॥ श्रीमत्परमहंसेत्याद्यमन्दबिरुदबृन्दभूषितसर्वतन्त्रस्वतन्त्र कविकण्ठीरव श्रीमत्सुमतीन्द्रतीर्थगुरुपादविरचितः ॥
श्रीरामदण्डक:
श्रीमदानन्दतीर्थभगवत्पादाचार्येभ्यो नमः । श्रीगुरुभ्यो नमः ॥
भानुवंशाब्धिराकेन्दुं धानुष्ककुलशेखरम् । सानुमद्धीरताधारं नोनुमस्त्वां रघूद्वह॥
नमदमरकिरीटपाली - मिषारार्तिकालीन - सच्चम्पकाली - रुचिप्रौढिकेलीसुहृद्रत्नपाली समञ्चत्प्रवालीय- रागप्रतोलीक - हीराङ्करालीक - दीपप्रणाली (दीपप्राभाली) घनोद्यत्प्रभाली - विनीराजितालीनशोभामधूली - भरामिश्रधूली - भृतप्रान्तनाली - सदिन्द्राश्ममौलीरिताभा - निचोली - भवद्योमराली - गमानीलचूलीयुगाङ्घिद्वयालीढ - लक्ष्मीकहेलीरितन्यक्कुहेली - वियोगानरालीभवत्पौष्पगौलीझरी - लोलुभालीहितस्तोक - कालीभवत्सन्मृणाली - लसत्फुल्लनालीक - मात्मार्पितालीक तापप्रसाराहितात्यर्थघोरातिसङ्कोचकारागृहस्थान - नीरागवास - प्रकारार्पितेशाङ्घ्रिता - राजमानोरुभारामभूताब्ज - वैरापनोद - क्षमाराधनानम्र - ताराधिभूमण्डलीराजिधीकृन्नखारारभद्भूरि - गौरानघद्योत - साराभिधज्योत्स्निकाराग - (राशि इति पाठान्तरम्)
- सज्जत्पटीरानुलेपो - हारावली - सत्पटीराजिताशावधूराजहृन्मोद भारावतारादरं मूलरामदेवं नुमः श्रीपतिम् ॥ १ ॥
मणिमयपदचञ्चुलीला चलच्छिञ्जिनीला - लसत्सन्मरालाबला - केलिकोलाहलाकृष्टखेलामिलद्धंसकालाप वाचालतालासिपादाब्जबालातपप्रेमशी लामलद्योत - जालाभिध - श्लक्ष्ण - चोलावरुद्धेन्द्रनीलात्मक स्थूलकीलाभ जङ्घाद्वयी॥ लालितीदत्तमूलाभिलाषोरुकालापिनच्छादनालाभवच्छोण चेलावृत स्मारकालापभागर्व हालाहलम् ॥ कान्तिवेलातिसन्धान खेलासजद्द्योतमालालसज्जम्भकालाश्मकादर्शभालावकाष्ठीवदाला - सितम् ॥ कामहालारसामोदि शालावनीवापि कूलाधिरूढोरुनाला - लिरम्भानुवेलादृतश्रीविशालातुलोरुद्वयालानसम्पर्चनाला - लसोत्कण्ठितेलासुतावाशिता - लालगन्मेखलालासिरश्मिप्रचा - लामलस्वर्णचैलावृतस्वप्रभाला - विताब्दान्तराला - वलच्चञ्चलालातभामानशूलासिकम् ॥ केलिलोलात्मनिर्वृत्त कीलालजावासकैलासवासि द्युपालादिलोकौघ - सालालिबीजालवालाभ - नाभीविलाभासुरम् ॥ २ ॥
विलसितरुचिपूरनामातुलस्वच्छकामामृताम्भोधिसीमालस - द्वीचिकामानदोद्यद्वलीमालिका- भाभिरामाबृहत्कुक्षिधामावसद्विश्व - भूमानमुद्यल्ललामानुयत्तारदामा लसद्द्योवनी मालहारिप्रभाभाव किंमीररामा लघुरुस्थली मानसाम्भोजिनी मारकेली समाघात भोग प्रकामादरोद्युक्तहेमाहितार्चाविभामानहारिस्ववामाकुचाख्यत्रियामा - वियुक् पक्षिसामाधिकोत्थान सोमानुजग्रावधामाधि - पालोकसामाजिकामोदिवैमानिकेन्द्रोचितामानवीयानुलोमाङ्ग रागोरु गन्धाति भारोपसन्धानधौरासमिन्धान - वातानुबन्धार्पितानन्दसिन्धाव - नुन्मज्जदन्धाखिलाशामुखम् ॥ धावदाराब्धि मन्थानशैले कबन्धाहिते सेतुबन्धावृतोदन्वदन्धा - वहीशानुबन्धावितेष्वस्त्र - सन्धावजम्रानु - रन्धान लोकस्वरन्धायिताभी पदम् ॥ धामवद्भूषणं धार्मिकाघाति सन्धानधौरेयसन्धानुपाले स्वयं धारणालाञ्छनं, धारयन्तं परं धातृवन्द्यं भुजप्राञ्चले ॥ ३ ॥
सुललितनवकम्बुनिन्दासमुत्थानकन्दायित श्रीसमुन्दानघद्योत - बृन्दावृतस्निग्धबृन्दारकाराम मन्दारसंवासविन्दाधि पूगाग्रभिन्दान कण्ठाभिनन्दासहाभानुविन्दान शोभाभिसन्धायि रेखात्रयं दामभिस्स्वर्णसन्दानितैर्बिभ्रतं दापिताभं गलम् ॥ दास्यभृत्कौरविन्दाश्म तेजोमुकुन्दापहारात्यमन्दाभदन्तछदम् ॥ दादलच्चारुकुन्दालिभा गर्वहुन्दायिदन्तावलिम् ॥ कालचाम्पेयसङ्काशनासम् ॥ समङ्कागत श्रुत्यलङ्कारभापुञ्जसङ्काचिगण्डद्वयम् ॥ कामपूर्वेषु सङ्काङ्क्षिताक्षिश्रियम् ॥ कान्तिकासारसङ्काचदुल्लोलशङ्काकरभ्रूयुगम् ॥ कान्तकस्तूरिकाङ्कालिकार्धेन्दुकम् कालिकाकलङ्काभियुक्कैशिकम् ॥ कालितानम्र पङ्कान्धकाराल्यहङ्कारहासांशु सङ्काशि सज्जन्मृगाङ्कायमान आननम् ॥ काञ्चनश्री कुदुङ्काभकोटीर सङ्कानिरत्नागदङ्कारभानश्यदङ्कासि मालिन्यपङ्कातिरुग्दिग्विटङ्कावलिम् ॥ जानकीमङ्गलापाङ्ग कालिन्दिकासङ्गिलावण्यगङ्गादृतानङ्गमातङ्गमीडे जगन्मङ्गलं श्रीमूलरामदेवम् ॥ ४ ॥ गौडरीतिस्फुटाटोप विकटार्थपदोद्भटः । सुमतीन्द्रकृतिर्दीप्रानुप्रासो रामदण्डकः ॥ १ ॥
