मुक्ता-चरित्रम्

मुक्ता-चरित्रम्

नमः श्री-गान्धर्विका-गिरिधराभ्याम्

कन्दर्प-कोटि-रम्याय स्फुरद्-इन्दीवर-त्विषे ।
जगन्-मोहन-लीलाय नमो गोपेन्द्र-सूनवे ॥

क्रय-विक्रय-खेलाब्दौ मुक्तानां मज्जितात्मनोः ।
मिथो जयार्थिनोर् वन्दे राधा-माधवयोर् युगम् ॥

निजाम् उज्ज्वलितां भक्ति-सुधाम् अर्पयितुं क्षितौ ।
उदितं तं शची-गर्भ-व्योम्नि पूर्णं विधुं भजे ॥

नाम-श्रेष्ठं मनुम् अपि शचीपुत्रम् अत्र स्वरूपं
श्री-रूपं तस्याग्रजम् उरु-पुरीं माथुरीं गोष्ठवाटीम् ।
राधा-कुण्डं गिरिवरम् अहो राधिका-माधवाशां
प्राप्तो यस्य प्रथित-कृपया श्री-गुरुं तं नतोऽस्मि ॥

हरि-चरितामृत-लहरीं वृन्दा-विपिनाम्बु-राशिम्भूताम् ।
रसवद् वृन्दारक-गण-परमानन्दाय सन्तनुमः ॥

एकदा किञ्चिन्-मात्र-श्रुत-पूर्व-वृत्तान्तया सत्यभामया कृष्णः साकूतं पृष्टः ।

लतास् ता मधुराः कस्मिन् जायन्ते धन्यनिवृति ।
नाथ मत्-कङ्कण-न्यस्तं यासां मुक्ताफलं फलम् ॥
[* थिस् वेर्से इस् क़ुओतेद् इन् उन् ११।६६ अस् अन् एxअम्प्ले ओफ़् मौग्ध्य। थेरे थे फ़िर्स्त् लिने
reads:
कास् ता लताः क्व वा सन्ति केन वा किल रोपिताः]

ततस् तद्-वृत्तान्त-स्मरणात् कृष्णः स्वान्तर्-ग्लानिर् बहिर् विहस्याह ।

गतः स कालो यत्रासीत् मुक्तानां जन्म वल्लिषु ।
वर्तन्ते साम्प्रतं तासां हेतवः शुक्ति-सम्पुटाः ॥

ततस् तद् अपूर्वं श्रुत्वा स-विशेष-श्रवणोत्कण्ठितया तया बाढम् आम्रेडितः
कृष्णः पुनर् आह । एकदा कार्त्तिके मासि गोकुले गोवर्धन-गिरौ
दीप-मालिका-महोत्सव आसीत् । तत्र सर्वो जनो विचित्र-नेपथ्य-सामग्रीणां
संस्काराय साधनाय च परमाशक्तो बभूव । गोपास् तु स्वं स्वं भूषयन्तोऽपि
विशेषतः गवादि-पशूनां प्रसाधनार्थम् उद्युक्ता आसन् । गोप्यः किल
प्रसाधित-सदना आत्मनां भूषणार्थं नानालङ्कार-संस्कार-साधन-परा
बभूवुः । राधा तु माल्य-हरणाख्य-सरस्-तीरोपान्त-माधवी-चतुः-शालिकायां
स्व-सखी-समुदयेन परमोत्तम-मुक्ताभिर् विविध-भूषणानि रचयितुम्
आरेभे ।

मया च विचक्षण इति यथार्थ-नाम-कीर-कुमार-मुखतस् तन् निशम्य
स-कौतुकं तत्र गत्वातिप्रेमास्पदस्य हंसी-हरिणीति नाम्नो धेनु-युगलस्य
भूषणौत्सुक्येन तासां सकाशे मौक्तिकानि प्रार्थितानि ॥ ततः
सुविविध-वैदग्ध्य-परिमल-परिलसित-सामि-निमिलित-वाम-नयन-नीलोत्पल-दल्
आञ्चलेन सावहेलनम् इव मनाग् एव माम् अवलोक्य
मुनि-व्रत-जतु-मुद्रित-हसित-हीरकानर्घ्य-महा-रत्न-बहिः-प्रकाशं
निर्भरावेश-विशेषेण हारादि-गुम्फन-विलासम् एव वितन्वतीस् ताः प्रति सस्मितम्
इदम् अहम् आभाषितवान् ।
अभिनव-यौवना-मूल्य-चिन्तामणि-लब्धि-विवर्धितोत्तुङ्ग-गर्व-महा-पर्वता
वगुण्ठित-कर्ण्यः! प्रिय-वयस्यस्य मम प्रार्थिते क्षणम् अपि कर्णान्
उद्घाटयन्तु भवत्यः ।

ततस् तासाम् ईषत् स्मित्वान्योन्यम् आलोकयन्तीनां मध्ये प्रगल्भा ललिता विहस्य
सरोषम् इव व्याजहार । अये नागर! एतानि बहु-मूल्यानि मौक्तिकानि
राज-महिषी-योग्यानि । तव महिषीनाम् एवालङ्क्रियायै सत्यम् अभिरूपाणि कथं
न दास्यामः ?

ततस् तद्-वचः श्रुत्वा मया कौतुकेनाविष्टेन साम्ना पुनः पुनर् इदम् एवोक्तम् ।
भोः प्रिय-भूषणाः! सर्वाणि यदि न देयानि तदा
मद्-अत्यन्त-प्रिय-धेनु-युगल-शृङ्ग-पर्याप्तान्य् एवावश्यं दीयन्ताम् ।

ततो ललिता सर्वासां मौक्तिकानि पुनः पुनश् चालयन्ती भूयः प्राह । हे कृष्ण!
किं कर्तव्यम् ? तव धेनु-योग्यम् एकम् अपि नास्ति ।

तदाहम् उक्तवान् । अयि परम-चतुरे ललिते! तिष्ठ तिष्ठ । अहं कार्पण्य-भाक्
पश्चात् त्वया वक्तुं न शक्य इत्य् उपालभ्य सत्वरम् अम्बां व्रजेश्वरीम् आगत्य
मातर् देहि मे मौक्तिकानि । अहं तु तानि कृष्ट-केदारिकायाम् एव वप्स्यामीति
पुनः पुनर् अवोचम् । ततो मात्रा विहस्योक्तं । वत्स न मौक्तिकान्य् उप्तानि
प्ररोहन्ति ।

तदा मयोक्तं । मातर् अवश्यम् एव दीयन्तां दिन-त्रयाभ्यन्तरे प्ररूढानि
भवत्य् एव साक्षात् कर्तव्यानीत्य् अस्मन्-निर्बन्ध-परिहारासमर्थया तया दत्तानि
बहूनि मौक्तिकानि । मया गोकुल-जलाहरण-घट्ट-समीप-वर्तिनि
यमुनोपकण्ठे पौरुष-त्रयम् अवगाढां केदरिकां निष्पाद्य सहासं
पश्यन्तीषु कासुचिद् गोपिकासु तन्य् उप्त्वा सा पुनर् अपूरि । परितो वृतिश् च काष्ठैर्
निविडा कृता ।

ततस् तासां मौक्तिकप्रार्थन्वचनास्वरनिरासार्थं केदारिकासेकाय वयसद्वारा
गव्येषु प्रार्थ्यमानेषु सोल्लुण्ठं विहस्य ताः प्रोचुः ।
तन्मौक्तिककेदारिकासेकोऽस्माकं गव्येन कथमुचितः । यत्प्रियगोभूषणार्थं
कृतमौक्तिककेदारिकासेकस्तासां गवां दुग्धेनैव क्रियताम् ।
तत्केदारिकोत्पद्यमाने फले नास्माभिरभिलाषः कर्तव्यः । इति श्रुत्वा मया
स्वगृहाणां गवां बहुभिः पयोभिरेव ता दर्शयता प्रत्यहं सेकः क्रियते स्म ।

ततश्चतुर्थदिवस एव मौक्तिकानि प्रऊढानि । तद्दर्शनेनोल्लसितेन मया
मातुरञ्चलं गृहीत्वानीय तदङ्कुरा दर्शिताः । तान् दृष्ट्वा तु माता किमेतदिति
मनसि विचारयन्ती सन्दिग्धा सती व्रजं जगाम । गोप्यस् तु तच्छ्रुत्वा हिंस्रा
लताः प्ररूढा इति परस्परं सहासमूचिरे ।

ततो नातिविलम्बेन मूर्वाकारिण्यस्ता मौक्तिकलता विस्तारिण्यः समालोच्य
समीपवर्तिनां कदम्बानामुपरिष्ठात् क्रमेणावरोहिताः । ततः
कतिपयैर्दिवसैस्ताः सौरभोन्मादितमधुव्रतैः कुसुमनिचयैर्गोपीनां
चमत्कारमातन्वानाः सकलं गोकुलमेवाध्यवसायन् ।

ततोऽष्ट-विध-योनिज-मौक्तिकेभ्यो विलक्षणां श्रियं दधति मुक्ताफलानि तासु
जातानि तानि दृष्ट्वा व्रज-वासिनां विस्मयोऽत्यर्थं जातः । विशेषतश् च गोपीनाम् ।
ततः प्रत्य् अहम् एव तद्-दर्शनेन जात-लोभास् ताः मन्त्रयाञ्चक्रिरे । भोः
सख्यः भद्रेन ज्ञातम् अस्मभ्यः कृष्णो मौक्तिकानि सर्वथैव न दास्यत्येव ।
भवतु । तत्-कृत-मौक्तिक-कृषि-प्रक्रियास्माभिर् न दृष्टास्तीति न स्यात् ।
तत्रानध्यवसायं त्यक्त्वा तद्-द्विगुणिकायाः केदारिकायया आरम्भः कथं न
क्रियते ?

इति श्रुत्वातिचतुरा ललिता प्राह – भोः पवन-व्याधि-व्यापृता गोप्यः!
गोवर्धनोद्धरणादि-भूमि-मौक्तिकोत्पादनादिकं लोकोत्तरणाम् अपि दुष्करं
कर्म । तेन यद् अञ्जसा क्रियते तत् किल महा-सिद्धतो
लब्ध-सिद्धौषधि-मन्त्रादि-प्रभावाद् एवेति समस्त-व्रज-जनैर् निश्चितम् एव ।
अन्यथास्मद्-व्रजेन्द्र-गृहिणी गर्भ-सरोवरोत्पन्न-सुकोमल-नीलोत्पलस्य
ज्ञात-स्व-गोप-जाति-क्रिया-कलाप-मात्रस्य गोपालकस्य तस्य तत्-तत्-करणे कथम्
एतावती शक्तिः स्वतः सम्भवेद् इति जानन्त्योऽपि भवत्यः
सिद्धौषधि-मन्त्राद्य्-अन्तरेण यत्-तत्-कर्मणि प्रवर्तितुम् अभिलषन्ति । तत् खलु
परिणतावगाध-लज्जा-परिहास-सागरान्तः-स्वपतनायैवेति सत्यम् अवधार्यताम् ।

ततस् तुङ्गविद्या प्राह – अस्माभिर् अपि
श्री-भगवती-पाद-पद्म-सिद्ध-मन्त्र-शिष्या-नान्दीमुखी-सकाशात्
सिद्ध-मन्त्रम् एकम् आदाय कथं न तथोद्यमः क्रियते ?

सर्वाः – भद्रं वदति तुङ्गविद्येति निर्णीय तत्-पार्श्वम् उपेत्य स-विनयम्
आत्माभिलाषं निवेदयामासुः ।

ततो नान्दीमुखी स्वगतमाह – अये निज-नयन-युग्म-दृष्टि-साफल्याय
चिर-दिनम् अस्मद्-विधाभिलष्यमाण-क्रय-विक्रय-क्रीडा-कुतूहल-कल्पतरोर्
बाढम् अकस्माद् अस्माद् दृशां भाग्यातिशय-वशात् साक्षाद् बीज-रूपोऽयम् अवसरः
प्रत्यासन्नो बभूव । तद्-विदग्धानां शिरोमणीर् अप्य् एतास् तथा
युक्ति-सौष्ठवातिशयेन कृत्येऽत्र प्रवर्तयामि । यथा स तरुस् त्वरितम् एव
प्रऊढः फलवान् भवेद् इति मनसि विचिन्त्य सान्तरानन्दं नान्दी प्राह – भोः
सख्यः । सत्यं मुकुन्दस्य न मन्त्र-कृतेयं मृदि मौक्तिका सृष्टिः ।

सर्वाः - तन् निज-जनेन कारण-शुक्त्यादि-मात्रम् अन्तरेण कथं मृत्तिकायाम्
असम्भवेयं तद्-उत्पत्तिः प्रतीयते ।

नान्दी – अस्या भुवः स्वाभाविकेदृक्-प्रभावाद् एव । यद् विविध-रत्न-जननीयं
व्रज-वन-भूर् इति श्री-भगवती-पाद-पद्मैः पुनः पुनर् निवर्ण्यते । ऋतम् अप्य्
अनुभूयन्ते तथा । यतः
प्रवाल-नव-पल्लव-मरकत-छद-वज्र-मौक्तिक-प्रकर-कोरक-कमल-राग
-नाना-फलादिमन्तो हिरण्मय-महीरुहाः स्फुटम् अत्र जाता जायमानाश् च
दृश्यन्ते । अतोऽस्याम् उप्त-मुक्ताफलानि जनिष्यन्ते फलिष्यन्ति चेति किं चित्रम् ? तद्
भवतीभिर् अपि सुरभितर-नवनीतादि-सेक-पूर्वकम् अतिप्रयत्नेन तथा तत्-कृषिः
क्रियतां यथा ततोऽप्य् अधिकतमानि परमोत्तम-फलानि लभ्यन्ते ।

इति तद्-वचन-माधुरीम् आपीय स-सन्तोषं स-श्लाघं प्रत्ययन्त्यः सर्वास् ताम्
आलिङ्ग्य निजां स्थलीम् आगत्य स्पर्धया मज्-जयाय समुचित-वेतनतो
द्विगुण-त्रिगुण-गोरस-प्रदानेन कर्म-कारानानाय्य स्थाने स्थाने केदारिकाः
कृत्वा पेटिकायाम् अग्रथितानि ग्रथितान्य् अङ्ग-भूषण-रूपाणि च यावन्ति स्थितानि
तावन्ति यथा-युक्तम् अल्पान्य् एव संरक्ष्याङ्गतः समुत्तारितानि च मौक्तिकानि
निरवशेषम् उप्त्वा प्रत्यहम् एव त्रि-सन्ध्यं गो-दुग्ध-नवनीत-सुवासित-घृतैर्
एव सेकं कर्तुम् आरब्धवत्यः ।

ततस्तासां मुक्ताकृषिकरणश्रवणान्मात्सर्यतो लोभतश्च चन्द्रावलीप्रभृतयोऽपि
सर्वा वल्लब्यस्ततोऽप्यधिककेदारिकाः स्थाने स्थाने कृत्वा
देहगेहयोरेकमप्यसंरक्ष्य समस्तमौक्तिकान्युप्तवत्यः ।

ततः कतिपयदिनान्तरे स्वस्वकेदारिकासु जातान् हिंस्रलताङ्कुरान् दृष्ट्वा
अन्तर्गर्भितगर्वाभिर्वल्लभीभिस्ताभिः सर्वाभिश्छलतो मत्प्रियवयस्याः
परिहस्यन्ते स्म ।

एकस्मिन् दिने गोरसानामतीवव्ययं स्वस्वगृहस्य च निमौक्तिकतां वीक्ष्य गोपाः
ससंरम्भं कारणं पप्रच्छुः ।

तच्छ्रुत्वा वृद्धा ऊचुः । भो आयुष्मन्तः । नानुयोगविषयोऽयमाभिर्बालाभिः
कृतो मौक्तिककेदारिकानां निमित्तं बहुलो व्ययोऽचिरादेव बहुतरलाभो
भविष्यति । यत्कृष्णकेदारिकायां राजदाराणामपि दुर्लभानि मुक्ताफलानि किल
दृष्टानि सन्तीति ।

अथैकदा विशाखया स्वदेकारिकासु तानङ्कुरान्निरीक्ष्य कासाञ्चित् कर्णे
निभृतमिदमुक्तम् । भोः सख्यः । कृष्णकेदारिकामध्ये मया यादृशा अङ्कुरा
दृष्टा एते तु तादृशा न दृश्यन्ते । न जाने पश्चात् किं भवेत् ।
कृष्णवयस्यदृष्टिनिवारणार्थं छलतः सुष्ठु वेष्ट्यन्ताम् ।

अथ कतिपयदिवसैस्तासां राधादीनामन्यासां च केदारिकासु कण्टकादिचिह्नेन
लताभिर्निजरूपे प्रकाश्यमाने गोपीकेदारिकासु हिंस्रा लता जाता इति सकलगोकुल
एव ख्यातम् ।

एतद् आकर्ण्य वयस्य-द्वारा गान्धर्वा-गोष्ठ्यां मयेदं सोत्प्रासं विज्ञापितं
श्रुतं भवतीनां केदारिकासु बहूनि मुक्ता-फलानि जातानि सन्ति । अहं तावत्
स्निग्धस् तत् स-वयस्याय मह्यं प्रथम-फलानि दीयन्ताम् ।

ततस् ताभिर् उक्तं । यदि वयं कृषिम् अकरिष्यामस् तदा सकल-गोष्ठं
मौक्तिकमयम् अभविष्यत् । पशुपाल्य-स्वधर्मम् अपहाय स इव कः
कीलास-वृत्तिम् [*नोतेः कर्षक-वृत्तिः पक्षे कार्पण्यम्] आश्रयेत् ॥

तद् आकर्ण्य मया निखिल-वयस्याः सवत्सा गावः शकट-वहा महिष्यः,
सवर्करा अजा, वृन्दावन-वर्तिन्यश् च मौक्तिक-मयैर् मालाद्य्-अलङ्कारैर्
मण्डिताः ।

ततश् च गोप्यो लज्जया स्व-भूषण-व्यतिरेकेण बहु-धन-विनाशेन गोप-भिया च
किम् अत्र युक्तम् इति मन्त्रयितुम् आरेभिरे । अये गृहीत-कृष्ण-पक्षया
धूर्त-नान्दीमुख्याऽभद्रेण प्रतारिताः स्म इत्य् आभाष्य सर्प्स्।अं तन्-निकटम्
आगत्य तत्-कथन-पूर्वकं बहुशस् ताभिर् भर्त्सिता नान्दीमुखी प्राह । भोः
तपोभ्यः शपे न मया सर्वथैव प्रतारिताः स्थ, किन्तु युष्माभिर् एव तत् सर्वं
विनाशितम् ।

सर्वाः । कपटिनि कथं कारम् ।

नान्दी । यतो गर्विताभिर् युष्माभिर् ढक्का-वाद्यवत् कोलाहल-प्रपञ्चेन
सवयस्य-गणस्य तस्य श्रवण-कुहरे सुष्ठु-गोचरीकृत्य केदारिकासु मुक्ताः
स्फुटम् उप्ताः तथा कोऽप्य् एकः प्रहरिकोऽपि तत्र न रक्षितः ।

सर्वाः – एतावता किं न जातम् ?

नान्दी सरोषम् । यज् जातं तच् चतुरम्मन्याभिः श्रूयताम् । युष्मान् विजेतुम्
अभीष्टम् इष्टान्न-प्रदानेन सुष्ठु प्रलोभ्य धूर्त-गुरुणा युष्मन्-नागरेण
तेन प्रेरित-लोलुप-भण्ड-मधुमङ्गलेनाति-निर्बद्धतो विचित्य किञ्चिज्
जाताङ्कुराः सर्वा मुक्ता निरवशेषं समादाय तत्र तत्र हिंस्रावल्ली-कदम्बान्
समारोप्य कयत्यः पृथक् स्वकृत एकस्मिन् केदारे प्रत्नतः संरोपिताः ।
तथान्यासां तु तथैवानीय कालिन्दी-गभीर-नीरान्तः प्रक्षिप्ताः । इति मया
सुदृढं ज्ञातम् अस्ति ।

इति निशम्य सर्वा आहुः । अयि
कूटत्व-नाटक-नटन-प्रकटनैक-कार्यानिन्द्य-महानन्दि । अयि
भण्ड-मधुमङ्गल-गुरुप्राय-महा-सतीर्थे । अयि
व्रजप्रथित-शठ-नट-सहित-नाट्य-योग्ये । तत्-प्रियतमे नटि । अयि
कलियुग-तपस्विनि । तिष्ठ तिष्ठेति सभ्रूभङ्गं ताम् आक्षिप्य स्व-गेहम् आगत्य
पुनः पुनस् तद् एव विचारयन्ती तासु राधा भोः सख्यः नान्दीमुखी वा
प्रतारयतु स धूर्तस् तथा वा करोतु अधुना तद्-विचारेण को लाभः । साम्प्रतम्
अन्यद् दुःखं न गण्यते । गुर्वादितो भयम् एव नः खेदयति । तद् वयं तु
तेभ्यो मौक्तिकेषु दर्शितेष्व् एव शिथिली भवेत् । तादृशानि सर्वथैवात्र
सुदुर्लभानि किन्तु कृष्णाद् एव मूल्येन यथा गृहीतानि स्युः । तत्रोपायश्
चिन्त्यताम् ।

ततः सर्वाभिर् विभाव्योक्तम् । चन्द्रमुखी चतुरा भवति । सुवर्णानि गृहीत्वा
गत्वा समुचित-मूल्येन मौक्तिकान्य् आनयतु ।

ततस् तयोक्तम् । सम्प्रत्य् अस्माभिर् उपालब्धस्य तस्य समीपम् अहम् एकाकिनी
गन्तुम् अशक्तास्मि । काञ्चनलता मम सङ्गे समागच्छतु । इति सर्वासाम्
अनुमत्या बहु-सुवर्णानि गृहीत्वा मौक्तिक-वाटिका-समीपं ते आजग्मतुः । तत्र
तद्-वाटिकाधिकारिणं सुबलं मया सह निविष्टम् अब्रूताम् । हे सुबल श्रुतम्
अस्माभिर् भवद्भिर् नव्य-मुक्तानि विक्रीयन्ते । तद् इमानि शुद्ध-सुवर्णानि
गृहीत्वा समुचित-मूल्येन प्रवीण-प्रवीण-मुक्ता-फलानि दीयन्ताम् ।

ततः स्मित्वा मयोक्तम् । तदानीम् अनेकधा प्रार्थ्यमानं नैकम् अपि मौक्तिकम्
अस्मभ्यं दत्तम् । अस्मत्-केदारिका-सेकार्थं दुग्ध-पारी च भवतीभिर् न
दत्ता । अस्माभिर् वरं कालिन्दी-मध्ये प्रक्षेप्तव्यम् । तथापि भवतीनां
गृह-सर्वस्वेनापि पणीकृतेन निखिल-मौक्तिक-वृन्दादपकृष्टम् एकम् अपि
मौक्तिकं सर्वथा न दातव्यम् ।

ततः काञ्चनलतयोक्तम् । मौक्तिक-निमित्तं पत्य्-आदिभ्यो यदि तासां भीर् न
भवेत् तदास्य कदर्थनोक्तिम् ईदृशीं का नाम सहेत । भवतु किं कर्तव्यम् ।
हट्ट-प्रसारित-बहुरत्ना मधुरा तावद् दूरे तद् अद्य भोः सुबल स्वयम् एव
भवता मध्यस्थेन भूयताम् । आन्यत्रिक-मूल्याद् अस्माभिर् विशेषोऽपि दातव्यः ।

ततश् च विशेष-शब्द-श्रवणान् मया विहस्योक्तम् । भवतु नाम
स्वभाव-कोमलेन मया तु भवतीभिर् इव काठिन्यं कर्तुं न शक्यते । अदत्त्वा
वा अन्यत् किं कर्तव्यम् । किन्तु मौक्तिकार्धिनीनां सर्वासां
मौक्तिक-मूल्य-निर्णयः किं भवतीभ्याम् एव भविष्यति ।

ताभ्याम् उक्तम् – अथ किम् ?

मयोक्तम् । कस् तावद् विशेषः । ततश् चन्द्रमुखी किञ्चिद् विहस्य काञ्चनलताम्
आलोकितवती । काञ्चनलताथ सलज्जं सुबलं प्रति व्याजहार । सखे सुबल स्वयम्
एव मध्यस्थेन भूत्वा समाधाय समीचीन-यशो-भारस् तावद् अङ्गीक्रियतां
भवता ।

सुबलेनोक्तम् । वयस्य रहस्यतया बहु-मूल्यत्वं कियत् काञ्चनलतया
प्रकटीक्रियते । आत्मनोऽभीष्ट-मूल्यं स्वयम् एव स्फुटं निगद्य न कथं
गृह्यते ।

ततोऽहम् अब्रुवम् । सखे सुबल चन्द्रमुख्या अभिप्रायो ज्ञातः । मुक्ताफलानि
ग्रहीतुं काञ्चनलतैव विचार्यानर्घ-मूल्यत्वेन परिकल्प्य राधादिभिः प्रहित्य
मम दत्तास्तीति । किन्तु काञ्चन-सञ्चयतोऽपि मुक्ताफलानाम् अधिकं मूल्यं
जगति प्रसिद्धम् । तस्माद् एकयैव काञ्चनलतया कथम् एतासां
मूल्य-पर्याप्तिः । यदि वा अस्या बक्षसि स्वर्ण-सम्पूट-रूप-फल-द्वये बहवश्
चिन्तामणयोऽपि सन्तीति चन्द्रमुखी वक्षति तथापि न । यतो
वैकुण्ठनाथ-कण्ठ-स्थित-कौस्तुभतोऽपि ममैतद् एकं मुक्ताफलं
परम-परार्ध्यम् ।

तच् छ्रुत्वा भ्रू-भङ्गेन माम् अवलोकयन्ती काञ्चनलता सरोषम् आह -
निर्बुद्धिके चन्द्रमुखि! तदैव मयोक्तं तस्य धृष्टस्य सविधे मया न
गन्तव्यम् । तथापि त्वयाह्यम् आग्रहेणानीय कदर्थितास्मि । त्वं मुक्ताफलान्य्
आदाय समागच्छ अहम् इतश् चलितास्मि ।

चन्द्रमुखी आह - काञ्चनलते! सत्यं कथयसि तत् कथम् एकाकिन्या मया
मूल्य-निर्णयो भवतु । कथं वा निजनेऽत्र स्थातव्यं एकयोग-निर्दिष्टानां सह
वा प्रवृत्तिः सह वा निवृत्तिर् इति मयापि गन्तव्यम् । इत्य् उभे एव गमनोद्यते
दृष्ट्वा मयोक्तम् - सुबल! तदैव मयोक्तं यद् एताभ्यां मूल्य-निर्णयो न
भविष्यति ।

तच् छ्रुत्वा तयोः सविधम् आगत्य सुबलेनोक्तम् - सखि चन्द्रमुखि! वयस्यस्य
मूल्य-विषये महान् आग्रहो दृश्यते । तेन प्रिय-सखी राधा ललितादिभिः सहागत्य
समक्षम् एव समुचित-मूल्यं प्रदाय स्वेप्सित-मुक्ताफलानि गृह्णातु । तत्र
मया मध्यस्थेन भूत्वा साचिव्यं करणीयम् ।

इति निशम्य चन्द्रमुखी-काञ्चनलते तासां सविधे गत्वा स-रोषम् इव सर्वं
वृत्तं कथयाञ्चक्रतुः ।

ततश् च राधा ललितादिभिः सह मौक्तिक-बाटी-प्रान्तम् आसाद्य
चन्द्रमुखी-द्वारा सुबलम् आकार्य तम् आह - प्रिय-वयस्य सुबल । अस्मासु
भवतो निरङ्कुशः स्नेहः । अतः स्वयम् एव तथा विधीयतां यथास्माभिः
समुचित-मूल्येन मुक्ताफलानि लभ्यन्ते ।

तच् छ्रुत्वा सुबलेन मह्यं निवेद्य मद्-वचनेन मत्-सन्निधौ ता ललितादयः
समानीताः । राधा तु ममात्रागमनं त्वया
मद्-उपद्रावक-स्व-प्रिय-वयस्याय सर्वथा न प्रकाशनीयम् इति सुबलम्
आभाष्य मन्-निकट-स्थ-कदम्ब-कुञ्जान्तर् निखिल-वृत्तान्तं निशमयन्ती
निगूढम् आस्थिता ।

ततो मया ताः सर्वा निभाल्य राधा कथं न दृश्यते इत्य् उक्ते तुङ्गविद्ययोक्तम् -
गोकुल-युव-राज! सा खलु स-प्रणयं आर्यया जटिलया कस्यचिद्
गृह-कार्य-विशेषस्य कृते रक्षिता गृहे विद्यते ।

ततस् तद्-अवसर एव प्रविष्टेन मधुमङ्गलेन
इङ्गित-विज्ञापित-राधा-निगूढ-मन्-निकट-स्थितिम् अवधार्य किञ्चिद् विहस्य
मयोक्तम् - तुङ्गविद्ये! मुक्ता-ग्रहणेच्छा तस्या न विद्यते इति दृश्यते ।

ततस् तयोक्तं - नहि नहि । तन्-मुक्ता-मूल्यम् अस्माभिर् एव दास्यते ।

तदा मयोक्तं - विशाखैव राधा, राधैव विशाखा । ततस् तन्-मूल्यं विशाखैव
दास्यतीति ज्ञायते । भवतु तत्र समाग्रहो नास्ति, किन्तु या खलु स्वयम् आगत्य न
गृह्णाति तस्याश् चतुर्-गुणं मूल्यं गृह्यताम् । मौक्तिकानि च साधारणान्य् एव
दीयन्ताम् इति मे सर्वेषां सखीनां सुदृढो निर्णयः ।

तद् अनु सुबलं प्रति मयोक्तं - सखे सुबल! अवचित मुक्ता-पूर्ण-सम्पुटान्
आनीय पुरतः प्रसार्य विचित्य सर्व-कनिष्ठान्य् एव मौक्तिकानि पूर्वकृतं
तत्-कार्पण्यम् अप्य् अविगणय्य प्रथमं तत्-कृते विशाखायां समर्प्य तत्-सकाशाच्
च तन्-मूल्यं गृह्यताम् । यदि वा प्रस्तुतं दातुं न शक्नोति ततस् तद्-अभिन्नेयम् ।
तावत् पुष्प-प्रवाल-चोरिका गोप-कन्यका यत्र रक्ष्यन्ते तत्रैवारान्
माधवी-कुञ्ज-कारायां सम्बध्य रक्ष्यताम् ।

तच् छ्रुत्वा मधुमङ्गलेनोक्तं - प्रिय-वयस्य । निरोधेऽपि पर-रामाभिः
पलायन-विद्याः स्फुटम् अधीताः सन्ति ।

तदा मयोक्तं - वयस्य! मयाप्य् एतद् ज्ञायत एव । किन्तु चिन्ता नास्ति । यद्यपि
पर-रामा-स्पर्शो लज्जा-त्यागश् चास्मद्-विधानां स्वप्नेऽप्य् अतीवायोग्यस् तथापि -

स्व-कार्यम् उद्धरेत् प्राज्ञः कुर्वन्न् अपि विगर्हितः ।

तथा,

आहारे व्यवहारे च लज्जाम् अपि परित्यजेत् ।

इति संहिता-वचन-बलाद् अहम् एव प्रहरिको भवन् सर्वाम् एव रात्रिं जाग्रन्
निरन्तरं निवत्स्यामि ।

इति निशम्य सुबलः स-स्मितम् आह - पुरुषोत्तम! प्रिय-सख्या विशाखया एतावति
महा-सङ्कटे कियन्तं कालं स्थातव्यम् ?

