ऐश्वर्यकादम्बिनी

[[ऐश्वर्यकादम्बिनी Source: EB]]

[

ऐश्वर्यकादम्बिनी

श्रीबलदेवविद्याभूषणानां

(

१)

प्रथमा वृष्टिः

कृष्णाभिधायै कनकाम्बरायै

श्यामाब्जतन्वै सरसीरुहायै ।

नित्यश्रियै नित्यगुणव्रजायै

नमोऽस्तु तस्यै परदेवतायै ॥१॥

सनातनं रूपमिहोपदर्शयन्न्

आनन्दसिन्धुं परितः प्रवर्धयन।

अन्तस्तमःस्तोमहरः स राजतां

चैतन्यरूपो विधुरद्भुतोदयः ॥२॥

बहुभूमसौधसदृशो विज्ञानघनो बहिःस्तोमस्तोमात।

परमव्योमाभिख्यो विभाति विष्णोर्महाद्भुतो लोकः ॥३॥

आस्ते कृष्णो यत्र नारायणात्मा

व्यूहैर्जुष्टो वासुदेवादि संज्ञैः ।

कुर्वन्क्रीडां पार्षदग्रामसिद्धां

दीव्यद्भूतिनारसिंहादिरूपी ॥४॥

नित्यं लक्ष्मीर्यमुपास्ते स्वनाथं

नानारूपा बहुरूपं परेशम् ।

चित्सौख्यात्मा स्वसमाभिः सखीभिः

सर्वेशाना बहुसम्भारपूर्णा ॥५॥

दीव्यति तदुपरि लोकः कुशस्थली मधुपुरी व्रजाभिख्यः ।

यस्मिन्विलसति कृष्णो जनैः स्वकीयैः स देवकीसूनुः ॥६॥

द्वारवत्यां मधुपुर्यां च कृष्णं

शनैर्याद्यैः रुद्धवाद्यैश्च पूज्यम् ।

नानासम्पन्निभ्र्तायां परेशं

रुक्मिण्याद्याः सम्भजन्ते श्रियस्तम् ॥७॥

श्रीगोकुले हरिरसौ व्रजनाथसूनुः

श्रीचर्चिते बहुसखोऽस्ति सभृत्यवर्गः ।

श्रीराधिकाप्रियसखीभिरधीश्वरीयं

संसेवते स्वसदृशीभिरनन्यवृत्तिः ॥८॥

एवं रूपो हरिरुद्भाति नित्यं

यद्गोपालोपनिषत्तं तथाह ।

प्रादुर्भावं स कदाचित्प्रपञ्चेऽप्य्

अञ्चेत्स्वामी सकलांशैर्विशिष्टः ॥९॥

मधुरैश्वर्यचरित्ररूपवत्त्वान्

मधुराद्वेणुरवाच्च नन्दसूनुः ।

प्रियतमतापूर्णतमाज्जनव्रजाच्च

स्फुटमुक्तः कविभिर्विभुर्वरीयान॥१०॥

इत्यैश्वर्यकादम्बिन्यां भगवत्त्रिपादविभूतिवर्णनं नाम

प्रथमा वृष्टिः

॥१॥


.

(

२)

द्वितीया वृष्टिः

सङ्कर्षणो हरिरथ प्रलयावसाने

जीवानुदीक्ष्य करुणः क्षुभितान्समन्तान।

प्रैक्षिष्ट स्वप्रकृतिमण्डघटास्ततस्तु

प्रादुर्बभूवुरुरुभोगचयान्दधानः ॥१॥

तेषां स्वगर्भेषु हरिस्तदाभूत्

प्रद्युम्नसंज्ञो जनको विरिञ्चेः ।

भवन्ति यस्माद्बहवोऽवतारा

मीनादयोऽनन्तगुणा विभुम्नः ॥२॥

अन्तर्यामी व्यष्टिजीवव्रजानां

जातस्तेषु क्षीरधिस्थोऽनिरुद्धः ।

सार्धः देवैः क्रीडति प्राज्यतेजास्

तेषां शत्रून्नाशयन्यः समन्तात॥३॥

यदा यदा राक्षससैन्यजालैर्

धर्मक्षतिः स्यात्प्रशमाय तस्याः ।

तदा तदा श्रीमहिलः सरामः

स वासुदेवश्च भवेत्कदाचित॥४॥

प्रह्लादं यः खिद्यमानं स्वमृत्युं

वीक्ष्य स्तम्भादावीरासीन्नृसिंहः ।

उग्रोऽदारीत्तद्रिपुं सानुकम्पः

श्रीगोविन्दो नन्दसूनुः सजीयात॥५॥

स्वयं हरिः स कदाचित्सधामा

सपार्षदो यदि गच्छेन्नृलोकम् ।

भुवो भरः स तदेयात्प्रणाशं

भवेद्बहुः स्वजनानां प्रमोदः ॥६॥

आविर्भवेत्प्रथमं धामविष्णोः

पित्रादयः क्रमतस्तत्र मुख्यः ।

पश्चादसौ रमया तत्समाभिः

सार्धं प्रभुः परमर्धिः प्रियाभिः ॥७॥

विद्यास्तत्र स्वयमेव प्रभाताश्

चातुर्याप्यखिलाः पार्षदेषु ।

स्वस्वापेक्ष्या हरिभक्तिः प्रतीता

विम्राजेरन्निखिलाः सम्पदश्च ॥८॥

इत्यैश्वर्यकादम्बिन्यां

एकपादविभूतिभगवत्पुरुषाद्याविर्भावक्रमवर्णनं नाम

द्वितीया वृष्टिः

॥२॥


.