सतां मौलिषु कोटीरन्वतंसन्कर्णवीथिषु । हारन्कण्ठे च रामेण करुणां मयि कारयेत् ॥ २ ॥
सतां मौलिश्रवः कण्ठे किरीटोत्तंसहारकः । रोचतां सौमतीन्द्रोऽयं हृदये रामदण्डकः ॥ ३॥
रत्नश्रीरुचिराकृतिस्फुरदुरो रम्यप्रभावेन्दिरा सक्तं मुद्रिततृष्णया सरसया चित्तस्वपाकस्फुरा । वज्राद्दुष्करभाविभासुरशरातंकिक्षपाटंधुरा राजन्तं रजनीसहायवदनं रामं गिरामो गिरा ॥ ४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यपदवाक्यप्रमाण- पारावार पारङ्गत सर्वतन्त्रस्वतन्त्र श्रीमद्वैष्णवसिद्धान्तप्रतिष्ठापनाचार्य श्रीमन्मूलरघुपतिवेदव्यासदेव श्रीपादपद्माराधक जगद्गुरु श्रीमन्मध्वाचार्यमुख्यमहासंस्थानाधीश्वर श्रीमद्राघवेन्द्रतीर्थ - गुरुसार्वभौममठीयदिग्विजयविद्यासिंहा सनाधीश श्रीमत्परिमळाचार्यान्तेवसदग्रणि श्रीमद्योगीन्द्रतीर्थ श्रीपादकरकमलसञ्जात श्रीमत्सूरीन्द्रतीर्थ श्रीपादवरकुमारक कविकण्टीरव श्रीमत्सुमतीन्द्रतीर्थगुरुपादविरचितः श्रीरामदण्डकः समाप्तः ॥
॥ श्रीकृष्णार्पणमस्तु ॥ ॥ श्रीमदानन्दतीर्थभगवत्पादाचार्येभ्यो नमः ॥
- हरिः ॐ * ॥ श्रीरामदण्डक व्याख्या ॥
सान्द्रानन्दद्युसिन्धुबन्धुलहरीभिक्षाकनम्रामर- स्फायन्मौलिकिरीटकोटिविलसन्नीलोपलाभोज्वलौ जल्पाकालिकरालमल्लखुरलीभूतारुणाम्भोरुह - श्रीलुण्टाकरुचीरघूद्वहमणे: पादौ चकास्तां हृदि ॥ १ ॥
कलादधानस्सकलास्समन्तादानन्दकन्दस्सुमनोजनानाम् । सदा वसन्सत्पदवीषु कामं भूयान्मुदे कोऽपि कलाधरो नः ॥ २ ॥
इह खलु भगवतः श्रीमूलरामदेवस्य पादादिकेशवर्णनरूपमखण्ड पण्डितमण्डलकण्ठमण्डनं दण्डकं चिकीर्षन् श्रीमुद्दुवेङ्कटकृष्णाभिधान: (परिव्राज्यप्राप्त्यनन्तरं सुमतीन्द्रतीर्थश्रीपादनाम्ना प्रथितः) मनीषी “आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम्” । इति वचनान्नुतिरूपं मङ्गलमादावाचरति - “भानुवंशे"ति ॥ हे रघूद्वह ! राम - भानोस्सूर्यस्य वंशोऽन्ववाय एव अब्धिस्समुद्रः तस्य हर्षोत्कर्षहेतुत्वा द्राकेन्दुं पूर्णचन्द्रं । धनुः प्रहरणमेषां ते धानुष्काः क्षत्रिया: । प्रहरणमिति ठक् । “इसुसुत्क्रान्तात्क: " इति कः । तेषां कुलस्य वंशस्य शेखरं
- श्रेष्ठम् । सानव: प्रस्था अस्मिन् सन्तीति सानुमान् पर्वत: । “स्नुः प्रस्थस्सा नुरस्त्रिया” मित्यमरः । तस्य धीरताया धैर्यस्य आधारं अधिकरणभूतम् । कुलाचलधीरतासदृक्षधैर्यशालिनमिति यावत् । त्वां भवन्तं । नोनुभः पौनः पुन्येन भृशं वा स्तुमः । “णुस्तुता’ विति धातोर्यङ् लुकि प्रत्ययलक्षणेन ‘सन्यङो’रिति द्वित्वे “पूर्वोऽभ्यास” इत्यभ्याससंज्ञायां गुणे ‘यङ्लुको’ रित्यभ्यासस्य गुणे च लटि परस्मैपदमुत्तमपुरुषबहुवचनम् ॥
अत्र रघूद्वहे पूर्णचन्द्रत्वारोपे सूर्यान्ववाये समुद्रत्वारोपस्य हेतुत्वेन रूपकहेतुरूपकस्य वर्णनात् परम्परितरूपकालङ्कारः॥ सानुमद्धीरताधारमित्यत्र दार्थवृत्तिनिदर्शनालङ्कारश्च ॥ सर्वपादादौ नुशब्दानुवृत्ते: अनुप्रासरूपशव्दालङ्कारश्चेत्येतेषां ‘मौक्तिक पद्मराग’ न्यायेन संसृष्टिः । तदुक्तं- “ग्राह्ये भेदे तु संसृष्टिरग्राह्ये सङ्करस्स्मृतः” इति ॥ १॥
अथ पादतलवर्णनम्
नमदिति ॥ नमतां नमस्कुर्वतां अमराणां - आदित्यानां किरीटानि मुकुटानि तेषां पाल्यः पङ्क्तयः एव तन्मणिकान्तीनामुत्तरत्र दीपतया वर्ण्यमानत्वात्। मिषारार्तिका: कपटनीराजनभाजनानि तासु लीनानि श्लिष्टानि प्रत्युप्तानि च तानि सतां प्रशस्तानां चम्पकानां कुसुमानामाल्या: पङ्क्ते: रुचि: प्रौढि: कान्त्यतिशयः तस्याः केलीसुहृन्दि लीलामित्राणि तत्सदृक्षाणीति यावत् तानि (सदृशानीति पा०) रत्नानि वालवायजमणयस्ते हि जात्या चम्पकप्रसूनसङ्काशकान्तिभाजो भवन्ति । तेषां पालीभिः राजिभिः समञ्चंती सङ्गच्छमाना अर्थात्कान्तिभिरिति लभ्यते । प्रवालस्य तत्र खचितस्य विद्रुमस्यायं प्रवालीयः । “प्रवालो विद्रुमः पुंसी"ति शब्दरत्नाकरः । “तस्य वा नामधेयस्ये” ति वृद्धसंज्ञायां ‘वृद्धाच्छ’ इति छप्रत्ययः स चासौ रागो रक्तिमा तस्य प्रतोली वीथी येषां ते तथोक्ताः । ‘न घृतश्चे’ति कप् । ते च ते हीराणां वज्राणामङ्करा: प्ररोहा एव सादृश्यादलीका: अनृताः “अलीकं त्वप्रियेऽनृत” इत्यमरः । दीपा: प्रदीपाः तेषां प्रणाली तदीया कान्तिनिस्सरणपदवी । यद्यपि ‘द्वयोः प्रणाली पयस: पदव्या’ मित्यभिधानेन प्रणालीशब्दः पयस्सम्बन्धिक मार्गविशेषे प्रसिद्धः तथापीह पयस्सदृशवस्तुमात्रमार्गवाचकतया गृह्यते । तथा हि कवयः । ‘अवतंस: कर्णभूषण’ मित्यभिधानेन अवतंसशब्दं कर्णभूषणे प्रसिद्धमपि चूडावतंस: कुलावतंस इत्यादौ भूषणमात्रे प्रयुज्यते । तस्याः घनं निबिडं यथाभवति तथा उद्यन्तीभिः निस्सरन्तीभिः प्रभानां कान्तीनामालिभिः पङ्क्तिभि: विनीराजिता आरार्तिता अत एवालीना निबिडा । शोभाधिक्यलाभादिति भावः । शोभा: पादकान्तय एव उत्तरत्र पादस्याब्जतया वर्ण्यमानत्वात् । मधूल्यस्सुराभेदा: । “तद्भेदा माधवः पैष्टी गौली माध्वी मधूल्यपी"ति शब्दरत्नाकरः । इह तु सुमसम्बन्धित्वान्मकरन्दा इत्यर्थः । तासां भरैः अतिशयैः । “अप्यथातिशयो भर” इत्यमरः । आमिश्राभि रामिलिताभिः धूल्यो रेणव एव धूल्य: परागा: । श्लिष्टरूपकमेतत् । ताभिर्भूतस्य पूर्णस्य प्रान्तस्य पादपरिसरदेशस्य अनालीनाली सम्पद्यमानास्ति नाली सती । अभूततद्भावे च्विः । अस्य च्वावितीकारः। इन्द्राश्ममौलिभ्यः इन्द्रनीलखचितकिरीटेभ्यः ईरिता निस्सृता आभा: प्रभाश्च । निचोलीभवन्त्यः प्रान्तस्य प्रच्छदपटीभवन्त्यः । “निचोल: प्रच्छदपट " इत्यमरः । द्योमरालीगमानां स्वर्गसीमन्तिनीनाम् । द्योस्स्वर्गस्य मराल्या: हंसस्त्रियाः । “हंसो मरालश्चक्राङ्गो मानसौकास्सित छद” इति शब्दरत्नाकरः । गमो गमनमिव गमो यासान्ताः । “गृहवृट्टनिश्चिगमश्चे” ति भावे ङ्ः। सप्तम्युपमानेत्युपमानपूर्वपद बहुव्रीहिः । तासां नीला श्यामाश्च ता: चूल्यश्च केशवेषविशेषाः । अथवा यथाश्रुतेन्द्राश्ममौलीरिताभानां विशेषणम् । तदा हि नीलोपलकान्तीनां स्वतो नीलानां नीलीसतां देवस्त्रीनीलचूलीभिः प्रच्छादितत्वोक्तया गुणोत्कर्ष उक्तो भवति । ताभिर्युनक्तीति युजा युक्तेन अङ्घ्र्योः रामस्य पादयोर्द्वयेन युगेनालीढास्वादिता स्वीकृतेति यावत् । लक्ष्मीश्शोभा यस्य तत् । “शोभासम्पत्तिपद्मासु लक्ष्मीदते (श्रीरपि कथ्यते पाठान्तरम्)“ति विश्वः । नघृतश्चेति कप् । हेलिना भानुना । “हीनसर्पे हरे सिंहे हेलिरालिङ्गने रवा” विति वैजयन्ती । ईरितायाः क्षिप्तायाः अत एव न्यग्भूतायाः अध: पतन्त्याः कुहेल्या: हिमधूलिकायाः । कुहेलिहि मधूलिके” ति शब्दरत्नाकरः । वियोगेन विरहेण अनरालीभवन्त्याः अकुटिलीभवन्त्याः ऋजूभवन्त्या इत्यर्थः । समीचीनाया इति यावत् । पुष्पस्य कुसुमस्य सम्बन्धिन्याः गौल्या स्सुराविशेषस्य । “तद्भेदा माधव: पैष्टी गौली"ति शब्दरत्नाकरः । मकरन्दस्येति यावत् । झरी - प्रवाह: । “प्रवाहो निर्झरो झर” इत्यमरः । भानूदये समुज्जृम्भात्किरणानां वियोगतः । पयोजाताग्रलग्नानां कुहेलीनां विकासनात् । पद्मानां मकरन्दानां सामीचीन्यं भवेदिति भावः । तस्यां लोलुभानां लोलुपानाम् । “समौ लोलुपलोलुभा” वित्यमरः । अलीनां भ्रमराणां ईहितेन चेष्टया स्तोकमल्पं कालीभवन्नीली भवत् सत्या प्रशस्तया मृणाल्या बिसेन लसत् राजत् अत एव फुल्लं विकसितं समूलत्वादिति भावः । नालीकं सहस्रपत्रं कमलं यस्य तत् । “सहस्रपत्रं नालीक” मिति शब्दरत्नाकरः ।
नमस्यन्नाकिमकुटविलसन्मणिविभाभिराक्रान्त दीपश्रीभिः लब्धातिरक्तिमाभाभरामिश्र रजोराजितम् । लेखविलासिनीनील- कुन्तलकान्तिलब्धातिनैल्याभिर्बलारि नीलोपलाभाभिरपि शोभितं श्रीमूलरामाङ्घ्रियुगलं अहिमांशुकिरणसञ्चारलब्धममन्दमकरन्दसन्दानितं सकन्दमिन्दिन्दिरबृन्दविलासाङ्गीकृतनीलश्रियं पद्मं तिरस्करोतीतिभावः ॥