ततो मयोक्तं - यद् अर्थम् इयं रक्ष्यते सा यावत् निःशेषं मूल्य-द्रव्यं
प्रस्थापयति । किं वा कियद्-द्रव्यं गृहीत्वा स्वयम् एवागत्य ध्रुवम् अस्याः
स्नेहाद् इत्थम् अत्र स्थित्वा अवशिष्ट-द्रव्यानयनार्थम् एनां प्रस्थापयति । तावद्
अनया स्थातव्यम् ।

इति श्रुत्वा मधुमङ्गलः प्राह - सखे! एतद्-गोष्ठीनाम् अधीशा सा सर्वाभ्योऽपि
सर्व-कर्मणि विचक्षणा विशेषतः पलायने गव्य-घट्ट्यां दानादिषु सर्वैर्
अस्माभि पुनः पुनः प्रयक्षीकृतास्ति । त्वं त्व् अनिशअम् उद्घूर्णसे तेन मे
महती चिन्ता ज्ञायते ।

ततः स्मितम् अपवार्याहम् अवदं - सखे! अलम् अनया चिन्तया । तन्-निकटे
ममोद्घूर्णा न जनिष्यत एव । यदि वा जायेत तर्हि मद्-उत्तमाङ्गस्य
तद्-वाम-भुजा-मृणालीम् उपधानीकृत्य
तद्-उरस्-तल्पोल्लसित-पीत-पट्टाम्बर-वर-विधूपधानोपरि
मद्-वाम-कर-पल्लवम् अरुणम् अभिन्यस्य तह्ता
मौक्तिक-पण-निमित्तक-वाग्-विलासम् उल्लासयिष्यामि । यथा सुखेन जागर्याम् एव
चत्वारो रजनि-यामा द्रुतम् एव विरमन्ति । अथवा
मद्-उरो-नाम-घनान्धकार-विषम-कारागारान्तस् तां प्रविश्य
तत्-पार्श्व-युगलं कठोर-भुज-गारुत्मतार्गलाभ्यां दृढं संरुद्ध्य
सुखेन निरातङ्कः स्वप्न-विलासं वितरिष्यामि ।

इति श्रुत्वा सर्वाः स्मयमाना बभूवुः । राधा तूद्ग्रीविकया मां विशाखां
सर्वाश् च सखीर् अवलोकयन्ती आह - चन्द्रावली-केलि-कुरङ्ग! तिष्ठ तिष्ठेति
अनुच्चैर् मां तर्जयन्ती सुस्मितासीत् । विशाखा तु कुटिल-दृष्ट्या माम् अवलोकयन्ती
आह - व्रज-धूर्त-धृष्ट! अपेहै अपेहीति वदन्ती सखी-मध्ये लीना बभूव ।

ततः सर्वाभिः सुबलं प्रत्य् उक्तं - सुबल! विदूषकतां त्यज । यदि भवतां
विक्रयेच्छा वर्तते, तर्हि मुक्ताः प्रदर्श्य समुचित-मूल्येन प्रदीयन्ताम् । नो
चेद् वयं गृहं गच्छामः । मथुरात एव मौक्तिआन्य् आनयितव्यानि ।

इति निशम्य सुबलेन सम्पुटानुद्घाट्य ताभ्यां मौक्तिकानि प्रदर्श्य मां प्रत्य्
उक्तं – प्रिय-वयस्य! इमानि मौक्तिकान्य् अमूल्यानि आभिर् गृह-पत्य्-आदिकं
समस्त-गोधनानि च विक्रीयापि एकस्यापि मूल्यं दातुम् अशक्यम् । एताः खलु
भवत्-स्निग्धाः सर्वान् उपेक्ष्य त्वां जानन्ति । तस्माद् एतत्-पूर्व-कृत-कार्पण्यम्
अपि विस्मृत्य मां च त्व-अनुगतम् अवेक्ष्य यत्-किञ्चिन्-मूल्यं गृहीत्वा विना-मूल्येन
दत्तवद् आसाम् अभीप्सित-मौक्तिकानि दातुम् आज्ञा क्रियताम् ।

ततोऽहम् अवोचम् - सखे! नहि नहि । वयं वाणिज्य-व्यवसायिनः । भवतु । किं
कर्तव्यं । भवद्-वचनं च रक्षणीयम् । तद् यत् किञ्चिद् अल्पम् एव मया मृग्यते
तद् दापयित्वैव दीयन्ताम् । किं च उत्कोचं गृहीत्वा बारं बारं मम
घट्टी-दान-द्रव्याणि भवता विनाशितानि सनीतित् मम केनापि कथितम् अस्ति
तस्मान् मूल्य-द्रव्यं समक्षम् एव मयैवाभ्यो ग्रहीतव्यम् ।

सुबलः किञ्चिद् विहस्याह - भद्रं वचः । किं च एताभिः
स्वीय-स्वीयाभीप्सित-मौक्तिकानि विचित्य पृथक् पृथक् कुटी-कृतानि दृष्ट्वा
भवतापि स्वाभीप्सित-मूल्यं कथ्यताम् ।

ततोऽहम् अब्रुवम् - भद्रं दर्शयन्तु स्व-स्वाभीप्सित-मौक्तिकानि मूल्यं
कथ्यते मया ।
सुबलः प्राह - प्रिय-वयस्य! एताः विनयेन यन् निवेदयन्ति तत् कृपयावधार्य
भवते यदि रोचते तदा विधीयताम् ।

ततोऽहं - सुबल । कथ्यतां किं निवेदयन्ति युक्तं चेत् कर्तव्यम् ।

सुबलः प्राह - एवं निवेदयन्ति, मधु-पुरी तावद् दूरे
समग्र-मूल्य-द्रव्याणां च समाचयनं दिन-द्वय-मध्य एव सम्पद्यते ।
गुरुकुलं तु मौक्तिकालङ्काराद्य्-अदर्शनात् क्षणे क्षणे खिद्यमानं बाढम्
आक्रोशति । अतोऽतिस्निग्धान् भवद्-विधान् अवगत्य लज्जाम् अपि परिहाय
निर्जन-वनान्तरम् आगतानाम् अस्माकम् ऋणेनैव मौक्तिकानि दापयित्वा द्रुतम्
एव विदायः क्रियताम् । मूल्य-द्रव्याण्य् अस्माभिर् भवताम्
अभीप्सित-वृद्धि-सहितानि दिन-द्वयाभ्यन्तरे परिशोध्य प्रहेयाणि यद्य् अस्मासु
भवद्-वयस्यस्य प्रतीतिर् न जायते तदा त्वम् एवास्माकं प्रतिभूर् भवेति ।
तस्मात् परम-प्रतीति-पात्राभ्यः सन्तत-सत्यवादिनीभ्य एताभ्यः प्रतीतिं कृत्वा
दत्तेषु मौक्तिकेषु मूल्य-द्रव्यम् अभीप्सित-वृद्धिश् चाचिराल् लप्स्यते । तथैताभिः
सह निविड-स्नेहोऽपि वर्धिष्यत एव ।

ततोऽहं विहस्य - सुबल! त्वं शुद्ध-बुद्धोऽसि । आसां व्यवहृतिः किञ्चिन् मात्रापि
त्वया न ज्ञायते । कुटि-नाटी-नाई᳡ओइका-नर्तक्य इमा मौक्तिकं गृहीत्वा
निज-निज-भर्तृ-महा-दुर्ग-कोष्ठेइर् वेष्टितान् स्व-स्व-गुरु-कुल-महा-पर्वतान्
प्रविश्य द्रव्यम् अदत्त्वा यदि खेल्यन्त्यस् तिष्ठेयुस् तर्हि त्वया किं कर्तव्यम् ।

सुबलः प्राह - सखे! मैवं ब्रवीः । एताः खलु नैवं करिष्यन्ति । यदि वा
कुर्युस् तदोज्ज्वल-वनान्तार्जुन-कोकिलादिभिः सह तत्र गत्वा स्वयम् आभिः
स्वीकृतम् । स्वयं ग्रहाश्लेष-चुम्बन-स्वाधर-सुधा-पानादि-रूप-मूल्यम्
एतासां भर्तृषु संश्राव्य तत्-प्राप्त्य्-अर्थं तेभ्यस् तथा भयं
प्रदर्शयिष्यामि । यथा त एव द्रुतम् अमूस् त्वत्-समीपं प्रस्थाप्य तद्
दापयिष्यन्ति ।

तन् निशम्य मधुमङ्गलेन स-क्रोधम् उक्तं - रे सुबल! त्वं नाम्नैव सुबलः
पुमांश् चासि । वस्तुतस् त्व् अबलाकृतिर् मुहुर् दृष्टोऽसि । यतः साम्प्रतम् अप्य् आसाम्
अबलानां फुत्कारं क्षुद्राद् अतिक्षुद्रतरेषु तद्-भर्तृषु कर्तुं यद् इच्छसि ।
तद्-भीरु-स्वभावस्य तवैतत् समुचितम् एव । तस्मात् त्वम् एवात्रोपविश्य मयैव
विजयादिधाटीं प्रगृह्य बलाद् आसां भर्तृ-सहित-गो-महिष्यादिकं वेष्टयित्वा
समानीय रुद्ध्वात्र नदीश्वर-पुरे रक्षिष्यते । तदा ता एव स्वयम् आगत्य
स्व-स्व-द्रव्यं सुतरां दत्त्वा स्वं स्वं पतिं गोधनादिकं च मोचयिष्यन्ति ।

ततस् तच्-छ्रवणेन जनित-महा-दुःख-भरेणैव मयोक्तं - प्राण-सख
मधुमङ्गल! कथम् एवं त्वया मन्त्र्यते ? व्रज-वासिनो भिल्ल-पुलिन्दाद्या अपि
मे प्रियेभ्योऽप्य् अधिक-प्रियाः । एते तु स-गोत्राः सहोदरा मद्-अभिन्ना एव ।
तस्माद् एतन्-मन्त्रणम् अतीवानुचितम् । सुबल-भाषितम् एव किञ्चिद् भाति । तथापि
न प्रिय-जनैः समम् आदान-प्रदान-प्रयोगेण रस-रक्षा न जायत एव । तथा
च स्मृतिः –

नैवादानं प्रदानं हि मित्रैः सह वितन्यते ।
कृते प्रीत्या भवेल् लोपः कलहस् तद्-अनन्तरम् ॥ इति ।

ततः प्रस्तुतम् एव मूल्यं दत्त्वा मौक्तिकानि नयन्तु ।

तच् छ्रुत्वा स-क्रोधम् इव सुबलं निभाल्य - अये! कौटिल्य-पारङ्गत सुबल!
सर्वैर् एव मिलित्वा विडम्बयितुम् एव वयम् अत्रानीता भवता । तद् यूयं
मौक्तिक-वाणिज्य-व्यवसायेन राज्यं कुरुत । वयं चलिताः स्म इत्य् उक्त्वा
चलन्तीनां तासां सविधम् आसाद्य सौहार्दम् अभिव्यञ्जयन् सुबलो ललितां नीचैः
प्राह - सखि ललिते! आदान-प्रदान-व्यवहारस्य स्नेह-भङ्ग-कारित्वात् केवलईअ
तद्-भयेनैव प्रिय-वयस्येन मूल्य-निर्णयं प्रस्तुत-वित्त-लाभं च विना
सर्वथैव मौक्तिकानि न देयानीइत् सर्व-प्रकारेणावधारितम् । तस्मात् समागत्य
प्रथमं तावन् मूल्यम् एव निर्णीयताम् । तद्-दानोपायः पश्चाच् चिन्तनीयः इत्य्
अनुनयेन ताः परावृत्य मत्-समीपम् आनीय मां प्रत्य् उवाच - वयस्य! नर्म
हित्वा मूल्यम् एव तावत् कथ्यताम् ।ततोऽहम् – सखे सुबल! प्रथमं तावत्
कस्य मौक्तिकानां मूल्यं कथनीयम् ?

सुबलः प्राह - एतासां मध्ये ललितैव मुख्या तद् एतद् गृहीत-मौक्तिक-मूल्यं
प्रथमं निरुच्यताम् ।

ततोऽहं किञ्चिद् विहस्य - एतद्-वाहिनीनां प्रवीणया ललितया समरे पौरुषेण यदि
मादृशः पुरुष-सिंहः सकृद् अपि कुण्ठितास्त्रीकर्तुं शक्यते । तदास्याः समक्षं
सर्वथैवास्त्री न भविष्यामि । किं वा सन्ततम् अमुक्तास्त्री भूत्वा एतं पुअरुषम्
एवानुकीर्तयन्न् इमाम् एवानुचरिष्यामीति इदम् एव यत् किञ्चिन् मूल्यं दत्त्वा
गृह्णातु ।

सुबलः स्मित्वाह - गोकुल-वीर! सुदीप्र-दर्प-भरैर्
महेन्द्र-गर्व-पर्वत-खर्वनाय सप्त-रात्रम् अत्र
वाम-कर-कमल-कनिष्ठाङ्गुलि-वराटक-शिखरोपरि भ्रमर इव
गोवर्धन-गिरिर् येन व्यधायि तेनोच्चण्डेन भवता समम् अबलेयं
कौमल्य-ललिता कथम् इव समितिम् अतिविस्तारयतु ।

मधुमङ्गलः प्राह - सुबल! तं कथं पूर्वम् अस्य पौगण्ड-कृतं दर्पम्
अतिश्लाघसे ? यद् अधुना तारुण्यामृत-सेकेन स
दर्पक-कल्प-तरु-लक्ष-लक्ष-गुणं पल्लवितोऽस्ति ।

सुबलः प्राह - कथम् इति विदितम् ?

मधुमङ्गलः - यद् अनेन पूर्वारीणां सकलानां पूर्वं यादृश-वैकल्यं
कारितम् आसीत्, साम्प्रतम् एतद् दुर्गमं तद्-धृदयङ्गमान-तनु-पर्वतान्
अभिलीलयैव केन च नखरास्त्रेणैव खण्ड-खण्डीकृत्य महामारादिभिस्
ततोऽप्य् अतुलतरवैकल्यम् आपादितम् आस्ते ।

ततोऽहं विहस्य - सुबल! सत्यम् अन्यत्र मया तादृशेनैव भूयते । न त्व् एतस्याः
पुरतः यस्मात् ततोऽपि प्रवर-विग्रहे विविध-वैचित्री-प्रवीणयानया बारं बारं
भ्रू-धनुष्-टङ्कारेणैव हुङ्कारेण हेलया स्तब्धीकृतोऽस्मि । तत् कथम् इयम्
अबला भवतु ।

इत्य् आकर्णनेन स्मेर-मुखीः सखीर् अवलोक्य स्वानन्दोत्थ-विकारान् अवगूह्य
सक्रोधम् इव ललितयोक्तं - अये सुबल विदूषक! मधुमङ्गल-सहचरस्य
गोकुल-भण्डस्य भण्डता-देव्या सत्यं त्वम् अप्य् आविष्टोऽसि । यद् अस्मान्
एतत्-समक्षं समानाय्य विडम्बन-समुद्रे सम्पातयन् कौतुकं पश्यन्न् असईति
निगद्य कुटिल-दृष्ट्या माम् आक्षिपन्तीम् आगच्छत भोः सरलाः! आगच्छतेत्य्
उक्त्वा सर्वाभिः सह गच्छन्तीं तद् अवसर एव तत्रागता भगवत्याः
पौर्णमास्या अन्तेवासिनी नान्दीमुखी तद्-गमन-वार्ताम् अखिलां सर्वाभ्यः
समवधार्य व्याजहार - सखि ललिते! नर्म-शालिनोऽस्य श्री-व्रजेन्द्र-नन्दनस्य
परिहास-वाङ्-मात्रेणैव स्व-कार्यम् उपेक्ष्य कथम् अपयान्त्य् असि ? क्षणं मया
सह निर्वृत्य -

अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्व-कार्यम् उद्धरेत् प्राज्ञः कार्य-ध्वंसो हि मूर्खता ॥

इत्य् आदि-न्यायेन परिहास-विडम्बनानि सोढ्वा स्थैर्यम् आलम्ब्य स्व-कार्यम्
उद्धर । किं च मया शपथं कृत्वा व्याह्रियते । अस्य नर्मभिर् एव लग्नकैर् इव
मौक्तिकानि दापयितव्यानि । अन्यथा भवत्-पूर्व-कृत-कार्पण्यम् अनुस्मरतोऽप्य्
अभिमान-शालिनोऽस्य नर्म-प्रयोगो न सम्भवति । तद् अन्यस्या मौक्तिक-मूल्यं
श्रुत्वा यत् कृते भद्रं स्यात् तद् एव व्यवहर्तव्यम् इति बलाद् इव तां हस्ते गृहीत्वा
सर्वाभिः सह मुक्ताकुट-निकटम् आनीय मां प्रत्युक्तवती गोकुल-युवराज!
तत्र-भवत्या भगवत्या शुभाशीः शत-पूर्वकं भवन्तं प्रति किञ्चित्
सन्दिष्टम् अस्ति ।

ततोऽहं – नान्दीमुखि! कुशलम् आस्ते तत्र-भवती भगवती ? तत् कथ्यतां किम्
आज्ञापयति । तत्-सन्देशामृतेनात्मानम् अप्यायामि ।

नान्दीमुखी – इमा वत्सा राधादयो व्रज-कुमारिका अस्माकम् अतीव
स्नेह-पात्राणि आयुष्मति भवत्य् अपि सन्ततं परमानुरक्ताः । तद् अस्मान् वीक्ष्य
अत्याग्रहं विमुच्य आसां दातुं शक्यमान-मूल्यम् आदाय मआष्ट-निधि-पतेर्
व्रजेन्द्रस्य कुमारेण भवता एतद् अभीष्ट-मौक्तिकानि दत्त्वा वयं
सन्तोषणीया इति भगवत्याः सन्देशम् इमम् अवकलय्य नर्माणि परित्यज्य
मुक्ताफल-दानेनैताः सन्तोष्य गृहाय प्रस्थापयितुं महानुभावाः
सर्व-गोकुल-सुख-कारिणो भवन्त एव प्रमाणम् ।

ततोऽहं स-श्लाघं - नान्दीमुखि! पूर्वं सुबल-हस्तेन तत्-प्रहिताज्ञा-कुसुमं
शिरसि निधाय समग्रमे एव परित्यज्य ललिता-मौक्तिकानां यः कश्चन
मूल्याभासोऽनया सह निर्णीतोऽस्ति तम् अस्या मुखतो निशम्य ततो यत् त्वया त्याज्यते
तद् अपि मया त्याज्यम् ।

इत्य् आकर्ण्य सकम्पाधरं भ्रुवं कुटिलयन्तीं ललितां सर्वाश् च स्मित-मुखीर्
अवलोकयन्ती नान्दीमुखी स्मित-पूर्वकम् एवाह - व्रज-युव-राज! स इमाभ्यः
श्रुतोऽस्ति, किन्तु तादृङ् नर्म परिहाय अमत्-समक्षम् अन्यासां सर्वासाम् एव
यथा-युक्तं मूल्यं कथ्यताम् ।

ततो मयोक्तं - नान्दीमुखि! आसां सर्वतो ज्यायसी ज्येष्ठा तद् अस्या
मौक्तिक-मूल्यम् अनया सह विचार्य त्वयैव कथ्यताम् ।

नान्दीमुखी - वित्त-स्वामिनैव मूल्यं प्रथमं कथनीयम् । तत् स्वयम् एव
भवता तत् कथ्यताम् ।

ततोऽहं - निशापतेर् मम हृदयाकाश-वीथ्याम् उदितायां राधायाम् उदयन्त्याम्
अनुराधायां स्व-मर्यादाम् उन्मुच्य तयोर् मध्ये रागेणोदयन्ती ज्येष्ठा
मन्-मुख-चन्द्रं ताभ्यां सह वा पृथग् वा मनाग् अपि स्व-मुखेन
परिष्वजतु इति ।

ततस् तन् निशम्य निकुञ्जान्तरितायां राधायां ललिता-विशाखा-ज्येष्ठासु च तिसृषु
भ्रू-भङ्गेन क्रोधम् अभिनयन्तीषु मयोक्तं - नान्दीमुखि!
स्व-स्व-महा-लाभ-करम् अपि भाषितम् अवधार्य कथम् एताः क्रुध्यन्ति ?

नान्दीमुखी - सुन्दर! गोकुल-श्याम-निशापतेर् अन्य-परिगृहीतानां सतीनाम्
अस्माकम् एतत्-पर-पुरुषस्य सतीनाम् अस्माकम् एतत् पर-पुरुषस्य
मुख-चन्द्र-चुम्बन-करणं दूरे तावद् आस्तां स्पर्शोऽपि महा-पापायैवेति
क्रुध्यन्ति ।

इत्यादि विनोद-लीलाम् आकर्ण्य सत्यभामा कृष्णम् आह - नाथ! तारा-गणने
राधाया विशाखेति-प्रसिद्धम् अपि नाम हित्वा साकूतम् अनुराधेति नाम
प्रयुञ्जतस् तन्-नर्मालाप-भङ्गीं स्वस्मिन् स्वस्मिन्न् एवावधारयन्त्योस् तयोर्
विदग्ध-राधा-विशाखयोर् न्याय्य एव रोषः । ललिता कथं कुप्यति ?

कृष्णः - प्रिये! अनुराधेति ललिताया एवापर-पर्यायः ।

सत्यभामा - यादवेन्द्र! एतद् अपूर्व-लीला-कथा-श्रवणेन मम मनसि तृप्तिर्
अलं वृत्तिर् नास्ति तत् कथय कथय ।

कृष्णः - ततोऽहं स्मित-शवलित-चम्पकलता-वदन-चन्द्रम् आलोकयंस् तद्
गृहीत-मुक्ता-कूटं हस्तेन चालयन्न् इदम् अवदं - नान्दीमुखि! इयं ते
प्रिय-सखी चम्पकलता कस्माद् अपि सिद्धात् प्राप्त-सिद्धिर् इति मया बहु-दिनम्
अनुमितम् आस्ते ।

नान्दीमुखी - कथम् अनुमितम् ?

मयोक्तं - यत इयं चम्पकवल्ली स्थावरा मध्ये बृहत्-फल-द्वय-भारानतापि
लीलया चङ्क्रमीति । अतो मुदिर-सुन्दरे मद्-उरसि चम्पक-माला भूत्वा
स्व-सौरभ-भरेण मां वासयतु । मयापि स्व-सिद्धि-बलात् एतद्-आज्ञयैवास्याः
कण्ठे सूक्ष्मतर-मरकत-मणि-मालया वक्षोजयोर् अन्तरे च
महेन्द्र-नीलमणि-नायकेन त्वरितम् एव भवितव्यम् ।

सुबलः - प्रिय-सखे! चङ्क्रमणादिनाऽस्याः सिद्धिः सर्वैर् अनुभूयत एव । तव
तु केनापि कदापि कुत्रापि सा नैव दृष्टास्ति । तस्माद् दुष्करेऽस्मिन् कर्मणि
सहसैव प्रवृत्तेन भवता अय्दि निष्पादयितुम् अशक्यं स्यात् तर्हि वयम् आभिर्
उपहसिष्यामहे । अतो विचार्यैव प्रवृत्तेन भवितव्यम् ।

ततोऽहं - सुबल! मम सिद्धिं पश्यन्न् अपि न पश्यसि ? मया किं कर्तव्यम् ?

नान्दीमुखी - मधुराङ्ग । कदा कुत्र का सिद्धिस् त्वया निष्पादितास्ति । सा
कथ्यताम्, सर्वे शुश्रूषवः सन्ति ।

ततो मयोक्तं - देव-यात्रायाम् अम्बिका-वने शरणागतत्वेन तात-पादयोः पतितं
महाजगरं पादाङ्गुष्ठ-स्पर्श-मात्रेणैव सर्वालङ्कृति-भूषितो
विद्याधर-राजो मया व्यधायि । गिरीन्द्र-राजो गोवर्धनश् च सप्ताहम्
एक-करेणैव छत्राकम् इवानायासेनैवाधारि । कालिय-विष-ज्वाला-विमोहितः
सुबलादि-वयस्य-गणः स्व-दृष्टि-मात्रेणैव स-चेतनः स्फुटम् अकारि । बारं
बारं महादावानलोऽप्य् अमृतीकृत्य सुखेनैव स्फुटम् अपायि । एवम् आदयो
बहवः सिद्धि-प्रभावा गोकुले केन नानुभूताः सन्ति ? तद् अतिविस्तरेणालम् ।
इति निशम्य ईषत्-स्मयमाना ललिता प्राह - नान्दीमुखि! एष ते दुर्ललितो नागरः
सर्वम् एतत् सत्यं कथयति । किन्तु स कालो गतः । यत्र ब्रह्मचर्य-बलेन तत्
सर्वं निष्पादितम् आसीत् । साम्प्रतं
नृशंस-कंस-सेवक-गोवर्धन-मल्ल-गृहिण्याः पद्मा-शैव्या-प्रभृतीनां च
व्रजाङ्गनानां सन्तत-सम्भोग-विलासेन दूषित-ब्रह्मचारित्वाद् अस्यान्तर्हिताः
सर्वास् ताः सिद्धयः ।

ततोऽहं किञ्चिद् विहस्य - ललिते! तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा इत्य्
अस्य पद्यस्यार्थम् अबुद्धैव त्व्येदम् उच्यते । तत्-तद्-अर्थः श्रूयतां । यथा
सर्व-भक्षणेनापि वह्नेस् तेजो-ग्लानिर् न भवेत् । प्रत्युत तद्-वृद्धिर् महत्य् एव
भवति । तथा भवादृशीनाम् उत्तम-वराङ्गनानाम्
अविरत-मधुर-रसोपभोग-माधुर्येण ममापि सिद्धिर् निरन्तरम् उज्ज्वला
भवन्ती परम-वृद्धिम् एवाधिकतराम् अवाप ।

मधुमङ्गलह् – ललिते! सत्यं ब्रवीति प्रिय-वयस्यः । सिद्धिश् चेन् न वृद्धिम्
आयाति तर्हि मुक्तः कथं भूमौ प्रारोहन्ति ? प्रारूढाश् च कथं सर्वतः
प्रसारिण्या वल्लिका भवन्त्यः प्रचुरतरं फुल्लन्ति फलन्ति च ?

ललिता विहस्य - आर्य मधुमङ्गल! तत् किं भवत्-प्रिय-वयस्यस्य सिद्धेः
प्रभावः ?

मधुमङ्गलः - तत् कस्य ?

ललिता – वृन्दावन-भूमेर् एव ।

राधा स्वगतं - ललिते! एतत् कामिनी-सङ्गस्य चेत्य् उच्यताम् इति राधयोक्तं
विशाखाप्य् अनुभाषितवती ।

ततोऽहं - तत् कथम् अत्रैव भवतीभिर् उप्त-मुक्ता हिंस्रा जाताः ?

ललिता - भो विदग्ध-शिरोमणे! मुक्ताः किं हिंस्रा भवन्ति ?

मयोक्तं - तत् कथं मुक्ता नोत्पन्नाः ?

ललिता - भूमि-विशेषस्य बीजस्य च वैगुण्यात् ।

राधा स्वगतं - ललिते! क्षेत्रस्यास्य गुणाद् अप्य् उच्यताम् इत्य् एतद् विशाखाप्य्
उक्तवती ।

नान्दीमुखी - ललिते! सत्यम् एव कथयति विशाखा ।

ललिता - कथम् इव ?

नान्दीमुखी - यस्मात् सर्वदा सर्वाङ्गीण-मुक्ति-विष-वल्लरि-महोषर-भूमौ
सन्तत-परमानन्द-कर-प्रेम-भरोज्ज्वलित-भक्ति-पीयूष-सुर-वल्लि-सरसतर
-महा-क्षेत्रेऽस्मिन् वृन्दावने ध्रुवम् आगन्तुका ये केचन जन्तवो भक्ता एव
भवन्ति कथं नु मुक्ता भवन्तु ।

ललिता विहस्य - विशाखे । स्फुटं कामिनी-सङ्गस्य इति भवद्-वाग्-विलासोऽपि
स-सन्दर्भो भविष्यति तद् विवृत्य कथ्यताम् ।

विशाखा - आरूढ-योगोऽपि निपात्यतेऽधः-सङ्गेन योगी किम् उताल्प-सिद्धिर् इति
न्यायेनास्य काये मनसि गोत्रे च श्यामलतरस्य स-च्छिद्र-वंशी-रसिकस्य
क्षण-मात्र-सङ्गेन मुक्ता अपि भूमौ गर्भ-वासेन जननम् आसाद्य
च-च्छिद्रीभूय संसार-गुण-बद्धा बभूवुः ।

ततोऽहं - विशाखे! निखिलम् एव सत्यं कथयसि ।

सुबलः - वयस्य! कथम् इव ।

ततो मयोक्तं - मम काम-विलासाध्यापकस्य सौन्दर्य-वैदघ्द्यादि-गुणान्
विशेषेण नारदादि-मुखाद् आकर्ण्य दण्डकारण्य-वासिनो जीवन्-मुक्ताः
कठोर-तपस्याकुलम् आचर्य गोकुल-वनेऽस्मिन् प्रवर-गोप-गृहेषु जनिम्
अङ्गीकृत्य व्रज-विलासिन्यो भूत्वा सुसार-वैदग्ध्यादि-गुणैर् आवृत्य एता इव
मद्-उरसि स्रज इव विलसन्ति । तथैवापरे परम-मुक्ता अपि मद्-अचिन्त्य-गुणैर्
आकृष्टा अस्मिन् व्रज-वने नित्य-सिद्ध-स्थावर-जङ्गमेषु
पशु-पक्षि-भूरुहादयो भूत्वा माम् आनन्दयन्तः परमानन्दम् आस्वादयन्तो
नन्दयन्ति ।

सुबलः - वयस्य! साधु वर्णितम् ।

ललिता किञ्चिद् विहस्य - महा-सिद्धश् चेद् भूमि-भेद-गुणं विना तव सिद्धेः
प्रभावान् मुक्ता जायन्ते तर्हि परम-सिद्धोऽपि भवान्
किञ्चिन्-मात्राधिक-द्रव्य-लाभाय तद्-विक्रय-क्षुद्र-वृत्तौ कथं प्रवृत्तोऽस्ति ?

