[[श्रीनिवासविलासचम्पू Source: EB]]
[
** ॥ काव्यमाला ॥**
** ॥ श्रीवेङ्कटेशकविप्रणीता ॥**
** ॥ श्रीनिवासविलासचम्पूः ॥**
** ॥ श्रीधरणीधरकृतटीकया समेता ॥**
** ॥ पूर्वभागः ॥**
** ॥ प्रथमोच्छ्वासः ॥**
वंशस्ते मुरली तदस्तु भण भो गोत्रं फणीन्द्राचलो माताहं जगतां त्रयस्य सविता वामेतरा दृङ्मम।
क्वास्ते ते शरणं त्वमेव सुमुखीत्येवं हि पद्मावतीं वाचा संमदयञ्जयत्यनुकलं श्रीश्रीनिवासो हरिः॥ 1 ॥
भवसिन्धुपारगमने कवितामार्गप्रकाशनेऽपि मम।
मानवमृगराजगुरोः सेवोडुपतरणिसरणिमावहतु॥ 2 ॥
कविता भुवि तावदेव वन्ध्या भविता यावदयं न वर्ण्यते हि।
तरसा सुरसालवद्वदान्यः सरलालापवशंवदो मुकुन्दः॥ 3 ॥
उग्रोऽप्यसत्कृतार्यः कीर्तिविहीनोऽपि पङ्कयुक्तो यः।
मन्दोऽप्यशनिकठोरो दुर्जनसंघस्तनोतु मयि करुणाम्॥ 4 ॥
रसमयजनतोल्लसितं मध्येसभमत्र शब्दजालं मे।
सद्गुमसंपद्दर्शकमथ भूयाद्वृत्तशास्त्रवत्सततम्॥ 5 ॥
विजयी भवतु। यस्तु स्वस्यैव चरणवत्कमलोल्लासं दधानः। जङ्घावच्छरधिगम्भीरः। उदरवद्बलिविभङ्गशाली। नाभिवदात्मभूजनननिदानपद्मोपगूढः। भुजवत्सद्वृत्तशोभितः। करवत्सच्चक्रनन्दकः। वक्षःस्थलवत्कान्तया श्रियोल्लसितः। कण्ठवत्सन्मालालंकृतः। मुखवत्कलानिधिख्यातियुतः। अधरवद्रक्तरक्तः। दन्तवन्मुक्तावलीहृदयंगमः। नयनवद्रक्तनीलः। ललाटवत्सतिलकः। कुन्तलवच्छ्यामाधिकरुचिः। अवतंसवत्कलापमयः। श्रीश्रीनिवासो नाम वसुधाधिपः।
किं च, यश्चरणश्लाघ्यं भुजं ललितांसश्रियं वक्षःस्थलीं सर्वतोमुखजातशोभान्वितं पादं च वहति।
अपि जच, यः पादे प्रेमास्पदं चक्षुः नितम्बे कल्याणगुणान्वितं नेत्रं वक्षसि विपुलनयनाभियोगं च धत्ते।
अपि च, अथोदरशोभां च कण्ठे कंधरोल्लसितत्वं केशेषु कुन्तलसत्स्थितिं पाणौ सदाशयाभिरामत्वं सर्वाङ्गे च धारयति।
यं चाङ्गदोल्लसितं सङ्गरचितशोभान्वितसूर्यसुतं रामं रामानुजं चाहुः।
येन च शरेणेव बहुविदारणक्षमेण सुकविकाव्यबन्धेनेवापरुक्षरमैत्रीभाजा महावराहेणेव महीभूजाश्लेषरसज्ञेन मुमुदे प्रजा।
यस्मै च माधवाय ललितलताङ्गीकरणयोग्याय उत्कलिकाभिरामा सज्जालकोल्लसिता अनेककोषस्थितिरमणीयायोजना लताततिरिव रुक्मिण्यादिमहिषीजनता न केवलं स्पृहयांबभूव, किं तु लसत्पीनपयोधरचक्ररुचये प्रद्युम्नोद्धवानुकूलाय अक्रूरभानुमुखोल्लसिताय तिरस्कृतकुजन्मने गजमल्लदर्शितविक्रमक्रमाय तथाविधो गोपबालाजनश्च।
यस्माच्च बहुलयादवसंततिर्दवसंततिर्बहुलया चाभूत्।
यस्य चाद्भुतकरश्रियं सदाशयो बहु मेने। श्रवांसि श्रुतयो गायन्ति। चेतोवृत्तिं सुमनस्ततयोऽभिनन्दन्ति।
यस्य चामीकरोज्ज्वला भूषा गजाश्च। चापापकारिणी भ्रूलता मनोवृत्तिश्च। चामरश्रीविराजिता कीर्तिः प्रजा च। चातुर्यान्विता द्विजाः शत्रवश्च। चमत्कृतिज्ञा मन्त्रिणः कवयश्च। चारुतोल्लसिताः स्वस्त्रीक्रीडाः पूरस्त्रीक्रीडाश्च। चतुरङ्गलीलान्विताः क्वचित्कालक्षेपा रथाश्च। चराधिकोल्लसितं वार्तानिवेदनं चेतश्च। चाराधिकोल्लसितं मण्डलेश्वरकदम्बं चक्रं च। चापक्रीडा युधि यमुनायां च। चरणोत्पन्ना गङ्गा कीर्तिश्च। चपलालसमाना स्त्रीकटाक्षततिः शत्रुश्रेणी च। चेलाकर्षणतत्पराः स्त्रीणां कामिनो वर्षासु कर्षकाश्च। चकोरकानन्ददायी मुखचन्द्रः कुचश्च वनितानाम्। चपेटिका शत्रुमुखे चर्या च गुणानाम्। चेतः प्रसादरम्यः सर्वोऽपि जनः कटाक्षश्च।
यस्य स्मरविद्वेषी सुन्दरभावः प्रतापश्च। स्मरणश्लाघ्या द्विजा वीराश्च। स्मरतिमनोज्ञा वनिताजनता वियोगे भर्तारं सौन्दर्येण च। स्मरोचिताकाराः पुरुषाः स्त्रियश्च। स्मार्ता आचाराः शत्रवश्च।
किं च, स्मरचितव्यथो वियुक्तस्त्रीजनः न मित्रजनः। स्मयशोभाधरो भटवर्गो न शत्रुवर्गः।
यस्य च राष्ट्रे हरणोद्योगभ्रष्टाश्चोरा रिपुवीराश्च। हरागहृद्या चन्दनलिप्तकुचयुगी अधरपुटी च स्त्रीणाम्। हारावगुण्ठितकण्ठाः सुहृदः शत्रवश्च। हेलासक्ताः कामिनः कर्षकाश्च।
यस्य तुरङ्गस्थानेऽश्वा वेश्याश्च नटन्ति। त्वरान्वितमश्वचक्रं चक्रं च। त्वचारुचितशोभं मृगकदम्बं शत्रुवृन्दं च। त्वङ्गदभङ्गशोभान्वितो मित्रभुजः शत्रुभुजश्च।
यस्य चरविहितशोभमप्यरविहितशोभं चक्रम्।
किं च, गानं तानि। सदो वितानि। मण्डलान्यवितानि। हारि विहारि अविहारि च स्तनमण्डलं स्त्रीणाम्।
यस्मिञ्शासति वसुमतीं गिरिविभ्रमा गजा इव द्विजाः समदा द्विजा इव गजाश्च। सुप्रतीकस्पृहणीयाः करिण्य इव तरुण्यः सार्वभौमयोग्यास्तरुण्य इव करिण्यश्च। कलमहिता वाणीव केदारश्रेणी बहुधान्यहृद्या केदारश्रेणीव वाणी। अधिकामितसङ्गाः स्त्रियः पुरुषाश्च। अधिकवचस्थितिरम्या भटाः शुकाश्च। अधिकवलिताः शत्रवः स्त्रीकटाक्षाश्च। अधिकम्परहिता रणे भटाः सभासु वाचः।
किं च, सिन्धुप्विवाधिकपोतविचारो गृहप्राङ्गणेषु वलभीविटङ्केषु च। महारण्येष्विवाधिककोकागमविलसनं कामिषु प्रमदवनेषु च। शत्रुरिवाधिकमलयशोभाधरो वसन्ते वायुर्युवसु स्त्रीकटाक्षश्च। गीष्मोप्विवाधिकाकोलदर्पहृतिर्विषवैद्येषु मृगयासु च। स्त्रीजनतेवाधिकम्पाकामितश्रीरहितततिः कविता च। पिका इवाधिकलालाप बालका विद्वांसश्च।
किं च, अधिकपटोल्लसिता अधिकचोरीकृतशोभा अधिकोपचारविदग्धाः स्त्रियो न पुरुषाः।
अद्भुतमेतत्-यदेते राजसचिवा बहुलरचितशोभां वहन्ति। तथाहि-लक्षोपकारमन्त्रविदो रक्षोपकारमन्त्रविदश्च। लक्षणप्रकारज्ञा रक्षणप्रकारज्ञाश्च। लताङ्गीकृतप्रणया रताङ्गीकृतप्रणयाश्च। किं च, बहुललामान्विता बहुलरामान्विताश्च। बहुलमण्यालिङ्गितवक्षसः बहुरमण्यालिङ्गितवक्षसश्च। बहुलाज्योपभोगक्षमा बहुराज्योपभोगक्षमाश्च। बहुलचितशुभाचारा बहुरचितशुभाचाराश्च। बहुलसाहसोचिता बहुरसाहसोचिताश्च।
किं च, सगदः कुमुदक एव। पुण्यजनद्वेषिणी कौमोदक्येव। नाभिजातः सनदेव। अप्रमदः सनत्कुमार एव। उग्रप्रियाः पशव एव। विषमदृष्टिः पशुपतिरेव।
अपि च, मधुस्थितिः सरसिजेषु। मागधोल्लासः स्तुतिपाठसमये। रसभङ्गयुक्तत्वं तरङ्गिणीषु। कुप्रीतिर्महावराहस्य। कुमारिकाख्यातिः कन्यानाम्। कुमुदाकरत्वं सरसाम्। विषमहितता सर्पाणाम्। दुष्कीर्तिः कुल्यासु। दुर्बीजदर्शनं मन्त्रशास्त्रे। कुशासनग्राहित्वं तापसानाम्। सवितृद्वेषः सैंहिकेयस्य। मातृविरोधः शुम्भस्य।
किं च, कुवेण्याख्या मत्स्याधान्या न वनितानाम्। विकचासङ्गो ग्रहाणां न यूनाम्। पराभवः संवत्सरेषु न सैन्यस्य।
विनायकत्वं गरुडेभवक्त्रतथागतेष्वेव मुहुर्ललास।
सभासु सेनासु नितम्बिनीषु माणिक्यमालासु न वै बभूव॥ 6 ॥
अपि च, सुमनःसु पतितद्विजः पूषा। उग्रकराभियोगभाक् कमलवर्गश्च। सच्चक्रशब्दवाच्येष्वरसंगतशोभमायूधं सूर्ययोगहृष्टं कोकमाहुः। कलोल्लसितेषु कलङ्की चन्द्रः पक्षपाती पिकश्च।
किं च, श्रीमत्सरस्थितिः क्रीडोद्यानेषु कण्ठेषु च न लोकेषु। अलङ्कारोचितत्वं सीतायाः पद्यानां च न जनानाम्। सततमहीशमदो जलदकालः सर्पराजे न राजसु।
किं च, अपदानि शत्रुवृन्दानि पद्यकदम्बं च। सत्पद्यानि कविनिकुरुम्बाणि शत्रुजालं च। अनुगतमृडानि योगिचक्राणि स्त्रीजातं च। पवित्राणि द्विजकुलानि शस्त्रं च। नालानि नालीवृन्दानि गजयूथं च। भानि नक्षत्राणि जनकदम्बं च।
सत्सङ्गरहितभावं विषमहितत्वं च पल्लवरुचिं च।
सैन्ये सरसि रमण्यो जानन्त्याम्रद्रुजालेषु॥ 7 ॥
किं बहुना,
विधुः संपदि चापेऽसौ सोमस्तारापतिर्गिरि।
तस्मादस्मिन्महीपाले राजत्वं राजते सदा॥ 8 ॥
किं च,
धनुर्विद्यावतां श्रेयाञ्ज्योतिषां योंऽशुमानिव।
यशसा यस्य भाति स्म द्वितारानाथवज्जगत्॥ 9 ॥
यस्य प्रकृतयो वश्या इन्द्रियाणीव चेतसः।
नयेन तस्य विद्येव शुशुभे तेन मेदिनी॥ 10 ॥
पुरी यस्य जनैः पूर्णा जना गुणगणैरिव।
हया यस्य जवैर्युक्ताः सपक्षा इव मारुताः॥ 11 ॥
भूमेरकृष्टपच्यत्वाद्द्विषां निःशेषितत्वतः।
यस्मिन्राजनि जानीमो ज्याकृष्टिर्नैव विद्यते॥ 12 ॥
प्रजाभूत्यर्थमेवास्य धृतिश्चापकलत्रयोः।
संख्योल्लसन्तो जानन्ति तद्विग्रहसुलक्षणम्॥ 13 ॥
वेणी स्रोतो निशा रात्री रतिः कामनितम्बिनी।
रोहितं यद्रिपुस्त्रीणामृजु शक्रशरासनम्॥ 14 ॥
किं च, यश्च सत्तिलकतया चित्रकामितसौन्दर्यः। सद्वलयभूषिततया विपुलकटकरचितपुंनागशोभान्वितः। गौराम्बरतया शुभ्रानन्तश्रीविराजितः।
किं च, माधवतया वैशाखेडितः। अम्बिकानन्दतया वैचित्रवीर्यः। निर्जरतया वैमानिकामितरूपः। सन्मालालंकृततया वैजयन्त्युद्भूतिरुचिरः। सुमुखोऽपि वैमुख्यस्थितियुक्। सर्वसुहृदपि वैरोचितः। मैत्र्याधिकासक्तोऽपि वैराधिकासक्तः। वैकुण्ठोऽप्याशुगसंप्रदायज्ञः।
अपि च, यस्य च पुरी अयोध्येव द्वारका। यत्र हि रामानुरक्ता उद्धवप्रमणयिनः अक्रूरकर्मानुकूलाः सुमन्त्रोल्लसिताः सुयज्ञाभिरामा लसद्दशरथाः सुमित्रोपेता निवासिजनाः।
यत्र च स्तननरुचिरो मेघ एव न स्त्रीजनः। मदनरुचिरवासुदेव एव न गजसंघः। कदनमञ्जुर्भटवर्ग एव न कुन्तलकलापः।
किं च, भवनभूषणानि केतकदलानीव कलत्राणि।
अपि च, क्वणनमञ्जुलापि न क्वणनमञ्जुला वीणा।
कथं न सा स्वर्गादतिरिच्यते। यतः, यत्र स्वर्गे सदापविघटितत्वम्। महाकुलगिरिपक्षच्छेदके प्रभुता। कुमुदहितकारिण्याः करिण्या अनुपमाभिधानरमणीयता। वसन्तं माधवमसुमनसं प्राहुः। सदामलकविस्पष्टस्पर्धिनं गुरुमाहुः। सदाशक्रयशोभां वहति देवगणः। कृशानुभावमङ्गीचकाराग्निः। वैवस्वतं यमदेवमाहुः। वरुणस्तु न विप्रचेताः। अलीकदृष्टिः शिवः। कुबेरस्तु गुह्यकामितप्रणयः। किं बहुना, स्वः पुरंदरं वहतीति लोकापवादः।
अलमतिविस्तरेण। यश्च,
सुरवरदः सुरवरदः सकलः सकलो बली बली सततम्।
ललितप्रमदो ललितप्रमदः सरसश्च सरसश्च॥ 15 ॥
पादे यस्य हि मालती कुवलयं यस्योदरे राजते वक्षोलंकरणं तनोति कमला वासोऽपि कोशालये।
कुन्दश्रीः कुमुदोल्लसच्च भवनद्वारोपशल्यं सदा जीयात्सत्सुमनोभिरामचरितः श्रीकृष्णकल्पद्रुमः॥ 16 ॥
यस्य च पञ्चधारातिभयंकरमपि सहस्रधारातिभयंकरमश्ववृन्दम्। अस्त्वेतत्। स हि कदाचिन्निरन्तसुखानुभवकुण्ठेतरमहिम्नि वैकुण्ठे वनितासु न चरमया रमया रममाणो धरणितलशोभादिदृक्षया तत्र तत्र पर्यटन्नेकाकी कस्मिंश्चित्प्रदेशे खड्गचक्रशरासनशिलीमुखोद्भासितं मत्तसारङ्गहरिचक्रिशोभितमनेकभूदारकुलसेव्यमानपादं महाराजमिवाशेषभूभृदत्तंसंकंचन पर्वतं ददर्श।
स एव हि वरचक्षुःश्रवणनिर्जरकन्यकाविहारभूमेर्विश्वाधिकां काञ्चनश्रियं वहतो धराधरख्यातिं गतस्य गौरद्युतेरगराजस्यापत्यं नागराजस्यांशावतारः शेषाचलो नाम। यश्च गिरिशोऽपि चन्द्रस्वरूपः। तुङ्गभद्राकृतिरपि शतद्रुशोभितः।
अथ चैनमालोकयतस्तस्य चेतसि चिन्ता समजनि। किमयं विन्ध्यो भवेत्। नहि नहि। स हि करीरजाततिरस्कृतमहिमा। अयं पुनः स्वपादैकदेशाश्रयवर्धितकरीरजातः। नापि मेरुः। स च सुराक्रीडम्। नापि महेन्द्राद्रिः। स ह्येकरामाश्रयः। अथ वा सोऽयमेव भवेत्। शेषमारुतविवादेन भूतलं प्राप्तः दिव्यभोगिकुलप्रणयिनः कलधौतरूपस्य रत्नसानोरपत्यं सर्पराजस्यांशावतारो भगवान्भुजंगाद्रिः। भवतु यो वा को वा। अवगाह्य पश्यामीति।
ततश्च तथा कृत्वा सानुगोऽप्येकाकी सुपादोरुनितम्बमध्यदेशोल्लसन्नाभिशोभां सुललितकर्णनेत्रां शिखरमनोज्ञदन्तावलीविराजितां कुन्तलसत्केतकसुमां पुंनागस्पृहणीयां पर्वतैकदेशस्थलीं तत्र कांचन वनदेवतां चापश्यत्।
अथ तया वनदेवतया देव, अयमद्भुतनिदानं पर्वतेन्द्रः। यतोऽस्य मनोजवसत्त्वम्। तथाहि-अत्रेदं नन्दनं वनम्॥ यत्र समन्दारानन्दमनुभवति जनः प्राप्नोति च संतानसुखम् महाकल्पलताङ्गीकरणबद्धस्पृहश्च। लसद्विपारिजातं हरिचन्दनं च पश्य। किं च, सदाखण्डलसद्धिचारश्च लसति। सदामरालीसंचारश्च राजते। ललिताप्सरसां गणश्च शोभते।
अपि चायं क्वचिद्धातुरागरञ्जिताम्बरो मस्करी दर्भासनभूषितः परिगतमुनिगणो निकटशोभमानकरीरो निरुद्धाशावकाशोऽनुकरोति संन्यासिनः। क्वचित्सनारदः पर्वतत्वं सफलयति। क्वचित्कौशिकमदनार्कसोमसिखिवरुणावासतया स्वर्ग इवोपलक्ष्यते।
(किंचिद्विहस्य)। देव, इतः पश्य। अत्र हरिपतिर्गजं विदारयति। शरभः केसरिणं बाधते। ऋक्षस्त्रासितलक्ष्मणः। रामो नलं भक्षयति। नीलो गवयश्चोन्मूलितरम्भः पनसमपि भङक्तुमिच्छति।
अनन्तशाखोल्लसितागमश्रीर्न्यङ्कुव्रजाराधितपाददेशः।
नानाद्विजालापमनोहरोऽयमाचार्यलीलां विवृणोति शैलः॥ 17 ॥
इन्द्राणीरुचिरतराप्सरोभिरामो ज्ञातैरावतवरकुम्भरम्यलक्ष्मीः।
सोऽयं निर्जरवनिताविहारभूमिः शैलेशः प्रथयति पाकशासनत्वम्॥ 18 ॥
किं च,
सुहितमिलिन्दा बहुलमरन्दा परिमलपुञ्जाकलितकरञ्जा।
इह नृप मल्लीव्रततिमतल्ली निबिडितपत्रा कुसुमविचित्रा॥ 19 ॥
(साश्चर्यम्।) इति उत्तरतो देहि दृष्टिम्। मधुरावन्यां कृष्णेनेव धन्यां कृष्णवर्त्मना क्रीडितं भवेत्। यतोऽयं पर्वतैकदेशो हीनबको नष्टहंसो मृदितसृगाल उत्सन्नबाणो दग्धभूमिजस्त्रासितगजमल्लः।
दलन्मल्लिकाजालनिर्यत्ननिर्यन्मरन्दद्रवासारमत्तालिगीतम्।
समाकर्णयद्भिः कुरङ्गैर्द्विपारिं विलोक्यापि नो भूभुजंगप्रयातम्॥ 20 ॥
इत पुरस्ताद्भारतसमर इव धनंजयोल्लासो दृश्यते। तथा हि विपक्षीभूय शकुनिर्नश्यति। द्रोणोऽपि मृदितपक्षः। भीष्मोऽयमुलूकोऽपि ग्रस्तः। अत्रात्र पलायितं शल्येन। कर्णोऽपि दग्धः। एकाकिना धार्तराष्ट्रेणोत्पतितम्। अत्रात्र शरासनानां भङ्गः। शिलीमुखाश्च्युतलक्ष्याः संचरन्ति। सर्व एते भूभृतं स्वेदयन्ति।
क्रीडत्कीरां नीलतमालां वनलक्ष्मीं शक्राशमाढ्ये सानुनि जातां गजवृन्दैः।
दृष्ट्वाक्रान्तां विस्तृतपक्षो घनबुद्ध्या नृत्यति पक्षी मत्तमयूराभिध एषः॥ 21 ॥
किं बहुना।
फालवत्तिलकोल्लासी रम्भारम्यश्च रूपवत्।
नेत्रवत्कमलानन्दी कान्तानां पन्नगाचलः॥ 22 ॥
क्वचिच्च तालाधिकसुन्दरश्रीः क्वचिच्च कुम्भोन्नतचारुलक्ष्मीः।
क्वचिच्च पीनोच्चकरीरसंपच्छेषाचलोऽयं कुचवन्मृगाक्ष्याः॥ 23 ॥
इति सादरमुद्दिश्यमानानि वस्तून्यवेक्षमाणः क्विचत्प्रदेशे अगस्त्यभयाद्विलीनमिव सागरं सिन्धुनिर्माणमभ्यस्यतो विश्वस्रष्टुरुच्चावलीव हरिणा कल्पितम् अभिनवसमुद्रनिर्माणसमय इव विधेः पुराणानेकपारावारप्रक्षेपस्थानं विश्वकर्मविनिर्मितसुजनहृदयनिर्मलानेकस्फटिकसोपानावलीप्रतिबिम्बितसुरभिलमरन्दधाराकलितललितबिसकुसुमसौरभ्यलुभ्यन्मधुकरनिकरमञ्जुगुञ्जितसमाकर्णनविवशान्तरङ्गकुरङ्गशावकमारणेच्छानिपतद्विफलीभवदुड्डीनसहस्रमन्दाक्षमुद्रितमत्तशार्दूलं जलार्द्रविशदवसनान्तरितप्रस्फुटोपलक्ष्यमाणपीनोच्चकुचकलशसंजातमत्तमातङ्गकुम्भयुगलभ्रमजनितविदारणस्पृहागतकण्ठीरवकिशोरकभयार्धमज्जद्वनदेवतानिकरं देवार्चनकुसुमावचयासक्तबाल्यावधिबद्धब्रह्मचर्यव्रतदूरीकृतमदनतन्त्राभ्यासमुनिकुमारकनखाङ्कुरक्षतजनितसीत्कारानुमीयमाननजलविहारपरवशजलमानुषीजनवदनपद्मभेदं तटनिकटावटस्थलीनिलीनजृम्भमाणपुंभावलीलाविवशविद्याधरवररमणीमणीममृणमणितश्रवणजनितकपोतपोतकण्ठारावभ्रमभ्राम्यच्छौङ्गेयशतसंकुलं वराहवनितादत्तगाढाङ्कपालीदोहदप्रपुल्लबालकुरबकवनीपरिगततटैकदेशं कामिनमिवोत्कलिकासङस्रमर्जुनमिव सिन्दुराजपरिपन्थिनं ललनाहस्तमिव विलसदूर्मिकाचक्रं उच्चैःश्रवसमिव शुभावर्तहृद्यं साकेतदेशमिवोर्मिलास्यदर्शनमुदितलक्ष्मणं राज्याभिषेककालमिव पुण्डरीकच्छायानिषण्णकलहंसं कालियनागमिव कृष्णवेणीसमं कलशपारावारमिव जलैकदेशसुखसुप्तचक्रिणं जनितपद्मं च दृष्टमातङ्गकुलविहारमपि शुद्धं सपङ्कजातमपि निष्पङ्कजातं जडाशयमपि नवरसोल्लसितं स्वामिपुष्करिणीति विश्वविख्यातं कमपि कासारमपश्यत्।
अथ तदवलोकनाद्विगतपरिभ्रमणायासः क्षणं विश्रम्य हंस इव केवलं क्षीरमयमाहारमुपकल्प्य माध्व इव सद्वातागममभिनन्दंस्तत्तीर एव नक्षत्रगणस्येव संबद्धमूलस्य सफलजन्मनः गरुडस्येव सुपर्णस्य चिञ्चातरोरधः प्रदेशे पातालगतागतमार्गमिव वसुंधरानाभिमिव किमपि वल्मीकमवालोकयत्। अचिन्तयच्च-इदमस्माकमावासस्थली भवेत्। यतो निकट एवेयं पुष्करिणी घनरसमयी वनितेव सु खयति सफलितस्वापा च। अयं वृक्षोऽपि कुटुम्बीव सार्थकितसुतरुतस्तोषयति द्विजाश्रयश्च। इयं कल्याणी गगनगङ्गा। निवसत्यविदूरे सखीवानुकूलितकमला धराभियोगगृद्या च। एते पक्षिणोऽपि ऋषिगणा इव पुराणागमप्रणयिनः खेदमपनयन्ति सकलकलाश्च। एष भगवान् क्रोडरूपी हरिरत्रैव निवसति। नूनमयं कलितधराधररुचिरेनां महीं क्षणमपि न विमुञ्चति। इत्येवमालोच्य वासमकरोत्।
ततश्च गतेषु केषुचिद्दिवसेषु कदाचिद्वामलूरविवरान्निर्गत्य क्वचिद्वनोद्देशे यास्यन् क्रोधजातितया नारायणावतारतया च भूदारं जङ्गममिव रजतार्द्रिं मूर्तिमन्तमिव रौद्ररसं जनकमिव शेषाचलस्य घोरधृष्यद्धरट्टकसपत्नेन कण्ठारावेण हसन्तमिव पुष्करावर्तं स्मरन्तमिवाद्यापि हिरण्याक्षयुद्धंसंरम्भस्य भगवन्तं कुहनावराहमद्राक्षीत्।
तदनु अनिमिषलोचनलोभनीयश्रीर्लसत्क्रोडाकृतिर्गौरपयोधरराजमानदिव्यकान्तिरचलानन्दहेतुरयं जगत्स्रष्टुर्नासाविवराल्लब्धजन्मा स्तब्धरोमा इयं देवी धरा च। भवतु। दिष्ट्या दृष्टिमार्गमगमदेतन्मिथुनम्। तदेतत्प्रणामविषयीकरोमि। इयं सरलता मद्गुणानां सेयमम्लानता पुष्पाणामविकृतिः क्षीरस्य मणेरकाठिन्यं निधुवनस्यावसानं लक्ष्म्या अचाञ्चल्यं बिदुषाममात्सर्यं तपसो निष्कामता मैत्र्या निर्व्याजता स्त्रीणां योग्यसमागमः सुकवेः श्लेषकाव्यरचनावैदग्ध्यं सकलजनश्लाघनीया भवतीति निश्चित्य यावत्तथा कर्तुमिच्छति तावद्वराहदेवोऽपि दूरान्निरीक्ष्य हंहो पुरत एव श्रीनिवास इव लक्ष्यते। अये अधररसविनिर्जितनवसुधे वसुधे, त्वमपि विचारय। तव कुचाभोगेनेव चक्रहृद्येन करेण चन्द्राचलसौन्दर्यहरेण मुखेन सरलतामनोज्ञेन चरितेन मदाश्लिष्टेन लोचनयुगलेन सर्वभूभृद्दर्पहारकेण प्रतापेन राजमानो राजमानहारिवदने वद तेना तवायं श्रियो न वेति सभुजाचालनं कुचिधिक्कृतगोत्रया गोत्रया सह संलपन् फुल्लपङ्कजनयनो द्रुतमागत्य पादयोर्नमन्तं स्वेन समं तं वत्स, किमेतत् क्व भवान् क्वायं पन्नगाद्रिः क्वागमनक्रमः क्व दर्शनम्। अयं परीपाकः प्राचीनपुण्यस्य। इदं फलं तपस्तरोः। इयं सूचना भाविकल्याणप्राप्तेः। सर्वथा नमोऽस्तु भगवतेऽतर्कितघटनापटवे भागधेयायेति व्याहरन् हरन्निव मानसं ध्यानसंगत इव किंचित्स्थित्वा वीरलक्ष्मीनखक्षतायितहिरण्याक्षगदाघातकिणाङ्के वसुमतीकठिनतरकुचयुगलसंघर्षमसृणिते भुजान्तरे क्षणं कृत्वा वत्स, दिष्ट्या तादृशमहावीरकदम्बकालरात्रिकल्पाद्भारतसमराद्वत्साया इन्दिरादेव्याः सौभाग्यादेवोर्वरितं जानामि। भवतु तावत्। कथयैतत्-कच्चित्कुशली यादवेषे कौरवेषु च सुराजन्यमार्गप्रवृत्तेष्वन्धककुलशिखामणिरुग्रसेनो धृतराष्ट्रश्च। देवकीनाशस्पृहास्थानं कंसो युधिष्ठिरश्च। सुवलाङ्गप्रणयी अनिरुद्धः कर्णश्च। तोषितसाम्बः प्रद्युम्नो गाण्डीवधन्वा च। उल्लसदनिरुद्धकामो बलभद्रो दुर्योधनश्च। स्वगुणश्रवणतोषितकर्ण उद्धवः शकुनिश्च। सदानपगतसत्प्रीतिः कृतवर्मा भीमसेनश्च।
अद्य मेऽभूद्वराहश्रीः श्रीनिवास त्वदीक्षणात्।
बहुना किं त्वदाश्लेषैर्धन्या क्रोडस्थितिश्च मे॥ 24 ॥
इति बद्धालापः क्व भवानित्यादि पूर्वोक्तमेव स्तब्धतारं चालितमौलि नासाग्रस्थापिताङ्गुलिकमाम्रेडयन् तेनापि क्वचिन्मौनमुद्रया क्वचिदन्तर्व्यथापिशुनशुष्कहासेन क्वचित्कण्ठरवेणापि नरकवधवर्जं स्ववृत्तस्य ख्यापयित्रा लक्ष्मीनेत्रा सह कस्मिंश्चित्प्रदेशे क्षणमासांचक्रे।
अथ श्रीनिवासोऽपि विनयबहुलया तद्वाचाभिनन्दितो भगवन्मायादंष्ट्रिन्,
सरसा विशदा क्रोडीकृतसारगुणा तनुश्च वाणी च।
नानार्थाय प्रभवति कस्य न दृष्टा श्रुता वा ते॥ 25 ॥
किं च। देव, अत्र किंचित्कालं वस्तुमिच्छामि तद्भवतो भूमिं कामये इत्यकथयत्।
तच्छ्रुत्वा किमयं प्रभोर्वराहदेवस्य महिषीं विश्वंभरादेवीं स्वीकर्तुमिच्छतीति किंचित्कोपशोणितेक्षणे पोत्रिकदम्बे विलज्जमानायां धरादेव्यां वराहदेवेऽपि दर्शंदर्शं देवीवदनं दरदर्शितमन्दहासे “श्रीनिवास, मन्मनीषितमप्येतन्न केवलमेकामेव धात्रीं किं त्विमां बकुलमालाभिधानां धात्रीं च स्वीकुरु कुरुकुलप्रणयिन्, आदौ भक्तैर्मद्दर्शनादिमानः कार्यः। वत्स, एतदपि जानामि नावयोरन्तरमिति तथापि कालः कलिरागतः। त्वमपि स्तोके जले न मज्जसि तदपि ज्ञातपूर्वमेव। यन्मात्स्ये वामने चाप्यवतारे स्वल्पं स्थानं प्राप्याक्रान्तवानसि सकलमपि भुवनतलम्। नोद्धाट्यं मर्म परेषात्। अथ वा किं नः कार्यं जरठानां तथापि मर्यादा कापि वरम्” इति वदति `यदाज्ञापयन्त्यार्यचरणाः’ इति दर्शितविनये वासुदेवेऽतिक्रामति घटिकाद्वये वियन्मध्यमारूढे तमःकुलचित्रभानौ चित्रभानौ
जाताकस्मिकमेधरावमतिभिः संभावितः केकिभिर्निर्घातभ्रमगाढलग्नवनितैरानन्दितः किं नरैः।
श्रीमत्पन्नगशैलराजवसतेः क्रोडस्य लक्ष्मीपतेर्नादब्रह्ममयो ललास नितरां मध्याह्नभेरीरवः॥ 26 ॥
ततश्च यतास्थानं सबकुलां धरां स्वीकृत्य प्रापतुः।
अथ विश्वंभरया पृष्टतद्वृत्तान्तो वराहः कथयामास। शृणु देवि सरसे रसे, सावधानम्। स्पर्शनानन्दभाक् अचलराजसंपद्धरः भूभृत्करप्रसारमहितः अखण्डचक्रश्रियं दधानः तव कुचाभोग इव न्यवसचोचलमण्डलं चोलो नाम महीपतिः।
यस्मिन्विलसति लोचनलोभनीयरस्याकृतौ सन्मालापरिगते सुवृत्ते अत्युन्नतधर्मशालि तव कुचमण्डल इव राजनि अहमिवानिमिषश्रियं दधानः सात्त्विकभावमापन्नः सकामः सकलोऽपि लोकः। एवं स्थिते कदाचित्कापि लसच्छृङ्गारोचिताकारा सुरभिसुमनोहारिणी गोपालबालिकास्वसमानां कामपि गामानीय विक्रीतवती। स राजा तां रोहिणीं सत्यपि महिषीवर्गे पुत्रार्थमचीक्लृपत्। सा च गौश्चिरंतनेन गोपेन पाल्यमानाप्यत्युन्नतं भूभृच्चक्रवर्तिकुमारं शेषाचलमाश्रित्य पांसुलोवाक्षीरा वनमायाति स्म। अन्यदा तु राजदण्डभीत्या वल्मीके क्षरत्क्षीरामाराद्विलोक्य तां धेनुं परशुना जामदग्न्य इव क्षत्रियततिमखण्डयत्स गोपालः। सापि कुहनाधेनुर्योगिराज इव कालजवं तं कुठारप्रहारं यावद्विफलयति तावदेव कल्याणी, किं कथयामि वत्स, वासुदेवस्यौदुम्बरक्षीरार्ककार्पासगवेषणदशा संवृत्ता। तदप्याकर्णय यत्परस्ताद्वृत्तमिति।
ततश्च तव गेयमिव तालप्रमाणोज्ज्वलं रक्तं पश्यतो गोपस्य सावस्था जाता या मुचुकुन्दस्वापभङ्गकारिणो यवनस्य, अथवा सरससाहित्यनिन्दकस्य दुष्कवेः।
अथ ज्ञातवृत्तान्तश्चोल आगत्यालोचयामास। अहो कोऽयमद्भुतदर्शनः सुप्रतीकोऽपि सार्वभौम इव दृश्यते। कल्पोऽपि पुंनाग इव राजते। सुग्रीवोऽपि बलाहकस्यानुकरोति। नीलोऽपि नलसुन्दरः। तिष्ठत्वेतत्। कोऽयमिति जानामि। किमयं प्रतापनिधिः सप्तार्चिः। नह्ययमकृशानुभावं धत्ते। स्निग्धच्छायः सप्ताश्वो भवेत्। अहह निशोल्लसदम्बरपरिष्कृतोऽयम्। भवतु यो वा को वा। कथमीदृशस्यैतादृश्यवस्था। किमिति संभाषयामि। यदि तमेव पृच्छामि नायं प्रज्ञावतां पन्थाः। अथवानालोकितकेन यथागतं पृच्छामि तदितरा का निस्त्रिंशता। अथवा मदीयगोक्षीरमन्यायेन पिबतस्तवोचितमेव जातमिति भणामि। तद्वीथीपिशाचस्य गृहानयप्रकारः इत्येवं विविधप्रकारमालोच्य कथं कथमपि मधुराधिपोऽयमिति ज्ञात्वा निश्चित्य प्राप्तकालप्रतिक्रियेयमिति यावद्दण्डवत्प्रणन्तुमिच्छति तावदेव तं दृष्ट्वा देवोऽपि प्रकोपस्फुरदधरविनिर्गच्छद्रूक्षाक्षराणि श्रावयांचकार। `रे रे चोलेन्द्र, साधु रे साध्वनुष्ठितं भवता। नायं तवापराधः। पापीयान् श्रीमदस्त्वामुत्तरलयति। प्रायस्त्वद्विधा बहवो महतामवज्ञानात्स्वानुरूपं फलमापुः। तथाहि। निमिमदनयोर्विदेहभावः। चित्रकेतोर्नहुषस्य चाहित्वम्। जयविजयनलकूबरादेः पलाशित्वम्। त्रिशङ्कोरिन्द्रद्युम्नस्य च मातङ्गता। अतस्त्वमप्येवं भवे’ति। तच्छ्रुत्वा स भूभृत्तद्वाग्वज्रेण ताडितो निःसंज्ञो निपपात। देवि, वलग्नतुच्छीकृतानन्तेऽनन्ते, चित्रमेतत्।
कुठाराहतिरेकस्य गोपस्यान्यस्य पञ्चता।
पश्य पश्य वरारोहे तदन्यस्य पिशाचता॥ 27 ॥
चक्रिणा श्रीधरेणायं वल्मीकस्थानवासिना।
तेन चोलनरेन्द्रोऽपि क्षणादुद्वेजितः प्रिये॥ 28 ॥
अथ तस्मिन्मोहमापन्ने भर्ता जीवनदानेनापि सत्कार्य इति जलसेकादिना कृततत्प्रबोधप्रयत्ने कस्मिंश्चिन्मन्त्रिणि देव, प्रकृत्या कया धुतनयोऽयं नृसिंहेन त्वया दण्ड्य इति चित्रसमुद्रोदरमज्जनं चेतसः, दाहशक्तिश्चन्द्रिकायामपि दृष्टा भवेत्, कठिनमपि हैयङ्गवीनमिति सचेलाञ्चलप्रसारं प्रणमति श्रीनिवासेऽपि किंचिन्मन्दीभवत्कोपावेशे सकक्षास्फालनं नृत्यति गगनतलावलम्बिनि कलहदर्शननिर्निद्रे मुनीन्द्रे अयमस्याभिनवपिशाचस्य चोलदेवस्य वासार्थं क्लृप्त इति प्राक्स्थिताक्रन्दमुद्भूतकुटुम्बकं जीर्णशाल्मलितरोर्निर्वासयति वेतालभृत्यगणे राजा चोलोऽपि कथमप्युद्बुद्धः साञ्जलिबन्धं वाचमुवाच।
अम्बाविमुखो भीष्मश्चिरजीव्यप्रमदकः प्रजारहितः।
पात्रं नासीत्किं ते करुणायाः किं तथाविधो नाहम्॥ 29 ॥
अथवा किं प्रार्थनया। महतां शापेन जगत्यस्मिन्को वा नष्टः। इन्द्रद्युम्नस्य पुंनागत्वं नलकूबरस्यार्जुनत्वं नहुषस्य चक्रित्वमिव ममापि देवस्य शापः कामप्युन्नितिं नयेदिति।
ततश्च श्रीनिवासोऽपि श्लेषकाव्यबन्ध इव क्षणं कठिनस्वभावो द्राक्षामधुरां मधुराधिपो वाचमुच्चारयांचकार-भो भो महाराज चोलेन्द्र, रोषाधीनचेतसा वृथा शप्तोऽस्मि धिगिधिक्व्रोधाधीनचेतसं नरम्। पश्य पश्य, कश्चन क्रोधनः स हि पुरस्कृतक्षय एव भवति। अस्त्वेतत्। कंचित्कालं सफलितमद्वचनो भव। अचिरादेवैतस्मान्मोक्षो मोक्षश्च ते भविष्यतीति। ततः परं यद्वृत्तं तद्भवती जानात्येवेत्यभिधाय स्वोचितकार्याय तद्दत्तहस्तावलम्बोऽरिवोदतिष्ठत्।
इतश्च श्रीनिवासोऽपि वनादागत्य सह बकुलमालया अहो निष्कारणा मैत्री निर्व्याजा प्रीतिः लोकोत्तरं सौजन्यं निरपेक्ष उपकारक्रम इत्यादिवराहगतालापभूयिष्ठं व्याहरन्नेव-
ललितकमलशोभे पर्वतेन्द्रस्य पादे गमयति कृतसक्तिर्वत्सराणां शतानि।
नरमृगपतिसूरेस्तादृशे वेङ्कटेशः कविरिव विगतान्यव्यापृति श्रीनिवासः॥ 30 ॥
इति श्रीमद्वेङ्केटशकवेः कृतौ श्रीनिवासविलासे पूर्वबागे प्रथम उच्छ्वासः।
.
