विस्तारः (द्रष्टुं नोद्यम्)
श्रीधराय नमः
श्रियै नमः
श्रीमते रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते गद्यत्रये श्रीरङ्गगद्यम्
Source: TW
विश्वास-प्रस्तुतिः
चिद्-अचित्-पर-तत्त्वानां
तत्त्व-याथात्म्य-वेदिने ।
रामानुजाय मुनये
नमो मम गरीयसे ॥
हिन्दी - राघवः
चित् अचित् एवं परतत्व के यथार्थ तत्त्व के ज्ञाता पूज्यतम रामानुज मुनि के लिये मेरा नमस्कार है ।
मूलम्
चिद्-अचित्-पर-तत्त्वानां
तत्त्व-याथात्म्य-वेदिने ।
रामानुजाय मुनये
नमो मम गरीयसे ॥
वेङ्कट-नाथः
श्रीवेदान्त-देशिक-प्रणीतं
मित-गद्याधिकार-नामकं
श्रीरङ्ग-गद्य-व्याख्यानम्
श्रीमल्-लक्ष्मण-मुनिना
शिष्य-हितैकाग्र-चेतसा कथितम् ।
मित-गद्यम् अमितसारं1
व्यक्तं व्याख्याति वेङ्कटेश-कविः ॥
अत्र द्वयार्थानुसन्धान-रसिकेन भगवता भाष्यकारेण
बृहद्-गद्ये व्याख्यातम् अपि द्वयम्,
‘बहुधा श्रोतव्यम्’ इति मन्यमानेभ्यः शिष्येभ्यः
पुनर् अप्य् आकिञ्चन्यादि
प्रपञ्चन-पूर्वक-स्वानुष्ठान-प्रकाशन-प्रक्रिययैव सङ्क्षेपेण व्याक्रियते ।
तथा हि -
अत्रादिमं वाक्यम् उत्तर-खण्डस्य विवरणम्;
द्वितीयं पूर्व-खण्डस्य ।
तेनैवाधिकार-विशेषः कार्पण्य-रूपम् अङ्गं च प्रदर्शितम्2 ।
तृतीयं तु महा-विश्वासाद्य्-अङ्गान्तर-ज्ञापकम् ।
अनन्तरं श्लोक-द्वयानुपठनेन पूर्वोक्त एवार्थः
प्रमाणतः प्रतिष्ठाप्यते ।
ततः परेण वाक्येन
पूर्ण-प्रपत्य्-अकुशले जनेऽपि
तत्-पूरणानुगुण-प्रपत्ति-वाक्योच्चारण-वैभवं ख्याप्यते ।
तत्-सिद्ध्य्-अर्थं पश्चाच् चतुर्दशभिः सम्बुद्धिभिर्
नारायण-शब्दोक्ताः शरण्याकार-विशेषाः प्रकाश्यन्ते ।
‘नमोऽस्तु ते’ इत्यनेन तु प्रकृतोपाये
प्रधानभूतो भरन्यासांशः,
फलप्रार्थनं वा निगद्यत
इति विभागः ।
<dg 1/>
भगवद्-गुणाः
विषयः - यदुगिरिग्रन्थोक्तः
भगवद्-दिव्य-गुणानुसन्धान-पूर्वकं
तद्-अनुगुण-स्वभावाविर्भावतः
स्वस्य भगवति नित्य-कैङ्कर्य-लाभ-प्रार्थना
विश्वास-प्रस्तुतिः
स्वाधीन–त्रि-विध+++(←चेतने बद्ध-मुक्त-नित्याः, अचेतने काल-प्रकृति-शुद्धसत्त्वानि च)+++–चेतनाचेतन–स्व-रूप–स्थिति+++(→अनुवर्तन)+++-प्रवृत्ति-भेदम्,
हिन्दी - राघवः
जो बद्ध, मुक्त और नित्य तीन प्रकार के चेतन तथा अचेतन के स्वरूप स्थिति एवं प्रवृति को अधीन रखते हैं,
मूलम्
स्वाधीन-त्रिविध-चेतनाचेतन-स्वरूप-स्थिति-प्रवृत्ति-भेदम्,
वेङ्कट-नाथः
स्वाधीनेत्यादि -
इह च प्रथमं
स-विभूतिकस्य भगवतः परम-प्राप्यत्वादि-सिद्ध्य्-अर्थं
चतुर्थ्यन्त-पद-प्रदर्शितं सर्वेश्वरत्वादिकम् आह - स्वाधीन इति ।
स्व-शब्देन मुक्त-प्राप्यस्य कैङ्कर्योद्देशस्य सर्वेश्वरस्य
श्रुत्यादि-प्रसिद्धं निरतिशयानन्दत्वादिकं सूच्यते ।
स्वाधीन-शब्देन भगवत्-स्वरूपाधीनत्वं, तद्-इच्छाधीनत्वं च विवक्षितम् ।
सर्वस्य साक्षात् परम्परया वा
तद्-आश्रिततया तत्-स्वरूपाधीनत्वम् ।
तत्र नित्यानां पदार्थानां तद्-इच्छाधीन-स्वरूपत्वं
तद्-अभावे तेषाम् अभावः प्रसजेद्
इति प्रसङ्ग-मुखेन स्थाप्यम् ।
तद्-अभिप्रायेण हि आहुः
‘इच्छात एव तव विश्व-पदार्थ-सत्ता
नित्यं प्रियास् तव तु केचन ते हि नित्याः ।
नित्यं त्वद्-एक-पर-तन्त्र–निज-स्वरूपा
भावत्क-मङ्गल-गुणा हि निदर्शनं नः’ ॥
(वै.स्त. ३६)
इति ।
अभाषि च शारीरकान्ते -
‘परम-पुरुष-भोगोपकरणस्य लीलोपकरणस्य च
नित्यतया शास्त्रावगतस्य’
‘परम-पुरुषस्य नित्येष्टत्वाद् एव
तथाऽवस्थानम् अस्तीति शास्त्राद् अवगम्यते’
(श्री. भा. ४-४-२०)
इति ।
अनित्यानां तु तद्-इच्छाधीन-स्वरूपत्वं तद्-आयत्तोत्पत्तिकतया हि प्रसिद्धम् ।
गुरु-द्रव्याणां पतन-प्रतिबन्धेन धार्यत्वम् अपि तद्-इच्छाधीनत्व-विशेष एव ।
चेतन-शब्दः इह जीव-विषयः;
बद्ध-मुक्त-नित्य-रूपेण जीवानां त्रैविध्यम् ।
अ-चेतन-शब्दश् चात्र अ-चिद्-द्रव्य-परः।
त्रि-गुण–काल–शुद्ध-सत्व–रूपेण अचेतन-त्रैविध्यम् ।
द्रव्याणां तद्-अधीनत्वोक्त्या
तत्-तद्-धर्माणां तादधीन्यं कैमुत्य-सिद्धम् इति तद्-अनुक्तिः ।
अचेतन-द्रव्यस्यापि धर्म-भूत-ज्ञानस्य चेतन-ग्रहणे
विशेषणतयोपात्तत्वाद् अत्र पृथग् अनुपादानम् ।
चेतनमात्रे वा त्रैविध्यान्वयः ।
चेतनाचेतनानां स्वरूपं स्वासाधारण-स्वभावैर् निरूप्यं धर्मि,
तस्य भेदः तत्-तद्-व्यक्तितो वर्गतश् च परस्पर-व्यावृत्ति-रूपो धर्मः ।
स्थितिः -
कालान्तरेऽपि विद्यमानता;
सा च द्रव्याणां स्वरूपेण सर्वकालानुवृत्तिरूपा ।
तेषां तत्-तद्-अवस्था-विशिष्ट-वेषेण तु
काल-परिच्छिन्ना काल-तारतम्यवती चेति तद्भेदः ।
प्रवृत्तिः - व्यापारः ।
निवृत्तिर् अप्य् अकरण-सङ्कल्प-रूपा प्रवृत्ति-विशेषः ।+++(5)+++
एतद्-भेदः तत्-तत्-कार्यादिभिर् द्रष्टव्यः ।
अत्र स्वेच्छाधीन-सर्वत्वोक्त्या
स्वार्थ-सर्वोपादातृत्व-सूचनात्
सर्व-शेषित्वम् अपि सिद्ध्यति ।
तद् आहुः -
‘उपादत्ते सत्ता-स्थिति-नियमनाद्यैश् चिद्-अचितौ,
स्वम् उद्दिश्य श्रीमान् इति वदति वाग् औपनिषदी’
(श्रीरङ्गराजस्तवम् २-५७)
इति । एवं भगवतः सर्वाधारत्वादि-व्यञ्जनात्
तद्-अन्येषां चेतनाचेतन-द्रव्याणां
तं प्रति आधेयत्व-विधेयत्व-शेषत्व-नियमेन
तद्–अ-पृथक्-सिद्ध-विशेषणतया
तच्-छरीरत्वं श्रुति-सिद्धं मुख्यम् एव स्थापितं भवति ।
अत्र च
+++(श्रुति-गत-जगत्-)+++कारण-वाक्यार्थः,
धर्म-धर्मि-भेदः, चिद्-अचिद्-भेदः, जीवेश्वर-भेदः,
जीवानाम् अन्योन्य-भेदः,
तेषां+++(→जीवानाम्)+++ ज्ञातृत्वम्, तत एव कर्तृत्व-भोक्तृत्वे,
ज्ञातृत्वादेः सर्वथा पराधीनत्वम्,
परस्य च +++(नित्य-विभूतिर् लीला-विभूतिर् इति)+++ विभूति-द्वयवत्त्वम्,
सार्वत्रिक-त्रैकालिक–सर्व-नियन्तृत्वं,
+++(देश-काल-वस्तु-)+++त्रि-विध-परिच्छेद-राहित्यम्,
काल-परम-व्योम्नोस् त्रि-गुण-विकारातिरिक्तत्वम्,
प्राज्ञानधिष्ठित-प्रकृति-कारणत्व-निरासादिकं च
शारीरक-स्थापितम् अर्थ-सिद्धम् ।
विश्वास-प्रस्तुतिः
क्लेश-कर्माद्य्–अ-शेष–दोषासंस्पृष्टम्,
हिन्दी - राघवः
