यदुगिरि-ग्रन्थात्
श्रीभगवद्रामानुजविरचिते गद्यत्रये श्री वैकुण्ठगद्यम्
यामुनार्यसुधाम्भोधिम् अवगाह्य यथामति । आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम् ॥ १ ॥
स्वाधीन-त्रिविध-चेतनाचेतन-स्वरूप-स्थिति-प्रवृत्ति-भेदम्, क्लेशकर्माद्य शेषदोषासंस्पृष्टम्, स्वाभाविकानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति- तेजः-प्रभृत्यसङ्ख्येयकल्याणगुणगणौघ-महार्णवम्; परमपुरुषं, भगवन्तं नारायणम्; स्वामित्वेन, सुहृत्वेन, गुरुत्वेन च, परिगृह्य; ऐकान्तिकात्यन्तिक-तत्पादाम्बुजद्वय-परिचर्यैकमनोरथः, तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेः, अन्यन्न मे कल्पकोटिसहस्रेणाऽपि साधनमस्तीति मन्वानः, तस्यैव भगवतो नारायणस्य; अखिल-सत्त्वदयैक-सागरस्य,अनालोचित-गुणगणाखण्ड जनानुकूलामर्यादशीलवतः, स्वाभाविक-अनवधिकातिशय-गुणवत्तया, देव-तिर्यङ्-मनुष्याद्यखिलजन-हृदयानन्दनस्य; आश्रित-वात्सल्यैकजलधेः, भक्तजन-संश्लेषैकभोगस्य; नित्य-ज्ञान-क्रियैश्वर्यादि-भोग-सामग्री-समृद्धस्य, महाविभूतेः श्रीमतः चरणारविन्दयुगलम्; अनन्यात्म-सञ्जीवनेन तद्गत सर्वभावेन, शरणमनुव्रजेत् ॥ २ ॥ ततश्च प्रत्यहम् आत्मोज्जीवनायैवमनुस्मरेत् ॥ ३ ॥ चतुर्दशभुवनात्मकमण्डम्, दशगुणितोत्तरं च आवरणसप्तकम्; समस्तं कार्यकारणजातमतीत्य; परमव्योमशब्दाभिधेये; ब्रह्मादीनां वाङ्मनसागोचरे; श्रीमति वैकुण्ठे, दिव्यलोके; सनक-विधि-शिवादिभिरप्यचिन्त्यस्वभावैश्वर्यैः, नित्यसिद्धैः,अनन्तैः, भगवदानुकूल्यैकभोगैः, दिव्यपुरुषैः महात्मभिरापूरिते, तेषामपि, इयत्परिमाणम्, इयदैश्वर्यम्, ईदृशस्वभावम्, इति परिच्छेत्तुम योग्ये; दिव्यावरण- शतसहस्रावृते; दिव्यकल्पकतरूपशोभिते; दिव्योद्यान- शतसहस्रकोटिभिरावृते; अतिप्रमाणे, दिव्यायतने, कस्मिंश्चित्, विचित्रदिव्यरत्नमय-दिव्यास्थानमण्टपे; दिव्यरत्नस्तम्भ- शतसहस्रकोटिभिरुपशोभिते; दिव्यनानारत्न-कृतस्थल-विचित्रिते; दिव्या लङ्कारालङ्कृते; परितः पतितैः, पतमानैः, पादपस्थैश्च नानागन्धवर्णैः, दिव्यपुष्पैश्शोभमानैः, दिव्यपुष्पोपवनैरुपशोभिते; सङ्कीर्ण-पारिजातादि - कल्पद्रुमोपशोभितैः, असङ्कीर्णेश्च कैश्चित् अन्तस्थ-पुष्परत्नादि-निर्मित- दिव्य-लीलामण्टप-शतसहस्रोपशोभितैः, सर्वदाऽनुभूयमानैरपि अपूर्ववत् आश्चर्यमावहद्भिः, क्रीडाशैलशतसहस्रैरलङ्कृतैः; कैश्चिन्नारायण-दिव्य-लीलाऽसाधारणैः, कैश्चित् पद्मवनालया-दिव्यलीलाऽसाधारणैः; साधारणैश्च