** ॥ द्वितीय उच्छ्वासः ॥**
अथ कदाचित्क्वचित्सुतमालालोकनजातानन्दः क्वचित्स्थाने लसत्पृथुलकुचतरुण्याहितदृष्टिः क्वचिन्मातुलजातासूयः क्वचित्सुतालसत्प्रीतिक्वचिन्मानिततापसगणः भवन इव वनेऽपि विहरन् श्रीश्रीनिवासः कस्मिंश्चित्प्रदेशे अतिधवलशरीरकान्तिं अनिलवेगविप्रकीर्णकपिशजटाकलापं किञ्जल्कपुञ्जोद्भासितमिव सिताम्भोजवनकान्तिसमूहं कृष्णाजिनावगुण्ठितकलेवरं प्रलम्बवधमुदितमुरान्तकालिङ्गिमिव रेवतीजानिं कृतहरिचन्दनाङ्गरागं गङ्गाजलस्नपितमिव शिवशिरःशेखरचन्द्रकिशोरं सुतारोद्भासमानया दृष्ट्या कान्त्या च महत्या वीणया तपस्यया च राजमानम्, किं च वसन्तमिव सुरभिं ग्रीष्ममिव महातपस्थितिभासुरं वर्षावासरमिव नभस्यागमनं कलयन्तं शरत्समयमिवानुभूतविधुप्रसादं हेमन्तमिव सदाहिमहितं शिशिरमिव पुरस्कृतामाधवम् इत्यनुभूतसर्वर्तुकालोचितचरित्रमप्यज्ञातर्तुकालोचितचरित्रं पाण्डुमप्यर्जुनं आत्मभूस्पृहणीयमपि निष्कामं पर्वतयुक्तपप्यनाश्रितभूभृतं क्षमावासमप्यम्बरचरं अपापमपि नारदभिधानं कंचन तपोनिधिं नयनातिथीचकार। अचिन्तयच्च।
न रागं मानसे धत्ते पक्षपाती च नाभवत्।
हंसोऽयं कश्चिदपरो घनसाररुचिर्यतः॥ 1 ॥
ततः किंचिद्विहस्य यथाविधि संपूज्य प्राह। स्वायंभुव कलहोत्पत्तिनाटकसूत्रधार, कुतो भवान् इति। सोऽप्यवदत्। दक्षिणं पाणिमुन्नमय्य
सूर्यालोके निष्प्रभोऽयं चन्द्रोऽर्को मन्दनन्दनः।
जिह्वां करालीं वहति वह्निः केनोपमीयसे॥ 2 ॥
अस्त्वेतत्। भवद्दर्शनकाङ्क्षया वैकुण्ठलोकमगमम्। यत्र च शोभमानमुक्तावलयः राजमानातनुभाः सरससरसः असदृशः भूभागा वनिताजनश्च। यत्र च कुमुद उत्तरद्वारपालः सद्विषः पर्यङ्करूपः शेषः कलितमहापदो देवगणः न जनाः। गत्वा च। अहो दैवाद्योग्ययोरेव सकललोकोत्तरयोः स्पृहणीयजयविजययोः भासमानबलप्रबलयोः विदुरप्राप्ययोः वैकुण्ठाभिधानयोस्तव त्वल्लोकस्य चेति द्वयोः संयोगः संवृत्त इति सानन्दः तत्राशृणवं भवान्भूलोकं गतवानिति। ततश्चाहमन्विष्येतस्तत आनन्दकाननं गतोऽस्मि। यत्र च।
सदापापिदुरापा सा चन्द्राभापीनलक्षणा।
प्रौढाप्याख्यातमौग्ध्या सा चित्रचर्या तरङ्गिणी॥ 3 ॥
अपि च।
करेहिचक्रं कलयञ्श्रियालिङ्गितकंधरः।
विनायकप्रियः शंभुर्माधवश्च विराजते॥ 4 ॥
तत्राप्यदृष्ट्वा मिलितोभयवाहिनीभरसंमर्दनर्तनलसत्कबन्धे प्रयागे कुरुक्षेत्रे च हरिपदाङ्किते गयाक्षेत्रे हिमवच्छिखरवरकदम्बे च विफलितप्रयासः केवलं द्विजातिसुलभां दक्षिणाशां लक्षीकृत्य प्रवरोपशोभितामपि विप्रवरोपशोभितां गोदावरीं प्राप्य
नमामि मानदां गोदां नयनायनतां गताम्।
नमद्धामनताङ्गीं तां नवपावनभां शुभाम्॥ 5 ॥
इति पद्मबन्धेन स्तुत्वा च ततः केनचिद्दिवसेन गमनकर्मीकृतपाण्डुरङ्गक्षेत्रस्तत्र भवदीयां मूर्तिम्।
नतवत्सल राजीवनेत्र मामव यादव।
नवजीवनदाराव वरादानवजीवन॥ 6 ॥
इति च्छत्रबन्धनेन स्तुत्वा। अथासन्नप्रसवधेनुमिवोभयतोमुखीं कृष्णावेणीमुडुपेनात्रिरिव तीर्त्वा ऋणं पितॄणां तेनैव क्रमेणानेकसुरभिमहिष्यादिभूषितान्ग्रामान्कृष्णानिवोद्वीक्ष्य उडुपवंशावलम्बकदाशार्होत्तारितान्नदीवर्गान्पाण्डवानिवावगाह्य मधुरापुरमिव अन्धककुब्जादिशरणं धर्मशालकदम्बमभिनन्द्य करवीरपुरं गतवानस्मि।
साम्बत्वं मदनस्य शंकररीपोः क्षीराब्धिकन्यागृहप्राशस्त्यं कमलस्य तामरसविख्यातिं गतस्याञ्जसा।
भो वैकुण्ठ सभार्यता च भवतो जाता यया साम्बुज द्वन्द्वश्रीप्रतिमल्लचारुनयना श्रीर्यत्र गोत्रस्तनी॥ 7 ॥
तस्माच्च निर्गत्य अनेकपारिजातोद्भासितानि गिरिकूटान्यतिक्रन्योद्यानानि च पश्यन् अनेककासारसंपदो धर्मशाला अभिनन्द्य किरातगृहांश्चासेवमानः अनेकप्रपापालीपरिगताः पानीयशालाः संपूज्य दुर्जनततीश्च मनसा निन्दन् अव्याजरमणीयाः पल्लीरपहसन् वनिताश्च परिहरन् रामसेतुमगमम्। तत्र च।
ऋक्षाधिराजोद्भवया कालिन्द्या निलया सह।
क्रीडन्सिन्धुर्मया दृष्टो द्वारकायां भवानिव॥ 8 ॥
तरङ्गहस्तैर्मकरीः सुरापगा मुखेऽर्पयन्तं प्रसमीक्ष्य वारिधिम्।
का वा नदी सोत्कलिका न चास यद्बभूव नारीजनतापि तीरगा॥ 9 ॥
अथ च।
सीताचक्षुर्भद्रानन्ददमब्धिं निरीक्ष्य सेतुं च।
त्वद्विरहदूनमपि मे सुखितमिवासीत्तदा तु खलु चेतः॥ 10 ॥
तत्र तु कस्यचित्पान्थस्य वचसा ज्ञातं भवान्पन्नगाचले निवसतीति। ततश्च जातानन्द इत एवागच्छन्मध्येमार्गं कामपीत्यर्धोक्त एव किंचिदारेचितभ्रूयुगुल ईषत्तरलितमस्तकं सामिदष्टाग्ररसनं सपर्वतमुखावलोकनसंजातस्मितं प्रमादमुद्रामभिनीय देव विषयविरसाप्यस्मच्चित्तवृत्तिर्भवत्प्रेम्णाकुलीभवति। अस्त्वेतत्। प्रकृतमनुसरामि। देवस्य चरणयुगुलमपश्यं यदर्थोऽयं प्रयास इति।
एवमाभाष्यालम्बितमौने तस्मिन्नुत्पादितकौतुके नारदे देवोऽपि देवर्षे, कामपीत्यर्धोक्तस्य संवृतिरियं भृङ्गीसंगीतभङ्गीविवशकुरङ्गीहृदयस्य लुब्धकबाणवेधः। किं च।
भवद्विदितार्थस्य ममानिवेदनं सा धनिकस्य पात्रादानप्रक्रिया।
क्व गता ते भैष्मीहरणकालीना निर्व्याजकृपा। भम मुनिकुलोत्तंस
“अनारम्भो मनुष्याणां प्रथमं बुद्धिलक्षणम्।
आरब्धस्यान्तगामित्वं द्वितीयं बुद्धिलक्षणम्॥”
इति किं न श्रुतं भवता। कुरु कोमलं मनः। मा भवतु शिरीषकुसुममपि कठिनं इति विविधानुनयकोविदः कथं कथमपि तद्वृत्तान्तशेषकथनोन्मुखं चक्रे। सोऽपि सफलप्रायो मे मनोरथरसालद्रुम इति निश्चित्याह-
देव, शृणु सावधानमनाः। वारुण्याश्चेतोविलास इव अनन्तमार्गावलम्बिनि मद्देहच्छविकौमुदीभ्रमागतभ्रमद्बालचकोरनिकरपक्षसमीरतरलितवीणागुणक्वणनसमाकर्णनैकाग्रमनसि मय्यागच्छति किंचिन्नकट एव संजातेऽस्मिन्पर्वते पर्वतः सर्वतः संचारितचक्षुरिक्षुरसासारमधुरां मधुराधिप, वाचमवोचत्। आर्य, इतः पश्यतु भवान्। यदत्र लसच्चक्रः राजज्जलजः व्योलोलवनमालः दिव्यसारसनालीलसत्कमलोद्भासितः गरुत्मत्पक्षिसेवितः सदाशेषभोगिप्रियः इन्दीवरश्यामलकान्तिः अयमयमग्रत एवेत्यर्धोक्त एव जृम्भणारम्भेणाकुलीकृतोऽयं तदन्वहमपि चेदेवं भगवाञ्च्छ्रीनिवास एव भवेदित्यालोच्योद्धाट्य नयने क्व क्व साध्वातारचन्द्रं जय जीवेत्याशिषाभिनन्द्य गृहाण पारितोषिकं प्रियमावेदयसीति कटिकलितं गोदावरीस्नानसमयतत्तीरविस्मृतपटीभवत्कृष्णसाराजिनबन्धनपट्टसूत्रं तद्भ्रान्त्या केवलमाकाशमेव समर्प्य विस्मृतदेहभावस्त्वमिव राधाकुचकलशदर्शनेनावस्थितः। ततस्तेनापि कथमयमकस्माद्भूताविष्ट इव चेष्टत इति शङ्कितमनसा किंचिदपसृत्य विस्मयोज्जृम्भमाणतारं वीक्ष्यमाणः यावत्पुरतः पश्यामि तावत्कमपि कासारमपश्यं न भवन्तम्। स च नाम्ना पद्मसर इति। देवेनाप्यौषधिगवेषणकृतबहुपर्यटनेन दृष्ट एव स्यात्। यस्तु अमृतान्धस इव अमानवाः। अस्त्वेतत्। अथ श्लेषवाददुर्व्यसनेनानेन वञ्चितोऽहमिति निश्चित्य तस्य सरसश्चक्रवर्तिन इव जृम्भमाणसहस्रपत्रस्य कण्ठशोभमानकनकमालस्य पुटभेदशोभावहस्य तटनिकटे क्षणमतिष्ठम्। ततः परं यद्वृत्तं तदस्मच्छात्रस्य कलालापस्य कलत्रं कलकण्ठी नाम किंनरी वक्तीत्युक्त्वा विरराम।
अथ तदाज्ञया आह सा यथार्थाभिधाना कलकण्ठी। अत्रान्तरे देव, कुतोऽपि पार्वतीशरीरमिव चन्द्राभरणभूषितं सुमेरुशृङ्गमिव नक्षत्रमालापरिगतकण्ठं विन्ध्याटवीस्थानमिव मृगराजोल्लसन्मध्यदेशं शेषाचलस्वरूपमिव स्फुरद्राजीवपादं नाटकमिव मनोज्ञाङ्कं मनुकुलमिव लसद्गम्भीरनाभिरहूगणचित्तमिव कलितभरतागमप्रक्रियमृषिकदम्बमिव तत्संगीतज्ञानं नक्षत्रवृन्दमिव चन्द्रमुखं माधवद्विजमानसमिव कुन्तलोल्लासितं यौवतमाविरासीत्।
तत्र तद्वनिताकदम्बेषु चन्द्रमूर्तिमिव सन्मान्यां सुहस्तश्रवणां चित्रोत्तरानन्ददायिनीं सल्लक्षणां गौरांशुकां च तथाप्यनाकलितगुरुकलत्रस्पर्शामननुभूताश्लेषामस्पृष्टकलङ्कां दोषानुबन्दरहितामज्ञाततमः संबन्धजातविकारां च कामपि कन्यामणीमद्राक्षम्।
यस्या नारदसदृशः केशपाशो हासश्च देवनागमनोज्ञा वेणी गण्डच्छविश्च अर्धचन्द्रहृद्यं ललाटमण्डलं कटाक्षकदम्बं च सारङ्गधिक्कारि नयनयुगं गमनं च रागोत्तरोऽधरः क्वापि यूनि चेतःप्रसरोऽपि चापापकारिणी भ्रूलता मतिश्च चन्द्रभासुरा मुखशोभा देहच्छविश्च सरलो नासावंशः सखीजनश्च कुण्डली कर्णः रोमावली च रतिसुन्दरं रूपं वयश्च चक्रमञ्जूला नाभिः कुलद्वयी च शङ्खकान्तः कण्ठः पाणिश्च गुरुमनोहरं नितम्बबिम्बं चरितं च हंसकोद्भासिता पदद्वयी सीमन्तकलितसिन्दूररेखा च अनन्तहृदयंगममवलग्नं गुणवृन्दं च विचित्रांशुकाच्छादित ऊरुभागः सर्वावयवसंचयश्च। देव, पश्चाज्ज्ञातं सा कस्यचिद्राज्ञः कन्येति।
अथ सा राजदारिका ताभिः समानशीलवयोविलासाभिः सखीभिः सह जले यावद्विहरति तावदेव देव, तेनैव मार्गेण सुग्रीवसेनानामिव वलीमुखविभूषितानां मेरुदेवीनामिव नाभिरम्यकुचानां वृत्रगदाघातव्यथितगजेन्द्रवन्नम्रकटकानां त्वच्छत्रुततीनामिव विरसानां पुष्करावर्तवन्नीरदानाम् आर्याणामप्यनुग्रभावाश्रयणीनां क्षीणप्रकाशानामपि वृद्धदशानां विनतानामपि वयः संतोषरहितानां अदन्तशोभान्वितानामपि तान्तानां जरतीनां कुलमाजगाम।
ततस्तासां भयेन शीघ्रं निर्गत्य सरसः क्षीरपारावारादिव रमा सहस खीकदम्बा विविधलतावलीमध्यवर्तिनीव कल्पलता कस्मिंश्चिदिन्द्रनीलसोपानशिलातले नीलनीरदमण्डल इव सौदामनी क्षणमतिष्ठत्।
अथ तासु तत्सखीषु काचिदभिनवमधुपानमत्ता प्राह-`अये काञ्चननिभभर्तृदारिके,
ललल्लवङ्गिकागन्धविलसत्सत्समीरणः।
ततं तनोति संतोषं भो भो भोगीन्द्रसंततेः॥ 11 ॥’
इति। तच्छ्रुत्वा तूष्णीं स्थितायां राजपुत्र्याम् अन्यापि काचन प्रत्यग्रदन्तक्षतदूयमानाधरबिम्वा प्राह-`अयि राजनन्दिनि,
निर्यत्किञ्जल्कगन्धान्धसारङ्गगणसङ्गिनी।
कलकण्ठचयाकीर्णा कान्तेयं सरसी सखि॥ 12 ॥
हंससारसचक्राङ्गचक्रचक्रैरलंकृतः।
नयनानन्दनिलयः कस्य न स्याज्जलाशयः॥ 13 ॥’
इति। तदपि किमपि ध्यायन्तीव तस्यास्तरलालापश्लोकमिवैतस्या निरोष्ठ्यश्लोकद्वयमप्यनाकर्ण्य स्थिता सा। अथ सा सखी विहस्य पुनः प्राह-`अयि धरानायकशरीरजे, ज्ञातं ते हृदयम्। तं चिन्तयसि यश्च
नीलनीरदसच्छायः शङ्खचक्रगदाधरः।
रत्नाकराङ्गजानाथः कंसनागेन्द्रकेसरी॥ 14 ॥
राधास्तनन्यस्तकरः स रागिजनाग्रगण्यः किल नन्दजातः।
संकसहंसान्तकृदण्डजातहरिर्हरिः काञ्चनशैलधीरः॥ 15 ॥
तद्धितं ते दशायाः अङ्गीकृतं चानेन जनेन तन्नियतिरचिराद्धटयति ते चिन्तितम्। त्यज क्लेशम्। कलय सत्यतां गिरि अस्य जनस्य यत्
शितिजलजसदेशदेहकान्तिर्धरणिधरेन्द्रशरीरजातजानिः।
कलयति स हि हस्तनीरजं ते हरसदृशः किल राजशेखरश्च॥ 16 ॥
यश्च धृतशङ्खचक्रतया धीरतया च अरिदरकरः। राजहंसतयाहं सकलाधीशतालंकृत इत्यहंकृतिरहितः। किं च कलहंसश्च कलहंसानन्दं नाङ्गीचकार। चक्री च नगरस्थितिकलितश्च। नाधिराजजाताश्चर्यचर्यश्च नगाधिराजजाताश्चर्यचर्यश्च। यं चाह्लादितनीलं ज्ञातशीते तरदीधितितनयाधिकरसश्रियं जयासक्तचेतसं दाशरथिं कृष्णं च जानन्ति। येन नयेन रञ्जितः किल जनः। यस्य च स्त्रीणां चन्द्राचलकान्तिहारी स्तनः आस्यं च। सरलताहृद्या गीः कण्ठस्थली च। किसलयसहजः सदाधरः धरसदृशः स्तनः। यस्य चाधिकलक्षणा गायना जनाश्च। अधिकङ्केलिहृद्याः क्रीडाशैला गिरश्च। अधिकंजातरागोऽधरः लीला हंसश्च। अधिकाननानन्ददा हरिणाः स्त्रियश्च। अधिकरञ्जकाः साला गिरश्च। अधिकंधरासक्ता हाराः कर्षकाश्च। अधिकंदराजिता अरयः शान्तिधनस्थल्लश्च। अधिकारिजनश्रियः लसन्ति न लसन्ति च। अधिकरणरसिका रथिका ग्रान्थिकाः स्त्रियश्च। अधिकासारश्रियं दधाना नगरी देशो घनश्च। यस्य चारिचक्रखण्डकं चारिचक्रम् अगदा गदा सन्नन्दकः सन्नन्दकश्च राजत इति।
किं च। यस्य चराधिकानन्दः राजनीत्यां रते च। चरणजाता गङ्गा कीर्तिश्च। चेलाकृष्टी रतिकाले स्त्रीणां रणे अरातीनां च। चेतः-कलितानन्दा दया कटाक्षाश्च।
यत्र शासति धरणीं कृष्णकेशश्रियं धत्ते कचरचना। राजहंसानलसस्थितिर्हासश्च स्त्रीणाम्। अरिस्रियः अकेशा हरिजलजासनश्रीकण्टदशां दर्शयन्ति।
अतिलसत्सङ्गरहितता तैलयन्त्राणां न स्त्रीणां नारिसेनानां च। स्तननहर्षको घनकालो न स्त्रीजनः। चलतादर्शनं नेत्रे क्रीडाशैले च न चेतसि।
किं च। स्त्रीणां कान्तिः कनकं स्तनः करकः कण्ठः जलजः नेत्रं नलिनमास्यं सरसं स्नेहस्थानं नन्दनन्दनः रागो न दीनः।
किं च। अरसा अरातयो धृतशासना आस्यजा अरिष्टकारणं दधिकर्णशिरश्छेदाकर्णनं चिरंतनकथायां हंसानन्दासहता सैंहिकेये। राक्षसानन्दः शरद्गणे।
अर्थासक्तिः शास्त्रचिन्तकानाम्। नार्थासक्तिर्गीतानन्दश्च यतीनाम्। न गीतानन्दः सहस्रधारणाकाङ्क्षा ऋषीणां क्षत्रियाणां च।
किं च। लसच्छ्रीजानि स्त्रीजालानि क्षत्रियाधिकजातिजालं च। सदाज्ञानि राष्ट्राणि अग्रजातिजालं च। अलं किलात्यन्तकथनायासेन। सदायानि संगतानि धनगृहाणि च हृदयानि च रथिकचक्रं चेति।
अत्रान्तरे यासां चलन्तो दन्ता न नेत्रान्ताः, धवलाः केशा न हासाः, बृहद्वयो न कुचमण्डलम्, वली वदने नोदरे, भुग्नता मध्यदेशे न कुन्तलेषु, तासां तु जरद्वनितानां भिन्नभेरीसमानः कोऽपि ध्वानो व्याकुलीचकार ससखीकदम्बां राजकन्याम्। तथा हि-`अयेऽम्बाम्बाम्बरमणिमपि भीष्मकिरणं पश्य पश्य चण्डकोपो भूपः। यामः पुरीम्। शीघ्रं गृहाण शुष्कांशुकगणं पेटिकां च। राजभार्याया हर्षकारणं पङ्कजचयं खण्डय। अच्छाच्छैरम्भोभिरापूर्य कुम्भं भर शिरोभागे। भण मम गिरा राजकुमारीमाकारयाकारय। रचय प्रणामपरिपाटीं रमायाः’ इत्युक्त्वा च चिरयन्त्यां राजकन्यायां पुनः किंचित्कोपेन निर्दन्त्याक्षराणि विस्मृत्य `किं मयाग्रे गन्तव्यम्’ इति रथसादभिधाय अहहेति दन्त्याक्षरसंसर्गदूनदन्तावलयः खेदमुद्रामभिनीय जोषं तस्थुः।
ततश्चेयं राजपुत्रो शनैरुत्थाय घनसारसदृशेन केशकलापेन न भोगयोग्येन रूपेम अतिमुग्धया दशया अनङ्गरागोज्ज्वलेन वपुषा नाभिस्पृष्टेन कुचमण्डलेन अतनुसुन्दरेण भूषाजालेन धवलसच्छोभेन मानसेन शोभमानाभिर्युवतीभिर्जरतीभिश्च परिवृता सा वैश्रवणं नीलेन पद्मेन च योजयन्ती अपाङ्गमाशुगं चेतस्ततः प्रेरयन्ती मुदा पीनं पयोधरमण्डलं चन्द्रेण संघट्टयन्ती चन्द्रभूषणमपि करे व्यवस्थापयन्ती वशीकृतसकलनिर्जरकदम्बा यथागतं गतवती। इत्युक्त्वा तस्यां किंनर्यां संवृतवचनायां प्राह स्म नारदः।
अथ सवितरि तीव्रे पर्वतेन प्रबोध्यमानकालापगमो देवस्य दर्शनसुखमनुभवितुमत्रागतोऽस्मि। देव, किं चिन्तयसि। श्रवणादेव सा किं तरलयति तव चेतनाम्। मा भव तरलः। तरलो हारमध्यमणिरेव नायको भवति न पुमान्। तिष्ठ मनुष्यवत्। अस्त्वेतत्। देव, कथितं कथनीयम्। दृष्टो द्रष्टव्यः शेवधिः तदनुगृहाण। गृहाणाशिषः। साधयामि नारायणाश्रममिति।
