विस्तारः (द्रष्टुं नोद्यम्)
श्रीमते नारायणाय नमः
श्रीधराय नमः
श्रियै नमः
श्रीमते रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते गद्यत्रये श्रीवैकुण्ठगद्यम्
Source: TW
वेङ्कट-नाथः
अनया गद्य-द्वयोक्त-गमनिकयैव श्रीवैकुण्ठगद्यम् अपि गतार्थप्रायम् ।
एतयोः स्वानुष्ठानोक्ति-मुखेन शिष्य-शिक्षणं कृतम्,
तस्मिंस् तु +उपदेश-मुखेनेति विशेषः ।
विषयः - यदुगिरिग्रन्थोक्तः
भक्ति-योगाख्य-श्रेष्ठार्थ-सन्दर्शन-प्रतिज्ञा
विश्वास-प्रस्तुतिः
यामुनार्यसुधाम्भोधिम्
अवगाह्य यथामति ।
आदाय भक्तियोगाख्यं
रत्नं सन्दर्शयाम्यहम् ॥ १ ॥
मूलम्
यामुनार्यसुधाम्भोधिम्
अवगाह्य यथामति ।
आदाय भक्तियोगाख्यं
रत्नं सन्दर्शयाम्यहम् ॥ १ ॥
वेङ्कट-नाथः
तत्र यद् आदौ पठ्यते
‘यामुनार्य-सुधाम्भोधि अवगाह्य यथामति । आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम्’ ॥ इति,
इहासौ भक्ति-योग-शब्दः स्वयम्-प्रयोजन-भगवद्-अनुसन्धान-परः ,
अन्यथा,
तत्-प्राप्तये च तत्-पादाम्बुज-द्वय-प्रपत्तेर् अन्यत्र
मे कल्प-कोटि-सहस्रेणापि साधनम् अस्तीति मन्वानः
इति वक्ष्यमाण-विरोधात् ।
विषयः - यदुगिरिग्रन्थोक्तः
भगवति शरण्यता,
जीव-देवयोः सम्बन्धः
जीवस्य प्रपत्तीतरोपाय-राहित्यं,
चिन्तन-पूर्वकं शरणागति-विधानम्
विश्वास-प्रस्तुतिः
स्वाधीन-त्रिविध-चेतनाचेतन-स्वरूप-स्थिति-प्रवृत्ति-भेदम्,
क्लेश-कर्माद्य्-अशेष-दोषासंस्पृष्टम्
स्वाभाविकानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-
असङ्ख्येय-कल्याण-गुण-गणौघ-महार्णवम्,
परमपुरुषं, भगवन्तं नारायणम्,
मूलम्
स्वाधीन-त्रिविध-चेतनाचेतन-स्वरूप-स्थिति-प्रवृत्ति-भेदम्, क्लेशकर्माद्य शेष-दोषासंस्पृष्टम् स्वाभाविकानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजःप्रभृत्यसङ्ख्येयकल्याणगुणगणौघ-महार्णवम्, परमपुरुषं, भगवन्तं नारायणम्,
विश्वास-प्रस्तुतिः
स्वामित्वेन, सुहृत्त्वेन, गुरुत्वेन च, परिगृह्य,
मूलम्
स्वामित्वेन, सुहृत्त्वेन, गुरुत्वेन च, परिगृह्य,
विश्वास-प्रस्तुतिः
ऐकान्तिकात्यन्तिक–तत्-पादाम्बुज-द्वय-परिचर्यैक-मनोरथः,
मूलम्
ऐकान्तिकात्यन्तिक-तत्पादाम्बुजद्वय-परिचर्यैकमनोरथः,
विश्वास-प्रस्तुतिः
तत्प्राप्तये च तत्-पादाम्बुज-द्वय-प्रपत्तेर् अन्यन्
न मे कल्प-कोटि-सहस्त्रेणाऽपि साधनम् अस्तीति मन्वानः
मूलम्
तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेः, अन्यन्न मे कल्पकोटिसहस्त्रेणाऽपि साधनमस्तीति मन्वानः
विश्वास-प्रस्तुतिः
तस्यैव भगवतो नारायणस्य,
अखिल-सत्त्वदयैक-सागरस्य,
अनालोचित-गुण-गणाखण्ड-जनानुकूलामर्याद-शीलवतः,
स्वाभाविक+अनवधिकातिशय-गुणवत्तया
देव-तिर्यङ्-मनुष्याद्य्-अखिल-जन-हृदयानन्दनस्य,
