुमरविन्दभुवापि साक्षा द्यं पूर्वमीश्वर विना हयमेधपुण्यम् । अन्यैरनाप्य स कथं तव पुण्यकोटिं प्राप्यस्त्वदाकृतिविलोकनजः प्रमोदः ॥१२॥
हे ईश्वर, पूर्वं साक्षादरविन्दभुवापि हयमेधपुण्यं विना यं प्राप्तुं नापारि न शक्तमासीत्, स तथाभूतः त्वदाकृति- विलोकनजः त्वद्रूपावलोकनप्रभवः प्रमोदः प्रकृष्ट आनन्दः अन्यैस्तदितरैः पुण्यकोटिं भवद्विमानं सुकृतानां कोटिं च अनाप्य अलब्ध्वा कथं प्राप्यः ? न कथंचिदपीत्यर्थः । अना- येत्यत्र आङ्पूर्वादाप्नोतेः क्त्वाप्रत्ययस्य ल्यबादेशो नञ्समा - मश्च । अत्र पुण्यकोटिशब्दश्लेषोत्थापितोऽर्थापत्तिरलंकारः । भगवद्दर्शनलिप्सया अनादिसिद्धे सत्यव्रतक्षेत्रे हयमेधेन भगव- न्तमाराधयतो हिरण्यगर्भस्य उत्तरवेद्यां तस्मै दर्शनं दातुं भगवानाविर्भूत इति पौराणिकी कथा । तथोक्तं ब्रह्माण्डे विष्णुना- ’पुरा कृतयुगे राजञ्जम्बूद्वीपे तु दक्षिणे । भागे भारतवर्षे च क्षेत्रे सत्यव्रताभिधे ॥ चैत्रे मासि सिते पक्षे चतुर्दश्यां तिथौ मुने । शोभने हस्तनक्षत्रे रविवारसमन्विते ॥ वपाहोमे प्रवृत्ते तु प्रातःसवनकल्पिते । धातुरुत्तरवेद्यां तु प्रादुरासीज्जनार्दनः । आराधितो जगद्धात्रा हयमेधेन तद्गिरौ ।’ इति ॥ १२ ॥
प्रत्यङ्मुखं तव गजाचलराज रूपं प्रत्यङ्मुखाश्चिरतरं नयनैर्निपीय । अस्थानमाप्तवचसामवितर्कणीय- माश्चर्यमेतदिति निश्चयमावहन्ते ॥ १३ ॥
हे गजाचलराज, प्रत्यङ्मुखाः प्रत्यग्दृष्टयस्तत्त्वविदः प्र- प्रत्यङ्मुखं पश्चिमाशाभिमुखं तव रूपं दिव्यविग्रहम् । ’अथ रूपं नपुंसकम् । स्वभावाकृतिसौन्दर्यवपुःषु श्लोकशब्दयोः ॥’ इति केशवः । चिरतरं नयनैर्निपीय बहुषु जन्मसु प्रार्थितं साक्षाद्भगवदर्शनं लब्धमित्यादरेण बहुं कालमवलोक्य एत- द्रूपम् अस्थानमाप्तवचसामवितर्कणीयम् आप्तवाक्यैरनुमानैर्वा इदमित्थमिति निर्धारयितुमशक्यम् आश्चर्यं परं ब्रह्मेति निश्चयमावहन्ते निश्चिन्वन्तीत्यर्थः आश्चर्यमिति सकल- जगत्स्रष्टृत्वादिमहिमशालि परं ब्रह्म भगवानुच्यते । अत एव हरिवंशे आश्चर्योपाख्याने श्रीकृष्णं प्रति नारदवच- नंम् - ’ आश्चर्यं खलु देवानामेकस्त्वं पुरुषोत्तम धन्य श्चासि महाबाहो लोके नान्योऽस्ति कश्चन ॥’ इति कठवल्लीषु च ’आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः’ इति परब्रह्मविषये वक्तृ- श्रोतॄगामण्याश्चर्यत्वोक्या तस्यात्यन्ताश्चर्यत्वं कैमुतिकन्या- येन दर्शितम् । अत्र प्रत्यङ्मुखा इत्यनेन प्रत्यगा- शाभिमुखा इत्यपि प्रतीयते । प्रत्यगाशाभिमुखः पुरुषः प्रत्य- गाशाभिमुखैरन्यैः स्वाभिमुखतया न दृश्यते, तथापि तथा दृश्यमानं भगवद्रूपमत्याश्चर्यमिति निश्चिन्वन्तीति ततोऽर्था- न्तरं लभ्यते । तस्मिन्नर्थेऽत्यन्तानुपपन्नमिदं कथमुपपादयितुं शक्यमित्येतदर्थत्वेन । चिरतरदर्शनं योजनीयम् प्रकृतार्थे तु तृष्णातिरेकेणेति स्पष्टमेव । अत्राश्चर्यत्वे द्रष्टृदृश्ययोरुभयो रपि प्रत्यङ्मुखत्वं हेतुरिति श्लेषोत्थापितं पदार्थहेतुकं काव्य- लिङ्गमलंकारः ॥ १३ ॥
यस्मिञ्जहात्यतिशयोक्तिरलंकृतित्वं न्यूनोपमात्वमुपमा समुपैति सर्वा। सूक्ष्मस्वभावकलनापि च न प्रतर्क्या तद्वर्णयामि भवतः कथमाभिरूप्यम् ॥
भवतः आभिरूप्यं सौन्दर्यं तत्कथं वर्णयामि ? कथमपि व- र्णयितुं न शक्नोमि । उक्तिवैचित्र्यं हि वर्णनम् । तन्न तावदतिश- योक्त्यलंकारेण संभवति । अतिशयोक्तिरसत्कल्पनया कविप्रौ- ढोक्तिसिद्धया भवति । यथा - ’ सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्’ इति । इह यो यावानतिशयः स्वमत्या परिकल्पित इव स सर्वोऽपि वस्तुवृत्त एव भवेत्, तमप्यतिशयीत वेति ना- तिशयोक्तिरलंकृतित्वं भजते । ततो न्यूनकक्ष्या उपमा सर्वापि न्यूनत्वमयते । यथा— ’ वह्निस्फुलिङ्ग इव भानुरयं चकास्ति’ इति । क्वचिदप्युपमानाधिक्यासं भवादलंकाररूपोपमात्र न प्रवर्तते । स्वभावोक्तिमात्रमप्यत्र न संभवति । सूक्ष्मवस्तुस्व- वर्णनं हि स्वभावोक्तिः । यथा - ’ तौ संमुखं प्रचलितौ “सविधे गुरूणां मार्गप्रदानरभसस्खलितावधानौ । पार्श्वोपस - “र्वणमुभावपि भिन्नदिक्कं कृत्वा मुहुर्मुहुरुपासरतां सलज्जम् ॥’ इति । इह परिदृश्यमानापि रूपसामग्री समुद्रवदप्रतर्क्या, कुतस्तत्र सूक्ष्मस्वभावावगतिरिति । अत्र वाक्यार्थत्रयहेतुकं काव्यलिङ्गमलंकारः ॥ १४ ॥
लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितासि विश्वैकमोहनरसस्य च देवतासि । आवासभूमिरसि सर्वगुणोत्तमानां वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥१५॥
हे वैकुण्ठ, लक्ष्म्याः प्रियोऽसि श्रीमहालक्ष्म्याः स्वयंवर - लब्धो वल्लभोऽसि । सा खलु सर्वोत्तमरूपशालिनी स्वानुगुणं पतिमन्विच्छन्ती सर्वान्देवान्परित्यज्य पुरुषोत्तममाससादेति पुराणादिषु प्रसिद्धिः । रतिकेलिकृतः स्मरस्य पुरुषेषु सर्वोत्तर- सौन्दर्यतया प्रसिद्धस्य पितासि । पितापुत्रयोः सारूप्यं लो- कप्रसिद्धम् । उक्तं चापस्तम्बेन- ‘अथापि स एवायं वि- रूढः पृथक्प्रत्यक्षेणोपलभ्यते चापि सारूप्यं देहत्वमेवान्यत्’ इति । देह एवान्य इत्यर्थः । अथापि अपि चेत्यर्थः । विश्व- स्य एकः प्रधानभूतो मोहनो यो रसः शृङ्गाररसः । ’ शृङ्गा- रवीरकरुणाद्भुतहास्यरौद्रबीभत्सवत्सलभयानकशान्तनाम्नः । आम्नासिषुर्दश रसान्कवयो वयं तु शृङ्गारमेव रसनाद्रसमाम- नामः ॥ वीराद्भुतादिषु च येह रसप्रसिद्धिः सिद्धा कुतोऽपि वटयक्षवदाविभाति । लोके गतानुगतिकत्ववशादुपेतामेतां निव- र्तयितुमेष परिश्रमो नः ॥ ’ इति भोजराजः । तस्य देवतासि । शृङ्गारस्य देवता विष्णुर्हास्यस्य भृङ्गिरिटिरित्यादि भरतशास्त्र - विदो वदन्ति । सर्वगुणोत्तमानां सर्वेषां कल्याणगुणानामावा- सभूमिरसि । यथा रत्नानि जलधेरसंख्येयानि पुत्रक । तथा गुणा ह्यनन्तस्याप्यसंख्येया महात्मनः ॥ समस्तकल्याणगुणा- स्मकोऽसौ ’ इत्यादि मात्स्यवैष्णवपुराणादिषु प्रसिद्धतरमेतत् । ’ प्रायो विरूपेषु भवन्ति दोषा यत्राकृतिस्तत्र गुणा वसन्ति’ इति सामुद्रिकशास्त्रविदः । नैषधचरितेऽप्युक्तम् –’ त्वदुदाह- रणाकृतौ गुणा इति सामुद्रिकसारमुद्रणा’ इति । एवंभूतस्य तष रूपरेखां सौन्दर्यस्य निरन्तरालपपङ्क्तिं पादादिकेशान्तेषु सर्वेष्वप्यवयवसंस्थानविशेषेषु रूपस्य सौन्दर्यस्य निश्छिद्रतया सद्भावं को वर्णयतु ? न कोऽपि वर्णयितुं शक्त इत्यर्थः । रेखा त्वकृत्रिमे मार्गे हस्तपादतलादिषु । निरन्तरालपङ्क्तौ च वदन्ति विदितागमाः ॥’ इति केशवः । अत्रापि पूर्ववत्काव्य- ( गमेवालंकारः ॥ १५ ॥
सर्वोत्तरोऽसि सकलस्त्रिदशाश्रयोऽसि ज्योतिश्छटाघटितचक्रपरिष्कृतोऽसि । शृङ्गारशेवधिरसि द्विपशैलमाले कल्याणरूप इति कस्त्वयि चित्रवादः ॥ हे द्विपशैलमौले । ‘मौलिः किरीटे धम्मिल्ले’ इत्यभिधा- नकोशः । किरीटवच्छिरो भूषयतीति तथात्वाध्यवसायरूपा- तिशयोक्तिः । कल्याणरूपः सर्वजनहृदयहारितया शोभनरूपः स एवाक्षीणसुवर्णरूप इति त्वयि कश्चित्रवादः आश्चर्यवादः ? नेदमाश्चर्यमित्यर्थः । कल्याणस्तूत्सवे क्लीबं मङ्गलाक्षयरु- क्मयोः’ इति केशवः । श्लेषेणाध्यवसिताक्षयस्वर्णरूपत्वस्यो- पपादनार्थं तदितरमहामेरुगुणगणसद्भावः श्लेषेण प्रदर्श्यते- सर्वोत्तरः सर्वाधिकोऽसि । मेरुरपि तथा, सर्वेषामुत्तरो मेरुः ’ इति वचनात् । सूर्याभिमुखस्य सव्यभागस्था उत्तरा भवन्ति । मेरुं प्रदक्षिणीकुर्वाणः सूर्यो यत्पार्श्वस्थेन पुरुषेणा- भिमुखेन निरीक्ष्यते तस्य सर्वस्यापि महामेरुः सव्यभागस्थ एव भवतीति तस्य सर्वोत्तरत्वम् । सकलत्रिदशाश्रयोऽसि सर्वेषां देवानां रक्षकतया भगवानाश्रयः, मेरुरावासतया । ज्योतिश्छटया तेजोनिकरेण घटितं यच्चक्रं सुदर्शनं तेन परि- ष्कृतोऽलंकृतो भवान्, मेरुस्तु आदित्यादिज्योतिःसमूहघटि- तेन ज्योतिश्चक्रेण परिवृतः । शृङ्गारस्य शेवधिर्भवान् । मेरुस्तु शृङ्गमृच्छन्तीति शृङ्गाराः । कर्मण्यण् । तथाभूताः शेवधयो महापद्मादिनिधयो यस्येति शृङ्गारशेवधिः । मेरोर्मध्ये चतुर्मु- खस्य पुरी, तां पुरीं परितो लोकपालानामष्टौ पुर्य इति पौरा– णिकी प्रसिद्धिः । तदन्तर्गते तत्र कुबेरावासे पद्ममहापद्मा- दिसद्भावः । निधिसामान्यविवक्षायां तु तत्सद्भावः सूपपादः । अत्र सर्वोत्तर इत्याद्यभङ्गश्लेषेण शृङ्गारेति सभङ्गश्लेषेण चो- त्थापितमनेकपदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ १६ ॥
अङ्गानि ते निखिललोकविलोचनानां संभावनीयगुण संसरणानि सत्यम् । येष्वेकमाप्य न पुराधिगतं स्मरन्ति वाञ्छन्ति नान्यदपि लब्धुमदो बिहाय ॥
हे संभावनीयगुण सकललोकश्लाघ्यकल्याणगुणनिकर, ते तव अङ्गानि सकललोकविलोचनानां देवमनुष्यादिसर्वजन- नयनानां संसरणानि नित्यसंचरणार्था महामार्गाः । ’घण्टा- पथः संसरणम्’ इत्यमरः । संसरणानीत्यनेन संसारा जन्मभेदा इत्यपि प्रतीयते । तमर्थं परिगृह्योच्यते- सत्यं संस- रणानीत्येतत्साम्प्रतम् । कुतः ? येष्वङ्गेषु क्रमेण दृश्यमानेषु एकमवाप्य प्राप्य पुराधिगतं पूर्वदृष्टमङ्गं न स्मरन्ति, लोक- विलोचनानीति शेषः । अदो विहाय अन्यदपि लब्धुं दृश्य- मानमङ्गं विहायाङ्गान्तरमपि द्रष्टुं न वाञ्छन्ति । तत्तदङ्गद- र्शनजनितपरमानन्दनिमग्नत्वात्पूर्वदृष्टाङ्गविस्मरणमङ्गान्तरदर्श- मानभिलाषश्चेति प्रत्यवयवं सौन्दर्यातिशयाभिव्यक्तिः । संसा- स्याप्ययं स्वभावः यदेकं जन्म प्राप्तः प्राचीनं जन्म न स्मरति उत्कृष्टमपि जन्मान्तरं नाभिलषतीति । अत्र प्रातीतिकस्यार्थस्य प्रकृतार्थे उपमानत्वेनान्वयस्यावश्यंभावादुपमा । अङ्गानि संसरणानीत्यत्र व्यस्तरूपकम् । रूपकोपमयोरङ्गाङ्गिभाव- संकरः ॥ १७ ॥
एकत्र मन्मथमजीजनदिन्दिरायां पूर्वं भवानिति बुधाः किमपूर्वमाहुः । अद्यापि तं न जनयस्परविन्दनाभ कासु प्रसन्नमधुरस्मित कामिनीषु ॥
हे अरविन्दनाभ, एकत्र एकस्यामिन्दिायां लक्ष्म्यां पूर्वं भवान् मन्मथमजीजनदिति बुधाः पुराणविदः किमपूर्व- माहुः ? तच्चित्रं न भवति । अद्यापि कासु कामिनीषु तं रति- भावाभिन्नत्वेनाध्यवसितं मन्मथं न जनयसि ? सर्वास्वपि कामिनीषु जनयस्येव । मधुरस्मितेति विशेषणम् । कामिनीनामु- द्दीपनमुद्दिश्य क्रोधेष्वपि स्मितमस्ति । तन्न प्रसन्नम् । तद्व्यावृ- त्त्यर्थं प्रसन्नविशेषणम् । मधुराकृतिगर्भत्वेन कामिनीनां हृदयेषु रतिभावोत्पादनमेव मन्मथजनकत्वेनाध्यवसितमित्यतिशयो- क्त्यानुप्राणितं काव्यलिङ्गमलंकारः ॥ १८ ॥
निक्षिप्य हृत्त्वयि पुनर्लभते न कोऽपि निर्यात इत्याधिप न त्वयि चित्रमेतत् । हत्वा हठान्मृगदृशां हृदयानि यस्त्व- मेवं निलीय किल तिष्ठसि शैलश्रृङ्गे ॥
हे अधिप प्रभो, त्वयि हृत् हृदयं निक्षिप्य निर्यातो मुक्तः । प्रस्थित इत्यपि प्रतीयते । ’ निर्याणं त्वचि हस्तिनः । नेत्रान्ते निर्गमे मोक्षे मरणे च प्रकीर्तितम् ॥’ इति केशवः । पुनर्न लभते त्वयि निक्षिप्तं हृदयं पुनर्न प्राप्नोति । षोडशकलाप्रलयेन मुक्तो भवतीत्यर्थः । कचिद्विस्रम्भेण स्वकीयं धनं निक्षिप्य देशान्तरं प्रस्थितेन कालान्तरे पुनस्तत्प्राप्तव्यं हि । इह तत्प्राप्त्यभावोक्त्या देवस्य परकीयस्वापहारकत्वं प्रतीयते । तत्तदीयसौन्दर्यातिशयाभिव्यञ्जकेन वाक्यार्थेनोपपादयितुमुत्त- रार्धम् । यस्त्वं मृगदृशां हृदयानि हठाद्बलात्कारेण ।’ हठः पार्ष्ण्यां बलात्कारे जलोद्भवतृणान्तरे । वारिपर्णसमाख्ये च’ इति केशवः । हत्वा एवं मया मनसि भाव्यमानेन प्रकारेण शैलशृङ्गे निलीय तिष्ठसि, स कथं निक्षिप्तं दद्या इति भावः । अत्र कामिनीमनसां वशीकरणमेव तदीयस्वहरणत्वेनाध्यव- सितमित्यतिशयोक्तिः । अन्त्यकाले भगवत्स्मरणमेव तत्र हृदयनिक्षेपणत्वेनाध्यवसितमिति तत्त्राप्यतिशयोक्तिः । एवमति- शयोक्तिभ्यामुत्थापितं काव्यलिङ्गमलंकारः ॥ १९ ॥ मोहं जगत्रयभुवामपनेतुमेत दादाय रूपमखिलेश्वर देहभाजाम् । निःसीमकान्तिरसनीरधिनामुनैव मोहं विवर्धयसि मुग्धविलोचनानाम् ॥
हे अखिलेश्वर सर्वेषामपि देवमनुष्यादीनां स्वामिन् । स्वामी खलु स्वभूतानामनिष्टनिवारणार्थं प्रवर्तते यथा गोपो गवाम् । अतः स्वामी त्वं जगत्त्रयभुवां लोकत्रयसंभूतानां देहभाजां मोहं संसारकारणमज्ञानमपनेतुम् एतद्रूपमिमं शुभ- विग्रहमादायाङ्गीकृत्य निःसीमकान्तिरसनीरधिना उद्वेलस्य लावण्यरूपस्य रसस्य आस्वादनीयस्य जलस्य च नीरधिना समुद्रेण अमुनैव रूपेण मुग्धविलोचनानां वामाक्षीणां मोहं रागातिशयकृतं वैचित्त्यं विवर्धयसि प्रवृद्धं करोषि । अत्र मोहापायकारणतयोपात्तेनैव रूपेण मोहः संवर्ध्यत इत्यसंगति- विशेषोऽलंकारः ।’ अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिश्च सा । गोत्रोद्धृत्यै कीरिर्भूत्वा गोत्रोद्भेदं हरेऽकरोः ॥’ इति तल्लक्ष- णोदाहरणे । सेत्यसंगतिः प्राक्प्रकृतोच्यते । हे हरे, त्वं गोत्रोद्धृत्यै भूमेरुद्धरणाय किरिः श्रीवराहो भूत्वा गोत्रोद्भेदं खुरकुट्टनैः पर्वतानां दलनमकरोरित्युदाहरणार्थः । स च श्लेषोत्थापितः ! मोहयोः संसारमूलाज्ञानरागप्रयुक्तसात्त्विक- भावभेदरूपप्रलयाख्यविकाररूपयोरभेदाध्यवसायरूपयातिश- योक्त्या तयोः संकरः ।’ रसो रागे जले वीर्ये तिक्तादौ पारदे द्रवे । रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ॥’ इति शब्दरत्नाकरः ॥ २० ॥
उच्छेदमेकविषयात्कथयन्ति बोधा- न्मोहस्य ये खलु कथं न मृषावदास्ते । लावण्यमीश तव यन्नयनैर्निपीय तत्रैव मोहमधिकं दधते तरुण्यः ॥ २१ ॥
एकविषयात्समानविषयाब्दोधाज्ज्ञानात् मोहस्य उच्छेदं वि- नाशं ये कथयन्ति ते कथं न मृषावदाः ? मृषावदा इत्युचि- तमेव । हे ईश, यद्यस्मात्कारणात् तरुण्यः तव लावण्यं चाकचक्यरूपं देहकान्तिविशेषम् ’ मुक्ताफलेषु च्छायायास्त- ग्लत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥’ इत्युक्तलक्षणं नयनैर्निपीय अत्यादरेण दृष्ट्वा तत्रैव तस्मिन्नेव लावण्ये अधिकं मोहं कारणे कार्योपचारान्मोहहेतुमनुरागं वधते । अत्रापि मोहयोरभेदाध्यवसायरूपातिशयोक्तिः । मृ- भाषदा इत्यत्र प्रपञ्चमिथ्यात्ववादस्यानृतवादत्वाध्यवसायरूपा- तिशयोक्तिः । निपीयेत्यत्र वीक्षणे तृष्णातिशयकृतपानत्वाध्य- वसायकृतातिशयोक्तिः । एतेषां संकरः । उत्तरवाक्यार्थस्य पूर्ववाक्यार्थे हेतुत्वेनान्वयेऽपि न काव्यलिङ्गमलंकारः । यत्र हेतुत्वमार्थं तत्र काव्यलिङ्गम्, यत्र तच्छाब्दं तत्र न काव्य- लिङ्गम् ’ नागेन्द्रहस्तास्त्वाचि कर्कशत्वात्’ इत्यादाविति खल्वा- लंकारिकमर्यादा ॥ २१ ॥