अथ श्रीनिवासेऽपि सस्तोकहासं `महर्षे, अपि नाम ज्ञातं किं भवता कुलाभिधानादिकं तस्या युवमानसमत्स्यबडिशगुणजालस्य’ इति वदति पुनः प्राह-`देव, भजकजननिर्जरागम, अहो लावण्यम् अहो विलासः अहो चातुर्यम् अहो रमणीयता रमणीमणेरिति जाताकस्मिककौतुकेन क्षणं क्षणं माध्याह्निकावश्यकरणव्यग्रतया क्षणं भवद्दर्शनाभावचिन्तातान्तान्तः करणतया निरोष्ठे च श्लेषाभियोगे कालं गमयतो ममैतच्छ्रावणेच्छा न संवृत्ता। इयमुक्तिरपकारवती जाता। अहो किं कुर्मः। मुनयो वयं अपवर्गवार्तामुपदिशामः॥ तथा हि।
विष्णुर्ध्येयो वैष्णवाः सङ्गयोग्यास्तीर्थक्षेत्रस्थानसंसेवनं च।
योगाङ्गानां साधनं तत्त्वचिन्तेत्येषा रीतिः श्रेयसे जायते नः॥ 17 ॥
किं च। किं योग्येयं वृत्तिर्विरक्तानां यद्वनिताजनेन सह वाक्संयोजनम्। अथ ज्ञात्वा वा किं कृत्यं देवस्य कृतविवाहस्य। देव, कल्याणी विजयी तिष्ठ’ इति।
देवोऽपि `केयं भवेत् क्व वा तिष्ठेत् कथं जानामि कं वा पृच्छामि कः शमयति ममाधिम्’ इति चिन्तासीमन्तितहृदयो दर्शितशुष्कमुकविकासस्तत्कालोचितालापैर्नारदं विसर्जयांबभूव।
एवं सति, माकन्दप्रवलकदम्बचुम्बनसुखितमत्तपरभृतमहिलानिरन्तरोदञ्चितपञ्चमस्वरान्तरितनिजवनिताकृतपरपुरुषसंकेतसंराववञ्चितगृहपतिरारामरमाप्रथमर्तुमहोत्सवारम्भमङ्गलगीतिकापठनाविरतलोललोलम्बनितम्बिनीश्रुतिसुभगझंकारश्रवणसमयसंस्मृतनिजनायकाहितैकाग्रमनीषानिश्चलस्थितमज्जनागतयौवतशतालीककनकसालभञ्जिकापुञ्जितमञ्जुवञ्जुलनिकुञ्जवलयितसुवर्णमुखरीतटः प्रियजनसंकेतितवेतसीवनगामियामिनीशसुखकामिनीग्रहयालुयामिनीचरसमानयामिकराजपुरुषगृहीतनिजकरसंस्पर्शसंजातसात्त्विकभावशिथिलिततत्करमुष्टिबन्धविनिर्गतललनालोकावलोकनमुदितान्तरङ्गभुजङ्गनिकरसंस्तुतमदनकटुकलम्बकदम्बो वनिताकुचाभोग इव बहुसरोजातसमृद्धिर्वीर इव पराङ्गनाशंकरो हिमगिरिरिव मदकलकण्ठीरवत्रासितपथिकः सरस्वतीदेह इवाजातिभूषितो वनिताजन इव रसालसहितो रत्नं सकलर्तूनां प्रन्तं भागधेयं सतीनां सुराजीवोऽपि सुमनः संदोहश्लाघितः अशोकयुक्तोऽप्यसुमनाः कुसुमाकरस्त्वाविरासीत्।
अथ तं दृष्ट्वा देवोऽप्यचिन्तयत्-`अहो महनीयता वसन्तस्य।
आचार्यो मदनागमस्य किमपि स्त्रीमानरुग्भेषजं कान्तायुक्तविलासिलोकचरितप्राचीनभाग्योदयः।
यस्त्वागत्य लतासु पल्लवरुचिं संपादयिष्यन्भृशं संजातोत्कलिकासु तासु रमते राजद्वयाः सांप्रतम्॥ 18 ॥
अपि च।
भङ्गो माने चक्रशोभा कुचेऽपि न्यस्ता चित्ते सारसश्रीर्वधूनाम्।
युक्ते ताभिर्जीवनं वै वियुक्ते पङ्कं पुंस्याश्चर्यचर्येण येन॥ 19 ॥
इदानीं हि।
कलिकालकृतं मन्ये यज्जगत्सुमनोन्वितम्।
माधवोऽत्रान्यथा कस्मान्माधवीजालकावृतः॥ 20 ॥
तदत्र नारदवचनश्रवणविदीर्णहृदयस्य मम भगवान्धृतसुमाकरसंपत्सारङ्गप्रियः कनकश्रीविद्योतमानाम्बरो माधव एव शरणम्। यदनुग्रहादहमपि योगी भवेयम्। यदयमचेतनोऽपि पन्नगाद्रिरङ्गीकृतविपुलनितम्ब इव दृश्यते।
अस्त्वेतत्। मृगयाव्याजेन वनभूमिषु विनोदयामि मानसमिति विचिन्त्य च बकुलमालाप्रेरितवराहदत्तेन किरातसैन्येन सह पद्मव्यूहमिव विलसत्केसरं वैद्यमिव तिरस्कृतवातवर्गं गङ्गाप्रवाहमिवार्यावर्तहृद्यम्। उत्तरगोग्रहणरणमिव स्तब्धकर्णं वर्णसमूहमिव ह्रस्वदीर्घप्लुतसुन्दरं चित्ररथमिव गन्धर्वश्रेष्ठं वणिजमिव भाण्डभूषितं कर्णाटदेशगोरसमिव मेघपुष्पसदृशं वालिनमिव सुग्रीवपरिपन्थिनं मदनमिव मानससंभवं प्रथममश्वकुलेषु द्वितीयमुच्चैः श्रवसा तृतीयं वातगरुडयोः अदृष्टवडवाननमपि राजनन्दनं नीलं कर्णे श्वेतं मुखे संपातिनं गमने हयमारुह्य विपिनमयासीत्।
ततश्च केचन किराता भग्नकीचका भीमाः, शल्यान्दारयन्तो धर्मराजाः, शिखण्डिविरोधिनो भीष्माः, द्रोणपक्षधराश्च शृगालभयंकराः कृष्णाः नागत्रसकाश्च, पुण्डरीकद्वेषिणो दोषाकराः पथिकापकारिणश्च, शूलहस्ता महाकाला उग्राश्च, काननं रुरुधुः। तदा तु केचन जरासन्धा इव वृकोदरं गदया ताडयन्तः केचन कर्णा इव शक्त्यार्जुनमुन्मूलयितुमिच्छन्तः केचन रुद्रा इव गजाञ्शूलेन दारयन्तः केचन कवय इव प्रासेन नानाशुकवीनुद्वेजयन्तश्चेरुः।
किं च। खङ्गी। खङ्गिनं कञ्चुकी कञ्चुकिनं चक्री चक्रिणमच्छभल्लोऽच्छभल्लं रक्ताक्षो रक्ताक्षं जघान। तदनु भग्नाः कुम्भाः कुम्भिकुम्भाश्च नष्टपत्राः पक्षिणो वनलताश्च मृदितद्विजा वृक्षाः वनगजाश्च नाशितशम्बराः वनभुवस्तटाकाश्च छिन्नपुष्कराः करिण्यः पुष्करिण्यश्च उत्पाटितनेत्रा नगा नागाश्च आकृष्टजीवाश्चापा महिषाश्च खण्डितस्कन्धास्तरवो व्याघ्राश्च बभूवुः।
स च मृगयाव्यापारो रावण इव नलकूबरं दूषितरम्भं घर्मकालदिवस इव सरः अपुण्डरीकं, प्रभातकाल इव नभः अऋक्षं, कालीकरवाल इव भूतलममहिषं, युधिष्ठिर इव भारतमशल्यमरण्यं चकरा। किं बहुना।
संजातसंभ्रमभरैर्वनदेवतानां वृन्दैरमन्दभयकम्पितमानसैर्यः।
आकर्णितश्चकितसिन्धुरसिंहकोलः कोलाहलोऽथ मृगयाजनकण्ठजातः॥ 21 ॥
मृदितपृथुलकुचकुम्भा खण्डितरम्यद्विजच्छदा तान्ता।
आयासिततनुलतिका रतान्तलीलां बभार वनभूमिः॥ 22 ॥
अत्रान्तरे। गजमपि कुम्भोज्भासितं नीलमपि केसरिद्वेषिणं अञ्जनाकृतिमपि अनुपमाकृतिं कालमपि गिरिशाकारं गरुडमिव पक्षचरं सुकविवाग्विलासमिव परिणतं शेषमिप सदानन्तं विलासिनीजनमिव भ्रमरचुम्बितकपोलमण्डलं मत्तदन्तावलमालोक्य अर्जुनबाहुसहस्रनिरुद्धवनगजमदमलिननर्मदाप्रवाहैरिव सहसानिरुद्धगतिप्रसरैस्तद्दर्शनत्यक्तभल्लैर्भिल्लमल्लैः `देव, इयं न मृषा किंवदन्ती मारीचनामा राक्षसः सारङ्ग रूपेण मुनिहिंसनाय संचरतीति स सारङ्गो न मृगः किं तु महामृग इति ज्ञातम्। अथवा गजासुर एवायं उत वा कुवलयापीडः देवेनापि ज्ञात एव स एव वा न विद्मः यदत्रैव कोऽपि पर्वताकारः’ इति निवेदिते किंचिद्धसन् `आः किं भणत मूढाः, निरर्गलभूजबलप्रसारेषु रामश्रीकण्ठवासुदेवेसु अचलोद्भूतिभार्येषु पार्श्वस्थितसुग्रीवेषु जयत्सु का कथा तादृशानां पापानाम्। तिष्ठत्वेतत्। करिकीटः कश्चिन्मर्तुमिच्छति वराकः। तन्निःसरत मद्बाणपातभुवः’ इति वदन्नेव बाणां मुमोच।
युक्तं शरस्तु पतितो यस्माद्गुणविच्युतो बभूव किल।
चित्रमिदं यत्त्यक्तः श्रीपतिना मार्गणो वदान्येन॥ 23 ॥
तदैव सोऽपि द्विरदमणिरनणीयसा भयेन दुद्रुवे दूरं कराग्रलग्नशरः।
पुष्कराग्रे पतन्रेजे श्रीमान्कृष्णशिलीमुखः।
चित्रं चित्रमयं मूढः पुंनागो द्रवति स्म सः॥ 24 ॥
स्थाने खलु मातङ्गजातेः कृष्णविमुखभावः। देवोऽपि विहाय किरातचक्रं तं गजमनुससार। सोऽपि तस्यामवस्थायां धीरधीरसंचारो वासितावशीकरणविदग्धः शृङ्गारशाली चरमोत्तुङ्गस्तननास्तलीलः श्यामानां सुन्दरीणां महिलानां गणैः परिवृतायां कस्यांचिद्भूभृद्भुवि निपपात गजः कटाक्षश्च श्रीनिवासस्य। ततश्चेयमद्भुता व्यक्तिर्दृष्टा।
सुशङ्खचक्राङ्कितपाणिशोभा यात्रासमुद्वेजितराजहंसा।
लसद्रसोद्भासिपयोधरश्रीर्नूनं रमायाः सहचारिणी स्यात्॥ 25 ॥
इति निश्चित्य संजातसात्त्विकभावः कथंकथमपि वावामाभिमुखीभूय ययौ दन्तावलः श्रीनिवासभूपालश्च।
तदनु भगवांस्तां राजपुत्रीम् `अयि सुमते, लोलम्बकं पश्य। उन्मादिनि मदनकलिके, पुण्डरीककुलं खण्डय। चपले, मल्लिकासरं महिषीप्रियं बधान। कोमले मालति, पथि कण्टकीभवत्पुंनागनेत्रमुत्पाटय। ललितसुमांसे, इत एहि। गृहीतराजीवजीवने, कृतकृत्यासि। उत्पलाभिषिणि, रक्तं मा त्यज। विशालनेत्रे, त्वचं दलय कदलीनाम्। प्रमादशीले, कोलम्बकं च गृहाण’ इति मृगयामिव वनविहारलीलामनुभवन्तीभिः सवयोविलासाभिः सखीभिः परिवारितां विलोक्य तन्निकट एव स्थआपिततुरङ्गश्चिन्तयामास।
अये इमामेवाह नारदः। तथा हि। अस्या नागसदृसी वेणिका, न कुचमण्डली। अगुरुविशेषकानन्ददायि। ललाटमण्डलम्, न चरित्रम्। अञ्जनाञ्चिता नेत्रद्वयीष न मतिः। पल्लवप्रणयिन्यधरच्छविः, न स्पृहा। अतिलसत्सुमनोहारिणी कुचद्वयी, न नासा। नक्षत्रेशमनोहरं मुखम्, न रूपम्। अरम्भायमानं वयः, नोरुयुग्मम्। कुवलयमनोज्ञं जघनम्, न करद्वन्द्वम्। नगजानुकारी गुण-, न गतिक्रमः। अस्त्वेतत्। केयं भवेत्। प्रायेण चन्द्रधन्वन्तरिकल्पपादपादीनां सहोदरीं रमेव क्षीरपारावारादेवोत्पन्ना। अन्यथा कथं तेषां गुणगणोऽस्याम्।
तथाहि। अब्जशब्दवाच्यस्य चन्द्रस्य गुणो नेत्रयोः। सुरागस्य पारिजातस्य कुचयोः। जैवातृकस्य धन्वन्तरेर्मुखे। दिव्यनागस्यैरावतस्य वेण्याम्। मधुनो वारुण्या अधरे। रम्भाया अप्सरसां ऊरुभागे। गौरस्योच्चैःश्रवसो वर्णे। तिष्ठत्वेतत्।
किमेषा कंदर्पशरशरव्यतां प्रापिता केनापि भवेत्। आः, कः संदेहः। येनास्याः शरच्चन्द्रदशां प्रापिते गण्डमण्डले सखीजनरचितो मृगमदपत्रभङ्ग कुरङ्गभ्रमं जनयति। स हि पाण्डिमेवेत्थं स्फुटं जल्पति। किमनया प्रकृतानुपयुक्तया चिन्तया। प्रथमं तावदेतद्विचारणीयम्। किमस्यामहमिव मय्येषानुरक्ता न वेति। अथ वा किं तदद्यापि न निश्चीयते। कथमन्यथा कूणितत्रिभागेण चभुषा सव्याजं मामियं पश्येत्। निरुद्धोऽपि कोऽपि विकारः कथमस्याः प्रसरेदङ्गेषु। स्वेदलवमुक्ताजालकैरलंक्रियेताभिनवस्फटिकभित्तिधवला कपोलापाली। कथमुत्तम्भयेदुत्तरं वासः रोमहर्षोद्भेदः। कथं नर्तयेद्दक्षिणानिल इव लतामूरुकम्पः। कथं शिथिलीभवेन्नीवीबन्धः। कथं भुवमालिखेच्चरणनखमणिः। कथं प्रस्फुरेत्प्राक्पुण्यवाराशितरङ्गबन्धुरं मम दक्षिणं चक्षुः। कथं यानि भैष्मीहरणकाले शुभानि निमित्तानि तान्येवेदानीं पश्यामि। कथं दूरादेव मां विलोक्य चिरमालोच्य सभ्रूभङ्गमनेन सखीकदम्बेन परस्परं मन्दं मन्दं समन्दहासमालपितम्। कथमनया नीलोत्पलदलावतंसया श्रितपोतचूतालवालनिकटदेशया वनितया सकङ्कणझणत्कारमन्यस्याः करकमलान्मां च तं मुहुर्मुहुः पर्याव्यावृतकंधरं पश्यन्त्या आच्छिद्य निगूह्य च चित्रपटं आकुञ्चितभ्रुंनिर्भर्त्सितमिव किमपि उपदिष्टम्। अपि नाम दाहशक्तिरुत्पद्येन चन्द्रिकायाम्। कदाचिदपि वा देवर्षेर्मन्त्रजपसनाथाद्वदनारविन्दान्निः सरेदलीकं वचः। कथमस्थानसक्ता भवेन्मच्चित्तवृत्तिः। कथमदन्यभोग्ये वस्तुन्यप्येतादृशलावण्यसर्वस्वं स्थापयेद्वेधाः एतस्या गुणाकर्णनेन श्रवणानन्द इव स्पर्शेन हस्तानन्दो नासीदिति वामः पन्थाः। भगवत्कुसुमायुध, मा जनय क्षणमुद्वेगम्। तावन्निर्वापयामि पूर्णचन्द्रदर्शनसंतापितं नेत्रयुगलं प्रत्यङ्गदर्शनेनास्मिल्ँलावण्यसुदासरसि मुखजितचन्द्रमसि कान्तितिरस्कृतकाञ्चनमहसि कुचतुलितचक्रवाकवयसि हृतमन्मनसि अभिजातकन्यामणौ। अथ वा मकरध्वजेन दत्तर्शनावसरस्यापि आनन्दबाष्पकलया निरुद्धं खल्वालोकनसामर्थ्यम्। अस्त्वेतदपि। कथं संभाषयाम्यलब्धवागवसरः। सूक्तमुक्तं केनचित् `शास्त्रं सुनिश्चितधियापि विचारणीयम्’ इति। यतः व्यवहित्वाद्बहोः कालस्य विस्मृता खलु सा व्रजयुवतिजनवशीकरणकला। इत्येवं चिन्तयति श्रीनिवासे काचिद्राजपुत्रीसखी कंचन वन्यमतङ्गजं विलोक्य प्राह-`अयि भर्तृदारिके, पश्यैनं मत्तदन्तावलम्। अयं खलु नारदप्रोक्तो गिरिगहनचारी पुंनागो यदि त्वयि करं प्रसारयेत्कस्ते शरणम्। अथ वा त्वमपि लसच्चूलीवासिता। नात्र तव भयलेशः। तदस्तु तोषायैव तावदयं शिलीमुखो मदनान्निर्गत्य व्याकुलयति त्वां तत्र को वा उपायः’ इति।
तदाकर्ण्य स्तोकं हसति सखीवर्गे `अलमलं चपलभाषणैः’ इति अलीककोपकलुषितायां तर्जयन्त्यां राजसुतायां देवे श्रीनिवासेऽपि `कल्याणीयमेतस्या उक्तिरमृतासारमाधुरीसेदरी राजसुता वयस्याया आश्वासयति मदनमहाभुजङ्गचुम्बितस्य मे मानसम्। अयमयं मिलितोऽस्माकं वागवसरः। अत एवं वक्तव्यं मदनमहाग्रहग्रस्तस्य संबद्धासंबद्धकथने को विधिः को निषेधः’ इति निश्चित्य `अयि राजसुतासखि, किमियमबलेति मत्वा त्रासयसि। सा चित्रोरुकरवाला त्वदुक्तभयस्याभूमिर्विविधायुधपरिष्कृता च। तथा हि। अस्याः कुचश्चक्रश्रियं बहति। ललाटमण्डलमर्धचन्द्रसंपदं धत्ते। चन्द्रहासशोभां कलयति वदनम्। कुन्तलसल्लक्ष्मीं स्वीकरोति वेणिका। तदलमेवंविधभाषणैः। एवं स्थितेऽपि यदि ते भर्तृदारिकाया मनोजातभयं तदहं क्षणादेव परिहर्तुं शक्तः’ इति वदति काचित्सखी तां बभाण-`अयि मदनकलिके, श्रुतं किलैतस्य किरातचक्रवर्तिनो भाषितम्। तन्मूलं भवति किल। यद्दत्तस्त्वयास्य वागवकाशः। दत्तान्तराणां पुरुषाणामेतादृशो वाक्प्रपञ्चो दृश्यते। तदसंबद्धलापिनी त्वमेवात्र तिष्ठ। वयमेता भर्तृदारिकामादाय भवनं गच्छामः यत्त्वं कुमारीजनविरुद्धाचारप्रवृत्तासि। सत्यपि अनुरागे पश्यति यूनि नावेक्षणम्। उद्भिन्नेऽपि रोमकुलेऽवहित्था मार्तिकशकलेन हन्तुमिच्छति अभिमतेऽपि तरुणे मनोभावाप्रकटनमित्यादि कुलकन्यालक्षणमिति।
एवं वदन्त्यां तस्यां सत्यमाह प्रियसखीति नन्दिततद्वाचि राजपुत्र्यां सापि किंचित्कुपितेवाह-`अयि शृङ्गारमञ्जरी, सुचरित्रविस्मापितवसिष्ठकलत्रे, अपराद्धं मया। हितासि त्वं भर्तृदारिकायाः। एतत्फलमचिरादेवानुभवन्तीं भर्तृदारिकां द्रष्टुमिच्छसि।’ इत्युक्त्वा च विरतवचनायां तस्यां देवे श्रीनिवासेऽपि उन्मत्तकेन मदनेन विस्मृतवाच्यावाच्यविचारे `अयि सुन्दराङ्गि राजसुते,
वचसा मा कुरु मुग्धे कुरु रूपेणैव रतितिरस्कारम्।
कठिना कुचयुगली ते भवतु सरोजाक्षि मानसं मास्तु॥ 27 ॥
इति यावद्वदति तावदेव काचिन्नारायणपुराज्जरद्दासी राजाङ्गनाप्रेरितागत्य `भर्तृदारिके, देवी धराज्ञापयति पुष्पावचयायागताया भवत्याः का खलु वेला जाता। महाराजः प्रतिपालयति तवागमनमभ्यवहारार्थी। तदागच्छ शीध्रम्। यामो गृहम्।’ इत्युक्तवती।
ततः पद्मावती ससखीकदम्बा तरलतरतारया दृशा आवृत्यावृत्य सव्याजं पश्यन्ती वनात्प्रस्थिता।
भगवानपि तत्कटाक्षार्धचन्द्रव्रणितहृदयः किंचिद्दूयमानेन मनसा वातोज्जीविनिमिव पश्चादेवोपगन्तुमिच्छन्तीं चेतोवृत्तिं बलादाकृष्य सुन्द इव मारीचनन्दने बधिर इव संज्ञाव्यवहारशालिनि कश्यप इवोल्लसन्मरीचौ ऐरावण इव निजकरोद्भासितपुष्करे धर्मकालाध्वनीन इव कामितच्छाये भगवति चित्रभानौ चरमालशिखरमारोहति यथास्थानमागत्य विसृज्य किरातचक्रं स्वामिसरः पुण्यजलेषु अक्रमकृतसंध्यावन्दनाद्यवश्यव्यापारः कृताकारगुप्तिरेव बकुलमालाकल्पितपुष्पशयने निविष्टः।
कलितसुरसभावां चारुमैत्रीं सुवर्णा ललिततरपदां तां चिन्तयन्राजपुत्रीम्।
कृतिमिह वरकान्ताकामुको वेङ्कटेशः कविरिव न च निद्रामाप स श्रीनिवासः॥ 27 ॥
। इति श्रीवेङ्कटेशकविविरचिते श्रीनिवासविलासे पूर्वभागे द्वितीय उच्छ्वासः ॥
.