ततोऽहं - मूर्खे ललितिके! यौवन-धन-गर्विताभिर् भवतीभिर् यथा
स्व-धर्मं परित्यज्य इतस् ततश् चञ्चल्यते तथा स्वधर्म-परिनिष्ठ-वैश्य
शिरोमणि-श्री-व्रज-राजस्य एक-पुत्रेण मयापि स्वधर्मं परित्यज्य किम्
उच्छृङ्खलेन भवितव्यम् ? यतः कृषि-वाणिज्य-गो-रक्षा-कुशीदं तूर्यम् उच्यते
इति वैश्यानाम् अस्माकं चतस्रो वृत्तयो भवन्ति । आसाम् एक-वृत्त्याचरणेनैव
सर्व-सिद्धेर् वृद्धिस् तच्-चतुष्टयम् आचरतो मम पुनः सिद्धिः
परम-काष्ठाम् आरूढैव परं विराजते ।

नान्दीमुखी स-स्मितं - स्वधर्म-निष्ठ-युवराज! भवतः
कृषि-वाणिज्य-गोरक्षा-तिस्रो वृत्तयः स्पष्टम् अनुभूयन्त एव वृद्धि-जीविका तु
कदापि नावकलितास्ति ।

ततोऽहं - नान्दीमुखि! साप्य् अस्माभिः क्रियमाणापि त्वया किं न ज्ञायते ?
साम्प्रतम् अपि मुक्तात्यन्ताभाव-सङ्क्षोभिनीभिर् एताभिः सह
सङ्कामित-स्वधर्मं मुक्तापार-व्यापार-वृद्धि-वृत्तिं विधातुम् आरब्धवान्
अस्मि ।
विशाखा किञ्चिद् विहस्य - सुबल! यत्र यो रज्यति, स खलु विनिन्द्यम् अपि तद् एव
श्लाघ्यतयोत्कीर्तयति । अतस् तावत् सुष्ठु अधर्मस्यापि शोभनत्वेन वर्णनम्
अस्य त्व-प्रिय-सखस्य नायोग्यम् ।

सुबलो विहस्य - नान्दीमुखि! न केवलम् असौ धनस्य वृद्धिं लभते, किन्त्व्
अन्येषां पदार्थानाम् अपि क्षणे क्षणे वृद्धिं लभमानोऽस्ति ॥

नान्दीमुखी – कस्य कस्य ?

सुबलः - प्रथमं प्रत्यङ्गे मनसिज-कोटि-विजयि-नव-तारुण्यस्य नेत्राञ्चले
चञ्चल-कमल-विनिन्दि-घूर्णनस्य भाषिते च सुधा-सारोज्ज्वल-माधुरीणाम् ।

मधुमङ्गलः - सुबल! इतर-पदार्थानां वृद्धिं किं त्वया विस्मृता ?

सुबलः - स्मार्य केषाम् ।

मधुमङ्गलः -
मकर-कुण्डल-मणि-मञ्जीर-हार-वलय-केयूर-मणि-मुद्रिकादिभिः
परम-सौन्दर्य-दर्पादिक-मधुर-केलि-विलासानाम् ।

ललिता - आर्य! अन्यतरैक-वस्तुनः कथं वृद्धिं सङ्गोपितवान् असि ।

नान्दीमुखी - कतरस्य ?

ललिता - बल्लव-कुल-साध्वीनाम् अधरामृतोच्छिष्टस्य ।

राधा स-स्मितं - ललिते! सत्यं सत्यं वपुर् आख्याति भोजनम् इत्य् एतत्
प्रगुणतर-रसायन-पानेनैव बाहु-युगले
सुवृत्तेन्द्र-नीलार्गला-दर्प-दलन-वलनस्य, वक्षसि
मारकत-कवाटाहङ्कार-विध्वंसि-विस्तारस्य, ऊरु-द्वये च
मरकत-कदली-स्तम्भ-गर्व-सर्वङ्कष-सुवृत्तितायाः, वदने च
शारद-शशधर-परार्ध-माधुर्य-सङ्कोच-कारि-निर्भर-सुषमायाः,
चरणयोः नव-रसाल-पल्लव-प्रशस्ति-वित्रासि-माधुर्यस्य, सर्वाङ्गे
मधुरतर-सन्निवेश-कुशल-लज्जा-कारि-सुभग-सौष्ठवस्य, वपुषि च
नव-नव-मुदिरेन्दीवरैन्द्रनील-प्रभा-हारि-विसारि-प्रकटोज्ज्वलता-भरस्य,
येनास्य सकलान्तरम् अप्य् अभिव्याप्य विलसितम् इति तन् मृदुउ-भाषितामृतं
विशाखयापि स-स्मित-स्फुट-सुलपित-कुसुमेन सुवासितं व्यधायि ।

मधुमङ्गलः स-परामर्शं - वयस्य! पर-रमणी-मधुराधर-लोलुपं
त्वाम् एता धूर्ता मिष्ट-मिष्ट-वचन-माधुरी-भरेण परिलोभयन्त्यः
प्रचुरतर-वृद्धिं प्रतिश्राव्य मौक्तिकान्य् आदाय जटिलादि-दुर्गम् आस्थाय
मूलम् अपि न दास्यन्ति । वृद्धि-वार्ता तु दूरे वर्तताम् इति सुष्ठु विज्ञायाहं
मित्रेण हितम् आशांसनीयम् इति विज्ञापयन्न् अस्मि । अग्रे तुभ्यं यद् रोचते ।

ततोऽहं दशनै रसनां सन्दश्य - सखे! इमा गान्धर्वादयः कुलाङ्गनाः
प्रकामादान-प्रदाने महा-शुचयस् तद् अजानतैव त्वयेदम् उच्यते तच् छ्रूयतां
साम्प्रतम् एव स्वाधरामृतोपढौकनेन माम् अतीव सन्तोष्य गान्धर्वया
मत्-सकाशात् प्रातर् गृहीत-कमल्-राग-रेखिका-युगलेन निज-वक्षोरुहं
परिभूष्य मद्-उरसि तद् एव चतुर्गुणीकृत्य सायम् एव वितीर्णम् । ललितया च
परश्वः सायम् अमृत-स्रावि-चुम्बक-रत्नम् एकम् आदाय कलि-क्रमेण
त्रि-गुणी-कृत्य परिशोधितम् । विशाखयापि निशीथे परमाग्रहेण
मन्-मधुराधरामृतम् आदाय स्व-सर्व-भूतं तद् एव प्रातर् बहु-गुणीकृत्य
प्रदाय बाढम् आप्यायितोऽस्मि । चम्पक-लतादयश् च बारं बारं
स्व-स्वाभीष्ट-पदार्थम् आग्रहेणाभिगृह्य काश्चिद् द्विगुणीकृत्य काश्चित्
त्रिगुणीकृत्य प्रदाय माम् अतीव सन्तोषितवत्यः । किन्तु आसु जन-द्वयी केवलं
प्रदाने किञ्चिद् अन्यादृश-व्यवसाया वर्तते ।

नान्दीमुखी - कतरा सा ?

ततोऽहं - एका रङ्गणवल्ली मद्-वक्षसि
निज-वक्षः-स्थित्-निस्तल-मधुर-फल-युगलस्य त्रिरारोपणम् उरीकृत्य
मत्-कर-मर्दन-फल-द्वयं गृहीत्वा सकृद् एव तद्-अर्पितं अवैशिष्टं
द्विर्-अर्पणं गति-क्रियाम् आचर्य नाद्यापि करोति । काचिद् अन्या रङ्गणमाला-सहचरी
तुलसी नाम्नी द्विगुणीकृत्य दातुम् उक्त्वा मद्-एक-परिरम्भ-स्तवकं समादाय
साम्प्रतम् इदानीं देयं तदानीं देयम् इति कालं क्षपयन्ती मूलम् अपि न
ददाति ।

मधुमङ्गलः - अयि रङ्गणवल्ली-तुलस्यौ! युवयोः सकाशाद्
अल्भ्यमानात्म-दिव्य-द्रव्योऽपि प्रियंवदोऽस्मत्-प्रिय-वयस्यः सहज-सारल्यतो
भवद्-विधासु प्रियम् एव वक्ति । तथाप्य् एतादृशेऽप्य् अस्मिन् वञ्चन-चातुरीम्
आचरन्तीभ्यां भवतीभ्यां कृतघ्नत्वात् लोक-धर्मतो भयं न क्रियते ।

तद् आकर्ण्य चारु हसन्ती ललिता प्राह - सख्युस् तवार्य मधुमङ्गल! भाषितं
तत् पीयूषतः प्रियतरं नहि कस्य गोष्ठे प्रत्यक्षरं प्रतिपदं
तद्-अलीकतोग्र-शक्राशनस्य नहि चेद् इह भूरि-गन्धः । ततः सहास-कोलाहलं
साधु ललिते! साधु वर्णितम् इति सर्वास् तास् ताम् आलिङ्गतवत्यः । राधा च तथैव
मनसा ।

नान्दीमुखी - मोहन! कथम् अप्रतीतिः क्रियते ? ललिता-प्रेम-पात्रीयं
रङ्गण-मालिका, द्वितीया च विशाखा-प्रिय-शिष्या तद् एताभ्याम् एव ते प्र्बोध्य तद्
अवश्यं दापयिष्यते । यथा ताभ्यां सह भवतः शुद्ध-भावेन पुनः पुनर्
एष व्यवहारो निर्वहति । यदि वा दापयितुं न शक्यते तदा तद्-अवशिष्ट-द्रव्यं
तत्-स्नेहात् ताभ्यां स्वयम् एव दाप्यते । एते अपि यदि ते झटिति दातुं नाङ्गीकुरुतस्
तर्हि केनापि भवान् अनुयोक्तुं न शक्यते । भवता त्व्
अनङ्ग-मञ्जरी-सहोदराग्रतः क्रियमाण एव फुत्कारारम्भे ताभ्याम् एव
साध्वसेन स्वीकृत-वृद्धि-सहितं तद् द्रुतं सुतरां वितरिष्यते ।
ततः सर्वासु नान्दीमुखीं मां च स-भ्रू-कुटि-कौटिल्यम् ईक्षमाणासु किञ्चिद्
उपसृत्य तुङ्गविद्या सान्तः-स्मितम् आह - भो भोः सख्यः! अपूर्वैका वार्ता
श्रूयताम् ।

सर्वाः - सखि! का सा ?

तुङ्गविद्या - एकः कान्त-दर्प-नामाचार्यः श्रुतोऽस्ति ।

ललिता - परम्परया श्रुतोऽस्ति भद्रेण न ज्ञायते ।

तुङ्गविद्या - तत्-प्रिय-शिष्येण श्यामल-मिश्र-नाम्ना तत्-कृत-सूत्राणां
सन्धि-चतुष्टयाख्यात-कृद्-वृत्तय इति व्याख्याताश् चतस्रो वृत्तयो याः कृताः सन्ति
ताः किं भवतीभिर् दृष्ट-चर्यो भवन्ति ?

विशाखा – विष्णु विष्णु तद्-वृत्ति-दर्शनं तावद्-दूरेऽस्तु स एव कदापि न
कर्ण-गोचरीकृतोऽस्ति ।

ललिता साकूतं - तुङ्गविद्ये! कुत्रासौ त्वया परिचितः ?

तुङ्गविद्या - सखीस्थल्या एक-महा-पद्माप्सरसा तद्-वृत्ति-पाई᳡ओहार्थं तं
मृगयितुं साय अत्रागतम् आसीत् ।

ततोऽहं - तुङ्गविद्ये! एतावद्-दूर-भूमौ कथं तत्-सञ्चारः ?

तुङ्गविद्या - निकाम-वन्यावृद्धि-सामर्थ्येन । इत्य् आकर्ण्य सर्वाः स्मितं
कुर्वन्ति स्म ।

ललिता - ततस् ततः ।

तुङ्गविद्या - श्यामल-मिश्राद्वितीयेनालीक-राज-पण्डितेन प्रथमं
नर्म-पञ्जिका̆आ̆अं क्रय-विक्रय-पञ्जिकां च विधाय साम्प्रतम् अलीक-पञ्जिका
तथादान-प्रदान-पञ्जिका च प्रपञ्चिता अनुक्रमेण नाम्नान्तरेण च
प्रपञ्चितैतत्-पञ्जिका-चतुष्टयं भवतीभिः श्रुतम् अस्तीति मन्ये ।

ललिता - अथ किं सोऽपि सुष्ठु अनुभूयमानोऽस्ति ।

तुङ्गविद्या - तेभ्योऽपि परम-समीचीन-तीव्र-धी-प्रागल्भ्येन तत्-सतीर्थेन
कुहक-भट्टेन तद्-व्र्त्ति-चतुष्टयस्य टीका युगपत्-कर्तुम् आरब्धाः सन्ति ।

चम्पकलता - तुङ्गविद्ये! त्वं सर्व-विद्या-विशारदासि तद् एषां चतूर्णां
शास्त्र-कारिणां नाम-धेय-निरुक्तिम् अवगन्तुं सर्वास् त्वत्तोऽभिलषन्ति ।

विशाखा - आचार्य-भट्टयोर् अर्थः स्पष्ट एव तन्-मिश्र-पण्डितयोः स तावन्
निरुच्यताम् ।

तुङ्गविद्या विहस्य - दोषोऽप्य् अस्ति गुणोऽप्य् अस्ति तेन मिश्रेन मिश्रेत इति मिश्रः ।

नान्दीमुखी - कतरो वा दोषः कतरो वा गुनः ?

तुङ्गविद्या - वैदग्ध्यावैदग्धयोर् अविचारेणैव यत्र कुत्रापि सर्वत्र प्रवृत्तिर्
इति दोषः । सारल्याधिक्येन उत्तमानुत्तमाविचारेणैव वैषम्यं विना सर्वत्र
समतया प्रवृत्तिर् इति महान् गुणः ।

ललिता स्मित्वा - तद् अस्यैतन्-मिश्रता पदवी समुचितैव ।

चित्रा - पण्डितोऽपि निरुच्यताम् ।

तुङ्गविद्या - सद्-असद्-विचारिका बुद्धिः पण्डा । तया युक्तः पण्डितः इति । अयं तु
बुद्धि-गौरवेण पूर्व-परयोः पर-विधिर् बलवान् इति विचार्य परा असद्-विचारिका
या सा पण्डा ताम् एवोत्तरन्त्वेआश्रितस् तद्-युक्तत्वात् पण्डित इति ।

चित्रा - सखि तुङ्गविद्ये! सन्ध्यादि-चतुष्टयस्याप्य् अर्थः प्रकाश्य कथ्यताम् ।

तुङ्गविद्या - चित्रे! अस्मद्-गोष्ठ्यां तत्-प्रपञ्चेन ललितैव दक्षा तत् सैव
कथयतु ।
ललिता - चित्रे! एतत्-प्रसङ्ग-लेशोऽपि मया कदापि न श्रुतोऽपि तद्
एतत्-प्रकरण-व्याख्यात्री तुङ्गविद्यैव तद्-अर्थं जानाति ।

चित्रा - तुङ्गविद्ये! मच्-छिरसा शापितासि त्वयैव व्याख्यायताम् ।

ततोऽतिलज्जया स्वयम् असङ्कथ्य राधिकातिप्रीति-पात्रीं मनाग् अप्य् अनुच्यमानां
तदीय-सुखद-सविधां भू-चारण-वर्य-किशोरीं तुङ्गनर्माख्य-वैहासिकीं
चक्षुः-कूणनेन स-स्मितम् आलोकयन्त्यां तुङ्गविद्यायाम्, तुङ्गनर्मा किञ्चित्
सन्निधाय स-स्मित-मन्-मुखम् अवलोकयन्ती निजगाद - चित्रे! स तावद्
अर्थोऽस्माभिर् न ज्ञायते किन्तु तयाप्सरसा पुनः पुनर् आगत्य स-विनयं स्वयम्
आग्रह-भरेण सुप्रसन्नीकृतात् यथार्थ-पदवीक-मिश्र-वराद् अधीत्य
तद्-वृत्ति-चतुष्टय-व्याख्यानम् अस्मत्-सहित-तुङ्गविद्याग्रतः साङ्गं यद् अकारि
तत् समासेन मया कथ्यमानं शृणुत -

प्रथमं शृणु दूती-द्वारा वा कृताभियोगेन यूनोर् मिलनं सन्धिः । तस्य वृत्तिर्
विवरण-मतिसारादिर् इति ।

ततः कुचालम्भ-परिष्वङ्ग-चुम्बनाधर-पान-रूपाणां शृङ्गार-भेदानां
चतुष्टयम् एव चतुष्टयम् । तस्य तस्य वृत्तिर् नख-क्षतादिः,
बाहु-बन्ध-भृङ्ग्य्-आदिः, गण्ड-स्थले सविलास-मुख-कमलारोपणादिः,
सवैदग्ध्य-दंशादिर् इति ।

ततोऽन्योन्य-नर्म-लपितम् आख्यातम् । तस्य वृत्तिः परस्पर-जयाकाङ्क्षया
निगूढार्थ-प्रहेलिकादि-प्रयोग इति ।

चित्रा स-स्मितं - तुङ्गनर्मन्! अश्रुत-चरैतद् अपूर्वार्थ-व्याख्यानम्
अस्मत्-कर्ण-गोचरीकृतम्, भवत्या तत् कृद्-वृत्तेर् अप्य् अर्थः सुष्ठु निरुच्यताम् ।

तुङ्गनर्मा – आनन्दं करोतीति आनन्द-कृत् सम्भोगः । तस्य वृत्तिः
शीत्कार-चक्ष्र् निर्मीलनादिर् इति । किं च कान्त-दर्पाचार्याद्य्-अवतारिणा
कलाप-प्रियेण सिद्ध-कुमारेणानेन तत्-तद्-विग्रहान्तरेणैव यत्
कलाप-व्याकरणम् आविर्भावितं तत्रात्यन्तापादेयत्वेन अतिशय-रहस्यत्वेन च
प्रकटम् अनिगद्य भङ्ग्या नाम-धेयान्तरेण च यत् किञ्चित् निगूहितं तद्
भवद्-विध-रसिक-स्निग्ध-विदग्ध-जनैर् विदग्ध-बुद्धि-सखीभिः
समसधिक-विचारेण समनुभवनीयम् इति ।

चम्पकलता किञ्चिद् विहस्य - तुङ्गविद्ये! एतद्-भट्ट-पादानां त्वाव् एव भुजौ
तत्राप्य् अतीव सुकुमारौ तत् कथम् एकदैव टीका-चतुष्टयं लेखितुं शक्नोतु ।

तुङ्गविद्या – मुग्धे! निजेन्द्र-जाल-बलेनायं भुज-चतुष्टयम् अपि
प्रादुष्कर्तुं शक्नोति ।

ललिता – सत्यं सत्यं वासन्तिक-रासोल्लास-महोत्सवे
परम-रास-स्थली-निकट-वर्ति-प्रविष्टक-नामारण्य-खण्डान्तर्-निकुञ्जान्तर्
आलेऽपि पर-रामा-रत्नम् अपहर्तुं निखिल-बल्लवी-वृन्द-वञ्चनाय च
स्व-परिच्यायकाद्भुत-निज-माधुरी-सन्ततिम् अवगुण्ठ्य कुहक-बलाद् एवानेन
चतुर्भुजत्वम् आविष्कृतम् आसीत् ।

विशाखा - ललिते! सत्यम् एतत् सर्वम् अस्यकुहक-बल-विजृम्भितम् एव यत्
प्रिय-सख्या सह गद्य-पद्यैर् नर्मालाप-गोष्ठ्यां तां जेतुं
निज-कुहक-पाण्डित्येन सम्प्रति वृद्धि-वृत्तिम् आचरता पद-द्वयस्य वृद्धिः
कदाचिद् यद् अनेन क्रियते तच् चास्माभिर् अपि दृष्टम् अस्ति ।

सुदेवी - विशाखे! चतुर्णाम् एतेषां शास्त्र-कारिणां प्रायेणैक एव व्यवसायः
कथं दृश्यते ?

नान्दीमुखी - सुदेवि! एतद् विवरणम् अल्पाक्षरेण तुङ्गनर्मणा यद् अकारि तत् किं
त्वया नहि श्रुतम् ?

सुदेवी - याव-ग्राम-स्थ-प्रिय-सख्यां तदानीं दत्त-मनस्कया मया तत्
सम्यक्तया नावधारितं तत् कृपया त्वयैव विस्तरेण सङ्कथ्य श्राव्यताम् ।

नान्दीमुखी - सुदेवि! श्रूयताम् । वस्तुत एते चत्वारः कुहक-भट्ट-नामा एक
एव कुमारो भवति । स एव कृत्य-भेद-विनोद-सम्पादनायात्मनः
प्रकृष्टतर-कुहक-प्रभावात् प्रकटितेनैकेन विग्रहेणैव कान्त-दर्पाचार्य
इति अपरेण श्यामल-मिश्र इति पदवीम् अध्यारूढो वर्तते । अलीक-राज-पण्डितेन
समं तु स्फुटम् अस्य पृथग्-विग्रहता नास्त्य् एव किन्त्व् अयम् एव सदा धर्मी
कुमारः । स्फुटम् अत्र विलास-विशेषोल्लास-करणाय किञ्चित्
प्रकाश-भेदेनालीक-राज-पण्डितेति नामान्तरम् उररीकृत्य कामम् आत्मीयानाम्
आत्मनश् च परमानन्द-कल्लोलम् आस्फालयन् विहरते ।

ततोऽहं - हंहो! यच् चतुर्भुजत्वादिक-लीलायितम् अखिलम् अस्माभिः
सिद्धता-प्रभावैर् एवाविर्भाव्यते । तन् मूर्खाभिर् आभिर् उग्राभिः
कुहक-भट्टाभिर् निज-निकृष्ट-कुहक-प्रभावैर् एवेति सन्ततम् उद्घुष्यते ।

इति मद्-वचः समाकर्ण्य सर्वाः - अनेन सिद्ध-गोस्वामिना स्व-प्रभावेण
निजालीकतापि सिद्धी-सम्पाद्य स्व-मुखेनैव परं निर्धारिता व्यधायीति सर्वैर्
निर्भरम् उल्लास्यमाने हास-कुतूहले ।

अहं स्वगतं - भो आश्चर्यम् आश्चर्यम् अमूभिर् वावदूक-बल्लवीभिर्
वचन-प्रकाश-परिपाटीभिर् बाढम् अलीकतैव मयि सिद्धीकृतेति मनसि विभाव्य
लज्जया मया तद्-अनाकर्णित-मुद्रयैव ताः सुष्ठ्व् अवधार्येव किञ्चिद् विहस्य
व्याहृतं - भो मुग्धा यौवनान्धा विलासिन्यः! यद्य् अत्र नहि वः प्रतीतिस् तर्हि
सर्वेषां समक्षम् एव स्व-सिद्धिं दर्शयन् प्रथमम् अस्याः कण्ठे वन-माला
भवानि इति विहस्य चम्पकलताम् उपसर्पन् - वयस्य सिद्धस्य तव
पर-रमणी-स्पर्शः परम-न्याय्य इति विहस्य वदता मधुमङ्गलेन
निवर्तितोऽहम् अवदं - सखे! सिद्धस्य सिद्धया संयोगो मिथः
परमानन्द-लाभायैव भवति । उक्तं च श्री-नारदेन - परमानन्द-लाभाय
स्व-यूथ्याम् एव संश्रयेद् इति ।

इति निशम्य हसन्तीषु सर्वासु परमानन्द-जनित-कम्पादि-सात्त्विक-विकारान्
भनेएवाच्छादयन्ती चम्पकलता प्रपलाय्य कुञ्जान्तराले प्रविष्टा राधां
पृष्ठे समालिङ्ग्य निलीनासीत् ।

ततोऽहं चित्रां मौक्तिकानि हस्ते चालयन्न् उक्तवान् - चित्रे! समक्षम् आगत्य
मौक्तिक-मूल्यं शृणु शृङ्गार-कर्म-विचक्षणायास् तव मूर्ति-मञ्जुषिकायां
तत्-साधनानि बहूनि सन्तीति त्वत्-प्राण-प्रेष्ठ-सख्या कथितम् अस्ति । तैर्
विचित्र-शृङ्गारेण मत्-प्रत्यङ्गानि तथा भूषय यथाहम् अपि
त्वद्-वक्षः-स्थ-काञ्चन-घट-द्वयम् अर्ध-चन्द्र-पत्राङ्कुरादिभिः
सन्तोषेणालङ्कृत्य ताम् आनन्दयामीति ।

तच् छ्रवणतः स-क्रोधं चित्रा - अये अविरतम्
अतिविकट-भण्डतोच्चण्ड-चण्डिकाविष्ट! अये त्रिजगति
प्रसिद्ध-धृष्टतोद्भट-बाटिका-कुरङ्ग-कुटुम्बिनी-कुल-नट! त्व-योग्याभिस्
तत्-तत्-साधन-कर्म-कर्मठाभिस् ताभिर् एव स-सन्तोषं सुचित्रितेन भवता ता
एव सुश्लाघं सुवरेण सन्ततम् अनुकीर्त्यन्तां इतस् त्वरितम् अपसरतु स्वामी ।

इत्य् आकर्णनेन जात-हासाः सर्वास् तां सुष्ठु तुष्टुवुः ।

तद् अनु नान्दीमुखी - गोकुल-मङ्गल!
सकल-गोकुल-जन-जीवातु-मुख-चन्द्र-प्रकाशं भवन्तं अकस्माद् विमनस्कम्
इव संवीक्ष्य भवद्-एकायुषाम् अस्माकं हृदयानि
मर्म-व्रण-वेदना-वह्नि-ज्वालितानीव स्फुटन्ति सन्ति । ततस् तन्-निदानम् अवश्यं
कृपया प्रकाश्यताम् । यथा भगवती-द्वारा तत्-प्रतीकारं झटिति निष्पाद्य
श्रीमन्तं भवन्तं बाढम् आनन्दैवात्मानं सन्धुक्षयाम ।

इति नान्दीमुखी-वचनम् आकर्ण्य सवैक्लव्यम् इव मयोक्तं – नान्दीमुखि
श्रूयताम् ।
अदृष्टाश्रुत-चर-चारु-चातुर्य-निरवद्य-महा-वैदग्ध्य-विओविध-सुदुर्बोध
-नर्म-कर्म-स्वाध्याय-प्रथमाचार्यायाः
समस्त-कल्याण-गुण-मणि-मञ्जुषायाः
स्व-परिजन-गण-जीवनी-भूत-स्मित-नव-घन-सार-सुवासित-भाषित-पीयूषायाः
शच्य्-आदि-सौभाग्यवती-वृन्द-वर्ण्यमान्-सौभाग्य-भरायाः सन्ततम्
इन्दिरादि-गौरी-गण-मृग्यमाण-सौन्दर्य-रस-स्फुरित-नखाञ्चल-प्रतीकायाः
सुर-नर-गण-गन्धर्व-विद्याधर-मुनि-वर-वन्दित-भुवनेश्वरी-शत-वन्द्
यमान-पदारविन्दायाः, समस्त-वैकुण्ठतोऽपि परमोत्तम-परम-व्योमतोऽपि
बृंहित-महा-महिमोत्तर-वृन्दाटवी-महा-योग-पीठ-महा-सिंहासने
सम्भृत-महारत्नाभिषेकायाः महादेव्याः
सुधा-सागर-मथनोत्थित-राधेत्य्-अक्षर-युगल-घनीभूत-तत्-सारांश-कलस्
अ-द्वय-विनिर्मित-राधेति-नाम-धेयाद्
अपूर्वामृत-सार-विकार-विशेषेणाप्यायित-शीत्कारित-चतुर्दश-भुवनायाः,
सन्तत-सौरभ्य-निरवधि-सौन्दर्य-निस्तुल-कौमल्य-निर्भर-वरारुण्यादि-विन्
इर्जित-रक्तोत्पल-कुल-चरण-परिचरणैक-जीविने सकल-वरिवस्या-विशारदाय
मह्यं स्वयम् आहूयासङ्कोचतया मत्-कामित-प्रत्यङ्ग-सेवा यत् तया न दीयते ।
अतस् तस्य मयि मधुरां प्रीतिम् अनवधार्य तत्-पूर्णांशां यथार्थ-नाम्नीं
तुङ्गविद्यां भगवती-मुखात् निशम्य सत्वराभीष्ट-लाभाय एनां
गुरुत्वेनासाद्यास्याः सकाशात् महादेवी-मन्त्र-राजं दिदीक्षिषुर् अहं त्वां
भगवत्य्-अद्वितीयां प्रपन्नोऽस्मि ।

नान्दीमुखी विहस्य । सुलक्षण प्रथमं तावत् शास्त्र-निर्णीत-गुरूपसत्तिर्
विधीयताम् ।