क्लेश, कर्म आदि सम्पूर्ण दोष जिनका स्पर्श नहीं कर पाते,– १
मूलम्
क्लेश-कर्माद्यशेषदोषासंस्पृष्टम्
वेङ्कट-नाथः
अथ भगवत उक्ताकारान्तर्गत–सर्व-कारणत्व–सर्व-नियन्तृत्वादिभिः
शङ्कितान् दोषान् परिहरति - क्लेश-कर्म +इति ।
‘अ-विद्या–ऽस्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः’ (यो.सू.२-३) ।
‘पुण्यापुण्य-रूपं कर्म’ (यो. भा. २-१२) ।
आदि-शब्देन
‘क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः’ (यो.सू.१-२४)
इत्यादि-प्रसिद्ध–विपाकादि-सङ्ग्रहः ।
जात्य्-आयुर्-भोगादयो विपाकाः ।
पूर्वानुभव-भाविता
आफलोदयं शयानाः संस्कारा आशयाः ।
कतिपय-दोष-रहित–व्यावृत्त्य्-अर्थम् अ-शेष-शब्दः।
अ-संस्पृष्ट-शब्देन स्वभावतोऽनर्हतया
कदाचिद् अपि दोष-स्पर्शो नास्तीति विवक्षितम् ।
एवं पदद्वयेन
‘परः पराणां सकला न यत्र
क्लेशादयः सन्ति परावरेशे’
(वि.पु.६-५-८५)
इत्यस्यार्थ उक्तः ।
विश्वास-प्रस्तुतिः
स्वाभाविकानवधिकातिशय–ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः–
हिन्दी - राघवः
स्वाभाविक, असीम, अतिशय, ज्ञान, बल, ऐश्वर्य, वीर्य, शक्ति, तेज,
मूलम्
स्वाभाविकानवधिकातिशय–ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः–
वेङ्कट-नाथः
स्वाभाविकेत्यादि -
अथ ‘तेजोबलैश्वर्य’ (वि.पु. ६-५-८५) इत्यादिभिरुक्तान्
निरूपित-स्वरूप-विशेषक-धर्मान् आह -
स्वाभाविक इति ।
स्वाभाविकत्वम् इह नित्यत्वम्, अनन्याधीनत्वं च ।+++(4)+++
तेन नित्यानां मुक्तानां च ज्ञानादिभ्य एतज्-ज्ञानादेर् व्यवच्छेदः ।
तद्-बलादिभ्यो व्यवच्छेदस् तु अनवधिकातिशयत्वाद् अपि ।
स्वापेक्षया उत्कृष्टावधि-रहितो ऽतिशयो येषां ते अनवधिकातिशयाः ।
ज्ञानम् इह सर्व-विषय-नित्य-साक्षात्-कार-रूपम् ।
बलम् - अनाघ्रात-श्रम-प्रसङ्गं सर्व-धारकत्वम् ।
ऐश्वर्यम् - सर्व-नियन्तृत्वम् ।
वीर्यम् - सर्वोपादानत्वादाव् अपि अविकृत-स्वभावत्वम् ।
शक्तिः - विश्वोपादानतार्हत्वम्, स्वेतर-सर्व-दुर्घटन-शक्तिर् वा ।
तेजः - अ-स्वाधीन-सहकारि-निरपेक्षत्वम्; पराभिभवन-सामर्थ्यं वा ।
अत्र व्यूह-व्यक्त्य्-आदि-क्रमेण ज्ञान-बलादि-द्वन्द्व-त्रिक-निर्देशः ।
षाड्-गुण्यस्य प्रथमम् उपादानम् -
अन्येषां गुणानां
तद्-अन्तर्-भावन-तत्-प्राधान्यात्
परत्व-ज्ञापकत्वात्
आश्रितानाश्रित-गोचर–व्यापार-भेद-साधारण्याच् च ।
अथ षाड्-गुण्य-वितति-रूपाः सौलभ्य-ज्ञापकाः
संश्रित-सङ्ग्रहणादौ विशेषत उपयुक्ता गुणाः उच्यन्ते ।
विश्वास-प्रस्तुतिः
सौशील्य-वात्सल्य-मार्दवार्जव-सौहार्द-
साम्य-कारुण्य-माधुर्य-
गाम्भीर्य-औदार्य-चातुर्य-
स्थैर्य-धैर्य-शौर्य-पराक्रम-
हिन्दी - राघवः
सौशील्य, वात्सल्य, मृदुता, सरलता, सौहार्द, समता, करुणा, माधुर्य, गम्भीरता, उदारता, चतुरता, स्थिरता, धैर्य, ( २० ) शौर्य, पराक्रम,
मूलम्
सौशील्य-वात्सल्य-मार्दवार्जव-सौहार्द-
साम्य-कारुण्य-माधुर्य-गाम्भीर्य-औदार्य-
चातुर्य-स्थैर्य-धैर्य-शौर्य-पराक्रम-
वेङ्कट-नाथः
अत्र सौशील्यम् - महतो मन्दैस् सह नीरन्ध्र-संश्लेष-रसिकता ।
वात्सल्यम् - आश्रितेषु दोष-तिरस्कारिणी प्रीतिः ।
मार्दवम् - अ-कठिन-स्वभावतया सुप्रवेशत्वम्,
दण्डनीयेष्व् अपि साम-प्रधानत्वं वा ।
आर्जवम् - काय-वाग्-बुद्धि-व्यापाराणां परस्परम् अविसंवादित्वम् ।
सौहार्दम् स्वतः सर्वहितैषित्वम् ।
साम्यम् - सर्वैर् अप्य् आश्रयणीयत्वे समत्वम्, स्वतोऽपक्ष-पातित्वम् वा ।
कारुण्यम् - स्व-प्रयोजनान्तरानुद्देशेन पर-दुःख-निराचिकीर्षा।
माधुर्यम् - उपाय-दशायाम् अपि रञ्जकत्वेन रसावहत्वम् +++(5)+++,
द्विषतां जिघांसितानाम् अपि दृष्टि-चित्तापहारित्वं वा ।
गाम्भीर्यम् - भक्तानुग्रहादेर् अगाधत्वम्,
आश्रित-दोष-दर्शनादेः सतोऽपि गोपनेन दुर्ग्रहत्वं वा ।
औदार्यम् - पात्र-लाघव–देय-गौरव-प्रत्युपकाराद्य्-अनादरेण वितरण-शीलत्वम् ।
चातुर्यम् - शुभाश्रय-प्रकाशनाद्य्-अयत्नोपायैर् विमुख-वशीकरण–विस्रम्भ-जनन–संश्रित-दोषाच्छादन–विरुद्धानुकूलीकरणादिषु कुशलत्वम् ।
स्थैर्यम् - शरणागत-सङ्ग्रहे दोष-प्रदर्शकैः सुहृद्भिर् अप्य् अकम्पनीयत्वम् ।
धैर्यम् - अभिमत-वियोग-प्रसङ्गे ऽप्य् अ-भग्न-प्रतिज्ञत्वम् ।
व्यत्ययेन वा स्थैर्य-धैर्ययोर् व्याख्यानम् ।
प्रबल-प्रति-पक्षोपनिपाते ऽपि सावज्ञ-दृढ-चित्तत्वं वा धैर्यम् ।
शौर्यम् तु भीमेष्व् अपि परसैन्येषु
+अ-सहायस्यापि
स्व-सैन्येष्व् इव निर्भय-प्रवेश-सामर्थ्यम् ।
तत्र प्रविष्टस्य पर-निराकरण-पर्यन्तो व्यापारः पराक्रमः ।
विश्वास-प्रस्तुतिः
सत्यकाम-सत्यसङ्कल्प-कृतित्व- कृतज्ञताद्य्–असङ्ख्येय-कल्याण-गुणगणौघ-महार्णवम्;
हिन्दी - राघवः
सत्यकामता सत्यसंकल्पता, उपकारिता, कृतज्ञता आदि असंख्य कल्याणगुण समूह रूपी जलप्रवाह के महासागर हैं, – २
मूलम्
सत्यकाम-सत्यसङ्कल्प-कृतित्व- कृतज्ञताद्यसङ्ख्येय-कल्याण-गुणगणौघ-महार्णवम्;
वेङ्कट-नाथः
सत्य-काम–सत्य-सङ्कल्प-शब्दौ इह भाव-प्रधानौ,
कर्मधारय-वृत्तौ वा
सत्य-कामत्वम् - नित्य-भोग्यवत्वम्;
सत्य-सङ्कल्पत्वम् - स्वावतार-पर्यन्तापूर्व-भोग्य-सृष्ट्य्-आदाव्
अ-मोघ-सङ्कल्पत्वम् ।
कृतित्वम् - परोपकारकत्वम्, आश्रित-रक्षणेन कृतकृत्यं वा,
‘न मे पार्थास्ति कर्तव्यम्’ (भ.गी. ३-२२) इत्याद्युक्तं
विहित-कर्तव्य-निरपेक्षत्वं वा,
धर्म-संस्थापकानुष्ठानवत्त्वं वा,
परेषां स्व-हित-प्रवृत्तेः पूर्वम् एव कर्तुम्-उपक्रान्त-परहितत्वं वा
स्वेन कृतं सर्वं प्रति
स्वस्यैव शेषित्वं वा।
कृतज्ञता - सकृद् अञ्जलि-कर्तुर् अपि अनुबन्धि-पर्यन्त-संरक्षणाय तत्-कृतानुदर्शनम्,
अवसरे संश्रितापेक्षित-करणाय
स्व-कृत-प्रत्याख्यानानुदर्शित्वं वा;
‘शिरसा याचतस् तस्य
वचनं न कृतं मया’ (रा.यु. २४-२१)
इति ह्य् आह ।
आदि-शब्देन तत्र तत्र प्रसिद्धा आनृशंस्यादयो गृह्यन्ते ।
‘यथा रत्नानि जलधेर्
असङ्ख्येयानि पुत्रक !’
