श्रीहरिवंशचम्पूः

[[श्रीहरिवंशचम्पूः Source: EB]]

[

[TABLE]

॥ अवतरणिका ॥
————

श्रीमतस्सकलजगदुत्पत्तिस्थितिलयकारणस्य भगवतो नारायणस्य नाभिकमलादुद्भूतस्य भगवतैव स्वस्मिन् विनिवेशितानन्तरभाविसकलसर्जनाधिकारस्य चतुर्मुखब्रह्मणः पुत्रेषु स्वजनकचिकीर्षितसृष्टिकर्मणि सहायतया स्वयमपिब्रह्मशब्देन विश्रुतेषु मरीच्यादिषु श्रीमतो भरद्वाजमहर्षेः ब्राह्मणसन्ततिः बहुविस्तृता वरीवर्ति। तत्र लब्धजन्मसु बहुषु महत्तमेषु श्रीमान् दासोपन्तनामा महाशयः क्रैस्तवाष्टादशशताब्द्याःअन्तिमे तदुत्तरशताब्द्याआदिमे च भागे श्रीमत्मैसूरुमहाराजपरिपालितदेशान्तर्गतस्य नन्दीक्षेत्रस्याभ्यर्णे देवनहल्लिप्रभृतिस्थलेषु लौकिकाधिकारमहिम्ना महतीं कीर्तिमुपागतो व्यराजतेति देवनहल्लीप्रदेशान्तर्गतहुणसेमारनहल्लीमठेऽद्यापि समुपलभ्यमानात् क्रैस्तवसप्तदशोत्तरैकोनविंशशताब्द्यां श्रीमन्महाराजश्रीकृष्णराजप्रभुसार्वभौमेण श्रीमन्तं दासोपन्तं प्रति प्रहितात् लेखादवसीयते॥

तस्य ज्येष्ठतनूजः श्रीमान् वेङ्कप्पशर्मा। बेतमङ्गलप्रदेशे लब्धमुख्याधिकारश्चिरमवर्ततेति सुप्रसिद्धम्। तस्य जीवितं बहुविधश्लाघनीयचरित्रैः बहुभिः स्तूयमानमभूदिति अधोलिखितात् तमुद्दिश्य केनचिद्विदुषा विरचितात् चरमश्लोकादवसीयते । सचः—

“भारद्वाजकुलं शशीव जलधिं संवर्धयन् योऽभवत्
सोऽयं पुत्रचतुष्टये निजगुणान्निक्षिप्य रामैकधीः।
चैत्रे मासि पराभवाख्यशरदः कृष्णे चतुर्थी दिने
प्रायाद्दासकुमारवेङ्कटसुधीरम्भोजयोनेर्गृहम्” इति।

तत्तादृशात् श्रीमद्वेङ्कम्पमहाशयात् श्रीमत्यां शेषाम्बिकायां लब्धजन्मसु चतृषु तनयेषु ज्येष्ठः श्रीमान् वेङ्कटरायसूरिशर्माद्यात्र पुस्तकान्तरे च संमुद्र्य प्रकाश्यमानानां प्रबन्धरत्नानां प्रणेतेति वक्तुमुत्कण्ठते मे मनः। सोऽयं कविः मैसूरुमण्डले स्वीयां बाल्यदशां समाप्य श्रीमतः वेङ्कटाचलाधिपतेः निकटतरवर्तिनि प्रदेशे वस्तुकामः श्रीमत्या क्षीरसरिता परिपावितं वेदवेदाङ्गविद्भिः नैकशास्त्रपारद्दश्चभिः ब्राह्मणप्रवरैः परिशोभितं, आर्काडिति प्राकृतनाम्ना सुप्रसिद्धं षडरण्यक्षेत्रं स्वस्यावासभूमिमकरोत्। तदेतद्भिहितं तेनैव श्रीनिवासयात्रानक्षत्रमालासुः—

“जन्म मे पश्चिमे देशे नन्दिक्षेत्रसमीपतः।
वासोऽद्य दक्षिणे देशे रम्ये दुग्धधुनीतटे” इति॥

अस्य कवेः नन्दीक्षेत्रपरिसरवासभूमिः कलवरनामको ग्रामः। तदन्तिकवर्तिनि पापघ्नीमूलसङ्गते जडल् तिम्मनहलिलनामके ग्रामे तदेतत्कवेः जनकः श्रीमान् वेङ्कप्पशर्मा चिरमुवासेति श्रूयते। तदैव सोऽयं लौकिकाधिकारेवर्तमानोऽपि वैदिकजनसमुचितसुगुणगणभाजनतया वैदिकमर्यादापात्रमयमिति बुद्ध्या तादात्विकसुप्रसिद्धश्रीमन्मैसूरुमहाराजमुख्यसचिववर्येभ्यः श्रीमद्भ्यः पूर्णय्यमहाशयेभ्यः नैकाः वृत्तीः बहुमानतयाऽलब्धेति जनश्रुतिः प्रतायते॥

षडरण्यक्षेत्रवर्तिषु नैकेषु विद्वद्वरेषु सुविदितात् श्रीमन्मध्वरायाचार्यशिष्यात् श्रीमतो वेङ्कोवाचार्यनाम्नो विद्वद्वरात् समुपात्तसाहित्यप्रभृतिविद्यावैभवः सोऽयं कविः स्वस्य पूर्वे वयसि समवृत्तमालां नौकाचरित्रं, मध्ये वयसि हरिवंशचम्पूं, परिणते वयसि श्रीनिवासयात्रानक्षत्रमालादिस्तुतिग्रन्थांश्च निर्मिमायेति संभाव्यते। समुचिता हि सुजनानां दैवपराणां कृतविद्यानां वयोऽनुरूपे कर्मणि प्रवृत्तिः। तथाच तदीयस्य श्रीनिवासयात्रानक्षत्रमालादशकस्यान्तिमे भागे तदीया भगवत्प्रार्थनाः—

“भो श्रीनिवास करुणाम्बुनिधे विधेहि
वासं ह्यमूषु रुचिरप्रतिमासु नित्यम्।

मद्वंशजैरपि मया च गृहाण पूजां
श्रीभूयुतो मम भवान् कुलदैवतं हि” इत्यादिना।

एवमेव तदीयवरदराजस्तवादिभ्योऽस्य कवेरभीप्सितवरदराजयात्रासेवाहेवाकालाभनिमित्तको निर्वेदः तदात्वसमृद्यद्भक्तिभरविवशस्यास्य तत्स्तवनिर्मितिः तत्र तत्तत्कालभवत्कांचीस्थलीयभगवदुत्सवगणानां मानससाक्षात्कारसमावेदनादिवर्णनं चैतदीयां भगवद्भक्ताग्रेसरतामावेदयति॥ तदेतस्य कवेः प्रबन्धाः पुस्तकरूपेण तत्सहोदरस्य तदंतेवासिनश्च श्रीमतः कृष्णराया परनामधेयस्य दासप्पशर्मणो हस्तमासाद्य सुरक्षितं सत् चिरायावर्ततेति हेतुरयः॥

तस्यास्य कवेरुक्तग्रन्थप्रणयने प्रवृत्तिः एतदीयं विनयातिशयं प्रकट्यति तस्यैवाधोलिखितः हरिवंशचम्पोः तृतीयश्लोकः—

“नाहं शास्त्रविचक्षणो नहि रसालङ्कारवेदी ततः
शङ्के सेयमधोक्षजस्य करुणावेणी न वाणी मम।
कान्ता कल्पलतेव या मृदुतरा मन्दारमालेव या
सर्वस्मान्मथुरा मनोहरसुधाधारेव या जृम्भते” इति॥

अथैतासां कृतीनामामूलाग्रशोधनसमये मम मनसि स्फुरिता साहित्यसम्पत्तिः किंचिदिव विदुषामादरजननाय प्रदर्श्यते॥

तत्र स्तुतिग्रन्थाः प्रायो द्राक्षापाकेन वैदर्भीरीतिमाश्रित्य निबद्धाः।

“वन्धपारूष्यरहिता शब्दकाठिण्यवर्जिता।
नातिदीर्घसमासा च वैदर्भीरीतिरिष्यते॥” इति,
“द्राक्षापाकस्स विज्ञेयो बहिरन्तस्स्फुरद्रसः”इति चोक्तेः।

तत्र कविगतभक्तिभावस्यालम्बनविभावभूतवर्ण्यवस्तुषु विद्यमानमहिमातिशयरूपभावेन सम्यक्परिपोषः समर्थित इति, प्रसिद्धोपमादिसमुच्चिताः प्रेयोलङ्कारादयः स्फुटा इति नातिविस्तराय प्रयते॥

समवृत्तमालायास्तु उक्तामारभ्योत्कृत्यन्तषड्विंशतिच्छन्दस्तु भवानांप्रसिद्धानां वृत्तानामुदाहरणमात्रं प्रदर्शितमिति न बहु वक्तव्यम्॥

नौकाचरित्रन्तु भगवत्श्श्रीकृष्णस्य नन्दगोपसदनवाससमये गोपीललनाभिस्सह शृङ्गारलीलानुभवावसरे कादाचित्कीं नौकामधिगृह्य गोपीभिस्सह विहरणलीलां वर्णयितुमारब्धम्। तत्र गोपीनां वासुदेवस्य चान्योन्यालम्बनकः, तदात्वसमुपनतविविवानुभावैः विभावैश्च समुल्लासितस्सम्भोगशृङ्गारः सम्यगुपवर्णित इति स्पष्टमवसीयते। यथा—

“लावण्यं क्वचिदीक्षतेऽधरसुधामाकाङ्क्षते च क्वचित्
वक्षोजेषु नखक्षतिं वितनुते ज्ञात्वाऽऽशयं भाषते।
एकान्तं भजते क्वचित् क्षणमसौ शेतेंऽक एव क्वचित्
सर्वासामपि योषितां स रमते सान्निध्य एव प्रभुः॥
(पु.१३. श्लो.११.)

“पश्यामोऽब्जवनं तथैव सखि हा किं वाऽपतन्नेत्रयोः
मुग्धे! सारसकेसरः किमधरे दष्टा सखीन्दिन्दिरैः।
चेलं कर्षति कोऽस्ति भीरु! पवनः किं वापतद्वक्षसी–
त्याश्लिष्टस्स भिया कयाऽपि सुदृढं कृष्णोऽत्र योषाकृतिः”॥
(पु.१३. श्लो.१६.)

“ब्रह्मापि स्वसुतां समीक्ष्य सहसा मोहाटवीं प्राविशत्
वृन्दां वीक्ष्य पुरा पुराणपुरुषोऽङ्गीचकार भ्रमम्।
सर्वज्ञोऽपि स दारुकावनवधूमोहान्धकारेऽपत–
त्पाशं शौरिरिहापि नस्समगमद्भाग्यं वधूनामहो”॥
(पु.१७, श्लो.३३.)

इत्यादयः तत्र तत्र विद्यमानाः श्लोका उक्तार्थे स्थेमानमादधति। हरिवंशचम्पूस्तु श्रीमन्महाभारतशेषस्य हरिवंशनाम्नः श्रीव्यासोपज्ञप्रबन्धस्य कथामलम्ब्य प्रवृत्तः। तत्र विद्यमानाः श्रीकृष्णकथाः संग्रहेण गद्यपद्यरूपेण सङ्कलय्य रसभावानुगुणतया वर्णिताः। तत्रैकान्तेन नैका वृत्तिः, रीतिः, पाकश्चाश्रितः वर्ण्यानुगुण्येन भेदं प्रापित इति न तत्र विस्तरावश्यकः॥

अथात्र स्तुतीः समवृत्तमालां च विहाय सर्वत्र गुणालङ्काराणां कानिचिदुदाहरणानि प्रदश्यन्तेः—

नौकाचरित्रेः—
अत्र क्रीडन्मरालीततधुतगरुदुद्भुतवातावधूत–
व्याकोचाज्जातजातोत्पतितमधुकरीव्रातसङ्गीतविद्याम्।
संश्लाघन्ते शिरोभिस्तटतरुनिवहाः पश्यताऽऽगच्छतेति
प्रत्युद्गम्य प्रणीता इव मृदुमरुता तास्त्रियस्तामपश्यन्॥
(पु.१ श्लो.२०)

अत्र चतृषु पादेषु स्वरारोहावरोहयोरतिरम्यत्वरूपो गतिगुणः स्पष्टः।

“गतिर्नाम सुरम्यत्वं स्वरारोहावरोहयोः” इत्युक्तेः।

पूर्वार्धे समासभूयस्त्वस्योपलम्भात्, ओजोगुणोपि। तटतर्वग्रसंचलनस्य मधुकरीसङ्गीतसमभिनन्दनरूपतोत्प्रेक्षणात् उत्प्रेक्षालङ्कारश्च व्यक्तः। अभिमतार्थस्य सामग्र्येण विस्पष्टं वर्णनात् प्रसादगुणोऽपि सार्वत्रिकः। वर्ण्यमानार्थानां सहृदयहृदयसंश्लेषितया समुपवर्णनात् माधुर्यं च। अन्येऽपि गुणाः निपुणैस्तत्र तत्र यथालक्ष्यं समुन्नेयाः॥

स्वेदक्लिन्नमृगीमदं श्लथकचप्रभ्रंशि पुष्पोत्करं
व्यालोलालकतारहारमसकृद्विस्रस्तरुद्धांशुकम्।
हृप्यत्कङ्कणनिक्वणं स्तनतटे प्रभ्रष्टचेलांचलं
नौकायाः परिवर्तनेन तदभूत्सर्वं वधूमण्डलम्॥
(पु.१२, श्लो. ७.)

अत्र नौकापरिवर्तनसमयसञ्जातः स्त्रीणामवस्थाव्यतिकरः स्वभावोक्त्या चारु वर्णित इति सहृदयानां सुबिशदम्॥

एतेषु हरिवंशचम्पूग्रन्थः शृङ्गारवीररसप्रधानः धीरोदात्तमहागुणशालिश्रीकृष्णनेतृकः प्रायो महाकाव्योपयुक्तवर्णनशाली कैश्चिदूनोऽपि महाकाव्यं भवितुमर्हतीति सुवचम्॥

“नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनम्”

इत्यादिनाऽऽवश्यकवर्णनीयविषयानभिधाय,

“एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमुच्यते।
एषामष्टादशानां यैः कैश्चिदूनमपीष्यते^(”) इत्युक्तेः।

तत्तद्वर्णनस्थानानि तु अभिज्ञैः तत्रतत्र द्रष्टुं शक्त्यानीति न मम तत्प्रयासावश्यकः। अत्रापि वृत्तिरीत्यादयः रसानुगुणा आलम्बिताः। प्रायो वृत्यनुप्रासादयश्शब्दालङ्काराः, उपमादयोऽर्थालङ्काराश्च सुस्पष्टाः। रसभावादिपरिपोषः रसिकजनैः समुन्नेतुं शक्य इति बहोः वक्तव्यस्य सत्त्वादतिविस्तरोऽत्र न बुधेभ्यो रोचत इति विरम्यते॥

अधुना श्रीमतः तत्तादृशदासप्पशर्मणः पुत्रेषु ज्येष्ठः लौकिकाङ्ग्लविद्यापण्डितेषु सुगृहीतनामधेयः गीर्वाणविद्यायामपि साहित्यव्याकरणादिषु सुशिक्षितः श्रीमदानन्दतीर्थभगवत्पादोपज्ञवेदान्तनिबन्धेषु विरचितनिरन्तरव्यासङ्गः आस्तिकशिरोमणिः श्रीमान् बि. वेङ्कोबरायशर्मा श्रीमन्मैसूरु द्वितीयराजधान्याः मङ्गलपुर्याः (बेंगलूरु) डेप्युटिकमीषनर् नामकसमुचितमधिकारमावहन् राराजति। तेन महाशयेन स्वपित्रा निजहस्ते निवेशितं स्वगुरोः ग्रन्थजातं स्वपरमगुरुसेवारूपेण प्राकाश्यं नेतुकामेन तेऽमी प्रबन्धाः तत्प्रकाशनसमुचितग्रन्थशोधनादिकं सर्वमपि निर्वोढुमहमलङ्कर्मीण इति सम्प्रत्ययेन तदीयविश्वासमुख्यभाजनस्य मम हस्ते समार्प्यन्त। सोहं तदर्पितानि पुस्तकान्यामूलाग्रे सावधानमाकलथ्य तद्ग्रन्थप्रणेतरि सञ्जातबहुमानातिशयस्सन् तत्र मयोपलब्धान् कांश्चन प्रामादिकान् दोषात् परिहृत्य, स्तुतिप्रबन्धानेकतः, समवृत्तमालां नौकाचरितं च पुस्तकान्तरे, हरिवंशचम्पूमेकस्मिन्नेव पुस्तके सन्निवेश्य मदीये मैसूरुराजधानीवर्तिनि जयालययन्त्रे देवनागराक्षरैः सममुद्र्यम्। प्रबन्धप्रणेतुः जीवितवृत्तान्तप्रभृतितदेतद्वेङ्कोवरायमहाशयादन्येभ्यश्च विदितपूर्ववृत्तेभ्यो महद्भयस्संगृह्ययथाश्रुति निबेदितमत्र मयेति मामनुगृह्णन्तु महत्तमा इति प्रार्थये; आशासेच॥

एतादृक्स्तवनार्हकार्यशतमातन्वन् सदा सद्गुणैः
सौजन्यादिभिरन्वितो विजयतां वेङ्कोवरायस्सुधीः॥

श्रीमत्कृष्णमहीमहेन्द्रकरुणा वर्वर्द्धु चास्मिन् सदा
श्रीकृष्णे परदेवभावधिषणा भोभूयतां निश्चला॥ इति॥

एवमावेदयति,
मै सू रु पण्डितरत्नं रायपाल्य राघवेन्द्राचार्यः,
२२-१०-१९२३
महाराजास्थानधर्माधिकारी,

अनुभूतपूर्वराजकीयप्राच्यकोशाहार–
प्रधानपण्डिताधिकारश्च।

श्रीकृष्णाय नमः
— - —

श्री ह रि वं श च म्पूः

प्रथमो विलासः

श्रियं नः पुष्णातु श्रितनिवयनीरेरुहरविः
पविः प्रत्यूहाद्रेः करिवरमणिःकश्चन घृणी।
निरातङ्कोदञ्चत्कटनिकटरवेलन्मधुकरी–
रवामोदश्लाघाचरणनिपुणोरूदरफणी॥१॥

लक्ष्मीं तनोतु सदने वदने वा वाणी
मेधा हृदि त्रिभुवनेऽपि यशो निकामम्।
मत्त्केष्टदः कलुपहा करुणाम्बुराशिः
श्रीशो विरिञ्चिशिवशक्रनियामको नः॥२॥

नाहं शब्दविचक्षणो नहि रसालंकारवेदी ततः
शङ्के सेयमधोक्षजस्य करुणावेणी न वाणी मम।
कान्ता कल्पलतेव या मृदुतरा मन्दारमालेव या
सर्वस्मान्मधुरा मनोहरसुधाधारेव या जृम्भते॥३॥

तार्क्ष्यंवीक्ष्य कुलिङ्गकोऽपि कुतुकाद्यद्यम्बरं गाहते
किं दिष्वामृतमानयेत्तदिह किं रवेवाऽपि तावद्विशेत्।

व्यासं वीक्ष्य करोति चेत्कृतिमसौ किं कृष्णलीलां चरेत्
किं वाऽन्यामथवा कृपा यदि हरेः कः किं न कुर्याद्भुवि॥४॥

क्वेदं शिशोर्मम वचः क्व च कैटभारे–
रत्यद्भुतानि चरितानि तथाऽपि सोऽयम्।
तद्वर्णने परिकर शिशुता मम स्यात्
नैवान्यथाऽस्य रचना विभुता मुरारे॥५॥

आनीय कोऽपि हरिवंशसुधासमुद्रात्
प्राणेरितो हरिकथामृतमेन वर्षन्।
आप्याययत्यग्विलोकमसौ घनोऽस्मै
तुप्यन्तु कैवल्यगुणैकदृशो महान्तः॥६॥

स्वच्छन्दनिस्सरदकुण्ठमृदूक्तिधन्याः
ये कालिदासभवभूतिमृग्वाः प्रसिद्धाः।
तेऽमी क्व पूर्वकवयः क्व वयं तथाऽपि
मान्या गिरो मम विकुण्ठयशोविशुद्धाः॥७॥

नैमिषं नैमिषं नाम वनं मुनिनिषेवितम्।
तत्र शास्त्रपुराणज्ञः सौतिः प्रोवाच शौनकम्॥८॥

गद्यम्— अथ खलु कमलभव-भव-शातपसमुत्वविविधविचित्रतरचराचरप्राञ्चनिर्वाणकपकवपनत्किविचित्रानिपृथुपृथुवि..उपहनिपचित्रचरित्रविचित्रितानि अतिविपुलमहितमन्वन्तरानुसङ्कीर्तनसमेधितानि सकलसुरनरामोदनीयेक्ष्वाकुकुलकथाकथनकञ्चुकितानि निखिलमनोरथापूरकपितृदेवता-माहात्म्यप्रशंसामांसलानि श्रावकजनवरसुतोत्पत्तिहेतुसोमोत्पत्तिकथानिबन्धबन्धुराणि विचित्रतरनलेलोत्पत्त्युदन्तदन्तुराणि अतिविमलवाराणसीशवंशविचरणविस्तारितानि वासवानुजकृपाप्रबृद्धवृष्ण्यन्धकान्वयविमलविपुलचरितानि एतावताऽनुवर्णितानि॥१॥

तस्याद्भुतोरुचरितस्य कथां ब्रवीमि
कृष्णावतारविहितामिह तामहो या।
भूतेषु कल्पलतिकेव समीहितानि
सूते यथारुचि मनाङ्मनसि स्मृतैव॥९॥

नारायणो निखिलसद्गुणपूर्णदेहः
सर्वेश्वरो हरिरचिन्त्यमहाविभृतिः।
भूत्वोरुधा स्वयमिदं निखिलं ममर्ज
या वै गुणत्रयविभिन्नमभिन्नरूपः॥१०॥

सर्गे पुन पुनरजेन रजोभियोगाद्यो
वा सृजत्यखिलमेव जगद्विचित्रम्।
अन्ते हरत्यपि हरेण तमोभियोगा–
त्सत्त्वेन रक्षति सदा स्वयमेव देवः॥११॥

भूमिः खलोद्धरणनिर्भयसर्वराष्ट्र–
संवर्धिताश्चगजपत्तिभराभिखिता।

संप्राप गेहमभयाय सरोजयानेः
सन्नेव नौः पयसि नाविकबुद्धियोगम्॥१२॥

ग—अथ शतमग्वमुग्वा सर्वेऽपि गीर्वाणाः संघीभूय सत्वरमुरुतरमरमसहन्त्या शरणमभिलषन्त्या तया भूम्या सह सरोरुहासनमग्रतो निधाय निखिलमुनिजनमनोभीष्टपेटिकाभिः सर्वर्तुसमुदयसमुज्जृम्भितामदमोदिताखिलदिग्वधूटिकाभिः विविधवनवाटिकाभिः सुभृशमकृशोदरी वदरीमासेदुः॥२॥

ग— तत्र ते सकलचराचरपरिपालनपटीयसीं अतिचिरन्तनप्रेयसीं कामपि योगनिद्रामुद्रां भद्रामासाद्य रहसि शयानं खगेशयानं समालोक्य सविनयभयमञ्जलिकमलमुद्वहन्तो रोदसीकुहरमामोदयन्तो निखिलश्रुतिहितरवैर्जयस्तवैरेव देवमेवं प्रबोधयामासुः॥३॥

जयजय जहि निद्रां सर्वलोकैकभद्रां
जगति भवतु यज्ञः प्रोत्थितो देव यस्त्वम्।
सपदि विकमतां तौ तेऽक्षिणी पुष्पवन्तौ
वयमपि तव गात्रं स्याम कामाभिपूर्णाः॥१३॥

ग— एवं प्रबोधितो भगवान् प्रपन्नार्तिहरणविचक्षणः सरोजेक्षणः सपदि शयनोत्तमादुत्थाय पुरतस्सविनयमुपस्थितानेतान् विधि-शतमखमुखान् बर्हिर्मुखान् प्रभातसमयममुन्मिषत्कुशेशयगर्वसर्वस्वतस्करैःनिद्रारुणितनिजनयननिर्यन्मरीचिवीचीविस्तारैरा-मोदयन् सुधारसमधुरधारासहचरी अपारकृपाकूपारनर्मकुमारीं निजदरस्मितचिरधारासहोदरीं वाचमाचष्ट॥४॥

को वा कामो भवतु भवतां देवताः स्वागतेबः
का वा भीतिः कथयत कुतः कम्य किं केन कार्यम्।
क्रब्यादानां खलु चरितैर्जातमस्वस्ति लोके
कस्मिन् कोधः पततु स हि मे कोऽस्तु पात्रे कृपायाः॥

ग— एवं भगवतः कुशलानुयोगपुरस्सरोअम्भोदनिनदगम्भीरोगिरां सरणिमाकर्ण्य सपदिसमेधितानन्दनीरधिनिमज्जमानमानसाः सुमनसः तस्मै परस्मै पुंसे विज्ञापयामासुः॥५॥

ग— भगवन् कथमस्वस्ति सम्भवेद्भस्त्रियमुपादेशितानामस्माकं; किं तु भवता समुद्धृतेषु निखिलरक्षःकण्टकेषु निरन्तरनिरन्तरायसम्पादिताभिः अध्वरक्रियाभिः अनेकशः प्रतिनगरमहरहः प्रवर्धमानैः राजन्यसैन्यसमुदयभरैः अतिदैन्यमापन्ना सन्ना करणिरिव शरणैषिणी धरणीयमस्याः शरणीभवता भवता भारावतरणमवश्यकरणीयमिति॥६॥

अथ विबुधसमूहैस्साकमुर्ब्या च सोऽगा-
त्कनकवसनवीतो द्राग्जटामण्डलाढ्यः।
स्वगपतिमधिरुढो दिव्यरूपस्मरूपं
मणिरुचिरसभाढ्यं मेरुशृङ्गं मुरारिः॥१५॥

ग— तत्रविचित्रतरतपनीयविमानवेदिकास्तम्भतोरणायुतखचितवि-विधरत्नरश्मिच्छटामण्डलैरयुतमार्ताण्डमण्डलोदयप्रकाशं सभान्तरप्रदेशं प्रविश्य किमप्युपचारपरिष्कृतमत्यद्भुतं विमानमधिरुह्य दिव्यासनसन्निविष्टेविष्टरश्रपसि यथोचितासनसन्निविष्टेषु च त्रिविष्टपाधिपतिविशिष्टेषु देवेषु प्रतिविमानतोरणस्तम्भलम्मावनमन्दारमालिकापरिमलमिलन्मिलिन्दबृन्दनिरर्गलनिर्गलद्गीतमा-धुरीश्रवणकुतूहलेनेव प्रकृतकार्यगौरवेण विधिना मरुन्मुखेन संरुद्धेषु सकलकलकलेषु सूचितसमया सविनयमुत्थाय धरणी करुणमिदमरुणतरुणातपाक्रान्तघर्मान्तजलदगर्वसर्वस्वहारिणे स्वर्णाम्बरधारिणे शङ्खचक्रगदाधारिणे किमपि व्यजिज्ञपत्॥७॥

देव त्वयैव हि पुरा परिपूर्णवस्या
या मेदिनीविरपरिकटभवेदसाऽभूत्।
पृथ्वी प्रवृद्धमनुद्यरुभराभिखिन्ना
साऽहं तवाद्य चरणौ शरणंप्रपन्ना॥१६॥

दंष्ट्रा वराहवपुषस्तव यज्ञमूर्तेः
यामुद्दधार सहसा विलयाब्धिमग्नाम्।
या रक्षिता त्रिभुवनक्रमणेऽपि भूयः
साऽहं तवाद्य चरणौ शरणं प्रपन्ना॥१७॥

या भार्गवेण भरनिर्हरणेच्छयैव
संसूदिते नृपकुले क्षतजेन दिग्धा।
दत्ताऽस्मि कश्यपभुवे मनत्रेऽथ तेन
साऽहं तवाद्य चरणौ शरणं प्रपन्ना॥१८॥