शुभ्रांशुवक्त्र शुभगोचरलाभतोषा- त्संपस्थितो मृगदृशां नयनाम्बुजौघः । त्वद्भाः सरित्यथ निपत्य बिभर्ति मोहं प्रायः फलन्ति विफलन्ति च दैवचिन्ताः ॥ हे शुभ्रांशुवक्त्र चन्द्रमुख, शुभगोचरलाभतोषात् अति- मनोहरविषयलाभसंतोषात् संप्रस्थितः संभूय युगपत्प्रस्थितः मृगदृशां नयनाम्बुजौघः नयनान्येवाम्बुजानि तेषामोघः समूहः । ’ ओघो बृन्देऽम्भसां रये’ इत्यमरः । अथ प्रस्था- नानन्तरमेव त्वद्भाःसरिति तव लावण्यकान्तिरेव सरित् तस्यां निपत्य मोहं वैचित्त्यमनुरागातिशयप्रयुक्तं बिभर्ति दधाति । शुभ्रांशुर्वक्त्रं यस्येति व्युत्पत्त्या चन्द्ररूपस्य भगव- न्मुखस्य प्रभानिकरे पतितानामम्बुजानां निमीलनरूपं वैचित्त्यं युक्तमिति भावः । इहार्थान्तरमपि प्रतीयते । ग्रहाणां स्थान - विशेषस्थितिप्रयुक्तमानुकूल्यं प्रातिकूल्यं च गोचर इति दैव- ज्ञानां व्यवहारः । ते च शुभगोचरेषु ’भानौ कुलीरालि- झषैर्विमुक्ते– ’ इति । तथैव स्त्रीणां नयनौघः शुभगोचरो लब्ध इति हर्षात्संप्रस्थितः । तदनन्तरमेव क्वचिन्नदीप्रवाहे निपत्य मूर्छितो जात इति । ’ मोहः पुनः स्यादज्ञाने मूर्छायां क्रोध एव च ’ इति केशवः । अस्मिन्नर्थे अर्थान्तरं न्यस्यति- दैवचिन्ताः दैवं शुभाशुभं कर्म तस्य चिन्ताः तत्सूचकग्रहचा- रादिविचारा दैवज्ञैः कृताः प्रायः फलन्ति क्वचिद्विफलन्ति च । इह प्रकृतार्थे शुभ्रांशुवक्त्रेति नयनाम्बुजेति च रूपकयोः प्रस्तुतमोहाभेदेनाध्यवसिते निमीलने उपकारकत्वात्तस्यताभ्यां संकरः । अप्रकृतार्थे तु त्वद्भाःसरितीति रूपकस्य विषयसौ- न्दर्याकृष्टनयनसंबन्धे निपतनाध्यवसायरूपातिशयोक्तेर्मोहगो- चरशब्दश्लेषमूलातिशयोक्त्योश्चार्थान्तरन्यासोपकारकत्वात्तस्य तैः संकरः ॥ २२ ॥
यत्प्राणसंयमजुषां यमिनां मनांसि मूर्तिं विशन्ति तव माधव कुम्भकेन । प्रत्यङ्गमूर्छदतिवेलमहाप्रवाह- लावण्यसिन्धुतरणाय तदित्यवैमि ॥ हे माधव लक्ष्मीपते. प्राणसंयमजुषां प्राणायामं सेवमा- नानां यमिनां योगिनां मनांसि तव मूर्तिं कुम्भकेन पूरक- कुम्भकरेचकानां मध्ये कुम्भकाख्यावस्थाविशेषेण विशन्ति तद्ध्यानप्रवृत्तानि भवन्ति इति यत् । कुम्भकेन विशन्तीत्युक्ते घटरूपेण साधनेन प्रविशन्तीत्यपि प्रतीयते । तदनूद्य फलो- त्प्रेक्षार्थमुत्तरार्धम् । प्रत्यङ्गं तव सर्वेष्वप्यवयवेषु मूर्छन् प्रसरन् अतिवेलः मर्यादामतिक्रम्य वर्तमानः महाप्रवाहो यस्य तथाभूतस्य लावण्यसिन्धोस्तरणाय तदित्यवैमीत्युत्प्रेक्षा । ’ नाभिचक्रस्थितं ध्यायेत्पूरकेण पितामहम् । हृदयाब्जगतं ध्यायेत्कुम्भकेन जनार्दनम् । ललाटस्थं शिवं ध्यायेद्रेचकेन महेश्वरम् ॥’ इति हि स्मृतिः । तदिह भगवध्यानसमये पदकमलादि कुन्तलपर्यन्तेष्वयवेषु क्रमेण ध्यातव्येषु तत्तदङ्ग- प्रवहल्लावण्यतटिनीतरणं कुम्भकावलम्बनस्य फलत्वनोत्प्रेक्षि- तम् । सा चोत्प्रेक्षा कुम्भकशब्दश्लेषेण लावण्यसिन्ध्विति रूपकेण चोत्थापितेति संकरः ॥ २३ ॥
लावण्यसागरभुवि प्रणयं विशेषा- दुग्धाम्बुराशिदुहितुस्तव तर्कयामि । यत्तां बिभर्षि वपुषा निखिलेन लक्ष्मी- मन्यां तु केवलमधोक्षज वक्षसैव ॥ २४ ॥ हे अधोक्षज । अधःकृतान्यक्षाणि यैस्ते अधोक्षा जिते- न्द्रियाः तेषु जायते अभिव्यज्यत इत्यधोक्षजो भगवान् । दुग्धाम्बुराशिदुहितुः लक्ष्म्याः लावण्यसागरभुवि लावण्यमेव सागरः तत्प्रभवायां लक्ष्म्यां तव विशेषाद्विशिष्य अधिकं प्रणयं तर्कयामि । तत्र हेतुः - तां लावण्यसागरभुवं लक्ष्मीं निखिलेन कृत्स्नावयवयुक्तेन वपुषा बिभर्षि । अन्यां दुग्धा- म्बुधिदुहितरं तु लक्ष्मीं केवलं वक्षसैव बिभर्षीति यत् । अत्र लावण्यस्य सागरत्वेन रूपणात्तत्प्रभवायां शोभायां तत्क- न्यकात्वारोपो गम्यत इत्येकदेशविवर्तिरूपकालंकारः । न च लावण्यसागरेत्यत्र लावण्यमेव सागर इति रूपकसमासं वि- हाय लावण्यं सागरमिवेत्युपमितसमासाश्रयणे समासोक्तिरपि संभवतीति वाच्यम् , दुग्धाम्बुराशिप्रतिकोटितासिद्ध्यर्थं सा- गरप्राधान्याय मयूरव्यंसकादिसमासस्याश्रयणीयत्वात् ॥ २४ ॥
सारस्वतं वदनपद्मभुवं प्रवाहं त्रैस्रोतसं च तव पादभुवं निरीक्ष्य । सर्वप्रतीकनिकरात्प्रवहन्त्यजस्रं मीर्ष्यावतीश यमुना किमु कायकान्तिः ॥ हे ईश ईश्वर, तव कायकान्तिः सारस्वतं सरस्वतीसंब- न्धिनं प्रवाहं तव वदनपद्मभुवं त्रैस्रोतसं गङ्गासंबन्धिनं प्रवाहं तव पादभुवं च निरीक्ष्य ईर्ष्यावती अक्षमावती तयो- र्भवदङ्गप्रभवत्वकृतमुत्कर्षं सोढुमशक्नुवती ताभ्यां स्वस्या अत्युत्कर्षार्थं तव सर्वप्रतीकनिकरात् सर्वेषामवयवानां समू- हात् अजस्रं प्रवहन्ती यमुना किम्विति स्वरूपोत्प्रेक्षा । सा च वाग्गुम्भ एव सरस्वत्या नद्याः प्रवाह इति तदुभयाभेदा- ध्यवसायरूपातिशयोक्त्या उत्थापितेति तयोः संकरः । वदनं पद्ममिवेत्युपमया तु तयोः संसृष्टिः ॥ २५ ॥
आपूरितत्रिभुवनोदरमंशुजालं मन्ये महेन्द्रमणिबृन्दमनोहरं ते । त्वद्रागदीपितहृदां त्वरितं वधूनां प्राप्ते सरित्महचरं प्रलयेऽभिवृद्धम् ॥ आपूरितं त्रिभुवनस्योदरमन्तरालं येन तत्तथा महेन्द्रमाणि- वृन्दमिव इन्द्रनीलरत्नसमूहमिव मनोहरं तवांशुजालं देहप्र- भानिकरं त्वद्रागेण त्वद्विषयानुरागेण दीपितहृदां वह्निनेवास- ह्येन प्रदीपितहृदयानां वधूनां तरुणीनां प्रलये ‘स्तम्भः स्वेदो- ऽथ रोमाञ्चः स्वरसादश्च वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः ॥’ इत्युक्तानां सात्त्विकभावानां मध्ये ‘प्रलयो नष्टचेष्टता’ इत्युक्तलक्षणे प्रलयाख्ये विकारे प्राप्ते सति त्वरितमभिवृद्धं सरित्सहचरं समुद्रं मन्ये । प्रलये कल्पान्ते समुद्रस्य ध्रुवलोकपर्यन्तत्रैलोक्यव्यापिन्यभिवृद्धिर्भ- वत्येवेति भावः । अत्र प्रलयशब्दश्लेषोत्थापितातिशयोक्त्या [रितत्रिभुवनदरमिति कविप्रौढोक्तिकल्पितातिशयोक्त्या थापितः स्वरूपोत्प्रेक्षालंकारः ॥ २६ ॥
युक्त्यागमेन च भवाञ्शशिवर्ण एव निष्कृष्टसत्त्वगुणमात्रविवर्तमूर्तिः । धत्ते कृपाम्बुभरतस्त्विषमैन्द्रनीलीं शुभ्रोऽपि साम्वुरमितः खलु दृश्यतेऽब्दः॥ निष्कृष्टस्य रजस्तमोभ्यां व्यावर्तितस्य सत्त्वगुणमात्रस्य र्तो घनीभावरूपा मूर्तिर्यस्य स तथाभूतो भवान् युक्त्या लसत्त्वमयत्वयुक्त्या आगमेन आप्तवचनेन च शशिवर्ण । प्रसिद्धं हि शिवराघवसंवादस्थम् ’ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्’ इति वचनम् । ‘तन्मध्ये भगवानेकः डरीकदलद्युतिः । शेतेऽशेषजगत्सूतिः शेषाहिशयने हरिः ॥’ यत्कूर्मपुराणवचनं तत्रापि पुण्डरीकदलद्युतिरित्यनेन वर्णत्वमेव विवक्षितम् , पुण्डरीकशब्दस्य सिताम्भोजे षिकनामत्वस्यापि सत्त्वात्, ततः प्राकू ‘शाकद्वीपं समा- ’ इति श्वेतद्वीपवर्णनं प्रस्तुत्य ’ तत्र पुण्या जनपदा नाना- समन्विताः । श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥’ तत्रत्यानां सर्वेषामपि शुभ्रवर्णतयोक्तत्वाच्च । वामनपुराणे गजेन्द्रमोक्षाध्याये गजेन्द्रानुसंहितभगवद्रूपप्रतिपादकं वच- नम्- ’ मथितामृतफेनाभं शङ्खचक्रगदाधरम् । सहस्रशुभना- मानमादिदेवमजं विभुम् ॥’ इति । हरिवंशेऽपि घण्टाकर्ण- ध्यानविषयभगवद्रूपप्रतिपादकं वचनम् - ’ ध्यायन्विष्णुं जग- द्योनिं विष्णुं पीताम्बरं शिवम् । कुन्दाममादिपुरुषमेकाकार- मनामयम् ॥’ इति । एवं शशिवर्णोऽपि भगवान् कृपाम्बुभरतः कृपैवाम्बु शीतलत्वाद्भक्तजनतृष्णानिवर्तकत्वाच्च तस्य भरतः भरणातिशयेन गरिम्णा वा । ’भरस्त्वतिशये भारे भरणे गरिमण्यपि’ इति केशवः । ऐन्द्रनीलीमिन्द्रनीलसंबन्धिनीं त्विषं कान्तिं धत्ते । स्वतः शुभ्रोऽपि खल्वब्दो मेघः साम्बु- रम्बुभरितः सन्नसितो दृश्यते । अत्र भगवतः स्वतो मेघवर्ण- मूर्तिसहस्रसद्भावेऽपि कविप्रौढोक्तिकल्पितेयं सरणिः । अत्र कृपाम्बुभरत इति रूपकोत्थापितः प्रतिवस्तूपमालंकारः । प्रतिव- स्तु प्रतिवाक्यार्थम् उपमानवाक्ये उपमेयवाक्ये च उपमा समा- नधर्मोऽस्यामस्तीति प्रतिवस्तूपमा । इह नैर्मल्यगुणरूपो भगव- द्वलाहकयोः समानधर्मो वाक्यार्थद्वयेऽपि पृथङ्निर्दिष्ट एव । सा च प्रतिवस्तूपमा कृपाम्बुरूपरूपकोत्थापितेति संकरः । ऐन्द्रनीलीं त्विषं धत्त इत्यत्रासंभवद्वस्तुसंबन्धनिबन्धनो निद- र्शनालंकारः । इन्द्रनीलसंबन्धनी हि कान्तिर्भगवत्यसंभवन्ती तत्संदृशकान्तिमत्तामवगमयति । अनेन निदर्शनालंकारेण प्रतिवस्तूपमालंकारस्य संसृष्टिः । ’ पदार्थवृत्तिमप्येके वदन्त्य - भ्यां निदर्शनाम् । त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥’ इति तल्लक्षणोदाहरणे ॥ २७ ॥
सर्वानिशाघिमहद्युतिभूषितस्य विश्वैकनायक विभूषणधारणं ते । आबद्धमौहृदमपारसुखाम्बुराशे र्वीक्षे तवैव विषयादिकुतूहलेन ॥ २८ ॥ हे विश्वैकनायक विश्वस्यैकाधिपते, सर्वातिशायिन्या सह- जया स्वभावसिद्धया द्युत्या प्रभया भूषितस्य ते विभूषणधा- रणम् अपारसुखाम्बुराशेः नित्यनिरतिशयानन्दमहार्णवस्य त- वैव विषयादिकुतूहलेन तुच्छगोपकन्यारमणादिकौतुकेन आ- बद्धसौहृदं कृतसौहार्दं समानं वीक्षे पश्यामि । अत्रोपमालं- कारः, सौहृदादिशब्दानां सादृश्यपर्यवसायित्वस्य दण्ड्यलंका- रादिषूक्तत्वात् । सहजकान्त्या यावती शोभा तावती विभूष- णभाभिर्नास्तीति व्यतिरेकालंकार उपमालंकारेण व्यज्यते ॥
मध्ये स्फुरमन्करतोरणमण्डलस्य चामीकराभरणभूषितसर्वगात्रः । आदित्यबिम्बगतमा प्रपदात्सुवर्णं भासा भवाननुकरोति भवन्तमेव ॥ अर्चाविग्रहाणां शोभार्थं निहितः पार्श्वद्वयमुपरिप्रदेशं च V. 4 परिष्कुर्वन्यन्त्रविशेषस्तोरणः । तदभिप्रायेणोक्तं शब्दरत्नाकरे - ‘तोरणोऽस्त्री बहिर्द्वारदारुयन्त्रविशेषयोः’ इति । स तु पार्श्व- द्वये मकरमत्स्याङ्कितो मकरतोरणः । स इह जाम्बूनदमयो विवक्षितः । तन्मण्डलस्य मध्ये स्फुरन् भासमानः चामीक- राभरणैः सुवर्णभूषणैः भूषितसर्वगात्रः भूषितसर्वावयवः भवान् आदित्यविम्बगतम् आ प्रपदात् आ पादाग्रात् सुवर्णं हिरण्मयं भवन्तमेव भासा अनुकरोति । ’य एषोऽन्तरा- दिये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ प्रणखात्सर्व एव सुवर्णः’ इत्युपनिषत्प्रसिद्धादित्यमण्डलसं- निहितमूर्तिस्त्वमिव वर्तस इत्यर्थः । अत्रोपमानोपमेययोरभे- देsपि ‘गगनं गगनाकारम्’ इत्यत्रेव नानन्वयः, एकत्रा- दित्यमण्डलादि अन्यत्र मकरतोरणादीत्युपमानोपमेययोर्बिम्ब- प्रतिबिम्बभावापन्नधर्मभेदात् । किं तु ’ उपाददे तस्य सहस्र- रश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तद्दुकूलादविदूरमौलि - र्बभौ पतगङ्ग इवोत्तमाङ्गे ॥’ इत्यत्रेव धर्मभेदेनोपमानो- पमेयधर्मकल्पनयोपमालंकारः ॥ २९ ॥
सेवारसागतसुराद्यनुबिम्बदृश्यं भूषामणिप्रकरदर्शितसर्ववर्णम् । त्वां विश्वरूपवपुषेव जनं समस्तं पश्यामि नागगिरिनाथ कृतार्थयन्तम् ॥ हे नागगिरिनाथ, सेवारसेन सेवितुमिच्छया आगतानां सुरादीनामनुबिम्बैः प्रतिबिम्बैः दृश्यं दर्शनीयम्, भूषामणीनां प्रकरेण दर्शिताः सर्वे वर्णा अरुणिमादयो येन तं त्वां विश्वरूप- वपुषा समस्तं सेवार्थमागतं जनं कृतार्थयन्तमिव पश्यामि उत्प्रेक्षे। विश्वरूपविग्रहे ’ पश्यामि देवांस्तव देव देहे’ इत्यादिना देवर्षिप्रभृतीनां दर्शनमुक्तम् । ’ नानावर्णाकृतीनि च ’ इति सर्ववर्णत्वमप्युक्तम् । बृहदारण्यकेऽपि ’ तस्य हैतस्य पुरुषस्य रूपं यथा महारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रकोपो यथा ह्यर्चिर्यथा पुण्डरीकम्’ इति तस्य सर्ववर्णत्वमुक्तम् । एवं प्रतिबिम्बरूपसकलदेवतादिसत्त्वेन सर्ववर्णसत्त्वेन च निमित्तेनास्य भगवद्विग्रहस्य सकलजनकृतार्थीकरणार्थदर्शित- विश्वरूपविग्रहत्वोत्प्रेक्षणात्फलोत्प्रेक्षागर्भः स्वरूपोत्प्रेक्षालंकारः । ‘देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः’ इति पार्थदृष्टस्य तस्य विश्वरूपविग्रहस्य सर्वदृश्यत्वाभाव उक्तः । ’ न तु मां शक्ष्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥’ इति भगवता दिव्यचक्षुषैव तस्य दृश्यत्वमुक्तम् । तस्यैवात्र भगवता लोकानुग्रहार्थं सकलजन- दृश्यत्वसंपादनेन पार्थदृष्टपूर्वावस्थातो वैषम्योद्घाटनाद्व्यतिरेका- लंकारश्चेति तद्गर्भितश्चायं स्वरूपोत्प्रेक्षालंकारः । कृतार्थयन्त- मित्यत ‘लक्षणहेत्वोः क्रियायाः’ इति हेतौ शतृप्रत्ययः, ’अर्ज- यन्वसति’ इत्यत्रेव फलस्य हेतुत्वविवक्षणात्कृतार्थीकरणस्य फलत्वलाभः ॥ ३० ॥
शृङ्गीसुवर्णरुचिपिञ्जरितैकभागा- न्यङ्गेषु देव तव भूषणमौक्तिकानि । प्रत्यक्षयन्ति भवतः प्रतिरोमकूप- विश्रान्तसान्द्रजगदण्डसहस्रशोभाम् ॥ हे देव, तवाङ्गेषु शृङ्गीसुवर्णमलंकाररूपेण गृह्यमाणं सुव- र्णम् । अलंकारसुवर्णं यच्छृङ्गीकनकमित्यदः’ इत्यमरकोशः । यद्यपि भट्टबाणेन ’ वर्षसमूहमिवान्तःस्थितापरिमाणशृङ्गिहेम- कूटम्’ इति राजकुलं विशेषयता शुङ्गिहेमेति ह्रस्वान्तशृङ्गि- शब्दः प्रयुक्तः, तथाप्युदाहृते अमरकोशे, ‘अलंकारसुवर्णं तु शृङ्गीकनकमाशु च’ इति वैजयन्त्याम्, ‘आशु पाटल- संज्ञे च व्रीहिभेदे दिवाकरे । अलंकारसुवर्णे च स शृङ्गीकन- काह्वयः ॥’ इति केशवकोशे च दीर्घपाठात् तदनुरोधादत्र शृङ्गीसुवर्णेति दीर्घान्तप्रयोगः । तस्य भासा पिञ्जरितः पीत- वर्णनां प्रापितः । शुद्धसुवर्णत्वेन पीतिमातिशयख्यापनाम पीतरक्तवाचिनः पिञ्जरशब्दस्य प्रयोगः । ’ पिञ्जरः पीतरक्तः स्यात्’ इत्यमरशेषः । एवंभूतः एकभागो येषां तानि भूषणानां मौक्तिकानि भवतः प्रतिरोमकूपं विश्रान्तानां सान्द्राणां च जगदण्डानां ब्रह्माण्डानां यानि सहस्राणि । असंख्यानि ब्रह्माण्डानीति यावत् । ‘ब्राह्मणशतं भोज्यताम्’ इतिव- दर्थतः संख्येयप्राधान्यम् । ’ सहस्रं पुनरस्त्री स्या- च्छतानां दशके तथा । बहून्यपि’ इति केशवः । तेषां शोभां तत्कृतां शोभां प्रत्यक्षयन्ति । भगवति महाविरा- द्रूपे प्रसिद्धा प्रतिरोमकूपविश्रान्तानेककोटिब्रह्माण्डता अत्र भगवति प्रत्यक्षं दृश्यत इत्यर्थः । अत्र भूषणमौक्तिकैर्भगव- न्मूर्तिसंलग्नानेककोटिब्रह्माण्डदर्शनमशक्यसंपादनं संपादित - मित्यशक्यवस्त्वन्तरकरणरूपो विशेषालंकारः । तस्य पिञ्ज- रितेति तद्गुणेन संकरः । यद्यपि ब्रह्माण्डस्याधः कपालं रजत- मूर्ध्वकपालं सुवर्णम् ’ असदेवेदमग्र आसीत्तत्सदासीत्तत्सम- भवत्तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशेत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवतां तद्यद्रजतं सेयं पृथिवी यत्सुवर्णं सा द्यौः’ इति श्रुतेः । इह तु केषांचिन्मौक्ति- कानामधोभागस्तिर्यग्भागो वा सुवर्णसवर्णः । तथापि ‘इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः । सर्वगत्वात्प्र- धानस्य तिर्यगूर्ध्वमधः स्थिताः ॥’ इति वचनात्केषांचिदू- र्ध्वाधरीभावयत्यासेऽपि न विरोधः । ‘तद्गुणः स्वगुणत्या- गादन्यदीयगुणग्रहः । पद्मरागायते नासामौक्तिकं तेऽधरत्वि- षा ॥’ इति तद्गुणालंकारस्य लक्षणोदाहरणे ॥ ३१ ॥ आबद्धपङ्किमहितानि तव त्रिधाम- न्वीघ्राणि हरिशकलानि विभूषणेषु । संमोहनानि सरसीरुहलोचनानां मन्त्राक्षराणि कलये मकरध्वजस्य ॥ हे त्रिधामन् विष्णो । त्रिधामा केशवेऽनले’ इति यादवप्रकाशः । त्रीणि श्वेतद्वीपादीनि धामानि स्थानानि यस्ये- ति व्युत्पत्तिमाहुः । हरिवंशे तु कैलासयात्रायाम् ’ ब्रह्मा त्वं सृष्टिकाले तु स्थितौ विष्णुरसि प्रभो । संहारे रुद्रना- मासि त्रिधामा त्वमतः प्रभो ॥’ इति प्रकारान्तरेण व्यु- त्पत्तिर्दर्शिता । तव विभूषणेषु आ समन्ताद्बद्धाभिर्विरचि- ताभिः पङ्क्तिभिर्महितानि पूजितानि । मनोहराणीति यावत् । वीघ्राणि विमलानि ।’ वीघ्रं तु विमलाथर्कम्’ इत्यमरः । हीरशकलानि वज्रखण्डानि सरसीरुहलोचनानां सरोजदृशां तरुणीनां संमोहनानि वशीकरणार्थानि मकरध्वजस्य मन्म- थस्य मन्त्राक्षराणि कलये मन्ये इति स्वरूपोत्प्रेक्षा ॥ ३२ ॥