(

३)

तृतीया वृष्टिः

वृष्णिर्वशे देवमीढः स योऽभूत्

भार्ये तस्य क्षत्रियार्ये प्रसिद्धे ।

शूराभिख्यः क्षत्रियायां कुमारः

पर्जन्याख्यः सम्बभूवार्यकायाम् ॥१॥

शूरादासीद्वसुदेवो महात्मा

पत्नी यस्य प्रगुणा देवकी सा ।

पर्जन्यात्तु व्रजभूपात्सनन्दो

पत्नी यस्योत्तमकान्तिर्यशोदा ॥२॥

यस्मिन्जाते त्रिदेवेशैरकारि

प्रीत्युत्फुल्लैर्वरवादित्रघोषः ।

स्थानं विष्णोर्वसुदेवं स शौरिर्

मान्यो दाता द्विजसेवी बभूव ॥३॥

वैयासकिर्यां किल सर्वदेवतां

जगाद विद्वानपि देवरूपिणीम् ।

सा देवकी विश्वधरं महेश्वरं

दधार कुक्षौ किमु चित्रमुच्चकैः ॥४॥

नन्दः श्रीकान्तभक्तो व्रजधरणीपतिः शास्त्रविद्धर्मनिष्ठः

सामन्तैः स्निग्धचित्तैरपि सचिववरैः शासनस्थैर्वरिष्ठः ।

प्राकारी वरसौधोऽपरिमितधवलश्चित्रवादित्रनादैर्

जुष्टो यानैरथाद्यैर्बहुविधविभवः सर्वमान्यः स आसीत॥५॥

विष्णुर्विश्वं चोषतुः कुक्षिकोणे

यस्याः स्तन्येनाप तृप्तिं स भूमा ।

लक्ष्मीः पादौ सादरात्मा ववन्दे

सा कल्याणी केन वर्ण्यो यशोदा ॥६॥

बद्न्हवो व्रजपतेर्बहुविद्याः

साग्नयो हरिगुरुद्विजभक्ताः ।

सम्पदोऽति विपुलाः किल येषां

धेनवो बहुहयाश्च विरेजुः ॥७॥

आसीत्सखा वृषभानुर्महीपो

नन्दस्य यो गुणवृन्दैर्वरीयान।

कन्या यतः प्रगुणा राधिका सा

वेदः श्रियामधिपां यामवोचत॥८॥

प्रीतिं यस्मिन्सुष्ठु तौर्यत्रिकज्ञाः

प्रापुः सूता मागधा वन्दिनश्च ।

सर्वाभिज्ञादर्शितस्वस्वविद्या

यस्मात्कामान्लेभिरे तेऽभिमृग्यान॥९॥

दानाम्भसां यस्य नदीभिरुच्चैर्

नीवृन्नदीमातृकां दधार ।

कल्पद्रुमाः कामदुघाश्च शश्वत्

कामान्समस्तान्ववृषुर्मनोज्ञान॥१०॥

गोवर्धनो यस्य सरत्नः शैलः

सुनिर्झरः कन्दरमन्दिराढ्यः ।

पुष्पैः फलैः सद्यवसैश्च रम्यो

यथार्थनामा विततान सेवाम् ॥११॥

इत्यैश्वर्यकादम्बिन्यां

वसुदेवो नन्दयो वृष्णिवंशोद्भवेत्यादिवर्णनं

तृतीया वृष्टिः

॥३॥


.

(

४)