कैश्चित्, शुक-शारिका-मयूर-कोकिलादिभिः कोमलकूजितै राकुलैः; दिव्योद्यान- शतसहस्रैरावृते; मणि-मुक्ता-प्रवाल-कृत सोपानैः; दिव्या मलामृतरसोदकैः, दिव्याण्डजवरैः; अतिरमणीयदर्शनैः अतिमनोहर-मधुर स्वरैराकुलैः; अन्तस्स्थ-मुक्तामय-दिव्यक्रीडास्थानोपशोभितैः; दिव्य-सौगन्धिक-वापी-शत-सहस्रै; दिव्यराजहंसावलीविराजितैरावृते; निरस्ता तिशयानन्दैकरसतया च आनन्त्याच्च, प्रविष्टानुन्मादयद्भिः, क्रीडोद्देशैर्वि राजिते; तत्रतत्रकृत-दिव्य पुष्प-पर्यङ्कोपशोभिते; नाना - पुष्पासवास्वाद- मत्त-भृङ्गावलीभिः उद्गीयमान-दिव्य-गान्धर्वेणापूरिते; चन्दनागुरु-कर्पूर- दिव्य-पुष्पावगाहि-मन्दानिला सेव्यमाने; मध्ये पुष्पसञ्चयविचित्रिते; महति ; दिव्ययोगपर्यङ्के, अनन्तभोगिनि; श्रीमद्वैकुण्ठैश्वर्यादि-दिव्यलोकम् आत्म- कान्त्या विश्वमाप्याययन्त्या, शेषशेषाशनादि सर्वं परिजनं भगवतः तत्तदवस्थोचित-परिचर्यायाम् आज्ञापयन्त्या, शील-रूप-गुण-विलासादिभिः आत्मानुरूपया, श्रिया, सहासीनम्; प्रत्यग्रोन्मीलित-सरसिज-सदृश-नयन युगलम्, स्वच्छनील जीमूत-सङ्काशम; अत्युज्वल-पीतवाससम्; स्वया प्रभया अतिनिर्मलया अतिशीतलया स्वच्छमाणिक्याभया कृत्स्नं जगद्भास यन्तम्; अचिन्त्य-दिव्याद्भुत-नित्ययौवनस्वभाव-लावण्यमयामृतसागरम्; अतिसौकुमार्यात् ईषत्प्रस्विन्नवदालक्ष्यमाण-ललाट-फलक-दिव्यालका वली-विराजितम्; प्रबुद्ध -मुग्धाम्बुज-चारु-लोचनम्; स-विभ्रम-भ्रूलतम् उज्वलाधरम्; शुचिस्मितम्; कोमल-गण्डमुन्नसम्; उदग्र-पीनांस-विलम्बि-कुण्डल-अलकावली-बन्धुर-कम्बु-कन्धरम्; प्रियावतंसोत्पल-कर्णभूषण-श्लथालकाबन्ध-विमर्दशंसिभिः चतुर्भिराजानुविलम्बिभिर्भुजैः विराजितम् ; अतिकोमल-दिव्य-रेखालङ्कृताताम्रकरतलम्; दिव्याङ्गुलीयक- विराजितम्; अतिकोमल-दिव्य-नखावली-विराजित-अतिरक्ताङ्गुलीभिः अलङ्कृतम् ; तत्क्षणोन्मीलित-पुण्डरीक-सरसिज-सदृश-चरण-युगलम्; अतिमनोहर-किरीट-मकुट-चूडाऽवतंस-मकरकुण्डल- ग्रैवेयक-हार-केयूर-कटक-श्रीवत्स-कौस्तुभ-मुक्तादामोदरबन्धन- पीताम्बर-काञ्ची-गुण-नूपुरादिभिः अत्यन्त-सुखस्पर्शेर्दिव्यगन्धैः दिव्य भूषणैर्भूषितम्, श्रीमत्या वैजयन्त्या वनमालया विराजितम् ; शङ्ख-चक्र-गदाऽसि-शार्ङ्गादि-दिव्यायुधैः सेव्यमानम्; स्वसङ्कल्पमात्रावक्लृप्त- जगज्जन्म-स्थिति-ध्वंसादिके,श्रीमति,विष्वक्सेने, न्यस्त-समस्तात्मैश्वर्यम्; वैनतेयादिभिः स्वभावतो-निरस्त-समस्त-सांसारिक-स्वभावैः; भगवत्प रिचर्या-करण-योग्यैः, भगवत्परिचर्यैक-भोगैः; नित्य-सिद्धैः, अनन्तैः