मयोक्तम् । भद्रं वचः प्रथमं गुरु-शिष्ययोः परीक्षैव न्याय्या । ततस्
तिस्रस् त्रियामाः कुत्रापि निर्जन-कुञ्जे क्षणे महिलां क्षणे पुमांसं मां
सम्पाद्य स्व-विद्यायाः प्रभावम् असौ दर्शयतु । ततो विश्रभ्य
परम-सम्भ्रमेण मयाप्य् अस्याश्
चरण-यावाभरण-श्रोणि-मर्दन-वक्षोज-कण्डूयन-वेणी-बन्धनादि-परिचर्यास्
सर्वापेक्षया क्रियमाणासु सुप्रसन्नेयं त्वत्-सेवया परम-प्रसन्नास्मीति
निरुच्य मां मनोभवानन्द-कर-निकुञ्ज-मण्डप-वेदिकां प्रापय्य भो
विचक्षण मद्-वक्षः-स्थल-कार्त्तस्वर-मङ्गल-घट-युगलं स्वकर-युगलेन
स्पृशन् मृगमद-कुङ्कुमादि-पङ्क-लेप-पूर्वकं मणि-पुष्प-मालाभिर्
वेष्टयेत्य् आदिभाषितमन्त्रैर् घटं स्थापयित्वा,
स्व-वक्षोज-महा-प्रसाद०कुङ्कुमेन मम ललाटादिषु तिलकं कृत्वा
मृगमदेन मद्-वक्षसि महा-देवी-नाम-मुद्राम् अभिलिख्य बाहु-द्वयं च
तच्-चरण-चिह्न-सौभाग्य-मुद्राभिर् अङ्कीकृत्य स्व-कण्ठाद् एकावली-मालाम्
उत्तार्य मत्-कण्ठे निधाय मम वक्षः-पार्श्वयोः स्व-कुचौ अंस-द्वये
बाहुलते मुखे च स्वाधरं अपराङ्गान्यागमानभिज्ञेन मया स्फुटम्
अज्ञातान्य् अपि परमागमाचार्येयं स्वयं तद्-अर्पण-स्थानेऽर्पयतु इति षड्-अङ्गानि
विन्यस्य षड्-अक्षर-मन्त्र-राजस्यास्य स्वयम्भू-ऋषि-गायत्री छन्दः
श्री-गान्धर्वा देवता स-बिन्दु-प्रथम-वर्णो बीजं शक्तिर् उपास्योपासकयोर्
मिथः-सुयुक्त-रति-जनन-पूर्वकाभीष्ट-काम-सिद्धये विनियोग इत्य् आदि
पूर्वाङ्गं यथा-विधि सम्पाद्य,

अथ स्वीय-सरस्-तीर-कुञ्ज-रङ्ग-स्थले मुदा ।
सभ्यानाली-गणान् भङ्ग्या धिन्वन्तीं नर्म-नर्तनैः ॥
गौरीं रक्ताम्बरां रम्यां सुनेत्रां सुस्मिताननाम् ।
श्यामां श्यामाखिलाभीष्ट-साधिकां राधिकां श्रये ॥

इति ध्यानं च सुचिरं कारयित्वा कृपया मह्यं कामिने काम-बीज-पुटितं
मन्त्र-राजम् उपदिश्य मां कृतार्थीकरोतु ।

तद् अनु –

महा-भावोज्ज्वलच्-चिन्ता-रत्नोद्भावित-विग्रहाम् ।
सखी-प्रणय-सद्-गन्ध-वरोद्वर्तन-सुप्रभाम् ॥१॥
कारुण्यामृत-वीचिभिस् तारुण्यामृत-धारया ।
लावण्यामृत-वन्याभिः स्नपितां ग्लप्तेन्दिराम् ॥२॥
ह्री-पट्ट-वस्त्र-गुप्ताङ्गीं सौन्दर्य-घुसृणाञ्चिताम् ।
श्यामलोज्ज्वल-कस्तूरी-विचित्रित-कलेवराम् ॥३॥
कम्पाश्रु-पुलक-स्तम्भ-स्वेद-गद्गद-रक्तताः ।
उन्मादो जाड्यम् इत्य् एतै रथनिर् नवभिर् उत्तमैः ॥४॥
क् प्तालङ्कृति-संस्लिष्टां गुणाली-पुष्प-मालिनीम् ।
धीराधीरात्व-सद्-वास-पट-वासैः परिष्कृताम् ॥५॥
प्रच्छन्न-मान-धम्मिल्लां सौभाग्य-तिलकोज्ज्वलाम् ।
कृष्ण-नाम-यशः-श्राव-वतंसोल्लासि-कर्णिकाम् ॥६॥
राग-ताम्बूल-रक्तौष्ठीं प्रेम-कौटिल्य-कज्जलाम् ।
नर्म-भाषित-निस्यन्द-स्मित-कर्पूर-वासिताम् ॥७॥
सौरभान्तः-पुरे गर्व-पर्यङ्कोपरि लीलया ।
निविष्टां प्रेम-वैचित्त्य-विचलत्-तरलाञ्चिताम् ॥८॥
प्रणय-क्रोध-सच्-चोली-बन्ध्-गुप्ती-कृत-स्तनाम् ।
सपत्नी-वक्त्र-हृच्-छोषि-यशः-श्री-कच्छपी-वराम् ॥९॥
मध्यतात्म-सखी-स्कन्ध-लीलान्यस्त-कराम्बुजाम् ।
श्यामां श्याम-स्मरामोद-मधुली-परिवेशिकाम् ॥१०॥
त्वां नत्वा याचते धृत्वा तृणं दन्तैर् अयं जनः ।
स्व-दास्यामृत-सेकेन जीवयामुं सुदुःखितम् ॥११॥
न मुञ्चेच् छरणायातम् अपि दुष्टं दयामयः ।
अतो गान्धर्विके हा हा मुञ्चैनं नैव तादृशम् ॥१२॥
प्रेमाम्भोज-मरन्दाख्यं स्तवराजम् इमं जनः ।
श्री-राधिका-कृपा-हेतुं पठंस् तद्-दास्यम् आप्नुयात् ॥१३॥

इमं स्तव-राजम् अप्य् उपदिशतु ॥

ततः श्री-गुरोर् लब्धाभीष्ट-कामोऽस्मि इति सगद्गदं वदन्तं सकम्पं
तच्-चरण-कमलयोः पतितं मां सानन्दं समुत्थाप्य समालिङ्ग्य
स्वाधरोच्छिष्ट-पीयूष-प्रसादं सम्भोज्य च स्व-मुखोद्गीर्ण-ताम्बूलं
मन्-मुखे वितरतु । ब्रह्मचारिणो मम ताम्बूल-भक्षणम् अनुचितम् इति चेत्
तर्हि कर्पूर-वासित-निज-मुख-वासेन मन्-मुख-शुद्धिं वितनोतु । ततः
कृतार्थेन मयैतद्-अभीप्सितानि अन्यान्य् अपि बहूनि च मुक्ताफलानि दक्षिनात्वेन
समर्प्यमाणानि कृपया स्वीकृत्य माम् अनुगृह्णातु ॥

इति निशम्य सर्वासु स-स्मितं तुङ्गविद्या-मुखम् अवलोकयन्तीषु तयाप्य्
उच्छलितान्तरानन्दम् आवृत्य भ्रू-भङ्गेन सरोषम् इव माम् ईषद् अवलोक्य
भाषितं । नान्दीमुखि त्वं सिद्धा तपस्विन्य् असि । तस्माद् एतद्-विधिना त्वम्
एवैनं दीक्षय । तदास्य सिद्धातो मन्त्र-ग्रहणात् स्वाभीष्ट-काम-लाभो झटिति
सम्पत्स्यत इति व्याहृत्य सक्रोधं गृहाय गच्छन्तीं करेण गृहीत्वा व्याघोट्य
विशाखा विहस्य नान्दीमुखीं प्राह – नान्दीमुखि! अस्य सम्प्रति
प्राप्त-व्यलीकस्य दीक्षा-दाने महान् एव प्रत्यवायः स्याद् इत्य् आचार्येयं त्वां
प्रति क्रुध्यति ॥

नान्दीमुखी – मिथ्या-वादिनि विशाखे! सकल-सधर्म-राजीव-बन्धोर्
गोकुल-राजस्य सत्-तनये कथम् अलीक-परिवादम् आरोपयसि ।

विशाखा – तुभ्यं शपे सत्यम् एवैतद् दोषम् ।

नान्दीमुखी – कस् तावद् दोषः ?

विशाखा – उच्छिष्ट-भोजनम् ।

नान्दीमुखी – कस्य ?

विशाखा – दास्याः ।

नान्दीमुखी विहस्य – का तावत् सा दासी ?

विशाखा – शाखोट-वन-वासिनी काचिन् मायया गोपीव भूत्वा
कंस-भृत्य-गोवर्धन-मल्ल-गृहिणीम् आसाद्य ताम् उवाच चन्द्रावलि! त्वं
भुवनेश्वर्याश् चण्डिकायाः प्रिय-परिचारिकासि । अहम् अपि तद्-गण-मध्ये
एकास्मि । ततः स्नेह-भरेण त्व-सखीत्वम् इच्छामि । तच् छ्रुत्वा समीचीनम् एतद्
इत्य् आलिङ्ग्य सा चन्द्रावली यां सख्येन परिजग्राह सैव ।

नान्दीमुखी – सैव का ?

विशाखा – अपूर्वा पद्मा सा सर्वत्र प्रसिद्धा भवत्यापि ज्ञायते ।

नान्दीमुखी – किं तद् उच्छिष्टम् ?

विशाखा – तन् मेचकाधर-कुपी-स्थितं परम-पावनं मधु ॥

एतन् निशम्य किञ्चित् स्मयमानां राधिकाम् अवलोकयन्तस् तत्-सभासदः सर्वे जना
जहसुः । ततो नान्दीमुखी – विशाखे! केनाप्य् एतद् दृष्टम् अस्ति ?
विशाखा – अथ किम् ।

नान्दीमुखी – केन ?

विशाखा - विविध-गिरिधातु-परिच्छदान् आनेतुं प्रिय-सख्या गान्धर्वया
प्रेषिताभ्यां मल्ली-भृङ्गीभ्यां मानस-गङ्गा-निकटोषर-तटे प्रकटम्
एवैतत् परम-पावनं कर्म परश्व एव साक्षाद् अवलोक्यागत्य सर्वासां पुरतो
विविच्य कथितम् ।

नान्दीमुखी सचिन्तम् इव – सकल-गोकुल-जीवनीभूतस्यास्य कथं
तद्-दोष-ध्वंसो भवति ?

विशाखा – प्रायश्चित्ताचरणेनैव ।

नान्दीमुखी – ततो भगवतीतस् तद्-दोष-विहित-निष्कृतिं सम्पाद्य पुरुषोत्तमम्
एनं शुद्धं विधाय दीक्षयन्तु भवय्तः ।

तच् छ्रुत्वा चम्पकलता प्राह – मुग्धे! उज्ज्वल-मणि-संहितायाम् एव विवृतोऽस्ति
तन्-निष्कृति-विधिर् भवत्याः प्रायेण गोचरो न भवतीति तयैव कथा-प्रसङ्गे
कथितम् अस्ति ॥

नान्दीमुखी – अत्र तत्-संहितां कस् तावज् जानाति ?

चम्पकलता – प्रिय-सखी गान्धर्वैव ।

नान्दीमुखी – अधुना सा किलात्र सभा-मध्ये न विद्यते । तत् कथम् इदं
झटिति निर्वहतु ?

विशाखा – तद्-अद्वितीयेयं ततोऽधीत-सन्दर्भ-तत्-संहिता-ललिता निरन्तरं तद्
अभ्यस्यन्ती सुष्ठु तज् जानन्ती तन् निरूपयिष्यति ।

नान्दीमुखी स-काकु – सखि ललिते! विचार्य यथोचित-निष्कृतिर् आदिश्यताम् ।

ललिता किञ्चिद् विहस्य – प्रिय-सखि! कृत-वय्लीको जनो यदि सभा-मध्ये स्वयम्
आगत्य निःशेषं स्वयम् अघं निष्कापट्येन निवेद्यानुतपति, तदैवास्य
प्रायश्चित्तं कार्यते इति पुरान-कृद्भिः निर्णितम् अस्ति । तथा हि –

सङ्कथ्य स्वम् अघं गोष्ठ्यां पश्चात् तपति यः स्फुटम् ।
तस्यैव निष्कृतिः साङ्गा मुनिभिः कार्यतेऽखिला ॥ इति ।

इत्य् आकर्ण्य नान्दीमुख्यां मन्-मुखं साकूतम् आलोकयन्त्यां मयि च
सुबल-मधुमङ्गलाभ्यां सह ललिता-सविधम् आसाद्य किञ्चिद् विवक्षमाणे सति,
विशाखा प्राह – हे धीर! कामातुराणां न घृणा न लज्जेति स्वभावतः कामिना
त्वया यत् कृतं तत् कृतम् एव । अधुना त्व् एतत् तस्याः पुरो विविच्य तत् सर्वं
कथय ।

ततोऽहं स्मितम् अपवार्य सानुतापम् इव – ललिते! चतुर्थेऽहनि
विघटित-गवान्वेषणे गौरी-तीर्थम् एवाप्तस्य मम गौरी-मन्दिरान् निःसृत्य
काचिद् गौरी सहचरी चर्चिका हठेन मद्-उरसि सव्य-कुचेनाहत्य
माधवी-चतुःशालिकान्तरालं माम् आनीय कम्पमानस्य मम मुखे
ताम्बूल-चर्वितं प्रदाय यत् किञ्चित् कृतवती तन्-मोहितोऽहं किम् अपि नावेदिषम् ।
परश्वोऽपि सुवर्ण-सूत्रेण विविध-कुसुमैर् ग्रथित-मालाम् आदाय
राधा-कुण्ड-तट-निकुञ्ज-नागरीं गान्धर्वाम् अनुस्मरतो मम
माल्य-हरण-कुण्ड-तट-निकट-मन्दारोद्यान-परिसरे सा चर्चिका पुनर् अप्य्
आविर्भूय बलेनैव मम वाम-गण्डं परिचुम्ब्य मुखे स्वाधर-पीयूषम्
अर्पितवती तद् एतद् अघ-युगल-निराशाय
तन्-मुख-कमलोच्छिष्ट-मधु-पान-रूपं प्रायश्चित्तम् आदिशतु भवती ।

मधुमङ्गलो विहस्याह – वयस्य! भद्रतरम् इदं निष्कृतं यत् तद् अघस्यैव
वृद्धिं वितनोति ।

ततोऽहम् – धिङ् मूर्ख! किम् अपि न जानासि । विषस्य विषमौषधम् इति । यथा –

वह्नि-सन्तापतो नश्येद् वह्नि-सन्तापजो ब्रणः । इति ।

एवं –

दरयेत् कण्टकं विद्धं कण्टकेनैव पण्डितः ।

इत्य् आदिवद् उच्छिष्ट-भोजन-दोषम् उच्छिष्ट-भोजनम् एव दरयति ।

मधुमङ्गलः – एवंविध-पाप-व्याधि-चिकित्सायां त्वम् एव सद्-वैद्योऽसि तत् किं
ललिताम् अनुवर्तसे ?

ततोऽहम् – सखे ।

ज्ञात-सारोऽपि खल्व् एकः सन्दिग्धः स्यात् सकर्मणि ।
इति चिकित्सकस्यापि चिकित्सान्यैः क्रियत एव ॥

इति निशम्य ललिता स्मयमाना प्राह – हे देव! देव्या सह देवस्यैव सङ्गः
सम्पत्स्यते तत् कथम् अस्माकं मानुषीणां सा गोचरीभवतु ?

ततो मयोक्तं – ललिते! सा कुत्रापि मानुषि भवतीनाम् अदूर एव विराजमाना
वर्तते ।

ततः सर्वासु सकौतुकं स-शङ्कं कर्णाकर्णि केयम् इति विचारयन्तीषु राधा
स्वगतं – एतस्य धूर्तस्य नर्म-न्यास एतद्-गोष्ठ्याम् एव भविष्यतीति लक्ष्यते ।

विशाखा – देव! कथ्यताम् कुत्र सा यथैनां संस्तुत्य सभा-मध्ये समानीय
भवत्-कार्यम् अचिराद् अस्माभिर् निष्पाद्यते ?

ततोऽहं – विशाखे! भवद्-गोष्ठ्याम् एव तडिद् इव विराजयन्ती सा । किं
दीर्घ-नेत्रयापि त्वया न दृश्यते ?

इति मद्-गम्भीरालापम् आकर्ण्य ललितायाम् अन्यासु सर्वासु च आत्मन्य् आत्मनि तां
नर्म-भङ्गीम् आशङ्क्य परस्परम् आलोकयन्तीषु विशाखयोक्तं – लम्पट! किं
चम्पकलता ?

ततोऽहं – न हि न हि ।

विशाखा – किं ज्येष्ठा ।

अहं – न हि न हि ।

सुबलः – रङ्गदेवी-सुदेव्ययोर् एकतरा भविष्यति ।

अहं – अनयोर् एकतरापि न ।

विशाखा – आं निष्कृति-कारिणी ललितैव भविष्यति ।

ततोऽहं – विशाखे! इयम् अपि न ।

विशाखा – इयम् अपि न एषापि न असाव् अपि न । तत् किं इतोऽन्तर्हिता ।

ततोऽहं – धूर्ते! त्वम् एव तां जानासि । स्मृत्वा पश्य ।

ललिता – हा हा सखि विशाखे! तां प्रकाश्य विकलस्यास्य कार्य-सिद्धिं द्रुतम्
आपादय ।

विशाखा स्मृतिम् अभिनीय – ललिते! या मया ज्ञायते सा देवी-मनुष्ययोर् एकतरापि
न स्यात् ।

नान्दीमुखी – गोष्ठ-मध्ये देवीं मानुषीं वा विना का पुनर् इतरा ?

विशाखा – सा खलु शङ्खिनी ।

ललिता – का तावत् सा ?

विशाखा स्मित्वाह – सा दुर्मुखी पद्मा ययास्य व्यलीकं कृतम् अस्ति ।

तुङ्गविद्या – सखि विशाखे! सा शङ्खिनीति सङ्कथ्य कथं कलुषम् उत्पादयसि
? एषा खलु बहुतिथं कात्यायनी-देव्या बहुतर-सेवा-प्रसादतः साक्षात्
कात्यायनी वृतास्ति ।

तच् छ्रुत्वा मधुमङ्गलादिषु हसत्सु मयोक्तं – विशाखे! तल्-लज्जया यदि त्वम्
अन्यतः क्षिपसि तन् मयैव कथ्यते ।

विशाखा – कथय कथय ।

ततो मयोक्तं – सा चर्चिका-देवी त्वम् एव ।

ततः सा सर्वाः स्मयमाना विलोक्य सकम्पाधरम् आह – अये चञ्चल वञ्चक!
गोप-निष्ठूर!
कंसासुर-सेवक-दुष्टकालिङ्ग-मल्ल-गृहिणी-हारिद्र-राग-चर्चित-सर्वाङ्ग!
विदग्ध्य-सत्-खण्ड! चातुर्य-सच्-चन्द्र-विरहित!
तद्-धृत-स्नेह-लुब्ध-तत्-केलि-कोलि-कानन-चर ।
अयुक्त-पद्मा-शङ्खिनी-परिवृढ ।
अवैदग्ध्य-रङ्ग०मिलित-पञ्चबाण-रस-व्यापारि-महाधूर्त-वणिग्-वर! एतद्
धार्ष्ट्य-जम्बुल-गुड-हट्टं तत्रैव शाखोट-वने गत्वा प्रसारय । इतो द्रुतम्
अपसर ॥

इति श्रुत्वा राधा अनुच्चैः स-श्लाघम् आह – प्रिय-सखि विशाखे! विजयिनी भव
यन् मन्-मानस-गत-सम्बोधनोक्त्या मां सुखयन्त्य् असि ॥

रङ्गदेवी – सखि विशाखे! त्वं कथं कुपसीत्य् उक्त्वा सखि ललिते! शाखोटवनीं
माधवी-चतुःशालिकात्वेन मानस-गङ्गा-तटोषर-प्रदेशं
माल्य-हरण-सरस्-तीर-मन्दारोद्यानत्वेन, पद्मा-शङ्खिनी-मुखोच्छिष्टं च
प्रिय-सखी-विशाखाधरामृतत्वेन निरूप्य स्वमुखेनैव सानुतापं स्व-दुरितम्
अशेषम् अनेन विदग्ध-धूर्तेन स्व-कदर्य-कार्य-प्रकटन-जनिष्यमाण-लज्जया
अर्थोत्थ-व्यङ्गेनैव त्वयि निवेदितम् । तद् उपदिशास्य प्रायश्चित्तम् ॥

इति श्रुत्वा ललिता विहस्य – आर्य मधुमङ्गल! सखे सुबल! सन्निधाय श्रूयताम्
प्रायश्चित्तम् ॥

चित्रा – सखि ललिते!

सम्पत्तौ विद्यमानायां प्रायश्चित्तं चतुर्गुणम् ।
ततोऽपि राज-पुत्राणां निष्कृतिः षड्-गुणा मता ॥

इति स्मृति-वाक्यं स्मृत्वैव प्रायश्चित्तम् आदिश्यताम् ॥

ललिता – मुग्धे! ततोऽपि राज-पुत्राणां निष्कृतिः स्याद् द्विषड्-गुणा इति पाठः
संहिता-सम्मतो मया ज्ञायते । षड्गुणेति कथं भण्यते ?

चित्रा – एतच्-छास्त्र-विज्ञया त्वया यज् ज्ञायते तद् एव सत्यम् ।
किन्तुगोवर्धनोद्धरण-दावाग्नि-विमोचन-शङ्खचूडादि-मर्दनादिभिः
कतिधानेन युवराजेन वयं न रक्षिताः स्म ? तस्माद्
इदानीन्तन-तत्-कृत-बहुतर-वैगुण्यम् अविगणय्य कृपया षड्-गुणेनैव
निरूप्यताम् ॥

ललिता – भद्रं त्व-कथितम् एवेदम् अनुष्ठीयते । आदौ पाप-मोचने स्नात्वा
तथा मानस-गङ्गायां त्रि-दिनानि स्नातः सन्न् एक-विंशति-दिनानि
मल्ली-भृङ्गाधर-पञ्चामृत-पानेन प्रथमं मुख-दोषम् उत्सारयतु ।
पश्चाद् द्वि-षड्-गुणा निष्कृतिः करणीया ॥

इति श्रवणेन कपट-कोप-विकटो मधुमङ्गलः प्राह – ललितिके!
सद्-धम्र-सेतु-व्रजेन्द्रयोर् एतन्-मात्र-पुत्रस्य
तथास्मद्-विध-वयस्य-वर्गाणां सकल-गोकुल-वासिनाम् अप्य् एक-जीवातोर् अस्य
चेटिका-पुलिन्दी-जुष्ट-भक्षणेन जाति-ध्वंसः कर्तुम् आरब्धो भवतीभिस् तद्
अहम् अतिद्रुतं गत्वा वृत्तम् एतत् स-विशेषम् आश्राव्य एतत्-पितराव् अत्रानीय एतत्
सङ्कटाद् अमुं मोचयन् सौहृदं वितनोमि । इति निगद्य फुत्कृत्य द्रुतं
गच्छन्तं मधुमङ्गलं सुबलः करे गृहीत्वा बलाद् इव निवर्तयामास ।
ललिता – अनार्य बटो! अस्मत्-प्रिय-सखी-प्रणयि-सख्योर् अनयोर् माहात्म्य-विज्ञाने
त्वम् अनभिज्ञोऽसि । तद् भवन् नान्दीमुखी-मुखाद् एतच् छ्रूयताम् ॥

नान्दीमुखी – भ्रातर् मधुमङ्गल!

गोवर्धन-गिरौ रम्ये राधा-कुण्डं प्रियं हरेः ।
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा ॥

तथा –

वैकुण्ठाज् जनितो वरा मधुपुरी तत्रापि रासोत्सवात्
वृन्दारण्यम् उदार-पाणि-रमणात् तत्रापि गोवर्धनः ।
राधा-कुण्डम् इहापि गोकुल-पतेः प्रेमामृताप्लवनात्
कुर्याद् अस्य विराजतो गिरि-तटे सेवां विवेकी न कः ॥

इत्य् आद्य्-अनुसारेण
श्री-भगवती-गुरु-श्री-देवर्षि-प्रभृति-महा-महा-मुनीन्द्र-गणैर्
वर्णित-महा-महिम्नः श्री-गोवर्धनोपरि-विराजमानस्य राधा-कुण्डस्य
दक्षिण-तटे गिरि-दरी-वासिन्याः पूर्णाः पुलिन्द्य उरुगायेत्य् आदि
श्री-शुकदेव-वर्णित-महा-सौभाग्य-भरयोः पुलिन्द-राज-सुतयोर् अनयोर्
अधर-गलित-परम-पावन-पञ्चामृतम् एतद्-दुरित-नाशकं किं न स्यात् ? अन्यच्
च श्रूयताम् । व्रज-नवीन-युव-द्वन्द्व-रत्नं प्रति विशाखादि-द्वारा क्वचित्
स्वयं वा लज्जाम् अभिनीय मृदु
भाषित-विविच्यमान-नर्म-कला-कलाप-जनित-परमानन्द-विशेष-लाभाय तथा
स्वाभिलषित-परिचरण-विशेष-लाभाय च रङ्गमाला-प्रभृतय एताः
परम-प्रणयि-सख्योऽपि परिचारिका इव व्यवहरन्ति ॥

एतद्-अवसरअ एव नेत्र-कुणनेन गोष्ठी-मध्यात् तुलसीम् आहूय
बन्धुरातिबन्धुर-सुगन्धी-गन्ध-फली-सदृक्ष-दक्षिण-कर-कनिष्ठाङ्ग्
उलि-शिखराकृष्ट-स्व-सीमन्त-सिन्दूर-रस-प्रकटित-तत्-सौरभ-प्रसर-रूप-स्
उरूप-लिपि-प्रचयेनाति-सुवासितीकृत-कनक-केतकी-कुसुम-दल-भूत-वर्ण-दूत
एकः । श्री-गान्धर्वया तत्-करेण ललितादिषु सञ्चारितः । ततस् तं ललिता शिरसि
निधाय सखीभिः सह रहः परिपठ्य नान्दीमुखी-करे स-स्मितम् अर्पितवती ।

नान्दीमुखी स्मित्वानन्दम् अभिनीय वक्षसि निधाय वाचयति –

स्वस्ति
श्रीनान्दीमुखी-श्री-ललिता-श्री-विशाखा-प्रभृति-प्राण-प्रेष्ठ-सखी-वर्गेषु
परिष्वङ्ग-परार्ध-रङ्ग-पूर्विका कस्याश्चिद् विज्ञप्तिर् इयम् –

श्रीदाम-सुबल-भद्रसेनादि-प्रमुख-प्रिय-वयस्य-गणैः सह
गोवर्धन-परिसरे सम्भृत-गोचारण-परमामोदस्य
व्रज-राज-निज-जीवित-परार्ध-शताधिक-परम-प्रियतम-तनयस्य
व्रजेन्द्र-महिषी-स्व-प्राण-परार्ध-परिपक्व-हिरण्मयेष्टकाघटा-घटित-
महा-मन्दिरान्तराल-विनिर्मित-प्राण-परार्ध-विविध-रत्न-खचित-महा-पर्
यङ्क-कृṄप्त-वात्सल्य-नाना-विध-कुसुम-सुवासित-सुकुमार-सुतूलिकोपरि-सम
धिगत-शयन-केलि-परमानन्दस्य
मत्-प्राण-परार्धार्बुद-परार्ध-शत-निर्मञ्छ्यमान-वाम-चरण-कनिष्ट्
हाङ्गुलि-नखाञ्चल-प्रतीकस्य
नव-मृगमद-परिमलित-नवनीत-नीलोत्पल-दल-कुल-रचित-सुन्दर-सुकुमार
-विग्रहस्य धीर-ललितस्यास्य एतावत् कठोर-प्रायश्चित्त-श्रवणेन मम हृदयं
नवनीतम् इव विद्रववद् आस्ते ।

ततः –

कृतानुताप-लक्षाणां सुकुमार-शरीरिणाम् ।
स्निग्धानां निष्कृतिः सम्यक् तन्त्रेणैव विधीयते ॥

इत्य् उज्ज्वल-संहिता-वचनम् अननुस्मृत्यैव ललितया यत् पञ्चामृत-पान-रूपं
प्रायश्चित्तं केवल-मुख-शोधनाय च तन्त्रेण विधायास्मिन् निर्दोषे विहिते
मम महत्य् एव निर्वृतिर् जायते इत्य् अलम् अतिविस्तरेण ॥

इहैव प्राण-प्रतिम-प्रणयि-सख्यौ मल्ली-भृङ्ग्यय् प्रति
स-प्रणय-परिष्वङ्ग-सञ्चारः कार्यश् च ।

राज-पुत्रोऽयं परम-पवित्रो महा-विलासी च । तन् निज-चरण-क्मल-घातेन
कङ्केल्लि-लतिकां पुस्पितीकृत्य तन्-मकरन्द-प्रस्यन्द-गण्डूषैश् चतुर्विंशत्या
स्व-मुखं विशेषेण प्रक्षाल्य स्मित-कर्पूर-वासित-मधुर-पञ्चामृतं विधाय
प्रेम्णा शनैः शनैस् तथा पाययितव्यं यथास्य सुकुमारस्य दुरितं द्रुतम्
अपयाति परम-सुखम् अपि निष्पद्यते इति ॥

इति निशम्य सान्तरानन्दं राधा-निकुञ्जम् अवलोकयति मयि स्मित्वा ललिता प्राह
– यद्यपि कृतानुताप-लक्षाणाम् इत्य् आदि सामान्य-वचनान्तरं

सम्पत्तौ विद्यमानायां प्रायश्चित्तं चतुर्गुणम् ।
तत्रापि राज -पुत्राणां निष्कृतिः स्याद् द्विषड्-गुणा ॥

इति विशेष-वचनेन सामान्य-विशेषयोर् विशेष-विधिर् बलवान् इति न्यायेनास्य
द्विषड्-गुणम् एव प्रायश्चित्तं युक्तम् एव पृथक् पृथक् निरूपितम् अस्ति तथाप्य्
आज्ञा गुरूणां ह्य् अविचारणीयेति तद्-आज्ञां शिरसि निधाय तन्त्रेणैव कारयितव्यम्
इति ॥

ततः शिष्ये विद्या गरीयसीति मयोक्ते ललिता साकूतम् आह – नान्दीमुखि!
सौन्दर्य-रस-भरेणाप्यायित-निखिल-गोकुल-जननयनारविन्दां
पर-रास-स्थली-विहारिणीं परम-रस-तरङ्गिणीं रङ्गिणि-सहचरीं हरिणीम् एतां
परिहाय बाढम् अयस-विदग्ध-कृष्णसार-युवा सखी-स्थल्य्-उपशल्ये
तद्-वास्तव्य-शैव्या-सहचरी-मृगतृष्णिकां मुहुर् मुहुर् धावति । तथा
गान्धर्वा-सरोवर-निकुञ्जाङ्गने सौरभ-प्रसर-परिवासित-सकल-दिशां
चम्पकलता-सखीं काञ्चन-यूथिकाम् अपहाय गोवर्धन-मल्ल-गृहकोण-स्थां
निर्गन्ध-पुष्पवतीं कुष्माण्ड-लतां तन् निकट-स्थ-नीरसोषर-स्थल-पद्मां
च त-सहचरीं चञ्चलोऽयम् अविदग्ध-भ्रमरः पुनः पुनर् उड्डीयोड्डियानुसरति
तद् एतद् आलम्बनावदग्ध्य-रूप-वैरूप्येण वृन्दावन-महेश्वरी-सहचरी
मधुरा रतिर् अप्रसन्ना सती एतच् छ्यामल-रसं न पुष्णाति । तस्मात् तथैनम्
अनभिज्ञं युक्त-माधुरीभिः प्रबोधय । यथा ताम् अविदग्धां
रस-गन्ध-शून्यां सर्वदैव विहायैनां वृन्दावन-महा-देवीं
सर्वतो-भावेनानुसरति । तर्हि तत्-प्रिय-सखी मधुरा रतिः स्वयम् एव
परमोज्ज्वला भवन्ती एतद् अभीष्ट-कामान् सम्पादयिष्यत्य् एव ।

इत्य् अखिल-विलास-रस-माधुरीम् आपीय सत्यभामा व्याजहार – प्राणनाथ! एतद्
अपूर्व-रस-सागरे निमज्जन्त्या मम मनाग् अपि तृप्तेः पर्याप्तिर् न विद्यते ।

कृष्णः – प्रिये! एतद् गोकुल-विलासानन्द-निष्कुटे विहरमाणस्य मम त्वत्-प्रश्न
एव मत्-प्रिय-वयस्य-समय-राज-वसन्तोल्लास इति ताम् आलिलिङ्गति ।

सत्यभामा सानन्दं – ततस् ततः ?