चतुर्थी वृष्टिः

बृहद्वने यस्य बृहत्कपाटं

पुरं बृहत्सौधवरं बभासे ।

अजन्मनो जन्म हरस्य यस्मिन्

बभूव जन्म प्रगुणस्य विष्णोः ॥१॥

भानुभूपभवनं यदन्तिके

कान्तिकन्दलसुपुष्कलं बभौ ।

प्रेयसी व्रजविधोर्महेश्वरी

सम्बभूव किल यत्र राधिका ॥२॥

नन्दीश्वराद्रेर्मणिचित्रसानो

रूपेत्यकायां बहुनिर्झरस्य ।

पुष्पैः फलैश्चातिमनोहरस्य

पुरं व्रजेशस्य महत्तदासीत॥३॥

यस्मिन्विचित्रैर्मणिभिः प्रणीता

भान्ति स्म हर्म्याट्टकनिष्कुटादयः ।

समानसूत्रैर्विहिता विपण्यः

कूपाः सरस्यश्च तथाविधास्ताः ॥४॥

यदहरन्मनोरत्नगोपुरैर्

उरुभिरष्टभिश्चारुगोपुरैः ।

रुरुचिरे भृशं येषु रक्षिणः

कनकभूषणा भूपपक्षिणः ॥५॥

यन्मध्यमं व्रजपतेः किल सप्तभूमं

सौधराजविमलं विलसत्पताकम् ।

वैदूर्यविद्रुममसारमणिप्रणीत

स्तम्भालिजालवलभीकुलसत्वलीकम् ॥६॥

निरस्तमायापि विचित्रमाया

वासो रमाया निखिलार्चितस्य ।

सभाः सभानन्दनृपस्य यस्मिन्

समाजिता शिल्पिवरैरदीपि ॥७॥

इन्द्रगर्वहरपर्वभूषितैर्

यस्य राजपुरुषैरधिष्ठिताः ।

तोरणाश्च कनकादिनिर्मिताः

प्रोज्जिहानमणितोरणावभूः ॥८॥

नलिकावलिवर्त्मभिर्जलौघैः

कटकस्थात्सरसः समुत्पतद्भिः ।

सदनेषु सनिष्कुटेषु यस्मिन्

जलयन्त्राण्युदगुर्विचित्रभानि ॥९॥

वैदूर्यवज्रादिविनिर्मितानि

स्फुरत्पताकान्यनिशोत्सवानि ।

सद्मानि पद्ममहिलस्य विष्णोर्

बभुः प्रभूतद्युतिमन्तिर्यस्मिन॥१०॥

स्थिरचयो बृहद्वलयोच्छ्रितः

कपिशिरश्चयै रतिमञ्जुअलः ।

गिरिसराम्बुभृत्परिखाञ्चितो

यदमितोऽलसद्वरणो वरः ॥११॥

बन्धनक्रशिमकर्दमशब्दाः

केशमध्यमृगनाभिषु यस्मिन।

चामरादिषु च दण्डनिनादः

सोर्मितारतसरितसरित्सरसीषु ॥१२॥

तीक्ष्णताकठिनते युवतीनां

वर्णितकिलकटाक्षकुचेषु ।

छिद्रिताकुटिलते क्रमतस्ते

मौक्तिकेषु च कचेषु यत्र ॥१३॥

पुरं बृहत्सानुगिरेरुपान्ते

हरेः प्रियं तादृशमुद्बभासे ।

सरस्वतीजुष्ठमधि प्रवीरं

यदध्यतिष्ठद्वृषभानुभूपः ॥१४॥

इत्यैश्वर्यकादम्बिन्यां

श्रीनन्दनृपराजधानीवर्णनं नाम

चतुर्थी वृष्टिः

॥४॥


.

(

५)