(वाम.पु.७४-४०)
इत्यादि-स्मारणाय अ-सङ्ख्येयत्वोक्तिः ।
अत्र दोषासंस्पृष्टत्वं कल्याण-गुण-युक्तत्वं च वदता
निर्गुण-श्रुतेः पशु-च्छागोत्सर्गापवाद-नयाभ्यां दोष-रूप-विशेष-निषेध-परत्वं सूच्यते ।
विश्वास-प्रस्तुतिः
परब्रह्मभूतम्, पुरुषोत्तमम्,
हिन्दी - राघवः
जो परब्रह्मभूत पुरुषोत्तम हैं,
मूलम्
परब्रह्मभूतम्, पुरुषोत्तमम्,
वेङ्कट-नाथः
परब्रह्मेत्य्-आदि -
उक्तं सर्वस्मात् परत्वं
स्वसाम्य-प्रदान-पर्यन्तं सौलभ्यं च
‘नारायणः परं ब्रह्म’
(महाना.उ.११-२५)
‘परं ब्रह्म परं धाम’
(भ.गी. १०-१२)
इत्य्-आदि-श्रुति-स्मृति-सिद्ध-प्रकारेण स्थिरी-करोति - परब्रह्म इति ।
यद्य्-अपि
‘ब्रह्म परिबृढं सर्वतः’ (निरुक्तम्.१-३) इति निरुक्त-कार-वचनात्
ब्रह्म-शब्द एव परत्वं वदन् नाम च भवति,
तथाऽप्य् औपचारिक-प्रयोग-व्यवच्छेदाय पर-शब्दः।
अत्र ‘बृहति बृंहयति’ (अ.शि. २) इति निरुक्तिभ्यां
व्यापित्व-कारणत्वादि-सिद्ध्या
शङ्कितान् दोषान् परिहर्तुं
भेद-श्रुत्य्–आद्य्-अर्थ-गर्भया भगवद्-गीता-निरुक्तया (भ.गी. १५-१८).. समाख्यया विशिनष्टि - पुरुषोत्तमम् इति ।
अनेन ब्रह्म-शब्दार्थतया कु-दृष्टि-विकल्पित-प्रकारान्तराणि,
तामस-तन्त्राद्य्-उक्त-व्यक्त्य्-अन्तराणि च व्यवच्छिद्यन्ते ।
अस्य च पञ्चम्य्-आदि-विभक्ति-त्रयेऽपि समासः सम्भवति ।+++(5)+++
विश्वास-प्रस्तुतिः
श्रीरङ्गशायिनम् अस्मत्-स्वामिनम्
हिन्दी - राघवः
श्रीरंगधाम में शयन करने वाले हैं, मेरे स्वामी हैं-
मूलम्
श्रीरङ्गशायिनम् अस्मत्-स्वामिनम्
वेङ्कट-नाथः
एवं सर्वाधिकत्वेन अस्मद्-आदिभिर् दुर्-अधिगमः स्याद्
इति शङ्कां परिहरन्,
द्वाभ्यां विशेषणाभ्यां सौलभ्य-काष्ठां व्यनक्ति -
“श्रीरङ्ग-शायिनम् अस्मत्-स्वामिनम्” इति ।
स्वरूपाद् विग्रहस्य सुखानुसन्धेयतया सौलभ्यम् अधिकम्;
तस्माद् अप्य् अर्चावतारस्य
भक्ताभिमत-सर्व-देश-काल-सन्निधायितया पर-व्यूहादिभ्यो ऽधिकतमम् ।
तदा काष्ठा-प्राप्तं परत्वम् अपि
तत्र भक्तोपलभ्यं शास्त्राद् अवसेयम्;
यथोक्तम्
‘सर्वातिशायि षाड्-गुण्यं
संस्थितं मन्त्र-बिम्बयोः’ (वि.सं.)
इति ।
अत्र मनुष्याणाम् अपि कैङ्कर्योद्देश्यतया अवस्थितस्य
निर्भय-सेवादि-योग्यत्वम् अस्मत्-स्वामि-शब्दाभिप्रेतम् ।
यथाऽऽहुः -
‘अर्च्यः सर्व-सहिष्णुर् अर्चक-परा-धीनाखिलात्मस्थितिः’
(श्रीरं.स्त.२-७४) इति ।
यद् वा
स्वाचार्य-सन्तान-सेवितत्वेन
प्रीत्य्-अतिशय-हेतुत्वम् अभिप्रेत्य
अस्मत्-स्वामि-शब्दः ।
प्राचीन-रामानुज+++(=लक्ष्मण)+++ इव
‘अहमप्य्-अस्य शीलादि-गुणैर् दास्यम् उपागतः’ (रा. कि. ४-१२)
इति च भावः ।
एवं कैङ्कर्य-प्रति-सम्बन्धितया अनुभाव्यं निर्धारितम् ।
जीव-गुणाः
विश्वास-प्रस्तुतिः
+++(देव-सापेक्ष-कर्मारम्भ-स्वातन्त्र्य-ज्ञानात्,
लोके गृहपतित्वाद्य्-औपाधिक-शेषित्व-ज्ञानात्)+++
प्रबुद्ध–
नित्य-नियाम्य–
नित्य-दास्यैक-रसात्म-स्वभावोऽहम्
हिन्दी - राघवः
उन भगवान् की नित्य नियाम्यता और नित्य दास्यभावना की एक रसता जीवात्मा का स्वभाव है
ऐसा भली भाँति जान कर
मूलम्
प्रबुद्ध-नित्यनियाम्य-नित्य-दास्यैक-रसात्म-स्वभावोऽहम्,
वेङ्कट-नाथः
अथात्माभिमानानुगुण-पुरुषार्थ-व्यवस्था-सिद्ध्य्-अर्थम्
अनुभवितुः किङ्करस्य
स्वात्मनः स्वरूपाविर्भाव-दशाम् आह - प्रबुद्ध इति ।
प्रबुद्धम् प्रकर्षेणावगतम्,
स्वाधीन-स्वार्थ-कर्तृत्व-भ्रम–विरहेण सम्यग्-दृष्टम् इत्य् अर्थः ।
नियाम्यत्व-दासत्वे
‘स स्वराड् भवति’ (छां.उ.७-२५-२) इत्य्
आम्नातायां मुक्ति-दशायाम् अप्य् अनुवृत्ते
इति ज्ञापनाय द्वयोर् अपि नित्यत्वोक्तिः ।
+++(देव-सापेक्ष-कर्मारम्भ-स्वातन्त्र्य-ज्ञानात्,
लोके गृहपतित्वाद्य्-औपाधिक-शेषित्व-ज्ञानात्)+++
निरपेक्ष-स्वातन्त्र्य–निरुपाधिक-शेषित्व–प्रसङ्ग-परिहाराय एक-रस-शब्दः ।
अत्र आत्म-शब्दः स्वविषयः ।
स्वभाव-शब्दो यावद्-आत्म-भाव्य्-आकारम् आह ।
ईदृशात्म-स्वरूपम् अपि
‘व्यतिरेकस् तद्-भाव-भावित्वात्’ (ब्र. सू. ३-३-५४) इति नयेन
परम-प्राप्य-विशेषणतया फल-कोटि-निविष्टम् अनुसन्धेयम्
इति व्यञ्जयितुम् अधिको अहं-शब्दः ।
विश्वास-प्रस्तुतिः
+++(शेषत्व-स्मृति-युक्तत्वात्)+++ तद्+++(=ब्रह्म)+++-एकानुभवः ;
तद्+++(=ब्रह्म)+++-एक-प्रियः;
हिन्दी - राघवः
उनके ही अनुभव में संलग्न
तथा उनको ही अपना प्रियतम मानकर, - ३
मूलम्
तदेकानुभवः ; तदेकप्रियः;
वेङ्कट-नाथः
नित्य-नियाम्यत्व-प्रबोध-काष्ठाम् आह तद्-एकानुभव इति ।
तस्मिन्न् एकस्मिन्न् एव प्रधानतया अनुभवो यस्य स तथोक्तः ।
आविर्-भूत-स्वरूपस्य हि
भगवद्-अपृथक्-सिद्ध-विशेषणतया +++(5)+++
तत्-प्रधानतयैव स्वानुभवं
‘अविभागेन दृष्टत्वात्’ (ब्र.सू.४-४-४) इत्यसूत्रयत् । नित्यदास्यैकरसत्वाविर्भावस्य
फलम् आह - तद्-एकप्रिय इति ।
स एव प्रधानतया नित्यं प्रियो यस्य स तद्-एक-प्रियः ।
न हि तद्-दास्यैक-रसस्यास्य
‘रसो वै सः’ (तै. उ. आन. ७) इत्य्-आद्य्-उक्त-स्वाभाविक–निर्-अवधिकातिशय-रस-स्वरूपात् तस्माद् अन्यत्
तदानीं प्रधानतया ऽऽस्वाद्यं भवति ।
भगवद्-अनुभव-प्रार्थना
विश्वास-प्रस्तुतिः
परिपूर्णं भगवन्तम् ;
विशदतमानुभवेन निरन्तरम् अनुभूय;
हिन्दी - राघवः
नित्य विशदतम अनुभव के द्वारा
उन परिपूर्ण भगवान् का अनुभव कर
मूलम्
परिपूर्णं भगवन्तम् ; विशदतमानुभवेन निरन्तरमनुभूय;
वेङ्कट-नाथः
तद् एवम् अनुभाव्यानुभविताराव् उक्तौ ।
अथात्रत्यानुभवाद् व्यावृत्तम् अनुभव-प्रकारम् आह -
परिपूर्णम् इति -
अनन्त-गुण-विभूति-विशिष्ट-स्व-रूपे अननुभूतांश-रहितम् इत्य् अर्थः ।
भगवन्तम् पराशरादि-निरुक्त-प्रकारेणोभय-लिङ्गम् ।
तस्मिन् सामान्यतः सर्वाकार-विषय-परोक्ष-ज्ञानात्
परिमिताकार-विषय-प्रत्यक्ष-ज्ञानाच् च
व्यावृत्त्य्-अर्थम् आह - विशदतमानुभवेन इति ।
तत्राप्य् अपरिच्छिन्न-विषय-सान्तर-प्रत्यक्षाद् व्यवच्छिनत्ति निरन्तरम् इति ।
अनुभवेन अनुभूय - अनुभवेन विषयीकृत्येत्यर्थः ।