आपादमौलि विधृतेषु विभान्ति देव स्थूलेन्द्रनीलमणयो मणिभूषणेषु । रागादुपेत्य तव सुन्दर तत्तदङ्गे लग्नानि लोकसुदृशामिव लोचनानि ॥ हे देव सुन्दरेति च संबोधनद्वयम । तव आपादमौलि आ- पादमामौलि च विधृतेषु मणिभूषणेषु मणिमयेषु भूषणेषु प्रत्युप्ताः स्थूलेन्द्रनीलमणयः रागादुपेत्य समागत्य तत्तदङ्गे लग्नानि यत्र यत्राङ्गे प्रथमं पतितानि तत्र तत्रैव लग्नानि लोकसुदृशां त्रैलोक्यसुन्दरीणां लोचनानीव विभान्तीति स्वरूपोत्प्रेक्षा ॥
त्वां वीक्ष्य मुक्तिद जनास्तरणिं सखायं भिन्युः किलेति तव भूषणपद्मरागाः । शङ्के चिरं जनदृशः स्वकरैः क्षिपन्ति तन्मात्रतोऽपि तव मुक्तिदतामबुध्वा ॥
हे मुक्तिद मोक्षप्रद, तव भूषणपद्मरागाः भूषणेषु प्रत्युप्ताः शोणमणयः स्वकरैः स्वकीयैः किरणैः जनदृशः भगवद्दर्शनार्थमागतानां जनानां लोचनानि कर्माणि चिरं क्षिपन्ति निरस्यन्ति इति शङ्के उत्प्रेक्षे । यथा रविमण्डलं द्रष्ट्रुणां लोचनानि स्वप्रभानिकरैश्चिरं निरस्यति तद्वत् । तत्र हेतुरुत्प्रेक्ष्यते- जनास्त्वां वीक्ष्य सखायं सादृश्यात्स्वेषां सुहृदं तरणिं सूर्यं भिन्द्युः किलेति । अनेन मित्रमण्डलभेदसंभावना हेतुत्वेनोपन्यस्ता । तन्मात्रतोऽपि त्वदङ्गभूषणप्रभाभिर्नेत्रप्रति- घातलाभमात्रेणापि तव मुक्तिदतां मुक्तिप्रदत्वमबुद्ध्वा अवि- चार्यैव । चिरमित्युक्त्या अबुद्ध्वेत्युक्त्या च पश्चाद्बुद्ध्यैव न क्षिपन्तीत्यपि गम्यते । रविमण्डलमपि हि कंचित्कालं प्रभा- निकरैर्लोचनानि प्रतिहन्ति । तत्प्रतिघातलेशं सोढ्वापि यत्नेन पुनः पुनर्वीक्ष्यमाणं तु दर्शनं प्रयच्छति । यथा राजकीयाः स्वसुहृद्धातुकं राजदर्शनार्थमन्तः प्रविविक्षन्तं द्वार्येव गलहस्त- यन्ति तथा निरुन्धन्ति अप्रवेशेऽपि तस्य फललाभं पश्चात्त- र्कयन्ति चेन्निरोधं विसृजन्ति, तत्साम्यमिह गम्यते । अत्र पद्मरागाणां विमण्डलवदतिवैपुल्यमतिभास्वरत्वं च व्यञ्जित- मित्युपमोत्थापिता वाच्या हेतूत्प्रेक्षा । ततश्चिरमबुद्ध्वेत्याभ्यां पश्चादप्रतिघातोत्प्रेक्षा गम्यते । एवमुपमोत्प्रेक्षाद्वयालंकृते प्रस्तुतपद्मरागवृत्तान्ते वर्ण्यमाने तत्सारूप्यादप्रस्तुतराजकीय- वृत्तान्तप्रतीतेः समासोक्तिश्चेत्येतेषां संकरः । उत्प्रेक्षाभ्यां च कृतनिवर्तनरूप आक्षेपालंकारो ध्वन्यते । ‘समासोक्तिः परि- स्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तश्चु- म्बति चन्द्रमाः ॥’ इति समासोक्तिलक्षणोदाहरणे । तत्र रक्तमुखविशेषणसाधारण्यादप्रस्तुतवृत्तान्तप्रतीतिः । इह तु सारूप्यादिति विशेषः । सारूप्यनिबन्धनापि समासोक्तिरस्तीति तदुदाहरणपूर्वकं समर्थितं कुवलयानन्दे । ‘आक्षेपः स्वयमु- क्तस्य प्रतिषेधो विचारणात् । चन्द्र संदर्शयात्मानमथ वास्ति प्रियामुखम् ॥’ इत्याक्षेपालंकारस्य लक्षणोदाहरणे । तत्र स्वयमुक्तप्रतिषेधस्येवेह स्वयंकृतनिवर्तनस्याप्युदाहरणमुपपन्नम्। भगवद्दर्शनं लब्ध्वा अर्चिरादिमार्गेण परमं पदं गच्छतां सूर्यमण्डलमध्ये संभेदनं कृत्वा तेन द्वारेण गमनम् । ’सूर्य- द्वारेण ते विरजाः प्रयान्ति’ ’ स आदित्यमागच्छति, स तस्मै तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते’ इत्यादिश्रुतिप्रसिद्धं च ॥ ३४ ॥
इत्थमिह पञ्चभिः श्लोकैर्मङ्गलाचरणस्तोत्रारम्भाक्षेपसमाधानानि निबद्धानि; काञ्चीपुरी चतुर्भिः, एकेन भगवन्मन्दिरप्राकारः, एकेन गिरिशृङ्गाधिरोहणसोपानपातङ्क्तिः, एकेन पुण्यकोटिविमानः, एकेन तत्र प्रत्यङ्मुखतया भगवतः संनिधानम्, सप्तभिर्भगवतः सर्वावयवसंस्थानविशेषरूपं सौन्दर्यम्, पञ्चभिर्लावण्यम्, त्रिभिर्देहकिरणानां श्यामलिमा, सप्तभिराभराणानि च वर्णितानि । अथैकैकशोऽवयवेषु वर्णनीयेषु अष्टादशभिः श्लोकैः किरणारुणिमरेखानखभूषणसहितश्रीपादवर्णनम्
पादावुपेन्द्र सुकुमारतमाविमौ ते भूषाभरादरुणिमानमिवोडमन्तौ । इत्थं किमस्ति सुकुमारमितीव बोद्धुं लोकत्रयेऽपि च करैः स्पृशत पदार्थात् ॥ हे उपेन्द्र, सुकुमारतमौ ये शिरीषादयः सुकुमारत्वेन प्रसिद्धास्तेभ्यः सर्वेभ्योऽप्यतिशयेन सुकुमारौ । ’ बौद्धप्रति- योग्यपेक्षायामप्यातिशायनिकाः’ इति वामनसूत्रानुसारेण प्रतियोग्यनिर्देशेऽपि गम्यमानप्रतियोग्यपेक्षस्तमप्प्रत्ययः । भू- षाभराद्भूषणानां बाहुल्यात् तद्भरासहिष्णुतया च अरुणिमा- नमुद्वमन्तौ किरन्ताविव स्थितौ ते तव पादौ इत्थमन्यदपि किंचित्सुकुमारमस्ति किमिति बोद्धुमिव लोकत्रयेऽपि सतः पदार्थान् करैः किरणैः स्पृशतः । सौकुमार्यं हि हस्तस्पर्शेन ज्ञात- व्यम् । अतः करैः हस्तैरित्यपि गम्यते । अत्र उद्वमन्तावि- त्यस्य गौणार्थपरत्वान्न ग्राम्यता । यदाह दण्डी-’निष्ठ्यू- तोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्तु ग्रा- म्यकक्ष्यां विगाहते ॥’ इति । अत्रारुणिम्नः स्वतः प्रसरणे भूषणभरासहिष्णुत्वप्रयुक्तोद्वमनतादात्म्योत्प्रेक्षैका, बोद्धुमिवेति फलोत्प्रेक्षान्या । एवं स्वरूपफलोत्प्रेक्षयोः परस्परनिरपेक्षयोः संसृष्टिः । लोकत्रयगतपदार्थजातस्पर्शस्य फलिनः कविप्रौढो- क्तिकल्पितत्वात्तदपेक्षया फलोत्प्रेक्षातिशयोक्त्योः संकरः ॥ मूर्तिं प्रसाधयति ते चरणांशुपुञ्ज- स्तां जैमिनिः कथमधीश निराकरोतु । सर्वत्र योगमुपपादयतारुणिम्न- स्तेनारुणाधिकरणे हि मुनिः स भग्नः ॥ हे अधीश, चरणांशुपुञ्जः चरणकिरणानां समूहः ते तव मूर्तिं प्रसाधयति अलंकरोति । प्रकर्षेण साधयति तत्सद्भावं स्थापयतीत्यपि लभ्यते । तां मूर्तिं जैमिनिः देवताविग्रहास - हिष्णुः कथं निराकरोतु ? कथमपि निराकर्तुं न शक्नोति । हि यस्मात् सर्वत्र सर्वेष्वपि अरुणिम्नो योगमुपपादयता सं- पादयता त्रैलोक्यवर्तिनः सर्वानपि पदार्थान्स्वसंबन्धेन अरु- णीकुर्वता । उपपादयता समर्थयमानेन इत्यपि लभ्यते । मी- मांसासूत्रकर्ता जैमिनिः अरुणाधिकरणे भग्नः । ’अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति’ इति वाक्ये श्रुतस्यारु - णिम्नः सर्वेषु सोमक्रयसाधनद्रव्येषु नास्त्यन्वयः, किं तु सम- भिव्याहृतैकहायनीमात्र इत्यरुणाधिकरणे जैमिनिनोपपादितम् । तदुपपादनस्य सर्वत्रारुणिमयोगमुपपादयता भगवच्चरणांशुपु - ञ्जेन भङ्गो जात इत्येकत्र भग्नस्यान्यत्रापि स्वमतस्थापनसा- मर्थ्यं नास्तीत्यवसीयत इति भावः । अत्र क्वचित्तेन भग्नस्या- न्यत्रापि तत्प्रातिभट्यानर्हत्वं भङ्गलिङ्गेन साध्यत इत्यनुमाना- लंकारः । स च प्रसाधनोपपादनशब्दश्लेषं भङ्गातिशयोक्तिं चापेक्षत इति संकरः ॥ ३६॥
अन्तस्तमांसि यमिनामपसारयन्ती हृत्पङ्कजान्यपि च नाथ विकासयन्ती । भक्तप्रवेकभववारिनिधेस्तरण्यो- स्त्वत्पादयोर्जयति कापि मयूखमाला ॥
हे नाथ, भक्तप्रवेकाणां भक्तश्रेष्ठानां सात्त्विकचित्तानां भवः संसार एव वारिनिधिः तस्य तरण्योः तरणसाधननौ- रूपयोः । तरण्योः सूर्ययोरित्यपि प्रतीयते । एवंभूतयोस्तव पदयोः कापि प्रसिद्धसूर्यमयूखविलक्षणा मयूखमाला जयति सर्वोत्कर्षेण वर्तते । ‘जि जये’ इति धातुरकर्मक उत्कर्ष- वाची । तद्वैलक्षण्यं पूर्वार्धेन दर्शितम् । यमिनामन्तस्तमांसि आन्तराणि तमोगुणविकारदोषजातानि अपसारयन्ती, हृत्प- ङ्कजानि तेषां हृदयपुण्डरीकाण्यपि विकासयन्ती उल्लासय- न्तीति । अत्र बाह्यतमोमात्रनिवर्तकत्वाद्बाह्यकमलमात्रविकास- कत्वाच्च प्रसिद्धसूर्यकिरणजालादाधिक्यं वर्णितमिति व्यतिरे- कालंकारः । स च तमःशब्दश्लेषोत्थापित इति संकरः । योगिनां हृत्पङ्कजविकासो भगवत्प्रसादाधीन इति तच्चरणयो- राराधितयोर्विकासकत्वमुक्तम् । हृत्पङ्कजायतनस्य चेतसो निर्वृतिरेवात्र विकासत्वेन विवक्षिता । ’ प्रवेकानुत्तमोत्तमाः ' इत्यमरः । ’ पुंसि स्यात्सूर्यकिरणे तरणिर्वारिधावपि । स्त्री तु नावि च नद्यां च पुष्पस्तम्बान्तरे तथा ॥’ इति केशवः ॥ मुष्णन्प्रभातसमयेषु मुरान्तकारि- न्नङ्क्षिद्वयश्रियमहस्करतस्करस्ते । यत्प्राप्यते न करभङ्गममुष्य बाल- मित्रत्वमेव मिषति ध्रुवमत्र हेतुः ॥ ३८ ॥ हे मुरान्तकारिन्, अहस्कर एव तस्करः ते तव अङ्घ्रि - द्वयस्य श्रियं शोभामेव संपदं प्रभातसमयेषु मुष्णन्नपि यत्कर- भङ्गं करच्छेदं न प्राप्यते अत्र अमुष्य अहस्करतस्करस्य बालमित्रत्वं बालसूर्यत्वं तदेव बाल्यमारभ्य सौहार्दं तदेव तद्रूप एव हेतुः कारणं मिषति जागर्ति । वर्तत इति यावत् । ध्रुवमित्युत्प्रेक्षाव्यञ्जकः शब्दः । प्रतिदिनं प्रातःकालेषु सर्वेषां प्रबोधसमयेषु मुष्णतो हस्तच्छेद एवो- चितः । स बाल्यसौहार्दमनुरुध्य न क्रियत इत्युचि- तमेवैतत् । बालस्य सूर्यस्यास्तमेष्यत इव किरणक्षयो नास्तीति स्वाभाविकोऽर्थः । अत्र प्रकृतार्थमपेक्ष्य हेतूत्प्रेक्षा । सा चाहस्करतस्कर इति रूपकेण प्रभातसमयेषु सूर्ये भगव- दङ्घ्रिसमानशोभादर्शनात्कविप्रौढोक्तिमूलतल्लेशमोषणकल्पना- रूपातिशयोक्त्या श्रीकरमित्रशब्दश्लेषैश्चोत्थापितेति संकरः ॥
अङ्घ्रिद्वयस्य तव संतनमन्तरङ्ग- मम्भोजवर्गमिह योजयति श्रिया यत् । उत्कोचदानमिदमुष्णकरस्य बाल्या- त्तत्कान्तिरत्नचयचोरणतत्परस्य ॥ ३९ ॥
तव अङ्घ्रिद्वयस्य संततमन्तरङ्गं सर्वदैवाप्ततमम । सादृ - श्यमात्रात्तथाध्यवसायः । अम्भोजवर्गं श्रिया कान्त्यैव संपदा योजयतीति यत् । उष्णकरः कर्ता सामर्थ्याल्लभ्यते । इदं श्रिया योजनं बाल्याद्बालभावात्तत्कान्तिरत्नचयचोरणतत्परस्य अङ्घ्रिद्वयस्य कान्तय एव रत्नानि तेषां चयः समूहः तच्चो- रणे तत्परस्य उष्णकरस्य उत्कोचदानमिति मन्ये । राजगृहा- दिषु चौर्यं चिकीर्षमाणा हि तदीयमाप्तवर्गं धनदानादिना स्व- वशीकुर्वन्ति । अत्रान्तरङ्गत्वाध्यवसायरूपातिशयोक्त्या श्रीश- ब्दश्लेषेण कान्तिरत्नेति रूपकेण तच्चोरणकल्पनारूपातिशयो- क्त्या चोत्थापितः स्वरूपोत्प्रेक्षालंकारः । ’ सा तूत्कोच आ- मिषः’ इति वैजयन्ती ॥ ३९ ॥
भानुर्निशासु भवदङ्घ्रिमयूखशोभा- लोभात्प्रताप्य किरणोत्करमाप्रभातम् । तत्रोद्धृते हृतवहात्क्षणलुप्तरागे तापं भजत्यनुदिनं स हि मन्दतातः ॥
भानुः भवदङ्घ्र्योः मयूखानां या शोभा सा स्वकिरणा- नामप्यस्त्विति लोभात् निशासु रहस्यत्वेन आप्रभातं स्वकिर- णानामुत्करं समूहं प्रताप्य हुतवहे प्रतप्तं कृत्वा तत्र तस्मिन्कि- रणोत्करे हुतवहादुद्धृते क्षणेन लुप्तरागे सति तापं भजति । यावद्रागानुवृत्ति भानोरौष्ण्यमनाभव्यक्तं पश्चादभिव्यक्तं भवति । स एव तापोऽनुतापः तमनुदिनं भजति । एकस्मिन्दिने स्वप्र- यासवैयर्थ्ये दृष्टे कथमनुदिनमित्थमाप्रभातं प्रयासानुभव इत्य- पेक्षायां तत्समर्थनार्थमिदम् – स हि मन्दतातः । हि यस्मा- त्सः मन्दस्य शनैश्चरस्यैव मन्दबुद्धेः तातः पिता । पितृगुणाः खलु पुत्रेषु संक्रामन्ति । यथाक्तं रामायणे –- ‘सत्यश्चाद्य प्रवा- दोऽयं लौकिकः प्रतिभाति मे । पितृृन्समनुजायन्ते नरा मा- तरमङ्गनाः ॥’ इति अत्र रविकिरणानां रात्रिष्वग्नौ प्रवेशः ‘अग्निं वा आदित्यः सायं प्रविशति’ इत्यादिश्रुतिसिद्धः । तस्य निजकिरणेषु भगवच्चरणारुणिमप्रेप्सया तत्कृतं तेषामग्नौ प्रता- पनं परिकल्प्य तेषामुदयकालदृश्यमरुणिमानं च तप्तोद्धृतलो- हशलाकानामिवाग्निमंतापनप्रयुक्तारुणिमानुवृत्तिं परिकल्प्य सू- र्यस्य महतापि प्रतिदिनं क्रियमाणेन यत्नेन पश्चात्संतापहेतुस्ता- त्कालिकेष्टावाप्तिरेव जायते न सार्वकालिकेष्टावाप्तिरिति प्रति- पादनादिष्टार्थसमुद्यतस्य यावत्स्वेष्टावाप्यभावरूपो विषमालं- कारः । तस्य च शोभालोभादिति निदर्शनया प्रताप्योद्धृत इ- त्यतिशयोक्तिभ्यां तापशब्दश्लेषेण च संकरः । एवमप्रस्तुतभा- नुवृत्तान्तवर्णनेन वर्णनीयत्वेन प्रस्तुतानां भगवदङ्घ्रिकिरणा- नां सर्वाधिकारुणिमोत्कर्षप्रतीतेरप्रस्तुतप्रशंसायां पर्यवसा- नम् ॥ ४० ॥
तौल्यं वदन्तु कवयस्तरुपल्लवानां मुग्धास्त्वदीयचरणेन मुकुन्द किं तैः । तान्येव तत्तदधरोष्ठमिषात्तदानीं कम्पं भजन्ति कथयन्ति किलात्मनैच्यम् ॥
हे मुकुन्द मुग्धा अनभिज्ञाः कवयः तरुपल्लवानां त्वदी- यचरणेन तौल्यं वदन्तु नाम । तैः किम् , तथा वदद्भिस्तैः किं साधितं स्यात् ? न किमपि । तत्र वाक्यार्थरूपो हेतुरु- च्यते – तानि तरुपल्लवान्येव तत्तदधरोष्ठमिषात् ये कवय- स्तथा वदन्ति तेषामधरोष्ठव्याजेन कम्पं भजन्ति तत्तदुक्तिस- मये चलनं प्राप्नुवन्ति सन्ति आत्मनैच्यं कथयन्ति अभिव्य- ञ्जयन्ति किल । निजस्वरूपाभिज्ञाः स्वपक्षपातिभिर्महता सम- त्वेन स्तूयमानास्तदनौचित्यमालोच्य भयविनयाभ्यां स्वयं क- म्पमाना भवन्तीति लोकसिद्धम् । अत्र किलशब्दो हेत्वर्थ- श्चेन्न काव्यलिङ्गं किंतु प्रसिद्ध्यर्थश्चेदेव । तस्य तौल्यं वद - न्त्विति लोकप्रसिद्धस्योपमानस्योपमेयत्वकल्पनरूपेण प्रतीपेन अधरोष्ठमिदति कैतवापह्नुत्या च संकरः । ‘कैतवापह्नुति- र्व्यक्तौ व्याजाद्यैर्निह्नुतेः पदैः । निर्यान्ति स्मरनाराचाः का- न्तादृक्पातकैतवात् ॥’ इति तल्लक्षणोदाहरणे । कथयन्तीत्य- भिव्यञ्जनमेव स्पष्टतया कथनत्वेनाध्यवसितम् ॥ ४१ ॥
पद्मोपमात्पदयुगास्तव रत्नगर्भा जातेति पद्मसदृशाकृतिमाहुरेनाम् । कार्यं हि कारणगुणानतिवर्ति लोके प्रायः पतङ्गपतिवाह विलोकयामः ॥
रत्नगर्भा वसुंधरा पद्मोपमात्पद्मसदृशात् तव पदयुगाज्जा- ता। ‘पद्भ्यां भूमिः–’ इति मन्त्रवर्णात् । इति हेतोः एनां वसुंधरां पद्मसदृशाकृतिमाहुः पौराणिकाः । भूवलयपद्मस्य मध्यगतः काञ्चनगिरिः कर्णिका । तां परितः केसराचलाः । ततो बहिः पत्राचला इति हि विष्णुपुराणादिषु प्रतिपादितम् । वामनपुराणेऽप्युक्तं प्रह्लादकृतभगवदन्वेषणप्रस्तावे–- ‘भूमिं तु पङ्कजाकारां तन्मध्ये कर्णिकाकृतिम् । मेरुं ददर्श शैलेन्द्रं शा- तङम्भं महर्द्धिमत् ॥’ इति । उत्प्रेक्षितो हेतुः सामान्योक्त्या समर्थ्यते – कार्यं कारणगुणानातवर्ति कारणगुणानुसारिगुण- वत लोके प्रायः बाहुल्येन बिलोकयामः पश्यामः । हिः प्र- सिद्धौ । पतङ्गपतिवाह गरुडवाहनेति संबुद्धिः । उपमोत्था- पितगस्यहेतूत्प्रेक्षामूलः सामान्येन विशेषसमर्थनारूपोऽर्या- बामः । ‘उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः । हनुमानब्धिमतरहुष्करं किं महात्मनाम् ॥ इत्यर्थान्तरन्यास- लक्षणोदाहरणे ॥ ४२ ॥