एवं निशम्य भगवान् भुवनार्तिहारी
मा मैः शमं व्रज धरे धरणीति सम्यक्।

गम्भीरमञ्जुवचसा स महीं सुहृष्टां
तां केकिनीमिव घनस्तनितेन तेने॥१९॥

ग— अथ विरञ्चिरपिविदितविष्ण्वभिप्रायः प्राह पुरन्दरप्रमुखान् “देवाःसर्वेऽपि यूयमुर्व्यां वृष्ण्यादिकुलेष्वात्मप्रतिरूपाः प्रजाः प्रजनयध्वम्।पुराकदाचिदम्मोधिरोधसि काश्यपेन सह पूर्वप्रवृत्ताः कथाः प्रकुर्वतो ममपयोधिरूत्तुङ्गतरङ्गया गङ्गया सह समरुद्घनतरङ्गवेगं वेलामतिक्रम्य विजृम्भमाणःशान्तो भवेति वदति मयि तनुत्वमापन्नः शापेन मम शन्तनुरिति भारतान्वयेसम्भूय तदनुरूपमेव भुवि प्रवृत्तायां गङ्गायां वसुषु सप्तसूत्पन्नविनष्टेषु अष्टमं चिरायुवमात्मजनुषमासाद्य पुनरपि काञ्चन स्त्रियमुद्वाह्यतस्यां विचित्रवीर्यनाम तनूजमुदपादयत्**॥८॥**

ग—तस्यापि धृतराष्ट्रपाण्डुनामानौ द्वौ सुतौ उत्पन्नौ साम्प्रतं भुवनमलङ्कुरुतः। तयोः प्रथमस्य भार्यायाः गान्धार्याः अपरस्य भार्ययोः कुन्तीमद्रतनूजयोरपि तनुजानामन्योन्यकलहो भविता। तेन भुवोऽस्याः भारावतरणंभविष्यति” इति**॥९॥**

ग— अथ भूरपि स्वयंभूगिरमाकर्ण्य स्वस्थचित्ता निरगात्। देवाश्चयथानियोगमकुर्वन्**॥१०॥**

अथ विपुलजटावानाजिकेलीविनोदी
ज्वलदनलसावर्चा जातरूपोपवीती।
विधुकरसितवासा वेदगान्धर्ववेदी
करतलधृतवीणः केशवं नारदोऽगात्॥२०॥

अधिगभमधिदेवं माधवं मन्त्रभेदी
सरभसमुपयातोलोकवृत्तान्तदूतः।
दिशि निजवीणायानसौरभ्यवेणी–
विहरणमुरु तत्वन्नुज्जगौ नारदोऽसौ॥२१॥

सुचिरमिह रमेशस्याग्रतः साव्जयोनेः
रुचिररणितवीणादण्डनीलाम्बुदौघे।
विरमति बहु वृष्ट्वा गीतसौरभ्यधासः
गिरिसरिदिव जज्ञे गीरियं नारदस्य॥२२॥

अत्यद्भुताऽस्ति मधुरा मधुरेति काचि–
त्तीरे पुरातनपुरी मिहिरात्मजायाः।
सन्तुष्टपुष्टजनशोभिषु शूरसेने–
ष्वक्ष्णोर्महोत्सवकारी कवरी पुरीणाम्॥२३॥

यत्रेन्द्रनीलमणिनिर्मितनाट्यशाला–
निर्यन्मृदङ्गनिनदे वननादबुद्ध्या।
नृत्यन्ति केकिनिवहाविततोर्ध्वबर्हाः
तत्पारितोषिकमभूत्स्मितमङ्गनानाम्॥२४॥

नब्येन्दुकान्तमणिनिर्मितसप्तजाला
दिव्येन्द्रनीलभवता यमुनान्तलता।
सादृश्यमुद्वहति या नववारियाह-
रत्नार्वसङ्गपविरोरुङ्कमूर्तेः…………॥२५॥

आज्ञां वहन् शिरसि रावणवंशवह्नेः
रामस्य रत्नमकुटीमिव शत्रुहन्ता।
शौर्योदधौ स लवणं लवणं विधाय
यां तद्वने मधुवने विदधे विशालाम्॥२६॥

यस्यां कदाचन पथा किल चन्द्रशाला–
जालान्तरं निशि विशन् प्रहतोऽङ्गनायाः।
पत्रं कुचे रचयता कुपितेन केना–
प्यद्यापि नोज्जति कलङ्कमिमं हिमांशुः॥२७॥

खद्योतसञ्चयधिया पतते खगाय
रत्नानि हन्त वितरन्ति वणिक्कुताराः।
शूद्रार्भकाश्चणकमुष्टिमुदग्रधान्य–
राश्यग्रगा अपि रवेस्तुरगाय यस्याम्॥२८॥

काल्ये शुभैर्द्विजसुतोदितवेदघोषै–
स्तूर्यस्वनैरपि सदा प्रतिबुद्धसत्त्वाम्।
यामभ्युपैति सरसीषु सुखंविहर्तुं
वाहोविधेरपि दिशासु निशामिवेन्दुः॥२९॥

ज्योत्स्नीषु यत्र यमुनावनवीधिकायां
विष्वक्प्रक्लृप्तमणिकुट्टिमवेदिकासु।
क्रीडन्ति पौरमिथुनानि तृणाय मत्वा
पौरन्दरोपवनकामविहारसौख्यम्॥३०॥

तामावसद्गजतुरङ्गवतीं स राजा
कोऽप्युग्रसेन इति भोजकुलाब्धिराजः।
सामन्तराजगजराजमृगाधिराजो
यस्सम्पदा वितरणेन च राजराजः॥३१॥

तस्यात्मजो निजभुजार्जितभूरिकीर्तिः
कंसोऽद्य ह्यास्ति स महीं पितरं निरुद्ध्य।
प्राक्तारकासुरजये शमितस्त्वयैव
यः कालनेमिरिति दुस्सहकालकूटः॥३२॥

येये त्वया युधि पुरा दनुजा विशस्ता–
स्ते साम्प्रतं मनुजतामुपगम्य लोकान्।
मथ्नन्ति तांस्त्वमवतीर्य महीतलेद्राक्
भानुर्यथा हिमचयान् गमय प्रणाशम्॥३३॥

अंशैर्बभूवुरमरा भुवि सर्व एव
भूमेर्भरावतरणाय यथानियोगम्।
किं तैर्भवेदनवतारवति त्वयीह
तारागणैरनुदिते शशिनीव रात्रौ॥३४॥

यदा धर्मग्लानिर्भवति महतामुत्कटभयं
दुराचारक्रूराद् द्रुहिणवरदृप्तासुरजनात्।
तदाऽऽत्मानं भूमौ सृजसि विबुधानामभयद–
स्त्वमेवंसङ्कल्पः कथमिह चिरायस्यवसरे॥३५॥

इतीरितमतीव मृद्वतुलितं वचो नारदा–
द्धिताय जगतो हरिर्निजमतं निशम्यादरात्।
वचोमृतमवाकिरद्विदितमेव सर्वं ममे–
त्युवाच च पुनर्विधिं क्वनु कथं जनिर्मेऽस्त्विति॥३६॥

अथ विधिरिदमूचे कश्यपः शापतो मे
ह्यदितिसुरभिवाचा गा हरन् पाशिनोऽभूत्।
अधिमहि वसुदेवो देवकी रोहिणी ते
स भवतु तव तातो मातरौ स्तां च ते द्वे॥३७॥

ग—एवं विज्ञापितो भगवान् स्वसदनगमनाय वेधसमनुज्ञाप्य स्वयमवतारोन्मुखो बभूव**॥११॥**

अथ नारदोऽपि सत्वरं मधुरां प्रविश्य कंसेन विधिवदभ्यर्चितः सुमेरुशिखरवृत्तान्तमस्मै निखिलमावेद्य देवक्याः पितृष्वसुरेव तेऽष्टमो गर्भः तवरिपुर्भविष्यत्येतदतिरहस्यमत्याप्ततयाऽभिहितमतोऽद्यैव निखिलकामैरात्मानमापूरयेत्याख्याय यथागतं निरगात्**॥१२॥**

कंसोपि हसन् किमिदमिति किमिदन्तरेव निध्याय निजनगरमभितस्सघोषमाघोषयन्निव स धृष्टं स्पष्टमिदमाचष्ट**॥१३॥**

अनृतमिदमलीकं नारदः प्राह भृत्याः
दिशि दिशि विहरध्वं सत्त्वहिंसाभिरद्य।
लसति निशि हिमांशौ कैरवाणामिवार्का–
न्मयि सति मनुजा वो माधवान्माऽस्तु भीतिः॥३८॥

ग—पुनरपि स भोजसूनुश्चिन्तयाऽहन्तया च मुहुर्मुहुरुपकृष्यमाणःनिवचनमक्षममाणः मन्त्रिभिस्सह संमन्त्र्य देवकीगर्भनिर्भेदनमेव निजमनःखेदशमनममन्यत**॥१४॥**

इममप्युदन्तं अम्भोजासनतनूजोऽञ्जसाऽम्भोजलोचनाय सर्वमाचख्यौ**॥१५॥**

तदनु हरिरपि पातालनिलयान् कालनेमितनयान् कमलासनवरेणसर्वावध्यानपि हिरण्यकशिपोरात्मान्यतो वरार्थननिमित्तेन शापेन स्वपितृवध्यान् जलगर्भशायिनः षड्दैत्यान् क्रमेण योगनिद्रया देवकीगर्भमुपनिनाय**॥१६॥**

जातांस्तान् क्रमशो निकृत्य मुमुदे गर्भानुदग्रायुधो
व्याधोऽत्यल्पमृगार्भकानिव मुदुः कंसो नशिष्यन्नसौ।
विद्युत्पातविमृद्यमानविटपीधाराधरोद्यत्पयो–
धारापातविधूननेन कुतुकी भूयान्न किं द्विक्षणम्॥३९॥

दुर्मा संस्तवतोषिता नृहरिणा ह्युक्ता वरैस्तर्पिता
देवक्या अपि सप्तमं समनयद्गर्भं यदा रोहिणीम्।
गर्भोऽस्या गलितो भयादिति जना ऊचुस्तदा रोहिणी
प्रासूतात्मजमंशतः फणिपतेर्यश्शुक्लकेशो हरेः॥४०॥

अथ किल मधुरायामष्टमं देवकी सा
रुचिरमहनि यस्मिन् गर्भमाधत्त देवी।
अभवदहनि तस्मिन् गर्भिणी गोकुले साऽ–
प्यधिकसुकृतभूमिर्नन्दुपत्नी यशोदा॥४१॥

हरिरिह वसुदेवप्रेयसीगर्भमागा–
द्विकचनलिनगर्भंभृङ्गराजो यथैव।
अपरमथ यशोदागर्भदुर्गं च दुर्गा
परिचितपरिहूता पञ्जरं शारिकेव॥४२॥

अजमजरमनन्तं श्रीशमभ्येत्य भूमौ
त्रिजगदवनहेतोर्देवकीगर्भसंस्थम्।
हरिमुचितवचोभिः खस्थिता एवसर्वे
विधिमुखसुरसङ्घास्तुष्टुवुर्देवदेवम्॥४३॥

घनतमसि निशीथे गाढनिद्राविमूढे
जगति शुभमुहूर्ते देवकीनन्दपत्नचौ।
सममथ सुषुबाते माधवं चास्य मायां
शतमखहरिदिन्दुं द्यौर्यथा कौमुदीं च॥४४॥

न केवलं वृष्णिकुलं पवित्रितं
जगत्समग्रं न परं विमोहिताः।
आरक्षका एव निसर्गदुर्जनाः
सर्वेऽपि तत्राद्भुतबालजन्मना॥४५॥

स्थाने हि तद्यदभवद् धनपुष्पवृष्टिः
स्वर्दुन्दुभिध्वनिरथोऽप्सरसां च लास्यम्।
हा तद् द्वयं कथमनन्तघनोदयेऽस्मिन्
ज्योतीषि जज्वलुरलं बिमला दिशश्च॥४६॥

भ्राजत्किरीटमणिकुण्डलमेखलाग्र्य–
केयूरहारवरकङ्कणनूपुराढ्यम्।
इन्दीवंरद्युतिमुषा वपुषाऽऽत्तदिव्य–
पीताम्बरं करधृतासिगदाब्जचक्रम्॥४७॥

विद्युत्पिनद्धसबलाकसशक्रचाप–
सन्ध्याम्बुदद्युतिमनोहरभघ्यरूपम्।
श्रीवत्सवक्षसमुदैक्षत मन्दहास–
स्मेराननाम्बुरुहमानकदुन्दुभिस्तम्॥४८॥

आनीलकुन्ञ्चितशिरोरुहशोभमान–
वक्राम्बुजं विमलपद्मदलायताक्षम्।
बालं विलोक्य वटपत्र इव स्वमातु–
रङ्के शयानमवदत्स हि भीतभीतः॥४९॥

रूपं तदेतदुपसंहर विश्वमूर्ते
कंसाद्बिभेमि कलुषादिव पुण्यशीलः।
पत्न्याऽनया परमपुरुष हर्षशोक–
मध्यस्थया सह नतोऽस्मि तवाङ्घ्रिपद्मम्॥५०॥

तेनोदितस्तमुपसंत्दृतदिव्यरूपं
बालं निनाय शयनं स तु नन्दुपत्न्याः।
तद्बालिकां निजवधूशयनं च सिन्धु–
श्चन्द्रं यथा खमुदकं नवचन्द्रिकां च॥५१॥

तन्निर्गमागमनयोर्वसुदेवदेव्योः
शोकायुतं विघटितं न कवाटमात्रम्।
हर्षायुतं सुघठितं न पुनस्तदेव
तीर्णा भयाश्रुतटिनी न रवेस्सुतैव॥५२॥

ग—अथ नृशंसः कंसः वसुदेवनिवेदितदेवकीप्रसवः सरमममुत्थायतत्सूतिकागृहान्तिक्रमागतः पाहि पाहि दारिकेयमिति बहुशोऽर्थपन्त्याएवगलदश्रुस्रवन्त्यास्तस्याः बालिकारूपं जगति समुन्मिषत्किमपि देवताङ्कुरं कुञ्जर इव रम्भाङ्कुरं समाकृष्य सत्-रवमात्मनो यशस्यायुपि वपुषिच स्वयमेव कुण्डलनामारचयन्निव नभसि बहुशस्तद्भ्रामयन् शिलातले सुदृढमपोथयत्**॥१७॥**

साऽपि शारिकेव तत्करकमलपञ्जरान्निर्गत्य शिलातलमस्पृष्ट्वैव गगनतलमुत्पतन्ती दारिकारूपमुपसंहरन्ती साहसमिदमभिदूषयन्ती उच्चैः परिहसन्ती विविधवरायुधपरिष्कृताष्टभुजेन विमुक्तमूर्धजेन रूपेण रोदसीकुहरमुद्द्योतयन्ती कंस किमनेन वृथा श्रमेण स तु संवर्धत एवापरत्र यः खल्वनतिचिरमेव तव शोणितेन मामाप्याययिष्यतीति गिरमुदीर्य निखिलदेवैरभिष्टुता वृष्ण्यभीष्टदेवता भूत्वा किमपि देवतासदनमाससाद**॥१८॥**

अथ कंसोऽपि भग्नप्रयत्नतया समुद्विग्नहृदयः निजापराधं क्षमापयन्रहसि देवकीपादमूले निकृत्तमूलःसाल इव निपत्य भग्नदंष्ट्रो भुजङ्गम इवनिश्वसन् वेष्टमानः तया देवक्या दैवकृतं विज्ञाय कथंकथमुत्थापितोऽपि दूयमानान्तःकरण एव निजशरणमाजगाम**॥१९॥**

व्रजमथ वसुदेवप्रेरितोनन्दगोपः
ससृतवनित एव प्राप कंसोपकण्ठात्।
तपनदुहितृतीराद्गोपगोपीमहस्रै–
रवि दधिघृतगन्धैः पूरितं गोगमृद्धम्॥५३॥

तत्र मल्बैव गार्ग्योपि जातकर्म्मदिकाः क्रियाः।
कारयामास विधिवद्रोहिणीनन्दपुत्रयोः॥५४॥

सामैवं स तयोश्चक्रेवसुदेवपुरोहितः।
सङ्कर्षणो रौहिणेयः कृष्णोऽयं नन्दनन्दनः॥५५॥

• इति हरिवंशचम्पौ प्रथमो विलासः समाप्त।

<MISSING_FIG href="../books_images/U-IMG-172753009929.png"/>

अथ द्वितीयो विलासः
<MISSING_FIG href="../books_images/U-IMG-172753157629.png"/>

ब्रजभूवि ववृधाते वल्लवीलोचनान्तः–
करणचयचकोरीकैरवाह्लादिरूपौ।
शमितभुवनतापौ ताविमौ बालरूपौ
शरदि विशदपक्षे शीतरश्म्यम्बुधीवा॥१॥

शिशुरपि स कदाचिच्छौरिरुत्तानशायी
पृथुमपि शकटाक्षं पातयित्वा सलीलम्।
क्षुधित इव मनोज्ञा दर्शयन् बालचेष्टा
निजमृदुकरपादं प्रोत्क्षिपन्नारुराव॥२॥

शकटभयविमुक्तं सक्तमङ्के स्वमातुः
निजसुतमवलोक्य प्रेमबाष्पं विमुञ्चन्।
सकलभुवनरक्षादीक्षिततस्यापि नन्दः
तदुचितमनुतन्त्रैस्तस्य रक्षां वितेने॥३॥

अथ रहसि निशीथे पूतना कंसधात्री
गरलप्रदिशदस्मै स्वस्तने न्यस्य सोऽपि।
तदपिबदसुमिश्रं तां मृतां चक्रवच्च
प्रभुरहह पदेन स्वेन चिक्षेप दूरात्॥४॥

गरलमपिबदेको नन्दगोपस्य बालो
भुवनभयदरूपा सा मृताऽन्येति चित्रम्।
न परमपरमेतत् स्तन्यदा सा मुकुन्दे
यदभजत विमुक्तिंमोदमन्ये व्रजस्थाः॥५॥

एकप्रमाणगतिवेषवयोविलासौ
जानुप्रसर्पणपरौ बलरामकृष्णौ।
क्रीडाभिरध्वनि परस्परसम्प्रसक्तौं
व्योम्नि प्रभाभिरिव शारदचन्द्रसूर्यौ॥६॥

विक्रीडतोःपथि रजोभिरहीनतन्वोः
जानुद्वयेन भुवि चंक्रमणादिरूपा।
लीला बभूव बहुधा बलनन्दसुन्वोः
तस्मिन् व्रजे कलभयोरिव काननान्ते॥७॥

अथ नवनवनीतंतक्रभाण्डान्तरस्थं
व्यभजदनुचरेभ्यो बालकेभ्यो यथेष्टम्।
मुहुरपि स हि कृष्णो व्योमभाण्डान्तरस्थं
शशिनमिव सुरेभ्यो भागशः कृष्णपक्षः॥८॥

तक्रं पयो दधि घृतं स्वयमेष हृत्वा
पीत्वा यथेष्टमवशिष्टमदाच्छिशुभ्यः।
भूयः क्वचित्पृथगमूनि यथाविनोदं
बालो व्यमिश्रयदथाप्स्वनलेऽक्षिपच्च॥९॥

करधृतनवनीतो देवकीसम्प्रसूतः
स्मितरुचिधवलाशो नीलवज्रप्रकाशः।
उरुदधिकदिग्धोबालकेलीविदग्धो
ह्युडुशशिकरचित्रं व्योम जित्वा ननर्त॥१०॥

वत्सानपाययदुपायत एव धेनूः
बालांश्च सोऽजयदनेकविहारभेदैः।
दध्यादिकं च हरतो ददतोऽर्भकेभ्यः
नास्य स्वगेहपरगेहविवेचनाऽभूत्॥११॥

बालानाकृष्य केशैरयमहह मिथो गोपि बध्नाति कुम्भान्
सङ्ख्यातीतान् भिनत्ति प्रसभमुरु दधि क्षीरमश्नाति नित्यम्।
दुष्पुत्रे पश्य यामः क्वनु कथमिति सा गोपिकाभिर्यशोदा
रुद्धा मुग्धाऽतिरोषात्सुतमथ सहसोलूखले तं बबन्ध॥१२॥

स्थाने हि सन्ततमनन्तगुणैस्सुपूर्णो
देवो यतोऽभवदनन्तगुणैरपूर्णः।
माताऽपि तस्य तत एव गुणैरबद्धं
बालंचकार सहसाऽत्र गुणैकबद्धम्॥१३॥

कर्षन्नुलूखलमिमं यमलार्जुनाभ्यां
रुद्धो बभञ्ज तदिमौ स समूलमेव।
मद्रोधिनां गतिरियं सहसा भवित्री–
त्याख्यापयन्निव तदीयरवैस्त्रिलोक्याम्॥१४॥

अमुमथ समुदीक्ष्य द्राग्यशोदाऽद्य दैवा–
त्त्वमसि तरुविमुक्तस्तात मत्पुण्यराशे।
भजभज भुजमध्यं वत्सवत्सेति वाचा
निजसुतमुपगृह्य प्रेमसान्द्रा बभूव॥१५॥

अथ कृतबहुलीलौ रोहिणीनन्दवालौ
श्रवणनिहितपिञ्छौ पल्लवापीडवाञ्छौ।
हृतमधुफलमूलौ नीलपीतोरुचेलौ
वनभुवि विहरन्तौ वत्सपालावभूताम्॥१६॥

क्वचिद्गायन् गेयान्यतिमधुरमालोलनयनं
क्वचित्पश्यन् दध्योदनममृतकल्पं च संबलः।
क्वचित्खेलन् बालैः क्वचिदपि पिबन् पेयममलं
ब्रभौ कृष्णो वत्सैर्वनभुवि यथाऽर्को दिवि करैः॥१७॥

ग—अथ पूतनाशकटसंहारिणाहरिणा निजरोमकूपेभ्य एवस्वेच्छया समुत्पादितैर्वृकव्रातैः सर्वतोऽवरुद्धेषु गोकुलप्रवृद्धेषु नृपशुमुख्येषु गोपमुख्यो नन्दस्सत्वरं स्वकुलवृद्धैस्सह संमन्त्र्य व्रजमन्यतो नेतुकामः सपदि नभसः समुपस्थितेन नारदेन प्रतिपादितस्य बलकृष्णप्रभावामृतस्य पानेनव्यर्थीकृतवसुदेववचश्शुष्कपाथेयः तत्क्षणादेव तद्वनान्निर्गत्य निजाज्ञयासर्वतःप्रचलितैः घनपटलैरिवशकटघटघरट्टोलूखलैरिन्द्रचापघटिताभिस्तटिल्लिताभिरिवविविधवस्त्रविचित्रिता-भिर्गोपवनिताभिः तरङ्गान्तरेभ्य इव गोपरम्परान्तरेभ्योमुहुर्मुहुस्सखेलमुत्पतद्भिः सलिलकणैरिव सकलगोवत्सगणैः तिमितिमिङ्गिलैरिव निखिलगोपालै रतिरमणीयं सुमुद्रमिव स्वघोषं प्रकर्षन् यमुनातटेघटितविविधवनवीधिकापराजितपुरन्दरनन्दने अनतिदूरगोवर्धने अक्षीणतृणकाष्ठजीवनेसकलपशुबृन्दावने बृन्दावने निवेशयामास**॥१॥**

तृणसलिलसमृद्धे तत्र बृन्दावने तौ
प्रमुदितपशुवृन्दं चेरतुश्चारयन्तौ।
शुकपिकरमणीयैश्चूतपुन्नागजाती–
सरलवकुलनीपैः शोभिते रामकृष्णौ॥१८॥

वातैश्शोषितवापिको दवशिखिज्वालावलीढाचलः
सन्तापैर्महिषापमृत्युरबलावक्षोजविक्षोभदः।
अन्धीकृत्यतुरङ्गमानपि रवेर्वेगं रजोभिर्हरन्
निद्रालस्यनिदानमूर्तिरवनौ जज्ञे निदाघो महान्॥१९॥

अथ भुवि दिवि घर्मेवर्धमाने व्रजस्थाः
जनितविविधरोगाः भानुजावायुनासन्।
नवविवरसृतासृक्चर्चितास्तेऽप्यभूवन्
द्विजमृगपशुसङ्घा ये तु बृन्दावनस्थाः॥२०॥

ग—तदनु वृद्धगोपालपण्डितैः शास्त्रसम्मतैर्मन्त्रभेषजादिभिरप्यपरिहार्यविक्रमै-र्विविधव्याधिसङ्क्रमैर्गतागतप्राणेष्वाबालस्थविरमखिलगोपगणेषु निष्पन्देषु च निखिलपशुबृन्देषु तमोमुकुलितेषु नीरजेषु मल्लिकाक्षयोरिवाक्षीणतेजसोर्बलकृष्णयोरप्यविदितमूलयोरिव स्थितयोः कोऽपि गोब्रजभाग्यशेषइव सहसा विदेहादागतो गोपालवर्यस्त्यक्तधैर्यानेतान् समीक्ष्य सधैर्यं स्फुटमवादीत्**॥२॥**

ग—भोभो गोपालवर्याः अलमलमिह मन्त्रतन्त्रौषधैः कैलासनिलयःपशुपतिरेव परा गतिः पशुपालकानामस्माकं द्विजमुखेन द्विजराजशेखरंतमेव सत्वरं सम्पूज्य शरणमाव्रजत स ह्यपारव्याधिचिन्ताकूपारतारको भवतां भविष्यतीति**॥३॥**

ग—तदनु तेष्वपि शिपिविष्टपूजानिविष्टान् द्विजशिष्टानाहूयसम्प्रार्थयत्सु तैर्द्विजैः क्वचन देवायतने शिवं संस्थाप्य सप्ताहोरात्रमस्खलितंप्रवर्तितैः पूजोपचारवर्णनैःविविधवाद्यनर्तनैः तोषितेन रजताचलनिकेतनेनसदयं सम्प्रेषितश्शङ्कुकर्णो नाम कश्चिद्भूतगणप्रविष्टः कस्मिंश्चिद्वेदविदि विप्रेकृतावेशो गोपान् विस्मापयन् वारिदस्तनितगम्भीरं वामदेवनिदेशमेवं प्रकाशयामास**॥४॥**

सञ्जातो द्वापरान्ते कलिरिह यमुनातीरभूमौ कपित्थः
तत्कामिन्यश्च गावस्तदनुगनिकराः कण्टकोरुद्रुवल्ल्यः।
तत्पुत्रा वत्सभूताः फलसुसमयः साम्प्रतं द्वादशाब्दात्
तद्वृक्षाणां विषोग्रैर्वजमखिलमभून्मूर्छितं तिग्मगन्धैः॥२१॥

छेत्तारौ तद्विषद्रुव्रततिपशुततेर्द्वाविमौ रामकृष्णौ
भेत्तारौ सर्वरक्षःप्रवरशिखरिणां वागतिनेतरोऽस्ति।
आहैवंशूलपाणिर्गिरमुरुकृपया भक्तितुष्टोऽद्य गोपाः
तंवक्तुं तद्गिरा वस्सविधमुपगतश्शङ्कुकर्णोऽहमस्मि॥२२॥