कैङ्कर्य-प्रार्थना
विश्वास-प्रस्तुतिः
तद्-अनुभव-जनितानवधिकातिशय-प्रीति-कारित-
+अशेषावस्थोचित+
+++(किङ्करान्तर-सहित-)+++अ-शेष-शेषतैक-रति-रूप-
नित्य-किङ्करो भवानि ! ॥ १ ॥
हिन्दी - राघवः
इस अनुभव के द्वारा असीम एवं अतिशय प्रीति प्राप्त कर
तथा इस प्रीति के फलस्वरूप
समस्त अवस्थाओं के अनुरूप
परिपूर्ण शेषभावापन्न नित्य किंकर बनूँ ॥१॥ ( २१ )
मूलम्
तदनुभवजनितानवधिकातिशय-प्रीतिकारित-अशेषावस्थोचिताशेषशेषतैकरतिरूप-नित्यकिङ्करो भवानि ! ॥ १ ॥
वेङ्कट-नाथः
तद्-अनुभव इति ।
अनेन पूर्वोक्त-भगवद्-अनुभवानुवादः ;
यद् वा, तच्-छब्देन भगवद्-अनुभवः परामृश्यते;
तस्य अनुभवो अपि स्वयम्-प्रकाशस्य तस्यैव स्वरूपम्;
ईदृशो ऽयम् अनुभूयते मयेत्य्
अनुकूलतम-भगवद्-अनुभव-स्वरूपोल्लेखांशेन जनिता प्रीतिः इहोच्यते ।
तस्या अनवधिकातिशयत्वेन +ऐश्वर्याद्य्-अनुभव-जनित-प्रीतेर् व्यवच्छेदः ।
ईश्वरेच्छाधीनेऽपि कैङ्कर्ये स्वप्रीति-कारितत्वोक्तिः
नियोग-नैरपेक्ष्यम्, प्रीतेः प्रेरकत्वातिशयं च व्यनक्ति ।
कारित-शब्द इह
शेषतायां वा
तद्-एक-रतौ वा
शेष-वृत्तं प्रति प्रयोज्य-कर्तरि किङ्करे वा अन्वेतव्यः ।
अशेषावस्था-शब्देन
सेव्यस्य भगवतः परत्व-व्यूहत्वादयः,
सेवकस्य च मुक्तस्य स-देहत्व-विदेहत्वादि-रूपा
अवस्थाः सर्वा विवक्षिताः ।
शेषता अत्र शेषवृत्तिः ।
अभिमत-सर्व-शेष-वृत्तिषु +अभिघातम् अभिप्रेत्य अ-शेष-शब्दः ।
स्वामि-प्रीत्य्-अर्थत्वाविशेषेण परस्परैक-रस्यात्
परकृताऽपि शेष-वृत्तिः स्व-कृतेव भवतीति भावः ।+++(5)+++
ईश्वरस्य मुक्तस्य च स्वच्छन्दानेक-देह-परिग्रहेण वा
अनन्त-गरुडादि-वृत्ति-सजातीय-कैङ्कर्य-सिद्धिः ।
आत्मा आत्मीयं वा सर्वम् अ-शेष-शब्देनोच्यते;
तदा तस्य शेषता शेष-भाव एव ।
एवं विधायाम् अ-शेष-शेषतायाम् एव
रतिः - प्रीतिर् इच्छा वा
रूपम् - निरूपक-धर्मो यस्य
सः अशेष-शेषतैकरतिरूपः ।
नित्यकिङ्करो भवानि -
उत्तरावधि-रहित-कैङ्कर्य-साम्राज्यवान् भवेयम् इति भावः ।
आकिञ्चन्यम्
जीवेश्वर-गुणाः, प्राप्यम्
विषयः - यदुगिरिग्रन्थोक्तः
स्वगताकिञ्चन्य–अनन्य-गतित्व-चिन्तन-पूर्वकं
भगवच्-चरणारविन्द-शरणागतिः
विश्वास-प्रस्तुतिः
स्वात्म-
नित्य-नियाम्य-
नित्य-दास्यैक-रस+
आत्म-स्वभावानुसन्धान-पूर्वक–
भगवद्-अनवधिकातिशय-स्वाम्याद्य्-
अखिल-गुण-गणानुभव-जनित–
अनवधिकातिशय-प्रीति-कारित+
अशेषावस्थोचिताशेष-शेषतैक-रति-रूप-
नित्य-कैङ्कर्य-प्राप्ति-
हिन्दी - राघवः
भगवान् की नित्य नियाम्यता और दास्य भावना की एकरसता
जीवात्मा का स्वभाव है ।
इस स्वभाव के अनुसन्धान (चिन्तन) के साथ
भगवान् का इस प्रकार अनुभव होना चाहिये कि
उनके असीम एवं अतिशय स्वामित्व आदि गुण समूह का अनुभव
असीम अतिशय प्रीति का प्रदाता है ।
इस प्रीति द्वारा
मूलम्
स्वात्म-नित्यनियाम्य-नित्यदास्यैकरसात्मस्वभावानुसन्धानपूर्वकभगवदनवधिकातिशय-स्वाम्याद्यखिलगुणगणानुभवजनितअनवधिकातिशय-प्रीतिकारिताशेषावस्थोचिताशेषशेषतैकरतिरूपनित्यकैङ्कर्यप्राप्त्
वेङ्कट-नाथः
एवं न्यासोपासन-साधारणाधिकार-सिद्ध्यै
प्रथमं +++(द्वय-मन्त्रस्य)+++ फल-पर उत्तर-खण्डो विवृतः।
अथोपायपरं +++(द्वय-मन्त्रस्य)+++ पूर्व-खण्डं विवृण्वन्
तत्रोत्तम-पुरुष-विवक्षितम् आकिञ्चन्य-रूपं प्रपत्तेर् विशेषाधिकारम्,
कार्पण्य-रूपम् अङ्गं च व्यनक्ति -
स्वात्म-नित्य-नियाम्य इति ।
स्वात्म-शब्दो ऽनुसन्धातृ–स्व-रूप-परः ।
अत्र शेष-शेषि–तत्-कैङ्कर्य–चिन्तन-रसेन
तद्-अनुवृत्ति-वाञ्छया च
पूर्वोक्तस्यैव परम-पुरुषार्थस्य विस्तरेणानुवादः ।
नियाम्य-शब्दोऽत्र भाव-प्रधानः ।
अनवधिकातिशय-स्वाम्यम् अनवच्छिन्न-सर्व-विषय-स्वामित्वम् ।
आदि-शब्देन तथा-विध-नियन्तृत्वादि सङ्ग्रहः ।
ऐश्वर्यादि-फलान्तरात्, कादाचित्क-भगवत्-कैङ्कर्याच् च व्यावृत्यर्थं
नित्य-कैङ्कर्य-शब्दौ ।
उपायान्तराभावः
विश्वास-प्रस्तुतिः
उपाय-भूत-भक्ति–
तद्-उपाय-सम्यग्-ज्ञान–
तद्-उपाय-समीचीन-क्रिया–
तद्-अनुगुण-सात्त्विकताऽऽस्तिक्यादि–
समस्तात्म-गुण-विहीनः
हिन्दी - राघवः
समस्त अवस्थाओं के अनुरूप
परिपूर्ण शेषभावापन्न प्रीतियुक्त
नित्य कैंकर्य प्राप्त होता है।
ऐसे कैंकर्य की प्राप्ति का उपाय भक्ति है।
इसका साधन है सम्यक् ज्ञान । सम्यक् ज्ञान को प्राप्त करने का उपाय है समुचित क्रिया । यह क्रिया साधक में सात्विकता, आस्तिकता आदि समस्त आत्मगुणों के रहने पर ही सम्भव होती है। किन्तु मैं इन समस्त आत्मगुणों से रहित हूँ । १
मूलम्
उपायभूत-भक्ति-तदुपाय-सम्यग्ज्ञान-तदुपाय-समीचीन क्रिया-तदनुगुण-सात्त्विकताऽऽस्तिक्यादि-समस्तात्म-गुण-विहीनः
वेङ्कट-नाथः
उपायभूत इति च्वि-प्रत्यय-रहित-प्रयोगेण
मोक्ष-प्रदत्वं
भगवद्-भक्तेः स्व-भाव-प्राप्तम्
इति व्यज्यते ।
भक्ति-शब्द इह वेदान्तोदित-सपरिकर-भक्ति-योग-परः ।
ज्ञान-क्रिया-शब्दाभ्यां ज्ञान-कर्म-योगौ विवक्षितौ;
तयोः सम्यक्त्वं यथावस्थित-सकलाङ्गोपसंहारवत्वम् ।
ज्ञान-योगम् अन्तरेणापि
कर्म-योगेनैवात्मावलोकन-पूर्वक–भक्ति-योगाधिकारारोहणस्य (भगवद्-गीता-भाष्य ३-१९) प्रपञ्चितस्य
+अधिकारि-विशेष-नियततया तद्-अनादरेणात्र
स्वारसिक+++(←स्वरस)+++-क्रम-निर्देशः ।+++(4)+++
सात्विकता ‘नित्य सत्त्वस्थः’ (भ.गी. २-४५) इत्य्-उक्त-सत्त्व-निष्ठता;
तस्याः फलम् आस्तिक्यादि-गुण-जातम् ,
अवस्था-भेदेन तस्या हेतुश् च ।
‘अमानित्वमदम्भित्वम्’, (भ.गी. १३-७)
‘दया सर्वेषु भूतेषु’(वि.पु.३-८-५३)
इत्य्-आद्य्-उक्तात्मगुणान्तर सङ्ग्रहाय समस्त-शब्दः ।
प्रपत्त्य्-अपेक्षित-ज्ञान-विश्वासादेस् त्व् इह न प्रतिषेधः ।
एवम् उपायान्तर-तद्-उपाय-परम्पर-हानिर् उक्ता ।
पापानि
विश्वास-प्रस्तुतिः
दुर्-उत्तरानन्त–
तद्+++(=सम्यग्-ज्ञान-क्रिया-गुण)+++-विपर्यय-ज्ञान-क्रियानुगुण+
+अनादि-पाप-वासना-महार्णवान्तर्-निमग्नः;
हिन्दी - राघवः