यथा योगं सेव्यमानम्; आत्मभोगेनानुसंहित-परादि-काल-दिव्यामल-कोमला वलोकनेन, विश्वमाह्लादयन्तम्; ईषदुन्मीलित-मुखाम्बुजोदर-विनिर्गतेन, दिव्याननारविन्द-शोभाजनकेन; दिव्य-गाम्भीर्य-औदार्य-सौन्दर्य - माधुर्या न्द्यनवधिक-गुण-गण-विभूषितेन,अतिमनोहर-दिव्य-भाव-गर्भेण; दिव्यलीलालापामृतेन अखिल-जन-हृदयान्तराणि आपूरयन्तं ; भगवन्तं नारायणम्, ध्यानयोगेन दृष्ट्वा; ततो भगवतो नित्यस्वाम्यम् आत्मनो नित्यदास्यं च यथावस्थितम् अनुसन्धाय; ‘कदाऽहं भगवन्तं, नारायणं, मम नाथम्, मम कुलदैवतम्, मम कुलधनम्, मम भोग्यम्, मम मातरम्, मम पितरम्, मम सर्वम्, साक्षात्करवाणि चक्षुषा !’ ‘कदाऽहं भगवत्पादाम्बुज-द्वयं शिरसा सङ्ग्रहिष्यामि !’ ‘कदाऽहं भगवत्पादाम्बुज-द्वय परिचर्याशया निरस्त-समस्तेतर-भोगाशः, अपगत-समस्त-सांसारिक-स्वभावः, तत्पादाम्बुज-द्वयं प्रवेक्ष्यामि !’ ‘कदाऽहं भगवत्पादाम्बुज-द्वय-परिचर्या-करणयोग्य तदेकभोगः, तत्पादौ परिचरिष्यामि!’ ‘कदा मां भगवान् स्वकीयया अतिशीतलया दृशाऽवलोक्य, स्निग्ध-गम्भीर-मधुरया गिरा परिचर्यायाम् आज्ञापयिष्यति !’ इति, भगवत्परिचर्यायाम् आशां वर्धयित्वाः तयैवाशया तत्प्रसादोपबृंहितया भगवन्तमुपेत्य, दूरादेव भगवन्तं शेषभोगे श्रिया सहाऽऽसीनम्, वैनतेयादिभिः सेव्यमानम्, ‘समस्तपरिवाराय श्रीमते नारायणाय नमः’ इति प्रणम्योत्थायोत्थाय, पुनः पुनः प्रणम्य, अत्यन्त-साध्वस-विनयावनतो भूत्वा, भगवत्पारिषद-गणनायकैः, द्वारपालैः, कृपया स्नेहगर्भया दृशाऽवलोकितः, सम्यगभिवन्दितैः तैस्तैरेवानुमतो भगवन्तमुपेत्य, श्रीमता मूलमन्त्रेण ‘माम् ऐकान्तिकात्यन्तिक- परिचर्याकरणाय परिगृह्णीष्व’ इति याचमानः प्रणम्य, आत्मानं भगवते निवेदयेत् ॥ ४ ॥ ततो भगवता, स्वयमेवात्मसञ्जीवनेन; अमर्यादशीलवता, अतिप्रेमान्वितेन अवलोकनेनावलोक्य, सर्वदेश-सर्वकाल-सर्वावस्थोचितात्यन्त-शेषभावाय स्वीकृत; अनुज्ञातश्च अत्यन्त-साध्वस-विनयावनतः, किङकुर्वाण, कृताञ्जलि-पुटो भगवन्तमुपासीत ॥ ५ ॥ ततश्चानुभूयमान-भावविशेषः, निरतिशय-प्रीत्या; अन्यत् किञ्चित् कर्तुं द्रष्टुं स्मर्तुमशक्तः; पुनरपि शेषभावमेव याचमानो, भगवन्तमेव अविच्छिन्न- स्रोतोरूपेण अवलोकनेनावलोकयन् आसीत ॥ ६ ॥ ततो भगवता स्वयमेवात्मसञ्जीवनेन अवलोकनेनाऽवलोक्य, सस्मितमाहूय; समस्त-क्लेशापहं, निरतिशय-सुखावहम् आत्मीयं, श्रीमत्पादारविन्दयुगलं, शिरसि कृतं ध्यात्वा; अमृत-सागरान्तर्निमग्न-सर्वावयवः सुखमासीत ॥ ७ ॥
