))="" ग्द्२म्द्-ह्त्म्ल्="" अलेर्त्-="" errorस्-="" ०;="" warningस्-="" १;="" alerts:="" ०।<="" p="">
- Sएए तोप् चोम्मेन्त् ब्लोच्क् फ़ोर् देतैल्स् ओन् ERRORस् अन्द् WARNINGस्।
- Iन् थे चोन्वेर्तेद् Mअर्क्दोwन् ओर् HTML, सेअर्छ् फ़ोर् इन्लिने अलेर्त्स् थत् स्तर्त् wइथ् ))> ग्द्२म्द्-ह्त्म्ल् अलेर्त्- फ़ोर् स्पेचिफ़िच् इन्स्तन्चेस् थत् नेएद् चोर्रेच्तिओन्।
Lइन्क्स् तो अलेर्त् मेस्सगेस्-
))="" please="" छेच्क्="" अन्द्="" चोर्रेच्त्="" अलेर्त्="" इस्सुएस्="" देलेते="" थिस्="" मेस्सगे="" थे="" इन्लिने="" अलेर्त्स्।
श्री-श्री-गोपाल-चम्पूः
उत्तर-चम्पूः
(१)
अथ प्रथमं पूरणम्
श्री-श्री-राधा-कृष्णाभ्यां नमः
मङ्गलाचरणम्
श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥१॥
सम्पूर्णासीद् आशु गोपाल-चम्पूर् एषां यस्माद् आश्रयाद् एव पूर्वा । एष तस्माद् उत्तराप्य् उत्तरा स्याद् एवं देवं तं कमन्यं भजेम ॥२॥ [स्वागता]
[१] अथानुपूर्व्या पूर्व-कथानुकथनीया । [२] अस्ति किल कलित-निखिल-वृन्दावनं वृन्दावनं नाम वनम् । [३] यत्र ज्योतिश्चक्रम् इव व्योम्नि, धर्म इव धर्मिणि, तत्त्व-निर्णय इव वेदे, शुखम् इवाभीप्सित-लाभे, रस इव विभावादि-वर्गे, षड्गुण्यम् इवात्मनि, स्वयम् इव स्व-प्रेमणि, नारायण इव पर-व्योम्नि, शर्वेषाम् आश्र्यः स च कृष्णः स-तृष्णग् जनानुभवनीयतया निजां निजाश्रयणीयताम् उरीकरोति।
[४] यत्र चान्तर्धान-विद्यया विद्यमानम् अस्मद्-आदीनाम् आलोकम् अतीतं धाम गोलोक-नाम समामनन्ति । यत्र च गोलोके सकल-चिन्तामणीयमान-चिन्ता-लेशः केशवः सर्वानन्द-भासिनां तद्-वासिनां प्रेम-नाम-पञ्चम-पुमर्थ-सम्पत्-पर्युदञ्चन-प्रपञ्च-सञ्चय-व्यसनम् अमुञ्चंस् तद्-वशत एव यथायथं पुत्रादितया विलसन् न कुत्रापि व्यभिचरति ।
[५] तादृशात् तस्माद् एव च निष्क्रम्य रम्यतया तैः समम् असमं प्रकाशमानः स खलु खल-नाशनस् तद् इदं जगद् अपि कदाचित् प्रमदयति, दिव्य-नृत्य-नायक इव नेपथ्य-स्थानाद् अथ तद्वत् तत्र प्रविशति च ।
[६] तद् एवं स्थिते वाञ्छित-सदन्त-वक्र-दन्त-दन्तवक्र-संयद्-उदन्ततः परतः पुनस् तेषां वक्ष्यमाण-प्रमाण-लक्ष्यतया तत्-प्रदेश-प्रवेशः स यदा बभूव, तदा कदाचिद् अनवद्य-हरि-भक्ति-विद्या-विशारद-सर्व-मनोरथ-पारद-श्री-नारद-कृपा-कूपार-तरङ्ग-लब्ध-तत् प्रसङ्ग-सारौ मधुकण्ठ-स्निग्धकण्ठाभिद-सूत-प्रभव-नव-कुमारौ श्रीमद्-व्रज-महेन्द्र-तत्-कुमारादिभिर् विराजमानं तद् एव सदनम् आसदताम् ।
[७] तदा च तद्-आचरित-नियोगं परि तद्-एक-वृत्तितया तन्त्री-नियन्त्रित-गीत-यन्त्र-तुल्यौ परम-कुल्यौ परस्परं कथकतां कथङ्कथिकताम् अपि मुहुः सम्प्रथय्य सर्व-शर्म-शीलां श्री-कृष्णस्य व्रज-लीलां कथायाम् उन्मीलयामासतुः ।
[८] तत्र च तस्य पितृ-पैतामहं वृत्तं पूर्वं तौ वृत्तं कुर्वन्तौ तच्-चरित-भव्य-मय-नव्य-काव्यस्यापि तद् इवाचरितवन्तौ जन्म-वृत्तेन च जन्म-वृत्तम् इव।
[९] समनन्तरं च यद् विचित्रं तस्य चरित्रं सक्रमतया समवर्णयताम् ।
[१०] तच् चेत्थम् उत्तर-कथा-प्रथनार्थम् अनुस्मर्यते । अहो! येन खलु पूतना पूतनारी बभूव, शकटः स कटवल्-लघुतया पतनम् अवाप, तृणावर्तस् तृणावर्तवद् विघटिताङ्गतां गतवान्, अर्जुन-युगलं चार्जुनवत् कृतम् अनुग्रहं जग्राह । तत्र वत्सकस् तद् वत्सकः, बकस् तु बक एव । [११] व्योमश् च व्योमवद् एव भवितुं युक्तः ।
[१२] आस्ताम् अपीदम्, तद् इदं तु तत्रातिचित्रं, यदहो! अघोऽप्य् अनघ आसीत्, कालियश् च मुक्त-कञ्चुक इव जीवन्न् एव निर्मुक्ततयाभिधीयत इति ।
[१३] तद् एवम् अपि परम-वीर्य-शाली शालीनता-वशंवदतया निज-ज्यायसि यशः संवलयन् धेनुक-प्रलम्बौ तत्-प्रतापानल-ज्वालायां लम्बमानौ यच् चकार, तेन लब्ध-मधुराचारता-प्रचारश् चायं नश् चेतसि विकार-सारम् आसादयति ।
[१४] अहो! निज-जनेषु सौहृद्य-हृद्यतां तस्य पश्य, यः खलु तानवन् दव-हुताशनम् अपि निजाशनम् आचचार ।
[१५] वर्ष-गणनया पौगण्डोऽप्य् अविकलाङ्गतया वाम-भुजं गिरि-च्छत्रं परि प्रचण्डं दण्डं चकार । हंहो! तस्य बहल-कुतूहलताम् अपि कलय, योऽयं कुदर्शनतां प्राप्तम् अपि सुदर्शनं सुदर्शनम् एव निर्मितवान् । शङ्खचूड-नाम्नः खल्व् अस्य मनि-चूडता न युक्ता स्याद् इतीव यक्षतया वित्तस्य यक्ष-वित्तस्य तस्य शङ्ख-मात्रावशेषतया चूडामणिम् अपजहार, अरिष्टं रिष्टं चकार, केशिनः प्रत्ययम् आकृष्य तद्-अर्थेन चात्मनि कृतार्थतां प्रकृष्य केशवतां निर्देशयामास।
किं च—
या जन्म-श्रीर् अजनि गदिता या च कौमार-शोभा या पौगण्ड-द्युतिर् अघ-रिपोर् या च कैशोर-लक्ष्मीः । एका सा सा हृदयम् अहरन् नस् तदा द्राग् इदानीं संहत्यामूस् तद् अथ बलवल्-लोभतः क्षोभयन्ति ॥३॥ पित्रोर् वात्सल्यम् आदि-स्थित-वयसि मुकुन्दस्य पौगण्ड-भावे सख्यं तेषां बहूनां किम् अपि मृग-दृशां नव्य-तारुण्य-लक्ष्म्याम् । स्मारं स्मारं मनो नश् चलति न पुरतः किन्तु तत्राथ भूयः सम्भूयास्ते गृहान्तर्-निधिम् इव वणिजः सुष्ठु दूरं प्रयातु ॥४॥ इति ।
[१६] तद् एवम् अपि तत्-तुलया तत्-पोषार्थम् उद्यमान्तरं कुर्वन्तः परामृशामः । यद्यपि तत्र तत्र मोहनता-धुर्यं तन्-माधुर्यं तौ सूत-सुतौ यथायोगं व्यञ्जितवन्तौ, तथापि न विना विप्रलम्भेण सम्भोगः पुष्टिम् अश्नुते इति-रीत्या व्रज-सतृष्णेन श्रि-कृष्णेन भक्त-दुःख-भार-निःसार-विशारदस्य श्री-नारदस्य संवादमनु तस्य यदु-निगम-गमनं पुनर् व्रजागमनं गोलोक-धाम-सङ्गमनम् अपि समासाद् वर्णितवन्तौ ।
[१७] तत् तत् सर्वं वर्ण्यमानम् अवकर्ण्य दिनान्तरे लब्धान्तरे पूर्ववद् एव पूर्वाह्ने श्री-कृष्ण-सनाथ-सभा-भासमानः श्री-व्रजनाथ-प्रधानः स-व्रज-जनस् तद्-गमनादिकस्य व्यासं ताव् एव पप्रच्छ—
यतः—
यद् अप्य् अन्तः-पीडा प्रतत-निज-दुःख-श्रवणतस् तथावद् भाता स्यात् तद् अपि मनुजास् तन् न जहाति । व्रणं शुष्की-भावं गतम् अपि निजं ते स्मृततया बलात् पीडं पीडं निविडम् अनुभूतं विदधति ॥५॥
अथवा—
चिराद् बन्धौ लब्धेऽप्य् असुखम् अभितो याति न तदा गृहीत्वा तत्-कन्ठं न यदि विलपेत् तत्-प्रियतमः । सदा शालीनस् तु स्वयम् इदम् अकुर्वन् व्रज-जनस् तथा कृष्णस् ताभ्यां सदसि कथकाभ्याम् अकथयत् ॥६॥
[१८] अथ पृष्टौ च तौ सुख-दुःख-स्पृष्टौ श्री-रामचन्द्र-सभायां कुश-लवाव् इवास्यां श्रि-कृष्णचन्द्र-सभायां प्रतुष्टुवाते । तत्र प्रथमतः स्निग्धकण्ठः समुत्कण्ठतया बभाषे ।
[१९] तत्र च मङ्गलाचरणम्—
गीर् देवीम् अनुयामः सकल-श्रुति-सार-भागवत-रूपाम् । यद्-रस-सिद्धान्ताभ्यां नवम् अपि काव्यं प्रमाणतां याति ॥७॥
[२०] अथ पूर्व-चम्पूम् अनुस्मृत्य कथा—
दिनं दिनं चैवम् अनन्दि स व्रजः कृष्णेन कृष्णः स भृशं व्रजेन च । सिताख्य-पक्षः सित-कान्तिना यथा सिताख्य-पक्षेण यथा सित-द्युतिः ॥८॥
[२१] तद् एवम् अपि—
कृष्णायासीत् तस्य तृष्णा समन्तात् तृष्णायै वा कृष्ण इत्य् अत्र भेदः । नाभूद् इत्थं पुरुषं स्व-प्रकृत्या युक्तं विज्ञास् तत्र दृष्टान्तयन्ति ॥९॥ पिपासूनां नीरं क्षुद्-उदयवताम् अन्नम् अभितः प्रतप्तानां शितं हिम-जड-हृदां तप्ति-निकरः । यथा तद्वत् कृष्णः समजनि यदा गोकुल-भुवाम् तदा वैयग्र्यं स प्रतिजन-सुखाय प्रतिगतः ॥१०॥ तातस्-तद् भ्रातृ-वर्गस्-तद् अखिल-भगिनी-भर्तृ-जामातृ-मुख्या माता मातुः पितुश् च स्वसृ-मुख-महिलास् तद्वद् अन्ये च ये ये । सऋवेषाम् एव तेषां युगपद् अपि वसन्न् अन्तरे वासयंश् च स्वान्तस् तान् वासुदेव-श्रुति-भणितम् इव व्यञ्जयामास कृष्णः ॥११॥ सुरपति-मणि-मानिताङ्ग-लक्ष्मीः शरदिज-सारस-सार-हारि-नेत्रः । निखिल-मति-गतिः कथं न स स्यात् पितृ-जननी-सुख-माधुरी-धुरीणः ॥१२॥ ध्याने कूर्मवद् ईक्षणे शकलिवद् घ्राण-ग्रहे धेनुवत् स्पर्शे पक्षिवद् अस्य पोषण-परौ शश्वद् व्रजेशाव् अमू । नित्यं नित्यम् उदञ्चद्-उत्कलिकिकाम् आशां चिराद् वर्धितां कैशोरे प्रतिपद्य सुष्ठु फलितां जाड्यं मुदा जग्मतुः ॥१३॥ सद्-भ्रातृतां स्वमनु तस्य समीक्स्य रामः फुल्लाङ्गतां प्रतिदिनं गतवान् यथा तु । शेष-प्रमाण-तनुतां तनुयाद् असौ किं दिष्ट-क्रमाद् इति जना मतिम् इष्टवन्तः ॥१४॥ मुख्यः प्राणस् तद्-विभेदाश् च यद्वत् कृष्णस् तद्वच् छ्रील-दामादयश् च । एकात्मनः शश्वद् उद्दिश्य चैकं कार्यं यत् ते यान्ति तत्-तद्-विहारम् ॥१५॥ येषां सेव्यः समजनि स हरिः सेवकानां निजानां तेषां प्राण-प्रतिकृतिर् अभवद् देह-सादृश्य-भाजाम् । साहाय्यं तं प्रति तम् अपि विना ते न तिष्ठन्ति सोऽपि न्यस्थात् तत्र स्वम् इति बुधमता तेषु दृष्टान्ततेयम् ॥१६॥
वत्स-गोष्ठ-विपिनादि चेद् भजेद् घ्राण-तर्पणम् अघारि-सौरभम् । तर्हि तत्र धवलावलिर् भवेद् द्राग् अजागर-धरा न चान्यदा ॥१७॥ श्रद्दध्यान् न जगद् यद् अस्य तु गुणैर् वन्याश् च ते प्राणिनः सन्ति द्राग् अनुगाः परस्परम् अपि प्रीणन्ति यद्-द्वेषिणः । यद्य् एवं स्वयम् एव सोऽपि भगवान् श्री-युक्त-वैयासकिः श्रीमद्-भागवताख्य-वज्र-लिपिभिर् निष्टङ्कयेन् नाग्रतः ॥१८॥ तत् तद् यद्यपि शर्म-जातम् अभवद् गोष्ठे तथाप्य् अच्युत- द्वेषाय प्रहितान् मुहुर् निज-भटात् कंसेन भीर् उत्थिता । तस्माद् अत्र न तर्हि शान्ति-रजनीत्य् उन्नीय लीलाम् इमां चित्तं धूत-भयाम् इहानवरतं निर्वक्तुम् अन्विच्छति ॥१९॥
[२१] अथ तद् दुःखं स्मरन्तं व्रजेश्वरं प्रति सान्त्वनं समापनम् आह स्म—
गोष्ठे दुःखागदङ्कारः कुलालङ्कार एष ते । सर्वां शङ्कां पुनर् धुन्वन्न् अर्वाग्-अङ्कागतस् तव ॥२०॥ इति ।
[२२] तद् एवं श्री-व्रजेश्वर-सभान्तः प्रातः-कथा कथिता । यस्यां सव्यवधान-देशे निवेशेन श्री-व्रजेश्वर्यादयः श्री-राधादयश् च प्रति-निज-कर्णम् अभ्यर्णित-वर्ण-वर्णं चक्रुः ।
[२३] अथ पूर्ववद् एकान्ते कान्ते विराजमान-श्री-कान्ते श्री-राधिका-निशान्ते निशान्तस् तत्-
कथा-शेषः संश्लेषम् अवाप ।
[२४] यत्र च स्निग्धकण्ठ उवाच—
स्वयं लक्ष्मीर् अप्य् अच्युत-हृदि गताप्य् अन्य-वपुषा तपस् तप्त्वा यं क्वाप्य् अलभत न रासादि-महसि । तम् एतं गोविन्दं वशितम् अनुविन्दन् व्रज-रमा- गणः शर्माविन्दत् कियद् इति कथं कः कथयतु? ॥२१॥ प्रसादं यं स्वप्नेऽप्य् अलभत न लक्स्मीर् अपि हरेस् तम् एतं श्री-गोप्यः समदधत रासादि-महसि । अहो यस्या भाग्यं स्पृहितम् अपि ताभिर् न कलितं किम् अस्या राधायाः कवयतु कविस् तन्-मय-सुखम्?॥२२॥ इति ।
[२५] अथ क्षणम् उष्णीभूय तुष्णीम्भूय च पुनर् आह—तथापि भ्रातर् मधुकण्ठ! तद् इदं मुक्त-कण्ठं पुनर् अनुवदितुं शक्तिर् न प्रसक्तीभवति । यतः,
कुलीनानां श्लाघ्यैर् निज-कुलज-लोकैः परिवृतिस् तथार्याणां रीतिर् यद् अपि किल तासाम् अविचला । तथाप्य् उच्चैस् तत्-तद्-विचलन-कृतिर् ध्वस्त-निखिला मुकुन्द-प्रेमार्तिर् मम हृदि विमोहं प्रथयति ॥२३॥
[२६] पुनः सास्रं श्री-राधा-मुखम् ईक्षमाण उवाच—
खरांशोर् अंशु-स्पृग्-वपुर् इव खरांशोर् मणि-ततिर् विधोः कान्ति-स्पर्शि-स्थितिर् इव विधो रत्न-विततिः । मुहुर् ज्वालां हन्त द्रवम् अपि वहन्ती तद् अभवन् मुरारेर् दिङ्-मात्राद् भ्रमयति तद् एषा मम मनः ॥२४॥
[२७] तद् एवम् एवावृत्या पुनर् अपि तत्-तद्-विषयम् उवाच, यथा—
यदा दृष्टिं यातः कथम् अपि हरिस् तासु स तदा परं स्फूर्ति-भ्रान्तिं रचयति पुरावन् न तु परम् । यदा स्पृष्टिं प्राप्तः क्वचिद् अपि तदापि प्रथमवत् तद् एतद् वैयग्र्यं मम हृदयम् उच्चैर् दलयति ॥२५॥
तद् एतद् वैयग्र्यं वृषरवि-सुतायाम् अधिगमाद् विदूरं यद् गुप्तं हसति किम् उ वा रोदिति यदा । तदा तस्या हासे स्फुरति निखिलं हृष्यतितरां तथा रोदे ग्लानिं कलयतितरां ह जगद् अपि ॥२६ ॥ यदा रासानन्द-प्रभृति-हरि-लीलाः सुवलितास् तदा गोप्यः सत्यं परम-परमं शर्म समयुः । परं यातायातं रचयद् अभितस् तद्-विरहजं महा-दुःखं तासां हृदयम् असकृन् मर्दयति नः ॥२७॥ प्रियाणां सर्वासां परम् उपरि राधां प्रणयवान् असाधारण्येन स्व-हृदि स पुरा लालयति यत् । तद् एतन् नः सर्वं सुखम् अहह हा नाथ रमणेत्य् अदः स्तोक-श्लोकः पिबति किम् अहं वच्मि करवै? ॥२८॥ इदं स्मारं स्मारं ज्वलति मम धीर् यद् व्रज-मृगी- दृशां लज्जालूनां हरिम् अनु रतिर् व्यक्तिम् अगमत् । तद् आस्तां राध्यायाः स-विधम् इव तं तत्-स्फुरण-कृत् प्रमायास् तं द्रष्टुं दृशि कुटिलता मं विदहति ॥२९॥ अन्यत् पश्यति कृष्णम् अन्य-वचने कृष्णं ब्रवीत्य् अन्य-वाक् श्रुत्यां कृष्णम् अहो शृणोति सततं या गोप-सुभ्रू-ततिः । तस्यां किं बत गोपन-प्रवलतां यद्य् अश्नुवाना स्फुटं राधाया जडता न हि प्रबलतां यायाद् अमूदृश्य् अपि ॥३०॥
[२८] अथ वल्लवी-वल्लभस्यापि तथा कथा प्रथनीया—
एका श्रीर् यद्-वशे भाति तद्-वशे सुख-सन्ततिः । श्री-कोटीर् वशयन् कृष्णस् तत्-कोटिं स्फुटम् अर्हति ॥३१॥
[२९] तथापि लीला-रस-विशेष-वशतया तदानीम् अन्यथा-प्रथयापि सन्तः समपश्यन्त, यथा—
म्लानौ म्लानिं रुचौ रोचिः प्रेयसीनाम् अनुव्रजन् । वीक्षितः सोऽयम् अन्तर्ज्ञैर् वृर्त्तीनां वृत्तिमान् इव ॥३२॥ गाम्भीर्यान् मुर-शत्रो स्फुटम् अब्धेर् इव न भाति कार्श्यादि । किन्तु तदन्वयि-जीवन- धाराणां तेन तच् च तर्क्येत ॥३३॥ यद्यपि तासां लाभे हरिणा न स्वैरिता याता । तद् अपि स्वस्मिन्न् अभिमति- मात्रे शश्वत्-कृतार्थतां मेने ॥३४॥ आस्तां व्रज-सुभ्रूणाम् अभिसृति-सङ्केत-धाम-मिलनादि । स्वैर-स्थितिर् अपि तासाम् अवकलिता कृष्णम् उन्मुदं कुरुते ॥३५॥ बलि-मुषिता निज-लक्ष्मीर् इव लब्धुं ताः सदोत्कृतां यातः । कृष्णश् चिन्तामणिवत् तासु च राधाम् अचिन्तयन् नितराम् ॥३६॥ निमेषः कल्पः स्याद् अपि नयन-पक्ष्माचल-वरस् तथा दृग्-वार्य्-अब्धिर् व्रज-वर-रमाः पश्यति हरौ । तद्-ईदृग्-भावः किं समचरद् अमूभ्यस् तम् अथवा ततोऽमूर् इत्य् एवं द्वयम् अपि न निर्णीतिम् अयते ॥३७॥ किम् एषा स्फूर्तिर् मे व्यतिमिलन-कर्त्री वनितया तया किं वा साक्षात्-कृतिर् इति विवेकाविदुर-धीः । हरिः स्वान्त-ज्वाला-वलयित-वपुः क्वापि वलवत्- प्रफुल्लाङ्गः क्वापि प्रतिमुहुर् उदग्रं भ्रमम् अगात् ॥३८॥
[३०] तद् एवं दुःख-निगीर्णं यथा-कथञ्चन यद् वर्णितम्, यच् चान्यद् इतोऽप्य् अतितरां वर्णयितुम् अभ्यर्णीक्रियते, तत् खलु सर्वायत्यां परम-सुखागत्याः प्रत्यासत्तये सम्पत्स्यते, दुर्गम-कूप-मरु-भू-भुवाम् अनूप-गमनाय दुर्ग-लङ्घनवत् ।
[३१] न च वर्णनायां तस्यै सम्पत्स्यत इत्य् एव वक्तव्यम् । पश्यत पश्यत, तद् एतद् राधा-माधव-निर्बाध-व्यतिमिलन-निर्वर्णनायां सम्प्रत्य् अपि सम्पद्यते; यत एव च यत् किञ्चित् तद् वर्णयितुं शक्यते ।
[३२] तच् च वर्णनं यथा—एवं कृष्ण-कृष्ण-प्रियाणां कृत-सम्मोहेन महा-भावाधिरोहेण समं पूर्णं कैशोरम् अपि तूर्णम् आयातम् । तत्र श्री-कृष्ण्स्य यथा—
श्री-गोपाधिप-दुग्ध-सिन्धु-जनितं सत्-कीर्ति-शुभ्रं स्फुरत्- कृष्णाभावलितं सुदीर्घ-नयन-ज्योतिर्-विधूताम्बुजम् । गोपी-नेत्र-चकोर-जीवन-रुचिं काम-प्रचाराकरं कैशोरामृत-पूर्णम् अव्यय-कलं गोविन्द-चन्द्रं भजे ॥३९॥
[३४] तासां यथा—-
वक्त्रेन्दु-स्फुट-नेत्र-कैरव-रुचिः पाण्डूभवद्गण्डभूर् वक्षो-जन्म-सहस्र-पत्र-मुकुलामन्दावलि-भ्राजिता । नव्य-स्तव्य-नितम्ब-बिम्ब-पुलिन-श्री-करिणी श्री-हरेर् आभीरी-नव-यौवन-स्थितिर् अधाज् ज्यौत्स्नीव नेत्र-प्रथाम् ॥४०॥
[३५] तद् एवम् उभयेषां नव-यौवन-सागर-परमानुराग-सुधाकरयोः परस्परं भूरि-परिपूरिता-करयोः सर्वत्र प्रचारः सञ्चरति च तस्मिन् यद् एव तासां पूर्वं कृष्ण-कर्तृक-परिणयनापनयनाय गर्गः किल व्यञ्जितं चकार, तद् एव लोकम् अस्तोक-शङ्का-सञ्जितम् आचचार ।
[३६] यदि कृष्णेन समम् आसाम् अङ्ग-सङ्गः स्यात् तद्-आर्वाग् एव सर्वम् एव गोकुलं तद्-विरहाकुलं स्याद् इति । [३७] गर्ग-वचनम् एव च मातर-पितरादिभिः कृष्णाय तासां वितरं विघ्न-निघ्नं चकार ।
[३८] यत्र च साक्षाद् योगमाया कृष्णं वरिवस्यन्ती, स्वात्मनो गोपनाय पूर्णिमा-नाम्ना तपस्यन्ती, कृच्छ्र-वश्यन्ती, गत्य्-अन्तरम् अपश्यन्ती, तासाम् अन्यत्र विवाहं मृषा-भाव-वहम् एव निर्वाहयामास । सर्वत्रानल्प-स्वप्न-कल्पनायाम् अपि प्रायतया जागर-प्रायतया प्रचारणत् । तथा तासां पत्य्-आभासाङ्ग-सङ्गमं च भङ्गम् आसादयामास । तथैव हि नासूयन् खलु कृष्णाय [भा।पु। १०.३३.३७] इत्य्-आदि-रीत्या शुकेनेव श्री-शुकेन दिग् दर्शिता ।
[३९] तद् एवं सति स च ताश् च परम-तर्ष-कृताकर्षतया प्रच्छन्नतया च परस्परं सङ्ग-महर्षम् अपि कथञ्चिद् आचितं चक्रुः ।
[४०] अथ पूर्वोक्त-रीत्या तासां सन्निहित-लोकेषु प्रतीत्या महानुरागस्य क्रमाद् अवगमाद् गुरुभिर् मनसि भावित-भावि-कृष्ण-सङ्गमाशङ्कतया वचसि तु विभावित-वधू-जन-वन-गमन-कलङ्कतया निर्मिते निरोधे मिलद्-उद्बोधे बलानुजन्मा द्वि-जन्मानं नर्म-प्रिय-सखतयानुवर्तमानं नाम्ना मधुमङ्गलतया समाम्नातं तत्-प्रसङ्ग-सङ्गतं चकार— कथं राधादीनाम् आगमन-वधा बहून्य् अहान्य् अधिकृत्य दृश्यते? इति ।
[४१] मधुमङ्गल उवाच—-पुरूणां गुरूणां निरोध एव निदानतया तत्र बोध-विषयी-भवति ।
[४२] श्री-कृष्ण उवाच—अहो! तत् तद् अपि रहो-वृत्तं किं गुरूणां कर्णेषु वृत्तम्?
[४३] मधुमङ्गल उवाच—
नान्तर् बहिर् अपि यस्यां स्फुरति ज्ञानं मनो-विकृतौ । एकस्यापि न तस्या न व्यक्तिः स्याद् अमूदृशां किम् उत? ॥४१॥
[४४] श्री-कृष्ण उवाच—पूर्वम् अपि पुर्वहिर् अन्तर्-गमने तासु नव-यौवनं गतासु गुरु-निरोध पुरुर् एवासीत् । अधुना तु कीदृग् अधिकः?
[४५] मधुमङ्गल उवाच—यद्यपि नास्मन्-मुखतः सुखतया निःसरति रति-प्रतिकूलम् इदं, तथापि भवत्-प्रश्न-प्रथात एव कथा-विषयीक्रियते । तथा च श्रुतं मया खल्व् इदं विश्रुतं कुल-पालिकानां तासु गालि-दानम् अवकल्यताम् ।
किं धिग् ध्यायसि हन्त निश्वसिषि किं वर्त्मानि किं प्रेक्षसे किं सख्या मुखम् अत्र पश्यसि कुचौ किं दृग् जलैः सिञ्चसे? । मूर्च्छाम् ऋच्छसि किन्तरां किम् असकृत् कृष्णेति वर्ण-द्वयं तस्यां जल्पसि किं पुनः पुलकितां कम्पं च तन्तन्यसे ॥४२॥ इति ।
[४६] अथ कुल-पालिका-पालिकानां तासां दूनताकर्या ननान्दुः प्रतिस्वं मातरं प्रति वचन-चर्या दिग्-वर्णनं चावकर्ण्यताम्—-
दृग्-वीथीं कुल-पालिकाः श्रुति-पथं तासां कथा-नासिका- वर्त्मानेक-सुगन्धि-धूप-रचना वव्रुर् मया योजिताः । तस्याः कृष्णमयी दशा मनसि या सा केन यत्नेन वा गच्छेदावृततां ततो जननि किं मह्यं वृथा कुप्यसि? ॥४३॥ इति ।
[४७] तद् एवं वर्ण्यमानम् आकर्ण्य क्षणं स-म्लान-वर्णं निवर्ण्य च पुनर् असाव् अस्या वर्ताया विशेषानुवर्तनाय मधुमङ्गलं प्रस्थाप्य चिन्तां चान्तः प्राप्य विचारयति स्म ।
[४८] तम् एतं जन-रवं मम गुरवश्चानुभवमानीतवन्तः सन्ति, प्रायशः परम-यशसः पितरश् च तत्र कर्ण-वितरं करिष्यन्ति । तर्हि किन्तराम् अन्तरायम् इमम् अन्तरयिता? इति क्षणं शून्यायमान-मनाः पुनश् चिन्तयामास । —-
[४९] इतो व्यवधानम् एव खलु कलुषतां गतस्य मम निधानं भवति । तथा हि—
कलङ्को यत्र स्याद् अपरिहरणीयार्थ-कृतकस् ततो दूराद् भाव्यं कुल-जनि-जनेनैवम् उचितम् । स कालाल् लुप्तः स्याद् भवति हि च तत्र प्रतिविधिस् तद् अस्मान् मे गोष्ठाद् व्यवहितिर् अकष्टं प्रसजति ॥४४॥ येषां पित्रादीनां स्नेहो मम जीवनं गोष्ठे । अहह कु-दैवाद् अभितः सङ्कोचस् तेभ्य एव सञ्जातः ॥४५॥
[५०] अथ पुनर् अन्यथा चिन्तयामास—
प्राणास् त्यजन्तु देहं देहः प्राणान् अपि त्यजतु । हरि-गोप्यस् तु मिथस् ताः प्राणाः कथम् इव मिथस् त्याज्याः? ॥४६॥
[५१] पुनस् तद् अपि चान्यथा चकार—
एकस्मिन्न् आवासे दम्पत्योर् भवति दुःसहो विरहः । तस्माद् दूरे गमनं समयं गमनीयतां नयति ॥४७॥
[५२] किन्तु हा वृषभानु-भानु-कीर्तिदा-कीर्तिदायिनि! हा जन्मत एव मन्-मनस्तया सन्-मनस्ता-धायिनि! हा कुमारताम् आरभ्य काय-वाङ्-मनः-सुकुमारता-पर्वणा सर्व-हर्षिणि! हा मद्-विनाभाव-भावना-ज्वाला-जाल-समुत्कर्षित-तर्षिनि! हा गत्य्-अन्तर-रहिततया कथञ्चित् किञ्चिन् मां सङ्गम्य च मुहुर् असङ्गम्य दुःख-दग्धे! हा दयिते! दयिते मयि विस्रब्धे सम्प्रति दुष्ठु-निष्ठुरतया मया त्यक्तुम् इष्यमाणा कथं जीविष्यसि? हा सर्व-सुखाधिके! रधिके! कुत्र वामुत्र गमिष्यसि? इति ।
[५३] अथ मधुमङ्गलः सङ्गम्य तद् इदम् अरम्यं निवेदयामास—
निरचिन्वंस्ते सर्वे
राधादीनां निरोध-सातत्यम् ।
यस्माद् गृह-पाल्यस् ता
हरिणीर् एता निरुन्धते परितः ॥४८॥ इति ।
[५४] तद् एवं पर्यग् अपर्यवस्य-दिदन्तया चिन्तया लब्धुं चामूर-सम्भावनया भावनया समयं गमयितुम् असमर्थः स्खलद्-अर्थः स-तृष्णः स तु कृष्णः स-वयोभिः समम् एव रममाणस् त्रि-यामां विरमयति स्मेति कृतं हृन्-मर्म-भङ्ग-करेणातिप्रसङ्गेन [५५] तद् एतद् उक्त्वा कथकः समापनम् आह—
राधे न युक्तम् उक्तं स्यान् मुक्त-शातम् अथापि वाम् । मिथः प्रेम-भरं व्यक्तं वक्तुम् उद्यतवान् अहम् ॥४९॥ पुरा कथेयं कथिता मुरारे राग-बृंहिणी । पश्य सोऽयं प्राण-नाथः प्रसादं तव वाञ्छति ॥५०॥
[५६] तद् एवं यथा कथा तथा लीला-प्रथाम् उपलभमानास् तद्-अन्ते च तस्याः सम्प्रति नास्तितायां विश्वस्ति-कृताश्वस्तिका निज-निज-भवनं सर्व एव सानन्दं पर्वतया जग्मुः । श्री-राधा-माधवौ च निज-शय्या-गृहं सुखमय्या स्पृहया गृहयाञ्चक्राते ।
इति श्री-श्रीमदुत्तर-गोपाल-चम्पूमनु
व्रजानुराग-सागर-प्रथनं नाम
प्रथमं पूरणं
॥१॥
अथ द्वितीयं पूरणम्
अक्रूर-क्रूरता-पूरणम्
[१] अथापरेद्युः प्रभात-विराजमानायां स-व्रज-युवराज-व्रज-राज-सभायां कथा । यथा—
[२] मधुकण्ठ उवाच—अथ केशि-वधात् पूर्वस्यां क्षपायां लब्ध-क्षयायाम् अरुणे चारुने जाते स खलु कमलेक्षणश् चपलेक्षणतया क्षण-कतिपयम् इदं चिन्तयामास—
[३] अहो! स्वप्नः सोऽयम्, यत्र मञ्चात् कृत-स्रंसनः कंसः स मया समाकृष्ट इव
दृष्टः । सम्प्रत्याशु च तद् एव प्रत्यासन्नम् । यद् अद्य श्वः केशी मद्-अभिनिवेशी भवन् यमस्य प्रतिवेशी भविता । तद्-अनन्तरं कंस-ध्वंसनम् एव प्रसक्तम् । प्रसक्ते च तस्मिन् मम निगम एव गमनं समय-लब्धतया युक्ति-विस्रब्धम् । यतस् तस्य मत्-त्रस्तस्य न खल्व् अत्र यात्रा युक्ति-पात्रायते । तस्य चाद्यापि वृष्णिषु तर्जनायाम् अनारतस्य मयि च दुर्जन-विसर्जनायाम् अविना-कृतस्य विनाशनं विना तत्र चात्र च मत्-पितुर् उभय-कुलं भयाकुलं स्याद् इति ।
[४] अथ पुनश् चिन्तयति स्म—हन्त! हन्त! यदि कार्य-पर्यायतस् तत्र सुविलम्बः संवलते, तदा मन्-मात्रादि-प्राणानां नात्राङ्ग-सङ्ग-मङ्गलं तर्कयामि । ततश् च,
मातुर् नेत्र-चकोर-चन्द्र-वदनस् तातस्य दृक्-चातक- श्रेणी-वारि-भृद् अन्य-गोकुल-जनस्याप्य् अक्षि-पद्मांशुमान् । सोऽहं तान् परिहृत्य हन्त गमनं कुर्वीय चेत् तर्ह्य् अहो चन्द्रादि-त्रयवन् ममापि भविता धिग् वात-चक्र-भ्रमः ॥१॥
[५] तद् एवम् एवम् अम्बुज-लोचने शय्यायाम् एव चिरं रचित-शोचने सहसा केशी सदेशी-बभूव । अस्य च निर्ग्रन्थनं प्रथम-ग्रन्थत एव कथया ग्रन्थनम् आससाद ।
[६] अथ श्री-गोपेश्वरी-लाल्यस् तु लाल्यमान-धवला-कलाप-च्छलात् पाल्यमान-यशास् त्रि-दशालय-मुने रहः-सहभावम् आससाद । यत्र च संशयानुशायातिशय-मय-मानं मुनिस् तं विभावितया भावि-तत्-तल्-लीलया सान्त्वयामास ।
[७] ततः समस्त-शस्त-पालः श्रि-गोपालस् तं विसर्ज्य प्रसज्यमान-मनस्-तापतयापि बहिर्-उपहित-सर्व-सुख-श्री-मुख-प्रकाशतया सखि-रामारामतया च सह-गो-व्रजं व्रजम् आजगाम । यथा—
दाम्ना दाम्ना सुर-सुमनसां स्वर्गिभिः पूज्यमानं साम्ना साम्ना द्रुहिण-सदसां वीथिभिः स्तूयमानम् । नाम्ना नाम्ना स-पशु-पशुपां सम्मुखान् निर्मिमाणं धाम्ना धाम्ना सुखदम् अखिलः प्राप तं दृश्यमानम् ॥२॥
[८] अत्र च सुराणां वचनम्—
इन्दोर् अभ्युदयात् परं विकसति द्राक् कैरवाणां गनः सिन्धुः क्षुभ्यति कान्ति-पानम् अयते दूराच् चकोर-व्रजः । गोपाः पश्य मुदा मुरारि-कलनाद् एषाम् अशेषां दशां गच्छन्तोऽप्य् अति-तृप्तिता-वशतया धावन्ति यावद् गति ॥३॥ इति । तद् एवम्— आलोकः प्रीति-भाजां कृति-बल-निकरः किङ्कराणां हृद्-अन्तः- सारः सख्य-स्थितानां हृदि लसद् असवस् तात-मात्रादिकानाम् । आत्मा रामान्तराणां हरिर् इह समगात् केशिनं घातयित्वा गेहं यर्ह्य् एष तर्हि प्रति-निजम् अगमंस् ते च देहं प्रसिद्धाः ॥४॥ स्वेनाम्बा निरमञ्छयत् तम् अथ दृङ्-नीरं व्यमुञ्चत् पिता सर्वेऽन्ये परिफुल्लद् अङ्ग-वलितां रोमाञ्चिताम् आञ्चिषुः । अन्यच् च क्वचन स्फुरद्-वचनतातीतं तद् आसीद् यदा हत्वा केशिनम् आव्रजत् कलकलान्दोलि-व्रजं स प्रभुः ॥५॥
[९] ततश् च प्रातर् अतुलोत्पात-कातरतया नातिसम्भालित-लालन-वितरौ मतर-पितरौ पुत्रं परि समाश्लेषितरौ गृहापन-स्नेहालपन-स्नपन-दिव्यवासः-पटवास-समर्पण-लेपानुलेप-प्रथनया तं क्षण-कतिपयं विश्रमयाम् आसतुः ।
[१०] यतस् तं सदा कोमलम् एव कलयां बभूवतुर् युद्धादि-समये तु नारायण-व्यक्तीकृत-तात्कालिक-शक्ति-मयम् इति ।
[११] अथ गवां दोहनावसरावरोहः स्याद् इति सर्व-सुख-पालः श्रील-गोपालः स्वयम् अग्रजेन समग्रीभूय तदीय-सामग्रीकर-किङ्कर-निकरम् अहूय तासाम् अग्रीय-भू-भागम् आगतवान् । आगत-मात्रे च तत्र स-राम-श्याम-गात्रे—
हुङ्कार-घोष-रचिताखिल-शब्द-मोषः स्राग्-अब्द-कान्तिम् अमुम् आस्तृत-धेनु-सङ्घः । वत्सान् विनापि बलवत् स्नवम् एष तैस् तं सद् वत्सलः सह-बलः शबलं चकार ॥६॥
तत्र तु—
सर्वं चकार स हरिः परितः पुरावद् दध्रे सुरर्षि-वचसा तु विदूनमन्तः । यद्य् अप्य् अदस् तद् अपि तस्य निज-व्रजाय प्रत्यागतिर् हृदि कृता स्थिरतां पुपोष ॥७॥
१२] तथा हि, तस्य भावानाम् उद्भावना—
कंसं हन्तुं प्रयाणि स्फुरति पितृ-मुख-प्रेम तद्-विघ्न-रूपं देवर्षेर् वाङ् न मिथ्या कथम् अथ विरहं हा सहेय व्रजस्य ? निर्णीतेऽप्य् अत्र जाते कृतम् असुखमयेनास्य चिन्तामलेन स्मर्तव्यं तत् तु नित्यं यद् इह सुख-मयं वैभवं भावि-सङ्गे ॥८॥ इत्य् अचिन्त्यत चानेन रथः कश्चन चैक्ष्यत । महतां हृदये याति प्रतिबिम्बं हि बिम्बताम् ॥९॥
[१३] रथ-स्थ-पुरुषस्य दर्शने तु—
रथी निरस्त्रः स्याद् दूत इति कृष्णेन तर्कितम् । कंसात् कस्माद् असाव् आगाद् इत्य् अन्यैर् अपि शङ्कितम् ॥१०॥
[१४] तदा च वारुणीम् अनुरक्तः पतन-सक्तः स दिन-नाथः कृत-नदी-नाथ-पाथः-क्वाथः स्वम् आलोकं लोकम् अपि तमसि वेशयामास ।
सत्यं सूर्यस् तुर्य- प्रहरस्यान्तं ययौ किन्तु । सबल-हरिः प्रतिहरितं हारित-तिमिरं व्यधान् निजं किरणम् ॥११॥
[१५] तत उन्मुखतां यातेषु गोप-जातेषु समम् उन्नत-कर्ण-सङ्घातेषु च गो-व्रातेषु तद् अवलोकन-सतृष्णौ बल-कृष्णौ रथ-स्थः स दूरत एव साक्षात् परिचितिं विनापि परिचितवान् ।
यतः,
चक्षुर् एव परिचायकं भवेद् रूप-मात्र इति गीः सतां मता । तादृशाम् अनुभवे तु कर्णयोर् दृष्टि-शक्तिर् अपि कृष्टिम् ऋच्छति ॥१२॥ अस्तु तावद् अनयोह् सुरूपता नील-रत्न-विधु-लोभि-शोभयोः । अङ्घ्रि-चिह्नम् अपि चित्र-सन्निभं दूरतोऽपि तम् अमूमुहन् मुहुः ॥१३॥
[१६] तयोस् तादृश-रूपम् अपि निरूपितवान्, यथा—
एकः श्याम-द्युतीनाम् अभिमत-विभवस्याधिदेवावतारस् तत् सध्र्यङ् शुभ्र-शोभा-समुदय-सुभगाभोग-सार-प्रसारः । तत्रादिर् वस्त्र-कान्ति-प्रचिति-भगवती-कृष्ट-लक्ष्मी-प्रचारः किं चान्यः कान्त-वासश् छवि-शवलनया सृष्ट-पूर्वानुकारः ॥१४॥
तथा—
आद्यः कृष्णाम्बुज-श्री-विजयि-मुख-महा-शोभया दत्त-मोदस् तत् सध्र्यङ् पुण्डरीक-द्युति-परिचय-जिद्-वक्त्र-रोचिर्-विनोदः । तत्रादिर् नेत्र-शोभा-विरचित-रुचिमत्-खञ्जन-द्योतनोऽदः किं चान्यश् चक्षुर् अन्तारुण-कुसुम-रजः-पिञ्जरालि-प्रतोदः ॥१५॥
तथा—
आद्यः श्री-कुण्डलान्तर्-झष-मुख-सुख-कृद्-द्योत-गण्ड-स्थलीकस् तत् सध्र्यङ् शश्वद् एक-श्रुति-किरण-लसत्-कर्णिकाभावलीकः । तत्रादिश् चाप-वद्-भ्रू-मिल-तिल-कुसुम-घ्राण-वाणच् छवीकः किं चान्यश् तद् द्वितीय-द्युति-जित-विलसत्-काम-चेतो-गवीकः ॥१६॥
तथा—
आद्यः स्वर् नाथ-रत्न-द्युति-भुज-भुजग-द्योति-रत्नैर् विचित्रस् तत् सध्र्यङ् पुष्प-रागाभिद-मणि-रचित स्तम्भ-जिद्-बाहु-चित्रः । तत्रादिः श्रील-नीलच्-छवि-निकष-दुरःस्वर्ण-रेखा-पवित्रः किं चान्यश् क्रोड-भासाशिव-गिरि-मणि-भू-कान्ति-सम्पल्-लवित्रः ॥१७॥
तथा—
आद्यः साङ्गाधराङ्ग-च्छवि-कवि-कविता-वर्धि-नानर्धि-युक्तस्- तत् सध्र्यङ् तद् वद् एव प्रति-लव-रुचिरः सर्व-विद्वद्भिर् उक्तः । तत्रादिः पद्म-जिद्भ्यां निज-कटक-वरायेव पद्भ्यां प्रयुक्तः किं चान्यस् तत्-सहायाव् इव निज-चरणौ चालयन् भी-प्रयुक्तः ॥१८॥
तथा—
आद्यः सार्द्राङ्ग-नील-प्रगुण-तरु-लता-हस्तता-शस्त-खेलस्- तत्-सध्र्यङ् कन्दुकार्थं कृतहलतया शाखया लब्ध-मेलः । तत्रादिः सङ्कुचद्-धीर् अवयव-निचय-व्याप्तये कॢप्त-चेलः किं चान्यस् तस्य तद्वन् मिलन-कृति-कृते वीक्षितागामि-वेलः ॥१९॥ इति ।
किं च—
शिती स-तडिद्-अंशुकौ सद् अवतंस-वाम-श्रुती पुरु-प्रभव-रोहिणी सुख-सुतौ बलाख्यान्वितौ । स-केलि-मित-धेनुकौ परिहृतान्य-जन्मास्पदौ ददर्श बल-केश्वौ कलभवत् स वत्सान्तरे ॥२०॥
अपि च—
असित-मणि-सुवर्ण-वर्ण-वासः कटि-घटितामल-शृङ्ग-वेणु-सङ्गौ । कर-धृत-पटु-पट्ट-शुल्व-यष्ठी मुसलि-हरी हरतः स्म चित्तम् अस्य ॥२१॥
[१७] दर्शन-मात्रतश् च निश्चलन-फल-यात्रः कम्प-सम्पत्-पात्र-शङ्कुवत्-पुलक-सङ्कुल-गात्रतया सहसा सह-सारं रथाद् अवततार । [१८] अवतीर्य च विकीर्यमाणाङ्ग-तया साङ्गम् एव प्रणनाम । तन्-मात्र-परिमाणतया विशश्राम च । निज-पितृव्यतादितायां तु बभ्राम । यतः,
प्रभावानुभवी यः स्यात् प्रभावस् तस्य कारणम् । गुरु-लाघव-भावाय सर्वम् एवान्यथान्यथा ॥२२॥
[१९] तद् एवम् अविरामं प्रणामम् एव प्रसजति तस्मिन् गवः पराः पयः स-वयः-समवायेन दुह्यन्तां नीयन्तां च तद् गृहान् इति निदिशन् नतीवादर-सङ्करतया सङ्कर्षण-सहायः कृपा-पूरतः पुरतः संहाय स चायं सिंहायमान-संहननः साभ्युत्थानं कराभ्यां तम् उत्थापयामास । [२०] स तु गद्गद-गदान् न तु स्व-नाम गदितुं शशाक ।
[२१] ततश् च प्रवयः-पशुप-चयेषु विरचित-तत्-परिचयेषु तद् व्यग्रता-कातरौ तौ
भ्रातरौ पितृव्यता-व्यवहारम् अपि विस्मृत्य तम् आलिङ्गनेनादृत्य निज-निज-पाणिना तत् प्राणी विधृत्य स्वालयम् एवानिन्यतुः । [२२] हरिस् तु सद् व्यवहारं समाहरन्न् अग्रजम् एव तत्र निजाग्रेसरं चकार ।
[२३] अथ स याथातथ्यम् आतिथ्य-प्रथम-भागं स्वागतादिकं प्रथयित्वा सहानु-जन्मा रोहिणी-जन्मा रस-सम्पन्मयं भोज्य-प्रचयंअ तस्मै बलयामास । भुक्त-वते तु तस्मै मुख-वासनं मुख-वास-मुखं स-सुखं समर्पयामास । तद् अनन्तरम् एव च श्रीमद् व्रज-राजं प्रति तं भाजयामस ।
तत्र च—
अक्रूरं प्रणतं मिलन् व्रज-पतिः कंसोत्थ-दुःखं स्मरन् सास्राशीर्-वचसाखिल-क्लम-हरं यद् यद् गुणैस् तुष्टुवे । सारल्येऽप्य् अलम् अस्य तादृशि मनः-क्रौर्यं तदीयं स्मरच् चित्तं क्षुभ्यति जाज्वलीति मम हा भष्मीभवत्य् अद्य च ॥२३॥
[२४] अथ तेन विश्रामायादिष्टं वासम् आसज्य पर्यङ्कोपविष्टं सम्मानिततया
सुखाविष्टं पुनस् ताभ्यां कृत-जननी-सम्भृत-भोजनाभ्यां सह रहसि निविष्टम् अक्रूरं स्वयं कृष्णस् तद् दर्शनतः समुद्बुद्ध-कंस-वधादि-तृष्णस् तद् इदम् इष्टं पप्रच्छ । यत्र च क्रम-चातुरी माधुरीभिर् इयं सर्व-सुख-धुरीणतां वहति—
किं तात सौम्य सुखम् आगतम् अत्र शं वः किं तत्र कंस-हतके न हते चिरस्य । तौ जीवतः किम् इव वा पितराव् इदानीं किं वा तवागमन-मङ्गल-बीजम् आसीत् ॥२४॥
[२५] अथाक्रूर उवाच—तस्य यादव-वीरेषु वैरानुबन्धः खलु भवता कृतानुसन्ध एव; विशेषतस् तु देवकी-विवाह-गताहम् आरभ्य यः स च भवच् छ्रवसि सचमान एवास्ते । मद्-विधस् तु तत्र वर्त्म-शत-पर्विका-स्तम्ब-वद् एव वर्वर्ति । वसुदेव-सहोदर-देव-भाग-पुत्रः परम-शुद्धः स उद्धव-नामापि भवद्-विरह-व्याधिः पवन-व्याधितयाभिधीयत इत्य् उर्वरित इवास्ति ।
[२६] श्री-कृष्ण उवाच—तद् एतद् अपि ज्ञायते । साम्प्रतस् तु सप्रतीकं कथ्यताम् ।
[२७] अक्रूरस् तु परितो निरीक्ष्य तद् इदं सूक्ष्माक्षरम् उवाच—अथ श्री-नारदस् तु त्वादृशि विजय-सुख-सारदस् तदृशि दुर्जन्म-पारद इति स तव व्रज-प्रेमावृतस्य तस्य च भयेनास्तृतस्य युयुत्सायाम् उत्साहनाय देवक्याः सप्तमाष्टम-गर्भतया युवाम् अनुचितम् इव सूचितवान् ।
[२८] आदौ देवक्या गर्भः खलु रोहिण्यां मायया लब्ध-सन्दर्भः कृतः श्री-वसुदेवः पुनस् तां मायाम् अपि यशोदायां लब्ध-सम्भवां विज्ञाय देवक्याः सम्भूतं त्वां तत्-पर्यङ्के निधाय तां तस्यां लब्ध-सम्भवां चकार इति ।
[२९] श्री-कृष्ण उवाच—ममेदम् आश्चर्यम् इव भाति ।
[३०] अक्रूर उवाच—श्रीमद् आनकदुन्धुभि-मुखाद् अप्य् अद्वन्दीभवन्न् अहम् अनेन सफलित-कर्ण-द्वन्दी-भवन्न् अस्मि ।
[३१] अथ श्री-कृष्णः क्षणं विलक्ष्य इव निरीक्ष्य सहसा तद् इदम् अन्तश् चिन्तितम् अवाप—आम् आं तद् इदम् अलुप्त-ज्ञानस्यापि मम व्रज-स्नेहावेश-वशात् पुरतः स्फुरन्नासीत्; सम्प्रति तु विस्मृत-स्वप्नवन्निमित्तं प्राप्य स्फुरति स्म—[भा।पु। १०.८.१५,१४] बहूनि सन्ति रूपाणि नामानि च सुतस्य ते इति, प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः इति च व्रजावितारं श्रीमत्-पितरं प्रति गर्ग-सिद्धान्त-वर्गम् एते न पर्यालोचितवन्तः सन्ति ।
[३२] यत् खलु व्रजावित्र्यां श्रीमन्-मदीय-सवित्र्यां लब्ध-जठर-वासया मायया सह द्वि-भुजतया लब्ध-हृत्-कमल-वासस्य मम श्री-देवक्या हृदय-सम्भवद्-उदयमद्-रूप-विशेष-चतुर्भुज-रूपाच्छादन-प्रार्थनायां तत्र सञ्चारः सम्पन्न इत्यस्याप्रतिपन्नतया तन्-मात्र-प्रतीतिम् अगतवन्तः ।भवतु, मया तु पितृव्यतायाः पितृतायाश् चानुसर्तव्यतया कर्तव्य एव तयोर् उद्धारः इति ।
[३३] स्पष्टं चाचष्ट—ततस् ततः ?