कृष्णः – ततः सुबलः सस्मितम् आह – प्रियवयस्य! प्रिय-सखीयम् इन्दुलेखा
दुर्दुरूढात् स्व-भर्तुर् भास्वराख्याद् उद्विग्ना माम् इङ्गितेन प्रेरयति । तद्
अस्याः मौक्तिक्-मूल्यं निर्णीय तद् दत्त्वा झटिति गृह-कृत्याय गन्तुम्
आज्ञाप्यताम् ।

ततोऽहं – सखे सत्यं सत्यं मय्य् अतीवानुरक्तेयं माम् अपि त्यक्तुं न शक्नोति ।
ततोऽपि सुष्ठु बिभेतीत्य् अहम् अपि जानामि । तद् एतन् मौक्तिक-मूल्यं शृणु –
यथार्थ-नाम्नीयं मद्-विरहम् असहमाना काय-द्वयं कृत्वा
श्यामलतर-मद्-वक्षो-नभसि शाणित-नखाग्रेण रचिताम् एकां स्व-मूर्तिं
संरक्षतु । अहम् अप्य् असह्यैतद्-विरहस् तावद् अस्याः वक्षोज-पर्वतोपरि
स्व-विद्या-बलेनार्ध-चन्द्र-युगलीभवन्न् उदयं करोमि । तदैषा
लब्ध-महा-रत्नम् इव सर्वतो मां चेलाञ्चलेनावृणोतु । रहसि च क्षणे क्षणे
स-रोमाञ्चम् अवलोकयन्ती परमानन्दम् आसादयतु । अथवा
मृग-लाञ्छन-रहिताया एतस्या हृन्-मध्ये मञ्जुल-कृष्ण-सारोऽहं भवामीति ।

ततः सकम्पाधरं कुटिलं माम् अवलोकयन्तीम् इन्दुलेखाम् आलोक्य स्मयमाना
तुङ्गविद्या प्राह – नागर! रङ्गदेवीयं यथार्थ-नाम्नी तद् अस्या
मौक्तिक-पणः प्रणियताम् ।

ततोऽहम् – सखि रङ्गदेवि! रास-मध्ये तव लास्य-विलासोल्लासः सन्ततम्
आलोकितोऽस्ति । तद् अधुना निकुञ्ज-मन्दिराङ्गने रहसि तद्-विशेषम् अनुभवितुम्
अभिलषामि । तद् एहि स्व-वक्षोज-कनक-कुम्भौ मद्-उरसि तथा नर्तय
यथाहम् आनन्दितः
सकल-वल्लवी-समुदय-सर्वस्व-भूत-मत्-स्वाधर-पीयूष-महा-प्रसाद-दानेन
त्वाम् आनन्दयामीति ॥

तच् छ्रुत्वा अपैहि भण्ड-शेखर! अपैहीत्य् उक्त्वा कुटिलं माम् अवलोक्य
विशाखा-पृष्ठान्तरितायां रङ्गदेव्यां सुदेवी स-स्मितम् आह – रसिक-शेखर!
बल्लवी-कुल-भुक्त-मुक-सुजुष्ट-महा-प्रसादास्वादनेनेयं त्वरितम् एव
सिद्धिम् आसादयन्ती स्फुटम् अस्मान् अपि सिद्धार्थाः कृतवत्य् एव ।

सुबलः – वयस्य! सुदेवी स्व-मौक्तिक-मूल्यं श्रोतु-कामा
श्रीमद्-भवन्-मुखम् ईक्षमाणेयम् उत्कण्ठते ।

ततोऽहम् – सखे सुबल! सुदेवीयम् अक्ष-केलि-दक्षेति प्रसिद्धा तच् छपथम् एव
ददद् अस्मि केनापि कस्यापि पक्षो न ग्राह्यः । आवाम् एव स्व-बुद्धि-बलेन
खेलिष्यावः । तत्र यद्य् अहम् अनया सुष्ठु जीयेयम्, तर्हि वामेन वक्षोजेन
मद्-वक्ष्षसि माम् आपीड्य मम सर्वस्व-भूतम् अधरं द्विः पिबतु । यदि वा
मयेदं जीयते, तदा स्व-दक्षिण-कठिन-वक्षोजं मद्-दक्षिण-करेण निकामं
पीडयित्वा द्विः स्वाधरामृतम् आपाययत्व् इति ।

ततः सा भ्रू-भङ्गेन माम् अवलोकयन्ती सासूयं विशाखाम् आह – अयि विशाखे!
सर्व-कालम् एव नर्म-स्वर्ण-विक्रय्य् असौ महाजनः । साम्प्रतम् एव
मुक्ता-मणि-व्यापारम् आरभ्य ततो वृद्धिम् अलभमानः पुनः स्व-वृत्तिम्
एवारब्धवान् अस्ति । ततः परार्ध-द्वि-गुण-पञ्चबाण-ललितां
काञ्चन-मुद्रा-ततिम् इतः प्रकाम-मूल्येन प्रगृह्य तयैव मुक्ताफलान्य् अस्माद्
आनयन्तु भवत्यः । मया तु गृहाय गम्यते ।

इति चलितुम् उद्यताञ्चले गृहीत्वानङ्ग-मञ्जर्या निवर्तिता स-क्रोधम् इव साकूतं
पुनर् आह – केलि-लम्पट! निकामम् अक्ष-केलि-निपुणेयम् अनङ्ग-मञ्जरी त्वया
सह दीव्यन्ती ते गर्व-पर्वतं खर्वयिष्यति ।

ततस् तद्-वचन-माधुर्यम् अवधार्य मयोक्तं – अस्यास् त्व् अबलायास् तत्-केलिषु का
शक्तिः ? किन्तुमद्-वक्षो-हरिद्-ग्राव-हरितालीय-रेखिकाया राधिकायाः
प्राण-सहोदरेयं मय्य् अतीव स्निह्यति । मम च मानस-मधुकरः परम्
अस्याम् अनवरतम् अनुव्रज्यति । अतः समुचित-पणम् अन्तरापि सुताराणि सुवृत्तानि
बहूनि मौक्तिकान्य् अप्य् अस्यै वितरिष्यामि । परं च निर्जन-निकुञ्ज-वेदिकायां
स्मर-पुञ्जराक्षराण्य् अस्याः पञ्चाशद् अङ्ग-प्रत्यङ्गेषु स्व-हस्तेन विन्यस्य
स्वाङ्गं स्वाङ्गेनालिन्ङ्ग्य मन्त्रेणैनां व्यापय्य तथा सिद्ध-मन्त्रम् एकम्
उपदिशामि यथा तद्-ग्रहण-मात्राद् अनङ्गं साङ्गं विरचय्य सन्तुष्टेन तेन
प्रसादीकृत-स्व-सर्वस्व-स्वरूप-विलास-रत्नानि मन्त्र-गुरौ मयि दक्षिणात्वेन
स-विनयम् उपढौकयति । ततः सुप्रसन्नेन मया तादृग्-आशीः-शतम् आधास्यते
येन विषम-शर-विलासाचार्येति पदवीम् आसाद्य द्वि-गुणं माम् एव भक्त्या
परिचरति ।

इति मद्-भाषित-कुसुम-स्तवकं श्रवणावतंसीकृत्य सकम्पाधरं माम् ईषद्
अवलोकयन्ती स्मित-सुभग-वदनाभिर् आभिः स्नेहेनोत्फुल्लतया तद्-अग्रजया च
स-स्मितं स-स्नेहं च निरीक्ष्यमाणा तुलसी-रङ्गणमालिकयोर् उपपृष्ठम्
अन्तर्हितासीत् ॥

सत्यभामा स्मित्वा – प्राणनाथ! ततस् ततः ।

कृष्णः – तदानीम् एव मल्ली-भृङ्गीभ्याम् आनीय दत्तं लेख-द्वयम् । सर्वाभिः
समम् एव वाचयित्वा परमोत्फुल्ला ललिता तयोर् एकं लेखं सुबल-हस्ते
समर्पितवती ।

ततोऽहम् – ललिते! कस्यायं लेखः ?

ललिता स्मित्वा – लेख एव कथयिष्यति ।

ततः सुबले लेखम् उद्घाट्य लघु लघु वाचयति सति नान्दीमुखी – सुबल!
स्फुटम् एव वाचय ।

सुबलः स्मित्वा – सखे! अपूर्व-पत्रीयम् अवधार्यताम् ।

अहं – सखे! वाचय ममापि महती शुश्रूषा वर्तते ।

सुबलः – स्वस्ति
समस्त-सम्मुख-सर्वोपमा-योग्य-बन्ध-प्र्बन्ध-सद्-गुण-प्र्कर-परिवृतेषु
श्री-सुबलाभिधान-प्रिय-नर्म-सख-महानुभावेषु यावटाभिध-ग्रामतो
राधायाह्ः
प्रणय-भर-पीयूष-परिपूरिताक्षर-प्रकर-सुमिष्ट-पिष्टक-परिवेषाण-हिर्
अण्मय-भाजन-रूपूऽयं स्वस्तिमुखम् –

भवत्-प्राण-बन्धु-पाद-पद्मानां भवादृशां च मङ्गल-कुलम्
अनवरत-विराजमानम् अपि व्रज-मण्डले शश्वन् नितरां विराजताम् ॥ काऋयम् इदम्
अन्यद् अपि अवधेहि प्रिय-जन-सकाशात् कर-ग्रहणम् अनुचितम् इति बहुतरम् अपि
कर-द्रव्यम् अपहायैव एतावद्-दिनं किम् अपि नोक्तम् आसीत् । सम्प्रति
मौक्तिक-व्ययेन क्षुभ्यद्-गुरु-जन-दीयमान-महानुयोग-निचयेन क्षणम्
अपि निर्वृति-लवम् अलभमानया यत् किञ्चिन् मया विज्ञाप्यमानम् अस्ति । तद्-अगुणम्
अविगणय्य मद्-वृन्दावन-जनपदे यमुनोपकण्ठ-केदारिकायां
भवत्-प्राण-बन्धुना सम्प्रति क्षेत्राजीवताम् आश्रयता कृत-मौक्तिक-कृषेर्
ललितया सह लेख-प्रतिलेखम् आचार्य समुचित-कर-द्रव्य्म् इह त्वरितम् एव
प्रहित्य दीयताम्, यथा द्रव्येणैव मथुरातो मौक्तिकान्य् आनाय्य गुरुभ्यः
प्रदाय कदन-सागराद् अस्माद् उत्तरामः । अथवा
बहु-मूल्य-मौक्तिकोत्पत्ति-भूमेः करस्याप्य् अतिबाहुल्याद् एतद्-द्रव्य-प्रदाने
यदि भवादृशाम् अशक्तिः स्यात् तर्हि पञ्चभिर् मिलित्वा समुचित-मूल्यं निर्णीय
एतद्-द्रव्य-परिवर्तनेन मौक्तिकनि ललिता-हस्ते देयानीति किं बहुना
परमाभिज्ञ-वरेष्व् इति ।

एतन् निशम्य परमानन्द-पूर्णेनापि मया साकूतम् उक्तं – अयि मल्लि! अयि
भृङ्गि! भवद्-ईश्वरी सुखं वर्तते ?

मल्ली-भृङ्गौ – श्रीमन्-नाथ-चरण-शुभानुध्यानेन ।

ततस् तन्-निकुञ्ज-दिशं तिर्यग्-अवलोकयन्न् अहं – कुत्र वर्तते सा ?

ते यावटाभिध-ग्रामे ।
अहं – किं कुर्वती तिष्ठति ?

ते ललिता-देवी-प्रभृतीनां वर्म-दिशम् अवलोकयन्ती
वृन्दावन-राज्य-सार्वभौम-कामम् उत्कण्ठितेव विराजमाना वर्तते ।

ततोऽहं – सखे सुबल! ,अमुए लिटिओलया ललितयैव कस्यचिद् द्वारा लेखयित्वा
लेखोऽयं वितीर्णोऽस्ति ।

सुबलः – नहि नहि । राधाया एव स्व-हस्त-लिखित-वर्णानां विन्यासोऽयम् ।

ततोऽहम् – सखे! तत् तावद् इदं दर्शयति तद्-धस्ताद् आकृष्य लेखम् आलोक्य
स-चमत्कारम् आत्मगतं – अहो अक्षराणां पङ्क्ति-विस्तृतिर् इयं मन्-नेत्रयोः
पीयूष-वर्तिकेय्व प्रतिभातीत्य् आनन्द-जनित-पुलकान् विस्मय-सञ्चारि-भावेनैव
कृतान् इति भङ्ग्या विख्याप्य प्रकाशं विहस्य आश्चर्यम् आश्चर्यम्
आकाश-कुसुमम् इव धूर्ताभिर् एताभिः किम् अप्य् अन्यद् अकस्माद् एव
समुत्थापितम् ।

मधुमङ्गलः – वयस्य!
विकट-कुटिनाटि-कपट-नाटिका-ताण्डवोद्भट-नटाचार्य-महा-नटीम् इमां
तद् अद्वितीयां दुर्ललितां ललितां वाग्-विलासाभास-मात्रेणैओव पराजित्य् अ अवतिष्ठ
ते ध्रियते यावद् एकोऽपि रिपुस् तावत् कुतः सुखम् इत्य् आदि संस्मृत्य सर्वासाम्
अस्मद्-वृन्दावन-राज्य-काङ्क्षिणीनां धूर्तानां ततिम् इमाम् इतो वृन्दावनात्
झटिति विद्रावय । ततो निष्कण्टक-राज्ये मधुराणि रसवन्ति फलान्य् उपभुज्य
सुखेनैवाहं नृत्यन्न् इव वसामि ।

ततो मयोक्तं – ललिते! इयम् अस्मद्-वृन्दाटवी । भवत्-सख्या राज्यं कुतो जातम् ।

ललिता – परम-कपटिन्! तद्-राज्य-महाभिषेक-महोत्सवं समक्षम् आकलय्यापि
किम् एवं गोपायसि ?

ततोऽहम् – ललिते! समक्ष-दर्शनं तावद्-दूरे ऽस्तु तच्-छ्रवणम् अपि जातम् अस्तीति
नाहं स्मरामि ?

विशाखा –ललिते! अस्य तावद् दूषणं नास्ति ।
बल्लव-साध्वी-शत-धर्मोल्लङ्घन-जनित-तमः-प्रचयेनान्तर्हितम् अस्त्य् अस्य
चेतस् तत्-संसर्गी च तादृश इति एतद्-वयस्ययोर् अनयोर् अपि । तत् कथम् एते स्मरन्तु
नाम ? तस्मात् तत् कथन-पीयूष-प्रस्यन्देन कर्ण-विवरेषु प्रवेशितेन् बाढम्
अमीषां चेतांसि कारुण्येनाविर्भावय यथैषां स्मृतिः सम्पद्यते ।

ततस् तदानीम् एवागतां सर्वाभिर् एवानन्दितां वृन्दाम् आलिङ्ग्य ललिता स-स्मितम्
आह – वृन्दे! भद्रावसरे त्वं प्राप्तासि । तत् त्वयैव निर्वर्ण्यतां
महोत्सव-रङ्गः ।

वृन्दा स-विनयानन्दं – सखि ललिते! त्वन्-मुख-पद्माद्
विनिष्यन्दमान-तन्-महोत्सव-रस-मकरन्दम् अहम् अप्य् आपातुम् आगतास्मि तत्
त्वयैव परिवेष्यताम् ।
ललिता सानन्दम् – भद्रं सर्वैर् अवधाय श्रूयताम् । ऋतु-पतिवसन्त-समये
पौर्णमास्यां विशाखा-नक्षत्रे भगवतो हिरण्यगर्भस्य गगन-वाण्या
वृन्दावन-वासिनो भगवतः श्री-गोपीश्वरस्य स्वप्न-कृत-निदेशेन च
मानस-सुरधुनी-कालिन्द्यादि-सरिद्-वरोभिः
सावित्री-सञ्ज्ञैकानंशा-प्रभृति-देवीभिश् च समं
मुरली-महती-झर्झरी-मुरज-दुन्दुभि-प्रभृति-वाद्य-शब्द-कोलाहलेनाकृष्
टेषु किन्नरी-गन्धर्वी-कुलेषु सानन्दं गायत्सु । अप्सरो-विद्याधरी-वर्गेषु
नृत्यत्सु शच्यादि-सुराङ्गना-निचयेषु जय-जय-शब्द-पूर्वकं
पारिजातादि-कुसुम-वृष्टिं कुर्वत्सु विशाखादि-सहचरी-समुदयेषु
परिमिलित-पट-वास-सुराग-बन्धन-नव-घनसार-क्षोद-मञ्जुल-मृगमद
-सुललित-कुङ्कुम-पटीर-द्रव-विविध-सुरभि-कुसुम-कुलानि
सुललित-गान-पुरःसरम् इतस् ततो विकिरत्सु भूसुर-रमणी-वृन्देषु
शुभाशीः-शतानि वितरत्सु च
सखी-वृन्द-समर्प्यमाण-शोभन-कुङ्कुमागुरु-कर्पूर-चन्दन-विविध-सु
रभि-कुसुमादि-सुवासित-जल-परिपूरित-काञ्चनाष्टोत्तर-शत-घटैः
सुवर्ण-वेदिका-निहित-पद्मराग-मणि-पीठोपरि सन्निविष्टां प्रिय-सखीं
गान्दर्वां भगवती पौर्णमासी सानन्दम् अभिषिच्य
विविध-सुलक्षण-महारत्न-सञ्चयोदक-सहस्र-धाराभिर्
जय-जय-शब्द-पूर्वकं रत्नाभिषेकं चकार ।

वृन्दा स-हर्षम् – ततस् ततः ?

ललिता ततो मयैव सुचीन-वसनेन शनैः शनैर् अङ्गान्य् आमृज्य सुरक्त-दुकूलं
परिधाप्य केतकी-कुसुम-सुवासित-जलद-नीलोत्तरीय-वसनेनावगुण्ठ्य सुखम्
अन्यतर-कनक-०पीठे निवेश्य
नानाविध-कुसुम-नव-गुञ्जा-पुञ्ज-सुमधुर-मुक्तादि-मणि-निकरै
निन्दित-शिखि-पिञ्छ-कलाप-कान्ति-सुकेश-पाशं
सुदीर्घ-प्रान्तोच्छलत्-कुसुम-गुच्छं वेणीत्वेनाविर्भाव्य
स्व-स्व-सेवा-कर्म-कर्मठ-परिजन-गण-दीयमान-विविधालेप-भूषण-मा
ल्यादिभिर् यथा-स्थानं यथा-शोभं निकामम् अलङ्कृतेत्य् अर्धोक्ते
तत्-स्मरणानन्द-जनित-कम्प-पुलक-स्वर-भङ्ग-परिमिलित-दिव्य-मोहम्
आसादयन्ती सा ललिता विशाखया ससम्भ्रमं पृष्ठे समालम्ब्य कर्णे राधे
कृष्ण राधे कृष्णेति कीर्तनामृतेन सन्धुक्षिता क्षणं मौनेन धैर्यम्
आलम्ब्य पुनः कथयितुम् आरेभे ॥

तदानीम् एव मूर्च्छितां ललिताम् आलक्ष्य – हा
मत्-प्राण-प्रदीप-राजिनीराजित-चरिते प्रिय-सखि ललिते! हत-भाग्याहं त्वया
निराशा कृतास्मि । हा भगवन्! भक्त-वत्सल! भास्कर-देव! रक्ष रक्ष । हा
सन्ततम्
आपुलिन्द-सकल-गोकुल-जनावनार्थ-कलित-निर्विकल्प-महा-सङ्कल्प-गोकुल-सुद्
हानिधे झटिति निज-सुधामय-कराभिमर्षणेन
मद्-विध-जीवित-कोकिल-कुल-जीवातु-ललिता-नामाद्भुत-पीयूष-रसाल-वल्लीं
जीविताम् आचार्य किलैतत्-पणेनैव सङ्क्रीय दासी क्रित्यताम् इयं तपस्विनी राधिकेति
विलप्य साश्रु-धारं वेगेन ताम् आलिङ्गितुम् आगच्छन्ती राधिका
रसमय-सात्त्विक-महा-स्तम्भ-सन्तति-सहचर्या सुष्ठु परिष्वज्य रक्षितासीत् ।

इत्य् अवकलनात् त्रासेन सान्तःकम्पं रङ्गणवल्ली-तुलसीभ्यां तत्-सविधम्
उपलब्धं ततो रङ्नणवल्ल्या वाम-भुजया तत्-पृष्ठम् अवष्टभ्य
दक्षिण-करेण मृदु मृदु मृज्यमाना हा नाथ रक्ष रक्ष इति साश्रु-प्रवाहं
स-गद्गद-भाषितेन तुलस्या तु नव-मृदुल-तमाल-पल्लव-कुल-व्यजनेनातिजवेन
बीज्यमाना बाह्यम् उपालभ्य सुस्थाम् इव ललिताम् आलोकयन्ती सानन्दा बभूव ।

ललिता – हुं ? तां तदा
तदानन्दोच्छलित-सात्त्विक-भावालङ्कार-भूषित-सभ्य-गणैः सह भगवती
विचित्र-रत्न-सिंहासनोपरि समुपवेश्य
एकानंशा-सोदर-कामाख्या-श्यामल-देवता-हृद्यस्थासकाद्
आहृत-दत्त-मृगमदेन वृन्दावन-राज्य-महा-राज्ञीत्वेन
शङ्ख-घण्टा-दुन्दुभि-कोलाहल-शब्द-पूर्वकं जय-जय-शब्देन तिलकं
चकार ।

तत एतच्-छ्रवणेन सर्वासाम् आनन्द-हास-कोलाहले जाते
तच्-छ्रवणानन्द-समुत्थित-सात्त्विकाद्य्-अनुभावान् यत्नेनावृत्य किञ्चिद् विहस्य
मयोक्तं – ललिते! एतत् कथं मया न ज्ञायते एतेन किं वो राज्यम् आयातम् ?
प्रत्युत एतद् उट्टङ्कनात् स्व-मुखेनैव भवतीभिर् युष्मत्-सहितम् इदं राज्यं
ममैवेति निर्णीतम् ।

नान्दीमुखी – कथम् इव ?

ततोऽहम् – यतो वृन्दावन-पुरन्दरस्य ममैव राज्ञीत्वेन मद्-इङ्गितेनैव
भगवत्य्-अभिषिक्तेयम् ॥

विशाखा विहस्य – असङ्गत-भाषिन्! पुरन्दरस्य महिषि देव्य् एव भवति । सा
खलु शचीति प्रसिद्धा स्वर्गे वसति । इयं तु मम सखी भूमि-विहारिणी
सुभगाभिमन्योर् जाया मानुषी ।

मयोक्तं – तर्काचार्य-शिरोमणिं-मन्ये विशाखे! त्वं सुष्ठु जडासि यद् बारं
बारम् अधीतम् अपि प्रत्यक्ष-खण्डं त्वया विस्मृतम् एव ।

विशाखा – किं तद् विस्मृतम् ?

मयोक्तं – श्रूयताम् । यदि भवत्-सहचरी मत्-प्रेयसी न स्यात् तर्हि
मद्-वक्षः-स्थासकाहृत-मृगमदेन कथं भगवती तां तिलकिनीं चकार ?
कथं वा मत्-कण्ठ-माला-हार-वैजयन्तीभ्यां तत्-कण्ठम् अलञ्चकार ?

ललिता – भोः शश-शृङ्ग-धनुर्धरालीक-पुरन्दर!
प्रवर-सुभग-लेखावलि-कलित-पदारविन्दायाः
गन्धर्व-विद्याधर-गण-गीयमान-महा-वैभवायाः आत्मभुवापि
संस्तूयमान-चरितायाः विविध-काम-सम्पत्ति-दायिन्याः
नन्द्य्-आदीश्वर-गृहिण्याः कामारिपुर्-वासिन्याः विन्ध्य-वास्तव्यैकानंशाग्रजायाः
कामाख्या-नाम-श्यामल-देवतायाः महाप्रसाद-मृगमद-मालाभिर् एव सा
किल भगवत्या विभूषिता । तव कस् तत्र सम्बन्धः ?

तुङ्गविद्या – सखि ललिते! साधु सम्बोधितं यद् अयम् अलीक-पुरन्दर एव ।

विशाखा – कथम् इव ?

तुङ्गविद्या – श्रूयतां अस्मिन् माथुर-प्रदेशे याचक-द्विज-कलावदादिभिर् एव
पञ्चविंशति-कपर्र्दिका-मात्र-लब्धये देव! महाराजेत्य्-अलीक-सम्बोधनैः
क्षुद्रतरैक-ग्रामाध्यक्षोऽपि यथा प्रफुल्लितो भवति तथैव
शक्राशनाशन-दुर्गत-भण्ड-भट्टादि-वर्गैः
पलैक-परिमित-नवनीत-मात्रम् आप्तुं वृन्दावन-पुरन्दरेति
कृतासम्भवालीक-सम्बोधन-पूर्वक-स्तवाभासेनैव निसर्गागम्भीर एष
कृषीबलो बाढम् आत्मनः पुर्नदरता-मननेन
निज-जाल्मतोऽमरावती-पुरन्दरत्वम् एव प्रकटीचकार ।

ततस् तुङ्गविद्या नर्म-स्मितम् अपवार्य – भोः
पावन-सरोवर-जम्बाल-जात-जाम्बुनद-जात-सुतार-मुक्ताफलादि-विविध-रत्न्
अ-व्रात-विरचित-महा-सिंहासनोपरि सुष्ठु निविष्टस्य
सौरभ-भरोन्मादीकृतारुण-भ्रमर-कुलोच्छलित-झङ्कार-रव-निकरेणानु
गम्यमान-निर्मल-गगन-सुमनः-प्रपञ्चाविर्भावित-वर-मुकुट-बन्धाति
बन्धूरोत्तमाङ्गस्य सानन्दं शिरसि सुबलेन
धृत-परिणत-कमठ-कठोर-पृष्ठ-सुपक्ष-कृत-प्रकट-सुरभि-सुध्-क
णाभिवर्षि-प्रवराटपत्रस्य
मसृणतरकरतलोद्भुत-तनुरूह-प्रकर-रचित-चामर-द्वयेनोज्ज्वल-चतुराभ्
याम् उभय-पार्श्वयोर् आनन्देनाभिवीज्यमानस्य,
अतिसुप्रतिष्ठित-बन्ध्या-गर्भ-जात-महा-महा-सत्-पुरुष-वर्गैः
पद्म-गन्धाभिधादिवलीवर्ध-सञ्चयानां सुमधुर-पयः-प्रवाहेण
वृन्दाटवी-महेन्द्रत्वेऽभिषिक्तस्य,
परिणत-सशोत्तुङ्ग-शृङ्ग-विनिर्मित-मञ्जुल-कार्मुकालङ्कृत-वाम-कर-मुष्ट्
इकस्यास्य, तद् अवधि यशः-प्रताप-प्रकाश-लहरी ब्रह्माण्ड-भरे यादृशी
प्रसरन्ती वर्तते । ताम् अनुभवन्तीभिर् भवतीभिर् अपि साक्षान् महेन्द्रत्वं यन्
न मन्यते, तद् भवतीनाम् अनयोऽयं महान् एवेति मयि प्रभासते ।

इति निशम्य स-स्मितं नयन-कूणनेन स-स्मित-लज्जित-मन्-मुखम् आलोक्य
परस्परं चालोकयन्तीषु तासु चित्रा विहस्य - भोः कथम् असौ परिअहस्यते
भवतीभ्याम् ? सत्यम् एवायं देवेन्द्रः ।

तुङ्गविद्या - चित्रे! इति चेत् स कथम् अत्रागतः ?