आश्रित-वात्सल्यैक-जल-धेः,
भक्त-जन-संश्लेषैक-भोगस्य,
नित्य-ज्ञान-क्रियैश्वर्यादि-भोग-सामग्री-समृद्धस्य,
महा-विभूतेः श्रीमतश्
चरणारविन्द-युगलम्,
मूलम्
तस्यैव भगवतो नारायणस्य, अखिल-सत्त्वदयैक-सागरस्य, अनालोचित-गुणगणाखण्डजनानुकूलामर्यादशीलवतः स्वाभाविकअनवधिकातिशय-गुणवत्तया,देव-तिर्यङ्मनुष्याद्यखिलजनहृदयानन्दनस्य, आश्रित-वात्सल्यैकजलधेः, भक्तजन-संश्लेषैकभोगस्य, नित्य-ज्ञान-क्रियैश्वर्यादि-भोग-सामग्रीसमृद्धस्य, महा-विभूतेः श्रीमतः चरणारविन्दयुगलम्,
विश्वास-प्रस्तुतिः
अनन्यात्म-सञ्जीवनेन तद्-गत-सर्व-भावेन, शरणम् अनुव्रजेत् ॥ २ ॥
मूलम्
अनन्यात्म-सञ्जीवनेन
तद्-गत-सर्व-भावेन,
शरणम् अनुव्रजेत् ॥ २ ॥
विषयः - यदुगिरिग्रन्थोक्तः
भगवतः शुभाश्रयस्वरूपस्य यावदायुषम् अहरहश्चिन्तनम् स्वरूपाप्रच्युतये
विश्वास-प्रस्तुतिः
ततश् च प्रत्यहम् आत्मोज्जीवनायैवम् अनुस्मरेत् ॥ ३ ॥
मूलम्
ततश्च प्रत्यहम् आत्मोज्जीवनायैवमनुस्मरेत् ॥ ३ ॥
वेङ्कट-नाथः
अत एव ‘प्रत्यहम् आत्मोज्जीवनाय’ इत्य्-आदिकम् अपि
न मुक्ति-तत्-साधन-परम्,
अपि तु
‘ज्ञानी तु परमैकान्ती
परायत्तात्म-जीवनः’
(गी. सं. २९)
इत्य्-आदि-प्रसिद्धे अत्रत्यावस्था-विशेषे
मरु-देश-पथिक-पानीय-न्यायेन अलभ्य-लाभाश्वासनाभिप्रायम् ।
विषयः - यदुगिरिग्रन्थोक्तः
भगवल्लोक-भगवदायतन-भगवन्मण्टप-भगवत्पर्यङ्ङ्काः
विश्वास-प्रस्तुतिः
चतुर्-दश-भुवनात्मकम् अण्डम्,
दश-गुणितोत्तरं च आवरण-सप्तकम् ,
समस्तं कार्य-कारण-जातम् अतीत्य,
परम-व्योम-शब्दाभिधेये,
ब्रह्मादीनां वाङ्मनसागोचरे,
श्रीमति वैकुण्ठे, दिव्यलोके,
मूलम्
चतुर्दशभुवनात्मकमण्डम्, दशगुणितोत्तरं च आवरणसप्तकम् , समस्तं कार्यकारणजातमतीत्य, परमव्योमशब्दाभिधेये, ब्रह्मादीनां वाङ्मनसागोचरे, श्रीमति वैकुण्ठे, दिव्यलोके,
विश्वास-प्रस्तुतिः
सनक-विधि-शिवादिभिर् अप्य् अचिन्त्य-स्वभावैश्वर्यैः,
नित्यसिद्धैः, अनन्तैः, भगवद्-आनुकूल्यैक-भोगैः, दिव्यपुरुषैः महात्मभिर् आपूरिते,
मूलम्
सनक-विधि-शिवादिभिरप्यचिन्त्यस्वभावैश्वर्यैः, नित्यसिद्धैः, अनन्तैः, भगवदानुकूल्यैक-भोगैः, दिव्यपुरुषैः महात्मभिरापूरिते,
विश्वास-प्रस्तुतिः
तेषाम् अपीयत्-परिमाणम्
इयद् ऐश्वर्यम्
ईदृश-स्वभावम्
इति परिच्छेत्तुम् अयोग्ये,
मूलम्
तेषामपि, इयत्परिमाणम्, इयदैश्वर्यम्, ईदृशस्वभावम्, इति परिच्छेत्तुमयोग्ये,
वेङ्कट-नाथः
तेषाम् अपीयत्-परिमाणम्
इयद् ऐश्वर्यम्
ईदृश-स्वभावम्
इति परिच्छेत्तुम् अयोग्ये
इति दिव्यायतनविशेषणे तु महत्तरत्वम् एव विवक्षितम्,
दिव्यावरण-संवृतत्वादि कथनेनैव तत्-परिमाण-सिद्धेः ।
अत्र स्वभाव-शब्दोऽपि निरतिशय-भोग्यत्वादि विषयः ।