[३४] अक्रूर उवाच—ततश् च वसुदेव-वध-समुद्यतं तम् अधमं सान्त्वतः शमयित्वा भ्रमयित्वा च स तु क्रतु-भुग्-मुनिर् यथायथं गतः । तत्र गते तूच्छृङ्खलः कंसः कालायस-शृङ्खलया सनिर्बन्धं तव पितरौ बबन्ध इति ।
[३५] अथ भ्रातराव् उभाव् अपि सास्राव् अश्रावयताम्—तर्हि किं पित्रोर् एव सन्देश-प्रवेशाय भवद् आयातं जातम्?
[३६] अक्रूरः स-लज्जम् उवाच—नहि नहि । किन्तु कंसस्य तौ खलु निज-यातनाम् अपि सहेते । न खलु भवच् छ्रवसि च तत्-पातनाम्, किन्तु तद् इदम् अहम् एव निवेदयामि—
भवद्भ्यां यदि जाताभ्यां गताभ्यां योग्यताम् अपि । पित्रार्तिर् न निवर्तेत पुत्रीया कुत्र वर्तताम् ॥२५॥ इति ।
[३७] श्री-कृष्णस् तु तत्रोद्वेगं हृदि निगूह्य सावज्ञम् उवाच—कंसः किं नाम शशंस?
[३८] अक्रूर उवाच—शंसनं तस्य कति प्रतिशंसानि । तात्पर्यं तु पर्यग् इदम् एव पर्यवसीयताम्—भूत-राज-धनुर्-मह-व्याजतः स्व-समाजं साहाय्यम् आनाय्य दुर्मन्त्रणयास्मान् प्रतार्य तत्-कुतूहल-कलनाय प्रजान्तरवद् भवन्ताव् अपि निज-व्रजवन्ताव् अस्मद्-द्वारैवाजुहाव यद्-अर्थं तद् एव इति ।
[३९] रामः स-सहासम् आह स्म—बृंहित-क्षुधि सिंहे मत्त-मतङ्गज-बृंहितं
खल्व् इदम् ।
[४०] श्री-कृष्ण उवाच—भवतु, वयम् अपि समागम्य तम् अपि वलिम् अर्पयित्वा भूतेशं तर्पयिष्यामः । किन्तु, तद् भूत-राज-सभा-जनं कदा ?
[४१] अक्रूर उवाच—चतुर्दश्याम् इति ।
[४२] तद् एवं शेषं विशेषम् अपि पृष्ट-वेषं विधाय श्री-कृष्णः प्राह—विचाराद् अस्माकं परम-मङ्गलम् एव यस्माद् इदं तस्माच् छ्रीमत्-पितृ-चरणेषु गोचरम् आचराम ।
[४३] तद् एवम् उक्त्वा तं तस्मिन्न् एव मुक्त्वा स रामस् तत उत्थाय पितृ-परिसरम् आजगाम । अथ तद्-आदेशाद् उपवेशनानन्तरं तेन वीक्षित-मुख-कञ्जः समञ्जद् अञ्जलि वचसा तद् इदं व्यञ्जयामास—तात! मङ्गल-वृत्तं किम् अपि वृत्तम् अस्ति, किन्तु युगपद् एव पर्वेव सर्वेभ्यः श्रावयितव्यम् ।
[४४] अथ व्रज-राजः सन्देह-मन्देहतया सानन्दम् इवोपनन्दादीनान् आययामास । यत्र
च किञ्चिद् अपि विहितापिधान-विधानाः श्री-व्रजेश्वरी-प्रधाना लब्धानुसन्धाना
जाताः । ततः सुखम् उपविष्टेषु तेषु शिष्टेषु श्री-विष्टर-श्रवाः किञ्चिद् विहसन्न् इवाचष्ट—अस्मान् प्रति सम्प्रति भोज-क्षिति-भृद्-इष्ट सन्दिष्टवान् अस्ति । यत् प्रजा-निभाः प्रजा यूयम् इह महेश-धनुर् महामहे सहेशाः सह-शावकाः सावकाशम् आगच्छत । विशेषतस् तु निज-वीर्यतः समीर्यमाण-निज-दर्शन-तृष्णौ राम-कृष्णौ च इति ।
[४५] व्रज-राज उवाच—भवन् मन इदं किं मनुते; यद् भवति वसुदेवाद् भवति चास्मिंस् तस्य प्रीतिर् भवति इति ।
[४६] श्री-कृष्णः स-स्मितम् उवाच—यद्य् अन्यथा स्यात् तथापि वृथा-पथ एव तन् मनोरथः । यद् भवत्-प्रभाव-बल-संहितस्य मम कः खल्व् अहितम् आहितं कुर्वीत । [४७] यत एव खल्व् आबल्य-वल्यमाने बाल्येऽपि मम पूतनादयस् ते धूतताम् आपन्नाः । किम् उत तद्-वलतः एव वलितां वलमानाभ्यां बक-वत्सक-मुखानां सुखाद् एव प्रतिरित्सनं जातम् इति ।
तत्र च—
बक एकङ्गिलस् तावद् अघः सर्वङ्गिलः स्थितः । इन्द्रः सर्वङ्कषस् तेषु कंसकः कं समीयति ? ॥२६॥
[४८] तद् एतन् निशम्य मिथो निशाम्य च सम्यग्-प्रतिपत्ति-पराहतेषु तेषु मात्रादिषु च कृत-यात्रा-भङ्ग-प्राणालिषु पुनर् उवाच—गो-कोटिभिर् घटित-कोटीनाम् अस्माकम् अन्यस्मिन् नटितुम् अपि घटना न दृश्यते । राज्ञाम् आज्ञाम् अतिक्रम्यापयाने च तद्-आगमन-मयं भयं भवत्य् एव; किम् उत स्थाने । ततः सङ्कोचं विना तत्रास्मद् गमनम् एव तस्य शमनम् उपलभामहे ।
तद् एतद् आकर्ण्य स-वैवर्ण्यम् उपनन्दं प्रति श्रीमान् नन्दः प्राह स्म—किं कर्तव्यं ? इति ।
[४९] स चोवाच—तत्र गम्यम् इति सम्यग् एवाह वत्सः । अगतिर् नाम कामं तस्य क्रोधम् अस्य च भयं बोधयति । गतिस् तु तं तद् अप्य् अपगमयति । किं च, यद्-अपूर्वम् अपूर्वं पूर्वम् अपि रक्षां कुर्वद् आसीत् तद् एव सर्वम् अर्वाञ्चम् अप्य् आप द्वारं तारयिष्यति ।
[५०] अथ तद् एवं युक्तिं वलयति गोपाल-वलये प्रभाव-भाव-पूर्ण-पूर्णिमा च तूर्णम् एव तत्रागता ।
[५१] ततश् च व्रज-राजेन कृते प्रश्ने सा स-स्नेहम् उवाच—भवन्-नन्दनस्य मथुरा-प्रयाणे सर्वानन्द एव स्यात् । कंसादयः सर्व एव नृशंसा ध्वंसाय सम्पत्स्यन्ते, किन्तु व्रजागताव् अस्य विलम्ब-संवलनं पश्याम इति यथा-युक्तम् अध्यवस्यन्तु ।
[५२] उपनन्द उवाच—अविलम्बागमनम् अपि श्रेय एव वैरि-शमनं तु यदि स्याद् इति गमनम् एव वरं रमणीयम् । ततः सर्वेऽपि गत्य्-अन्तरम् असङ्गत्य सङ्गतम् इदम् उच्यत इति प्रोच्य किञ्चिद् अप्य् अननुशोच्य श्रीमन् मुखं विलोच्य श्री-कृष्णं प्रश्न-विषयं कृतवन्तः । तत्र गन्तव्यता कदा मन्तव्या ?
[५३] श्री-कृष्ण उवाच—गतिं च प्रातस् त्रयोदश्यां युक्ति-वश्यां पश्यामः, चतुर्दश्यां खलु महस् तन्-महनीयताम् आप्स्यति ।
[५४] तद् एवं स्वान्तः-परिदेवनेऽहम् एव इह पश्यति व्रज-नरदेवे सर्वेऽप्य् ऊचुः—सर्वं घोषम् अनुघोषना सद्य एवासाद्यताम्, यथा प्रातर् एव गोपाः सोपायना राज-सभाम् अभियान्ति इति ।
[५५] अथ श्रीमन्-नन्दराजश् च समाजं व्याजहार—भगवत्या सन्मते भवतां मते सर्वम् एव मङ्गलं सङ्गंस्यत् इति भद्रम् आदिश्यन्ताम्, दिश्या दिश्या गोपाः प्राभृत-प्रभृति-कृते ।
[५६] तद् एवं लब्धानुमतिर् वृन्दावन-पतिर् निज-परिचारकान् आदिदेश—कथ्यताम् इदम् उत्तारं क्ष्त्तारं प्रति इति ।
[५७] तद् एवं विज्ञाय व्रज-राज्ञी तु मोहेनाज्ञीभवन्ती न किञ्चिद् अपि वक्तुं व्यक्तुं वा शशाक इति वदन् मधुकण्ठश् च निरुद्ध-कण्ठस् तद्वद् एव आसीत् ।
[५८] अथ कथायाः सभायाम् अपि तद्वद् एव मोहं गच्छति स-समाजे व्रज-राजे तस्य चरण-राजीव-युगं युगपद् गृह्नन् व्रज-युवराजः पुनस् तम् आजीवयन्न् उवाच—तात ! कथं कातरायसे ? यथा-पूर्वं कथा-मात्रं खल्व् इदम्, सोऽयम् अहं पुनर् भवद्-अनुध्यान-रम्यतया कंसं निर्दम्य चिरात् पुरागम्य भवद्-दृष्टि-पथानुवर्ती-भवन्न् एवास्मीति ।
[५९] ततः स-पुलक-पालितम् अङ्कं पालयति व्रज-भूपाले सर्व एवाखर्वम् आनन्द-गर्वम् उवाहेति कथायां शान्त-प्रथायां मधुकण्ठ उवाच—
कुत्र वा रमतां पुत्रस् तवान्यत्र व्रजाधिप । भक्तानुकम्पा-सम्पाती पश्य ते वश्य एव सः ॥२७॥
[६०] अथ श्री-कृष्ण-कृत-महसि राधा-सदसि च रात्रि-कथायां मधुकण्ठः स-गद्गदम् उवाच—अयि सम्प्रति श्री-माधवेन हृत-विरह-बाधे! श्री-राधे! पुरा वृत्तम् अवधीयताम्—
स्फूर्जथु-प्रतिमं ऊर्जितं तदा घोषणं सपदि घोषम् अन्वभूत् यद् बभूवुर् अपराः पराहता हा हता इव च राधिकादिकाः ॥२८॥
[६१] तथा सति—
काश्चिन् म्लानाननास् तच्-छ्रवण-दहनज-ज्वालया काश्चनासन् क्षीणाङ्ग-स्रस्त-वेषा जड-निभ-वपुषः काश् च काश्चिद् विचित्ताः । ता एताः केन वर्ण्याः य इह निज-हृदि स्पृष्ट-तद्-भाव-कष्टः किं वा तत्-स्पृष्टि-शून्यः स च स च यद् अलं जाड्यम् एव प्रयाति ॥२९॥ अथ निशि रमणीनां मूर्च्छनं निर्ममे या चिद्-उदयम् अपि कल्ये घोषणा सैव चक्रे । वपुषि दहन-तप्ते भेषजं तेन तप्तिर् विषम् अपि विष-दुष्टे श्रेष्ठम् इष्टं भिषग्भिः ॥३०॥
[६२] लब्ध-चेतनानं चासां कंसाद् अशङ्कायाम् अपि प्रस्तुतातङ्कायां देवता-कलितम् इव रक्षणाय फलितं किञ्चिद् अन्यद् इदं-भाव-प्रभाव-चेतितं पौर्णमास्या च पुरतो निश्चितीकृतं चेतसि स्फुरति स्म ।
यस्मिन्न् अघः कालिय-काद्रवेयः केशी तथारिष्ट-वृषश् च नष्टः । कंसश् च तस्मिन् मृत एव स स्यान् न तत्र शङ्का-लवकोऽपि भाति ॥३१॥ इति ।
[६३] तद् एवं विश्वस्य सम्मतं विश्वस्य पुनश् चिन्तयति स्म—
बकी-रिपोः कंस-जयेऽपि सिद्धे शङ्केमहि स्वार्थ-विनष्टिम् एताम् । भवेद् असौ यादव-राजधान्यां राजेति गोष्ठे कथम् अत्र तिष्ठेत् ? ॥३२॥ ग्रामीणा वयम् इह गोप-वर्ग-कन्या नागर्यः पुरम् अनु सन्ति राज-पुत्र्यः कृष्णस् तु ग्रहिल-मना गुणेषु तस्माद् अस्यान्तः कथम् इव नः प्रतिस्मृतिः स्यात् ? ॥३३॥ निमेषः कल्पः स्याद् यद् अपकलने यस्य विपिने गतौ यत् कृच्छ्रं तत् कलयति न आत्मा न तु परः । मधोः पूर्यां तस्य व्रजनम् अथ राज्याय यद् इदं कथं तद् वास्माकं बत किम् अपि धैर्यं कलयतु ? ॥३४॥ अस्माकं राग-जातिर् वत लषति न नः शर्म तस्यापि राज्यं किन्त्व् एकान्त-स्थम् इच्छत्य् अनुलवम् अपि तं सेवितुं प्राण-कान्तम् आत्माप्य् अन्तर्धिया तद्-दृग्-अमृत-विरहं मीनवच् छङ्कमानस् तत् प्राग् एवाति शुष्यन् गणयति न परं नापरं किञ्चनात्र ॥३५॥ हा तस्य स्मित-चारु-वक्त्र-वलयं खेलाञ्चि-नेत्राञ्चलं चित्तानन्द-विधायि-गीर्-विलसितं लीलाकुलं लोकनम् । साक्षात्-कृत्य न जातु तत् तद् उपमां चासोढ या विघ्न-धीस् त्यागार्तिं यदि सा सहेत गरलं तत्रामृतं वेत्ति न ॥३६॥
[६४] तद् एवं चिन्तातुराः पूराय कृत-यात्र्ं श्याम-गात्रं विलोकयितुं निष्कलङ्काशङ्काः सर्व एवाभिद्रवन्ति स्म । यात्रा-विधानं तु प्रातर् अभिधानं यास्यति ।
[६५] तद् एतद् अभिधाय मधुकण्ठः प्रतिपत्ति-विपत्तितः स्तब्धतां लब्धवति माधवे राधां तु समुद्यन् मूर्च्छा-बाधां निरीक्ष्य मङ्क्षु पुनर् आह स्म—
राधे पूर्व-कथा सेयं न तु साम्प्रतिकी स्थितिः । पश्य त्वद्-वचनं म्लानं पश्यन् म्लायति सोऽप्य् असौ ॥३७॥
[६६] तद् एवं क्षुधि भोजनम् इव तद् अन्ते संयोग-रसम् एव परिवेष्य सर्वान् अपि सुखेन विशेष्य कथक-युगलं निजावासं समाससाद । श्री-राधा-माधवौ च निज-मोहन-मन्दिरम् इति ।
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
अक्रूर-क्रूरता-पूरणं नाम
द्वितीयं पूरणं
॥२॥
(३)
अथ तृतीयं पूरणम्
श्री-मथुरा-पुर-प्रस्थानम्
[१] अथ श्री-कृष्ण-कृतम् अहसि श्री-व्रज-राज-सदसि प्रातः-कथायां स्निग्धकण्ठ उवाच— अयि! श्री-व्रज-राज! राजमान-श्री-हरि-मुख-रुचि-विराजमान! पुनर् इमम् इतिहासम् अवभासयामः ।
[२] अथ रात्राव् अवशिष्ट-स्वल्प-मात्रायां यात्रा-मात्रायाम् अपि पात्राचित-गात्रायां राम-भ्रात्रा रचितेन पूतनादि-वधाचरितेन सम्बद्धा विरुदावल्यः प्राबल्यतः स्तुतिकृत्द्भिः प्रस्तुतिम् आपिताः सर्वान् एव गर्वाद् उत्साहयामासुः । वर्ततां तावद् अन्येषां वार्ता, यत्र तत्-पितरौ च कंस-ध्वंसनम् अपि सिद्धम् इति मत्वा नन्दितरौ वन्दिभ्यः कृत-बहु-धन-वितरौ बभूवतुः ।
श्री-व्रजेश-गृहिणी-गतिं गता रोहिणी न पृथग् अत्र वर्ण्यते । प्रतिबिम्ब-रुचि-वर्णनं पुनर् जल्पतां भजति बिम्ब-वर्णने ॥१॥
[३] अथ प्रस्थान-स्थ-मङ्गल-वेलायाम् आरब्ध-मेलायां पुनस् तन्-मन्त्रणाया यन्त्रणाय लब्ध-वैयग्र्यावेशयोर् व्रजेशयोर् ज्योतिर्-निपुणाः शकुन-ज्ञान-सद्-गुणाश् च द्वारि सङ्गम्य रम्य-जन-द्वारा ताव् आत्म-गमनम् अधिगमयामासुः ।
[४] अनन्तरम् अन्तःपुर एव तान् अनन्तरितान् विधाय तदानीम् उचित-दानीय-निधान-पात्र-पाणी शपथं सम्प्रथय्य तौ प्रच्छन्नं पप्रच्छतुः— सर्वम् अनुभवद्भिर् भवद्भिः किम् अवधीयते? इति ।
[५] ते प्रोचुः— कथम् अयं नितान्त-सुख-वृत्तान्त एकान्ततया पृच्छ्यते? सर्वेषां पुरत एव सोऽयं पुरस्कर्तव्यः । तथा हि—
भीतिं मा कुरुतं व्रज-क्षिति-पती युष्मत्-तनूजः स्फुटं कंसं ध्वंस-गतं विधाय भविता त्रैलोक्य-लक्ष्मी-पतिः । यद् वां कीर्ति-कलाप-नर्तित-मुखी शश्वत् त्रिलोकी भवेद् वेदः पञ्चम-वेद-तन्त्र-सहितः साक्षित्वम् अत्राप्स्यति ॥२॥
[६] अथ तेभ्यश् च बह्वीम् अंहति-संहतिं विधाय हृदि सुखं निधाय शरणतया ध्यात-नारयण-चरणयोर् अनयोः परिवारित-भृत्यौ कृत-प्रातः-कृत्यौ ताव् एतौ सखि-समेतौ निकाम-भीषि तद्-अनुजौ राम-रामानुजौ समाजम् आजग्मतुः ।
[७] समागम्य च तयोः रोहिणी-सहितयोः पदारविन्दानि वन्दित्वा तद्-अङ्क-पालि-सङ्ग-शालितया चिरं नयनयोः स्यन्दित्वा स्थितयोर् एतयोर् एक-द्वादि-क्रमेण शतातिक्रमेण सर्वेऽप्य् अन्तरङ्गा लब्ध-सम्भ्रम-तरङ्गास् तद्-अन्तः-पुरम् आगताः ।
]८] अथ मद्रङ्कर-दीप-भद्र-निपादीनां मध्य-मध्यासीनयोः सार्द्र-नयनयोर् अनयोर् विकसद्-वदनाम्बुजयोर् अग्रजानुजयोः सर्वतः खर्व-विचारतया स्थितेषु सर्वेषु स पुनर् अक्रूरः क्रूरस् तद् एतद् बहिः-प्रदेशतः सन्दिदेश— सर्व-मङ्गल-सङ्गतं कथम् एतल् लग्नं सम्यग् न यात्रा-लग्नं क्रियते इति ।
[९] ततश् च ताव् इमौ शूराणाम् अग्रिमौ कंस-घाताय लब्ध-तृष्णौ राम-कृष्णौ चित्रायमाणानां पित्रादीनां चरण-वन्दनायानन्दनाय च मधुरं विधुरता-विधुननम् अपि गदन्तौ गद्गद-वर्ण-राशिभिर् आशीर् अनुगाम् अनुज्ञाम् आदाय प्रसादायसम्पदा यदा तत्-स्थानात् प्रस्थानाय पदारविन्दं ददानाव् अदृश्येतां तदा तदादीनां सन्-मदालिभिः समम् अद्वन्द्वतां विन्दद् दिव्य-दुन्दुभि-द्वन्द्व-वृन्द-वाद्यम् अशेषाभिवाद्यतया समुल्ललास ।
[१०] तथा च श्री-कृष्णम् उद्दिश्य श्लोकयन्ति—
कंस-ध्वंस-कृते यदा निज-गृहात् कृष्णेन यात्रा कृता तर्ह्य् आरम्भत एव दुन्दुभि-शतं वृन्दारकैर् वादितम् । आस्ताम् अन्य-कथा यथा स च पिता माता च सा चिन्तया क्लान्तात्मापि मुदं समस्त-भविकानन्दस्य मूलं ययौ ॥३॥
[११] अथ रथ-स्थाने सानेक-वेदादि-घोष-मङ्गल-पोषं कृतागमनयोर् अनयोः सर्वतः सर्वम् एव गोकुलम् आकुलं बभूव । [१२] तत्र चैकतः श्री-व्रज-राजादयः परतस् तु तदीय-जायादय इति स्थिते प्रस्थितेर् अनुज्ञापनाय पणायति परितः कृताञ्जलि-सञ्जने कञ्ज-लोचने सर्वेऽप्य् ऊचुः— अस्माभिर् भवता प्रस्मारित-सर्वैः सर्वैर् अपि भवता समम् एवागमनीयम् । यतः—
माता भस्त्रेव सेयं बक-शमन तव त्वद्-वश-श्वास-वर्गा सोऽयं तातश् च तद्वत् किम् अपरम् अखिलं गोकुलं तादृग् एव । सर्वेषां शश्वद् अन्तर्-हृदि वससि यतस् त्वं ततस् त्वां विना किं गेहैर् अर्थैः शरीरैर् असुभिर् अपि भवेत् प्राणिनां गोकुलस्य ॥४॥
[१३] तद् एवम् अस्र-स्तम्भं लम्भयत्सु गोप-सभासत्सु तादृश-दृशा श्री-कमल-दृशा स्वयम् उक्तम्—
यूयं मे प्राणतोऽपि प्रियतम-सुहृदो यन्-निमित्तं दवाग्निं मेनेऽहं पानकाभं तम् अपि गिरि-वरं कन्दुक-प्रायम् एव । यद्यप्य् एतन् न युक्तं वचसि रचयितुं स्याद् अथापि क्लमं वः पश्यंस् तत् तद् यथा प्राग् अकरवम् अधुना तद्वद् एव प्रवच्मि ॥५॥
[१४] किं च, श्रीमत्-पितृ-चरणानां प्रतिनिधितया तत्-तत्-प्रतिविधि-रचनाय तद्-अग्रज-युग्मं व्रजनिष्ठम् एव तिष्ठतात्; अङ्ग-प्रत्यङ्ग-रूपतया तद् अनुज-युग्मन् तु सङ्गम् एव सङ्गच्छतात् ।
[१५] अथ तत्र तत्र यत्नतस् तेषु युक्तेषु यथा-यथं नियुक्तेषु यथा यथा मातृ-तद्-यातृ-प्रभृतिषु पितृ-भ्रातृज-स्व-भ्रातृ-प्रचितिषु चानुज्ञापन-समापनं तथा तथा वर्णनं लुप्त-वर्ण-पदताम् आप्नोतीत्य् अलम् अति-प्रसङ्गेन ।
[१६] किन्तु तेषां कंस-हननेऽतिविलम्बं विना प्रत्यागमने च नासम्भावनासीद् इतीदम् एव विषीदन् मर्मताम् अतिचक्राम इति । [१७] कथां समाप्य स्निग्धकण्ठः पुनर् उवाच—
यन् मयेदं पुरा-वृत्तं पुरा वृत्तं प्रतीयताम् । राजन् सुरारि-हन्तायं तव क्रोडे मुरान्तकः ॥७॥
[१८] तद् एवम् आयति-रम्यं निशम्य श्री-व्रज-राजेन च तं परस्परास्र-सार्द्राङ्गतयालिङ्गितं निशाम्य सर्वेऽप्य् आनन्द-गर्वेण निज-निज-गम्यं जग्मुः । यदा श्री-व्रज-राज्ञी तम् अन्तरङ्ग-द्वाराहूय भूयः परिरभ्य नवम् इव लभ्यं चकार ।
[१९] अथ रात्रि-कथायाम् आरब्ध-प्रथायां श्री-राधा-माधवयोर् अग्रतः स्निग्धकण्ठ उवाच—अयि सम्प्रति सन्तत-लब्ध-कृष्णासञ्जने तत्-कान्ति-नर्तित-नेत्र-खञ्जने सर्वाधिके श्री-राधिके पुनर् इदं पुरा-वृत्तं कर्ण-वृत्तं क्रियताम् । अथवा तदा रथ-पथम् आगते ससमाजे व्रज-युवराजे तत्-प्रेयसीनां वृत्तं मन्-मति-वृत्तिम् अतिवृत्तं कथं कथयितुं शक्नोमि ?
तथा हि—
मूर्खत्वं निर्घृणत्वं हरि-हरणम् इह क्रौर्यम् अक्रूर-नाम्ना सर्वेषां बुद्धि-लोपं शकुन-सुभगता-कल्पनं चात्र कृत्ये । धातुः पश्येति शश्वद् विकलित-वचसाम् आर्य-गोष्ठी-गतानां धीराणाम् अप्य् अमूषां भ्रम-जनित-दशा हन्त मां दन्दहीति ॥८॥ नोपालभ्यो विधाता स तु भवति परस् तद्वद् अक्रूर-नामा किन्त्व् एष प्राण-नाथः स्व-विरह-कृद् उपालभ्यते नन्द-पुत्रः । एवं तासां मृदूणाम् अपि दूत-हृदय-ज्वाल-रूपैर् विलापैर् अद्यापि स्मर्यमाणैः प्रतिपदम् अपि नस् तप्यते चित्त-वृत्तिः ॥९॥ आभिर् भाग्यं वधूनां मधु-नगर-भुवां यन् नुतं भावि-कृष्ण- प्रेक्षायां हन्त तस्माद् गतिर् अपि च निजा तत्र चैषीति शङ्के । इच्छां चासां मृदूनां स्वयम् अपि रहसि प्रेक्ष्यमाणे निजाङ्गे लज्जा-विस्तार-भाजाम् असकृद् अहह तां चिन्तयित्वा दुनोमि ॥१०॥ तासां नाति-प्रतीतिं मधु-पुर-गमने श्री-हरेः कुर्वतीनां वज्राणां पात-तुल्यः शिरसि यद् अभवत् तद् रथारोह-जल्पः । तस्मान् निन्दा कृता यद् व्रज-पति-सदसाम् अप्य् अमूदृग्भिर् उच्चैर् दुःख-प्राचुर्यम् एतन् मम विकलयति स्वान्तम् अद्यापि हन्त ॥११॥ आयात प्राण-सख्यो वयम् इह निकटाः कोटयः प्राण-नाथं प्रीत्यावृत्तं वितन्मः किम् इव गुरु-जना नः करिष्यन्ति नाम । इत्थं तास् तं द्रवन्तीर् मृदु-चरितवतीर् अप्य् अलं तीव्र-भावाः क्षिप्ताश् चक्रुर् यद् अन्ये तद् इह मम बलात् प्राण-घातं करोति ॥१२॥ हा हा सा रास-गोष्ठी नव-नव-मिलनोल्लास-शश्वद् विलासा तल्-लीला-कल्प-वल्ली-समुदय-जनुषाम् अङ्कुर-श्रीः क्व याता ? हा धिग् याक्रूर-नाम्ना कितव-नृपतिना दीक्षिता गोप-गोष्ठी सेयं तत्-सर्व-नाशिन्य् अजनि कुत इति क्रोशिका मां दहन्ति ॥१३॥ आस्तां रासादि-लीलावलिर् अपि ललिता हा दिनान्ते निशान्तेऽप्य् अञ्चन् गोभिर् विलासी सह-सखि-निचयः साग्रजः कृष्ण-चन्द्रः । अस्मान् नेत्रान्त-लक्ष्मी-विलसित-कलया पुष्टवान् सुष्ठु यस् तं गोपास् तूर्णं नयन्ति क्व समम् इति गिरो गोपिका मां तुदन्ति ॥१४॥
[२०] तद् एवं स्थिते—
राधा यद्यपि मूर्छिता समभवत् तस्यास् तथापि प्रियश् चित्तान्तः स्फुरति स्म तद्वद् अभितो यद्वच् छताङ्गं गतः । सोऽयं यद्यपि दृष्टि-कृष्टिम् अकरोद् अस्याः सकाशान् निज- क्षोभाद् बिभ्यद् इयं तथाप्य अनुदिशं हा तद्-दृशि व्यानशे ॥१५॥ तस्यां सभायां रुरुदुर् यद् एता गोविन्द दामोदर माधवेति । तत्र स्मृतेऽद्यापि मनो ममेदं खेदं भजत्-प्राण-भृतिं न वष्टि ॥१६॥ एवं बत सुदतीनां रुदतीनाम् अप्य् अरुन्तुदः स रथी । अक्रूरः क्रूर-मनाः दूरं हरिम् अहृत सूरजा-पुरम् ॥१७॥ कृष्णस् तन् मुख्य-वर्गस् तद्-अनुगत-रथस् तत्-पताका-तद्-उद्यद्- धूलीनां पालिर् इत्थं क्रमम् अनु निमिष-प्रोज्झितं वीइक्ष्यमाणा । प्रत्यावृत्तौ निराशा व्रज-युवति-ततिः प्राणम् अत्यक्ष्यद् एष प्राक् चेन् नात्मागति-स्वीकृति-कृति-लिपिभिः सत्यम् अत्र व्यधास्यत् ॥१८॥ यद्यपि सुर-मुनि-कथिता स्वस्यागतये विलम्बिता ज्ञाता । तद् अपि च वलयित-तृष्णे नास्यां कृष्णेन नादृतिः कलिता ॥१९॥
[२१] तत्र तस्य तासां च स-स्वेद-जल-कुङ्कुम-रागेण साश्रु-कज्जल-भागेन च मुहुर् मिथो लिखिता दूत्य-सङ्गत-मधुमङ्गल-पत्रिकाः पत्रिका यथा—
आयास्याम्य् आशु हत्वा तम् अधि-मधुपुरं कंसम् अप्य् अस्ति दूरं वत्साद्य्-आघात-धाम्नः पुरम् अपि किम् अदस् तत् प्रियाः कुत्र दुःखम्? किन्त्व् अन्यत् प्रार्थितं यद् भवद्भिर् उचितं तद् विधत्त प्रसत्त्या प्राणे प्राणेश्वरीभिर् मयि किम् अयि परं हन्त मन्तव्यम् अन्तः ॥२०॥ गच्छन् नेष त्वम् अद्य स्फुरसि दयित भोः कंस-घातं विधाय स्वीकर्तुं राजतां तत् कथम् अथ भवताद् आगतिस् ते व्रजाय? तस्माद् अस्माभिर् अर्थ्यं तद् इदम् इह भवांस् तत्र नाना-विराजत्- तीर्थे सर्वार्थदे नः स्मृतिम् अनु ददताम् अञ्जलीनां त्रयाणि ॥२१॥ नालं मे राज्य-लिप्सा कथम् अपि वलते निर्ममे तत्र सत्यं कंसं हत्वा यदूनां सुखम् अभिवलयन्न् अस्मि चायात-कल्पः । बद्धः स्यात् कृष्ण-सारः सपदि विधि-वशात् तर्हि किं पार्थिवादेर् मानस् तस्मिन् सुखाय प्रभवति न वनं नापि कान्ता-सुसङ्गः ॥२२॥ वृन्दं क्रीडा-वनानां बहु-विधम् अभितोऽप्य् अस्ति तत्राथ राज्ञां कन्या बह्व्योऽपि कान्तास् तव विभव-वशाद् उद्भविष्यन्ति धन्याः । तत्-तल्-लाभे मनस् ते कथम् इह भवितास्मासु वा किं तपोभिर् लब्धे भोगे विचित्रे पुनर् अपि तनुम् आनीहते वन्य-वृत्तीः ॥२३॥ सत्यं ताः केलि-वन्या विदधति लषितं सर्वतः सत्यम् एव क्षोणी-पालादि-कन्याः परम-गुण-गण-स्तोत्र-भाजः स्फुरन्ति । सत्यं कुर्वे त्रिलोकी मम न हि रतिदा नापि तत्रस्थ-रामा यद्वद् वृन्दावनं मे तद्-अनुगत-रमा यद्वद् एता भवत्यः ॥२४॥ सा ते सर्वाङ्ग-शोभा बत समधिगता येन नेत्रेण येन श्रोत्रेणाश्रावि वंशी समगमि वपुषा येन च स्पर्ष-लक्ष्मीः । तेनैवालक्षि दूरं गमनम् अवगतं तेन सन्दिष्टम् उग्रं तेन स्वं विप्रलब्धं रचितम् इति हहा जीवितं धिग् विधिं धिक् ॥२५॥ येयं दृष्टिर् मया वश् छवि-परिकलनात् कृष्यते या श्रुतिर् वाग् दूरस्था रच्यते या तनुर् अपि मिलनाद् दव्यते स-व्यपेक्षम् । यद्य् एतास् तत्र तत्र प्रतिकृति-कृतये न ह्य् अधीना मम स्युस् तर्ह्य् एताः स्वैरिणीर् वा कथम् अहम् अहह प्राण-सख्यः सहेय?२६॥ अक्रूर-क्रूर-भावं विधिर् अशुभ-विधिं मित्रम् आमित्र-चर्यां यस्याम् अस्यां दशायां सरभ-समगमत् तत्र कान्यस्य वार्ता? अस्मज् जीवोऽप्य् अजीव-स्थितिम् इह नियतं प्राप्नुयाद् एवम् अत्र स्वामिन् न व्याधिवत् तत्-प्रतिविधिर् उदियात् काल-कल्पे विलम्बे ॥२७॥ आयास्याम्य् एव शीघ्रं न खलु मम मनस्य् अन्य-वार्तास्ति काचित् काचिद् वा दैवतः स्यात् तद् अपि न भवती-जातु दीनास् त्यजानि । या या मध्ये मद्-आप्तिर् मुहुर् इह भविता तां पुनः स्वप्न-रूपां मा शङ्कध्वं यथा प्राग् असति च विरहे शङ्कमाना बभूव ॥२८॥ इति । एतावन् मानम् अन्यासां वाचिकं हरिणाजनि । राधाया मूकतानूकम् अमितं यत् तु निर्ममे ॥२९॥
ततः स्व-वृन्देन निशान्तम् आपिता
बलेन बालास् तद् उरीकृतागतिम् । प्राचीन-तद्-रीति-शतेन निश्चितां विनिर्माणा मुहुर् एव तां जगुः ॥३०॥
[२२] तद् एवं स्निग्धकण्थस्य कथितम् अनु व्यथित-मनसि श्री-राधिकादि-सदसि
विकलः कमल-लोचनः स्वयम् एव समवोचत—
राधे श्रवसि नावेशं कुरु किन्तु विलोचने । वृत्तं सन् मन्यसे हन्त वर्तमानं न वीक्षसे ॥३१॥
[२३] तद् एतन् निशम्य रम्यं तन्-मुखं निशाम्य शाम्यत्-पीडा स-व्रीडा तत्-काल-
वलमान-शीतल-नयन-जल-बिन्दुभिस् तत्-पदारविन्द-द्वन्दम् इन्दीवराक्षी शिरसा
निषेवमाणा सुचिरं सिषेच ।
[२४] अथ सर्वेषां सुख-सन्दोहे सम्भृत-दोहे सर्वे पर्वेव लभमाना निज-निजालयं सम्बभूवुः । श्री-राधा-माधवौ च मोहन-मन्दिरं विन्दतः स्मेति ।
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
माथुर-पुर-स्थान-प्रस्थानं नाम
तृतीयं पूरणं
॥३॥
(४)
अथ चतुर्थं पूरणम्
श्री-मथुरा-पुर-प्रवेशः
[१] ततः श्री-व्रज-युवराज-विराजमान-व्रज-राज-कारित-प्रथायां प्रातः-कथायां मधुकण्ठ उवाच—
[२] अथ सम्प्रति श्री-व्रज-राज-लोचन-सुखद-वेषः स एष श्री-व्रज-युवराजस् तदा स्व-मातरं कातर-मनस् तया गृह-गमनं प्रति प्रतिकूल-मनसं मत्वा क्रोशम् अर्धम् अर्धं गत्वा तस्या भावान्तराय काञ्चित् काञ्चिद् भोजनादि-सामग्रीयाम् अग्रीयां पथि श्रमम् अपनेतुम् इव प्रहितैः स्व-हितैर् याचितवान् ।
[३] ततस् तद्-द्वारा तत्-प्रयाण-क्रम-वचने तद्-याचित-रचने चावेशाद् वेश्म-प्रवेशः कालातिक्रान्त्या क्लेश-लेशस् च तस्या वृत्तः ।
[४] अथ यावद् व्रजेश्वरादयः स्व-स्व-शकटं घटयन्ति स्म, तावन् निज-रथं प्रथमान-जवतया वामया गत्या गान्दिनी-सुतः कालिन्दी-तीर्थ-विशेषं प्रत्यासादितवान् । कदाचिद् वर्त्मनश् च निवर्तेयाताम् एताव् इति व्रज-स्थानां दृष्टि-वञ्चनाय । ते तु सरल-प्रज्ञास् तत्-कौटिल्य-गतिम् अविज्ञाय दक्षिणया गत्या मधुपुरी-दिशम् उरीकृतवन्तः ।
[५] यदा चाक्रूरस् तत्र माध्याह्निकं धर्म-कर्म कुर्वन्न् अपूर्वं कम् अपि विगत-भवं भगवद्-विभवं पश्यन् नश्यद् उत्ताल-गतिताम् अवाप, तदा तु ते किं तावद् इदम् इति स-चिन्ताः पथि व्यथिततया चिरं तस्थुः ।
अक्रूरे वारि-मग्ने रहसि रथ-गतौ राम-कृष्णौ व्यधत्तां वार्ताम् आविश्य यां यां शृणुत मम मुखाद् अद्य सङ्क्षेपतस् ताम् । किं किं पुर्यां विधेयं तद् इदम् इदम् अहो तत्र वा संशयः कः किं गोष्ठे तत् तु भाग्यं स्मरति मयि मुहुः कण्ठम् अस्रं रुणद्धि ॥१॥ (स्रग्)
[६] अथ चिराल् लब्ध-दृष्टि-पथे च स-राम-कृष्ण-तद्-रथे पुरस्कृत-श्रीमन्-नन्दाः सर्वे सानन्दा बभूवुः । ततश् च तत्रैव क्षणम् उपविश्य परस्परम् उपदिश्य मन्त्रं वलयित्वा दैवम् एव च सदैव सहायतया कलयित्वा वल्लव-वलयः पुरः पुरतः स्थलं चलति स्म ।
[७] तत्र तत्र च पथिकानां भाग्य-प्रथिमा केन वर्ण्यताम्?