इसके अतिरिक्त विपरीत ज्ञान, क्रिया एवं आत्मगुणों के कारण अनादि वासना के पार जाने में अत्यन्त दुस्तर अनन्त महासागर में डूबा हुआ हूँ । २ ( २२ )
मूलम्
दुरुत्तरानन्त-तद्विपर्ययज्ञानक्रियानुगुणानादि-पापवासना-महार्णवान्तर्निमग्नः;
वेङ्कट-नाथः
अथ पूर्वं पश्चाच् च उपाय-प्रतिबन्धकापाय-परम्परान्वयम् आह - दुरुत्तर इति ।
दुरुत्तरत्वं भगवत्-सङ्कल्पम् अन्तरेण
सनकादिभिर् अपि लङ्घयितुम् अशक्यत्वम् ।
तच्-छब्देन पूर्वोक्त-सम्यग्-ज्ञानादि-परामर्शः ।
विपर्यय-शब्दोऽत्र विपरीत-परः;
स च ज्ञानादिषु त्रिष्व् अन्वीयते ।
त्रयाणां हेतुः पापवासना ।
बीजाङ्कुरन्याय सूचनाय अनादि-शब्दः ।
पापानां वासना सजातीय-पापान्तरारम्भ-रुचि-हेतु-भूतः स्व-भाव–विशेषः ।
षड्-ऊर्मि-सङ्कुलत्वादि-विवक्षया महार्णवत्व-रूपणम् ।
प्रकाश-तिरोधानम्
विश्वास-प्रस्तुतिः
तिल-तैलवद्–दारु-वह्निवद्–
दुर्विवेच-त्रिगुण–
क्षण-क्षरण-स्वभाव+
+अचेतन-प्रकृति–व्याप्ति-रूप–
दुर्-अत्यय–भगवन्-माया–
तिरोहित–+++(देव-शिषत्वादि-)+++स्व-प्रकाशः ;
हिन्दी - राघवः
जिस प्रकार तिलमें तेल और काष्ठ में अग्नि स्थित है उसी प्रकार आत्मा प्रकृति में स्थित है । इस प्रकृति का विश्लेषण करना अत्यन्त कठिन है। इसमें सत्व, रज और तम तीनों गुणों की स्थिति है। प्रतिक्षण क्षरण का होते रहना इसका स्वभाव है । यह अचेतन है । यह भगवान् की दुरत्यया ( दुर्लंघ्य ) माया है । इसी के सम्बन्ध से मेरा स्वभाविक ज्ञान का प्रकाश तिरोहित हो गया है । ३
मूलम्
तिलतैलवद्दारुवह्निवद्दुर्विवेचत्रिगुण-क्षणक्षरण-स्वभाव अचेतन-प्रकृति-व्याप्तिरूप-दुरत्यय-भगवन्माया तिरोहित-स्वप्रकाशः ;
वेङ्कट-नाथः
एवं-विधस्य पापस्य
+आत्मतिरोधायकत्व-प्रकारम् आह - तिलतैलवत् इति ।
दृष्टान्त-द्वयेन
‘दारूण्य् अग्निर्, यथा तैलं
तिले तद्वत् पुमान् अपि ।
प्रधानेऽवस्थितो व्यापी’
(वि.पु.२-७-२८)
इति वचनं स्मार्यते ।
अल्पश्रुतैः पृथक् ज्ञातुम्,
अयोगिभिः पृथक् द्रष्टुम्,
अनीश्वरैः पृथक् कर्तुं च
+अशक्यतया दुर्विवेचत्वोक्तिः ।
चतुर्दशाध्यायोक्त-गुण-त्रय-बन्धकत्व-प्रकार-ज्ञापनाय त्रि-गुण-शब्दः ।
अनुकूल-परिणतेः क्षणम् अपि व्यवस्थापयितुम् अशक्यत्वम् अभिप्रेत्याह -
क्षणक्षरणस्वभाव इति ।
‘अचेतना परार्था च
नित्या सततविक्रिया ।
त्रिगुणा कर्मिणां क्षेत्रं
प्रकृते रूपम् उच्यते ॥‘व्याप्तिरूपेण सम्बन्धस्
तस्याश्च पुरुषस्य च ।
स ह्यनादिर् अनन्तश् च
परमार्थेन निश्चितः’ ॥
(परम.सं.२)
इति परम-संहितोक्तम् अचेतन-प्रकृति-व्याप्ति-शब्दैर् दर्शितम् ।
प्रकृतौ व्याप्तिः अनुप्रवेशः;
प्रकृतेर् व्याप्तिः सर्वतः सम्बन्धः ।
अत्र तस्या इव तत्-सम्बन्धस्यापि विचित्र-सृष्ट्य्-उपयोगित्वाविशेषात् मायात्वोक्तिः ।
दुर्-अत्यय-भगवन्-माया इत्यनेन
‘मम माया दुरत्यया’ (भ.गी. ७ - १४) इति पद-त्रय-सूचनम् ।
यद्य् अप्य् आत्म-स्वरूपं नित्य-स्व-प्रकाशम्;
तथाऽपि तस्य भगवच्-छेषत्वादि–विशिष्टाकार-गोचर-धर्म-भूत-ज्ञान-निरोधम् अभिप्रेत्य
तिरोहित-स्व-प्रकाश इत्युक्तम् ।
स्व-स्वरूप-तिरोधान-वचनेन
‘भगवत्-स्वरूप-तिरोधान-करीम्’ (श.ग.) इत्य्-आद्य्-उक्तम् अप्य् उपलक्ष्यते ।
विश्वास-प्रस्तुतिः
अनाद्य्-अविद्या-सञ्चित-
अनन्ताशक्य-विस्रंसन–कर्म-पाश-प्रग्रथितः,
हिन्दी - राघवः
मैं अनादि अविद्या द्वारा संचित
अनन्त एवं अटूट कर्मपाश से जकड़ा हुआ हूँ । ४
मूलम्
अनाद्यविद्या-सञ्चित-अनन्ताशक्य-विस्रंसन-कर्मपाश-प्रग्रथितः,
वेङ्कट-नाथः
प्रकृतेस् तिरोधायकत्वं कर्मोपाधिकम् ।
कर्म च भोगैस् तत्-तत्-प्रतिपदोक्त-प्रायश्चित्तैर् वा
निश्शेषयितुम् अशक्यम् इत्य् अभिप्रायेणाह - अनाद्यविद्या इति ।
अत्र अविद्या-शब्देनाज्ञानं देहात्म-भ्रमादिकं च गृह्यते,
तस्याश्च कर्म-हेतुत्वं राग-द्वेष-द्वारा ।
‘यद्ब्रह्मकल्प’ (वै.स्त.६२) इत्य्-आद्य्-उक्त-प्रक्रियया
अनाद्य्-अविद्या-सञ्चितत्वेन आनन्त्यात्,
प्रत्येकं प्राबल्याच् च भगवद्-व्यतिरिक्तैर् अ-शक्य-विस्रंसनत्वम्।
‘पशवः पाशिताः पूर्वं
परमेण स्वलीलया ।
तेनैव मोचनीयास् ते
नान्यैर् मोचयितुं क्षमाः’ ॥
(श्रीवि.त.१-२-१०)
इत्य्-आद्युक्त-सूचनाय
कर्मणः पाशत्व-रूपणम् ।
प्रग्रथितः दृढं निबद्धः;
‘नाभुक्तं क्षीयते कर्म’ (ब्र.वै. २६ - ७०) इति हि स्मर्यते।
निगमनम्
विश्वास-प्रस्तुतिः
अनागतानन्तकाल-समीक्षयाऽपि +अ-दृष्ट-सन्तारोपायः,
हिन्दी - राघवः
भावी अनन्तकाल की प्रतीक्षा करने पर भी मुझे अपने उद्धार का कोई उपाय नहीं दिखाई देता ।
मूलम्
अनागतानन्तकाल-समीक्षयाऽपि +अदृष्टसन्तारोपायः,
वेङ्कट-नाथः
उक्त-प्रतिबन्धक-भूयस्त्वात्
‘त्वत्-पाद-कमलाद् अन्यत्’ (जि.स्तो.१-१०) इत्य्-आद्य्-उक्त-प्रकारेण
कालान्तरे ऽप्य् उपायान्तर-सम्भावनां प्राङ्-न्यायेन प्रतिषेधति - अनागत इति ।
प्रपत्तिः
विश्वास-प्रस्तुतिः
निखिल-जन्तु-जात-शरण्य !
श्रीमन् ! नारायण!
तव चरणारविन्द-युगलं शरणम् अहं प्रपद्ये ॥ २ ॥
हिन्दी - राघवः
इसलिये जीवमात्र को शरण देने वाले श्रीमन्नारायण ! मैं आपके युगल चरणकमलों की शरण ग्रहण करता हूँ ॥ २ ॥
मूलम्
निखिलजन्तुजातशरण्य ! श्रीमन् ! नारायण! तव चरणारविन्दयुगलं शरणमहं प्रपद्ये ॥ २ ॥
वेङ्कट-नाथः
वक्ष्यमाण-श्रीमत्त्व-नारायणत्वाभ्यां फलितम्
‘सर्वस्य शरणं सुहृत्’ (श्वे.उ.३-१७)
‘देवानां दानवानां च’ (जि.स्तो.१-२)
‘सर्वलोकशरण्याय’ (रा.यु.१७-१५)
‘विभीषणो वा सुग्रीवो (धर्मात्मा)
यदि वा रावणः स्वयम्’ (रा.यु.१८३५)
इत्य्-आदि-प्रसिद्धं स्व-सङ्ग्रहोपयुक्तं स्वभावमाह निखिलजन्तुजातशरण्य इति ।
हिरण्य-गर्भादीनाम् अपि सङ्ग्रहाय निखिल-शब्दः;
तेऽपि हि कर्माधीन-जन्म-भागितया जन्तवः ।
‘पशुर् मनुष्यः पक्षी वा
ये च वैष्णवसंश्रयाः ।
तेनैव ते प्रयास्यन्ति
तद्विष्णोः परमं पदम्’ ॥
(शां. स्मृ. १-१५)
‘एतन्-निष्ठस्य मर्त्यस्य
मुक्तिर् हस्तस्थिता सदा ।
तत्-सम्बन्धिन एवापि
मुक्तिम् एष्यन्ति वै ध्रुवम्’ ॥
(भा.स्मृ.)