पञ्चमी वृष्टिः

प्रादुर्भूतो नन्दमेवं स कृष्णः

श्रीमान्शौरीं चाविवेशाम्बुजाक्षः ।

ताभ्यां न्यस्तं वैधदीक्षान्विताभ्यां

तत्पत्न्यौ सम्प्राप्य तं दध्रतुस्ते ॥१॥

सख्योस्तयोर्देवगर्भत्वयोगाद्

विद्युन्निभा कायकान्तिर्बभासे ।

सङ्घसतां मोदयन्ती समन्ताद्

वृन्दं द्विषां तापयन्ती समासीत॥२॥

प्रादुर्भावं भजन्माने मुकुन्दे

वादित्राणि स्वयमेव प्रणेदुः ।

सम्फुल्लाभूद्वनराजीसमन्तात्

सार्धं चित्तैर्द्विजभक्तव्रजानाम् ॥३॥

नमस्यभासि पाद्मभेऽसिताष्टमीनिशार्धके

व्रजेश्वरी सदुर्गकं हरिं सुखादजीजनत।

असूत देवकी च तं तदैव केवलं मुदा

बभूव मोदसञ्चयः सतां विशुद्धचेतसाम् ॥४॥

दृष्ट्वा पुत्रं वसुदेवः परेशं

हृष्टः प्रादादयुतङ्गाः हृदैव ।

कंसाद्भीतो व्रजराजस्य गेहं निन्ये

भ्रातुस्त्वरितं तं प्रवीरम् ॥५॥

हित्वा तस्मिन्नात्मपुत्रं यशोदा

कन्यां नीत्वा सोऽभ्यदात्कंसराजे ।

ऐक्यं बिम्बीरर्भयोर्वा तदाभूद्

एकानंशाचिन्त्यशक्तिर्यतोऽसौ ॥६॥

सूतंवदन्परिजनवक्त्रतो हरिं

परिप्लुतः परिहितवेशभूषणः ।

अचीकरन्निजतनयस्य जातकं

द्विजोत्तमैः श्रुतविधिना व्रजाधिपः ॥७॥

पुत्रोत्सवे सम्प्रददौ सनन्दो

हर्षार्दितो भूपतिरत्युदारः ।

स्वलङ्कृता वत्सयुताश्च धेनूः

श्रद्धान्वितो द्वे नियुते द्विजेभ्यः ॥८॥

सप्तप्रासाद्ब्राह्मणेभ्यस्तिलाद्रीन्

रौक्मैश्चैलै रत्नवृन्दैश्च जुष्टान।

जातः सर्वेइस्तत्र चित्रो व्रजेऽसौ

गावः सर्वा मण्डिताङ्गा बभूवुः ॥९॥

सोमाङ्गल्यं भूसुरास्तत्र पेठुः

सूतास्तद्वन्मागधा वन्दिनश्च ।

वादित्राणि स्फोतमाशु प्रणेदुर्

गीतिं नृत्यं चातिचित्रं दिदीपे ॥१०॥

सुतममितगुणं निशम्य गोपा

व्रजनृपतेर्मुदिताः सुरम्यवेशाः ।

धृतमणिमयभूषणाः सुयत्नाः

सदनमथ बलिपाणयः समीयुः ॥११॥

व्रजपुरवनिता विचित्रवेशा

वरमणिकुण्डलनूपुरोरुहाराः ।

तमुपाययुरुपायनाग्रहस्ता

नृपनिलयं हरिमीक्षितुं प्रहर्षात॥१२॥

घृतदधिरजनीरसात्किरन्तो

व्रजनिलया जयघोषभूषितास्याः ।

विधिशिवसनकादयश्च तस्मिन्

परिननृतुर्नृपचत्वरेऽतिमत्ताः ॥१३॥

व्रजपतिरथ भूषणैरनर्घ्यैर्

वसनचयैर्वरसौरभैश्च बन्धून।

परिजनसहितानपि प्रपूर्णान्

मुदितमनाः सकलानपि समार्चीत॥१४॥

तनयजन्ममहे नृपतिर्बभौ

रचितकोशकपाटविमोचनः ।

प्रतिजगुर्निजवाञ्छितपूरणं

प्रमदसम्प्लुतियाचकसञ्चयः ॥१५॥

परिमितमिव यद्बभूव सौख्यं

व्रजनगरे व्रजभूपतत्प्रजानाम् ।

तदपरिमिततामवाप सद्यो

यदवधि तत्परमो जगाम कृष्णः ॥१६॥

श्रीराम श्रीदाममुख्या बभुर्ये

पूर्वपश्चादुज्ज्वलाद्याश्च डिम्भाः ।

ज्योतिष्मद्भिर्भ्राजमानो व्रजस्तै

रत्नव्यूहै रत्नसानुर्यथाभूत॥१७॥

नन्दादीनां तिष्ठतां गोष्ठभूम्यां

गोविन्दाद्यैरात्मजैर्लक्ष्मवद्भिः ।

नानासम्पत्सेवितानां समेषां

गेहे गेहे सौख्यपुञ्जोजजृम्भे ॥१८॥

यां नन्दसूनुर्मनुते पुमर्थः

पुमर्थभूतोऽपि परः परेशः ।

राधादिरूपादिगुणैरगाधा

बभूव सा धामनि कीर्तिदायाः ॥१९॥

जन्मोत्सवेनैव जगत्सुतृप्तं

यस्याः सुरेशैरपि संस्तुतेन ।

पादाब्जलक्ष्माणि निरीक्ष्य नार्यो

रमेव कन्येयमिति प्रतीयुः ॥२०॥

यां वर्णयन्तः कवयोऽपि बिभ्युश्

चन्द्रारविन्दादि निनिन्दुरुच्चैः ।

धान्येन यस्या नतिभिश्च शश्वत्

प्रमोदमुच्चैर्हृदयेषु भेजुः ॥२१॥

कटाक्षपातादभजन्त यस्या

विभूतयः सर्वविद्याः प्रकाशम् ।

गुणव्रजान्वक्तुमधीश्वरोऽपि

शशाक नो नन्दसुतः समस्तान॥२२॥

सख्यस्तु तस्याः समरूपशील

गुणाः स्वसेवातिपटुत्वभाजः ।

प्रादुर्बभूवुर्व्रजराजधान्यां

तदैव गोपप्रवरालयेषु ॥२३॥

इत्यैश्वर्यकादम्बिन्यां

सपरिकरभगवज्जन्मोत्सववर्णनं नाम

पञ्चमी वृष्टिः

॥५॥


.