[८] यत्र हि—
पुराद् विदूराद् अथ यद् गतागतं जना व्यधुर्ये परितोऽपि ते पथि । आकस्मिकं वीक्ष्य हरेर् मुखाम्बुजं विसस्मरुस् तद्-वपुषो दृशोर् अपि ॥२॥ (उपजाति) स पुरं प्रविशन् देवी-खरम् आविश्य दक्षिणे । ववास या तत्र नाम्ना खर-वासेति तां व्यधात् ॥३॥ (अनुष्टुभ्) अद्यापि तां जनाः सर्वे मथुरायाः परिक्रमे । दक्षिणे सुष्ठु कुर्वन्तः स्पृश्यन्तेऽपूर्वया मुदा ॥४॥ (अनुष्टुभ्)
[९] तत्र च सर्व-सुखाय काम्यम् उपवनं निशाम्य स्वयं रथाद् अवतीर्य कीर्यमाण-तत्-प्रदेशतया शकट-घटावमोचनं विधाय पुनर् अक्रूरं सन्निधाय स्वं प्रति सम्प्रति निज-निकाय-गमनाय कृत-यत्ने तत्र स्वार्थ-विद्-रत्ने समयान्तरम् एव तद् योग्यम् इति समयम् अभिधाय कृत-तद्-विसर्जनः पिपालयिषित-सज्जनः सायम् आसाद्य वाद्यमान-दिव्य-वादित्रं विचित्रं तत्-पुरं राम-पुरःसरतया सखिभिर् वलित-सदेशः श्री-केशवः प्रविवेश । यत्र तेन दृश्यमाना नगरी तं पश्यन्तीव व्यदृश्यत ।
[१०] तथा हि, यस्याः खलु स्वस्मिन्न् अभिमुखानि गो-पुराणि मुखानीव तेन लक्षितानि— तानि च स्फटिक-घटिततया स्मितच् छवि-शवलितानीव; अक्षीणानि गवाक्ष-लक्षाणि पुनर् अक्षीणीव, तानि च विलक्षण-निजेक्षणतया क्षपित-निमेषाणीव; मणि-कुट्टिम-पटलानि महाट्टलक-पटलक-पटलानि निटिलानीव, तानि च लडह-वड्र-वडभी-कूटतया निजेक्षण-पर्वणि धृत-मुकुटानीव; गो-पुर-पुरस्ताद्-गतानि तोरण-शतानि चिल्ली-वलयानीव, तानि च मन्द-वात-सम्पात-कम्पाकुलतया स्तोक-स्वावलोक-जात-भाव-भङ्गी-सङ्गीनीव; लब्ध-शिल्पि-पाटवानि हाटक-कपाट-युगलानि कान्ति-सम्पद्-अन्तः-शोभमान-दन्त-कुलानीव, तानि च समुद्घटिततया स्वीय-सुन्दरता-वन्दनार्थं व्यादीयमानानीव; हाटक-सङ्कटित-शक्र-नीलालीनि शृङ्गाटक-निलयादीनि स्व-कान्ति-स्फुरद्-अन्तःकरण-चक्राणीव, तानि च स्वावलोकक-लोक-वलनया समुल्लसितानीव; स्वर्ग-रत्न-कृत-यत्नानि विटङ्क-रत्नानि विचित्रालङ्करणानीव, तानि च धृतापार-शिखि-पारावत-राव-वारतया तत्-कौतुक-चाञ्चल्य-सञ्जित-शिञ्जितानीव; विधातुर् अपि चमत्कार-कारणानि विविध-धातु-प्राचीराणि प्रशस्त-वस्त्राणीव, तानि च सम्प्रति समुज्ज्वलित-वर्णतया पत्रोर्णानीव; परितो विद्योतमानान्य् उद्यानानि परिवार-वलयानीव, तानि च नाना-पुष्प-फल-वलनया तत्-तद्-उपहार-संवलितानीव ।
[११] सेयं स्वयम् एव प्रति-वीथि स-फल-रम्भा-क्रमुक-स्तम्भारोप-पूर्ण-कुम्भ-सम्भारैः स-पुलकेव च सम्भाविता । परितः परिष्कृत-तीर-गम्भीर-परिखा-नीरेण स्वेदाम्बुनेव संवलिता च विलोक्यते स्म ।
[१२] अथ लब्ध-पुर-प्रवेशे वृन्दावनेशे वृन्दावन-चरितम् अदृष्टवच् चरीणां खेचरीणां तदा काचिद् अन्यदा च काचिद् इयं वर्णना निर्वर्णनीया । तथा हि—
[१३] पश्यत पश्यतासूर्यम्-पश्या अप्य् एताः कृष्ण-दर्शनम् अहसि सर्वं-सहतया ललाटं-तप-तपन-तप्ततां गतास् तथा वाचं-यमा अप्य् अमूः स्व-निवारकान् प्रति पुनर् अप्रियं-वदता-पदतया परं-तपताम् आपुर् इति । [१४] यत्र सति—
अपूर्वं पूर्व-वर्त्मन्य् असित-सित-चन्द्रौ विलसतस् तद्-ऊर्ध्वं हर्म्याग्रे किल कमल-वन्या विकसति । बकीजिद्-रामौ वा वन-विहृति-शीलाव् इह पुरे निरीक्षन्ते रामा यदि तद् अति-चित्रं विजयते ॥५॥ (शिखरिणी) अहह मधुपुरीयं कृष्ण-माधुर्य-सङ्गाल् लसति मधुपुरीव प्रेक्ष्यताम् आलि-वर्ग । अपि च सुवदनाभिश् चन्द्र-शालाः समन्ताद् अति-जवम् अधिरूढाश् चन्द्र-शाला स्फुरन्ति ॥६॥ (मालिनी) एताः कुण्डलितैक-कर्ण-लतिका दत्ताञ्जनैकेक्षणा लाक्षा-रञ्जन-मञ्जुलैक-चरणाः संवस्त्रितैक-स्तनाः । इत्य् एकैक-विधा हरिं प्रति ययुस् तन् नाद्भुतं मन्यतां यस्माद् आययुर् एक-सर्ग-गतिताम् आकर्ण्य तस्या गतिम् ॥७॥ (शार्दूल) स्नानेन द्रुतम् उज्झितेन वपुषि प्सानेन हृन्-मारुते व्रीडेनाभिनिवेशम् आत्मनि जवाद् उज्झन्त्य एव स्त्रियः । वस्त्राणां च विपर्ययेण निखिल-व्यत्यास-विज्ञापिकाः श्री-कृष्णं परितः समाययुर् अमूर् धिष्ञ्याद् अधिष्ञ्याद् अपि ॥८॥ (शार्दूल) मनांसि तासाम् अरविन्द-लोचनः कर्षन्न् अपि द्राग् अददान् महोत्सवम् । गजेन्द्र-लीलेन मृगेन्द्र-विक्रमे- णाम्भोधिजानन्द-करेण चात्मना ॥९॥ (उपजाति) आसीद् यच् छ्रुतम् एव मानस-हरं तद्-दृष्टि-वर्त्मागतं तच् चाथ स्वयम् एव दृष्टि-सुधया स्वं सेक्तुम् उद्यन्-महः । आकृष्यात्मनि तच् च लोचन-गुणेनासन् यदा तास् तदा तत्-स्फूर्ति-च्छवि-गह्वर-स्थिततया तद्-दूरतां नाविदुः ॥१०॥ (शार्दूल) पद्मिन्यस् ताश् चल-तनु-युजः फुल्ल-वक्त्रारविन्दाः प्रासादाग्रं हरि-परिचयायाधिरूढाः समन्तात् । यावद् यावत् पथि सुमनसां वृष्टिम् आचेरुर् उच्चैस् तावत् तावद् बत सुमनसां वृद्धिम् एवाभिजग्मुः ॥११॥ (मन्दाक्रान्ता)
[१५] तद् एतत् खेचरीणां वचनम् अनूद्य कथकेन स्वयम् उद्यते स्म—
तेऽमी विप्रा मम शिरसि संवासम् आसादयन्तां ये दुर्ध्वंसं सुर-मुनि-वरैर् अप्य् अवज्ञाय कंसम् । सद्-गन्धाम्भः कुसुम-दधिभिः साक्षतैः पूर्ण-पात्रैः प्रत्युद्गम्य स्वयम् अनुययुः कृष्णम् अभ्यर्चनाय ॥१२॥ (मन्दाक्रान्ता) ऊचुः सर्वेऽपि पौरा यद् अपि पशु-भृतस् तेऽपि सर्वेऽतिपुण्यास् तन्-नारीणां तथापि स्फुटतर-महिमा मोहम् अन्तस् तनोति । एता माधुर्य-पूरं न तु परम् अपरं चेतसा सन्दधानाः कृष्णं रामं च लोकाद् अद्भुत-मह-वपुषं शश्वद् आलोकयन्ति ॥१३॥ (स्रग्धरा)
[१६] तद् एवं स्थिते तत्रावस्थिते च कौतुक-स-तृष्णे श्री-कृष्णे कृत-परिजन-सङ्घ-सङ्गततया रङ्ग-कारः कश्चिन्न् अर्दद्-गर्दभ-सहस्रम् अर्दयंस् तिर्यग्-वर्त्मना पर्यागात् ।
[१७] पर्यागते च तस्मिन्न् असाव् असन्-मान-मर्दनः क्रीडा-धृत-गोवर्धनश् चिन्तितवान्— नूनम् अनून-वर्गस्य दून-सर्वस्य तस्य स-परिकरस्य पर्व-परिधान-सामग्री-सम्यग्-रीतिर् इयम् अनेन प्रणीय नीयते । पुर-प्रवेशाय मङ्गलं चेदम् आत्मनो वेशाय नेष्यामः । तस्मात् प्रथमतस् तत्-पराहति-पुण्याहं निर्वाहयंस् तावद् एनं याचन-रचनेन जात-क्रोधम् आचर्य पुनर् अतिचर्य स्फुटम् अपचर्य च तद् एतद् आच्छादन-वृन्दम् आच्छिन्दानि इति ।
[१८] प्रकाशम् अपि स-हासाभासम् आह स्म,—
देह्य् आवयोः समुचितान्य् अङ्ग वासांसि चार्हतोः । भविष्यति परं श्रेयो दातुस् ते नात्र संशयः ॥ [भा।पु। १०.४१.३३] इति ।
[१९] रजकः स तु रजसा तमसा च मनसि व्याप्तः सर्वत्र लब्ध-ख्यातेस् तस्य दानवारातेः प्रभावं शृण्वन्न् अपि न हृदि स्पृष्टवान् । तत्-पर्यवसायि-वस्त्राणाम् अमीषां तत्-प्रभावाद् एव तत्र समागमं कंस-प्रभावाद् एवेति परामृष्टवान् । तेन तेन दृशि व्याप्तश् च फण-धारीन्द्र-वारीन्द्र-नाक-चारीन्द्र-प्रभृत्य् उपहारी-कृत-दीव्यद्-दिव्य-वस्त्र-संवस्त्रणम् अपि तस्य न दृष्टवान् । ततश् चासाव् उद्भासुरासुर-भावस् तद्-अनुभावम् अननुभूय दूयमानतया बहु जहास—
ईदृशान्य् एव वासांसि नित्यं गिरि-वनेचराः । परिधत्त किम् उद्वृत्ता राज-द्रव्याण्य् अभीप्सथ ॥ याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीविषा । बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राज-कुलानि वै ॥ [भा।पु। १०.४१। ३५-३६] इत्य् आदिना ।
[२०] तद् अनु च—
उपहसन्तम् असन्तम् अमुं सरन् स-रजसं रजकं व्रज-राजजः । निज-करं कलयन् करवालभं सपदि लावनिभं विलुलाव तम् ॥१४॥ (द्रुत-विलम्बिता) अपाव्रजन्न् अथ रजका हरेर् दिशः पटास् तु ते स्फुटम् अलुठन् दृशोः पथि । स्वयं ययुर् यद् अभजमानताम् अमी समासजन्न् इह भजमानताम् इमे ॥१५॥ (रुचिरा)
[२१] तदा च स्व-कान्तिभिः कान्ती-कृत-घस्रं वस्त्राणां परः-सहस्रम् अजस्र-सुन्दर-पुरन्दरस् तद् इदं गृह्यतां गृह्यताम् इति सखिभिः प्रेर्यमाणतया विचार्य तेषु स्व-परिधार्यम् असकृन् निःसार्य सह-सहज-सहचर-वारः परिधार्य-निधार्य निधार्यः का चूडामणितया सर्व-निर्धार्यः सम्मत्त-वन-गज-राज इव नगर्याम् अयं विजहार ।
[२२] विहरति च विहसद्-बहु-सख्याव् अस्मिन् प्रख्यात-गुणतया सर्वातिशायकः कश्चिद् वायकः समस्त-मल्ल-तल्लज-लीला-समुचित-विरचित-चेलालङ्कार-मतल्लिकां वलयामास ।
[२३] यः खलु खल-कंस-भिया व्रजम् अव्रजन्न् अपि निज-सम्बन्धि-जन-गत्य्-आगत्य्-आसन्न-सुख-सम्पन्न-तद्-वार्ततया तं द्रष्टुम् आर्त-मानस आसीत् ।
[२४] सम्प्रति तु—
अपूर्वम् एकम् अत्रासीत् पूर्वं नैक्ष्यत यत् क्वचित् । तस्मै सद्यो ददौ रूप्यं सारूप्यं स्वस्य केशवः ॥१६॥ (अनुष्टुभ्) दृष्टस् तच्-छायया स्पृष्टः कुर्वंस् तद् वेशम् एष यः । त्यक्तस् तु न तया व्यक्तं सारूप्यं तन् न्यरूप्यत ॥१७॥ (अनुष्टुभ्)
[२५] अथवा तत्र तद्-आवेशम् एव प्रशंसामः, तथा हि—
पेशस्कार्यावेशात् कीटस् तद्-रूपतां चिराद् एति । कृष्णावेशः किं न हि वायकम् आश्व् एव कृष्ण-वत् कुरुताम्? ॥१८॥ (गीति) तं वायक-प्रकर-नायकम् अस्मि वन्दे निर्मञ्छयामि शिरसातिरसात् प्रणौमि । यश् चित्र-सीवन-पटं मणि-वेश-वेशं वेशं न्यवेशयद् अलं बल-केशवाङ्गे ॥१९॥ (वसन्त-तिलक)
[२६] अथ यः खलु मथुरागारः परम-सुभगाचारः कश्चिन् मालाकारः सु-दुष्प्राप-पुष्पाय प्रायशः श्री-वृन्दावनं मुहुर् विन्दति स्म । विन्दन्न् अपि स खलु धन्यः श्रीमद्-वन्य-वेशं केशवम् अपि पश्यति स्म ।
[२७] पश्यन्न् अपि तत्राविश्य पुष्पाहरणम् अपदिश्य तत्र चाभिनिविश्य यत्र यत्र यदासौ हरिर् विहरति, तत्र तत्र च पुष्प-हारम् उपहारम् उपहारं रचयति स्म ।
तद् अप्य् आस्ताम् अहो! तत्रात्मीय-सख्य-सुख-धाम्नः सुदाम्नः सम-नाम्नि मित्रताम् अपि सोऽयं तोयद-सुन्दरः स्वयम् उरीकरोति स्म । तथा च सति स खल्व् अत्र वसतीति सम्प्रति सहसा सह सहचारिभिर् विचारितवता परम-सच्-चरितवतानेन नागरान् पृच्छता तेभ्यः सुख-मुखरतां यच्छता तस्य गृहम् एवानुजगृहे ।
[२८] स हि पूर्वम् एव तद्-आगमनम् अवकलय्य रिक्त-पाणितया मिलने दोषं संशय्य सुकुमार-कुसुम-समूह-चितां तद्-उचितां मालां विरचय्य गन्तव्यम् इति तत्रासज्य स्थितवान् ।
[२९] अथ यत्र स एक-चित्ततया रहसि मर्म-वित्त-तुल्यं माल्यं निर्मिमाणस् तद्वद् अवहित-स्व-हितम् अहित-जन-सहित आसीत् तत्-पर्यन्तम् अप्य् अकृत-जल्प-स्वल्प-सखि-सेवित-पर्यन्तौ ताव् एतौ गतवन्तौ ।
[३०] तत्र कृत-गमनयोः पुनर् अनयोः परम-रमणीय-परिमले दलित-कुसुम-समूह-सौरभ-रभस-बले तद्-अवधेयतां गते समाधेर् उत्थित इव स महा-भाग-धेयः सुदाम-नाम-धेय सन्तत-निज-ध्येयम् एव रूपं निध्येयताम् अनैषीत् । निध्यायन्न् एव च लज्जा-नम्रता-कम्रतरः पुलक-कुल-सङ्कुल-कलेवरः शीघ्रतातिवशात् केवलेन शिरसा नत्वा वरासनादिकम् अपि दत्त्वा सद्-भाग्यतयात्मानं मत्वा गद्गद-निगदतया स्तुवंस् तयोर् अनयोर् भक्ति-पर्यन्तं प्रसादं गत्वा सखि-समेताव् एताव् आदृत्य दिव्य-मालादिभिर् अलङ्कृत्य दूराद् अनुव्रजन-पूर्वकं विससर्ज ।
[३१] तत्रालङ्कार-समये कोऽप्य् एष विनोद-चमत्कार-विशेषः सञ्जातः । या काचिद् दिव्य-माला सामि-कृतापि दीव्यन्ती बभूव । याम् एव मुहुः पश्यन्तं तं पश्यन् मालाकारः स-लज्जतया नम्रता-सज्जद्-आकारः सम्भृताशीर् आसीत्, ताम् एव शीघ्रम् एव सह परिवारेण विरचय्य तस्मिन् पर्यर्पयामासेति । विसृष्टि-समये चेदं साभिवादन-दैन्यं निवेदयामास— हन्त! यदि दुरन्तस्यापि तस्यातिपर्यन्त-भूर् आगम्यत, तदा सर्व-प्राणता-विलसद्भ्यां भवद्भ्यां सावधानतया भाव्यम् इति ।
[३२] विसृष्टाव् एतौ तु पुष्पवन्तौ दुष्प्रधर्ष-तेजसा सर्वं खर्वयामासतुः । अत्रेदं मच्-चित्त-मध्यम् अध्यारोहति—
भक्ताः सन्ति सहस्रशः स्फुटम् अमी श्री-कृष्णम् अन्विच्छवस् तेष्व् आसन्न-तदीय-चारु-चरणा राजन्ति चानेकशः । वन्दे तं तु सुदाम-दाम-रचना-चुञ्चुं यद् अन्वेषयन् श्री-कृष्णः स-बलः स्वयं गृहम् असाव् अर्थीव तस्यान्वगात् ॥२०॥ (शार्दूल)
[३३] अथ तत्र पथि चायं हरिः सर्व-चमत्कार-कारणं किम् अपि कौतुकं चकार; यथा—
काञ्चित् कुब्जां सुवक्त्रां स्फटिकज-घट-भाग्-अङ्ग-रागं वहन्तीं याचित्वामुं विलिम्पन् निज-वपुर् अमुना स्वान् अपि भ्राजयित्वा । ताम् ऋज्वीं संविधाय स्व-गुण-महिमभिर् विस्मितीकृत्य लोकान् शोकान् कंसे निधाय स्वयम् अघद-मनस् तत्र भूयश् चुकूर्द ॥२१॥ (स्रग्धरा)
[३४] अत्र इदं विचारयामः—
लालसीति यदि हार्द-मार्जवं कृष्ण-भक्तिम् अनु वाह्यम् अन्यथा । बाह्यम् अप्य् अलम् ऋजु प्रजायते साक्ष्यम् आगतम् इह त्रि-वक्रया ॥२२॥ (रथोद्धता) आर्दयद् रजकं कुब्जान्तान् अन्यान् स समर्धयत् । कंसस् तेनापि तेनापि ध्वंसम् एव प्रपन्नवान् ॥२३॥ (अनुष्टुभ्) सद्-भावं च प्रभावं च प्रेक्ष्य भावं च तस्य तम् । यथायथम् अथानर्चुः पथा लब्धं वणिक्-पथाः ॥२४॥ (अनुष्टुभ्)
[३५] अत्रापि तेषां वाणिज्यम् एव विलक्षणम् उत्प्रेक्ष्यते; यथा—
बहु-लोकाद् बहुधा वणिज्यया फलम् अन्वर्जितवन्त एव ते । अघ-शत्रोर् यद् इह स्वयं न तन् न पितार्जन् न पितामहादयः ॥२५॥ (प्रभाववती) ततः पौरान् पृच्छन्न् अयम् अथ मख-स्थानम् अनु यन्- निरस्तस् तत्-पालैः प्रसृततर-रक्ताक्षि-विकृतैः । धनुः कर्षन् हर्षाल् लघु यद् अभनक् तन् न हि जनः कदेत्य् अद्धा द्रक्ष्यन् न यदि तद् अकूजिष्यद् अभितः ॥२६॥ (शिकरिणी) क्रेङ्कारं यद् अकृत चापम् ऐशम् उच्चैर् निर्भेत्तुं बक-रिपुणा विनम्यमानम् । तत् कंसं ज्ञपयद् इवायम् अत्र कः स्याद् भूतेशः पतिर् उपगश् च यत्र नेशे ॥२७॥ (प्रहर्षिणी)
[३६] तत्र च विशेषः—
कोटी द्वे शत-कोटि-हस्त-गज-राडन्त-प्रभे लस्तकः स्तम्भ-भ्रान्ति-कृद् एक-वज्र-घटितः कृत्स्नं महद् यत्र च । दिव्यं तत् त्रि-पुर-प्रधूनन-धनुर् वाह्यं त्रि-शत्या नृणाम् अर्चिभिः परिचर्चिताखिल-हरिच्-चक्रे विभिन्नं हरिः ॥२८॥ (शार्दूल)
तदा च—
शेषः स्वे मूर्ध्नि घूर्णां समुदितिर् अपि दिग्-दन्तिनां दन्त-भेदं छेदं ब्रह्मा स्व-धाम्नस् त्रि-जगद् अमनुत ध्वस्तम् उच्चैः समस्तम् । नाश्चर्यं तद् यद् एतत् कुलिश-कठिनता-कूटजित्-कोट्य्-अखण्ड- ब्रह्माण्ड-ध्वंस-चण्डं हर-धनुर् अमुना खण्ड-खण्डं व्यधायि ॥२९॥ (स्रग्धरा)
तथापि—
कृष्णो यद् आसीद् धनुर् अमर-पतेस् तद्-धनुस् त्रोटजाग्निस् तस्मिन् विद्युद् धुताशः कट-कटित-रवः स्फूर्जितं गर्जितं च । कालः सोऽवग्रहान्त-क्षण-तुलिततया सज्जनानां विभातः कल्पान्त-प्रावृषस् तु स्फुरण-वलनया दुर्जनानाम् अदीपि ॥३०॥ (स्रग्धरा)
[३७] ततश् च ‘हन्यतां हन्यताम्ऽ इति जङ्घन्यमानेषु जेग्नीयमानेषु च समाशाच्छादकेषु सैनिकेषु ।
कदारोप्या मौर्वी धनुषि बत कृष्यापि च कदा शरस् तत्-तद्-यत्नाद् रिपुम् अनु विसृज्यः स स कदा । इतीवायं कृष्णः स्फुटम् उपहसंस् तस्य धनुषः कृताभ्यां खण्डाभ्यां पर-बलम् अहन्न् आशु स-बलः ॥३१॥ (शिखरिणी)
[३८] अथ तत्र कंसस्य वज्र-वडभीम् आरूढवता केनचित् प्रश्नोत्तराणि—
हंहो क्रेङ्कार-रावः किम् इति धनुर् अगाच् छ्याम एकः स-शुभ्रः किं तस्मात् तस्य वेदीं पद-दलित-भुवं निर्ममे वक्षि किं धिक्? आस्तां तत् सावहेलं तद् अपि निज-बलाद् उद्धृतं लघ्व् अकार्षीद् आः किं तद् देव वक्ष्ये किम् इव पुनर् अदः सैन्य-युक्तं ममर्द ॥३२॥ इति ।
(स्रग्धरा)
> एवं कंसस्य वस्त्रं सह-रजक-पति स्वैरम् आच्छिद्य भूयश् > चापं छित्वा स-सैन्यं प्रहितम् अपि बलं तेन सम्मर्द्य शश्वत् । > निःशङ्कावेश-लेशः पुर-विभवम् अमुं प्रेक्षमाणो विजह्रे > योऽयं स श्री-व्रजेश-प्रभव-कुल-मणिर् मां प्रमत्तं करोति ॥३३॥ (स्रग्धरा) > वीर्य-प्रागल्भ्य-तेजः-स्फुरित-सुभगतां वीक्ष्य पौराः समन्ताद् > एतौ श्री-कृष्ण-रामौ विबुध-वरतया मन्यमाना जजल्पुः । > हंहो पश्य प्रताप-च्छवि-रविम् अनयोर् आशु पश्यन् निरंशुः > सोऽयं विश्व-प्रसिद्धो रविर् अपि नियतं प्रत्यग् अद्रौ निलिल्ये ॥३४॥ (स्रग्धरा)[३९] ततश् च तस्य सङ्घटनार्थं निज-निकटाद् अटत्य् उद्भटे कटके भयात् कंसेन कृत-विघटने तस्य कूटतान्तरम् अवधाय तम् अवज्ञाय सखिभिः सङ्घटित-खेलौ लब्ध-वेलौ शाकट-वाटम् एवाटतुः ।
[४०] शकटावासम् आसज्य च सोऽयम् अधर्मवतां वधः परम-धर्म एव इति तत्-कर्मानन्तरं स्नानं परित्यज्य चरण-मात्रम् अवनिज्य ताभ्यां पयसा सिक्तं भुक्तम् उपयुज्य्ते स्म ।
तन् मां द्रवयति हरिणा सायं शकटावमोचने भुक्तम् । यत् पाथेयं मात्रा सद् अयं क्षीरोपसेचनं प्रहितम् ॥३५॥ (गीति)
[४१] तद् एवं कथिते सर्वस्मिन्न् अपि व्रज-जने व्यथिते मधुकण्ठः पुनः समापयन्न् उवाच—
यत् कंस-घाताय गतं बकारिणा स्वप्नायितं तद् व्रज-राज मन्यताम् । पश्याग्रतस् ते वयसा नव-श्रिया तेनैव भाति स्वयम् अब्ज-लोचनः ॥३६॥ (इन्द्रवंश)
[४२] तद् एवं स-समाजः श्री-व्रज-राजस् तं नेत्रेण गात्रेण च यथायथम् आलिङ्गन् सर्वाङ्ग-रिङ्गत्-प्रमदम् उल्ललास ।
[४३] अथ श्री-कृष्ण-कृतम् अहसि राधिका-सदसि च कथावशेषः । यथा मधुकण्ठ उवाच—
यावद् गोष्ठात् प्रतस्थे पुरम् अघ-विजयी तावद् आरभ्य सभ्या वीरार्हं तस्य शर्म-प्रकरम् अधिजगुस् तत्-तद्-उल्लास-वाग्भिः । अन्तर्-विज्ञाः प्रियाणां विरहज-कदनं श्वास-दैर्घ्येण मध्ये मध्ये संलक्ष्य दुःखाद् अहह मुहुर् अपि श्वास-रोधं समीयुः ॥३७॥ (स्रग्) यदा ता नागर्यः किल निज-विलोकाय समयुस् तदा सत्यं तासाम् अनु मुखम् अपश्यद् बक-रिपुः । तथा तत्राप्य् एष स्पृहितम् अकरोद् इत्य् अपि ऋतं व्रज-स्त्री-सारूप्यं यद् इह मृगयामास परितः ॥३८॥ (शिखरिणी)
[४४] यद् एतावद् अपि श्री-राधादीनां कृताशीर्भिर् गीर्भिर् एव सम्पन्नम् । तथा हि श्री-शुक-वचनम्—
गोप्यो मुकुन्द-विगमे विरहातुरा या आशा-सताशिष ऋता मधुपुर्य् अभूवन् । सम्पश्यतां पुरुष-भूषण-गात्र-लक्ष्मीं हित्वेतरान् नु भजतश् चकमेऽयनं श्रीः ॥ [भा।पु। १०.४२.२४] इति । (वसन्त-तिलक)
[४५] अथ कथा-सदसि वलिता श्री-ललिता सोत्प्रासं पप्रच्छ— भवेत् स्त्री-मात्र-स्पृहितम् अप्य् अनुगृहीतम् अमूदृशाम्; यत् किम् अपि नाकार्यम् आर्य-चरितानाम्, कुब्जायां सुचरितं तु कथं न्युब्जीकृतं ?
[४६] श्री-कृष्णस् तु तत्-प्रकथकौ कथकौ स-सङ्कोचम् आलोचयन्न् उवाच— भवन्ताव् इह मम मर्मानुभवन्ताव् एव स्त इति तां कथां यथावद् वदताम् ।
[४७] कथकाव् उचतुः— श्रीमति ! ललिते ! श्रूयताम्—
यः खलु करुणा-शीलस् तस्य विचार्या प्रवृत्तिर् न । निखिलोपेक्षित-जीवे बाढं यस्यार्द्रता भवति ॥३९॥ (उपगीति)
किं च,
कुतुकी कुतुकाकृष्टोऽप्य् अति-करुणश् चेद् दरिद्र-वश्यः स्यात् । अत्र हि केशव-कुब्जा- वृत्तं वृत्तं सुधी-सहस्रेण ॥४०॥ (गीति)
[४८] अथ तयोर् मधुकण्ठ एवोवाच, [४९] तथा चानेन पुरस्ताद् इदं विचारितम्—
चन्द्रति वदन-विलासाद् अष्टावक्रति तथाङ्ग-कौटिल्यात् । तस्माद् एषा पृच्छ्या तरलति चित्तं हि कौतुकात् परितः ॥४१॥ (गीति)
[५०] आम् आं सा खल्व् एषा सैरिन्ध्री कंसाय गन्ध-सन्धायिनी भवति । यत् खल्व् एकाकिनी कलित-प्रयत्नं गन्ध-भाजन-रत्नं स-निर्बन्धं कराभ्यां रुन्धाना राजावरोधम् अनुरुन्धाना तर्क्यते, तस्माद् वस्त्रम् इव तस्य पर्वणि शस्तम् इमं निर्हारिणं गन्धम् अपि निर्वहाणि । किन्तु स्त्रीयं खलु लोभयितव्या, न तु रजकवत् क्षोभयितव्या । लोभः पुनर् अस्यां कुरूपता-घटित-कुटिलाङ्गतया स्फुटं पुरुष-सङ्ग-रहितायाम् अनङ्ग-रङ्ग-जन्मत एव सुकरः स्यात् । अनङ्ग-रङ्गम् अपि लब्ध-मदाङ्गावलोकनया नान्यतः पर्यालोचयामि । तस्माद् अहम् एव तन्-निर्वहनं स-मर्म-विलास-नर्मणा निर्मिमीय । तद् एवं विचार्य चतुराचार्यः स्पष्टम् आचष्ट— वरोरु ! गन्तुम् उत्कतां गता का त्वम् असि ?
[५१] सोवाच— सुन्दरास्य ! दास्य् अहम् अस्मि !
[५२] श्री-कृष्ण उवाच— कस्य ?
[५३] सोवाच— कंसस्य ।
[५४] श्री-कृष्ण उवाच— रामा-शिरोमणि ! किं नामासि ?
[५५] सा स-लज्जम् उवाच— सुभग-शक्र ! त्रि-वक्रा इति ।
[५६] श्री-कृष्णः स-गणः स-हासम् उवाच— तर्हि सान्वयः खल्व् अयम् आह्वयः ?
[५७] पुनः श्री-कृष्ण उवाच— सर्वाङ्ग-ग्लेपन-हरणम् अनुलेपनम् इदं कस्य ?
[५८] सा स-हासम् अह स्म— विदग्ध-शेखर ! या यस्य किङ्करी, सा तद्-अर्थम् एव सर्वं चरीकरोति ।
[५९] श्री-कृष्ण उवाच— मधुर-भाषिणी ! दासी कापि स्वामि-सम्मता । कापि तद्-उदासीन-स्थल-गामितया नाति तन्-मता दृश्यते ।
[६०] सोवाच— सु-वदन ! तद् अपि सयं वदसि । साहं तु तस्य सम्मता । न तावद् अन्यथा मता ।
[६१] सर्वे सोपहासं ऊचुः— परम-रमणीयाङ्गीयं कथम् इव तद्-अङ्गीकारं न धारयतु ?
[६२] श्री-कृष्ण उवाच— तथ्यं कथ्यताम् । क्व नु तस्य सम्मतासि ?
[६३] सा स-प्रणय-रोषम् उवाच— दृष्टम् अपि कथम् इदं पृष्टं क्रियते ? बहल-परिमल-शर्मण्य् अस्मिन्न् अनुलेप-कर्मण्य् एव ।
[६४] श्री-कृष्ण उवाच— स्फुटम् अन्याश् च त्वादृशिं-मन्या धन्यास् तस्य विद्यन्ते ।
[६५] सोवाच— सन्तु नाम । किं तु मद्-भावितम् एव भोज-पते रतेर् भावनाय कल्पते ।
[६६] श्री-कृष्ण उवाच— यदि न गर्ह्यं-मन्यसे, तर्ह्य् अहम् अस्य भाजनम् अभ्यस्य सौरभ्यम् अनुभवितुम् इच्छामि ।
[६७] सोवाच— गुरुभ्यः शपे, तुभ्यं ममाप्रदातव्यं किम् अपि नास्ति ।
[६८] श्री-कृष्ण उवाच— एवं चेद् आवाभ्यां तद् इदं तावद् वितर ।
[६९] सा तु सानुराग-स्मितम् आह स्म— विश्वाद्भुत-नव-युवानौ युवां विना कस् तावद् एतादृग्-आमोद-पात्र-पात्रताम् अर्हति ? ततो यदृच्छया सर्वम् एव प्रतीच्छतम् ।
[७०] अथ सखायः परस्परं नीचैर् इव स-हासं ऊचुः— हन्त ! द्वयम् अपि चकमे कामिनीयम् ।
[७१] श्री-कृष्णस् तु तां स्तुतां विदधत् प्रत्युवाच— तर्ह्य् अचिराद् एव तव भविकं भविष्यति । इति ।
[७२] तद् एवं श्री-कृष्णस्य परम-रमणीय-रूप-विलास-हास-स्नपित-लपित-माधुरीणां सा धुरीण-चित्ता ताभ्यां द्वाभ्याम् अपि पर्व-कृते कृतं सर्वम् अपि तद् अनुलेपनं रचितार्पणं चकार । [७३] यत् खलु गौर-मेचक-भागाभ्यां द्विधा-कृतम् उदयच्-चान्द्रमस-बिम्बम् इव सान्द्रम् अपि सलिल-विरलतया कॢप्तं, वस्तुतस् तु श्री-निधि-कर-सन्निधि-वशतया तद् अखिलेषु सखिषु च पर्याप्तिम् अवाप ।
कृष्णस् तत्र सु-पीत-पीतन-मयीं चर्चां दधद् दिद्युते रामः श्याम-कुरङ्गनाभिमुख-सद्-गन्ध-श्रियाशोभत । यद्वद् विद्युद्-इत-द्युतिर् विजयते विद्युत्वद्-उद्यत्-तनुर् यद्वद् विस्फुरद्-अङ्क-सङ्कर-रुचिश् चादभ्र-शुभ्र-द्युतिः ॥४२॥ (शार्दूल)
[७४] अथ पुनः कथा-सदसि लज्जा-प्रथाकर-कथा-विशेष-प्रत्यासन्नतया सन्न-कण्ठे मधुकण्ठे स-स्मितं ललिता ललाप— अग्रिमम् अपि कौतुकम् अव्यग्रं कथ्यताम् । यत्र युष्मद्-ईशितुर् अस्य वेशः स्वार्थान्तराय सम्पद्यते स्म ।
[७५] मधुकण्ठः समाधानम् अधत्त— तद् एवं तयानुरज्य चर्चया सज्यमानः सोऽयं पूतनादीनाम् अपि पूतता-विधायी दीन-दयानुयायी चिन्तयामास— एषा खलु रुचिराननाप्य् अङ्ग-सारल्य-वैकल्यात् कलित-हृच्-छल्यामयि च कृतानुकूल्या स्याद् आपाततस् तु ममावलोकनं तच्-छल्यम् अस्या निर्दल्यमानं कर्तुम् अर्हति इति ।
[७६] स्पष्टं चाचष्ट— त्रि-वक्रे ! त्वाम् अवक्रां कर्तुम् अनुज्ञां याचे ।
[७७] अथ सा च तां वाचं नर्म जानती स-स्मितम् उवाच— अथ किम्, किं तु कथम् इव ?
[७८] श्री-कृष्ण उवाच— ग्रहण-विशेष-चातुर्येण ।
[७९] ततश् चाखर्वं सखि-सभासत्सु हसत्सु सा स-रोमाञ्चम् उवाच— तर्हि मम वास-गृहम् आसद्यताम् ।
[८०] श्री-कृष्णः स्वयम् अपि विहसन्न् आह स्म— न तावद् अत्र तावती प्रक्रिया तर्क्या । विश्वस्य चमत्काराय विश्वस्य सम्प्रत्य् एव सन्निधाय पश्य ।
[८१] अथ तस्यां स-कम्पं सन्निदधत्यां सर्वस्य च पश्यतश् चमत्कारं व्यस्यन्न् असौ नट-कलाम् इव घटयामास । यथा—
पदे पदाभ्याम् आमृश्य कुब्जकं वाम-पाणिना । तर्जनी-मध्यमाभ्यां तु चिबुकं ताम् ऋजुं व्यधात् ॥४३॥ (अनुष्टुभ्) ततस् तस्याः पृष्ठाद्य्-अवयव-ततेः सा कुटिलता कटाक्षं स्थौल्यं तु स्तन-जघन-सक्थि स्फुटम् अगात् । मुकुन्दस्य स्पर्शान् न तद् इदम् अपूर्वं भवति यत् परासां सुभ्रूणाम् अपि सुभगता ताम् अभिगता ॥४४ ॥ (शिखरिणी)
[८२] अथ हलहलायमानं कोलाहलं लोकश् चित्रतया यं कलयामास; तद्-विशेषस् तु न केनचित् प्रस्तूयते; किं तु शुभगङ्करण्या तस्य विद्यया सुभगं भावुकायास् तद् अनन्तर-वृत्तेन तु तस्या वृत्तेनेदं परामृशामः ।
सम्पत्तिः किल गर्वम् आशु तनुते दैन्यं विपत्तिर् बलाद् एवं शास्त्र-कथा वृथा न जगति स्याद् एतद् आकल्यताम् । कुब्जा सा किल रूप-यौवन-कला-सम्पद्वती यर्ह्य् अभूत् तर्ह्य् एवाशु हरेश् चकर्ष रभसाद् अस्योत्तरीयाञ्चलम् ॥४५॥ (शार्दूल) ईशितां यदि भजेत दुर्गतस् तर्ह्य् अपि स्फुरति नीतिर् अस्य न । एहि वीर भज मां स्मरातुराम् इत्य् उवाच जन-धाम्नि कुब्जिका ॥४६॥ (रथोद्धता)
[८३] ललितोवाच— यद्य् एवम् अनन्त-लीलस्य खल्व् अस्य सा भोगवती जाता, तदास्मद्-विधातल-स्पर्शता-स्थितिर् अपीयं तस्यां सदृशतां याता । तस्माद् अग्र्यम् एवाव्यग्रतया कथ्यताम् ।
[८४] मधुकण्ठः स-सङ्कोचम् उवाच— ततश् च परम-दयालुः कौतुक-परतया सोऽयं सर्वातिशयालुर् अपि लज्जालुतां सज्जन् समान-वयसः स-वयसः कौमारा एकारामं रामम् अपि स-स्मितं निशामयंस् तद्-वञ्चनम् अयं स्मयं बिभ्राणः प्राह स्म—
एष्यामि ते गृहं सुभ्रु पुंसाम् आधि-विकर्षणम् । साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम् ॥ [भा।पु। १०.४२.१२] इति ।
[८५] ललिता स-स्मितम् उवाच— अहो ! महद्भिर् यद् उक्तम्, तद् एव युक्तम् अपश्याम ।
[८६] विशाखोवाच, — किं तद् उच्यताम् ।
[८७] ललिता स-हासम् उवाच—
प्रासादीयति यः कुट्यां पर्यङ्कीयति मञ्चके । तस्य सन्तोष-शीलस्य कुब्जिकाप्य् अप्सरायते ॥ ४७॥ इति ॥ (अनुष्टुभ्)
[८८] किञ्चिद् इव विहस्य श्री-राधोवाच— स्वानुरोधः खलु परानुरोधाय स्यात् तत् कथम् अयम् एवं न ब्रूयात् ?