न ह्य् एवं-विध-विषयेषु परिच्छेदायोग्यत्वोक्त्या सूरीणां सार्वज्ञ्यहानिः,
दिव्यायतनगुणप्रकर्षे तात्पर्याच्च ।
विश्वास-प्रस्तुतिः
दिव्यावरण-शत-सहस्रावृते,
दिव्य-कल्पक-तरूपशोभिते,
दिव्योद्यान-शत-सहस्र-कोटिभिर् आवृते,
मूलम्
दिव्यावरणशतसहस्रावृते, दिव्यकल्पकतरूपशोभिते, दिव्योद्यानशतसहस्रकोटिभिरावृते,
विश्वास-प्रस्तुतिः
अतिप्रमाणे, दिव्यायतने,
कस्मिंश्चिद् विचित्र-दिव्य-रत्नमय-दिव्यास्थान-मण्टपे,
मूलम्
अतिप्रमाणे, दिव्यायतने, कस्मिंश्चित् विचित्रदिव्यरत्नमय-दिव्यास्थानमण्टपे,
विश्वास-प्रस्तुतिः
दिव्य-रत्न-स्तम्भ-शत-सहस्र-कोटिभिर् उपशोभिते,
दिव्य-नाना-रत्न-कृत-स्थल-विचित्रिते,
दिव्यालङ्कारालङ्कृते,
मूलम्
दिव्यरत्नस्तम्भ-शतसहस्रकोटिभिरुपशोभिते, दिव्यनानारत्न-कृतस्थल-विचित्रिते, दिव्यालङ्कारालङ्कृते,
विश्वास-प्रस्तुतिः
परितः पतितैः, पतमानैः, पादपस्थैश् च
नाना-गन्ध-वर्णैः, दिव्य-पुष्पैश् शोभमानैः,
दिव्य-पुष्पोपवनैर् उपशोभिते,
मूलम्
परितः पतितैः, पतमानैः, पादपस्थैश्च नानागन्धवर्णैः, दिव्यपुष्पैश्शोभमानैः, दिव्यपुष्पोपवनैरुपशोभिते,
विश्वास-प्रस्तुतिः
सङ्कीर्ण-पारिजातादि-कल्प-द्रुमोपशोभितैः,
अ-सङ्कीर्णैश् च कैश्चिद्
अन्तस्थ-पुष्प-रत्नादि-निर्मित–
दिव्य-लीला-मण्टप-शत-सहस्रोपशोभितैः,
मूलम्
सङ्कीर्ण-पारिजातादि-कल्पद्रुमोपशोभितैः, असङ्कीर्णैश्च कैश्चित् अन्तस्थ-पुष्परत्नादि-निर्मित-दिव्य-लीलामण्टपशतसहस्रोपशोभितैः,
विश्वास-प्रस्तुतिः
सर्वदाऽनुभूयमानैर् अपि +अपूर्ववत् आश्चर्यम् आवहद्भिः,
क्रीडा-शैल-शत-सहस्रैर् अलङ्कृतैः,
कैश्चिन् नारायण-दिव्य-लीला-ऽसाधारणैः,
कैश्चित् पद्म-वनालया-दिव्य-लीला-ऽसाधारणैः ,
साधारणैश् च कैश्चित्,
शुक-शारिका-मयूर-कोकिलादिभिः कोमल-कूजितैर् आकुलैः,
दिव्योद्यान-शतसहस्रैर् आवृते,
मूलम्
सर्वदाऽनुभूयमानैरपि अपूर्ववत् आश्चर्यमावहद्भिः, क्रीडाशैलशतसहस्रैरलङ्कृतैः, कैश्चिन्नारायण-दिव्य-लीलाऽसाधारणैः, कैश्चित् पद्मवनालया - दिव्यलीलाऽ साधारणैः , साधारणैश्च कैश्चित्, शुक-शारिका-मयूर-कोकिलादिभिः कोमलकूजितैराकुलैः, दिव्योद्यान-शतसहस्रैरावृते,
विश्वास-प्रस्तुतिः
मणि-मुक्ता-प्रवाल-कृत-सोपानैर्
दिव्यामलामृत-रसोदकैर्,
दिव्याण्ड-ज-वरैर्,
अतिरमणीय-दर्शनैर्
अतिमनोहर-मधुर-स्वरैर् आकुलैर्,
अन्तस्-स्थ-मुक्तामय-दिव्य-क्रीडा-स्थानोपशोभितैर्,
दिव्य-सौगन्धिक-वापी-शत-सहस्रैर् दिव्य-राज-हंसावली-विराजितैर्
आवृते,
मूलम्
मणि-मुक्ता-प्रवाल - कृत सोपानैः, दिव्यामलामृत-रसोदकैः, दिव्याण्डजवरैः, अतिरमणीय दर्शनैः अतिमनोहर-मधुर स्वरैराकुलैः, अन्तस्स्थ-मुक्तामय-दिव्यक्रीडास्थानोपशोभितैः, दिव्य-सौगन्धिक-वापी-शत-सहस्रैः, दिव्यराजहंसावली विराजितैरावृते,