ग—एवं चन्द्रशेखरगिरमाकर्ण्य यदुवंशशेखरः सङ्कर्षणेन सह निर्गत्य कतिपयगोपकुमारैरनुगतो यमुनातटं प्रविश्य तत्र सुरेन्द्रकेतुवत्समुच्छ्रितमत्यन्तपरिणाहमतिक्षारकटुगन्धदुस्सहं कपित्थभूरुहमासाद्य सहुंभारवमासादितेषु गोबृन्देषु बलभद्रेणकाष्ठपाषाणगणविक्षेपणैर्दिशो दश विद्रावितेष्वपितद्वत्सगणैः खरतरखुरविषाणकोटिकुट्टनैर्विद्रावितेषु निखिलमोपकुमारेषु स्वयमनुद्विग्न एवैकैकशः पदे प्रगृह्य निभृतमाविद्ध्यवियति सुविसृष्टैरप्यसुविसृष्टैस्तैरेव तत्तरुमखिलमधः पातयित्वा तमपि तरुवरं तत्परिवारतरुभिस्तदन्तरलतागुल्मैश्च सह निजकरकुठारविहारेणशकलीकृतं तदखिलं समूलमनलसात्कृत्य तत्कर्मणाऽतिहृष्टैर्गगननिविष्टैस्सुरैस्सस्तवं सदुन्दुभिनिनदं कल्पद्रुमकुसुमसमूहैः कीर्यमाणः गोपालकैस्सह यमुनां प्रविश्य निर्वर्तितविविधजलविहारोगोपदारोपहृतं विविधमन्नमश्नन् आसायंविश्रम्य ततो निर्गतः पथि सभ्रूविजृम्भहासनर्तनमाननप्रवर्तितैःपटहवेणुवीणादिवाद्यरवैरनिमिषानप्यानन्दयननिजनिवास-माससाद**॥५॥**

इति विषतरुदाहध्वंसिताशेषदोषे
शुभगुणरमणीये तत्र, बृन्दावनान्ते।
सुखमखिलनिदाघंरौहिणेयेन साकं
चिरमरमतकृष्णश्चारयन् गोसमूहम्॥२३॥

अथ भुवि घनकालः प्रादुरासीद्यदा भूः
नवसलिलसुवृष्टा शोभितारम्यगन्धैः।
स्फुटकुटजकदम्बैर्वासिता सिन्धुहारा
मदशिखिकलगीर्भिः गायतीबाब्जनाभम्॥२४॥

साटोपं वलयीकृतेन्द्रधनुषा सोद्गर्जितज्यारवं
वेगात्तेन विदिक्षु दिक्षु किरता विद्युत्पुषत्कावलीः।

प्रावृठ्कालमहास्थेत सहसा घर्माभियातिर्भृशं
भग्नोऽप्यच्युतभाग्य एव स यतो लीनस्स्तने योषिताम्॥२५॥

ग—एवं मयूरसमुदयमहोदयं घनोदयं समीक्ष्यसङ्कर्षणस्सहर्षमनुजमिदमभाषत**॥६॥**

त्वत्कीर्तिविक्रमजितौदिवि चन्द्रसूर्यौ
युक्तं हियाविचरतो मुहुरभ्रलीनौ।
कान्त्या जितोऽपि मलिनोऽम्बुद एव तेऽग्रे
कृष्ण प्रसर्पति मुहुर्धिगिमं विलज्जम्॥२६॥

विद्युदङ्कुशविद्धस्य सोग्रस्तनितघींकृतम्।
वाराशुण्डाप्रसारोऽयमाभाति घनहस्तिनः॥२७॥

इत्यादिवलभद्रस्य भाषितं भावभूषितम्।
शृण्वन्नेव स दाशार्हस्सुखं बृन्दावनेऽवसत्॥२८॥

अथपुरि मिथिलायां कुम्भको नाम गोपः
कुवृषमदनहेतोर्नन्दजायानुजन्मा।
ब्यसृजदतुलबुद्धिर्नन्दगोपायदूतं
शुभगिरमभितोद्राग्घोषयापास चैवम्॥२९॥

भोभोगोपाः सुदुष्टैर्निशिचरचरितैर्भूपकोपास्पदानां
सप्तानामेतदक्ष्णां प्रभवति दमने यस्त्विदानीं बलिष्ठः।
तस्य ग्रीवाविभूषा भवति नहि मृषा कुम्भकस्यात्मजैषा
नीला लावण्यहेलाविहसितचपला चारुतारुण्यलीला॥३०॥

ग—अथ नन्दगोपोऽपि दूतमुखेन विदितनीलास्वयंवरः निखिलगोपगोपिकाभिस्सह स्वव्रजान्निर्गत्य मध्येमार्गमारचितविविधकलभलीलाभ्यां सवयोगणसंवृताभ्यां बलदामोदराभ्यां तोषिताखण्डलमुग्वबर्हिर्मुखमण्डलो दिङ्मण्डलात्स्वयंवरागतैस्सदण्डकुण्डलैः गोपालमण्डलैरतिनिबिडीकृतेन राजमार्गेणसदारज्ञातिपुत्रकेण कुम्भकेन यथायोग्यमभ्युद्गतो विबुधजनवर्णनीयरामणीयकाद्यखिलगुणगणैरशिथिलां मिथिलामाविवेश**॥७॥**

तत्र यथोचितं संमानितेन नन्दगोपेन सह सदसि संनिविष्टस्य स्वजनकस्य कुम्भकस्याज्ञया श्रीदामनाम्ना निजपूर्वजेन सभान्तरमुपनीतां सदाचारेषु मात्रा धर्मदयेव यौवनविलासेषु लज्जयातीव विनीतां प्रत्यङ्गसौष्ठवसंसूचिनपरमेष्ठितृष्टिचातुर्यविशेषां धृतविविधविवाहवेषां शचीमिव सहस्राक्षलालनीयां श्रियमिव मन्मथोत्पादनशीलां नीलां विलोक्य विषमशरशरोर्मिभिरिवकुम्भकोक्तिभिः प्रोत्साहितानां सप्तमहोक्षसमक्षमासादितानां केषु चिदधीरेषु तदीयहुंभारवश्रवणविगलितेन धैर्येण गलदुदकुम्भायितेषु, कतिपयवीरेषु निजकटिगिरिकूटेषुखरतरखरैराचरितशतकोटिविभ्रमाणां तेषां दशगुणं प्रतिकर्तुमिवविषाणकोटिषु यावच्छरीरैर्विहितसहस्रकोटिविभ्रमेषु, अवशिष्टेष्वपि रजोन्धकारनिर्लज्जसुलभपलायनेषु सस्मितं नन्दनन्दनो रोहिणीनन्दनमिदमभाषत**॥८॥**

कालनेमिसुता ह्येते मां हन्तुमिह सङ्गताः।
निहन्तव्या मया राम गोपालान् रक्षता वृषाः॥३०॥

ग—एवं सङ्कर्षणेन सह संमन्त्र्य सङ्कर्षणानुजो भगवान् समिति सन्नद्धमात्मानं जिघांसया युगपदापतितेभ्यस्तेभ्यस्सतभ्योमहावृषेभ्यस्तदीयपटुपदास्यविवाणकोणाभिनयमनोहरसमरदेशी-यलास्यानुरूपमुरुपारितोषिकं प्रदातुकाम इव पृथक्पृथङ्निजपृथुमुष्टिवितीर्णविलक्षणमोक्षः स्वपितृसमक्षमखिलंगोपालकुलमाह्लादयन् आत्तमूर्तिमात्मकीर्तिमित्र प्रकृतिनिर्मलां नीलां सत्वरंप्रत्यग्रहीत्**॥९॥**

तदनुनन्दः स्वसम्बन्धिताकुम्भकेन सुतार्थ समर्पितं बहुगोधनं स्वसुतोदयप्रवर्धितगोसमृद्धिप्रशंसनेन तस्मिन्नेव प्रत्यर्प्यतदनुमतस्सबलनीलमात्मजं पुरोधाय सदारज्ञातिबान्धवसुहृद्व्रजः स्वव्रजमाजगाम**॥१०॥**

ततः—

वर्षापाये निर्मलव्योमतोये
छायाकान्ते तत्र बृन्दावनान्ते॥
रमे मित्रैरन्वितो गोपपुत्रैः
पश्यन् देवः पादपान् वासुदेवः॥३१॥

छायामण्डलशाम्यदातपकथः शाखाशिखासम्भव–द्दिग्रोधोऽखिलशाखिनामधिपतिश्चेतोहरोऽथोवने।
बृन्दं चारयतो गवां निजसखैः भाण्डीरनामा महान्
न्यग्रोधोऽग्रजसंयुतस्य नृहरेः क्रीडावरोधोऽजनि॥३२॥

ग—तत्र कदाचिद्गोपालदारकैः सह विरचितबहुविहारयोः रोहिणेयनन्दकुमारयोः दिग्यात्रार्थमिव तीर्थयात्रार्थं नभोमध्यमिव वनमध्यमध्वना गतावहस्फराविव वपुषाकृशावपि तेजसा अकृशौ वामदेवभरद्वाजौ यमुनामार्गप्रदर्शनमात्रमाकाङ्क्षमाणौ हरिमुपससर्पतुः**॥११॥**

ततस्ताविदं फलपदो दध्योदनमेतच्च पायसादिकं गृह्यतामयमहंनन्दनन्दनः कृष्णोऽसौमदपजो राम इत्यादरवचोभिराराधयन्तमतिविनयं तं साग्रजं शक्रावरजसमीक्ष्यकाविमाविति सपदिसमासादितसमाधियोगसाक्षात्कृतभगवदवतारमहिमानौसानन्दाश्रुप्नुलकगद्गदमिदमवादिषाताम्**॥१२॥**

त्वमादिर्विश्वस्य त्वमसि निखिलं त्वद्गतमिदं
त्वमीशस्सर्वेषामजित परिपूर्णोऽसि नृहरे।
अनन्तैर्मत्स्याद्यैर्भुवनमवतारैरवसि भो
विभो हन्तुं दश्यूनिह यदुकुलं प्राप्य चरसि॥३३॥

नमस्तस्मै तुभ्यं निटिलगतनीलालकरुचे
सरोजाक्षायोरस्स्फुरितवनमालाय नृहरे।
कृपापारावार प्रबलतपसा दुर्लभमिदं
वपुस्तेपश्यन्तस्सततमिह धन्या हि पशुपाः॥३४॥

ग—एवं विहितविविधविष्णुसंस्तवयोस्तयोर्मुनिपुङ्गवयोस्तीर्थनिषेवणाय तद्वनान्निष्त्रान्तयोर्गोपाला अपि गोद्विजसुरनिकरहृद्यैर्विचित्रवाद्यैरत्यद्भुतैर्गीतैश्च यथायोगं योगिध्येयचरणमपारकरुणमेनमाराधयामासुः**॥१३॥**

अथकदाचित्दतुलसालरसालतालहिन्तालतमालकृतमालतिलकामलकवकुलवञ्जुलकुटजलिकुचतकोलाङ्कोलादिविविधतरुनिवहनिविडोभयतटवनमध्यविहारिणीं सकलजनामनोहारिणीं शुभसलिलविहारसंततासक्तसिंद्धाङ्गनास्तनतटविस्रस्तकुङ्कुमोक्षदकल्पितोत्तुङ्गतिलकांभ्रमद्भ्र-मरबृन्दलिकांअतिनिबिडनीलशैवालवेणीसविधसचलन्मीननेत्रस्फुरत्फुल्लपाथोजवदनां दरव्यक्तफेनरदनांमुहुर्मुहुर्हसगरुमलदुकूलाञ्चलाच्छाद्यपानकुमुदकुट्मलपयोधरां अभिनववयःश्रीधरांं वियत्तलसमानावलग्नभासमानावर्तनाभिकुहरां मृदुतरङ्गावलीमनोहरां घनपुलिनजवनश्रोणिमण्डलोद्भासिराकासुधाकरकिरणमञ्जरीप्रकाशकाशपुप्पावलीवसनांविष्वक्प्र-कीर्णविविधसुमवासनां कलक्वणितरुचिरकलहंसविराजमानपद्मचरणां अवौघहरणसंस्मरणां यादःपतियोषां यमुनां अखिलजगद्दुरितदूरीकरणनिपुणप्रणामेनात्मना नोपेक्षणीयं कालियगरलजनितमात्मजाहृदयसङ्कटमिति तत्परिहरणेच्छयाऽऽगतो रविरिवहरिर्गोसहस्रैरुपससार**॥१४॥**

तत्र गाश्चारयन्नेव चचार हरिरव्ययः।
कुर्वंन् पद्भ्यांमहीं धन्यां दृशा सर्वांश्च तद्भवान्॥३५॥

ग—स हरिरेकदा सकलसलिलाशयावसथविविधविहङ्गवर्जित जितप्रलयकालानलगरलकीलिकीलावरणदुस्तरं तरङ्गनिकरदुर्गतापेयतोयच्छायापराजितवियत्तलं तलविचरदुरगदम्पतिचटुलबिहारसंसूचकतरलपृथुलबुद्बुदोपपन्नंपन्नगाशनभयत्यक्तपाथोधिनि-लयकालीयफणिवरशरणप्रदं निकषैकयोजनमुरुतरारण्यभीकरेषु तीरेष्वपि दुरासदं यामुनहृदमुपसृत्य महीधरशिखरलम्बमाननीलाम्बुदनिकरमपहसन्निव तत्तटघटितकदम्बभूरुहशिखरमधिरुह्य तस्मात्स्वविग्रहसुषुमाविशेषतस्करोभयपुष्करोदरं विग्रहव्यापारेणैव क्रमेण निर्भेत्तुकामइवनिबद्धपरिकरो गगनतलमुत्पत्य मध्येसलिलमशनिरिव निपपात**॥१५॥**

उदपततिवेगतोऽभ्रमम्भो
विशति हरौ चकितं रवौ रवैस्तत्।
निजपितरि निवेदनाय नूनं
न्यपतदसुं शरणं पुनर्विचिन्त्य॥३६॥

ग—तदानीमखिलजगदवनबद्धादरो दामोदरो हृदपयसि निपतितनिजतनुवज्रनिर्घातघोषश्रवणकुपितेन तत्क्षणाद्बिलसदनमपहाय बहिर्निर्गतेन निखिलबिलनिश्शङ्कनिस्सरत्सरीसृपसहस्रसंसेवितपार्श्वयुगलेननिर्गमनसमयसंक्षोभितसलिलक-ल्लोलकञ्चुकिकुलप्रतिनिवर्तितकलिन्दजामहौघेनअतितरलभीकरतारकारसनानयनाननावलीसमु-ल्लसद्रोषविषानलज्वालेन भस्मीकृततटनिकटविटपिसंचयेन कालीयमहाफणिना सहजबलदंशितेष्वङ्गेषु आत्तदशनभङ्गतया द्विगुणिनरोषयोगेत भोगेन परिवेष्टितो नभसि घनपटलनिगीर्णनीलाचलशिखिरलीलां निमिषमापुपोष**॥१६॥**

शय्या शेषफणीगृहं च विषधिः जाया विषस्यानुजा
यस्याभूत्सततं यदाश्रयवलात् क्ष्वेलं हरश्चापिबत्।
तस्निन् सर्वचराचरात्मनि हरौ व्यालस्य तत्साहसं
चित्तं चित्रपयोनिधौ क्षिपति मे यद्भोगदन्तैः कृतम्॥३७॥

ग—एवमक्षीमहिमक्षमावति भगवति भोगिबन्धमुपगतवति सति**॥१७॥**

भोगिभोगसुत्वस्पर्शनिच्छन्निव हरिर्बभौ।
तदपूर्वतनुस्पर्शसुखेच्छुरिव चाहिराट्॥३८॥

ग—तदनु केन चिद्गोपालकेन सभयकम्पमभिहितं हृदयं तुदन्तं तभिममुदन्तमाकर्ण्य त्वरितमावालस्थविरं व्रजादापतितैर्नन्दादिनिखिलगोपगोपीगणैरतिनिविडे ह्रदतटे तादृशीं दशामापन्नमात्मानमालोकयतां तेषां सकरुणमुत्यितैर्विलपितरवैरापूरिते च दिगन्तरे नभोन्तरे च किमिदमिति सपदि मिलदुदकभवभवशिवशतमखमुखसकलसुरनिकरदन्तुरे ‘कृष्ण बलिदमन दमय फणिराजपेतं; कुतूहलकूलं गमय शोकजलधिविलीनं दीनं जनमिमम्’ इति बलदेवसूक्तिसुधयाऽभिवृष्टो हृष्टो भक्तजनभवबन्धभञ्जनो भगवान् स्ववलशिथिलितादहिबन्धनाद्बहिर्निर्गत्यकरतलकलितभोग एवसन् तस्य फणामण्डले अखिलसुरनरपशुमण्डलं संप्रहर्षयन् प्रावृषि वृषनीलमणिमयप्रासादान्तरात्तच्छिखरमधिरूढो मयूर इव चरणयुगलेन सुचिरमाननर्त**॥१८॥**

जगति विविधभेदः कल्पितो येन लास्ये
स विधिरिदमुदीक्ष्य स्वेच्छया संप्रवृत्तैः।
सहितममरवाद्यैरद्भुताब्धौ निमग्नः
तदिह दिवि च लास्यं वर्णयेत्को नु विष्णोः ॥३९॥

हरिचरणाभ्यां भुग्नशीषों भुजङ्गः
पयसि रुधिरधारा उद्गिरन् पञ्चवक्रया।
अतिमृदुगिरमेवं प्राह देवं प्रयत्ना–
त्कृतनतिरतिदीनः शोच्यरूपोऽग्र्यरूपम्॥४०॥

श्रीश प्रसीद करुणार्णव जीविते मे
तच्च क्षमस्व यकारि मयाऽधुनाऽऽगः।
त्वामेव यामि शरणं वद किं करोमि
कृष्ण क्व यामि जलधौगरुडाद्बिभेमि॥४१॥

फणिफणितिमिमां निशम्य शीर्ष–
स्फुरितपदं तमिदं जगाद शौरिः।
व्रज निजपरिवारसंयुतो द्रा–
ग्जलधिमितो हि रिपो र्नतेऽस्ति भीतिः॥४२॥

ग—तदनु तथेत्यन्तर्हिते तस्मिन्नहिपतौ घनविपदो विमुक्तमुडुपतिमिव तं समागतमच्युतं वीक्ष्य नन्दमानन्दपरवशं प्रशस्य गोपाः ताभ्यामद्भुतानन्दाभ्यां सह समेताः सर्वे स्वघोषमुपजग्मुः**॥१९॥**

अथ कदाचिद्गोभिस्सह गोवर्धनगिरिपरिसरमनुसरन्तौ वृषपोताविवस्वच्छन्दमितस्ततो विचरन्तौ रामकृष्णौ स्वर्धुनीजनितपद्मिनीकर्षणकुतूहलादूर्ध्वं प्रसारितकरैः करिनिकरैरिव पर्वसु फलाग्रेषु च कालैस्तालैर्निबिडं किमपि महद्वनमद्राष्टाम्**॥२०॥**

अथ घ्राणहारिणा तत्फलगन्धेन सन्निरुद्ध इव सङ्कर्षणो दामोदरगिरातत्तरून् प्रकम्पयन् तेभ्यः पक्वानि कतिचित्फलानि पातयामास**॥२१॥**

तद्रवश्रवणादेव दैत्यो बलमुपाद्रवत्।
तद्वनारक्षकः कोऽपि व्यात्तानन इवान्तकः॥४३॥

रोषेण स खराकारो बलस्योरसि धेनुकः।
दशनैरदशत्पद्भ्यां पश्चिमाभ्यामथाप्यहन्॥४४॥

ग—अथ तच्चरणयुगलनिगलीभूताङ्गुलिनिकरेण निजकरेण रुषितेनरौहिणीयेन रथचरणविभ्रमेण सम्भ्रमेण तत्तरूपरि परित्यक्तस्सवलतेजश्शमनगतो दैत्यस्त्यक्तासुरवनौ निष्पतन् सहपतितैस्तत्तालफलैरमुण्य क्रोधमेव शमयामास**॥२२॥**

अथ तज्ज्ञातिष्वपि तद्गतिमुपगतेषु,
चित्रं सधेनुकमभाद्विधेनुकमपि क्षणात्।
सफलं विफलं चोग्रैस्तद्वनं गोपविक्रमैः॥४५॥

ग—ततो बलरामाच्युतावनुचरैर्गोभिश्च सह ततो निर्गत्य शशिविवस्वन्ताविव दिशो दशविद्योतयन्तौ वसनशोभयाऽञ्जनकनकपर्वताविव स्वाश्रयविपिनमतीव शोभयन्तौ सप्रतिनिनदमुच्चैः क्ष्वेलन्तौ मुहुर्मुहुर्नामभिर्गास्समाह्वयन्तौ श्रवणामृतानि गीतानि असकृदुद्गायन्तौ अमानुषावपिमानुषदीक्षया वयस्स्यैस्सह वन्यवेषेण विरचितविचित्रविहारौ क्वचिदप्यपराजितावेव पुनरपि बहुलच्छायं भाण्डीरं नाम बहुविटपसङ्घटितसकलदिग्रोधंन्यग्रोधमासेदतुः**॥२३॥**

प्रलम्बो नाम दैत्यो ऽगाच्छिद्रान्वेषी तयोस्तदा।
गोपालवेपमास्थाय वन्यपुष्पविभूषितः॥४६॥

ग—तत्र चान्दोलिकाभिः युद्धमार्गैश्च सुचिरं विहृत्य द्वन्द्वक्रीडापरायणेषु गोपेषु क्रीडाजितेन श्रीदामनाम्ना गोपेन सन्धार्यमाणे गोविन्दे बलोपिप्रलम्बेन सह विक्रीडमानः जितेन तेन सत्वरमुदूह्यमानः कुटिलधिया ह्रियमाणः घनमिव वर्धमानं पवनभिव पलायमानं दारुणाकृतिं तमवलोक्य तच्चरिते सन्दिहानः स्वानुजगिरास्मारितामात्मावेशकलितशेषतामात्मनि सञ्चिन्तयन् प्रवर्धमानबलपौरुषः परुषतरेण निजमुष्टिना शिरसि प्रहृत्य तमरिं यमसदनमुपनीय यथास्थानमाजगाम**॥२४॥**

बलेन निहते तस्मिन् प्रलम्बे दिवि दैवतैः।
बलदेवेति नामास्य श्रावितं तज्जना विदुः॥४७॥

इति श्रीहरिवंशचम्पौ द्वितीयो विलासः समाप्तः

<MISSING_FIG href="../books_images/U-IMG-172759137729.png"/>

सिंहासनमलङ्कुर्वाणे च राज्ञि रङ्गान्तरमाश्रितेषु च मल्लेषु वल्लवाग्र्यौ वासुदेवबलदेवौ च विमलवस्त्रालङ्कृतौ वादित्रघोषेण क्ष्वेलितास्फोटितरवेण च रङ्गद्वारमुपगम्य तत्र चाधोरणेनात्प्रनिधनाय चोदितं कुण्डलितकरं कुञ्जरवरं निरीक्ष्यनिमिषमतिष्ठताम्**॥२०॥**

हरिरथ करिणं निरीक्ष्य रोषा–
दुपरि पतन्तममुप्य दन्तकुन्तम्।
समदि पृथुलमुद्वबर्ह दोर्भ्यां
करिणमहन्नमुनैव साधिरोहम्॥२१॥

अथ करिणि हते निषादियुक्ते
विपुलभुजेन निजाग्रजेन शौरिः।
सुररिपुभयदैस्स्वसिंहनादैः
समविशदाशु समाजमर्णवाभम्॥२२॥

अथ तौ रामकृष्णौ रङ्गान्तरमुपगम्य निखिलनयनभृङ्गैरास्वाद्यमानलीलासौन्दर्यमदौ महागजाविव विचेरतुः**॥२१॥**

ततो भोजपतिरपि भुजशिरोनिक्षिप्तगजदन्ततयाखण्डेन्दुकलितगिरिशृङ्गमिव विभ्राजमानं गोवर्धनधरमवलोक्य वर्धमानमन्युस्तेन सह नियुद्धायचाणूरमादिदेश**॥२२॥**

तदनु मल्लयुद्धविशारदावेतौ हृषीकेशचाणूरौ समेत्य सुरासुराणां नियुद्धसरणिमनुदर्शयन्तौ घनाविव विनदन्तौ गजाविव प्रसर्पन्तौ गण्डशैलाविवसमाश्लिषन्तौ वनवराहाविव संलुठन्तौ भुजजानुशिरो मुष्टिभिः कुट्टयन्तौ कन्तुकाविव महुर्मुहुस्समुत्पतन्तौ महाशनिसदृशं निष्पतन्तौ महीं प्रचालयन्तौनिरीक्ष्य भयात्प्रस्विन्नमुखेन कंसेन कदननिवारणाय निवारितेऽपि त्यदिवनिश्रयविपिनमतीव शोभयन्तौ सप्रतिनिनदमुच्चैः क्ष्वेलन्तौ मुहुर्मुहुर्नामभिर्गास्समाह्वयन्तौ श्रवणामृतानि गीतानि असकृदुद्गायन्तौ अमानुषावपिमानुषदीक्षया वयस्स्यैस्सह वन्यवेषेण विरचितविचित्रविहारौ क्वचिदप्यपराजितावेव पुनरपि बहुलच्छायं भाण्डीरं नाम बहुविटपसङ्घटितसकलदिग्रोधंन्यग्रोधमासेदतुः**॥२३॥**

प्रलम्बो नाम दैत्यो ऽगाच्छिद्रान्वेषी तयोस्तदा।
गोपालवेषमास्थाय वन्यपुष्पविभूषितः॥४६॥

ग—तत्र चान्दोलिकाभिः युद्धमार्गैश्च सुचिरं विहृत्य द्वन्द्वक्रीडापरायणेषु गोपेषु क्रीडाजितेन श्रीदामनाम्ना गोपेन सन्धार्यमाणे गोविन्दे बलोपिप्रलम्बेन सह विक्रीडमानः जितेन तेन सत्वरमुदूह्यमानः कुटिलधिया ह्रियमाणःघनमिव वर्धमानं पवनमिव पलायमानं दारुणाकृतिं तमवलोक्य तच्चरिते सन्दिहानः स्वानुजगिरा स्मारितामात्मावेशकलितशेषतामात्मनि सञ्चिन्तयन् प्रवर्धमानवलपौरुषः परुषतरेण निजमुष्टिना शिरसि प्रहृत्य तमरिं यमसदनमुपनीय यथास्थानमाजगाम**॥२४॥**

बलेन निहते तस्मिन् प्रलम्बे दिवि दैवतैः।
बलदेवेति नामास्य श्रावितं तज्जना विदुः॥४७॥

इति श्रीहरिवंशचम्पौ द्वितीयो विलासः समाप्तः

<MISSING_FIG href="../books_images/U-IMG-172759256929.png"/>

सिंहासनमलङ्कुर्वाणे च राज्ञि रङ्गान्तरमाङ्घ्रितेषु च मल्लेषु वल्लवाग्र्यौवासुदेवबलदेवौ च विमलवस्त्रालङ्कृतौ वादित्रयोगेण क्ष्वेलितास्फोटितवेरण च रङ्गद्वारमुपगम्य तत्र चाधोरणेनात्मनिधनाय चोदितं कुण्डलितकरं कुञ्जरवरं निरीक्ष्यनिमिषमतिष्ठताम्**॥२०॥**

हरिरथ करिणं निरीक्ष्य रोषा–
दुपरि पतन्तममुष्य दन्तकुन्तम्।
समदि पृथुलमुद्ववई दोर्भ्यां
करिणमहन्नमुनैव साधिरोहम्॥२१॥

अथ करिणि हते निषादियुक्ते
विपुलभुजेन निजाग्रजेन शौरिः।
सुररिपुभयदैस्स्वसिंहनादैः
समविशदाशु समाजमर्णवाभम्॥२२॥

अथ तौ रामकृष्णौ रङ्गान्तरमुपगम्य निखिलनयनभृङ्गैरास्वाद्यमानलीलासौन्दर्यमदौ महागजाविव विचेरतुः**॥२१॥**

ततो भोजपतिरपि भुजशिरोनिक्षितगजदन्ततया खण्डेन्दुकलितगिरिशृङ्गमिव विभ्राजमानं गोवर्धनधरमवलोक्य वर्धमानमन्युस्तेन सह नियुद्धायचाणूरमादिदेश**॥२२॥**

तदनु मल्लयुद्धविशारदावेतौ हृषीकेशचाणूरौ सगेत्य सुरासुराणां नियुद्धसरणिमनुदर्शयन्तौ घनाविव विनदन्तौ गजाविव प्रसर्पन्तौ गण्डशैलाविवसमाश्लिषन्तौ वनवराहाविव संलुठन्तौ भुजजानुशिरो मुष्टिभिः कुट्टयन्तौ कन्तुकाविव मुहुर्मुहुस्सपुत्पतन्तौ महाशनिसदृशं निष्पतन्तौ महीं प्रचालयन्तौनिरीक्ष्य भयात्प्रस्विन्नमुखेन कंसेन कदननिवारणाय निवारितेऽपि कदिवनिस्वने दिवि सङ्गतेन देवतूर्यरवेण द्विगुणितबलपौरुषौ प्रवर्धमानसमरौ समालोक्य लोकत्रयमाश्चर्यभयनीरधौ निर्ममज्ज**॥२३॥**