॥ इति पादतलवर्णनम् ॥
आत्मेति ॥ आत्मना स्वेन, अर्पितस्य प्रापितस्य, अलीकस्य अप्रियस्य, मुकुलनकरत्वादिति भावः । तापस्य सन्तापस्य । प्रसारण विसरणेन, आहितं प्रापितं, अत्यर्थघोरमतिदारुणं अतिसङ्कोच: । अत्यन्तमुकुलनमेव ग्लानिकरत्वात् कारागृहस्थानं बन्धनालयस्थलं । " कारा स्याद्बन्धनालयः” इत्यमरः । तस्मिन्नीरागवासस्य रक्तिमाभावतया वासस्य प्रकारेण रीत्या । लोके हि कारामन्दिरबन्दीकृतः पुमान् कुत्राप्यनभिलाषुः को वसतीति वस्तुतया साधारणेन नीरागशब्देन व्यज्यते । अर्पितया प्रापितया ईशस्याङ्घ्रितया अङ्घ्रिभावेन राजमानानां भासन्तीनामुर्वीणामुत्कृष्टानां भानां कान्तीनामारामभूतं उपवनभूतं “आरामस्यादुपवन” मित्यमरः । आकरमिति यावत् । स हि नानाविधकुसुमानामाकरो भवति । तस्याब्जस्यकमलस्य कारागारसदृशे संसारे दु:खपारंपरीमनुभवन्तो रागद्वेषतिरस्कारेण तपस्यन्तो भगवदङ्घ्रि प्रतिपद्य राजन्त इत्यर्थान्तरध्वनिः । वैरस्य तद्विषयकद्वेषस्य अपनोदे अपाकरणे क्षमा समर्थनाराधनाय पूजनाय तादथ्र्ये चतुर्थी । चतुर्थीति योगविभागात्समासः । आनम्रस्यानतस्य ताराधिभुव: ताराधिपस्य । “अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः” इत्यमरः । मण्डल्याः बिम्बस्य । “मण्डलं त्रिषु बिम्बोऽस्त्री"ति शब्दरत्नाकरः । राजेस्समूहस्य धियस्तद्विषयमतेः कृद्भ्यः कुर्वद्भ्यः नखेभ्यो नखरेभ्यः आरारभतां पुनः पुनरारभमाणानां निस्सरतामिति यावत् । भूरीणां बहूनां गौराणां शुभ्राणामत एवानघानां निर्मलानां द्योतानां शोभानां सार उत्कर्षांश इत्यभिधा यस्याः । “सारो बले स्थिरांशेचे"त्यमरः । तस्याः ज्योत्स्निकाया: कौमुद्या: रागात् धावल्यरूपात् राशीति वा पाठ: । सज्जन्तीभिस्सन्नद्धाभि रुत्पाद्यमानाभिरिति यावत् । पाटीरानुलेपो मलयजगन्धः उरुहारावली उन्नतमुक्तासर: सत्पटी - प्रशस्तवस्त्रं च ताभि: उत्तरत्र दिशांवधू तया वर्ण्यमानत्वात् । एवं सम्पद्यमानाभिज्र्योत्स्निकाभिरिति यावत् । राजितानां भूषितानामाशा दिश एव वध्वस्तासां राजानो नायका इन्द्रादयो लोकपालास्तेषां हृन्मोदभारावतारे स्वान्तसन्तोषातिशयप्रापणे आदरणं यस्येति व्यधिकरणबहुव्रीहिः । स्वस्वविलासिनीनां पाटीरानुलेपाद्यनवद्यालङ्कारलाभान्मनसि मोदमावहन्ते मघवन्मुखा देवा इति भावः । तमेतादृशं श्रियस्तातायास्तस्या एव लक्ष्मीत्वादिति भावः । पतिं धवं मूलरामदेवं नुमस्तुम: अभ्यर्हितत्वाच्च यमिति लभ्यते । निस्सीमशोणिमारुणपङ्कजापमानपदयोः मूलरामपादयोर्लसतां चन्द्रबिम्बानुकारिणां नखराणां कान्तिश्रेणीभिः कौमुदीशोभानुकारिणीभिस्सर्वत्र सञ्चारिणीभिर्दशदिशां भागा धवलीभवन्तीति भावः ॥ १ ॥
॥ इति नखवर्णनम् ॥
मणिमयेति ॥ मणिमयस्य मञ्जीरखचितमणिविकारस्य, पदचञ्चुनः पादतुण्डस्य । " प्राण्यङ्गत्वाद्द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्’ इत्येकवद्भावः । शिञ्जिन्या: मरालितया वर्णनात्तत्खचितमणिषु पदचञ्चुत्वारोप:, लीलया क्रीडया, चलनादनुरूपाया चलन्ती शिञ्जिनी नूपुरः । ‘शिञ्जिनीनूपुरज्ययो"रिति वैजयन्ती । सैवोत्तरत्र पादकटकस्य हंसतया वर्णनात् । लालसती भृशं शोभमाना सती । समीचीना मरालाबला हंसवधूः तस्याः केली कोलाहलेन क्रीडाकलकलध्वनिना, आकृष्टः स्वीकृत:, खेलया लीलया, मिलन् हंसक: पादकटक एव हंसक: हंसः । ‘हंसक: पादकटक” इत्यमरः । स्वार्थे कन् । तस्यालापेन ध्वनिना, प्राप्तया वाचालतया जल्पाकतया । “स्याज्जल्पाकस्तु वाचाल” इत्यमरः । लासिनो भासिन:, पादाब्जस्य पादपद्मस्य, बालातपे तरुणारुणकिरणे प्रेम स्नेह: शीलं स्वभावो यस्य तथोक्तः तादृश इति यावत् । अत एवामलो निर्मलः द्योतानां कान्तीनां जालस्समूह इत्यभिधा यस्य तेन, श्लक्ष्णेन स्निग्धेन, चोलेन प्रछदपटेन, अवरुद्धाया आवृतायाः, इन्द्रनील आत्मा स्वरूपं यस्य तत् स्थूलं कीलं शङ्क: तस्याभेवाभा यस्यास्तत्सदृशायास्तस्याः जङ्घाद्वय्याः यस्य जङ्घायुगलस्य लालित्या ललिततया शोभया । “ललनं केलिशोभयो” रित्यमरः । ब्राह्मणादित्वात् ष्यञ् पित्वात् ङीष् । हलस्तद्धितस्येति यलोप: । दत्त: वितीर्ण: मूलस्याभिलाषो यस्य स तथोक्तः उर्व्या: कालापिन्याः मयूरसम्बधिन्याः तस्येदमित्यण्णन्तत्वात् ङीप् । पुंवत्कर्मधारयेति पुंवद्भावः । छादनाया: आवरणस्य लाभोऽस्यास्तीति लाभवान् शोणचेलेन अरुणवस्त्रेण आवृत: स्मारो मान्मथ: कलापास्तूणीर: “कलापो भूषणे बर्हे तूणीरे संहतावपी"ति अमरः । तस्य सम्बन्धिनीनां भानां कान्तीनां गर्वोऽभिमान एव हलाहलो विषविशेषो यस्य तं ॥ मणिमञ्जीरकलापमञ्जुलपादलग्नकटकशोभानुप्राणितैः पाद - द्वयादपसरद्धिररुणकान्तिप्ररोहै: उज्वलं इन्द्रनीलशिलानिर्मितस्थूल शङ्कसङ्काशं जङ्घायुगलम् । कलापि कलापकलितावरणं सूक्ष्मारुणपटप्रसेवकान्तरितं मन्मथस्य तूणीरमधरीकरोतीति भावः ॥
॥ इति जङ्घावर्णनम् ॥
अथ जानुवर्णनम्
कान्तीति ॥ कान्ते: लावण्यस्य, वेलाया: कूलस्य, अतिसन्धाने अतिक्रमणे, या खेला लीला । तस्यां सजतामासक्तानां उद्वेललावण्यानामिति यावत् । द्योतानां किरणानां, मालया पङ्क्तया, लसन्, जम्भकालस्य इन्द्रस्य, अश्मकं अश्म । स्वार्थे कः । तन्मणिः तस्य आदर्शो मुकुरस्तन्मय इत्यर्थः । तस्याऽऽभायाश्शोभायाः, लावकाभ्यां छेदकाभ्यां अष्ठीवद्भ्यां जानुभ्यां । “जानूरु पर्वाष्ठीवदि"त्यमरः । आलासितमत्यन्तं शोभितं ॥ जानुनी निरतिशयकिरणभरितेन्द्रनीलनिर्मितमुकुरलावण्यपारम्परीमश्रु वाते इति भावः ॥
॥ इति जानुवर्णनम् ॥ ## अथोरुवर्णनम्
कामेति ॥ कामस्य मन्मथस्य, हालायास्सुरायाः । “सुराकादम्बिनी हाले"ति शब्दरत्नाकरः । रसेन द्रवेण आमोदिन्याः गन्धवत्याः । “आमोदो गन्धहर्षयो"रिति वैजयन्ती । शालावन्याः गृहवनस्य । उद्यानस्येति यावत् । वाप्या दीर्घिकायास्तत्र स्थितायाः । “सरोवापी तु दीर्घिके” त्यमरः । कूले तटे, अधिरूढाभिर्जाताभिः । अत एव उर्वी उन्नता, नालालिः काण्डपङ्क्तिः यासां ताभिः रम्भाभिः कदलीभिः, अनुवेलमत्यन्तं, आदृतया आकाङ्क्षितया, श्रिया शोभया, विशालौ पूर्णी, अत एव न विद्यते तुला उपमानं ययोस्तावतुलौ असदृशौ, उरू सक्थिनी तयोर्द्वयमेव आलाने गजबन्धनस्तम्भे । “आलानं बन्धनस्तम्भे " इति शब्दरत्नाकरः । तस्य सम्पर्चनायां सम्पर्के । या लालसा महानभिलाषः । “स महान् लालसा द्वयो"रित्यमरः । तस्यामुत्कण्ठिता । सञ्जातोत्कण्ठा साभिलाषा । इलायाः क्षमाया: । “गौरिला कुम्भिनी क्षमे"त्यमरः । तस्याः सुता तनया । सीतैव वाशिता करिणी । “धेनुका करिणी वशा । वाशिता"तिति शब्दरत्नाकरः । तस्याः लालगन्त्यां पुनः पुनस्सजन्त्यां । ‘लगे सङ्ग’ इति धातुः । मेखलायां काञ्च्यां । लासिन्य: राजन्त्य: । रश्मयः किरणा एव रश्मयो गुणा: श्लिष्टरूपकमेतत् । तासां प्रचालेन सञ्चारेण । अमलेन निर्मलेन, स्वर्णचलेन पीताम्बरेण, आवृतस्य आच्छादितस्य, स्वम्यात्मनः, प्रभया कान्त्या, लावितौ लवनं छेदनं प्रापितौ । अब्दस्य जलदस्यान्तराले मध्ये । आवलन्ती सञ्चलन्ती, चञ्चला चपला । क्षुद्रत्वादलातमिव उल्केव । उपमितसमासः । “अस्त्रियामुल्मुकोऽलातमुल्के"ति शब्दरत्नाकर: । तस्य भामान: कान्तिगर्व एव क्रौर्यातिशयात् शूलञ्च असिश्च तौ यस्य तं ॥
ननु च यदीह सीताराघवयोरुपमेययोर्यथाक्रमं सौदामिनी नीलजलदयोर्बिम्बप्रतिबिम्बभावो विवक्षितस्तर्हि “लावितचञ्चला- लासितमेघभामान” मिति विन्यासस्स्यात् । नैवमिति चेन्न । बिम्बप्रतिबिम्बभावाविवक्षया विशिष्टस्योपमानोपमेयभावाङ्गीकारेणैव विन्यासोपपत्तेः । तथाच अन्यप्रयोगेऽपि । “निन्दन्तु निर्णीतधियो नितान्तं मन्दा: पुनर्मामिह मा स्तुवन्तु । यूनः कुचालिङ्गनतो जरत्याः पादप्रहारं परमं युवत्या” इत्यत्र निर्णीतबुद्धिनिन्दनमन्दमतिस्तवनयोः युवतीपादप्रहारजरतीकुचालिङ्गनयोः बिम्बप्रतिबिम्बभावे वर्णनीयेऽपि विन्यासव्यत्यासो दृश्यते । अथाप्याग्रहो यद्यवश्यं वर्णनीयो बिम्बप्रतिबिम्बभाव इति, तदा बुध्या विवेचनीयमित्यलमियता ॥