[८९] मधुकण्ठ उवाच— भवतीषु तावद् अयं तादृश एव, तत्र पुनर् वयम् ईदृशं परामृशामः—
कृपालूनां दीनः स्वम् अभि यदि दृङ्-मात्रम् अयते तदा सर्वा तेषां भवति विभुता तस्य वशगा । त्रिवक्रायां कृष्णः क्षणिक-कुतुकाद् दृष्टिम् अदधाद् अहो सासीत् प्रेयस्य् अनुकृति-कृते वल्गित-बला ॥४८॥ (शिखरिणी)
[९०] तथापि तु—
करुणा-शीलः सोऽयं स कुतुक-लीलः समन्ततः स्फुरतु । प्रभवेद् एनं बन्धुं बन्धुं राधे तवैव सत्-प्रेम ॥४९॥ (गीति)
[९१] तद् एवं राधा-माधवौ मिथः-सुखापने कथा-समापने मोहन-मन्दिरम् एवाविन्देताम् ।
इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
श्री-मथुरा-पुरान्तः-प्रवेश-निर्देशो नाम
चतुर्थं पूरणम्
॥४॥
(५)
अथ पञ्चमं पूरणम्
कंस-वध-कथा
[१] अथ श्री-कृष्णेन भासमानायां श्री-व्रज-राज-सभायां पुनः प्रातः-कथा, यथा—
[२] स्निग्धकण्ठ उवाच,— अथ रजनिर् अजनि; प्रजातायां च यस्यां बहु- शिवायमाना शिवा श्री-कृष्णं प्रति शिवा जाता, कंसं प्रति स्फुटम् अशिवेति स्थिते तस्यां रजन्यां स्वप्न-जागरयोस् तस्य महा-भय-जनन्यां व्यतीतायां स पुनर् दम्भी गम्भीरं मल्ल-लीलारम्भं सम्भृतवान् । ततश् चालङ्कृतानां चालङ्कृतानां च शुभ्र-मञ्च-प्रपञ्चानाम् अधिमध्यम्-अध्यस्तं रङ्ग-स्थलं भ्राजमान-चित्र-विरचनं बभ्राजे । विद्युद्-भ्राजमानाद् अभ्र-शरद्-अभ्राणां तारकितं नभ इव ।
[३] तत्राप्य् उन्नततम-मञ्चम् अञ्चन् कंसः स्वयम् अखिल-दुर्जन-राजावतंसति स्म । तत् तु राजाधिपता-गर्व-ग्रस्ततया सम्भवद् अपि त्रस्ततायाम् एव पर्यवस्यति स्म । तत्र च—
अक्रूरानकदुन्दुभी यद् अकृत स्वे मञ्चके प्रान्तयोः पौरीणां गण-भाजि देवक-सुतां नन्दादिकान् दूरगे । किं च द्वारि गजं दधे कुवलयापीडं निजाग्र-स्थले मल्लान् कूटतया स भोज-नृपतिस् तस्मान् न कः क्षुभ्यति? ॥१॥ (शार्दूल)
तत्र च—
कंसाज्ञयासीद् यद् वाद्यम् अत्र मल्ल-कलोचितम् । तद् एव मङ्गलं जज्ञे प्रस्थाने राम-कृष्णयोः ॥२॥ (अनुष्टुभ्)
[४] अथ तयोर् निज-तद्-अनर्गलता-व्यञ्जनाय स्वयम् अनागम्य प्रथम-प्रस्थापित- स्थविर-गोप-वर्गयोः कृत-प्रातः-कृति-सर्गयोर् यदा रङ्ग-पुर-द्वार-पुर-प्रदेश-प्रवेशः समजनि । तदा तु लोक-कोलाहलत एव सर्वस् तत् कलयामास ।
[५] ततश् च सदोत्कटं मदोत्कटं गलत्-कटं नगो वा नागो वेति निर्णिनीषतां कृत-व्रीडं कुवलयापीडं निष्पीडयितुम् अंशुकम् आपीडं च दृढीकुर्वन्न् अग्रज-सखि-व्रज-कृतानुव्रजनः सुरेतर-मर्दनः स्वयम् अग्रेसरताम् अवाप।
स्निग्धा न्यषेधन् ये तत्र गिरा स्वं शत्रवस् तथा । उभयांस् तान् स्मितेनैव पश्यन् द्विपम् अगाद् धरिः ॥३॥ (अनुष्टुभ्)
[६] ततश् च श्री-हरिणा—
तद्-वर्त्म-प्रार्थनं तत्-कुपित-गजम् अपि प्रार्दनं तन् निजाङ्ग- स्याभीक्ष्णं तस्य शुण्डा-रद-पद-वलनं तत् ततो मोचनं च । तत्-पुच्छाकर्षणं तद्-भ्रमणम् अभिमुखीभूय तत्-ताडणं तद् विद्रुत्य द्राक् पतित्वा द्रव-भरम् अनु निष्पातनं सम्भ्रमय्य ॥४॥ (स्रग्धरा) तद्-दद्भ्यां वञ्चिताभ्यां क्षिति-हति-वलनात् क्षोभणं तत् पुनश् च प्रत्यासद्याग्र-हस्त-ग्रहण-रचनया स्रंसनं भूमि-पृष्ठे । तद्-वर्ष्माक्रम्य तत्-तद्-दशन-विघटनं तेन तद्-घातनं च द्रष्टॄन् सिन्धोस् तरङ्ग-प्रतिमम् अनयद् उन्मज्जनं मज्जनं च ॥५॥ (स्रग्धरा) हस्तिनः कथिते घाते हस्तिपां तत्-कथा वृथा । मल्ले क्षुण्णे तु तत्-स्थानां यूकानां तत् किम् उच्यताम्? ॥६॥ (अनुष्टुभ्)
[७] तदा चायं विशेषः,—
पर्यटन् नट एवायं सिंह एव स संहरन् । भिन्दन् भिदुरम् एवेति करिणा हरिर् ऐक्ष्यत ॥७॥ (अनुष्टुभ्)
हत्वा नागं दन्त-युग्मं गृहीत्वा भ्रात्रे प्रादात् कंस-शत्रुस् तद् एकम् । एको निर्मात्य् आवयोर् यद् यशस् तद्- द्विष्ठं दिष्टं स्यात् समन्ताद् इतीव ॥८॥ (शालिनी) कुञ्जरं हरिर् अघातयद् बलोऽप्य् अत्र रक्त-मद-बिन्दुभिश् चितः । पारिपार्श्विकतया तद्-अन्तिके च्छाययेव यद् असौ तदाभ्रमत् ॥९॥ (रथोद्धता)
[८] तद् एवं गीर्-वाणा अपि यद् बृंहित-वाणाद् भयम् अयमानास् तत एव किल शश्वद् अस्वप्नान् नाम्नाप्य् अस्वप्ना जाताः । सोऽयं कुवलयापीडः करी दान-वारि-वरीयान् अपि दान-वारि-कृत-दानम् आप्तवान् इति ते पुनर् लेखा विस्मयेन लेखा इवासन् । तत्र च सति कंसं प्रति सहसा न कश्चन भिया शशंस ।
[९] तद् अनु च—
पूर्वाह-लुण्ठित-नृपांशुक-शोभितांशू सद्यो-विघातित-महा-गज-दन्त-पाणी । तद्-रक्त-दान-रचिताङ्गद-कङ्कणौ तौ तादृग्-गनैर् विविशतुर् नृपतेः पुरस्तात् ॥१०॥ (वसन्त) शौर्यम् एव पुरुषस्य भूषणं यत्र हेयम् अपि याति गेयताम् । दन्ति-रक्त-मद-बिन्दवस् तनुं कंस-संसदि तयोर् अरूरुचन् ॥११॥ (रथोद्धता) द्विषन्तो भीष्माङ्गं ददृशुर् अजितं तर्हि पुरतस् तटस्था मध्यस्थं प्रणय-मनसः शर्म-वपुषम् । विशेषं तत्रापि स्फुटम् अधिययुस् ते बहु-विधं यथा भावस् तद्वद् युगपद् अयम् उच्चैर् विभवति ॥१२॥ (शिखरिणी) वर्ण्यं तद् वा कियद् इह भवेत् तस्य माधुर्य-वर्यं जीवत्-कंसेऽप्य् अथ सदसि यद् वन्दितं लोक-लक्षैः ।
तेजस् तद् वा कतिपयम् इतः कथ्यतां यत्र मग्नं
प्राणन्तं तं मृतम् इव सुरा मेनिरे भोज-राजम् ॥१३॥ (मन्दाक्रान्ता)
[१०] अथागतौ च गृहीत-मृणाल-नाल-हस्त-हस्तिनाव् इव धृत-दन्ति-दन्तौ बृहद्-उरस्वन्तौ सोऽयम् एव किम् इति सावहेल-शंसनेन कंसं विलोक्य तौ श्लोक्य-चरितौ तं पृष्ठ-देश-परामृष्टं कुर्वन्तौ तत इतो दृष्टि-विसृष्टिं चक्रतुः ।
[११] ततश् च परिवृत्य श्री-हरिः पुनर् अहो अपश्यत् त्रि-दिवस्य वर्त्मार्धम् एवानु-वर्तमानः सोऽयं वर्तते, तस्मात् तत्र प्रस्थापनम् अस्य नातिदूरावस्थापनम् इति हसित्वा सखिभिर् अखिलैः सह लसित्वा च परस्परं परं वृत्तं वर्तयामास ।
[१२] अथ स्व-हत-गज-रक्त-रक्ततया प्रलय-काल-काय-व्यक्त-नील-लोहितायमानता-पात्रस्य गात्रस्य विलोकन-मात्रतः प्राप्त-तेजो-ध्वंसं कंसं कव् इमाव् इति शंसन्तं पार्श्व-वर्तिनः प्रोचुः,— एतव् एव तौ इति ।
[१३] कंस उवाच,— अनयोः करयोः किं दृश्यते? गात्रं वा केन चित्र-पात्रं कृतम्?
[१४] सर्वेऽप्य् ऊचुः,— कुवलयापीडस्य दन्ताव् इवावकल्येते गात्रं च तद्-रक्त-रक्तं भवेत् ।
[१५] कंसः स-संरम्भ-दम्भम् उवाच,— हंहो! अंहो-वलिता द्वयम् अपि वाङ्-मात्र-पात्रायमाणम् इदम् असम्भवम् ।
[१६] अथ पुनर् अदत्तोत्तरेषु भयोत्तरेषु च तेषु स्वयम् एव तयोः प्रभावस् तं बोधयामास । यतः,
यदि त्वं रे कंस स्वयम् असि बली तर्हि धिग् अमुं कथं द्वारे नागं कलयसि न तत्र स्वक-वपुः? । रदाभ्यां स श्रेयान् इति यदि तद् आवाम् इव कथं न तौ गृह्नासीति ध्वनितम् अमुकाभ्यां स्व-कलया? ॥१४॥ (शिखरिणी)
[१७] तद् एवं सति—
सोऽयं पूतनिकाम् अहन् शकटकं व्यावर्तयत् तं मरुद्- दैत्यं प्रार्दयद् अर्जुन-द्वयम् अपि प्रार्दत् तद् इत्य् आदिकम् । श्रीमद्-गोकुल-केलिम् अस्य कलयन् लोकः पुरा पश्यतस् तांस् तर्ह्य् आर्दयद् अद्य चार्दयति भोः पश्यापरान् शृण्वतः ॥१५॥ (शार्दूल)
[१८] तत्र च नयनयोर् विस्तारणया ताभ्यां तयोः सकलम् अपि रूपं युगपत् पातुम् इव वर्णना-रस-रसनायाश् चालनया निखिलम् अपि माधुर्यं लेढुम् इव तल्-लाभ-पर्व-गर्वतः स्फुट-नासा-पुटयोः फुल्लनया ताभ्यां समस्तम् अपि सौरभ्यम् अभ्यन्तरे प्रवेशयितुम् इव मुहुर् अप्य् अस्ताभ्यां हस्ताभ्यां निर्देशनया ताभ्यां साङ्गम् अप्य् अङ्गम् आलिङ्गितुम् इवेहमाने सुखं च सचमाने सुर-नर-सर्गे
शब्दायमाने च चित्र-वादित्र-वर्गे सर्वेषां मुखतः सर्व-सुखद-स्तुतिः प्रस्तुतिम् अवापेति ।
[१९] स एष तत्-प्रभाव-विशेषः शश्वद् भावनाम् अभिभवन् विभवति स्म । यत्र कंसेन युद्धाय पूर्वम् एव प्रेरिता विपरीत-वादितायाम् अपि मल्लाः स्तुताव् एव पर्यवसिताः ।
[२०] तथा हि— तद् एवं स्थिते क्रूर-धामा चाणूर-नामा शशंस; यत्र हे नन्द-सूनो! हे रामेति निरादर-पितृ-नाम्ना विना च तन् नाम्ना सम्बोधन-द्वयम् अन्यथा-बोधनाय प्रवर्तितम् अपि सरस्वत्या तद्-वाग्-इन्द्रियं स्तुत्य्-अर्थम् एव नर्तितम् आसीत्। हे पितृ-नाम्ना स्व-नाम्ना च सुचरित-समुदाचार-कुमार-द्वयतया समानावतार! श्रूयताम् इति ।
[२१] श्री-कृष्णः स-स्मितम् उवाच,— कामम् आज्ञाप्यताम् ।
[२२] चाणूर उवाच,— भवतोर् भाग-धेयं चेतसि कियद् आधेयताम् आप्नोतु ।
[२३] श्री-कृष्ण उवाच,— कीदृशम्?
[२४] चाणूर उवाच,— तेऽमी महाराज-चरणा भवतोर् अनुग्रहमय-दिदृक्षाचरणा विराजन्ते इति ।
[२५] श्री-कृष्ण उवाच,— सत्यम्, किञ्चिद् अस्मत्-कृत्यं पुनर् उपदिश्यताम् ।
[२६] चाणूर उवाच,— सङ्गतम् एवेदं भवतः सङ्गीर्णम् । तथापि युवयोर् इतः शश्वत्-पराङ्-मुखता नास्मान् सुखयति ।
[२७] श्री-कृष्ण उवाच,— वयं वनेचरा नरा न राज-गणे गणेयानां नीतिम् उन्नीतिम् आनयामः । सम्प्रति तु भवद्-उपदेशम् एवानुसरन्तः स-देश-रूपम् आचरिष्यामः।
[२८] चाणूर उवाच,— सम्प्रति युवां प्रति राज-वर्य-चरणा यद् आदिशन्ति, तत् पुनर् आचर्यताम् ।
[२९] श्री-कृष्ण्ः स-विनयम् इवाह स्म,— मल्ल-तल्लज! यथा-यथम् आदिश्यताम् ।
[३०] चाणूर उवाच,— अस्माभिः सह भवन्ताव् अथ क्रीडा-सुखम् अनुभवन्ताव् इह भवताम् ।
[३१] श्री-कृष्ण उवाच,— बालानाम् अस्माकं क्रीडावलोचनं राज्ञां रोचनम् एव, किन्तु युष्माभिर् इति शोचनम् एव प्रतिपद्यते । तस्माद् भवताम् एव तद् इदम् उपहास-प्रकाशनम्, न तु तत्र-भवतां राज-विभवताम् उपपद्यते ।
[३२] चाणूर उवाच,— राज-चरणेभ्य एव शपे । राज्ञाम् एवेयम् आज्ञा ।
[३३] श्री-कृष्ण उवाच,— कथम् इव?
[३४] चाणूर उवाच,—
बालस् त्वं न हि पूतनादि-दलनाद् आसीर् न वाविद्यथाः पौगण्डः क्षिति-भृद्-विधारण-मुख-क्रीडा-कुल-व्यापृते । नैवायं घटसे किशोर इति च प्रत्यक्ष-दिग्-दन्तिवद् दन्ति-प्रार्दनतान्त-कर्म-रचनाद् राज्ञस् ततः कौतुकम् ॥१६॥ (शार्दूल)
[३५] अयं तु तव ज्यायान् प्रलम्बाद्यालम्भ-कर्मणा ज्यायान् एव ।
[३६] श्री-कृष्ण उवाच,— वृथास्मद् द्वेषाद् एव पापात् तेषाम् अन्यथापत्तिर् जाता, पर्वतश् च लब्ध-मख-पर्वतया शतपर्व-पाणेर् गर्व-खर्वणार्थं स्वयम् एव तथा जातः । स्वयं तु वयं यथावद् एव सर्वथा वर्तामहे । धनुर् अपि पुरातनतया पुरा घुणाकीर्णम् इव जीर्णं वहद्भिर् दूराद् विकीर्णतया स्वयम् एव दीर्णं सत् स्पर्श-मात्रात् विशीर्णं जातम् । कुवलयापीडश् च पीडयितुं द्रवन्न् अपद्रवन्तं माम् अनासद्य सद्यः पृथिव्यन्तर् दन्ताव् अवगाढाव् आचरंस् ताव् आक्रष्टुं न शशाक, परं तु प्रघट्यमानतया त्रुट्य्-अन्ताव् एव घटयन् स्व-प्राणान् अपि विघटयामासेति। तत्र तत्र शीघ्रताघ्रातालोकेन लोकेन पुनर् अहम् एव तत्र कारणतया घटयामासे । तथा हस्तिपा अपि तद्-अधस्ताद् धस्तिम् आपन्ना एव विपन्ना
इति मान्यथा मन्यथाः ।
[३७] चाणूर उवाच,— भवतानुचितम् एव सङ्कुचित-चित्तीभवता तद् इदम् अपलप्यते । राज-महाशयास् तु तत्र तत्र न जातानुशयाः, प्रत्युत चिराय निजान्तिक-स्थापितानां गर्वितानां गर्व-दमनार्थम् एव तत्र प्रस्थापितानां तेषां वृथा-कृत-पालन-विशेषानां परीवर्ताद् भवन्ताव् एव केवलाव् आत्म-बलाय कल्पयितुम् इच्छन्ति ।
[३८] श्री-कृष्ण उवाच,— तद् अतीवास्माकं विस्मायकं भाग्यम् । किन्त्व् आत्मनात्मनः स्तुत्याः प्रस्तुत्या लज्जामहे । यद् एतं श्री-महाराजम् इन्द्र-पदम् अपि प्रापयितुं सेवां करिष्यामः। तथापि मल्ल-विद्यायां न वयं कृत-विद्या इति सङ्कुचति चित्तम् ।
[३९] चाणूर उवाच,— एतद् अप्य् अपलपितं वृथा मा कृथाः । यच् छ्रुतं विश्रुतम् इदम् । गोपाः खलु गो-पालनं कुर्वन्तः सदास्माकं विद्याम् अभ्यस्यन्तीति । तस्माद् अकपटतयास्माभिर् युष्माभिर् अपि राज्ञाम् आज्ञा पालनीया, न तु चालनीया ।
[४०] श्री-कृष्ण उवाच,— तथापि वन्यानाम् अस्माकं न धन्या तद् विद्या विद्यत इति सद्यस् तावद् युष्मच् छिष्टिम् आचरन्तः स्वयं राज्ञः सञ्ज्ञपनाय च सम्पत्स्यामहे ।
[४१] अथ तद् एतत् पर्यन्तम् उदन्तं सन्तन्य दन्ति-दन्त-द्वयं कंस-पुरतस् तद्-वक्षसीव मङ्क्षु शङ्कुवन् निखन्य मुष्टिकेन मुष्टि-प्रहार-हत-प्रलम्बश् चाणूरेण चानूरु-विहगानुज-वाहनः ससञ्ज । लब्ध-बल-प्रशस्तिना महा-हस्तिनाभिनवतया दीव्यद्-दिव्य-सिंह इव । तत्र च—
हस्ताहस्ति भुजाभुजि प्रथयतोर् अङ्घ्र्य्-अङ्घ्रि चाभुन् महज्- जानूजानु कटाकटि प्रथनया क्रोधः समुद्बुद्धवान् । मुष्टामुष्टि तलातलि प्रथमकं यच् चान्यद् आसीत् तयोर्
युद्धं तद् धरि-मल्लयोर् बहु-विधं बुद्धं कियत् कल्पताम् ॥१७॥ (शार्दूल) किं तु चाणूरकं कृष्णः कामपालश् च मुष्टिकम् । हस्त-रोधं दधत् कंसे श्वास-रोधं विनिर्ममे ॥१८॥ (अनुष्टुभ्) एकं तत्र बभूव चित्रम् अखिल-ज्ञानातिदूरं यथा साङ्गं स्वाङ्गम् अकर्षि यर्हि हरिणा विन्यासि तद् यर्हि च । व्यात्यासः स्फुरति स्म तर्हि बलवन् मल्ले तु किं चास्फुरद् दूराद् अप्य् असकृत् परि-प्रतिनिधिर् घातादिकानां विधिः ॥१९॥ (शार्दूल) सत्यं प्राहरतां मल्लाव् अपि माधव-रामयोः । जवाद् बृंहयमानौ तौ न तु तल् लक्ष्यतां गतौ ॥२०॥ (अनुष्टुभ्)
[४२] तद् एवं स्थिते तत्-प्रभावम् अननुभवताम् अनुभवताम् अपि कंसं प्रत्य् एव दोष-शंसनम् आसीत् । तत्र पूर्वेषु मल्लानाम् अपि यथा— तत्र चादौ तेषां भावनेयम्,—
एतौ स्यातां सुष्ठु बालौ बलिष्ठौ किं तु श्रेष्ठां मल्ल-विद्यां न वित्तः । तस्मात् कस्माद् भूभृद् अस्मान् मृधेऽस्मिंस् तद्-विद्यानां पारगान् वा नियुङ्क्ते ? ॥२१॥ (शालिनी)
[४३] अन्ते तु—
ज्ञात्वाप्य् उच्चैस् ताव् इमौ मल्ल-विद्या शास्त्र-ज्ञानाम् आदि-विज्ञान-विज्ञौ । हा धिङ् मौढ्याद् एव कंसोऽयम् अस्मान् एतद् युद्धे भीरुकोऽपि न्ययुङ्क्त ॥२२॥ (शालिनी)
[४४] तथान्येषाम् अपि नारी-प्रचुराणाम् अक्रूराणां कंसाय दोष-शंसनं, यथा—
क्व मल्ला वज्राद्रि-प्रतिम-वपुषः क्वाति-मृदुलाव् इमौ बालौ तस्माद् इह यद् अनुमन्तॄन् धिग् अधिपान् । कथं वा ते निन्द्या न खलु वयम् अस्मिन् सदसि ये सतां द्विष्टे दृष्टिं सकुतुकम् इवामी वितनुमः ॥२३॥ (शिखरिणी) धिग् अस्मत्-पुण्यं यत् कथम् अपि हरेर् वीक्षण-लवेऽ प्य् अभूद् उत्पातोऽयं प्रणयि-जनता-राक्षस-निभः । व्रजन् वन्यां प्रातर् व्रजम् अपि विशन् सायम् अमुकः सुखं यासां स्त्रीणां वहति वर-पुण्याः परम् अमूः ॥२४॥ (शिखरिणी) धिग् अस्मान् याः कंसाद् भयम् अनुसृता नाम च हरेः समर्था वक्तुं न व्रज-वर-दृशस् ताः कति नुमः । सदा या गायन्ति स्व-गृह-बहु-कर्मण्य् अपि गुणांस् तदीयान् शश्वत् तद् धृदि च विहरन्ति प्रतिपदम् ॥२५॥ (शिखरिणी) कस्यातुलं फलम् इदं यद् अमुष्य रूपं लावण्य-सारम् असमं स्वत एव सिद्धम् । एकान्त-धाम विभूतायशसोः समन्ताद् दृग्भिः सदा नव-नवाभम् अमूः पिबन्ति ॥२६॥ (वसन्त-तिलक) तासां प्रेम्णः परम-महिमा शक्यते केन वक्तुं पश्यास्माकं तम् अनुगतवच् चित्तम् एतद् विहाय । यद् गोविन्दः श्रम-मय-रुचाप्य् एष सर्वस्य चेतः कर्षत्य् अर्वाग् अपि तद् अनुगः सुष्ठु सङ्कर्षणाख्यः ॥२७॥ (मन्दाक्रान्ता) क्रुद्धं शत्रुम् अभिद्रवन्न् अपि हरिः स्मेरान् अनाब्जे रसोल्- लासाद् घर्म-जलं दधद् विलसति स्वां सौम्यताम् अत्यजन् । यद् रामः स्फुट-शोण-नेत्र-वद्नस् तत्-कोपतः शोभते तच् चास्य प्रकृतिर् यद् एष स हरेः साक्षात् प्रतापानलः ॥२८॥ (शार्दूल) एते श्री-वसुदेव-नन्द-वलिताः श्री-देवकी-संहताः सर्वे साधु-जनाश् च मादृश-गिरा दीप्तान्तर-ज्वालया । यस्मात् तीव्र-निभालनं विदधतः क्षुभ्यन्ति कंसे मुहुस् तस्माद् अस्य विनाश एव चिरता-भानं विना सेत्स्यति ॥२९॥ (शार्दूल)
[४५] अथ तत्-प्रभावम् अनुभवतां कंसे दोष-शंसणं, यथा—
सोऽयं मूर्खः स्वान्तरे भीत एव न्यास्थन् मल्लान् यः पुरस्तान् मुरारेः । यद्वद् व्याधः कोऽपि सङ्गोपितात्मा सिंहस्याग्रे न्यस्यति ग्राम-सिंहान् ॥३०॥ (शालिनी) यः पूतनादि-बलम् अस्य निनाय नाशं यः शक्र-गर्वम् अपि खर्वयति स्म सर्वम् । यः सर्व-सर्जकम् अमूमुहद् ऊह-वर्जं तं भोज-राड् अभिभवन् किल बाढम् ईष्टे ॥३१॥ (वसन्त-तिलक) क्व कृष्णः स्व-प्रकाशात्मा मल्ल-सङ्घः क्व तामसः । युद्धं पश्यानयोश् चित्रं तेजस् तिमिरयोर् इव ॥३२॥ (अनुष्टुभ्) सङ्घर्षेऽपि मिथः स्पृष्टिर् नेक्ष्यते कृष्ण-मल्लयोः । आद्यस्य शक्ति-वैशिष्ट्यात् तेजस् तिमिरयोर् इव ॥३३॥ (अनुष्टुभ्) उच्छूनत्वं क्षतजम् अपि न प्रेक्ष्यते द्वेषि-गात्रे दैत्यारातेर् न यद् उदयते कश्चिद् औद्धत्य-लेशः । पश्यामुष्य द्विषद् अभिमुखं वीर्य-वर्यं विषाभं भेदं भेदं द्विषि निखिलकं मर्म चूर्णं चकार ॥३४॥ (मन्दाक्रान्ता) सूक्षाग्निस् तृण-मण्डले पविर् अगे कुम्भाङ्गजः सागरे चण्डांशुस् तिमिरे तथा मुर-रिपोर् नामापि सर्वांहसि । तद्वन् नन्द-सुतः स एष विजयी रङ्ग-स्थलान्तर् महा- सार-स्फार-कदङ्ग-सङ्घ-बलिते मल्ले पुरः प्रेक्ष्यताम् ॥३५॥ (शार्दूल) अत्र कृष्णस्य सङ्ग्रामे दृश्यतां परमाद्भुतम् । चाणूरः पीड्यते तेन बुक्का कंसस्य भिद्यते ॥३६॥ (अनुष्टुभ्) मूढस् तथाप्य् असौ वज्र-मुष्टिभ्यां हरिम् आर्दयत् । स ताभ्यां हृदि लग्नाभ्यां सन्-मदात् पुलकं दधे ॥३७॥ (अनुष्टुभ्)
[४६] तद् एवं स-परिदेवनं स-देवनं च लोके विलोकमाने,—
अथाग्रहीद् धरिर् अपि तं सकृद् धसन्न् अबिभ्रमन् नभसि च यं निभालयन् । उवाच धिङ् मृत इति वाढ-रीढयाप्य् अपोथयद् भुवि नृपतेः प्रपश्यतः ॥३८॥ (रुचिरा) मुष्टिकेनास्तया मुष्ट्या तुष्तिं लब्धवतः स च । बलस्य तल-घातं यन् प्राण-घातम् अपद्यत ॥३९॥ (अनुष्टुभ्) अग्रे व्यग्रतयाङ्ग-सङ्घम् अभितः सम्यग् रयात् कम्पयन्न् उग्रम्पश्यतयाक्षि-युग्मम् असकृत् क्षिप्ती-कृतं क्षोभयन् । राम-श्यामल-नाम-काल-दलितः कंसस्य वर्त्मादिशन् द्राङ् मल्लः स स लोकम् अन्यम् अगमद् विश्वत्र चित्रं दिशि ॥४०॥ (शार्दूल) क्रीडां कृत्वाथ ताभ्यां बक-दलन-बलौ तत्र विज्ञाय नाति- प्रवीणां ताव् अवज्ञा-वलितम् अकिरतां क्षौणि-पृष्ठे यदा तु । तर्ह्य् आगात् कूट-नामा य इह शल-युतस् तोशलो यश् च तं तं सद्यो वामाङ्घ्रि-हस्त-प्रहरण-दलिती-कृत्य नृत्यं व्यधत्ताम् ॥४१॥ (स्रग्धरा)
[४७] अथापरेषां मल्लानां समुदायेन समं समम् अपि समुदायं कर्तुं समुदायम् एव मेनाते । [४८] ते तु,—
हतेषु तेषु मल्लेषु शृगालीम् आगताः परे । पश्यतो हासयामसुः कृष्ण-राम-प्रधानकान् ॥४२॥ (अनुष्टुभ्) जेतुं प्रस्थापिताः प्राक् त्रिदिवम् अपि मया त्वत्क-सेनाधिनाथास् तद्वत् प्रस्थाप्य नागं नृप तव रचितास् तत्-कृते चाद्य मल्लाः । एवं तद्-वर्त्म-सौख्यं तव विरचयता नन्दतः स्वीय-मित्रैः क्रीडा कार्येति कंसं सदसि किल दिशंस् तत्र चिक्रीड कृष्णः ॥४३॥ (स्रग्धरा) भ्रात्रोर् विक्रीडितोर् मित्रैर् मध्ये मध्ये पराजयः । तान् हत्वा पश्य कंसस्य स्वान्तं सङ्क्रान्तवान् मुहुः ॥४४॥ (अनुष्टुभ्)
[४९] तद् एवं मैत्रेयिकया चित्रीयमाणौ धन्येन चातुर्-वर्ण्येन निर्वण्यमानौ समान-मानौ स-वयसः सम्मानयमानौ राम-रामानुज-नामानौ द्याव्-आपृथिव्य्-अनवद्य-वाद्य-विद्याम् अनुविद्य-प्रमोदाद् विद्योतमानौ दिव्य-नृत्य-प्रतिमल्लतया लब्ध-मल्ल-तालमानौ तत्-पर्वणः सर्वतः समाहृत-विमानौ सुमनोभिः
सुमनोभिः कृतमानौ घटिकाम् एकाम् अखिलान् एकायनान् निर्ममतुः ।
[५०] तद् असहमानः सहमानः कंसस् तु द्रविण-बलयोर् एक-पर्यायतयेवाभेदम् आलक्स्य गोप-द्रविण-हरणादि-लक्षण-वक्स्यमाण-निज-वचः-प्रचारण-लक्ष्यतः सव्य-हस्तस्य द्वि-त्र-वारम् अस्ततया स्व-वादित्रं निषिषेध ।
[५१] तत्र च निषिद्धे सिद्धेश्वर-वादित्रे तु शुद्धतया सिद्धे तदीद्धे हिततया सहितं सखि-वर्ग-सहिततया च वल्गु यद् अवल्गद् यच् च व्रज-देवं वसुदेवम् उग्रसेनम् अप्य् उद्दिश्य तस्य तत् तद् उग्रं वचनम् अशृणोत् तद् द्वयम् अपि स्व-च्छिद्र-बाधाय लक्ष्यं विधाय सहसा सहसाननतया पर्यक् प्लवमानः स्वैरी कंस-वैरी । तस्माद् अकस्मात् कंस-मञ्चोपर्य् एव पर्यैक्षत ।
[५२] यत्र कंसेन सह तेन सुदुःसहं श्री-हरेर् विग्रह-तेज एव विग्रह-करम् आसीत् । अथ समुपागत-ध्वंसः कंसश् च स्वं पराजयमानात् तस्मात् पराजयमान-मना धैर्यं हित्वा खड्ग-चर्मणी गृहीत्वा यद् विचचार, तेनापि दुर्धर्षः स-हर्ष-गतिः स एष व्रज-कुल-गतिस् तत्-केश-ग्राहिता-निर्वाहितां कथम् अवाप, तत् खल्व् असाव् अपि बोद्धुं शशाद-वशतापन्नः शशवन् न शशाक ।
[५३] लोकस् तु तद् इदं श्लोकयामास,—
श्येनः कपोतम् इव पञ्चमुखः करीन्द्रं वज्रो गिरिं विकिर-राट् कटुकाद् रवेयम् । कंसं निगृह्य सहसा वशयन् स एष क्रीडां करोति परितः पृथुम् अञ्चम् अञ्चन् ॥४५॥ (वसन्त-तिलक)
[५४] तद् एवं लोके कृत-श्लोके हरिणा गृहीत-केशः स भोजेशः प्राणानाम् अर्धं पूर्वं मुमोच, निजाघ्राततया मञ्चाद् अवाञ्चंस् त्व् अर्धम् इति हरिर् अपि तच् छीघ्रतां बोद्धुं योद्धु-मनस्ता-वशान् न शशाक ।
कंसस्य केशा हरिणा विकृष्टाः प्राणाश् च तन् मुष्टि-गता बभूवुः । चित्रं न चेदं स्मर तस्य बाल्ये तत् पूतना-स्तन्य-विकर्षणं च ॥४६॥ (इन्द्रवज्रा) पतत्-खड्ग-चर्मा गलद्-रत्न-वर्मा भ्रमत्-सर्व-केशः स्खलन्-मूर्ध-वेशः । स मञ्चाद् अधस्ताज् जनानां पुरस्ताद् अनेनाधिरूढः पपातातिमूढः ॥४७॥ (भुजङ्ग-प्रयाता) प्राग् आसीत् स्तब्ध-पक्ष्मा भयम् अनु स यथा तद्वद् एव प्रमीतः कंसोऽयं तेन मृत्युं गत इति निखिलैर् भीरुभिर् नाभ्यभाषि । श्री-कृष्णस् तत्-प्रतीतं सपदि विरचयन् हस्तिवत् सिंह-वर्यः सावज्ञं तं विसञ्ज्ञं सदसि तत इतः क्ष्मां च कर्षंश् चकर्ष ॥४८॥ (स्रग्धरा) ततो जय-जय-ध्वनि-प्रसित-वाद्य-कोलाहल- प्रसून-घन-वृष्टि-युक्-स्तुति-दिवस् पृथिव्य्-आस्पदैः । कृत-प्रमद-वर्धनः सपदि कंस-चिद्-वर्धनश् चिरं निज-गनार्चितः स्थगित-बुद्धिर् आसीद् असौ ॥४९॥ (पृथ्वी) कंस-ध्वंसन-शंसन-प्रथन-भृद् गीर्वाण-गीर्-बान्धव- द्योवाद्योत्तम-गन्ध-सन्ध-कुसुमासारार्चिर्-अभ्यर्चितः । भूमि-स्थाप्य् अतिभूमित-गतम् अहो भूमा तदा भूयसा- नन्द-स्यन्द-भरेण भाविततया हारी हरिर् भाव्यताम् ॥५०॥ (शार्दूल)
ततश् च,
यदा कङ्कादयो भ्रातुर् निर्वेशायात्र संययुः । साहाय्याय तदा रामः परिघेणार्दति स्म तान् ॥५१॥ (अनुष्टुभ्)
[५५] अथ हरि-वंशादि-मिश्रीभूत-श्री-भागवत-मत-प्रभूततया कथां प्रथयिष्यामः । [५६] यथा— तद् एवं श्रीमान् गोविन्दः स्वयं नन्दित्वा श्रीमन्-नन्दराजेन साकं विन्दमानं श्रीमद्-आनकदुन्दुभिं वन्दित्वा तं मोचयित्वा सर्वान् अपि रोचयित्वा श्री-देवकीम् अप्य् अनुसन्धाय तथा सन्धाय गृहाय बृहन्-महिलाभिः सह सम्विधाय यथा-सन्धम् अन्यान् अपि लब्ध-सम्बन्धान् धृतानन्दान् विधाय कंसेन कृत-बन्धनस्य हृत-धनस्य तज्-जनकस्य मोचनार्थम् अपि जनान् अभिधाय मतङ्गज-व्रजेनापि क्रष्टुं सुष्ठु-दुष्करं कंस-कलेवरम् ईषत्-करतया वाम-करेण कच-निकरे विकृष्य तद्-वर्त्म-परिखां परि परिहृष्यल् लोक-सार्थावृत-पितृ-द्वयानुगन्तृकतया विश्रान्ति-तीर्थम् अनु विश्रान्तिम् अवाप ।
[५७] तद् अनु सङ्कर्षणादयश् च कङ्क-मुखान् सङ्कर्षन्तः सर्वेषां हर्षं वर्षन्तः कृत-कर्ष-प्राणानाम् अमित्राणां पर्षदं चक्रुः ।
[५८] परस्पर-प्रधने निधनं गतान् भुवर्-लोकात् पतितान् क्रव्यादान् लोकान् इव यान् सभ्याः पश्यन्ति स्म । तद् एवं स्थिते साधूनां मनसि च सुस्थिते ।
श्रीमन्-नन्द-महाशया द्रुततरं प्रस्थापयन् यं नरं गोष्ठं कंस-विनाश-शंसन-कृते प्रागाद् अयं तद् यदा । तस्मात् तर्हि न केवलाः सुखमया वाद्य-स्वनास् तां पुरीम् आप्ताः किन्तु जनाश् च केचिद् इह ये तद् यौगपद्यं ययुः ॥५२॥ (शार्दूल)
[५९] ततश् च मृत-प्रियतयाननुसंहित-संहनन-क्रियताम् आपन्नाः कंसादि-स्त्रियस् तत्रागत्य गत्य्-अन्तर-रहिताः स्व-स्व-पत्य्-अङ्गम् आश्लिष्य द्विष्यमाण-निज-प्राना रोदनं
कुर्वाणा रोदनं विजहुस् तथा तन् मातरश् च कातरताम् अवापुः । तत्र च—
चिह्नानि दयित-घ्नानि निह्नुवानाः पुराभवन् । कंस-स्त्रियः शुगार्त्या तद् व्यक्त्यामार्जन् ह्रियं हरेः ॥५३॥ (अनुष्टुभ्) तथापि— रोदनं सपदि रोदनं तथा तन् निशम्य च निशाम्य चाजितः । स्वं स-तापम् अवमत्य सत्य-कृत् ताः स-सान्त्वम् अभितोऽप्य् असान्त्वयत् ॥५४॥ (रथोद्धता) सान्त्वयन्न् अप्य् अमूः कृष्णो न विपदे स्व-सान्त्वनम् । इति तत्र नियुज्यान्यान् निन्युस् तं यदवः पुरम् ॥५५॥ (अनुष्टुभ्)
[६०] यत्र च पुर्यन्तर्-उपप्लवं व्याजम् आचरितवन्तः । यदा चाक्रूरं स्व-गृहाय निनीषन्तं निषिध्यन् नीति-विध्य्-अग्रणिर् निजावरज-गृहम् एव व्रज-राजः साग्रजं तं निनाय, उपवेशयामास च; यथा—
मध्ये कृष्णं रामम् अप्य् अत्र कृत्वा पार्श्व-द्वन्द्वे शौरि-नन्दावभूताम् । अग्रे व्यग्रा यादव-प्राग्र्य-लोकास् ते सङ्गन्तुं सुष्ठु सम्मर्दम् आपुः ॥५६॥ (अनुष्टुभ्) द्वयं तन्-मेलनायासीद् अशेषाणां तद्-अग्रतः । ज्यायसां गोप-भू-भर्ता गान्दिनेयः कनीयसाम् ॥५७॥ (अनुष्टुभ्)
[६१] अथ तं कंस-दारादि-रोदनं सन्तानतः सन्तप्तम् एव सन्तं श्रीमन्तं
पुत्रापराध-राहु-कलित-मुख-विधु-श्रि-राहुकः सङ्गत्य गत्य्-अन्तर-रहितः स्व-
हित-सहितः कनक-दण्ड-लक्षित-क्षितिप-मण्डन-मण्दलम् अग्रतो निधाय
मूर्धानम् अवाग्रं विधाय तस्थौ ।
[६२] तं पुनर् अवधाय श्रीमन्-नन्द-सहितानकदुन्दुभिर् उत्तस्थौ । उत्थितयोश् च तयो राम-रामानुजाव् अपि तादृग्-अवस्थौ बभूवतुर् अनुबभूवतुश् च सोऽयम् इति । अनुभूय च विदूय भूय-सादरेण सम्भूय दरेण धूयमानम् अमूम् उग्रसेन-नामानं प्रणाम-पुरःसरतया पुरत एव निवेशनया पुरश् चक्रतुः ।
[६३] स तु सुत-सुततापराध-सम्बाध-सङ्कोचतः शोचन्न् इदम् अवोचत,—
यद्यपि मन्तु-विधातुः स्वजनः सुजनेऽभिधातुम् अर्हेन् न । तर्ह्य् अप्य् अनन्य-गतिता बलवत्य् एतं प्रलापयति ॥५८॥ (आर्या)
[६४] श्री-कृष्ण उवाच,— कामम् आदिश्यताम् ।
[६५] उग्रसेन उवाच,—
स एवाधिपतिर् भूम्यां यस् तामस-विनाशनः । विध्वस्त-शार्वराद् भानोर् अन्यः कः स्याद् अहर्पतिः ? ॥५९॥ (अनुष्टुभ्) वृद्धो यः स तु वृद्धानाम् एव वर्त्मानुवर्तताम् । अकुल-काल-जवगः कः कुर्यात् प्रतिकूलतां ? ॥६०॥ (अनुष्टुभ्)
[६६] तस्माद् इदं छत्रादिकं स्वेन सत्रा क्रियताम् इति ।
[६७] श्री-कृष्ण उवाच,— राजंस् तव तनूजस्य मद्-विहित-विनाशनता सर्वैर् एव निशामिता । कथम् इव ताम् अन्यथयानि ? किन्तु मम तन् नाशनतायाम् उपलक्षणता परं लक्ष्यते; यस्माद् भवद्-विध-विषयकापराध-मय-काल एव तत्र परं कारणम् । मया तु लब्ध-बुद्धि-बलतया स्व-वशायाम् अपि दशायां ज्ञातम् अपि तद् वैरम् अवज्ञातम् । बाल्य-दशायां तत् किल न ज्ञातम् एव, तथापि तेन पूतनादि-यूथं क्रमशः प्रस्थापितम्, तादृश-कालेनैव च संस्थापितम् । तथा हि—
स्तन्यान् मां तुदती बकी खल-मरुत् कर्षंश् छलात् संहरन् वत्साख्यो निगिरन् बको मयज-निर्विच्छेदयन् मित्रकैः । भुञ्जानः स-गणं फणी हृत-बलं कुर्वन् प्रलम्बः स च घ्नन्तु क्ष्मा-तुरगो गिलन् स्वयम् अनश्यद् दूषणं किं मम? ॥६१॥ (शार्दूल) योऽयं वा तनयस् तव स्वयम् असाव् अक्रूरकं प्रेषयन् माम् आनाय्य निघातयन् कुवलयापीडेन मल्लैः पुनः । युष्मत्-कुत्सन-भर्त्सन-श्रवण-जान् मन्तोर् मया भीरुणा प्रायश्चित्त-कृता धृतः कच-तटे तस्माद् अकस्मान् मृतः ॥६२॥ (शार्दूल)
[६८] तस्मात् तस्य स-जातीय-विजातीय-बालं-गिलस्य मातुलाहेर् मारणम् अपि तद्-उद्यम-कारणम् एव जातम्, न तु मद्-ईहास्पदी-कृतम् । तथा च सति कथम् इव राज्यं प्राज्यतया मह्यं रोचताम्?