अथ दिवि देवर्षिसङ्घैः प्रयुज्यमानाभिर्जयाशीर्भिस्संवर्धित इव आशीविषमर्दनः स्वबलमप्रतिमं प्रकाशयन् तमरिं भुवि पातयन् वक्षसि जानुना विष्टम्भयत् अशनिकल्पेन मुष्टिना तन्मूर्धनि नारिकेलफलप्रहारकेलीमारचयन् सपदि विहारभूमेर्घनोपहारमुपजहार**॥२४॥**

तदनु मुष्टिके च बलमासाद्य वज्रसदृशेन तन्मुष्टिना पिष्टातीकृते आन्ध्रतोसलकयोश्च कृष्णसङ्कर्षणाभ्यां सजम्बीरक्षेपमुत्क्षिप्य भुवि निपात्य निजचरणसङ्घर्षणेन मत्कुणदशामाषादितयोः निमिषेण रङ्गमखिलमपि निर्मल्लसमाजं चानन्दाश्रुसलिलसमुल्लसन्नयनमवलोक्य रोषपरवशः कंसः कृष्णरामयोः कार्ष्णायसनिगलबन्धनं बृद्धस्य वसुदेवस्य तदनर्हतीक्ष्णदण्डं दामोदरपरायणानां नन्दादिगोपानां नवादिधनापहरणं च शिक्षां व्यादिदेश**॥२५॥**

दण्डेषु दारुणेष्वेव भूपक्लृप्तेषु तत्क्षणात्।
देवकीमविशच्छोकः कालः कंसं रुडच्युतम्॥२३॥

तदनु तुङ्गासनसन्निविष्टः कंसः रङ्गान्तरादनिमिषैरप्यलक्षितेन प्लुतेन निजाग्रपतितं तमच्युतं स्वच्युतमशनिमिव मन्यमानः प्रसारितभुजाग्रेण तेन हरिणा केशेषु पराकृष्ट एव भूताविष्ट इव तद्भयाद्विनष्टचेतनः प्रभ्रष्टमकुटमणिहारस्रगम्बरमासनादपकृष्यमाणः पश्यतामेव सकलसुरनरासुराणां पन्नग इव पन्नगारिणा रङ्गभुवि बहुशो विकृष्यमाणस्सन्नायुषोऽन्तमिव समाजसीमान्तभुवमाससाद**॥२६॥**

तत्सुतैस्सह तद्भ्राताऽपि बलदेवेन सुचिरं नियुद्ध्य चिरनिद्रामध्य**॥२७॥**

ततस्तौ कृष्णवलभद्रौनिजपित्रोः देवकीवसुदेवयोः पादयुगले प्रणम्य ताभ्यामानन्दाश्रुमरितनेत्राभ्यां गाढमाश्लिष्टौ यादवानपि यथोचितं सम्प्रान्य तैस्सह जनकसदनमाजग्मतुः**॥२८॥**

अथ विदितकसनिनधनवृत्तान्तानां गृहान्ताद्बहिर्निर्गत्य तच्छवशरीरस्योपरि निपत्य, हा नाथ! त्रिभुवनविख्यातविक्रम! तवास्मद्विजये विध्वंसितजरासन्धबलस्य निर्जितयक्षस्य शक्रेण सह गङ्गातटसङ्गते सायकसङ्गरे निर्जरैरप्यनिर्जितस्य रत्नसर्वस्वहरणे शरवृष्टिभिरक्षोभ्यमुदधिं विक्षोभ्य वशीकृतवरुणस्य मन्दवृष्टौ मार्गणप्रकरपाटितपर्जन्यस्य मानुषमात्रात् कथमीदृशी दशा समापतितेति बहुशो विलप्य सस्वरं रुदन्तीनां स्रवदश्रुस्रवन्तीनां कुररीणामिव तदन्तःपुरनारीणां परिदेवनरवैरापूरितेषु दिगन्तरेषु; कंसजनन्यामपि हा वत्स! बृद्धामिमामपहाय क्व गतोऽसीति शोकसागरनिमग्नायां, अह्नामधिदेवतायां च तासां दुरवस्यां द्रष्टुपसहमानायामिव चरमसागरनिमग्नायामुग्रसेनो….x…हृदयः वसुदेवसदनमुपेत्य यदुसदसि वसुन्धराभारं वासुदेवे समर्प्य कंसस्य प्रेतसंस्कारमात्रमपेक्षमाणः, स्वगुणपरितुष्टेन तेन कृष्णेन पुनरपि सान्त्वपूर्वप्रत्यर्षितराज्यभरो निहितमकुटभरस्तदाज्ञया परेद्युः पुत्रस्य प्रेत्य गतस्य पश्चिमसंस्कार विरचय्य यदुनन्दनेन सह निरन्तरनिवासभाग्योदयेन दूरादधरितस्वाराज्यं स्वराज्यं यथापुरं पर्यपालयत्**॥२९॥**

मधुरा मधुरैवासीद्विधुरा विभुदुर्गुणैः।
अनन्तसुगुणैर्जुष्टा नष्टकंसोग्रसेनगा॥२४॥

इतिहरिवंशचम्पौ तृतीयो बिलासः
(*)समाप्तः(*)—

अथ चतुर्थो विलासः॥
—♦—

अथ गुरुकुलवारी काङ्क्षमाणौ कदाचि–
न्मुरहरबलभद्रौ प्राप्य सान्दीपनिं तौ।
सपदि गुरुमवन्तीवासिनं साधु तस्मा–
दनतिचिरमधत्तां सर्वविद्याः प्रमोदात्॥१॥

अथ कृष्णेन गुरुधनं किं ददानीत्यभ्यर्थितस्सान्दीपनिस्तत्प्रभावज्ञतया प्रभारातीर्थयात्रायां लवणोदपयसि तिमिनाऽपहृतं मृतं पुत्रमेकं पुनरानयेति तमादिदेश**॥१॥**

हरिरपि तथेति तां गिरमुत्तमाङ्गेन प्रगृह्य पयोनिधिं प्रविश्य प्राञ्चलिना तेन सन्दर्शितं गुरुसुतापहारिणं तिमिरूपिणं पञ्चजनाभिधेयं दैत्यं निहत्य तस्मिन्नलक्षितान्वेषिततयेव सम्प्राप्तदरो वैवस्वतं विजित्य तेन पञ्चजनविनिमयेनेव कथंचित्प्रत्यर्पितमात्मशक्त्या प्राप्तनिजप्राक्तनतनुवयोरूपवैभवं गुरुतनूभवमब्धिलब्धैरनर्घ्यरत्नैस्सह गुरवे समर्प्य सत्यप्रतिज्ञोऽभूत्**॥२॥**

शस्त्रास्त्रतोमरगदापरिघादियुद्धे–
ष्वत्यद्भुतावसदृशावतुलप्रकाशौ ।
मूयोऽप्युपेत्य मधुरां यदुवीरमुख्यौ
तत्रोग्रसेनसविधे सुखमूषतुस्तौ॥२॥

अथ कदाचिज्जरासन्धः कंसपत्नीभ्यामस्तिप्रास्तिनाम्नीभ्या माकर्णितकंसनिधनोग्रसेनराज्यप्राप्त्युदन्तः अन्तकइव रोषाग्निना संज्वलन्निजप्रताभावनतैर्भूपैस्सह रथचरणसमुद्धूतरजःपटलभिषेण भीत्या विधिसदन प्रतिप्रस्थितां पृथ्वीं निवार्य प्रतिनिवर्तयतुभिवोद्गतैर्ध्वजनिवहैः हेलितक्ष्वेलितादिरवैरपि रोदोन्तरनिरोधिन्या वरूथिन्या मधुरामुपरुरोध**॥३॥**

ततस्तत्क्षणमेव रणायात्तप्रहरणैर्यादवगणैःप्रत्युद्गतेषुप्रत्यर्थिसैनिकेषु रामकृष्णावपि कालप्राप्तमतिथिमिव तंजरासन्धमनुसन्धाय विपुलमपितद्वलंप्रविश्य भृशमयुद्ध्यताम्‌**॥४॥**

तद्युद्धमभवद्‌ घोरंवृष्णिमागधसेनयोः।
चतुर्दश दश त्रीणि दिनान्यनुपमंसमम्‌॥३॥

तदाऽन्तरिक्षादवतेरुरुर्व्यां
दिव्यायुधानि त्रिदशार्चितानि।
रणे हृषीकेशकरप्रदत्त–
क्षोणीशमांसेष्विव सस्पृहाणि॥४॥

हलंसंवर्तकं नाम तत्राहवकुतूहली।
सौनन्दं नाम मुसलमपि लेभे बलो बली॥५॥

शार्ङ्गं नाम धतुः श्रेष्ठं नाम्ना कौमोदकीं गदाम्‌।
तद्द्वयंचाद्वयं भेजे नैजमेव बलानुजः॥६॥

तदनु ताम्यामात्तायुधाय्यां निर्दयमर्द्यमानान्‌ रणमुबि स्थातुमक्षतया दिशिदिशि पलायमानान् पार्थिवपुङ्गवान्प्रतिनिवर्त्य तैस्सह जरासन्धोधाराधर इव धरेन्द्रमतुलशरधाराभिस्तार्क्ष्यध्वजरथं कृष्णमभिगम्य तद्वाणनालैस्सुभृशमम्वर्दितोऽभूत्‌**॥५॥**

अथ तत्सेनान्याचित्रसेनेन सह गोविन्दस्य कैशिकेन सह बलभद्रस्य तदितरैर्जरासन्धयोधैस्सह वृष्णीनां च महारणे प्रवृत्ते लब्धसंज्ञोजरासन्धोऽप्यच्युताग्रजमुपेत्य निजशस्त्रास्त्रवैशारद्यमपि दर्शयन्‌ तदस्त्रैर्निहताश्वसूतंस्यन्दनमपहाय गदापाणिरवनाववतस्थे**॥६॥**

तदनुबलदेवोऽपि प्रगृहीतगदस्तेन सह सुचिरं नियुध्य निध्यायतामेवनिखिलदेवर्षिसङ्घानांसन्दर्शितनिजशौर्यचातुर्येऽपि स्वस्मिन्नपराजिते तस्मिन्नात्तमनोगदःस्वगदां निरस्य विद्विषामायुस्समापनकृशलं मुसरमग्रहीत्‌**॥७॥**

अथात्तमुसलेबले निखिलमूभुजां शृण्वता-
मभूद्गगनवागियं घनगभीरगर्जाेपमा।
जरासुतकृते श्रमैरलमसौन वध्यस्त्वया
यदस्य विहितोऽपरःप्रबलमृत्युरुर्वीतले॥७॥

तदनु मागधोऽप्यासन्नमृत्युश्रवणाद्विमना भूत्वा पराजितराजन्यराजमिस्सह स्वयमपराजितइवरणादपक्रान्तोऽभूत्‌**॥८॥**

वृष्णिवीरास्ततो हृष्टाःदेवा गगनसङ्गताः।
स्वच्युतायुधपूगाश्च स्वंस्वंस्थानमूपागताः॥८॥

एवं मुहुर्मुहुरात्मदुहितृयुगलवैधव्यदशासंस्मरणसञ्जातमन्युना मगधेश्वरेण सप्तदशकृत्वः सम्प्राप्तसमरेषु वृष्णिवीरेषु पुनरप्यष्टादशसमरोद्योगिजंतमवगम्य मन्त्रयत्सुविकर्द्रुर्नाम यादवःविदितात्मनो व्यासादवगतनिजकुलसमुद्भवस्सविनयमुग्रसेनस्य शृण्वत एवगोवर्धनधरमिदमकथयत्‌**॥९॥**

इक्ष्वाकुसम्भवो धीमान्‌ हर्यश्वो नाम पार्थिवः।
भ्रात्रा निरस्तो ज्येष्ठेन त्यक्त्वाऽयोध्यां वनंययौ॥९॥

तं तु पुत्र्या समानीतं मधुमत्या स्वयं मधुः।
सम्मान्य तस्मै स्वं राज्यं दत्वाऽगात्तपसे वनम्॥१०॥

हर्यश्वस्य सुतो जज्ञे यदुर्नाम महायशाः।
राज्यं शशास धर्मेण पित्रा दत्तं स वै चिरम्॥११॥

स एकदा सागराम्भसि वधूजनैस्सह सलिलक्रीडां वितन्वानो धूम्रवर्णनाम्ना पन्नगराजेन स्वनगरमानीय तत्र देवदानवमहर्षिपन्नगानां समुद्भवोऽस्मिन्वंशे तव भवितेत्युक्त्वा स्वस्य यौवनाश्वस्य भगिन्यामुत्पन्नाः पञ्चकन्या अपि प्रतीच्छ, यासु वरपुत्राः पञ्च प्रजायन्त इति सम्प्रार्थ्यमानःभैमकुक्कुरभोजान्धकयादवदशार्हवृष्णिभेदेन सप्तधा ख्याता भवद्वंश्या भविष्यन्तीति वरैस्सह तत्प्रदत्तास्ताः पञ्च कन्या अपि प्राजापत्यविधिना परिगृह्यसपञ्चतारश्चन्द्र इव सागरान्निर्गत्य निजपुरमासादितवान्**॥१०॥**

मुचुकुन्दः पद्मवर्णो माधवस्सारसस्तथा।
हरितश्चेति पञ्चासन् तासु शूरा यदोस्सुताः॥१२॥

तत्र मुचुकुन्दो नाम राजर्षिर्नर्मदातीरे माहिष्मतीपुरीं, तत्सविध एवविन्ध्यर्क्षवतोः पादे पुरिकां नाम पुरीं च, पद्मवर्णस्सह्यपृष्ठेवेणातीरे पद्मावतनाम्ना जनपदेन सह करवीरपुरं, सारसश्च वनवासिनाम्ना जनपदेन सह कौञ्चपुरं, एवं पुत्रत्रयेऽपि निजाज्ञया दक्षिणस्यां दिशि पुरचतुष्टयं निर्मायपालयति, हरितेऽपि हरिति पश्चिमायां मत्स्यमांसभोजिभिर्दाशैः परिकल्पितेनमौक्तिकप्रवालादिरत्नराशिनिवहेन दीप्यमानमब्ध्यन्तरद्वीपमधिवसति सति यदुरपि क्रमेण स्वराज्यं माधवे निवेश्य स्वर्गतोऽभूत्**॥११॥**

माधवात्सात्वतो जज्ञे तस्माद्भीमोऽन्धकस्ततः।
य इमां लवणध्नेन निर्मितां बुभुजे पुरीम्॥१३॥

अन्धकाद्रेवतस्तस्यादृक्षो जज्ञेऽद्रिमूर्धनि।
रैवतश्चततस्सोह्रित्तदा रैवतकोऽभवत् ॥१४॥

रैवतस्यात्मजो राजा विश्वगर्भो महायशाः।
तस्य भार्यासु तिसृषु चत्वारो जज्ञिरे सुताः॥१५॥

तैरेव वसु-वभ्रु-सुषेण-समाक्षनामभिः यादववंशोऽयं प्रवर्धितः; तत्रवसुर्वसुदेवं भवत्पितरं पाण्डोर्नहिषीं कुन्तीं चेदिराजस्य दमधोषस्य पत्नींसुप्रभां च जनयामास**॥१२॥**

इति भुवि चिरवृद्धा यादवा माधवाद्य
प्रबलरिपुविरोधाद्राष्ट्रनाशं स्वनाशम्।
हृदि वत कलयन्तश्चिन्तयन्त्यल्पसैन्याः
त्वमसि गतिरमीषां त्वन्मनीषाशिषां नः॥१६॥

इति विकर्द्रुणा गदितं स्वजनकेन वसुदेनानुमोदिनं सम्मतमिदमखिलयादवानां निशम्य देशकालानुकूलमिदं राजधर्मोचितं भवद्भिर्विचिन्तितमिति प्रत्युदीर्य साग्रजो गदाग्रजसपदि मधुरांपरित्यज्य निजचरणसंचररणेन दक्षिणापथमहीं धन्यां वितन्वन् सह्यपृष्ठमुपगम्य तत्र करवीरपुरपरिसरे वेणातटवटमूले तदैवागत्योपविष्टं जटामकुटमण्डितं भार्गवमुनिं विलोक्यतद्धोमधेनुपयःपानप्रशमिताध्वश्रमः निशमितनिजवृत्तान्तेन तेन सह तद्दर्शितेन पथा निर्गत्य यज्ञगिरावेकां निशां नीत्या निकषोपलभूषितां खट्टाङ्गनिम्नगांतीर्त्वा तपोधनजनसन्दर्शनेन दृशौ सार्थयन् क्रौञ्चपुरवासिनं स्ववंशजं महाकपिनामानं राजानमनवेक्ष्यैव तत्र गमितैकनिशः तटवनभृङ्गीसङ्गीतसारायितविपुलनिर्झरं अजातदावसंचारं अविदितवज्रप्रहारं सुरदम्पतिविहारोचितानां निजमणिशिखराणां रश्मिभिर्दिशो दश विद्योतयन्तं वनगजगर्जितैस्संजातस्वाश्रयतरुशाखाग्रक्षोभमुत्पततां पतत्रिणां कलकलैस्स्वागमनमभिनन्द्य साभिनयमात्मानमाह्वयन्तमिव स्थितमुच्छ्रायेण मन्दरगिरिश्रियमुद्वहन्तं गोमन्तं नाम सानुमन्तमासाद्य तच्छिखरवरं खगैरपि दुरारोहमारुरोह**॥१३॥**

भविष्यति निजायुधध्वजसमागमोऽत्र द्रुतं
जयिष्यसि रिपून् रणेसबल एव तंत्वामियम्।
प्रतीक्षत इहाऽऽश्रुतं प्रति धरैकवेणीधरा
स्मरेति हरिमीरयन् झडिति जामदग्न्यो ययौ॥१७॥

अथ तौ चेरतुस्तत्र शिखरे मधुरश्रियौ।
बलकृष्णेन्दुजीमूतौ जगदानन्दवर्धनौ॥१८॥

तत्र बलभद्रस्त्वेकदा गदाग्रजमपहाय स्वयमेकाकी संचरन् कमपिकदम्बतूरुमासाद्य तृष्णया तत्कोटरसम्भवां कादम्बरीं नाम मदिरामासेव्यतन्मदारुणितलोचनः तत्समयसमुपस्थिताभिः वारुणी-श्री-कान्तिसंज्ञाभिस्त्रिसृभिस्समर्पितनिजस्रगम्बराभरणः पूर्णेन्दुरिव विरराज**॥१४॥**

कृष्णोऽपि क्षीरसागरद्वीपवासिना स्वेनैव पुरा सन्धारितं सुप्त इवस्थिते स्वस्मिन् शक्ररूपेण बलिनाऽपहृतं तद्विज्ञाय युधि बलिं निर्जित्य गरुत्मताऽऽनीय स्वशिरसि विमुक्तं निजमकुटमासाद्य मेरुशृङ्गोपचितमहेन्द्रनीलशैलश्रि यमाबभार**॥१५॥**

यादवगणैरम्युद्गतः स्वविजयोत्सवमधुरांमधुरां प्रविश्य तत्पुरपुरन्ध्रीकटाक्षसंसर्गद्विगुणितदेहरुचिःनिजभवनमभजत**॥२२॥**

शक्रदेवः स्वपितुः प्रेत्य गतस्य पश्चिमसंस्कारं निर्वर्त्य स्वराज्यमनुबभूव॥

चेदिपतिर्दमघोषोऽपि दामोदरेण सहाध्वन्येकरात्रोषित एव प्रतिनिवृत्तोऽभूत्**॥२४॥**

रामाच्युतौ तु मधुरामुपगम्य रम्यां
राज्ञा विरेजतुस्लं जगतस्सुखाय।
कीटोद्भवस्य गुरुणा किरणाभिपूर्णौ
खे रेवतीमुपगताविव चन्द्रसूर्यौ॥२१॥

अथैकदा बलभद्रः पुरान्निर्गत्य वन्यवेषेण व्रजमुपगतस्स्वागमनसमेधितानन्दैः गोपबृन्दैः सादरमभ्यर्चितस्तैस्सह बृन्दावनभुवि पानवशतया वशावल्लभइव संचरन्नदूरवर्तिनीं यमुनां मदारुणितचक्षुषोद्वीक्ष्य तत्सलिलावगाहनकुतृहलेनाह्वयन्ननागतां तामतिरुषा बलेन सम्प्रकर्षन् स्वसविधमागतां वेपथुमतीं रुदन्तीं सतीरूपसुपगृह्य शरणमुपगतवतीतां विसृज्य तस्या वेणीमिव स्वनामाङ्कितां वेणीमेकां तत्र निर्माय निखिलभूतैरप्यभिष्टुतबलस्ततः पुनरपिपुरीमाजगाम**॥२५॥**

सदनमुपगतोऽसौ स्वानुजेनैव दृष्टः
सपदि तदुपनीते स्वासने संनिविष्टः।
तदनु कुशलमस्मै सर्वमाख्याय तुष्टः
तृणजलवनगोषु स्वेषु गोपेषु पृष्टः॥२२॥

इति हरिवंशचम्पौ चतुर्थो विलासः
(*)समाप्तः(*)—

अथ पंचमो विलासः॥
–:०:–

ततो हरिर्भीष्मकराजपुत्री–
स्वयंवरे श्रोत्रमुपागते द्राक्।
उपागतः कुण्डिनपत्तनं स
रथेन युक्तो यदुभिस्समस्तैः॥१॥

स्मृतोपयातेन गरुत्मता युतः
स कैशिकेनादरपूर्वमर्चितः।
पुरीं प्रविश्याद्भुतमन्दिरं विशन्
उवास तत्र स्वगिरौ यथेश्वरः॥२॥

हरिं समीक्ष्यागतमद्भुताकृर्तिं
सवैनतेयं निजयादवैर्युतम्।
जरासुतादिक्षितिपालमण्डली
व्यचिन्तयत्तत्र सभागता परम्॥३॥

अयं तु साक्षाद्धरिरेव नापरः
पुरा सुरारीनिह चावधीद्धली।
कथं खगेशोऽन्यवशः स्वयंवरः
कथं भवेद्वेति जरासुतोऽवदत्॥४॥

विचार्य गोमन्तगिरौ गरुत्मता
विनाऽपि युद्धं नृहरेस्तदद्भुतम्।

सुनीथ आह स्मृततार्क्ष्यविक्रमो
जरासुतोक्तं न मृषेति बुद्धिमान्॥५॥

जनार्दने दोषलवं न लक्षये
विनाऽस्मदाह्वानमसौ न युध्यति।
कलिस्ततो यत्र वयं समानितः
प्रसीदतीत्याह च दन्तवत्रकः॥६॥

अयं च विष्णुर्दितिजा वयं च नो
भयं च तस्मादिति सिद्धमेव हि।
वृतस्य कन्याऽत्र तु युद्धचिन्तना
वृथेति साल्वोऽवददाहवोद्धतः॥७॥

इति ब्रुवाणेषु नृपेषु भीष्मको
निरुत्तरोऽन्तर्मनसो व्यचिन्तयत्।
सुत्तस्य दौरात्म्यमतीव रुक्मिणो
हरेश्च सामर्थ्यमपि स्मरन् परम्॥८॥

ततो विनिश्चित्य हरेः प्रसादनं
स रुक्मिरक्षाविषये सुसाधनम्।
समेत्य तं वाचमिमामदीनव–
त्क्रथेन साकं निशि कैशिकोब्रवीत्॥९॥

धन्यौ स्म देव भवता गृहमागतेन
पूज्योऽसि पात्रमसि राज्यमिदं भज त्वाम्।

आवामुपेन्द्र इति शक्रकराभिषिक्तं
राजेन्द्र इत्यपि सदस्यभिषेक्तुकामौ॥१०॥

अस्मत्प्रदत्तां भज राज्यलक्ष्मीं
श्वो मागधाक्षेपलवित्रमेतत्।
एवं न चेदासनसङ्कटं ते
सर्वज्ञ राज्ञां हि भवेत् समाजे॥११॥

इति विज्ञाप्य तं कृष्णं प्रत्दृष्टेनान्तरात्मना।
निशां नीत्वाऽगमत्प्रातः पूर्ण नृपसभं नृपः॥१२॥

तत्र सिंहासनारूढान् नृपान् वीक्ष्यसभीष्मकः।
स्वासनं दातुकामोऽस्मि कृष्णायेत्यव्रवीद्वचः॥१३॥

ततस्तत्क्षणमेव क्षणप्रभाभासुरविचित्रतररत्नखचितकनकमयनूत्नसिंहासनमेकं सलेखं कैशिकस्य पुरतो निधाय चित्राङ्गदो नाम पुरुहूतदूतः स्वयमदृश्य एव पुनः पुनः पाकशासनशासनमिदमुच्चैर्व्याजहार**॥१॥**

देव विदर्भाधिपते! कृतमनुजावतारस्य हरेरस्मत्पतेरासनमन्यासितंदातुमनुचितमिति विश्वकर्मनिर्मितमिदमासनं वासवेन सम्प्रेषितमस्मिन् सन्निविष्टं विष्टरश्रवसं वैश्रवणसम्प्रेषितैः निध्यंशसम्भवैः काञ्चनरत्नपूर्णैरमीभिरष्टभिः कलशैरपि राजेन्द्रपदेऽखिलराजमण्डलीपरिवृतः सुखेन शीघ्रमभिषिञ्चातसमागतेषु यः कोपि न कुरुतेऽस्य शासनं स तस्य वध्य एव भविष्यति। भोभो भूपतयः! त्रिभुवनपतेरिन्द्रस्य शासनमिदं राजेन्द्राभिषेचनाधिकारवर्तिभिर्भवद्भिरवश्यानुष्ठेयमिह रङ्गे तु जरासन्धसुनीथरुक्मिसाल्वाश्चत्वारःशून्यहेतोस्तिष्ठन्तु तदितरे सर्व एव क्रथकैशिकाभ्यां सह सभां गत्वा यथोक्तमच्युतमभिषिञ्चतेति**॥२॥**

श्रुत्वाऽभ्रजनितां वाचं घनमर्जीपमामिमाम्।
विमनस्कैर्वितेजस्कैर्दिनदीपायितंनृपैः॥१४॥

तस्मिन् दूते गते भूपाः भीष्मकेनैव सान्त्विताः।
मागधेनाप्यनुज्ञाता रङ्गादुत्तस्थुरञ्जसा॥१५॥

अथ सर्वेऽपि नृपतयः शक्रशापभयात्सबला एव निर्गत्य क्रथकैशिकौ पुरोधाय पुरं प्रविष्टाः तत्र समुच्छ्रितपताकाध्वजमालिनीं दिव्यस्रग्दामशालिनीं विचित्रतरविमानयानावलीपरिवृतां सिद्धचारणगन्धर्वविद्याधरमहर्षिगणसंसेविता मप्सरोगणनर्तनानुकूलविविधसुरवरवादित्रघोषा मच्युतसेवासमेधितामितनयनसम्प्रेक्षणीयतेजोविशेषां स्थानहेतोर्भुवमुपगतां नरदेवभवनपुरतः स्थितां शुभां देवसभां प्रविश्य विस्मयाविष्टहृदया बभूवुः**॥३॥**

तदनु विमानवरमारुह्य दिक्पालैस्सह वियत्तलमलङ्कुर्वाणे गीर्वाणपरिबृढे सभातलमुपाश्रितंसर्वमङ्गलापूजितं परममङ्गलविग्रहं यदूद्वहं नवरत्नखचितदिव्यसिंहासनारूढं महेन्द्रोपलमिव मेरुशृङ्गाग्रसंरूढमम्बुदगणैस्सलिलैरिवाम्बरचरैस्सहकारदलसहकारिभिः कलशैः काञ्चनमणिकुसुमगन्धचूर्णादिभिः सतूर्यस्तवरवमभिषिच्यमानमासेव्य तद्वितीर्णवस्त्राभरणसमलङ्कृतविग्रहाःतत्कृतविग्रहस्मरणशङ्कितमतयो नृपतयस्ते पत्युर्दिवस्पतेरपि हरेः पुरतोरवेरिवग्रहाः सङ्कुचितविग्रहा एव तद्दृगन्तपरिदर्शितेषु स्वोचितासनेषु यथानियोगंसन्निविष्टा बभूवुः**॥४॥**