तत्र मन्मथस्य लोकातिशायिशृङ्गारितया तदुद्यानस्यापि तथात्वावश्यंभावात् । सुरारसामोदिनीनां कदलीनां तत्र जननोक्त्या ततोप्यतिशृङ्गारिता व्यज्यते । तादृशीभिरपि ताभिरुरुसम्पद: आदरणोक्त्या ततोप्यतिसौन्दर्यं व्यज्यते । तादृशेऽपि तस्मिन् सीतायाः आलाने करिण्या इव नित्यसम्पर्कोक्त्या तस्यां रामदेवस्य अनुरागातिशयतरङ्गितान्तरङ्गता व्यज्यते ॥ तथा चातिमात्रसौन्दर्यकदलीशोभानुकारिणि काञ्चीमणिरश्मिजालानुविद्ध पीताम्बरालङ्कते ऊरुयुगे कृतानुषङ्गनिरतिशयस्नेहरसमुख्यभाजनीकृतजनकतनयी येन निजकायेन अतिरुचिरचञ्चलालतापरिपूरितान्तरालं कालाम्बुदमधरीकरोतीति भावः ॥
॥ इत्यूरुवर्णनम् ॥ ## अथ नाभिवर्णनम्
केलीति ॥ केलौ सर्जनलीलायां, लोलेन आसक्तेन, आत्मना स्वेन । निर्वृत्ता: निष्पादिता: उत्पादिताः । कीलालजं कमलं, आवास आश्रयो यस्य ब्रह्मा च कैलासवासी रुद्रः च द्युपालस्स्वर्लोकाधिपतिः इन्द्रश्च । ते आदयो मुख्या येषान्ते तथोक्तास्तेषां लोकानां जनानामोघः समूह एव सालालिर्वृक्षपङ्क्तिस्तस्या बीजं कारणभूतं आलवालं जलबन्धन
- स्थानविशेषः । “स्यादालवालमावालमावाप” इत्यमरः । तस्य आभेवाभा यस्य तेन तन्निभेनेत्यर्थः । नाभ्या: बिलेन कुहरेण आभासुरं भृशं राजमानं ॥
अत्र भगवतो नाभीकमलस्य कमलासनं प्रति साक्षात्कारणत्व- मितरेषां रुद्रप्रभृतीनां परम्परया कारणत्वमित्यनुसन्धातव्यम् । तथाच चराचरप्रपञ्चविधायक विरिञ्चजन्मभूमिर्भगवतो नाभीकमलमित्यर्थः । एवमेवान्यत्र प्रयोगो दृश्यते । “नाना चराचरविधायक - जन्मदेशनाभीपुटाये"ति । सकलजगज्जन्मादिकर्तेति भावः ॥ २ ॥
॥ इति नाभिवर्णनम् ॥
अथ त्रिवलीवर्णनम्
विलसितेति ॥ विलसितानां विराजितानां रुचीनां कान्तीनां पूरः प्रवाह इति नाम अभिधा यस्य विलसितरुचिपूरनाम्नः अत एवातुलस्य असदृशस्य स्वच्छस्य निर्मलस्य कामामृताम्बोधेर्मारपीयूषसिन्धोस्सीमासु परिसरदेशेषु लसन्तीनां वीचिकानां ऊर्मीणां । “भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचि"रित्यमरः । मानं ज्ञानं ददातीति मानदा तस्या उद्यन्त्याः उन्नतायाः, वलीनां त्रिवलीनां, मालिकाया राजेर्भाभि: कान्तिभिरभिरामे मनोरमे, अsv-kosha.xmlबृहति स्वल्पे, कुक्षिधाम्नि जठरलक्षणाश्रये आवसन् विश्वेषां जगतां भूमा बाहुल्यं यस्य तं । “बहोर्लोपो भू च बहो"रिति इष्टेमेयम्सुपरतो भूरादेशः ॥ निजकान्तिपूरशृङ्गारपीयूषपाथोनिधी वीचिकाधियं कुर्वन्तीभिः त्रिवलीभिर्मञ्जुले स्वल्पेऽपि जठरकुहरे सविलासं सकलचराचरप्रपञ्चभूमानमावहतीति भगवतोऽतिमाहात्म्यमिति भावः ॥
॥ इति त्रिवलीवर्णनम् ॥
अथ वक्षोवर्णनम्
उद्यदिति ॥ उद्यत् वक्षसि उद्युक्तं स्थितं ललामं चिन्हं, श्रीवत्सलक्षणं । “प्रज्ञानञ्चाप्यभिज्ञानं ललामं च ललाम चे” त्यमरः । तदनुयन्त्योः अनुसरन्त्योः मिलितयोरिति यावत् । तारस्य शुद्धमौक्तिकस्य “तारो मुक्तादिसंशुद्धौ तरले शुद्धमौक्तिक” इति विश्व: । दामा माला, “डाबुभाभ्या"मिति डाप् । ‘न पुंसि दामे’त्यमरः । लसन्ती द्योवनीमाला स्वर्गवनमाला दिव्यवैजयन्ती च । “वनमाला वैजयन्ती"ति शब्दरत्नाकरः । तयोः । “इष्टकेपीकामालानां चिततूलाभारिष्वि"ति मालाशब्दस्य ह्रस्वः । हारिणां मनोहराणां, प्रभाणां कान्तीनां, मावो बन्ध: ‘मव बन्ध’ इति धातोर्भावे घञ् । तेन किर्मीरा चित्रा “चित्रं किर्मीरकल्माष शबलैताश्च कर्बुरे” इति अमरः । श्रीवत्सस्य नीलत्वात्तारदामाया धवलत्वात् । वैजयन्तीमालिकाया गौरवर्णत्वाच्च तत्प्रभवानामपि कान्तीनां नीलधवलगौरत्वावश्यंभावात्तत्सम्बन्धे चित्रवर्णा भवतीति भावः । अत एव रामा मनोरमा । अलघ्वी विशाला उर:स्थली वक्षःस्थानमेव पुष्पाकरत्वसाम्यात् मानसाम्भोजिनी मानसाख्यसरसी तस्यां मारस्य मन्मथस्य केली समाघातेन निमित्तेन आगते भोगे प्रकाममत्यन्तमादरे तद्विषयकेच्छायामुक्तौ सत्रद्धौ हेम्ना सुवर्णेन आहिताया: निर्मितायाः अर्चाया: प्रतिमाया: “अर्चा पूजा प्रतिमयोरिति” वैजयन्ती । विभा मानस्य