॥ इति श्रीभगवद्रामानुजविरचितं श्रीवैकुण्ठगद्यं सम्पूर्णम् ॥ ॥ इति श्रीभगवद्रामानुजविरचितं गद्यत्रयं सम्पूर्णम् ॥
जालेऽन्यत्र
लक्ष्मीपतेर्यतिपतेश्च दयैकधाम्नोः योऽसौ पुरा समजनिष्ट जगद्धितार्थम्। प्राच्यं प्रकाशयतु नः परमं रहस्यं संवाद एष शरणागतिमन्त्रसारः ॥
यामुनार्यसुधाम्भोधिम् अवगाह्य यथामति । आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम् ॥
स्वाधीन त्रिविध चेतनाचेतन स्वरूप स्थिति प्रवृतिभेदम्, क्लेशकर्माद्यशेषदोषासंस्पृष्टम्, स्वाभाविकानवधिकातिशय ज्ञानबलैश्वर्य वीर्य शक्तितेजः प्रभृत्यसंख्येय कल्याणगुणगणौघ महार्णवम्, परमपुरुषम्, भगवन्तं, श्रीमन्नारायणं, स्वामित्वेन, सुहृत्वेन, गुरुत्वेन च परिगृह्य, ऐकान्तिकात्यन्तिक तत्पादाम्बुजद्वयपरिचर्यैकमनोरथः, तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेः अन्यन्न मे कल्पकोटि सहस्रेणापि साधनमस्तीति मन्वानः, तस्यैव भगवतो नारायणस्य, अखिलसत्त्व दयैकसागरस्य, अनालोचित (गुणागुण) गुणगणाखण्डजनानुकूल अमर्याद शीलवतः, स्वाभाविक अनवधिकातिशय गुणवत्तया देवतिर्यङ्मनुष्याद्यखिलजन हृदयानन्दनस्य, आश्रित वात्सल्यैकजलधेः, भक्तजनसंश्लेषैकभोगस्य, नित्यज्ञानक्रियैश्वर्यादि भोगसामग्रीसमृद्धस्य, महाविभूतेः श्रीमच्चरणारविन्दयुगलम् अनन्यात्मसंजीवनेन तद्गतसर्वभावेन शरणमनुव्रजेत् ।
ततश्च, प्रत्यहम् आत्मोज्जीवनाय एवमनुस्मरेत्।
चतुर्दशभुवनात्मकमण्डं दशगुणितोत्तरं च आवरणसप्तकं, समस्तं कार्यकारणजातमतीत्य वर्तमाने, परमव्योमशब्दाभिधेये, ब्रह्मादीनां वाङ्मनसागोचरे, श्रीमति वैकुण्ठे दिव्यलोके, सनकविधिशिवादिभिरपि अचिन्त्य स्वभावैश्वर्यैः, नित्यसिद्धैरनन्तैः भगवदानुकूल्यैकभोगैः दिव्यपुरुषैर्महात्मभिरापूरिते, तेषामपि “इयत्परिमाणम् इयदैश्वर्यम् ईदृशस्वभावम्” इति परिच्छेत्तुमयोग्ये, दिव्यावरणशतसहस्रावृते, दिव्यकल्पकतरूपशोभिते, दिव्योद्यानशतसहस्रकोटिभिरावृते, अतिप्रमाणे, दिव्यायतने, कस्मिंश्चित् विचित्र दिव्यरत्नमयदिव्यास्थानमण्डपे, दिव्यरत्नस्तम्भशतसहस्रकोटिभिरुपशोभिते, दिव्यनानारत्नकृतस्थल विचित्रिते, दिव्यालङ्कारालंकृते, परितः पतितैः पतमानैः पादपस्थैश्च नानागन्धवर्णैदिव्यपुष्पैः शोभमानैर्दिव्यपुष्पोपवनैः उपशोभिते, सङ्कीर्णपारिजातादिकल्पद्रुमोपशोभितैः, असङ्कीर्णैश्च कैश्चित् अन्तस्थ पुष्परत्नादि निर्मित दिव्यलीलामण्डप शतसहस्रोपशोभितैः सर्वदानुभूयमानैरपि अपूर्ववदाश्चर्यमावहद्भिः क्रीडाशैलशतसहस्रैरलंकृतैः, कैश्चिन्नारायणदिव्यलीलाऽसाधारणैः कैश्चित् पद्मवनालयादिव्यलीलाऽसाधारणैः साधारणैश्च कैश्चित् शुकशारिकामयूरकोकिलादिभिः कोमल कूजितैराकुलैः