[६९] स एष चाव्यभिचारि-सङ्कल्पस्य मम सङ्कल्पः प्रतिकल्पं सत्य-वचसाम् अपि जल्प-
विषयी-भविष्यति । यथा—
अहं स एव गो-मध्ये गोपैः सह वनेचरः । प्रीतिमान् विचरिष्यामि कामचारी यथा गजः ॥६३॥ एतावच् छतशोप्य् एवं सत्येनैव ब्रवीमि ते । न मे कार्यं नृपत्वेन विज्ञाप्यं क्रियताम् इदम् । भवान् मान्योस्तु राजा मे यदूनाम् अग्रजः प्रभुः ॥६४॥ [ह।वं। ७८.३५-३७] इति ।
[७०] तद् एवम् अस्य सर्वेऽपि सुशीलताम् अनुशीलयन्तस् तद् एतन् मुख-माधुर्य-पुर्यमाण-
सलिल-कलिल-विलोचनाः क्षण-कतिपयं तद्-अवस्थम् एव तस्थुः । श्रीमद्-आनकदुन्दुभ्य्-आदयः कतिपये बिभ्यति स्म । श्रीमन्-नन्दादयस् तु नन्दन्ति स्मेति स्थिते तं स्वतः परतश् च भीतम् आलोचयन् पुनः श्री-कृष्णः प्राह स्म,— विराट्-कुलम् इदं सम्प्रति विराड्-जातम् । ततो यदि भवान् पतिताम् इमाम् उर्वीम् उर्वी-पतिताम् उरीकुर्वीत, तदा दिन-कतिपयं वयम् अपि साहायकम् आहरिष्यामः । न चेत् सद्य एव गोकुलं प्रपद्य तद्-अनवद्य-सुखम् अभिमुखम् आनयिष्यामः इति ।
[७१] तद् एवं केशवस्याभिनिवेशतः सर्वेषाम् अप्य् अन्यथा क्लेषतस् तं भोजेशं तूष्ञीकाम्
एव पुष्णन्तं श्री-गोकुल-प्रेम-तृष्णः सोऽयं श्री-कृष्णः स्वयम् एव स-निर्बन्धं मुकुट-बन्ध-बन्धुरं करोति स्म ।
[७२] तं प्रति सर्वेण समम् अगर्वेण मूर्धानम् आनम्य स्वयम् असाव् आवेदयामास,—
राजंस् तस्य वीर-गतिं गतस्य सत्कार-कारणं भवत्-पुरः-सराः सर्वेऽपि वयम् अनुसरामः । श्रीमत्-पितरौ तु लब्ध-श्रम-विसरौ निज-निजावासम् एवासीदताम् इति । श्रीदामादीन् प्रति च जगाद— आवां तावत् क्रूर-कर्मणि प्रतिरुद्धाव् इति भवन्त एव
श्रीमत्-पितृ-चरणानुगतिम् अनुभवन्तः शकटावरोह एवं रात्रिं क्षिपन्तु । इति ।
[७३] ततस् तथा विधाय पुनर् विश्रान्तिं सन्निधाय तरणिभिस् तरणि-दुहितुर् उत्तर-तीरे
मृत-कायान् निधाय तेषां प्रेत-कार्यं संविधाय श्रीमद्-आनकदुन्दुभि-भवनम्
एव सह-रामः समाजगाम ।
[७४] आगम्य च सर्वेषाम् अगम्यं तद्-अवरोधम् अवरुन्धानः सावधानम् अमू मातर-
पितरौ नमश् चकार । किन्तु स्व-प्रभावानुभवाल् लब्ध-पितृ-भावाभिभवाव् अत
एवासम्भवन्तौ तत्र-भवन्तौ ताव् अनुभूय दूयमान इव तथा निवेशयामास ।
यथास्मद् व्रज-राज-द्वन्द्ववद् एव निर्द्वन्द्व-सदयतामय-हृदयतया तं बल-
वलितं ताव् आलिङ्गन्ताव् अलिङ्गवद् बहु-समयम् आसाते स्म । यतः,
रसयति न हि यावन् माधुरीम् अस्य तावन् नयति मनसि भक्तस् तीव्र-भावं प्रभावम् । स कथम् इतरथा वा श्री-शुकः शश्वद् एतत् स्फुट-मधुरिम-भाजं श्री-व्रजं सुष्ठु नौति ॥६५॥ (मालिनी)
[७५] अथ श्रीमद्-आनकदुन्दुभिना समं बहिर् आगत्य स्वयम् एवानुस्मृत्य भृत्य-
वत्सलः श्री-वत्स-लक्ष्मा दिदृक्षया निर्निमिष-पक्ष्माः सर्व-शर्मद-यशाः सङ्कोच-
वशात् पूर्वं दूरत एव लब्ध-निजालोचन-पूरम् उद्धव-मायाद् अनुगृहीत-जन-द्वारा
सानुग्रहं गृहाद् आजुहाव । ततश् च—
अन्योऽन्यं मिलति स्म यर्ह्य् अभिनवं तर्हि स्वयं नाविदत् कोऽहं कुत्र कदा क एत इति स प्रेयान् स च श्री-प्रभुः । किं चादूर-गताश् च तन् न विविदुर् यत् तत्र सिद्धान्तितां को गच्छेन् निज-तत्त्वम् एतद् अनयोः प्रेमा परं वेत्ति हि? ॥६६॥ (शार्दूल)
[७६] अथ रामेण समं रामानुजः स-व्याजम् आनकदुन्दुभेः किञ्चिद् अन्तरितम् अञ्चन्न्
अमुञ्च न मुञ्चन् नासीत् । अञ्चित्वा च शीतलित-विरह-मय-स्व-हृदय-वाप्याकारया निज-बाष्प-धारया मुहुर् अपि तन् मुख-निरीक्षण-पूर्वक-तद्-आलिङ्गन-पर्वणि तम् अन्तरङ्गतयाभिषिञ्चन्न् इवालोक्यत ।
[७७] अथ सह-रामोद्धवः श्री-शूरोद्भवम् अनुज्ञाप्य भोज-राज-गृहं प्राप्य कंस-
पत्नीनां बाष्पं निर्वाप्य राज-सभायाम् उग्रसेनं सह-यादव-सेनम् आनाय्य तवैव
राज्यं न्याय्यम् इति प्रत्याय्य सिंहासनं स्वीकार्य पुनः श्री-शूर-जनिकाय्यम् आगतवान् ।
ब्रह्माण्ड-कोतीश्वरताति-तुच्छा यस्येक्ष्यते विष्णूपदेशिता च । सा तस्य गोलोक-महेन्द्र-सूनोः काम्या कथं कंसक-राज्य-लक्ष्मीः? ॥६७॥ (इन्द्रवज्रा)
[७८] अथ समुद्धव-लसद्-उद्धव-सहिताभ्यां ताभ्यां सह महा-रथ-मूह्यमान-
मनोरथम् आरुह्य स पुनर् आनकदुन्दुभिर् व्रज-मही-पतिं प्रति मिलनाय विशङ्कटं तदीय-शकट-व्रजम् आजगाम । आगम्य च गाढालिङ्गनतया सङ्गम्य रम्य-स्वजन-संवलितेन तेन तेन सह परस्परं लब्ध-ध्वंस-कंस-कृत-चरोपद्रव-वार्तां वर्तयामास । वर्तयित्वा च पुनः प्रार्थयामास,— यावत् स्थितिस् तावद् अस्मद्-गृह एव स्व-गृह इव सर्वैः सह भोक्तव्यम् इति ।
[७९] ततश् च प्रतिदिनम् एवं निर्वर्तमाने महा-पर्वणि स-रामः श्री-रामानुजः पलायित-यादव-चय-समाचयन-मय-नव-राज्य-प्राज्य-स्थापन-कर्म-समये राज-सभायां श्री-वसुदेवस्य सभायां वा विराजते स्म । अन्तरान्तरा च शकटावरोहम् आसाद्य श्रीदामाद्य-निज-मित्रैः सह विचित्रं क्रीडति स्म इति ।
[८०] अथ दिन-कथां समापयतः स्निग्धकण्ठस्य वचनं यथा,—
कंसं निहतवान् यः प्राक् सोऽयं क्रोड-गतस् तव । द्वीपात् प्रत्यागतं वित्तम् इवैतं पश्य गोपते ॥६८॥ (अनुष्टुभ्)
[८१] अथ तत्र गतायां कथायां समाप्त-प्रथायां परमानन्दिनः श्रीमद्-व्रज-वन्दिनस् तद् इदं पठन्ति स्म,—
जय कृत-मथुरा-प्रवेश-भावुक । माथुर-जनता-सुभगं भावुक ॥ नाना-विलसित-नन्दित-नागर । नगर-वधू-जन-मोहन-नागर । स-व्रजक-कंसक-वसना-दायक । कृत-रुचि-वायिनि निज-रुचि-दायक ॥ भक्त-गणे धृत-करुणा-पूरक । मालाकार-मनोरथ-पूरक ॥ तनु-तत-कुब्जा-चन्दन-चित्रक । कुब्जा-वक्रिम-हृति-कृत-चित्रक ॥ कंस-मख-स्थित-धनुर्-अनुयोजक । नगर-जनानां सुख-शत-योजक ॥ कंस-धनुर् मख-धनुर् अनुभङ्गद । तद्-असहनोद्धत-योद्धृषु भङ्गद ॥ हस्तिपम् अनु निज-वर्त्म-स-मर्दक । तस्मिन् धृत-रुषि हस्ति-विमर्दक ॥ भ्रात्रा सह करि-दन्त-विभूषण । रङ्गं प्रविशन् भोज-विभूषण ॥ गज-रक्तादिभिर् अङ्गं परिचित । बहु-विध-भावैर् विविधं परिचित ॥ जगति समन्ताद् अप्रतिमल्लक । कंसाग्रे हत-तत्-प्रति-मल्लक ॥ सदसि समस्ते नास्ति समोहन । मल्ल-नटन-कृत-विश्व-विमोहन ॥ कंसज-गुरु-निन्दन-कम्पाकुल । दृष्टि-विकीर्ण-द्युति-शम्पाकुल ॥ प्लुति-लीला-कृत-मञ्च-क्षोभक । क्रीडा-विक्रम-कंस-क्षोभक ॥ सहसा मञ्चात् कंस-निपातक । तेन ध्वस्त-त्रि-जगत्-पातक ॥ अखिल-जनानां दुःख-विमोक्षद । कंसस्यापि च सहसा मोक्षद ॥ मोचित-वसुदेवादिक-बन्धक । साधु-सुखं प्रति धृत-निर्बन्धक ॥ विश्रान्तिं प्रति कंसाकर्षक । व्यञ्जित-निज-बल-बलयोत्कर्षक ॥ कंस-पितरि-जित-राज्य-निधायक । निज-यशसाखिल-शर्म-विधायक । व्रजतः पोष्याखिल-निस्तारक । पुनर् अपि च व्रज-सुख-विस्तारक ॥
जय जय जय जय जय जय जय जय । जय जय जय जय जय जय जय जय ॥ वीर ॥६९॥
[८२] तद् एवं कथकयोः कथया वन्दिनां वन्दन-प्रथया च लब्धावधान-पोषाः
श्री-कृष्ण-लाभ-सन्तत-सन्तोषाः सर्वे यथास्वं तद्-आनुकूल्य-सुखम् अर्जयामासुः ।
[८३] अथ लब्ध-प्रथायां रात्रि-कथायां श्री-राधा-माधवयोर् अग्रतः स्निग्धकण्ठ
उवाच,— तद् एतत् प्रमद-वृत्ते स्थिते प्रतिलवम् अपि गोकुलं प्रस्थिते च तत्-प्रदेशतः सन्देशः श्रीमत्-केशव-सदेशम् आगतः, तत्रान्येषां प्रातः-प्रस्तोतव्यः । सम्प्रति तु कंस-पितरि राज्यार्पणस्य श्रवणतः किञ्चिद् अवाञ्चित-भयमय-चिर-विरह-क्लमानां
व्रज-रमाणाम् अति-निभृत-स्वस्ति-मुख-सम्भृतः सोऽयम् आकर्ण्यताम्,—
विरहस् तव गोपालीर् दयित मिथो याः स-पत्नीश् च । रञ्जयति स्म समस्ताः प्राणात् कथम् अहह ता विरञ्जयति? ॥७०॥ (उद्गीति) विपिनं सदनं यासां सदनं विपिनं बभूव गोपीनाम् । तासां त्वद्-वियुजां किं मृति-जीवनयोर् विपर्ययो न स्यात्? ॥७१॥ (गीति) यासां चन्दन-चन्द्र- प्रभृति च वस्तु-प्रतापनं भवति । हरि-रहितानां तासां वह्निः किं बत न शीतताम् अयिता? ॥७२॥ (गीति) विश्लेषस् तव भद्रः क्लेशं स हरेद् भवन्न् एव । आशा सेयं धृष्टा त्वत्-सृष्टा तत्र विघ्नम् आतनुते ॥७३॥ (उद्गीति) भवता मर्यादार्थं यः खलु पर्यापितः कालः । कालः स भवन्न् अघ-हर लवशः कल्पाय कल्पतेऽस्माकम् ॥७४॥ (उद्गीति) इति ।
[८४] अत्र चेदं श्री-राधा-सखीनां तद् अनुपद्यमानं पद्यम्,—
अघ-हर विरह-व्रणता न हि नः कृच्छ्राय तादृशे श्रयति । राधा-लवणिम् अगलनं यदि वलनं तत्र नापि कुर्वीत ॥७५॥ (गीति)
[८५] तत्र कारणम् अन्यद् अन्यद् अस्तु, तद् इदं तु महद् एव दुःसहम्,—
आनीतं घृत-पायसान्नम् अनया कृष्णाय किञ्चित् त्वया लब्धव्यं शुक तन्-मया च मधुरं नाम्ना रुतं तन्यताम् । इत्थं प्रातर् अनूद्य नित्यम् अपि तां राधां मुहुः शारिका वृन्दारण्य-निवासिनी मधुपुर-क्ष्मा-नाथ तोतुद्यते ॥७६॥ (शार्दूल) एवं प्रिय-सखी-लेखं वाचकस्य बकी-रिपोः । लुम्पत्-कल्पस् तदा बाष्पः स्थैर्य-कल्पम् अचीकॢपत् ॥७७॥ (अनुष्टुभ्)
[८६] तद् एतत् कथारम्भ एव तासां श्वासानां बहिर् निष्क्रमणम् इव वीक्ष्य स्निग्धकण्ठः
सोत्कण्ठं समापयन्न् आह स्म,—
राधे योऽयं दयितस् त्वयि दयितः कथम् अनार्द्रताम् अयिता? तव तनु-लतिकाम् अस्रैः सिञ्चति पश्याम्बुद-श्यामः ॥७८॥ (आर्या)
[८७] तद् एवं मधुरोपसंहारेण व्याहारेण सर्वम् आनन्दयन् ताव् अमन्द-प्रेमानन्द-
मन्दिरतया वन्दिनाव् अमू तेन सह यथा-स्वम् आवासं विन्दतः स्म, श्री-राधा-गोविन्दौ च कन्दर्प-मन्दिरम् इति ।
इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
कंस-विध्वंसनं नाम
पञ्चमं पूरणम्
॥५॥
अथ षष्ठं पूरणम्
श्री-नन्द-विसर्जनम्
[१] अथ श्री-गोविन्द-कृतम् अहसि व्रजेन्द्र-सदसि प्रातः-कथा प्रथाम् आप । यत्र मधुकण्ठ उवाच,—
[२] तद्-एवं कंस-मारणानन्तरम् उच्चावच-वारणाय यत्र कुत्रचिद्-गत-यादव-कुलाकारणाय समुद्भूत-कंस-पक्ष-निर्हारणाय च व्रजागमनायालब्धावसरे कंस-हरे तत्-पर्यन्त-वृत्तं प्रतिलवम् अपि श्रवसि वृत्तं कुर्वताम् उपनन्दादीनां सानन्दानाम् अपि विलम्बाशङ्का-शङ्कु-सङ्कुलानां सन्देशः प्रविवेश; यथा—
हरेर् माता भक्तं तद्-अवधि न भुङ्क्ते तद्-अनुगास् तथा तस्मिन् गोपाः प्रति-मुहुर् उपायातिविधुराः । किम् अन्यद् वक्तव्यं व्रजम् अनुगतं यत् पशु-कुलं वनस्थं यद् वा तन्-निखिलम् इह शिर्यद् विलपति ॥ इति ॥ १ ॥
[३] अथ कुतश्चिन् मनः-स्थ-सङ्कोचतः सम्प्रति प्रति-गमनाद् विरम्य भावि-लीला-सूचन-देवर्षि-वचन-स्मरणात् तद्-एव च नियम्य सहमानतां वहन्न् अपि तद्-एवं निशम्य सम्यग्-उत्सुकतया गम्यम् एवेति मनः पुनः सङ्गम्य सोऽअयं व्रज-प्राण-व्रजः स्वाग्रजं रहो निर्व्याजं व्याजहार,— ‘आर्य ! तत्र-भवतात्र साहाय्यं धार्यताम् । अहं पुनर् व्रजम् एव व्रजानिऽ इति ।
[४] स पुनः सास्रम् उवाच,— भ्रातर् भवन्तं विना मम सर्वं विनाशम् आयातीति न मया किम् अपि स्यात् ।
[५] श्री-कृष्ण उवाच,— तर्हि किं कार्यं ?
[६] स उवाच,— यदूनुग्रसेनानुगतान् विधाय द्रुतम् उभाभ्याम् एवावाभ्यां गोकुलं गन्तव्यम् । तद् इदं मयापि भव्यं निवेदयैतव्यम् आसित्, दिष्ट्या स्वयम् एव दिष्ट्या तद् उट्टङ्कितम् ।
[७] अथ श्री-कृष्णस् तेन साकं श्री-वसुदेव-विना-कृत-यदु-कुल-विराजमान-यदु-राज-सहायां गत्वा क्षणाद् अवसरं च मत्वा तद् इदं निवेदन-मुद्रया वेदयामास,— ‘मम किञ्चिद् विज्ञप्तिर् अस्तिऽ इति ।
[८] सर्वे स-सम्भ्रमं ऊचुः,— कामम् आज्ञाप्यताम् ।
[९] श्री-कृष्ण उवाच,—‘सम्प्रति भवन्तः सर्वे स्व-भवनम् एव समागतवन्तः, राज-महाशयाश् च निज-राजासनम् एवासनं विधाय यथा-पूर्वं भवतां पर्व वितनिततारः । मया पूर्वम् अपीदं निवेदनञ्चक्रे, यन्-मह्यं राज्यं न रोचते, किं तु मम वृन्दावनम् एव सुख-वृन्दाय कल्पतेऽ इति ।
[१०] तद् एवम् अवधाय मुखावलोकनं व्यतिविधाय सत्सु सभासत्सु विकद्रु-नामा यदु-बृद्धः समृद्ध-क्षोभम् आचचक्षे,— पूर्वम् अस्माकम् एकः कंसक एव ध्वंसक आसीत् । तद्-बलाद् अन्ये पुनर् अस्माभिर् न गण्येषु कृताः, भवता प्रमापिते तु तस्मिन् प्रचुर-प्रमाणस् तद्-विधा जाताः, यतो जरासन्धादयस् तत्-सम्बन्धाहित-निर्बन्धाः कोटयः प्रसारित-शस्त्र-कोटयः सन्ति । तस्माद् भवन्-मात्राश्रय-प्रणयनीय-प्राण-त्राण-यात्रा यदवः स्वयं यथावद् अवस्थाप्यन्तां संस्थाप्यन्तां वा ।
[११] किं च, अस्यास् त्वाम् अष्टमो गर्भः [भा।पु। १०.१.३४] इति गीर्-वाण-वाणी-सन्दर्भ-साक्षितया भवान् अस्माकम् एव सत्यम् अपत्यम्, न तु गो-पत्य्-अधिपानाम् इत्य् अस्मत्-प्रत्यवस्थापनम् एव भवता प्रत्य्हम् आचरणीयम् । तेषाम् अपकार-कारकश् च कश्चन सम्प्रति भातीति यथा-भव्यं स्यात् तथा व्यवहर्तव्यम् इति किम् अधिकं मर्म-व्यञ्जनया साधूनां शत्रुजित्सु परम-धर्मवित्सु ।
[१२] अथ तद् एतद् अनतिक्रम्यं निशम्य सम्यग् वाचं संयम्य दुर्मना इव तस्माद् अपगम्य श्री-वसुदेव-देवकीभ्यां धर्म्यं हर्म्यम् आगम्य श्री-रामेण समम् एव ताव् अनु निवेदयामास,— श्री-मत्-पितराव्-आज्ञा-वितरायावधानम् अत्राधत्ताम् ।
[१३] ताव् उचतुः,— हन्त ! तत् किं ?
[१४] श्री-कृष्ण उवाच,— यद् व्रजलोकं विलोकं विलोकम् आयच्छावः ।
[१५] अथ तद्-एतद् अवधार्य तौ तूष्ञीकाम् एवापुष्ञीताम् । तौ हि पूर्वम् उग्रसेन-मुकुट-बन्धम् अनु तद्-वचन-प्रवन्धम् आकर्ण्य वैवर्ण्यम् एवासन्नौ स्तः । यः खल्व् अव्यभिचारितया वैशम्पायनादिभिर् अपि हरि-वंषादिषु प्रचारित एवास्ति; यथा दर्शितम्,— ‘अहं स एव गो-मध्यःऽ इत्यादि । जानाते स्म च ताव् अस्य मनोवृत्तं यद् व्रज-गमने लब्ध-सङ्गमने सर्वम् असौ विस्मरतीति ।
[१६] ततश् चिराद् एवम् उचतुः,— ‘ततः परिहृताव् एव चिर-लब्ध-श्वास-रूपाभ्यां युवाभ्याम् आवाम्ऽ इति तत्राक्रूरस्य जनन्या च विचारतः क्रूरम् इदं प्रोक्तम्,— ‘यद्य् अत्र व्रज-जनानां गमनागमनम् अस्ति, तर्हि व्रज एवायम् अस्तीति गमनं वास्य कथं निरोध-विषयीक्रियते ?ऽ इति ।
[१७] अथ सर्वे तस्या मुखं पश्यन्तश् चिरं विमृश्य तस्थुः ।
[१८] तद्-एवं सति पुनर् विविक्त-मिताभ्यां रामाजिताभ्याम् अक्षीणम् अषड-क्षीणम् इदं निर्णिक्तं विविक्तम्,— तद् इदम् आवाभ्यां सरलतया परम् अनयोर् गुरु-चरणयोर् निवेदितम् । तत् पुनर् अमूभां स्वानिष्टं वितर्क्य प्रत्यादिष्टं गुर्वाज्ञालङ्घनन्ं तु न मङ्गलाय कल्पेत । यद्-आज्ञा-पालनाय परम-मर्यादः स खलु रघु-वर्यः प्राज्यं राज्यम् अपि परित्यज्य नव-भार्यया सह राक्षस-चर्याभीषणम् अपि वनं बाढम् अवगाढं चकार । तद्-आज्ञा-लङ्घनस्य परामृश्यते च फलम्— जरासन्धादयस् त्व् अस्मत्-सम्बन्धेन कृतानुसन्धे व्रजेऽप्य् उत्पातं पातयिष्यन्तीति प्रस्तुतम् अस्तु तावद् अप्रस्तुतम् अन्यद् अन्यद् अपि, तस्माच् श्री-व्रजेश-चरण-समाधानम् एव साम्प्रतं साम्प्रतम् इति ।
[१९] तद्-एवं मन्त्रं विधाय श्री-व्रजेशितुरनसां समूह सन्निधाय ताभ्यां तस्य परिसरः समाजग्मे । समागम्य च प्रणम्य सम्यगासनम् आस्थितयोस् तयो राम एव तस्मिन् सदसि यद् वृत्तं तत् प्रवृत्तं चक्रे ।
[२०] तत्र स्वयं कृष्णस् तु पितृ-पितृव्यादीन् अपि स-विनयं पश्यन् किञ्चिद् विहसन्न् इव तस्य शेषम् आह स्म,— हन्त! कादाचित्कीम् आकाश-वाणीं प्रमाणीकृत्य मयि निज-देवकी-पुत्रताम् अपि ते सूचयन्ति, तद्-अन्तर्गतं स्व-मतं कारणं तु नावतारयन्ति इति ।
[२१] अथैतावत् कथितवति मधुकण्ठे स्निग्धकण्ठश् चिन्तयति स्म,— वस्तुतः खल्व् अयम् अनुगताचिन्त्य-शक्तितया श्री-देवक्यां चतुर्-भुज-रूपेन श्रीनां-योशोदायां तु द्वि-भुज-रूपेन स्फुरति स्म ‘फलेन फल-कारणम् अनुमीयतेऽ इति न्यायेन । यदा तु कंस-भयाच्-चतुर्-भुज-रूपाच्छादनाय देवकीच्छाजायत, तदा तु श्री-योशोदायां स्फुरितं द्वि-भुज-रूपम् एव चतुर्-भुज-रूपम् अन्तर्भूतं विधाय तत्राविर्भूवेति पूर्व-चम्पूम् अनु (३.१०२) श्री-भागवतानुगत-युक्तिभिर् उक्तिभिः स्थापितम् । तत् तु न पूर्वम् उभयत्रापि ज्ञातम् आसीत् इति ।
[२२] अथ स्पष्टं स-स्मितम् आचष्ट,— कथं ते स्वयम् अपि कारणम् अवतारयेयुः ? अवतारिते तु तस्मिन् वसुदेवेनापहृतापत्यस्य गो-पत्य् अदिपस्य न्यायः सत्यः स्याद् इति । भवतु, व्रज-पतिना तत्र किं प्रतिपन्नं ?
[२३] मधुकण्ठ उवाच,— तच्-छ्रुत्वा तु व्रज-नृपतिर् बहिर् अविहतं विहस्य तद् अन्यथा अध्यवस्यति स्म, ‘अस्यास् त्वाम् अष्टमो गर्भो हन्ता यां वहसेऽबुधऽ [भा १०.१.३४] इति
कंसं प्रत्याकाश-वाणी—
‘किं मया हतया मन्द जातः खलु तवान्त-कृत् । यत्र क्व वा पूर्व-शत्रुर् मा हिंसीः कृपनान् बृथा ॥ऽ[भा१०.४.१२]
इति देवी-वाण्या व्यविचारिता । अव्यलीकता-पर्यवसित-भाषिणानकदुन्धुभिना च मां प्रति निर्द्वन्द्वम् इत्थम् एवोक्तम्,
‘दिष्ट्या भ्रातः प्र-वयस इदानीम् अप्रजस्य ते । प्रजाईशाया निवृत्तस्य प्रजा यत् समपद्यत ॥ऽ [भा १०.५.२३] इति ।
तस्मान् नूनं ‘प्राग् अयं वसुदेवस्यक्वचिज् जातस् तवात्मजःऽ [भा १०.८.१४] इति मां प्रति व्यञ्जित-तत्त्व-वर्गस्य गर्गस्य खल्व् इदं प्रपञ्चनम् एवान्तः कारणम् उदञ्चति ।
[२४] भवतु, पित्रोः पुनर् इदं सुख-सम्विदम् एव तनुते, यन् निज-पुत्रं प्रति धन्याः पुत्र-भावनाम् आचरन्तीति ।
[२५] विशेषतश् चानकदुन्धुभिना मम तज्-जन्या च भवज्-जनन्या न द्वैतम् अस्तीति तैस् तद् भद्रम् एवोच्यते । किं तु,
यात्र स्याद् असुराद् भीतिः सा तत्र विरह-ज्वरात् । भावद् वयं भवत्य् एवेत्य् आकुलं सुत मन्मनः ॥ २ ॥
[२६] भवतु, तथाप्य् एषाम् एव साहाय्यं कार्यम्, यतः सर्वज्ञानां मतम् अवधार्य कार्यम् एतद् विचार्य खलु मया कंस-बधाय तवागमनं न विस्रंसितम् । श्रूयते हि — पूर्वं मुनि-हिताय दशरथेनाभ्नव-तनयस्य राक्षस-क्षयाय प्रस्थापनम्; यः खल्व् अन्यदा तद् वन-गमन-क्षण एव क्षीण-प्राणताम् अवाप इति क्षणं रोदनं विष्टभ्य तम् एतं बाहुभ्याम् अवष्टभ्य् च तद् एतन् मुखम् ईक्षामास ।
[२७] ततः स चैष तम् एनं सचमानः स-गद्गदं जगाद,— तात ! दुष्टा नष्टा एव भविष्यन्तीति न तत्र सन्दिह्यताम् । तथैव हि दैव-फलं मम तात-चरणेषु वर्गश एव गर्गः प्रति-ञातवान् अस्ति । कदाचिन् मयि चैकान्ते वनान्ते देवर्षि-वर्य इति । तथा मम च वासस् तात-महाशयानाम् उपासनमय एव सम्पत्स्यते, तच् च गोपानाम् उप-समाजम् एव, न तु यादवानाम् एव दवीयः । ते खल्व् अस्माकं ज्ञातयः, एते तु सुहृद इति ज्ञातिभिः सुहृदां खल्व् एतादृश एव भेदः । सुहृत्सु तद्-धिताय कदाचिद् वासः सदा तु ज्ञातिषु तद्-आलोक-सुखाय भवति इति ।
[२८] एवम् उक्तवति रामानुजे राम-नामापि स्वं तत्-सदृशम् एव परामृशन्न् आह स्म,— पितुर् युवाभ्यां स्निग्धाभ्यां पोषितौ ज्वालितौ भृशम् आवाम् इति किं वक्तव्यम्; यतः पित्रोर् आत्मनोऽप्य् अभ्यधिका प्रीतिर् आत्मजेषु भवति इति ।
[२९] अथ कृष्णश् च तद् एव स्थापयन् प्राह स्म,— आस्तां तावन्-मम तनूजस्य वार्ता, अस्य च श्री-मन्-मद्-अग्रजस्य भवान् एव धर्मतः पिता; यतः—
स पिता सा च जननी यौ पुष्ञीतां स्व-पुत्रवत् । शिशून् बन्धुभिर् उत्सृष्टान् अकल्पैः पोष-रक्षणे ॥ [भा १०.४५.२२] इति ।
[३०] तस्माच्-छ्री-मद्-आर्यस्य चास्य भवच्-चरण-परिचर्या परं वर्या; किं तु सुहृदाम् एषां सुखम् अभिमुखं विधाय श्री-चरणम् आगमिस्यामः ।
[३१] व्रज-राज उवाच,— वत्स ! तावद् वयम् अप्य् अत्र वत्स्यामः ।
[३२] श्री-कृष्ण उवाच,— तात ! तथा विधेयं यथा भवद्-व्यतिरेकाद् एकाकितया माता मा तापं यासीत् ।
[३३] व्रज-राज उवाच,— ताम् अपि भवतः समीपम् एवापयिष्यामः ।
[३४] श्री-कृष्ण उवाच,— ततः सर्वम् अपि गोकुलम् उत्सन्नताम् आपन्नं स्यात् ।
[३५] व्रज-राज उवाच,— तर्हि सर्वम् अपि व्रजं निकटं घटयिष्यामः ।
[३६] श्री-कृष्ण उवाच,— सम्प्रत्य् अस्माकं बहुलाः प्रत्यहं सङ्ख्याधिकय-प्रत्यतः सुष्ठु बहुला जाताः । तासाम् उप-नगर-वनं किम् उप-जीवनं स्यात् ? गावश् चास्माकं कुल-देव्य इति ता एव सेव्यताम् अर्हन्ति । यदि वा मद्-अर्थं सर्वं भवताम्, मां विना तु ब्यर्थम् इति समर्थनीयम्, तर्हि च मत्-प्राणा एव ता इति ता एव प्राणनीयाः ।
[३७] किं च, यदवोऽपि नाहितं व्याहरन्ति; स्फुटम् उपलब्ध-कंस-सम्बन्ध-जरासन्ध-निर्बन्धाद्-अक्षौहिणी-लक्षित-दुर्-जन-लक्षाणि मथुराम् अवरोत्स्यन्ति; तर्हि गर्हितम् एव भवेत् । तत्रास्ताम् अस्मत्-सामीप्यम् अस्मद्-असामीप्यतश् च भवद्-अवस्थानं यद्य् अस्मत्-सम्बन्धं विना लब्ध-सन्धं भवेत् तर्ह्य् एव कृच्छ्रं नर्च्छेत् । गूढ-पुरुष-द्वारेण ज्ञाते ह्य् अस्मत्-सम्बन्धे जरासन्धादयस् त एते कंस-वन् न भयानुबन्धा इति छल-बलम् एकम् एकं न प्रस्थापयिष्यन्ति । किं त्व् अक्षौहिणीभिर् द्रवन्तः सर्वं व्रजम् अप्य् उपद्रावयिष्यन्ति । तस्माद् अस्माभिर् युष्माभिश् च गोपयितव्य एव गन्धश् च व्यति-सम्बन्धस्य; एते च मया यादवा दुर्गान्तरे दवयितव्याः; भवन्तस् त्व् असङ्ख्या न तथा कर्तुं शक्याः । सङ्ख्याम् अतिचरन्तीनां वनेचरन्तीनां गवाम् आवरणं तु सुतराम् एव दुष्करम्; तस्मात् तेषां दुर्ग-वद्-अस्मद्-औदासीन्यम् एव भवतां रक्षायां प्रावीण्यम् अर्हति ।
[३८] किं तु तावद् एव तद् विधेयम्, यावत् सर्व-विपक्ष-पक्षापक्षयं विधाय स्वयम् एव श्री-मद्-व्रजम् आव्रजामः । आव्रजिते च तस्मिन् न पुनर् अन्यत्र व्रजनम् अपि स्यात्, यतो निरुपधि-स्नेह-व्यग्र-भवद्-अग्रिम-स्व-जन-वर्ग-दर्शन-सुख-मात्र फल-पात्रतया निरुपाधिर् असौ पुरुषार्थः कथं बाधितः स्यात् ? तद्-एवं व्यस्य यन् निवेदुतं तद् तद् एवेदं समस्य निवेदयामि,
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भा १०.४५.२३] इति ।
[३९] तद्-एतत्-पर्यन्तं मधुकण्ठः प्रोच्य भ्रातरम् अवलोच्य प्राह स्म,— अत्र ‘तातऽ इति निजान्तः-स्थापित-पुत्रता-भावनाया योग्यम् एव सम्बोधनम्; ‘ज्ञातीन्ऽ इति, तत्रापि ‘स्नेह-दुःखितान्ऽ इति स्नेहस्य निरवधिकत्वात् प्रति-क्षणं दिदृक्षुषु तन्-मुख्येषु तेष्व् एवावस्थानं प्रति-क्षणम् एव स्व-वीक्षण-दानं च विवक्षितम् । ‘वयम्ऽ इति _‘अस्मदो द्वयोश् चऽ _इति पाणिनीय-स्मरणाद् अस्तु तावन् मम वार्ता, किं त्व् आवां द्वाव् अप्य् एष्याव इति व्यञ्जितम् । ‘द्रष्टुम्ऽ इति तेषाम् इवात्मनोऽपि तद्-दर्शन-मात्र-पुरुषार्थता समर्थिता । ‘अथापि भूमन् महिमा गुणस्य ते, विबोद्धुम् अर्हतिऽ [भा १०.१४.६] इत्य् अत्र बोध-विषयी-भवितुम् इति-वद्-दर्शन-विषयी-भवितुम् इत्य् अर्थान्तरेऽपि तद्-वद् एव सिद्धान्तितम्; ‘सुहृदाम्ऽ इति यदूनाम् अज्ञातित्वम् उपकार्यत्व-मात्रं च ध्वनि-पात्रं कृतम् । तत्र च ‘सुखं विधायऽ इति क्त्वा-प्रयोगेण सावधिक-निर्देशात् तद्-भयादि-नाशनानतरं पुनस् तद् अनपेक्षत्वम् अपि लक्षितम् इति ।
[४०] तत्र स्निग्धकण्ठः सोत्कण्ठं पप्रच्छ,— अथ तत्र किं व्यवसितं श्री-व्रजेश-चरणानां ?
[४१] मधुकण्ठः प्राह स्म,— व्रज-राजश् च तदीय-वाचो-युक्ति-रचनम् अनभिरुचितम् अपि बाढम् उचितम् इति मत्वा मनसि स्व-ललाटं हत्वा वाष्प-स्पृष्टम् अस्पष्टम् आचष्ट,— भवन्-माता तु वामा कथम् इयद्-बुध्यतां ?
[४२] श्री-कृष्ण उवाच,— तां प्रति च यथेष्ट-प्रणाम-पूर्वकं निजेष्ट-द्वारा मयेदं सन्देष्टव्यम् इति प्रोच्य स्व-हस्त-लिपिभिस् तत् पत्रं विरोच्य श्रीदाम-हस्त-विन्यस्तं कृतवान् ।
[४३] श्रीदामा च श्री-व्रज-राज-शुश्रूषायां कृतानुसन्धस् तन्-मुखबन्धम् अतीव तद्-दीनन्-मन्यतानुबन्धम् अनुसन्धाय तं विहाय निवेद्यम् एव स-गद्गदं गदति स्म,— यथा सम्प्रति वयं दुष्ट-जनात् कष्टम् आशङ्क्य स्पष्टम् एव नायास्यामः; किं तु श्रीमत्-पितृ-चरण-परिचरण-प्रभावान् ममाषड-क्षीणम् अक्षीणम् आगमनं प्रत्यहम् अपि विद्यत एव ।
तथा हि—
आद्येऽह्नि क्षीर-भक्तं घन-दधि-वलिता रोटिका तस्य पश्चात्- तत्-पश्चाद्-दुग्ध-पूपं तद्-अनु बहुविधान्नाद्यम् अन्येषु चान्यत् । मातर् मह्यं निकाय्ये महति रसयते पर्यवेषि त्वया यन् न स्वप्नस् तन् न वा तत् स्फुरण-मयम् इति स्मर्यतां किं तु सत्यम् ॥ ३ ॥
किं च,
यवन्न् आश्नासि मातस् त्वम् इति निशमये हन्त नाश्नानि तावद् यद्य् अश्नामीव तर्ह्य् अप्य् अनुभवद् असु मे येऽसवः शोषमीयुः । _
_गोष्ठं गच्छानि पश्यान्य् अपि निज-जननीं तद्-विधाम् एवम् एव ह्य् उद्यत् तेजः-प्रकाशाद् रिपु-गणम् अचिराद् उत्-सहिष्ये विजेतुम् ॥ इति ॥ ४ ॥
[४४] अथ तद्-एतन् निशम्य सम्यग्- अस्राविलं सन्देश-हरश् च व्याजहार,— सत्यं श्री-व्रजेश्वरी-चरणाश् च स्वप्न-वद् इदं साम्प्रत-भवद्-भोजनादिकं स-रोदनं वदन्ति स्म । भवद्-दुःखम् आशङ्क्य स्वाभोजनम् अपि गोपयन्ति स्म इति ।
[४५] अथ तद्-एतद् अवधार्य साश्चर्यतया स्थितेषु तेषु व्रज-महीक्षीद्-आर्द्र-वीक्षितम् आचचक्षे,— भवतः प्रेम-वश्यानां वयस्यानाम् एषां वर्तने का वार्ता ?
[४६] श्री-कृष्ण उवाच,— श्रीमन्-मातृवद् एव ते चामी ममेप्सित-सखि-जना वीक्ष्यया माम् उपलप्स्यन्ते; किं तु मातुर्-वत्सलता-स्वभावतया कदाचिद् अन्यथा-प्रथा भासिष्यते, न पुनर् अमीषां प्रणय-भाजाम् इति ।
[४७] व्रजेश्वर उवाच,— प्रथमतस् तावद् एत इव गावः कथम् एतावतीं प्रक्रियां श्रावणीं कुर्वन्तु ?
[४८] श्री-कृष्ण उवाच,— यद्य् अपि तास्व् अपि मम तथा-स्फूर्तिर्-जूर्तिम् अपनयेत् तथापि प्रकारान्तरम् अपि बहिर्-वृत्ति-समाधानाय विधास्यामि । यथा— तासां गन्धानु-सन्धानम् एव प्रधानं रव-गण-श्रवणं च; रूप-निरूपनं तु तत्-प्रधानकम् एव । तस्मात् स्तोक-कृष्णोऽयं तद्-अभ्यस्त-मद-स्तोक-सौरभ्य-परिरभ्यमाण-वस्त्र-संवस्त्रणया कृत-मन्-मुरली-खुरलीकतया च तथा सुबलश् चायं बल-वसनावलम्बतया तदीय-शृङ्ग-सङ्गितया च तासां मद्य्हम् अध्यासितं कुरुताम् । ततश् च ममाखिल-गुण-निधय एते सर्वेऽप्य् अनयोः प्रति-निधयः स्युर् यत्र वन्याश् च ते धन्याः सर्वाभि-वाद्या मृग-नगाद्या मत्-स्फूर्ति-पूर्तिम् आगच्छेयुर् इति सर्वम् एव समञ्जसं भविता इति ।
[४९] अथ निज-परिचारकान् शूद्राभीर-कुमारकान् हत-विचारकान् निशाम्य वैवश्याद् वैश्याभीर-राजि शाम्यद्-वचन-शक्तिभाजि स्वयम् एव सोऽयम् अस्र-तोय-धरः प्राह स्म, ⎯ मम सखीयमानानाम् एषाम् अखिलानां तेषाम् इव यद्यपि गतिस् तथापि तातानुगतिस् तु विशेषतः स्तुतिम् आसीदति इति ।
[५०] अथ मधुमङ्गलम् अपि तद् इदं स्नेह-सङ्गतम् आह,⎯ हन्त! भाव्हवन्तश् च तत्र यान्तु । यद्-भगवती-सेवां मन्-मङ्गलाय मत्-प्रतिनिधितया कुर्वाणाः पुनस् तद्-अपूर्व-जननात् पूर्ववत् तद्-अखर्व-पर्वणे सम्पत्स्यन्ते इति ।
[५१] तद्-एवं विस्रम्भ्य तत्-तत्-अङ्ग-सौरभ्य-परिरभ्यमाण-वसनादिना तौ स्तोक-कृष्ण-सुबलौ विशेषतस् तत्-तद्-गुण-वासितौ विधायान्यान् अपि यथा-न्यायं निजालङ्करणादिनालङ्कृत्य सेवादिकारिणं च यथावद् आदृत्य कृत्य-विशेषान् श्री-मत्-पितृ-चरणेषु गोचरतां निनाय; नीत्वा च तद्-अनुज्ञां गृहीत्वा स्वयं तत्रैव स्थित्वा मन्त्र-सदनाद्-बहिः स्थितान् माथुर-विप्र-जनान् अन्तर्-नित्वा तद्-द्वारा सर्वान्न् एव यदून् व्ज्ञापयामास,⎯ त एते व्रजाय व्रजिष्यन्ति इति ।
[५२] ते च श्री-वसुदेव-नरदेव-प्रमुखास् तत्रैव सुखाद् आगताः, आगम्य च रम्य-परिच्छदादिना तान् अभ्यर्च्य चानुव्रज्य च चर्च्यमान-तद्-भद्रतया पुरमयामासुः ।
[५३] स तु यशस्वी स्वयम् अस्वीकृत-राज्यतया किम् अपि तत्रत्यं तान् प्रत्य्-अनपवर्ज्य
किं तु प्राग्-वलि-वलित-बलि-कंस-हृत-धृत-कुप्य-भाजनानि यानि तान्य् एव विसर्ज्य केशवः केवलतायां मिथः क्षुभितता-भीतस् तैर् एव सह श्री-व्रजम् अहनीयान् अनुज्ञाप्य मनसि कयाप्य् अवस्थया व्याप्यमानः पुरम् आजगाम, रामस् तु तान् दूरम् अनु-वव्राज ।
{५४} व्रजेश्वरस् तु प्रलीन-मनस्तायाम् अपि जीवन्-मुक्त-वद् एव संस्कार-वशाद् इदं जगाद,⎯ वत्स! निजानुज-वत्सल ! स केवलतया मनोबलं हास्यति; तस्माद् अनुजं तम् एवानुयाहि इति ।
[५५] अथ स्व-सम्बन्धाद् अधिक-दुःखानुबन्धाद् आशङ्कमानः सङ्कर्षणः स-धैर्यं सर्वान् अनुज्ञाप्य शीघ्र-गत्या स्व-भ्रातरं प्राप्य क्वचिद् एकान्तम् अनुयाप्य निज-निज-बाहुभ्यां परस्परं ग्रीवां परिधाप्य तेन सह रुरोद । तद् अलम् अति-विस्तरेण ।
यतः—
कंसस्य ध्वंसनान्ते व्रज-वसति-गने गच्छति स्वीय-गेहं तं कृष्णं तं च रामं तम् अपि पशुपति-क्स्मा-पतिं तांश् च गोपान् । श्रीदामाद्यांश् च तांस् तान् अपि च तद्-अनुगान् नव्य-विच्छेद-भीतेर् अन्तः स्मृत्वा मद्-अन्तर्-विरस-वशतया सर्वम् अर्वाग् जहाति ॥ ५ ॥
[५६} तद्-एवम् उट्ट्ङ्कयन्-मधुकण्ठः श्री-व्रजाधिपादीनाम् आधिम् अवधाय पुनर् अभिदधे,⎯
यः स्वां कृष्णः पुरा तृष्णां वर्धयामास धृष्णजम् । स साक्षाद् भवताम् अङ्के स्वं केलिं वहति प्रभो ॥ ६ ॥
[५७] अथ श्री-कृष्णश् च तच्-चरणारविन्दं शिरसा विन्दन् स-निर्वेदं निवेदितवान्,⎯
अहह वहलमन्तुं जन्तुर् एष प्रलापी रचितमचित-तातः क्षन्तुम् अर्हस् त्वम् एव । कथम् अपि निजम् अङ्गं व्याधिना दुःखदं स्यत् तद् अपि न हि तद्-अङ्गी त्यक्तुम् इच्छेत् कदापि ॥ ७ ॥
ततश् च,
आलिङ्ग्यत व्रजेशित्रा पित्रा स-पुलकं सुतः । सर्वैश् चानन्द-गर्वेण रोम-पर्वेह सन्दधे ॥ ८ ॥
[५८] तद्-एवं प्रातः-कथां मधुकण्ठः समाप्य श्री-माधव-पद-सीम्नि राधिका-सदसि कथयामास,⎯
[५९] ये खलु तस्य व्रजाव्रजनाय व्यञ्जिता विघ्नास् ते सर्वे प्राग्-उक्त-लज्जा-निघ्ना एव मन्तव्याः । तद्-एव पुरस्ताद् व्यञ्जयन् मथुरायाश् चलन्तं सुबलं बलानुजः स्व-वल्लभारोचक-वाचिक-वलितं चकार । यथा⎯
सत्यं सन्त्यज्य युष्मान् नियत-मद्-अनुग-प्राणना निष्प्रमाणा धर्म्यं मे नास्ति किञ्चित् तद् अपि स-वयसः श्रूयतां मन्-निवेद्यम् । युष्माकं यातिसेतुर् मयि रतिर् अतुला सा तु मां ह्रेपयन्ती तत्-तुल्यासक्ति-रिक्तं ह्नुत-तनुम् अकरोन् नास्मि दूरः कदापि ॥ ९ ॥ पुर्याम् अस्यां यद् अस्मि प्रकटम् अपि हि तं हन्त कुर्यां कथं तत् किं तु च्छाया-सदृक्षः स्फुटम् इह विहरेत् तत्र तु स्वेन नित्यम् । आवेशो यत्र यस्य स्फुरति स नियतं तत्र भाति स्वयं यत् स्फूर्तिं स्वां सोऽयम् अस्मीत्य् अनुभजति यथा तेन नान्येन तद्-वत् ॥१० ॥ सोमाभे दर्श-रात्राव् अपि निज-रुचिभिः पूर्णिमा-भ्रान्तितस् त्वं मद्-विश्लेष-ज्वरार्ति-प्रथि-नवम-दशा दुर्वशाङ्गी यद्-असीः । तर्हि त्वाम् अङ्ग-कान्ति-स्फुरद् असित-मणि-श्री-चय-व्याप्त-सर्वः सोऽहं शिश्लेष तत्-तद्-विनिमित-दशया यत्र चित्रं जगस्थ ॥ ११ ॥ सोमाभे मानम् ऐच्छः प्रतिपदि ललिते माम् अयास्र् वनान्ते पाल्यासीर् वास-सज्जा परिचरसि पुरा राधया मां विशाखे । एतद् दिं-मात्रम् उक्तं भवद्-अवगतये ज्ञेयम् अन्यत् कथं वा स्वप्नं तत् तत् विदित्वा ग्लपयथ निजकं मानसं माम् अपीह ? १२ ॥ पद्मे भद्रे स-शैव्ये त्रितयम् अपि भवद्-रूपम् उद्भ्रान्त-चित्तं मद्-विश्लेषात् तमालं परि विलुठितवद् यत्र तत्राहम् आसम् । आलिङ्गन् युष्मद्-अङ्गान्य् उदनमयम् अहो यावद् अभ्यस्य तावत् कृत्रुद्धा बृद्धाः कुतश्चिद् वत यद्-उपगतास् तन् न मे याति दुःखम् ॥ १३ ॥ आन्येद्युः श्रील-राधे मम पुर-गमन-स्फूर्ति-सञ्जात-मूर्तिं त्वाम् आलिङ्ग्यानुचु म्बन् गिरि-वनम् अनयं तत् कथं व्यस्मरस् त्वं ? तत्रागम्याथ सर्वाः कल-कल-विरुतं यर्हि चक्रुस् तदानीं तत्रावां हा यथास्वं पृथकद् अपगतौ न स्मरस्य् एव तच् च ॥ १४ ॥ स्वप्ने यद् राधिके त्वं मम शयनम् इहाप्य् आश्रिता राज-पुर्यां स्वप्नस् तन् नस्ति नूनं परिमलितम् अभूद् यत्-त्वया तस्य वासः । आस्तां तत् स्पष्टम् अद्याप्य् अनु मद् अवयवं पद्मिनी-रत्न-गन्धं विशेषिन्दन्न् अन्धोऽपि लोकः स्मित-शवल-मुखः शीर्षम् ईषद् धुनीते ॥ १५ ॥ आस्तां प्राग् अद्य सद्य-स्तन-शशि-कलयालङ्कृत-श्री-रसौ यद्- वृत्तं तद्-युष्माकाभिः स-शपथम् अभितः पृच्छ्यतां श्यामलैव । यद्य् अप्य् एवं तथापि स्फुट-गतिम् अचिराद् आगतिं चेन्-मदीयाम् ईहध्वे सर्व-विघ्न-प्रशमन-रचना स्याद् यदा तर्हि कुर्याम् ॥ १६ ॥
[६०] तद्-एव एतावत्-प्रथाम् एव कथां समाप्य पुनर् मधुकण्ठः प्रोवाच,⎯
राधे सोऽयं सत्यवादी त्वाम् अलङ्कृत्य शोभते । त्वद्-गन्ध-बन्धनः पुष्पन्धयः स्वर्णाब्जिनीम् इव ॥ १७ ॥ ऊषा-निरुद्ध-वद् राधे ययोः स्वाप्नश् च सङ्गमः । षाक्षाद् आसीत् तयोर् वा किं विश्लेषः स्थातुम् अर्हति ? !८ ॥ इति विसृमरसान्द्रानन्दशस् तं समस्तं सपदि कथक-वर्यौ ताव् अनुज्ञाप्य यातौ । हरिर् अपि निज-कान्ता-सङ्ग-सर्वाङ्ग-शोभः सुभग-शयन-लक्ष्मीम् अञ्जसालं चकार ॥ १९ ॥
इति श्री-श्री-मद्-उत्तर-गोपाल-चम्पूम् अनु व्रज-पति-विसर्जन-कष्टं
नाम षष्ठं पूरणम् ॥ ६ ॥
(७)
(७)
अथ सप्तमं पूरणम्
श्री-व्रजे श्री-नन्द-प्रवेशः
[१] अथ पुनः प्रातः श्री-कृष्ण-कृत-प्रभायां श्री-व्रजराज-सभायां स्निग्धकण्ठ उवाच—
[२] या खलु पूर्वं व्रज-युवराजेन व्रज-राजं प्रति रचित-यन्त्रणा मन्त्रणा श्राविता, सा निज-व्रज्यायाः पूर्वम् एव प्ऽउर्व-सन्देश-प्रवेशक-द्वारा निजग्रजादीन् प्रति व्रजराजेन विशिष्टतया सन्दिष्टा । स्वेषां तेषाम् अपि व्यतिमिलने दुःसह-तत्-प्रस्ताव-सहनाय लब्ध-प्रवेशेऽपि तस्मिन् सन्देशे तद्-अग्रजादयस् तद्-आशा-पाशानुबन्धतया कदाचिद् अन्यथा स्याद् इति मनसि कथयित्वा प्रथि-मल-सद् उच्च-पद-सदसि सर्व एव समुच्चयमयामासुः । किं बहुना ? धृत-तद्-अनुसधा नीरन्ध्र-समुदय-बन्धाः पुरन्ध्री-प्रभृतीस् त्य्कत-लज्जा-दूतीर् वधूर् आदाय व्रजाधीश्वरी च किञ्चिद् अन्तरिततया तद् एवानञ्च । ततश् च दूराद् एव व्रज-नर-देव-प्रभृतीनां ह्रसद्-अखिल-कृतीनाम् आगमनम् अनुल्लासम् आलोच्य सर्व एव शोच्यमान-जीवना बभूवुः ।
[३] अथ सर्व-सहगत-सङ्गततया तत्रायाते व्रजनाथे यथायथं निखिलेषु च तेषु मिलितेषु स धीरधीः स्व-परेषाम् अन्तराधिम् अन्तरितं विधातुं स्वाङ्ग-जातस्य मङ्गलं वचसि सङ्गमय्य विजय-वृत्तान्तम् एव वर्तयामास ।
[४] तद्-अनन्तरम् एव च तां तन्-मन्त्रणाम् इति स्थिते कृष्ण-सुखैक-सुख-धियः सर्वेऽपि ते सुधियः प्रोचुः—भवतु, स्व-दुःखम् अपि सोडव्यम्, तद्-ईहितं तु वोढव्यम् इति ।
[५] अथ तत्र श्री-कृष्णस्य मातुर् असहनम् असहमानः स व्रज-नरेशानस् तत्र विचित्रेषु कृष्णैक-मित्रेषु तेषु तत्-तत्-प्रस्तोतृषु सतृष्ण-श्रोतृषु च सत्सु तां प्रति तां तत्-पत्रिकां च केनचिद् वाचिताम् आचचार ।
[६] यथा—आद्येऽह्नि क्सीर-भक्तं [गो।च।उ। ६.३] इत्यादिकं विस्मायनं सान्त्वनम् इव च जातम् । वाचितायां हि तस्यां ते दण्डम् एकं गण्ड-युगलं विस्तृत-लोचन-गलद्-उष्ण-शीत-धाराभ्याम् आस्तृततम् आचेरुः; किम् उत सा माता ।
[७] ततश् च श्रीमान् उपननदस् तान् अमन्दम् उवाच—यन्त्रणायाम् अपि नास्माभिः स्वतन्त्रतया तन्-मन्त्रणाद् अन्यद् आचरितव्यम् । स हि वाल्य-कल्प एव सत्य-सङ्कल्पः सर्वं पाल्यं चकार, यत एव चास्माभिः शत्रु-यज्ञश् च सावज्ञः कृतः । किं पुनर् अधुना? तस्माद् उत्थाय तत्-कथनम् अव्यर्थयितुं यथायथं सर्वैर् आचर्यताम्; यथा यथार्ह-वर्णाद् आकर्णयन् स सुखं प्राप्नोति इति ।
[८] तद् एवं युक्तं तद्-उक्तम् आकर्ण्य सर्वैर् अप्य् अवर्ण्यत—व्रजस्य सम्यग् रीतिर् इयं तस्यागमन-सामग्री भवति । तस्मात् तत्-प्रीतिमद्भिस् तन्-नीतिर् एव सेवनीया । श्रूयते हि—गो-मूत्र-यावकादिना स्वोदरम्भरीणां भरतादीनाम् अज्ञात-वनाय चिरं गतस्यापि रघुनाथस्य तथैवागमन-प्रतीक्षा । अथ कथं वा त्रि-लोकी-विजयि-दनुज-व्रज-विजयितयार्जितं राज्यम् अपि व्रजम् उद्दिश्य व्य्क्तं त्यक्तवतस् तस्य तु सा नास्माभिर् आदरणीया ?