॥ तृतीय उच्छ्वासः ॥
अथ कथंकथमपि विरहवेदनाभूयिष्ठं कालं यापयति भगवति श्रीश्रीनिवासे कदाचित्कुवलयेष्वसंकोचकरप्रसारे चक्रानुरागरहिते भूप इव निष्प्रभत्वं गतवति चन्द्रे, पतिव्रतोचितव्यापारायामिव कृतनिजनायकानुगमनायां यामवत्याम्, अलमस्माकं कलङ्किनोऽस्य राज्ञः सेवाजनितचलसुखेनेतीव विष्णुपद एव तत्क्षणं लीनेषु नक्षत्रेषु, इयमेव प्राप्तकालप्रतिक्रियास्माकमिति विचिन्त्येव वन एव मुद्रितमुखं निवसत्सु तत्परिग्रहेषु नीलोत्पलेषु, राजहंसतयोभयपक्षसमाना वयमितीव निःशङ्कं संचरत्सु कादम्बेषु, सुमनोवृत्तिशोभितानां किं भयमस्माकमितीव सरलितग्रीवं गायत्सु मिलिन्देषु तदेकशरणेषु द्विजेषु, पुनस्तदुदयमाकाङ्क्षमाणेष्विव तपस्वितां प्राप्तेषु चकोरेषु, गतेऽपि खामिनि धैर्यत्यागो नोचित इति निश्चलप्रकृतितयेव न द्रवत्सु चन्द्रकान्तमणिषु, विरामसमयोज्जृम्भमाणकोकशोकानलप्रभापटलैरिवारुणदेहकान्तिजालकैः शोणीकृतासु दशदिशासु, पद्मिनीनामयं विकासकाल इति ज्ञापयन्तीष्विव विकसन्तीषु कमलिनीषु, उद्धाटयत कपाटं परिष्कुरुत वीथिकां बध्नीत वन्दनमालिकां सत्कुरुत शरीराणि किं न जानीथायमयमागत एव भगवांश्चित्रभानुः पुरुस्कृतस्वभानुस्तं संतोषयतेति प्रकम्पितवेत्राग्रेषु स्वाधिकारानुरूपमाचरत्सु भटेष्विव तत्रतत्र संचरत्सु प्राभातिकदरफुल्लकमलसंसर्गकषायपवमानपोतेषु; अभ्युद्यतपुण्डरीकश्रीश्चामरश्लाघ्यविभवः परमुदितमत्तसारङ्गसहस्रपत्रः पूर्वतनं दोषाकरं राजानं निर्जित्य अपर इव भूपः शूराख्यातिरमणीयः प्राप्तमहोदयः परिष्कृतानन्तः सकलजगत्सुकर्मपरिपाक इव मूर्तिमांस्त्रयीमूर्तिस्तेजोभूमा पूर्वदिग्लावण्यसीमा शनैः शनैरुल्ललास।
ततश्चान्तिपुष्करिणीयं नृसिंहजयन्तीयमिति कथ्यमानसंकल्पानां तीर्थोपजीविनाम्, क्व मे करालवः क्व मे बृसी क्व मे कक्षपेटिकेति जल्पतां शिष्टद्विजातीनाम्, प्रभातस्नानसमयव्यग्रेषु जनेषु वस्त्रं भाजनं वा मुषित्वाद्यैव दीयते पणशेषमिति सांत्वय्य तन्मातरं तत्कालहृतयज्ञोपवीतयाचकानां चेटिकारतदरिद्रौदनिकद्विजविटानाम्, अत्रैवं पाठः अस्यायमर्थ इति तारतरं पठतां मासपौराणिकानाम्, मह्यं न दत्तं मह्यं न दत्तमित्याक्रन्दतां गर्भयाचकानाम्, जातं जातमिति वाद्यमानकरतालिकानां कृपणास्तिकधनिकानाम्, त्यज मार्गं जल एव विस्मृता श्रीमुद्रां हा वनितोपरि पतसि वराकेण मर्गो दूषितः प्रतिपालय मदागमनं विज्ञातेव ते शिष्टता इत्यादिप्रकारेण वदतां जनानां भगवत्याः सुवर्णमुखर्या उभयतटोज्जृम्भमाणकोलाहलेनोद्बुद्धः यथाविधि स्नात्वा
गिरिसानुग्रत्वं च वसुमत्ता च तादृशी।
यस्य मैत्री जगत्सारा न वन्द्यः कस्य वा रविः॥ 1 ॥
इति मनस्यालोच्य नमस्याकर्मीकृततपनमण्डलो राजकन्यावियोगदूयमानमनाः केनचिन्मरालकनामकेन नर्मसुहृदा सह यद्यत्र हारितं तत्तत्रैव मृग्यमितीव तमेव वनोद्देशमुपाजगाम श्रीनिवासः।
तस्यां वेलायामुदितभूयिष्ठमालोक्य रविबिम्बमाह मरालकः-`वयस्य माधव,
क्रमेण चक्रं संयोज्य भित्त्वा श्रीवासकोशकम्।
जेतुकामः कुवलयं सूर्यस्त्वमिव निर्गतः॥ 2 ॥
अपि च।
सिन्दूररैपि शङ्कितं च घुसृणैः स्रस्तं च काश्मीरजैर्विभ्रान्तं कनकोत्करैः शिथिलितं त्रस्तं कुसुम्भैरपि।
किंचानम्य निरीक्षितं तव जगद्वन्द्यैः प्रतापाङ्कुरैः सर्पत्यद्य नभःस्थलेऽम्बुजसुहृद्भासां विलासो मुहुः॥ 3 ॥
इतः किंचित्पश्यतु देवः।
सत्रं कोककुलस्य हंससमितेर्दोलां प्रपाजालकं भृङ्गाणामतनोः कलम्बनिचयं धातुः परं मन्दुराम्।
पर्यङ्कं वियोगिनीजनततेर्गेहं रमायाः सरोजालिं सत्कुरुते करैर्दिनकरः काश्मीरजन्मारुणैः॥ 4 ॥
त्वत्प्रतापभयात्सूर्यो दिङ्मुढोऽभून्न चेत्कुतः।
जेतुकामः कुवलंय पुष्करस्थानमाप्तवान्॥ 5 ॥
अपि च।
स्थाप्यश्चन्द्रश्च रमाचलदुर्ग इतीव वक्तुमब्जाली।
कान्तं निरीक्ष्य भानुं मुखमुद्रां त्यजति तत्करस्पृष्टा॥ 6 ॥
यद्वा।
चन्द्राब्जयोर्मिथो द्वेष इति मिथ्यान्यथा कथम्।
चन्द्रे विष्णुपदे लीने तस्य श्रीः कमलं गता॥ 7 ॥
इति। तच्छ्रुत्वा किंचित्स्मितमुखस्थमेव प्रदेशं प्राप्तः, यत्र सा दृष्टा मदिरेक्षणा। आगत्य च कमलचन्दनसंसर्गतिक्तसमीरसंस्पर्शवर्धितानङ्गव्यथः। स्वगतम्।
पद्मिनि किमिति क्रीडसि मधुपैर्लज्जालवोऽपि न हि किं ते।
हर हर विस्मृत्योक्तं क्व नु लज्जा सवितृरक्तायाः॥ 8 ॥
धिक्ते पल्लवरागं सौरभ्यं भ्रमरहृद्यतां चापि।
पापे चन्दनलतिके जरठभुजङ्गेन परिवृता यस्मात्॥ 9 ॥
तपस्याराधनं हित्वा मधुना प्राप्तविक्रियः।
को वा न मन्दतामेति तत्रोदाहरणं मरुत्॥ 10 ॥
इति चिन्तयन्। `देव, अत्र चाखण्डलतासंगता इन्द्रा इव, कनककालिकामहिता दुर्जना इव, बहुलतालसच्छोभाः संगीतक्रमा इव भूभागाः। इति उत्तरतो नास्तबकस्तटाको लतामण्डपश्च। बहुचित्रको वृक्षपूगः क्रीडाशेलश्च। विलसद्रुचितः पुष्पप्रकरः पक्षिनिकुरम्बं च सुखयति। इतः पश्चिमतो वनिताजन इव चलदलकः सप्तपर्णः। तव शत्रुरिव सोद्वेगः पूगवृक्षः’ इति वदतो मरालकस्य वचनमनाकर्ण्यैव `मयात्र मृगयाश्रान्तेन स्थितम्। अत्र कोऽपि नयनानन्दोऽनुभूतः। तदधुनापि निधुवनलीलेव खञ्जरीटानां रञ्जयति लोचनलोभनीया मानसं कस्याश्चन चरणालक्तरसमुद्रिता भूमिरित्यालोचयन्नेव कस्मिंश्चिल्लतामण्डपे निषसाद। मरालकस्तु `अये, किमिदं निसर्गमधुरोऽपि देवो मनागपि मदुक्तिं नान्तर्वर्तयति। न सस्नेहं पश्यति। न सस्मितं भाषते। न वनभूमिमनुमोदते। न मन्दमारुतमनुकम्पते। तदत्र किं मया स्खलितं भवेत्। भवतु तावत्। संभाषयामि। को गर्वः प्रभुपादोपजीविनाम्। किं शाठ्येन मित्रधर्मानुगतानाम्। कावमानगणना धनिकाराधकानामित्यालोच्य पुनः प्राह-`देव, अत्र संमुग्धालिपरिष्कृताब्जवदनं गत्युल्लसंद्धंसकं राजच्चन्दनचारुचित्रतिलकं पुंनागभाग्यास्पदम्।
रम्भोरुश्रि समल्लिकाक्षगतिकं सत्पल्लवोल्लासितं रम्यं राजशिखामणे समदनं’
इत्यर्धोक्त एव तदभिमुखीभूय `वयस्य मरालक, क्वास्ते’ इति सस्पृहानन्दस्मितं पृच्छति श्रीनिवासे
`श्रीमद्वनं दृश्यते॥ 11 षष
इति तच्छेषं पपाठ। तदाकर्ण्य `सखे, `स्त्रीरत्नमास्ते पुरः’ इति न कथितं भवता। तदधुना किं श्रीमद्वनेन ह्रीमज्जीवनेन वा कृत्यमिति कथयन्नेव बाष्पनिरुद्धनयनयुगले ललाटाहितदक्षिणपाणितलो मूर्च्छित इव स हि निपपात।
अथ मरालकोऽपि ज्ञातचेतोविकारबीजः `अहो, कथमेनां दशां प्रापितः कयाचन वा अतिधीरप्रकृतिरपि देवः। तत्स्त्रीरत्नं कुतो वा न भवेत्। अपि नाम सा निगलयेल्लूतातन्तुजालेनाभ्रमुवल्लभं बध्नीयादपि पटच्चरेण पृषदस्वम्। धन्या खलु भगवतः कुसुमधन्वनः प्रभावपरिपाटी।यदबलाजनादपि परिभवमनुभवन्ति पुरुषपुण्डरीकाः। तदधुना मया किंकृतेन भवितव्यम्। सर्वथा प्रज्ञाविधुर एवास्मि संवृत्तः। अत एव मृगयापरावृत्तोऽन्य इव स्थितो देवः। तत्कथमाश्वासयामि। यदि तन्मतमेवानुसरामि तर्हि स्वभावतो व्यसनिनो मत्प्रोत्साहनं ज्वरितस्य जलसेक इव विषमां दशां प्रापयेद्वस्त्वलाभे तूभयलोकभ्रष्टताम्। यदि वा निषेधयामि तर्हि सद्य एव प्रणयप्रसरभङ्गः। सर्वथा नमोस्तु धात्रे। येनायं निर्मितः स्नेहपाशः। येन बद्धः पुमान्नेशः स्वगात्राणां चालनेऽपि। सूक्तमिदं केनचित्-
दीपे वा तैले वा पतति पतंगो विनश्यति क्षिप्रम्।
अतएव भणामि सखि स्नेहो वह्नेर्न किंचिदप्यूनः॥ 12 ॥
इति। `भवतु तावत्। एनमन्यतो नयामि’ इति संचिन्त्याह-`देव धीरप्रकृते, इतः किंचिदविदूरत एव सुवर्णमुखरी। तामनुसृत्य स्मरशरजर्जरितमानसमास्वासयतु देवः। यतः।
उत्फुल्लकेसरावलिविलसत्कमलालिपुण्डरीककुलम्।
भ्राम्यच्चक्रकदम्बं तद्वनयुगलं न कस्य मोदाय॥ 13 ॥
इति। तदनु श्रीनिवासोऽपि `वयस्य मरालक, सायंतनसमयदलदिन्दीवरदामकोमलेन तत्कटाक्षेण विद्धस्य मम हृदये व्रीडा सुजनता गाम्भीर्यं धैर्यमन्यत्किंचिदपि वा महत्ताव्यञ्जकं न तिष्ठति तत्किमपि सूक्तमसूक्तं वा मा कथय। न प्रभुरस्मि मनसः’ इति कथयन्साभ्यसूय इव तूष्णींबभूव।
तदा मरालकोऽपि `अये वराकेणानेन मदनपिशाचेन विरहव्यथागिरिशिखरस्थलीमारोपितो देवः। तथा हि। न बध्नाति रतिं तल्पे शिल्पे च। न सुखयन्ति वीणाः प्राणाश्च। न स्पृहयति राज्याय भोज्याय च। अपि च। अङ्गीकरोति बाधिर्यं न माधुर्यम्। संकुचिता वाक् न शुक्। विस्मृतं चातुर्यं न कातर्यम्। गता स्फूर्तिर्न चार्तिः। वर्धितं व्यसनं न हसनम्। क्षीणा रुक् मनोरुक्। उपचिता बाधा न क्षुधा। तदत्र दैवमेव शरणं मम मन्दभाग्यस्य। सत्यमाह भगवान्मुरमथनः-
रिङ्गत्तरङ्गचलदम्बुजकोशनिर्यत्किंजल्कगन्धभरवासितवातपोताः।
कंदर्पबाणगणभिन्नहृदः क्षते मे क्षारस्य रीतिमधुना कलयन्ति हन्त॥ 14 ॥ इति।
यतः।
पुण्ड्रेक्षुचापवरसंगतभृङ्गमौर्वीनिर्यन्मरन्दविषरूषितपुष्पबाणम्।
कामस्य सोऽथ सहते परिरम्भलग्नकान्ताकुचाग्रहरिचन्दनकङ्कटो यः॥ 15 ॥
अस्त्वेतत्। देवं मदन इव मां मध्याह्नसमयोऽतितरां बाधते।
प्रायेण तृषितोऽर्कोऽपि सलिलं पातुमिच्छति।
अन्यथा पुष्करस्थानं प्राप्नुयादर्यमा कुतः॥ 16 ॥
तदिदानीम्।
निर्यन्मारन्दधारामिलदलिपटलीगीतमाद्यत्कुरङ्गं छायामायाभ्रनृत्यच्छिखिकुलमसकृत्कोकिलालापहृद्यम्।
वेल्लन्मल्लीप्रसूनप्रसृमरललितामोदसंवासिताशं नीडक्रीडद्द्विजालिं प्रसवभरनतं तं रसालं भजामि॥ 17 ॥
इति संचिन्त्य इतस्ततः संचारितचक्षुः कामपि वनोद्देशे संचरन्तीं बाललोल्लोलम्बाङ्गनां विलोक्य।
`पुंनागगण्डतलचुम्बनलोलचेतोवृत्तिर्जहासि नितरां कनकाभिलाषम्।
श्यामे भ्रमद्भ्रमरराजिमनोहरे त्वमा चन्द्रतारमवनौ जय जीव मुग्धे॥ 18 ॥’
इति यावद्वदति तावदेव यदृच्छया कयाचन वनितया तेनैव मार्गेण क्वापि गच्छन्त्या समाकर्ण्य आभुग्नकण्ठं कोऽयमिह धन्यो मामाशिषा वर्धयति पृच्छामि तावदित्युपसर्प्य `भद्रमुख, को भवान्महानुभाव इति ज्ञातुमिच्छामि’ इति तया सादरं कृताञ्जलिपुटयोक्तः साश्चर्यम् `चपलाक्षि, अस्याम्रतरोरावालाभरणीभव क्षणम्। श्रान्तासि। अहमपि कश्चित्पान्थः। कासि त्वम्। क्व यासि। किं ते पाणौ’ इति तामभिधाय तयापि तत्कालरूढपरिचयया तथास्त्विति जल्पन्त्या
छाया न्यग्रोधसाले परिमल्लहरी चन्दने किंशुके सत्पौष्पी शोभा फलश्रीरपि खलु कदलीवृक्षवाटीषु लभ्या।
किं तैरेकैकसंपत्परिकलनचणैः सर्वसंपत्समृद्ध क्षोणीमन्दार चूतद्रुम तव गरिमा मद्गिरामप्यभूमिः॥ 19 ॥
इति रसालद्रुमस्तवनव्याजादात्मानं स्तुवन्त्या सह तत्रैव क्षणमतिष्ठत्।
इतो देवोऽपि `अहो किमिति वक्तव्यम्, यदियं कल्याणी मत्प्रेमभरं न जानाति’ इति श्रिभुवनचातुर्यनिदावस्तानदोषारोपः। ज्ञात्वापि तूष्णीं तिष्ठतीति न तादृशो जीवः। ज्ञात्वा ज्ञात्वा वा किमिति प्रकृतविरुद्धालापः। `अद्य श्वो वा सफलो भवेन्मे मनोरथः’ इति तावन्निः-सरन्ति प्राणाः कंदर्पहतस्य तदैव स्पष्टं न निवेदितमित्यधीरतालाघवम्। कस्मैचिन्निवेद्यच सुखीभवामीति चरणलग्नकण्टकचालनरीतिः। अलमेतदनुरागेणेत्यरसिकता। दैवमेव शरणमिति साधारणसरणिः। सप्रयत्नेन भवितव्यमिति पिष्टपेषणन्यायः। मदनादीनेव शिक्षयामीत्यकाण्डताण्डवविधिः। एतदुभयत्रापि सममिति चातुर्याभासः। देहं त्यजामीत्यबुधचरणानुचरणप्रसङ्गः। किं च।
निद्रा न याति नयनं व्याधत्रस्ता मृगीव कान्तारम्।
अचला न चित्तवृत्तिर्नौका नुन्नेव वायुना जलधौ॥ 20 ॥
रागस्तीव्रं प्रसरति सुगुणो गुणिनां यथा लोके।
आवेगः शीघ्रतरः प्रतिभाक्रमवत्कवीन्द्राणाम्॥ 21 ॥
इत्यात्मन्येवालोचयन्मदनवेदनातिरस्कृतेतरवेदनो मनःकल्पितां तां कान्तां स्वसमीपमागतामिवाकलयन् प्रसारितबाहुयुगल आलिङ्गितुमिच्छन् तत्र किम्प्यदृष्ट्वा `अये, वञ्चितोऽस्मि मदनहतकेन यौवनेन दैवेन वामेन वा। अथ वा स्मृतेरेवापराधः। यया नेयं वनितेति ज्ञापितम्। तथा हि।
ईषद्धासतरङ्गिताधरपुटोन्मीलन्निषेधाक्षरश्रेणीसूचितरागसागरमिलल्लज्जानदीप्रक्रमाम्।
क्रोडे तां प्रणिधाय चुम्बितुमुपक्रान्तेऽथ कान्तामणिं मय्यानन्दयुते विघातमकरोत्काचित्स्मृतिः पामरी॥ 22 ॥
इति चिन्तयन्स्थितः। तिष्ठत्वेतत्। इतः सापि स्ववृत्तान्तं वक्तुमारभत।
ज्ञात एव किलानस्तमितामितमतिसमस्तलोकस्थितसभास्तारसंस्तुतनिखिलवस्तुविस्तारस्तार इव तरुहरिणकुलोत्तरः उत्तर इव गुरुगाङ्गेयकर्णभूषणहारिनरोपचितकीर्तिसंख्यः संख्यावानिव सुरसभावमतिदक्षः दक्षिणेष्वक्षीणाक्षिसंमददायी द्रविडो नाम देशः। यत्र च निरन्तराक्षरामृतानन्दितजगतां गवां ब्राह्मणानां च परिपालनेनामृतजीवनानां देवानां द्विजानां चाशिषा गोत्रानन्दकोऽप्यगदः सुखेन जीवति लोकः। तथा हि।
तिमिरबाधा कृष्णपक्षे। पुण्डरीकोत्पत्तिः सरसि। पाण्डुकथाश्रवणं महाभारते। रोहिणीसंबन्धश्चन्द्रमसः। कुसुमपतनमालवालेषु। उष्णवायुप्रसारो ग्रीष्मे। क्षयः संवत्सरेषु। किं बहुना।
मणिः सरुग्नदीवर्गः सदा बहुलगद्गदः।
सामयश्रीरथाभाति दैत्यदानवमण्डले॥ 23 ॥
यत्र च। मालिन्यान्विता आरामा न रामाः। राजद्वेषिणः कोका न लोकाः। किं च। निषादादिजातिभेदसंकुलाः स्वरा इव भूधराः। चरणप्रहारमुदिता अशोका इव वीरलोकाः। तत्तादृशस्योपवर्तनस्य मध्ये अस्ति पुरंदरपुरःसरनिलिम्पजनतास्तुतसंपत्प्रपञ्चमणिमञ्चायमाननाकलोकप्रतिबिम्बायितशोभाभवनं वनमिव कमलावासस्थानम्। आस्थानं सर्वसंपदां पद्मवन्निशान्तरमणीयं लसत्सुराजन्यमप्यदृष्टसुराजन्यं नारायणपुरं नाम नगरम्। यत्र च सूर्यसोमसंततिपठिता वारा इव वीराः। वातगतिबन्धवः कुरङ्गा इव तुरंगाः। श्रीनिवासयोग्यानि वनानीव भवनानि। किं प्रपञ्चेन।
प्रजारञ्जनं वीक्ष्य राज्ञोऽस्य देशे पुरी पन्नगानां किलात्रागतेति।
न चित्रं प्रियाभोगिनां सा यतस्तद्भुजङ्गाः पुराणप्रसिद्धा बभूवुः॥ 24 ॥
तत्र चास्ति प्रशस्तप्रतापज्वालावलीकवलितनिखिलाहितजन्यनिर्जितसौजन्यवर्जितराजन्यवनिताजननयननीलनीरजमालाविशृङ्खलगलदश्रुधारानदीमातृकायमानभुवनश्लाघितयशःप्रसरः सर इव सुनायकगुणमणिः मणिरिव सन्मालामध्यस्थितो राजा लसत्याकाशराजो नाम।
यश्च युधिष्ठित इवानन्तविजयघोषमुखरितदिङ्मण्डलः। अर्जुन इव देवदत्तसंपत्तिरस्कृतसुरासुरः। जरासन्ध इव भीमयुद्धविशारदः। यस्मिन्रक्षति क्षितिं द्वन्द्वं युग्ममेव। विग्रहो देह एव। कलिर्युगमेव। किं पल्लवितेन।
प्रलम्बता हलिद्वेषिण्यसुरेऽपि सुरेऽपि च।
पयोधरयुगे नैव रमणीनां कदाचन॥ 25 ॥
शंकरः पुरुषेषूग्रः स्त्रीषु चण्डी नगात्मजा।
कुमारेषु महासेनस्तारकानन्दधातुकः॥ 26 ॥
स हि राजहंसमण्डलघनांश्रयः स्पार्शनोद्भवनिदानम्।
कल्याणशब्दगुणयुग्राजाकासाभिधो जयति॥ 27 ॥
अथ कदाचिद्वियन्नृपाल एकभार्यासक्तोऽपि प्रजारहितो नतनयापेक्ष्यपि तनयापेक्षी मदनमूर्तिमिव कमलोदराज्जातां कांचन कन्यकामलभत। ततश्च गतेषु केषुचिद्दिवसेषु
भूर्गाङ्गेयं जनयन्त्यनुदिनमवनीपतेर्मुदे भवति।
इति सेर्ष्येव कुमारं प्रासूत तदा धरादेवी॥ 28 ॥
चित्रमिदं शृणु।
तोषयामास नृपतिं तत्कलत्रं धराद्वयम्।
तत्रैका गोत्वमासाद्य महिषीभूय चापरा॥ 29 ॥
अस्त्वेतदपि। भूयसी वेला संजाता। तत्संक्षेपतः कथयामि कथनीयमशेषम्। अन्यदा तु राजपत्नी धरादेवी प्रथमोच्छ्वसितकुसुमकलिकयेव मल्लीलतां शरत्कालकलयेव राकानिशां निलिम्पतरङ्गिण्येव हरचन्द्ररेखां नवनवोन्मेषशालिबुद्ध्येव कविकृतिं विनयसंपदेव विद्यां अभिनवयौवनोद्गत्या राजमानां तनयां विलोक्य `इयं किल विवाहयोग्या जाता। अस्या मानसकासारमिव तुच्छीकृतसकलसरोजातम्, गाणिका समूहमिव रक्ताशोकनवपल्लवोल्लसितम्, अनिरुद्धमिव चित्रलेखालंकृतं पाणिं गृहीतुं कः पुमान्कृतसुकृतराशिर्वर्तत इति न जाने। न केवलं मनुष्येष्वपि, किं तु देवेष्वपि। यतः इन्द्रो भूभृज्जातानाप्तः, सूर्यस्तु हंसः, चन्द्रस्त्वेकहस्तश्रवणः’ इत्यालोच्योत्तुङ्गसौधगतमणिमञ्चिकायामुपविष्टः प्रसन्नचन्द्रमण्डलमवेक्ष्य
`दिष्टेन दत्ता सा शोभा चन्द्रं प्राप्य लसत्यलम्।’
इत्युक्त्वा किंचिद्धसन्तमाकाशभूपमासाद्य प्राप्तावसराभणद्देवी-
`पित्रा दत्ता यथा कन्या प्राप्येव सदृशं वरम्॥ 30 ॥
इति। ततश्च देवोऽपि किंचित्तरलितमस्तकं प्राह-`देवि, सत्यमेतत्। मयापि ज्ञातं पुरैव। किं तु सरस्वत्या इव प्रवालकरायास्तव नन्दिन्याः सदृशो वरः क्व इति चिन्तयन्नपि न निश्चयं प्राप्नोमि देवेष्वपि, किं पुनर्मनुष्येषु। यतः शेषः पूषा च सदारदः। इन्द्रः समुद्रश्च नीरसानन्दः। अस्त्वेतत्। तरुणि, स्वशत्रोरपि कन्या मा भूत्। पश्य।
मुग्धे भूतेशभूतेशशिरोमण्योस्तु को वरः।
श्लाघ्यो दक्षस्य धिक् कन्याताततां दुःखजीवनः॥ 31 ॥
इति। अथ सा भर्तृगदितमाकर्ण्य `हंहो किमुच्यते।
दक्षः पुण्यवतां श्रेष्ठो नो चेत्तस्य कथं भवेत्।
एको राजा द्वितीयस्तु जामाता राजशेखरः॥ 32 ॥
किं च।
दत्वा पाञ्चालिकामात्रं नरमात्राय पार्षतः।
धर्मं गुणं च विजयमपि किं नाप भाग्यतः॥ 33 ॥
अतः `सप्रयत्नेन पुरुषेण भाव्यम्, दैवं तत्सहकारि भवति’ इति प्रज्ञावतां वादः। अतः परमार्यपुत्रः प्रमाणम्’ इत्युक्त्वा जोषमासीत्। विरतवचनायां तस्यां देव्यां स्वयंवरमहोत्सवाय राज्ञा यतमानेन सर्वेऽपि भूतलभाजो राजपुत्रा आकारिता आजग्मुः।
तत्र केचन शेषा इव लसन्मणिमालालंकाराः कुण्डलिनो वारुणीप्रमदाः कञ्चुकिनो रसातलं भूषयन्तो भूभृतः। केचन कैलासपतय इव सार्या बृषप्रियाः सुकुमारा अहीनमालाभरणा राजशेखराः। केचन तुहिनगिरय इव अचलसंबन्धयोग्याः रूपेण मेनकामपि मोहयन्तः अनेकशिखरश्रीविराजिताः लसत्कटकाः सपक्षनन्दना धराभृच्चक्रवर्तिनश्च। केचन दिग्गजा इव भद्रासनशोभावहाः शृङ्गारसुन्दराः सार्वभौमादिकसंपदश्च।
अथ तान्राजपुत्रान्देवस्तां सभामनयत्। या खलु महाराजैरिव प्रकृतिहृदयज्ञैः दुष्पुत्रैरिव गोत्रामयैः लोलुपैरिव तीव्रकरणैः अनल्पशिल्पिवर्गैः सर्गविस्मापितविश्वकर्ममानसैर्निर्मिता।
तस्यां किल संवर्तकालकलायामिवाम्बरमणिगणभूषितायां वरुणभार्यायामिवानन्तरन्तच्छायोद्भासितपुत्रिकादर्शनहर्षितजनचित्तायां मयूरैरिव भासुरचन्द्रकान्तैः गरुडैरिव विलसत्पतंगमणिभिः कपिभिरिव सुनीलैः प्रभातकालैरिव पद्मरागोज्ज्वलैरिन्द्रैरिव सवज्रैः वसन्तवृक्षैरिव सप्रवालैः मणिजालकैरलंकृतायां सभायां योगिष्विव दान्तेषु दानवेष्विवहिरण्यराजितेषु वनसंनिवेशेष्विव बकुलताम्रेषु क्षुद्रग्रामेष्विव दुर्वर्णप्रचुरेषु शरन्निशाकाशेष्विव चन्द्रताराभिरामेषु द्रुपदराजेष्विवानेकवरपादसमर्पितपाञ्चालिकेषु आसनेषूपविष्टे राजपुत्रकदम्बके, नटनटितशालभञ्जिकापुञ्जेषु तद्दर्शनाश्चर्यनिश्चलजनेषु च विभाविते जडचेतनविपर्यासे, चलनक्रियानुमीयमाने आगारचित्रप्रतिमाचामरग्राहिवनिताजनताविवेके विवक्षुभूपसंकेतदृक्प्रसारमूकीभवत्सभाजने सभाजने तत्रतत्र पर्यटति ताम्बूलकुसुमचन्दनपटवासादिमङ्गलद्रव्यदायिजने। राजाज्ञयाकारिता भर्तृदारिका शचीव निर्जरनारीकदम्बपरिवृता मुग्धमुग्धनेपथ्या
रङ्गधरांसा तुङ्गकुचश्रीः।
आप च मूर्च्छा भूपतिपङ्क्तिम्॥ 34 ॥
ततस्तु तां चम्पकवल्ली नाम सखी प्राह-`भर्तृदारिके, कश्यैते राजपुत्रास्त्वयि संसक्तचेतसः। तदेतेष्वन्यतममङ्गीकुरु। कथयाम्येतेषां नामरूपक्रियागुणान्। तथाहि।
एष किलानेककाण्डचक्रकीर्तिसंपच्छोभमानवाहिनीभरमज्जितविपक्षभूभृत्कदम्बो महासत्त्वप्रचाररमणीयो दर्शितानेकनिकटकान्तारागोज्जृम्भमाणोत्कलिकोऽयमगाधहृदयः सिन्धुराजो राजनन्दनो नाम। एष किल सर्वतोमुखानिरुद्धसंचारसार्थकितानिमिषचूडामणिविभवः निजविलासस्तोकिताप्सरोगणमहिममहितः उडुपतरणिवंशावलम्बिजनाकलितरसानुभावः राघवसदृशो मत्स्यराजः कन्दर्पकेतुर्नाम। एष किलानेकभूमिकाग्रहणविद्यानुरूपविविधसिक्षबलजागरूकपरिवारपरिवृतो नृत्यत्प्रमदाधिकरणस्थानभूषायमाणो लसदङ्गहारो रागशाली आनर्तदेशाधिपतिः कलकण्ठो नाम इति।
शौर्यशालिनि तदा प्रियसख्या वर्णिते सदसि राजकदम्बे।
स्तोत्रपाठरसिकादपरं नो मागधान्नृपसुता बहु मेने॥ 34 ॥
तदनु तेषां हर्षेण सहाकृष्य दृष्टिमन्तःपुरं गतायां भर्तृदारिकायां प्रतिकलं जृम्भमाणयौवनभरलोचनलोभनीयावस्थायां मदादौ परिजने कर्तव्यमूढे देवे आकाशभूपेऽपि चिन्ताव्याकुलचेतसि यथागतं गतवति मिलितराजवर्गे, अतिक्रान्ते कस्मिंश्चित्काले, कदाचित्परिवादिन्या विपञ्च्या अपरिवादिन्या चर्यया य वलक्षेण कान्तिकलापेन नवलक्षेण गुणवृन्देन युक्तः कोऽपि मुनिरागत्य राज्ञा पूजितः कंचन युवानमवर्णयत्। पश्चाज्ज्ञातं स मुनिर्नारद इति।
परं स राजपुत्रः क इति न जाने। तस्मिन्मुनौ यथाभिमतं याते भर्तृदारिका तु सुकृतसारसर्वखे तद्विर्णितराजकुमारेऽनुरक्तहृदयासीत्। अन्यदा वसन्तकाल उपचितमनोभवविकृतिः एकत्र स्थितिमसहमाना श्रवणमात्रगोचरे संकल्पनिर्मितदर्शनसुखदे तस्मिन्प्राणप्रिये कृतातिप्राणाया विरहविनोदनाय सुवर्ममुखरीतीरमुपससर्प सर्पवेणी। तत्र कंचन मृगयासक्तं किरातराजमपश्यत्।
शृणु सखे, अद्भुतमिदं वृत्तम्।
स किरातराजः स एव राजपुत्रः, यस्तु नारदोक्तगुणकर्मरूपकलापः सोऽपि च ताम्। अथैतन्मिथुनमनुरूपं यद्येतन्मेलयेद्विधाता तर्हि सफलस्तस्य मनोहररूपनिर्माणप्रयास इति मन्दमन्दं जल्पति सखीजने कालातिपातभिया प्रथमं चलितायां भर्तृदारिकायां सोऽपि किरातभूभृत्क्षणं तत्रैव लतामण्डपे स्थित्वा स्वाभिमतदेशमगमत्।
ततः प्रभृति गजेन्द्रगण्डमण्डलगलन्मदासारमाधुरीसुहितमिलिन्दाङ्गनेन ननीरजातस्पृहा देवेन्द्रचित्तवृत्तिरिव नभोजनसंजातप्रीतिः कुकविवाग्विलास इव मृदुलां शय्यां नाङ्गीकरोति। दुष्टशूर्पश्रुतिरिवालिमञ्जुलशब्दान्न सहते। एवं स्थिते।
मन्दे मारुतजातविक्रमभरे चक्रे च शोकाकुले निर्वाणे सुमनोगणेऽभिविलसत्यद्धा पलाशिव्रजे।
भिन्नेऽस्मिन्कुमुदे शिलीमुखचयै रामायणप्रक्रियां सम्यग्दर्शयतीव मित्र शुशुभे तारापतिः केवलम्॥ 35 ॥