लावण्यगर्वस्य हारिण्या अपहारिण्या: सुवर्णप्रतिमानुकारिण्या: इति यावत् । स्ववामाया: निजस्त्रियास्सीतायाः, कुचौ स्तनावित्याख्या अभिधा ययोस्तौ कुचाख्यौ । त्रियामायां “रात्रौ रात्रित्रियामा क्षणदा क्षपे"त्यमरः । वियुजौ विरहिणी पक्षिणौ चक्रवाकाविति यावत् । तौ हि रात्रौ वियुञ्जाते । तयोस्समाधिस्समाधानं धर्मो यस्य तत्तथोक्तं तदस्य धर्ममिति ठक् समाधायकमित्यर्थः । उत्थानमुन्नमनं यस्य स तथोक्तः । सोमस्य चन्द्रस्यानुजस्सहजो, ग्रावा उपल: कौस्तुभमणिरिति यावत् । स हि मथनसमये चन्द्रेण सह सम्भूत इति स एव साम्याद्धामाधिपः सूर्यः तस्यालोकस्य प्रभाया: ‘समाजं समेति’ सामाजिकः । ‘समवायान् समवेती’ति ठक् । तत्तुल्यस्येति यावत् । आमोदिनो गन्धिलस्य, वैमानिकानां विमानैश्चरतां देवानां । चरतीति ठक् । इन्द्राणां श्रेष्ठानां, उचितस्य योग्यस्य, अमानवीयस्य अमानुषस्य, अत एवानुलोमस्य स्ववैभवानुकूलस्य, अङ्गरागस्य चन्दनस्य, उरुगन्धः उत्कृष्टपरिमलस्तस्यातिभारस्य, उपसन्धाने ग्रहणे धोरया गतिचातुर्येण । “धोरा तु गतिचातुर्ये” इति शब्दरत्नाकरः । समिन्धानस्य भासमानस्य वातस्य वायोरनुबन्धेन दिक्षुसम्बन्धेन आर्पितस्सम्पादित आनन्दस्सन्तोष: सिन्धुरिव तस्मिन्नुन्मज्जन्ति मनानि अत एवान्धानि परवशानि अखिलानां लालानामाशानां दिशां मुखानि । तेषां सन्तोषासम्भवात्तत्रत्या जना यस्य तम् ॥
नीलोत्पलपुण्डरीकारुणाम्भोजराजिराजमानमानससवृक्षे श्रीवत्स- मुक्तासरवैजयन्तीमालाविलासिनि विशाले अङ्कपालीसमासक्तायाः सुवर्णप्रतिमानुकारिण्याः सविलासिन्याश्चक्रवाकशकुन्त सदृशाभ्यां कुचाभ्यामाश्लिष्टे वक्षःस्थले विद्यमानचन्दनानुमोदिना वायुना दिक्षु विसर्पता निखिलदिङ्मुखस्थितजनेष्टानन्दसन्दोहं कन्दलयतीति भावः ॥
॥ इति वक्षोवर्णनम् ॥
अथ भुजवर्णनम्
धावदिति ॥ धावत् पलायमानं आरं अरिसमूह एव दुस्तरत्वादब्धि स्समुद्रः तस्य मन्थानशैले मन्दरपर्वते । उदधेर्मन्दरगिरिरिव शत्रुसमूहस्य बाहुयुगं क्षोभकरमिति भावः । कबन्धस्य कबन्धाख्यासुरस्य अहिते अहितकारिणि । कबन्धासुरस्य भुजौ योजनदेशावलम्बिनौ रामो बाहुयुगेन अच्छिनदिति प्रसिद्धिः । सेतोर्बन्धेन ग्रथनेन, आवृतः अवरुद्धः, उदन्वान्समुद्रः अल्पत्वादन्धुः कूप इव उदन्वदन्धुर्यस्य तस्मिन् । “पुंस्येवान्धुः प्रहिः कूप” इत्यमरः । महानपि समुद्रस्सेतुबन्धनविषये अन्धुरिव भवतीति अतिबलशालीति भावः । अहीशानस्य भोगीन्द्रस्य बन्धौ सुहृदि सदृशे इत्यर्थः । इतः प्राप्तः इषुणां बाणानामस्त्राणामसीनां सन्धिस्सन्धानं सम्बन्धो येन तस्मिन् बाणासिधारिणीत्यर्थः । धार्मिकाणां धर्मं चरतां सतां । धर्मं चरतीति ठक् । अघस्य दुःखस्य, अतिसन्धाने प्रतारणे धौरेय्याः धुरं भारं वोढ्र्यास्सन्धायाः प्रतिज्ञाया: अनुपालयतीत्यनुपाले । पचाद्यच् । रक्षके स्वभक्तजनानां दुःखापनोदने बद्धकङ्कण इति भावः । एतादृशे भुजयोः प्राञ्चले अन्त्यभागे स्तम्भाविव भुजस्तम्भौ तयोर्युग्मे युगे अजस्रं निरन्तरमनुरुन्धानानामनुसरतां, लोकानां जनानां, स्वरंधायितं स्वर्गान्नवदाचरितं अमृतायितमिति यावत् । कर्तुः क्यङ् सलोपश्चेति स्वरन्धशब्दात् क्यङ् सलोपश्च । अभीपदमभयमुद्राम् । धामवद्भूषणं कान्तिमदलङ्करणं च । तथा धारणालाञ्छनं ज्ञानमुद्रां । धारयन्तं दधतं । स्वयं छात्रा ब्रह्मणा वन्द्यं वन्दनीयम् । अत एव परमुत्तमं तमीडे इत्युत्तरेणान्वयः ॥
॥ इति भुजवर्णनम् ॥
अथ कण्ठवर्णनम्