(

६)

षष्ठी वृष्टिः

अम्भोजचक्रदरजम्बुयवार्धचन्द्र

मीनाङ्कुशध्वजपविप्रमुखान्व्रजेशौ ।

अङ्कान्सुतस्य करयोः पदयोश्च वीक्ष्य

सोऽयं महानिति परां मुदमापतुस्तौ ॥१॥

धृत्वा कूतं कालकूतं च पापा

यासौ धात्री पूतना हन्तुमागात।

तस्यै तुष्टो वेश मात्रात्सडिम्भः

पादाद्धात्रीस्थानकं शुद्धिपूर्वम् ॥२॥

कपटावृतं शकटासुरं हरिरञ्जसा तमखण्डम् ।

मरुतं च तं बलिनं विभुर्वनवासिनां सुखदः शिशुः ॥३॥

यदा यदा मातुरङ्के निविष्टः

सचापलं दिव्यडिम्भो व्यतानीत।

तदा तदा मातृवर्गा न्यमाङ्क्षुर्

व्रजौकसश्चाखिलसौख्यसिन्धौ ॥४॥

गर्गाचार्यादात्मनामानि भेजे

गूढं भावं व्यञ्जयन्पूतनारिः ।

तेनेऽन्वर्थं चोरिकानर्मदेवो

गोपालिभिर्वर्ण्यमानं मुकुन्दः ॥५॥

यदा शिशुर्धूलिकेलौ रतोऽभूत्

महामना स तदा कामुकेभ्यः ।

ददौ महान्धूलिमुष्टिच्छलेन

प्रभुर्वरानमृतान्तान्मुनिभ्यः ॥६॥

जनकमुपागतः सदसि नन्दनृपं चपलो

धृतवरभूषणो मधुरभाषणो मोदकरः ।

अलिकलसन्मसीकलितचन्द्रकलः कुतुकी

हरिरखिलान्व्यधादतिचिरं विरमत्करणान॥७॥

किङ्किणीवलयनूपुरधारी

निष्ककुण्डलवराङ्गदहारी ।

पीतचीनवसनः सडिम्भः

शिञ्जितैरपि मनांसि जहार ॥८॥

रथशिबिकाञ्चितो हरिरभसादुटजेषु यदा

परिचरितुं मुनीन्स्वनिरतान्जननीसहितः ।

धृतदधिमोदकादिबलिकः सबलश्च विभुः

प्रमुदमगुस्तदा सुबहु ते विबुधाश्च पराम् ॥९॥

बलकृष्णयोः स जग्धौ मुदा दमीयां समाददुः फेलाम् ।

वेलां प्रतीत्य देवाश्चित्रं शकुन्ताः सुरेश्वराः नित्यम् ॥१०॥

मुष्णन्गव्यं गोपिकानां समित्रः

युष्णन्कीशान्मुक्तवत्यश्च कृष्णाः ।

नोपालब्धोऽप्युक्तयापि सधात्र्या

प्रीतिं नीता साभ्यनन्दोत्सुतेन ॥११॥

मृत्साप्राशी ज्ञापितः स्वाग्रजेन

क्रोधान्मात्रा भर्त्सितः पूतनारिः ।

भीतः स्वास्ये विश्वमेतत्प्रदर्श्य

क्रोधं तस्याः श्रंसयन्नभ्यनन्दीत॥१२॥

विलोक्यापराधं जनन्या निबद्धो

विभुत्वं स्वकीयं मुदा दर्शयत्ताम् ।

विभज्यार्जुनौ तौ च मुक्तौ चकार

स्वयं बद्धमूर्तिर्बतासौ मुकुन्दः ॥१३॥

वृन्दाटवीमधिवसन्हरिरम्बुजाक्षः

सञ्चारयन्सखिकुलैः सह तर्णकौघान।

वत्सासुरं बकमघं च जघान सद्यः

शुद्धं व्यधात्कमलजं च स जग्धिमुग्धः ॥१४॥

कालियं बत विमर्द्य सनागः

सूरजां रचितवान्परिशुद्धाम् ।

निर्विवार खलु गोकुलभाजां

भावमद्भुतमुदारमुदीक्ष्य ॥१५॥

दीव्यन्द्वन्द्वीभावतोऽहन्प्रलम्बं

देवारातिं धेनुकद्वेषिणा यः ।

मुञ्जाटव्यां दाववह्निं निपीय

व्यक्तीचक्रे साधुसौहार्दमीशः ॥१६॥

गोपकुमारीवसननिकायं

स्कन्धे निदधौ स खलु विमाथम् ।

वीक्षितसकलकलेवरशोभः

सूचितशुद्धजना मित्रलोभः ॥१७॥

स्तोत्रयत्सु न च यस्य कटाक्षः

सनतेष्वपि भवेद्विबुधेषु ।

संस्तुवन्व्रजभुवस्तरुसङ्घान्

सस्वजेऽतिमुदितः स भुजाभ्याम् ॥१८॥

भुक्त्वान्नानि ब्राह्मणीनां मुकुन्दः