विश्वास-प्रस्तुतिः
निरस्तातिशयानन्दैक-रसतया च +आनन्त्याच् च, प्रविष्टान् उन्मादयद्भिः,
क्रीडोद्देशैर् विराजिते,
मूलम्
निरस्तातिशयानन्दैकरसतया च आनन्त्याच्च, प्रविष्टानुन्मादयद्भिः, क्रीडोद्देशैर्विराजिते,
वेङ्कट-नाथः
प्रविष्टानुन्मादयद्भिः क्रीडोद्देशैः इत्य्-अत्रापि हर्ष-प्रकर्ष-जनकत्वे तात्पर्यम् ।
विश्वास-प्रस्तुतिः
तत्र-तत्र-कृत-दिव्य-पुष्प-पर्यङ्कोपशोभिते,
मूलम्
तत्रतत्रकृत-दिव्य पुष्प-पर्यङ्कोपशोभिते,
विश्वास-प्रस्तुतिः
नाना-पुष्पासवास्वाद-मत्त-भृङ्गावलीभिर् उद्गीयमान-दिव्य-गान्धर्वेणापूरिते,
मूलम्
नाना-पुष्पासवास्वाद-मत्त-भृङ्गावलीभिः उद्गीयमान-दिव्य-गान्धर्वेणापूरिते,
विश्वास-प्रस्तुतिः
चन्दनागुरु-कर्पूर-दिव्य-पुष्पावगाहि-मन्दानिलासेव्यमाने,
मूलम्
चन्दनागुरु-कर्पूर-दिव्य-पुष्पावगाहि-मन्दानिला सेव्यमाने,
विश्वास-प्रस्तुतिः
मध्ये पुष्प-सञ्चय-विचित्रिते,
महति, दिव्य-योग-पर्यङ्के,
अनन्तभोगिनि,
मूलम्
मध्ये पुष्प सञ्चयविचित्रिते, महति, दिव्ययोगपर्यङ्के, अनन्तभोगिनि,
विषयः - यदुगिरिग्रन्थोक्तः
दिव्यमहिषीसहित-भगवद्-दिव्य-विग्रह-स्वरूपस्य
ध्यान-योगतो दर्शनम्
विश्वास-प्रस्तुतिः
श्रीमद्-वैकुण्ठैश्वर्यादि-दिव्य-लोकम् आत्म-कान्त्या विश्वम् आप्याययन्त्या,
शेष-शेषाशनादि+++(=विष्वक्सेनादि)+++ सर्वं परिजनं
भगवतः तत्-तद्-अवस्थोचित-परिचर्यायाम् आज्ञापयन्त्या,
शील-रूप-गुण-विलासादिभिः आत्मानुरूपया श्रिया सहासीनम् ,
मूलम्
श्रीमद्वैकुण्ठैश्वर्यादि-दिव्यलोकम् आत्म-कान्त्या विश्वमाप्याययन्त्या, शेष शेषाशनादि सर्वं परिजनं भगवतः तत्तदवस्थोचित-परिचर्यायाम् आज्ञापयन्त्या, शील-रूप-गुण-विलासादिभिः आत्मानुरूपया, श्रिया, सहासीनम् ,
वेङ्कट-नाथः
श्रीमद्-वैकुण्ठैश्वर्यादि-दिव्य-लोकम् - इत्यत्र तु
वैकुण्ठ-शब्देन नगराद्य्-अवान्तर-प्रदेशो विवक्षितः,
स एव प्रशस्त-विभूति-रूपत्वाद् ऐश्वर्य-शब्देनोपचर्यते ।
नित्य-मुक्त-विषयं देव्या आज्ञापनं
परिचर्या-विशेषेषु इच्छोत्पादन-मात्रम्,
तेषां सर्वज्ञत्वेन ज्ञानोत्पादननैरपेक्ष्यात् ।
विश्वास-प्रस्तुतिः
प्रत्यग्रोन्मीलित-सरसिज-सदृश-नयन-युगलम्,
स्वच्छनील-जीमूत-सङ्काशम्,
अत्युज्ज्वल-पीत-वाससम्,
स्वया प्रभया +अति-निर्मलया +अति-शीतलया स्वच्छ-माणिक्याभया
कृत्स्नं जगद् भासयन्तम् ,
अचिन्त्य-दिव्याद्भुत-नित्य-यौवन-स्वभाव-लावण्यमयामृत-सागरम्,
अतिसौकुमार्यात् ईषत्-प्रस्विन्नवद्-आलक्ष्यमाण-ललाट-फलक-दिव्यालकावली-विराजितम्,
प्रबुद्ध-मुग्धाम्बुज-चारु-लोचनम्,
स-विभ्रम-भ्रू-लतम् उज्ज्वलाधरम्,
शुचि-स्मितम् ,
कोमल-गण्डम्, उन्नसम्,