सुललितेति ॥ सुललितस्य सुसुन्दरस्य । नवस्य नूतनस्य । कम्बो: शङ्खस्य । निन्दासमुत्थाने तद्विषयकोपालम्भारम्भे, कन्दायितायाः मूलभूतायाः श्रियः सम्पदः समुन्देन उंदनेन क्लेदनेन सम्पर्केणेति यावत् । “उदि क्लेदन " इति धातुः । अनघेन निर्मलेन । द्योतानां कान्तीनां, बृन्देन समूहेन, आवृतः युतः स्निग्धस्य श्लक्ष्णस्य दिव्यत्वादिति भावः । बृन्दारकाणां देवानां आरामस्योपवनस्य सम्बन्धिना मन्दारेण सह संवासस्य विन्दः लब्ध: ‘विदिर् लाभे’ अस्मादनुपसर्गाल्लिम्प विन्देति कर्तरि शप्रत्ययः । ‘शेमुचादीना’ मिति नुम् । स चासौ अधि अधिक: पूगः अधिपूगः क्रमुक, तदग्रे भिन्दानस्य भित्वोत्थितस्य कण्ठस्य क्रमुक कण्ठस्य अभिनन्दः श्लाघा, तदसहाया: आभायाः कान्तेरनुविन्दानां अनुविधायिनीं शोभां श्रियं, अभिसन्ददाति सम्बध्नातीति तथा तादृशं, रेखात्रयं यस्य तं । स्वर्णसन्दानितैर्हेमसम्बद्धैर्दामभिस्स्वर्णसूत्रैर्दापिताभं अर्पितशोभं गलं बिभ्रतं । शङ्खस्येव पूगकण्ठस्यापि ग्रीवासादृश्यं प्रसिद्धम् । अनुविन्दानेति विनत्तेस्ताछील्ये चानश् । ‘न लोकाव्यये’ त्यादिना कारकषष्ठ्या एव निषेधात् शेषे षष्ठ्या निषेधाभावात् समासः ॥
॥ इति कण्ठवर्णनम् ॥
अथ दन्तपङ्क्तिवर्णनम्
दास्यभृत: हीनस्य स्वस्मादवरस्य, कौरविन्दाश्मनः पद्मरागसम्बन्धिनो रत्नस्य, तेज एव मुकुन्दो निधिविशेषः, तस्यापहारे अत्यमन्दाभ: अतिपटुकान्ति:, दन्तच्छदः अधरो यस्य तं । दादलतां भृशं विकसतां, कुन्दकुसुमानां आलेः पङ्क्तेः, भागर्वस्य कान्तिमदस्य, हुन्दायिनी हुङ्कारदायिनी धिक्कारिणी, ततोऽप्यतिशयितेत्यर्थः । दन्तालिः दन्तपङ्क्तिर्यस्य तम् ॥
॥ इति दन्तपङ्क्तिवर्णनम् ॥
कालेति ॥ काले वसन्ते, यच्चाम्पेयं चम्पकपुष्पं, तत्सङ्काशा नासा यस्य तम् ॥
॥ इति नासावर्णनम् ॥ ## अथ गण्डद्वयम्
समङ्कमिति॥ समङ्कं समीपं आगतेन श्रुत्यङ्काराणां कर्णभूषणानां, भापुञ्जेन कान्तिस्तबकेन, सङ्काचि सम्बध्नत् गण्डद्वयं यस्य तम् ॥
॥ इति गण्डद्वयवर्णनम् ॥
अथ नेत्रवर्णनम्
काम इति ॥ कामस्य पूर्वेषु प्रथमशरः कमलं तेन सङ्काक्षिता सम्प्रार्थिता । अक्षिश्रीनेत्रशोभा यस्य तम् ॥
॥ इति नेत्रवर्णनम् ॥
अथ भ्रूवर्णनम्
कान्तिरिति ॥ कान्तिर्लावण्यमेव कासार: सरः तत्र सङ्काचतः शोभमानस्य, उल्लोलस्य महातरङ्गस्य, शङ्काकरं तद्विषयसन्देहदायिभ्रूयुगं यस्य तम् ॥
॥ इति भ्रूवर्णनम् ॥
अथ ललाटवर्णनम्
कान्त इति ॥ कान्तो मनोज्ञः, कस्तूरिकाङ्क: कस्तूरी मुद्रा यस्य स: अलिकं ललाटमेवार्धेन्दुः यस्य तम् ॥
॥ इति ललाटवर्णनम् ॥
कालिकेति ॥ कालिकाया मेघपङ्क्ते: कलङ्के अपवादे अभियुक्तं सन्नद्धं कैशिकं केशसमूहो यस्य तम् ॥
॥ इति केशवर्णनम् ॥
अथ मुखवर्णनम्
कालित इति ॥ कालितो निरस्तः आनम्राणां पङ्क: पापमेवान्धकारस्तस्यालि: पङ्क्तिस्तस्य, अहङ्कारोऽभिमानो, येन स चासौ हासांशुः स्मितकान्तिस्तेन, सङ्काशि शोभमानं, सज्जन् उद्यन् मृगाङ्कश्चन्द्रस्स इवाचरत् आननं यस्य तम् ॥
॥ इति मुखवर्णनम् ॥
अथ मकुटवर्णनम्
काञ्चनेति ॥ काञ्चनश्रियः स्वर्णशोभायाः, कुटुङ्काभ: विश्रान्तिकुञ्जसन्निभः, कोटीर: मकुटं, तत्र सङ्कनन्ति शोभन्त इति सङ्कानीनि रत्नान्येवागदंकाराश्चिकित्सकास्तेषां भाभिर्नश्यत् अङ्के समीपे आस्त इत्यङ्कासिमालिन्यं पङ्क इव मालिन्यपङ्क: एवातिरुक् महारोगो यस्यास्सा दिशो विटङ्का इव कपोताद्याधारभूतास्तुल्या इव तेषामावलिः यस्य तम् ॥ यथा चिकित्सकैर्नीरोगाः क्रियन्ते एवं यस्य मकुटरत्नैस्स्वकान्त्या समीपगतमालिन्यमपनुद्य दिश: प्रकाशिताः क्रियन्ते ता: तादृशाः ॥
॥ इति मकुटवर्णनम् ॥
जानकीति ॥ जानक्या: मङ्गलापाङ्ग: शोभनकटाक्ष एव कालिन्दिका यमुना तया आसङ्गिनी आसङ्गवती लावण्यमेव गङ्गा श्रीरामदेवकान्तिरेव गङ्गा तस्यामादृतः सादर: अनङ्ग एव मातङ्गो गजो यस्य तम् ॥
यथा गङ्गामवगाह्य गजो मज्जेत् एवं भगवलावण्ये स्मरो मग्न इत्यर्थः । मदनातिशायिसौन्दर्यशालिनमिति यावत् ॥
जगतां मङ्गलं श्रीमूलरामदेवं ईडे स्तौमि ॥ गौडरीतिस्फुटाटोपविकटार्थपदोद्भटः । सुमतीन्द्रकृतिर्दीप्रानुप्रासो रामदण्डकः ॥
सतां मौलिषु कोटीरन्वतंसन् कर्णवीथिषु । हारन् कण्ठे सरामेण करुणां मयि कारयेत् ॥
सतां मौलिश्रवः कण्ठकिरीटोत्तंसहारकः । रोचतां सौमतीन्द्रोऽयं हरये रामदण्डकः ॥
॥ इति सर्वतन्त्रस्वतन्त्र श्रीमत्सुमतीन्द्रतीर्थ श्रीपादविरचित - रामदण्डकव्याख्या सम्पूर्णा ॥
॥ श्रीकृष्णार्पणमस्तु ॥