कल्याणशालिकमलाकरलालनीय- मामेवक श्रुतिमनोहरनादिहंसम् । आमोदमेदुर मेरुन्नमितालिकान्तं शङ्के तवेश्वर पदं शतपत्रमेव ॥ ४३ ॥
हे ईश्वर स्वामिन्, कल्याणैर्मङ्गलैः शाली श्लाघ्यः । ‘शा- लृ श्लाघायाम्’ इति धातोः कर्मण्यौणादिकः । ‘शालि स्या- च्श्लाध्यं शालि मनोरमम्’ इति केशवः । कल्याणश्रेष्ठ इति वा। ‘शालिश्रेष्ठौ समावुभौ’ इत्युक्तशेषाध्याये शब्दरत्नाकरः । तेन कमलायाः करेण संवाहनक्रियया कमलपक्षे धारणेन च लालनीयम् आ समन्तात् सेवकाः श्रुतिमनोहरनादिनः वे- दानां यो मनोहरो नादः, पक्षे श्रोत्रसुखो नादः, तद्वन्तो हंसा यतयः पक्षिणश्च यस्य तत्तथोक्तम्, आमोदेन हर्षेण मेदुरैः सान्द्रैर्मरुद्भिर्देवैः नमिता नतिं प्रापिता अलिकानां ललाटानामन्ता यस्मिंस्तत्तथोक्तम्, पक्षे आमोदेन पद्मसौर- भेण मेदुरैः सान्द्रैः मरुद्भिर्मारुतैः नमिता आनीताः ये अल- यो भृङ्गाः तैः कान्तम् । ‘हंसोऽर्के विहगे विष्णौ जीवे वेव- वृषे स्मरे । निःसपत्ननृपे भिक्षौ’ इति ‘ललाटमलिकं फालन इति ‘आमोदो मुत्सुगन्धयोः’ इति ‘मरुद्देवसमीरयोः’ इति च शब्दरत्नाकरः । एवंभूतं तव पदं शतपत्रं पद्ममेव शङ्के । अत्र कल्याणशालीत्याद्यर्थश्लेषेण आसेवकेत्याद्यभङ्गशब्दश्लेषेण चोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ४३ ॥
स्पर्शं गयोः समधिगम्य झटित्यहल्या देवी च भूरभवदुज्झित सर्वपङ्का | ताभ्यां घटेन समता भवतः पदाभ्या- माजन्मपङ्कवमनेः कथमम्बुजस्य ॥ ४४ ॥
अहल्या देवी भूर्वसुंधरा च ययोः स्पर्शं समधिगम्य सं- प्राप्य झटिति तदैव उज्झितसर्वपङ्का त्यक्तसमस्तपापा अभ- वत्, ताभ्यां भवतः पदाभ्याम् आजन्म जन्मप्रभृति पङ्क एव वसतिर्यस्य । पङ्कस्य पापस्य वसतेरित्यपि विवक्षितम् । तस्याम्बुजस्य समता कथं घटेत ? स्वपापमपि क्षालयितुमक्ष- मस्य तथाभूताभ्यां भवतः पदाभ्यां समता घटत इति संभा- वनापि नास्तीत्यर्थः । अत्र वाक्यार्थहेतुकं पदार्थहेतुकं च का- व्यलिङ्गमलंकारः । द्वयोरपि पङ्कशब्दश्लेषेण संकरः । ‘पङ्को- ऽस्त्री कर्दमैनसोः’ इति यादवः । धरण्यहल्ययोरेकक्रियान्वय- रूपेण तुल्ययोगितालंकारेण वाक्यार्थहेतुकस्य काव्यलिङ्गस्य संकरः । कृष्णावतारं कृतवतो भगवतः पादस्पर्शाद्भूमेरिन्द्र- विसृष्टुब्रह्महत्यारूपमहापातकविमोक्षः स्कान्दे नागरखण्डे प्र- तिपादितः । तत्रैतानि वचनानि –- ‘आदौ क्षमामेत्य तदा द्यूचुः सर्वे दिवौकसः । एकस्त्वंशस्त्वया ग्राह्यो हत्यायाः का- र्यसिद्धये ॥ सुराणां तद्वचः श्रुत्वा पृथिवी कम्पितावदत् । कथं ग्राह्यो मया ह्यंशो हत्यायास्तद्विमृश्यताम् ॥ अहं हि सर्व- भूतानां धात्री विश्वंभरास्म्यहम् । अपवित्रा भविष्यामि ह्येन- सा संप्लुता भृशम् ॥ पृथिव्यास्तद्वचः श्रुत्वा बृहस्पतिरुवाच ताम् । मा भैषीश्चारुसर्वाङ्गि निष्पापासि न चान्यथा ॥ यदा यदुकुले श्रीमान्वासुदेवो भविष्यति । तदा तत्पदविन्यासैर्नि- ष्पापा त्वं भविष्यसि । कुरु वाक्यं तदस्माकं नात्र कार्या विचारणा । इत्युक्ता पृथिवी चैषा देवानां साकरोद्वचः ॥’ इति ॥ ४४ ॥
मातङ्गशैलमाणशेखर ते पदाभ्यां मोहेन साम्यमनुचिन्त्य कृतापराधम् । शङ्के सरोजमनयोरुभयोरुपेत्य रेखाच्छलेन सततं विदधाति सेवाम् ||
हे मातङ्गशैलमणिशेखर हस्तिशैलस्य रत्नशेखरवच्छोभा- वह, ते तव पदाभ्यां मोहेन अज्ञानेन मौढ्येन वा । ‘मोहो वैचित्त्यमौग्ध्ययोः’ इति शब्दरत्नाकरः । साम्यमनुचिन्त्य सादृश्यं विचार्य ततः कृतापराधम् अत एव हि तत्सरोजमु- पेत्य रेखाच्छलेन पद्मरेखाव्याजेन अनयोरुभयोः सेवामपरा- धक्षालणार्थं विदधाति इति शङ्के । अत्र नेयं कमलरेखा, किं त्वपराधपरिहारार्थं सदा सेवां कुर्वत्प्रसिद्धं कमलमेवेति च्छ- लशब्देन प्रतीतेः कैतवापह्नुतिरलंकारः । तस्याः साम्यानुचि- न्तनाद्यतिशयोक्त्या संकरः । मणिशेखरेत्यतिशयोक्त्या संसृष्टिः ॥
लेखाधिनाथवनपल्लवधैर्यचोरे रेखामयं पदतले कमलं यदेतत् । तत्रैव विश्रमजुषोऽच्युत रागलक्ष्म्याः क्रीडानिशान्तकमलं तदिति प्रतीमः ॥
हे अच्युत, लेखाधिनाथो देवेन्द्रः तस्य वनं नन्दनं तत्संबन्धिनां पल्लवानां कल्पवृक्षप्रवालानां यद्धैर्यमरुणिमोत्क- र्षाभिमानकृतं तस्य चोरे मोषके तव पदतले रेखामयं रेखा- रूपं यत्कमलं तदेतत् तत्रैव त्वत्पदतल एव विश्रमजुषः वि- श्रान्तेः परां काष्ठां प्राप्तवत्याः रागलक्ष्म्याः रागसंपदः क्रीडा- निशान्तकमलं लक्ष्मीः कमलवासिनीति तस्याः क्रीडागृहरूपं कमलं प्रतीमः जानीमः । तत्रैव विश्रमजुष इत्यतिशयोक्ति- गर्भो लक्ष्मीशब्दश्लेषगर्भश्च स्वरूपोत्प्रेक्षालंकारः । तस्य धैर्य- चोरे इत्यतिशयोक्त्या संसृष्टिः ॥ ४६ ॥ यस्याः स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः पादाम्बुजद्वयमिषात्कमठाधिराजः । मूले वसत्युचितमेव निगद्यते सा मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥ ४७ ॥
हे महापुरुष, ते तव मूर्तिः अखिललोकरूपा चतुर्दशभु- वनात्मिकेत्युचितमेव निगद्यते पौराणिकैः ‘पातालमेवास्य हि पादमूलम’ इत्याद्यं महापुरुषसंस्थानं वर्णयद्भिः । तदुपपाद्यते पूर्ववाक्येन –- यस्याः स्वमूर्तेर्मूले पादाम्बुजद्वयमिषात् पादा- म्बुजद्वयमिति व्याजात् स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः कमठा- धिराजः श्रीकूर्मो वसति । पागलमूले हि श्रीकूर्मस्य वासो युक्तः । तस्य च ‘देवत्वे देवदेहेयं मानुषत्वे चं मानुषी । विष्णोर्देहानुसारेण करोत्येषात्मनस्तनुम् ॥’ इति विष्णुपुराण- वचनानुसारेण स्वमूर्तितुल्यमूर्तिधारिण्या शक्त्या श्रीमहालक्ष्मी- रूपया नित्यं योगोऽप्युचितः । त्योर्नित्ययोगसाक्षित्वेन ’ इयं सा परमा शक्तिर्मम या ब्रह्मरूपिणी । माया मम प्रियानन्ता ययेदं मोहितं जगत् ॥ अनयैतज्जगत्सर्वं सदेवासुरमानुषम् । मोहयामि द्विजश्रेष्ठ ग्रसानि विसृजानि च ॥ उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम । विज्ञाय वीक्ष्य चात्मानं तरन्ति विपुलामिमाम् ॥ अस्यास्त्वंशानधिष्ठाय शक्तिमन्तोऽभवन्द्विज । ब्रह्मेशानादयो देवाः सर्वशक्तिरियं मम ॥ तस्य मे परमा शक्तिर्ज्योत्स्नेव हिमदीधितेः । सर्वावस्थागता देवी स्वात्मभूता- नपायिनी । अहंता ब्रह्मणस्तस्य साहमस्मि सनातनी ।’ इत्या- दिषु कूर्मपुराणलक्ष्मीतन्त्रादिवचनेषु श्रीमहालक्ष्म्या भगव- च्छक्तित्वमुक्तम् । ’ लक्ष्मीः पद्मालया शक्तिः क्षीरोदधिसुते- न्दिरा’ इति वैजयन्त्याम् । ‘शक्तिभूः शूर्पकारातिरिक्षुधन्वा च हृच्छयः’ इति शब्दरत्नाकरे । ‘शक्तिः साक्ष्यन्तरे पुमान् । स्त्री सांख्यप्रकृतौ लक्ष्म्यां सामर्थ्ये नीतिवेदिनाम् । प्रसिद्धासु प्रभावादिजातासु स्यात्तिसृष्वपि ॥’ इति केशवनिघण्टौ च विशिष्यापि तस्यां शक्तिशब्दोऽनुशिष्टः । अत्रापह्नुत्यनुगृहीतं काव्यलिङ्गमलंकारः ॥ ४७ ॥
किं द्वादशात्मनि रवौ भगवन्धृतेर्ष्य- श्चन्द्रस्ततोऽप्यधिकतामधिगन्तुमेव | एते तवेह दश भान्ति पदाङ्गुलीषु स्वात्मान इत्यजनि चित्तदृगर्णवेभ्यः ॥
हे भगवन्, चन्द्रः सूर्यप्रतिद्वन्द्वितया द्वादशात्मनि द्वाद- शदेहशालिनि रवौ सूर्ये धृतेर्ष्यः अक्षमायुक्तः सन् ततोऽप्य- धिकतां त्रयोदशदेहवत्तारूपामधिगन्तुं प्राप्तुमेव तव इह एतासु पदाङ्गुलीषु एते दश स्वात्मानः स्वदेहा नखरूपा भान्तीति मत्वा चित्तदृगर्णवेभ्यः ‘चन्द्रमा मनसो जातः’ इति श्रुतेः भगवच्चित्तादत्रिनयनात्कलशाम्बुधेश्च अजनि जातः किम् ? दीपजनबुध–’ इत्यादिना कर्तरि चिण् । ‘आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि’ इत्यमरः । अत्राधिगन्तुमिति फलोत्प्रेक्षा धृतेर्ष्य इति कविप्रौढोक्तिकल्पितेर्ष्यासंबन्धातिश- योक्त्या स्वात्मान इति नखेषु चन्द्रताद्रूप्यातिशयोक्त्या चो- त्यापितेति संकरः ॥ ४८ ॥
भासा पदं तब रमाधिप भूषयन्ति संसेवकांश्च विबुधान्परितोषयन्ति | नाथ क्षिपन्ति च तमांसि नखेन्दवस्ते संशोषयन्त्यपि तु भक्तभवाम्बुराशिम् ॥
हे नाथ रमाधिप, ते तव नखेन्दवः नखा एवेन्दवः तव पदं चरणं पक्षे विष्णुपदमाकाशं भासा भूषयन्ति, संसेवका- न्सम्यक्सेवां कुर्वतः विबुधान् विवेकिनः परितोषयन्ति च, पक्षे चन्द्रकलामृतनिषेवणं कुर्वतो विबुधान्वह्न्यादीन् तर्प - यन्ति, तमांसि क्षिपन्ति च । अपि तु एवं प्रसिद्धचन्द्रसाम्ये सत्यपि भक्तानां भवाम्बुराशिं संशोषयन्ति । अत्र आपाततो न्यूनव्यतिरेकः, विवेचने त्वधिकव्यतिरेकः । तस्य श्लेषैः संकरः ॥ ४९ ॥ गङ्गाच्छलेन तव निःसृतमूर्ध्वगाण्ड- संघट्टनात्पदनखाग्रमयूखलेशम् । आलोक्य नूनममराः पतितं पयोधा- वामथ्य तं जगृहुरीश तदिन्दुरूपम् ॥
हे ईश, ऊर्ध्वगाण्डसंघट्टनात् ऊर्ध्वदेशगतं यदण्डं ब्रह्माण्डं तत्संघट्टनात् तव पदनखाप्रमयूखलेशं गङ्गाच्छलेन निःसृतं पयोधौ पतितम् अमराः आलोक्य तद्ब्रहणार्थं तं पयोधिमा- मथ्य इन्दुरूपं नवनीतवन्मथनेन घनीभूय चन्द्ररूपतां प्राप्तं जगृहुः । नूनमित्युत्प्रेक्षा । त्रिविक्रमावतारे ऊर्ध्वप्रसारितभ- गवच्चरणनखाग्रनिर्भिण्णोर्ध्वाण्डच्छिद्रनिःसृतबहिर्जलधारारूपा गङ्गा मेरोरुपरि ब्रह्मपुर्याश्चतसृषु दिक्षु प्रवहानिलेन चतुर्धा विभक्ता पतिता सती सीतालकनन्दा चक्षुर्भद्रेति क्रमेण सं- ज्ञाचतुष्टययुक्ता प्राच्यादिसमुद्रेषु पतितेति विष्णुपुराणादिषु वर्णितम् । अत्र चन्द्रस्य मथनगृहीतभगवच्चरणनखमयूखलेश- परिणतिविशेषतादात्म्यसंभावनारूपा स्वरूपोत्प्रेक्षा संघट्टनस्थ नखमयूखानां नखं विहायान्यत्र गमने हेतुत्वाभावेऽपि हेतु- त्वकल्पनाच्च हेत्वलंकारः । गङ्गाच्छलेनेत्यत्रापहुतिरिति एतै- रलंकारैरुत्प्रेक्षायाः संकरः । ‘कयापि विधया हेतुः कल्पितो हेत्वलंकृतिः । असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥’ इति हेत्वलंकारस्य लक्षणोदाहरणे । चन्द्रोदयस्य मानिनी- मानविच्छेदाहेतुत्वेऽपि चतुर्थ्या प्रतीतं तदुद्देश्यकत्वमस्तीति तेन रूपेण कल्पितो हेतुः । एवमप्रस्तुतचन्द्रगतभगवच्चरणन- खमयूखलेशपरिणतिविशेषत्वात्प्रेक्षणाद्वर्णनीयत्वेन प्रस्तुतो भग- वच्चरणनखमयूखभूमा प्रतीयते इत्यप्रस्तुतप्रशंसालंकारः । ‘प्र- स्तुतस्यावगत्यर्थं यदप्रस्तुतवर्णनम् । अप्रस्तुतप्रशंसा सा किंचि- त्संबन्धसंश्रया ॥’ नैषधचरिते– ‘हृतसारमिवेन्दुमण्डलं दमय- न्तीवदनाय वेधसा । कृतमध्याबिलं विलोक्यते धृतगम्भीर- खनीखनीलिम ॥’ इति तल्लक्षणोदाहरणे ॥ ५० ॥
पादानमत्सुरशिरोमणिपद्मरागा- न्सद्यः स्फुरत्सहजरुक्प्रकरान्कराग्रैः । मुक्तामयान्विदधतां प्रकटं मुरारे जैवातृकत्वमुचितं ननु ते नखानम् ॥५१॥
हे मुरारे, पादयोरानमतां सुराणां शिरोमणिपद्मरागान् चूडामणिरूपानरुणमणीन् स्फुरत्सहजरुक्प्रकरान् स्फुरन्तः प्र- काशमानाः सहजाः स्वाभाविकाः अरुणवर्णाः रुक्प्रकराः दीप्तिनिकराः येषां ते | पक्षे स्फुरन्तः अभिव्यक्ताः सहजाः जन्मप्रभृत्यनुवृत्ताः अत एव दुःसाधाः रुक्प्रकराः नाना- विधव्याधिसमूहा येषां ते । तथाभूतानपि सद्यः स्वसमा- गमक्षण एव मुक्तामयान्मुक्ताफलरूपान् । पक्षे मुक्तसकल- रोगान् विदधतां ते नखानां जैवातृकत्वमुचितं ननु उचिवं भवत्येव । जैवातृकत्वं प्रकृते चन्द्रत्वं पक्षे भिषक्त्वं दीर्घायुष्ट्वं वा । ’ अथ जैवातृकः पुमान् । चन्द्रे च परिखायां च परि- घेऽथ द्वयोः शुके । धने तु क्लीबमायुष्मत्कृषीवलभिषक्षु सः ॥’ इति केशवः । यः स्वसमागममात्रेण दीर्घतीव्रामय- निकरग्रस्तानप्युल्लाघयति तस्य वैद्यकेष्वतिनिपुणस्य भिषक्त्वं संभावितं स्वकीयसकलव्याधिपरिहारेण दीर्घायुष्ट्वं वा युक्तमे- वेति भावः । अत्र नखानां जैवातृकत्वं रूपकलभ्यम्, तदेव श्लेषमूलातिशयोक्त्या भिषक्त्वायुष्मत्त्वरूपमध्यवसितमिति रू- पकातिशयोक्त्योरेकवाचकानुप्रवेशलक्षणः संकरः । तदुत्त्था- पकस्य स्फुरत्सहजरुक्प्रकरानित्यत्र मुक्तामयानित्यत्र च श्लेष- स्य तयातिशयोक्त्या अङ्गाङ्गिभावलक्षणः संकरः । मुक्ताफल- त्यप्राप्त्युक्त्या तद्गुणालंकारश्च प्रतीयते ॥ ५१ ॥
यत्ते पदाम्बुरुहमम्बुरुहामनेड्यं धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः । नित्यं तदेव भजतामतिमुक्तलक्ष्मी- युक्तैव दिव्यमणिनृपुरमौक्तिकानाम् ॥
हे ईश, अम्बुरुहासनेन ब्रह्मणा ईड्यं स्तुत्यं तव यत्प- दाम्बुरुहं धन्याः कृतार्थाः सकृत् एकवारं प्रपद्य मुक्ता भव- न्ति तदेव नित्यं भजतां प्रपद्यमानानां दिव्यमणिनूपुरमौक्ति- कानाम् अतिमुक्तलक्ष्मीः ‘अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता’ इत्यमरः । तदीयमुकुलानां शोभैव मुक्ताति- शायिनी संपत् सा युक्तैव । सकृत्प्रपन्नेभ्यः सदा प्रपद्यमाना- नामतिशयितफलावाप्तिर्युक्तैवेत्यर्थः । अत्र युक्तत्वोपपादने पूर्व- वाक्यार्थस्य हेतुत्वाद्वाक्यार्थहेतुकं. काव्यलिङ्गम् । अतिमुक्त- लक्ष्मीरित्यत्र अन्यदीया शोभा अभ्यत्रान्वयमलभमाना तत्स- मानशोभां गमयतीत्यसंभवत्तद्वस्तुसंबन्धनिबन्धना निदर्शना तत्रैव श्लेषमूलातिशयोक्तिश्चेति तयोरेकवाचकानुप्रवेशलक्षणः संकरः । काव्यलिङ्गेनातिशयोक्तेरङ्गाङ्गिभावसंकरः । पदाम्बु- रुहमित्यत्र पदमम्बुरुहमिवेति ‘उपमितं व्याघ्रादिभिः–’ इति सूत्रेण पूर्वपदार्थप्रधान उपमितसमास इत्युपमालंकारस्य तैः सह संसृष्टिः ॥ ५२ ॥
नाथ त्वदङ्घ्रिनखधावनतोयलग्ना- स्तत्कान्तिलेशकणिका जलधिं प्रविष्टाः । ता एव तस्य मथनेन घनीभवन्त्यो नूनं समुद्रनवनीतपदं प्रपन्नाः ॥ ५३ ॥
हे नाथ विष्णो, त्वदङ्घ्रिनखधावनतोयलग्नाः त्वच्चरण- नखप्रक्षालनजले गङ्गारूपे लग्नाः तेषां नखानां कान्तिलेश- कणिकाः जलधिं प्रविष्टाः समुद्रं प्राप्ताः ता एव कणिकाः तस्य जलधेर्मथनेन घनीभवन्त्यः सान्द्रतां प्राप्ताः नूनं समुद्रसंबन्धिनो नवनीतस्य चन्द्रस्य पदं प्राप्ताः चन्द्र- रूपेण परिणता इत्यर्थः । अत्र भगवत्पादाम्बुजक्षालनतो- वरूपायां दिव्यसरिति अलक्तकरसादिवल्लग्नानां तया सह समुद्रं प्रविष्टानां तन्नखकान्तिलेशकणिकानां परिणामतया सं- भाव्यमानेन समुद्रनवनीतपदवाच्येन चन्द्रेण कार्येण तन्नख- कान्त्युत्कर्षः प्रतीयते । तद्धेतुनखकान्त्युत्कर्ष इत्यर्थः अत्रा- प्रस्तुतप्रशंसा स्वरूपोत्प्रेक्षा च । ‘समुद्रनवनीतं स्याच्चन्द्रः’ इति नानार्थरत्नमाला ॥ ५३ ॥
अथ क्रमेण जङ्घाद्यवयववर्णनानि -
सव्यापसव्यशरमोक्षकृतीक्षुधन्वा जङ्घे तव स्वशरधी इति संदिहानः । आलोकतेऽङ्घ्रिकटकोद्गतरुक्छलेन न्यस्याभितो निजशराननुरूपभावम् ॥
सव्यापसव्यशरमोक्षकृती अर्जुन इव सव्यभागेन अपस- व्यभागेन च शराणां मोक्षे कृती पटुः अत एव इषुधिद्वय- वान् इक्षुधन्वा मन्मथः तव जङ्घे पश्यन्नाकृतिसाम्याज्जग- न्मोहनत्वाच्च स्वशरधी स्वकीयाविषुधी इति संदिहानः तत्सं- देहनिवृत्त्यर्थं निजशरान् अभितः जङ्घे परितः अङ्घ्रिकटको- द्गतरुक्छलेन न्यस्य निधाय आलोकते । स्वकीयशरैः प्रमाण- तः साम्ये स्वकीयाविषुधी इति निश्चेतुं शक्यमित्याशयेनेति भावः । अत्र सापह्नत्रोत्प्रेक्षा । सा च व्यञ्जकाप्रयोगाद्गम्या । कुवलयानन्दोक्तप्रकारेण सापह्नवातिशयोक्तिर्वा ॥ ५४ ॥