इत्य्-आद्य्-अर्थम् अभिप्रेत्य जात-शब्दः ।
स च +अत्र गुणप्रधानतया अन्वित-व्रात-परः ।
+++(द्वय-मन्त्रस्य)+++ पूर्व-खण्ड-पद-क्रमानुसारेण श्रीमद् इत्य्-आदीनि पदानि ।
श्रीमत्-शब्देन
‘लक्ष्म्या सह हृषीकेशः’ (ल.तं.२८-१४) इत्याद्युक्तं सूच्यते ।
सर्व-शरण्यत्वौपयिक-सम्बन्ध-गुण-विशेषादि-प्रदर्शनाय
नारायण-शब्दः ।
+++(स्तम्भवत्)+++ कृपोत्तम्भकत्वातिशयाद् औचित्याच् च चरण-ग्रहणम् ।
उपाय-दशायाम् अपि
भोग्यत्व-सूचनाय +अरविन्दत्व-रूपणम् ।
शरण-शब्दः इहोपायपरः ।
उत्तम-पुरुष-विवक्षिताधिकारि-विशेष-व्यञ्जनाय अहं-शब्दः।
अधिकार-विरहाद् उपायान्तरेषु निराशः,
प्रत्यवाय-भयाद् इदानीम् अपायेभ्य उपरतः,
शरण्य-गुण-विवेकाद् अतिशङ्का-निर्मुक्तः,
संसारे दोष-दर्शनात् परित्यक्त-प्रयोजनान्तर–तद्-उपायः,
परम-पुरुषार्थ-सङ्गात् प्रार्थनान्वित-भर-न्यासोद्यतश् चेति भावः ।
शरणं प्रपद्ये - उपायतया आश्रयामि।
“अकिञ्चनो ऽनन्य-गतिर् अहं
श्रीमति नारायणे
स्वात्मरक्षाभरं निक्षिपामी"त्य् उक्तं भवति ।
अत्र स-विशेषण-नारायण-शब्देन
विरोधि-भूयस्त्व–प्राप्य-गौरव-+उपाय-लाघवादि-मूल-शङ्का-निरास-हेतवः
शरण्याकारा विवक्षिताः ॥
विषयः - यदुगिरिग्रन्थोक्तः
शरण्ये भगवति महाविश्वासपूर्वकं नित्यकिङ्करतालाभप्रार्थना
महाविश्वासः
विश्वास-प्रस्तुतिः
एवम् अवस्थितस्याऽपि,
अर्थित्व-मात्रेण परम-कारुणिको भगवान्
स्वानुभव-प्रीत्या
+उपनीतैकान्तिकात्यन्तिक-नित्य-कैङ्कर्यैक-रति-रूप–नित्यदास्यं
दास्यतीति+++(5)+++
विश्वास-पूर्वकं; भगवन्तं नित्य-किङ्करतां प्रार्थये ॥ ३ ॥
हिन्दी - राघवः
ऐसी दशा स्थित होने पर भी प्रार्थना करने मात्र से परम कारुणिक भगवान् अपने अनुभव से प्रकट हुई प्रीति के ( २३ ) द्वारा उत्पादित ऐकान्तिक आत्यन्तिक नित्य कैंकर्य बिषयक एकमात्र अनुराग स्वरूप नित्य दास्य प्रदान करेंगे ही इस विश्वास के साथ भगवान् से नित्य किंकरता की याचना करता हूँ ॥३॥
मूलम्
एवमवस्थितस्याऽपि अर्थित्वमात्रेण परमकारुणिको भगवान् स्वानुभवप्रीत्योपनीत ऐकान्तिकात्यन्तिक नित्यकैङ्कर्यरतिरूप नित्यदास्यं दास्यतीति विश्वासपूर्वकं भगवन्तं नित्यकिङ्करतां प्रार्थये ।
वेङ्कट-नाथः
अथ तत्-फलितं सोपसर्ग-धातूक्तम्
‘रक्षिष्यतीति विश्वासाद् अभीष्टोपाय कल्पनम्’ (ल.तं.१७-७७)
‘गोप्तृत्व-वरणं नाम स्वाभिप्राय-निवेदनम्’ (ल.तं. १७-७८)
इति विभज्य निर्दिष्टम् अङ्ग-द्वयम्
‘प्रार्थना-मात्र-सन्तुष्टो
जन्तोर् यच्छति वाञ्छितम् ।
इति निश्चित्य भगवत्-
प्रार्थना शरणागतिः’ ॥
(अहि.सं.) ।
इत्य् उक्त-प्रकार-विशेषोपलक्षित-प्रकारि-वैशिष्ट्याभिप्रायेणाह - एवम् इति ।
एवम् अवस्थितस्य इत्य् अनेन
अधिकार-वैगुण्यं विरोधि-भूयस्त्वं च
पूर्व-वाक्योक्तम् एव शरण्य-गुण-प्रकर्ष-व्यञ्जनायानूदितम् ।
अर्थित्व-मात्रेण +इति उपाय-लाघवोक्तिः;
अ-हृदय-प्रार्थना-वाक्य-मात्रम् अपि,
‘नेहाभिक्रम-नाशोऽस्ति’ (भ.गी. २-४०) इति न्यायात्
अन्ततः कार्य-करम् इति भावः ।+++(4)+++
अथवा, अत्र सकृत्-कर्तव्य-भर-न्यास-लक्षणतया
सद्यः स्वाभीष्ट-सिद्धिः ।
स्वानुभव-प्रीति इत्यादिना प्राप्य-गौरव-प्रकाशनम् ।
उक्तैर् हेतुभिः सम्भवन्तीं शङ्काम् अपाकर्तुं
परम-कारुणिको भगवान् इति
सुलभत्व-परत्व-सूचक-पद-द्वयोक्तिः;
ईदृशस्य हि सर्व-विधि-निवर्तनार्हता ।
समर्थस्य निर्दयत्वे, दयालोश् चासमर्थत्वे - शरण्यत्वं न स्याद्
इति तत्-सिद्ध्य्-अर्थम् उभयोक्तिः ।
स्वानुभव इत्यत्र स्व-शब्दः परमात्मविषयः ।
ऐकान्तिकत्वम् अनन्य-विषयत्वम् ।
आत्यन्तिकत्वम् इह
फलान्तरोपाधिक-निवृत्ति-रहितत्वम्,
अत एव पश्चाद् यावत्-कालम् अनुवर्तमानत्वं वा ।
दास्य-किङ्करता-शब्दाव् इह वृत्ति-परौ ।
रति-शब्देन विश्वासस्य महत्त्व-रूप-प्रकारो ऽभिप्रेतः ।
प्रार्थना-शब्दस्य इच्छा-मात्रे ऽपि प्रयोग-सम्भवात्
तद्-व्यावृत्त्य्-अर्थं
‘तद्-एकोपायता याञ्चा’ (भरतमुनि-वाक्यम्)
इत्य्-उक्त-याचन-रूपत्वं व्यञ्जयितुं द्वि-कर्मक-प्रयोगः ।
सर्वस्य प्रार्थित-प्रदान-सामर्थ्यम्,
कैङ्कर्य-प्रतिसम्बन्धिनस् तस्योभय-लिङ्गत्वं च ज्ञापयितुं
भगवन्तम् इत्युक्तम् ।
अस्मिन् वाक्ये प्रातिकूल्य-वर्जनस्य आनुकूल्य-सङ्कल्पस्य च
अर्थ-सिद्धत्वम् अवगन्तव्यम् ।+++(4)+++
विषयः - यदुगिरिग्रन्थोक्तः
भगवद्-अनुभव-कारित-प्रीति-जन्य-दास्यादिकानुग्रह-प्रार्थना
प्रार्थना
विश्वास-प्रस्तुतिः
तवाऽनुभूति-सम्भूत-
प्रीति-कारित-दासताम् ।
देहि मे कृपया नाथ !
न जाने गतिम् अन्यथा ॥ ४ ॥
हिन्दी - राघवः
नाथ ! आपके स्वरूप के अनुभव से प्रकट हुई प्रीति द्वारा उत्पादित दास्यभाव मुझे कृपया प्रदान करें। इसके अतिरिक्त मेरी अन्य गति नहीं है ॥४॥
मूलम्
तवाऽनुभूति-सम्भूत-प्रीति-कारित-दासताम् । देहि मे कृपया नाथ ! न जाने गतिमन्यथा ॥ ४ ॥
वेङ्कट-नाथः
उक्त-प्रकार-साध्य-साधन-रूपम् अर्थ-द्वयं
व्याख्येय-क्रमेण सुख-प्रतिपत्त्य्-अर्थम्
ऐतिहासिक-श्लोक-द्वयेन स्व-वाक्यायमानेन सङ्क्षिप्याह - तव इति ।
यद्य् अपि प्रथम-श्लोकेऽपि पूर्वार्धे फलम् उपादीयते,
तथाऽप्य् असौ देहि इत्युक्त-प्रार्थना प्राधान्याद् उपाय-परः ।
अत्र दासता-शब्देन दास-वृत्तिर् विवक्षिता,
दास-भाव-मात्रस्य च
नित्य-सिद्धत्वेन साध्यत्वायोगात् ।+++(4)+++
मे अनन्यप्रयोजनस्य अनन्योपायस्य च ।
कृपया नाथ इति पदाभ्यां गुण-विशेष–सम्बन्ध-विशेष-विशिष्टस्योपायभाव इति व्यज्यते;
नाथ-शब्दो हि
नाथ्यते इति व्युत्पत्या
रक्षणार्थं प्रार्थनीये स्वामिनि रूढः ।
न जाने गतिमन्यथा इति -
उक्तप्रकारात् प्रपत्ति-मात्र-वशीकार्यात् त्वत्तो ऽन्यथा-भूतं
मद्-अर्हम् उपायं सर्व-शास्त्र-परामर्शेऽपि
न पश्यामि,
देवतान्तराणां साक्षात् मोक्ष-प्रदत्वाभावात्+++(4)+++
मोक्षोपायतया चोदितस्य त्वद्-उपासनस्य
मया दुःसाधत्वाद् इति भावः ।
यद् वा,
अन्यथा इति +अनेन त्वय्य् अदातरीति विवक्षितम् ॥
विश्वास-प्रस्तुतिः
सर्वावस्थोचिताशेष-
शेषतैकरतिस् तव ।
भवेयं पुण्डरीकाक्ष !