दिव्योद्यान शतसहस्रकोटिभिरावृते, मणिमुक्ताप्रवालकृतसोपानैः, दिव्यामलामृतरसोदकैः दिव्याण्डजवरैः अतिरमणीयदर्शनैः अतिमनोहरमधुरस्वरैराकुलैः अन्तस्थमुक्तामय दिव्यक्रीडास्थानोपशोभितैः, दिव्यसौगन्धिक वापीशतसहस्रैः दिव्यराजहंसावलीविराजितैरावृते, निरस्तातिशयानन्दैकरसतया च आनन्त्याच्च प्रविष्टानुन्मादयद्भिः क्रीडोद्देशैर्विराजिते, तत्र तत्र कृतदिव्यपुष्पपर्यङ्कोपशोभिते, नानापुष्पावसास्वाद मत्तभृङ्गावलीभिरुद्गीयमान दिव्यगान्धर्वेणापूरिते, चन्दनागुरुकर्पूर दिव्यपुष्पावगाहि मन्दानिलासेव्यमाने मध्ये दिव्यपुष्पसञ्चयविचित्रिते महति दिव्य योगपर्यङ्के अनन्तभोगिनि, श्रीमद्वैकुण्ठैश्वर्यादि दिव्यलोकं आत्मकान्त्या विश्वमाप्याययन्त्या शेषशेषाशनादिकं सर्वं परिजनं भगवतस्तत्तदवस्थोचित परिचर्यायामाज्ञापयन्त्या शीलरूपगुणविलासादिभिरात्मानुरूपया श्रिया सहासीनम्, प्रत्यग्रोन्मीलित सरसिजसदृश नयनयुगलम्, स्वच्छनीलजीमूतसङ्काशम्, अत्युज्ज्वलपीतवाससम्,
स्वया प्रभया अतिनिर्मलया अतिशीतलया (अतिकोमलया) स्वच्छया माणिक्याभया कृस्त्नं जगदुद्भासयन्तम्, अचिन्त्य दिव्याद्भुत नित्ययौवन स्वभावलावण्यमयामृत सागरम्, अतिसौकुमार्यात् ईषत् प्रस्विन्नवदालक्ष्यमाण ललाटफलक दिव्यालकावली विराजितम्, प्रबुद्धमुग्धाम्बुजचारुलोचनम्, सविभ्रमभ्रूलतम्, उज्ज्वलाधरम्, शुचिस्मितम्, कोमलगण्डम्, उन्नसम्, उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकम्बुकन्धरम्, प्रियावतंसोत्पलकर्णभूषण श्लथालकाबन्धविमर्दशंसिभिः चतुर्भिराजानुविलम्बिभिर्भुजैर्विराजितम्, अतिकोमल दिव्यरेखालंकृताताम्रकरतलं, दिव्याङ्गुलीयकविराजितम्, अतिकोमल दिव्यनखावलीविराजितम्, अतिरक्ताङ्गुलीभिरलंकृतम्, तत्क्षणोन्मीलित पुण्डरीक सदृश चरणयुगलं, अतिमनोहर किरीट मकुट चूडावतंस मकरकुण्डल ग्रैवेयक हार केयूर कटक श्रीवत्स कौस्तुभ मुक्तादाम उदरबन्धन पीतांबर काञ्चीगुण नूपुरादिभिः अत्यन्तसुखस्पर्शैः दिव्यगन्धैर्भूषणैर्भूषितं, श्रीमत्या वैजयन्त्या वनमालया विराजितं, शङ्खचक्र गदासि शार्ङ्गादि दिव्यायुधैः सेव्यमानम्, स्वसङ्कल्पमात्रावकॢप्त जगज्जन्मस्थितिध्वंसादिके श्रीमति विष्वक्सेने न्यस्त समस्तात्मैश्वर्यम्, वैनतेयादिभिः स्वभावतो निरस्त समस्त