अथ हरिमिदमूचे भीष्मको भीतभीतः
प्रणतशरणद त्वां प्रार्थयेऽहं प्रसीद।
स्वयि कलुषमनन्ते मर्त्यभावेन पूर्व
नरपतिभिरमीभिर्यत्कृतं तत्क्षमस्व॥१६॥

एतदाकर्ण्य प्रहसितवदनः पुण्डरीकनयनः क्षत्रधर्मोचितमेव भवद्भिःकृतं तन्न कलुषमिति स्वहृदयनैर्मल्यमावेदयन्निखिलमपि नृपमण्डलं समाश्वास्य कैशिकमुखमालोकयामास**॥५॥**

सोऽपि स्वतनयदुर्नयेन सुतास्वयंवरारम्भ इति स्वदोषमपि निरूप्यक्षमानिधिं तमजं क्षमापयामास**॥६॥**

अथ हरिरपि शृण्वतामेव सकलभूभृतां विदर्भाधिपतिमिदमवादीत्॥

स्वयमतिमृदुगात्री सैव दुग्धाब्धिपुत्री
द्रुहिणवचनकर्त्री तेऽद्य पुत्री बभूव।
न हि नृपतिवरैषा मानुषी सत्यगेनां
भुवि वरमनुरूपं प्रेक्ष्य तस्मै प्रयच्छ॥१७॥

नृपवर दश पूर्वोराज्यदानन मह्य
तव दिवमुपयाताः सांप्रतं ह्युत्तराश्च।
दश दिशि दिशि कीर्तिं प्राप्य यास्यन्ति सर्वे
चिरमिह कृतराज्यः प्राप्स्यसे त्वं च धन्यः॥१८॥

इह वस पुस्मेतत्पालयन् भूपते त्वं
ह्यहमपि मधुरां तां यादवैर्यामि वस्तुम्।
तव सततममीषु प्रेमपात्रेषु पूर्णा
पितुरिव निजपुत्रेष्वच्युता प्रीतिरस्तु॥१९॥

इत्युक्त्वा नृहरिर्नैजं विश्वरूपं च दर्शयन्।
तेन सम्पूजितो भक्त्या तार्क्ष्येण सहितो ययौ॥२०॥

अथ कृष्णसम्मानिता अपि नृपाः सुदूरं तभजमनुव्रज्य प्रतिनिवृत्ताःपुनरपि रङ्गं प्रविश्य कैशिकेनानुज्ञाताः विज्ञातकार्यास्तन्नगराद्यथायथेनिर्ययुः**॥८॥**

तत्र जरासन्धादयः केचन कैशिकस्यान्तरनभिप्रायमवगन्तुकामास्सन्निबिष्टास्तेन भीष्मकेण निजतनयदुर्नयेनैवं प्रवृत्तमिति बहुशः क्षमापिता बभूवुः**॥९॥**

तदा सौभपतिस्साल्वोऽपि शौरिशौर्यमवार्यं संस्मृत्य सुतचेष्टानुशोचिनं विदर्भाधिपतिमिदमवादीत्**॥१०॥**

राजन्नलं खेदेन; रुग्मिणोऽस्य भुजवीर्यं निखिलैः केशवान्यैरनिवार्यम्; असौ भार्गवास्त्रतेजसा दुर्जयोऽपि सकलशास्त्रवित्तया वासुदेवं विबुधपतिं विदित्वैव तं न योधयति**॥११॥**

तथाऽपि—

अस्ति प्रतपसो गार्ग्याद्गोप्यां रुद्रप्रसादज।
स कालयवनो नाम कृष्णजेताऽपि भूतले॥२१॥

स खलु माधुराणामवध्यस्सद्योऽस्माभिर्दूतगुखेन सम्प्रेरितो यदि मधुरामुपैतितरा मधुसूदनं विजेष्यतीति**॥१२॥**

एतदाकर्ण्य मगधेश्वरस्स्वशौर्यग्लानिशङ्कया सङ्कुचितमना अपि सुनीयप्रसृतिभिस्सम्बोधितस्सौमपतिमेव कालयवनप्रेरणायःसम्प्रेषयन्निजनगरमाससाद**॥१३॥**

शान्ते स्वयंवरे रुग्मी चिन्तामाप सकैशिकः।
कान्तो मे कृष्ण इत्येव मुदमेवाप रुक्मिणी॥२२॥

ततस्सौभपतिरपि तदैवान्तरिक्षपथेन यवनपुरीमुपेत्य कालयवनेन बहुशस्सम्मानितस्सकलनृपमण्डलीपरिवृतस्य मागधस्य गिरमसहायशूरयोर्बलकृष्णयोर्हलमुगलगदाचक्रतेजसा दुर्विषहं दोर्वीर्यं च निवेद्य विग्रहेण तन्निग्रहशक्तिर्भवतो भवज्जनकतपःपरितोषितभवप्रदत्तमाधुरावध्यत्ववरादस्तीत्यपिप्रस्तुवन् तस्मिन् तथैवेति मागधगिरं शिरसा प्रगृह्य महता सैन्येन मधुरांप्रति प्रस्थिते ततस्स्वपुरमाजगाम**॥१४॥**

अथ वैनतेयोऽपि विदर्भनगराद्भोजपतिपुरं व्रजतो हरेरनुज्ञामध्वन्येवसम्प्राप्य पश्चिमाब्धितटगतरैवतकाद्रिमुपगम्य राजेन्द्रनिवासयोग्यराजधानीनिर्माणोचितभुवोऽन्वेषणाय निर्गतोऽभूत्**॥१५॥**

ततो हरिरपि स्वस्य राजेन्द्रपदाभिषेकं निशम्य निस्तुलानन्दजलधिमग्नेनोग्रसेनेन महावैभवेनाभ्युद्गतः सुरनगरीमिव सुधर्मोपेतां सुकविगिरमिवनानालङ्कारमधुरां मधुरां प्रविश्य सुरनरवरैः स्तूयमानगुणवैभवस्सुमेरुशिखरमिवसमुन्नतं नरदेवभवनमिव समलङ्कृतं वसुदेवभवनमभजत**॥१६॥**

तत्र पित्रोः पदद्वन्द्वे नत्वाऽऽनन्दाश्रुसेचितः।
.xायेन सहितः सुखेन न्यवसद्धरिः॥२३॥

अथ सुपर्णस्सपागत्य रहसि वासुदेवमेवं व्यजिज्ञपत्**॥१७॥**

कुशस्थली नाम शुभस्थली ते
निवासहेतोरपराब्ध्यनूपे।
अदूरसंस्थाद्भुतरैवताद्रिः
लब्धा निवासोऽत्र हरे प्रशस्तः॥२४॥

एवमाख्याय गतवति गरुडे गरुडध्वजेऽपि तन्निवासाय निजाग्रजेनविचिन्तयति विदितवृत्तान्तेन भोजपतिना यादवैश्च तदनुगमनमेव निश्चितमभूत्**॥१८॥**

एतस्मिन्नेव काले तु जरासन्धः स्वसेनया।
मधुरां रोद्धुमारेभे यवनोऽपि समाययौ॥२५॥

हरिस्स्वदूतं विससर्ज तस्मै
कालाहिपूर्णं कलश प्रदाय।
पिपीलिकापूर्णममुं विधाय
सम्प्रेषयामास पुनश्च सोऽस्मै॥२६॥

ततो हरिरपि नारदमुखाद्विदितद्वरस्त्रं कालयवनमजय्यं विज्ञाय तत्क्षणमेव सर्वयादवैस्सह मधुरामपहाय ससैन्य एव निर्गतः पश्चिमोदधेरनूपदेशे स्वेच्छयैव विनिर्मितां द्वारवतीं नाम पुरीमाससाद**॥१९॥**

तत्र रैवतकशैलसमीपे
सागरोदरसमीरसनाथे।
स्थानमापुरकुतोभयमेते
यादवा भुवि यथा दिवि देवाः॥२७॥

अथ मधुसूदनः पुनरपि मधुरामासाद्य तत इतस्सञ्चरन् कालयवनदृक्पथमागतः प्रभीत इव पुरान्निर्गत्यपलायमानो जिघृक्षुणा तेन सुदूरमनुगम्यमानो योगवशात्तत्करमनुपगत एव कामपि गिरिगुहामाविवेश**॥२०॥**

यत्र दैवासुरे युद्धे कृतकर्मा महाबलः।
मृचुकुन्दो वरादैन्द्रादशेत चिरनिद्रितः॥२८॥

स्वोत्तरीयेण तं सम्यगाच्छाद्य भगवान् हरिः।
शिरोदेशे विलिल्येऽस्य तद्गुहायां गुहाशयः॥२९॥

तदनु यवनेश्वरोऽपि तां गुहामनुविशन् मान्धातृतनयं तं मुचुकुन्दं मुकुन्दबुद्ध्या स्वाङ्घ्रितलेन सङ्घट्टयन् प्रबुद्धस्य तस्य नयनसमुल्लसद्रोषशोचिकेशरोचिषा शलभ इव निर्दग्धस्सहसा भस्मसादभूत् ॥२१॥

तदनु मुचुकुन्दोऽपि कथितनिजवंशेन वासुदेवेन विहितसल्लापो विदितयुगद्वयातिक्रमकलिसंक्रमस्वेन सह गुह्यं विसृज्य बहिर्निर्गतस्स्वराष्ट्रमन्यवशंनिशाम्य निशाम्य च निखिलां महीं ह्रस्वमनुजसंसेवितां तत्र वीतस्पृहः तमजमामन्त्र्य प्रालेयगिरिमुपेत्य तपसि स्थितस्ततश्चिरेण दिवमास्थितोऽभूत्**॥२२॥**

अथ मधुसूदनः पुनर्मधुरामुपेत्य तां यवनवाहिनीं मृतनाथां सर्वां स्वर्वाहिनीं भगीरथ इव संगृह्य द्वारकामाससाद**॥२३॥**

ततस्स्मृतिमात्रसन्निहितेन विश्वकर्मणा सागरोदरदेशे निजभवननिवेशेनविस्तारितां निजयोगेन शङ्खनाम्ना निधीन्द्रेण प्रतिसदनं प्रवर्षितमहाधनांमारुतेन च सपदि समानीतसुधर्माख्यसुरसभामपहसितामरावतीं तां द्वारावतीं यादवैस्सह समलङ्कुर्वाणेन हरिणा यथा मधुरायामुग्रसेनादिका एव नृपादिपदेषु निवेशिता बभूवुः**॥२४॥**

अथानुजानुमत्यैव रेवतस्यात्मजां बलः।
उपयेमे विधानेन रेवतीं गुणपार्वतीम्॥३०॥

ततः पुनरपि जरासन्धप्रभृतिषु नृपतिषु रुक्मिणीस्वयंवरार्थं विदर्भनगरमागतेषु निजसुतां तां चेदिनृपालबालस्य शिशुपालस्य दातुकामे च भीष्मके हरिस्स्वयमपि स्वपितृष्वसुः प्रियार्थमिव बलेन सह सयादवबलस्तन्नगरमासाद्य वहिर्निविष्टो निजजनककारितसकलकौतुकमङ्गलामादृतसर्वमङ्गलां शिबिकामारुह्य निस्तुलवैभवेन पुराद्बहिरागत्य शचीमभ्यर्च्य तद्गृहाद्बहिर्निर्गतामनल्पाभरणमणिप्रभाधिक्कृतमार्ताण्डमण्डलप्रभां वैतानशिखिशिखासप्रभां, स्वलावप्यसरिद्वरवेणीमिव सन्धारिताभरणश्रेणीं वेणीं स्वर्णाम्बररुचिरश्रोणिदेशे निजकरेण सन्दधानां रुचिरतरस्रग्विणीं रुक्मिणीं तां विग्रहवतीं निजविजयलक्ष्मीमिव समुद्वीक्ष्य विजिताक्ष इव तत्सविधमुपागतस्तया च मूर्तस्स्वार्चितशकसतीप्रसाद इव समुद्वीक्ष्यमाणस्सकलजनसमक्षं हाहेति प्रेङ्खद्वेत्रनेत्राणामेव तद्रक्षकाणां घन इव तटिल्लतां मृदुतकुलतां तां परिगृह्य श्यामलनिजभुजलतान्दोलिकया धारयन् तस्यामनोरथमिव स्वरथमपि सम्पूरयन् सपक्षशिखिनिवहमाह्लादयन् विपक्षवनरुहप्रहर्षमुन्मूलयन् स्वाग्रजे बलदेवे च स्वानुजेगदे च तदितरेषु वृष्ण्यन्धकवीरेषु चनिहितसमितिभरस्स्वपुरीमाजगाम॥

ततोऽद्भुततरो रणो विविधशस्त्रवर्षी महा–
नभूद्बलजरासुतप्रमुखयोर्नृपानीकयोः।
सतूर्यरवमुद्रजस्तिमिरमम्बरे यादवैः
जितं जितमिति क्षणाद्दिविषदां वचोऽप्युत्थितम्॥३१॥

रुग्मी च रोषपरवशस्तदा भीष्मकस्य पुरतः प्रतिज्ञामिमामकरोत्॥

अहत्वा युधि गोविन्दमनानीय च रुक्मिणीम्।
कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमि ते॥३२॥

इति विरचिताशक्यप्रतिज्ञो वाग्मी रुग्मी सपदि निजवरूथिनीमादायय रथेन निर्गतस्तदितरैर्भीष्मकसुतैः क्रथकैशिकमुख्यैरप्यनुगतस्सुदूरमुपगम्य रेवान्तिके रोहिणीरमणमिव रुक्मिणीहरणमासाद्य स्वयमेकाकी तेन सह द्वैरथयुद्धं प्रवर्तयन् तच्छरशकलिताश्व-सूत-ध्वजायुधतया जडीकृते स्वस्मिन्, घनसमूहेष्विव समापतत्सु ससैन्यस्वानुयायिव्युहेष्वपि तदाशुगपरम्परया तूलायमानेषु, पुनरपि निजशस्त्रास्त्रनैपुण्यं सन्दर्शयन् तदीयशरनिकृत्तशरासनस्स्वस्यन्दनात्तत्स्यन्दनोपरि सचर्मासिरवप्लुतोऽन्तरा तन्नाराचनिवहसमर्पितहेतिचेतनः तद्रथचरणं शरणमुपगत इव भूमौ निपतन्निजभगिनीप्रार्थनयैव तेनावियोजितप्राणः प्रयाते तस्मिन् कथमपि लब्धसंज्ञो हीनप्रतिज्ञतया कुण्डिननगरविमशन् विदर्भेषु भोजकटमित्यन्यत्पुरं निवेश्य तत्रस्य एव दक्षिणामाशामन्वशात्**॥२७॥**

अथ बलदेवेन सह वृष्णिवीरेष्वपि जरासन्धं निर्जित्य द्वारकामुपगतेषु,

तत्रासीत्सुमुहूर्त एवसुमहान्नित्यावियुक्तात्मनोः
ब्रह्माद्यैरमरैर्महर्षिनिकरैस्सेव्यो विवाहोत्सवः।
सौन्दर्यामृतसेवने पथि मिथः संसक्तनेत्रान्तयोः
भैष्मी-केशवयोर्द्विषां च सुहृदां खेदाय मोदाय च॥२३॥

रेमे तयाऽऽत्मरमणोऽपि सुतान् दशैकां
लेभे सुतामपि गृही स हरिर्महिष्याम्।
कृत्वैवमेव महिषीरपि सप्त चान्या

बह्वीर्वशी भवमहाम्बुनिधौविजह्रे॥२४॥

इति श्री हरिवंशचम्पौ पञ्चमो विलासः
—समाप्तः—

अथ षष्ठोविलासः॥
:0:

तदा सत्राजिदादित्यमुपास्य तपसोज्ज्वलं।
मणिं श्यमन्तकं नाम लेभेरविमिवापरम्‌॥१॥

अथ सदसितमन्ववेक्ष्यजात–
स्पृह इव स वभूव पृर्णकामः।
नृहरिरमुमदान्नृपो नतस्मौ
परमिह निदधे च निजेऽनुजे प्रतेने॥२॥

अथकदाचित्सोऽयं प्रसेनस्समणिर्विजनेवने मृगयां वितन्वन्‌ केनचित्पञ्चास्येन पञ्चतामनायि**॥१॥**

अथ सत्राजिता निजातुजवधःशमन्तकमणिहेतोःशौरिणा कृत इतिसमुत्पादितं मिथ्यापवादं परिजिहीर्षुःपरमपुरषोऽयं कतिपययादवैस्सह निजपुरान्निर्गत्यक्वचन कान्तारभुवि सिंहं निहतं प्रसेनंतददूरत एवऋक्षनिषूदितंसिंहं च निरीक्ष्य तदृक्षपदपदव्या व्रजन्नेव तदर्भकमुपलालयन्त्याः धात्र्याःमण्यागमक्रमावेदिकया गीतिकया निश्चितां तद्गुहां स्वयमेकल एवप्रविशन्‌ददर्शाग्रतो बन्दीकृतान्धकारनिकरुम्बमिवतनूरुहबृन्दमुद्वहन्तंभानुमन्तमिवस्वतेजसा ज्वलन्तं जाम्बवन्तम्‌**॥२॥**

युध्वा तेन हरिश्चिरं स्थिरतरं शौर्यं तदीयं विदन्‌
स्वीयं चास्य निदर्शयन्नसदृशंबीर्यं निजां स्मारयन्‌।
रामाख्यां च तनूमनय्यमथ चात्मानं परंवेदयन्‌
भक्त्यातेन समर्पिते मणिसुते सङ्गृह्यगेहं ययौ॥३॥

ततः प्रागेव तमजंगुहाया बहिर्वहूनि दिनानि प्रतीक्ष्यनिराशतयाप्रतिनिवृत्यपुरमुपागतान्‌ यादवानवलोक्य शोकसमाकुलस्य स्वकुलस्य पूर्णेन्दुवत्स्वस्य पौष्येवजाम्बवत्या सहोदयेन शुष्कीभवन्तमानन्दजलधिमुद्वेलयन्तं सदसिमणिमुज्ज्वलं तं पुरोधायचलितमुदन्तंनिगदन्तं भगवन्तमवलोक्य लज्जया सङ्कुचन्‌ सत्राजिदात्मापराधं क्षमापयन्निजदुहितरं मणिना सहतस्मैप्रदाय निर्मलमना बभूव**॥३॥**

हरिरपितं मणिंप्रत्यर्प्यसत्राजिते तत्सुतांसत्यभामामेव समग्रहीत्**॥४॥**

ततश्चासावात्मने निश्चितां सत्यामच्युतायादादिति रुषाशतधम्वानामयादवस्सत्राजितं निहत्य मणिमक्रूरे निवेशितवान्**॥५॥**

अथसत्यामुखेन विदिततद्वधेभगवति निजभयाद्धातमानंशतधन्वानंस्वाग्रजेन सह सुदूरं विद्राव्यततस्स्वयमेकाकितयैव तंनिहत्य तस्मिन्मणिमनवेक्ष्य नास्तीति वदतिसति, स तस्मिन्विशङ्कितो बलभद्रो निजमनुजंपुरं चापहाय हायनानि कतिचन मैथिलेताम्यर्चितोमिथिलायामेब सुखमवात्सीत्‌॥

ततो मणिभयादक्रूरोऽपि पुरादपक्रान्तः पुनरपि विषयविषक्तावग्रहनिग्रहाय कुकुरान्धकैरानीतस्सुनीतिमत्या मत्याऽऽत्मनःकन्यां स्वसारं च वासुदेवायसमर्प्यशान्तचित्तोऽभूत्‌**॥७॥**

अथ योगेन नृहरिः मणिमक्रूरगं विदन्‌।
आताय्यानुनयेनैव पुनस्तस्मै, समार्पयत्‌॥४॥

तदनु तन्मणिप्रकाशेनेव शमितमनस्तमोमलेबहे यथापुरं स्वपुरमुपेयुषि**॥८॥**

रुक्मिण्यामभवत्पुत्रः प्रद्युम्न इति योहरेः।
स तदा प्राप वैदर्भीं रुग्भिपुत्रीं स्वयंवरे॥९॥

रेमे सहतया धीप्रान्‌ दमयन्त्या नलो यथा।
अनिरुद्धमिति ख्यातं लेभे तस्यां सुतं च सः॥६॥

ततो हरिस्स्वपौत्रार्थे वरयामास भीष्मकम्‌।
रूपिणीं रुग्मिणःपौत्रींविवाहोऽपि तयोरभूत्‌॥७॥

ततः श्वशुरवचसा स्वसतीप्रार्थनया च जितोऽस्मीति वादिना वासुदेवेन भावुकेन तद्देव्याभगिन्या चसह ससैन्यो वादित्रघोषेणपितृपुरं प्रविश्यपूर्णप्रतिज्ञोरुग्मी दक्षिणापथवासिभिर्वेणुदारिप्रभृतिभिः राजभिरक्षक्रीडार्थंसुसम्बोधितः तैस्सह सभां निर्माय हरिणा सह सुखेन स्वपन्तं बलंतंबलादानाय्य तेन सह समारब्धालक्षद्यूतःक्वाप्यपराजिते तस्मिन्‌ बलेस्वाक्षपराजिते वयस्यैःकृतकोलाहलो हृतसर्वस्वंजितमशरीरवाण्याऽपि विबुध्य स्वावशेषितबलरोषमात्रेणैव विजृम्भमाणस्य तस्यपदघट्टनया पृथिव्यां मशकशिशुकदशामाससाद**॥९॥**

विनाशकाले विपरीतबुद्धि–
र्भवेदिति क्ष्मातलगः प्रवादः॥
न वैमृषा यत्स सदा हरेर्द्विट्‌
हितेऽद्यसक्तो हलिनाहतोऽभूत्‌॥८॥

अथ सुप्तोत्थितो नृहरिरग्रजंबलंकिमपि नब्रुवन्‌ विधेर्विक्रमं दुरतिक्रमं विदन्‌ भैष्मीं भीष्मकमपि बहुशो विलपन्तौ सान्त्वयन्‌ सधननिचयस्सानुगस्स्वपुरीमाजगाम**॥१०॥**

तत्पूर्वमेव कदाचिद्दुर्योधनसुतां हरमाणोजाम्ववतीसुतस्साम्वोराजभिर्निगृहीत इति रुषाऽऽगत्य नागसाह्वयनगरवप्रोपरि निजहलं प्रसार्यतन्नगरंगङ्गाम्भसि प्रक्षेप्तुमारभमाणे प्रलम्बपरिपन्थिनि प्रविह्वलमतिः धार्तराष्ट्रस्सभार्यं शौरिसुतं समुत्सृज्य गदाशिक्षार्थमात्मानं तच्छिष्यतामुपनिनाय**॥११॥**

ततः—

अहरदहह भौमः कुण्डले मे जनन्याः
जहि तमिति महेन्द्रेणार्थितोऽमुंमुकुन्दः।

स्वसुतमपि निहन्तुं तत्पुरं द्राक् प्रतस्थे
स गरुडमधिरूढः सत्यया सार्धमीशः॥९॥

अथ स गदाग्रजोनिजभुजाग्रलसद्गदासिदरचक्रशोभया निस्तुलस्रगभ्बराभरणशोभया च तारासरणिमवभासयन्‌ गरुडगरुदुद्भूतेन वातेन वियच्चरविमानावलीरम्बुदपालीरिव सुदूरमपसारयन् दक्षिणां दिशमनुसरन्‌ निजाध्वनिरोधिनीं-रक्षोवरूथिनीं विध्वंसयन्‌ विद्विषतामनुत्पादितभौमजयाशान्‌मौरवपाशान्‌ विच्छिद्य मुरमपि सपुरस्सरं संहरन्‌ शिलासङ्घानतीत्य निसुन्दंनिषूद्य देवैस्सह सहस्रपरिवत्सरानारचितमहासमरं हयग्रीवाभिधासुरवरं विबुधजनमनोगदौ विरूपाक्षपञ्चनदौ च पञ्चतां प्रापय्यप्राग्ज्योतिषं पुरमुपगतःतज्जनान्पाञ्चजन्यनिनदैःबधिरीचकार**॥१२॥**

अथ हविरिव भौमस्तार्क्ष्यवेदीसमिद्धे
समरयजनभूमौविष्णुवैतानवह्नौ।
अनुचरसुसमिद्धिश्चक्रधारोरुकीले
सुरवरनुतिमन्त्रैर्द्राग्जुहावात्मदेहम्‌॥१०॥

अथ भगवानपि भूम्या प्रत्यर्पिते अदितिमणिकुण्डले समादाय स्वनिहतस्य महीसुतस्य तस्यान्तःपुरं प्रविश्य तत्र तत्सम्भृतं विचित्रमणिभूषणाद्यनेकवस्तुसमुदयं धननिचयं गजाश्वयूथं च निजपुरं नेतुं तदारक्षकगणानाज्ञापयन् कमपि मणिशैलमारुह्य तत्र मरुद्गिरा देवर्षिवचसा च निजागमनंविज्ञाय नियमतस्तपस्यन्तीरात्मानमागतं विलोक्य पत्नीत्वेनात्माग्रहणमर्थयन्तीरसुरवरभुजबलोपनीताः गन्धर्वासुरकन्यकाः नैका अपि तद्रक्षकासुरवरकिङ्करवाहितामिः शिबिकाभिर्द्वारकां प्रति प्रस्थापयन्मणिमयं तद्गिरिशिखरंच वारुणं छत्रं च खगपतिपृष्ठमारोप्य सभार्यस्स्वयमपि तमास्थाय प्रस्थितोगगनपथेन सुमेरुगतदेवतायतनश्रेणीमालोकयन्नेव त्रिदशपुरमासाद्य पुरन्दरसदनवाह्याङ्गण एवसत्यया सह निजरथादवततार**॥१३॥**

तौ दम्पती सुरपतिः परिगृह्य चक्रे
पूजां पुलोमसुतया सह भक्तियुक्तः।
गत्वाऽदितेगृहममी चरकुण्डले ते
दत्वा प्रणम्य तत आपतुराशिषोऽग्र्याः॥११॥

तदनु तदनुज्ञामादाय महिष्या सह यथापुरं खगपतिस्कन्धमास्थायनिजपुरं प्रति प्रस्थितो निखिलसुरर्षिभिस्स्वर्चितः सरयमच्युतस्स पथि नन्दनेवनमखिलमात्मना विद्योतयन्तं स्वसविधं प्रसर्पतां तनूभृतां पूर्वगन्धमपूर्वगन्धं च मनोघ्राणयोरुत्पादयन्तं सदोदितप्रसूनजातं पारिजातं तरुमवलोक्य तं महागज इव महाभुजः समुत्पाट्य निजरथंनिश्शङ्कमारोपयन्नलक्षिततदारक्षकसुरनिकरसमितिसमुद्यमो निखिलचराचरप्रपञ्चप्रेक्ष्यमाणाद्भुतबैभवो यथावैभवं यादवगणैरभ्युद्गतः विविधसम्पदा विबुधमनःपूरकां द्वारकामाससाद**॥१४॥**

ततः पुनरपि पुरन्दरप्रार्थनया स्वस्तरुस्स्वस्थानमुपगतोऽभूत्**॥१५॥**

अथ हरिरुपयेमेषोडश स्त्रीसहस्रा–
ण्यपि भुवि विधिपूर्वं तासु रेमे यथेष्ठम्।
प्रतियुवतिनिशान्तं सर्वदाऽप्येकरूपः
प्रतिकुमुदवनान्तं पूर्णरूपश्शशीव॥१२॥

अथैकदा भीष्मकसुताया उपवासनियमान्ते रैवतकवनान्ते स्वदारसुतपौरमण्डलीभिस्सहविविधान्नपानपात्राभरणवाससां प्रदानेन सुविहितसर्वसर्वंसहासुरमण्डलीसन्तर्पणे भगवति वासुदेवे,॥१६॥

