चिदचित्परतत्वानां तत्वयाथार्थ्यवेदिने। रामानुजाय मुनये नमो मम गरीयसे॥
यदुगिरिग्रन्थे
स्वाधीन-त्रिविधचेतनाचेतन-स्वरूप-स्थिति-प्रवृत्ति-भेदम्, क्लेश- कर्माद्यशेषदोषासंस्पृष्टम्, स्वाभाविकानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः-सौशील्य-वात्सल्य-मार्दवार्जव-सौहार्द-साम्य-कारुण्य-माधुर्य-गाम्भीर्य-औदार्य-चातुर्य-स्थैर्य-धैर्य-शौर्य-पराक्रम-सत्यकाम- सत्यसङ्कल्प-कृतित्व-कृतज्ञताद्यसङ्ख्येय-कल्याण-गुणगणौघ-महार्णवम्; परब्रह्मभूतम्, पुरुषोत्तमम्, श्रीरङ्गशायिनम् अस्मत्-स्वामिनम्, प्रबुद्ध-नित्यनियाम्य-नित्य-दास्यैक-रसात्म-स्वभावोऽहम्, तदेकानुभवः ; तदेकप्रियः; परिपूर्णं- भगवन्तम्; विशदतमानुभवेन निरन्तरमनुभूय; तदनुभवजनितानवधिकातिशय-प्रीतिकारित-अशेषावस्थोचिताशेषशेषतै करतिरूप-नित्यकिङ्करो भवानि ! ॥ १ ॥ स्वात्म-नित्यनियाम्य-नित्यदास्यैकरसात्मस्वभावानुसन्धानपूर्वक-भगवदन वधिकातिशय-स्वाम्याद्यखिलगुणगणानुभवजनित अनवधिकातिशय- प्रीतिकारिता अशेषावस्थोचिताशेष-शेषतैकरतिरूप-नित्यकैङ्ङ्कर्य प्राप्त्युपायभूत-भक्ति-तदुपाय-सम्यग्ज्ञान-तदुपाय-समीचीनक्रिया- तदनुगुण-सात्त्विकताऽऽस्तिक्यादि-समस्तात्म-गुण-विहीनः ; दुरुत्तरानन्त- तद्विपर्ययज्ञानक्रियानुगुणानादि-पापवासना-महार्णवान्तर्निमग्नः ; तिलतैल वत्-दारुवह्निवत् दुर्विवेच-त्रिगुण-क्षणक्षरण-स्वभाव-अचेतन-प्रकृति-व्याप्तिरूप-दुरत्यय-भगवन्माया-तिरोहित-स्वप्रकाशः ; अनाद्यविद्या- सञ्चित-अनन्ताशक्य-विस्रंसन-कर्मपाश-प्रग्रथितः, अनागतानन्तकाल- समीक्षयाऽपि अदृष्टसन्तारोपायः, निखिलजन्तुजातशरण्य! श्रीमन्! नारायण! तव चरणारविन्दयुगलं शरणमहं प्रपद्ये ॥ २ ॥ एवमवस्थितस्याऽपि अर्थित्वमात्रेण परमकारुणिको भगवान्; स्वानुभव प्रीत्योपनीतैकान्तिकात्यन्तिक-नित्यकैङ्कर्यैकरतिरूप-नित्यदास्यं दास्यतीति विश्वासपूर्वकं; भगवन्तं नित्यकिङ्करतां प्रार्थये ॥ ३ ॥ तवाऽनुभूति-सम्भूत-प्रीति-कारित-दासताम् । देहि मे कृपया नाथ ! न जाने गतिमन्यथा ॥ ४ ॥ सर्वावस्थोचिताशेष-शेषतैकरतिस्तव । भवेयं पुण्डरीकाक्ष! त्वमेवैवं कुरुष्व! माम् ॥ ५ ॥ एवम्भूत-तत्त्वयाथात्म्यावबोध-तदिच्छारहितस्यापि, एतदुच्चारणमात्रावलम्बनेन; उच्यमानार्थ-परमार्थनिष्ठं मे मनः त्वमेवाद्यैव कारय! ॥ ६ ॥ अपारकरुणाम्बुधे! अनालोचितविशेषाशेषलोकशरण्य! प्रणतार्तिहर! आश्रितवात्सल्यैकमहोदधे! अनवरतविदित-निखिल-भूतजात-याथात्म्य ! सत्यकाम! सत्यसङ्कल्प! आपत्सख! काकुत्स्थ ! श्रीमन् ! नारायण! पुरुषोत्तम! श्रीरङ्गनाथ! मम नाथ! नमोऽस्तु ते ॥ ७ ॥
॥ इति श्रीभगवद्रामानुजविरचितं श्रीरङ्गगद्यं सम्पूर्णम् ॥
जालेऽन्यत्र
