शरणागति, श्रीरङ्ग, वैकुण्ठाख्यं द्वयविवरणरूपात्मकं गद्यत्रयम् । गद्यानां त्रयम् गद्यत्रयम् । श्रीवैष्णवसम्प्रदाये रहस्यत्रयमस्ति तत् मूलमन्त्रं, द्वयं, चरमश्लोक इति । अष्टाक्षरमन्त्रः मूलमन्त्रः ‘ओं नमो नारायणाय’, ‘द्वयं श्रीमन्नारायणचरणौ शरणं प्रपद्ये’, ‘श्रीमते नारायणाय नमः, चरमश्लोकस्तु ‘सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज’ इत्यादि । तत्र द्वयविवरणरूपं गद्यत्रयम् । तदुक्तं पाञ्चरात्ररक्षायां - ‘द्वयव्याख्यानरूपे गद्यत्रये’ इति । द्वयस्य पूर्वाङ्गः तिरुमन्त्रापरनामधेयमूलमन्त्रः साध्यनारायणाष्टाक्षरः ‘ओं नमो नारायणाय’ इति, उत्तराङ्गः भगवद्गीतोक्तेन चरमश्लोकः सर्वधर्मान् इति । एतेषामाहत्य रहस्यत्रयम् । ‘द्वयमर्थानुसन्धानेन सह सदा एवं वक्ता यावत् शरीरपातम्’ इति भगवदाज्ञा एव मूलकारणम् । गद्यत्रयं प्रतिदिनं श्रीवैष्णवैः प्रपन्नजनैः प्रतिदिनमनुसन्धीयते । द्वयाख्यं शरणागतिमन्त्रः निष्ठाद्वयं बोधयति । उपायनिष्ठा, उपेयनिष्ठेति निष्ठाद्वयम् । परमात्मा एव उपायः स एव उपेयः । साध्यं साधनं द्वयमपि स एव । जीवात्मा अथवा चेतनः नित्यम् उपायस्तरे अनुष्ठाय मोक्षानन्तरम् उपेयस्तरे अनुष्ठेयः ।
उपायानुभवतः प्रक्रम्य उपेयानुभवे समाप्तिं गमिष्यति गद्यत्रये द्वयमन्त्रविवरणे । ‘त्वत्पादारविन्दयुगलं शरणमहं प्रपद्ये’ इत्यत्र उपायानुष्ठानानुभवः । ‘श्रीमत्पादारविन्दयुगलं शिरसि कृतं ध्यात्वा अमृतसागरान्तर्निमग्नसर्वावयवः सुखमासीत’ इति उपेयानुष्ठानानुभवः स अनुभवैकवेद्यः । एवं शरणागतिगद्ये, श्रीरङ्गगद्ये च उपायभूतश्रीमन्नारायणं प्रति अखिलहेयप्रत्यनीकेत्यादि गुणविशेषणैः संस्तुत्य अन्ते वैकुण्ठगद्ये प्राप्यभूत अनुभाव्यः वैकुण्ठं परमपदं वर्णयति । उपेयवस्तु एव प्राप्यः, प्राप्यवस्तु एव परमात्मा । भगवद्वर्णनम् एवं निरूपितम् । ‘तत्र…… अनन्तभोगिनी श्रीमद्वैकुण्ठैश्वर्यादि दिव्यलोकमात्मकान्त्या विश्वम् आप्याययन्त्या शेषशेषाशनादि सर्वं परिजनं भगवतः तत्तदवस्थोचितपरिचर्यायाम् आज्ञापयन्त्या शीलरूपगुणविलासादिभिः आत्मानुरूपया श्रिया सहासीनम्’ इति । एवं तस्य अवयवसौन्दर्यं, वैनतेयादिसेवा, भगवद्ध्यानादिपूर्वक आत्मसमर्पणं, अनुसन्धानम् इत्यादि विषयाः भगवद्रामानुजाचार्यैः स्वानुसन्धानपूर्वकं परमाह्लादकतया भक्त्या प्रतिपादितम् । एतादृशस्य परमात्मनः वैभवपूर्णानुभवः प्रपन्नस्य प्रतिनित्यमावश्यकम् । एष एव भक्तियोगः । तदुक्तं पाञ्चरात्ररक्षायां - ‘अपि चात्र द्वयव्याख्यानरूपे गद्यत्रये निर्वेदभूयस्तया स्वरूपरूपगुणविभूतिदेवीभूषणायुध-परिजन-परिच्छदद्वारपालपार्षदादीनां यथावदनुसन्धानहेतुतया यथावस्थितस्वरूपरूपगुणविभूतिलीलोपकरणविस्तारमनुसन्धाय तमेव शरणमुपगच्छेत्’ अखिलेत्यादिना समाराधनादौ अन्ते च भाष्यकारैः एव विनियुक्तम् । श्रीवैकुण्ठगद्यन्तु