चित्रा - श्रूयताम् । पर-रमणीतोऽयम् इति सर्वतः समधिगम्य क्रोधिन्या देवा
पदाघातेन निर्भर्त्स्तस् तां परम-सुखद-तन्-निज-भवनं च निर्वेदतः
परित्यज्य वनम् इदम् आगत्य परम-मञ्जुल-नवीन-गोपत्वम् इवासाद्य
पुरश्चरण-विधानेनैव वृन्दावनेश्वर्याः कर्षको भूत्वा सुखेन समयं
गमयन्न् अस्ति । तद् एनं हास्य-रस-विषयालम्बनम् अविधाय
बाटिक-रूप-प्राघुणेऽ स्मिन् स्नेह एव निकामं विधीयताम् ।

तच् छ्रुत्वा सर्वासु स्मेर-मुखीषु नान्दीमुखी विहस्य - सखि चित्रे! व्रज एव
नित्य-विहारिणि व्रजेन्द्र-नन्दने यत् किञ्चित् त्वयेदं व्याहृतम् । तस्य
शब्दार्थोत्थ-गूढाभिप्रायेण भवितव्यम् इति लक्ष्यते । ततस् तस्य
विवेचन-पूर्वक-कथनेनास्मान् बढम् आनन्दय ।

ततः स्मित्वा मुनि-व्रतम् आलम्बितवत्यां चित्रायां वृन्दा सानन्दम् आह -
नान्दीमुखि! अस्याः परम-विदग्धाया गूढाभिप्रायः स्फुटं मयैव
निर्वर्ण्यमानः सुष्ठु समाकर्ण्यताम् ।

नान्दीमुखीन् - कथम् अस्य देवेन्द्रत्वम् ? तत् प्रकटय ।

वृन्दा - दीव्यन्ति क्रीडन्तीति देवाः - विचित्र-विविध-मनोहर-केलि-विलास-शालिनः ।
तथा दीव्यन्ति विशेषेण द्योतन्ते इति देवाः ।
परमोज्ज्वल-तेजस्-तरङ्ग-हृद्याद्भुत-सौन्दर्यामृत-प्रवाह-शालिनस् तेषां
तेषाम् अपीन्द्रो महा-परिवृढ इति देवेन्द्रस् तेभ्योऽपि परमोत्कर्षेण सुष्ठु
विराजमान इत्य् अर्थः ।

नान्दीमुखी स-स्मितं - समीचीनोऽयम् अर्थो विवृतः किन्तु पर-रमणी-रत इत्य्
अस्य कोऽर्थः ?

वृन्दा - परा अन्या तथा परा विपक्षा, तथा परा परमोत्कृष्टा, परा चासौ
रमणी चेति पर-रमणी श्री-राधिका तस्यां रतः परमाशक्तस् ताम् एव
परमानुरागेण रमयन्न् इत्य् अर्थः ।

चम्पकलता स्मित्वा - वृन्दे! देव्य् अपि निरूप्यताम् ।

वृन्दा - नादेवो देवम् अर्चयेद् इति चण्डिका-परिचर्यापरत्वात् अस्य देवस्य भार्येति
वा । किं वा अमङ्गले मङ्गल-शब्दवद् इयं देवी ।

नान्दीमुखी - सेयं का ?

विशाखा - एतादृशी चन्दावल्य् एव भविष्यति ।

वृन्दा स्मित्वा मौनम् आलम्बते । सर्वाः स्मितं कुर्वन्ति । नान्दीमुखी
पदाघातेनेति धार्ष्ट्यातिशयेन तस्या अनुत्तमता स्फुटैव किन्तु
परम-सुखद-तन्-निज-भवनं वा कतरत् ?

वृन्दा - निविडत्व-पुष्पवत्त्व-भृङ्ग-गुञ्जित्वादि-राहित्वात् परम् असुखदम् । किं
वा परम-सुखं दारयतीति परम-सुखदं यत् तस्या देव्या निज-भवनं
सखीस्थली-निकट-वर्तिनं तद् अपहाय ।

नान्दीमुखी - अहो! शब्दानां गूढार्थ-विज्ञायास् तव व्याख्या-कौशलं तद्
अस्मादृशीभिर् दुरवगाहो नवीन-गोपत्वादि-पदानां गूढोऽर्थः कृपया
प्रकाश्यताम् ।
वृन्दा -
वेणु-विषाण-लगुड-निर्योग-पाश-गिरि-धातु-चित्र-नव-शिखण्ड-गुञ्जाहारारण्य्
अ-शृङ्गार-धारित्वं मञ्जुल-नवीन-गोपत्वं तत्रापि नवीन-शब्देन तस्य
प्रथमतो नित्य-नूतनता च ध्वनिता । पुरश्चरण-संविधानेनेति पुरः
सम्मुखे भृङ्ग-रणित-कुसुम-कलित-बकुल-राज-तले चरणं
प्रोद्दाम-मदोन्मत्त-गजेन्द्रवद्-विविध-विलास-समुल्लासितम् इतस् ततो भ्रमणं
तत्-पुरः-सरं यत् संविधानं
लीला-कमल-चुम्बन-कङ्केल्लि-नव-पल्लववद्-अंशेन
निस्तुल=निस्तल-दाडिमी-फल-कर-विन्यास-काञ्चन्-यूथिका-समालिङ्गन-पूर्वक
-स्मित-नव-कर्पूर-सम्मिलित-चञ्चल-नयन-कमलाञ्चलावलोकन-परमोन्माद्
अक-मधुर-माध्वीक-पायनम् । तेन
मल्लि-बकुल-चम्पक-माधवी-कनक-यूथिकादि-कुसुम-चयन-विलास-माधुर्
ई-भरम् अनुभवन्त्याः श्री-वृन्दावन-राजधानी-विलासिन्याः कर्षक आकर्षको
भूत्वा तेन ताम् उन्माद्य निज-निकटम् आकृष्येत्य् अर्थः ।

सुखेन श्लाघ्य-मधुर-मधुर-रसास्वादन-जनित-परमानन्द-सन्दोहेन
समयं सहज-सर्वदोज्जृम्भमाण-वसन्त-कालं निरन्तरं
निरुपम-विलास-माधुरीभिः सौभाग्य-लक्ष्मी-भरं गमयन् प्रापयन्न् अस्ति
तया सहानवरतम् अनिर्वचनीय-मधुर-खेला-विलास-तत्-परः सन् सदा विराजत
एवेति ।

ततोऽहं सान्तर्-आनन्दं -विशाखा-घातिनि वृन्दे मम वृन्दावनोद्यान-पालिकापि
त्वं कथम् एतासु मिलितासि ?

मधुमङ्गलः - प्रिय-वयस्य! इयम् उद्यान-पाली
स-लवण-तक्र-श्लथित-भक्त-भक्षणाय तद्-उद्यान-पालनं परित्यज्य
साम्प्रतम् आसां गृह-पाली वृत्तास्ति । तत् कथं न बुक्किष्यते ?

वृन्दा - अये भूसुराभास! कुटबटो!
निज-सहचर-प्रथम-मुदिर-वचन-जलधारा-वर्षेण प्रफुल्ल-वर्षाभूस् त्वं
सन्तत-श्रवण-कटु-शब्दं कुर्वन् सर्वान् उद्वेजयन्न् असि ।

मल्ली-भृङ्ग्यौ - देवि ललिते! स्वामिन्या यद् अन्य-पत्रेण लिखितम् अस्ति । तत् किं
विस्मृतं भवत्या ?

ललिता - किं तत् स्मार्यताम् ।

मल्ली-भृङ्ग्यौ - समुचित-कर-दाने यः कुयुक्तिम् उत्तोल्य विरोधम् आचरति सोऽत्र
बद्ध्वा शीघ्रं प्रहेय इति ।

ललिता - आं । तत्-कर-दान-विरोधी मधुमङ्गल एव । तद् एनं लता-पाशेन
दृढं निबध्य कोमलायाः प्रिय-सख्याः सविधम् आनीत्वैव
जटिलाभिमन्यु-पार्श्वे युवाभ्याम् एव सत्वरं समर्प्यताम् । यथा स
याव-ग्राम-सिंहोऽभिमन्युर् एव ताडन-पूर्वकं स्व-करं गृह्णाति ।

मधुमङ्गलः अन्तः-स-भयम् इव - वयस्य! किञ्चिन् निगूढं कार्यं मम गृहे
विद्यते । तत् सम्पाद्यागच्छन्न् अस्मि ।

ततोऽहं - धिग् ब्राह्मण! कथम् अबला-वाग्-आडम्बरेण मद्-अग्रतोऽपि बिभेषि ?

मधुमङ्गलः - महाशूर! घट्टी-पालस्य तव गोवर्धने दान-वर्तन्यां
बहुशः शौर्यं अनुभूतम् अस्ति । यत् तस्मिन् दिने एताभिर् एव
वृन्दावन-कर-निमित्तं गान्धर्वा-निदेशेन निजोत्तरीय-पटाञ्चलेन बद्धा
नीयमानम् अपि मां वीक्षमाण एव विलक्षस् त्वम् आसीः । अहम् एव
निज-भूसुरत्वं विवृत्य भाग्येन कथञ्चिद् उर्वारितोऽस्मि ।

इत्य् उक्त्वा भीतिम् अनुकृत्य पलायन्तम् इव तं करे गृहीत्वा परावर्त्य मयोक्तं -
ललिते! तादृश्याः कोमलाबलाया अपि कथम् अहं करं दास्यामि ? प्रत्युत बलात्
कामम् आदास्य एव ।

इति निशम्य नेत्र-भागेन माम् ईषद् अवलोकयन्ती राधा सुस्मिता आसीत् ।

नान्दीमुखी - चित्रे! बाटिका-प्राघुण इत्य् अस्य कस् तावद् अभिप्रायः ?

ललिता - नान्दीमुखि! तज् जानत्य् अपि कथं पृच्छसि ? यत्
सर्व-कालीन-निज-वास-ग्राम-महावनम् अपहाय वत्सर-षट्-सप्तक-मात्रम्
अत्रागतोऽस्ति ।

नान्दीमुखी - प्रिय-जन्म-भूमेस् त्यागेन किं तावत् कारणम् ?

राधा औच्चैः - तत्-स्थानस्यास्वाच्छन्द्यात् जनताधिक्येन तद्-ग्रामे नगर इव
जाते
अबला-वध-भाण्ड-स्फोटन-नव-नीत-हरणादि-विविध-विसदृश-व्यवसायाभ्
यासेन जनित-बहु-विध-विकर्माभिलाषस्यासिद्धत्वात् निर्जनेऽस्मिन् महति घने
वृन्दावने कुलाबला-कुलानां गेह-देह अधर-दशन-वसनानि
स्वाच्छन्द्येनापहर्तुम् अधिक-लालसैव ।

इत्य् एवं ललितया स्फुटं व्याहृते स-स्मितं साकूतम् आह - ललिते! साम्प्रतम् अस्य
तादृश-व्यवसायो न दृश्यते ।

राधा पुनर् अनुच्चैः - सत्यम् एव कथ्यते । यद् अयं सम्प्रति स्व-धर्म-त्यागेन
विसदृश-संस्कारेण च जनितान्यादृश-बुद्धि-कृत-चौर्यादि-दुष्कृतं ललिताचार्यया
पूर्वम् अपि विहित-निष्कृतेन निर्वास्य, निर्वेद-कृत-विवेकेन तासाम् एव कृषि-वृत्तम्
एव निज-धर्मम् आचर्य प्रकामं शस्यान्य् उत्पाद्य ताभ्यः प्रदाय तत् स्वांशम्
अपि स्वयम् आदाय ताः स्वात्मानम् अप्य् आनन्दयन् महाशुचिर् इव विराजते । इत्य् एव
स्फुटं विशाखापि स-स्मितं भाषितवती ।

ततस् तन् निशम्य सर्वेषु हास-कोलाहल-महोत्सवम् आविष्कुर्वत्सु स-कपटासूयं
मयोक्तम् - सखे सुबल! धूर्ताभिर् इमाभिर् नर्म-भङ्गी-मिषेण मम
वृन्दावन-राज्याधिकारितैव दूरीक्रियमाणास्तीति समधिगतं भवता ।
सुबलः - न केवलम् अधिकारितैव दूरीकृता किन्तु कर्षकोऽपि कृतोऽसि ।

वृन्दा - सुबल! त्वं बहु-श्रुतो विचक्षणस् तथानयोर् अपि परम-स्निग्धः । तत्
कथं नान्दीमुख्या सहानयोर्ः परम-स्निग्धयोर् अपि राज्य-हेतोर्
विवदमानयोर् उचित-न्यायावलोकनेन विरोधं न दवयसि ?

ततो भद्रं भद्रम् इति मया ललितया चोक्ते सुबलः प्राह - वयस्य! प्रथमं
तावत् कथम् आसाम् एतद् राज्यं तल् ललितैव कथयतु । पश्चाद् भवान् अपि कथं
वा भवद्-राज्यं तज् ज्ञापयतु ।

ततोऽहं - सुबल! यासां व्रज-देव-कन्यानाम् अज्ञानेनापि सङ्गम् आचर्य
जात-व्यलीकोऽहं प्रायश्चित्तेन शुद्धोऽभवं स कथं ताभिः समम् अपि पुनर्
वाकोवाकं विस्तरयामि ?

वृन्दा - महाशुद्ध! भवद्-वाग्-गन्ध-मात्रेणापि समुदित-कलुष-सञ्चया एता
अपि श्री-वृन्दावन-चक्रवर्तिन्या नूनम् अशेष-विधिना
श्यामल-विषम-शर-सरोवर-महा-तीर्थे पुनः पुनः स्नपनेन शुद्दीकृता एव
स्व-निकटम् आपिताः सन्ति तच् चीर्ण-निष्कृतयोर् उभयोः संवादे दोषो नास्ति । तल्
ललिते! भवत्य् एव कथयतु ।

ललिता - प्रथमं तावद् अस्मिन् वृन्दावन-राज्येऽस्यालीक-वादिनो धूर्तस्याधिपत्यं
तावद् दूरेऽस्तु सम्बन्ध-लेशोऽपि नास्ति ।

नान्दीमुखी - कथम् इव ?

ललिता - स्व-पैतृक-राज्ये बृहद्-वन एव कुल-क्रमागत-सन्तत-वासित्वात् ।

नान्दीमुखी - किम् अत्र प्रमाणम् ?

ललिता - भागवतादि-पुराण-वक्तृ-व्यासादि-मुनीन्द्र-वचनान्य् एव ।

सुबलः - ललिते! मध्यस्थेन मया यथार्थम् एव वक्तव्यम् । त्वन्-मुखम्
आलोक्य मिथ्या वक्तुं न शक्यते । तद् अस्य बृहद्-वन-राज्यत्वेनैव भवत्या
वृन्दावन-राज्याधिपत्यं किम् आयाति ? किन्तु तत्र चेत् महा-प्रमाणम् अस्ति, तद्
वद ।

ललिता - प्रत्यक्षं परोक्षम् अपि बहुतर-पुराण-वचन-कुलम् अस्ति । तत्रापि
प्रत्यक्ष-परोक्षयोः प्रत्यक्षम् एव बलीय इत्य् अनुसारेण प्रत्यक्षम् एव
ग्राह्यम् ।

नान्दीमुखी - किं तत् प्रत्यक्षं प्रमाणम् ?

ललिता - मया किं तद् वक्तव्यम् ? युष्माकम् अनुभूतम् एव तत् ।

नान्दीमुखी - न स्मर्यते । तत् प्रकाशय ।

ललिता - ब्रह्म-गृहिणी-सावित्री-प्रभृति-देव्य्-आदिभिर्
दुन्दुभि-वादित्रादि-कोलाहल-पूर्वकं कृतोऽत्र महा-सिंहासने योउ रत्नाभिषेकः
स च त्रिलोकी-वासिषु कस्य वा परमानन्द-प्रदायको न संवृत्तोऽस्ति ।

ततः सुबलः - ललिते! एतत् तु तावद् अन्यथात्वेन निरूप्य प्रिय-वयस्यो युष्मान् अप्य्
आत्मसात् कर्तुं विराजमानो वर्तते ।

ललिता - सुबल! एतच् चेद् भवद्-द्विपद-गोप-प्रिय-वयस्यः सत्यम् एव वक्ति तर्हि
वृन्दावन-राज्ये æभिषिक्ताया महा-सिंहासन-स्थाया इत्य् आदि तथैतस्याश्
चरणानुजीविनो ममेत्य् आदि व्याहृत्य स्वाम्य् असौ साम्प्रतम् अपि कथं तच्
चरण-परिचरण-मात्रैक-लाभाय तन्-मन्त्र-राजम् आदातुम्
आग्रहेणाध्यवस्यन्न् अस्तीत्य् आदि सर्वं किं भवादृग्भिर् विस्मृतम् ?

नान्दीमुखी स्मित्वा - ललिते! अस्य विलासिनो राज-पुत्रस्य मदन-मोदक-भोजिनो
महा-कामुकस्य यत् प्रलपितं तत् किम् अत्र प्रमाणं स्यात् ? अन्यच् चेद् गाढं
प्रमाणं स्याद् दर्शय ।

वृन्दा - यद् यत् प्रमाणम् इयं दर्शयति, तत् तद् एवास्योन्मादिनो राज-पुत्रस्य
पक्षम् आश्रित्य युवाभ्यां खण्ड्यते । अतोऽन्यत् सर्वत्र प्रसिद्धम् अपि प्रमाणं
ललितातिकोपेन नोट्टङ्कयति ।

नान्दीमुखी - वृन्दे! तत् त्वयैव तावत् कथ्यताम् ।

वृन्दा - प्रेम्ना निजासाधारण-सारूप्य-दान-पूर्वकम् इयं वृन्दाटवी
प्रिय-सख्या स्व-प्रिय-सखीत्वे नित्यं निरूपितास्तीति ।

नान्दीमुखी - कीदृशं स्वारूप्यं तत् कथ्यताम् ।

वृन्दा - श्रूयताम् -

तनोर् अस्या ज्योतिः-परिमल-चरच्-चम्पक-लता-
वली विद्युद्-वल्ली-जयि-कनक-यूथी-ततिर् अपि ।
स्वरूपं सारूप्यं परम् अगमयद् वल्लव-पुरे
मुखस्यापि प्रोद्यद्-रुचिरतर-राजीव-निवहः ॥१॥

दृशोर् ईषद् घूर्णन्-नव-कुवलयानां समुदयस्
तथा लीलास् तिर्यक्-कमन-गमनोन्मत्त-हरिणः ।
लसद्-बिम्बी-वृन्दं वर-विकच-बन्धुक-निकरोऽप्य्
असौसीधु-स्यन्दि-स्फुरिअद्-अधर-युग्मस्य सुकृती ॥२॥

भुजाया वल्लर्यश् चलन-ललिताश् चञ्चु-निचयाः
शुकानां नासायास् तिल-कुसुम-सख्या द्युति-भृतः ।
स्मितस्य प्रोन्मीलत्-कुमुद-निकरो दन्त-सुरुचेर्
अलं गन्धैर् अन्धीकृत-मधुकराः कुन्द-कलिकाः ॥३॥

भ्रुवोर् भङ्गी-भ्राम्यद्-भ्रमर-वर-पङ्क्तिः परिमिता
ललाटस्य स्फूर्जत्-सुभग-बक-पुष्पाति-सुषमा ।
अलं वेणेर् उद्यन्-मद-शिखि-शिखण्डावलिर् असौ
श्रुतेर् मुञ्जायुक्तिर् मदन-धनुषो ज्या-द्युति-मुषः ॥४॥
अलं बिल्वं तालं करकम् उदयच् चारु-कुचयोः
स्फुरद्-वक्षः-स्थल्याः कनक-कृत-सिंहासन-गणाः ।
नितम्बस्यैतस्य स्फुर्त-नव-घण्टा-रव-भृतः
स्फुटं वंश-ध्वानाञ्चित-गुरु-गिरि-स्फार-विकटाः ॥५॥

वरोरु-द्वन्द्वस्य स्मर-कलि-समर्थस्य सरस-
प्रभारम्भा-स्तम्भाः स्थल-कमल-सङ्घाश् चरणयोः ।
सदोन्माद-प्रोद्यद्-गज-गमन-शिक्षा-गुरु-गतेर्
मराली-पालीनां ललित-चलितोद्यच्-चतुरता ॥६॥

अलं भ्राजज्-जम्बू-फल-मलक-पङ्क्तेः शत-मितं
मधौ मञ्जु-ध्वानाः पिक-युव-कृताश् चारु-भणितेः ।
प्रसन्न-श्री-वक्त्र-स्फुरित-नयन-प्रान्त-नटन-
क्रमस्य स्मेरोद्यत्-सरसिज-नटत्-खञ्जन-गणः ॥७॥

स्फुरत्-प्रेम्णा नेत्राञ्जन-गलित-पानीय-विततेर्
यमी चेतो-गञ्गा-जलम् अमल-चित्तस्य सततम् ।
घन-स्वेद-स्यन्दस्य च विविध-कासार-निवहो
महारागस्योच्चै रुचि-रुचिर-गुञ्जा-फल-कुलम् ॥८॥

सपत्नी-नासानां सततम् अतितापं जनयतां
सुहृच्-छ्रेणी-नासा-प्रमदम् अनुबेलं रचयताम् ।
वपुः-सौरभ्याणां परिमिलित-सर्व-व्रज-भुवां
निकामं काश्मीर-व्रज-कमल-गर्भा वर-रुचः ॥९॥

सुमेरोः कान्तीनां मद-दमक-दृप्यल्-लव-कण-
छटाया विद्युच्-छ्री-रचित-भजनायास् तनु-रुचः ।
स्फुरद्-भूमि-भागाः कनक-निचिताः सद्म-निवहा
गुहान्तः-कुञ्जान्तर्-गिरिकुल-शिलाश् च क्वचिद् अपि ॥१०॥

ह्रदाः श्रीमन्-नाभेस् तद्-उपरि-लसल्-लोम-लहरेर्
भुजङ्गाली-काली बत वकरिपोर् वेपथू-भृतः ।
वदान्यत्वादीनां सुरतरु-गणानां रत्न-खचिताः
परं रोमाञ्चानां प्रियक-गुरु-किञ्जल्क-निकरः ॥११॥

परे ये मुक्ताः स्युः स्थिर-चर-पदार्था व्रज-भुवः
सदा स्तव्या भव्यैस् त्रिजगति निकामं जन-कुलैः ।
सद्-अङ्ग-प्रत्यङ्ग-प्रकर-सुषमायाः परम् उमा-
रति-श्री-वर्ण्यायाः परिषदि यथा युक्तम् अपि ते ॥१२॥

रमेश-स्वानन्दोच्छलित-परम-व्योम-पुरतोऽप्य्
अजस्रं विस्फूर्जद्-विपुल-सुखदैक-द्रुम-लता ।
समस्त-ब्रह्माण्डे शशिवद्-उदयत्-प्रौढ-यशसस्
ततः श्री-राधायाः प्रकटम् अटवीयं प्रिय-सखी ॥१३॥

ततोऽहं साटोपम् अवदम् -

व्रजेन्द्र-स्वाराज्ये विजयि-युवराजत्व-विधिना
समासिक्तः स्नेह-स्तिमितम् अतिमित्रादि-वलितः ।
निजाम् एतां रक्षाम्य् अटविम् इह गोचार-मिषतः
कथं स्वारूप्येणैव तु भवतु वः साम्प्रतम् इयम् ॥१४॥

तच् छ्रुत्वा वृन्दा -

सखित्वं यो यस्य व्रजति निज-सारूप्यम् अथवा
न चेत् तस्य स्यान् नो भवति परम् अन्यस्य हि तदा ।
कथं नो गृह्णासि द्रुत-गतिर् इदं हन्त कथयन्
स्वयं गत्वा लक्ष्मीं तद् इनसमरूपं गणम् अपि ॥१५॥

तन् निशम्य साट्ट-हासं मधुमङ्गलः - भो असत्य-वादिनि वृन्दे!
कुर्चिका-लोभेन निज-देवीत्वम् उत्सृज्य वन्दिनी भूत्वा,
मिथ्या-स्तव-मात्रेणैवास्मद्-वृन्दाटवीं निज-सख्यां सञ्चारयितुं कथं
शक्ष्यसि ?

नान्दीमुखी - ललिते! विज्ञ-प्राचीन-मुनीश्वर-वचनं विना कोऽपि निरस्तो न
भविष्यति तस्मात् पुराण-वचनम् एव दर्शय ।

ललिता - अस्य पक्षम् आश्रित्य तादृग्भिर् एवं चेत् कथ्यते तदा तत्र गत्वा
भगवत्याः सकाशाद् बहूनि पुराण-वचनानि श्रूयन्ताम् ।

सुबलः - भवत्य एव पठन्तु ।

ललिता - वल्लव-जातीनां तत्रापि स्त्रीणाम् अस्माकं पुराण-वचन-पाठेऽधिकार एव
नास्ति ।

सुबलः - वृन्देयं देवी । तद् इयम् एव श्रावयतु ।

वृन्दा स्मृतिम् अभिनीय - अत्र सुबहूनि वचनानि सन्ति । तानि कति पाठ्यानि किन्तु
अन्येषु देशेषु अन्याः पृथक् पृथग् देवीर् अधिकरिणीर् उक्त्वा राधा वृन्दावने
वने इति सर्वोपमर्दकं पुराण-वचनं भगवत्याः सकाशात् केन वा न श्रुतम्
अस्ति ।

ततस् तासां जयाभिमानेन प्रफुल्लताम् आलोक्य मधुमङ्गलः साटोपम् आह -
नान्दीमुखि! सर्व-पुराण-शिरसि महोपनिषदि गोपाल-तापन्यां वृन्दावनस्य
कृष्ण-वनत्वेन प्रथित-ख्यात्या वृन्दावन-राज-धानी-पुरन्दरत्वेन
प्रिय-वयस्यं ब्रह्म-भवादयोऽपि निरन्तरं गायन्तः सन्तीति के वा न जानन्ति
? ततः श्रुत्या स्मृतिर् बाध्यते इत्य् अस्माकम् एवेदं राज्यं सुसिद्धम् । तत् सखे
सुबल! विदावयाम् ऊरितः पर-राज्य-काङ्क्षिणीः ।

ततः सखे त्वम् एव मे प्रियङ्करः प्रिय-वयस्य इति सानन्दं मधुमङ्गलम्
आलिङ्गति मयि किञ्चिद् वैलक्ष्यम् इव राधाधिष्ठित-निकुञ्जम् आलोक्य
ललितादि-मुखम् आलोकयन्त्यां नान्दीमुख्यां राधा स्मित्वा अनुच्चैः - अहो
कृष्णेति शब्द-श्रवण-मात्रत एवानेन महा-दूर-दर्शिना तद्-अर्थम्
अबुद्ध्वैव पर-राज्येऽस्मिन् स्व-तातम् अर्पयता किंशुक-कुसुम-सादृश्येन
दुर्विध-बोधस्य रोलम्बस्य शुक-तुण्ड-पान-स्मरणं सुष्ठु समानीताः
स्मः ।

ततस् तस्मिन्न् एव वर्ण-विन्यासे सोल्लुण्ठं ललितयापि प्रकाशिते सति
कृष्ण-वन-शब्दस्यार्थान्तरं नूनम् एषा घटयिष्यतीति तद्-अभिप्रायं मनसि
मनाक् विचारयति मयि नान्दीमुखी सचमत्कारं मां प्राह - जयाकाङ्क्षिन्!
एकं विज्ञापयितुम् इच्छामि यदि तुभ्यं रोचते ।

ततोऽहं - कामं कथ्यताम् ।

नान्दीमुखी - श्याम-वन-समासम् आचर्य त्वया सह तत्-समासेनैव न्यायम्
आचर्य त्वां पराजित्य स्वराज्यम् आदातुं ललितेयम् अभिलषति ।

ततोऽहं - विविध-कुसुम-चन्दन-वर्णिकादिभिः शृङ्गार-रचनाचार्येयम् । तद् एव
जानाति यद् अनया तद्-वन-पुष्पैर् मुहुः शृङ्गारितोऽस्मि । तद् व्याकरणस्य केयम्
?

वृन्दा स्मित्वा - व्याकरण-विज्ञं-मन्य! त्वत्तोऽपि मत्-प्रिय-सखी ललिता
तद्-व्याकरणस्य प्रथिताचार्या ।
ललिता - पामरि वृन्दे! अपेहि अपेहि ।

वृन्दा - त्वत्-पक्षम् आश्रित्य विवदमानां मां किम् इत्य् आक्षिपसि ?

ललिता - भोः समासाचार्य-शार्दूल! कथं स्वेप्सितापर-समासेन विभीषिकां
प्रदर्श्य मत्-प्रिय-सख्याः खेलास्पद-कृष्ण-वनम् इदम् आदातुं
वृथैवाध्यवस्यसि । यतोऽत्र नित्यं वैश्वानरवज्
जाज्ज्वल्यमान-बहुव्रीहि-कर्मधारयाद्य्-अवधारणतः स्वयम् एव दूराद्
एवापसरिष्यसि । [समासाभिज्ञ कृष्ण-वन-शब्दस्य नर्म-च्छलेन
तत्-पुरुष-समासं विरचय्य पर-राज्यं ग्रहीतुं कथम् अभिलषसि । यद् अत्र
कर्मधारय-बहुव्रीहि-समासयोर् एवावकाशः ।]

ततो मयोक्तं - चतुरम्मन्ये! प्रकटेऽत्र तत्-पुरुष-समासे कथं
करमधारयादि-योजना सम्भवति । भवतु भवतु दुर्जन इति न्यायेन तद् एव
तावत् कथय श्रोतव्यम् ।

राधा अनुच्चैः - वनस्यास्य घनता-प्राचर्येण कृष्णं श्यामं च तद्-वनं चेति
कर्मधारयः स्फुत एव ।

इत्य् एवं ललितयापि स्फुटं भाषिते चम्पकलता स-श्लाघम् आह - ललिते! साधु
साधु सत्यं सत्यं यतः कर्माणि
अरिष्ट-केश्यादि-वध-कालिय-दमन-गोवर्धनोद्धरण-नित्य-रासादि-लीला
धारयति निष्पादयति प्रकाशयति वा इत्य् अस्य वनस्य कर्मधारयत्वं स्फुटम्
एव प्रसिद्धम् ।

पुनर् ललिता राधानुच्च-भाषितम् एवानुवदति - कृष्णानि क्वचिद् क्वचिद् अतिश्यामानि
वनानि यत्र तत् कृष्ण-वनम् इति वृन्दावनस्य विशेषणत्वेन बहुव्रीहिर् अपि ।

वृन्दा – सत्यं सत्यं कालिन्दी-तीर-रास-स्थल्याम् अन्धकारि-बट-वनम्, तथा
गोवर्धनोपशल्य-पर-रास-स्थल्याम् अन्धकारि-निविड-वनं सर्वानन्द-करं
सुप्रसिद्धम् एव ।

इन्दुलेखा - ललिते! सत्यं सत्यं बहवो ब्रीहयो धान्यादि-शस्यानि किं वा
केदारिका-जातत्वान् मुक्ता एव ब्रीहयः । बहवो ब्रीहयो यस्मिन् नित्यस्य वनस्य
बहुव्रीहत्वं स्फुटम् एव ।

ततः स-गर्व-गर्भितं हसन्तीषु तासु मयोक्तं -
नाना-कुट-कल्पना-नगरी-चक्रवर्तिनि ललिते! मुखम् अत्र तत्-पुरुष-समासं
कल्पित-कर्मधारय-बहुव्रीहिभ्यां कथं दवयितुं शक्यसे ।

ललिता - महा-पण्डित! तत्-पुरुषस् तत्पुरुष इति बारं बारं जल्पसि । तत्पुरुषस्
तावद् अनेक-विधो भवति । तत्र कतमोऽयं स इति सुष्ठु निर्णीय कथ्यताम् ।

मयोक्तं - जड-बुद्धिके! कृष्णस्य वनं कृष्ण-वनम् इति षष्ठी-तत्पुरुषस्
त्रिजगति सुप्रसिद्ध एव ।

राधा - कृष्णस्य वनम् इति चेत् तर्हि सखीस्थली-बट-श्रेणिर् एव पुरुष-शार्दूलस्य
तव वनम् । यतः षष्ठी-तत्पुरुषोऽपि नित्यं तत्रैव वर्तते ।

अत्र षष्ठी-समासस्य सम्भावनापि न विद्यते इत्य् एवं विहस्य ललितयाप्य् उक्ते
नान्दीमुखी - ललिते! एष ते वाग्-विन्यासो गर्भित-सन्दर्भ इति लक्ष्यते तत्
प्रकाश्य कथ्यताम् ।

ततो ललिता नेत्रान्त-नीलोत्पल-मालया माम् अकुर्वती स्मित-गर्भितम् आह -
नान्दीमुखि! षष्ठी काचिद् एका । तस्याः पुरुषः पतिर् एव जनो वा
षष्ठी-तत्पुरुषः ।

विशाखा स-स्मितं - ललिते! तत्-पुरुषो ज्ञात एव । सा तावत् का ?