जानुद्वयं तव जगत्त्रयनाथ मन्ये मारस्य केलिमणिदर्पणतामुपेतम् । आलोकयन्यदवदातमनोज्ञवृत्तं रूपं निजं कलगने विपरीतमेषः ॥ ५५ ॥
हे जगत्त्रयनाथ तव जानुद्वयं मारस्य मन्मथस्य केलि- मणिदर्पणतां क्रीडार्थमणिमयादर्शताम् उपेतं प्राप्तं मन्ये तर्क- यामि । अवदातमनोज्ञवृत्तमतिनिर्मलमनोहरवृत्ताकारं यज्जानु- द्वयमालोकयन्पश्यन् एष मन्मथः निजमात्मीयं रूपं विपरीतं कलयते सुन्दरमिति प्रसिद्धमात्मीयं रूपं गर्हितत्वेन तद्विपरीतं मन्यते । दर्पणं पश्यन्नपि तत्र प्रतिबिम्बितं स्वं रूपमवलोक- मानः स्वयं प्राङ्मुखस्तद्वैपरीत्येन प्रत्यङ्मुखं पश्यतीति भावः । यो नरः परेषां मारको हिंस्रः स विशुद्धसकलजनरञ्जनचरि- त्रं पश्यन्स्वं रूपं पापमलिनतया तद्विपरीतं यथा मन्यते तद्व- दित्यपि प्रतीयते । तेनोपमालंकारध्वनिः । जानुद्वयस्य मणि- दर्पणत्वेनोत्प्रेक्षणादुत्प्रेक्षा मन्ये इति तद्वाचकप्रयोगाच्च । उत्प्रे- क्षायां निमित्तमुत्तरार्धेनोक्तम् ॥ ५५ ॥
ऊरोः किमन्यदयतामुपमानभावं वामस्य दक्षिणममुष्य च तं विहाय | रम्भादयः सदृश इत्युचित किमेत- द्यस्योर्वशी सुभग मापि विभूतिलेशः ॥
हे सुभग सुन्दर, तव ऊरोः वामस्य दक्षिणम् अमुष्य दक्षिणस्य तं वामं च विहाय किमन्यदुपमानभावमयतां प्रा- प्नोतु ? अन्यत्किमप्युपमानत्वं नार्हतीत्यर्थः । शङ्कितोपमाना- न्तरनिरासेन तदुपपादकमुत्तरार्धम् । रम्भादयः रम्भा गज- कर इत्याद्याः सदृशः भगवदूरोः सदृक्षा इत्येतदुचितं किम् ? नैवोचितम । कुतः ? यस्य भगवदूरोः सदृक्षा स्वर्वेश्यास्वतिसु- न्दरीति प्रसिद्धा उर्वश्यपि विभूतिलेशः भगवदूरोः प्रसूता हि सा पुराणेषु प्रसिद्धा । अत्रोर्वशीप्रतिकोटितया रम्भादव इत्यनेन रम्भातिलोत्तमादयोऽपि प्रतीयन्ते । तत्प्रतीतिमपेक्ष्य कैमुतिकन्यायोपन्यास इति श्लेषसंकीर्णोऽर्थापत्त्यलंकारः । उतरवाक्यार्थः पूर्वदाक्यार्थोपपादक इति काव्यलिङ्गम् । पू- र्वार्धे वामस्य दक्षिणमित्यादिना पर्युदासाद्वामदक्षिणयोः परस्प- रमौपम्यं गम्यत इत्येवं व्यज्यमानोपमेयोपमा सदृशान्तरप- रिवर्जनरूपायां परिसंख्यायामुपकरोतीति गुणीभूतव्यङ्ग्य- भेदः । एतेषामलंकाराणां संकरः ॥ ५६ ॥
नाथ त्वया परिहितं वरवर्णिनीनां रागस्य यद्वसनमास्पदतां बिभर्ति । सौन्दर्यसारनिलयेन कटीतटेन तस्यैष किं नु महिमा परिशीलनस्य ॥
हे नाथ, त्वया परिहितं वसनं पीताम्बरं वरवर्णिनीनां रागस्य आस्पदतां हरिद्राणां वर्णस्याधारताम्, पक्षे सुन्दरी - णाममुरागस्य विषयतां बिभर्तीति यत् एषः तस्य वसनस्य सौन्दर्यसारनिलयेन कटीतटेन यत्परिशीलनं तस्य महिमा किं नु संसर्गगुणोऽयं किम् ? अत्र वरवर्णिनीरागास्पदत्वे हेतूत्प्रेक्षा । सा च वरवर्णिन्यादिशब्दश्लेषापेक्षा, वरवर्णिनी- वर्णास्पदत्वमसंभवत्तत्समानवर्णास्पदत्वं गमयतीत्यसंभवद्वस्तु- संबन्धनिबन्धननिदर्शनापेक्षा, सौन्दर्यसारनिलयेनेति पदा- र्थहेतुककाव्यलिङ्गापेक्षा, चेत्येतेषां संकरः । ‘निशाख्या काञ्च- नी पीता हरिद्रा वरवर्णिनी’ इत्यमरः ॥ ५७ ॥ संप्राप्य सारसनमध्यतलोदयाद्रिं मध्याम्बरं मसृणयन्नरुणैर्मयूखैः । संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा संसाररात्र्युपरतिं गतवद्भिरेव ॥ ५८ ॥
सारसनस्य मेखलाख्यस्य कटिदेशाभरणस्य मध्यतलमेवो- दयाद्रिः तं संप्राप्य मध्याम्बरं मध्यमेवाकाशम् अरुणैर्मयूखैः मसृणयन्स्निग्धं मनोहरं कुर्वन् एष मणिः पद्मरागमणिरेव पूषा संसाररात्रे ः उपरतिं गतवद्भिः प्राप्तवद्भिरेव सुकृतिभिः संवीक्ष्यते नान्यैः । अत्र मणिः पूषेति व्यस्तरूपकानुरोधात् सारसनमध्यतलोदयाद्रिमित्यादिष्वपि रूपकसमास इति सा- वयवरूपकालंकारः ।‘मेखलायां सारसनं रस्यमानेऽपि के- चन’ इति केशवः ॥ ५८ ॥
नाभेरभूत्तव चतुर्भुज नान्तरिक्षं यन्नाभिरेव यदुनेतरियं ततोऽभूत् । नाभ्या इति श्रुति विपर्ययगे विभक्ती तां जैमिनेरनुससार पशोश्चसूत्रम् ॥
हे चतुर्भुज यदुनेतः यदुनायक, तव नाभेरन्तरिक्षं ना- भूत् यदियं नाभिरेव ततोऽन्तरिक्षादभूत् । मध्यमत्रान्तरिक्ष- त्वेनाध्यवसितम् । एवं च सति नाभ्या इति श्रुति ‘नाभ्यां आसीदन्तरिक्षम्’ इति श्रुतौ प्रथमपञ्चम्यौ विभक्ती विपर्य- यगे पञ्चम्यर्थे प्रथमा प्रथमार्थे पञ्चमीत्येवं विपरीतार्थपरे एव । तथा च अन्तरिक्षान्नाभिरासीदिति श्रुतेरर्थः । एवं च श्रुतौ श्रुतयोः प्रथमापञ्चम्योर्विपर्ययः । एवं विपर्ययकल्पनं नायुक्तम्, यतस्तां श्रुतिं जैमिनेः पूर्वतन्त्रकृतः ‘पशोश्च विप्र- कर्षः–’ इत्यादिकं सूत्रम् अनुससार अनुसरति स्म । तथा च सदनुसारेण जैमिनीयमपि सूत्रं प्रवृत्तम् -–‘पशोश्च विप्र- कर्षस्तन्मध्ये विधानात्’ इति । ज्योतिष्टोमे सौत्येऽहनि सव- नीयपशुस्तन्त्री सवनीयपुरोडाशः प्रसङ्गी, न तु वैपरीत्यम्, पशुप्रयोगस्य व्यापित्वात्पुरोडाशप्रयोगाणां छिद्रापिधानवत्तन्म- ध्यपातित्वादिति प्रतिपादयितुमिदं सूत्रं कृतम् । इदं यथा श्रुतं न विवक्षितार्थसमर्पणक्षमम् । विप्रकर्षो ह्यत्र प्रथमान्तनिर्दिष्टः साध्यत्वेनावगम्यते । तन्मध्ये विधानं तु पञ्चम्यन्तं निर्दिष्टं हेतुतया । एवमन्वयो न संगच्छते यतो विप्रकर्षः प्रातरादिका- बत्रायसंबन्धरूपः ‘वपया प्रातःसवने चरन्ति पुरोडाशेन माध्यंदिने सवने अङ्गैस्तृतीयसवने’ इति प्रत्यक्षवचनप्रसिद्धो न साघनीयः । पुरोडाशानां पशुतन्त्रमध्ये विधानं तु साध- नीयम्। अतः प्रथमापञ्चम्योर्व्यत्यासेनार्थो ग्राह्यः पशोर्विप्र- कर्षात्प्रातरादिकालत्रयव्यापित्वात्पुरोडाशानां पशुतन्त्रमध्ये विधानमिति । वेदाभ्यासनिरता हि महर्षयस्तदभ्यासवासनाव- शात्प्रायो वेदानुसारेण स्वकृतेष्वपि ग्रन्थेषु शब्दान्प्रयुञ्जते । अतो जैमिनिना ‘नाभ्या आसीदन्तरिक्षम्’ इति श्रुतौ प्रथमा- पञ्चम्योर्व्यत्ययं दृष्ट्वा तद्वदिदं सूत्रं कृतमिति । अत्र मध्यभागे गगनत्वाध्यवसायरूपयातिशयोक्त्योत्थापितोऽनुमानालंकारः । उत्तरत्राक्यं तदुपपादकं तस्याप्युपपादकं तदुत्तरवाक्यमिति काव्यलिङ्गम् । एतेषां च संकरः । नाभ्या इति श्रुतीत्यत्र श्रुच्छब्दात्संपदादिक्विबन्तात्सप्तमी ॥ ५९ ॥
आरोपमध्यवमितिं च विना तवास्यां नाभौ सरःपदमुपैतु कथं न वृत्तिम् । साक्षादियं सरमिजस्य समुद्रशायि- न्नुत्पत्तिभूरिति हि नायक नायमूह ॥
प्रसिद्धादुपमानादुपमेयस्य भेदमनूध ताद्रूप्यमात्रकल्पन- मारोपः । यथा ‘अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः’ इति । तस्य प्रसिद्धोपमानाभेदकल्पनमध्यवसायः । यथा ‘अवतीर्य हरिः साक्षादेष रक्षति मेदिनीम्’ इति । अन्येषां नाभौ तदु- पमानवाचकपदमारोपेणाध्यवसायेन वा प्रवर्तते न तु वाचक- तयेति वस्तुस्थितिः । सा भगवन्नाभावन्यथा क्रियते । आरो- पमध्यवसितिं च विनैव तवास्यां नाभौ सरःपदं वृत्तिं प्रवृत्तिं कथं नोपैतु ? प्राप्तुमर्हत्येव । हे समुद्रशायिन्, नायक स्वा- मिन् इयं तव नाभिः साक्षात्सरसिजस्य उत्पत्तिभूरिति नायमूहः, किं तु प्रत्यक्ष एवायमर्थः । अतो मुख्यसरसिजो- त्पत्तिभुवस्तव नाभेर्मुख्यमेव सरस्त्वं युक्तमित्यर्थः । अत्र सर- सिजयोनित्वेन मुख्यसरःपदवाच्यत्वं साध्यत इत्यनुमानालं- कारः । तद्द्वारा नाभौ सरस्त्वरूपणं गम्यमिति रूपकध्वनिः । नायमूह इति निर्ज्ञातनिषेधानुवादेनातिस्पष्टत्वं व्यज्यते । साक्षादित्यनेनाप्याविष्क्रियत इति प्रतिषेधालंकारः ‘प्रतिषे- धः प्रसिद्धस्य निषेधस्यानुकीर्तनम् । विशेषणान्तरद्योत्यविशे- षव्यक्तिकारणम् ॥ न विषेण न शस्त्रेण नाग्निना न च मृत्यु- ना । अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः ॥’ इति तल्लक्षणोदाहरणयोस्तत्सिद्धेः ॥ ६० ॥
कल्पान्तरेषु विततिं कमलासनानां भूयोऽपि कर्तुमिव भूरि रजो दधानम् । नाभिह्रदे समुदितं नलिनं तवैत- द्भूयात्सदैव मम भूतिकरं मुरारे ॥ ६१ ॥
हे मुरारे, कल्पान्तरेषु भविष्यत्सु कमलासनानां विततिं कर्तुमिव भूरि रजः परागम्, पक्षे कमलासनसृष्ट्युपयुक्तं रजोगुणं दधानं तव नाभिह्रदे समुत्पन्नमेतन्नलिनं सदैव मम भूतिकरं भूयात् । ‘नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः । यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः॥’ इति सकललोकसंनिवेशात्मकावयवसंस्थानशालि भगवन्नाभिनलिनं सर्वविधभूतिप्रदानसमर्थमित्येवमाशास्यते । अत्र रजःशब्दश्ले- षोत्थापितः फलोत्प्रेक्षालंकारः । तस्य नाभिह्रदरूपकेण संसृष्टिः ॥ ६१ ॥
उल्लासयत्युदरबन्धनिबद्धदिव्य- शोणाश्मरश्मिकलिकावलिरच्युतैषा । आगाम्यनेकशतकल्पविधातृगर्भ नाभ्युद्गताम्बुरुहकुट्मलपङ्क्तिशोभाम् ॥
हे अच्युत, एषा उदरबन्धाख्ये भूषणे निबद्धानां शोणा- श्मनां रश्मिकलिकाः कलिकाकारा ऊर्ध्वप्रसृता रश्मयः कि- रणाः तेषामावलिः पङ्क्तिः आगामिनामनेकशतसंख्यानां कल्पा- नां स्रष्टृत्वेन स्रष्टव्या ये विधातारः त एव गर्भा गर्भस्था येषां तथाभूतानां नाभेरुद्गतानामम्बुरुहकुट्मलानां पङ्क्ते शो- भामुल्लासयत्युत्पादयति । अत्र यद्यपि कुट्मलपङ्क्तिशोभामि- त्यत्र असंभवद्वस्तुसंबन्धनिबन्धना निदर्शना प्रतिभाति, तथापि वर्णितकुट्मलपङ्क्तिरूपस्योपमानस्य लोकसिद्धत्वाभावा- त्कविना संभाव्यमानत्वाच्चोत्प्रेक्षायामेव पर्यवसानम् । ‘गर्भो- ऽपवरकालये । अन्नेऽग्नौ कुक्षिकुक्षिस्थजन्तौ पनसकण्टके ॥’ इति केशवः ॥ ६२ ॥
ऊर्ध्वं विरिञ्चिभवनात्तव नाभिपद्मा- द्रोमावलीपदजुषस्तमसः परस्तात् । मुक्तौघमण्डितमुरःस्थलमुन्मयूखं पश्यामि देव परमं पदमेव साक्षात् ॥
विरिञ्चेर्भवनादुत्पत्तिस्थानात्, पक्षे निकेतनात् नाभिप- द्मादूर्ध्वं रोमावलीपदजुषः रोमावलीति शब्दं भजतः तमसः परस्तात्, मुक्तानां मौक्तिकानाम्, पक्षे मुक्तिभाजामोघेन समूहेन मण्डितम् उन्मयूखमुज्ज्वलं तव उरःस्थलं साक्षात्प- रमं पदमेव पश्यामि उत्प्रेक्षे । अत्र भवनतमःशब्दश्लेषेण रोमावलीति नाममात्रेण भेदो वस्तुतस्तु तम एवेत्यतिशयो- क्त्या चोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ६३ ॥
सालैरुदंशुचपरत्नललन्तिकाख्यैः स्फीतोल्लसत्कुसुमया वनमालया च । विभ्राजते विपुलमेतदुरस्त्वदीय- मन्तःपुरं जलधिराजकुमारिकायाः ॥६४॥
उदंशुचया ऊर्ध्वप्रसृतकिरणनिकरा या रत्नललन्तिकाः स्यूतैः पद्मरागरत्नैः मौक्तिकैरिव कृतानि लम्बमानानि कण्ठा- भरणानि । ’ ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका । स्वर्णैः प्रालम्बिकाथोरःसूत्रिका मौक्तिकैः कृता ॥’ इत्यमरः । इह रत्नमात्रोक्तावपि प्राकाराकृतिनिर्वाहौचित्यात्पद्मरागरत्नानि ग्रा- ह्याणि, ऊर्ध्वरश्मिरधोरश्मिः पार्श्वरश्मिश्च यः क्रमात् । पद्मरागः स विज्ञेय उत्तमाधममध्यमः ॥’ इति रत्नशास्त्रे पद्मरागाणामूर्ध्वप्रसृतकिरणत्वाभिधानात् । तदाख्यैः रत्नलल- न्तिका इत्याख्यामात्रेण भिन्नैः सालै ः प्राकारैः, स्फीतोल्लसत्कु- सुमया समृद्धविकसत्पुष्पया वनमालया वैजयन्त्या पक्षे उप- वनपङ्क्त्या च विपुलम् एतत्त्वदीयमुरःस्थलं जलघिराजकुमा- रिकाया अन्तःपुरं विभ्राजते । ‘भ्राजू दीप्तौ’ । अत्रातिशयो- क्तिश्लेषोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ६४ ॥
प्रालम्बिकामुपगतास्तव पद्मरागाः प्रत्यग्रघर्मकरमण्डलनिर्विशेषाः । पर्यङ्कके वरद वक्षसि भान्ति लक्ष्म्याः क्रीडोपबर्हतिलका इव पार्श्वभाजः ॥
हे वरद, तव प्रालम्बिकां लम्बमानसुवर्णकण्ठभूषाम् । ’ लम्बनं स्याल्ललन्तिका’ इत्येतदनन्तरम् ‘स्वर्णैः प्रालम्बि- का’ इत्यमरः । तामुपगताः प्राप्ताः प्रत्यग्रादभिनवाद्धर्मकर- मण्डलात्सूर्यबिम्बान्निर्विशेषाः विशेषरहिताः तत्समानाः पद्म- रागाः लक्ष्म्याः पर्यङ्कके तव वक्षसि पार्श्वभाजः पर्यङ्कपार्श्व- द्वयनिवेशिताः क्रीडोपबर्हतिलकाः क्रीडार्थास्तिलकवद्वर्तुला- कारा उपबर्हा उपधानानीव भान्ति । ’ उपधानं तूपबर्हाः इत्यमरः । उपमारूपकोत्थापित उत्प्रेक्षालंकारः ॥ ६५ ॥
अस्तु त्रयीमयतनुस्तव लम्बनालीरत्नैस्तिरस्क्रियत एव तथापि भानुः । सोढः सतां बत निशान्तमुपागतानामेवं तिरस्कृतिकृदीश्वर कः सुवृत्तैः ।
भानुस्त्रयीमयतनुरस्तु नाम । तथापि तव लम्बनालीरत्नैः ललन्तिकापङ्क्तिनिबद्धैररुणमणिभिः तिरस्क्रियतेऽभिभूयत एव । त्रयीविद्यस्याप्यभिभवमौचित्येनोपपादयति– निशान्तं नि- शाया अवसानं प्रभातम्, पक्षे गृहम् उपगतानां प्राप्तानां सतां सत्पुरुषाणाम् , पक्षे नक्षत्राणाम् एवं तिरस्कृतिकृत् भानुवदभिभवकारी कः सुवृत्तैः शोभनस्वरूपैः सुष्ठु सम्यग्व- तुलैर्वा, पक्षे सुचरितैः साध्वाचारैः सोढः ? ’ आचारहीनं न पुनन्ति वेदाः ’ इति स्मृतेः । सकलवेदविप्याचारहीनः प्राज्ञानामनादरणीय इति भावः । अवः रत्नैस्तिरस्क्रियत इत्यतिशयोक्तिः । निशान्तसुवृत्तशब्दश्लेषोत्थापितः सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । स च समासोक्तिगर्भ इति संकरः । ’ नक्षत्रं सन्नपुंसकम्’ इति केशवः । ’ वृत्तं स्व- रूपे चरिते वृत्तं छन्दोविधासु च त्रिष्वतीते दृढे वीधे वर्तु लेऽपि च दृश्यते ॥’ इति यादवः ॥ ६६ ॥
नष्टेऽपि भस्मनि वने गिरिशेन दग्धं स्त्रीणां हृदीश मदनं प्रतिबोधयन्तः । भस्मोच्चये कृतकचप्रतिबोधनं तं शुक्रं जयन्तु न कथं तव हारताराः ॥
हे ईश, गिरिशेन दग्धं मदनं भस्मनि तद्देहभस्मनि वने स्थाणुवने नष्टेऽपि तत्रैव वाय्वादिविक्षिप्तत्वेनादर्शनं गतेऽपि स्त्रीणां हृदि प्रतिबोधयन्तः उद्दीपयन्तः, पक्षे दग्धं मदनं पुनरप्युज्जीवयन्तः तव हारताराः हारस्यूतानि शुद्धमुक्ता- फलानि । ‘तारस्तु शुद्धमुक्तायाम्’ इति केशवः । भस्मोच्चये भस्मराशौ कृतकचप्रतिबोधनं कृतं कचस्य प्रतिबोधनं पुनः संजविनं येन तथाभूतं शुक्रं कथं न जयन्तु नाभिभवन्तु ? जयन्तीत्येतदुचितमेव । ‘जि अभिभवे’ इति धातुः सक- र्मकः । कचो नाम बृहस्पतेः पुत्रो मृतसंजीवनीविद्यां प्राप्तुं शुक्रं शुश्रूषमाणस्तदसहमानैरसुरैः पुनः पुनर्मारितः शुक्रेण पुनः पुनः संजीवितः । पश्चादसुरास्तं मारितं भस्मीकृतं सुरायां मिश्रीकृत्य शुक्राय ददुः । तत्पानेन स्वोदरं प्रविष्टे भस्मनि तत्रैव शुक्रः कचमुज्जवियामास । ततः स्वोदर एव स्थिताय कचाय मृतसंजीवनीं विद्यामुपदिदेश । स्वोदरं विदार्य निर्ग- तेन कचेन मृतः शुक्रः पुनरुज्जीवित इति महाभारते कथा । एवं मृतस्य भस्मान्वीक्ष्यैव मृतमुज्जीवयतः शुक्रात्तद्भस्मानपे- क्ष्यैव यत्र कचिद्भस्मीकृतमन्यत्र संजीवयन्ति हारमौक्तिका- नीत्युचितं शुक्रजयनमिति भावः । अत्र स्त्रीणामनुरागस्य साक्षान्मदनत्वेनाध्यवसायादनुरागोद्दीपनस्य मदनपुनःसंजीव- नत्वेनाध्यवसायाच्चातिशयोक्तिः । तदुत्थापितश्च मौक्तिकानां शुक्रादाधिक्यरूपो व्यतिरेकालंकारः ॥ ६७ ॥