[९] अथ व्रजराजश् च व्याजहार—भद्रं तन्-मातरम् आपृच्छ्य यच्छत प्रत्युत्तरम् इति ।
[१०] तद् एवं स्थिते तदाप्रच्छन-पूर्वकं व्रजस्य व्रज-राज्ञाश् च पत्रं यथा—
आज्ञा या ते तथासीद् व्रज-जलदि-विधो सैव सर्व-व्रजेन त्वन्-मात्रापि प्रकर्षाद् अरचि न च चिरं तत्र कोऽपि व्यधत्त । किन्तु प्राणाधिकोटि-प्रतिम-मुखरुचे नेत्र-वृन्देन भूयस् त्वत्-कान्तीनां दिदृक्षा चपलित-गतिना मन्यते जातु नैव ॥१॥ सत्यं तत्-तद्-दिवसम् अनु ते भोजनं तत्-तद् आसीद् इत्थं चित्ते स्फुरति मम हा तत्र चासीन् न तृप्तिः । यस्मान् मोहाद् अहह मयका पुत्र तत्-पूरणाय प्राप्तो नासीद् अवसर इति स्वान्तम् अन्तर् दुनोति ॥ इति ॥२॥
[११] अथ पूर्वं दुःखाद् एव साक्षात् किम् अप्य् निवेदितवता व्रज-क्षितिभृता सम्प्रत्य् आनकदुन्दुभिं प्रति तद् इदं पत्रं दत्तम्—
सप्तम-पुत्रार्पणम् अनु नासीन् मयि भिन्न-दृष्टिता यत् ते । तद् अयं चाष्टम-पुत्रः स्यात् तव तद् इमौ समं पाल्यौ ॥३॥
[१२] तद् एवं विधाय बुद्धि-समृद्धा वृद्धाः श्री-व्रज-राजादीन् नित्य-कृत्यादिभिर् योजयित्वा भोजयित्वा च तद्-उपदेश-सदेश-रूपम् एव सर्वे व्य्वहरन्ति स्म । तत्र तु यद्य् अप्य् अन्तर् वलिताधयस् तथापि तद् एक-स्फूर्तितया लब्ध-ब्रह्म-समाधय इव संस्कार-मात्रेण तत्-तद्-व्यवहार-पात्रेहा व्यलोक्यन्तेति कृत-वर्ण पद-लोपि-तत्-तद्-विशेष-वर्णनया साम्प्रतं तु पुनर् आकर्ण्यताम्—
राजित-युष्मच् चक्षूर् आजीवः सैष राजते व्रजप । कंस-ध्वान्त-ध्वंसस् तद्-वंश-प्राच्य-भूधरोत्तंसः ॥ इति ॥४॥ अथ पशुपति-राज्ञी तं समानाय्य पुत्रं नमित-शिर-समङ्के धारयन्ती चिराय । निज-नयन-कुचाञ्चि-क्षीर-धाराभिर् एनं सपुलकम् अभिषिञ्चत्य् अञ्चितानन्दम् आसीत् ॥५॥
[१३] तद् एवं प्रातः-कथायां कृत-प्रथायां गतायां श्री-राधिका-माधव-सदसि स्निग्धकण्ठः कथयामास—
[१४] अथ बलानुज-सन्देशं वलयन्न् अबलासु तासु त्वरित-तद्-आगमन-रहितासंहित-तद्-विरह-ज्वालया सुतराम् अबलासु सुबलः समयं न संवलते स्म ।
[१५] तत्र श्री-राधिकाया विरह-ज्वाला यथा—
वृक्षान् पृच्छति वर्त्म पश्यति हरिं तत्रात्मतां मन्यते तत् सर्वं मनुते मृषा वितनुते चीत्कारम् उत्कम्पते । लालां मुञ्चति चेतनां विसृजति स्फाराट्ट-हासा नटत्य् एवं चेद् वृषभानुजाजनि तदा कुत्रास्ति सन्देश्यता ॥६॥
अथ—
दृष्ट्वा कञ्चित् काकम् आयान्तम् ऐन्द्राद् आशा-भागात् पृच्छती तत्-क्रमेण । राधालीनां मध्यम् आसादयन्ती लब्धा पृआन्तं कृष्ण-मित्रस्य तस्य ॥७॥ वीक्ष्यामूः सुबलं बलानुज-सखं मूर्छाम् अवापुश् चिरं जाग्रत्यश् च चिराय नैव विविदुः पृच्छाम तं किं न्व् इति । दत्तं स्वस्ति-मुखं च नादिषत ता बाष्पाक्षतान्धीकृतास् तेन स्वेन तु वाचितं किम् अपि तं श्रोत्रातिथिं चक्रिरे ॥८॥
सत्यं सन्त्य्ज्य युष्मान् [गो।च।उ। ६.९] इत्य् आदिकम् ।
[१६] ततश् च स खलु श्री-कृष्ण-सखः सखीनाम् अवधानम् आत्मनि चित्वा प्रति-पत्रं याचित्वा तच् च ग्रस्त-तद्-उक्तिभिर् अभ्यस्तं स्वाक्षर-विन्यस्ततया भृत्वा पुनर् निज-पत्रिकान्तरितं कृत्वा सख्ये प्रस्थापयामास ।
[१७] तत् तु प्रति-पत्रं यथा—
यत् सन्दिशसि बलानुजः सम्प्रत्य् अपि मिलनम् अस्ति नस् त इति । तत् सर्वं तव मथुरा-स्थिति-विश्रुतिर् अस्मद्-अन्वितं गिलति ॥९॥ इह निजम् आगमनं वा यद् अस्कृद् अस्तीति सन्दिशसि । सत्यं तत् प्रिय तद् अपि भ्रमयति चित्तं मुहुस् त्वद् अन्तर्धिः ॥१०॥ एष्यसि सत्यं त्वम् इह व्रज-जनतायाः सुखं दातुम् । अपि यः क्षणमय-कालः स तु नः प्रति कल्पतेऽत्र कल्पाय ॥११॥ इति ।
[१८] अत्र श्री-राधा-सखीनां विशेषतयायं वाक्-शेषः—
वैद्यास् तत्र वलन्ते धन्वन्तरिवन् मधोः पूर्याम् । उन्मादापस्मारजम् ऋइति-हृइति-कृतिकं महौषधं पृष्टम् ॥१२॥
[१९] तद् एवं तासां तत् कथनं दुःख-प्रथनम् इति मत्वा समापयन् स्निग्धकण्ठः सोत्कण्ठम् उवाच—
हरि हरि हरि-विप्रलम्भ-लम्भं कथितम् इदं प्रथितं स्वजूर्तयेऽपि मिलनम् इह किल प्रपश्यतां नस् तव हरिणा हरिणाक्षि सौख्यकारि ॥१३॥
[२०] तद् एवं रात्रि-कथा-सत्रं प्रथयित्वा सर्वम् अपि सुखेन ग्रथयित्वा कथकौ वासम् आसन्नौ । ततश् च,
तद् उदित-नव-वर्षं राधिका-माधवाख्याव् अभिनव-वर-वीरुद्-भूरुहाग्र्याव् उपेत्य । वलयि-भुज-लताभ्यां बाढम् अन्योऽन्य-सक्तौ प्रमद-वन-विलासं बिभ्रतौ दिव्यतः स्म ॥१४॥
इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
श्री-व्रजेश-व्रज-प्रवेशो नाम
सप्तमं पूरणम्
॥७॥
(८)
अथाष्टमं पूरणम्
चतुः-षष्ठि-विद्याध्ययनम्
[१] अथ प्रातः-कथायां श्री-व्रज-युवराज-विराजमान-व्रजराज-सदसि लब्ध-प्रथायां मधुकण्ठः कवयामास—
[२] ततश् च तत्र स्वस्ति-मुखे लब्धाभिमुखे राम-रामानुजाव् अत्रत्य-वृत्तान्तम् अञ्चित्वा किञ्चिद् अत्रासम् आसामासतुः । तत्र जन्मारभ्य नासीद् अभ्यस्ततेति श्री-कृष्ण-रामयोर् देवक्यां मातरीव याचनादि-चरितम् अनालोक्य श्री-वसुदेवस् तया सह मन्त्रयामास । रोहिण्याम् एवानयोः पुत्रतया प्रणयो भवितेति ।
अथानकदुन्दुभेः सन् नन्द-नन्दनाव् उद्दिश्य प्रेरितो दूतः संवलित-वर्ण-दूततया व्रजं सम्भूतवान् । तत्र चास्तां नाम प्रशस्तिं रक्षितं तत्-तद्-वचनं विवक्षितं पुनर् इदम् एव लक्षितम्—भवतां गमन-समये मयेदं नाधिगमितम् आसीत् । राम-मातुर् आगमनम् अत्र कामनीयम् इति । तद् एतन् निशम्य तु श्री-रोहिणि व्याकुलतारोहिणी बभूव । यथा—
आज्ञा पत्युर् दिदृक्षाप्य् अथ नव-सुतयोर् जातु हातुं न शक्या सेयं गोविन्द-माता बत कथम् इव वा हेयताम् आशु यातु । तस्माद् एकैक-नेत्राद्य् अवयवम् अपि चेद् भागम् एकं तनोर् मे पूर्यां जीवे न कुर्याद् अपरम् इह विधिस् तर्ह्य् अहं निस्तरेयम् ॥१॥
[३] तद् एवं तस्या वैमनस्यं व्यवस्यन्ती श्री-हरि-माता व्याहरति स्म—
तुभ्यं मह्यं च मन्ये विधिर् अदित वपुः प्राणम् अप्य् एकम् एव प्रत्येकं पुत्र्-युग्मं यद् इह न भिदया किञ्चिद् आलोकयावः । तस्माद् दुष्पुण्यता मे यदि न सविधतां हा तयोः कर्तुम् ईष्टे शिष्टे रामाम्ब तर्हि स्वयम् अभिगमनाद् एव मां जीवयाशु ॥२॥
[४] ततश् च सर्वाभिर् अनर्वाचीनाभिः कृष्ण-मातुर् मन्त्रणम् एव युक्ति-पर-तन्त्रं क्रियते स्म, कृत्वा च मुहूर्त-ज्ञेभ्यः शुभ-मुहूर्तं धृत्वा प्रतिस्वं समग्रीकृत-नाना-सामग्रीभिर् विशङ्कट-शकटान् भृत्वा विसूरित-पूरितं भूरि-दूरं तया सह सृत्वा स-बाष्प-कण्ठं कण्ठं गृहीत्वा कथञ्चिद् एव परिदेवनया तां हित्वा निववृते । यत्र कृष्ण-प्रसू-निज-प्रसूत-तत्-प्रसूतयोः कृते कृतेप्सिततया वीप्सितान् भोगान् उपभोगांश् च तस्यां समर्पितवती गद्गद-युक्तम् उक्तवती च—प्रतिलवम् आवकयोः शावकयोर् वृत्तं निजेष्ट-सन्देश-मुख-मुखेन सन्देष्टव्यम् । देवकीं प्रति मम च तद् इदं निवेदयितव्यम्, यथा—
आवकयोर् अभिदा या लोके सम्भाविता जाता । सम्प्रति सा प्रकटाभूद् देवकि पुत्रे न तत्र यद्-भेदः ॥३॥
[५] अथ व्रज-मात्रम् अनुस्मरत्-स्फुरद्-अतनु-व्यसनम् इदं हृदयं क्षुभ्यति । ततः कृतं तन्-निवृत्ति-वृत्त-विस्तरेण इति विरम्य मधुकण्ठः समापनम् इव प्राह स्म—
तद् इदं कथनीयं स्यान् नैव वृत्तं व्रजेश्वर । यद्य् एष भवद्-उत्सङ्ग-सङ्गी दृश्येत नाधुना ॥४॥
[६] तद् एवम् आनन्दितेषु व्रज-वन्दितेषु स्निग्धकण्ठः पप्रच्छ—अथ तत्र किं वृत्तं तत् कथ्यताम् ।
[७] मधुकण्ठ उवाच—
रोहिण्या व्रजतः कृतागमनया गोविन्द-रामौ यदा वन्दित्वा मिलतां तदास्फुरद् असाव् उच्चैर् यशोदेत्य् अपि । स्फूर्तिः सा च परं तयोर् मनसि न स्वस्यापि तस्या बभौ प्रेम्णो रीतिर् इयं न बुद्धि-विषयः कस्यापि पश्याद्भुतम् ॥६॥ विश्लेष-वासर-पुरः-सरजं चरित्रं कृष्णे स-बाष्पम् अनुशृण्वति तज्-जनन्याः । पप्रच्छ ताम् अनु बलस् तद् उवाच सा च स्वस्मिंस् तद् एकमयताम् अनुभावयन्ती ॥७॥
[८] दिनान्तरे तु वलित-पत्नीषु सर्वासु सपत्नीषु तासां श्री-कृष्णस्य व्रज-सम्बन्धम् अनभीप्सितम् अभीक्ष्य सा जगाद—
विश्वस्मिन् यः स्नेह-नामा पदार्थः श्रीमान् सोऽयं राजते गोष्ठ एव । तस्मिन्न् उच्चैर् गोप-राज्ञाम् अथासौ पुत्रो वश् चेत् तत्-प्रसङ्गे क्व दोषः ॥८॥
[९] तद् एवम् अतृष्णं निशम्य तुष्णीकां सेवमानयोर् वसुदेव-देवक्योर् अपरा हास्य-पराः प्रोचुः—गोपानां दधि-दुग्धादि-लुब्ध-मनसस् तव नायुक्तम् इदम् उक्तम् ।
[१०] तद् एवं निशम्य सापि तेषां स्व-मतम् अधिगम्य व्रज-नृपति-पत्न्यां सानुतापं मनः सङ्गम्य मौनम् एवाललम्बे ।
[११] अथानकदुन्दुभि-प्रभृतिभिर् अनयोर् व्रत-बन्धेऽपि कृतानुबन्धे व्रज-बन्धूनाम् आनयनं सापि न प्रस्तुतवती ।
[१२] राम-कृष्णौ च तत्र स-तृष्णाव् अपि तेषां मनसि कर्मणि चान्यादृशतां सन्दृश्य व्रज-देशजानां तत्र क्लेशम् अपि परामृश्य प्रजा-मात्र-निमन्त्रणायाम् अपि न तान् आमन्त्रयितुं मन्त्रितवन्तौ । तद् अलम् अस्माकं तद्-व्रत-बन्ध-वर्णन-निर्बन्धेन । किन्तु ततः पूर्वं सुदाम-मालाकार-द्वारतः श्री-व्रजेन्द्र-नन्दनस्य पत्रम् इदं श्रोत्रामृत-पान-पात्रतयावधीयताम्—
तात श्वः प्रातर् एते यदु-नृप-कुलजा यज्ञ-सूत्रेण पुत्री- कुर्युर् मां स्वार्थ-हेतोर् अहम् अपि तु बहिस् तद् विदध्यां हृदान्यत् । ज्ञातीन् वो द्रस्टुम् एष्याम्य् अहम् इति च यया प्राग् अवोचं भवत्सु स्वाम् एतं हन्त जिह्वां कथम् इतर-दशां त्वत्-तनूजः स कुर्याम् ॥९॥ मा कृढ्वं मम यज्ञ-सूत्र-कुतुकालाभेन निर्विण्णताम् अस्मिन्न् अस्मि तु युष्मदीय-सुहृदाम् अर्थाय बद्ध-प्रभः । तस्मान् मत्-तनु-रूपमत्-सवयसां गायत्र-दीक्षा-महः सन्तत्य व्रजराज तेन मम तत् पूर्णं स्वयं तन्यताम् ॥१०॥ इति ।
[१३] तद् एतच् छ्रीमद्-उपनन्द-नन्द-प्रभृतयश् च तदानीम् अनुसन्दधते स्म—पूर्व-मन्त्रणा-परतन्त्रतया सञ्चितं तद् इदम् अस्मासु तेन स्वयम् उदासीनत्वं प्रपञ्चितम् । तत् तद्-विहितं पुनर् अस्मद्-वैश्य-जात्य्-उचितम् एवान्तश्-चिन्तितम्; तस्माद् वयम् अपि तत्-प्रतिनिधीनाम् एषाम् अन्तस् तद् एकतया बहिस् त्व् इतर-विवेकतया व्रत-बन्धं सन्दधाम इति ।
[१४] स्निग्धकण्ठ उवाच—तद्-अनन्तरम् अन्तरं सन्तन्यताम् ।
[१५] मधुकण्ठ उवाच—तत्र चात्र च जाते च द्वि-जातेरित-व्रत-जाते वेद-वेदाङ्गाध्यायनाय अनयोर् इच्छा जाता । जातायां तस्याम् एताव् अन्य-जन-प्रचारम् अनुचरन्तौ तद् इदं विचारितवन्तौ—अध्ययनं नाम गुरु-कुलम् अध्यगमन-पूर्वकम् एव पूर्व-सूरिभिर् विहितम् । तत्र यद्यपि गुरु-योग्याः पुरु-महिमानः कृष्ण-द्वैपायनादि-नामानः सर्वतः प्रचरन्ति, तथापि त आवां स्वाभाविक-ज्ञानादि-प्रभावाव् इति मत्वा सङ्कोचम् एव रोचयिष्यन्ति । ते हि परम-वैष्णवा वैष्णवं तत्त्वम् अनुभविष्यन्त्य् एव । अध्येतव्यं चावाभ्याम् अवश्यम् एव वश्यम् । मर्यादा-लङ्घने खलु न लोक-मङ्गलं मन्यामहे । तस्माद् यः शब्दे ब्रह्मणि निष्णातः शैवश् च भवति, स एव पुरु-गुरु-कर्तव्यः । तथाविधाश् च पूर्वं काश्य-वंश्यतया शिव-सेवका मध्ये मध्ये प्रभासं गच्छन्तः सम्प्रति शिवान्तिकता-शन्तमायाम् अवन्तिकायां सान्दीपनि-महानुभावाः सन्तीति तत्रैव गन्तव्यम्; किन्तु यथा नान्ये जानन्ति, तथा । अन्यथावयोर् अतिदूर-गति-कथायां लब्ध-प्रथायां यादव-कूले शात्रव-भव उपद्रवः स्यात् । तथा श्रीमत्-पितृ-प्रभृति-भृति-भुक्-पर्यन्ता व्रज-जनाश् च देह-भृतिं न मंस्यन्ते; किम् उत सम्प्रति प्रति-जन-सन्ताप-सन्तान-जननी सास्मज् जननी ।
[१६] तद् एवं ताभ्यां विचार्य यतोचितं यदुषु च सञ्चार्य परान् प्रतार्य तद् एव रचितम् । तत्र चैकान्त-निशान्त-विश्रान्ततया व्रत-धारिणौ तौ विराजेत इति च प्रतारण-कारणं विचारितम् ।
[१७] अथ दूरं गुप्तं च गमनं नान्य-जन-सङ्गमनम् अर्हतीति दुःख-दशारोहिणीषु वसुदेव-देवकी-रोहिणीषु श्री-कृष्णः प्राह स्म—
सङ्गे चेन् मम रामोऽयं सङ्गिनां कोटिर् आगता । अहं चेद् अस्य सङ्गी स्यां सङ्गीनां न्य् अर्वुदं मतम् ॥११॥ ताव् आवां भवद्-आशीर्भिः प्रभावम् अतुलं गतौ । गम्येवहि परीभावं येनासौ भुवनेषु कः ? १२॥
[१८] तद् एतन् निशम्य प्रथमौ तौ प्रथमान-तत्-प्रभाव-भावतया किञ्चिद् आस्वस्ति-युक्ताव् आस्ताम्, श्री-व्रजेश्वरी-सखी श्री-रोहिणी तु सा खिन्नैवासीद् इति स्थिते गुरुकुलं प्रस्थितयोर् अनयोर् वृत्तं वृत्तं करवाम ।
ब्राह्मणान् कतिचिद् आत्म-मर्मगांस् तीर्थकारि-जन-बेश-धारिणः । वर्त्मनि स्वम् अनु भैक्ष्य-दायकान् नाददे हरिर् अमीभिर् अर्थितः ॥१३॥ ब्रह्मचर्यम् असमाप्तम् इत्य् अतो नैव यानम् उररीचकार यत् । भ्रातृ-युग्मम् इदम् इत्थम् आत्मनो वीर्यम् एव बहु-यानम् आददे ॥१४॥ पश्यन् पश्यन् ग्राम-सङ्घान् विचित्रान् कृष्णो रामेणोज्जयिन्यौ प्रतस्थे । यस्मिन् यस्मिन् गोष्ठम् आयाति दृष्टिं तस्मिन् स्तम्भाद् वासम् आसज्य शश्वत् ॥१५॥ ब्रह्मचार्य्-उचित-वेश-धारिणाव् इत्य् अमू परिचितौ न केन च । यद्यपि स्फुटम् अथापि तेजसा लोचनानि विशतः स्म पश्यताम् ॥१६॥
तत्र च—
रामम् अजानन् ज्योतिः परम् इह पान्थास् तदावन्त्याः । तिमिरं ज्योतिः किं वेत्य् अजिते दृष्टे तु सन्दिदिहुः ॥१७॥ यत्र यत्र पशुपेश्वर-पत्नी- स्नेह-शर्म तद् इयाय घनाभम् । तत्र तत्र नगरं विपिनं च स्वान्तरार्द्र-मयतां समवाप ॥१८। कस्याः पुण्यवती-शिखाग्रिम-मणेर् अङ्के विवृद्धिं गतः कस्याः सोऽयम् उरोजयोर् निज-कलाम् उल्लासयन् देविता । एवं तत्र च तत्र चासकृद् असौ नानाङ्गना-तर्किताद् धिन्वन् कर्ण-युगं दधेऽथ पिदधे तत्-तत्-स्पृहा-भीतितः ॥१९॥
[१९] अथ स्व-विशेष-सङ्गोपनाय सङ्गिभ्यो विच्छिद्य विद्यमानयोः सर्व-विद्यानन्दि-सान्दीपनि-सभा-निकटम् अटितयोर् अनयोर् इदं तदीय-सभ्यास् तर्कितवन्तः—
एकं प्रावृषिजं परं शरदिजं मेघं तदा मन्महे यद्य् एतौ तिमिरापहौ न हरितां स्यातां कुमार-प्रभौ । सूर्या-चन्द्रमसाव् इमाव् इति मनाग् उत्प्रेक्षितुं शक्नुमः किन्त्व् एकोऽसित-कान्तिर् एष तद् अपाकृत्यात्र विभ्राजते ॥२०॥
ततश् च,
क्षौमं वस्त्र-युगं पवित्रक-मयं यज्ञोपवीतं तथा मौर्वीं मेखलिकावलिं खदिरजं दण्डं रुरोश् चर्म च । धृत्वा क्षत्रियता-विभावकतया सद्-ब्रह्मचर्यान्विताव् आचार्यस्य सभां स्वभाव-सुभगौ शुभ्रासितौ जग्मतुः ॥२१॥ सान्दीपनेः सदसि विप्र-सहस्र-दीप्ते तस्मिंस् तदा विविशतुर् दनुजारि-रामौ । ज्योतिर् गणाञ्चि-दिविषद् गुरु-कान्ति-कान्ते यद्वद् विषज्य सुर-वर्त्मनि सूर्य-चन्द्रौ ॥२२॥ ब्रह्म-वर्चसम् अदान् नृप-चिह्नौ वीक्ष्य ताव् अपि न ते यद् उदस्थुः । तच् च युक्तम् इव यन् महद् अग्रे नोन्नतिः खलु भवेद् इतरेषाम् ॥२३॥ एषां तनुर् यद्यपि नानयोर् नता ब्राह्मण्य् अगर्वं श्रयताम् अभूद् इह । तथापि बाढं हृदयं द्रवात्मना बाष्पी-भवन्त्य् आञ्चिचद् एतयोर् द्युतिः ॥२४॥
[२०] ततश् च सन्दीपित-भक्ती पाणि-सन्दित-समिद्भिः कृत-पुरः-स्थल-शक्ती सान्दीपनिं निज-विद्यार्थिता-व्यञ्जनया वाचा रञ्जयन्तौ स्व-वर्ण-गोत्र-वर्णन-पूर्वं सितासिताव् इति नाम-व्याहरणेन चात्यपूर्वं ववन्दाते ।
[२१] तद् व्यञ्जनं च—
श्रीमन् महाकुलज विप्र-वतंस-रत्न विद्या-निधे विहित-वैदिक-धर्म-मर्म । अज्ञान-दुःख-विनिवर्तक दीन-बन्धो त्रायस्व नौ स्व-चरणं शरणं प्रपन्नौ ॥२५॥ इति । स्व-गोपन-कृतेऽदातां नोपायनम् अनुत्तमम् । किन्तु वन्य-फलं चित्रं पवित्रं दूर-सम्भवम् ॥२६॥ गुरोर् विशेष-सम्प्रश्नाद् आहतुस् तौ स-निह्नवम् । जातौ वसुतया ख्याताद् आवां यादव-वंशजात् ॥२७॥ चातुर्य् अपि तयोर् एषा तटस्थ-घटनां गता । यन्-मोहनतया सर्व-धुरीणत्वम् उरीकृतम् ॥२८॥ गुरुश् चाभिवदन् प्राह समयो नः सुदुर्लभः । ततः समयम् अन्वीक्ष्य स्थीयतां बत सुव्रतौ ॥२९॥
[२१] किन्तु प्रथमं तावद् भिक्षा-शिक्षां सुशिक्षितैर् अमीभिः क्षत्रियता-मान-क्षति-पूर्वां कुर्वाथाम् इति ।
[२२] तद् एवम् अनुज्ञातौ यातौ च विधाय तत्रस्थान् प्रति तु गुरुर् जगाद—
स्निह्यति स्म मम चित्तम् एतयोर् दर्शनात् तद् अनुमीयते स्फुटम् । स्निग्धम् अध्यवसती स्व-जन्मना स्नेह-मात्र-बहिर्-अन्तराव् अमू ॥३०॥ युगलं तद् इदं सितासितं यद् अपि स्नेहमयं विरोचते । तद् अपि स्फुटम् एतद् ऊहते मम बुद्धिर् ननु मूलम् अन्तिमम् ॥३१॥ सामुद्रिकेऽपि लिखितान्तर-चिह्न-सारान् एताव् अतीत्य महिताव् असितः सितश् च । तत्रापि चित्रम् असिते स्फुरति प्रभा या बुद्धिं विमोहयति सा बत मादृशां च ॥३२॥ इति ।
[२४] अथ दीदिवि-भिक्षा-गतेषु च तेषु जीविका-रूपाव् अमू एवास्ताम् । यत्र च—
एताभ्यां समवेताभ्यां नालभ्यं किञ्चिद् अस्ति यत् । तस्माद् अन्ये तु तद्-भैक्षे जाताः सर्वेऽपि वाहकाः ॥३३॥
किन्तु,
विपरीतम् अभूद् एतद् अनयोर् भिक्षमाणयोः । भिक्षित-व्यजनास् तेऽपि यातास् तद्-दृष्टि-भिक्षुताम् ॥३४॥
तत्र तु—
मातृ-दृष्टिम् अकरोन् न केवलं युग्मम् एतद् इह दातृ-यौवते । किन्तु तच् च सुत-दृष्टिम् आतनोत् तत्र दिव्य-तरुणेऽपि साम्प्रतम् ॥३५॥
[२५] किं च, तत्र तत्र सर्वत्र भिक्षाम् अकुरुताम्, यत्र यत्र सहचारिणं स-ब्रह्मचारिणां परिचयः प्रचरेद् अन्यत्र पुनर् अपचाराय स्याद् इति सदाचारं यद् आचरितवन्तौ, तन् निज-सङ्गागत-चराणां द्विजवराणां तद् अपरिचिततां व्यज्य परित्यज्यमानानां सङ्गोपनाय च सङ्गमयामासतुः ।
[२६] तद् एवम् उपधया परस्परावधारितया लब्ध-निज-सम्मानाभ्यां दिनं दिनम् आभ्याम् उपचितं याचितं निज-पुरतः समाचितम् अपि प्रसज्य स तु चतुर-गुरुः श्री-कृष्ण-गुरुः पुरु-कुतुकतया विभज्य तयोर् एतयोर् अधिकम् अनुरज्यते स्म। अनुरज्य च सुकुमारौ तव् इमौ कुमारौ न कर्म कारयति स्म । तथापि भक्ति-समवेतौ ताव् एतौ तद्-दृष्टि-विप्रकृष्टतयातिनिकृष्टम् अपि कर्माकुरुताम् एव ।
[२७] अथ कदाचिद् गुरु-पत्नी गुरुं पप्रच्छ—भगवन्! भवद्-अन्तेवासिनाम् अन्तः कतमः सद्-भक्ततमः ? इति ।
[२८] स उवाच—ताव् एतौ सितासितौ क्षत्रिय-सुतौ ।
[२९] सा तु स-स्मितम् आह स्म—अहं तु काञ्चिद् अप्य् अनयोर् भवद्-वरिवस्यां न पश्यामि ।
[३०] स उवाच—मया स्निग्धतया निषिद्धमानताम् अनुरुध्य न तौ प्रकटं किञ्चिद् घटयतः; किन्त्व् अप्रकटं घटयत एवेति लक्ष्यते ।
[३१] तद् एवं स्थिते कदाचिद् अकाल-वृष्टि-दृष्टिम् अवष्टभ्य सा काष्ठ-घटनायाम् अपराह्ण-दिष्टे काम्श्चित् तद् इतरांश् छात्रान् आदिष्टवती—पुत्रकाः! काष्ठं कुत्र लभ्यतां ? इति ।
[३२] तेषु च समस्तेषु किञ्चन त्रस्तेषु ताव् एतौ तु तत्-परम्परया निशमयामासतुः । निशम्य च पृथग् एव परम-काष्ठ-भक्तितया परम-काष्ठ-कृते विदूर-काष्ठां चलितयोस् तयोर् एतयोर् अवलोकनेन ते चान्ये चपलम् एव चलितवन्तः । कृत-प्रवेशे तु महा-गहन-प्रदेशे लुप्त-दृष्टि-सृष्टिर् वृष्टिर् आयाता । आयातायां तु तस्यां नान्ये किञ्चिद् अप्य् अञ्चितुं चाशक्नुवन् । सित-श्यामाव् अमू तु चारूणि चारूणि दारूणि विचित्य कृत-कृत्यतया तस्थतुः, किन्तु रात्रिर् आगतेति न गृह-यात्रिकताम् अवापतुर् इति । किं बहुना ? गोष्ठ-लोक-कर्ण-कष्टप्रदेनौष्ठ-स्पन्दनेन इति ।
[३३] एवं प्रोच्य शोच्यमान-तद्-अवसरं व्रज-वासि-प्रकरम् अधिगम्य क्षणं विरम्य कथकः प्रथयामास—[३४] प्रातस् तु भ्रातः ! सन्दीपित-मन्युः सन्दीपनिः पत्नीं निन्दित्वा प्रातः-क्रियाम् अपि हित्वा धावित्वा तत्राजगाम; यत्र सञ्चित-दारू गुरु-भक्ति-कारू स-क्लेशेऽपि वेशे परम-चारू सङ्गिनस् तान् सूचित-नक्त-मुदन्तौ परिहसन्तौ लसन्तौ च विद्येत तत्र सज्जति तु लताद्यावरणेन कृतस्तरणे गुरु-चरणे लज्जां सज्जतः स्म । निजं नर्म-रचनं वचनं गुरुभिस् तद् आकर्णितम् इति; कार्यं सद्यो न पर्याप्तम् इति च ।
[३४] ततश् चेमौ दत्त-सुखचयाव् अवाङ्मुखतया नमस्कुर्वन्तौ परिष्वज्य रज्यमानतया अनयोः सर्व-विद्या-स्फूर्तिर् भवताद् इति मनसि विविच्य समतिरिच्यमान-बाष्पामृत-वितान-धारयाभिषिच्य सकल-कला-पूर्णः स द्विजराजस् तूर्णं समावर्तन्म् इव वर्तयामास । तथापि तु मम प्राणाः पीड्यन्ते । यतः,
विधिर् यः सर्वत्राप्य् अशुभ-शुभकारीति विदितः स येषां यन् मैत्रीम् अभ्लषित-पात्रीं वितनुते । शुको मुक्तोऽप्य् उच्चैः कवयति ययोर् यत्र पितृतां तदिय-प्राणोऽसावहह गुरवे दारु चितवान् ॥३६॥
[३६] तद् आस्तां प्रकृतं पुनर् अनुसरामः—अथाचार्यः समिधः परेषां शिरसि सन्धार्य ताव् इमौ गृहम् अनुसार्य भार्यया सह पुरस्कार्यतां प्रापयामास, प्रापय्य च सर्वम् अध्यापयामास ।
[३७] तत्र तु, मित्रयु-स्वभाव-चित्र-चरित्रस्य तस्य तद् इदं सर्व-मनः पवित्रं करोति । यथा—
तस्मिन् स-तीर्थ-शतकेषु समेषु कृष्णः श्रीदाम-शर्मणि यद् एष सुरज्यति स्म । गोष्ठ-स्थ-तन्-निज-सखाह्वय एव हेतुस् तस्मिन् यथा किल सुदामनि चार्जुने च ॥३७॥
[३८] अत्र चित्रतामत्रम् अन्यद् अपि मन्यताम् । सत्यं तत्र स चान्ये च केचन ताभ्याम् एताभ्यां सहाध्ययनायाध्यवसायं कृतवन्तः, किन्त्व् अध्यवसाय-मात्रेण किं भवतु? तथा हि—
सत्यं बहवश् छात्राः कृत-गुरु-यात्रा मुरारि-रामाभ्याम् । किन्त्व् अधिगति-सद्धंसाः हंसाः किं स्युः सुपर्ण-सध्र्यञ्च ॥३८॥ अनूचानान् समावृत्तान् अपि स-ब्रह्मचारिणौ । विजिग्याते राम-कृष्णाव् अपि प्राथम-कल्पिकौ ॥३९॥ सकृन् निगदनाद् एतौ साङ्गान् वेदान् अधीयतुः । तुष्टुवाते सुष्ठु सर्वैर् असकृन् निगदेन तु ॥४०॥ अहोरात्रैः षष्ट्या चतुर् अधिकया तत्-परिमिताः कलाश् चित्तस्यान्तर् निदधतुर् अमूश् चित्रवद् अमू । यतष् चित्तं विश्वस्य च वलित-चित्रं समभवन् न यद् बोद्धुं षक्तः समजनि तदा तद् गुरुर् अपि ॥४१॥ सान्दीपनेर् अधीतं हरि-रामाभ्याम् इति ख्यातम् । सान्दीपनिस् तु ताभ्यां भ्रमम् अपहतवान् बहुत्र विद्यासु ॥४२॥
[४०] तद् एवं तत्रापि सर्व-विशिष्टतया प्रतिष्टितयोर् अपि तयोर् एतयोर् अन्तर्-वृत्ति-विशेषं वर्णयिष्यामः—
गुरोर् वासे तस्मिन् निशि निशि हरिः स्वाग्रजम् अनु व्रजस्थानां वार्तां कथयति स-बाष्पं शयनके । तथैव स्वप्ने यत् प्रतिपदम् असौ जल्पतितराम् अदः स्मारं स्मारं ज्वलति मम ह हृज्-जलरुहम् ॥४३॥ यथा — भ्रातर् माथुर-लोक-वृत्त-कथनं यत्नान् मनस्यानये विस्मर्तुं व्रज-वृत्तम् अत्र वलते तत् प्रत्युत स्मारकम् । माता मातरम् आदधाति पितरं चित्ते पिता बन्धुत बन्धून् मे करवाणि किं बत मया कालः कथं क्षिप्यताम् ॥४४॥ इदानीं माता मां स्मरति शयनाद् भ्रंशित-वपुः पिता तद्वत् किन्तु प्रसजति मिथस् तन् न मिथुनम् । ज्वलत्य् उच्चैर् बह्नौ निज-वपुषि को व सखि-जनं परिष्वक्तं हा धिक् पतनम् इह तस्यापि लषति ॥४५॥ माताप्य् अस्तु पिताप्य् अस्तु सखायः सन्तु दूरतः । गोष्ठं वनं च तत् सर्वं दन्दग्धि हृदयं मम ॥४६॥ इति ।
[४१] तद् एवं स्थिते तत्र सङ्कर्षणस् तु स-बाष्प-वर्षं सान्त्वयति—भ्रातर् मम सर्वं विहायार्वाग् एव तत्र प्रकटम् अटितुम् इच्छा । भवान् एव तु सङ्कोचं रोचयमानस् तत्र स्थगितायते । तद् एवम् अप्य् आपाततः सान्त्वनाय किम् अपि तेषु स्वयं स्मर्यमाणम् अपि विस्मर्यमाणं करोषि; यत् खलु तेषु मात्रादिषु मुहुर् अतिमात्रं यात्रां विनापि प्रत्यक्ष-पात्रायसे ।
[४२] श्री-कृष्ण उवाच—आम् आं सत्यं सत्यम्; तथापि तेषां तत् तन् मुहुः स्वप्नायमानताम् आप्नुवन् मम च तद्-रूपतया भाति; किं कुर्यां ? इति ।
[४३] तद् एवं भ्रातृ-द्वयं स-बाष्पं व्यतिष्वज्य निद्रातीत्य् अलम् अतिविस्तरेण, यतः,
पत्यक्ष-कल्पम् आसीद् यत् प्रत्यक्षं तद् इहेक्ष्यताम् । कृष्णः सो‘यं भवान् सोऽयं सभायां हि व्रजाधिप ॥४७॥
[४४] तद् एवं तान् सन्तोष्य त्रि-यामा-कथया श्री-कान्त-लाभेन सुखाधिका राधिकादिकाश् च पोष्यन्ते स्म ।
[४५] यथा मधुकण्ठः प्राह—अथ व्रज-नागरीणाम् अनुराग-सागरः स एष जागरानन्तरम् इदं पराममर्श,
स्वप्नः सोऽयं समस्तात् किम् अथ बत मया रास-तुल्योऽभिदृष्ट स्वप्नो नायं मद् अङ्गं परिमल-वलितं येन गोपाङ्गनानाम् । हा धिङ् मे ब्रह्मचर्यं विगलितम् अथवा बुद्धि-पूर्वं तद् एतन् न स्याद् अस्मान् न दोषः स्व-विरह-दहनात् प्रत्युतामूस् तरन्ति ॥४८॥
[४६] वस्तुतश् च मत्-प्राण-सपर्यायाभिस् ताभिः परिचर्यया ब्रह्मचर्यं न पर्ययम् अर्जयतीति तापनी-दर्शिना महर्षिणापि निरूपितम् अस्ति इति ।
[४७] तद् एतावन्-मात्र-पात्रं रात्रि-कथा-प्रापणं समापयन् मधुकण्ठः प्राह—
सोऽयं राधे भवत्-प्राण इति सत्यं भवन्-मतम् । तस्माद् गतागतं कुर्वन् नैष दोषेण दृश्यताम् ॥४९॥
[४८] तद् एवं ताम् अपि कारित-कृष्ण-प्रत्यक्षता-सुख-लक्षतया भासयित्वा कथक-युग्मं तद्-यथायथं सर्वेण सह स्वावसथं जगाम; तया सह माधवस् तु महसा विलास-निलयं विराजयामास ।
इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अन्व्
अध्ययन-स्पष्ट-प्रतिष्ठं
नामाष्टमं पूरणं
॥८॥
(९)
अथ नवमं पूरणम्
गुरु-तनय-समानयनम्
[१] अथ श्री-कृष्ण-प्रकाश-लब्ध-वरिमणि व्रजराज-पद-सीमनि कथा; यथा स्निग्धकण्ठः प्राह—
[२] तद् एवं कला-कलाप-वलिताङ्गेषु वेद-वेदाङ्गेषु साङ्गेषु तयोर् एतयोः समावर्तनं गुरुर् वर्तयामास; यत्र तत्-पुर-वासिनः सर्वेऽपि तत्-पर्वेहमानाः समुदित्य प्रशस्त-वस्त्रालङ्कारान् समुच्चित्य तैर् दित्य् अपत्य् अरि-पुरामावद्योतयन्त ।
[३] अथानयोर् अक्षाणां दक्षिणां दातुं भाववतोर् महा-प्रभाववतोः कृत-कार्यः स वेदाचार्यस् तन् निर्धार्य पत्नी-मन्त्रणया सपत्नीभूय जलधि-लीन-चरं निज-कुमार-वरं परं याचितवान् ।
[४] तच् च निशम्य स एष रम्य-स्वभावः सम्यग् एव शर्म सङ्गम्य सकल-कला-निधिस् तव कुल-कला-निधिर् निवेदितवान्—
महतः किल शीलम् ईदृशं कृत-पूर्त्य् अप्य् उपकृत्य लज्जते । अपि भृत्य-जनाद् अलम्भृतान् निज-सेवामयम् ईषद् इच्छति ॥१॥ वात्सल्यतः परं देव कीर्तिं नौ दातुम् इच्छसि । परन्तु भवता दत्ता विद्या सर्वं करिष्यति ॥२॥
ततश् च,
गुरु-युगम् अभिवाद्य तन्-महत्त्वं जन-निचयेऽधिगम्य विद्यया तौ । दिविजम् इव शताङ्गम् अङ्ग साङ्गं विदधतुर् आदधतुः स्वम् अत्र चाशु ॥३॥
[५] अथ तथा गुरोर् आदेशतः प्रभास-देश-सदेश-समुद्रं स-रथम् अनुद्रवन्तौ राम-कृष्णाख्यावन्तौ सारथि-रथिनौ सन्तौ लवत एव गतवन्तौ । गत्वा च तस्य प्रथम-प्रथमान-दर्शनतः स-कुतुकं परामर्शम् ईयतुस्तराम्—अहो! घन-रसानां विस्ताराकारः सोऽयम् अकूपारः पश्यतां चक्षूंषि विस्तारयति । अस्मद्-अवलोकनतः शर्मवान् इव च कर्मवान् अवलोक्यते;
यतस् तरङ्ग-सङ्घ-रिङ्गनया समालिङ्गनायाभिगच्छन्न् इव, पिण्डीभूत-डिङ्गीर-मण्डली-मण्डिततया स्मयमान इव, कृत-मकराकार-नासिका-वार-प्रसारणतया शश्वद् आजिघ्रन्न् इव, समुच्छलत्-कच्छपाक्षि-लक्ष-लक्षितया लक्षयन्न् इव, पर्जन्य-कोटि-गर्जित-चर्यतासम्यग्-अर्जित-नादतया वादयन्न् इव, तत्-तद्-उच्चावच-भाव-प्रचय-प्रचितावयतया नृत्यन्न् इव, जित-सर्व-सपत्न-प्रत्न-नृप-प्रयत्न-दुर्लभ-रत्न-व्यञ्ज्-निजावर्ताञ्जलितया वलिम् उपहरन्न् इव च निरूप्यते इति ।