‘यामुनार्यसुधाम्बोधिमवगाह्य यथामति । आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम्’ ॥
इति प्रारम्भात् पश्चादपि ‘ध्यानयोगेन दृष्ट्वा’ इत्यभिधानात् फलरूप-विलक्षणानुसन्धानभेदानां विधानात् ‘अविच्छिन्नस्रोतोरूपेणावलोकयन्नासीत्’ इति कण्ठोक्तेश्च । योगार्थसङ्कल्पिते काले विशेषतो अनुसन्धेयमिति भाष्यकारातिशयः प्रतीयते । यामिन्यां भगवद्ध्यानस्य त्वरातिशयः स्मर्यते
‘उपपातकयुक्तेऽपि महापातकवानपि ।
यामिन्यां पादमेकन्तु ब्रह्मध्यानं समाचरेत्’ ॥
इति । ( पां. र. तृतीयेऽधिकारे)
अस्य गद्यत्रयस्य पूर्वाचार्यकृताः व्याख्याः बह्व्यः आसन्, इति तत्र तत्र ग्रन्थानां परिशीलनेन ज्ञायते । परन्तु इदानीं पेरियवाच्चान् पिळ्ळै कृतं द्राविडव्याख्यानम् तथा वेदान्तदेशिकभाष्यं; सुदर्शनसूरिकृतं शरणागतिगद्यस्य व्याख्यानम् लभ्यते ।
ग्रन्थकर्तॄणां तथा व्याख्याकाराणां सङ्क्षिप्त-परिचयः (See “notes” pages.)
प्रकृतं संसदा गद्यत्रयं
सुदर्शन-सूरि-कृत-व्याख्यया,
वेदान्तदेशिक भाष्येण च
प्राकाश्यं नीतं वर्तते ।
प्रथमं मूलं
तदनु श्री सुदर्शनसूरिभिः विरचितं श्रुत-प्रकाशिकाभाष्यं,
पश्चात् वेदान्तदेशिकविरचिता रहस्य-रक्षा-व्याख्या च प्रकाशिता
पाठान्तरेण संवलिता ।
पाठ-भेदार्थं स्वीकृतानां ग्रन्थानां सूची अन्ते दत्ता वर्तते ।
अन्ते च अनुबन्धे प्रमाणाकरणां सूचनी,
कारिकाणां सूचनी
इत्यादिकम् उपनिबद्धं वर्तते ।
ग्रन्थादौ अध्येतॄणां सौकर्याय गद्यत्रयस्य मूलपाठोऽपि प्रकाशितः ।
कीर्तिशेषभूतैः श्रीमद्भिः विद्वद्भिः सुर-गूरु-माडभूषि-वरदाचार्यैः … आवश्यक-मार्गदर्शादिना अस्मान् उपकृतवन्तः ।
तेषां हार्दं कार्तज्ञ्यम् अर्प्यते इयं संसत् ।
अस्य ग्रन्थस्य सम्पादनकार्ये
संसदः निर्देशकाः सहकार्यदर्शिनश्च श्री उ.वे. भाष्यं स्वामीजीमहोदयाः
आवश्यकान् सर्वान् मार्गदर्शनान् प्रदाय
अस्मान् प्रोत्साहितवन्तः ।
तेभ्यः हार्दं कार्तज्ञ्यमर्पयामि ।
तथा संशोधन-सहायकाः
विद्वान् एस्. एन्. आनन्दाळ्वार्,
तथा विद्वान् के.एन्. रङ्गप्रियः,
गणकयन्त्र-कार्यकर्तारौ श्री जवरेगौडः, श्रीमती डि.एन्. सौभाग्या,
मुद्रणकार्यकर्तारौ श्री के. एस्. बेट्टस्वामिगौडः, श्री जि.एन्. बेट्टेगौडः,
मुखपुटविन्यासकारः विद्वान् हेच्. एस्. हनुमन्तरावः,
कलाकारः श्री लोकेशः,
कार्यालयस्य कुलसचिवः श्री कृष्णप्रसादः,
उपकुलसचिवः एस्. कुमारः,
अन्येऽन्ये च आवश्यकान् सर्वान् सहकारान् प्रदाय
कार्यम् एतन् निर्वोढुं महान्तम् आनुकूल्यम् आपादितवन्तः
इति तेभ्यः कार्तज्ञ्यम् अर्पयामि ।
श्रीमान् यदुशैलदीपः यदु-गिरि-नायिकासमेतः नारायणः प्रसीदतु ॥
॥ इति शम् ॥
एस्. नारायणः
सम्पादकः
संशोधनाधिकारी
संस्कृत-संशोधन-संसत्, मेलुकोटे