अस्तौषीत्सुरमुनिरेत्य रुक्मिणीं तां
पार्श्वस्थां श्रियमवलोक्य लोकभर्तुः।
दत्वैकं प्रियमुरु पारिजातपुष्पं
तत्तस्याः शिरसि बभौ यथेन्दुखण्डम्॥१३॥

सत्कारस्सदसि तथाविधस्सपत्न्याः
सत्यायाश्श्रवणमगात्फणीव भूम्याः।
फूत्कारस्सपदि ततस्सखीसमाजे
यस्तस्यास्स च नृहरेर्यथा महाद्रेः॥१४॥

ततस्तत्क्षणमेव स सर्वतश्चक्षुः वीक्षामात्रतस्सन्नद्धं स्वरथमास्थाय रैवतकान्निर्गतः द्वारकायांसत्यागृहद्वारमुपगतस्स्यन्दनादवरुह्य शनैरशनैश्शङ्कितहृदय एव तत्सखीजनैरन्तःप्रवेशितोसंवृत एव महीतले वियच्च्युतविद्युल्लतामिव तनूलतामुद्वहन्तीं दक्षेतरकरकमलनिक्षिप्तकपोलमूलतोऽक्षिमुकुलयुगलेनाश्रुस्रवन्तीमविरलमुत्सृजन्तीं सदसि संवृत्तं तं सपत्नीसन्मानमेव मनसिमुहुर्मुहुः विचिन्त्य पुनःपुनः निश्वसन्तीं निरस्तकर्णाभरणतया निजापरक–पोलस्थलींनिस्तारशारदनिशानभस्स्थलीमिव सन्दर्शयन्तीं पतिचरितं प्रत्यात्मनो मोहमनुस्मृत्यासकृत्स्मयमानां सात्राजितीमालोक्य कथमिति चिन्तयाऽवस्थितस्सखायमिव तेन सहागतं पारिजातगन्धमाघ्राय विस्मयाविष्टहृदयतया दिशिदिशि दत्तनेत्रान्तया तया सरोपासूयादुःखातिरेकमालोकितः निर्दयमतिनिष्ठुरया गिरा निर्भर्त्सितस्स्वापराधं कमपि स्वयमजानान इव स्वात्मनस्तदेकायत्ततामेवानुवर्ण्य कथमपि तयैव प्रकाशितापराधः स च देवर्षिणोत्पादित इति निजनिष्कलङ्कतामापाद्य साम्नैव बहुशः प्रार्थयन्नप्यलब्धप्रसादस्तांपुनराश्वासयन् तत्सखीसमक्षं सस्मितमिदमभाषत**॥१७॥**

प्रादात्प्रिये कलहकल्पतरुस्स भैष्म्यै
यस्यैकमद्भुततमं कुसुमं सुरर्षिः।
तं पारिजाततरुमेव तवाहरामि
सत्यं ब्रवीमि सुभगे! मयि सम्प्रसीद॥१५॥

इति सशपथमुक्तया रोषादिदोषपरिमुक्तया भक्तया तया सपदि परमादरेण सम्पूजितस्संक्रन्दनानुजः तत्रैव निजगृह्यकर्मणि सन्निविष्टोऽभूत्**॥१८॥**

अथ नारदोऽपि भीष्मकसुतामामन्त्र्य तया सहैव द्वारवतीं प्रविश्यसात्राजितीसदनमुपगतस्तया सह केशवेन यथाविधि परिपूज्य परमासने सन्निवेशितस्तदनुयोगेन तत्पारिजाततरोः प्रभवं प्राभवं चेत्थमकथयत्**॥१९॥**

असृजददितिहेतोः कस्यपः पारिजातं
तमदितिरपि शच्याः पुण्यहेतोः सुतेऽदात्।
अथ हरवरतोऽभूत्तस्य शच्यथर्थमेव
स्थितिरुपवनदेशे सर्वदा वासवस्य॥१६॥

विविधकुसुमगन्धान्‌ गीतवादित्रनादान्‌
धनकतकमणीनांभूपणानां च राशीन्‌।
दिशति निखिलकामान्‌ कामरूपी स वृक्षः
सुरनरवरभोग्यानन्नपानादिकांश्च॥१७॥

अथहरिरिदमूचे पारिजातं द्रुमं तं
सुरपतिमभियाचे सोऽनुजेचेत्कृपालुः।
वितरति बत नोचेदाशु कौमोदकी मे
विहरति युधि नीचेत्यस्य वक्षस्यनीचे॥१८॥

एतदाकर्ण्यतद्गिरा पुनः सुरमुनिस्त्रिविष्टपं प्रविष्टःशिपिविष्टमहोत्सवेसदसिसमुपविष्टस्य हरिहयस्याग्रतो हरिगिरमुद्गिरन् रहसि मुहुर्मुहुर्नयमुपदिशन्नप्यसम्बुद्धनिजहिते तस्मिन् पुनरपि कुशस्थलींप्राप्यनृहरेः पुरःपुरन्दरगिरमेवं व्याजहार**॥२०॥**

मम सकलसमृद्धिस्सोऽनुजश्चेत्तदीया
भवतु हरतु नैतंपारिजातं त्वयुध्वा।
बत बत कथमेकंवत्सरंवा सहेऽहं
दिवि भुवि गुणसाम्यं कारितंस्त्रीजितेन॥१९॥

एतदाकर्ण्यकृतसमितिनिश्चये श्रीपतौकलहविशारदोनारदः कृतकृत्य इव ततोऽन्यतोऽभूत्‌**॥२१॥**

तमुदन्तं समाकर्ण्य सुरेन्द्रगुरुणोदितम्‌।
कस्यपोऽस्तुवदीशानं भाव्यं च बुबुधे ततः॥२०॥

अथ मधुसूदनो मृगयामिषेण रैवतकगिरिमुपगतस्तत्र ससारथिं निजरथंनिक्षिप्य पक्षीन्द्रमधिरुह्य सात्यकिरौविमणेयाभ्यां सह वियदध्वना विबुधोपवनमाश्रितः तत्रत्यं पराजितनिजाश्रितारिजातं पारिजातं तरुमुत्पाट्य पतगपतिमलङ्कुर्वाणस्तदारक्षकसुरनिकरहाहारवाडूतनिखिलगीर्वाणगणैस्सविस्मयातिशयमीक्ष्य-माणस्तत्तरुहरणाय मुहुर्मुहुरापतन्तौ प्रवरजयन्तौ पक्षिप्रवरपक्षद्वयसहायाभ्यां सात्यकिप्रद्युम्नाभ्यां पराजित्य स्वयमैरावतगजस्कन्धवर्तिनासहस्राक्षेण सह सुरुचिरं सुचिरं शस्त्रास्त्रपरम्पराभिर्विरचितायोधनः वैनतेयपदप्रहारविह्वलिताङ्गेन मातङ्गेन सह पारियात्रमहीधरशिरसि निष्पतन्तं सुरर्षभंतं जन्झानिल इव जलधरमनुससार**॥२२॥**

तत्रापि युद्धमभवन्महदद्भुतं च
विक्रान्तयोर्नृहरिवासवयोर्नगान्ते।
श्रान्तोऽभवत्सुरपतिस्स यदा दिनान्ते
शान्तं ततो दिविषदः परिवव्रुरेनम्॥२१॥

अथ तस्यामेव निशायां पुष्करपरिसरे कृष्णेन स्वर्धुनीरोधसि बिल्वोदकेनावाहितो बिल्वोदकेश्चरः सपदि परमादरेण पारिजातकुसुमैरात्मानं सम्पूज्यसंस्तुषन्तं हरिं तं जयवरेणाभिनन्द्य क्वचिदन्तर्धरणीदेशसंछन्नानवध्यान्षट्पुरनगरवासिनो दानवान् हन्तव्यानावेद्यान्तर्हितोऽभूत्**॥२३॥**

अथ गिरेरपि हरिस्सर्वदा स्वनिवासमावेदितवान्**॥२४॥**

ततः प्रभाते पुनरपि तयोरिन्द्रोपेन्द्रयोः महायुद्धे प्रवृद्धे ब्रह्मणोऽनुज्ञया देवमात्राऽदित्या सह कस्यपः कदनभुवमाजगाम**॥२५॥**

दृष्ट्वा तौ पितरौ विसृज्य सहसा शस्त्राणि धात्रीं गतौ
प्रेक्ष्योवाच सुतौ तदाऽदितिरिदं प्रेम्णा परिष्वज्य तौ।
सौभ्रात्रं युवयोस्सदाऽस्तु नृहरे सत्यामुदे वत्सरं
भूमौ त्तिष्ठतु पारिजातसुतरुः पश्चाद्दिवं गच्छतु॥२२॥

अथ हरिरपि तद्गिरं तथैवेत्यनुमोदमानः शच्या सह सुरेन्द्रेण मातृगिरा समर्पितैः द्विव्याभरणजातैस्सह पारिजातं सात्यकि-प्रद्युम्नौ च पतगेन्द्रस्कन्धे पुरस्कृत्य परिपूर्णमनोरथः स्वरथेन निजनगरमासाद्य तत्सर्वं सत्यासदनमनीनयत्**॥२५॥**

देवस्त्रीणां हिमक्ष्माधरवरतनया यद्विधानं पुरोचे
भैष्म्यादीनां पुरस्तादमरमुनिरपि प्राह पृष्टो यदाभिः।
यत्कर्तव्यं सतीभिः परमनियमतः सुव्रतं पुण्यकाख्यं
तत्कर्तृं सत्यभामा व्यवसितहृदया हर्षयुक्ता बभूव॥२३॥

सा वीक्ष्य विस्मितवतीवरपारिजातं
सस्मार तं सुरमुनिं समुपागतेऽस्मिन्।
सम्पूज्य तं तरुममुं चसुरर्षिमस्मै
प्रादाद्धरिं सुरतरौ सुमदामबद्धम्॥२४॥

अथ नारदोऽपि तं प्रतिगृह्य निजानुगं विधाय तस्मिन्निजनियोगंकञ्चिददर्शयत्**॥२७॥**

कृष्णोऽवदत्तदनु देवमुनिं वशेऽस्मि
किं ते प्रियं स्मर करोमितरामितीशः।

प्रीतिं स्वलोकविनिवासमयोनिजत्वं
विप्रत्वमप्यदिशदीप्सितमेव तस्मै॥२५॥

सत्या यथेष्टमखिलान्यपि सा सपत्नी–
सङ्घेभ्य एव विविधाभरणानि दत्वा।
कामैस्सुपूर्णहृदया सुतरां विजह्रे
पाञ्चालराजसुतया च सुभद्रया च॥२६॥

हरिरपि समुहृद्भिर्ज्ञातिसंबन्धिवर्गैः
पुरजनपरिवारैस्संयुतो द्वारकायाम्।
नरवरदुरवापैः कामभोगैर्विचित्रैः
निमिषमिव स रेमे यापयन्नब्दमेकम्॥२७॥

अथ गरुडेन तं तरुं त्रिदशवनमुपनयन् पुण्डरीकनयनः सहस्रनयनमिदमवादीत्**॥२८॥**

शर्वादिष्टं तदिह सहसा कर्तुकामोऽस्मि वज्रि–
न्नन्तर्भूमौ रहसि वसतो दानवान् यामि हन्तुम्।
देवावध्या द्रुहिणवरतो मायिनस्तेच दैत्याः
मायावेदी प्रवर इह यस्सोऽस्तु साकंमयाऽद्य॥२८॥

तथेति बलशत्रुणा सपदि दत्तमेनंनयन्
किरीटमपि कुण्डले शिरसि कर्णयोस्संवहन्।
सहस्रमिहिरोदयश्रियमथाम्बरे दर्शय–
न्नवाप नगरीं निजां निजरथेन नारायणः॥२९॥

आवर्तायास्तटभुवि तदा देवदत्तस्य गत्वा
यज्ञारम्भे द्रुतमनुचरैःषट्पुरस्थो निकुम्भः।
सोमं कन्याः प्रदिश मणिभिर्नस्त्वमस्यान्थथात्वे
यज्ञो मा भूदिति तमरुणत्कन्यकाश्चाजहार॥३०॥

तमुदन्तं हरिर्ज्ञात्वा वसुदेवेन च स्मृतः।
प्रद्युम्नं प्रेषयामास तत्र पश्चात्स्वयं ययौ॥३१॥

प्रद्युम्नोऽपि स ताः कन्याः मायाकन्याभिरुद्धतम्।
निकुम्भं वञ्चयन्वेगात्पित्रन्तिकमनीयत्॥३२॥

अथ विधिसुतवाग्भिः प्रेरितोऽसौ निकुम्भः
शरणमुपगतोऽभूत् क्षत्रबृन्दं समेतम्।
यदुगणरणभीतस्तत्र यज्ञोपहूतं
ददुरभयममुष्मै पार्थिवाः पाण्डवान्ये॥३३॥

अथ हरिरतिवेगात्सेनया भीमयाऽगा–
दवितुमरिनिरोधाद्देवदत्तस्य यज्ञम्।
क्रतुभुवमभितोऽधात्पाण्डवान् भूरिसैन्यान्
दिवि सुतमपि मायावेदिनं रौक्मिणेयम्॥३४॥

निहितनिखिलसैन्यः षट्पुरद्वारदेशे
प्रवरमपि जयन्तं व्योमरन्ध्रे निवेश्य।
स्वयमपि धृतशार्ङ्गः शौरिराशीविषारेः
मुजशिरसि विरेजे सीरभृत्सात्यकिभ्याम्॥३५॥

ततस्तत्क्षण एवतत्सैनिकाभिहतभेरीमृदङ्गादिरवमसहमानेष्विव निकुम्भप्रमुखदानवयोधेषु विविधायुधान्यादाय विचित्रतरवाहनैर्गुहामुखाद्बहिर्निर्गतेषु,॥२९॥

पादाघातचलन्महीपृथुभरश्रान्ताष्टदिग्वारणो
ज्याघोषैश्चजयाट्टहासनिनदैर्ब्रह्माण्डमापूरयन्।
नानाशस्त्रशरप्रहर्षातिमिरव्यापारमृग्यारुणो
भूमौ यादवदानवप्रकरयोरासीद्रणो दारुणः॥३६॥

अथ युधि यादवानीकं निर्जित्य तत्र कांश्चत गुहान्तरे विनिर्बध्यवियति विजृम्भमाणानां दानवानां रणरङ्गसङ्गतेषु केषु चिच्छार्ङ्गिशिखिशरार्चिषि शलभायितेषु दिवि पलायनपरेष्वपरेषु प्रवरशरप्रकरनिकृत्तकन्धरेषुदिशिदिशिधावमानेष्ववशेषितेष्वपि जयन्तशरपरम्परासंचूर्णितेषु,॥३०॥

समरभुवि निकुम्भः कुम्भवत्पूर्णवेगान्
हरिशिरसिं शरौघान् पातयन् जृम्भमाणः।
तदतिनिशितबाणैर्भिन्नगात्रोऽन्तरिक्षं
न्यविशत स जयन्तस्तेन युद्धं प्रचक्रे॥३७॥

अथ निकुम्भः कुम्भ इव जयन्तेन भुवि निपात्य निगृहीतोऽपि तस्मात्कथंकथमवमोचितः मुकुन्देन सह समरमाकाङ्क्षमाणः प्रद्युम्नेन मायागुहायांपशुपतिपाशनियन्त्रिततया प्रतिश्रुतमुपेक्ष्य पेटिकायामहिबृन्दमिव निजपटवाटिकायां निष्पन्दं क्षत्रवृन्दं निर्भर्त्स्यनिष्ठुरतरप्रहारविह्वलीकृतबल-कृष्ण-पाण्डवो वितथीकृतपार्थप्रयत्नः स्वगुहामाविवेश**॥३१॥**

अथ कृष्णोऽपि निजैस्सह तद्गुहामनुविशन् तत्र पुरोपरुद्धान् यादवान्पुत्रोपरुद्धानन्यान् राजन्यांश्च प्रविमोचयन् निकुम्भेन तेन सह विरचितविचित्रायोधनः तच्छिरश्शरैरभेद्यं गगनगिरा निजारिधारयोत्कृत्य शतक्रतुश्शतधारधारया गिरेः शृङ्गमिव भुवि न्यपातयत्**॥३२॥**

ततः—

दिवि सुरवरसङ्घैर्दिव्यवादित्रनादैः
हरिशिरसि विसृष्टा पुष्पवृष्टिः प्रकृष्टा।
भुवि च सुजनसङ्घैस्तद्वदत्यन्तमोदैः
निजवपुषि विसृष्टा बाष्पवृष्टिः प्रकृष्टा॥३८॥

कन्यारत्नैश्च रत्नैः प्रतिसदनगतैः षट्पुरे दानवानां
सर्वान् राजन्यसङ्घानपि निजसुहृदः पूर्णकामान् विधाय।
स्थानेऽस्मिन् स्थापयित्वा ह्यथ सुकृतमखं देवदत्तं पुरीं स्वां
प्रायाद्बिल्वोदकेशं स्तुतिनतिनटनैस्तोषयन्नाप्तकामः॥३९॥

देवावध्यं दितिर्यं भुवि बत सुषुवे कश्यपं तोषयित्वा
योऽसौ लोकांश्च सर्वान् सुरमुनिवचसा मन्दरं चोन्ममर्द।
तस्मिन् घ्वस्तेऽन्धके प्राक्रिपुरविजयिनःशूलपातेन यद्व–
त्तद्वद् ध्वस्ते निकुम्भे सपदि जगदभूद्विज्वरं चातिहृष्टम्॥४०॥

इति श्री हरिवंशचम्पौ षष्ठो विलासः
(*)समाप्तः(*)—

अथ सप्तमो विलासः॥
—:०ः—

हरिर्द्वारवतीं प्राप्य मुमोद यदुभिर्वृतः।
सुरेन्द्रस्स्वपुरीं प्राप्य सुरैरिव गतज्वरैः॥१॥

पुर्यांनिवेश्य वसुदेवमथाहुकं च
यात्रा कदाचिदुदधिं प्रति संप्रवृत्ता।
सान्तःपुरस्य नृहरेर्यदुभिर्वृतस्य
सर्वैश्च पौरमिथुनैर्गणिकागणैश्च॥२॥

क्रीडा बभूव लवणाम्बुधितोयमध्ये
द्राग्द्वन्द्वशो विहरतां यदुपुङ्गवानाम्।
दिव्याम्बराभरणरूपवयोविसासैः
रम्या गुणैर्वियति विस्मयदा सुराणाम्॥३॥

गलगतवनमालः पानलोलाक्षितारः
सुरुचिरमदखेलः स्कन्धविस्रस्तचेलः।
विधुरिव बलदेवस्तत्र विक्रीडमानो
जलधिपयसि सोऽभाद्रेवतीरम्यरूपः॥४॥

हरिरिह तु विरेजे हासनानाविलासैः
प्रतियुवतिकदम्बं स्त्रीसहस्रैः परीतः।
विमलपयसि सिन्धोर्व्यक्ततारासहस्रै–
रुडुपतिरिव राकाशर्व रीष्वभ्रमध्ये॥५॥

पुनरपि स विरेजे फुल्लनीलाम्बुजाभैः
हसिनलसितकान्तारत्नसंयोगरम्यैः।
प्रतियुवति विभिन्नैरात्मरूपैरनन्तैः
प्रतिफलितसतारव्योमखण्डैरिवाब्धौ॥६॥

यदि बहु गलदघ्नं जानुदघ्नं मितं चेत्
सुरभिलमतिशुद्धं रत्नयादोऽनुविद्धम्।
अभवदलघुवीचीवज्रपर्यङ्कमम्भः
प्रविशति महिषीभिर्माधवे सर्वतोऽब्धिम्॥७॥

जलधिपयसि सर्वे रत्नशैलं वनाढ्यं
मणिभवनविमानव्यूहमन्नादिकं च।
अथ च सकलभोगान् प्राप्य हृष्टा यथेष्टं
प्रियरतिपरितृप्ता गानसक्ता बभूवुः॥८॥

इति सुरनरचेतस्तत्रसन्दिग्धमासीत्
स्थल-जल-वन-लीलाशैल-सद्मादिरूपैः।
जलनिधिरूपतस्थे किं नु लक्ष्मीपतिं तं
मुरुरिपुरथवा तैः स्वाश्रितं स्त्रीकदम्बम्॥९॥

रुचिरखचरयादोरूपदारुप्लवैस्ता
विविधगतिविदग्धाश्चेरुरब्जायताक्ष्यः।
करधृतजलयन्त्रैस्स्नापयन्त्यो मिथोऽब्धौ
मुहुरपि धुरि शौरेः सूक्ष्मवस्त्रावृताङ्ग्यः॥१०॥

सुरमुनिरपि चित्रं तत्र शौरः पुरस्तात्
करधृतजलयन्त्रैस्सत्ययासिक्तगात्रः।
पिक इव सुविपञ्चया पञ्चमं गायमानः
शुक्र इव शुभवाचं व्याहरन् वै चचार॥११॥

जलधिरथ विमानैः रवेसुराणां सहस्रैः
पयसि पृथुपताकाशोभितैर्नौसहस्रैः॥
यदुयुवतिसहस्रैरप्सस्स्त्रीसहस्रैः
वृत इव स तदाऽभाच्चन्द्रतारासहस्त्रैः॥१२॥

रासो लास्यं द्वयमतितरां तालमानानुसारि
व्यूहे व्यूहे समजनि हरेः कीर्तिचर्यानुकारि।
भूयोभूयः प्रतिसुरनरं तद्बभूवातिरम्यं
चित्राम्भोधौ मृडमुखजगन्मग्नमासीत्तदानीम्॥१३॥

पार्थोऽपि तत्र पुरुषोत्तमपार्श्व एव
स्थित्वा तदा सुविहरन् ससुभद्र एव।
स्वर्गापवर्गसुखमल्पममंस्त धीमान्
स्वानन्दमद्भुततमं परमं प्रपन्नः॥१४॥

नन्दोऽपि तत्र सह गोपगणैरकस्मा–
द्गाश्चारयन्नुपगतोऽम्बुनिधेस्तटान्तम्।
सम्मानितोऽथ हरिणा सहसा निजैस्तैः
क्रीडन् जले मुदमवाप परैर्दुरापाम्॥१५॥

एवं विहृत्य सलिले स हरिस्पुरौधै–
स्तूर्यस्वनेन जलदैरिव पुष्पवर्षैः॥
वृष्टः प्रत्दृष्टमनसा तटमाप सिन्धोः
पूर्वाद्रिमिन्दुरिव तत्किरणा इवान्ये॥१६॥

पौरोगवस्य वचनादथ सूदसङ्घैः
क्लृप्तं समस्तमुपभुज्य सभक्ष्यमन्नम्।
मांसादिकं च मिलिता यदवोऽङ्गनाभिः
पीत्वा च पेयमतुलं हृषिता बभूवुः॥१७॥

गान्धर्वमत्र महदद्भुतमाविरासी–
द्रङ्गेषु दिव्यमखिलागमसारवर्षि।
तत्रैव मग्नहृदया यदवो निशाया–
मात्मानमप्यहहनोविदुरन्यदास्ताम्॥१८॥

एतदन्तस्मासाद्य निकुम्भोनाम दानवः।
पुरे भानुमतीं कन्यां जहार निवमायया॥१९॥

वसुदेवाहुकाम्यां च विज्ञापिततदक्रमः।
ससुतस्सार्जुनोऽगात्तं गरुडेन त्रिविक्रमः॥२०॥

स निकुम्भोऽपि तां कन्यां मह्याममुञ्चन्नेव निजगदां तेषु विमुञ्चन्तच्छरपरम्परया निर्दयमर्द्यमानोमाययाऽन्तर्हितोऽपि तैरनुगत एव पुनः शकुनीभूय सर्वां भुवं परिभ्रमन गोकर्णस्योपरिष्ठाद्गङ्गापुलिनेकन्यया सहपपात**॥१॥**

एतदन्तरमासाद्य प्रद्युम्नः शीघ्रविक्रमः।
जहार भानुपुत्रीं तां सुधामिव सुरर्षभः॥२१॥

असुरश्शरजालेन कृष्णाभ्यामर्दितस्तदा।
ज्ञातीनामालयं प्राप षट्पुरं स वृथोद्यमः॥२२॥

ततस्तां कन्यां निजपुरं प्रापय्य प्रत्यागतेन प्रद्युम्नेन सह षट्पुरद्वारमुपरुध्य गर्जति सवासवात्मजे वसुदेवात्मजे**॥२॥**

निर्ययौ स बिलात्तस्मान्महागिरिरिवासुरः।
वासव्याद्यास्तमासेदुः शरजालैरिवाम्बुदाः॥२३॥

अथ महासुरो निकुम्भः सपदि निजगदाप्रहारैर्विसंज्ञौ प्रद्युम्नपार्थौक्रमेण रणभुवि पातयन्कौमोदकीविलसितविग्रहेण हरिणा सह दुर्वारेणाग्रहेण सुचिरमारचितगदारणो निजरणचातुर्यमदमाधुर्यपरवशीकृतनिर्जरद्विरेफनिकरकरम्बितगगनरङ्गाङ्गणो वारण इव विजृम्भमाणः तद्गदाप्रहारेण विसंज्ञ इव विद्योतमाने भगवति वासुदेवे तस्मिन् सोयं सेवासमय इति वासवेन सामृतेनगगनगङ्गाम्भसा संसेविततया प्राप्तप्राण इव सरभसमुत्थाय निजवधायात्तचक्रे प्राणरिरिक्षिषया मृत इव भुवि निजां तनुमपहाय माययान्तर्हितोऽभूत्**॥३॥**

अथ हरिरपि प्राप्तसंज्ञाभ्यां पार्थरौक्मिणेयाभ्यां सह सम्भाषमाणःतदसुरशरीरं शनैश्छेत्तुमारभमाणो दिवि च भुवि चायुतमयुतं निकुम्भानांपुनस्तद्गृहीतानां धनंजयादीनामात्मनां च समीक्षमाणो मायाविनस्तस्यनिजस्थितिमनवेक्षमाणो विमुह्यन्निव निमिषमितस्ततो वीक्षमाणः क्षणेन पुनस्तमरिं दिव्येनैव चक्षुषा तत्त्वतो निरीक्ष्य निजारिधारया तच्छिर आजहार**॥४॥**

एवं निहत्य स निकुम्भममुं द्वितीयं
संसान्त्वयन् स्वसखमर्जुनमब्जनाभः।

सार्धं सुतेन गरुडेन समूह्यमानः
स्वामाजगाम नगरीं परिपूर्णकामः॥२४॥

तदनु स निकुम्भारातिः नारदगिरा तस्याः भानुमत्याः दानवग्रहणमोचनहेतुभूतं रैवतकोद्यानभुवि संप्रवृत्तं महर्षेः दुर्वाससः शापानुग्रहोदन्तंविज्ञाय तां कन्यां माद्रीसुताय सहदेवाय दापयामास**॥५॥**

तत्पूर्वमेव कदाचिद्वज्रनाभो नाम दानवः कश्चन चतुराननवरादमरावध्यतां किमपि मणिमयंवायोरप्यसुलभप्रवेशनिर्गमं वज्रपुरमपि संप्राप्यदुर्मतिरतिदुर्वारेण गर्वेण सुरपतिमासाद्य कश्यपसुतसाधारणीं त्रिभुवनराज्यलक्ष्मीं सम्प्रार्थ्य पित्रनुज्ञामपेक्षमाणे तस्मिन् काश्यपमुपगतः तेनापियज्ञसमयमाख्याय सम्प्रेषितः तद्यज्ञान्तसमयमनुपालयन्निजनगरमाससाद**॥६॥**

शतक्रतुरपि सत्वरं द्वारकामुपगम्य निखिलमपि तमुदन्तं शौरयेनिवेद्य निजालयमुपागमत्**॥७॥**

तदैव वसुदेवस्य वाजिमेधे महाक्रतौ।
भद्रो नाम नटः कश्चिन्नाट्येनातोषयन्मुनीन्॥२५॥

सर्वदिग्गमने शक्तिमवध्यत्वादिकं च सः।
वरं प्राप्य मुनीन्द्रेभ्यश्चचार निखिलां मुवम्॥२६॥