ततश्च गगनगङ्गापुण्डरीकगलन्मरन्दधारासार इव हरिहयोद्यानविहरदैरावतगण्डमण्डलकषणच्युतहरिचन्दनतरुचूर्ण इव मित्रीभवन्नारदे तृणीकृतपारदे जगद्धवलीकरणविशारदे निन्दितक्षीरे त्रासितजारे शुभ्रीकृतनिखिलकान्तारे सचकितपरकीयाभिसारे संधितकुपितवनितासंसारे विरहिजनदूरे कृतसकलजीवलोकानन्दविस्तारे स्तोकितचकोरकक्षुधि चक्रवाककामकेलिरुधि वर्धितस्वाधीनपतिकाकामयुधि कुमुदभिदि धर्मनुदि उन्निद्रशम्बरशिरश्छिदि पथिकहृद्रोगे वर्धितरागे विकचाविकचभावानुमीयमानेन्दीवरपुण्डरीकविभागे पञ्चमस्वरविज्ञातपिकबकविवेके पारावारानन्दपरिपाके चुलुकिततमसि चालितयुवमनसि स्फूर्जच्चन्द्रमसि प्रवृद्धकोकिलागीते वज्रीभवन्मन्दवाते मुकुलितवारिजजाते संभोगशृङ्गारानुकूलसुरपारिजाते जाते विमलचन्द्रिकाप्रसारे उदितभूयिष्ठं पूरितसंयुक्तयुवजनताभीष्टं भूषितपुरुहूतकाष्ठं संध्यासमयतापसलोकविस्मृतस्फटिकमणीमालाभ्रमदपरिमललोभनिश्चलनीरावनिलीनचञ्चरीककुलालंकृतसुवर्णमुखरीकैरवं द्रवीभवन्निजसिलाजालदुर्लङ्घ्यकुल्यारचनाविघ्नितनवाभिसारिकामनोरथपरम्परारम्भम् अत्युच्चमाकन्दतरुशिखरगतकोकाङ्गनागलदश्रुबिन्दुसंदोहाकालवर्षागमभ्रमतोषितपोतचातकचक्रवालं चन्द्रमालोक्य
गोभिः परिष्कृतं भाति सश्रीकं चाब्जमण्डलम्।
इति मदुक्तिमाकर्ण्य किंचिद्धसन्त्याः नो चेत्तत्र कुतस्तिष्ठेत्सारङ्गः प्रणयाकुलः॥ 36 ॥
इति वदन्त्याश्चम्पकवल्ल्या वचनमनाकर्ण्यैव विरहभारकृशाङ्गी मां प्रत्यवादीन्नृपसुता-`हला, पश्य।
चन्द्रोऽयं भ्रमसंगतेन विधिना विष्णोः पदे स्थापितः
पूर्णत्वं गमितः सुलक्षण इति ख्यात्यापि संयोजितः।
चक्राह्लादकरत्वमेति कमलानन्दं विधत्तेऽथ वा
स्नेहं वा किमसौ त्यजत्यपि मधोः पीतांशुको वा भवेत्॥ 37 ॥
इति। अथ क्षणमिव ध्यात्वा पार्श्वस्थिताया मदनकलिकायाः पाणिना पाणिमवलम्ब्य-`सखि मदनकलिके,
चन्द्रोऽयं पद्मिनीद्वेषी पुण्डरीकविरोधकृत्।
तस्य राकापतित्वं च राजत्वं चेति विस्मयः॥ 38 ॥
इति संलपन्त्येव लीलाकमलदीर्घिकातटमुपजगाम। तत्र निःश्रीकाणिकमलान्यालोक्य कोपतरलिताक्षी भ्रुकुटीमाबद्ध्य चन्द्रमाह-
`धात्रा तातधियार्चितं सुरगजाधीशेन हस्ते धृतं क्षेत्रेषु प्रथितं प्रियव्रततनूजातेन संरक्षितम्।
शुभ्रांशो जगतां सुजीवनमये निन्दत्यथैतादृशं हंहो पुष्करमाश्रयं निजमपि ज्ञातोऽसि जाल्मो भवान्।. 39 ॥
तदस्तु। किमस्माकं जगच्चिन्तया।
हंहो कलानिधिरयं बुधनन्दनोऽयं सर्वज्ञमौलिमणिरित्यवदं सदैव।
दोषाकरोऽयमिति कस्य पुरो मयोक्तं मत्पीडने नहि निदानमिहास्ति किंचित्॥ 40 ॥
अथ वा किं प्रार्थनया।
`जीववधूग्रहणकलाप्रवीणता ते त्रिलोकविदितैव।
संपीड्य मामपि वधूजीवग्रहणप्रवीणतां याहि॥ 41 ॥’ इति।
अथ मदनकलिका `अहो आश्चर्यम्। यदियमविज्ञातरतिसुखापि तस्य यूनो दर्शनादेवैवं ताम्यति, निन्दति च चन्द्रम्, भवतु। एवं भणामि तावत्’ इत्यालोच्याह-`भर्तृदारिके, दिवासूर्यकृतस्वपरिग्रहकुमुदिनीपीडनासहिष्णुतया निशि तत्परिग्रहकमलिनीं बाधते। त्वद्बाधनेऽपि कारणमस्ति। तदपि शृणु। अर्धश्रवण एव तव मास्तु कोपः। तथा हि।
तव कमलसदृशं नेत्रद्वयम्, अब्जसुन्दरं मुखम्, जलजहृद्यः कण्ठः, तामरसमनोज्ञो वर्णः, सारसानुकारि जघनम्, पुष्करबन्धुर्मध्यदेशः, पुण्डरीकसमानं गमनम्, पद्मोल्लासितं सौन्दर्यम्। किं बहुना। पद्मिन्येव भवती खलु। अतो ब्रवीम्ययं न विषमवर्ती किं तु समवर्ती। कोऽत्र दोषः सुधाकरस्य’ इति। एवं कथयन्त्यां प्रियसख्यां शून्यहृदयं विहस्य तामेव लक्षीकृत्य प्राह भर्तृदारिका-`सखि मदनकलिके, पूज्यमानमभिहितं त्वया यत्समवर्ती चन्द्र इति। यतः।
कृशानुभावं क्षीणोऽपि पूर्णोऽपि च न मुञ्चति।
अतः सखि त्वया चन्द्र समवर्तीति गीयते॥ 42 ॥
सखि, इदमेकं विस्मृतं त्वया येन महानुपयोगस्तवेति स्मार्यते।
मधुमाधवयोस्तुल्यः श्रीपुत्रः पुष्पसायकः।
समवर्ती कुतः सोऽपि न भवेन्नीरजानने॥ 43 ॥
सखि, ज्ञातमिदानीं यच्चन्द्रादयः सर्वेऽप्यैकमत्येन चलन्ति तद्युक्तमेव यत्सर्वेऽपि शनिस्वभावा एव। तथा हि। छायानन्दनश्चन्द्रः, वायुर्मन्दः, वसन्तस्तु जातितः कालः, मदनश्च गुणतः कालः; कोकिलगणश्च वर्णतः कालः। अस्तु वैतत्। पदमिदमेकमेव विस्मयकरं चेतसः। यत्त्वममन्दगुणापि तेष्वेव मिलितेति तत्तुष्टोऽयं जनो धन्यश्चेति।
तदनन्तरमस्मच्चम्पकवल्ली `मा कोपय भर्तृदारिकाम्। दूनेयं दुरात्मना कुसुमधन्वना सुधाकरेण च। तदलमेतादृशवचनोपन्यासेन’ इति मदनकलिकां निर्भर्त्स्यावदद्राजपुत्रीम्-`भर्तृदारिके, किमिति विषीदसि। एतेषामुपद्रवापनोदायास्ति कश्चित्सुलभ एवोपायः। तच्छृणु।
कदाचिद्वनरमायाः प्रथमर्तुमहोत्सवसमये कस्मिंश्चिल्लतामण्डपे मिलिताः सर्वे सभासदः। तदाग्रत्वपूजार्हः क इति प्राप्तायां विचिकित्सायां कलावत्तया स्वयमिति चन्द्रः, मरुत्कुलं विश्वमान्यमिति वसन्तवायुः स्वात्मानं बहु मेने। तदा तु तयोर्विवादमाकर्ण्य भूपे स्वयमेव मदने एकः कलङ्की द्वितीयो मन्दः कृष्णोऽयं कलकण्ठः प्रथमं पूजनीय इति वदति सत्यमाज्ञापयति महाराजः-यत्पुरा राजसूययज्ञ एव निर्णयो जातः अग्रपूजार्हः कृष्ण इति इति वसन्तेन भणितम्। चञ्चरीकैरनुमोदितम्, अशोकेनाङ्गीकृतम्, रसालेन च श्लाधितम्। ततः प्रभृति चन्द्रादयः परस्परं साभ्यसूया इव तिष्ठन्तीति श्रुतं मया। तदद्य भेदोपायेनैव दैवाज्जातस्तेषामन्तः कलहो दृढीकरणीय इति। तच्छ्रुत्वा चमत्कृता स्मरशरदृढप्रहारवेपमानहृदयापि वसनाञ्चलेन नृसिंहपुरीमिव संबद्धनीरां प्रबातवेलामिवाकुलाकुलतारां लेचनयुगलीमुन्मृज्य `साधु श्लेषवादधुरीणे, साधु अरीणकाव्यनिर्मामकलाचतुरे, साधु भणितम्’ इति मुहुर्मुहुरभिनन्दनीयामभिनन्द्य `हला, त्वमेव वसन्तादीन्मद्वचनेनैव कथय’ इत्याह। तथा हि।
चन्द्रः कान्तोऽपि रोहिण्या वृषभो न न गौर्भवेत्।
वसन्त एष सुरभिरथ किं तत्र ते रतिः॥ 44 ॥
मातुलहन्तुस्तनयो मदनस्त्वं तस्य मातुलश्चन्द्र।
मा विश्वस हेतुगुणाः कार्ये किं नहि भवन्ति तारेश॥ 45 ॥
कुह्वाह्वानचणोऽयं पिकनिकरोऽहिं च पोषयति वायुः।
तद्द्वितयाद्भययुक्तस्त्वं सोम किमित्यये तयोर्मिलसि॥ 46 ॥
सर्वलोकजननीति विश्रुतां मां दहत्यविरतं खरैः करैः।
आत्मभूरसि निवारयाशु तं मीनकेतन कुमुद्वतीसखम्॥ 47 ॥
अपसर चन्द्राद्दूरं कथयामि हितं समीर गिलति त्वाम्।
एष भुजङ्गश्चन्द्रो मिथ्या चेत्पृच्छ भोस्ताराम्॥ 48 ॥’
इत्युक्त्वा च `हञ्जे शृङ्गारमञ्जरि, इति एहि’ इति मामाहूय मत्स्कन्धाहितैकबाहुरितस्ततो हेमलतेव चलन्ती प्राह-
`दुरुच्छेदः प्रेमा क्वचिदपि पदार्थेषु रचितः स वो यत्राभूमिः प्रियसखि विधातर्यसुमुखे।
शरारुः कामोऽयं शकलयति मर्माणि तिलशो न यान्त्येते प्राणाः कथमपि दुराशानिगडिता-॥ 49 ॥
अयि शृङ्गारमञ्जरि, एते मदनादयो न गुणसाध्याः। किं तु दण्ड्या एव।’ मदनं लक्षीकृत्य।
`रे मनोज कुलदीपकरत्वं प्रापितोऽसि नचिरेम विधात्रा।
यत्पितुस्तव जनित्रितयेष्टामाश्रितोऽसि वनितावधचेष्टाम्॥ 50 ॥’
इति। अथाहमचिन्तयम्-`अये, मदनहतकोऽयमतितरां पीडयति भर्तृदारिकाम्। तद्बलसर्वस्वमयं सुधांशुः। तदनेनोपायेन भर्तृदारिकां कोपयित्वा शिक्षणीयः यथायं स्वां प्रकृतिं भजिष्यति’ इति निश्चित्यावदम्-`भर्तृदारिके, अहं कथयामि चन्द्रवृत्तान्तम्। तथाहि-
एष किल द्विजराजः परिकलितमध्वागमोऽतनुहुताशेन सदरं चक्रं संताप्यानेकसुमनः कदम्बसुकृतोपनतस्य तपस्यानन्तरभाविप्रसादस्य भगवतो माधवस्य प्रेरणया कलितपरमामोदेन मन्दानुकूलेन वायुनानुगृहीतः सुवंश उदयन्नेव रक्ताम्बरो बुधनन्दनो मृगकृत्तिकापरिग्रहो योगिजनोल्लासको वियोगदूनं जनमेनं स्वकरेण संताप्योपदिशति परं पुरुषं भजेति। तदत्र किं चित्तविक्षेपेण’ इति। अथ सा वेलातीतकोपा `आः दुरात्मा परपुरुषं भजेति मामुपदिशति किल। तत्फलं सद्य एवानुभवतु चन्द्रहतकः, तत्संबन्धान्मदनादयोऽपि’ इत्युक्त्वा विरहाकुलाभ्यां लोचनाभ्यां गलताश्रुजलेन क्षणादञ्जलिमापूर्य कंदर्पादीन्कटाक्षीकृत्य वार्यमाणापि सखीकदम्बेनैवमाह। तथा हि-
यदि जन्मप्रभृति भगवतो नारदोक्तगुणकर्मरूपात्सकृल्लतामण्डपे लज्जामन्थरतारमालोकितात्तच्छबरयूनः अन्यस्मिन्पुरुषे यद्यहमननुरक्ता तत्सफलीभवतु मे सरस्वती।
त्वं रे याह्यतनुत्वमाशुगचयः पञ्चत्वमेतु क्षयं सामन्तः शिशिरांशुकोऽप्यसुमनोभावं च पुष्पाकरः।
मान्द्यं यातु मरुत्सुहृत्तव रतिं गृह्णातु सर्वं जगन्मच्छापान्मदनाहमस्मि निरतैकस्मिन्नसाधारणी॥ 51 ॥’
इत्यभिधाय किंचिदालोच्य सर्वमपि सखीगणमभणत्-`अयि सख्यः, यद्येनामापदं निस्तीर्य जीवामि तर्हि वरमेव। अन्यथा यद्यवतरति दैवाद्युष्मल्लोचनपथं स शबरयुवा तदैवं वक्तव्यः।
यद्वैशसं मयाप्तं नहि तत्त्वद्रागहेतुकं किं तु।
गुरुजनलज्जामूलकमिति जानन्रमण मुञ्च मयि करुणाम्॥ 52 ॥’
इति कथयन्त्येव बाष्पाकुललोचने वयस्याकदम्बे विहाय प्रमदवनं प्रमदाजनं च मय्यप्यप्रसादा प्रासादमारुह्य विहाय पर्यङ्कं पर्यङ्कस्थापितवामकूर्परा करकमलाञ्चितवदना दक्षिणदृक्कोणेन किमपि किमपि पश्यन्ती कनिष्ठिकानखशिखया बाष्पसलिलं दिशि दिशि किरन्ती क्षणं क्षणं परिचर्यापरायणेऽपि जने शून्यतरया चित्तवृत्त्या बाहुयुगलवेष्टितजानुद्वयस्थापितमौलिः क्षणं दीनदीनां पार्श्वस्थितसखीवर्गे धीरं धीरं संचारयन्ती तस्थौ। अत्रान्तरे कथं कथमपि ज्ञातवृत्तान्ता देवी धरा कन्यकाप्रासादं स्खलच्चरणविन्यासमागत्य किमिदं किमिदमिति पप्रच्छ सखीवर्गम्। तदनु
वैद्यैर्ज्वरोऽयमिति दृष्टिरिति स्म धात्र्या पीडा शनेरिति वचो गणकैः प्रयुक्तम्।
अत्रान्तरे सहचरीगणमाप हासः कन्यां त्रपा नृपसतीमथ संशयोऽपि॥ 53 ॥
अथ देवी धरा विचिकित्सातरङ्गितान्तरङ्गा मामपृच्छत्-`हञ्जे, किमेतत्। सत्यं कथय’ इति। तत्र च व्यतिकरे सानुनयं पृच्छन्त्यां देव्यां कृतावहित्थास्वालीषु `इदानीं किमेषा कथयति पापा’ इति रहस्यभङ्गभिया दूनायां भर्तृदारिकायां सजिह्वायन्त्रणम् `मा भण। शापितास्यस्मत्प्राणैः’ इति सूचयन्त्यां मदनकलिकायाम् `कथय कथयाविलम्बितम्’ इत्युत्सर्पितपूर्वकाये जल्पति जरद्धात्रीवर्गेऽहमेवमवदम्-`देवि, ह्यस्तने अस्माभिः सहेयं भर्तृदारिका पुष्पावचयाय गता खलु वनवाटिकाम्। तत्र चित्तजातकुतूहलेनोत्तरलिता कस्मिंश्चत्किरातकुलभूषणे भूभृति संबद्धक्रीडानुरागासीत्। अकालोऽयमित्यकृतार्थैव यावद्भवनमायाति तावदस्या इयं दशा। तदिदानीम्
देहो मध्यसमच्छविः स्मितरुचिं धत्तेऽथ नासामणिः कैश्यस्यानुकरोत्यमेयचरितानल्पान्विधत्ते गुणान्।
निश्वासश्च विजृम्भते प्रतिकलं बाष्पो यथा यौवनं संतापस्तुलयत्यपारविभवं लावण्यवारांनिधिम्॥ 54 ॥
देवि, प्रथमं तावदस्याः करयुगले तापमाकलय।
यस्मिंस्तामरसभ्रमेण मिलितैर्भृङ्गैः पतङ्गायितं संस्पृष्टैर्मणिबन्धकीरनिकरैः संपातिपत्र्यायितम्।
केलीपुत्रिकयापि दिव्यसमयश्रीरामकान्तायितं लेपार्थं कलितैश्च चन्दनरसैरामोदिधूपायितम्॥ 55 ॥
किं चैनम् स्मारं ज्वरं कलय लोकविलक्षणम्। योऽयं पूर्णचन्द्रोदयाभियोगाद्वर्धते। जैवातृकदर्शनादपि जृम्भते। सेयं भर्तृदारिका स्तोकेन वायुनापि दूनेव भाति। कस्यचिद्दृग्दोषेणापि भवितव्यम्। यश्चास्मन्मन्त्राविषयः। अपि च। किमेतदिति विविच्य प्रष्टव्यम्। यस्यामवस्थायां वर्तते भर्तृदारिका सा किं देव्या न ज्ञायते। देव्येतदेव जानामि। इतःपरं देवी प्रमाणम्’ इति।
ततश्च सा सूक्ष्मज्ञा महादेवी क्षणमिव ध्यात्वा दीर्घमुष्णं च निश्वस्य किमप्यनुक्त्वा प्रययौ। महाराजोऽपि देवीद्वाराकलितवृत्तान्तैकदेशो माम् `वासु, इति एहि शृङ्गारमञ्जरि’ इत्याहूयाज्ञापयामास-`गच्छ तपोवनं यत्र भगवानुशना। शीघ्रमेव मन्त्रपूतं जलमाहर। येन तापशान्तिर्भवेद्वत्सायाः’ इति। तदाहमन्तर्नियमितस्मिता `किं भवति मन्त्रजलेन विद्याबलेन वा। मुधैव मामायासयति देवो भर्तृदारिकामिव मदनः। देवोऽपि भ्रान्त इव लक्ष्यते’ इति स्वगतमालोच्य प्रकाशम्, `देवस्याज्ञा प्रमाणम्’ इत्युक्त्वा अनुष्ठितराजदेशा प्रतिनिवृत्तास्मि। वयस्य, उक्तं वक्तव्यम्। यदीषदपि परिचयः सरलानां नान्तरं सहते। सखे मरालक, चित्रमेतत्।
स्वान्तं हिनस्ति मदनो मानभङ्गाय कल्पते।
सोऽपि सौख्योन्नतेर्हेतू रागस्य विषमा गतिः॥ 56 ॥
अस्त्वेतत्। स सुकृती क्वेति न जाने। यस्तु तादृग्जगज्जयजङ्गममदनवैजयन्त्याः शृङ्गारसारसर्वस्वमञ्जूषाया हृदयाकर्षीति अस्त्वेतदप्यनुमन्यस्व यथाभिगतगमनाय। वेला भूयसी जाता। किंत्वेतदपि ज्ञातुमिच्छामि को भवानिति विस्तरतः। तत्कथय’ इत्याभाष्य जोषमासीत्।
मरालकोऽपि `सखि, शृणु मदीयवृत्तान्तम्’ इति यावद्वक्तुमिच्छति तावदेव श्रीनिवासोऽपि
नो नीता रतिमन्दिरं मणिमयं नो मञ्चमारोपिता नो दष्टोऽधरपल्लवः कुचतटी स्पृष्टा न वा पाणिना।
न क्रोडेऽपि कृता न वा मृदुगिरा संभाषिता केवलं दृष्टा चूतवने करोति विवशं चेतः कथं कुर्महे॥ 57 ॥
भूयःकातरतामवाप हृदयं वस्त्वन्तरं नेक्षते दृष्टिः कम्पमुपैति गात्रमयते धैर्यं निरालम्बताम्।
रागाग्निर्मलयानिलैरुपचितः स्मैनां दशां प्रापयत्यत्रानङ्गकलम्बको हृदि गतः साक्षी न चान्यो जनः॥ 58 ॥
इति वदन्नेव यदृच्छया तत्स्थानमगमद्यत्र शृङ्गारमञ्जरी मरालकश्च। आगत्य च तां दृष्ट्वां दृष्टपूर्वतनसंजातप्रत्यभिज्ञः तयापि सरभसमुत्थाय सम्यङ्मौलिदेशप्रसारितचेलाञ्चलया `कथमत्र देवोऽपि’ इति सस्मेरमुखमञ्जलिं बद्ध्वा।
यः शूरान्वयसंभवः करगतं चक्रं च यस्य प्रजा लोके नाभिभवत्वमेति सच मे श्रीवत्सलक्ष्मा पतिः।
कान्तस्तत्रभवान्भवत्विति यया तप्तं तपोभिः पुरा सा वै मङ्गलदेवता भवतु ते कामाय सोमानना॥ 59 ॥
इत्याशिषा सविनयमभिनन्दितदर्शनश्चिन्तितवान्-`अहो, अपूर्वेयमाशिषां परिपाटि। यदस्मिंञ्श्लोके तत्रभवानिति शब्दश्रवणेन किमप्यानन्दमेदुरितमिव चेतः। प्रायः प्रकृतोपयुक्त एवालापोऽयं भवेत्। अथ वा भ्रान्तेरेष विलासः। यदत्र यदृच्छया प्रयुक्तेषु शब्देषु स्वानुकूलार्थग्रहणम्। किमाश्चर्यमेतत् जगदेव तन्मयं पश्यतः। अथ वा तर्कागोचरा खलु नियतेर्भङ्गी।
अब्दानामयुते गते सुतजनीरक्षा च तेन क्रतोरस्त्वेतद्धनुरैशमुग्रमभवद्भग्नं कथं तेन हि।
अस्त्वेतच्च दशाननं स हतवानाजौ तदप्यस्तु वा तद्वार्तां त्रपते वदन्नहि कथं वल्मीकजन्मा कविः॥ 60 ॥
किं च।
भिन्नं मेलयति प्रमादगलितं ग्रन्थाति नीतं पुनः प्रत्यावर्तयति क्रमेण शिथिलं नव्यं तनोति क्षणात्।
दूरस्थं निकटीकरोत्यसुघटं चानीय पाणौ ददात्याच्छन्नं प्रकटीकरोति पुरतो दैवं प्रसन्नं यदि॥ 61 ॥
इति विचिन्त्य च। `अपि सखि, दिष्टया दृष्टासिकिं कुशलं ससखीकदम्बाया युष्मद्भर्तृदारिकायाः’ इत्यानन्दबाष्पस्थाने विरहसंतापजनिताश्रूणि कल्पयन्हरितालपीतांशुकाञ्चलेन प्रमृज्य शोणारविन्दद्रोहदक्ष नेत्रयुगुलम्, सस्पृहं तामभाषत। सापि लज्जामन्थरतारं विलोक्य `कुशलमव्याहतं भर्तृदारिकायाः। यस्या भवादृशश्चित्तोन्मथनहेतुः। किं चायं विदितवेद्यः कृतः देवस्य प्रियसहचरो मरालकः’ इत्यभिधाय कृततत्कालोचितालापेन तेन चाभिमतप्रयाणा गृहीतपारितोषिका `अयमयं देव, प्रयाणप्रणामाञ्जलिः’ इति परिवृत्य परिवृत्य पश्यन्ती शनैर्जगाम। श्रीनिवासोऽपि मरालकवचनदृढीकृतधृतिः फणीन्द्राचलमागत्य बकुलमाला नारायणपुरं प्रेषयितुमिच्छन्।
मधुरवचनरीतिं मञ्जुसत्संविधानां कथमपि निजकार्यस्यानुकूलां विधाय।
कविरिव विधिनारीं वेङ्कटेशः प्रसाद्य प्रभुरपि बकुलां तां श्रीनिवासो ननन्द॥ 62 ॥
॥ इति श्रीवेङ्कटेशकविविरचिते श्रीनिवासविलासे पूर्वभागे तृतीय उच्छ्वासः ॥
.
** ॥ चतुर्थ उच्छ्वासः ॥**
अथ परेद्युः श्रीनिवासाज्ञया नारायणपुरं गच्छन्ती बकुलमाला मध्येमार्गमनर्गलप्रसरद्यशसं भगवन्तं ब्रह्मरातं निरीक्ष्य प्रणम्य च यथावृत्तं निवेदयामास-`महर्षे, कृपोद्धत, विष्णुरात, विदितमेव भवता भवतापहारकः श्रीनिवासो भुजङ्गाचले निवसति’ इति। स च कदाचिन्मृगयापरावृत्तो मामभणत्-`अयि बकुले, अद्य मया विपिनभुवि भ्रमता पद्मसरसो नातिदूरे कापि पिकालापा दृष्टा स्पृष्टा च मनसा। या खलु हीनमहीनमपि कलयति वेण्या। तनुमतनुं चोल्लासयति दृष्ट्या। अगं नागं च लज्जयति कुचाभ्याम्। गजमगजं च ह्रेपयति गमनेन। रतिमरतिं च तिरयति रूपेण। किं बहुना।
वक्त्रं पुष्करहारि शम्बरलसन्नेत्रं वियोगो विषं बिम्बोष्ठोऽमृतसुन्दरः शशतं ते ते कटाक्षाङ्कुराः।
क्षीरं वाग्भुवनोत्तरं वपुरये यस्याः कुचः सद्रसः प्रेमा जीवनमेव तद्विधुमुखी सा साधुनीत्युज्ज्वला॥ 1 ॥
स खलु दर्शनात्प्रभृति चन्द्ररेखेव सागरस्य कामपि विकृतिमापादितवती चेतसः। तदत्रभवती भवती नियतिश्च शरणम्’ इति। अहं तु तदुक्तवती यदुचितमार्यभावस्य। तथा हि-`देव, परिहरेमां मनीषाम्। यतस्त्वादृशानां पार्थिवानां नोचितः पराभवप्रकारो मन्मथेन। तोषहेतुर्धरणी न तरुणी। महत्त्वं दर्पेण न कंदर्पेण। अङ्गीकुरु सैन्यं न दैन्यम्। संपादनीयाः कोशा न क्लेशाः। के वा चिरंतनाः स्त्रीमूलकव्यसनेन न लघुतां नीताः। दैत्यारिरपि राक्षसविधिमङ्गीचकार भगवान्गोविन्दः। विना चन्द्रं को वा बुधनन्दनो जातः। मधुपाः कुसुमेषु सक्ता भवन्ति। मदनासक्तास्तमो विशन्तीति त्वयाप्युक्तमेव किं तन्मृषा। माररहितो निःश्रीक एव। अपि चेदमपि शृणु या भवतोक्ता सा प्रायेण वियद्भूपालसुता भवेत्। जानामि तां यस्या मधुपकुलसुखप्रश्नचतुरा कुन्तलाली। भुजङ्गस्पृहणीया वेणी दोषाकरानुकारि मुखम्। परपुष्टसब्रह्मचारी ध्वनिः। पल्लवैकासिकायोग्योऽधरः। द्विजिह्वसहचारिणी रोमलता। मातङ्गानुकारि गमनम्। सत्येवं शुद्धो भवात् कथं तस्यां सक्तः। अस्तु वा तस्यां प्रणयः। विरुद्धचर्ययोः कथं परिणामरमणीयता। तदपि शृणु संक्षेपतः। सा दिशो रञ्जयति, त्वं पुनररञ्जयन्। सा दृशा रङ्कुकुलद्वेषिणी, त्वमरं कुकुलद्वेषी। सा पुनरलंकारातिसुन्दरी, त्वं तु लङ्कारातिसुन्दरः इति। अतःपरं यथारुचि समाचर’ इति। सोऽपि श्रुतमद्वचनः ईषद्धसन् `देवि, शब्दसामर्थ्याद्गुणान्दोषीकर्तुं दोषानपि गुणीकर्तुं समर्थासि। अलोकसामान्या तव शक्तिः। किमसुघटं श्लेष्मभाषणरसिकानाम्। प्रसीदतु वत्से, मयि निर्व्याजप्रेममांसलं नवनीतकोमलं ते चेतः। कश्चित्पुरुषः स्वशत्रुमपि विवाहशोभया योजयन्महतीं कीर्ति प्राप्नोति। अतो मां कृतार्थं विधाय परां समाख्यामवाप्नुहि’ इति साञ्जलिबन्धमभणत्। `महर्षे, किं करोमि किंकरी। तदाज्ञा प्रमाणम्’ इत्यवतीर्य पवनाशनाचलात्प्राप्य कपिलेश्वरम्।
गुणवद्गुणोऽप्यहीनो मार्गणवन्मार्गणोऽपि लक्ष्मीवान्।
धर्मो धर्मवदचलो यस्य स पायात्पुरारातिः॥ 2 ॥
इत्यार्ययोल्लसन्महाश्लेषया गौर्येवापरया नन्दयन्ती तमुमानायकमिह प्राप्तास्मि। बादरायणे, इदमपरमभिहितं देवेन-`बकुले, यद्यत्र कन्यासंबन्धिनामनुयोगः प्रसरेत्तदा किं कथयसि। अद्याप्यकृतविवाह इति कालातिक्रान्तिदोषसूचनम्। जातविवाहोऽयमिति सपत्नीस्थितिज्ञापनम्। तस्यामलब्धसंतान इत्यनतिपुंस्त्वव्यञ्जनम्। द्वितीयो विवाह इत्यमङ्गल्योद्बोधनम्। भार्यास्य विप्रकृष्टा वर्तत इति गृहच्छिद्रावेदनलाघवम्। सा दुश्चरित्रेत्यलीकवादमहापातकम्। नैकया तुष्यतीत्यव्यवस्थाद्योतनम्। रूपोन्मादित इति वनितापूर्वकानुरागाभावकथनम्। त्वया प्रलोभितोऽयमिति कुमारीजनविरुद्धशङ्काबीजोद्भावनम्। अभिनवया इति पापीयसा निष्कारणपरोपतापदक्षेण नारदेन भिद्यते रहस्यं पुराणपुरुषं इति। अथ चतुरासि वक्तुम्। किमपि वा वद। कथमपि वा कुरु। अप्रभुरस्मि युक्तायुक्तपरिज्ञाने। इत्येवं मय्येवार्पितभरे देवे मयाद्य किं कर्तुं शक्यमित्येवमुक्त्वा विरराम। संवृतवचनायां तस्यां शुकोऽपि स्मारितश्रीनिवासः पुलकाङ्किततनुः शनैस्तां बभाषे-`देवि बकुले, कुशलासि वक्तुम्। यदत्यक्तार्यभावया देवस्य चित्ताराधनं कृतम्। अनुसरणीयाः खलु निरर्गलप्रचाराः प्रभवः।
अस्त्वेतत्। तावुभावपि दृष्टपूर्वो। तयोर्योग्य एव संयोगः। यतः सा श्यामा स तु कृष्णः। सा पद्मिनी स तु वसुमान्। सा कान्तालका स तु राजराजश्च। सा रूपेण हरिणी स तु यशसा हरिणश्च इति। तथापि सा सुभद्राकृतिरिति दोलाकर्म करोति चेतः।
अथ वा आः किमस्ति अगम्यागमनशङ्का भूपानाम्। रामो जनकसुतायामनुरक्तः। विचित्रवीर्यस्तु अम्बिकामुपयेमे। नदीसुतो वाहिनीपतित्वमाप।
राजनीतिं धिगब्जातधिक्कारक्षमलोचने।
इलायामनुरक्तोऽभूदिलापुत्रः पुरूरवाः॥ 3 ॥ इति।
अथ वा महस्तु दोषारोपणमेव दोषः। यथाकथंचित्प्राज्ञेन कृतोपयमसाहाय्येन भवितव्यमित्यार्यवादः। लोके हि शत्रुमप्युपयमं नीत्वा महाराजसंपदमनुभवति। तिष्ठत्वेतत्। देवि, साधय साधनीयम्। अहमपि यथाशक्ति श्रीनिवासस्य कार्यैकदेशसाधको भवामि’ इति बकुलापि श्रुततद्वचना निर्गत्य तदाश्रमात्।
चित्रं स्मृतिपथं प्राप्ते यस्मिन्निष्कण्टका मही।
तं श्रीनिवासं संस्मृत्य यच्छुकोऽभूत्सकण्टकः॥ 4 ॥
इति सानन्दं चिन्तयन्ती कतिचित्पन्थानमतीत्य राजपुत्र्याः शरीरतापापनोदाय द्विजनक्रियमाणरुद्राभिषेकं सुवर्णमुखरीतीरस्थमगस्त्येश्वरमासाद्य
सा वै पीनपयोधरा स च पुनः श्रीनीलकण्ठोऽभवत्स्थाणुत्वं प्रकटीचकार स च सापर्णाभिधानं गता।
तौ जातौ कलधौतकान्तिरुचिरावा चन्द्रमा तारकं तद्दाम्पत्यमहो जयत्यनुकलं श्रीपार्वतीशर्वयोः॥ 5 ॥
इति स्तुत्वा तद्द्विजपरिचर्यापरै राजदासीजनैः समं तत्पुराभिमुखी बभूव।
इतः श्रीनिवासस्तु चपलस्वभावो मरालकमाह-`वयस्य, बकुला तावद्गता। परं कार्यं साधयति वा न वा। प्रायो मुग्धाङ्गनानां चित्ते राजप्रसादवच्चपलम्। तत्र मन्दाक्षभूयिष्ठे किरातवन इव मृगो भीतभीतः प्रसरति मदनः। तत्र किं करणीयम्’ इति। सोऽप्याह-`देव, मैवम्। यतः प्रायशो लोके वनितानां स्पृहास्थानं सौन्दर्यमैश्वर्यं च विद्या च।