उत्प्रेक्षयत्यधिभुजान्तरमुल्लसन्ती पार्श्वद्वये परमपूरुष हारमाला । तत्रत्यकान्तिसरितस्तरलैः प्रणुन्ना- मूर्म्युत्करैरुभयतः सितफेनपङ्क्तिम् ॥
हे परमपूरुष, तव अधिभुजान्तरं भुजान्तरस्य वक्षसः । षष्ठीविभक्त्यर्थेऽव्ययीभावः । पार्श्वद्वये उल्लसन्ती भ्राजमाना हारमाला मुक्तागुणानां पङ्क्तिः तत्रत्यकान्तिसरितः वक्षसि प्रवहन्त्याः कान्तेरेव सरितः तरलैश्चञ्चलैः ऊर्म्युत्करैः तरङ्ग- निकरैः उभयतः तीरद्वये प्रणुन्नां क्षिप्तां सितानां फेनानां पङ्क्तिम् उत्प्रेक्षयति । अत्र कान्तिसरित इति रूपकेण कान्तिविवृद्धावूर्म्युत्करत्वाध्यवसायरूपयातिशयोक्त्या चोत्था- पितः स्वरूपोत्प्रेक्षालंकारः ॥ ६८ ॥
त्वां सर्वभूतमयमाश्रितसर्ववर्णं यद्वैजयन्त्युपगताच्युत सर्वगन्धम् । तेनैव किं त्रिभुवनैकमहावदान्य सारूप्यमावहति ते सकलाभिनन्द्यम् ॥
हे. त्रिभुवनैकमहावदान्य अच्युत, सर्वभूतमयं सर्वेषां प्राणिनामन्तरात्मतया सर्वभूतात्मकम् आश्रिताः सर्वे वर्णा विप्रादयो यं तथाभूतं सर्वगन्धम् ’ सर्वकर्मा सर्वकामः सर्व- गन्धः सर्वरसः’ इति श्रुतेः सर्वविधदिव्यसौरभशालिनं त्वां वैजयन्ती उपगता समाश्रितेति यत् तेनैव हेतुना सकलाभि- नन्द्यं ते तव सारूप्यम् आवहति बिभर्ति किम् ? वैजय- न्त्यपि ‘पञ्चरूपा तु या माला वैजयन्ती गदाभृतः । सा भूतहेतुसंघातभूता माला च वै द्विज ॥’ इति वचनात्पृ- थिव्यादिसर्वभूतमयी आश्रितसर्ववर्णा च । पृथिव्यादीनामा- गमेषु पीतशुक्लरक्तकृष्णधूम्रवर्णध्यानविधानाद्धूम्रवर्णो यद्यपि रक्तमिश्रकृष्णवर्णरूपः तथापि स एव हरितवर्णस्थाने कथंचन द्रष्टव्यः । यद्वा वैजयन्त्यां भूतात्मकानि पुष्पाणि रत्नपुष्पाणि रत्नेषु च वज्रमुक्ताफलपद्मरागेन्द्रनीलगारुत्मतानि प्रशस्ता- नीति ताद्रूप्यात्सर्ववर्णता । नवसु रत्नेषूक्तानां पञ्चानां प्राश- स्त्यं च रत्नशास्त्रेऽभिहितम् –- ‘व्युप्तानि वज्रवरमौक्तिकप- द्मरागगारुत्मतोपलसुरेश्वररत्नवर्यैः । धार्याणि भूपतिभिराभर- णानि लक्ष्मीसौभाग्यदान्यपररत्नकृतानि नैवम् ॥ वैदूर्यगो- मेधकपुष्परागप्रवालरत्नानि तथा नृपाणाम् । शोभावहान्य- ल्परुचीनि सार्धं तैर्धारितानि श्रियमावहन्ति ॥’ इति । यद्यपि ’ श्वेतालोहितपीतमेचकतया च्छायाश्चतस्रः क्रमात्’ इति वज्रस्य वर्णचतुष्टयमुक्तं तथापि पीतवर्णमेव प्रशस्तम्, ‘वज्रं विद्युत्प्रभं स्निग्धं सुन्दरं लघुलेखनम् । षडरं तीक्ष्ण- धारं च सुसौम्यारं श्रियं दिशेत् ॥’ इति वचनात् । इत्येवं वैजयन्ती सर्ववर्णा सर्वविधसौरभयुक्ता च भगवद्धार्यपुष्पदा- मत्वात् । एवं श्लेषमूलभगवत्सारूप्यप्राप्तौ तत्समाश्रयणस्य हेतुत्वसंभावनाच्छ्लेषोत्थापितो हेतूत्प्रेक्षालंकारः ॥ ६९ ॥
ताराभिरामपरिणाहलसत्सिताभ्रं तापिञ्छमेचकमुरःशरदन्तरिक्षम् । प्राप्यैव देव तव कौस्तुभपूर्णचन्द्रः पूर्णां बिभर्ति पुरुषोत्तम कान्तिरेखाम् ॥
हे देव पुरुषोत्तम, तारैः शुद्धमौक्तिकैः अभिरामे परि- णाहे विस्तारे लसन्सिताभ्रोऽनुलेपनकर्पूरो यस्य तत्तथो- क्तम् । ‘परिणाहो विशालता’ इति ‘घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका’ इति चामरः । अन्तरिक्षपक्षे तारा- भिर्नक्षत्रैरभिरामे परिणाहे लसन्ति सिताभ्राणि शुभ्रमेघा यस्य तत्तथोक्तम् । तापिञ्छमेचकं तमालश्यामलम् । ‘का लस्कन्धस्तमालः स्यात्तापिञ्छोऽपि ’ इत्यमरः । तव उर एव शरदन्तरिक्षं प्राप्यैव कौस्तुभ एवं पूर्णचन्द्रः पूर्णां कान्तिरेखां कान्त्यतिशयं बिभर्ति निरन्तरालपङ्क्तिवाचिना रेखाशब्देना- तिशयो लक्ष्यते । ‘रेखा त्वकृत्रिमे मार्गे हस्तपादतलादिषु । निरन्तरालपङ्कौ च’ इति केशवः । यथा शरदन्तरिक्षं प्राप्त एव चन्द्रः पूर्णां कान्तिं बिभर्ति एवं भगवदुरःस्थलं प्राप्त एव कौस्तुभ इति तात्पर्यम् । अत्र शरदन्तरिक्षमित्यत्र रूपकसमासः; न तूपमितसमासः, तापिञ्छमेचकमित्यादि- सामान्यप्रयोगात् । तदनुरोधादन्यत्रापि रूपकसमास इति श्लेषानुप्राणितो रूपकालंकारः ॥ ७० ॥
नाभीसरोजकिरणैर्मणिराजभाभि- रात्मप्रभाभिरपि संवलितं विभाति । श्रीवत्सविग्रहजुषः प्रकृतेस्त्वदीयं वक्षः परीतमिव सत्त्वरजस्तमोभिः ॥ नाभीसरोजस्य किरणैः मणिराजस्य कौस्तुभस्य भाभिः आत्मनः स्वस्य प्रभाभिश्च संवलितं त्वदीयं वक्षः श्रीवत्सवि- ग्रहजुषः श्रीवत्सरूपं प्राप्तायाः प्रकृतेः त्रिगुणायाः गुणैः सत्त्वरजस्तमोभिः परीतमिव विभाति । केचिन्नाभिसरोजं धवलं वर्णयन्ति । यथा – ’ नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः’ इति मुरारिनाटके । हरिवंशे त्वरुणं वर्णितम्– ‘हुताशनज्वलितशिखोज्ज्वलत्प्रभं समुत्थितं शर- दमलार्कतेजसम् । विराजते कमलमुदारवर्चसं महात्मनस्तनु- रिव चारुदर्शनम् ॥’ इति कौस्तुभं धवलं केचिद्वर्णयन्ति । यथा नैषधचरिते – ’ हित्वा दैत्यरिपोरुरः स्वभवनं शून्यत्वदो- वस्फुटासीदन्मर्कटकीटकृत्रिमसितच्छत्रीभवत्कौस्तुभम्’ इति । हरिवंशे तु – ‘अस्यैव देवस्य हरेः स्तनान्तरे विराजते कौस्तुभरत्नदीपः’ इति दीपसाम्येनारुणो वर्णितः । प्रपञ्चसारे तु श्यामल इति तद्ध्यानमुक्तम् । अनेन अनेकधा प्रसिद्ध- त्वात्कौस्तुभनाभीकमलयोः क्वचन क्वचन श्लोके कश्चन कञ्चन वर्णो वर्ण्यते, ‘न तत्तत्त्वं न तच्छास्त्रं न सा विद्या न सा कला । यन्न काव्याङ्गतां याति काव्यं सर्वात्मकं यतः ॥ ' इति काव्यस्य सर्वमतसाधारण्यवचनात् । अतोऽत्र न पूर्वा - वरविरोधः शङ्कनीयः । श्रीवत्सः प्रकृतिरूप इति विष्णुपुराणे वर्शितम् -– ’ श्रीवत्सरांस्थानमयमनन्ते च समाश्रितम् । प्र- धानं बुद्धिरप्यास्ते गदारूपेण माधवे ॥’ इति । स च वक्षसि दक्षिणभागगतो बिल्वरूपो लाञ्छनविशेष इति सार्व- भौमः प्रवादः । हरिवंशे —- ’ श्रीवत्सेनोरसि श्रीमान्रोमजा- लेन राजते’ इति रोमावर्त इत्युक्तम् । वामनपुराणे भूष- णविशेष इति सूचितम् । तत्र हि श्रीदामनामानमसुरमुपक्रम्यो- क्तम्– ’ निःश्रीकास्तु त्रयो लोकाः कृतास्तेन दुरात्मना । श्रीवत्सं वासुदेवस्य हर्तुमैच्छन्महाबलः ॥ ’ इति । कण्ठत- श्रोक्तं तत्रैव विष्णुपञ्जरस्तोत्रे– ‘वैजयन्तीं प्रगृह्याथ श्रीवत्सं कण्ठभूषणम् । वायव्यां रक्ष मां देव अश्वशीर्ष नमोऽस्तु ते ॥ ’ इति । अत्र स्वरूपोत्प्रेक्षालंकार ।‘अजामेकां लो- हितशुक्लकृष्णाम् ’ इति सत्त्वादीनां शुक्लारुणकृष्णवर्णत्वश्रव- णादेवमुत्प्रेक्षा ॥ ७१ ॥
वक्षःस्थलं वरद नन्दनमाश्रितस्ते येषां विभाति हरिचन्दन एष मध्ये । एते चतुर्भुज भुजास्तव तस्य शाखाः शङ्के कराब्जदलकोमलिताग्रभागाः ॥
हे वरद चतुर्भुज, नन्दनं सर्वेषां परमानन्दकरम्, पक्षे नन्दनवनं ते तव वक्षःस्थलमाश्रितः एष हरिचन्दनः हरि- चन्दनाङ्गरागः, पक्षे हरिचन्दनाख्यः कल्पवृक्षः येषां मध्ये विभाति, तवैते समीपतरवर्तिनः भुजाः चत्वारो बाहवः कराब्जदलकोमलिताप्रभागाः करा एवाब्जदलानि तैः कोम - लिता अप्रभागा यासां तास्तथाभूताः तस्य हरिचन्दनस्य शाखा लता इति शङ्के उत्प्रेक्षे अत्र स्वरूपोत्प्रेक्षाया हरि- चन्दनादिशब्दश्लेषेण कराब्जदलेति रूपकेण च संकरः । कराब्जेत्यत्र यद्युपमितसमासस्तदोपमया संसृष्टिः । यदि मयूरव्यंसकादिसमासस्तदा दण्ड्युक्तप्रकारेण रूपकरूपकम् । ‘मुखपङ्कजरङ्गेऽस्मिन्भ्रूलता नर्तकी तव । लीलानाट्यामृतं दृष्ट्योर्यूनां साख निषिञ्चति ॥ ’ इति हि तदीयं रूपकरूपको- दाहरणम् । उभयथा संदेहे तु संदेहसंकरः । ’ हरिचन्दनमस्त्री स्याद्देवानां पादपान्तरे चन्दने ताम्नसारे च पीतचन्दनसं- ज्ञके ॥ ’ इति केशवः ॥ ७२ ॥
जात्यैव यद्वरद पल्लवराग एष यल्लाल्यते च भवता कटके निवेश्य । मन्ये मणिस्तदुपगम्य मदान्धभावं साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥७३॥
माणिक्यस्य चातुर्वर्ण्यरूपाश्चतस्त्रो जातयः पद्मरागकुरु- विन्दसौगन्धिकनीलगन्धिभेदात् । तानि क्रमाद्रक्तमतिरक्त- मीषत्पीतप्रभं पिञ्जरमीषन्नीलप्रभं धूम्रं च रत्नशास्त्रविदो वर्ण- यन्ति । तत्र कुरुवि दस्य पल्लवराग इति नामान्तरम् । अत एव ‘प्रचक्रमे पल्लवरागताम्रा’ इति कालिदासश्लोकव्या- ख्याने पल्लवरागो रत्नविशेषे योगरूढ इति चक्रवर्तिनोक्तम् । इह करकङ्कणस्थः स मणिर्वर्ण्यते । हे वरद, एषः अयं मणिः जात्यैव पल्लवराग इति यत्, यच्च भवता कटके निवेश्योप- लाल्यते तत्तेन हेतुना मदान्धभावमुपगम्य एत्य साक्षात्प्रत्यक्षं पुरत एव सवितुः सूर्यस्यैव, पक्षे पितुरेव अवज्ञां करोति ! प्रभया सूर्यं च परिभवतीत्ययं सूर्यस्य तिरस्कारः । यः खलु जन्मप्रभृत्येव पल्लवेषु विटेषु रज्यति राज्ञः कटके सैन्ये सम- घिकृतश्च स मदेनान्ध्यं कृत्याकृत्यविवेकाभावं प्राप्य साक्षा- त्पितुरप्यवज्ञां कुर्यादेव । अत्र पल्लवरागकटकसवितृशब्दश्ले- षेणोत्थापितो हेतूत्प्रेक्षालंकारः । मन्य इति तद्व्यञ्जकः शब्दः । सवितुरेवेत्येवकारेणान्येषामवज्ञां करोतीति किमु व- क्तव्यमित्यर्थापत्त्यलंकारश्च गम्यते । ‘जातिः समूहे मालत्यां सामान्ये जन्मगोत्रयोः’ ‘पल्लवोऽस्त्री किसलये पत्रमात्रप्रको- ष्ठयोः । विस्तारे विटपे चाथ रभसे संबलेऽपि च पुंलिङ्गस्तु भवेत्षिङ्गे’ ‘कटकस्त्वस्त्रियां शैलनितम्बे वलयेऽपि च । सैन्ये च राजधान्यां च’ इति केशवः । पल्लवेषु रागोऽस्येति सप्तमीगर्भो बहुव्रीहिः ॥ ७४ ॥ ऐन्द्रोपलप्रभमधो भुजदण्डनाल- मेकत्र चक्रमपरत्र च शङ्खहंसम् । दृष्ट्वा कथं न कलयेमहि कान्तिसिन्धो- रुत्फुल्लपद्मयुगमूर्ध्वकरद्वयं ते ॥ ७५ ॥
अधः अधस्तात् ऐन्द्रोपलप्रभमिन्द्रनीलमणिप्रभं भुजदण्ड- मेव नालम्, एकत्र करे चक्रं सुदर्शनम, पक्षे चक्रवाकम्, अपरत्र करे शङ्खमेव हंसं च दृष्ट्वा कथं ते तब ऊर्ध्वकरद्वयं कान्तिसिन्धोः संबन्धि उद्गतं उत्फुल्लपद्मयुगं न कलयेमहि ? तथा कलयितुं युक्तमेव । अत्र रूपकैः चक्रशब्दश्लेषेण इन्द्रो- पलप्रभमित्युपमया चोत्थापितः स्वरूपोत्प्रेक्षालंकारः, नाला- दिलिङ्गादनुमानालंकारो वा ॥ ७५ ॥
चन्द्रार्कचारुतरशङ्स्वरथाङ्गशोभा- संभाव्यरात्रिदिवसात्मकपार्श्वयुग्मम् । नक्षत्रदृश्यनवमौक्तिकहारिरूपं मन्ये महापुरुषरूपधरं भवन्तम् ॥ ७६ ॥
चन्द्रार्कयोरिव चारुतरयोः शङ्करथाङ्गयोः शोभया संभा- व्यरात्रिदिवसात्मकं संभावनायोग्यरात्रिदिवसस्वभावशालि पा- र्श्वयुग्मं यस्य स तथोक्तः तम , नक्षत्रैरिव दृश्यैः नवमौक्ति- कैः हारि मनोहरं रूपं यस्य स तथोक्तः तमेवंभूतं भवन्तं महापुरुषरूपधरम् ‘वेदाहमेतं पुरुषं महान्तम्’ इत्युक्तस्य महापुरुषस्य यद्रूपं वर्णितम् ‘अहोरात्रे पार्श्वे’ ‘नक्षत्राणि रू- पम्’ इति तस्य धारकं तद्रूपमास्थाय संनिदधानं मन्ये । अ- त्रोपमारूपकोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ७६ ॥
संवर्तजृम्भितविकर्तनदुर्निरीक्षं पश्यामि दक्षिणकरे तव चक्रराजम् । दैत्यौघसिन्धुपतिमन्थमहाचलस्य बाहोः प्रतापघनमिद्धमिवोद्गतं ते ॥
तव दक्षिणकरे संवर्ते प्रलये जृम्भितं विकर्तनं सूर्यमिव दुर्निरक्षं चक्रराजं चक्राणां राजानं सुदर्शनं दैत्यौघ एव सि- न्धुपतिर्नदीपतिः तस्य मथने मन्थमहाचलस्य मन्थानरूपम- हाशैलस्य त्वद्बाहोः इद्धं दीप्तं प्रतापघनं प्रतापस्य कठिनीभा- वमिव पश्यामि । ‘घनाः कठिनसंघातमेघकाठिन्यमुद्गराः ' इति केशवः । अत्रोपमारूपकोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥
आभाति देव विधृतस्तव सव्यपाणा- वन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः । अन्तेवसन्निव गलस्य गुरोर्गभीर- ध्वानक्रियोपनिषदध्ययनार्थमेषः ॥ ७८ ॥ हे देव अच्युत, तव सव्यपाणौ विधृतः अन्तर्बहिश्च शु- चिः धवलः, शिष्यपक्षे मानसकायिकशुद्धियुक्तः एष पाञ्च- जन्यः पाञ्चजन्यनामा शङ्कः गभीरा ध्वानक्रियैव उपनिषद्रह- स्यविद्या तदध्ययनार्थं गुरोः पीवरस्य, पक्षे आचार्यस्य गल- स्य अन्ते समीपे वसन् शिष्य इव आभाति प्रकाशते । अत्र शुचिगुरुशब्दश्लेषेण अध्ययनार्थमिति फलोत्प्रेक्षया चोत्थापितः स्वरूपोत्प्रेक्षालंकारः । ‘अथ स्याच्छुचिरीशाने सूर्ये चन्द्रेऽग्नि- शुद्धयोः’ इति केशवः ॥ ७८ ॥
कौमोदकी स्फुरति ते करपल्लवाग्रे वैरिञ्चिवाक्यविकृतेव सरस्वती सा । त्रिस्त्रोतमस्तव पदाब्जभुवो विशेष- माकाङ्क्ष्य पाणिकमलात्तव निःसरन्ती ॥
ते तव करपल्लवाग्रे करपल्लवस्याग्रे कौमोदकी नाम गढ़ा तब पदाब्जभुवः त्रिस्रोतसः गङ्गायाः विशेषं तदपेक्षया स्व- स्योत्कर्षमाकाङ्क्ष्य तव पाणिकमलात् निःसरन्ती नदीरूपेण प्रवहन्ती सरस्वतीव भाति । कौमोदकी प्रपञ्चसारे पीतवर्णा वर्णिता—-’ चक्रं शङ्खगदाम्बुजकौस्तुभमुसलाः सखड्गवनमा- लाः । रक्ताच्छपीतकनकश्यामलकृष्णशुशुक्लभासः स्युः ॥’ इति । अतः सरस्वतीनदीत्वोत्प्रेक्षा । सरस्वत्या गङ्गापेक्षया हेतुगर्भविशेषणं वैरिञ्चवाक्यविकृतेति । इत्थं ब्रह्माण्डपुराणे कथा – लक्ष्मीसरस्वतभक्तौ कौचिद्द्विजौ स्वस्वदेवतोत्कर्षे विवदमानौ ब्रह्माणमुपससृपतुः । ब्रह्मा च लक्ष्मीरुत्कृष्टेत्यु - वाच । तेन सरस्वत्यतिमात्रं रुष्टा बभूवेत्येवं पौराणिकी प्रसिद्धिः सेति पदेन निबद्धा । अत्र पदार्थहेतुककाव्यलिङ्गानुप्राणितः स्वरूपोत्प्रेक्षालंकार इति तेन तस्याः संकरः । करपल्लवाद्युप- माभिस्तु संसृष्टिः । करपल्लवाग्रशब्दस्य कृत्स्नस्यापि करपर- तया प्रयोगे तु न तत्रोपमा । ‘बाहुर्बाहा भुजः पाणिर्भरणं करपल्लवः’ इति यादवः । ’ अथ ना करपल्लवः । बाहौ किसलयप्रख्यकरेऽप्येष नृषण्डयोः’ इति केशवः ॥ ७९ ॥
हस्ते विराजति तवाभयमुद्रितेऽस्मि- न्नव्याजकोमलरुचिपकराभिरामे वज्रोर्मिकांशुनिकरः कमलाधिराज्य पट्टाभिषेकसलिलौघ इवावदातः ॥ ८० ॥
हे जनार्दन, अभयमुद्रिते अभयाभिनयेन संजातमुद्रे अव्याजकोमलेन अलंकारादिहेत्वन्तरमनपेक्ष्य हस्तसौन्दर्या- वहेन रुचिप्रकरेण प्रभासमूहेन अभिरामे तव हस्ते अवदातः शुभ्रवर्ण ः पीतवर्णो वा । ‘अवदातः सिते पीते प्रधाने शुद्ध एव वा’ इति केशवः । वज्रोर्मिकांशुनिकरः प्रत्युप्तवज्रस- रितानामङ्गुलीयकानां किरणसमूहः कमलाधिराज्ये अस्य हस्तस्य सकलकमलाधिराजभावे निमित्ते यः पट्टाभिषेकः तदर्थः सलिलानामोघः समूहः परम्परेव विराजति । ‘ओघः परम्परायां स्याज्जलस्रोतसि संचये’ इति केशवः । पट्टा- भिषेकार्थमपि जलमवदातं शुद्धं भवति, सरित्समुद्रादिभ्य- स्तस्याहरणीयत्वात् । स्वरूपोत्प्रेक्षालंकारः । अत्र सकलकम- लातिशायिनी शोभा व्यज्यते । कोमलशब्दात्सौन्दर्यलाक्ष- णिकात्कोमलं करोतीत्यर्थे तत्करोतीति ण्यन्तात्पचाद्याचि ‘णेरनिटि’ इति णिलोपे च सत्यत्र कोमलशब्दः सौन्द- र्यावहवाची ॥ ८० ॥
अभयमुद्रावत्स्वामिना वरमुद्रा किमिति न धार्यत इत्याकाङ्क्ष्यामिदमुच्यते –
नामैव ते वरद वाञ्छितदातृभावं व्याख्यात्यतो न वहसे वरदानमुद्राम् । न ह्यागमोदितरसः श्रुतिसिद्धमर्थं लिङ्गेन बोध्यमुररीकुरुने विपश्चित् ॥ ८१५