प्रादात्ताभ्यः स्वाङ्घ्रिलाभं वरं सः ।

संस्काराद्यान्हेलयन्नात्मभक्तेः

श्रद्धामेव ख्यापयामास हेतुम् ॥१९॥

कैशोरे वयसिहरिर्धरं सा दध्रे

गर्विष्टं त्रिदशपतिं जिगाय शक्रम् ।

उद्द्रावं व्रजवनितामनांसि यस्मात्

सम्प्रापुर्मदनकुलानिवाग्निपुञ्जात॥२०॥

गान्धर्वी विधिरभवद्व्रजाङ्गनानां

दाम्पत्यै व्रजविधुना सखाखिलानाम् ।

गीर्वाण्यः कुसुमकिरो जगुर्विचित्रं

नृत्यन्त्यो ध्वनितमृदङ्गिकाः प्रहर्षात॥२१॥

विधिं स्तावकं भावकं चन्द्रचूडं

ततो निर्जरान्किङ्करानिन्द्रमुख्यान।

हरेर्नन्दसूनो रमयन्त गोपास्

तृणेभ्योऽसुरान्कंसपक्षाश्रितांस्ते ॥२२॥

श्रीकान्तं प्रणतैकबन्धुमतसीपुष्पप्रभं चिद्घनं

चन्द्रास्यं कमलेक्षणं मलयजालिप्तं लसद्भूषणम् ।

चित्रोष्णीषमुदारगौरवसनं कृष्णं सुरेन्द्रार्चितं

वीक्ष्य स्वानुगमुद्ययुः परमिकां प्रीतिं व्रजस्था भृशम् ॥२३॥

अथ व्रजपतिरुदीक्ष्य सद्गुणैर्वरं

हरिं विनयिनमात्मजं मुदा ।

शुभक्षणे शुभविधिना व्रजावने

रजीगमत्किल युवराजतामसौ ॥२४॥

बलभद्रं च चकार मौमिकं

व्रजभूमैर्हरिमन्त्रिणं च तम् ।

सदनं तस्य सुचारु निर्ममे

सुखसिन्धौ निखिलान्निममज्जयत॥२५॥

आदिदेश निजशिल्पिकुमारं

बुद्धिसागरमपारबलं सः ।

सौधमद्भुततमं रचय त्वं

येन रज्यति हरिस्तव मित्रम् ॥२६॥

पुरुकान्तिवलीकजालरम्यं

वरवेदीगृहसन्धिलाञ्छितं सः ।

वलिताश्रयमम्बुयन्त्रराजि

व्रजचन्द्रस्य चकार सद्मसद्यः ॥२७॥

मणिबद्धतटैः स्फुटत्सरोजैः

शुशुभे यद्विमलाम्बुभिः सरोभिः ।

अलिगुञ्जितमञ्जुभिश्चतुर्भिः

स्फुटप्रकरैः सुनिष्कुटैश्च ॥२८॥

स च रचयाञ्चकार गिरिसानुषु भूरिविधान्

मणिनिलयांस्तथैव सुरशिल्पिमनोहरणान।

सपदि सर्वैस्तुतोष रसिकः खलु तत्र मुदा

सह मनसा ददौ समणिभूषणचेलसञ्चयान॥२९॥

स्मितवीक्षणविद्धचेतसा

वरसौन्दर्यसुधासुधामनी ।

स्वजनैः सह राधिकाच्युतैः

स्फुरतस्तेषु सदैव मेदुरौ ॥३०॥

व्रजनृपतिर्जगाम स यदा सह दारकुमारपार्षदोर्

अथ शिबिकाहयैः सुरुचिरैर्वृषभानुपुरं निमन्त्रितः ।

सुमणिधरः सतुर्यनिनदो वरचामरसेवितोद्

युतिमतुलां विलोक्य दिविषन्निकरोऽपि तदा विसिस्मिये ॥३१॥

अधिगम्य भानुनृपतिर्व्रजेश्वरं

भवनं निनाय रचितार्चनक्रमः ।

परिभोज्यतं बहुविधान्रसान्प्रभुः

सहपार्षदः प्रमुदितो बभूव सः ॥३२॥

सखिवृन्दैर्निखिलः समुज्जिहान

मधुरा सेचनकं विलोक्य कृष्णम् ।

जनता तत्र सुखाम्बुधौ न्यमज्जत्

पुरुभावास्तु विशेषतस्तरुण्यः ॥३३॥

पिबतोरपि सुस्मिता मृतानि

रतितृष्णकुलयोरधिस्नुयुनोः ।

समुदैदसिताम्बुज च्छदाभा

तडिदभ्रप्रभयोः कटाक्षवृष्टिः ॥३४॥

अथो भानुभूपो वरैर्मण्डनाद्यैः

समर्च्य व्रजाधारवरं सानुगं सः ।

अनुव्रज्य तं सानुगस्तद्विसृष्टः

स्वकं कृच्छ्रतो मञ्जु भेजे निकुञ्जम् ॥३५॥