तत्रोदाहरणं ताराद्वयं कलयतु देवः। तत्रैका तारा शृङ्गारदीक्षितत्वं राजत्वं कलानिधित्वं च चन्द्रे दृष्ट्वा स्पृहयांबभूव। द्वितीया तु सुग्रीवं गजादियुक्तं कलालापेन तोषयन्तं कपिराजमकामयत्। देव, इदं तावत्स्वैरिणीवृत्तम्। का वा कुलकन्या एकत्र प्रकटितानुरागा भूत्वापरत्र सक्तमानसा भवेत्। अयि रुक्मिणीजाने, किमत्र शङ्कया। तस्माद्भणामि वसन्तश्रीर्नियतिश्च मेलयति देव्या। सोऽप्यचिरादेव महोत्सवो विश्वं विस्मापयति’ इति।
अथ देवोऽप्यचिन्तयत्-`लोके पुरुषः केवलं सरलो न स्यात्। सरलसच्छोभः कुचभारः पीड्यते। नवनवकपटोल्लसितो मान्यो भवति। वक्र एव गुरुरिति सद्वृत्तशास्त्रम्। भगवान्नारायणोऽपि महामायायुक्त एव पुरुषोत्तमो जातः। अतः कपट एव सर्वार्थसाधकः’ इति विचिन्त्य भारतसमरभूमिरिव गुल्मोद्भासिनी, वर्षासरिदिव मध्यदेशोल्लसत्पोता, विन्ध्याटवीव वेत्रलतावती, शंभुमूर्तिरिव कदर्पकमालालंकृता, प्रावॉट्लक्ष्मीरिव व्यालम्बिपयोधरा धर्मदेवता भूत्वा नारायणपुरं प्रविश्य निशि पौरविलासं ददर्श। तत्र कश्चिद्विलासी कांचन स्त्रियं वक्ति-
`नीलाम्बरासि वामोरु मुसलं च करे तव।
योग्या तवास्तु रामाख्यातनुयुद्धं भजाधुना॥ 6 ॥’ इति।
अपरः कस्याश्चन वृत्तान्तं सखायं प्रत्याह-
`ज्यावल्लीलुलिता शिवस्य मलिनं चक्रं नखाङ्कोल्लसत्कोदण्डं मुकुलीबभूव च शरस्याद्यावतारक्रमः।
आयस्ता सुमवाटिकाशिथिलितप्रायांशुकः स्यन्दनः प्रायेणाब्जमुखी सखे रिपुरणश्रान्तेव संलक्ष्यते॥ 7 ॥’ इति।
कश्चिदपरां मुग्धावस्थामारभ्य क्रमेण रूढयौवनां कामुकीं वर्णयति-
`यत्पुष्पेषुशिलीमुखावृतिरभूत्सौरभ्यमासीत्ततः पुष्पं चोत्कलिका च पल्लवकुले सारक्ततां ते ततः।
पश्चात्सद्विटपालिवेष्टनविधिः पश्चाद्रसापेक्षिता यस्यास्तद्विरला लता विजयते सा कापि नेत्रोत्सवः॥ 8 ॥’ इति।
काचिद्वनिता यैरेवाक्षरैः स्वपुरुषः संल्लापयति तैरेवाक्षरैः प्रतिवक्ति-`वीरायिते नैपुण्यं दर्शय। मेखलाभियोगो न सुखाय। रामाधिकस्वभावाद्धृदयंगमश्रीरसि। सरलता ते लोकोत्तरा। सन्मालानुगुणनायकगुणोल्लसितसंपत्। अधरकृतसकलबन्धुजीवरुचिरसि। सर्वदोरुसंपदा मनो हरसि। रुच्यतिरेकान्मामधः करोषि। त्वद्रत्या विस्मयान्वितं मे चेतः।’ इति।
कश्चित्स्त्रियं स्तुवन्निव निन्दति-`मुग्धे सुप्रियासि। अतनुकलहप्रियेतिरमणीयासि। च्युतमाने किं बहुभाषणैः।’ इति।
काचन विटं स्तुवन्ती धिक्कुर्वती स्वसुतां शिक्षयति जरद्वेश्या-`मुग्धे, मनोजातविकारमेतस्मिन्मा कुरु। वृथैवानेन सह जल्पन्त्यास्तव स्नेहक्षय एव फलं स्यात्। यथा निशान्तं न याति तथा कुरु। अचिरादेव वसुमानागच्छति। यश्च हिततरः पद्मिनीनाम्। ततः परमनेन किं ते प्रयोजनम्।’ इति।
काचिद्वेश्या गृहकृत्यनिवेदनव्याजाद्दुहितरं शिक्षयति-`अनर्घ्यमणिताभिज्ञे, कण्ठस्थं स्नेहप्लुतं नायकं सत्कुरु न बन्धनं प्राप्नोति सुरभिश्च तन्न पश्यसि कुतः। दुर्वत्से, प्रवृत्तिं जानीहि। क्व गता गुणाः। न पात्रे ते प्रणयः’ इति।
काचित्सखी चतुरङ्गलीलानिवेदनव्याजेन जारं बोधयति-`प्रियसख, ननवस्याः कुञ्जरं गृहाण। स्मरनवाजिकृतचातुर्यमस्याः पश्य। पश्य सेनामेनां त्वन्निकटगाम्। प्रकटीकुरु रथम्। पात्रं मा त्यज। योजय बन्धे’ इति। एवमात्रान्तरे।
लसमानसप्तपत्रा गलितघनध्वान्तनिकररमणीया।
शरदः प्रभातवेला बभार लीलां झटित्येव॥ 9 ॥
अथोदिते सूर्ये तत्र तत्र कालत्रयवृत्तान्तं कथयन्ती राजभवनवीथिकां प्रविश्य तत्रापि जनकदम्बवेष्टिता धर्मदेवता तत्तद्वृत्तान्तं कथयति स्म। तथाहि।
कामपि वेश्यां प्रति-`पूर्वेद्युर्द्वारोपान्त एव कश्चिद्भुजङ्गो दृष्टः। सं त्वया मन्त्रबलाद्बन्धे निवेशितः।’
कंचन विप्रं प्रति-`अये, त्वया रात्रौ रामाराधनं कृतम्। इदानीं बहुधान्यालाभचिन्तया म्लानमुखोऽसि। पुण्डरीकनयनाराधनं कुरु। फलवान्भवति ते मनोरथः’ इति।
कंचन वणिजं प्रति-`रात्रौ त्वया नीवी मोचिता। इदानीमपि मधुराधरागमनं चिन्तयसि। सत्यानृतवृत्त्या ते कार्यसिद्धिः।’
दुर्गतं प्रति-`ग्रीष्मे वसूल्लासं पस्यसि।’
अपरं प्रति-`सूर्येऽस्तमिते श्यामालाभे भवति।’
अन्यं प्रति-`मध्याह्ने मित्रं स्वच्छमवगच्छसि।’
अन्यम्-`पौर्णमास्यां प्रसन्नं राजानं द्रक्ष्यसि।’
विटम्-`कावेरी ते दुःखमपनुदति।’
अन्यम्-`शरदि धात्रीदर्शनं भवति।’
अन्यम्-`इन्द्रं प्रार्थय। संतानलाभो भवति।’
मन्दपुत्रां प्रति-`वसन्ते तवाङ्गजः प्रौढो भवति।’ इति।
एवं जनमात्रं विश्वासपात्रमापादयन्ती `समर्थेयं कालत्रयवृत्तान्तमात्रकथने’ इति स्तूयमाना राजवल्लभयापि धरया चेटीमुखेनाकारिता राजभवनमासाद्य देव्या पृष्ट `क्षुधितास्मि। अन्नं देहि। ततः परं सर्वमपि ब्रवीमि’ इति तज्जातिचापलं मध्ये मध्येऽभिनयन्ती श्रीबदरीनारायणमल्लिकार्जुनवैद्यनाथश्रीरङ्गेशविरूपाक्षवीरभद्रनडगुण्डगोकर्णलिङ्गेति देवताः प्रार्थयन्ती, यष्टिकां चालयन्ती रुदन्तं शिशुं ताडयन्ती, `अयि राजदास्यः, इयं राजाङ्गना यदुद्दिश्य पृच्छति सा विपदङ्गजातानुबन्धिनी। महिष्या वृत्तमिदम्। किमये, न सुरभिवृत्तान्त एषः। किं तूष्णीं तिष्ठथ सत्यमसत्यं वा’ इति मुहुर्मुहुस्त्रासयन्ती, `अयि राजाङ्गने, ज्ञातमिदानीम्। इयमनङ्गपीडा विस्तरेण वक्तुं नावसरः। प्रकृतमनुसरामि। तदाकर्णय भूतवृत्तान्तम्’ इत्यकथयत्। तत्रान्तरे देवी सभयम् `अयि धर्मदेवते, किं मत्पुत्र्याः पिशाचबाधेति भणसि। किं सत्यमसत्यम्’ इत्याह। सापि `मूढे प्राग्वृत्तमवधारयेति वदामि। न पिशाचपीडेति। इयं किल वसन्ते कस्मिंश्चिद्वनप्रदेशे कंचन निर्जरं निर्जरपुण्डरीकं पुण्डरीकगर्वहारिनेत्रं नेत्रप्रभाजितचन्द्रं चन्द्रकुलावतंसं तं संमानितं पद्मासनादिभिरर्जुनवर्णेन घोटकेन वसनेन च विराजमानं राजमानहरेण वक्त्रेण भुजेन च शोभमानं शिवमिव सवलयकरं कमपि निषादचक्रवर्तिनमद्राक्षीत्। तत्र चाभिनिविष्टेयं कष्टां दशामवाप। तत्सत्यमसत्यं वेति विचारय।’
शृणु राजाङ्गने, वर्तमानमपि। याचकजनतेव कामाभिभूता। चम्पकलतेवालिवर्गं न सुखयति। बौद्धचित्तवृत्तिरिव प्रसूनालोकनिस्पृहा। अशूरततिरिव शिलीमुकाद्भीता शुम्भभृत्यश्रेणीव सर्वदापिकाल्युद्विग्ना पतिव्रतेन पल्लवतल्पं नानुमोदते। केवलं तापीव तपतीयम्।
अयि भूपकुटुम्बिनि, भविष्यमपि शृणु। अद्य श्वोवा तत्छबरयूनो धात्री बकुलमालाभिधाना आगच्छति कन्यार्थिनी। सा यदि कृतकृत्या तर्हीयं सत्कविवज्जीवति। द्रव्यत्ववत्स्वभावमवलम्बते। पार्वतीव कुलाचलख्यातिं प्रथयति। कमलपङ्क्तिरिव श्रीनिवासयोग्या भूत्वा वीरततिरिवातनुजन्यानन्दं तनोति।
देवि, कथितं कथनीयम्। इतः परं स्थातुं न शक्यते। दुष्टा मे सपत्नी। रौति शिशुरपि नाभिजातः। तदनुमन्यस्व। यामि यथागमम्’ इति। एवमुक्त्वा गते कुहनाधर्मदेवतास्वरूपे श्रीनिवासे धरादेव्यामपि सत्यमहा धर्मदेवता। पुष्पसमयः पुष्पसमयश्च नर्तयति बालाजनमानसम्। कमलाशुगः कमलाशुगश्च दुःसह एव। भवतु सा का बकुलाभिधाना। पश्यामि तावत्। यदि तदागमनमनलीकं तर्हि धर्मदेवतोक्त-मनुष्ठेयमेवेति चिन्तयन्त्यां परेद्युः प्रातरेव यथोक्तपरिवारा सागतैव बकुलमाला। तदनु राज्ञी सेयमेवेति विज्ञाय सानन्दं पीनपयोधराभ्यां तदुरस्थलमाघट्टयन्ती कुटोन्नत्यालिङ्गनापर्याप्तहस्तनिर्मातारि कृतकोपाविष्करणा धातरि महाराजयोग्योपचारैः सत्कृत्य भवनं प्रापय्यागमनकारणमपृच्छत्।
साप्यवदत्-`देवि धरे, शृणु मदागमनकारणम्। यस्य वाणी स्नुषा सत्यपूता च। कामस्तनयः सत्यश्च। सुग्रीवो देहः अश्वश्च। अब्जमपहसति पदश्रीः नखश्रेणी च। भूरिशोभावहं वस्त्रं सौन्दर्यं च। सारसानुकारि नेत्रयुगलं वक्त्रं च। यस्मिन्राजनि द्वारकायां सुवृत्तस्य मणेर्वेधः सदानस्य गजस्य मदः सुवंशस्य वेणोः कण्टकाक्रान्तिः शूरजातस्य शनेर्मन्दता सुस्निग्धानां वनितानां मानहानिः सुवचसां शुकानां पञ्जरबन्धः सरसानां नदीनामधोगातिः। तस्य भगवतः श्रीनिवासस्य दासी कन्यार्थिनी प्राप्तास्मि।’ इति तदुक्तमाकर्ण्य संतोषनिर्भरा देवी राजानं शुद्धान्तमाहूय शुद्धान्तरा धर्मदेवतागदितं बकुलमालागमनं रूपविस्मापितमणिपुत्र्याः पुत्र्या दशां च निवेद्य विगलितवेद्यान्तरं चक्रे। सोऽपि सुरगुरुमानीय सभां विदितवृत्तान्तं चकार। स चाह वाचस्पतिः वर्षावासरेणेव सर्वतोमुखपूर्णेन हर्षेण-`रे रे राजकुलकमलिनीराजहंस,
कमला कमला यस्य तार्क्ष्यस्तार्क्ष्यो धरापते।
नन्दिनी नन्दिनी यस्य स ते राजन्वरो वरः॥ 10 ॥
यत्कीर्तिर्हसितं मुखे कुटतटे मुक्तासरश्चन्दनं फाले सत्तिलकं सिताब्जकलिकोत्तसस्तथा कर्णयोः।
हस्ते हीरककङ्कणं सुधवलं वस्त्रं नितम्बस्थले पादे राजतहंसको जयति सा दिक्पङ्कजाक्षीततेः॥ 11 ॥
किं च मत्स्य इव सदा वनविहाररसिकः, कूर्म इवोद्धृतचन्द्रगोत्रः, वराह इव क्षमान्वितः, पुराणनृसिंह इव नृसिंहः, वामन इवोग्रमार्गणः, भार्गव इव सहस्रबाहुगर्वहरः, राम इवाचलोद्भूतिभूषितः, कृष्ण इव भद्रानन्ददायकः, बुद्ध इव नयज्ञप्रीतः कल्कीव सुकृतोद्भवनिदानम्। अथवालमुपमित्या। स एव मत्स्यादिरित्यार्यवादः।
भद्राख्यः प्रमदोज्ज्वलश्च सततं यो राजहंसश्रिया भ्राजिष्णुः सुकुमारतां समगमद्यो वै घनोद्भासितः।
स श्रीमाञ्जयति प्रकाममसुरश्रेणीकृपाणी हरिर्गङ्गावद्गजगणडवद्गगनवद्गाङ्गेयवद्गेयवत्॥ 12 ॥
इति यावद्वदति तावत्कश्चिद्राजमन्त्री बहुश्रुतो नाम कथयांबभूव-`भो देव, अनेन सुरपुरोधसोक्तमाकर्णयता मयापि किंचित्स्मृतमिदानीम्। जानाम्यहं तम्। स हि कृतदशावतार इति सत्यमेव। तथाप्युक्तगुणान्न पश्यामि। तथाह्येनं मत्स्यावतारे नीरसंचरणचञ्चलं प्राहुः, कौर्म्येऽप्यवतारे धृतमन्दरागम्, वाराहे कुप्रीतियुक्तम्, नारसिंहे कयाधुतनयानन्दित इति, वामनावतारे बलिविरोधेन सवनं गत इत, भार्गवावतारे अर्जुनद्विडिति, रामावतारे शरभङ्गमवापेति, बौद्धावतारेऽहिंसानन्दं बभार, कल्क्यवतारे कलिसत्कृतमध्यवर्तीति। अपि च राम एव कृष्ण इत्याचार्यो वक्ति तदपि विचार्यम्। कृष्णो हल्यानन्दनः, रामस्त्वहल्यानन्दनः कथं जातः। देव, शृणु कृष्णावतारकथामपि। पालितार्जुनोऽपि भग्नार्जुनश्चासौ। किं च। बाललीलाचरित्रमस्ति तद्वाचामगोचरमस्माकम्। इतः परं देवः प्रमाणम्’ इत्युक्त्वा तूष्णीं स्थिते सस्मिते राजमन्त्रिणि संदेहदोलारूढे भूपेऽपि देवाचार्ये कुपित इव `हंहो राजवल्लभ, बहुश्रुत, प्रगल्भोऽसि श्लिष्टरचनायाम्। देवेऽप्यस्पृष्टदोषगन्धे शब्दसामर्थ्यात्कलुषमारोपयसि। शृणु रे,
गङ्गा पादसरोजपुष्परसति व्यालाधिपस्तल्पति त्रैलोक्यं च कुटुम्बति द्विरसनद्वेषी रथत्यण्डजः।
कालः शस्त्रति शासनत्यनुदिनं सा वेदवाणी गृहत्यब्धिर्यस्य रमाविलासरसिके तस्मिन्न किं सद्गुणाः॥ 13 ॥
किं च। सत्यव्रतदयाशाली न किं मत्स्यः, पृष्ठीकृतमन्दरागः कूर्मः, वसुमत्यलंकृतो वराहः, हिरण्यदानदक्षो नृसिंहः, विक्रमप्रसिद्धो वामनः, सहस्रकरविरोधिप्रतापप्रसरो भार्गवः, धर्मदीक्षागुरु रामः, सत्यान्वितः कृष्णः, सर्वज्ञो बुद्धः सत्कृतजनकः कल्की। अपि च यस्मिन्रक्षति क्षितिं आपणे रोहिण्यः, मण्डलेमण्डले राजानः, पञ्जरेपञ्जरे शुकाः, वनेवने इन्द्रद्रुमाः, वीथ्यांवीथ्यां निर्जराः, सुरतेसुरते इन्द्राण्यः, बिलेबिले चक्रिणः, अरण्येअरण्ये स्थाणवः। यस्मिन्सिन्धुराजनिग्रहोपायविदि दाशरथ्यभिन्ने श्रीकृष्णे देवे शबरत्वमपि न विस्मयाय। अन्यथा शबरी कथं तुष्येत्। तिष्ठत्वेतदस्मद्वचनम्। पुराणाचार्यः शुकः प्रष्टव्य इति वदति स्मृतिमात्रकृतसंनिधानो यथाविधि पूजितः कथयामास शुकयोगी-`राजन्, अवहितो भव। पुरा खलु त्रेतायां श्रुत एव स्यात्पठ्यमानेषु पुण्यप्रबन्धेषु कश्चिद्रामो नाम राजा दाशरथिरयोध्याधीश इति। यस्मिन्राजनि सुतारातितुल्यरूपश्चन्द्र इव ब्राह्मणगणो जैवातृकश्च सुमहितो वसन्त इव क्षत्रियचयः अशोकाङ्कितश्च। यस्य च राष्ट्रे गिरिविभ्रमा गजा इव द्विजाः समदा द्विजा इव गजाश्च। सुप्रतीकस्पृहणीयाः करिण्य इव तरुण्यः सार्वभौमयोग्यास्तरुण्य इव करिण्यश्च। कलमहितावाणीव केदारश्रेणी बहुधान्यहृद्या केदारश्रेणीव वाणी।
राक्षसविभवानन्दश्रवणं हि समासु चक्रवर्तित्वम्।
राजन्कुलालनिचये यस्मिन्रक्षति वसुंधरां राज्ञि॥ 14 ॥
स हि सत्सुरागशोभं शैवशरा संकरं च सीतायाः।
चित्रं चित्रं युगपद्राजकदम्बं च पीडितं चक्रे॥ 15 ॥
अनुभूतचापभङ्गः पूर्वं पश्चाच्च दृष्टशरभङ्गः।
बहुगुणभङ्गः सततं चित्रं चित्रं तथापि वीरोऽसौ॥ 16 ॥
स जयति कश्चिद्धन्वी वालिस्वर्मार्गगमननिःश्रेणिः।
छिन्नसुसंधितताराताटङ्कश्रीः कृपावेणी॥ 17 ॥
आशुगजातहुताशनसात्कृतलङ्कापुरीतदीशो यः।
सीतादर्शनकुतुकी सोऽव्यात्काकुत्स्थपुण्यपरिपाकः॥ 18 ॥
विरहाग्निः शान्तिमगात्प्रविशति वह्निं विदेहकुलरत्ने।
न हि चित्रं सीतायामुष्णेनोष्णं प्रशान्तिमेति किल॥ 19 ॥’
तदनु चित्रभानुप्रवेशनिर्गमपूता सीता प्राप्तराज्यं राममवादीत्-`आर्यपुत्र, मायासीतेयमायासिता दुरात्मना रावमहतकेन। तदियं भार्यापदे स्थआपनीया’ इति। रामस्तु तदाकर्ण्य `प्रिये जानकि, एकपत्नीव्रतधरोऽहमिदानीं कृतकृष्णावतारस्तारेशमुखीमेनां मेनाङ्गजातामिव शिवो भूभृत्सुतामङ्गीकरोमि’ इत्यभाणीत्। `राजन्, सौवेयं पद्मावती स एव श्रीनिवासः। तयोरुचित एव संबन्धः। कोऽत्र संदेहः। किं विलम्बेन। लिख्यतां लग्नपत्रिका’ इति। अथाकाशभूपतिस्तु सलग्नपत्रं भगवन्तं भागवतप्रसवर्थलीं शुकं बकुलया सह प्रेषयितुमिच्छन्कुमारीप्रसादस्थितां बकुलाम्
भटो गजः करो नीतिरपि वेङ्कटभूपतेः।
वत्से सदा नरसमा भाति तच्छत्रुवर्गवत्॥ 20 ॥
कान्ताफालकटाक्षासिरूपवद्राजते सदा।
रोहिताङ्कोल्लसत्क्रीडोद्यानं शेषाचलप्रभोः॥ 21 ॥
चञ्चलश्रीर्मया दृष्टः श्रीनिवास तवाहितः।
अक्षरच्युतियुक्तोऽपि तादृगेवेति विस्मयः॥ 22 ॥
त्वच्छत्रोरपि तन्नारी मता बिन्द्वधिका प्रभो।
स च संत्यक्तकुतलः सा परित्यक्तकुन्तला॥ 23 ॥
इति सजयशब्दमुदीर्य
प्रतिपाद्य दुहितरं स्वां गङ्गां भर्त्रे स्रवन्तीनाम्।
जगृहे तदीयकन्यां लक्ष्मीं कृष्णः कलत्रार्थी॥ 24 ॥
इति बहुश्रुतप्रोक्तश्लोकवर्जं सर्वमपि वृत्तं स्वागमनकारणं च निवेद्य तोषयामास। स्थाने खल्वेतत्। न कस्य शुकवाणी तोषहेतुः। पुनश्च शुकः श्रीनिवासमाह-`देव, सर्वमपि वृन्दारकवृन्दमाकारय। अधुना तु सर्वत्र परिपूर्णवाहिनीकः समृद्धकमलः। उत्प्लवमानहरिकदम्बः स्फुरच्चापः ज्याहितकरः शूरराजतेजोपहारकः दृप्तसारङ्गनिकरः महाराज इव वर्षासमयः समाजगाम। यश्चाब्जयोनिरिव सर्वसत्त्वाकरः, संवर्त इव दृष्टानेकखद्योतप्रतापः, अनुकूलनायक इव सदाबलाकामहितः, भारतरण इव दृप्तसिन्धुराजः, द्रुपद इव शिखण्डिनन्दनः, दुर्जन इव भिन्नसेतुः, तालवनप्रदेश इव मत्तधेनुकः, त्वमिव संजातकीर्तिः आनन्दयति पार्वतीकटाक्ष इव सर्वम्। अपि चेदानीमसहमानतपःस्थितिविलासा घनश्रीबद्धस्पृहा मित्रस्य राज्ञोऽपि नानुग्राह्या इति सूचयन्ताविव पुष्पवन्तौ न नयनगोचरीभवतः। द्रावयन्त इव शुचिचरित्रं मदनगुटिकाधनुर्मुक्ताः कुमुदकलिका इव पतन्ति करकाः। जीवनप्रदेष्वपि चपलाश्चिरं संगतं न बध्नन्तीति कथयन्त्य इव मेघेषु क्षणं राजन्ति सौदामिन्यः। किं बहुना।
राधोल्लासनिदानेन ऋक्षराड्दर्पहारिणा।
अनेन हंसरिपुणा देवकीनन्दनायितम्॥ 25 ॥
देव, अतः कथयामि। जम्बूशोभावहे सुमनःसंदोहसुन्दरे त्वयीव वर्षावासरे कृतवति दयां शरदि महोत्सवमनुभवतु देवः’ इत्युक्त्वा च तदनुमत्या स्वाश्रमं गतवति ऋषिसार्वभौमे शुके बकुलाहस्तार्पितं पद्मावत्या वसन्तमिव सकलकण्ठशोभं ग्रीष्ममिव शुचितारमणीयमितं वर्षावासरमिव पयोधरसंबन्धसुन्दरं शरत्समयमिव राजच्चन्द्रगुणं हेमन्तमिव स्पृहणीयमित्रकरं शिशिरमिव तपःस्थितिज्ञापकं मौक्तिकहारं कण्ठालंकरणं विधाय कदागच्छेच्छरदिति चिन्तयन्
नवरसकमनीये शीतशीतस्वभावे लसति सुघनसारोज्जृम्भणे वेङ्कटेशः।
कविरिव नृमृगेन्द्राचार्यवाचां विलासे विहरति स च वर्षावासरे श्रीनिवासः॥ 26 ॥
॥ इति श्रीमत्कवीन्द्रवर्यश्रीवेङ्कटाध्वरिकविराजकृतौ श्रीनिवासविलासचम्प्वां चतुर्थोच्छ्वासः ॥
.
॥ पञ्चम उच्छ्वासः ॥
अथ तस्यां वर्षावासरकलारमण्यां क्षीणरसायां गतायां दृश्यादृश्यगौरपयोधरां हंसकलसन्नीरजपदां स्फुटपरिकलितनिर्मलरसां निरवग्रहराकासंपदभिरामाम् अच्छाच्छशुभ्रांशुकरमाप्रकटोपलक्ष्यमाणनक्षत्रमालाम् अतनुबन्धुजीवानन्दकारणं रम्भोरुश्रियं दधानां शुकव्याहारमणीयां स्फूर्जच्चन्द्रशालिनिशाभिरामां ललितमृणालभुजाभूषितां शरदं साक्षादिव पद्मावतीं विलोक्य द्विगुणितरणरणके श्रीनिवासे मरालकः पपाठ।
वेणीगुम्फितकमलश्रेणी संसक्तचञ्चरीककुला।
एणीदृगिवानन्दग्रोणी नैवास कस्य शरदेषा॥ 1 ॥
आमोदितकमलाशयमुद्बुद्धविधुप्रसादभूयिष्ठम्।
श्रीकृष्णयोः सखीवन्नन्दतु देवः शरत्समयम्॥ 2 ॥ इति।
अथ तेन प्रथमरसासारगर्भितेन श्लोकद्वयेन चमत्कृतो बलान्नीयमान इव मदनेन प्रयागमिव भारद्वाजसंचाररमणीयं स्वयशःसमूहमिव लसच्चन्द्रभासंकाशसौन्दर्यवहं स्कन्दमिवापहृतक्रौञ्चमदं पर्वतैकदेशमाश्रित्य मरालकमवादीद्देवः-`वयस्य, पश्य पश्य।
चित्रवर्णसमुल्लासः सर्वद्विजकुलाग्रणीः।
शुकः कूजति सानन्दं निखिलश्रुतिसौख्यदः॥ 3 ॥
इति श्रुत्वा मरालकोऽपि `देव, तिष्ठत्वेतच्छुककूजनम्। किमनेनारुंतुदेन देवस्य। तच्छुककूजनं स्मरतु भवान्, यत्कंदर्पकालसर्पदष्टस्य देवस्य पतगराजमन्त्रः’ इति भणति सति `साधु भणितं वयस्यः’ इति श्लाघयन्, स्मृतिमात्रकृतसंनिधानौ अनन्ताभिधानौ द्वावपि सपक्षावित्याहूय शेषगरुडौ `भवद्भ्यां गिरिकृतप्रेमावासश्चतुर्मुखः शिवश्च सर्वामरगणैः सहागच्छेति वक्तव्यः’ इत्याज्ञाप्य पत्रिकां च दत्वा प्रेषयामास। ततश्च।
अभूत्पतङ्गाधिपतिः सपत्रो न तद्विचित्रं स यतो गरुत्मान्।
चित्रं फणीन्द्रोऽपि तथेति यद्वा किं दुर्लभं तुष्यति वासुदेवे॥ 4 ॥
अथ ताभ्यामाकारिताः सर्वे सबुधा अपि विबुधाः भवेन विभवेन च राजमानाः मानयुक्ता विमानयुक्ताश्च फणीन्द्राचलमगमन्देवाः। तदनु तानागतान्वीक्ष्य `देव, एते शतानन्दकौशिकमित्राङ्गजशुक्रहरिप्रभृतयः सप्रमादाः सयमाः समृगकृत्तिकाश्लेषाः साषाढाः वैश्रवणतत्परा देवा मुनयश्च समागताः। तत्रैते देवाः सकामा अप्यकामाः, देवस्त्रियः सशिवा अप्यनुग्राः, राशयः सतुला अप्यतुलाः, ग्रहाः ससूर्यमङ्गला अप्यसूर्यमङ्गलाः। किंचैतौ द्विजराजौ गरुडसुधांशू, मरुन्नियन्तारौ वायुपुरंदरौ, नियमिततारौ गुरुसूर्यौ, शिखिख्यातौ स्कन्दवैश्वानरौ, आत्मभुवौ मदनचतुर्मुखौ।
अपि चान्ये केचन शिवा इव समङ्गलाः गाङ्गेयभूषिताश्च, अग्नय इव रोहिताश्वाः सहेतयश्च, ब्राह्मणा इव सत्यासक्ताः सुकुमाराश्च गीर्वाणा इति विष्वक्सेनप्रदर्शितान्निरीक्ष्य सहर्षस्तममजीगदत्-`सेनापते, यथायोग्यमेतानवतारय’ इति। स तु देवेन पूर्वमेवावितास्तारिताश्चेति वदन्नेव निर्गत्य क्षणात्पुनः प्रविश्य व्यजिज्ञपत्-`देव, मद्गमनात्पूर्वमेव समनोवाटिकायां स्थितः पुरंदरः। वरुणस्त्वाकाशगङ्गानिकट एव सानन्दः। धनदः पुण्यजनावासयोग्यं गिरिशिखरमेवाश्रितः। रम्भावने जागरूकस्तिष्ठति नलकूबरः। भानुः काञ्चनलताभिरामां छायामाश्रित्य क्रीडति। स्कन्दस्तु देवसेनां क्षणमपि न मुञ्चति परेभ्यः शङ्कमानः। चन्द्रस्तारोल्लसितमण्डपे निवसति। शिवः परितः पर्वतभुवं परिपालयन्वर्तते। मृत्युर्वेङ्कटभूपालवैरिषु स्थापितः। मदनस्तु देवस्य निकट एव धृतशरचापो यामिकाव्यापारासक्त इति विदितमेव देवेन। देव, अन्यत्किंचिद्विज्ञाप्यमस्ति। इन्द्रस्त्वहिहेतिवासुकिप्रभृतिः सर्पगणो बिभेति। वायुर्बहुधोक्तोऽपि नैकत्र तिष्ठति। वृश्चिकराशेः स्थलं न मिलति पराशरः कन्याराशिनिकटं यथा न गच्छेत्तथा देवेन वक्तव्यः। स्कन्दवरुणौ वाहिनीपतित्वे प्राप्तकलहौ। अपि चायं वैश्वानरोंऽशेन वैवाहिकानामुदरं प्रविश्य व्याकुलयति। तदत्र का गतिः। इतः परं देवः प्रमाणम्’ इति । देवेऽपि स्मेरवदने कृतं चतुरालापने। सर्वोऽपि जनः क्षुधातुर इति वद। कथय चतुराननं मद्वचसा’ इत्याज्ञापयति विष्वक्सेनोक्तः परमेष्ठी कुबेरमवदत्-`धनाधिपते, देवः श्रीनिवास आज्ञापयति तावन्मीनमेषकुम्भराशयो वर्तन्ते। देवानाममृतं स्वामिसरसि पुरैव स्थापितम्। काष्ठार्थं दिग्देवताः सन्त्येव। पयोर्थं मेघा आज्ञापिताः। अलंकृतयः कविनार्पिता एव। अन्यदापादनीयं भवति। तस्माद्भवानेन शरणम्’ इति। `तथास्तु’ इति तेनोक्ते गृहीत्वा द्रव्यजातं तत्तद्योग्यं जनं तत्तद्व्यापारे नियोजयामास। तथा हि-कामदाने शंकरम्, सुरभिद्रव्यसाधने वसन्तम्, आशुगमनागमनव्यापारे वायुम्, चन्द्राम्बरमणिग्रहणमोक्षव्यापारे स्वर्भानुम्, वनिताजनसत्कारे मदनम्, अतनुदीपप्रबोधे चन्द्रम्, आर्याज्ञापालने स्कन्दम्, गीतादिश्रवणे वैश्रवणम्, सर्वव्यापारेषु मङ्गलम् इति।
सभास्तारेषु मुनिषु देवेषु च नरेषु च।
चित्रं चित्रं विशेषेण यद्व्यासोऽभूत्सभारतः॥ 5 ॥
ततश्चाष्टवर्गस्नानमाचरितं प्रवृत्तस्तत्कालजातलक्ष्मीस्मृतिरचिन्तयद्देवः-`लोके सपद्मत्वेन सपङ्कोऽपि कासारो भुवनाधारे भवति। सकमल एव चन्द्रो दोषाकरोऽपि सर्वज्ञचूडामणिख्यातिं लभते। सम एव सर्वैः श्लाघ्यते। सश्रीकः स्वयमर्धपुरुषोऽपि चण्डीं वशवर्तिनीं कुरुते शिवः’ इति। अत्रान्तरे विदितप्रभुभाव उष्णरश्मिः सार्थकयन्निव मित्रभावं प्राप्य करवीरपुरं तत्र च क्षीरपाराबारकन्याम्।
`भाषास्मरहयहेषाशेषाम्बुजलोचनाशिरोभूषा।
शेषाहितल्पयोषा सैषा मय्यस्तु कलितपरितोषा॥ 6 ॥’
इति स्तुत्वा तयापि `आगमनकारणं किम्’ इति पृष्टस्तां बभाषे-`देवि, शृणु। देवः श्रीनिवासो भुजङ्गराजशैले निवसतीति ज्ञातमेव खलु। स हि शरीरजातपीडया दूयमानमनाः काञ्चनलताङ्गी कमलां कमलपाणिमश्लिष्य पूर्णकामो भवामीति त्वामाह। तदत्र शेषाचलं गतया भवत्या भवितव्यम्’ इति। अथ क्षणादेव करवीरपुरान्निर्गतयोः सूर्याभिधानरमणीययोः स्वच्छायाह्लादकयोः पुष्करोद्भासिकरयोः गगनमध्यस्थितिश्लाघयोः शेषाचलनिकटं प्राप्तयोस्तपनक्षीराब्धिकन्ययोः प्रथमागते दिनेशे श्रुतदृष्टतत्कार्यः `देव, आगता देवी’ इति विज्ञापयति तस्मिन्नाश्लिष्य तमाह