त्वम् एवैवं कुरुष्व ! माम् ॥ ५ ॥
हिन्दी - राघवः
पुण्डरीकाक्ष ! मैं सभी अवस्थाओं में उचित सम्पूर्ण शेषभावविषयक अनन्य प्रीति से युक्त होऊँ । आप मुझे ऐसा ही बनाइये ॥५॥
मूलम्
सर्वावस्थोचिताशेष-शेषतैकरतिस्तव । भवेयं पुण्डरीकाक्ष ! त्वमेवैवं कुरुष्व ! माम् ॥ ५ ॥
वेङ्कट-नाथः
एवं प्रार्थिते कैङ्कर्य-रूपे पुरुषार्थे
प्रीति-शब्दोक्तं हेत्वंशं विशिंषन्,+++(5)+++
स्वाभीष्ट-प्रदाने स्व-प्रयत्नान्तर-नैरपेक्ष्यं च अपेक्षते - सर्व इति ।
सर्वावस्था-शब्द-शेषता-शब्दौ पूर्वोक्तार्थौ ।
तत्-तद्-दशायां स्वाम्य्-अभिमत-प्रकार उचित-शब्दः ।
‘जायमानं हि पुरुषम्’ (म.भा.शां.३५८-७३)
‘कृपामयम् अपाङ्गं ते
सकृन्मयि निपातय’
(वि.ध.)
इत्य्-आद्य्-उक्तेन
सत्त्वोन्मेष-हेतुना कटाक्ष-विशेषेण
माम् एवं कुरुष्वेत्य् अभिप्रायेणोक्तम्
पुण्डरीकाक्ष इति ।
यद्वा ‘पुण्डरीकं परं धाम’ (म.भा.शां.६९-६)
इत्य्-आदि-निरुक्तेनानेन नाम्ना
परम-पद-वासिनः परिचरणं प्राथ्र्यत
इति सूच्यते ।
त्वद्-इतराशक्ये अस्मिन्न् अर्थे
त्वयि च निरपेक्षोपाये
किमीदृश-भरन्यास-रूपम् अव्याजातिरिक्त-मत्-प्रयत्नेनेत्य् अभिप्रायेणाह -
त्वमेव इति ।
त्वम् - सर्वज्ञः सर्वशक्तिः परम-कारुणिकः ।
माम् - आकिञ्चन्यानन्यगतित्वार्थित्वशालिनम् ।
ञितोर् धात्वोर् इह देहि कुरुष्व
इति परस्मै-पदात्मनेपदाभ्यां
स्वस्य भगवतश् च
यथार्ह-क्रिया-फलान्वयः सूच्यते ।
वैगुण्य-क्षमा
विषयः - यदुगिरिग्रन्थोक्तः
भगवति नमनीयता-चिन्तन-पूर्वकं स्वाभाविकं नमनम्
विश्वास-प्रस्तुतिः
एवम्-भूत-तत्त्व-याथात्म्यावबोध–तद्+++(=अवबोध)+++-इच्छा-रहितस्यापि,
एतद्+++(=उपायोपेय)+++-उच्चारण-मात्रावलम्बनेन;
उच्यमानार्थ+++(=उपायोपेय)+++-परमार्थ-निष्ठं मे मनस्
त्वम् एवाद्यैव कारय! ॥ ६ ॥
हिन्दी - राघवः
इस प्रकार तत्त्वसाक्षात्कार एवं इसकी जिज्ञासा से रहित मेरे मन को
इस शरणागति के उच्चारण मात्र से ही आप ( २४ ) आज ही उच्यमान अर्थ के परमार्थ ( उपाय और उपेय के अनुभव) से सम्पन्न बना दीजिये ॥६॥
मूलम्
एवम्भूततत्त्वयाथात्म्यावबोध-तदिच्छारहितस्यापि, एतदुच्चारणमात्रावलम्बनेन; उच्यमानार्थ-परमार्थनिष्ठं मे मनः त्वमेवाद्यैव कारय! ॥ ६ ॥
वेङ्कट-नाथः
नन्व् इह
शरण्य-शरणागति–तत्-फल-विशेष-निर्धारण-पूर्विका
फल-कामना हि
अधिकारि-विशेषणम्।
न पुनस् तद्वत +++(अधिकारिण)+++ इव
तथा-विध+++(=अधिकारि)+++–तद्+++(=लक्षण)+++-वचन-मात्रम् इत्य्-अत्र
‘अनिच्छन्न् अप्य् एवम्’(स्तो. इ. ५९)
इति श्लोकोक्त-प्रकारेण स-प्रश्रयं प्रतिवक्ति - एवम्भूत इति ।
तद्-इच्छा इति इच्छा-विषयत्वेन परामृश्यमानार्थत्वात्
तत्त्व-शब्द इह पुरुषार्थपरः,
पुरुषार्थ-विशेष-निष्कर्षाय जीवात्मप-रमात्म-तत्त्वपरो वा ।
अवबोध इच्छा वा तद्-इच्छा इत्य् उच्यते -
तदा पुरुषार्थेच्छा-विरहः कैमुत्यात् सिद्ध्यति ।
श्रियः पत्युस् तव प्रसादाद्
अद्य साधिकारो ऽस्मि,
निरधिकारत्वेऽपि लब्ध-व्याजेन त्वया शेष-पूरणं कार्यम्
इति द्योतयितुम् अपि-शब्दः ।
एवम् अधिकार-वैकल्यं, अङ्ग-वैकल्यं, अङ्गि-वैकल्यं च
अन्वारुह्योक्तम् उच्चारण-मात्रा इति ।
वैषम्य-दोष-प्रसङ्ग-परिहार-हेतुस्
तव सिद्ध
इत्य् अभिप्रायेण अवलम्बन-शब्दः ।
उच्यमानार्थः उपायोपेय-रूपः ।
एतत्-शब्दोऽप्य् अत्र तद्-विषयः ।
+++(तयोर् उपायोपेययोर्)+++ अन्यतर-विषयत्वेऽपि तद्-इतरस्यार्थात् सिद्धिः ।
परमार्थ-निष्ठत्वम् अज्ञान-संशय-विपर्यय-रहित-व्यवसायानुवृत्तिमत्त्वम् ।
मे -
‘सकृदुच्चारो भवति’
(द्वयोपनिषत्)
‘सकृदुच्चरितं येन’ (वि.ध. ७०-८४),
‘भव शरणम् इतीरयन्ति ये वै’
(वि.पु. ३-७-३३)
इत्य्-आद्य्-उक्त–वचन-मात्र-धनस्य त्वद्-आयत्त-सर्व-सिद्धेः
मनः -
‘चञ्चलं हि मनः कृष्ण!’ (भ.गी.६-३४)
‘मनो दुर्निग्रहं चलम्’ (भ.गी. ६-३५)
‘बन्धाय विषयासङ्गि’ (वि.पु. ६-७-२८)
इत्य्-आद्य्-उक्त दोषम् अपि
हृषीकेशेन त्वया अनुगृहीतानां सम्यङ्-मनन-साधनम् ।
शरण्यस्यापेक्षणीयान्तराभावम्,
आत्मनस् त्वरातिशयं च
व्यनक्ति त्वम् एवाद्यैव इति ।
कारय इत्यनेन
प्रपत्ताव् अपि
स्वस्य प्रयोज्य-कर्तृत्वम्
अध्यात्म-शास्त्रैर् आचार्य-मुखेनान्तर्यामितया च
भगवतः प्रयोजककर्तृत्त्वं च प्रकाश्यते ।
अ-विकल-प्रपत्ति-प्रयोगस्यापि भाष्यकारस्येदं वाक्यं
विकल-प्रयोगाणाम् अन्येषाम् अपि
शरण्यानुकम्पया क्षिप्रम् उपाय-पूर्तिः स्याद्
इति ख्यापनार्थम् ।
नतिः
विश्वास-प्रस्तुतिः
अपारकरुणाम्बुधे ! अनालोचित-विशेषाशेष-लोक-शरण्य !
प्रणतार्तिहर! आश्रित-वात्सल्यैक-महोदधे !
अनवरत-विदित-निखिल-भूत-जात-याथात्म्य !
सत्य-काम! सत्य-सङ्कल्प ! आपत्-सख !
काकुत्स्थ !
श्रीमन् ! नारायण ! पुरुषोत्तम !
श्रीरङ्गनाथ ! मम नाथ !