ललिता - चन्द्रावली ।

विशाखा - चन्द्रावली कथं षष्ठी ?

ललिता - देवी-गण-मध्ये प्रथमः कंस-गोपो गोवर्धन-मल्लो
महा-भैरवः । द्वितीया तन्-माता भारुण्डा चण्डी, तृतीया चन्द्रावली-माता
मही-कराला चर्चिका । चतुर्थी शैव्या काली । पञ्चमी पद्मा शङ्खिनी प्रसिद्धा ।
षष्ठी सखीस्थली-बट-वासिनी चन्द्रावली षष्ठी । यतो बट-वन-वासित्वात्
तस्याः षष्ठीत्वं युक्तम् एव ।

ततः सर्वेषां हास-कोलाहल-वृत्ते अहं स्वगतं - अहो बुद्धेर् वरिष्ठता
व्रज-बालानाम्, यद् अहम् अपि वचनाटोप-विलासैर् निर्वचनीकृतोऽस्मि । प्रकाशं
स-निर्वेदम् इवाहं - नान्दीमुखि! अस्मद्-दत्त-भोग-राग-मसृण-वसनादिभिः
संवर्धिताभिर्
अस्मद्-दत्त-मुक्ता-मणि-प्रवाल-कमल-राग-मरकत-वज्रादि-खचित-विविध-
भूषण-भूषिताभिः साम्प्रतम्
अभिनव-यौवन-महाधन-गर्वेणोज्झित-गुरु-लघु-गणनोत्कराभिर्
अस्मत्-कृषक-गुज्जर-गज्जरीभिर् अप्य् एताभिर्
हेलोल्लासित-चञ्चल-नयन-प्रान्त-नर्तन-पूर्वकं
साहङ्कृति-वचनाडम्बर-विन्यास-भरेण समस्त-व्रज-साम्राज्य-सार्वभौमस्य
परमोद्दण्ड-कुमारोऽहम् अपि निरवधि-विडम्ब्यमानोऽपि केवलं
भगवती-चरण-परिजन-मुख्य-नान्दीमुखी-मुखम् आलोक्य
तथैक-ग्राम-वासेनापकीर्ति-भयेन च एतत्-कृतं प्रतीप-व्यवसितम् अपि
एतावन्तं कालं दुःखदत्वेनापि न गणितवान् अस्मि ।

साम्प्रतं मम दोषो न देयः । अधुनैव निज-निज-वक्षसि
मसृण-मेचक-पट-परिवेष्टितम् अतिविचित्रित-कार्तस्वर-सम्पूट-युग-पुटितम्
अरुण-द्वितीया-शशधर-मुद्रा-मुद्रितं स्व-स्व-परिवृढेर् अपि कदाप्य्
अनालोकित-चरं दुर्लभ-नव-तारुण्य-धनं महा-तीव्र-नख-भञैस् तथैव
निरुपम-दशन-च्छद-पद्मराग-महा-रत्नम् अपि दशनोद्धर-सामन्तैर् अपि
लुण्ठयित्वा एता वचन-धन-दरिद्रा विदधानोऽस्मि ।

इति साटोपं सहसोपसृत्य ताः सन्दिधीर्षौ मयि
कुटिल-भ्रू-नर्तन-वलित-स्मित-शवलित-कटाक्षेण मद्-अवलोकन-पूर्वकम् इतस्
ततो मनाग् अपसर्पन्तीषु सर्वासु, स-रोषम् इव ललिता - अये श्यामल
रस-पान-निरत! अपेहि अपेहि । एतां ते मत्त-तार-भटीं व्रजेश्वर्यै वर्णयितुं
वयं चलिताः स्मः ।

सत्यभामा स-चमत्कारं हसन्ती - विनोदिन्! एकं प्रष्टुम् इच्छामि ।

कृष्णः - प्रिये! विज्ञापय ।

सत्यभामा - राधा-स्वगत-लपितावलिर् एव ललितादिभिर् अपि कथम् अन्ववादि ?

कृष्णः - प्रिये! राधायाः काय-व्यूह-रूपा एव ललितादयस् तत् कथं
नाधिगमिष्यन्ति ?

सत्यभामा - सुभग! राधाया नर्मोत्तर-वर्ण-विन्यासः कथं वा
भवन्-मानस-सञ्चारी बभूव ?

मधुमङ्गल स-गद्गदं - प्रियसखि सत्ये!
परिमल-मञ्जरी-मञ्जुल-मृगमदाव् इव परस्पर-सम्पृक्तौ
गान्धर्वा-गिरिधारिणौ तत् कथं न सञ्चरत्व् इति ।

इति
तद्-वचन-निशमन-मधुर-पयः-पान-परिवर्धित-गान्धर्वा-विरहोत्कट-
कटु-गरलोद्भट-विकट-ज्वाला-जाल-जनिताभिः । पुनः पुनश्
चाल्यमान-हृदय-मर्म-निमग्नार्ध-भग्न-प्रतप्त-लौह-तिर्यग्-अवशल्योज्जृ
म्भित-यातना-भरतोऽपि महा-तीव्र-पीडावलीभिर् अभितोऽवन्त-निर्भर-कातरो
यदा बभूव तदैव तद्-अवधानतः
सञ्चरद्-अपूर्व-जाड्य-मोहोन्मादादि-प्रिय-सहचर-समुदय-सहित-सूद्दीप्तत
म-स्तम्भ-कम्पाद्य्-अष्ट-सात्त्विक-प्रिय-वयस्येषु बाढम् अहं पूर्वकं अहं
पूर्वक-क्षेलन-विधिना नर्मोच्छलित-परस्पर-विजयाय प्रगाढ-प्रागल्भ्यम्
उपलभ्य युगपत् त्वरितम् उपर्य् उपरि तम् आलिङ्गितुं सर्वतः सरभसम्
आरभमानेषु - रे रे विदग्ध-शिरोमणिं-मन्याः! खेलन-समयम् उत्तमं
लब्धाः स्थ इत्य् उपालभ्य श्रीमत्-प्रेमानिर्वचनीय-परिणाम-विशेष-स्वरूपेण
निरवद्य-हृद्य-सौहृद्याचिन्त्य-महिम-महौषध-रसाति-वशीकृत-सप्रिय-पर्
इजन-गण-कृष्णैक-सर्वस्व-रूपेण
समस्तातर्क्य-महा-महा-प्रभाव-बहुविध-लीलादि-शक्त्य्-अपण-चिन्ता-रत्नादि
-रत्न-विञ्छोलीक-मङ्गलाकरेण
निरुपम-विविध-वैदग्ध्य-चातुर्य-समयादि-विज्ञत्व-सुगन्ध-कुसुमोत्करान्
इर्भरारामेण श्री-श्री-रस-नाम-प्राण-प्रियतम-नर्म-सखेन
स-भ्रू-भङ्गं नयन-घूर्णन-लीलया विहित-प्रतिषेधात् स्वयम् अपि च पश्चाद्
अवधाय । भो भोः! अनाय्यम् अनाय्यम् इति रसज्ञां दशनैः सन्दश्य लघु लघु
स-सङ्कोचं स्व-पृष्टेन दूरम् अपसरत्सु तेषु - ततोऽस्फुट-बहिर्-विकार-निकरः
सम्भृत-हृत्-कम्पातिशयः स श्री-श्रीमान् यादवेन्द्रः स्वगतम् इदं विललाप -
हा मत्-प्राण-कपोत-वास-बडभि-प्रेम-स्फुरन्-माधुरी-धारापार-सरिद्-वरे!
गुण-कला-नर्म-प्रहेलीखने! हा मन्-नेत्र-चकोर-पोषक-विब्धु-ज्योत्स्ना-तते
राधिके! हा हा मद्-दुरितेन केन निधिवत् प्राप्ता करात् त्वं च्युता ?

ततः सत्यभामा - यादवेन्द्र! श्रीमन्-मुखारविन्दाद्
गोकुल-विलास-माधुरी-मकरन्दं धयन्त्या अपि मम पिपासा परम् उल्लालसीति ।
तत्-कृपया तद् एव पुनः पायय ।

कृष्णः - प्रिये श्रूयताम् ।

ततो मधुमङ्गलेनोक्तं - सखि ललिते! प्रिय-सखस्याहम्
अलङ्घ्य-वाक्य-सचिवोऽस्मि । तद् अपूर्वं कम् अप्य् उत्कोचं मह्यं देहि । मया
मौक्तिक-मूल्येन वः साचिव्यं विधास्यते ।

विशाखा - आर्य! किम् अप्य् अत्र नास्ति । सायं स-क्रोशनार्थं तुभ्यं
वराटिका-चतुष्टयम् अवश्यं देयम् । यदि प्रतीतिर् न क्रियते त्वया नान्दीमुखी
प्रतिभूर् गृह्यताम् ।

मधुमङ्गलः स-क्रोधं - अवद्य-भाषिणि आभीरिके! तिष्ठ तिष्ठ । एषोऽहं
सद्य एव तवैतत् प्रायश्चित्तं कारयन्न् असि इति निगद्य मां प्रत्युवाच -
प्रिय-वयस्य! भवन्-मृदुल-वचन-द्रुत-घृत-धारया
संवर्धित-गर्व-वैश्वानराभिर् अमूभिः सुष्ठु भवन्तम् उपालभ्य माम् अपि
बद्धा नेतुं व्यवसीयते ।

ततोऽहं - सखे! सत्यं सत्यं यथा विना राजधानी-जयेन तद्-देशाः सुष्ठु वशा
न भवन्ति । तथैतद् यूथेशा पराभवम् अन्तरेण तदीयाः कथम् अमूर् अमूका
न भवन्तु । इति निगद्य राधा-सनाथं कुञ्जं पश्यन् स-निर्वेदं पुनर् अवदं -
किं कर्तव्यं सा किलैतद् भयेनैव मत्-सान्निध्यं नासादितवती इति निशम्य
द्रुतम् उद्ग्रीविकावलोकनात् सङ्कुचन्ती राधा कुञ्ज-मध्ये निविष्टः बभूव ।

सत्यभामा - ततस् ततः ?

कृष्णः - ततोऽहं - नान्दीमुखि! ललितादीनां तारुण्य-धनाद् अपि तस्यास्
तारुण्य-धनं प्रचुरतरम् अमूल्यम् अपीति ज्ञायताम् ।

नान्दीमुखी - कथम् इव ?

मयोक्तं - यत आसां तावत् सम्पूट-द्वय-परिमितं तत् तस्यास् तु
महा-मतङ्गज-कुम्भतोऽपि निस्तलत्वेनोन्नतत्वेन परिणाहेन च प्रवीणतरे
हृन्-मध्यस्थे गोकुल-प्रसिद्ध-तस्कर-भीत्येव मृगमद-पङ्कादि-लेपेन
वर्णान्तरम् आपिते हिरण्मय-कुम्भ-युगले परिपूर्णं तत् ।

नान्दीमुखी - मोहन! अतिसुगुप्तम् एतद् धनं कदापि भवद्-दृष्ट-चरं
वृत्तम् अस्ति ।

ततोऽहं स-स्मितं - नान्दीमुखि! विद्युच्-चमत्कृतिम् इव सकृद् ईक्षितम् अस्ति ।

नान्दीमुखी - कदा ?

मयोक्तं - एकस्मिन्न् अवसरे निज-सरोवर-स्नानाद् उत्तीर्य निज-मधुराङ्गतश्
चीनांशुकेन रहसि तया निःसार्यमाणे पयसि सुमनोहरणाय दैवात्
तत्रैवागतेन मया मनाग् एवावलोकितं तत् ततः सा सभयम् इव सहसैव
श्यामल-शाटिकाञ्चलेनावृतवती । सम्प्रति मद्-भाग्य-वशाद् यदि कुत्रापि
यौवन-धन-गर्विता सास्मद्-राज्याभिलाषिणी मच्-चक्षुषोर् अपरोक्षीभवेत् तदा
नख-दशन-भट-सामन्तान् अन्तरेणापि छाया-द्वितीयेन मया
कर-कमल-युगेनैव तत्-कुम्भ-द्वयम् आलोड्य तारुण्य-धनान्य आत्म-सात्कृत्य
साध्वस-लब्ध-कम्प-पुलकायां तस्यां यूथ-नाथायां निर्वचनी-कृतायां
तद्-अमात्य-घटेयं महा-वैकुल्येन स्व-स्व-तारुण्य-धनं गृहीत्वा पलायितुम्
अपि सुष्ठु-स्थानम् अपि नाप्स्यति किं वा तद्-धन-समर्पण-पूर्वकं
शुद्ध-भावेन माम् एव परिचरिष्यति । तद् अतिक्षुद्राभिर् आभिः
स्व-महिमोन्नाह-ग्लानि-कारिणा वाकोवाकेन किम् ?

ततः किञ्चित् स्मित्वा नान्दीमुखीं प्रति राधा अनुच्चैः प्राह - अयि
चपल-ब्रह्मचारिणि! अपेहि अपेहि ।

विशाखा - अहो उड्डीय चलितुम् अशक्यस्य बिम्बीमात्रैक-भोजिनो बुभुक्षितस्य
लोलुभ-शुकस्य मनसि दुर्लभ-मधुर-द्राक्षा-भक्षणम् एतत् ।

मधुमङ्गलः - प्रिय-वयस्य! मद्-अभीष्ट-पारितोषिकं देहि ध्रुवम्
अधुनैव भवद्-राज्याभिलाषिणीं राधां तां भवत्-कर-गतां विधास्ये ।
ततोऽहम् - सायं मिष्टान्न-भोजनं दास्ये ।

मधुमङ्गलः - माथुर-राज-पार्श्वे फुत्कृत्य तद्-अश्वारूढानां शतम् आनीय
पृष्ठ-देशे चर्म-रज्ज्वा कफोणि-द्वय-बन्ध-पूर्वकं कशाभिस् तत्-पतिर्
अभिमन्युस् तथा ताडयितव्यः यथा स एव ताम् आनीय ददाति ।

ततः सर्वे स्मययन्ति स्म ।

ललिता - विशाखे! कम् अपि महाभागम् उद्दिश्य यत् किञ्चिन् निवेदयामि तत् शृणु ।

विशाखा - कथ्यताम् ।

ततः कदम्ब-भूरुहाग्रम् अभिवीक्ष्य ललिता - भो वृन्दावन-चर-तपस्वि-वर!
त्वं तावत् फलाहारी ख्यातस् तत्-स्व-मर्याधाम् उल्लङ्घ्य
भवद्-अयोग्य-परम-दुर्लभ-साध्वी-हृदयङ्गम-महा-धने लालसाम्
उद्वहन् कथं कलुषितो भवन्न् असि ?

विशाखा - ललिते! बुभुक्षितोऽयं तपस्वी फलम् अनालभ्य एतद् अयोग्यम् अपि कर्तुं
प्रवृत्तोऽस्ति । तद् उत्तम-फलम् अस्मै समुद्दिश्यताम् । तथापि धर्म-वृद्धिर्
भविष्यति ।

ललिता स्मितम् अपवर्य - विशाखे! किम् असौ मानस-जाह्नवीं न जानाति ?

विशाखा - सर्वत्र भ्रमण-शीलोऽयम् अतिप्रसिद्धां तां कथं न ज्ञास्यति ?

ललिता - तद् वायव्य-तीरे सर्वतश्-चला काचिद् अपूर्व-पद्मा स्फुटम् एका वल्लरी
वर्तते । तस्या मध्य-भागे परम-मनोहरं अह्रस्वं तुम्बी-फल-द्वन्द्वं
तथाग्रे च अक्षीणम् अकटु-बिम्बीफल-युगलम् अस्ति । (१९९)

विशाखा - गोस्वामिन्! त्वरितम् एव तत्र गत्वा
त्व-योग्य-तद्-अनुत्तम-फलोपभोगेन साध्वी-धन-लोभम् अपहाय स्व-धर्मं
पालयता भवता परम-सुखिना भूयताम् ।

ततः सर्वासु हसन्तीषु मयोक्तं - ललिते! तपस्य-सावयाचित-वृत्तिः कर-पात्री
भक्षणे निषिद्धं तुम्बीफलं नोपभुङ्क्ते । किन्तु अत्रैव
निर्भर-निज-प्रद्योत-भरेण या दृश्यमानापि न दृश्यते । तस्याः काञ्चनवल्ल्याः
क्रोडे मधुर-रस-मय-श्री-फल-द्वन्द्वं यद् विद्योतते तत् स्वयम् एव
सैवागत्य प्रणय-पूर्वकं मधुर-वचनेनैनं निमन्त्र्यास्य करो यदि
परिवेशयति, तदा तद्-उपभोगेन सुखी भवन्न् असौ तथाशिषयति यथा
तत्-फलोन्नतिर् महती स्यात् ।

ततस् तन् निशम्य राधा अनुच्चैः - नर्म-लम्पटोऽयं धूर्तः । शङ्के
वैदग्ध्येनात्रत्यां मद्-अवस्थितिम् अवधार्य माम् एव कदर्थयितुम् इमां
वचन-भङ्गीं वितनोति । तद् इतः कुञ्जान्तरम् आसाद्य स्व-गोपनम् एव नूनम्
उचितम् ।

इति मनसि भावयन्त्यां तस्यां पुनर् मयोक्तं - प्रिय-सखि ललिते! अयं
वृन्दावन-चारी महा-विनोदी क्षुण्ण-यूथेशां त्वां पट्ट-राज्ञीं विधाय त्वया
सहैक-सिंहास उपविश्य विशाखा-प्रभृति-वृन्दावन-चरीणां लास्य-विलासम्
आलोकयित्य्म् अभिलषति तद् आज्ञाप्यताम् एता नृत्यन्तु ।

ललिता स-क्रोधं - नान्दीमुखि! अस्मन्-मुक्ता-केदारिका-कर-परिवर्तनेन किम्
अस्य विदूषकस्य नर्म-धनम् एव दापयितुं वयम् अत्र व्याघोट्यानीताः स्मः
? तद् एतां नर्मादि-गति-क्रियाम् अपहाय यथासौ सुबलेन सह यथार्थं लेखम्
आचर्य केदारिका-करं ददाति तथा विधायास्मान् द्रुतं गृहाय प्रस्थापय ।

नान्दीमुखी - भवतीनां कियान् करः सम्मतः स्यात् तत् तावत् कथय ।

ललिता - श्यामाकादि-क्षेत्र-करतो धान्यस्याधिकः करो लगति । ततोऽपि कार्पासस्य ।
ततोऽपि वास्तु-भूमेः प्रचुरतरः । अपूर्वामूल्य-मुक्ता-केदारस्य ततोऽपि
परार्ध-गुणः । तद्-अलौकिक-मुक्ता-केदारिकाम् इमां
धर्म-शास्त्रोक्त-वृन्दावन-राज्य-विहितालौकिक-मान-दण्डेन परिमाय लेखं
विधाय च सुबल एव कथयतु ।

नान्दीमुखी - कियत् प्रमाणं स खलु मान-दण्डः ?

ललिता - मया कथ्यमानः स खलु केन प्रतीयतां । तद् एतत् क्षेत्र-पालिकया
सर्व-शास्त्राभिज्ञया वृन्दयैव स निरूपयितव्यः ।

नान्दीमुखी - भद्रं वृन्दे! मध्यस्थया त्वयैव मुक्ता-मान-दण्डः कृत्वा
दीयताम् ।

वृन्दा देवी -
वास्तु-धान्यादि-कङ्क्वादि-कार्पास-मौक्तिक-क्षमाः ।
मीयन्तेऽङ्गुष्ठम् आरभ्य क्रमाद् अङ्गुलि-पञ्चकैः ॥ इति ।
अन्यत्र च -
अपूर्व-मुक्ता-क्षेत्राणाम् अनर्घ्य-करतो बुधैः ।
अनामिकाङ्गुलि-प्रायो मान-दण्डः प्रकीर्तितः ॥ इति ।

नान्दीमुखी - क्षुर-प्रमात्र-खानित-भूमेर्
अनायासेनैवानर्घ-शस्योत्पादकत्वात् कनिष्ठैव ।

नान्दीमुखी - ललिते! यद्य् अपि तद् एव युक्तं भवति तथापि
व्रजेन्द्र-कुमार-मुखम् आलोक्य भगवती-परिचारिकां मां च दृष्ट्वा
अनामिकैव स्थाप्यताम् ।

ललिता - वृन्दे! त्वं तावल् लेख-क्रियायां मान-विषये च निपुण्यासि तत् सर्वाभिः
सम्भूय गत्वा नान्दीमुखी-सुबल-सम्मति-पूर्वकं केदारिकां
परिमीयागम्यताम् ।
नान्दीमुखी - क्षुण्ण-यूथेश्वरि! एकं प्रार्थयितुम् इच्छामि ।

ललिता - कामं कथ्यतां योग्यं चेत् कर्तव्यम् ।

नान्दीमुखी - अयं तावत् स्व-देशं विहायात्रागतो नवीन-प्राघुनः तत्रापि
वृन्दावन-राज्ञीम् आश्रितोऽस्ति इहापि बह्व्-आयासेनोज्जट-भूमिं कृष्ट्वा वः
प्रकाम-धन-लाभं वर्धयन्न् अस्ति । तस्मान् माने कृते भवतीनां
भोग-रागादि-व्ययेन बहु-हान्या पुनः कृषि-करणो विमनस्क इव भविष्यति ।
कृतेऽपि माने करं दातुम् अपि न शक्यते । अतो मान-करणं विहाय निज-भागम्
आदाय तत्-समुचितांशम् अपि प्रदायास्य प्रकामम् उत्साहं विवर्धयन्तु
भवत्यः ।

वृन्दा - कीदृशं स भागः ?

नान्दीमुखी - त्वया किं न ज्ञायते ? यद् अस्य परमोज्ज्वल-क्षेत्रस्य समान एव
द्वयोर् भागः । तथायं पर-ग्रामाद् आगत्य कृषि-वृत्तिं कुर्वन्न् आस्ते ।

रङ्गणमाला अनुच्चैः - असौ पर-ग्राम-वासी भौमिको न स्यात् । साम्प्रतं
एतस्मिन् वने वासम् आचर्य श्री-वृन्दावनेशाकृषिम् आचरन्न् अस्ति । तद् अस्य षष्ठो
भाग एव प्राप्तव्यो भवति । कथं समानं लभताम् ?

विशाखा - अयि मुग्धे! भाग-निर्णय-चालनया किम् अस्माकं यतो मान-पूर्वकं
सर्वदा कर-दानं कर्तुम् एव महा-राज्ञीनाम् आज्ञा-लेखः समागतोऽस्ति तत्
कथम् अस्माभिः स्वातन्त्र्येणैवं कर्तुं शक्यते ?

ततो ललिता-विशाखयोर् मुखम् अवलोक्य स्व-कर्णावतंसं नान्दीमुख्यै
नेत्र-कूणनेन वृन्दा दर्शितवती । ततोऽल्पं स्मित्वा नान्दीमुखी किञ्चिद् उपसृत्य
वृन्दया सह उत्कोच-दान-कथन्-मुद्राभिनयेन तयोर् ईषद् इङ्गितम्
एवाधिगम्य मद्-अन्तिकम् आगत्य सानुच्च-भाषं - मोहन! वृन्दावन-राज्ञ्याः
सर्वाध्यक्ष-सचिवे खलु ललिता-विशाखे । तद् अनयोः परमोत्तमम् उत्कोचं कम्
अपि देहि । तदैव तवाभिमतम् एव द्रुतं सम्पादयितव्यम् एताभ्याम् ।

तदाहं सानन्दं - सखि नान्दीमुखि! यथा अन्या न जानन्ति तथा इमे एव
निर्जन-कुञ्जे मत्-समीपम् आनीयेतां यथा एतद् अभीष्टम् उत्कोचं दत्त्वा
प्रीणयामि ।

नान्दीमुखी - सुन्दर! एताः खल्व् अनयोर् अभिन्ना एव तद् असङ्कोचं प्रकटम्
अत्रैव देहि ।

ततोऽहं - स्वाभिमतार्थ-लाभेन विना पूर्वम् एव कथं दातव्यम् । यदि मय्य्
अप्रतीतिः स्यात् तर्हि त्वय्य् एव स्थापयामि ।

नान्दीमुखी स-शिरश्-चालनं - नहि नहि ।

ततोऽहं - आं ब्रह्मचारिण्यास् तु विषय-स्पर्शे कालूष्यम् इति चेत् तदा
मत्-प्रतीति-पात्र्यां साध्वी-प्रवरायां रङ्गणमालिकायाम् एव तद् अर्पयामि ।

नान्दीमुखी - रसिक-शेखर! प्रथमं तावत् श्रावय किं वा कियद् वा
दातव्यम् । तेन तावतैव वानयोः सन्तोषो भवेन् न वेति निर्धारयामः ।

तदा मयोक्तं - भवतु । श्रूयताम् । वृन्दावन-राजस्य मम वन-पालनम्
अपहाय धन-लोभेन मद्-राज्ञीं राधिकाम् अनुसृतेयं वृन्दा । तत् प्रथमम्
उत्कोच-दानेन कायस्थाम् एनाम् आत्मनो वशां विदधामि ।

नान्दीमुखी - भद्रम् एतत् ।

ततोऽहं - चरम-शर्वर्यां परमाकल्प-कल्पनाचार्यया गाढानुराग-विह्वलया
गान्धर्व्या येन मद्-वक्षो-गगनम् आकल्पितं तेनैव
निरवद्यार्ध-चन्द्र-पदक-राजेन स्व-हस्तेनैनां भूषयामि । ततः कौस्तुभाद्
अप्य् अधिक-देदीप्यमानेनातुल-तत्-सहोदर-मच्-चुम्बक-मणिना यद्
गान्धर्वया प्रगुण-परस्पर-प्रणयोद्धुर-केलि-कौतुकेन बकुल-राज-तले
परिवर्तितं अपूर्व-रस-समुद्र-संलोडनात्
समुद्भूत-घनीभूत-तत्-सारांश-रूपं मन्-मणितोऽप्य् अनर्घ्यं
स्व-चुम्बक-महा-रत्नं तत्-तद्-अद्वैत-दयितम् अपि ललितायै दास्यामि ।
यथास्फुटम् असौ तेन स्व-कर्णाभ्यर्णम् अलङ्करोमि ।

ततः पुनः पुनर् विशाखा-वदनम् ईषद् अवलोक्याहं स-स्मितम् अवदम् -
अनुक्षण-परमानुराग-भरेण स्व-कराभ्यां सुष्ठु विरचय्य
स्व-कुण्ड-कुडङ्गाङ्गने एतत् प्रिय-सखी गान्धर्वा सुवैदग्ध्येन यी᳡अं
मह्यम् अर्पितवती । तयैव विचित्राङ्क-मालया मद्-धृदयाकाश-विशाखां
विशाखाम् अप्य् अलङ्कृत्य परितोषयामि ।

तच् छ्रुत्वा - अलीक-राजेन्द्र! तिष्ठ तिष्ठेति व्याहरन्ती राधा मनसैव
लीला-कमलेन तां ताडयति स्म ।

ललिता - पद्माधर-रसाहिफेनाशन-प्रमत्त! अपेहि अपेहि!