[६] तद् एवम् उत्प्रेक्ष्य प्रेक्षमाणयोर् अनयोर् अमूदृशतया साक्षाद् एव देव-शरीरः सन् नीरधिर् असौ प्रेक्ष्यते स्म । प्रेक्ष्यमाणश् चायं प्रणमन् सञ्जिताञ्जलितया स-गद्गदं जगाद—वरुणः खलु करुणतया माम् इदम् उपदिदेश ।
भवति भवान् लवणाब्धिर् भवन्ति चेक्षु-द्रवाब्धि-मुख्यास् ते । पारावार-विहीनः कृष्णः पुनर् एक एव करुणाब्धिः ॥४॥ इति ।
[७] तल्-लक्षणस् तु भवान् एव लक्ष्यते । यस्यायम् अग्रजश् च सावयव-यषः-प्रचय इव विराजते; तस्माद् आज्ञां कुरुध्वम्—किङ्करस्य किङ्करोऽयं किं कुरुतात् ? इति ।
[८] श्री-कृष्ण उवाच—अस्माकं गुरु-पुत्रस्य कुत्र गात्र-लव-मात्रं वर्तते, तद् उद्दिष्यताम् ।
[९] समुद्र उवाच—भवच्-चरण-नखर-शिखरावलेर् अञ्चलं शिरसा निर्मञ्छयामि । स तु दर-कलेवर-पञ्च-जनोदरम् अञ्चन्न् आसीत् । यदि कदाचिद् अद्य च विद्यते ।
[१०] श्री-कृष्ण उवाच—यद्य् अनुज्ञाप्यते भवता, तदा तं तस्मान् निर्यापयामः ।
[११] समुद्र उवाच—इतस्तनं मम कथनं सह-महा-साहसं धृष्टता-परामृष्टं स्यात्; किन्तु यथेच्छा महेच्छानाम् ।
[१२] अथ श्री-कृष्णः स्वाग्रजं व्याजहार—आर्य-चरणाः ! स्वयं रथम् अनु स्थितिं प्रथयन्तु इति ।
[१३] तद् एवं प्रोच्य किञ्चिद् अप्य् अननुशोच्य वर्धिना सार्धं वार्धिम् अवगाह्य तस्य कम्बु-भूपतेर् वसतेर् अबाह्य-देशं विवेश । स तु पञ्चजनः प्राचीन-गीर्ण-पञ्च-जन-बालकम् इव तम् आलोकत । कृष्णश् चान्वाचयतस् तस्याङ्ग-सञ्चयनाय स-तृष्ण आसीत् । तद् एवं सति बकासुर-वृत्तम् एव तत्र वृत्तम् इति । किं बहुना ? किन्त्व् अयम् एव विशेषः—तस्योदर-चर-चरं तं कुमार-वरम् अदरं विचिन्वन् दर च न तद् अङ्गम् अवाप, तं तु निज-दरं चकार इति ।
[१४] अवन्ती-खण्डे त्व् एवम् आह—
ततः पञ्च-जनं हत्वा ग्राह-रूपं महासुरम् । तन्-मध्यस्थं स जग्राह शङ्खं ग्रस्तं हि यत् पुरा ॥ इति ।
[१५] अथ निजाग्रज-सदेशं प्रविशन्न् उवाच—आर्य ! न तत्-कलेवर-कलापि कलिता; तस्माद् यत्र तज् जीवस् तत्र गन्तव्यम् ।
[१६] राम उवाच—यथादिशन्ति भवन्तः इति ।
[१७] ततश् च समुद्र-दर्शितेन पथा रुद्र-कोटिर् यथा तथा वीर्यं प्रकीर्य यमम् अपि संयन्तं संयमनीम् अगताम्; किन्तु दूरतः क्रूर-क्रेङ्कार-पूरम् आकर्णितवन्तौ; अदूरतस् तु तत्-कारणम् अपि निर्वाणं निर्वर्णितवन्तौ । शङ्ख-प्रध्वानानन्तरं ह्य् अवन्ती-खण्डे तद् इदं वर्ण्यते—
तेन शब्देन वित्रस्ताः कृतान्तालय-वासिनः । नरकान्तर्गता मर्त्याः पापाचार-परायणाः ॥ सुखम् आपुः प्रशान्ताश् च वह्नयः कृष्ण-दर्शनात् । शस्त्राणि कुण्ठतां प्रापुर् यन्त्राणि विविधानि च ॥ विदीर्णानि तदा व्यास वासुदेवस्य दर्शनात् । असि-पत्र-वनं नाम शीर्ण-पत्रम् अजायत ॥ रौरवं नाम नरकम् अरौरवम् अभूत् तदा । अभैरवं भैरवाख्यं कुम्भीपाकम् अपाचकम् ॥ शृङ्गाटकम् अशृङ्गाटं लोह-सूच्य् अप्य् असूचिताम् । जगाम जगताम् ईशे प्राप्ते तत्र जनार्दने ॥ दुस्तरा सुतरा जाता तदा वैतरणी नृणाम् । नरकान्ते तदा याते तत्र विश्वेष्वरे बिभौ ॥ पाप-क्षयात् ततः सर्वे विमुक्ता नारका नराः । पदम् अव्ययम् आसाद्य दृष्ट्वा विष्णुं तमोपहम् ॥ विमानायुत-साहस्रैर् आरूढास् ते समन्ततः । समीक्ष्य पुण्डरीकाक्सां मुक्तास् ते सर्व-पातकात् ॥ ततः शून्यं मुने जातं सर्वं निरय-मन्डलम् । दर्शनात् तस्य देवस्य विष्णोर् विष्व-स्वरूपिणः ॥ इति ॥
[१८] तद् एव कथयंस् तस्य स्वयं-भगवत्त्वं शुद्ध-पितृत्वादि-भावेषु श्री-व्रजेश्वरादि-महानुभावेषु “वासुदेवस्य दर्शनात्” इत्य् आदि-वचनेषु नामान्तराणि विन्यस्य गोपयन् कथकः प्रथयामास—तद् एवम् एव श्री-गर्गेण दर्शितम्—तस्मान् नन्दात्मजोऽयं ते नारायण-समो गुणैः [भा।पु। १०.८.१९] इति ।
[१९] प्रस्तुतम् अनुसरामः । अथ यद् एतज् जातम्, धर्मराजस् तु तच्-छर्मतया मतवान्, परम-करुणामयस्य व्रज-धरणीश-तनयस्य पुरतः स्व-दारुणता-वारणतः ।
[२०] अथाजस्र-स्रवद् अस्र-कुलं विपुल-पुलक-सङ्कुलं कम्प-स्तम्भ-गद्गद-वशं-वद-गदनं स्वेद-सम्भेद-सदनं कृतागमनं मुहुर्-विहित-नमनं षमनं विलोक्य श्लोक्य-चरितः सोऽयम् अन्तश् चिन्तयामास—
अहो महा-भागवतोऽयम् ईक्ष्यते दुरात्मताम् अमुष्य कथं निशम्यते ? युक्ताथवा रीतिर् इयं मद्-अग्रतः पापाग्रतः सा च गुणा हि सङ्गजाः ॥५॥
अथवा—
शरणान् मद् अमून् बहिर्मुखान् विषयार्थं दुरितान्य् अपीप्सतः । मम स्म्मुखितान् विभावयन् कृपया भीषयते मुहुर् यमः ॥६॥
[२१] तद् एवं विचार्य कृतावलोचने कमल-लोचने यमः समभाषत—
कारुण्यं त्वयि किल पार-शून्यम् आस्ते क्रूरात्मन्य् अपि मयि ते कथं नु दृष्टिः ? किं वासाव् अपि करुणा-विलास एव भ्रष्टानां यद् असकृद् उद्धृतिं स वष्टि ॥७॥ भवति नरक-शान्तिर् यस्य नाम्नापि तस्या- गमनम् इह न तु स्यान् नारकोत्तारणाय । किम् अपि किल निदेश्यं तत् तव स्याद् इतीत्थं विमृशद् अति-सुखान्तर् मज्जति स्वं मदीयम् ॥८॥
[२२] अथ श्री-कृष्णः प्राह—
मोचनं न खलु भोगम् अन्तरा- रब्ध-कर्म-निचयाद् इति स्थितिः । कामये तद् अपि शासनाद् गुरोस् तत्-तनूज-तनु-मोचनं ततः ॥९॥ आचार्याणां पुत्रः स तु मम भवता पुरानीतः । आनीयतां मद्-आज्ञा- दरतस् तव नात्र कर्म-लङ्घः स्यात् ॥१०॥
[२३] यम उवाच—प्रभु-वर ! यत्र तस्य तत्-पुत्रता तद्-गात्रं नष्टम् एव । गात्रान्तरेणैवास्माभिर् जीवानां यात्रा क्रियते । सम्प्रति च स्वर्गं गच्छतां नारक-वर्गाणां मध्याद् अवशिष्टस्य क्लिष्टस्य तस्य भृशम् अनच्छं दिष्टं वितर्क्य रक्षितस्य यद् आज्ञापयन्ति प्राज्ञानां शिरोमणयस् तद् एव कर्तव्यम् ।
[२४] श्री-कृष्ण उवाच—अव्याजम् एव व्याजहार धर्मराजः । मयाप्य् एतद् विचार्य पञ्च-जन-देहं विदार्य तत्-कलेवर-लेश-लब्धयेऽभिनिवेशः कृतः । तम् एव लेशं पेशल-शरीरं विधाय जीवयिष्यामीति । अथ तद् अलाभाद् एव परेत-नरदेवस्य तव भवनम् आगमम् । भवतु, भवता तावद् यथावद् एव स समानीयताम् ।
[२५] यम उवाच—साम्प्रतिकेन प्रतीकेन तस्य पित्रोः प्रतीतिः प्रीतिश् च न स्याद् इति । यदि भवद्-आदेशः सम्पद्यते, तर्हि प्राचीनवद् अर्हित-वपुषा तम् आनयानि । प्राग्-वपुर् न पुनर् अस्माकं विषयताम् आप्नोति इति ।
[२६] श्री-कृष्ण उवाच—भद्रं भद्रम्, पञ्चतां गतानि तद्-वपुर् अञ्चितानि पञ्च-भूतानि तत्रैव सञ्चितानि भविष्यन्ति ।
[२७] यम उवाच—यथादिशन्ति श्रीमद्-ईश-चरणाः इति ।
[२८] अथ तद् एतन् निवेद्य सुखं संवेद्य च निजान्तर्-वेद्याम् अनुगम्य पुनर् आगम्य च प्राचीन-रम्य-तनुम् अनुगतं तं दर्शयामास । दृष्ट-मात्रं तम् आनन्देन निज-तनाव् अमातृभ्यां मातृभ्यां भ्रातृभ्याम् आलिङ्ग्य पुनः पुनर् अभीक्ष्यमाण-मुखं वीक्ष्य न तृप्तम् । स खलु धर्मराजः स-भय-मर्मतया स्तब्ध इवासीत् । क्षणतश् चानुज्ञाम् अनुयाचमानं नरक-शमन-नामानं प्रत्य् आह स्म—
न त्वं गुरोः सुत-कृते भगवन्न् इहागाः स्वेच्छैव ते रचयितुं निखिलान् अपीष्टे । तस्मात् परं मयि दया रचितेति मन्ये तच् चेन् ममापि नुद नारक-सङ्गम् ईश ॥११॥
[२९] इति काकुभिर् अदृत्य त्रयम् अप्य् अलङ्कृत्य वलिम् उपहृत्य दूरम् अनुसृत्य तद् अनुज्ञाम् अधिकृत्य प्रणामान् उररीकृत्य कृत-कृत्यं-मन्यः स्व-भृत्य-जनैः सह नृत्यन्न् इव परेत-नृपतिर् गृहं गतवान् ।
[३०] स तु गुरु-कुमारस् तम् इमम् अनयो रूप-सारं स्नेह-वारं मधुर-वचः-प्रचारं तत्-कृपाधीन-निज-प्राचीन-तत्-तद्-अवस्था-संस्कार-सञ्चारं चावकलय्य प्रमद-महसि पर्यवस्यन्न् अमू एव तथा शश्वत् पश्यति स्म, यथा गृह-पथान्तः-प्रथमानं रथ-द्रवम् अपि नावगच्छति स्म ।
[३१] तद् एवं यदा सोऽयं व्रजेन्द्र-कुल-चन्द्रमा भ्रातृभ्यां सह गुरु-गृहम् अभ्यागतवान् । तदा गुरु-दम्पती इति मात्रं किं वचनस्य पात्रयितव्यं ? सर्व एव तत्-पुर-वासिनः स-वैयग्र्यं तद्-वर्त्माग्र-मात्रासिनस् तच् छङ्ख-ध्वनिना वितर्क-प्रकाशिनः स्व-मध्य-वलित-तद्-वालक-पालक-बल-गोपालावलोकनेन परमानन्द-भासिनः कोलाहलं कलयामासुः । बल-गोपालौ तु रथाद् अवप्लुत्य गुरु-बालकं पुरस्कृत्य परम् आदृत्य तेन समं लब्ध-सुख-सम्पत्त्योर् आचार्य-दम्पत्योः पदाग्रे निपत्य क्षणं विललम्बाते । गुरू तु पुरु रुदन्तौ त्रयम् अपि निज-निज-भुजाभ्यां रुन्धन्तौ न हीदं विविदतुः—तद् अन्यद् अपि धन्यम् अधन्यं वा किञ्चुद् अस्ति इति ।
[३२] तद् एवं परम् आवेशमये क्षण-कतिपये गते सर्वेषां मतेन परम-मङ्गल-शतेन तान् गृहम् एव ग्राहयामासतुः; ग्राहयित्वा च भोजनादिना सुखं योजयामासतुः ।
[३३] श्री-कृष्ण-रामौ च तत्र तत्र लाभाद् वलित-यत्नानि रत्नानि रथाद् आनीय चानुनीय च तयोर् अङ्गीकारायोपयोजयामासतुः ।
[३४] तद् एवं सति लब्ध-तादृगादराभ्रेषयोः सहागत-चरा ये माथुर-विप्र-वरास् तद्-द्वारा च कलित-विशेषयोस् चरित-कंस-द्वेषयोर् अनयोर् दर्शनाय दिवस-त्रयं तत्रकीय-लोकाः सङ्घटं घटयामासुः । यथा—
नराणां तत्रौघे जलधि-तुलया सम्प्लवमिते न पूर्वं नापूर्वं कलयितुम् अभूद् गुर्वनिजनः । परं तूल्लोलाभं भुज-वलयम् एषां झष-निभं तथा नेत्र-स्तोमं प्रतिबिधु लसन्तं समसजत् ॥१२॥
[३५] यत्रावन्तश् च नृपतिः सन्त्यज्य व्यज्यमान-पितृष्वसृ-पतिता-स्नेहं द्वाव् अपि स्व-गेहं नीत्वार्य-चरितः स-भार्यः स-बहु-मानं मानयमास ।
[३६] अथ माथुर-पुरम् अनु गमनम् अनुज्ञापयितुं याचमानयोर् अनयोर् आचार्यः स-गद्गदं जगाद—
आत्मा स्निह्यति मे स्वतो युवकयोर् बुद्धिः सुत-प्रापणं तत्रोपाधि-विधिं विधाय तम् अपत्रप्तं करोत्य् उच्चकैः । तस्माद् यादवकौ युवाम् अनु जनुः शिष्यौ च पुत्रौ च तौ भूयस्तं किमु वा गुरू च पितरौ चैवं समभ्यर्थये ॥१३॥
[३७] ताव् उचतुः—
भवता विद्यया बद्धौ कृताव् आवां यदि प्रभो । तदा भवत एवेच्छा कारणं दुर्निवारणम् ॥१४॥
[३९] तद् एवं बाष्पार्द्र-वदनतया स्व-कृताभिवादन-तत्-कृताभिवदनाभ्यां लब्ध-चिरताबिल-विलम्बौ यदा कथञ्चिन् निज-प्रस्थान-पथावलम्बौ, तदापि ताभ्यां सहित-नृपति-सर्व-लोक-सहिताभ्याम् अनुव्रजन-चर्यया मध्ये मध्ये कृत-स्तम्भौ कथञ्चन कृत-राजानुव्रजन-विष्कम्भौ दूरानुव्राजि-पुरु-जन-राजि-राजि-गुरु-गुरु-पत्नी-गुरु-पुत्र-छात्रादिभिः सह सहसा वियोक्तुम् अप्राप्तारम्भौ कृच्छ्राद् एव ताव् अन्तर्-ग्रामाद् अनन्तर्-भागम् आगतौ ।
[४०] अथ जन-राजिं निवर्तयन्तौ मधुरम् एवं व्याहरताम्—
देहस्य नौ माथुर-धाम-जन्म-भूर् गुणावलेः सेयम् अवन्तिका-पुरी । तन् माथुर-स्थान् इव वः समन्ततः सन्द्रष्टुम् आवन्त्य-जनान् मनः स्थितम् ॥१५॥ इति ।
[४१] यत्र च सर्व एवेदं स-गद्गदं जगदुः—
भिक्षूणां मनसि यद् अस्ति लोभ्य-वस्तु स्वेनादस् तद् अनुमतं यद् ईश्वरेण । वैदुष्यं कियद् अनुवर्ण्यम् ईशितुस् तद् भिक्षाकेष्व् अपि सुकृतं कति प्रगेयं ? १६॥
[४२] तद् एवं तेषां प्रतिपाद्यं सार्द्रम् आस्वाद्य गुरु-दम्पती पुनः स्नेहात् कृतानुगती चरण-परामर्शादिभिः सद्म-वर्त्मने निष्पाद्य दूरम् अनुगच्छतः ।
स्व-गुरु-पुत्र-छात्रादीन् अपि प्रेम-मात्र-गम्य-रम्य-संवाद-सङ्गि-मुहुः-परिष्वङ्गितया निवर्तनाय सम्पाद्य राज-प्रस्थापितानिव्राजि-सेना-राजिम् अपसाद्य रथं पन्थानम् उपसाद्य तम् एव सहागत-वर-पुरोहितैः सहासाद्य तद्-द्रवेण वायुम् अनुहरन्तौ दिव्यादि-व्यजनानां मनो हरन्तौ मधुपुरीम् अभि नातिदूरीबभूवतुः ।
[४३] ततश् च यादवास् तेभ्यो विशेषं साश्चर्यतया विज्ञाय श्रीमद् आनकदुन्दुभिं मध्ये विधाय वैदिक-लौकिक-मङ्गल-कोलाहलैर् इमौ पुरम् आपयामासुः, लोकाश् च विविधास् तद् आलोकाय तत्र चेयुस् तत्र तत्र विद्यायां विदुरास् तयोस् तत्- तद्-विद्या-चतुरता-चातुरक्ष्याय समागम्य रम्यं सुखम् अन्व् अहम् अवापुः इति ।
[४४] तद् एवं स्निग्धकण्ठः कथयित्वा समापनम् आह स्म—
यत्र यत्र तव वंश-चन्द्रमाः सोऽयम् एति वत गोप-नायक । तत्र तत्र कुमुदं विकासयन् द्यां निज-द्युतिभिर् अश्नुते मुहुः ॥१७॥
[४५] अथ श्री-गोप-नायकः स-गद्गदं जगाद—
क्व च यदि पुरु युद्ध्वा राज्यम् आप्नोति पुत्रस् तद् अपि यदि च मत्वा तुच्छम् आयाति गेहम् । सुखम् उदयति पित्रोस् तत्र सत्यं तथापि श्रवणम् इह यदा यत् तर्हि तादृङ्-मनः स्यात् ॥१८॥
[४६] इति श्री-कृष्णं नवागमनम् इव तृष्णग् भवन्न् आलिङ्गन-सङ्गिनं विधाय तच् चिरसि चिवुकं निधाय रोचमान-लोचनतया बाष्पं मुमोच । तं मुञ्चति तस्मिन् सर्वोऽपि तादृग् एव दृग्-एकतानताम् आततान ।
[४७] तत्र च व्रज-वन्दनस् तद् इदं पठन्तः सर्वं नटयन्त इव बभूवुः; यथा—
सह भ्रातृ-वर्यं गुरोर् ग्राम-गामी । धृत-ब्रह्मचर्यं निजाधीति-कामी ॥ तद् आवन्तिकायां जवाल् लब्ध-सङ्गः । गुरोर् अन्तिकायां सभायां सदङ्गः ॥ समस्तेषु सत्त्वेषु चासीद् अतीव । प्रियः सर्व-तत्त्वेषु यद्वत् तु जीवः ॥ समस्माद् विविक्तं गुरोर् भक्तिकारी । स-वर्गातिरिक्तं समित्-पत्र-हारी ॥ गुरोर् इत्थम् आप्त-प्रसादातिरेकः । स्वधीयन् समाप्त-व्रतान्ताभिषेकः ॥ गुरोर् दक्षिनाशां द्रुतं भर्तुम् ईप्सुः । गतो दक्षिनाशां सुतं तस्य लिप्सुः ॥ दर-ग्रस्तम् एतं विचिन्वन् दरान्तः चिरान् नाशम् एतं विजानन् न शान्तः ॥ प्रगृह्याथ तस्माद् दरं पाञ्चजन्यम् । अवादीद् अकस्मात् तद् एत्याग्रजन्यम् ॥ स्थलं धर्मराजः प्रतस्थेऽतितूर्णम् । ततः शर्म-भाजः सुखं प्राप पूर्णम् ॥ यदा तारकाणां पतिस् तत्र यातः । तदा नारकाणाम् अभूत् ताप-घातः ॥ अगृह्नाद् गुरोः शावम् अन्तात् प्रमुक्तम् । यथावद् वयो-भाव-देहादि-युक्तम् ॥ गुरुं तस्य भार्याम् अपि प्राप्य तस्मात् । अधिन्विष्ट कार्यात् परान् अप्य् अकस्मात् ॥ तम् एतं समायातम् ईक्षस्व गोष्ठम् । तद् आनन्द-सम्पात-दोह-स्मितोष्ठम् ॥१९॥ इति ।
[४८] ततश् च तत्-तच्-छ्रवणाल् लब्ध-नष्ट-वित्त इव सुख-वलित-चित्तः सर्व एव स्व-स्व-सदनम् आससाद ।
[४९] अथ श्री-राधा-कृष्ण-सदसि स एव कथकः पृथग् इदं कथयामास—
देवि श्रीमति राधिके यद् अमुना सन्दिष्टम् आसीत् पुरा वृत्ताद् ऊर्ध्वम् अभीष्टम् उद्धवम् अनु प्रेम्णा प्रियेण त्वयि । कथ्यं तत् तु विचारयन् मम मनः सम्भ्राम्यति क्षुभ्यति क्रुध्यत्य् अस्यति दिव्यति स्फुट-सुखं व्यस्यत्य् अलं माद्यति ॥२०॥
[५०] तस्मात् प्रणिधाय परं तत् प्रचारणीयम्; किन्तु—
तद्-वृत्तान्तस्य सिद्धान्तं कुर्वन्न् इव तवान्तिके । सोऽयं नितान्तं कान्तस् ते न सङ्गस्यान्तम् इच्छति ॥२१॥
[५१] इति स्व-मनः परितोष्य तेन स्व-सङ्गेन च सङ्गिनः परिपोष्य कथक-युग्मं स्व-वासम् आससाद । श्री-राधा-कृष्णौ च पुरातन-विरहाकर्णनाल् लब्ध-तृष्णौ लीला-निलयं शीलयामासतुः ।
इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
गुरु-तनय-समानयनं नाम
नवमं पूरणम्
॥९॥
(१०)
अथ दशमं पूरणम्
श्रीमद्-उद्धवम् उद्भव-सन्देश-सम्पद्-असमम्
[१] अथ परेद्यवि साक्षाच्-छ्री-कृष्ण-श्रोतृकतया जात-व्रजेश्वर-सुख-प्रथायां प्रातः-कथायां मधुकण्ठ उवाच—
[२] अथ पुरु-वासराण्य् अतिक्रम्य गुरु-पुराद् आव्रजितस्य तस्मिन्न् अजितस्य सर्व-सम्पन्-महिम्नापि महितस्य सेयं मनः-कथा जाता—हन्त! निह्नुततया दूरतम-कृत-गमनस्य मम चिरं समाचारस् तत्र तात-चरणादिभिर् नासादितः । सम्प्रति तु दूर-गमनम् अपि निशामयिष्यते । या च तेषु मध्ये मध्ये मदीया स्फूर्तिः, सा पुनर् विरह-शान्तये पूर्तिं नासादयति । ततश् च तेषां मद्-विलोकनम् एव शोकं दवयिता । तद् एव कथं सम्भवेद् ? इति श्रीमद्-अग्र-सम्भवेन सह रहश् चिन्तयानि इति ।
[३] अथ तेन तथा कृत-सम्भाषणः सङ्कर्षणः प्राह स्म—भवान् खल्व् अत्रकीय-पित्रादीनाम् आज्ञाम् अव्ज्ञातुं वित्रासं भजति । तेषां च प्राकाम्यं नावाम्यं स्पृशति। तस्मात् पुरु-कुल-जन्मानं जननीं पृच्छावः । सा खलु तत्रकीयाम् अत्रकीयम् अपि वार्ताम् अनुवर्तते ।
[४] तद् एवं सम्मन्त्र्य क्वचिद् एकान्त-गततया ताम् आमन्त्र्य बाष्प-परामृष्टं पृष्टवन्तौ—मतः! कच्चित् कश्चिद् व्रजाद् आव्रजन्न् आसीत्?
[५] सोवाच—मध्ये मध्ये कोऽपि कोऽपि व्रजाद् आव्राजीद् एव, किन्तु भवद्-दर्शनं विना दुःखतः शुष्कताम् एव गच्छन् गच्छति स्म ।
[६] एताव् ऊचतुः—आवयोर् अन्यत्र गतं तैर् अवगतं वा?
[७] सोवाच—स्फुटं तावन् नावगतम्, किन्तु सुहृदाम् अन्तरं निमेष-समनन्तर-दर्शनान्तरायतायाम् अपि विकल्प-कोटीः कूटीकरोति, किन्तरां चिरतरं तद्-अन्तराये?
[८] एताव् उचतुः—परम-मत्या भवत्या खलु किम् इदं तर्क्यते ? आवयोर् अह्नाय निह्नुत्य व्रजम् अनु व्रजनाव्रजनं पित्रोर् न वर्जन-विषयः स्यात् इति ।
[९] सोवाच—मयाप्य् आगृह्य तयोर् मनो गृह्यमानम् आसीत् । न तु सरसता-परामृष्टं दृष्टम् । तत्र च तत्-पार्श्व-वर्तिनः सुतरां प्रतीप-वर्तिन एव ।
[१०] अथ तद् एतत् प्रस्तूय भूयः श्री-व्रज-राज्ञी-मुखानां दूयमानानि मुखानि ध्यानाद् अनुभूय त्रयम् अपि भूयसा नयन-पयसा व्याप्तम् आसीत् । पश्चात् तु निश्चिकाय—कश्चन मर्मग-कर्मठ-जनः सन्देष्टुं झटिति घटनीय इति ।
[११] तद् एवं मिलित्वा विचार्य देवार्य-मित्रेण तु रहसि मनसीदं विचार्यते स्म—स एव सन्देश-हरस् तत्र देश-रूपः स्यात्, यः खलु विलक्षण-विचक्षणः सर्वेषाम् अत्रकीय-तत्रकीयानां सम्मततया लक्ष्येत, स्वल्प-मात्रं च मम सङ्कोच-पात्रं न स्यात् । तत्-तद्-विधता च तत्रैव सविधतां विधत्ते, यन्-मनसि तत् तन् मम माधुर्यम् ऐश्वर्यम् अपि सम्यक् पर्यवस्यति । केवल-माधुर्य-ज्ञानं चेत् तद्-दुःख-दुःखितया न स तत्र धुर्यतां लभेत । ऐश्वर्य-मात्र-पर्यवसानं ज्ञानं चेत् तेषु केवल-मन्-माधुरी-धुरीणेषु कुरीतिताम् एव मन्येत । उभयाज्ञानं चेद् अतितुच्छताम् एव सङ्गच्छेत् । कुत्र च न मम प्रेम-वशतायां चावगतायां दोष-दृष्टिम् अपि परामृष्टिम् आनयेत ।
[१२] अथ तादृग् अत्र कतमः शन्तमः स्याद् इति विचिन्तयन्न् अयम् अकस्माद् इव सस्मार—आम् आं दुर्लभं लिप्सोर् विस्मृत-निज-कण्ठ-स्थित-चिन्तामणेर् इव मम कुण्ठता जाता, यतस् तथाविधः सोऽयम् उद्धव एव मद्-उद्धवम् आसादयिता । तथा हि—
मद्-अर्चनायाखिल-बाल्य-कूर्दनं
बाल्येऽपि दम्भं कलयाम्बभूव यः ।
मत्-प्रेम-गोपाय समीरजां रुजं
कैशोरके चास्ति ममायम् उद्धवः ॥१॥
मत्-प्रेम-भ्रम-भाग् अपि प्रथयितुं मत्-सेवनानां विधीन्
श्रीमत्-भागवतादि-नीत्य्-अवधि-सच्-छास्त्राणि वाचस्पतेः ।
अध्यैष्ट स्फुटम् एष यः स तु परं सर्वत्र मत्-पात्रता-
पात्रं स्याद् इति मन्-मनः प्रतिपदं तं सङ्गिनं वाञ्छति ॥२॥
अहो यद्-अवधिश्रुतस् तद्-अवधि स्फुटं दृष्टवन्
मम स्फुरति साम्प्रतं किम् उत दृष्टिम् एवागतः ।
य एव च यदु-व्रजात् किम् अपरं निजाद् अग्रजात्
पृथग् निखिल-कर्मणि प्रतिलवं मया पृच्छ्यते ॥३॥
ममात्मा बहिर् आभाति सोऽयम् उद्धव-सञ्ज्ञितः ।
यथा मम मनो भाति तथा तस्य न चान्यथा ॥४॥
[११] तस्माद् असङ्कोच-सङ्कोच-रोचमान-रतिके मद्-एक-गतिके सर्व-विध-प्रणयि-जन-व्रजे सन्देश-हरतया स एष एव प्रेषणीयः ।
[१२] तद् एवं सति च विचारे निरन्तर-प्रचारेण निरन्तर-सम्बन्ध-बन्धु-सञ्चारेणालब्धे रहसि कथम् अपि लब्धे माधवस् तम् एनम् उद्धवम् इव मुद्-भर-करम् उद्धवं लब्धवान्; लब्ध्वा च तस्माद् अप्य् एकान्तं कान्तं निशान्तम् आनीय पानीयवद्-द्रवद्-अन्तरात्मा सदेशम् उपवेशयामास, उपवेशयंश् च लब्धावेशः केशवस् तत्-पाणिं निज-पाणिनाङ्कम् आनिनाय । ततश् च,
कम्प्रं कम्प्रेण सिक्तं च सिक्तेनान्योऽन्यम् अश्रुभिः । करं करेण सङ्गृह्णंस् तस्य श्री-हरिर् अब्रवीत् ॥५॥ न तथा मे प्रियतम् आत्म-योनिर् न शङ्करः । न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् ॥ [भा।पु। ११.१४.१५] त्वम् एव यदुषु व्यक्तं व्रजे रज्यसि यत्नतः । आत्मनोऽप्य् अधिकं त्यक्त-व्रजात् त्वां मनुवे हितम् ॥६॥ यर्हि यर्हि च मया व्रज-वार्ता वर्त्यते कठिन-चित्ततया सा । तर्हि तर्हि स भवान् द्रुत-चेता हा द्रवत्-तनुर् इव प्रतिभाति ॥७॥
[१६] तस्मात् त्वाम् एकान्ते निर्वर्ण्य हृद्-अन्तः-शूलम् इव दुःखनन-मूलं दुःखं वर्ण्यते—
जानासि त्वं मम हृदयम् इदं बद्धतां याति भक्त्या
काराद् वैराद् अपि जगति यतः साक्षिणी पूतनास्ति ।
सा यद् वेषाद् अजनि च जननी-रीतिर् अस्या जनन्याः
प्रेम-व्याप्तं व्रजम् अनुभविता हृत् कथं मे न सक्तम् ॥८॥
आस्तां सा सा सततम् असुवल् लालना मय्य् अमुष्याः
शिक्षा-रूपं यद् अरचि तया बन्धनं तन् मदन्तः ।
स्मारं स्मारं दलति बलवद् येन तस्मिन्न् किञ्चिद्
धर्तुं शक्यं भवति नितराम् अल्पकं वा महद् वा ॥९॥
चापल्यं मा प्रयासीन् मम शिशु-रसकौ बाल्यतः स्वैर-भावाद्
एव्ं बद्धस् तयाहं सकृद् अपि यद् अयं तेन बद्धोऽस्मि नित्यम् ।
आस्ताम् एतच् च तस्माद् अपि पितृ-चरणा मोचयामासुर् एतं
सास्रं मां यच् च तेनाप्य् अहम् अहह सदा बन्धम् एव प्रयामि ॥१०॥
यौ मय्य् एवोपसन्ने दृशम् अनुभजतो वृत्तिम् एवं श्रुताद्ये
तत्-तद्-भावं समन्ताद् अहह किम् अपरं भुक्तवत्य् एव तृप्तिम् ।
तौ मत्-प्राणौ विना मां कथम् इव पितरौ प्राणितस् तन् न जाने
किं वा दत्ता कदर्थन्य-भवद् अपि तयोः सा मया शश्वद् आशा ॥११॥
आसातां पितरौ च तौ सखि-जनाः सम्बन्धिनः सेवका
गावः किं च मृगादि-जीव-निवहाः सर्वे मद्-एकाश्रयाः ।
एतत् केन न मन्यतां स भगवान् ब्रह्मापि मं ऊचिवान्
यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥१२॥
मन्ये गोकुल-सम्भवं पितृ-मुखं प्रेमावलम्बं जनं
बिम्बं तत्-प्रतिबिम्बम् एव पुरजं यत्रानुभूतिः प्रमा ।
पूर्वस्मिन्न् अनुभूतताम् अनुगते नान्त्यः क्व च स्मर्यते
पश्चाद्-भाविनि यातवत्य् अनुभवं पूर्वः सरीस्मर्यते ॥१३॥
तस्मिन्न् एवंविधेऽपि प्रकृत-वशतया साम्प्रतं गन्तुम् ईशः
स्यां नेति त्वं ममायं प्रतिनिधि-पदवीं गच्छ तत्रापि गच्छ ।
गत्वा चेत्थं मया यद् बत रहसि मतं शिक्ष्यते तद् विचार्य
प्रत्येकं सौख्य-दाता भव मयि स पुनः सौख्यम् एत्य प्रयच्छ ॥१४॥
सर्वे यद्यपि सन्ततं व्रज-जना मां लिप्सवस् ते तथाप्य्
अत्र क्वापि विशेषितास्ति यद् अमी भावेन भिन्नान्तराः ।
केचिन् मय्य् अलम् उद्यद् उद्यत्-कलिकिकाः सामक्ष्यम् अप्य् अन्यथा
मन्यन्ते प्रणयाश्रया मम परे स्फूर्तिं च मां मन्वते ॥१५॥
तस्माद् विस्रम्भ-भाक्षु स्फुरणम् अपि समक्षात्मतां मन्यमानेष्व्
अन्तः-सख्येषु मास्म स्फुटम् अथ भवता दायि सन्देश एषः ।
अत्युत्कन्थावगुण्ठात्मसु मम पितरौ ताव् ऋजू स्वेन बोध्याव्
आविद्ध-प्रेम-भाजः पुनर् इह कतिचिन् मद्-गिरा सान्त्वनीयाः ॥१६॥
ये वा तत्र परेऽपि सन्तिशतशस् तेषां सदृग्-भावगास्
ते तैर् एव निरूढ-तोष-वलनैः प्राप्स्यन्ति शान्ति-स्थितिम् ।
दाता गेह-पतीन् परं द्विज-वरान् आनीय पुष्णाति तंस्
तद्-भर्तव्य-जनाः भजन्ति नितरां तेनैव पुष्टाङ्गताम् ॥१७॥
ते सन्देश-हरा मया पुरुतराः प्रस्थापिताः किन्त्व् अमी
सन्देशं परम् उद्गिरन्ति न धिया किञ्चिद् वदन्ति स्वयम् ।
किं वाच्यं त्वयि वाचिकं त्वम् अयसे वाचस्पतेः शिष्यतां
तत्रास्माभिर् उदीक्ष्य च प्रतिनिधीकृत्य प्रतिष्ठाप्यसे ॥१८॥
[१६] तद् एवम् अक्षीणम् अषडक्षीणं निशम्य रम्य-स्वभावता-समृद्धम् उद्भवः श्रीमान् उद्धवस् तादृग्-आत्म-योग्यता-लाभेन लब्धोद्धवः स-गद्गदं जगाद—
तत-वादित्रक-यन्त्रं यद्यपि न हि राग-वर्णि दृश्येत । तद् अपि पुम्-उत्तम-सङ्गात् तत्-तद्-गुणभाङ्-महाजनं धिनुते ॥१९॥
[१७] अथ तेन सञ्जितम् अञ्जलिम् एव कञ्ज-नेत्रः परामृश्य दृश्य-कृपा-विलासस् तम् अनु दत्त-हर्षः सङ्कर्षण-समीपम् आपय्य तत्-प्रस्थापनं निशमय्य तेन समम् एव तं श्री-रोहिणी-चरण-परिसरं संवलय्य लब्ध-तत्-तत्-प्रसादं स्वयम् अपि विशेषतस् त्व् अलङ्कार-वस्त्राभ्यां कृत-कान्ति-प्रसादं व्रजाय व्राजयामास ।
[१८] सर्वे मिलित्वा चेदं वेदयामासुः—यद् वृन्दावन-तीर्थ-वृन्दार्थम् एव स्व-गमनम् अत्रावगमनीयम् इति ।
[१९] अथ श्री-कृष्णः प्राह—आवयोर् गुरूपसत्त्य्-अर्थं दूरातिदूरं गमनं यदि किंवदन्ती व्रजेऽपि वदन्तीव स्यात्, तद् आवयोः किञ्चिद् अपि न दूरम् अस्तीति स्व-सिद्धान्तं मनसि कृत्य तद् अपलापवता भवता स्वयं तात-प्रभृतयः सान्त्वयितव्याः इति ।
[२०] ततश् च प्रतत-तृष्णतया श्री-कृष्णं पश्यन् स्तम्भ-वश्य-सर्वेन्द्रिय-वृत्तिर् अपि निर्जगाम ।
पुरम् अनु शौरेः शोभा
व्रजम् अनु माधुर्य-धाम तत्-प्रेम्णः ।
उद्धवम् उभयम् अकर्षत्
किन्तु प्रसभं तद् उत्तरं जितवत् ॥२०॥
श्रुता जन-मुखात् पुरा रतिर् अतीव पूर्णा हरौ
व्रज-स्थित-जनस्य सा हरि-मुखात् स्फुटं सम्प्रति ।
ततः सरभसं रस-प्रसर-निर्झराकर्षणाद्
अलं तम् अवलोकितुं पुलकवान् अभूद् उद्धवः ॥२१॥
निन्ये रथस् तं गोष्ठाय किं वा सुष्ठु मनोरथः ।
एवं विवादे जितवान् प्रेरकः स परं परः ॥२२॥
अव्राजीद् उद्धवः कृष्णाद् व्रजम् एवं जन-श्रुतिः ।
प्रति-वृक्षं तु तं तस्य तत्र साक्षात्-कृतं व्यधात् ॥२३॥
इदं भुक्तं फलादीनाम् आसितं तद्वद् ईशितुः ।
इत्थं वृन्दावनं पश्यन्न् उद्धवः सूद्धवः स्थितः ॥२४॥
दृष्टि-स्पृष्टि-सुगन्धिताद्भिर् अनिशं सिक्ता हरेर् अङ्घ्रिपाः
पूर्वं ये किल ते तदापि तद्-अदः-संस्कार-सारान्विताः ।
तद्वत् पुष्प-फलान्विताः किम् अपरं तत्-स्फूर्ति-भाजो द्विजास्
तत्-केलीन् अधुनातनान् इव बलाद् व्यज्ञापयन्न् उद्धवम् ॥२५॥
व्रजोपशल्यम् आगतं तम् उद्धवं हरिः स्फुरन्
गवादिकस्य मुद्-भरं तदोचितं व्यजिज्ञपत् ॥२६॥
[२०] तथैव वर्णितं श्री-वादरायणिना, वासितार्थेऽभियुध्यद्भिः [भा।पु। १०.४६.९] इत्य् आदिना ।
[२१] तथा हि, अथ प्रविशन्न् उद्धवः पूर्वं व्रजम् अन्तः शश्वद् अयमानः सम्प्रति तु प्रकटम् एव सुखस्य दयमानं ददर्श ।
[२२] यं खलु समुद्रम् इव महा-घोषता-लब्ध-प्रचारम्, चन्द्रम् इव लब्ध-गव्-आदभ्र-शुभ्रता-विस्तारम्, अम्बरम् इव दीधिति-बलनाभीर् अवितत-शोभाकारम्, कर्म-काण्डम् इव कृष्ण-तत्-परतासार-वह्न्य्-अर्कातिथि-गो-विप्र-पूजा-सङ्ग्राहकागारम्, रामायणम् इवशुभ-वल्लव-कुश-लसित-गान-मय-करुणादि-रस-कृत-मानस-हरम्, श्री-भागवतम् इव कृत-गोपिका-गीत-प्रचारम्, मुरारिम् इव मुरलीयमानता-सुश्रव-स्वर-सारं, कृष्ण-जन्म-मह-बाडव्यम् इव वाढ-गो-प्रदोह-शब्द-लब्ध-सुख-सम्भारं विचारयामास— गो-रेणुभिश् छन्न-रथः स उद्धवो व्रजं विवेशान्य-जनैर् अलक्षितः । प्रत्यङ्-महीध्रं च रविस् तदाविशद् दृष्टान्ततां कर्तुम् इवेच्छुर् आत्मनः ॥२७॥
[२४] अथ रथं राज-पथ-कृत-निर्धार-व्रजेश्वर-द्वार-पर्यन्तं समीर्य,
तस्माद् अवतीर्य, सारथि-रूपैक-सेवकेन समं तद्-अन्तः-पुराग्रिम-वेदिका- मध्यम् अध्यासामास ।
[२५] ततश् च तं गति-प्रतिगती कुर्वाणाः कतिचिद् ईक्षित्वा सन्दिहानताम् अविन्दन्त, यथा—
कृष्णोऽयं यदि न स्फुरेद् इह कथं तद्-दृष्टि-योग्यं सुखं किं वासौ वलते तटस्थ-पदवीं रूपं तु तद् दृश्यते । रूपं केवलम् अत्र नांशुक-लसद्-वेषश् च स भ्राजते तस्माच् छ्री-व्रज-राज-दम्पति-पदाम्भोजेषु विज्ञाप्यताम् ॥२८।
[२६] तद् एवम् अधिगत्य सोऽयम् उद्धव एवेत्यवगत्य स्वयं बहिर् आगत्य श्रीमान् व्रजाधिपतिस् तं सङ्गतवान् । सङ्गत्य च निज-चरण-खर-दण्डस्य पुरतो दण्ड्वत् प्रणमन्तम् उत्थाप्य सालिङ्गनम् अस्रेण संस्नाप्य तत्-कृतम् अञ्जलिं गृहीत्वा श्री-कृष्णमातुरुपान्तं नीत्वा चाययामास, सोऽयम् उद्धव इति परिचाययामास च ।