`श्रवणोल्लासकृद्यन्मे ताराश्वासनतत्परः।
अनुभूतसाश्लेषः सूर्य जैवातृको भव॥ 7 ॥’ इति।
तदनन्तरं च प्राप्तां तदनुरूपदेहस्थितिस्तया सह स्वामिसरस्तीरे क्षणमासीनस्तां विगलितवेद्यान्तरामकरोत्। तदनु लक्ष्मीकरकमललापिततैलः पार्वत्या स्नानार्थमाहूतः स्नानपीठमारुरोह। तदा कश्चिदवसरपाठकः पपाठ-
`घनीभूतैः स्नेहैः प्रथममभिलिप्याब्जसदना द्रवीभूतैर्लिप्तं तदनुरमणं सा कृतवती।
हृदिस्थैः सुस्नातं सुरसनिकरैश्चित्रमधुना कटाहस्थैः स्नातुं हिमगिरितनूजाह्वयति तम्॥ 8 ॥’
तत्र काचन भीमसेनतनुरिवोत्क्षिप्तघटा, काचिद्विन्ध्याटवीव महाकरीरा, काचिद्गजपङ्क्तिरिव मदोदकधाराकलिता, काचिच्चकोरीव निशोल्लसितचन्द्रजीवना, काचित्रयीतनुवत्कुङ्कुमरक्तकमलोद्भासितकरा, काचिद्विष्णुवत्पाणिधृतकमला देवं वनिताजनता स्नापयांबभूव।
अथाकल्पादिभिरात्मानं सत्कृत्य शमी शमीमानीय स्थापितनान्दिः नारायणपुराभिगमनमतिं चकार देवः। ततश्च शुभयोगनक्षत्रयुजि मृदितपद्मावतीहृद्रुजि मुदिताकाशभूभुजि दिवसे वामभागे वक्त्रेषु च लसता कलधौतवर्णेन सरस्वतीपञ्चकेन युक्तः हंसयानः पुरतः चन्द्रवर्णावहीनमालौ शिवावुत्तरतो गजेन्द्रगमनौ दक्षिणतः शचीपुरंदरौ शरजातकीर्तिकलितौ वरुमस्कन्दौ पश्चिमतो ययतुः। अन्येऽपि यथायोग्यं निर्जरहृदयानन्दकन्दौ रतिमन्मथौ च ज्येष्ठाषाढोज्ज्वलौ पुनर्वसूल्लसितौ सूर्यसुदाकरौ च।
मदिष्टदायी नमदिष्टदायी रसानुकूलो नरसानुकूलः।
लसत्स्वरूपो नलसत्स्वरूपो मध्ये ययौ तार्क्ष्यरथः सलक्ष्मीः ॥ 9 ॥
एवं क्रमेण नगजाताभिरामं कतिचित्पन्थानमतीत्य, नत्वा च कपिलेश्वरम्, सुवर्णमुखरीतिख्यातां शुकाभिधानां व्यक्तिं दृष्ट्वा, नदीं च तीर्त्वा, महाकल्पसदृशेन वैवाहिकजनेन केनचिद्दिवसेन च सामोदं प्राप्य नारायणपुरवाह्योद्यानपुष्पवाटिकाप्रदेशम्, दृष्ट्वा च वियद्भूमिपालम्, शान्ते चान्योन्यपटवासप्रक्षेपव्यापारे, व्यासस्येव पुराणागमख्यातस्य, कृष्णस्येव महाविटपालिश्लाघ्यस्य, मेरोरिव नगललामस्य, सुकृतिन इव महाच्छायास्थितेः, सुकलत्रस्येव दृष्टप्रसवस्य, समराङ्गणस्येवेतस्ततः पतच्छिलीमुखस्य, सुरेश्वरस्येव सहस्रनेत्रस्य, चैत्यरसालद्रुमस्यालवाले क्षणमासीनः पद्मावत्या विरहविनोदनार्थं कल्पितं मन्दिरमध्युवास। तदनु मरालकस्तुमुवाच-
`पाकस्थानं हिरण्यस्थलमथ च मधोरुत्सवस्थानमेतत्प्रह्लादस्थानमेतत्कविवसतिरियं शम्बरस्थानमेतत्।
भात्येवं गेहमेतत्पुनरसुरमणीसात्कृतं तादृशं चाप्याश्चर्यं श्रीनिवासप्रभुवर विबुधोत्तंस ते मोदहेतुः॥ 10 ॥
किंचैषा देव्या धरायाः प्रसादभूमिः चेटी मल्लिका नाम मन्मुखेन विज्ञापयति देवम्-`भवत्संबन्धिनो वैवाहिका यथायोग्यं तत्तत्स्थानेषु स्थापिताः। तथा हि-मेषवृषभादयो गोष्ठे, भर्तृदारिकाकण्ठ एव नक्षत्रमाला, रम्भादयः प्रमदवने, कविबुधकलानिधयः सुधाधौतप्रासादेषु, सौधाग्रे केतुः मन्दः सभाबहिर्देशे, भुजङ्गावली नरेन्द्रभवने, अन्ये सर्वेऽपि सुमनोगणा बाह्योपवने। अपि च। धनुः शस्त्रशालायां स्थाप्यमुद्याने वा। तारा अङ्गिरसस्य निकटं प्रापणीया चन्द्रस्य वा। देवेन सह गतः सविता वसुदेवो वा सूर्यो वेति वेत्तुमिच्छमि’ इति। देवेनाप्यनाकर्णितकेन `कथय वयस्य मरालक, कदा त्रियामा विरमेत्।
प्रहस्तपीडने योग्यो नूनं कुम्भप्रभाहरः।
कुचाभोगः सरोजाक्ष्या हनुमानिव राजते॥ 11 ॥
प्रियकामितसौन्दार्यं विलसत्तारकेक्षणम्।
पुनः पश्यामि तद्वक्त्रं चन्द्रबिम्बमिवोल्लसत्॥ 12 ॥’
इति चिन्तयन्नेव तां निशामनैषीत्। एवं स्थिते `श्रितकमलवृन्देषु मिलिन्देषु कथंकथमपि प्रियचाटुवचनपरिपाटीनिधुवनस्निग्धासु मुग्धासु, अन्याङ्गनालिङ्गनचिह्नदर्शनकोपसंजातकटुवचनमण्डितासु खण्डितासु, उषःसंचारिजनसंदर्शनचकिततारकास्वभिसारिकासु, कामिमिथुनमनोरथप्रहरणायुधेषु कूजच्चरणायुधेषु, आप्रातःकालपरिपालनजागरूपश्वशुरदन्तधावमानसमयकृतिनिधुवनेषु पांसुलाजनेषु, भक्ष्यभ्रमोत्प्लवमानशेषाचलवानरेष्विव खण्डितद्विजवसनेषु, महाराष्ट्रसैनिकेष्विवाकुलीकृतकुन्तलेषु, बालापचितकुसुमेष्विव नखाङ्कितवृन्तेषु, अपुरोभागस्थितमन्त्रिजनसंलापपरदशवदनवदनेष्विव पश्चात्प्रापितकण्ठमालेषु, ग्राम्यजनपालितशुकेष्विव किंचिन्मलिनपत्रेषु, बहुव्यापारव्यग्रवणिग्जनेष्विवाक्रमवेष्टितनीवीषु, मखभङ्गकुपितेन्द्रेष्विव मुक्तपयोधरबन्धेषु, नलकूबरेष्विव दन्तदष्टरम्भोरुषु, नमुचिशूलाघातदूनगजेन्द्रेष्विवायस्तकटेषु, निर्मुक्तेष्विव मुक्तकञ्चुकेषु, कौस्तुभेष्विव मनोज्ञमणितोल्लसितेषु, वेनेष्विव गलिताङ्गरागेषु, अप्रगल्भकाव्येष्विव विभ्रष्टालंकारेषु तरुणीजनेषु, वारुणीमनोविलासेष्विवानुभूयमानशेषसुरतसुखेषु जाते जगन्मङ्गले प्रभातसमये कस्मिंश्चिद्राजमन्त्रिणि समागत्य कृतमङ्गलस्नानेन देवेन भवितव्यम्। अयमयं त्वरयति देवः कल्याणमण्डपिकाप्रवेशाय वियन्महीपालः सूर्यश्च’ इति वदति श्रीनिवासस्तु तथा कृत्वा खयमेवागत्य राज्ञाकारितः सभां प्रविवेश।
तत्र तु वैवाहिकानां परस्परं परिहासपेशला वाचः प्रसरन्ति स्म। तथा हि-कन्यापक्षगाः स्त्रियः `भूजङ्गदत्तमानसे वारुणि, कुङ्कुमेन सत्कुरु भालम्। पितामहाश्लेषरसिके सरस्वति, हरिद्रया लिम्प कुचकुम्भौ। चण्डि पार्वति, पुरतो भव। गुरुहृद्यपयोधरे तारे, स्वीकुरु वीटिकाम्। तापसहितालिङ्गनेऽरुन्धति, आसन उवपिश’ इति। तथा च। वरपक्षगा वनिता–
`पीडितः स्तनभारेण तव पीनपयोधरे।
धरे वियन्महीपालः सिद्धार्थो भूभृदप्यभूत्॥ 13 ॥’
कांचन प्रति-सुप्रलम्बस्तनि, इत एहि। मातह्गामिनि, किं ब्रूहि। दोषाकरमुखि, क्व स्थेयम्। अधरलसद्रागे, श्रान्तासि’ इति।
अथ तस्मिन्व्यतिकरे-
त्रय्यन्तैर्यदवर्णि यच्च विबुधैराश्लाघि यत्तापसैराध्यायि व्रजवल्लभीभिरनिशं चाश्लेषि यत्संभ्रमात्।
यच्चालम्बि समुद्रराजसुतयाप्याराधि मद्दैशिकैस्तच्चाक्षालि पदं वियन्नृपतिना कन्याप्रदानोत्सवे॥ 14 ॥
किं च-
अङ्गुष्ठस्य दशाननो नखमणेर्ब्रह्माण्डभाण्डं क्षितिः स्पर्शस्य प्रणतेः कयाधुतनयः संकुट्टनस्योरगः।
यात्रायाः पितरो द्युलोकतटिनीपांसोर्महत्त्वं विदुर्यस्य श्रीचरणस्य तं नृपवरः प्रक्षाल्य धन्योऽभवत्॥ 15 ॥
अत्रान्तरे तत्कालयोग्यगीतिकां पपाठ तदुचितो जनः। तथा हि-
`याः प्रोक्ताः सुरपारिजातहरणे या भूमिजोन्मूलने याः कंसस्य नबर्हणे कुवलयापीडस्य याः संहृतौ।
ताभिः संप्रति नूतनेतरगिरां श्रेणीभिराशास्महे कल्याणां कमनीयनीरजदृशोः पद्मावतीकृष्णयोः॥ 16 ॥
क्रोडस्थित्यतिसुन्दरः सर इव स्वैरं शचीवत्पुनर्यो हर्यक्षगदापनोदनपटुर्विश्वंभरानन्ददः।
लक्ष्मीवत्क्षितिपालशौरिसुतयोः पाणिग्रहे मङ्गलं दद्यात्पन्नगराजशैलवसतिः क्रोडावतारो हरिः॥ 17 ॥
तिर्यक्तिर्यगपाङ्गपङ्क्तिवलनव्याजत्रपामिश्रितस्मेरास्यद्युतिसूचितस्मरकृता वेगातिरेकक्रमा।
सानन्दा हृदि साभ्यसूयकवचोलीकप्रकोपा बहिः
पार्श्वस्था कमला विवाहसमये दद्याच्चिरं मङ्गलम्॥ 18 ॥
लेखालीभिरलंकृतो विधिरिव प्रेङ्खत्प्रवालद्युतिर्वाणीहस्त इवातिपल्लवकुलप्रेष्ठश्च गाणिक्यवत्।
पद्मोल्लासकरस्तथा हरिरिव श्रीश्रीनिवासप्रभोः पादः कृष्णवियन्नृपालसुतयोः कुर्यान्महान्मङ्गलम्॥ 19 ॥’
इति। अथ संप्राप्ते मुहूर्ते `सावधानेन स्थेयम्’ इति भणति पुरोधोद्वये, वादयति घण्टां ग्रामगणके, वाद्यमानेषु तुर्येषु, गायन्तीषु तद्देशभाषाकुशलासु चिरण्टीषु, पठत्सु विविधमन्त्रान्ब्राह्मणेषु, आकाशभूपेऽपि आनन्दामृतसरोमज्जन्मानसे, पद्मावती देवी स्वाञ्जलिकलिततन्दुलाञ्श्रीनिवासस्य मौलावाक्षिपत्। देवोऽपि तस्याः।
अत्रान्तरे राजपुत्र्याः सखी मदनकलिका धरामवोचत्-`देवि, पश्य पश्य।
नानारत्नमया इवाब्जभवया श्रीवज्ररेखान्विताः किं चैते प्रमदाश्रुनीरमिलिताः सच्चन्द्राकान्ताः पुनः।
लक्ष्मीनायकमस्तकेऽम्बरमणीरत्नेडितास्तन्दुला मुक्तास्ते तु करप्रवालललिता हृत्पद्मरागान्विताः॥ 20 ॥’
ततः प्रथमं देवो देवीमवलोकयत्। यस्या वदनमिव कुवलयलोभनीयं नयनयुगलम्, नयनयुगलवदब्जसुन्दरं वदनम्। कुचयुगीव घनघटाकारमञ्जुला कुन्तलाली, कुन्तलालीव सारङ्गत्रपादायिनी कुचयुगली।
किं च कटाक्षः सुतीक्ष्णोऽपि कुष्णः, कुचभारः पर्वतस्वरूपोऽपि गुरुः।
अपि च मौलिर्वक्रकचोद्भासितः, कटाक्षो नक्रकचोद्भासितः। कैश्यं रविन्दसुन्दरम्, नयनमरविन्दसुन्दरम्। खशोभितो मध्यभागः, नखशोभितः पाणिः। वसुधासदृशं जघनम्, नवसुधासदृशोऽधररसः। वदरसंनिभं वदनम्, नवदरसंनिभं कण्ठस्थलम्। मन्दो मुग्धभावः, अशनिर्वियोगः।
अनन्तरं सापि तमपश्यत्। यश्चाकारेण प्रतापेन च स्मरविद्वेषी। यस्य च वदने राष्ट्रे च द्विजा मुक्तोपमाः। यस्य च वाहनं मुखं च द्विजराजः। यस्य चामीकरोज्ज्वला गजा उपस्कराश्च। यस्मिन्रक्षति क्षितिं चित्रभित्तिश्चन्द्रशालासु, बन्धदर्शनं विदग्धमुखमण्डने, पयोधरोच्छेदः शरदि।
किं च प्रसूनानुरक्ता भृङ्गाः, न गजाः। अमानोनोल्लसिताः सुहृदः, न वाचः। विप्रसवोल्लसिता दशाः, न स्त्रियः। मत्कुणभूषिता गजशालाः न कुड्याः। अस्त्वेतत्।
शश्वद्यः सुरसोर्मिकः कमलिनीवर्गं न विस्मापयेत्तत्पाणिश्च तदीक्षणव्यतिकरो रागानुबन्धोज्ज्वलः।
स्वीचक्रे कमलापतिस्तदुभयं पूर्वं बबन्ध खयं कामार्तः किल साहसादिव गले माङ्गल्यसूत्रं ततः॥ 21 ॥
ततश्चातिक्रान्ते लाजहोमविधौ वियद्भूपालः सादरं श्रीनिवासमजीगदत्-
`आशेषाचलमासमुद्रममर क्ष्मां पालयाद्राविडं क्षोणीसाश्वरथेभपत्तिवसुमद्राज्यं सकोशायुधम्।
अन्यत्किंचिदपि प्रदेयमवनौ देहश्च ये बान्धवाः सर्वं तेऽद्य समर्पितं तदधुना त्वन्मुद्रया मुद्र्यताम्॥ 22 ॥
किं च वराहदेवो नागतः, प्रायेण भूदारतया मयि साभ्यसूय इति भाति।
अथ चागतेषु यथाविभवं यतोचितं सर्वेऽपि संमानिताः। शेषाय कञ्चुकः, इन्द्राय चामरश्रीः, चन्द्राय नक्षत्रमाला दत्ता। अन्येऽपि च देवाः सुमनसो जाताः। परं केनचिज्जातिहीन इत्युक्तत्वाद्वसन्तोऽसुमना आसीत्। शेषो दीर्घपृष्ठ इत्युक्तत्वादहितोल्लसितोऽभूत्। बहुभक्षणाद्वैश्वानरः सहेतिर्जातः। तत्र मम को वापराधः।
अपि च देवस्य पुत्री गङ्गा नलिनी वा मालती वा न संदेहो गतः। अन्यच्च किंचित्कालमत्र स्थितेन भवितव्यम्’ इति।
तच्छ्रुत्वा देवोऽपि कंचित्स्मेरवदनः प्राह-`आर्य, मनसात्रैवैनं स्थितं जानातु भवानधुना त्वमनुजानातु वराहदेवाभिवन्दनाय यामि शेषाचलम्’ इत्युक्त्वा च कथंकथमप्यभिनवकन्याविरहदूनौ धरावियद्भूपालौ सान्त्वय्य सपरिवारस्तेनाज्ञप्तः पद्मावत्या सह निर्गत्यागस्त्याश्रममासाद्य गरुडवर्जं सर्वानमरगणाननुज्ञाप्य फणीन्द्राचलमगमत्क्रमेण।
तावुभौ श्लाघ्यसुरतौ सततं प्रमदोज्ज्वलौ।
श्यामौ पद्मावतीकृष्णौ रेमाते पन्नगाचले॥ 23 ॥
श्रीनिवासोऽन्यविद्वद्भ्योऽलंकारान्कटकादिकान्।
कवये वेङ्कटेशाय श्लेषमेव हि दत्तवान्॥ 24 ॥
सत्कविना येन यथा परुषाक्षरमित्रभावहृद्येन।
जनता सुखिता सततं वेङ्कटभूपालचन्द्रेण॥ 25 ॥
गुरुगुरुकृपयायं दुष्करं स्तोकलोकैः प्रकटितनिजकीर्तिः सादरं वेङ्कटेशः।
चिरसमयहृदिस्थं पूरयन्काव्यमेतत्कविरिव च तदिष्टं श्रीनिवासः कृतार्थः॥ 26 ॥
इति श्रीमच्छ्लेषकाव्यपारावारगमननौकायमानचरणाभिवन्दननृकण्ठीरवाचार्यसूरिहीरान्तेवास्यन्यतमस्याक्लिष्टश्लिष्टरचनापटोः स्वकीर्तिकदम्बधवलितदिग्भत्तिवेङ्कटगिरिनिवासिवेङ्कटक्ष्मापालयुगलाश्रितस्याप्रयासापादितसाहित्यकलस्य कविमशकशिशोर्देशिकचरणसरसीरुहसमर्पितनिजसुकृतस्य वेङ्कटेशस्य कृतिषु पूर्वश्रीनिवासविलासो नाम श्लोषोत्तरकाव्यबन्धः पर्याप्तः। पञ्चम उच्छ्वासोऽयम्।
॥ पूर्वार्धः समाप्तः ॥
.
** ॥ उत्तरभागः ॥**
** ॥ प्रथमोल्लासः ॥**
छत्री यस्त्वचलेन गोपरमणीवक्षोरुहैः कन्दुकी यो वै कालियनागनायकफणाभोगेन रङ्गी च यः।
देवैः किंकरिणेऽब्धिना भवनिने नागे पर्यङ्किणे कालेनायुधिनेऽण्डजेन रथिने देवाय तस्मै नमः॥ 1 ॥
सर्वत्र सुमनोवृन्दे रससौरभ्यशालिनि।
पद्मं नृसिंहसूरिश्च मामामोदाय कल्पतै॥ 2 ॥
अथ कदाचित्स्वामिसरसो नातिदूरे कस्मिंश्चिल्लतामण्डपे श्रीमत्या पद्मावत्या सह विहरति तत्रभवति श्रीनिवासे, `देव, इतः किंचित्प्रसरतु दृष्टिः। प्रणमत्ययमत्र विपुलकटकोन्नतिर्गाधिराजः अत्र नगाधिराजश्व भूभृत्। अत्रायं महाप्रतापशाली नलः, अत्रायमनलो देवः। अत्रायमगदः पुरंदरः, नागदो गरुडः। अयं भोगहृद्यो वासुकिः, नभोगहृद्यः सूर्यः। त्रिनयनसमुद्भवः स्कन्दः, अत्रिनयनसमुद्भवश्चन्द्रः। सत्रिनन्दन ऋष्यशृङ्गः, अत्रिनन्दनो दुर्वासाश्च’ इति निवेदयति वेत्रपाणौ `तालललितेऽतिवर्धितरागे शंकराभरणमिलिते चित्ररथगाने भव दत्तावधानः’ इति संप्राप्तहरितत्वे ऋषिरूपे, तथैव `तादृशे पद्मावतीस्तनद्वन्द्वेच’ इति पक्षिरूपे भणति शुके, `सूर्यनन्दनत्वान्मन्दः’ इति च्छायापुत्रं `नतापकारित्वात्कलङ्गी’ इति चन्दं `सहेतित्वात्कृशानुभावमावदति’ इत्यग्निमपहसत्सु विदूषकेषु, उद्यानद्वारपः सविनयं व्यजिज्ञपत्-`देव, द्वौ भूदेवावागतौ देवं द्रष्टुमिच्छतः।’
श्रीनिवासः-शीघ्रं प्रवेशय।
ततस्तावागत्य यथाविधि कृतोपचारावुपविशतः स्मः।
प्रथमः-
शङ्खचक्राब्जकरयोर्यात्रात्रासितहंसयोः।
लसत्पयोधरद्युत्योर्दम्पत्योर्भद्रमस्तु वाम्॥ 3 ॥
द्वितीयः-
कलापैः कलापी च तार्क्ष्येण तार्क्ष्यी लसन्मौलिकोद्दामहारेण हारी। रमाकाश्यपीचार्वपाङ्गैरपाङ्गी स देवोऽस्तु मद्वाचि दत्तावधानः॥ 4 ॥
श्रीनिवासः-निर्वृता वयमाशीर्भ्याम्।
प्रथमः-भवद्द्वेषिमश्च।
द्वितीयः-सदाश्लेषविचक्षणो भवानिति द्रष्टुत्कण्ठितं नश्चेतः। तच्छ्रुत्वा साहित्यसारमञ्जूषा कमलिनी प्राह-`न केवलं वचसामेव, किं तु वनितानामपि।’
श्रीनिवासः-बहुवचनेनालं कुप्येद्देवी।
<1><1.`कमलिनी’ इत्यस्य पूर्ववाक्यान्वितत्वं परिकल्प्य `प्रथमः-‘इत्यपि वर्धितं क्वचित्.>कमलिनी-देव, कुपिता कुलजा कान्ता तप्तकनकमालिकेव कोपागमेऽधिकां रुचिं वहति।
श्रीनिवासः-क्व स्थितिर्युवयोः।
द्वावपि भणतः-
`नदी वेगवती दिव्या नागाचलविभूषणम्।
देवं स्यात्तारकानन्दो यत्र सा नः पुरी प्रभो॥ 5 ॥’
श्रीनिवासः-तत्र<1><1.`कीदृशो’ख.>कीदृग्राजा।
द्वावपि-
अहीनगुणभृद्भाति नरानुग्रहकारकः<2><2.`कातरः’ ख.>।
गजदानधुरीणश्च तत्रत्यो राजशेखरः॥
श्रीनिवासः-प्रजा च कीदृशी।
द्वावपि-
उज्जृम्भन्मालती मौलौ भोगिभोगाः करे स्थिताः।
उत्तंसे चाब्जकलिका यत्र संस्थितिशालिनाम्॥ 7 ॥
कमलिनी-(सस्मितम्।)अहो चतुरता कवितायाः। यत्काञ्ची काशी च युगपद्वर्णिता।
अत्रान्तरे कंचन भृङ्गं सितसरोजमलंकुर्वाणं दृष्ट्वा श्रीनिवासः प्राह-नदन्किं वक्ति सारङ्गः पुण्डरीकसमीपगः।
इति। तच्छ्रुत्वा <1><1.`द्वयोर्मध्ये एकः’ ख.>द्वयोरेकः-देव,
निकटस्थोऽभयोऽस्म्यद्य सारङ्गवरदे त्वयि॥ 8 ॥
द्वितीयः-
वरदस्तद्युगलयोः श्रीनिवास भवानिति।
कमलिनी-
केशैरास्येन च हृता स्त्रिया ते संपदावयोः॥ 9 ॥
आकर्ण्य च दरदलितसितसरोजदामोद्दामगर्वसर्वंकषेण कटाक्षकलापेन नन्दिततद्वाचि देवे, प्रसन्नमनसं विदित्वा प्रथमः-
हस्तश्चापं त्यजति वहतो लोचने जीवनाशां चित्रं चेतस्त्यजति रसना वाञ्छति त्वद्रिपूणाम्।
हंहो गां च त्यजति वदनं स्वीकरोत्युत्तमाङ्गं युद्धे<1><1.`जाते’ क.>जातो गुणविनिमयः श्रीनिवासक्षितीन्द्र॥ 10 ॥
द्वितीयः-
विज्यश्च चापदये रथवद्विचक्रो बाणालिवद्भजति हन्त विलक्षभावम्।
स्वस्यैव सौख्यततिवच्चपलायमानः श्रीश्रीनिवास नृपचन्द्र तवारिवर्गः॥ 11 ॥
पुनः प्रथमः-
नेत्रयोः शरजालानि कीर्त्या चापश्रियं वहन्।
ज्याकर्षणपरः शत्रुर्दृष्टः श्रीवेङ्कटप्रभोः<2><2.`प्रभो’ ख.>॥ 12 ॥
द्वितीयः-
प्रतिकलमनुभुक्तरसो वाहिन्यनुकूलगमनकृतचित्तः।
चरति भवानिव तेऽरिर्भूभृत्कटकेषु वेङ्कटक्ष्मेश॥ 13 ॥
श्रीनिवासः-
चक्रं वा श्रियमपि वा तार्क्ष्यं वा शेषनागराजं वा।
दद्यां सत्कविवर्यौ तुष्टेन हृदा न चात्र संदेहः॥ 14 ॥
<2>`प्रभो’ ख.>साहित्यसारमञ्जूषा कमलिनी प्राह-
मधुरालापद्विजकुलसुपक्षपातैकसुन्दरप्रकृतिः।
भूभृत्सुपन्नगाद्रिर्दृष्टः श्रीश्रीनिवासभूपश्च॥ 15 ॥
तच्छ्रुत्वा द्वावपि-
अरिरूपं चक्रं श्रीरधिकमलस्था पतत्ययं तार्क्ष्यः।
नागो विषमहितोऽयं दययालं श्रीनिवासभूप तव॥ 16 ॥
ततश्चातिभूमिं गतः संतोषेण बहुधा संमान्य महाकवी-
विना सुरमणीं देवः सर्वाण्याभरणान्यदात्।
तथा पद्मावती ताभ्यां ददौ स्वं नायकं विना॥ 17 ॥
ततस्तयोर्यथास्थानं गतयोर्हंसशुकयोर्महाकव्योर्देवोऽपि पद्मावत्या सहान्तःपुरमभजत्।
जृम्भन्नवरसोल्लासा नानाबन्धमनोहरा।
मदीयकवितेवेयं क्रीडा रेजे तदा तयोः॥ 18 ॥
॥ इति श्रीमद्वेङ्कटाध्वरिमहाकवीन्द्रकृतौ श्रीनिवासविलासचम्पूकाव्ये उत्तरभागे प्रथम उल्लासः॥ 1 ॥
.
॥ द्वितीयोल्लासः ॥
अन्यदा तु क्वडिच्चक्रग्रहणव्यग्रया चरणमुखरक्तराजहंसमिथुनविघटनपरया मानितकविनिकरया अनिमिषकदम्बदत्तकटाक्षया अनुगृहीतपुण्डरीकया लालितकमलाशयया स्वसमानचर्यया देव्या पद्मावत्या सह कुत्रचित्सरसि विहृत्य तत्तटभुवि अक्षक्रीडारतस्य श्रीनिवासस्य नयनसरणिमुपाजगाम कविकदम्बम्।
तच्च प्रतिनन्दितागमनं यथायोग्यं उपाविशत्।
तत्र कंचनाभिनवं द्विजं विलोक्य देवः पप्रच्छ-`कवे नीलकण्ठ, किमर्थमागमनं भवतः’ इति।
सोऽपि विहस्याब्रवीत्-<1><1.`वदत्’ क.ख.>-`देव, अहमपि तदेव चिन्तयन्नागमनिदानं कलयामि।
तथा हि-`भाग्यवन्तं भवन्तं द्रष्टुमागतोऽस्मि’ इति साधारणसरणिः। याचितुमिति स्वलाघवप्रकटनम्। मद्विद्याप्रकटनार्थमित्यात्समस्तुतिमहापातकम्। ग्रामं गच्छंस्तृणं स्पृशतीति वदति प्रकृतविरुद्धालपः। इन्द्रचन्द्रसमानस्य तव दर्शनादैहिकामुष्मिकफलमिति बन्दिचरणानुचरणप्रसङ्गः। अस्तु वा यः कश्चन हेतुः। तथापि दर्शनयोग्यगुणकत्वं देवे न पश्यामि। दानधारार्द्रीकृतकरत्वं त्वद्दन्तावलेष्वपि। सदाचरणरत्नभूषितत्वं तव वनिताजनेष्वपि। सूर्यप्रतिपन्थित्वं तव प्रतापेऽपि।
अथ वा महानुभाव इति गृणामि चेत्कृशानुभावं वहतीत्याक्रन्दते शत्रुवर्गः। विद्वत्सु प्रीतियुक्त इति चेत्कलावत्कोटयस्त्वत्कीर्त्या तिरस्कृताः। सुन्दरोऽसीति चेत्प्राग्जन्मनि कांचन सुन्दरतां संहरता त्वयैवापराद्धम्।
गौतमशास्त्रप्रक्रियासु कुशल इति चेद्दुःखद्वेषप्रयत्नाधर्मान्न जानासि। किंच। प्रथमं स्वीकरोषि गुणम्, न द्रव्यम्। शब्दराद्धान्तचतुरोऽसीति चेत्, तद्धितविचारं न करोषि इति अभक्तानां वादः। वेदान्तशास्त्रप्रवीणोऽसीति चेत्, वेदनयाक्रान्तो न क्वापि भवान्। मदनागमहृष्टोऽसीति चेत्, तदा विद्वन्निकुरम्बपरिपालनदीक्षाधौरेयतापिशुनकरगतवीरवलयेक्षणं वितर दृष्टिम्। अस्तु वा यं कंचन गुणमादाय दर्शनयोग्यता। तथापि नावयोर्विरुद्धधर्माक्रान्तयोरुचितः समागमः।
निरतो यशःप्रसारे भवान्यतो वै शयप्रसारेऽहम्।
क्वाहं क्व भवान्राजन्नवनीपस्त्वं वनीपोऽहम्॥ 1 ॥
दूरीकृतकलिर्यस्मात्तस्मादस्यविभीतकः।
न चापि मदनासक्तो युक्ता ते ह्यवनीपता॥ 2 ॥
सरलप्रियोऽस्मि शम्युल्लासी पुन्नागसुप्रियश्चापि।
सत्सुमनोवृत्तिरपि प्रभुवर्य ततोऽवनीपता मेऽभूत्॥ 3 ॥
अथ तत्र हंसकविः प्राह-देव, अहमेवं जानामि।
भूदेवेन्द्रः कविः शश्वद्राजमानगुणोत्तरः।
अयं त्वत्समतां धत्ते देवमानवशंकरः॥ 4 ॥
ततः शुकोऽवदत्-
श्रीनिवासाम्बुजमुखविकासकपदावलिः।
अनन्तोल्लासमाधत्ते हंस एवेति विद्महे॥ 5 ॥
ततः कमलिनी प्राह-`सुकवे, `जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत्’ इतीयं समस्या पूरणीया’ इति। ततो नीलकण्ठकविः-
वर्षालंकरणं तनोति नितरां यज्जीवनं प्राणिनां सूर्यानन्दकरं विसारि भुवने यद्धीवरोल्लासकम्।
भात्युच्चैर्यशसां कदम्बकमिदं श्रीश्रीनिवासप्रभोर्जम्बूवज्जलबिन्दुवज्जलवज्जम्बालवज्जालवत्॥ 6 ॥
श्रीनिवासः-महाकवे नीलकण्ठ, सर्वतः श्लाघ्या ते वाणी। अपीदानींतनं कालं वर्णय।
नीलकण्ठः-
भवान्हि सद्वेषपराङ्गनाशं चक्रे लसद्वेषपराङ्गनाशम्।
द्विर्द्वादशेत्यक्षरसावधानो भूयान्मदीयाक्षरसावधानः॥ 7 ॥
श्रीनिवासः-अवहितोऽस्मि।
नीलकण्ठः-
`विघटितचक्रो विगलितहरिमण्डल एष वीतनेत्रसुखः।
सायंतनकालस्ते रिपुरथचर्यां चरत्यये देव॥ 8 ॥
किं च।
हरन्सच्चक्रसंतोषं तमो विपुलयन्बहु।
देव सायंतनः कालो भाति दुष्कविकाव्यवत्॥ 9 ॥’
अत्रान्तरे द्वारपालेन सविनयं प्रवेशितः कलानिधिनामा कविरागत्य दक्षिणपाणिमुन्नमय्य प्राह-
`पद्मोल्लासभृता सवीरवलयश्लाघ्यः सुरेखाञ्चितः पाणिस्ते वरदानवारिमहितानन्दं विधत्ते सदा।
साधर्म्यं विवरीवरीति भवतानूर्मिर्भवान्सोर्मिकस्तद्वैधर्म्यमपि प्रकाशयति स श्रीश्रीनिवास प्रभो॥ 10 ॥’
इत्येवं यान्त्यां कस्यांचिद्वेलायामुदितचन्द्रमण्डलमवेक्ष्य `अयमपरः कलानिधिर्विपुलानन्दं तनोति द्विजराजः’ इति भणति वेलावेदके कमलिनी प्राह-
उल्लसितगोकुलश्री राधोज्ज्वलरूप एष शिशिरकरः।
चरति हरे तव चर्यां तस्माद्युक्तं विधुत्वमेतस्य॥ 11 ॥
नीलकण्ठः-
कमलिनी कलानिधिगुणवर्णने परेति विस्मयः।
हंसः-नैतच्चित्रम्।
पद्मिनीनां परामोदो जृम्भत्यपि पयोधरे।
श्रीनिवासे समीपस्थे द्वेषादेः क्व नु संभवः॥ 12 ॥
अत्रान्तरे वेलावेदकः-
रसकल्लोलवान्मीनललामाढ्यः सरित्पतिः।
देव चन्द्रोदये पद्मावतीवाञ्छेव वर्धते॥ 13 ॥
श्रीनिवासः श्रुत्वा सस्मितं कलानिधिकवये सर्वज्ञाचूडामणिख्यातिम्, नीलकण्ठस्य सकलायाः पर्वतभुवः स्वामित्वम्, कमलिन्यै सर्वतोमुखश्रियम्, अन्येभ्योऽपि यथाकामं वित्तं वितीर्य प्रमदागारं प्रविवेश॥
॥ इति श्रिमद्वेङ्कटाध्वरिमहाकवीन्द्रकृतौ श्रीनिवासविलासचम्प्वामुत्तरभागे द्वितीयोल्लासः ॥
.