स्वाधीन त्रिविध चेतनाचेतन स्वरूप स्थिति प्रवृतिभेदम्, क्लेशकर्माद्यशेषदोषासंस्पृष्टम्, स्वाभाविकानवधिकातिशय ज्ञानबलैश्वर्य वीर्य शक्ति तेजस्सौशील्य वात्सल्य मार्दव आर्जव सौहार्द साम्य कारुण्य माधुर्य गाम्भीर्य औदार्य चातुर्य स्थैर्य धैर्य शौर्य पराक्रम सत्यकाम सत्सङ्कल्प कृतित्व कृतज्ञताद्यसंख्येय कल्याणगुणगणौघमहार्णवं, परब्रह्मभूतं, पुरुषोत्तमं, श्रीरङ्गशायिनम्, अस्मत्स्वामिनम्, प्रबुद्ध नित्यनियाम्य नित्यदास्यैकरसात्मस्वभावोऽहं, तदेकानुभवस्तदेकप्रियः, परिपूर्णं, भगवन्तं, विशदतमानुभवेन निरन्तरमनुभूय, तदनुभवजनितानवधिकातिशय प्रीतिकारिताशेषावस्थोचिताशेषशेषतैकरतिरूप नित्यकिङ्करो भवानि ।
स्वाधीन त्रिविध चेतनाचेतन स्वरूप स्थिति प्रवृतिभेदम्, क्लेशकर्माद्यशेषदोषासंस्पृष्टम्, स्वाभाविकानवधिकातिशय ज्ञानबलैश्वर्य वीर्य शक्ति तेजस्सौशील्य वात्सल्य मार्दव आर्जव सौहार्द साम्य कारुण्य माधुर्य गाम्भीर्य औदार्य चातुर्य स्थैर्य धैर्य शौर्य पराक्रम सत्यकाम सत्सङ्कल्प कृतित्व कृतज्ञताद्यसंख्येय कल्याणगुणगणौघमहार्णवं, परब्रह्मभूतं, पुरुषोत्तमं, श्रीरङ्गशायिनम्, अस्मत्स्वामिनम्, प्रबुद्ध नित्यनियाम्य नित्यदास्यैकरसात्मस्वभावोऽहं, तदेकानुभवस्तदेकप्रियः, परिपूर्णं, भगवन्तं, विशदतमानुभवेन निरन्तरमनुभूय, तदनुभवजनितानवधिकातिशय प्रीतिकारिताशेषावस्थोचिताशेषशेषतैकरतिरूप नित्यकिङ्करो भवानि ।
स्वात्म नित्यनियाम्य नित्यदास्यैकरसात्म स्वभावानुसन्धानपूर्वक भगवदनवधिकातिशय स्वाम्याद्यखिल गुणगणानुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकैङ्कर्य प्रात्युपायभूतभक्ति, तदुपाय सम्यग्ज्ञान, तदुपाय समीचीनक्रिया, तदनुगुण सात्त्विकतास्तिक्यादि समस्तात्म गुणविहीनः, दुरुत्तरानन्त तद्विपर्यय ज्ञानक्रियानुगुणानादि पाप वासना महार्णवान्तर्निमग्नः, तिलतैलवत्, दारुवह्निवत्, दुर्विवेच त्रिगुण क्षणक्षरणस्वभाव अचेतनप्रकृतिव्याप्तिरूप दुरत्यय भगवन्माया तिरोहित स्वप्रकाशः, अनाद्यविद्यासञ्चित अनन्त अशक्य विस्रंसन कर्मपाशप्रग्रथितः, अनागत अनन्तकाल समीक्षयापि अदृष्टसन्तारोपायः, निखिलजन्तुजात शरण्य ! श्रीमन्नारायण ! तव चरणारविन्दयुगलं शरणमहं प्रपद्ये ।
एवमवस्थितस्यापि, अर्थित्वमात्रेण परमकारुणिको भगवान् स्वानुभवप्रीत्योपनीत ऐकान्तिकात्यन्तिक नित्यकैङ्कर्यरतिरूप नित्यदास्यं दास्यतीति विश्वासपूर्वकं भगवन्तं नित्यकिङ्करतां प्रार्थये ।
*तवानुभूतिसंभूत प्रीति कारित दासताम् । देहि मे कृपया नाथ! न जाने गतिमन्यथा ॥
*सर्वावस्थोचिताशेषशेषतैकरतिस्तव । भवेयं पुण्डरीकाक्ष ! त्वमेवैवं कुरुष्व माम् ॥
एवंभूत तत्त्वयाथात्म्यावबोध तदिच्छारहितस्यापि एतदुच्चारण मात्रावलम्बनेन उच्यमानार्थ परमार्थनिष्ठं मे मनः त्वमेव अद्यैव कारय ।
अपारकरुणाम्बुधे ! अनालोचित विशेषाशेषलोकशरण्य ! प्रणतार्तिहर ! आश्रितवात्सल्यैक महोदधे ! अनवरतविदित निखिलभूतजात याथात्म्य ! सत्यकाम ! सत्यसङ्कल्प ! आपत्सख ! काकुत्स्थ ! श्रीमन् ! नारायण ! पुरुषोत्तम ! श्रीरङ्गनाथ ! मम नाथ ! नमोऽस्तु ते ।