हे वरद, ते तव नामैव वाञ्छितदातृभावं सकलभक्तज- नेष्टार्थदातृत्वं व्याख्याति विशेषेणाख्याति स्पष्टमाचष्टे । अतो हेतोर्वरदानमुद्रां न वहसे । उक्तमर्थमर्थान्तरन्यासेन समर्थ- यते –- आगमोदितरसः आगमे वेदे उत्पन्नादरः विपश्चि मीमांसान्यायालोचनेन दृढं वैदुष्यं प्राप्तः श्रुतिसिद्धमर्थं श्रुतिलिङ्गादीनां मध्ये प्रथमप्रमाणभूतया श्रुत्या निश्चितं प्रमेयं लिङ्गेन श्रुतिमुखनिरीक्षकतया ततो विलम्बितप्रवृत्तिकेन द्वि- तीयप्रमाणेन बोध्यं बोधनीयं न ह्युररीकुरुते नाङ्गीकरोति । ‘अर्थिभ्यो वै वरं दत्ते प्रणतार्तिविनाशनः । आख्यां वरद- राजेति ययौ नित्यं कृतार्थयन् ॥’ इति वामनपुराणे भग- वतो वरदनाम निरुक्तम् । अतोऽभिधानश्रुत्या प्रसिद्धं वरदा- तृत्वं न वरमुद्रालिङ्गेन बोधनीयमिति सा न धृतेत्यर्थः । भगवानप्यागमोदितरसः । ‘रसो वै सः । रसँ ह्येवायं लब्ध्वानन्दी भवति’ इत्यागमप्रतिपादितरसः, विपश्चित् ‘ब्रह्मणा विपश्चितेति’ इति मन्त्रवर्णात् । अत्र सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । स च श्लेषानुप्राणित इति संकरः ॥ ८१ ॥
आभाति मौक्तिकगुणग्रथितैरनल्पै- र्नीलोत्पलैर्वलयितस्तव नाथ कण्ठः । संवर्तमेघवसतिं ध्वननैस्तदन्त- र्निश्चित्य तन्निकटगैरिव मेघडिम्भैः ॥
हे नाथ, मौक्तिकगुणप्रथितैः मौक्तिकसराणामन्तरालेषु स्यूतैः अनस्पैः स्थूलैः नीलोत्पलैर्वलयितः तव कण्ठः ध्वननैः महामेघगर्जितनिभैः कण्ठध्वनिभिः तस्यान्तः संवर्तमेघानां वसतिं निश्चित्य तन्निकटगैः तत्समीपं प्राप्तैः मेघडिम्भैः मेघार्भकैः वलयित इवाभाति । स्वरूपोत्प्रेक्षालंकारः ॥८२ ॥
यद्ब्रह्मणश्च जनिभूः प्रियमिन्दिरायाः सस्पर्धमोषधिपतौ च सकर्णिकं च । एतैर्गुणैर्गुणनिधे कतमस्त्वदीयं वक्त्रं मनोज्ञमवगच्छतु नारविन्दम् ॥
हे गुणनिधे, त्वदीयं वक्त्रं ब्रह्मणः ब्राह्मणजातेः, पद्म- पक्षे चतुर्मुखस्य जनिभूः उत्पत्तिस्थानम्, इन्दिरायाः प्रियं प्रीत्यास्पदम्, ओषधिपतौ चन्द्रे सस्पर्धं च । एकं सादृ- श्यादन्यत्तदुदये स्वस्य निमीलनात् । सकर्णिकं कर्णिकया कर्णाभरणेन, पक्षे मध्यावयवेन सहितं चेति यत् ॥ एतै- गुणैर्मनोज्ञं तव वक्त्रम् अरविन्दं कतमो नावगच्छतु ? सर्वस्याप्यरविन्दमित्यवगन्तुमर्हमित्यर्थः ॥ ८३ ॥
वक्त्रेण ते यदभिभूतमभूत्सरोजं तन्नाभिभूतमिति शब्दमवाप्य नूनम् । शब्दच्छलादपनिनीषु जनापवाद नाभेरभूत्तव रमाधिप विश्रुतायाः ॥८४॥ हे रमाधिप, ते वक्त्रेण सरोजमभिभूतमभूदिति यत् तेन हेतुना जातं जनापवादं नाभिभूतमिति शब्दमवाप्य शब्दच्छलादपनिनीषु सत् विश्रुतायाः प्रसिद्धायाः तव नाभे- रभूत् । प्रसिद्धान्नाभितो भवनादेव नाभिभूतमिति शब्दः प्रसिद्धो भवतीति भावः । अत्र सरोजस्य भगवन्नाभिसंभूते- र्जनापवादापनयनं फलत्वेनोत्प्रेक्षितमिति फलोत्प्रेक्षा नूनमिति व्यञ्जकशब्दप्रयोगाद्वाच्या नाभिभूतशब्दश्लेषापेक्षेति संकरः ॥
उन्मीलयन्कुमुदमुज्ज्वलयन्गिरीश- मुन्मूलयन्विषमवाहभवाभितापम् । उद्दीपयन्वरवधूजनतानुराग- मुद्द्योतते वरद ते वदनामृतांशुः ॥८५॥
हे वरद, कुमुदं कोर्भूमेः मुदम अहमपि भगवतः परि- पूर्णस्य वरदरूपेण मयि नित्यसंनिधानात्परमशुद्धा जातास्मी- त्येवमानन्दं भूगतानां मनुष्याणामानन्दं वा, चन्द्रपक्षे कैर- वम्, उन्मीलयन्विकासयन्, गिरीशं गिरिवरं हस्तिशैलम् पक्षे शिवम् उज्ज्वलयन्भूषयन् , विषमवाहभवाभितापं विष- ममतिकृच्छ्रं दुःखं वाहयति प्रापयतीति विषमवाहो यो भवः संसारः तत्कृतमभितापम् , पक्षे विषमवाहः सूर्यः तद्भवं तत्संभवमभितापमुन्मूलयन् नाशयन् वरवधूजनताया अनु- रागमुद्दीपयन् । उभयत्र सममेतत् । तव वदनमेवामृतांशुः उद्दयोतते । सभङ्गाभङ्गशब्दार्थश्लेषानुप्राणितो रूपकालंकारः ॥
पक्षद्वयक्रशिमपोषविभाव्यमानचान्द्रायणव्रतनिषेवण एव नित्यम् । कुर्वन्प्रदक्षिणमुपेन्द्र सुरालयं ते लिप्सुर्मुखाब्जरुचिमेष तपस्यतीन्दुः ।
हे उपेन्द्र, ते तव मुखाब्जरुचिं लिप्सुः एष इन्दुः प्रसि द्धश्चद्रः पक्षद्वये कृष्णशुक्लपक्षद्वये यौ क्रशिमपोषौ ताभ्यां विभाव्यमानं चान्द्रायणव्रतनिषेवणं यस्य सः तथाभूत एव सन् सुरालयम् इष्टदेवतालयं रत्नसानुं च नित्यं प्रदक्षिणं कुर्वन् तपस्यति । अत्र लिप्सुरिति फलोत्प्रेक्षया चान्द्रायण- व्रतनिषेवणकल्पनारूपातिशयोक्त्या मेरावदृष्टार्थिपुरुषप्रदक्षि- णीकर्तव्येष्टदेवतालयत्वाध्यवसानरूपातिशयोक्त्या चोत्थापितः चन्द्रगततपोरूपधर्मोत्प्रेक्षालंकारः । कृष्णप्रतिपदि पञ्चदश ग्रासाः द्वितीयामारभ्यैकैकग्रासहानिः ततः शुक्लप्रतिपदमार- भ्यैकैकग्रासवृद्धिरित्येवं ग्रासनियमयुक्तो व्रतविशेषश्चान्द्राय - णम् तदनुष्ठानेऽपि ग्रासह्रासवृद्ध्यनुसारेण क्रशिमपोषौ संभाव्येते ॥ ८६ ॥ नाथ त्वदीयमकलङ्कमिमं मुखेन्दु- मापीय तृप्यति सदा वसुधा यतस्ते । तेनैव किं नवसुधारसगोचरोऽभू- दिन्दुः कलङ्कमलिनीकृतमध्यभागः ॥
हे नाथ, त्वदीयमकलङ्कमिमं मुखेन्दुं वसुधा सदा नि- त्यम्, आपीय तृप्यति यतः तेनैव हेतुना किं कलक्कमलिनी- कृतमध्यभागः इन्दुः प्रसिद्धश्चन्द्रः नवसुधारसगोचरः अभूत् नवस्य सुधारसस्य आस्पदमभूत् । वसुधाया रसस्य आस्वा- दनेच्छाया गोचर आस्पदं नाभूदित्यपि सभङ्गश्लेषेण प्रतीयते । तत्र च हेतुः कलङ्काकलङ्कविशेषणपदाभ्यामुक्तः । पदार्थहे- तुककाव्यलिङ्गानुप्राणितः श्लेषमूलो हेतूत्प्रेक्षालंकारः ॥ ८७ ॥
आश्रित्य नूनममृतद्युतयः पदं ते देहक्षये विधृतदिव्यपदाभिमुख्याः । लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥
प्रतिमासं भिन्ना अमृतद्युतयः चन्द्राः ते तव विष्णोः पद- माकाशम्, पक्षे चरणमाश्रित्य देहक्षये कृष्णपक्षावसाने प्राप्ते विधृतदिव्यपदाभिमुख्याः सन्तः लावण्यमेव पुण्यनिचयं सुहृदि सादृश्यात्सुहृत्त्वेनाध्यवसिते त्वदास्ये तव मुखे वि- न्यस्य मिहिरं यान्ति सूर्यं प्राप्नुवन्ति नूनमित्युत्प्रेक्षा । ये भगवच्चरणं प्रपन्नास्ते देहावसानकाले भगवच्चरणप्रपदनमहिम्ना अर्चिरादिमार्गेण परमं पदं प्राप्तुमभिमुखाः सन्तः स्वकीय- मभ्युदयसाधनं स्वानपेक्षितं पुण्यनिचयं सुहृदि निवेश्य उत्क्र- मणानन्तरमेव सूर्यं प्राप्नुवन्तीति शास्त्रमर्यादा । ‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्याम्’ इति यथा ब्रह्मविदः पुत्रा दायमुपयन्ति तथा तत्सुहृदां तदीयपुण्यप्राप्तिश्रवणात् ‘स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति’ इति त्वरितमेवादित्यप्रा- प्तिश्रवणाच्च तदर्थोपजीविन्यत्रोत्प्रेक्षा । शुक्लप्रतिपादितस्य च- न्द्रस्यामावास्यायामत्यन्तादर्शनात् ‘नवो नवो भवति जाय- मानः ’ इति श्रुतेश्च प्रतिमासं भेदोऽध्यवसितः । तेनातीता- श्चन्द्रा अनन्तकोटय इति लभ्यते । ते सर्वेऽपि चन्द्रा भगव- त्पदमाश्रयन्ते देहावसानकाले च दर्शे सूर्यं प्राप्नुवन्ति सहज- लावण्येन न दृश्यन्ते चेति संप्रतिपन्नमेवैतत् । एवं च सूर्यं प्राप्नुवन्तस्ते परमपदाभिमुखाः सन्तो लावण्यरूपं स्वकीयं पुण्यनिचयं सुहृदि भगवन्मुखे विन्यस्य यान्ति किमित्युत्प्रेक्षा । तस्याश्च पदशब्दश्लेषेण लावण्यपुण्यनिचयमिति रूपकेण सुहृत्त्वप्रतिमासभिन्नत्वाध्यवसायरूपातिशयोक्त्या संकरः । ‘सुहृदः साधुकृत्याम’ इति बहुवचनश्रवणात्सुहृत्सु बहुषु तावत्स्वपुण्यसंक्रमणावश्यंभावेऽपि अत्र सुहृदीत्येकवचनेन भगवन्मुखमेव चन्द्राणां सुहृन्न मुखान्तराणीति तस्येतरमुखे- भ्यो व्यतिरेकोऽपि व्यञ्जितः । ततश्च तस्मिन्नेव चन्द्राणां सर्वेषां स्वस्वयावल्लावण्यपुण्यविन्यसनेनोत्प्रेक्ष्यमाणेन कारणेन तत्कार्यं भगवन्मुखस्यानन्तकोटिचन्द्रलावण्यशालित्वं वर्णनी- यतया प्रकृतं प्रतीयत इत्यप्रस्तुतप्रशंसालंकारः ॥ ८८ ॥
त्वद्वक्रमाम्यमयमम्बुजकोशमुद्रा- भङ्गात्ततत्सुषममित्रकरोपक्लृप्त्या । लब्ध्वापि पर्वणि विधुः क्रमहीयमानः शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥
अयं विधुः प्रसिद्धश्चन्द्रः पर्वणि पूर्णिमायाम् अम्बुजस्य कोशः कुट्मलः स एव अम्बुजरूपभाण्डागारं तस्य मुद्रा मुकुलीभावो मुद्रणं च तस्य भङ्गेन विकासनात्मकेन, तद्वारे- त्यर्थः । आत्ता गृहीता तत्सुषमा तच्छोभा यैस्तादृशा ये मि- त्रकराः सूर्यकिरणाः सुहृत्पाणयश्च तेषामुपक्लृप्त्या लाभेन त्वद्वक्त्रस्य साम्यं लब्ध्वा प्राप्यापि क्रमेण हीयमानः क्षीय- माणः सन् स्त्रयमनीत्योपचितामन्यायेन वर्धितां श्रियम् आशु नाशो यस्यास्तामाशुनाशां शीघ्रनाशां शंसति । अत्र चन्द्रस्य भगवन्मुखलक्ष्मीं लिप्समानस्य सुहृत्त्वेन सूर्यं मित्रशब्दश्लेषेण परिकल्प्य तत्किरणजालस्य कमलमुकुलविकासकस्य चन्द्रानुप्र- वेशं च सुहृत्पाणेर्भगवन्मुखलक्ष्मीनिधानकोशगृहमुद्रामोचनपू- र्वकं ततो गृहीतभगवन्मुखलक्ष्म्या चन्द्रप्रसाधनार्थं चन्द्रस्प- र्शरूपं च परिकल्य एतावतापि प्रयत्नेन पौर्णमास्यामेव भग- वन्मुखसाम्यरूपेष्टप्राप्तिर्जायते न सार्वकालिकीति प्रतिपादना- दिष्टार्थं समुद्यतस्य परिपूर्णतत्प्राप्त्यभावरूपो विषमालंकारभेदः । त्वद्वक्त्रसाम्यं लब्ध्वेति प्रसिद्धोपमानस्योपमेयत्वकल्पनात्प्र- तीपालंकारः । कोशमुद्राशब्दयोः श्लेषमूलातिशयोक्त्यलंकारः । कमलमुकुलविकासनस्य तत्रत्यभगवन्मुखलक्ष्मीग्रहणार्थसुहृत्क- रव्यापारत्वस्य तद्विकासकसूर्यकिरणजालगतचन्द्रानुप्रवेशस्य गृहीतया भगवन्मुखलक्ष्म्या चन्द्रप्रसाधनार्थसुहृत्करव्यापार- त्वस्य च परिकल्पनरूपातिशयोक्तिः । शंसतीत्यनेन स्वयं दृ- ष्टान्तो भूत्वा अन्यायोपार्जिता श्रीराशुनाशेति परान्बोधय- तीति प्रतिपादनादसंभवद्वस्तुसंबन्धनिबन्धनो निदर्शनाभेदः । एवमप्रस्तुतचन्द्रवृत्तान्तवर्णनेन स्वयं दृष्टान्तो भूत्वा वर्णनीय- त्वेन प्रस्तुतो भगवन्मुखशोभातिशयः प्रतीयत इत्यप्रस्तुतप्रशं- सालंकार इत्येतेषां संकरः । ‘निदर्शना स्वक्रियया परेषां बो- धनं मतम् । नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ॥’ इत्यसंभवद्वस्तुसंबन्धनिबन्धननिदर्शनाया लक्षणोदाहरणे । अत्र नश्येदिति बोधयदित्यस्य गम्यमानत्वादप्रयोगः । शंसतीत्ये- तत्स्वार्थबाधादतिस्पष्टं बोधयतीत्यर्थे पर्यवसितम् ॥ ८९ ॥
दृग्भ्या मुकुन्द मृगलोचनकोमलाभ्यां जाताधिकद्युति विलोक्य तवाननाब्जम् । मन्ये स्वमण्डलमितोऽप्यधिकं विधित्सु- स्तस्मिन्बिभर्ति मृगमेव जडः सितांशुः ॥
हे मुकुन्द, मृगलोचनाभ्यामिव कोमलाभ्यां मनोहराभ्यां दृग्भ्यां तवाननाब्जं मुखं जाताधिकद्युति संभूताधिककान्तिकं जडः शिशिरः अज्ञश्च सितांशुश्चन्द्रः विलोक्य स्वमण्डलम् इतः त्वन्मुखादपि अधिकं विधित्सुः सन् तस्मिन्स्वमण्डले मृगमेव बिभर्तीति मन्ये । मृगलोचनसदृशाभ्यां लोचनाभ्या- मेव कान्तिर्भवति न तु कृत्स्नेन मृगेणेति विवेकरहितश्चन्द्रो मृगमेव बिभर्तीति भावः । अत्रोपमानुप्राणिता फलोत्प्रेक्षा । ततः पूर्ववदप्रस्तुतप्रशंसालंकारः ॥ ९० ॥
मालिन्यमब्जशशिनोर्मधुलिट्रकलङ्कौ धत्तो मुखे तु तव दृक्तिलकात्मनाभाम् । दोषावितः वचन मेलनतो गुणत्वं वक्तुर्यथेश वचसि भ्रमविप्रलम्भौ ॥
हे ईश, मधुलिट्कलङ्कौ अब्जशशिनोः मालिन्यं धत्तः । मधुलिहा हि पद्मस्य कलङ्केन चन्द्रस्य च मालिन्यं प्रसिद्ध- मेव । तौ मधुलिट्कलङ्कौ तव मुखे तु दृक्तिलकात्मना दृगा- त्मना मधुलिट् तिलकात्मना कलङ्कश्च आभां शोभामेव धत्तः । एकैकस्यापि दोषत्वे कथमुभयं मिलितं गुणः स्यादिति शङ्का- यां तदुपपाद्यते –- दोषावपि सन्तौ मेलनतो मेलनेन हेतुना क्वचन गुणत्वम् इतः प्राप्नुतः । वक्तुर्वचसि यथा भ्रमविप्र- लम्भौ वक्तुः केवलं भ्रमः केवलं विलम्भश्च वाक्यस्याप्रा- माण्यावहो दोषो भवति । उभौ मिलितौ तत्प्रामाण्यावहतया गुणत्वमेव भजतः । यथा विप्रलम्भकः सत्येव सद्मनि देव- दत्ते स नास्तीति भ्राम्यन्सद्मनि देवदत्तोऽस्तीति परं बोधयति तद्वाक्यं प्रमाणमेव भवति । अत्र प्रथमप्रदर्शितविशेषोपपाद- नार्थं सामान्यमुपन्यस्य तत्राप्युपपादनापेक्षायां तदुपपादनार्थं विशेषान्तरस्योपमानत्वेन निबन्धनाद्विकस्वरालंकारः । ‘यस्मि- न्विशेषसामान्यविशेषाः स विकस्वरः । स न जिग्ये महा- न्तो हि दुर्धर्षाः सागरा इव ॥’ इति तल्लक्षणोदाहरणे ॥
आमोदकान्तिभृदहर्निशमेकरूप- मासेविनं द्विजगणैर्दिविषद्गुणैश्च । अङ्काधिरूढसहजश्रि मुखं त्वदीयं शङ्कामहे वरद संहतमब्जयुग्मम् ॥ ९२ ॥ हे वरद, त्वदीयं मुखं संहतं परस्पर मेलनेनैकीभूतम् अब्जयोः पद्मचन्द्रयोः युग्मं शङ्कामहे इत्युत्प्रेक्षा । तथोत्प्रे - क्षानिमित्ततया भगवन्मुखे पद्मचन्द्रोभयगुणयोगो विशेषणैः प्रदर्श्यते – आमोदकान्तिभृत् आमोदमात्रं पद्मे कान्तिमात्रं चन्द्रे । मुखं तु तदुभयशालि । अहर्निशमेकरूपम् अहन्येव पद्मस्य प्रसादः रात्रावेव चन्द्रस्य । अह्नि रात्रावपि मुखस्य । पद्मं द्विजगणैः पक्षिगणैरासेवितं चन्द्रो दिविषद्गणैरमृतं पि- बद्भिः । इदं तु ब्राह्मणगणैर्देवगणैश्चासेवितम् । पद्ममङ्काधिरूढ- लक्ष्मीकं चन्द्रः सहोदरलक्ष्मीकः । इदं तु अङ्काधिरूढा समीपदेशव्याप्ता सहजा आजानसिद्धा श्री कान्तिर्यस्येति व्युत्पत्त्या अङ्काधिरूढसहजश्रि । ‘अङ्कः समीप उत्सङ्गे चिह्ने स्थानावमानयोः’ इति केशवः । ‘सहजं निजमाजा- नम्’ इति यादवः । अत्रोत्प्रेक्षाया द्विजाङ्कसहजश्रीशब्दश्ले - षेण संकरः ॥ ९२ ॥
बिम्बस्तवायमधरः प्रतिबिम्बनेन युक्तं सदा युवतिमानसदर्पणेषु । बिम्बाधरः कविभिरीश्वर वर्ण्यसे त्व- मेतावतैव न तु तुच्छफलोपमानात् ॥
हे ईश्वर, तवायमधरो बिम्बः । युक्तम् । केन हेतुना ? सदा युवतिमानसदर्पणेषु प्रतिबिम्बनेन । यावत्प्रतिबिम्बानु- वृत्ति बिम्बत्वं युक्तमेव । एतावतैव त्वं बिम्बाधर इति कवि- भिर्वर्ण्यसे, न तु तुच्छफलोपमानात् अतिक्षुद्रबिम्बाख्यफल - सादृश्यात् । अधिकव्यतिरेकालंकारोऽपह्नुतिविशेषगर्भः ॥
विद्यामयेषु तव निःश्वसितेष्वपूर्वं विद्याविशेषमिव शिक्षितुमन्तरात्मन् । वाण्याः सदा तव मुखाम्बुरुहे वसन्त्याः कायप्रभेव लसति स्मितचन्द्रिका ते ॥
हे अन्तरात्मन्, ते तव स्मितचन्द्रिका विद्यामयेषु ‘अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदः इत्यादिश्रुतेः सकलविद्यारूपेषु तव निःश्वसितेषु अपूर्वं प्राग- गृहीतं विद्याविशेषं शिक्षितुं ग्रहीतुमिव ।’ शिक्ष विद्योपादाने’ इति धातुः । सदा तव मुखाम्बुरुहे वसन्त्याः वाण्याः कायप्र- भेव लसति । अत्र शिक्षितुमिवेति फलोत्प्रेक्षा । वाण्या इति कवितादिरूपायां वाचि मूर्तिमत्सरस्वतीतादात्म्याध्यवसायरूपा- तिशयोक्तिः । ताभ्यां कायप्रमेवेति स्वरूपोत्प्रेक्षायाः संकरः । मुखाम्बुरुहेति स्मितचन्द्रिकेत्युपमाभ्यां संसृष्टिः ॥ ९४ ॥