विशाखा - आर्य विदूषक-प्रवर मधुमङ्गल! भवद्-वयस्यः किं भवतोऽपि
गुरुः किं वा तस्य भवान् गुरुर् इत्य् अवगन्तुं सर्वाः समभिलषन्ति ।

ललिता - विशाखे! श्रूयताम् । कपट-नाटकस्य यः कुसुमशर-नामा नटस् तस्य
सुप्रसिद्धो यः शुचि-नामा विदूषकस् तेनायं धूर्तः शिष्यत्वेन
कृपयानुगृहीतोऽस्ति । मधुमङ्गलस् तु
भिन्न-सम्प्रदायि-भोजन-लम्पट-नाम्नो विदूषकाचार्यस्य प्रथीयान् शिष्यः ।

विशाखा - ललिते! तद् एनं ब्राह्मणं मिष्टान्नं भोजयितुम् इच्छामि ।

ललिता - विशाखे! असौ कर्म-सूचकः परमानुचानो महा-ब्राह्मणः । तत् कथम्
अस्माकं ब्राह्मणेतर-गोप-जातीनां राद्धम् अन्नम् अश्नातु ।

विशाखा - परमोत्तम-द्विजाभ्यां मल्ली-भृङ्गाभ्यां स्व-हस्तेनान्नं संस्कृत्य
परमादरेण यथासौ भोज्यते तथैव सम्पादनीयम् ।

ततस् तच् छ्रुत्वा क्रोधेन कम्पमान इव मधुमङ्गलः प्राह - अये
अवद्यवादिनि गर्विताभीरिके! एतद्
दुःश्रवण-नर्मोत्कट-कटु-लवण-दिग्ध-दग्धार्ध-पर्युषित-वाग्-गोधूम्
अ-रोटिकाः सम्भोज्य मम मधुर-कर्णाव् एव सुष्ठु कटूकृतौ, किं पुनर्
मुख-विवरम् । तद् विदूषक-गोप-वधूनां युष्माकं छाया-निकट-भूमिम्
अपि कदापि न स्पृशामि । किन्तु प्रातर् एवास्मज्-जाति-याज्ञिक-वधू-वर्गम्
उपसर्पिष्यामि । ततस् तेन परमादरेण मच्-चरण-क्षालन-पूर्वकं
कौशेय-दुकूले परिधाप्य
सकर्पूर-वासितोपलापानक-मधुर-परमान्न-ससैन्धवार्द्रक-लिम्पाक-ना
ना-विध-व्यञ्जन-वेष्टित-सघृत-सुगन्धि-शाल्यन्न-फानित-शष्कुली-कुण्डलिक्
आ-लड्डुक-घनावर्तित-दुग्ध-रसाला-सशर्कर-बद्ध-दधि-विविध-बटकोत्त
म-मरीचादिभिस् तथाहं भोजयिष्ये । यथा वर्त्मनि सुच्छाय-तरु-मूलेषु
स्वपन् स्व-गृहम् आगत्य सङ्गवावधि स्वपन्न् एव तिष्ठामि ।

ततस् तच्-छ्रवणेन हास-कोलाहले वृत्ते मयोक्तं - नान्दीमुखि! क्षुद्र-गामिनैर्
एव स्व-स्व-ग्राम-सीमार्थं मध्यस्थम् आलम्ब्य न्यायः क्रियते । राजानस् तु
राज्यं स्व-दोर्दण्ड-बलेनैव लभन्ते । तद् एतद्-राज्य-हेतोर् न्यायेन किम् ? मया
सहैताः समरम् आचरन्तु । तत्र यस्य जयो भवेत् तस्यैव राज्यं स्फुटं
सेत्स्यति ।

इत्य् उक्त्वा तद्-अर्थम् इव साटोपं किञ्चिद् उपसर्पति मयि तासु च इतस् ततः
स-भय-सहेलनम् अपसर्पन्तीषु नान्दीमुखी - वीर! सम्प्रत्य् अस्मत्-समक्षम्
एतासाम् उज्ज्वल-कुल-विलसित-बल्लव-वधूनां धर्षणम् एतद् भवतः परम्
असाम्प्रतम् एव ।

इत्य् अवधारयन्न् आराद् एव तिष्ठेति माम् आभाष्य ललितां प्रत्य् उवाच - ललिते ।
साम्प्रतम् अस्य वन-वीरस्य निर्जन-वनेऽस्मिन् प्रगल्भता-महती भवतीनां तु
शिरीष-कुसुम-मृदुलानि शरीराणि, तद् देश-काल-बलादिकं वीक्ष्य विवादं त्यज ।

तच् छ्रुत्वा चन्द्रमुखी - भो मुग्धाः! नान्दीमुखी सत्यं कथयति । तच्
छृणुध्वम् । वयम् अबलाः कोमलाङ्ग्यः । अयं तु निर्जन-वन-पुरुषोऽतिचपलः ।
यस्या दर्शनाद् एवायं साध्वसेन विह्वलो भवति । साप्य् अस्मच्-चक्रवर्तिनी
नान्तिक-वर्तिनी । सुदुर्मुखाभिमन्यु-प्रभृति-वाहिनी-पतयोऽपि सम्प्रत्य्
एतद्-वृत्तानभिज्ञा दूरे वर्तन्ते । तद्-भयानक-देशेऽस्मिन्न् आत्म-मध्ये द्वन्द्वे
पतिते सर्वतः सर्वे लुण्टाक-दुष्ट-गमकाः समुत्थाय समस्त-मौक्तिकानि
विलुण्ठ्य नेष्यन्ति । तदास्माकम् एव महती हानिर् भविष्यति । अस्य तु षष्ठाम्श
एव ततोऽल्प-हानिः । तद् यदि सर्वाभ्यो रोचते तर्हि वयं सौम्या इव भवत्यः
सम्प्रति राज्य-वार्ताम् अपहाय समुचिताद् अप्य् अधिक-मूल्येन मौक्तिकान्य् आदाय
अस्य चिल्लातकस्य स्पर्श-मात्रेणैव जनिष्यमाण-दुष्कीर्ति-भराद् आत्मानम् अपि
संरक्ष्य स्व-गृहम् आसादयामः । पश्चाद् एतद्-वृत्तान्त-श्रवणाद् एव
वृन्दावन-महाराज्ञी तन्-मुक्ता-प्रदानेन द्रुतम् एव गुरु-प्रभृतीन् सन्तोष्य
महारागेणातिवेगेन स्वयम् अत्रागत्य दूरत एव कटकाटोपम् अवष्टभ्य स्वयं
समरम् अकुर्वाणा चञ्चल-नयनाञ्चल-प्रवणया
नीत-तीक्ष्णाधार-विषम-शरास्त्र-संवर्धित-भ्रूकुटि-धनुर्धर-सुमुख-
कञ्ज-भीषणाभिमन्यु-प्रभृति-वाहिनी-पति-द्वारैव तथा विग्रह-भङ्गीम्
आटोपयिष्यति । यथायं वन-मध्य एव वीरम्मन्यस् त्वरितम् एव साध्वसेन
कम्पमानः सन्
बृंहित-हाहेति-कमल-राग-मणि-प्रकर-खचित-चारु-चाटु-चिन्ता-रन-निकर-र
चित-मञ्जुल-मालां निज-कण्ठाद् उत्तार्योपढौकितीकृत्य तच्-चरण-परिसरं
शरणम् उपगच्छन्न् एतत्-समुदित-गद्गद-गदित-खर-द्युति-लवेन
तत्-काल-द्रुत-चित्त-नवनीतया तया कारुण्येन प्रसादी-कृतेनैव
तद्-यावकारुण-मणि-द्रवेणाभिनव-शिखण्डावतंसं शोणम् इव रचयन्न्
एतद्-राज्यं तद्-उत्पन्न-निखिल-मौक्तिकादिकम् अपि समर्प्य स्वयम् अपि ताम्
एवानुचरिष्यति ।

तच्-छ्रवणेन सानन्दोल्लास-सस्मितं राधा-कुञ्जं तिर्यग् अवलोकयति मयि
नान्दीमुखी स्मित्वा - गोकुल-प्रवीर! त्वद्-अनुरूप-विषम-शर-समर-प्रवीणया
वृन्दावन-चक्रवर्तिन्या समम् एव भवत्-समर-परिपाटी परं शोभते । एताः
पुनर् अतीव कोमलास् तद्-अभ्यर्णम् अन्तरेण त्वया सह तादृश-विग्रह-विलासं
कथम् आचरन्तु तद् अलीक-विरोधं परित्यज्य साम्प्रतम् अन्यासाम् अपि मौक्तिकम्
अमूल्यं निर्णीयतां पश्चाद् भगवत्य् एव राज्य-न्यायं विचारयिष्यति ।

ततस् तासां साकूत-वचनम् अवधार्यैव गर्वित-गोप्यो जिता जिता इति वदन् स्व-मुखे
वाम-मुष्टिं भेरीकृत्य वादयन् मधुमङ्गलः सानन्दं भाण्डवम् आतनोति ।

वृन्दा - भो नट-प्रवर मधुमङ्गल! अस्मच्-चक्रवर्तिन्याम् अत्रायातायाम् अपि
तद्-आह्लादनार्थम् आत्म-प्रिय-सखस्य हाहेति-ढक्का-वाद्येन शिक्षा-वैशिष्ट्येन
षट्-पदो भवन् उड्डीयोड्डीय भ्रमरिकाम् आददानः स्फुटम् इतो रङ्गाद् अस्माद्
अधिकम् उद्दण्डः ताण्डवयन्न् अनेन द्विपद-गोपेन सार्धं सुगहनं
नन्दीश्वर-गोष्ठम् आप्स्यसि । तदानीं तद्-अवलोकनाद् वयम् अपि
चक्षुः-साफल्यम् उत्स्फारयिष्यामः ।

ततोऽहं विहस्य - नान्दीमुखि! सेयं चन्द्रमुखी सामञ्जस्य-रता ललितादिवद्
द्वन्द्व-पातिनी न भवति । अतो विना मूल्येनाप्य् अस्यै सन्तुष्टेन मया मौक्तिकानि
देयानि । किन्त्व् इयं मन्त्र-विदां मूर्धन्या ततः श्वः परश्वो वा परम-शुचिः
सती रहः स्थानम् आगत्य स्नानादिना परम-शुचये
कान्तदर्पाभिधाचार्य-निरुक्त-मन्त्र-पटलं मह्यम् उपदिशतु । यथेह
वृन्दावने गोपेनैव मया सुराधिका-श्री-द्रुतम् एव लभ्यते ।

ततश् चन्द्रमुखी कुटिलं माम् अवलोकयन्त्य् आह - अहो माम् अपि हितोपदेशिनीं
कृतानभिज्ञस् त्वं कदर्थयितुम् उद्यतोऽसि ? नाहं तव मन्त्राभिज्ञा
तन्-मन्त्र-चतुरा काञ्चन-लतैर् आचार्या क्रियतां भवता ।

ततोऽहं - काञ्चनलते! भवद्-वैदग्ध्यावलोकनेन मन्-मनो-भ्रमरस् त्वयि
प्रकामम् अनुरज्यन्न् अतीवोत्कण्ठते तत्-परम-सुन्दरताराधिका
भवद्-उपकण्ठ-वर्तिनी मञ्जुलतरैकावलिर् एका सस्मितम् आलोकयन्तीनाम् आसां
समक्षम् एव परमोत्कण्ठिते मद्-उरसि स्नेह-भरेण स्वयम् एव त्वया यद्य्
अधीयते तर्हि मूल्यम् अन्तरेणापि भवद्-अभीष्ट-मौक्तिकान्य् अवश्यं
वितरिष्यामि । अपि च मत्-परिष्वङ्ग-ललित-रत्न-हार-त्रयेण
भवत्-कण्ठ-मध्य-नाभि-प्रदेशानलं प्रसाधयिष्यामीति ताम् अनुसरति मयि
सा मां तिर्यग्-अवलोकयन्ती हुं कुर्वती किञ्चिच् अपससार । राधा च सस्मितं
कुर्वती आत्मनि शङ्काम् आधाय सम्भ्रमम् अवाप ।

ततो विशाखा तर्जन्य्-अङ्गुष्ठ-छोटिकया नान्दीमुखीम् अभिमुखीकृत्य
नेत्र-कूणनेन रङ्गणमालिका-तुलसिके दर्शितवती ।

नान्दीमुखी विहस्य - मोहन! इमे राधिका-प्रिय-चरण-तत्-परे तद्-अतीव-प्रिये
रङ्गणमालिका-तुलसिके तां विना-क्षणम् अपि कुत्राप्य् अवस्थातुं न शक्नुवतस् तद्
अनयोर् मुक्ता-मूल्यं निर्णीय तूर्णम् एते तद्-अन्तिके प्रस्थापय ।

ततोऽहं सान्तरानन्दं विहस्य - नान्दीमुखि! तुलस्या
अदृष्टचर-चञ्चल-नयनाञ्चलावलोक-लव-मरिक्च-क्षोद-मिश्रित-सुस्मित-नव-
घनसार-लव-परिमिलिताश्रुत-चर-नव-नव-भाषित-मकरन्द-पायनेन
विह्वलीकृतम् इव मां स्नेह-विह्वला रङ्गणमालिका मद्-उरसि
निज-कुच-कुट्मलाभ्याम् अवष्टभ्य मज्-जीवातु-रूप-स्वाधर-पीयूष-पायनेन
द्रुतं सन्धुक्षयत्व् इति ।

ततः सर्वासु हसन्तीष्व् अवनत-मुख्यौ ते विशाखा-पृष्ठ-लग्ने बभूवतुः ।

नान्दीमुखी - मुक्ताफल-वाणिज्य-विलासिन्! यूथेशयोर् अपि राधा-विशाखयोर्
मौक्तिक-मूल्य-निर्णये यन् मनो न धत्से । तत्र किं कारणम् ?

ततोऽहं - सा यूथेशा मत्-सविधम् आगत्य चेत् स्वयं निर्णयति । तदैव
निर्णयनीयम् । तद्-अगोचरे केन निर्णीयताम् ?

नान्दीमुखी - वीर! मूल्यं तावत् प्रकाशय । यथा तच्-छ्रवणेन
तन्-मूल्य-द्रव्याणां समाहृतिस् तया क्रियते ।

मयोक्तं - राधा-विशाखयोर् अद्वैताद् द्वयोर् अपि मद्-अतीव-प्रिययोर् यत् किञ्चिन्
मूल्यं कथ्यते तच् छ्रूयताम् ।
मत्-पृष्ठ-मञ्जुलतर-तमाल-संवलित-मसृणतर-
दक्षिण-सव्य-भुजा-स्वर्ण-लतयोर् गान्धर्विका-विशाखयोर्
ललित-नतांस-निहित-विलासोल्लसित-परिमिलित-सुप्रचण्ड-दोर्-दण्ड-युगलस्य
सुरभि-कुसुम-कुल-परिवासित-वन-विहार-माधुरीम् अनुसृतस्य परस्परम्
अविषम-निरुपम-प्रेम-कलापावलोकन-कौतुकेन मम गण्ड-रङ्ग-स्थले
तन्-मधुर-वदन-सुधाकर-प्रवीण-नट-प्रवरौ युगपत् पृथग् वा मृदु
मृदु ताण्डवं समुल्लासयन्तौ मद्-आनन्द-कन्दं कन्दलयताम् ।

किं च, राधा-कुण्ड-तटी-कुडुङ्ग-भवनाङ्गने
भ्रमद्-भ्रमर-झङ्कृति-परिमिलित-सुरभि-कुसुम-वृन्द-स्यन्दमान-मकर्
अन्द-मञ्जुल-बकुल-तलामल-कनक-वेदिकायां
मञ्जुल-मल्लि-कुसुम-दल-कुल-कल्पित-प्रशस्त-सुकुमार-तल्पोपरि स्वर्ण-
यूथिका-कुसुम-कृत-चन्द्रोपधाने वाम-कफोणिम् अवष्टभ्य
सङ्कुचित-जानु-द्वयं सुखोपविष्टस्य मन्-मनो-मधुपाश्रयवासन्त्या
विशाखया स्वर्ण-सम्पुट-स्थित-कुङ्कुम-रसं किञ्चित् श्लथम् इवालोकयन्त्या
स्व-सख्य-प्रणय-मधून्मादेन निस्तल-निज-वक्षोज-युगलाद्
आकृष्ट-दर-कठिनीभूत-सुरभि-कुङ्कुम-पङ्क-मिलनाद् ईषद् घनीकृत्य तेन
मृदु मृदु रूषिते मम पुलकित-वक्षसि मत्-प्राण-पञ्जर-शारिका राधिका
कदाचित् स्वस्य कदाचित् विशाखायाः कुच-सम्पुट-विकृष्ट-नव-मृगमद-द्रवेण
सरोमाञ्चं चम्पक-कलिकाग्रेण वल्लरि-मकराङ्कुर-पत्राणि
प्रगुणाकल्प-कल्पनया कल्पयन्ती
निर्भर-परस्परासमानोर्ध्व-सौहार्द-सौरभ्य-भरेण
चमत्कृति-वलित-मद्-देह-मनो-वाक्यानि परं परिवासयत्व् इति ।

अतो राधा-विशाखे स-स्नेहं युगपत् सुपुलक-परस्पर-चातु-रक्षिक-वीक्षणेन
लज्जिते बभूवतुः ।

विशाखा - ललिते! लम्पटता-नाट्ये तल्-लम्पट-नटाभ्याम्
असम्भव-मनोरथ-नाम-नाटकस्य विधीयमानाभिनय-वीक्षणाय
निर्जन-वन-रङ्गेऽस्मिन् यथार्थ-नाम्नी नान्दीमुखीयं
मौक्तिक-प्रदान-निमित्तक-वितथा-वाक्-प्रस्तुत्यास्मान् सभासदः कर्तुं
संरक्ष्य प्रकारेण विडम्बयितुम् उद्युक्तास्ति । तद् अत्र रङ्गे यस्या रङ्गो विद्यते
सा किल कुलवती साध्वी स्फुटम् अस्य चतुःषष्ठी-कला-विदग्धस्य नटस्य
लास्यम् अत्रोपविश्य पश्यन्ती भद्रेण कुल-द्वयम् उत्कीर्तयतु अहं तु गृहं
गच्छामि ।

ततो नान्दीमुखी -सखि विशाखे! अस्य नर्म-कर्मठ-शीलस्य दुर्लीलस्य
वचन-विलास-मात्रेणैव कथं निर्विद्य खिद्यसे ? क्षणं तिष्ठ । निःसन्देहम्
अधुनैव मुक्ता दापयिष्यन्त्य् अस्मि इति ताम् आभास्य निवर्त्य च मत्-सविधम्
आसाद्य मां प्राह - दुर्लील गोप-युवराज! भवद्-विसदृश-नर्मालाप-श्रवणेन
विशाखादयो मद्-उपरि शश्वत् खिद्यन्ते । तत् कृपया सम्प्रति
नर्म-कर्म-पञ्जिका-प्रपञ्चं संरक्ष्य क्रय-विक्रय-पञ्जिकाम् उद्घाट्य
द्रविणादि-मूल्येन मुक्ताः प्रदाय ध्रुवम् अमूर्
भवत्-स्निग्ध-गान्धर्वा-चमूस् त्वरितम् अनुरञ्जय ।

ततोऽहं - नान्दीमुखि! यद्यपि राधा मयि काठिन्यम् एव सन्ततम् आतनोति,
तथापि सहज-स्निग्धस्य मम मनस् तु तन्-नाम-मात्र-श्रवणाद् एव नाङ्गम्
एव समस्तं द्रुतम् अनुसन्धत्ते तदानु तत्-सहचरीषु काठिन्येन किम् ? ततो
दिन-द्वयाभ्यन्तरे यावन् निर्णीत-मूल्यम् उपस्थापयन्ति । तावद् एव
तत्-सुवर्णालङ्कारणादि-रौप्यादि-रसादि-प्रिय-गवादिकं धनं मयि स्थाप्यतया
मयि संरक्ष्य एतद्-अनुरूप-कियन्-मौक्तिकानि गृह्णन्तु ।

इत्य् आभाष्य पुनः क्षणं मौनेन विमृश्याह - नान्दीमुखि!
सन्तत-दयित-गोचारण-लीलया वने वने भ्रमता मयैतत् सर्वं कुत्र
रक्षितव्यम् । प्रतीति-पात्रम् अपि कोऽपि न दृश्यते । रक्षिते च पर-रमणी-द्रव्ये
लज्जापकीर्तितो महद् भयं लभ्यते । तत् सत्यम् उच्यते प्रस्तुत-मूल्यं विना एतत्
किम् अपि न सम्पद्यत एव ।

नान्दीमुखी - मोहन! एतद् अपूर्व-मूल्यं कुत्रापि न दृष्टं न वा श्रुतम् अस्ति ।

ततोऽहं - विदग्धे नान्दीमुखि! ईदृशम् एतद् भूमि-जातापूर्व-मौक्तिकं त्वया
ब्रह्माण्डे कुत्रापि दृष्टचरं श्रुतचरं वा अस्ति ? तद्-अपूर्व-पदार्थस्य
मूल्यम् अप्य् अपूर्वम् । तत्रापि न वयं मुक्ता-व्यापारिणः किन्तु केवलं
भगवती-पादानाम् आदेशेन भवद्-आग्रहेण चात्र प्रवर्तिताः स्मः । तस्माच् चेद्
इच्छा स्यात् तर्हि मिथो निर्धारित-मूल्यं प्रस्तुतं दत्त्वा परम-चतुरा एता
मौक्तिकानि गृह्णन्तु । नो चेद् गृहं गच्छन्तु । पश्य मध्याह्न-प्रायो दिवसो
जातस् तद् वयम् अपि गोधन-सम्भालनाय गोवर्धनं गच्छामः ।

ततो नान्दीमुखी सनिर्वेदम् इव ललितान्तिकम् उपेत्य अनुच्चैः - सखि ललिते! सखि
विशाखे! भोः सर्वाः प्रियसख्यः!

ततः अद्भुत-तपस्विनि! तिष्ठ तिष्ठ इति नान्दीमुखीम् आक्षिप्य मां प्रति ललिता
स्मित्वा - धीर-ललित युवराज!

ततः परमानन्द-सन्दोहेन मया विचित्य विचित्य परमोत्तम-मौक्तिक-सङ्चयैः
स्व-हस्तेन विचित्र-शिल्प-कल्पनया राधाङ्ग-प्रत्यङ्गाभरणानि विरचय्य
सुवर्ण-सम्पुटे निधाय तन्-नाम-मुद्रया चिह्नितीकृत्य
ललिता-विशाखादि-सखी-मण्डलीनां च भूषणानि तथैव निर्माय पृथक् पृथक्
सम्पुटे न्यस्य तत्-तन्-नाम-मुद्रया चिह्नितीकृत्य तथैवाग्रथितान्य् अप्य्
उत्तम-मौक्तिकानि बहूनि च नान्दीमुख्या सह
मधुमङ्गल-सुबल-तत्-कालागतोज्ज्वल-वसन्त-कोकिलादि-हस्तेन
राधा-कुण्ड-निकुञ्ज-मन्दिरे प्रहितानि ।

राधया स्मित-ललित-ललिता-विशाखादि-सखीभिः समं स्मित-शवलित-हर्षेणादाय
सादर-मधुर-प्रचुरतर-पक्वान्न-ताम्बूल-वीटिकाभिर् मधुमङ्गलं
प्रणय-रूप-गन्ध-चन्दनैर् वर-ताम्बूलैश् च सुबलादिकं च सन्तोष्य
तद्-धस्तेन
स्व-हस्त-सम्पादित-सुरभि-सुकुमारारुण-कुसुम-विचित्रित-काञ्चन-यूथिका-म्
आल्य-कर्पूर-वासित-ताम्बूलोपढौकनेन निर्भरम् आनन्दितोऽहं
प्रणयाधिक्येन तन्-माल्य-भूषितस् तत्-ताम्बूलम् उपयुञ्जानः सखीभिः सह
गोसम्भालनाय गोवर्धनम् आगतः ।

ततश् च स्वर्ण-सम्पुटं समुध्घाट्य ललिता तद्-अलङ्करणेन सानन्दम्
आनन्दितां राधां प्रसाधयामास ।

तद् अनु ललिता-विशाखादयः सख्योऽपि परस्परं तत्-तत्-सम्पुटाभरणेनात्मानं
भूषयामासुः । ततस् ताः स्व-स्व-गृहे गत्वा
तत्-प्रचुरतराद्भुत-मौक्तिक-प्रदानेन स्व-स्व-पतिं स्व-स्व-गुरूंश् च परं
सन्तोष्य पुनर् गान्धर्वा-सरस्-तीर-गान्धर्वा-स्थानीम् अवाप्य मिथो
मन्-मधुर-मधुर-नर्म-वार्ता-विनोदेन सुखं विजह्रुः ।

सत्या - गोकुल-विलासाराम-मत्त-कोकिल! ततस् ततः ?

कृष्णः - प्रिये! श्रुतं श्रोतव्यम् । तद् अलं तद्-अति-वार्तयेति ब्रुवन्न् एव
तन्-मधुर-रहस्य-केलि-वृत्तान्तोद्घाटन-वैकुल्यातिशयेनाधैर्यं -

मत्-कण्ठस्य सुवर्ण-बन्धुर-मणि-व्रातोल्लसन्-मालिका
मच्-छब्द-ग्रहयोर् अलं परिलसत्-स्वर्णावतंस-द्वयी ।
मत्-कायस्य सुगन्धि-कुङ्कुम-लसच्-चर्चा परा सा कदा
हाहा यास्यति दृक्-पथं मम पुनः पुण्यैर् अगण्यैर् इह ॥

इति क्षणं मौनम् आलम्ब्य पुनः सौत्सुक्यं -

मद्-वक्षः-स्थल-चम्पकावलिर् इयं मन्-नेत्र-पद्म-द्वयी
सौधासिक्तिर् इयं मद्-एक-विलसत्-सर्वाङ्ग-लक्ष्मीर् इयम् ।
मत्-प्राणोरु-विहङ्ग-वल्लरिर् इयं मत्-कामित-श्रीर् इयं
मज्-जीवातुर् इयं मया पुनर् अहो हा हा कदा लप्स्यते ॥

इति विलपन् साश्रु-धारस् तल्-लीला-स्मरण-विह्वलं भूमौ निपत्य स-शब्दं
रुदन्तं मधुमङ्गलम् आलिङ्ग्य तद् अनु - प्राण-वल्लभे! त्वम् एव जीवातु-रूपा
राधासीति स-कम्पं स-गद्गदं लपन् तां सत्यां परिष्वज्य मुहुर् मुहुर्
दीर्घम् उष्णं च उच्चैर् निशसन्न् आसीत् ।

सत्यभामा च - सम्भ्रमेण साश्रु-रोमाञ्चा निज-शाटिकाञ्चलेन तं वीजयन्ती
तूष्णीम् आसीत् ।

इत्य् अखिल-वृत्तान्तं पौर्णमासी-शिष्या समञ्जसा-मुखाद् आकर्ण्य सरोमाञ्चं
सकौतुकं सव्यथं लक्ष्मणा प्राह - सखि समञ्जसे! ततस् ततः ?

समञ्जसा – ततः प्रथमम् अतिसम्भ्रमेण क्षणं तूष्णीं स्थित्वा तद् अनु -
प्राणनाथ! निखिल-व्रज-जनैक-जीवन! जय जय धैर्यम् अवलम्बस्व धैर्यम्
अवलम्बस्व । समाश्वासीहि समाश्वासीहीति वैयग्र्य-विशङ्कट-ध्वनिं
भाषमाणया मुहुर् मुहुर् विजनेन मृदु मृदु मधुराङ्ग-मार्जनेन
गोकुल-गमनार्थ-प्रार्थनादिभिर् एव निज-जीवित-नाथं शनैः शनैः
सन्धुक्षितीकृत्य निजानन्त-सुख-सुधा-सिन्धून् निजानन्त-प्राण-परस्पराम् अपि
तृणवद् ध्रुवम् अनपेक्ष्य सदा
चिकीर्षित-निज-परमाभीष्ट-तत्-सुखाभास-लव-लेशया
तच्-चरण-पङ्कजैक-गत्या सत्यया तदानीम् एव सखी-द्वारा
तत्रानीत-श्रीमद्-उद्धव-मन्त्रि-राज-सन्निरूपिते समागामिनि परश्वोऽहनि
मधुर-दध्यन्नादि-भोजनानन्तरं
गुरु-दिन-सित-दशमी-धनिष्ठाभ-शुभ-योग-सम्भावित-विविध-गुणाभिरा
जिताभिजिन्-नाम-सन्-मुहूर्त-वरे सर्वतो नैर्विघ्न्येन झटिति
समस्त-प्रशस्त-शस्तोत्पादन-पुरःसर-गोकुल-पुर-प्रवेश-सम्पादयित्रीं
परम-मङ्गल-कुलोज्ज्वलित-यात्रां विधाय सविनय-निर्बन्धेन
पूज्य-चरण-श्रीमद्-अग्रज-महानुभावं गोकुल-गमनार्थम् अत्युत्कण्ठितयम्
अपि द्वारका-पुराभिभावनार्थम् अभिसंरक्ष्य तत्रभवती
श्री-भगवती-पाद-पद्मान् पुरो निधाय सार्धम् उद्धव-रोहिणीश्वरीभ्यां
सकल-मङ्गलालिङ्गितो मधुमङ्गलालङ्कृतः श्री-श्रीमद्-व्रज-नव-युवराजस्
तत्-क्षणाद् एव द्रुतम् इतश् चलित्वा श्रीमता नन्दीघोष-रथेन
श्री-गोकुलोपशल्यम् आसाद्य
प्रमद-सम्भृत-चिन्ताभिलषित-निजाभिलषित-निजाभीर-शृङ्गार-निकरेणाति-भ्र्
आजमानः सन् श्रीमति निज-व्रज-पुरे शुभ-प्रवेशम् अवश्यं करिष्यतीति
सुदृढं सर्व-सम्मत्या निर्णीतम् अस्तीति
तत्-परिवेशित-मधुर-समाचार-सुधासारम् आनन्दासार-सम्प्लुता
श्रवण-चषकैः समाचम्य
परम-सौभाग्यवती-शिरोमणि-मञ्जरी-सत्यभामासमकक्ष-पट्ट-महिषी
सकल-सल्लक्षण-गुण-लक्षोज्ज्वलित-लक्ष्मणा सौत्सुक्यं साललाप – सखि
समञ्जसे! एतन्-मधुर-रस-वार्ताश्रवणाद् अतीव उत्कण्ठिताहं
श्री-यादवेन्द्रेण सार्धं गोष्ठेन्द्र-गोष्ठम् अवाप्य
राधा-सख्य-पुष्प-सौरभ्येनात्मानं वासयितुम् अभिलषामि ।

समञ्जसा - सखि तथैव सर्वथा भवतु भवत्या इति ।

आददानस् तृणं दन्तैर् इदं याचे पुनः पुनः ।
श्रीमद्-रूप-पदाम्भोज-धूलिः स्यां जन्म-जन्मनि ॥१॥

यस्याज्ञा-सुधया प्रबोधित-धिया मुक्ता-चरित्रैर् मया
गुच्छः पुष्प-भरैर् व्यधायि य इह श्री-रूप-संशिक्षया ।
जीवाख्यस्य मद्-एक-जीवित-तनोस् तस्यैव दृक्-षट्पदी
घ्राणैस् तं परिभूषितं न तनुतां तत्-केलि-शीधूत्क-धीः ॥२॥

मुक्ता-चरित्र-पुष्पौघैर् गुच्छं गुम्फितम् अद्भुतम् ।
वतंसतु मत्-स्नेहात् श्रीमद्-रूप-गणो रहः ॥३॥

यस्य सङ्ग-बलतोऽद्भुता मया
मौक्तिकोत्तम-कथा प्रचारिता ।
तस्य कृष्ण-कवि-भूपतेर् व्रजे
सङ्गतिर् भवतु मे भवे भवे ॥४॥