उदग्र-पीनांस+++(=भुज)+++-विलम्बि-कुण्डल+अलकावली-बन्धुर-कम्बु+++(=शङ्ख)+++-कन्धरम्,
+++(चर्म-चिह्नैः)+++ प्रियाऽवतंसोत्पल-कर्ण-भूषण-श्लथालकाबन्ध-विमर्द-शंसिभिः चतुर्भिर् आजानु-विलम्बिभिर् भुजैर् विराजितम्,
अतिकोमल-दिव्य-रेखालङ्कृताताम्र-कर-तलम्,
दिव्याङ्गुलीयक-विराजितम्,
अतिकोमल-दिव्य-नखावली-विराजित-अतिरक्ताङ्गुलीभिर् अलङ्कृतम् ,
तत्-क्षणोन्मीलित-पुण्डरीक(-सरसिज)1सदृश-चरण-युगलम्,
मूलम्
प्रत्यग्रोन्मीलित-सरसिज-सदृश-नयनयुगलम्, स्वच्छनील जीमूत-सङ्काशम्, अत्युज्वल-पीतवाससम्, स्वया प्रभया अतिनिर्मलया अतिशीतलया स्वच्छमाणिक्याभया कृत्स्नं जगद्भासयन्तम् , अचिन्त्य - दिव्याद्भुत-नित्ययौवनस्वभाव-लावण्यमयामृतसागरम्, अतिसौकुमार्यात् ईषत्प्रस्विन्नवदालक्ष्यमाण-ललाट-फलक-दिव्यालकावली-विराजितम्, प्रबुद्ध-मुग्धाम्बुज-चारु-लोचनम्, स-विभ्रम-भ्रूलतम् उज्ज्वलाधरम्, शुचिस्मितम् , कोमल-गण्डमुन्नसम्, उदग्र-पीनांस-विलम्बि-कुण्डलअलकावली-बन्धुर-कम्बु-कन्धरम्, प्रियावतंसोत्पल-कर्णभूषणश्लथालकाबन्ध-विमर्दशंसिभिः चतुर्भिराजानुविलम्बिभिर्भुजैः-विराजितम्, अतिकोमल-दिव्य-रेखालङ्कृताताम्रकरतलम्, दिव्याङ्गुलीयक-विराजितम् ,अतिकोमल-दिव्य-नखावली-विराजित-अतिरक्ताङ्गुलीभिः अलङ्कृतम् , तत्क्षणोन्मीलित-पुण्डरीक सरसिज1सदृश-चरणयुगलम्
वेङ्कट-नाथः
पुण्डरीक-सदृश-चरण-युगलम् - इति +अत्र
पुण्डरीक-शब्दः पद्म-सामान्य-मुखेन रक्ताम्बु-ज-परः ।
<dg 1/>
विश्वास-प्रस्तुतिः
अतिमनोहर-किरीट-मकुट-चूडाऽवतंस-मकरकुण्डल-
ग्रैवेयक-हार-केयूर-कटक-
श्रीवत्स-कौस्तुभ–
मुक्ता-दामोदर-बन्धन–पीताम्बर–काञ्ची-गुण–नूपुरादिभिर्
अत्यन्त-सुख-स्पर्शैर् दिव्य-गन्धैर् दिव्य2-भूषणैर् भूषितम्,
मूलम्
अतिमनोहर-किरीट-मकुटचूडाऽवतंस-मकरकुण्डल-ग्रैवेयक-हार-केयूर-कटक श्रीवत्स-कौस्तुभ-मुक्तादामोदरबन्धन-पीताम्बर-काञ्ची-गुण-नूपुरादिभिः अत्यन्त-सुखस्पर्शैर्दिव्यगन्धैः दिव्य2-भूषणैर्भूषितम्,
विश्वास-प्रस्तुतिः
श्रीमत्या वैजयन्त्या वन-मालया विराजितम्,
शङ्ख-चक्र-गदाऽसि-शार्ङ्गदि-दिव्यायुधैः सेव्यमानम्,
मूलम्
श्रीमत्या वैजयन्त्या वनमालया विराजितम्, शङ्ख-चक्र-गदाऽसि-शार्ङ्गदिदिव्यायुधैः सेव्यमानम्,
विश्वास-प्रस्तुतिः
स्व-सङ्कल्प-मात्रावक्लृप्त-जगज्-जन्म-स्थिति-ध्वंसादिके,
श्रीमति विष्वक्-सेने न्यस्त-समस्तात्मैश्वर्यम्,
मूलम्
स्वसङ्कल्पमात्रावक्लृप्त-जगज्जन्म-स्थिति-ध्वंसादिके, श्रीमति, विष्वक्सेने, न्यस्त-समस्तात्मैश्वर्यम्,
वेङ्कट-नाथः
यत् तूक्तम् -
सङ्कल्प-मात्रावक्लृप्त-जगज्-जन्म-स्थिति-ध्वंसादिके श्रीमति विष्वक्सेने न्यस्त-समस्तात्मैश्वर्यम् इति,
तत्र यद्य् अपि जगद्-व्यापार–मोक्ष-प्रदत्वे ब्रह्म-लक्षणतया