॥ तृतीयोल्लासः ॥
अन्यदा तु क्वापि चिरयति निजनायके श्रीनिवासे देवी पद्मावती कमलिनीमाह-`सखि,
अस्तं प्रयाति वसुमानुदयं प्राप्नोत्ययं पुनर्वसुमान्।’
कमलिनी-विहस्य। किं ततः।
देवी-सव्रीडम्। न किमपि।
केतकी-देवि, कथय कथय।
कमलिनी-हूं।
अपरं किं कथनीयं ज्ञातं चित्ते मुकुन्दोऽस्याः॥ 1 ॥
देवी-कथमिव।
कमलिनी-
पद्मश्रीर्नेत्रयुगे शङ्खरमा सा गले च दन्तेषु।
कुन्दश्रीयो यतः स्युर्ज्ञातं चित्ते मुकुन्दोऽस्याः॥ 2 ॥
देवी-नही नहिं, अन्यत्किमपि वक्तुकामास्मि।
कमलिनी-तर्हि तत्कथय।
देवी-
सुपर्वसुन्दरो राकामनोज्ञः कमलोज्ज्वलः।
विधुर्हरति मे चेतः।
कमलिनी-किमपारद्धं मया।
केतकी-तर्ह्यागतं तयैव सरण्या।
मालती-
कृष्णः किं
देवी-(सहुङ्कारम्)
नहि चन्द्रमाः॥ 3 ॥
कमलिनी-तर्हि `अस्तं प्रयाति-’ इत्यस्यैतदुत्तरार्धं भवितुमर्हति-
लाप्यन्ते खलु दीपा रात्रौ मुकुलीभवन्ति पद्मानि॥ 1 ॥
इति।
देवी-(कृतावहित्थम्।) अथ किम्।
केतकी-नहि नहि पटवस्त्रस्य कम्बलेन संयोगः।
देवी-सरोषमिव। तर्हि किं भवितुमर्हति।
केतकी-
नायाति भवनमधुना कान्तश्चेत्पीड्यते मनो मधुना। देवी-(सलज्जमतिष्ठत्।>
कमलिनी-दुःसहः खलु विप्रयोगः सिंहमध्यानां मध्यानाम्। यल्लज्जापि द्वितीयो मदन इव पीडयति।
केतकी-कृपणानां चेति वक्तव्यम्।
मालती-किं पुनर्द्विजराजयोगः।
अत्रान्तरे द्वारपालिका मल्लिकागत्य-`देवि, वर्धसे। यद्देवः श्रीनिवासः प्राप्तोऽयं भवनद्वारे तिष्ठति।’
(सर्वाः सचकितमुत्थायान्तःप्रविश्य बद्धकपाटा अतिष्ठन्। ततश्च देवोऽप्यन्तःपुरकपाटमासाद्य-)`द्वाः।’
देवी-मन्दं मन्दम्। सखि कमलिनि, दूष्णीं तिष्ठ। छलाम्येनम्।
मालती-एवमेव कर्तव्यं एकद्विवारम्। येन देवोऽपि ज्ञास्यति ज्ञातव्यम्।
देवी-
कस्त्वं
घीनिवासः-
चक्री
देवी-(साश्चर्यम्।)
नरेन्द्रालयभुवि
श्रीनिवासः-
ललने श्रीनिवासः
देवी-(समन्दहासम्।)
श्लाघ्यायां
श्रीनिवासः-
हास्मि कृष्णः शशिमुखि
देवी-(सावहेलम्।)
कमये तार्क्ष्यजातावृतायाम्।
श्रीनिवासः-
मद्भोगे देही दृष्टिं
देवी-(सरोषम्।)
मम रमणपदाघातभग्नः
श्रीनिवासः-
स को वा
देवी-(सलज्जम्।)सखि कमलिनि, न जानात्ययं देवस्य नामापि त्रिभुवनरक्षाधौरेयस्य।
कमलिनी-भण भण। शृणुमस्तावद्वक्तव्यसीमाम्।
यन्मकरन्दरसौधो यच्च तरङ्गः सुधासमुद्रस्य।
यच्चैन्दवकरसारो यच्चासारो मृगाक्षि गोस्तन्याः॥ 4 ॥
श्रीनिवासः-(खगतम्।)परोक्षेऽपि प्रणयभूयिष्ठानि कमलिनीवचनानि शीतलयन्ति मे मानसम्।
देवी-
कंसारिः
श्रीनिवासः-
सोऽहमस्मि
ततश्च।
इत्युदितवति हरौ सा जहासोत्पलाक्षी॥ 5 ॥
कमलिनी-देव, एतावत्कालपर्यन्तं क्व भवान्।
श्रीनिवासः-क्षम्यताम्। तत्र तत्र वनलताकुञ्जेषु राधोत्सवमनुभवता मया यापितोऽर्धरात्रः।
देवी-(स्वगतम्।)अहो, अद्यापि न विस्मरति राधाविलासो देवस्य।
जाराणां मानसं नित्यं पांसुलामनुधावति।
शततारापतिश्चन्द्रस्तारामन्यामकामयत्॥ 6 ॥
त्वं तत्त्वमान्तरं शश्वत्वं वै प्राणा बहिश्चराः।
इत्युक्त्वैव पुनः कृष्णो यद्वा दैवमदक्षिणम्॥ 7 ॥
(प्रकाशम्।)धार्ष्ट्यमवलम्ब्य। किमत्रागमने कारणम्।
श्रीनिवासः-सदङ्गनाशरणद्वारमिति।
देवी-अङ्ग-(इति साम्रेडितम्।)नेदं युद्धस्थानम्।
श्रीनिवासः-न केवलं स्वल्पयुद्धस्थानम्, किं तु अतनुयुद्धस्थानमेतत्।
देवी-(सत्रपानन्दं कपाटमुद्धाट्यातिष्ठत्।)
ततश्च श्रीनिवासे प्रवेष्टुमिच्छति सति प्रसार्य बाहुं तिर्यग्द्वारदेशे(स्थित्वा।)कमलिनी-
मा गच्छ शोणिमा नेत्रे पद्मावत्या विराजते।
श्रीनिवासः-
रजःस्नातासु नारीषु प्रायेणैवं भविष्यति॥ 8 ॥
कमलिनी-मानवतीति ब्रवीमि।
श्रीनिवासः-बहुमानवतीति वक्तव्यम्। मध्यस्थासु युष्मासु किं न्यूनम्।(देवीं प्रति।)
पद्माभं मुखवत्प्रिये कुवलयश्रीसात्क्रियार्हं च ते दृग्वत्कुन्तलवन्मृगाक्षि सुमनःश्रेणी मनोज्ञे तव।
रम्भाधिक्कृतिदक्षमूरुयुगवद्वक्षोजवत्तेऽलश्रीकं मानवदङ्गनेति चपलं जीयाच्छरीरं सदा॥ 9 ॥
देवी-देव, सुराधिकोल्लासरीतिमेव भज। तयैव सप्रमदो भव। कमलिनी–(देवीं प्रति।)
कोपः कृशानुभावं वहतु च मानः कुलस्त्रिया रक्ष्यः।
देवि हितं कथयामि शृण्वेतं कलय मा भुजङ्ग इति॥ 10 ॥
श्रीनिवासः-(स्वगतम्)कमलिनीवचनमपि कर्दमस्तम्भप्रतोलीमाश्रयति।(प्रकाशम्।)
स्पृशान्यहीनां मालां च त्यज कोपमणूदरे।
शब्दविन्यासदोषो मे नाहमद्यापराधिकः॥ 11 ॥
कमलिनी-(स्वगतम्।)अत एव देवी कुप्यति। (प्रकाशम्।)देवि, शृणुमस्तावत्। किंनरो गायति।
किंनरः-
सश्रीकं मानितं देवासुरसंघैर्घनप्रभम्।
मानगम्यमहो हन्त
कमलिनी-देव, श्रवणातिथीकृतः स्वल्वयं पादोनः श्लोकः।
श्रीनिवासः-सखि, जानाम्यष्टदलपद्मबन्धनिबन्धनमेतत्पद्यम्।
अस्य तुर्यः पादः
श्रीनिवासं नमाम्यहम्॥ 12 ॥
इति। किंच।
अजहत्तालसौन्दर्यं सुरागश्रीयुतं मनः।
गीतं हरति पद्माक्षि देवीस्तनयुगीव नः॥ 13 ॥
(देवी वस्त्रान्तेन गूहितकुचातिष्ठत्।)
श्रीनिवासः-
सर्वभूभृत्स्मयहरे जृम्भच्चक्रश्रियान्विते।
मयि स्तनद्वये चाद्य नेत्रान्तः प्रसरत्यहो॥ 14 ॥
देवी अवनतवदना आसीत्।
श्रीनिवासः-
सुरोहितललामाढ्यं राजवृन्दजयावहम्।
अधः करोषि सुरते कस्मान्मामिव ते मुखम्॥ 15 ॥
देवी-उन्मस्तकितकोपावेशम्। त्वां सुरते अधः करोतु सा राधा।
श्रीनिवासः-
हंहो त्वमेव हि सदानन्दघोषमनोहरा।
गोरसैः सुखदा पद्मावति सा राधिका मता॥ 16 ॥
देवी-(खगतम्।)अस्थिरान्तरस्यास्य वेणोरिव मधुरा गिरो बहिः प्रसरन्ति।
कमलिनी-यावत्रुट्यति तावत्कर्षणं नोचितम्।
देवी-उभयत्रापि तव स्थितिः।
पुनः किंनरः-
घटयति वियोगिचक्रं तनुते नितरां हि कुवलयोद्बोधम्।
किमयं महिमा रात्रेर्यद्वा चरितं निशान्तकालस्य॥ 17 ॥
कमलिनी-तर्हि प्रबोधकालः पद्मिनीनाम्।
केतकी-न केवलं स्थावराणाम्, किंतु जङ्गमानां च।
देवी सापराधेवाकुला कुलनक्षत्रमालं म्लायच्चन्द्रमुखं गगनमपश्यत्। श्रीनिवासोऽपि तद्देहम्।
ततश्च श्रीनिवासेऽप्यसहमानमीनकेतनावेगेन देव्यां प्रसारयति पाणिं कमलिनी प्राह-देवि,
जृम्भत्केसरमालो मुग्धे सारङ्गनिर्वृतिनिदानम्।
भवतीं गृहीतुमिच्छत्येष हरिः कोऽत्र शरणं ते॥ 18 ॥
देवी-(सभयम्।)आर्यपुत्र, त्रायस्व माम्। हरिर्गृहीतुमिच्छति।(इत्यालिलिङ्गे।:
श्रीनिवासः-मा भैर्वियन्नृपालतनये।
इत्याश्वास्य सशिरः कम्पमघटितघटनापटीयसीं नियतिमभिनन्द्य तया सह मृदुलां श्य्यां सुकविकाव्य इव प्रविवेश।
॥ इति श्रीमद्वेङ्कटाध्वरिमहाकवीन्द्रकृतौ श्रीनिवासविलासचम्प्वामुत्तरभागे तृतीयोल्लासः॥
.
॥ चतुर्थोल्लासः ॥
एकदा तु वेङ्कटेवराहकलत्रं धरादेवी स्वामिसरस्तीरे हसन्ती प्राह-`वासु पद्मावति, कलितपत्तनस्थितिरभिनवतयास्मद्विहारस्थलीं भूधरं विलोक्य चित्तजातकुतूहलेनाक्रान्तेव वर्तसे।’
पद्मावती-(स्वगतम्।)अहो परिहासपरिपाटी वसुमतीदेव्याः।(प्रकाशम्।)देवि धरे, इयं कदाम्बिनीश्यामला व्यक्तिस्तरलयति मे मानसम्।
धरादेवी-सत्यं वदसि पीनपयोधरमहिमायम्।
पद्मावती-धिरित्रि, राजहंसविहाराभावान्न शोभते वेलेयम्।
धरादेवी-सखि, वैकुण्ठः क्व गतः सुन्दरि, ते भर्ता।
पद्मावती-(स्वगतम्।)देवं श्रीनिवासमपि पृशति। इतः परमार्यमर्यादा पटले स्थाप्या।(प्रकाशम्।)अयि वसुधे, इदानीमेव युष्मत्क्रोडदर्शनार्थं गतः।
धरादेवी-तेन किं फलम्।
पद्मावती-रतिं विना किमन्यत्।
धरादेवी-भूस्वीकृतिदाक्षिण्यमिति किं न भणसि।
पद्मावती-रक्षितमर्यादया न स्पष्टमुक्तम्।
अत्रान्तरे स श्रीनिवासो वराहस्तमेव देशं प्राप्तः प्राह-`वत्स वासुदेव, वृषाकारः कश्चिद्दैत्यः श्यामाकक्षेत्रदूषक इति श्रुतम्। अतो योद्धुमिच्छामि।
श्रीनिवासः-वसुंधरारमण, जरतोऽपि देवस्याद्यापि अतनुयुद्धस्पृहा न विरमति।
वराहः-वत्स, वसुधारागो दुष्परिहारः।
श्रीनिवासः-तर्हि किरिचक्रं प्रेषय।
वराहः-सहस्रारं चक्रमेव प्रेषयामि।
श्रीनिवासः-अहमपि देवस्य सहायो भवितुमुत्सहे जराशिथिलतसंधिबन्धावयवस्य।
वराहः(विहाय।) कृतं कृतमतिसाहसेन। येयं हिरण्याक्षनियोधनसहायभूता साहाय्यं करिष्यति धरणीकुचभारादपि गुरुतरी गदा, त्वं तु वसुधां पद्मावतीं च ममागमनं च प्रतिपालयंस्तिष्ठेति प्रचलितः।
श्रीनिवासः-देवि धरे, इदानीं मदधीनासि खलु।
धरादेवी-देव, यदा रसातलादुद्धृता भवता वराहरूपेण।
अत्रान्तरे कश्चित्किंनरः पपाठ-
लोकाज्ञातनिदानकहरनर्तनमूलकारणं ब्रूमः।
तव सुपयोधरदर्शनमिति यस्माद्गौरि नीलकण्ठोऽयम्॥ 1 ॥’
देवी-आर्या गीयते।
तच्छ्रुत्वा लक्ष्मणा नाम सखी प्राह-`न केवलं गीयते स्तूयते च।’
श्रीनिवासः-सद्वृत्तेयं गीतिः।
लक्ष्मणा-देवीस्तनद्वयीव।
श्रीनिवासः-(समन्दहासम्।)अनन्तरागमनोहरया देवीस्तनद्वय्या परिमितरागा किमित्युपमीयते गीतिः।
देवी-(साभ्यसूयमिव।)इयं लक्ष्मणा खलु जानाति कलहं सलक्षणम्।
श्रीनिवासः-देवी, कुतस्ताम्यसि। तानि परिहासवचनानि कुसुमानि।
देवी-हुं। कुसुमानि सुसुमनानि वानवसरे प्रयुक्तानि तान्येन किं न शरजालानि। लक्ष्मणा-देव, प्रायेणेयं मदनासक्तेन लक्ष्यते।
श्रीनिवासः-तथा वक्तुं जडीभवति मे जिह्वा यतस्त्वयैवोक्तमद्य।
चकितचकितं क्वापि क्वापि प्रमादगतं घनं घनमिव निजं कान्तं भूयो वने कलयत्यहो।
विरहविधुरा माकन्दद्रुभ्रमद्भ्रमराङ्गना रणितमपि सा धत्ते तृष्ट्यै न नागवधूरिति॥ 2 ॥
देवी-(स्वगतम्।)आः, पापया भिन्नं रहस्यम्।(प्रकाशम्।)हरिणीवृत्तमेतत्। यतो न समरसलग्नानुबन्धि।
कमलिनी-अतनुसमरसलग्नानुबन्धीति वक्तव्यम्।
लक्ष्मणा-करिणीवृत्तमेतत्।
श्रीनिवासः-तरुणीवृत्तमितित वक्तव्यम्।
देवी-(सलज्जम्।)अलीकमेव वर्ण्यते प्रियसख्या।
लक्ष्मणा-तर्हि नालीकं वर्णयामि।
भ्रमरकमनोज्ञमेतत्सौरभ्योत्पत्तिकुलभवनम्।
भुवनेड्यस्थितिरम्यं नालीकं भाति नृपकन्ये॥ 3 ॥
श्रीनिवासः-एतदप्यलीकवर्णनमेव जानामि।
एतस्मिन्व्यतिकर उद्यानद्वारपालेन निवेदितम्-`देवि, सुमनसां विषये का वाज्ञा।’ इति।
श्रीनिवासः-मालिकाः करणीयाः।
स तु पुनः प्राह-`देवि, विद्वन्निकुरम्बं द्वारि तिष्ठतीति विज्ञापयामि।’
श्रीनिवासः-(विहस्य।)प्रवेशय। को विचारः।
ततो विपश्चिद्वृन्दमागत्य यथायोग्यमुपविष्टम्। तत्र कश्चित्कहोडनामकः प्राह-
सतीकण्ठे लग्नः करधृतकुमारो न नगरं जुषन्नद्रौ तिष्ठन्गमयति च कालं सुकठिनम्।
इदानीं राजेन्द्र त्वदरिनिवहः स्थाणुसमतां प्रयात्युच्चैस्त्वं वै मनुजपदवीं यासि किमिदम्॥ 4 ॥
अन्यः सोमनाथकविः-
रक्तं स्वाङ्गजमाशु भूमिवलये निक्षिप्य जन्याङ्गने हित्वा बाणमसौ भिनत्ति निरतरां देवस्य संपश्यतः।
मैत्रं मण्डलमप्यथोच्चपदवीं प्राप्नोत्यरिक्ष्मपति-व्यूहस्ते विजयः कथं तदितरस्तस्मिन्कथं वर्ण्यताम्॥ 5 ॥
श्रीनिवासः-(सहर्षम्)`सन्त्येवात्र सहस्रशो युवतयः सा चातुरी दुर्लभा’ इति समस्यामाह।
कहोडः-
आसक्ते मयि पुष्पिणीति शयनं गेहाद्बहिः कल्पितं नीतश्च प्रतिवेशिनी कपटतः पार्श्वं तदाहं त्वया।
केलीकण्ठरवः कपोतनिनदव्याजेन गोपायितः सन्त्येवात्र सहस्रशो युवतयः सा चातुरी दुर्लभा॥ 6 ॥
सोमनाथः-
छित्त्वा पुष्करमालिकां स तु बलादालोलयन्कुञ्जरान्भिन्दन्कुम्भमसौ करं च कलयन्नाकर्षति स्म स्फुटम्।
कृष्णः किं न हि केसरीत्युपवने श्वश्रूस्तया वञ्चिता सन्त्येवात्र सहस्रशो युवतयः सा चातुरी दुर्लभा॥ 7 ॥
श्रीनिवासः-(स्वगतम्।)उद्धाटितं मर्म महाकविभ्यास। प्रत्युक्ता खलु सा सरणिः।
कमलिनी-देव, कदा।
श्रीनिवासः-यदादिमधुराधरा स्वीकृतिः। तिष्ठत्वेतत्। महाकवी, मेघावली वर्णनीया।
कहोडः-शिव शिव। अस्पृष्टदोषगन्धे देवेऽष्टमरससहचारी पापाली।
श्रीनिवासः-कादम्बिनीं वर्णय।
कहोडः-देव, वर्षासमये हंसाङ्गनानां न प्रचारः।
श्रीनिवासः-एनां जलधरावलीं वर्णयेति भणामि।
कहोडः-(स्वगतम्।)कथं राजदारान्वर्णयामि।
प्रथमः-यदाज्ञापयति देवः।
अतिरोहितकान्त्यधरश्रीवत्सज्जघनलक्ष्मिकुन्तलवत्।
गिरिमधुरं कुचयुगवद्देव शरीरं लसत्यस्याः॥ 8 ॥
सर्वाः स्त्रियो हसन्ति।
श्रीनिवासः-कवे, पयोधरपालीं वर्णयेति भणामि।
कहोडः-
चक्रो विरूपधारी नापि गुरुत्वं कदापि कलशस्य।
तस्मादनुपमलीलो भात्येतस्याः पयोधराभोगः॥ 9 ॥
श्रीनिवासः-नीरदावलिं वर्णय।
कहोडः-
पूषा त्वेकः कोपयित्वा त्रिनेत्रं कालिङ्गश्चाप्यक्षगोष्ठ्यां द्वितीयः।
दन्ताभावान्नीरदः कामपालात्तार्तीयीकं नैव जाने धरित्र्याम्॥ 10 ॥
कमलिनी-महाकवे, वार्धके सर्वो जनो नीरद इति कुतो न कथयसि।
देवः-(सस्मितम्।)सुकवे, जीमूतं वर्णयेति ममाशयः।
कहोडः-(उच्चैर्हसन्।)देव, तथा भण पुनः। मेघादिशब्दैर्वयं वञ्चिता द्व्यर्थैः।
हंसानन्दमपाकरोति धरणौ कीर्तिं तनोति स्पुटं सारङ्गं परिपाति नाशयति तत्कीनाशदुःखं सदा।
कामं वर्षति चागमान्कलयति प्रोज्जृम्भितान्संततं जीयाद्यस्तु ददाति चामृतमपि श्रीकृष्णनीलाम्बुदः॥ 11 ॥
सोमनाथः-देव, अहमेवं तर्कयामि।
अपहसतश्चन्द्ररुचिं दधतः करकश्रियं च घनतां च।
उचितं पयोधरत्वं राजन्सरसस्य मेघस्य॥ 12 ॥
अस्मिन्व्यतिकरे वेलावेदकः पपाठ-
दैत्येन्द्रहृत्तटविपाटनपाटवाद्यकण्ठीरवास्यघनगर्जितदेशिकोऽयम्।
क्ष्माभृद्गुहाप्रतिरवद्विगुणो वराहो देवस्य जृम्भति मुहुर्जयशङ्खनादः॥ 13 ॥
इति श्रुत्वा वृषभाकारं दैत्यं निहत्य प्रतिनिवृत्तेन भगवता क्रोडेन भवितव्यमिति सर्वाननुज्ञाप्य स्वयमपि तत्स्थानमगमत्॥
॥ इति श्रीनिवासविलासाख्यचम्प्वां उत्तरविलासे चतुर्थं उल्लासः॥ 4 ॥
.
॥ पञ्चमोल्लासः ॥
अथ कदाचित्प्रभातसमये वेत्रपाणिर्व्यजिज्ञपत्-
`घनतिमिरहारिसंपज्जयति हि कृष्णप्रबोधरुचिरश्रीः।
सर्वत्र शरद्गमने सूर्यो देवर्षिरपि गृहद्वारि॥ 1 ॥’
श्रीनिवासः-(ससंभ्रमानन्दादरमुत्थाय संमान्य भगवन्तं नारदमास्थानमण्डपं प्रवेश्य।)`महर्षेः कुत आगमनम्’ इत्याह।
सोऽप्यवदत्-`भवद्दर्शनार्थं विरञ्चिलोकात्।’
श्रीनिवासः-अनुगृहीतोऽस्मीति।
नारदः-
कीर्तिः सोडुपसंमततिर्हि तरणिः श्रेणी प्रतापश्च ते साचिव्यं गुणसिन्धुपारगमने कुर्यादिति श्रद्धया।
हृष्टे मय्यचलादिमातदितरा दृष्टान्यरोधाभवत्कुर्वे किं नु तथा विरुद्धगुणयोः श्रीश्रीनिवासप्रभो॥ 2 ॥
श्रीनिवासः-अहो महत्त्वारोपप्रकारः। भवतु। भगवतः शतानन्दस्य सभायां कीदृशी प्रवृत्तिः।
नारदः-
प्रणमत्ययं सभार्यः सनकः पुरतः सनन्दनश्चेति।
कथयति वेत्रकरौघे सामि स्मितमातनोति परमेष्ठी॥ 3 ॥
किंच।
इयं नवरसोल्लासवाणी चित्तं धिनोति नः।
इति काव्यस्तवव्याजाद्भार्यां स्तौति चतुर्मुखः॥ 4 ॥
श्रीनिवासः-महर्षे, सर्वतः श्लाघ्या ते भारती। अपि नाम कथय वियन्नृपालराजधानीवृत्तान्तं किमप्यभिनवम्।
नारदः-देवलोकं कदवत्याकाशभूपाले तदवरजस्तोण्डिमानस्तत्पुत्रः कुमारश्च राज्यार्थं योद्धुमिच्छतः। तस्मादहमेतेन वृत्तान्तेन देवं योजयित्वा युद्धदर्शनार्थं सत्वरं गमिष्यामीत्यागतवान्।
श्रीनिवासोऽनतिहर्षं देवर्षिमनुज्ञाप्य यावन्नारायणपुरं गन्तुमिच्छति तावदेव युगपत्तोण्डिमाननृपालः कुमारश्चागत्य यथाविधि पूजितौ श्रीनिवासमूचतुः-`कृतसाहाय्येन देवेन भवितव्यम्’ इति।
तच्छ्रुत्वा श्रीनिवासस्तोण्डिमानं प्राह-
सुतोऽग्रजस्येति जगन्निवासः पार्थस्य सेवामुररीचकार।
भीष्मः परित्यज वसुंधराशां वैचित्रवीर्यं नृपमाततान॥ 5 ॥
(कुमारं प्रति।)
युधिष्ठिरः किं न विदां वरिष्ठो न तत्पितृव्ये धृतराष्ट्रतासीत्।
धरासुतस्यापि धरापतित्वे कथं मनीषा प्रसरत्यये ते॥ 6 ॥
(उभौ प्रति।)
येषां मनीषास्ति धरान्वितत्वे तेषां न गोत्रान्विततेति चित्रम्।
ज्याकर्षणं ये बहु मानयन्ति कीनाशलोके गणनैव तेषाम्॥ 7 ॥
वस्वीशतैकस्य मतीशतेयमन्यस्य चेत्तर्हि समो विभागः।
द्वयोर्विवाद सति चैवमेव बुधैर्विभज्या वसुमत्यमेया॥ 8 ॥
इति। ततश्च तावुभावपि दुराग्रहग्रस्तौ-
अयं कुमारः स च शक्तियुक्तो राज्ञः सुतोऽयं स बुधत्वमेति।
अयं तपस्वी स च धर्मविद्याविचक्षणो द्वावपि मे समानौ॥ 9 ॥
इति। पद्मावत्योक्तश्लोकाभिप्रायं च विदित्वा पुनः प्राह-`यद्यस्मात्खेदयितुं युवयोः समीकमेव हितं भवति तर्हि।
अहं चैकतश्चक्रमेकत्र बुद्ध्वा इदानीमपि स्यात्तथैव व्यवस्था।
नरः कौरवश्चापतुर्हर्षमुच्चैर्यथेच्छं स गृह्णातु भागं स्वकीयम्॥ 10 ॥’
इत्येवमुक्तवति देवे
गृह्णंश्चक्रं तोण्डिमानो नृपालः प्राप स्थानं स्वं तथा हृष्टरूपः।
तद्वद्देवं राजहंसं मुदाढ्यः स्वीकृत्यागात्स्वां पुरीं राजपुत्रः॥ 11 ॥
ततश्च।
हस्त्यश्वपत्तिरथघोषविमिश्रभेरीभाङ्कारपूरितदिशावलयान्तराला।
स्वैः स्वैः परं परिवृढैः परिपाल्यमाना सेनाद्वयी समरभूमिमुपाजगाम॥ 12 ॥
तदा कुमारोऽपि भुजावलेपान्मौर्वीसनाथीकृतचापदण्डः।
किरञ्च्छरान्सर्पसमानरीणां बभूव भीष्णोऽपि विचित्रवीर्यः॥ 13 ॥
शुभ्राश्वयुक्स्यन्दनभृत्किरीटी मनोरथाग्रार्पितकंसशत्रुः।
हरिध्वजः प्राप स तोण्डिमानो रणक्षमां स्मारितपार्थचर्यः॥ 14 ॥
संमर्दे सति गगने सुराङ्गनानामुत्तुङ्गस्थलमनवेक्ष्य नारदोऽयम्।
वीरौघाप्रतिमपराक्रमं दिदृक्षुः स्वर्योषागुरुकुचमारुरुक्षुरासीत्॥ 15 ॥
अथ तस्मिन्व्यतिकरे कश्चिद्वेत्रपाणिस्तोण्डिमानभूपालमवदत्-
वीरावेतावाजिरङ्गावतीर्णौ कृत्वा युद्धं विग्रहत्यागकामौ।
एकः शत्रोः खड्गपातादथाग्रे योधाभावादन्य इत्येष भेदः॥ 16 ॥
रिपोः शराघातविभिन्नमूर्धा दन्तावलोऽयं विलुठन्पृथिव्याम्।
गुरुप्रहारोन्मथितस्य तस्य क्रौञ्चस्य लीलां वहतीति मन्ये॥ 17 ॥
न केवलं वर्णत एव राजन्वशाधवो नीरदभावमाप।
किं तु प्रभो वैरिभुजप्रमुक्तमहागदाभग्नरदत्वतश्च॥ 18 ॥
अहह।
सेनापतिः संयति लब्धलक्ष्यो जित्वारियूथं सहसा प्रभग्नः।
पलायमानो यदसौ विचित्रं सेनाविहीनोऽप्यभवच्चमूढः॥ 19 ॥
इत्येवमुक्त्वा संवृतवचसि तस्मिन्सेनापतिभङ्गश्रवणकोपेन कलिततापेन तोण्डिमानभूपेन
प्राकशि चक्रं यदनेकधारं ज्वलज्जवलच्छ्रीमदनेकधारम्।
कर्तुं ययौ सर्वविपक्षपातं तत्तोण्डिमाने कृतपक्षपातम्॥ 20 ॥
अनन्यधार्यं प्रसमीक्ष्य चक्रं तत्तापितं चापि कुमार चक्रम्।
सुदर्शनं घोरतरं स देवो बभार वेगात्किल वासुदेवः॥ 21 ॥
ततश्च।
निजायुधप्रतापेन जगाम वसुधां हरिः।
युक्तस्वभक्तरागाढ्यो बभारापि च मूर्च्छनाम्॥ 22 ॥
तस्मिन्व्यतिकरे युद्धोत्सवदर्शनभङ्गदुःखमस्माकं दैववशात्प्राप्तमिति अभिनयति खेदमुद्रां भगवति नारदे हाहेति क्रन्दत्सु नारायणपुरनिवासिजनेषु सपरिवृढा सेनायुगुली वीतरणव्यापारदुराग्रहा तथाविधस्य श्रीनिवासस्य चरणमूलमुपागमत्।
वाहिन्येकैव गङ्गाख्या पादे तस्येति विश्रुता।
इदानीं वाहिनीद्वन्द्वमिति चित्रीयते मनः॥ 23 ॥
अथ विविधप्रयत्नेन प्राप्तप्रबोधः पौरवृद्धैः सह संमन्त्र्य समं विभज्य तद्दायम्। तोण्डिमानकुमारौ तोषयन्प्राप्तराज्यौ द्वावप्यापृच्छ्य पद्मावत्या सह भोगीन्द्राचलं प्रत्युदचलच्छ्रीनिवासः।
कण्ठे कण्ठीरवाख्यां प्रतिफलमधुरां बिभ्रतः सूरिचूडारत्नस्यान्ते वसन्यः कलयति कवितां गद्यपद्यावबद्धाम्।
तस्य श्रीश्रीनिवासप्रभुवररचिते वेङ्कटेशस्य काव्ये पर्याप्तः श्लेषसारे कविमशकशिशोः पञ्चमोऽयं विलासः॥ 24 ॥
इति श्रीमन्नखिलश्लिष्टकाव्यरचनाधौरेयकविचूडामण्डितमुकुटललामावलीनीराजितचरणयुगलश्रीमद्वेङ्कटाध्वरिविरचितायां श्रीनिवासविलासाभिधाशालिन्यां चम्प्वां उत्तरविलासे पञ्चमोऽयमुल्लासः॥ 5 ॥
.
************************************************************************
]