नमोऽस्तु ते ॥ ७ ॥
इति श्रीभगवद्रामानुजविरचितं श्रीरङ्गद्यं सम्पूर्णम् ॥
हिन्दी - राघवः
अपार करुणा के सागर, व्यक्ति विशेष का विचार किये बिना ही सम्पूर्ण जगत को शरण देने वाले शरण्य, शरणागत के दुःखों को दूर करने वाले, शरणागतवत्सलता के एक मात्र महा समुद्र, सम्पूर्ण भूतों के यथार्थ स्वरूप का निरन्तर ज्ञान रखने वाले, सत्य काम, सत्य संकल्प, विपत्ति के एकमात्र सखा, ककुत्स्थ कुल के गौरव, श्रीमन् नारायण, पुरुषोत्तम श्रीरङ्गनाथ ! मेरे नाथ ! मैं आपकी शरण हूँ ।
[ शरणागति को आप स्वीकार करें । अथवा सर्वत्र कैंकर्य प्रदान करें । ऐसा ही हो] ॥७॥
मूलम्
अपारकरुणाम्बुधे ! अनालोचितविशेषाशेषलोकशरण्य ! प्रणतार्तिहर! आश्रितवात्सल्यैकमहोदधे ! अनवरतविदित-निखिल-भूतजात-याथात्म्य ! सत्यकाम! सत्यसङ्कल्प ! आपत्सख ! काकुत्स्थ ! श्रीमन् ! नारायण ! पुरुषोत्तम ! श्रीरङ्गनाथ ! मम नाथ ! नमोऽस्तु ते ॥ ७ ॥
इति श्रीभगवद्रामानुजविरचितं श्रीरङ्गद्यं सम्पूर्णम् ॥
वेङ्कट-नाथः
अथाधिकारोपाय-फलप्रदानेषु यथार्हम् उपयुक्तान् भगवतः प्रकारान् वदन्,
प्रथमं सर्वोपयोगि-गुण-विशेष-प्रकर्षम् आह - अपार इति ।
स्वस्मिन्न् अपि व्याप्तिम् अभिप्रेत्य
अपारत्वोक्तिः ।
तत्-फलितं
स्वेनाप्य् आश्रयणीयत्वम् अभिप्रेत्याह - अनालोचित इति -
जाति-गुणादि-निकर्षानादरेण सर्वैः शरण्यतया वरणीयेत्यर्थः ।
अनेन प्रपत्तेः सर्वाधिकारत्वं दर्शितम् ।+++(4)+++
कारुणिकोऽपि यदि विषमः स्यात्,
समोऽपि यदि निर्घृणः स्यात्,
न तदा सर्व-शरण्यः स्याद् इति तदर्थम् उभयोक्तिः ।
शरणागति-समनन्तर-लक्षणीयौ गुणाव् आह - प्रणतार्तिहर! आश्रित-वात्सल्यैक-महोदधे ! इति ।
प्रणताः इह प्रकृष्ट-प्रह्वी-भाव-युक्ताः प्रपन्नाः,
तेषां तत्-तद्-अभिमतालाभ-निमित्ताम् आर्तिं हरतीति प्रणतार्तिहरः ।
अनेन तु प्रपत्तेः सकल-फल-प्रदत्वं च सूच्यते ।
प्रणत-शब्दस्य प्रह्वी-भाव-मात्र-परत्वे
तद्-आर्ति-हरणाद् अल्प-प्रयत्न-प्रसाद्यत्वं प्रकाश्यते ।
वात्सल्येन गुणान्तर-तिरस्कारम् अभिप्रेत्य एक-शब्दः,
येन सर्वज्ञोऽप्य् अविज्ञातेव, स्व-तन्त्रो ऽप्य् अस्वतन्त्र इव स्यात् ।+++(5)+++
कारुण्यादि-सद्भावे ऽप्य् अज्ञस्यापूर्णस्याशक्तस्य च
निरपेक्ष-रक्षकत्वं न स्यात्,
अतस् तत्-सिद्ध्य्-अर्थं
गुण-त्रयम् अनवरत इत्य्-आदिभिर् उच्यते ।
अनवरत-निखिल-शब्दाभ्यां ज्ञानस्य कालतो विषयतश् च निःसङ्कोचत्वोक्तिः;
मम अनिष्ट-निवर्तनेष्टप्रापणोपयोगिष्व् अधिकारादिषु किञ्चिद् अपि कदाचिद् अपि
तवाज्ञातं नास्तीति भावः ।
न च तव मादृशाकिञ्चन-परित्याग-हेतु-भूत-प्रत्युपकार-पूर्वोपकारादि-प्रयोजनान्तर-सापेक्षत्वं
गुण-वैकल्यं वा
कदाचिद् अप्य् अस्ति;
अतो मद्-रक्षणेन स्व-गुणान् संरक्ष
+इत्य् अभिप्रायेणाह - सत्यकाम इति -
नित्य-भोग्यानन्त-कल्याण-गुणादि-विशिष्टेत्य् अर्थः ।
सङ्कल्प-मात्र-साधित-जगत्-सृष्ट्य्-आदेस् तव
मद्-रक्षणेऽपि न हि सङ्कल्पाद् अतिरिक्तं सम्पादनीयम्
इत्य् अभिप्रायेणाह सत्यसङ्कल्प इति ।
अमोघ-सङ्कल्पेत्य् अर्थः ।
त्वयैव ख्यापितं प्रपन्न-विषयं त्वद्-व्रतं
न कैश्चिदपि प्रतिहन्तुं शक्यम् इति भावः ।
उक्त-गुण-वर्ग-हेतुक-द्रौपदी-गजेन्द्रादि-संरक्षण-प्रकारं
तद्वत् स्वस्याप्य् आपत्-प्रशमनायोद्घाटयति -
आपत्सख इति ।
आपदि सखा भवतीति आपत्सखः;
सखेव प्रीति-विश्वास-गोचरः संरक्षकश् चेति भावः ।
तद् एतत् निषाद-वानर-राक्षस–सर्व-जाति-सुलभे
सकृत्-प्रपन्न-संरक्षण-व्रतिनि
सर्व-लोक-शरण्ये
विषय-वास-मात्र संरक्षित-जङ्गम-स्थावर-जन्तु-जाते अवतार-विशेषे
सु-व्यक्तम् इत्य् अभिप्रायेणाह - काकुत्स्थ इति ।
अनेन ‘वधार्हम् अपि काकुत्स्थः कृपया पर्यपालयत्’ (रा.सुं.३८-३४) इत्यादिवाक्यमपि स्मार्यते ।
अस्य सापराधेष्व् अप्य् आश्रितेषु
निग्रहोष्मलता-निवारिकया सह-धर्म-चारिण्या नित्य-योगमाह - श्रीमन् इति ।+++(5)+++
परहितेष्व् अपि स्वार्थ-प्रवृत्त्य्-अनुगुण-सम्बन्धादि-विशेषं व्यनक्ति - नारायण इति ।
इदं च पद-द्वयं व्याख्येय-गत-विशिष्ट-सिद्धोपायोपेय-प्रकाशकम् ।
नारायण-शब्द-वाच्य–जगत्-सम्बन्धादि-शङ्कित-दोष-निवृत्त्यर्थं
पञ्च-दशाध्यायोक्तं काष्ठा-प्राप्तं परत्व-रूपं वैलक्षण्यं समाख्याति - पुरुषोत्तम इति ।
पुरु सनोतीति पुरुष-शब्द-व्युत्त्पत्त्या बहु-प्रदेषूत्तमत्वं वा विवक्षितम् -
स्वाश्रितेभ्यः स्वात्मानम् अपि स-विभूतिकं ददातीति ।+++(4)+++
सर्वापेक्षित–साधक-सेवानुगुणां सौलभ्य-काष्ठां सूचयति -
श्री-रङ्गनाथ इति ।
उक्तं च +अर्चावतारं प्रस्तुत्य
भगवता शौनकेन
‘ताम् अर्चयेत् तां प्रणमेत्
तां यजेत् तां विचिन्तयेत् ।
विशत्य् अपास्त-दोषस् तु
तामेव ब्रह्मरूपिणीम्’ ॥
(वि.ध.१०३-३०)
इति ।
श्रीपौष्करे तु
अर्चावतारस्योपाय-विरोधि-वर्ग-निवर्तकत्वम् अपि दर्शितम् -
‘सन्दर्शनाद् अकस्माच् च
पुंसां सम्मूढ-चेतसाम् ।
कुवासना-कुबुद्धिश् च
कुतर्कश्च कुनिश्चयः ॥
कुहेतुश्च कुभावश्च
नास्तिकत्वं लयं व्रजेत्’ ।+++(5)+++
(पौ.सं. १३१, ३२)
इति ।
स्थान-विशेषो ऽप्य् अत्र सेवकानां सत्त्वोन्मेष-हेतुत्वाभिप्रायेणोपात्तः ।
स्वयं-व्यक्त–सैद्ध-वैष्णव-रूप-भगवत्-क्षेत्र-वासिनाम् अपि फलविशेषः प्रदर्शितः ।
श्रीसात्वते
‘दुष्टेन्द्रियवशाच् चित्तं
नृणां यत् कलुषैर् वृतम् ।
तद् अन्तकाले संशुद्धिं
याति नारायणालये’ ॥
(सा.सं. ७-१२०)
इति ।
तत्रापि स्वाचार्य-परम्परा-चिर-सेवन-जनित-प्रसादातिशयात्
स्व-दोषानादरेण स्वस्यैवं-विधावस्था-प्रदत्वेन
प्रार्थित-पूरणानुगुणताम् अभिप्रेत्याह मम नाथ इति।
स्वापेक्षित-सिद्ध्य्-अर्थं याचनीयः स्वामी नाथः ।
एवम् अभिमुखीकृते भगवति
प्रकृतोपायस्य
भर-न्यास-रूपं प्रधानांशं
दमयन्त्य्-आदि-वृत्तान्तेषु+++(=??)+++ शरणागति-विषयतया प्रसिद्धेन
भगवच्-छास्त्रोक्त-स्थूल-सूक्ष्मादि-योजनवता
नमः-शब्देन निगमयन्,
प्रयुज्यमानः सोऽयम् उपायस् त्वच्-छेषतयैव स्वीक्रियताम्
इत्य् अभिप्रायेणाह - नमोऽस्तु ते इति ।
यद् वा,
अत्र परत्र च +अपेक्षितं निर्ममत्व-संस्कृतं कैङ्कर्यं नमः-शब्दाभिप्रेतम् ।
अस्तु इति आशासनम् ।
ते इत्य्-अत्र
प्रकृत्य्-अंशेन प्राप्यत्व-प्रापकत्व-शेषित्वादिशालितया
निरुपाधिक-नमः-प्रयोग-योग्यत्वम् अभिप्रेतम् ।
चतुर्थी च +अत्र तादर्थ्य-परा ।
इदमेव वाक्यम् आवर्त्यमानं
पृथु-गद्योक्तस्य प्रतिवचन-विस्तरस्य सङ्ग्रहोऽपि भवति;
सूत्रादिष्व् इव प्रयोजन-प्रकर्षे सत्य् आवृत्तेर् अभियुक्त-सम्मतत्वात् ।
तत्रायमर्थः -
“मत्-प्रपन्नस्य ते यथा-मनोरथं मत्-कैङ्कर्यं भवतु” इति ।
तद् एवं रहस्य-त्रयोक्त-शरण्य-शरणागति–तत्-फल-विशेषाः सन्दर्शिताः ।
‘यद् अत्र सङ्ग्रहेणोक्तम्
अनुक्तम् अपि किञ्चन ।
बृहद्-गद्याधिकारे तद्
व्यक्तं प्रत्यवमृश्यताम्’ ॥
॥ इति रहस्यरक्षायां श्रीरङ्गगद्याधिकारः समाप्तः ॥