मुक्तेष्व् इव नित्य-सूरिष्व् अपि सर्वेषु न सम्भवतः,
यद्य् अपि च भगवान् स्वतः सर्वज्ञः,
तथाऽपि ‘प्रियेण सेना-पतिना निवेदितं तथाऽनुजानन्तम् उदार-वीक्षणैः ’ (स्तो. र. ४२)
इति न्यायेन
भगवद्-दत्त-तादृशाधिकारतया
तत्-तद्-अवसरे जगत्-सृष्ट्य्-आद्य्-अर्थं
भगवते विज्ञापन-वाक्यं विष्वक्-सेनो व्याहरति,
तदा स्वतः सर्वज्ञो भगवान् तन्-निवेदित-कारीव क्रीडति।
तावन्-मात्रेण विष्वक्सेनस्य जगद्-व्यापार-व्यपदेश-रूप-स्तुतिः।
न्यस्तसमस्तात्मैश्वर्यम् - इत्येतद् अपि
सेना-निर्वहणाद्य्-अर्थाधिकार-प्रदान-परम्,
‘स यदि पितृलोककामो भवति
सङ्कल्पाद् एवास्य पितरः समुत्तिष्ठन्ति’
(छां.उ.८-२-१)
इत्यादिन्यायेन परिमित विषयो वाऽत्र जगच्-छब्दः,
अतो हिरण्य-गर्भादिवत् क्वाचित्क-प्रभूत-सृष्ट्य्-आदि-मात्राशा
ऽस्मिन् ब्रह्म-लक्षण-प्रसङ्गः ।
विश्वास-प्रस्तुतिः
वैनतेयादिभिः स्वभावतो-निरस्त-समस्त-सांसारिक-स्वभावैर्,
भगवत्-परिचर्या-करण-योग्यैर्, भगवत्-परिचर्येक-भोगैर्,
नित्य-सिद्धैर् अनन्तैर्
यथायोगं सेव्यमानम्,
मूलम्
वैनतेयादिभिः स्वभावतो-निरस्त-समस्त-सांसारिक-स्वभावैः, भगवत्परिचर्या-करण-योग्यैः, भगवत्परिचर्येक -भोगैः , नित्य-सिद्धैः अनन्तैः यथायोगं सेव्यमानम्,
विश्वास-प्रस्तुतिः
आत्म-भोगेनानुसंहित–परादि-कालं
दिव्यामल-कोमलावलोकनेन विश्वम् आह्लादयन्तम् ,
मूलम्
आत्मभोगेनानुसंहितपरादि-कालं दिव्यामल-कोमलावलोकनेन,विश्वमाह्लादयन्तम् ,
वेङ्कट-नाथः
यद् अपि ‘आत्म-भोगेन +अनुसंहित-परादि-कालम्’ इति
तद् अपि भगवतः काल-विषयम् अज्ञानं नाभिप्रेति,
आनन्द-प्रकर्ष-प्रशंसायां तात्पर्यात् ।
विश्वास-प्रस्तुतिः
ईषद्-उन्मीलित-मुखाम्बुजोदर-विनिर्गतेन दिव्याननारविन्द-शोभा-जनकेन3 ,
दिव्य-गाम्भीर्य-औदार्य-सौन्दर्य-माधुर्याद्य्-अनवधिक-गुण-गण-विभूषितेन,
अतिमनोहर-दिव्य-भाव-गर्भेण, दिव्य-लीलालापामृतेन
+अखिल-जन-हृदयान्तराणि आपूरयन्तम्,
मूलम्
ईषदुन्मीलित-मुखाम्बुजोदर-विनिर्गतेन, दिव्याननारविन्द-शोभाजनकेन3 , दिव्य-गाम्भीर्य-औदार्य-सौन्दर्य-माधुर्याद्यनवधिक-गुण-गण-विभूषितेन, अतिमनोहर-दिव्य-भाव-गर्भेण, दिव्यलीलालापामृतेन अखिल-जनहृदयान्तराणि आपूरयन्तम्,
विश्वास-प्रस्तुतिः
भगवन्तं नारायणम्,
ध्यान-योगेन दृष्ट्वा,
मूलम्
भगवन्तं नारायणम्, ध्यानयोगेन दृष्ट्वा,
विषयः - यदुगिरिग्रन्थोक्तः
जीवात्म-परमात्मनोः स्वाभाविक-सम्बन्ध-चिन्तनं,
भगवत्-साक्षात्कार-निरीक्षा च
विश्वास-प्रस्तुतिः
ततो भगवतो नित्य-स्वाम्यम्
आत्मनो नित्यदास्यं च
यथावस्थितम् अनुसन्धाय,
‘कदाऽहं भगवन्तं, नारायणं,
मम नाथम् 4, मम कुलदैवतम्,
मम कुलधनम्, मम भोग्यम्,
मम मातरम्, मम पितरम्, मम सर्वम्,
साक्षात्करवाणि चक्षुषा!’