तदा सारविन्दा जनन्या सवृन्दा

समाराधि सा राधिका भूषणाद्यैः ।

हरेः प्रेमपात्री यदा राजपुत्री

व्रजक्षेमधात्री प्रयातु सहैच्छत॥३६॥

शिविकाश्च रथाश्च रुक्मचेलैः

पिहिता जालिभिरभ्रकाचकैश्च ।

तदुपाययुरुज्ज्वलैर्ललामैर्

बहुभासो नृपचत्वरं तदानीम् ॥३७॥

बलैरुद्धतानां किशोरीवृतानां

लसद्यौवनानां रणद्भूषणानाम् ।

तदा गुज्जरीणां ततिर्वाग्मिनीनां

मुदायान संवाहनार्थाध्यतिष्ठत॥३८॥

समारूढयाना बलद्भूरिगानाः

शनैर्वीज्यमाना वरैश्चामराद्यैः ।

प्रिया नन्दसूनोः परेशस्यवध्वस्

ततो निर्ययुः सुभ्रुवो राधिकाद्याः ॥३९॥

बभौ काम्बवो भैरिकं सौषिरापि

ध्वनिर्मङ्गलो राजपुत्र्याः प्रयाणे ।

लसत्स्वर्णवेत्रासि चापेषु हस्ता

दधावुः पुरः पार्श्वतोऽपि प्रवीराः ॥४०॥

ववौ मन्दमन्दं तदा गन्धवाहो

दधारातपत्रं महद्वारिदोऽपि ।

वितेनुर्वरं नृत्यगीतं च देव्यो

मृदङ्गादिनादं नुतिं चातिचित्रम् ॥४१॥

फणिफक्किकामिव वीक्ष्य

तां सकुण्डलनामपुरीम् ।

द्युलतामिवाखिलदां नुतां

प्रमदा हरेः प्रमुदं ददुः ॥४२॥

अवतीर्यतामणियानतः

परितोष्य सार्थिकसञ्चयान।

प्रणिपत्य गोकुलभूमिपां

जगृहुस्ततो वरवीटिकाः ॥४३॥

अथ शिञ्जितामृतवन्दित

प्रियमानसाः स्वगृहान्गताः ।

कृतमज्जनाः कमलेक्षणाः

प्रियकर्म तत्प्रतिपेदिरे ॥४४॥

सम्पालयन्नैचिकीनां कदम्बं

तम्पाकिमं भावमेणी दृशां सः ।

कम्पाकुलः सन्दधे दीप्तकीर्तिर्

लम्पाकहृत्सुन्दरो नन्दसूनुः ॥४५॥

तातमम्बुपतितापनीतं

वन्दितो विरचीतार्चन ईशः ।

आनिनाय भवनं पुरुतेजा

मोदयन्व्रजभुवं बभाषे ॥४६॥

वृन्दारण्यचन्दिकावृन्दरम्यं

पश्यन्वंशी वदायामास कृष्णः ।

आयाताभिस्तत्र गोपाङ्गनाभिर्

दीव्यन्तीभिर्मण्डितोऽसौ बभूव ॥४७॥

माधव्यस्ता मञ्जुतौर्यत्रिकाद्यैर्

मञ्जुरूप्यैश्च कृष्णाम् ।

प्रेम्नानर्चुः सार्थिका सौचकाशे

अनन्तानन्दाख्यायिनी वाक्तदैव ॥४८॥

वीणावेणुमृदङ्गनूपुरलसत्काञ्च्यादिनादैरभूत्

ताताथै ततथैश्च तालमिलितैर्नृत्यैश्च गीतैश्च यत।

चित्रैः पाणिविधूननैस्तनुमणिद्योतनैश्च रासाङ्गने

तद्वक्तुं प्रमवते कथं सुखमहो वाग्देवतापि स्वयम् ॥४९॥

कुण्डलित्वमनयत्सुदर्शनं

कुण्डलित्वमपहायन्विभुः ।

शङ्खचूडमपि तं स्वमन्तकं

प्रापयन्नुदहरत्स्वमन्तकम् ॥५०॥

व्रजवनिता वनान्तनिरतं हरिमम्बुदसोदरं यदा

विरहधुताः पुराणपुरुषं जगुरम्बुजलोचनाश्चिरम् ।

भुवनतलं तदेदमखिलं सरिदुष्णसुखाम्बुसङ्कुला

दुरधिगमा समाधिनिलयैरपि हंसकुलैः सभाददे ॥५१॥

व्रजविपिने विचित्रविहगो हरिवेणुरवो यदा बभौ

विधिशिवशक्रतुम्बुरुमुखा विबुधोऽपि दधुर्विचित्रताम् ।

प्रकृतिविपर्ययं तु सरितो गिरयश्च ययुर्मिथस्तदा

व्रजमहिलास्तु भेजुरखिलाश्चलता सरसीषु मज्जनम् ॥५२॥

जातोऽरिष्टः कष्टकासारवासी

यस्मात्केशी मृत्युवेशी बभूव ।