तापत्रयौषधवरस्य तव स्मितस्य निःश्वासमन्दमरुता निबुसीकृतस्य । एते कडङ्गरचया इव विप्रकीर्णा जैवातृकस्य किरणा जगति भ्रमन्ति ॥
तापत्रयमाध्यात्मिकादिभेदभिन्नं तस्यौषधवरस्य तच्छा- न्त्यर्थदिव्यौषधस्य निःश्वासरूपेण मन्दमरुता निबुसीकृतस्य, बुसम् अन्तस्तण्डुलादिबीजरहितमुपरित्वङ्मात्ररूपं धान्यं खले बलीवर्दपदैर्घट्टितेन धान्यस्तम्बक्षोदादिना सहितम् । ‘कडङ्गरो बुसं क्लीबे’ इत्यमरः । बुसमिश्रितं धान्यं मारु- तवति प्रदेशे पवनक्रियया बुसरहितं कुर्वन्ति । तथा कृतस्य तव स्मितस्य विप्रकीर्णाः कडङ्गरचया इव मारुतेन धान्य- राशेः पृथक्कृत्य तत्र तत्र नीता बुसनिकरा इव एते जैवा- तृकस्य चन्द्रस्य किरणा जगति भ्रमन्ति । कडङ्गरा अपि अन्तस्तण्डुलरहिता लघुत्वेन वायुवशात्तत्र तत्र भ्रमन्ति । अत्रौषधवरस्येति रूपकम् । निबुसीकृतस्येति तदुत्थापिता- तिशयोक्तिः । कडङ्गरचया इवेति ताभ्यामुत्थापिता स्वरूपो- त्प्रेक्षा । तैरनुप्राणितस्त्वप्रस्तुतप्रशंसालंकारः ॥ ९५ ॥
सिद्धौषधं जयति तेऽधररत्नपात्रे तापत्रयी झटिति मुञ्चति येन सिक्तम् । मन्ये तुषारकिरणं गुणलेशयोगा- दस्यैव वारिजविलोचन कल्कपुञ्जम् ॥ ते तवाधर एव रत्नपात्रं तस्मिन् सिद्धौषधं जयति । येन व्याधिः शीघ्रं शाम्यतीत्यनुभवसिद्धं तत्सिद्धौषधमित्युच्यते । मन्दस्मितं तथात्वेनाध्यवसितम् । तस्य सिद्धौषधत्वमेवोप- पाद्यते – येन सिक्तं तापत्रयी झटिति मुञ्चति । अथैतन्नारा- यणतैलादिवत्पाकसिद्धं कल्पयित्वा तदुपजीव्योत्प्रेक्ष्यते – हे वारिजविलोचन, तुषारकिरणं गुणलेशयोगात् किंचिदाधि- भौतिकतापहरे तस्मिन्नेतदीयगुणलवयोगात् अस्यैव सिद्धौष- धस्य कल्कपुञ्जं तैलस्य निष्पीडनात्सिद्धं सहपक्वमूलिकादि- कल्कसंघं पिण्डीभूतं मन्ये । कल्केऽपि हि किंचिल्लेशतस्तैल- गुणानुवृत्तिरस्ति । अत्र अधररत्नपात्र इति रूपकम् । सिद्धौ- षधमित्यतिशयोक्तिः । तापत्रयीत्यादिवाक्ये काव्यलिङ्गम् । उत्तरत्र तैरुत्थापिता स्वरूपोत्प्रेक्षेति संकरः ॥ ९६ ॥
आतन्वतामवयवेषु गतागतानि युक्तात्मनां वरद यौवतचक्षुषां च । विश्रान्तिभूर्विधुकरप्रकरावदाता मन्दस्मितच्छविरियं तव मां पुनातु ॥
हे वरद, तवावयवेषु गतागतानि आतन्वतां युक्तात्मनां भगवन्मूर्तिध्यानपराणां योगिमनसां यौवतचक्षुषां युवति- समूहचक्षुषां च विश्रान्तिभूः गतागतानि कुर्वतां छायावृक्ष- वद्विश्रान्तिस्थानभूता विधुकरप्रकरावदाता चन्द्राकरणच्छटेव शुभ्रा तवेयं मन्दस्मितच्छविः मां पुनातु । योगिनां मनांसि भगवतः सर्वावयवानारोहावरोहक्रमेण चिरमनुसंधाय मन्द- स्मितचन्द्रिकायां पश्चाञ्चिरमवतिष्ठन्ते, “तस्मिंल्लब्धपदं चित्तं सर्वावयवसंस्थितम् । विलोक्यैकत्र संयुज्यादङ्गे भगवतो हरेः ॥ ’ इति, ‘एकैकशोऽङ्गानि धिया विभावयेत्पादादि यावद्धसितं गदाभृतः । जितं जितं स्थानमपोह्य धारयेत्परं परं शुध्यति धीर्यथा यथा ॥’ इति च भागवतवचनात् । का- मिनीनां चक्षूंष्यपि नायकस्य सर्वेष्ववयवेषु चरित्वा नितान्तं मदनोद्दीपकसाकूतमन्दस्मिते चिरस्थायितां प्राप्नुवन्तीति वि- श्रान्तिभूरित्युक्तम् । अत्र योगिमनसां कामिनीचक्षुषां च गतागताचरणलक्षणैकक्रियायोगात् उभयोश्च भगवतो मुमुक्षु- ध्येयपरब्रह्मभावे सौन्दर्यातिशये च वर्णनीये उपयोगित्वेन प्रस्तुतत्वाविशेषाच्च तुल्ययोगितालंकारः । युवतिशब्दात्समू- हार्थे ’ भिक्षादिभ्योऽण्’ इत्यण्प्रत्यये यौवतमिति रूपम् । ’ भस्याढे तद्धिते’ इति पुंवद्भावस्तु न भवति, युवति शब्दस्य भिक्षादिषु पाठसामर्थ्यात् ’ तस्य समूह ः ’ इत्येव युवतिशब्दात्प्राग्दीव्यतीये सिद्धेऽप्यण्प्रत्यये तस्य भिक्षादि- गणपाठस्य पुंवद्भावपालनार्थत्वात् । भाष्यवार्त्तिकयोस्तु समू- हार्थे यौवनमित्येव रूपमङ्गीकृत्य युवतिशब्दस्य भिक्षादिगणे पाठः प्रत्याख्यातः । तत्पक्षे ’ यौवनचक्षुषाम् ’ इति पठनीयम् ॥
निःश्वासमन्दमलयानिलकन्दलेन निर्हारिणा बहुतरेण च सौरभेण । नासापुटौ नलिनलोचन ते मनोज्ञौ मन्ये सदैव मधुमाधवयोर्निवासौ ॥९८ ॥
हे नलिनलोचन, ते मनोज्ञौ नासापुटौ सदा नित्यमेव मधु- माधवयोः वसन्तर्तुमासयोः निवासौ मन्ये । अत्र स्वरूपो- त्प्रेक्षायां निमित्तमुच्यते – निःश्वास एव मन्दमलयानिलः तस्य कन्दलेनाङ्कुरेण निर्हारिणा दूरं विसृमरेण बहुतरेण सौरभेण च । ‘समाकर्षी तु निर्हारी’ इत्यमरः । उत्प्रेक्षाया निः- श्वासमन्दमलयानिलेति रूपकेण संकरः ॥ ९८ ॥
संचारशालि तव निःश्वसिते समस्त- वेदेतिहासवपुषि द्विपशैलनाथ । नाभीसरोरुहनवारुणमण्डले च मन्ये मधुव्रतकुलं मधुविद्ययोक्तम् ॥ ९९ ॥
हे द्विपशैलनाथ, समस्तवेदेतिहासवपुषि सकलवेदेति- हासस्वरूपे तव निःश्वसिते नाभीसरोरुहमेव नवारुणमण्डलं तत्र च संचारशालि संचारेण श्लाघ्यं श्रेष्ठं वा । तदुभये सौरभलोभात् उभयत्रापि गतागताभ्यां परिभ्रमत् मधुव्रत- कुलं मधुकरपटलं मधुविद्यया मधुविद्याप्रतिपादकोपनिषद्भा- गेन उक्तं मधुव्रतकुलं मन्ये । छन्दोगानामुपनिषदि ’ असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशोऽन्तरिक्षम- पूपो मरीचयः पुत्राः । तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्य ॠच एव मधुकृत ऋग्वेद एव पुष्पम्’ इत्यादिना मधुविद्योक्ता । तत्र द्यौः तिरश्चीनः तिर्यग्गतो वंशदण्डः यत्र मध्वपूपो लम्बते । अन्तरिक्षमपूपो मधुपटलं यन्मध्ये मधुकरैः संभृतं मधु तिष्ठति । मरीचयः पुत्राः भ्रमरबीजभूता मध्वपूपच्छिद्रस्थाः सूक्ष्मकीटाः । प्राच्यादिषु दिक्षु प्रसृता रश्मयो मधुनाड्यो मध्वाधारच्छिद्राणि । आ- दित्यमण्डलं मध्वपूपमध्यगतं मधु मधु च मधुकरैः पुष्पे- भ्यो रसं समाहृत्य संपाद्यते । अत्र ऋग्यजुःसामाथर्ववेदा इतिहासश्च पुष्पाणि । तेष्वाम्नाता ऋगादयो मन्त्रा मधु- कराः ऋग्वेदादिविहितेषु कर्मसु सोमाज्यपयःप्रभृतीनि मन्त्रै- रग्नौ हूयन्ते । तान्यादित्यरश्मिसंवलितैरग्निभिरुत्पन्नपाकान्यमृ- तभावमापन्नान्यादित्यमण्डलं प्राप्नुवन्ति ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते’ इति साधारण्यात् । अतस्तत्तत्कर्म- बोधका ऋक्सामादयो मधुसमाहरणे मूलोपादानत्वात्पुष्पत्वेन निरूपिताः । मन्त्रास्त्वाहुतिकरणत्वेन तत्तद्रसानामेकीकरण- कृत्त्वेन मधुनेतृत्वान्मधुकरत्वेन निरूपिताः । ततश्च मधुकराणां रससमाहरणार्थं पुष्पेषु समाहृतरससंयोजनार्थं मध्वपूपगते मधुनि च पुनः पुनर्गतागतं लोके दृष्टम् । अतो वेदेतिहास- रूपेषु भगवन्निःश्वासेषु नाभीपद्मरविमण्डले च पुनः पुनर्गतागतं कुर्वन्मधुकरकुलं मधुविद्योक्तमधुकरकुलत्वेनोत्प्रेक्ष्यते । सा चोत्प्रेक्षा रूपकोत्थापितेति संकरः ॥ ९९ ॥
देहाद्वदन्ति जननं मुनयस्तिलानां देवेन्द्रवन्द्यचरणाम्बुज तावकीनात् । नारायणैतदुचितं प्रकटीकरोति नासाभिधानमिह दिव्यतिलप्रसूनम् ॥
हे देवेन्द्र वन्द्यचरणाम्बुज नारायण, मुनयः तावकीना- द्देहात् तिलानां जननं वदन्ति । एतत् तेषां वचनम् इह तव देहे नासाभिधानं दिव्यं नित्यमम्लानत्वेनाश्चर्यभूतं तिलप्रसूनं कर्तृ उचितं प्रकटीकरोति । अत्राप्तवाक्यप्रतिपन्नस्यार्थस्याति- शयोक्तिकल्पितेन लिङ्गेन दार्ढ्यं क्रियत इति तदुत्थापितोऽनु- मानालंकारः ॥ १०० ॥
नेत्रे तव क्व भगवन्क्व च पुण्डरीकं ब्रूते तयोस्तदुपमानमथापि वेदः । सर्वात्मनस्तव समाधिकवस्त्वलाभा- दाकाशवत्स खलु सर्वगतत्वमाह ॥
अप्राकृते तव नेत्रे व तुच्छमिदं पुण्डरीकं क्व ? अथापि वेदः तयोस्त्वन्नेत्रयोः तत्पुण्डरीकमुपमानं ब्रूते आह ’ तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी’ इति । अधिकगुणं खलूपमानं निबद्धव्यम् । इदं पुण्डरीकं भवन्नेत्राभ्यां न्यूनगुणमिति वक्तु- मपि प्रसक्तिरहितं कथमुपमानभावमश्नुवीत ? अतस्तस्योप- मानत्वेन निबन्धनमत्यन्तमनुचितमेव । एतदनौचित्यं वेद- शैल्या परिह्रियते – स खलु वेदः सर्वात्मनः सकलचराचर- प्रपञ्चात्मतया परिच्छेदातीतस्य तव सदृशाधिकवस्त्वलाभात् आकाशवत्सर्वगतत्वमाह । न हि प्रतिब्रह्माण्डं भिन्नभिन्न- मित्यत्यन्तमेव परिच्छिन्नमाकाशं भगवतः सर्वगतत्वे उपमा- नतामर्हति । अथापि भगवतः सर्वगतत्वं केनचिदुपायेन बोधयितुं प्रवृत्तो वेदः आकाशातिरिक्तं व्यापि वस्त्वपश्यन् तमेवोपमानीचकार । एवं शैल्या दर्शनादिदमपि तथेत्यनौ- चित्यपरिहारः । अत्र पूर्वार्धे विरूपघटनारूपो विषमालंकार- भेदः । उत्तरार्धे वेदशैलीप्रदर्शनेन तदुपपादनम् । ततश्च सदृशाधिकवस्त्वलाभादाकाशस्येव पुण्डरीकस्योपमानत्वकल्प - नमित्यौपम्यस्य गम्यत्वात् ब्रूत इत्याहेति चैकस्या एव क्रिया- याः पृथगुपमानोपमेययोर्निबन्धनात्प्रतिवस्तूपमालंकार इति तेन विषमालंकारस्य संकरः । तेन वैषम्यसमाधानारीरस्कोऽयं विषमालंकारः । ’ विषमं वर्ण्यते यत्र घटनाननुरूपयोः । केयं शिरीषमृद्वङ्गी क्व तादृङ्भदनज्वरः ॥ वाक्ययोरेकसा- मान्ये प्रतिवस्तूपमा मता । तापेन भ्राजते सूरः शूरश्चापेन राजते ॥’ इति विषमप्रतिवस्तूपमयोर्लक्षणोदाहरणानि । प्रतिवस्तु प्रतिवाक्यार्थमुपमा समानधर्म एक एव शब्दभेदेन पृथङ्निर्दिश्यत इति प्रतिवस्तूपमा ॥ १०१ ॥
साम्यभ्रमादविनयेन समुन्नतस्य सव्यं तवाक्षि हरति श्रियमम्बुजस्य । तस्यापि तां समधिकां तनुते यदन्य- द्दाक्षिण्यमेव दनुजाहित तत्र मूलम् ॥
हे दनुजाहित दैत्यरिपो, तव सव्यमक्षि चन्द्ररूपं साम्य- भ्रमात् त्वदक्षिभ्यां स्वयं सममिति भ्रमात् अविनयेन गर्वेण समुन्नतस्य अम्बुजस्य श्रियं विकासशोभां संपदं च हरति । उत्कृष्टा हि राजादयः स्वसाम्यभ्रमादवलिप्तस्य प्रावण्यरहि- तस्य गर्वशान्तये संपदं हरन्ति । अन्यद्दक्षिणमक्षि सूर्यरूपं तस्यापि तथाभूतस्यापि अम्बुजस्य समधिकामधिकतरां श्रियं तनुते इति यत् तत्र दाक्षिण्यमेव वामेतरत् परच्छन्दानुवर्ति च दक्षिणम् । ‘विदग्धे च परच्छन्दानुवर्तिन्यपि दक्षिणम् । कुशली भट्टनन्द्याह तथा यः कुत्र वाहवे । शरीरावयवे चापि वामस्य प्रतियोगिनि ॥’ इति केशवः । तस्य भावो दाक्षिण्यं वामेतरत्वं तदेव दाक्षिण्यं परच्छन्दानुवर्तितापादकः सापराधेऽपि हिताचरणप्रवर्तकः आनुकूल्याख्यश्चेतोवृत्तिवि- शेषः । ‘दाक्षिण्य मनुकूलता’ इति शब्दरत्नाकरः । उक्त- रूपं दाक्षिण्यमेव तत्र कृतापराधस्याम्बुजस्य श्रीप्रदानेन बहू - करणे मूलम् । अत्र पद्मस्य जले प्ररूढस्य स्वतः सिद्धा समुन्नतिरवलेपहेतुकाप्रावण्यरूपाध्यवसितेत्यतिशयोक्तिः । त- दीयविकासशोभाहरणं श्लेषेण तदीयैश्वर्यहरणत्वेनाध्यवासित- मिति तत्राप्यतिशयोक्तिः । उभयोरप्यतिशयोक्तिसिद्धयोरर्थ- योर्हेतुहेतुमद्भावस्य हेतुगर्भविशेषणेन प्रतीतेर्हेत्वलंकारः । उत्तरवाक्ये दाक्षिण्य रूपमनोवृत्तितयाध्यवसितस्य वामेतर- त्वस्य तस्यापि तां समधिकामिति निर्दिष्टार्थस्य च हेतुहेतु- मद्भावो मूलशब्देनैवोक्त इति तत्रापि श्लेषमूलातिशयोक्त्यु- त्थापितो हेत्वलंकार इत्युभयोः समप्रधानयोः परस्परानुप्रा- णितत्वेन संकरः । सव्यमन्यदिति विशेषणद्वयमक्ष्यन्वयि - क्रियाद्वयोपपादनार्थमक्षिद्वयस्य चन्द्रसूर्यरूपत्वाभिप्रायगर्भमि- ति परिकराभ्यामपि हेत्वलंकारयोः संकरः ॥ १०२ ॥ पद्मानुरागजुषि लोहितशुक्लकृष्णा- मासेदुषि प्रकृतिमादृतमीनरूपे श्रुत्यन्तभासिनि मदावलशैलनाथ त्वल्लोचने त्वयि च भाति न मे विशेषः ॥
हे मदावलशैलनाथ मदावलशैलो नागाचलः तस्य स्वा- मिन्, पद्मानुरागजुषि सादृश्यरूपकमलसौहार्दजुषि लोहि- तशुक्लकृष्णां प्रकृतिं रेखासु गोलके कनीनिकायां च लौहि- त्यादिवर्णत्रयशालिनं स्वभावमासेदुषि प्राप्तवति आदृतमीन- रूपे अङ्गीकृतमीनाकारे श्रुत्यन्तभासिनि कर्णान्तविश्रान्ते त्व- ल्लोचने त्वयि च विशेषो न मे भाति । साम्यमेव भाती- त्यर्थः । विशेषणानां भगवति योजनायाम्, पद्मा लक्ष्मीः, प्रकृतिस्त्रिगुणा । ‘अजामेकाम्–’ इत्यादिश्रुत्या प्रकृतेर्लोहिता- दिवर्णत्रयशालित्वम् । मीनरूपं मत्स्यावतारः । श्रुत्यन्तो वेदान्तः । श्लेषोत्थापित उपमालंकारः ॥ १०३ ॥
मुक्तः प्रजापतिरयं मम दर्शनादित्यन्यं विधातुमनसस्तव भालजाता । धर्माम्बुबिन्दुततिरेव किरीटमूलप्रत्युप्तमौक्तिकततिच्छलतो विभाति ।
अयं प्रजापतिः योऽश्वमेधेनाराधयामास अयमुत्तरवेद्या- माविर्भूतस्य मम दर्शनान्मुक्तो जात इति हेतुना अन्यं वि- धातुमनसः लोकसृष्ट्यर्थमन्यं प्रजापतिं स्रष्टुकामस्य तव भालजाता ललाटोत्पन्ना घर्माम्बुबिन्दूनां स्वेदजलकणिकानां ततिरेव किरीटमूलप्रत्युप्तमौक्तिकततिच्छलतः मुकुटमूलभाग- निबद्धमुक्ताफलपङ्क्तिव्याजेन विभाति । अत्र चतुर्मुखस्य सृष्टिर्भगवल्ललाटस्वेदनिदानेति महोपनिषद्याम्नायते –- ’ अथ पुनरेव नारायणः सोऽन्यत्कामो मनसाध्यायत । तस्य ध्यानान्तस्थस्य ललाटात्स्वेदोऽपतत् । ता इमा आप- स्ताभ्यः सुतेजो हिरण्मयमण्डमभवत् । तत्र ब्रह्मा चतु- र्मुखोऽजायत ।’ इति तदर्थमुपजीव्य नेमानि मौक्तिकानि किंतु ललाटबद्धस्वेदबिन्दव एवेति च्छलशब्देनापह्नुतिर्नि- बद्धा । प्रजापत्यन्तरासिसृक्षायां स्थितस्य प्रजापतेर्मुकत्वं हेतु- त्वेन निबद्धमिति हेत्वपह्नुत्यलंकारयोः संकरः ॥ १०४ ॥
राजन्त्यनर्घमणिसंघमये किरीटे राजीवलोचन न नीलमणिप्रवेकाः । आघ्राय गन्धमलिनस्तव कुन्तलाना- मन्तः प्रवेष्टुमनसः परितो निलीनाः ॥
हे राजीवलोचन, अनर्धमणिसिंघमये अमूल्यरत्नबृन्दप्रचुरे तव किरीटे नीलमणिप्रवेकाः इन्द्रनीलरत्नोत्तमाः न राजन्ति किं तु अभितः समन्ताद्विसृमरं तव कुन्तलानां गन्धमात्राय अन्तः प्रवेष्टुमनसः गन्धलोभादन्तः प्रवेष्डकामाः तदर्थं परितो निलीनाः अलिनो मधुव्रताः राजन्ति । अत्र विषया- पह्नवेन विषय्यारोपाद्वाक्यभेदेनापह्नुत्यलंकारः ॥ १०५ ॥
आपादमाचिकुरभारमशेषमङ्ग- मानन्दबृन्दलसितं सुदृशामसीमम् । अन्तर्मम स्फुरतु संततमन्तरात्म- न्नम्भोजलोचन तव श्रितहस्तिशैलम् ॥
हे अन्तरात्मन्, अम्भोजलोचन, सुदृशां सुलोचनाना- मुत्तमस्त्रीणां सम्यग्ज्ञानवतां ब्रह्मज्ञानां च ’ हग्ज्ञानं त्रिषु ' इत्यमरः । असीमममर्यादं निरतिशयम् आनन्दबृन्दलसित - मुल्लसद्रसं विजृम्भमाणं श्रितहस्तिशैलम् आपादमाचिकुरभारं तव अशेषमङ्गं सर्वेऽवयवाः । जातावेकवचनम् । यद्वा सर्वं वपुः ’ सर्वः पटोऽयमरुणः ’ इतिवत् अवयवकार्त्स्न्ये अशेष- शब्दः । सर्वावयवयुक्तं च वपुरिति यावत् । ’ अङ्गं शरी- रावयवे शरीरोपाययोर्गुणे’ इति केशवः । मम अन्तः हृदि संततं सदा स्फुरतु प्रकाशताम् । हेतुहेतुमतोर्भगवद्वि- ग्रहतदालोकनजनितातिशयानन्दयोरैक्यस्य व्यपदेशाद्धेत्वलं- कारभेदः । ‘हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते । लक्ष्मीवि- लासा विदुषां कटाक्षा वेंकटप्रभोः ॥’ इति तल्लक्षणोदाहरणे । फलावश्यंभावतच्छैघ्र्य प्रत्यायनमैक्यव्यपदेशस्य प्रयोजनम् ॥
इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनुना श्रीमदप्पयदीक्षितेन कृतं वरदराजस्तवविवरणं संपूर्णम् । –