‘कदाऽहं भगवत्-पादाम्बुज-द्वयं शिरसा सङ्ग्रहिष्यामि’ !5
‘कदाऽहं भगवत्-पादाम्बुज-द्वय-परिचर्याशया निरस्त-समस्तेतर-भोगाशः,
अपगत समस्त-सांसारिक-स्वभावः,
तत्-पादाम्बुज-द्वयं प्रवेक्ष्यामि !’
‘कदाऽहं भगवत्-पादाम्बुज-द्वय-परिचर्या-करण-योग्यः
तद्-एक-भोगः, तत्-पादौ परिचरिष्यामि !’
‘कदा मां भगवान् स्वकीयया +अतिशीतलया दृशाऽवलोक्य,
स्निग्ध-गम्भीर-मधुरया गिरा परिचर्यायाम् आज्ञापयिष्यति!’
इति, भगवत्-परिचर्यायाम् आशां वर्धयित्वा,
मूलम्
ततो भगवतो नित्यस्वाम्यम् आत्मनो नित्यदास्यं च यथावस्थितम् अनुसन्धाय, ‘कदाऽहं भगवन्तं, नारायणं, मम नाथम् 4, मम कुलदैवतम्, मम कुलधनम्, मम भोग्यम्, मम मातरम्, मम पितरम्, मम सर्वम्, साक्षात्करवाणि चक्षुषा!’ ‘कदाऽहं भगवत्पादाम्बुज-द्वयं शिरसा सङ्ग्रहिष्यामि’ !5 ‘कदाऽहं भगवत्पादाम्बुज-द्वय परिचर्याशया निरस्त -समस्तेतर-भोगाशः, अपगत समस्त-सांसारिक-स्वभावः, तत्पादाम्बुजद्वयं प्रवेक्ष्यामि !’ ‘कदाऽहं भगवत्पादाम्बुज-द्वय-परिचर्या-करणयोग्यः तदेकभोगः, तत्पादौ परिचरिष्यामि !’
‘कदा मां भगवान् स्वकीयया अतिशीतलया दृशाऽवलोक्य, स्निग्ध-गम्भीर-मधुरया गिरा परिचर्यायाम् आज्ञापयिष्यति!’
इति, भगवत्परिचर्यायाम् आशां वर्धयित्वा,
वेङ्कट-नाथः
यच् च तत्-पादाम्बुज-द्वयं प्रवेक्ष्यामि
इति मुमुक्षोर् अभिसन्धिर् उच्यते,
तत्र पूर्वोक्तस्य शिरसा सङ्ग्रहणस्य गाढतमत्वं प्रवेश-शब्देनाभिप्रेतम् ।
<dg 2/>
विषयः - यदुगिरिग्रन्थोक्तः
स्वस्य भगवते निवेदनम्
विश्वास-प्रस्तुतिः
तयैवाशया तत्-प्रसादोपबृंहितया भगवन्तम् उपेत्य,
दूराद् एव भगवन्तं शेष-भोगे श्रिया सहाऽऽसीनम्,
वैनतेयादिभिः सेव्यमानम्,
‘समस्त-परिवाराय श्रीमते नारायणाय नमः’
इति प्रणम्योत्थायोत्थाय पुनः पुनः प्रणम्य,
अत्यन्त-साध्वस-विनयावनतो भूत्वा,
भगवत्-पारिषद–गण-नायकैः, द्वार-पालैः
कृपया स्नेह-गर्भया दृशाऽवलोकितः,
सम्यग् अभिवन्दितैः तैस् तैर् एवानुमतो
भगवन्तम् उपेत्य,
श्रीमता मूलमन्त्रेण
माम् ऐकान्तिकात्यन्तिक-परिचर्या-करणाय परिगृह्णीष्व
इति याचमानः,
प्रणम्य,
आत्मानं भगवते निवेदयेत् ॥ ४ ॥
मूलम्
तयैवाशया तत्प्रसादोपबृंहितया भगवन्तमुपेत्य, दूरादेव भगवन्तं शेषभोगे श्रिया सहाऽऽसीनम्, वैनतेयादिभिः सेव्यमानम्, ‘समस्तपरिवाराय श्रीमते नारायणाय नमः’ इति प्रणम्योत्थायोत्थाय पुनः पुनः प्रणम्य, अत्यन्तसाध्वस-विनयावनतो भूत्वा, भगवत्पारिषद-गणनायकैः, द्वारपालैः, कृपया स्नेहगर्भया दृशाऽवलोकितः, सम्यगभिवन्दितैः तैस्तैरेवानुमतो भगवन्तमुपेत्य, श्रीमता मूलमन्त्रेण माम् ऐकान्तिकात्यन्तिक-परिचर्याकरणाय परिगृह्णीष्व’ इति याचमानः, प्रणम्य, आत्मानं भगवते निवेदयेत् ॥ ४ ॥