व्योमः प्राप व्योमतामेव सद्यः

सोऽयं कृष्णो देववृन्दैर्ववन्दे ॥५३॥

हरिरथ मथुरां गतः स कंसं

प्रणिहतवान्वृजिनं जहार पित्रोः ।

यदुनृपमकृताहुकिं परेशः

सपदि कुशस्थलिकामधिष्ठितोऽभूत॥५४॥

कुरुपतितनयान्निहत्य दुष्टान्

व्यधित पतिं निखिलस्य धर्मपुत्रम् ।

क्षतखलनिचयो विवेश गोष्ठं

सफलमिदं कृतवानसौ तु माभ्याम् ॥५५॥

इत्यैश्वर्यकादम्बिन्यां

भगवद्बाल्यादिक्रमलीलावर्णनं नाम

षष्ठी वृष्टिः

॥६॥


.

(

७)

सप्तमी वृष्टिः

शीघ्रगैः प्रति निवेदिते हरौ

दुन्दुभिः किल जगर्ज सुस्वनम् ।

मङ्गलध्वनिरभूद्गृहे गृहे

काननानि दधिरे मधुस्रुतिम् ॥१॥

उदिते विधौ प्रमुदे दधे ।

व्रजभूरसौ जलधिर्यथा ॥२॥

समुपागते बत माधवे ।

अटवीव सागमदेत ताम् ॥३॥

परिषस्वजिरे हरिं मुदा

निजभावनिखिला व्रजौकसाः ।

स्रवदस्रपरीतवक्षसो

वरनीपस्तवकप्रभोज्ज्वलाः ॥४॥

तत्रागतास्ते मुनयो वनस्था

द्रष्टुं हरिं संयमिनो वनस्थाः ।

सम्पूजितास्तेन धृतात्मभावास्

तं तुष्ठुवुः संस्फुरदात्मभावाः ॥५॥

सर्वेश्वरस्त्वं परमुक्तिदस्त्वं

स्वात्मप्रदस्त्वं स्वजनानुरागी ।

त्वमेव विज्ञानसुखात्ममूर्तिः

श्रीवत्सलक्ष्मीनिलयस्त्वमेव ॥६॥

विभ्राजितः कौस्तुभकान्तिवृन्दैर्

जगज्जनिस्थेमलयैकहेतुः ।

अचिन्त्यशक्तिः पुरुषादिरूपो

विध्यादयो देव तवैव भृत्याः ॥७॥

गोविन्द नन्दात्मजकंसवंश

निसूदनः श्रीधरः नः पुणीहि ।

श्रीगोकुलाधीश जयत्वमुच्चैर्

इह स्वकैः सार्धमुदारकीर्तिः ॥८॥

तव भक्तिरच्युत करोति परां

मुदिरद्युते मुदमुदारमणे ।

प्रति देहि तां नवविधां तदिमां

वृणुमो वयं वरमतोन न परम् ॥९॥

शिविका रथवाजिराजितर्

विपिनेषु स्वजनैरथावृतः ।

विहरन्रसभोजनैरथो

मुमुदेऽसौ परयाश्रियार्चितः ॥१०॥

सखिभिः सह धेनुसञ्चयान्

स्वसमानैर्गुणरूपसम्पदा ।

गिरिराजवनेषु पालयन्

विविधाः केलिकलास्ततान सः ॥११॥

वनिताः स नितान्तसुन्दरीर्

निशि वृन्दाविपिने विशन्दरीः ।

सुखसीमविलासलालसः

प्रभुरानन्दमयोऽप्यरीरमत॥१२॥

एता विष्णोर्नन्दपुत्रस्य नित्या

लीलानित्यानन्दमूर्तेः प्रदिष्टाः ।

श्रद्धावद्भिः कीर्त्यमानाः समन्तात्

संसाराग्निप्रौढमुन्मूलयति ॥१३॥

विद्याभूषणप्रणीतं हरिचरितं

चित्सुखात्मकं ह्येतत।

परिगीतं शुकमुनिना सदसि

सेव्यं स्वरूपमिव ॥१४॥

ऐश्वर्यापरिकीर्तनाद्व्रजविधोः कृष्णस्य ये साधवस्

तापाग्निप्रतिलीढहृत्सरसिजा म्लायन्ति शुष्यत्त्विषः ।

तेषां तापविमर्दनाय विशदा श्रीसार्वभौमप्रभोः

कारुण्यादुदितेयमाशु भवतादैश्वर्यकादम्बिनी ॥१५॥

ऐश्वर्ये पूर्वेयं पूर्वपर्वा

कादम्बिनी नन्दसुतावलम्बा ।

स्याद्भूवियत्सिन्धुशशाङ्कशाके

सतां प्रिया तच्चरणाश्रितानाम् ॥१६॥

इत्यैश्वर्यकादम्बिन्यां

श्रीगोकुलागमनाद्युत्तरलीलावर्णनं नाम

सप्तमी वृष्टिः

॥७॥

*

]