तदनु महेन्द्रप्रेरणया केषु चिद्राजहंसेषु त्रिविष्टपाद्वज्रनगरमासाद्यवज्रनाभानुमतेन तदन्तःपुरोपभोग्यासु योग्यासु वापीष्वितस्ततन्चरत्सु**॥८॥**

मानुषालापिनस्तांस्तु वीक्ष्य सर्वेऽपि रेमिरे।
स्त्रियो विशेषात्तत्रापि राजपुत्री प्रभावती॥२७॥

ततश्शुचिमुखी नाम राजहंसी प्रभावतीम्।
कथाभिरभिरामाभिः प्रीणयन्तीदमब्रवीत्॥२८॥

अयि सखि! चारुहासिनि स्वयंवरानुमोदिति कुतो नाद्यापि देवारुसुरकुलसमुद्भवेषु स्वानुरूपरूपिणं पतिं कर्मपि कामयसे; किमर्थमेतद्गमयसिवृथैव यौवनं; कथं नाद्यापि श्रुतिपथमागतस्तव कुलरूपशीलसम्पदामनुरूपःप्रद्युम्नः?॥९॥

देवेषु देवमसुरेष्वसुरं वरिष्ठं
मर्त्येषु मर्त्यमुरुधैर्यमवार्यशौर्यम्।
धन्याऽसि चन्द्रमुखि शम्बरघातिनं तं
कामं प्रकाममिह कामयसे यदि त्वम्॥२९॥

एवं निशमितरौक्मिणेयरूपगुणवैभवा तत्प्रभावमेव मुहुर्मुहुर्मनसि भावयन्ती तत्समागममभिलषन्तीतदुपायमर्थयन्ती स्मृतमपि तत्पितृवैरमगणयन्ती सां निजसख्याः शुचिमुख्याः कथाकौशल्यं तत्प्रार्थनया स्वपित्रेन्यवेदयत्**॥१०॥**

अथ वज्रनाभोऽपि तत्कथाश्रवणकुतूहलेन तां हंसीं निजगृहं प्रत्यानयन् विविधाः कथाः कथयन्त्यास्तस्याः कथान्तरे महर्षिभिः प्राप्तवरस्य भद्रनाम्नो नटस्य देवगन्धर्वगेयेषु गानेषु च नानाविधेषु नाट्येषु च महतीं निपुणतामाकर्ण्य तदानयनाय कांश्चन राजहंसानचोदयत्**॥११॥**

तेऽपि मरालास्तत्क्षणमविरलकुतूहलेन तत्पुरान्निर्गत्य तमुदन्तं महेद्राय निवेद्य तदाज्ञया द्वारवतीमुपेत्य तत्सर्वं माधवाय व्यजिज्ञपन्**॥१२॥**

अथ कृष्णेन सन्दिष्टाः प्रद्युम्नाद्याश्चयादवाः।
नटवेषेण संछन्नाः प्रापुर्वज्रपुरं कमात्॥३०॥

नटीभिर्वारमुख्याभिः प्रद्युम्नाद्यैर्नृपैरपि॥
विदूषकेन साम्बेन वादकेन गदेन च॥३१॥

भद्रेण तत्सहायैश्चनारदेन महात्मना।
बद्धेन केशवगिरा वज्रनाभसया॥३२॥

तत्र रामायणं ते तु गङ्गावतरणं तथा।
रम्भाभिसारकौबेरं प्रायुञ्जन्नाटकं नटाः॥३३॥

ततः—

सदसि समुपविष्टैः वज्रनाभस्य तुष्टै–
रसुरकुलविशिष्टैर्द्राङ्नटेभ्यो विसृष्टैः।
सुरचिरवसनानां राशिभिर्भूषणानां
विरचित इव सेतुर्गीतमाधुर्यसिन्धौ॥३४॥

अथ ते नटाः प्रावृत्तटाका इव परिपूर्णजीवनाः राज्ञा वज्रनाभेन तदन्तःपुरजनेन च बहुशस्सम्मानितास्तद्दत्तानि धनकनकवस्तुवाहनादीनि च संगृह्य तत्रैव मणिमयभवनेषु सुरुचिरंमरमन्त**॥१३॥**

तदैव राजसुता प्रभावती निजसख्या हंसनन्दिन्या द्वारवत्यास्स्वागमनमावेद्य ‘चिन्तितं सफलम्; अद्य प्रदोष एव प्रद्युम्नेन सह सङ्गच्छसे’ इत्यभिहिता प्रमोदाम्बुधिमुपगता हर्म्योपरि तदागमनाय कृतसंविधाना विचित्राभरणपरिधाना प्रियागमनं प्रतीक्षमाणा तस्मिन् चिरयति सति तद्विरहानलेनविप्लोष्यमाणा तां सखीं गद्गदमिदमवादीत्**॥१४॥**

हा! कष्टमद्य मदनः किरतीह बाणान्
प्राणान् हरत्यपि मृदुः श्वसनो ममैषः।

चन्द्रोऽपि पुष्कलमसौ स्वमयूखजालैः
दावाग्निमुत्सृजति हा सखि! किं करोमि?॥३५॥

हा! किं विमुह्यति मनो मम जातकम्पे
का वा सखि प्रजनिता रुगनौषधेयम्।
पश्यामि चेन्न मुखमिन्दुसखं प्रियस्य
यास्यामि तां गतिमवाप कुमुद्वतीयाम्॥३६॥

अथ प्रद्युम्नोऽपि तत्पूर्वमेव स्मृतहंसनन्दिनीसन्देशः स्वावासदेशान्निष्क्रम्य राजपुत्र्यै नीयमानं माल्यमनुसरद्भिः षट्पदैस्तह स्वयमपि मायया षट्पदीभूय हृर्भ्यान्तरं प्रविष्टः सायमिति निर्गतेषु तेषु सहचरभृङ्गेषु तत्कर्णावतसकुवलयं प्रविश्य तत्रैव निलीयमानस्तस्यास्तादृशीमवस्थामसहमानः स्वागमनं तत्सख्यै सूचयन् तदनुमत्या तस्याः प्रभावत्याः पुरः प्रादुरभूत्**॥१५॥**

सा तं निरीक्ष्य सहसा महसाऽस्य दिग्धा
मुग्धा विनम्रवदनाऽर्धनिमालिताक्षी।
नोवाच किंचन निरुद्धनितान्तहर्षा
कादम्बिनी भृतजलेव निरुद्धवर्षा॥३७॥

तां प्रसाद्याथ यत्नेन गान्धर्वविधिनैव सः।
सङ्गृह्य रेमे तत्रैव तया सह चिरं सुधीः॥३८॥

तद्वज्रपुरवृत्तान्तमिन्द्राय हरयेऽपि च।
प्रत्यहं प्रापयामासुः हंसास्तेहि मनोजवाः॥३९॥

भ्राता तु वज्रनाभस्य सुनाभ इति दानवः।
आसीद्धैर्येच शौर्येच तस्मादनवमो बली॥४०॥

तस्य कन्याद्वयं चासीदेका चन्द्रवतीतयोः।
अन्या गुणवती ताभ्यां दृष्टा सैषा प्रभावती॥४१॥

रतिसक्तैव सा दृष्टा पश्चात्पृष्टा च धीमती।
सखीभ्यां प्राह ते कन्ये सुधासिक्तमिदं वचः॥४२॥

निवसति मयि विद्याऽलम्भि दुर्वाससो या
सकलमिदममुष्याः प्राभवादेव लब्धम्।
यदि रुचिरिह वां तां दातुमीशे यदाप्तया
भुवि निजवशगास्स्युर्देवगन्धर्वयक्षाः॥४३॥

ते कन्ये तां गिरं श्रुत्वा विद्यां तां परिगृह्य च।
गदं साम्बं च सम्प्राप्य रतिमापतुरुत्तमाम्॥४४॥

अथ जलदसमूहैः क्रान्तरोदोतरालाः
अविरलजलधाराच्छन्नदिक्चक्रवालाः।
स्पुटकुटजकदम्बाः केऽपि कादम्बदूरा
भुवि मुदितमयूरा वासराः प्रादुरासन्॥४५॥

प्रभावत्या युतः कार्ष्णिः चन्द्रवत्या युतो गदः।
गुणवत्या युतस्साम्वस्तत्र ते रेभिरे परम्॥४६॥

वज्रनाभोऽथ यज्ञान्ते कश्यपं वीक्ष्य काङ्क्षितम्।
ब्रुवन् व्यर्थे तदर्थे तु दिग्जयाय मनो दधे॥४७॥

ततः—
** स्वप्रियासु सगर्भासु भीतास्ते यादवास्सुतान्।
इन्द्रोपेन्द्रवरात्प्रापुः सद्यः सम्प्राप्तयौवनान्॥४८॥**

प्रद्युम्नस्तु प्रभावन्तं गदश्चन्द्रप्रभं तथा।
साम्बस्तु गुणवन्तं च पुत्रास्ते प्रापुरुत्तमान्॥४९॥

तदनु हर्म्योपरि प्रवर्धननांस्तान्‌ हरीच्छया तत्पुरगगनदक्षिणो निरीक्ष्य सम्भ्रान्ताः सपदि दिग्विजयैषिणे दानवेन्द्राय न्यवेदयन्‌**॥१६॥**

एतदाकर्ण्य विस्मितमतिरसुरपत्तिः किमिदमिति मनसि, विचिन्तयन् सुरमुनिमुखादाकर्णितनिखिखवृत्तान्तः कृतान्त इव संज्वलन्, सत्वरमात्मसेनां संनह्य,तत्कपटनटकुक्कुटान्‌ गृह्णीघ्वरमिति निजभटानाज्ञापयामास**॥१७॥**

अथ यादवा अपि स्वस्वयुवतिभ्यो जयाशीर्भिस्सह समासादितसमुज्वलहेतयो, दावाग्नय इव दानवसेनागहनमभजन्त**॥१८॥**

अथ युद्धे प्रवृद्धे तु भेमदानवयोस्तयोः।
प्रद्युम्नतेजसा कीर्णाः मही दानवमस्तकैः॥५०॥

इन्द्रोऽत्र सामरगणस्सहसोपसृत्य
मायारथेन दिति दानवसैन्यमूर्ध्रि।
विष्बक्चरन्तममुमस्य रणे सहायं
पुत्रं जयन्तमदिशत्प्रजगाद चैवम्‌॥५१॥

सुतेन मातलिसुतेन युतं रथं मे
दास्यामि युद्ध्यतु गदस्तमवाप्य दैत्यैः।
साम्बोऽपि गच्छतुमम प्रवरेण युक्तं
दिव्य गजं, समधिरुह्य रणाय वीरः॥५२॥

अथ तां गिरमाकण्यः कार्ष्णिस्तत्क्षणएव्‌, जयन्तेनः सह्‌ तां दानवचमूं निर्भिद्य हर्म्यान्तमागतोः गदसाम्बयोस्तौ रथगजौ प्रदाय हरिरपि पुरेऽद्यरुद्रोपहारं सम्पूर्य श्वस्समेष्यतीत्यभयमभिधाय दानवोपसृष्टं विशिष्टं तमस्स्वमायया सपदि नाशयन् निजसमरसामर्थ्येन विबुधपतिमपि विस्मापयामास॥
एवमेव निशि नीतायां निखिलायाम्॥२०॥

कार्ष्णौ क्रुध्यैव दितिजैस्सह युध्यमाने
सन्ध्यामुपास्यः सुरसिन्धुजले जयन्तः।
तत्राजगाम निजकर्मणि तं निधाय
सोऽप्येवमेव विदधेयदुवीरसूनुः॥५३॥

कृष्णोऽथ तार्क्ष्यमधिरुह्य सुरर्षिवाचा
पार्श्वं ययौ सुरपतेर्द्युमणिर्यथाऽद्रेः।
दध्मौ च शङ्खममरासुरहर्षशोक–
संवर्धनं निजकराम्बुजराजहंसम्॥५४॥

तदनु तदनुज्ञया रौक्मिणेयः खगपतिस्कन्धमधिरुह्य वज्रनाभेन सह विरचितगदाविप्रहस्तस्मै निजसमरचातुर्यमत्यर्थं प्रकाशयन् तत्कृतगदाघातप्रचलितचेतनतया सुभृशमापन्नस्तत्समयसमुदञ्चितेन शार्ङ्गधरशङ्खरवामृतेन पुनः प्रकृतिमापन्नस्तन्नियोगेन सपदि निजकरमुपगतवता चक्रेण तदसुरपतिशिरस्सञ्चकर्त**॥१२॥**

निहते वज्रनाभे तु सुनाभमवधीद्गदः।
निकुम्भस्तु तदा प्राप षट्पुरं नृहरेर्भयात्॥५५॥

अथ महेन्द्रोऽपि केशवेन सह संमन्त्र्य तद्राज्यं तद्गतानि नगराणि धनमणिविविधवस्तुवाहनादीन्यपि चतुर्धा विभज्य, तत्र प्रथममंशं विजयाय जयन्तात्मनाय, द्वितीयं तु प्रभावते प्रद्युम्नपुत्राय, तृतीयं पुनर्गुणवते साम्बसुताय, चतुर्थंचन्द्रप्रभाय गदनन्दनाय च दत्वा, तेषां सर्वेषामपि दिवि गमनागमनशक्तिंसर्वभूतावध्यत्वं च वरं प्रदाय, तद्रक्षणाय वज्रपुरे पुनर्जयन्तमभिषिच्य तेभ्यो राजभ्यः पुनर्दिव्यानैरावणकुलसमुद्भवान्नागानुच्चैश्श्रवस्सन्ततिसम्भृतानश्वान् प्रदातुमप्याज्ञापयन् प्रमुदितत्हृदयः सुरैस्सह स्वपुरीमुपजगाम॥
अथ कृष्णोऽपि द्वारकामुपगतोऽभूत्**॥२३॥**

अथ सुरपतिगीर्भिर्वोधितो विश्वकर्मा
व्यरचयदिव नूत्नांद्वारकां स्वप्रयत्नैः।
सततमपि यथैषा प्रेक्षणीया सुरैः स्वात्
दशशतमुखवाग्भिर्वर्णनीयाऽतियत्नैः॥५६॥

तामुपेत्य हरिस्तत्र यथावदभिपूजितः।
वृष्णिवीरैसभां प्राप दिवं चन्द्र इवोडुभिः॥५७॥

त्रिदशनगरतोऽगात्तां च देवर्षिवर्यः
स सपदि यदुवीरैः पूजितोऽभूद्यथार्हम्।
अकथयदथ रम्ये व्यासक्लृप्तं पुराणे
सदसि हरिचरित्रं प्रार्थितो ह्याहुकेन॥५८॥

भवदवशिखितप्तान् भक्तबर्हिप्रबर्हान्
हरिचरितसुधाभिर्हर्षयन्नेवमन्याम्।
दिशमपि स विधातुं दिव्यतो निर्गतोऽभू–
त्कुवलयहितकाङ्क्षी कोऽपि देवर्षिमेघः॥५९॥

अथ पुरि महिषीणामन्यसीमन्तिनीना-
मपि बत सुतङ्घैस्तत्सतीपुत्रसङ्घैः।
निजगृहमतिपूर्णं वीक्ष्य विश्वम्भरोऽसा–
वतिमुदमुपयातस्स्वस्य सिद्धां विशुद्धः॥६०॥

(*)इति हरिवंशचम्पौ सप्तमो विलासः(*)—

अष्टमो विलासः॥

तस्य पुत्रेष्वनेकेषु प्रेमपात्रेषु सत्स्वपि।
प्रद्युम्न एव परमप्रेमपात्रमभूद्धरेः॥१॥

यः खलु पुरा भगवतो वासुदेवात् रुक्मिण्यां जातमात्रस्सप्तमदिवस एव निशीथे कालवशमुपजिगमिषता कालशम्बरेण ऋक्षवन्तं नाम निजनगरमुपनीतः पोषणाय निजयुवत्याः मायावत्याः करे सन्निवेशितः हरवरेण विज्ञातभविष्यत्कार्यया असुरमोहनाय मायाप्रतिच्छन्ननिजरतिरूपया तया च कान्तधिया धात्र्याः करेण परमरसायनप्रयोगेण सत्वरं संवर्धितः सकलशस्त्रास्त्रविद्यामर्मषु विविधमायारहस्येषु च नितान्तं सम्प्रवेशितः सम्प्राप्तयौवने स्वस्मिन्निजतरुणीविलासमुल्लासयन्त्यास्तस्याश्चरितं प्रति विशङ्कितस्तनिरूपितनिजागमनप्रकारनिश्चयं स्वयमशरीरवाण्याऽपि विबुध्य गिरिशिखरमिव समुन्नतं निजरिपुगृहतोरणसङ्गतंसिंहध्वजंविध्वंसयन् तत्कार्यमसहमानेन तेन शम्बरेण महताऽऽडम्बरेण रणाय सम्प्रेषितं तत्पुत्रशतमपि शरैस्संचूर्णयन् सुमनोगणमनोरथानप्सरोगणमनोरथानपि युगपदेव सम्पूरयन् भेरीमृदङ्गादिविविधरवभङ्गैरतिभैरवं सेनार्णवं निजाशुगपरम्पराभिर्गगनतलमुत्किरन् तदन्तरसन्दर्शितेषु तत्सचिवेषु चतूर्षु रणभुवि दुर्धरं दुर्धरं विध्वंसिताशरेण शरेण, अलक्षितवनमालिनं केतुमालिनं पाटितरिपुशिरश्चक्रेण चक्रेण, मृत्योरपि युधि निहन्तारं शक्रहन्तारमपरिमितशक्त्या शक्त्या, सर्वदा सुरनिकरमर्दनं प्रमर्दनं संवर्धितवैरिजनमनोगदया गदया च संहृत्य, शरपरम्परामिषेण रोषाग्निमुद्वमतस्तस्य विद्विषतः शस्त्रास्त्रपरम्परां स्वस्य शस्त्रास्त्रसमूहैर्निर्भिद्य, माययोपसृष्टं द्रुमवर्षमाग्नेयास्त्रेण, शिलावर्षं वायन्येन च निवार्य, पुनस्तन्मायाबलेन विसृष्टान् सिंहशार्दूलतरक्ष्बादिहिंस्रमृगान् गान्धर्वेण संशमयन् पुनरपि बहुधा संप्रवृत्तासु तन्मायासु हस्तिमयीं मायां सिंहमय्या तया, सिंहमयीं शरभमय्या, सर्पमयीं सौपर्ण्या च निरस्य, संमोहिनीमपि संज्ञास्त्रेण प्रशमयन्नपारर्चिन्तापरवशेन तेन प्राणापदि सन्धारितं गिरिजाप्रसादपरिलब्धं कालदण्डमिव सुसंरब्धं शुम्भनिशुम्भयोर्वधेन देवासुरहृत्कर्णयोः कीर्णमुद्गरं कमपि मुद्गरं निरीक्ष्य, पुरन्दरगिरा तत्क्षणमवनिमुपगतात् नारदात् देवीस्तवमात्मनः पूर्वस्मृतिं चाभेद्यतनुत्रवैष्णवास्त्रे च संप्राप्य, सपदि निजसंस्तवसन्तोषितायाः पार्वत्याः प्रसादवलेन निजगलपुष्करमालायिते तस्मिन्मुद्गरे सशपथमुत्सृष्टेन वैष्णवास्त्रेण शम्बरममुं निहत्य, विबुधपतिमतीव हर्षयन् विजयतौर्यत्रिकेन सह वियत्यम्बरचरकरकमलविसृष्टैस्सुरद्रुमकुसुमसमूहैरभ्यर्चितस्तत्क्षणएव तत्पुराद्गगनपथेनैव निर्गत्य मायावत्या सह पुनः केशवान्तःपुरे प्रपतितोऽभूत्**॥१॥**

यं वीक्ष्य विस्मयरसेन भयेन जुष्ट–
मन्तःपुरं ह्यभबदत्र समेत्य कृष्णः।
व्याख्याय नारदगिरं सकलत्रमेव
प्रत्यग्रहीत्सपदि शम्बरशत्रुमेनम्॥२॥

यस्मै ददौ स्तवमनुत्तममात्मरक्षा-
सिद्ध्यर्थमाशु निखिलश्रुतिसारभूतम्।
सङ्कर्षणोऽखिलचराचरसारवेदी
जप्त्वा तमात्तविजयो युधि यश्च नित्यम्॥३॥

अथ कदाचिन्नागसाह्वयपुरे दुर्योधनस्याध्वरे सङ्गताः पाण्डवप्रमुखसकलभूपालाः अनिमिषैकभोग्यां तादृशीं माधवश्रियं श्रुतीनामिव दृशामपि गोचरयितुं सञ्जातकुतूहलाः दूतमुखैर्विरचितविचित्रसन्धानाः धार्तराष्ट्रैस्सह कुतस्थलीमासाद्य रैवतकगिरिमभितः पश्चिमादधरनकान् प्रातानघान् सृजन्त इव निविष्टसेना बभूवुः**॥२॥**

अथ केशवोऽपि सकलयादवैस्सह निजनगरान्निर्गत्य रैवतकोद्यानमण्डलीमिलितनृपतिमण्डलीमध्यगतं मेरुशि वरमित्र महोन्नतं निजमणिसिंहासनमलङ्कुर्वाणः विकचक्रप्रलयण्डमण्डलोदञ्चन्मार्ताण्डमण्डलश्रियमनुकुर्वाणस्तत्र यथोचितं प्रापितकुशलानुयोगसत्कारैर्यादवगणेन सह समधिगतविचित्रकथाप्रसक्तिभिरखिलराजभिरभितस्समावृतः महर्षिगणेन सह कृतसुकृतविचारस्युरनिकरैः परिवेष्टितः परमेष्ठीव परमशोभत**॥३॥**

तत्राजगाम सहसेन्द्रसखो महात्मा
देवर्षिरभ्रपटलावृतमन्तरिक्षम्।
निर्भिद्य निस्तुलजटामकुटप्रभाभिः
विद्योतयन्नृपसभं स्वकरात्तवीणः॥४॥

स्वमाश्चर्योऽसि धन्योऽसि कृष्णेत्युक्तस्सुरर्षिणा।
हरिस्सपदि तं प्राह दक्षिणाभिस्सहोमिति॥५॥

एतदाकर्ण्य पर्याप्तवाक्यतया सम्प्रस्थितं सुरमुनिमवलोक्य तद्विजिज्ञासुभिर्नृपतिभिरर्थितो भगवान्नारायणस्तद्विवरणाय तमेव मुनिमासने संन्यवेशयत्**॥४॥**

सोऽप्येवमकथयत्-भोभो! भूपतयः! श्रूयतां यथाहममुष्य प्रश्नस्य पारमासादितवान् तथाविधं वचनं; एकदा त्रिषवणातिथिरहं गङ्गाम्भसि गिरिसंनिभं महाकूर्ममवलोक्य त्वमाश्चर्योऽसि धन्योऽसीति यदवादिषं, तत्स कूर्मः प्रत्याह, तत्तावन्मादृशनानाग्रहाणामाश्रयभूतायाः गङ्गाया एव न ममेति। तदनु गङ्गां चेदमब्रवम्; साऽप्याह, तदेतन्मादृशीनामनेकसरितामाश्रयभूतस्य महोदधेरेव न ममेति। अथ महोदधिमुपेत्य तदिदमवादिषम्; सोऽप्याह, तत्तावन्मदाश्रयभूताया मह्या एव न ममेति। ततश्च महीमुपगम्येदमवदम्; सा चाह, तदेतन्मदाश्रयभूतानां भूधराणामेव न ममेति। तदनु तानपि भूधरानुपेत्य एतदवोचम्; तेऽप्याहुः, तत्तावदस्मादृशनिखिलजगत्स्रष्टुर्ब्रह्मण एव नास्माकमिति। ततो ब्रह्माणमुपेत्य तदिदमब्रवम्, सोऽप्याह, तत्तावद्यन्मयोहं तेषां वेदानामेव न ममेति। अथ वेदानुपेत्य तदिदमेवादिषम्; तेऽपि वेदाः तत्तावद्यदर्थमुपसृष्टा ब्रह्मणा वयं तेषां यज्ञानामेव नास्माकमिति जगदुः। अथ यज्ञानहमिदमवादिषम्; तेऽप्याहुस्तत्तावद्यद्गतिका वयं यद्दत्तं हविरादिकमश्नीमस्तस्य विष्णोरेव नास्माकमिति। अथ तमिममुपगम्येदमवादिषम्; सचाह भवतां शृण्वतामेव, तत्तावद्दक्षिणाभिस्सहोमिति। अतस्सकलयज्ञानां विष्णुरेव सदक्षिणो गतिरिति समाप्तवाक्यतया प्रस्थितोऽस्मीति**॥५॥**

एवमुक्त्वा गते स्वर्गं नारदे पृथिवीक्षितः।
कृष्णमामन्त्र्य निर्याताः स्वंस्वं राष्ट्रं मुदाऽन्विताः॥६॥

नृहरिरथ कदाचित्प्राविशद्यज्ञदीक्षां
द्विजमणिरिह कश्चित्पाहिपाहीति चागात्।
अभयमपि च दत्तं देवदेवेन तस्मै
असुकरमितरैर्यत्तद्द्विजः कार्यमाह॥७॥

तत्कार्यं त्रीण्यपत्यानि प्रजातानि हृतानि मे।
पत्नयाःप्रसवकालेऽद्य चतुर्थं त्रायतामिति॥८॥

एतदाकर्ण्य विचिन्तयति भगवति वासुदेवे**॥६॥**

तत्कार्यं कियदद्य यामि सहसा रक्षामि विप्रात्मजं
माभैषीर्द्विजपुङ्गवेति गदिते भीभत्सुनोचैस्तदा।
विप्रः प्राह तदेतदच्युतमृते केनापि नैव क्षमं
नैनं प्रेषय, कृष्ण सोऽद्य विपुलश्रान्तो वृथा गर्जति॥९॥

इति गिरमतितीव्रां विप्रगाण्डीविनोस्तां
श्रुतिपुटमुपयातां स्थैर्यधैर्योपजाताम्॥
अधरपुटनटद्भिस्स स्मितैरेव रुन्धन्
स्वबलमबलपुत्रं प्राहिणोत्सार्जुनं द्राक्॥१०॥

द्विजगृहमवबुद्धं तेन पार्थेन वेगा–
त्प्रतिदिशमुपरुद्धं सैन्यशस्त्रास्त्रजालैः।
तदपि वियति नीतं यत्प्रसूतं निशीथे
दृशि न पतितमेतन्निश्चितं हेति शब्दैः॥११॥

एवं विप्रसुतस्यार्थे मोघीकृतपराक्रमः।
फल्गुनः कृष्णमासाद्य लज्जयाऽवनतोऽभवत्॥१२॥

क्षितिसुरखरगीर्भिर्दारितः खिन्नरूपः
सुरपरिवृढसूनुर्वैष्णवीं प्राप्य विद्याम्।
दिवि भुवि च विचिन्वन् दिक्पतीनां पुरीषु
द्विजसुतमविदित्वा सोऽग्निमैच्छत्प्रवेष्टुम्॥१३॥

अथ भगवान् वासुदेवः कथमपि संनिवारितवासवात्मजवहिप्रवेशः सान्त्यबचनसन्निरूद्धेषुवियोगविह्वलविप्रवरशोकावेशः निजनियोगेन दारुकेण धुरि संप्रवेशितं शैब्यसुग्रीवमेद्यपुष्पबलाहकाख्यैश्चतुर्भिरश्वैः सुयोजितं समुच्छ्रिततार्क्ष्यध्वजोपशोभितं निजरथमत्यद्भुतं द्विजेन सह सत्वरमधिरूढः केवलमात्मश्रियोपगूढः कशाग्रचलननियमनीयरथ्ये सारथ्ये सन्निवेशितश्वेतवाहनः उदीचीं प्रति समुत्सृष्टरथवाहनः समतीतसकलवनगिरिसरिद्दुर्गदुर्गमाखिलमहीपारः प्रापिताकूपारः स्मृतिमात्रेण ससम्भ्रममुपस्थितैस्तत्तज्जलधिपर्वतैर्निश्शङ्कं प्रदत्तरथतरणितया अतिक्रान्तससद्वीपाकूपारकुलगिरिचक्रवालः निजकरचक्रेण पथि संप्रवृत्तं तमश्चक्रमुत्कृत्य रथाश्वेभ्यः सन्दर्शितगगनान्तरालः झडिति तत्तमसः पारमासाद्य तत्र प्रज्वलितं किमपि तेजोमण्डलं स्वयमेव प्रविश्या द्विजकुमारांश्चतरस्सङ्गृह्य ततः प्रतिनिवृत्तः तान् सुतान् स्वरथमारोपयन् साधितार्थौ तद्द्विजपार्थौ हर्षवार्धौ निमज्जयन् क्षणेन पुनस्तेनैव पथा यथापुरं स्वपुरमुपगतोऽभूत्**॥७॥**