विषयः - यदुगिरिग्रन्थोक्तः
नित्यकैङ्कर्येण भगवदुपासनम्
विश्वास-प्रस्तुतिः
ततो भगवता स्वयम् एव
आत्म-संजीवनेन +अमर्याद-शीलवता अति-प्रेमान्वितेन अवलोकनेन अवलोक्य,
सर्व-देश–सर्व-काल–सर्वावस्थोचितात्यन्त-शेष-भावाय स्वीकृतो,
अनुज्ञातश् च
+अत्यन्त-साध्वस-विनयावनतः, किङ्कुर्वाणः, कृताञ्जलि-पुटो भगवन्तम् उपासीत ॥ ५ ॥
मूलम्
ततो भगवता, स्वयमेवात्मसञ्जीवनेन, अमर्यादशीलवता,अतिप्रेमान्वितेनावलोकनेनावलोक्य, सर्वदेश-सर्वकाल-सर्वावस्थोचितात्यन्त-शेषभावाय स्वीकृतः, अनुज्ञातश्च अत्यन्त-साध्वस-विनयावनतः, किङ्कुर्वाणः, कृताञ्जलि-पुटो भगवन्तमुपासीत ॥ ५ ॥
विषयः - यदुगिरिग्रन्थोक्तः
भगवद्-अवलोकनाविच्छेदः,
आनन्द-मग्नतया भगवत्-पाद-च्छायायाम् अविरतावस्थितिश् च
विश्वास-प्रस्तुतिः
ततश् चानुभूयमान-भाव-विशेषः,
निरतिशय-प्रीत्या,
अन्यत् किञ्चित् कर्तुं द्रष्टुं स्मर्तुम् अशक्तः
पुनर् अपि शेष-भावम् एव याचमानो,
भगवन्तम् एव अविच्छिन्न-स्रोतो-रूपेण अवलोकनेनावलोकयन् आसीत ॥ ६ ॥
मूलम्
ततश्चानुभूयमानभावविशेषः, निरतिशय-प्रीत्या, अन्यत् किञ्चित् कर्तुं द्रष्टुं स्मर्तुमशक्तः पुनरपि शेषभावमेव याचमानो, भगवन्तमेव अविच्छिन्न-स्रोतोरूपेण अवलोकनेनावलोकयन् आसीत ॥ ६ ॥
विश्वास-प्रस्तुतिः
ततो भगवता
स्वयम् एवात्म-सञ्जीवनेन +अवलोकनेनाऽवलोक्य,
सस्मितम् आहूय,
समस्त-क्लेशापहं, निरतिशय-सुखावहम्,
आत्मीयं, श्रीमत्-पादारविन्द-युगलं शिरसि कृतं ध्यात्वा,
अमृत-सागरान्तर्-निमग्न-सर्वावयवः सुखम् आसीत ॥ ७ ॥
मूलम्
ततो भगवता स्वयमेवात्मसञ्जीवनेन अवलोकनेनाऽवलोक्य, सस्मितमाहूय, समस्त-क्लेशापहं, निरतिशय-सुखावहम् आत्मीयं, श्रीमत्पादारविन्दयुगलं, शिरसि कृतं ध्यात्वा, अमृत-सागरान्तर्निमग्न-सर्वावयवः सुखमासीत ॥ ७ ॥
वेङ्कट-नाथः
यद् अपि शेष-भावाय स्वीकृतः इति
तत्र यावद्-आत्म–भावि-कैङ्कर्य-करणाय सङ्कल्पित इत्यर्थः ।
एवम् अन्यदपि सर्व सुसङ्गतम् इति ॥
॥ श्रीमते रामानुजाय नमः ॥
द्वय-वचन-धनानां द्विः-प्रयोगानपेक्षे
मुषित-निखिल-दोषे मुक्त्य्-उपाये स्थितानाम् ।
अमृतम् इव पयो-धेर् आप्तम् एतद् यतीन्द्रात्
व्यवृणुत मित-गद्यं वेङ्कटेशः सुमेधाः ॥
॥ इति रहस्यरक्षायां मित-गद्याधिकारः समाप्तः ॥
॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
रहस्यरक्षायां गद्यत्रयभाष्यं समाप्तम् ॥
॥ इति श्रीभगवद्रामानुजाचार्यविरचितं श्रीवैकुण्ठगद्यं सम्पूर्णम् ॥
॥ इति श्रीभगवद्रामानुजाचार्यविरचितं गद्यत्रयं सम्पूर्णम् ॥