सांसारिकस्वभावैः भगवत्परिचर्याकरणयोग्यैः भगवत्परिचर्यैकभोगैः नित्यसिद्धैः, अनन्तैः यथायोगं सेव्यमानम्, आत्मभोगेनानुसंहित परादिकालम्, दिव्यामल कोमलावलोकनेन विश्वमाह्लादयन्तम्, ईषदुन्मीलित मुखाम्बुजोदर विनिर्गतेन दिव्याननारविन्द शोभाजनकेन दिव्यगाम्भीर्य औदार्य सौन्दर्य माधुर्याद्यनवधिक गुणगणविभूषितेन अतिमनोहरदिव्य भावगर्भेण दिव्यलीलालापामृतेन अखिलजन हृदयान्तराण्यापूरयन्तं भगवन्तं नारायणं ध्यानयोगेन दृष्ट्वा, (ततो) भगवतो नित्यस्वाम्यम् आत्मनो नित्यदास्यं च यथावस्थितमनुसन्धाय, “कदाऽहं भगवन्तं नारायणं मम कुलनाथम्, मम कुलदैवतम्, मम कुलधनम्, मम भोग्यम्, मम मातरम्, मम पितरम्, मम सर्वम्, साक्षात्करवाणि चक्षुषा? कदाऽहं भगवत्पादाम्बुजद्वयं शिरसा धारयिष्यामि ? कदाऽहं भगवत्पादम्बुजद्वय परिचर्याकरणयोग्यः तदेकभोगः तत्पादौ परिचरिष्यामि? कदाऽहं भगवत्पादाम्बुजद्वय परिचर्याशया निरस्तसमस्तेतर भोगाशः, अपगत समस्त सांसारिक स्वभावः तत्पादाम्बुजद्वयं प्रवेक्ष्यामि? कदा मां भगवान् स्वकीयया अतिशीतलया दृशा अवलोक्य स्निग्धगम्भीर मधुरया गिरा परिचर्यायां आज्ञापयिष्यति ? " इति भगवत्परिचर्यायां आशां वर्धयित्वा, तयैवाशया तत्प्रसादोपबृंहितया भगवन्तं उपेत्य दूरादेव प्रणम्य, भगवन्तं शेषभोगे श्रिया सहासीनम्, वैनतेयादिभिः सेव्यमानम्,
“समस्तपरिवाराय श्रीमते नारायणाय नमः” इति प्रणम्य उत्थायोत्थाय, पुनः पुनः प्रणम्य, अत्यन्त साध्वसविनयावनतो भूत्वा, भगवत्पार्षद गणनायकैः द्वारपालैः कृपया स्नेहगर्भया दृशा अवलोकितः, सम्यगभिवन्दितैः तैस्तैरेव अनुमतो भगवन्तमुपेत्य श्रीमता मूलमन्त्रेण (भगवन्) मां ऐकान्तिकात्यन्तिक परिचर्याकरणाय परिगृह्णीष्व” इति याचमानः प्रणम्य, आत्मानं भगवते निवेदयेत् ।(4)
ततो भगवता स्वयमेव आत्मसंजीवनेन अमर्यादशीलवता अतिप्रेमान्वितेन अवलोकनेन अवलोक्य, सर्वदेश सर्वकाल सर्वावस्थोचित अत्यन्त शेषभावाय स्वीकृतोऽनुज्ञातश्च, अत्यन्त साध्वसविनयावनतः किंकुर्वाणः कृताञ्जलिपुटः भगवन्तमुपासीत।(5)
ततश्चानुभूयमान भावविशेषः, निरतिशयप्रीत्या अन्यत् किंचित् कर्तुं द्रष्टुं स्मर्तुमशक्तः, पुनरपि शेषभावमेव याचमानः, भगवन्तमेव अविच्छिन्न स्रोतोरूपेण अवलोकनेन अवलोकयन् आसीत।(6)
ततो भगवता स्वयमेव आत्मसंजीवनेन अवलोकनेन अवलोक्य, सस्मितमाहूय, समस्तक्लेशापहं निरतिशयसुखावहं, आत्मीयम्, श्रीमत्पादारविन्दयुगलं शिरसि कृतं ध्यात्वा अमृतसागरान्तर्निमग्न सर्वावयवः सुखमासीत।(7)