हरिः पुत्रैर्युतं विप्रं भोजयित्वा यथेप्सितम्।
धनेन तर्पयित्वा च ग्रहं प्रास्थापयत्तदा॥१४॥

सर्वानुपैति पुरुषार्थचतुष्टयेऽन्त्य–
मिच्छन् पुमानिति निजानवबोधयन्नु।
शङ्केऽहमन्त्यसुतमर्थयते द्विजाय
शौरिर्ददौ दिवि हृतांश्चतुरोऽपि पुत्रान्॥१५॥

ततः— ** क्षणेन महतोऽध्वनो मतिविनिर्गती भूभृतां
नतिः प्रवणतोदधेरपि महस्तमस्सान्द्रता।
किमद्भुतमिदं वदेत्यज्ञमपृच्छदेषोऽर्जुनः
स चाह सकलं हरिस्सुहृदि शृण्वति प्रश्रयात्॥१६॥**

—_(*) इति श्रीहरिवंशचम्पौ अष्टमो विलासः_(*)—

नवमो विलासः॥

तदैव शोणितपुरे वाणो नाम महासुरः।
ज्येष्ठपुत्रो बलेरासीद्बली बाहुसहस्रवान्॥१॥

यस्तूग्रमुग्रतपसा परितोष्य तस्मा–
द्दाक्षायणीतनुजतां च गुहाप्ततां च।
बर्हिध्वजं शरवणेऽग्निजजन्मभूमौ
रम्येऽत्र शोणितपुरे वसतिं च लेभे॥२॥

**तेन पुरि सन्निहितेन
योऽसौ युधि प्रचुरवीर्यमदेन सिक्तः।
गन्धर्वयक्षपतगोरगसिद्धसाध्यान्
जित्वा मुहुर्मुहुरहो विरतिं न लेभे॥३॥ **

स हि समरमलब्ध्वा कापि कण्डूलबाहुः
स्मरहरमुपगम्य प्राह मद्बाहुपङ्क्तेः।
भवति यदनुरूपं तत्सुयुद्धं मम स्या–
द्यदि जनिरमुधेति प्राहसत्सोऽपि शम्भुः॥४॥

**स च सुतमिदमूचे प्राप्स्यसे युद्धमेवं
निपतति भुवि भग्नंयहि बर्हिध्वजं ते। .
तमथ करसहस्रेणार्चयन्निर्गतोऽभू–
त्समरसमयमेतं काङ्क्षमाणोऽतिहृष्टः॥५॥ **

अथ बाणः पुरं प्राप्यं पयन्‌ कुम्भाण्डमग्रतः।
प्रियमावेदयिष्यामीत्यत्रवीत्सचिवं मुदा॥६॥

अथ सचिवोऽपि तमेवं प्रत्यवादीत्‌**॥१॥**

बलिः किमवमुच्यते शतमखोऽथवा बध्यते
द्युराज्यमुत भुज्यते किमु हरेर्भयं तज्यते।
कमद्य वरमाप्तवानसि हराद्गुहाद्वा विभो
कुतस्तव मुखाम्बुजे रसति हर्षजाश्रुस्रवः॥७॥

इति कुम्भाण्डवचनमाकर्ण्य समरायतिम्‌।
बाणे ब्रुवाणे न्यपतच्छकाशनिहतो ध्वजः॥८॥

ध्वजस्य पतं दृष्ट्वा ता वप्युत्पातशतं भयात्‌।
धेर्याच्चखेदमोदाभ्यांसंयुतौ जोषमूषतुः॥९॥

अथैकदा तत्पुरपरिसरे परिसरन्त्याः पुण्यस्रवन्याः तटभुवि सम्प्रतिष्ठितासु सर्वर्तुसमुदयसमुज्ज्वलासु मधुकरनिकरझङ्काररवमुखरितामुखासु शुकपिकमुखरुचिरखगकुलसंचाररमणीयवीधिकासु विचित्रोपवनवाटिकासु अम्बरचरकरकल्पितैः कल्पद्रुमकुसुमसम्पातैरसर्वतस्सञ्जातैःवेणुवीणादिविविधवातिहृद्यदिव्याप्सरोगणगीतजातैस्सह सम्प्रवृत्ते शशधरचूडक्रीडाविहरे तत्पार्षदगणैस्सह यथारुचि विहरमाणेष्वप्ससरोगणेषुपत्या सह वनभुवि विरचितविचित्रकामविहारा हैमवती स्वसविधवर्तिनीं मनप्ति पत्या राह रतिसुखमभिलषन्तीमुपानाम्नीं वाणकन्यां सत्वरं सदयमितमवादीत्**॥२॥**

स्फुरति मनसि यत्ते वाणकन्येऽद्य धन्ये।
झडिति भवति तत्त्वां पुष्पकाले निशान्ते।

अनुभवति हठाद्यः स्वप्नदृष्टा भवत्याः
स भवति पतिरूर्व्यां काऽस्ति त्वदन्या॥१०॥

इति गिरिवरपुत्रीवाक्यसम्फुल्लुगात्री
कुवलयदलनेत्री दानवेन्द्रस्य पुत्री।
अतुलितगुणजाना सा सखीभिः प्रणीता
निजसदनसभीता विस्तृतार्याप्रगीता॥११॥

हरितिथिरिति योऽभून्माधवे मासि तस्मिन्
निजरुचिरनिशान्ते सा निशान्ते प्रसुप्ता।
अमदृशगुणशीला स्वप्रलब्धेन पुंसा
ह्यतिदृढमुपभुक्ता रक्तसिक्ता बभूव॥१२॥

ततःप्रबुद्धाऽपि साऽसृङ्गलिनपरिधानतया चकितमतिः किमिदमिति सखीभिस्सह विचिन्तयन्ती स्वप्नलब्धमदो न दोषायेति ताभिर्निगदिताऽपि निजकुलसौशील्यमाख्याय स्वचरितमतीव गर्हयन्ती स्वप्राणानपि समुत्स्रष्टुमभिलषन्ती ततस्सख्या शनैश्शनैस्सारितमृडानीवचनतया स्वात्मानमात्मनैव सुभृशमाश्वासयन्ती सखीं प्रति तदानयनोपायमर्थयन्ती स्वप्नसङ्गतस्य तस्य चानयनमज्ञाततत्कुलनामभिःसाध्यमिति कुम्भाण्डदुहितृगिरा ब्रह्माण्डगतसकलसुरासुरनरवरयुवरूपचित्रलेखनाथ चित्ररेखां वराप्सरसमन्वयुङ्क्त**॥३॥**

साऽप्यनतिचिरमेव तथा चकार**॥४॥**

तस्याश्चित्रपदे क्रमादुपगतं दृष्ट्वाऽनिरुद्धं ह्युषा
हर्षोत्फुल्लविलोचनाऽभवदसौ कान्तो ममेत्याह च।

पृष्टा प्राह कुलं च नाम च यशस्तस्याप्सरास्सादरं
चौर्यादानयनं त्वसाध्यमिति च व्यक्तं तदा व्यक्षरम्॥१३॥

तदनु दनुजकन्या प्रार्थयन्ती नितान्तं
शरणमुरणगता त्वां प्राणदात्री भवेति।
धनुरिव भुवि नम्रा चित्ररेखाङ्घ्रिमूले
वियति जलदमूले चन्द्ररेखेव साऽभूत्॥१४॥

तदनु तत्प्रार्थनासमुदयसमुद्यद्दया सैषा चित्रलेखा सखीमध्यात्सपदि समुत्थाय निजयोगविद्यया वियति विद्युल्लतेवान्तर्हिता सती अतुलितमनोजवेन मुहूर्तत्रयमात्रेण सन्प्राप्तद्वारकानगरद्वारदेशा तत्र स्मरणमात्रसन्निहितेनदेवर्षिणा प्रदत्तां प्रकृतोपयोगिनीं कामपि तामसीं विद्यामासाद्य विरचिततत्पुरप्रवेशा तत्र क्वचन विचित्रभवनान्तरे नृत्तगीतप्रसक्तैः योषासहस्रैः निरूद्धमप्यनिरुद्धं गगनान्तरे तारासहस्रैः परिवृतं कुमुद्वतीसखमित्र स्वप्नसङ्गतायामुषायामेव सन्निहितमनोरथं तमवलोक्य देवर्षिविद्यया संमोहितसकलयोषायुता सल्लापेन विदिततन्मनोरथा सद्य एव तमोन्तर्हितमेनमादाय यथागतमतीव वेगेन रुधिरपुरं पुनः प्रविश्य सकलसखीसमक्षमुषाहर्म्यमुपनिनाय**॥५॥**

सैषा निरीक्ष्य हृदयादिव भूच्युतं तं
कन्दर्पकोटिसदृशं रतिकोटिरम्या।
मोदाम्बुधौ म.x.वायितमानमाऽभू–
त्सोऽप्येवमेव तदहो घटना मृडान्याः॥१५॥

ततो गान्धर्वविधिना सङ्गतौ रतिसम्मतौ।
उपानिरुद्धौ तत्रोभौ रमेते स्म यथासुखम्॥१६॥

तदनु तत्पुररक्षिभिर्दानवैरावेदितकन्यान्तः पुरोदन्तो दष्टद्न्तः कुलावमानात्सञ्चलितप्राणो बाणः तत्क्षणमेव किङ्करान्नाम निजनिकटवर्तिनो दानवान्निजविद्विषः प्राद्युम्नेः निग्रहाय प्राहिणोत्**॥६॥**

तेऽपि गदामुसलपट्टसाद्यायुधपाणयो दानवाः उषाहर्म्यमभितस्तमरिन्यरुन्धन्**॥७॥**

तदाऽनिरुद्धोपि तत्कलकलैस्संप्रबुद्धस्सिंह इव सुसंक्रुद्धः निजनिधनशङ्कया वेपथुपतीं स्वसतीं समाश्वास्य गिरिकन्दरादिव तद्गृहान्तराद्बहिर्निर्गतो रणभुवि मृगैरिव तत्किङ्करैस्सन्निरुद्धोऽभूत्**॥८॥**

तदा समरसम्भीता चित्ररेखाऽप्युषासखी।
सस्मार नारदमुनिं सोऽभ्येत्य स्वगतोऽभवत्॥१७॥

अथ दितिसुतमुक्तैरायुर्धैस्ताडितोऽले
सुरमुनिमतिवेलं तोषयस्तूर्णमाजौ।
परिघमतुलवेगं पातयन् सोऽनिरुद्धो
मरुदिव जलदौघान् द्रावयामास दैत्यान्॥१८॥

अत्र समरनिवृत्तान् किङ्करान् भर्त्सयस्तान्
स्वकपपरमनीकं प्राहिणोद्दानवेन्द्रः।
तदपि बहुलमेको द्रावयामास वेगा–
त्स युधि तदपि दृष्ट्वा नारदः खे ननर्त॥१९॥

तदनु दशशताश्वैर्योजिते स्यन्दने खे
विपुलभुजसहस्रद्योतिनानायुधेऽस्मिन्।
स्फुरति समरभूमिं प्राप्य वाणे ययुर्द्राक्
कुतुकभयरूपस्तान्नारदोषानिरुद्धान्॥२०॥

असुरशरसहस्रैरर्दितस्सोऽनिरुद्धः
स्वयमपि शरजालैरर्दयामास वाणम्।
मुहुरपि च रथेषामच्छिनत्तस्य रोषा–
त्तमसिमुसलशूलैश्छादयामास दैत्यः॥२१॥

स झंडिति रथपार्श्वे यादवस्सम्प्लुतोऽभू–
दसुरपतिरमुञ्चद् घोरशक्तिं तदाऽस्मै।
चटुलगतिरमोघां मोघयन् कार्ष्णिसूनुः
व्यसृजदयममुष्मै तां गृहीत्वा जवेन॥२२॥

तदा बलिसुतश्शक्त्या विद्धः प्राद्युम्निना रणे।
रथयष्टिमवष्टभ्य मुमोह बुबुधे पुनः॥२३॥

अथ कुम्भाण्डवचसा मायामाश्रित्य दानवीम्।
बबन्ध नागपाशेन बाणः प्राद्युम्निमञ्जसा॥२४॥

तदनु मायाभुजगनियमितविग्रहस्य तस्य प्राद्युम्नेर्जिघांसया करकलितकृपाणं बाणमवलोक्य तत्सारथिरसौ कुम्भाण्डस्सविनयमिदमभाषत**॥९॥**

सुविदितकुलनामा शिक्षणीयोऽर्हणीयः
स भवतु तव तावद्रक्षणीयो मतो मे।
बतवत यदि नैवं प्राप्तलोकापवादा
वद तव दुहितेयं कुत्र देया क्व नेया॥२९॥

इति ब्रुवति कुम्भाण्डे तं त्यक्त्वा रक्षिणां वशे।
बाणस्स्वसदनं प्रायान्नारदः कृष्णसन्निधिम्॥२६॥

ततः स्तवेन सन्तुष्टा दुर्गा स्थित्वा हि बन्धने।
ररक्ष रतिपुत्रं तं ह्युषाऽप्येनमसान्त्वयत्॥२७॥

अनिरुद्धे हृते तस्मिन् द्वारकायां तु तद्गृहे।
मोहात्प्रबुद्धास्तद्योषास्तमदृष्ट्वा व्यचिन्तयन्॥२८॥

अहह निशि निशाटैः खे विनीतो विनीतो
सुरहरवरपौत्रस्सोऽनिरुद्धो निरुद्धः।
इति हि रुदितमासीत्तन्निशान्ते निशान्ते
तदथ विदितमासीद् द्वारवत्याऽत्रवत्या॥२९॥

दिशिदिशि वनशैलश्वभ्रवापीतटाकान्
प्रतिसरणि रटन्तः पर्यटन्तोऽनिरुद्धम्॥
अगणिततनुखेदा यादवा मार्गमाणा
मनसि कलुषमापुःक्वापि नप्रेक्षमाणाः॥३०॥

तदा जगाद सेनानी रनाधृष्टिरिदं वचः।
हरि हरिहयस्यैतत्कृत्यमित्यथ सोऽब्रवीत्॥३१॥

नहिनहि शतमन्योः कृत्यमेतत्सुबुद्धेः
मयि निहितजयोऽसौ मत्परा एव देवाः।
त्वमिह वदसि बाल्याद्धिग्धियं ते प्रसुप्तां
ध्रुवमसुरकुलोत्थंपुंश्चलीकृत्यमेतत्॥३२॥

एतदाकर्ण्य कृष्णस्य भाषितं परमाद्भुतम्।
अक्रूरः प्राह तं देवा न क्षुद्रा इति माधवम्॥३३॥

(*)इति हरिवंशचम्पौ नवमो विलासः(*)—
<MISSING_FIG href="../books_images/U-IMG-172771410329.png"/>

दशमो विलासः॥
———————

अथ हरिसदनोत्थैः पुण्यवादिनवोपैः
पुलकित इव भासा जृम्भणाणे रवौ खे।
हृदि गतमपनेतुं द्वागलीकं यदूनां
सुरमुनिरपि शौरेः प्रादुरासीत्पुरस्तात्॥१॥

अथ नारदमुखादाकर्णितनिजपौत्रवृत्तान्तो भगवान्नारायणः स्मरणमात्रेण पुरतोऽवतीर्ण सुपर्ण संप्रान्य तस्मै सादरमावेदितशोणितपुरप्रयाणः सुमेरोरिव समुन्नतस्य नयतिशयेन संनतस्य सर्वाभरणभूषितस्य तस्य स्कन्धदेशमतिरयेण प्रलम्बरिपुशम्बरारिभ्यां सह खड्गचर्मारिदरगदाशार्ङ्गादिशोभितपार्श्वद्वयः स्वयमलङ्कुर्वाणः राकेन्दुकविसहस्त्रसंयुतस्य सूर्यायुतस्य शोभां बिभ्राणः दिवि भुवि च सपदि समुन्मिषद्भिर्विविधवादित्रनिस्वनैर्बन्दिमागधजनजयसंस्तवस्वनैरपि दिग्दन्तिनामभयमाचक्षाणः अहमहमिकया सङ्गतैरखिलभोजवृष्ण्यन्धकैर्निखिलवृन्दारकैरपि सस्पृहं वीक्ष्यमाणः मुहुर्मुहुर्गन्धचूर्णैर्लाजैरप्यवकीर्यमाणः स्वानुज्ञया सासन्नगिरिजलधिविक्षोभं वियत्तलमुत्पतता निजगरुद्घातेन गगनचरघनविमानावलीर्दिक्तटीवटितविचित्रतरसोपानावलीः कलयता तारासरणिसञ्चरत्तिकूटशोभामुद्वहता गरुत्मताऽतिक्रान्तैकादशसहस्रयोजनपथः बाणनगररक्षणाय तत्पुरमभितस्संज्वलतोऽग्नेराहवनीयस्य तेजसा सन्निरुद्धो बभूव**॥१॥**

तार्क्ष्योऽथ कृष्णवचसा धृतकामरूपः
खं संप्रविश्य निजवक्रसहस्रनीतैः।
सिञ्चन्मुहुर्मुहुरनन्तधुनीज्जलौवै–
रग्निं प्रशान्तमतनोत्तमनन्तशक्तिः॥२॥

ततः पुनरपि यथापुरमन्तरिक्षपथमनुसरति गरुत्मति पथि रणाय सङ्गतेषु रुद्रानुचरेषु केषु चिदग्निषु निजशरप्रहतोरसमङ्गिरसं विलोक्य पलायमानेषु सुरर्षिसन्दर्शितानि स्मरहरक्रीडास्थानानि विलोकयन्नेव रुधिरपुरमभिगच्छन् स्वशङ्खमधरपुटमारोपयन्निशाकरमुद्गिरन् वातोद्धूतो जलद इव गमनतलमतीव शोभयन् जलजभिममापूरयन् तद्रवैर्निजधुरि विचित्रायुधैर्विद्योतमानमरिबलमखिलमाकुलीचकार**॥२॥**

तदा समरदुर्दिने नृहरिदानवानीकयो
स्ततैर्हरिसुताशुगैर्वियति तोयधारायितम्।
बलस्य मुसलेन च प्रपतताऽन्तरोल्कायितं
सृतैरसुरशोणितैर्भुवि जलप्रवाहायितम्॥३॥

हलमुसलनिपातैस्तत्र नीलाम्बरस्य
द्विरसनकुलशत्रोः वक्षतुण्डप्रघातैः।
हरिसुरशरघातैश्चक्रपातैरजस्य
ह्यसुरबलमशेषं ध्वस्तमासीत्तदानीम्॥४॥

अथ बलमभिगच्छन् द्राग्ज्वरो त्दृष्टरोमा
भसितनिशितहेतिर्जृम्भमाणोऽरुणाक्षः।
सुचिररचितयुद्धस्तेन तद्गात्रयष्टिं
ह्यविशदथ बलोऽभूद्भग्नशक्तिः क्षणेन॥५॥

हरिरथ बलमुच्चैः क्रन्दमानं दिदृक्षुः
स्वयमपि स यदागात्तद्दशामेव तूर्णम्।
ज्वरमपरमजोऽसौ वैष्णवं द्राक्ससर्ज
क्षुभिततनुरनेन त्र्यम्बकस्य ज्वरोऽभूत्॥६॥

हरिरपि स तमौग्रेपाहिपाहीति पादौ
शरणमुपगतं द्राङ् मोचयन्नार्तिसिन्धोः।

ज्वरमुपशमयन् स्वं श्रैष्ठ्यमस्मै मुदाऽदा-
द्वरमपि बहुरूपैः स्थावरादीन् प्रवेष्टुम्॥७॥

अथ दृशि बहुशोणं वाणमादाय रुद्रे
प्रमथगणसमुद्रे कार्तिकेयेन साकम्।
मुरहरमुपयाते शैलशस्त्रास्त्रवर्षी
पुनरपि सुरसङ्घैः प्रेक्ष्यमाणो रणोऽभूत्॥८॥

हरिहरवरयुद्धे भूरिभारानता भूः
द्रुहिणमुपगताऽभूद्रक्षणार्थं स तस्याः।
स्मरहरमिदमूचे तेऽद्य कृष्णेन युद्ध
न हितमिति ततस्तौ त्यक्तयुद्धावभूताम्॥९॥

क्वचिदथ विधिना तौ स्वप्नदृष्टावभिन्नौ
मुहुरिह मुनिबृन्दैस्संस्तुतौ नामभिस्स्वैः।
वत निमिषमभूतां नित्यमन्योन्यभिन्ना
वपि सकलमुनीनामात्मदृष्टेरभिन्नौ॥१०॥

अथ गुहोऽपि नानाविधप्रहरणैः प्रमथगणैः परिवृतः रणभुवि तार्क्ष्यध्वजमुपगतः तस्मिन्निजशस्त्रास्त्रपरम्परामुत्सृजन् तस्यां हरिशरपरम्परया व्यर्थायां महोग्रं ब्रह्मशिरोभिधमस्त्रं प्रयुञ्जानः तस्मिन्नपि चक्रतेजसा प्रशमिते स्वकीयाममोघां शक्तिं प्रमुञ्चन् तस्यामपि हरिणा हुङ्कारेणैव निरस्तायां निजसुतवधोद्यतं चक्रमुद्वीक्ष्य दाक्षायण्या प्रहितया लम्बानाम्नया कोटव्या कृष्णसंमुखादपवाहितोऽभूत्**॥३॥**

अथ बाणोपि स्वरथमारुह्य भेरीप्रमुखविविधवादिन्नवेण सर्वतश्चलितं निजबलजलधिमलङ्कुर्वाणः खगपतिमारुह्य रणायाभियान्तं नृहरिमासाद्य सहस्रबाहुना मया समरमष्टबाह्वोस्तव न क्षममिति बहुशः स्वशौर्यमेवासकृद्ब्रुवाणः निजमर्मभेदिभिस्तत्सायकैरेव रणकर्मणि प्रेर्यमाणः शस्त्रास्त्रवर्षिभिस्स्वबाहुभिररेव जृम्भमाणः हरावपि निजशस्त्रास्त्रवर्षैर्वियति ततोप्यतिशयेन विजृम्भमाणे स्वस्य समरनैपुण्यं बाहुबाहुल्यं चाप्रयोजकं मन्यमानः प्रासादशिरसि हर्षातिरेकेण सहासं नृत्यतः समरसाक्षिणो देवर्षेः पारितोषिकं प्रदातुकामेन कृष्णेन निशिततरशरजालेनापहृतनिजध्वजाश्वच्छत्रमणिमकुटतनुत्राणः तार्क्ष्यतुण्डप्रहारविह्वलितवाहनमयूरतया वाहनान्तरमपेक्षमाणः स्मरहरगिरा सपदि नन्दिनानीतं त्र्यम्बकरथमारुह्य महोग्रं ब्रह्मशिरोस्त्रं प्रयुञ्जानः हरिकरसहस्रारतेजसा प्रशमिते तस्मिन् उद्यते च हरिणा पुनस्तद्रिपुवधायं सहस्रार्कसमतेनसि तस्मिन् चक्रे देवीगिरा पुनरपि हरेः पुरतः प्रवृत्तायाः लम्बायास्तदवनप्रार्थनया प्रमुक्तेनापि तेन सुदर्शनेन परिहृतद्यूनसहस्रबाहुः भक्तनिधनशङ्कयां महादेवेन गुहेन च संप्रार्थिततयां मुकुन्देन तेन कथमपि प्राणैरवियोजितः नन्दीश्वरेण शोणिताप्लुत एव स्थाणुसमक्षमानीतः हृतशेषेण भुजद्वयेनैव साभिनयं विरचितविचित्रनृत्यः सन्तुष्टेन तेन शम्भुना पुनःपुनः सम्प्राप्ततद्भक्तताजरतामरतादिविविधवरस्सन् विज्वरोऽभूत्**॥४॥**

अथ कृष्णेऽपिनारदगिरा चित्रलेखया च सन्दर्शितं वाणकन्यान्तःपुरं प्रविश्य तत्र तार्क्ष्यसन्दर्शनेनैव विगलितेषु विषधरबाधनेषु तदनिरुद्धमनिरुद्धं प्रशमितमनोरोषामुषां च निजचरणौ वन्दमानौ संप्रेक्ष्य मुहुर्मुहुस्तयोर्विहितविविधाशीर्वचनः अभयागताय कुम्भाण्डाय समर्पिततद्राज्याधिपत्यः तदुपकल्पितैरुद्वाहसम्भारैस्तयोरुषानिरुद्धयोस्तत्तैव निर्वर्तितविवाहोत्सवः ताभ्यां सर्वयस्याभ्यां बलप्रद्युम्नाभ्यां च सह सुपर्णमधिरुह्यार्णवोपरि निर्गच्छत् वरुणवशवर्तिबाणगोधनं सत्यामुदे नेतुमात्मनाज्ञप्ते गरुत्मति तदुद्यमं विज्ञाय तटभुवि सञ्चरत्सु गोब्रजेषु तेषु जलधिं विंशत्सु गरुडेपि निजगरुद्घातेन सन्दर्शितपथमपांनिधिं तं प्रविश्य तद्गोधनं निखिलमपहर्तुमारभमाणे सपदि रणाय तत्र सन्नद्धं वारुणं बलमखिलमात्मशरपरम्परया विद्राबयन् वरुणमपि निजास्त्रधारिणं सपदि निजवैष्णवास्त्रेण संस्तम्भयन् वाणेन सह जीवन्नमोक्ष्यामि त्वद्गोधनमिति स्वसमयबन्धमाख्याय स्वचरणौ शरणमुपगते स्तुतिरवमुखरितदिङ्मुखे तस्मिन् प्रचेतसि कृपया विहाय तद्गोधनं विहायसैव निजैस्सह निजरथेन गरुत्मता शतमखमुखैरखिलबर्हिर्मुखैरनुगत एक महर्षेर्गिरमिव नानालङ्कारवतीं द्वारवतीमाससाद**॥५॥**

अथ दिवमुपयाते सर्वदेवैस्सहेन्द्रे
सदसि विशदयंस्तद्बाणयुद्धं यदूनां।
सुखमरमत कृष्णः पुत्रपौत्रः परीतो
निजपुरि वसुदेवं तोषयन्नाहुकं च॥११॥

उपया च युतस्तत्र रेमे रतिसुतोऽपि सः।
कुम्भाण्डकसुतां प्राप्य साम्बोऽपि समनन्दत॥१२॥

एवंविधानि चरितानि हरेर्विचित्रा–
ण्यन्यानि सन्ति शिशुपालबधादिकानि।
सन्दर्शितान्यपि रणे कुरुपाण्डवानां
तान्यत्र नैव कथितानि पुरा श्रुतानि॥१३॥

इत्युक्त्वा स पुनः प्राह सूतः कल्पेऽपि पौष्करे।
वाराहे नारसिंहे च यद्द्कृत्तं वामनेऽखिलम्॥१४॥

इति श्री भारद्वाजकुलजलधिचन्द्रेण दासप्पार्यपौत्रेण वेंकप्पार्यपुत्रे वैंकोवाचार्यशिष्येण वेंकटसूरिणा विरचिते हरिवंशचम्पौ दशमो विलासः॥

(*)समाप्तोऽयं ग्रन्थः(*)—

अनेन भारतीरमणमुख्यप्राणान्तर्गत कृष्णवेदव्यासात्मकश्री श्रीनिवासः प्रियताम्.

(*)श्री कृ ष्णा र्प ण म स्तु(*)—

]