[२७] स च तस्याश् चरण-काष्ठाम् अनु साष्टाङ्गं प्रणम्य रम्य-विनयः सञ्जिताञ्जलिस् तस्थौ ।
[२८] अथ तौ स्वयं च परिजन-द्वारा च यथायथं तम् आराधयामासतुः । अतिथिर् अयं नारायणस्यायनम् इति, लब्ध्-कृष्ण-स्नेह-बीथिर् अयं तदीय-देह-प्रतिनिधिर् इति चोभयथाप्य् अधोक्षजतारोपात् तत्र हि न भिदां विदां बभूवतुः ।
[२९] लब्ध-विश्रमं तु तं क्रमशः समुच्छलद्-उत्कलिका-जातः कंस- शमनस्य तातः प्रश्न-विषयीचकार । तन्-माता तु केवलं शृण्वती बाष्पेण निज-सदनम् आवृण्वती बभूव ।
[३०] प्रश्नश् च —कच्चिद् अङ्ग महाभाग [भा।पु। १०.४६.१६] इति प्रभृति शुक-मुखामृत-प्रसृति-मय एवास्वादनीयः । वयं तु स-विशेषं परिवेषयामः । यथा—
पृच्छायां निज-तनयस्य स स्व-दुःखाद् भीतः सन् न तु तम् अपृच्छद् अत्र पूर्वम् । किन्त्व् अन्यान् निज-सुहृदस् तदावृतिस्थान् अप्राक्षीद् व्रज-नृपतिस् तम् एव पृच्छन् ॥२९॥
अथ तस्मिन् सुप्रीतः, श्री-व्रज-नृपतिः सुतस्य साहाय्यात् ।
प्रश्नाद् आशिषयत् प्राक्, स महा-भागेति सम्बोध्य ॥३०॥
प्रश्नस् तु यथा—
भ्रातृज-बुद्ध्या बल्ये, मत्-पित्रा यः समं मयापालि । स मम भ्राता न परं, किन्तु सखापि स्फुटं शौरिः ॥३१॥ स सखा किं मम सम्प्रति युक्तः पुत्रेण तेन तेनापि । पुर्यां राजति कुशली येनैवात्मनि सुखं मन्ये ॥३२॥ अथ सुहृदाम् अपि तस्य क्षेमं पृच्छामि सुष्ठु सौख्याय । तैर् वृतिम् अवृतिं चान्यैर् यस्माद् अधुनापि शत्रु-पक्षोऽस्ति ॥३३॥ अहह व्रत-मति-बालौ चक्राते ताव् इति स्म चाशृण्म । तत्-पर्यन्तं यातौ कच्चित् परिषदि पुरः पुरः स्फुरतः ॥३४॥ मम हृदि यश् चिरम् आसीद् अब्द-श्यामः प्रविश्य यस्याथ । अजनि तथैव च पितरं सम्प्रति तं मां स किं स्मरति ॥३५॥ आष्टम-मास-प्रसवं तं प्रति कष्टं विशङ्कमानायाः । मतुः स्मरति तवाग्रे जातु स वृष्णि-प्रवीर किं कृष्णः ॥३६॥ मातर-पितर-सगोत्रास् तत्-सम्बन्धाश् च ये केचित् । तेषां प्रतिजन-सौहृदम् अपि किं तस्यान्तरे स्फुरति ॥३७॥ अतिबाल्याद् अनुमिलनं हातुं येषां स कातरो भवति । तेषां वहति सखीनां किं बत चित्ते निजं विना भावम् ॥३८॥ गो-रक्षायां नियता रचिता ये स्वयम् इहात्मनः स्थाने । कृष्णस् तान् निज-भोजन-काले दूरं पुरेव किं स्मरति ॥३९॥ यस्यात्मादिकम् अखिलं स्व-कृते स्वस्यापि यत्-कृते भाति । तस्य व्रजस्य किञ्चिच् चेतसि कच्चिद् बलान् नयति ॥४०॥ जानीमः प्रत्येकं गा मनुते स स्वतोऽप्य् अधिकाः । निज-कर-कवलैः पुषितास् तः किं चित्ते समाहरति ॥४१॥ यस्मिन् वृन्दा-विपिने लोचन-पदवीम् उपायाते । भोजनम् अपि विस्मरति, स्मरति किम् एतत् कदापि कुत्रापि ॥४२॥ अहह गिरिं यं छत्रं कृतवान् यान् वाङ्घ्रि-मुद्राक्तान् । तान् अधुना स्व-विविक्तान् व्यर्थीभूतान् स किं वेत्ति ॥४३॥ अहह तद् अपि दूरे वर्ततां यन् निजानाम् अपरिहरणम् आसीत् किं तु भूयाद् इदं च । सकृद् अपि कृपया तान् वीक्षितुं चेद् उपेयान् मधुर-नयनम् आस्यं हन्त पश्येम तस्य ॥४४॥ प्रखर-पवन-चक्राद् दाव-वह्नेः क्षयार्थ- प्रकटित-खर-वर्षाद् रक्षितः स्म स्वयं चेत् । निज-विरहज-दाव-ज्वालया दह्यमानान् न कथम् अवति सम्प्रत्य् अस्मकान् पुत्र-वर्यः ॥४५॥ हसित-गदित-लीलापाङ्ग-वीक्षा-विलासाः सुखद-पदतयासन् ये तु कृष्णस्य पूर्वम् । दलित-सकल-मर्म-क्रीडया तेऽधुनास्मान् शिथिलित-तनु-धर्मान् स्थावरान् वा चरन्ति ॥४६॥ यदि गृह-जन-दुःखं वीक्स्य गेहं त्यजामस् तद् अपि महति सादे पातम् आसादयामः । यद् इह वन-महीभृन् निम्नगा प्रान्त-देशाः स्फुरित-हरि-पदाङ्कास् तं हरिं स्मारयन्ति ॥४७॥ अयम् अहह सुते स्वे रागवान् एवम् अस्मिन् मयि विषयि-धिया त्वं मास्म कार्षीः कुदृष्टिम् । हरि-बल-युगलं तन् नान्य-साधारणं स्याद् अपि तु सुर-मुनीनां ध्येयम् इत्य् आह गर्गः ॥४८॥
[३१] तत्-प्रभावश् च युस्माकम् अस्माकं चानुभव-पदम् एव । तथा हि —
कंसं हस्त्य्-अयुत-प्रभं करि-वरं तं मल्ल-वृन्दं च तल्-
लीला-लेशत एव यौ निरहतां युस्माकम् एवाग्रतः ।
तन् माहेश-धनुश् च यत्र नलवद् भग्नं तयोर् यत् परं
तत् तद् दानव-घातम् अद्रि-धरणं चाद्यं कृतं किं ब्रुवे ॥४९॥
[३२] तद् एवम् उक्त्वा च—
वीर्यं यद्यपि तस्य तादृशम् अथाप्य् अन्तस् तु मे मार्दवं
गृह्नत् केवलम् आर्द्र-भावम् अयते कुर्यां किम् एवं वदन् ।
कण्ठे नेत्र-युगे च रोदन-जलं बिभ्रद्-व्रजाधीश्वरः
किं वक्तुं बत शक्यतां हरि हरि श्वासावरोधं दधे ॥५०॥
उद्धवम् अभि तद्-वर्णित-सुत-चरितार्द्रा यशोदापि ।
स्वेद-स्तन-दृक्-क्षीरैः स्याद् इयम् अत्रापगेति मेने सः ॥५१॥
[३३] तद् एवं बुद्ध्वा उद्धवश् चिन्तयामास—अहो! मम महा-भाग्यम्, यद् ईदृश-भृश-कृष्ण-स्नेहावृतौ ताव् इमौ साक्षात्कृतौ । किन्तु तद् इदं परामृश्यते, तयोर् अनयोस् तं विना काल-विघत्तनं खलु दुर्घतम् एव । तस्य मत्-प्रभोर् आगमनम् अनयोश् च तत्र गमनम् अतीव दुःसङ्गमम् । तस्माद् यद्य् अप्यस्य नैसर्गिकेऽस्य स्नेहस्य हानिर् म्लानिश् च न सम्भवत्य् एव, तथापि यदि स्थगितता कर्तुं शक्यते, तदा केवलम् आभ्यां तर्तुं शक्यम् अशक्यम् अन्यदा । सा च तदीय- परम-तत्त्वता-ज्ञानात् तत्-प्रेम-माहात्म्य-कृतात्मीय-महत्त्व-ज्ञानाद् वा घटेत । तत्-तज्-ज्ञापनं चाधुना परं लब्धावसरं जातम् अस्ति; यतः स्वयम् एव मां बोधयतानेन तत्-प्रभावः सम्भावन-विषयः सम्प्रति कृत इति ।
[३४] अथ स्पष्टं चाचष्ट—
कृष्णो नारायणाख्यः स्वयम् इह भगवान् प्रेम तस्मिन् विशुद्धं
सर्वेष्वर्थेषु वर्यं तद् अनु च परमं भाति वात्सल्यम् एव ।
तस्मिन् पूर्तिं युवां यत् त्रि-जगति च गतौ तेन तस्यैव मूर्ती
यावञ्चन्तः परेऽपि प्रचुरतर-रतिं केचिद् आप्स्यन्ति सन्तः ॥५२॥
प्रधानं पुरुषो ब्रह्म यद् एतत् त्रयम् उच्यते ।
अंशांशं तद् विजानीयात् कृष्ण-रामाह्वय-प्रभोः ॥५३॥ इत्य् आदि ।
[३५] अथानयोः केवल-तन्-माधुर्य-प्रवणतया तत्-तद्-अश्रवणम् अवधार्य पुनस् तद्-दुःख-शमनाय तद्-आगमनम् एवावगमयति स्म । तथापि तत्-तात्पर्येण माधुर्येण समम् ऐश्वर्यम् अप्य् अस्य तद् अनयोर् मनः प्रवेक्ष्यतीत्य् अवेक्ष्य तच् च समुच्चिनोति स्म । यथा—
सर्वेषां सात्वतानां पतिर् अपि भगवान् शुद्ध-वात्सल्य-भावात्
पुत्रत्वं प्रापयद् वां तद् अतिलघु युवाम् आव्रजेद् एव देव ।
आव्रज्यापि स्वयं तद् भवद्-अभिरुचितं नित्यम् उच्चैर् विधाता
लोके वेदे च सिद्धिं वलयति भवतोस् तत्र यल् लालनाख्यम् ॥५४॥
हत्वा कंसं रङ्ग-मध्ये प्रतीपं1
सर्वेषां नः सात्वतानां स कृष्ण ।
आगम्याराद् वो यद् ऊचे तद्-अर्थं
पृष्टोऽस्माभिः सत्यम् उच्चैः करोति ॥५५॥
[३६] अथ तथापि तयोः खेद-सम्वेदनतः स पुनर् उग्र-वैयग्र्यम् उवाच—
अहह महित-भागौ खिद्यतं मा समीपं
सततम् अधिवसन्तं द्रक्ष्यथः कृष्णम् आशु ।
उपभवद् अयम् अस्तीत्य् एतद् आस्तां समस्मिन्न्
अपि तद् उपमितेः किं कृष्ण-वर्त्मत्वम् अग्नौ ॥५६॥
अधुना प्रकटं रूपं घटयति न हरिर् व्रजे यत् तु ।
तत्-कारणम् उद्दिष्टं स्वयम् असुरादेर् विमोहन-प्रथनम् ॥५७॥
[३७] तद् एवं तु तस्य सर्वत्र साधारण्यं गण्यं मन्यमानस् तयोस् तापातिशयः स्याद् इति धृत-मन्युः पुनर् अन्यथा सान्त्वयन्न् उवाच—
न ह्य् अस्य प्रियम् अप्रियं च किम् अपि स्वं नास्वम् अप्य् अच्युत-
स्याम्बा नैव पितापि नैव कुत्रापि सर्वेशितुः ।
यद्यप्य् एवम् अथापि भक्त-जनता-प्रेमार्तता-नुत्तये
तत्-तद्-भावम् अयत्य् असाव् अथ कथं वां तादृशाव् ऊज्झतु ॥५८॥
[३८] अथ भक्त-जनाद् अन्यत्र तु तस्य तत्-तत्-कुर्वत्-कल्पस्य नाल्पकोऽप्य् आवेशस् तज्-जनाद् अन्ये च तत्र सभ्रमा एव इति वदन् पूर्वार्थम् एव पुष्णन्न् उवाच—
नुदतीश्वर-सान्निध्यं गुणान् न स्वयम् ईश्वरः ।
तत्र तद्-विमुखा जीवा मायया दधति भ्रमम् ॥५९॥
[३९] यस्माद् एवं तस्मात्—
सुतोऽयं युवयोर् एव तादृग्-भाव-वशात् प्रभुः ।
तद्-अभावात् तु नान्येषां साधारण्याद् धि सर्वकम् ॥६०॥
इत्य् उद्धव-श्री-व्रजराजयोर् मुहुः
स्व-स्वानुरूपं वदतोर् निशा गता ।
बुद्धिस् तु तस्मिन् लघुर् उद्धवस्य सा
व्रजेशितुः प्रेम-जवेन चिक्षिपे ॥६१॥
[४०] तद् एवं सति—
सदा हरि-स्फुर्ति-सुखेन दीव्यद्-
वेषास् तदा काश्चन गोप-नार्यः ।
शीघ्रं समुत्थाय निरूप्य दीपान्
वास्तुं समभ्यर्च्य दधीन्य् अमन्थन् ॥६२॥
[४१] अथ ब्राह्म-मुहूर्तम् आगतम् अभीक्ष्य मूर्त-भक्ति-रूपः सर्व-भक्त-भूपः प्रातर् भगवद्-उपासना-वासना-परित्यक्त-निजासनस् ताव् अनुज्ञाप्य तीर्थम् आप्यं गच्छन् निवेदयामास—
अहम् अहह भवन्तौ सान्त्वितौ कर्तुम् ऐच्छं
मद्-अनुभजति वां तु स्नेह-चर्या विदूरम् ।
अपि सकलम् अभीष्टं सैव चाह्नाय कुर्यान्
मम परम् अतिधार्ष्ट्यं कष्टम् उच्चैः करोति ॥६४॥
मा कुरुतं पुरु-चिन्तां
व्रज-कुल-पालकौ युवकाम् ।
यः खलु भवतोः पोतः
स भवति जगतां भवाम्बुधेः पोतः ॥६५॥
इति निवेद्य तीर्थं गते तु उद्धवे राज-पथ-स्थितं तद्-रथम् अवलोकयन् लोकः कस्यायम् इति सन्दिदेह ।
[४२] तत्र तु—
उद्धवस्य रथं दृष्ट्वा अक्रूरं रामाः शशङ्किरे ।
चूर्णेन दग्ध-जिह्वानां भवेत् तद्-भ्रमदं दधि ॥६६॥
[४३] अथ मधुकण्ठः समापन-पद्येनानन्दयन्न् उवाच—
तद् इदम् इदम्-अपूर्वं वर्णितं पूर्व-वृत्तं
व्रज-नृप-तनयस् ते सोऽयम् अङ्के विभाति ।
अहह तव मुखेन्दौ म्लानतां वीक्ष्य गण्ड-
द्वयम् इह निजम् अस्रैः सिञ्चतेऽसौ चिराय ॥६७॥
[४४] तद् एवं सर्वं सन्तोष्य सर्वेण सन्तोष्यमाणौ स्व-वासम् आसन्नाव् इति सर्वोऽपि यथा-यथं स्व-स्व-पथम् आसन्नवान् ।
न तथा मे प्रियतम इत्य्-आद्य्-उक्तिभिर् ईडितः ।
स्वयं श्री-हरिणा सोऽयम् उद्धवो व्रज-दूतकः ॥६८॥
इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
श्रीमद्-उद्धवम् उद्भव-सन्देश-सम्पद-समं नाम
दशमं पूरणं
॥१०॥
(११)
(११)
अथैकादशं पूरणम्
दूत-भ्रम-कर-भ्रमर-सम्भ्रमः
[१] अथ पूर्ववद् असित-सुन्दर-राधयोः सदसि कथा, यथा—
[२] अत्र कथा-बाहुल्यम् अवधाय विभागाय समुत्कण्ठः स्निग्धकण्ठ एवोवाच—
[३] अथ श्रीमान् उद्धवस् तद् एव तीर्थं जगाम, यत् खलु निज-प्रभुणा तासां सर्वासाम् अपि सम्प्रति समुच्चितीभवन्तीनाम् इष्ट-देवताराधनादि-लक्ष्यतया कालं क्षिपन्तीनां स्थानतया निर्दिष्टम्; किन्तु ताभ्यः सुबहु व्यवधाय तत्र प्रातः-स्नानाह्निकम् अह्नाय निर्मितवान् । निर्माय च भक्त्या सावधानं किञ्चिद् अव्यवधानम् आनञ्च ।
[४] अञ्चता च तेन—
क्षीणाङ्गाः स्रस्त-केशा मल-शवल-पटाः प्रज्ज्वलत्-सन्निकृष्टाः दृष्टास् ता जात-वेदस् ततय इव वृता धूम-भस्मादिभिर् याः । किं च व्यग्राक्षि-युग्मा दलद-धर-दल-श्वास-वर्गा मुखान्तः- शोषा योषा मृगाणाम् इव दव-दवनात् त्रस्त-नेत्रा विमृष्टाः ॥१॥
तदा च—
श्यामं वर्तुल-दीर्घ-पीवर-भुजं चन्द्राभ-वक्त्र-स्फुरत्- कञ्जाक्षं नव-यौवनं किम् अपरं सौन्दर्य-पर्याचितम् । मीन-क्षोणिप-कर्णिकं कनकजिद्-वस्त्रं तद् आस्ताम् अपि श्री-कृष्ण-भ्रमदं विलोक्य तम् अमूश् चित्रं चिराद् आययुः ॥२॥ तास् तु यद्य् अप्य् उद्धवम् ईक्षाञ्चक्रुः कृष्णोपमं गोप्यः । तद् अपि न तद् भ्रमम् अगमन् भावस् तासां हि सच्-चक्षुः ॥३॥ दधति कदापि च साम्याद् प्राणिष्व् एव कृष्ण-दृष्टिं ताः । न पुनः पृआणिषु कुर्युर् भावस् तासां हि धर्म-पालः स्यात् ॥४॥
[५] ततश् च विस्मित्य सर्वाश् च स-विनय-क्रमं तम् अर्वाग्-भवन्तं कमलाधिपति-संवास-वासित-बहिर्-अन्तरं कमल-मात्र-प्राणता-पात्र-मधुलिड्-जातय इव कमलाकर-जगत्-प्राणं परिवव्रुः ।
[६] परिवृत्य च तं कृष्णादृत्य-भृत्यतया मनसिकृत्य प्रश्रयेणादृत्य सूनृतासनादिभिः सत्-कृत्य क्षण-कतिपयं तूष्णीकाम् अनुसृत्य कृत्रिम-स्मितान् निज-तापम् आवृत्य चाचचक्षिरे—
जानीमस् त्वां किल यदु-पतेः पार्षदं सौरभादेर् विद्मस् तं चेत्य् अथ कथयितुं का वयं हन्त दीनाः ? येनाज्ञप्तस् त्वम् अपि निखिलं वैभवं तत्र हित्वा गोष्ठं प्राप्तः स्फुरसि सुगमः सोऽयम् अत्रास्मकाभिः ॥५॥ भर्त्रा तेन स्वयम् अहम् इह प्रेषितश् चेद् अवश्यं तर्हि व्यक्तं भवथ नितरां यूयम् एवानुरुद्धाः । मैवं वादीर् अहह पितरौ मृश्यते ह्य् अत्र बीजं गौणे मुख्येऽप्य् अनुगतिम् इते मुख्य एव प्रतीतिः ॥६॥ बन्धु-स्नेहं मुनि-ततिर् अपि त्यक्तुम् ईष्टे न सुष्ठु त्यक्तव्यौ स्तः किम् इव पितराव् अप्य् अहो तेन सौम्य । कुम्भः पृथ्वीं न हि परिहरेद् दण्ड-चक्रादिकं तु स्वार्थं यावद् भजति तद् इदं पृच्छ्यतां न्याय-विच् च ॥७॥ एतौ हा धिग् यदि च पितरौ तस्य नापेक्षणीयौ किं वा गोष्ठे निवसति तदा तस्य यद्-दृष्टि-योग्यम् । पुर्यां तस्यां सुर-नर-शताङ्गाश्व-मातङ्ग-लक्ष्मीर् अस्मिन् सर्वत्र च वर-धनं हन्त गोपाश-मात्रम् ॥८॥ यः सम्बन्धः स्फुरति भुवने भोग्य-भोगि-प्रकारः । स स्यान् नैव स्फुटम् अविचलः पुष्प-भृङ्गादि-दृष्टः । स्याद् वा गच्छन् प्रतिनियततां जीवकाजीव्य-भावात् स्त्रीणां पुम्भिः सुख-लव-कृते यः पुनश् चञ्चलः सः ॥९॥ स्त्री-पुंसानां भवतु मिलनं सन्ततं क्वापि यस्मिन् दाम्पत्यं स्याद् अविचलतया धर्म-शर्म-प्रधानम् । जारोऽन्य-स्त्री-मिथुनम् अयते त्यागम् अन्योऽन्यम् अन्ते वेश्या निःस्वं विसृजति वयस् त्यक्त-वेश्यां बहुस्वः ॥१०॥ इति ।
[७] तद् एवं प्रथमत एव यासां गोविन्द-मात्रं विन्दमानानि मानस-वाग्-देह-वृत्ति-वृन्दानि तद् एक-सन्दानितानि न हि बहिर् भद्राभद्रं विन्दन्ति स्म । हन्त ! हन्त ! ताः पुनस् तस्य विरहेण दूयमानतया व्यग्रीभूय तादृशम् असभ्यम् अप्य् अभ्यभाषन्त । यत्र साधारणतया व्रजं सम्भूते कृष्णस्य दूते तस्मिन्न् उद्धवेऽप्य् उद्बुद्ध-वेदनतया त्य्क्त-लोक-मर्यादतां गताः । भवतु नाम च तत्, किं बहुना ? स्वेन सह तेन संहितं रहस्यम् अपि मञ्जु-गान-सञ्जनया व्यञ्जयन्ति स्मेति मम हृदयं दूयते । ततः कृतं सुदुस्तरेण तद् उन्माद-विस्तरेण इति ।
[८] तद् एवं मौनेन मूर्धानम् आनम्य पुनर् आह—अहो ! मम वृश्चिक-भिया पलायमानस्याशी-विष-मिखे प्रवेशः सदेशम् आगतः; यतस् तद् अति-विस्तरं त्यक्तवतोऽपि गत्यन्तरम् अन्तरा श्री-राधिकाया दिव्योन्माद-बद्धम् अबद्धं तद् इदं विलपितं लपितुम् आपतितम् ।
[९] तद् एवं मर्मणि क्षणं विदूय भूयः सुखं सम्भूय सम्भाषते स्म—हन्त ! जागरणम् आगम्य च कथं स्वाप्नं दुःखं दुःखलं कुर्वन्न् अस्मि; यतस् तेन स्व-कान्तेन समं साक्षात् स्फुरद् उपवेश । सेयं ममेशा विद्यत एवावलम्बनम्, तस्मात् किञ्चित् प्रथयानि । तत्र स्फूर्त्यादि-समुज्जृम्भा-गम्भीर-सम्भावनामयीयं भावना चास्यां जातु जातु सम्भवति स्म ।
[१०] सा यथा—
आयाति च मम निकटं याति च निह्नुत्य माथुरं नगरम् । तस्मात् कश्चन रामा रमयति रमणः स तत्रापि ॥११॥ इति ।
[११] तदा तु सा भावना तदीय-दूत-दर्शनेनातीव सम्भूततां गता; तस्मान् मान एव बलान् मानम् अतिक्रामति स्म; यत्र च सति तद्-दूत-विलोकन-सम्भूत-संस्कार-वश्यायां तस्यां भ्रमरोऽपि दूतान्तर-भ्रमं दधाति स्म ।
[१२] तथा हि तस्या वितर्कः—
मथुरा-हरितः संयन् गुञ्जन् मूर्धानम् आधुनुते । तद् अयं तदीय-दूतः स्फुटम् अलिर् एति श्रिताकूतः ॥१२॥ इति ।
[१३] तस्माद् एनं प्रथमत एवाधिक्षिप्तं विरचयामि इति विचारयन्ती स्पष्तम् एवेयम् आचष्ट—अरे ! रे ! कथम् अस्माकं पुरतः सङ्गच्छमानः पुरत एव धार्ट्यम् अनुतिष्ठसि, विदूराम् अटवीम् अट इति ।
[१४] तद् एवं क्रूर-दृष्ट्या तं दृष्ट्वा सोत्प्रासम् आह स्म—तत् खलु रे ! खल ! तव नायुक्तम्, यस्मात् मद्यं पिबसीति स्फुटं मधुपतया निगद्यसे ।
[१५] पुनः स-हासम् आह स्म—अहह ! तत्-पानं च तव भजमानं यतः पतिः खलु तवाधुना मधुनां पतिः ।
[१६] पुनः स-वितर्कं कर्कशम् उवाच—युवयोः स्व-साम्यम् इदं नासाम्यं वहति, यतः—
मधु-पति-रसकौ मधुपस् त्वम् असीत्य् उच्चैः प्रसिद्धम् एवेदम् । आजीव्याजीवकता- सम्बन्धस् तेन वां सिद्धः ॥१३॥
[१७] पुनर् अपि दोषान्तरासङ्गं स-भ्रू-भङ्गम् उवाच—अहो ! सख्यः ! समक्षं शृणुत, मद्यपः खलु विक्षिप्ततया सरल-चित्त एवावलोक्यते । अयं पुनर्-मूर्ध-धुननाव्यक्त-ध्वनिभ्यां कितव इव च लक्ष्यते । तद् एतद् अतीवाश्चर्यम् इति, अथवा नाश्चर्यम् इति तं सम्बोधयन्न् आह—अरे ! कितवस्य तस्य बन्धो! कथम् इह स्वच्छ इव स्वच्छन्दम् आगच्छन्न् असि ? दूरम् अपसर । न च कितवस्य बन्धुर् एवास्मि, न तु स्वयं कितवता मम स्याद् इति छलः समवलम्बनीयः; यतः,
यः कितवानां बन्धुर् द्विगुणं कितवत्वम् अस्य मृश्येत । छलयन्न् अपि तंस् तैर् यः स्वं साचिव्यं विधापयति ॥१४॥
[१८] तद् एवं स-मन्द-हासं विचारयन्ती निज-चरणं सरसिज-धिया सम्पित्सन्तं तं प्रति विचिकित्सन्ती वक्ति स्म—अरे ! तादृश ! ममाङ्ग्रिम् एकाम् अपि मा स्पृश ।
[१९] अथ पुनर् उट्टङ्कयन्ती तं घट्टयन्तीवाह—किम् आत्थ रे ! किम् आत्थ ?
[२०] अथ किम् एवं ब्रूषे—स्वामिनि! स्वामि-परिसराद् आगतस्य मम तव चरण-परामर्शः खलु सु-परामर्श एव इति । भवतु नाम रे! वाम! तद् अपि भजमानम् । यदि प्राग् अभिहित-भवद्-दोष शोषयति मन्-मनः । आस्ताम् अपि स न प्रतीति-विषयः, सम्प्रत्य् अन्यद् अपि दुर्लक्षणं विलक्षणतया त्वयि लक्ष्यते—तत्-सङ्गमाय सयत्नीभूतानां मदीय-सपत्नीनाम् असङ्कुचत्-कुच-कुङ्कुम-रक्तीकृत-विलुषित-तद्-ब्वन-माला-रञ्जित-कूर्चता इति । यतः,
एकः खलु चपलानां जुष्टं कुङ्कुम-मुरस्य् अहो वहति । तस्माद् अन्यः श्मश्रुभिर् एष प्रेक्ष्येत दग्ध-कूर्चाभः ॥१५॥
[२१] अहो! ग्राम्य-धर्म-हेतोः सम्बन्धः खलु ग्राम्य-धर्म एव स्याद् इति हसित्वा पुनर् आह स्म—तस्माद् अरे ! स-गर्व! सर्वथा मां मा स्पृश । यदि वा स्पृशसि, तदा सर्वथा तैः कूर्च्चैस् तु मां स्प्राक्षीः इति ।
[२२] पुना रोष-ताम्रता-कम्र-चिबुकं चालयन्ती चाललाप—किं ब्रवीषि रे ?
[२३] ईश्वरि ! परम-प्रेमवत्या भवत्या मान-प्रसादनार्थम् ईश्वरेण प्रेषितोऽस्मि । वर्त्मनि तु बुभुक्षा-सुक्षामतया दुष्परिहरं पुष्पं पिबतः कूर्चे मम पराग-कृत-रागः सम्भागम् आगतः इति ।
[२४] सत्यं सत्यम्, यतः,
मिथ्याप्य् एकैकं यत् तथ्यानां शत-समानमानाभम् । तस्मात् किल कितवानां कर्तुं कः स्याद् अतथ्यतां वचसि ॥१६॥
[२५] भवतु कितव-किङ्करेण समं किङ्करेण वदनेन वा विवदनेन नास्माकं पुनस् तस्य प्रसादनेन वचनेन तस्य चासादनेन त्वया प्रयोजनम् अस्ति । स तु मधूनां पतिर् मधु-वधूनाम् एव मानान्त-प्रसादम् आसादयतु, उभयेषां मध्वाश्रयता-विख्यातेः । तत्रैव च त्वं दूततां सम्भूतवान् भव, तवापि तत् पद-सम्पत्तेः । यतः,
सम-शीलानां मिलनं भवति परस्पर-सुखाय सर्वेषाम् । मद्यप-शौण्डिक-कितवाश् चेक्ष्यन्ते यत् तथा सुख-दाः ॥१७॥
[२६] तद् एवं विहस्य पुनः स-मत्सरं भर्तसयन्ती वभाषे—तस्य तत्-प्रसादनं पुनः प्रमादमयतया यदु-सदसाम् उपहासास्पदम् एव स्यात् । यस्य दूत-भूतस् त्वं निर्लज्जतां सज्जंस् तादृशं भृशद् उरपह्नव-चिह्नम् अह्नाय गृह्न्नन् भ्रम-रहित एव सर्वत्र भ्रमन्न् असि इति । यतः,
यद्य् अपि स गन्ध-नकुलः स्वं गोपयितुं जनाद् वष्टि । तद् अपि भजत्य् अनवरतं गन्धाद् अग्रेसराद् व्यक्तिम् ॥१८॥
[२७] अथ पुनः स-रोषं दोषम् उद्भावितवती—अरे! द्वि-रेफ! त्वम् एवं वदसि । कथं सम्भावन-मात्रेणादोष-पात्रे तत्र मयि च मृषा दोषं जोषयसि? भोः! कष्टं विस्पष्टं तु किम् अपि न पश्यामः इति ।
[२८] तत्र श्रूयताम्—स व्याज-राजः खल्व् असाव् अस्मांस् तथा सानुरागम् इव पुरा समागतवान्, यथा तदानीम् अजानीम कदापि न हास्यतीति । स्फुटम् अहह! सहसा तत्याज । तत इतः परम् अवद्यं किं विद्यते? तत्र च श्ङ्के काल-कलेवरतया कलङ्केन शङ्केह न विद्यते, यस्य स भवान् समान-स्वभावं तम् उपलभमानस् तथा सुमनसाम् अनादर-दर्शनया दर्शनम् इदम् अध्यापितवान् । किन्तु शिष्ये विद्या गरीयसी दरीदृश्यते, भवान् हि स्वार्थम् अर्थयमानस् तदीय-सारं निप्ऽइय क्वचिद् अन्यत्र याति । तस्य तु स्वार्थ-मात्रं नात्र प्रतिपद्यते; किन्तु पर-दुःख-दान्म् एव सुख्म् इति लक्ष्यते । यस्माद् अनुविधानस्मद्विध-जनान् मुधा सुधा-भ्रम-करं निजम् अधरं सकृद् एव सेवयित्वा स खलु काल-पुन्नागस् तत्याज इति । तस्मात्—
एके मधुकर-तुल्या भिन्दन्त्य् अपरं निजार्थाय । केचिन् मधु-पति-सदृशास् तम् ऋतेऽप्य् अन्यं विदुन्वन्ति ॥१९॥
[२९] तद् इदं तावत् परम् आश्चर्यम् अहो! तस्माद् अपि वर्यम् अपरं गोचर्यते । सा सर्व-पद्माधिदेव्य् अपि पद्मा कं गुणम् अनुगुणं विधाय तत्-पाद-पद्मं परिचरति, यतः श्रूयतेऽनुभूयते च । यत्र यत्र स पद्यते, तत्र तत्र पद्मापि प्रतिपद्यते इति ।
[३०] तद् एतद् विभाव्य पुनः सम्भाव्य किञ्चिद् वदति स्म—सा खलु सरला खलानां खलतां न जानाति; यस्माद् उत्तम-ॠलोक-नामत-मात्रतस् तत्-कामतां गता ।
धिक् धिग् अपि निरपेक्षं रूक्षं पद्मिन्य् अर्कं जडा भजताम् । पद्मालया स-चेताः कथम् इव भजते तथाविधं कृष्णं ? २०॥
[३१] तद् एवम् अनया तद् अनयान् मुहुर् अनूद्य बहु रुद्यते स्मेति, कृतम् उन्माद-कृत-विलाप-वर्णनया ।
[३२] अथ पुनर् एषा स्वभावतः एव मञ्जु गुञ्जन्तं तम् अन्यथा व्यञ्जयामास—भोः! सख्यः! कष्टम्, तथापि धार्ष्ट्यम् अनुतिष्ठत्य् असौ । पश्यत पश्यत, तम् अविस्रब्ध-चरितं पुनर् गातुम् आरब्धः । गानेनाप्य् एताम् आर्द्रयामीति, तस्मात् क्षिप्रताम् एतम् आक्षिपामि इति स-सम्भ्रमं स्पष्टम् आचष्ट—चतुष्पात् तावन् मूढ-भावतया लक्ष्यत एव; त्वन् तु षट्-पदः, कथं तद्-अधिक-पदतां न प्राप्नुयाः! अन्यथा पुनर् इह लब्ध-दुःख-व्रजे व्रजे कथं गायसि ?
[३३] तद् इदं न श्रुतम्—
यः पर-परिषद्-धृदयं जानन् व्यवहारम् आतनुते । देवः स खलु निर्दिस्टः पशुर् एवान्यो द्विपाच् च निर्दिष्टः ॥२१॥
[३४] अत्र च यदि गायसि, तदा बहु कथं गायसि ? यतः,
गानादिकम् अतिकुर्वन् श्रोतुर् यः खलु न वेत्ति सारस्यम् । कुक्कुर-तुलया बुक्कन् सोऽयं परितो निरस्येत ॥ [३५] तथापि यदि गायसि, तदा यदूनाम् अधिपं कथं गायसि ? कः केन सम्बन्धं सन्धत्ते, यतः सुखम् उपलभ्येत ? तथा हि— गायति स जडोऽप्य् उच्चैः प्रेरक-हृदयानुवर्तनो यः स्यात् । रागाविविक्त-रचनं दृष्टं यद्वत् पिनाक-यन्त्राद्यम् ॥
[३६] पुनः स-क्रोधम् आह स्म—अरे! यद्य् एवं ब्रवीषि, तस्य सम्बन्धः प्राग् अत्र च लब्ध-निर्बन्धः सम्बभूवेति । तथापि त्वं मूर्ख एव, यतो जीर्ण-सम्बन्धं तम् अत्र गायसि । तथा हि—
कविभिः प्रस्तोतव्यः स्तव्यानां विद्यमान-सम्बन्धः । वन्दि-जना न हि राज्ञां प्राग्-भव-पुत्रादिकं स्तुवते ॥२४॥
[३७] यदि च त्वयि धन-पिशाची लग्ना, तदा तद्-घ्रह-गृहीततया गृहिणां तेषाम् अग्रतो गायतु भवान्, तेऽपि कदाचिद् उपद्रवार्थं किञ्चिद् अपि दद्युः । कथम् अहह! भोस् तस्मात् पापदिनाद् एव व्यक्ततया त्य्क्त-गृहाणां निस्पृहाणाम् अस्माकं पुरतो गायसि । अरे! किं ब्रबीषि! सोऽहम् अपि निस्पृहोऽस्मीति । तर्हि तथा तथा विगीतम् अपि तम् एव कथं गीत-विषयीकरोषि! पुराणं चेद् गायसि, पुराणम् एव गाय, किं ब्रुवे, षड्-अङ्घ्रितया सार्ध-पशुर् एव त्वम् असीति; ततः कथं वा त्वयि तृष्णा न स्यात् ? ततश् चार्थी निर्गुणश् चेति द्वि-गुणम् एव धिक् त्वाम्, यतः—
अपि निज-लाभालाभ- स्थानं ज्ञातुं न चेच् चतुरः । कं गुणम् अथ जानीयाद् येनार्थयितुं जनं वष्टि ॥२५॥
[३८] तस्मात् श्रूयतां रे! बर्बर ! सद्-उपदेशः श्रूयताम् । मसिज-लीलायां विजयते यस् तव सखा, तस्य सक्ःईष्व् एव तद्-विजय-प्रसङ्गः सङ्गीयताम्, न तु यदुष्व् अपि तेसू लज्जेह प्रसज्जेत् । तषु तु तेन सङ्कुचित-कुच-रुक्षु मनोरथः प्रथनम् आप्स्यति इति ।
[३९] अत्र च—
शृणु वात्स्यायन-तत्त्वं लज्जां परिहृत्य वक्ष्यामि । यावान् प्रिय-कृत-धर्षस् तावान् हर्षः पृथु-स्तन-स्त्रीणाम् ॥२६॥ यावान् न भवति सुरते साक्षाद्-भूतेऽपि सौख्य-सन्दोहः । तावांस् तच्-छ्रवणे स्याद् अयम् अपि वात्स्यायनस्य सिद्धान्तः ॥२७॥
इति हसित्वा पुनर् आह स्म—अत्र मूर्धानं धुनानः किं ऊहसे ? विना याचनं ताभिः किं चन कथं दीयताम् इति ।
[४०] शृणु त्वाम् उपदिशामि—
यो वष्टि स्फुटम् इष्टं यस्मात् तस्येष्टम् एव स ब्रूयात् । याच्ञा रचयति दातुः सङ्कोचं तत् तु शच्वद् उत्साहम् ॥२८ ॥
[४१] अथ क्षीणं प्रणिधाय तम् अवज्ञाय स्व-सखीर् आह स्म—अहो! जीविताल्यः! परिकल्यताम् अयं कुसुम-कृमिः कथम् इव भवतीनां गम्य-धर्म-मर्म जानीयात् ?
[४२] सोऽयम् एवं वदति—देवि! रुषद्-वचनं मा ब्रविः । कथम् अथ ताः पति-जुषः पर-पुरुषं भजन्तु नाम, तस्मात् तूष्ञीकाम् एव पुष्ञीतात् इति ।
[४३] अत्र च पुनर् एतं प्रत्य् एवम् उच्यताम् । सत्यम् एव ताः पति-देवताः; किन्तु दिवि भुवि रसायाम् अपि का खलु स्त्री-जातिस् तद्-वशा न भवेद् अपि तु सुत-वस्करापि न तं त्यक्तुं सम्भवेत्, अत्र च तद् इदम् अपि वादितया मा वादीः । तर्हि परम-सद्-गुण एवासौ कथं पुनर् निन्द्यत इति; यतः स खलु सर्व-वशी-भाव-वैभवेच्छुर् गुणान्तराभावान् माया-मात्रम् अत्र कारणतयातिमात्रम् अवलम्बते । तथा हि—
बैडाल-व्रतिकाख्यः कर्षति लोकं तथा न सल्-लोकः । आदेस् तद् एक-निष्ठा तन् नादृत्यं द्वितीयस्य ॥२९॥ [४४] ततश् च हास्य-भ्रु-युगलास्य-प्रभृति-मय-माया-मात्रेण तदीय-गात्रे सद्-गुण-सारूप्यं निरूप्यते, मनसि तु केवलं माया-बलम् । किन्त्व् अस्माभिर् इदं दयामयतया भण्यते, न मत्सरतया; यथा त्वयापि तथा ताः शिक्षणीयाः इति । यतः, यस्मिन् कण्टक-विद्धस् तस्माद् अन्यं निवारयत् अपरः । यः खलु तद् उदासीनः स हि न हि कथ्येत कण्टकाद् इतरः ॥३०॥
[४५] तद् एवं सखी-द्वारा तद् अखिलं मधुपम् उद्दिश्य पुनस् तम् आलपन्तम् आशङ्कमाना स्वयम् एव स-चापलम् आललाप—अरे! शिलीमुख! कथम् अस्मासु छिद्रम् अर्पयसि, यस्माद् एवं गुञ्जसि? कथम् एवं विविक्त-मतीनाम् अपि भवतीनाम् अद्यापि तत्रातिरिक्तासक्तिर् ईक्ष्यते? इति ।
[४६] तत्रेदम् उच्यते—लक्ष्मीर् अपि तस्य यत्र यत्र चरण-रजस् तत्र तत्र निरपत्रपं सजतीति किंवदन्ती । ततः का वयम् अन्यथा-प्रथनाय भवामः?
[४७] पुनः स-विमर्शम् आह—अरे! शुद्ध-बुद्धे! त्वं न बुध्यसे; यल् लक्ष्मीम् अप्य् एवमेव प्रथमम् असौ वशयति । यथा— सर्वं वशयितुम् इच्छति यः सोऽयं चेद् भवेच् चतुरः । मुख्यं वशयति पूर्वं तत्-प्रामाण्याद् भजन्ति तं सर्वे ॥३१॥
[४८] तस्मात् कथं गोपयामः? यद्यपि न कश्चिल् लाभः स्यात् तथापि मनश्-चिल्-लाभस्य तस्य मायया वयम् अपि तत्र लुब्धा जाताः स्मः । तया मोहिततया च परमोत्तम-बुद्धिताम् एव तत्र भजामः, न तु माया-बुद्धिम् इति । यत् तु शङ्कसे, तर्हि बुद्धे तत्त्वेऽप्य् अधुना कथं तस्मिन् श्रद्धां धद्धे? इति ।
[४९] तत्र श्रूयताम्—यद्यप्य् एवम्, तथापि स्व-स्व-कामापूर्त्या कृपणानां पारदस् तस्योत्तम-श्लोक इत्याख्यासार एवास्मान् निस्तारयिष्यतीदम् अपि श्रद्धां विधातुं सा माया बुद्धि-पद्धतिम् आनयति । तथा हि—
देवेऽप्य् अश्रद्धेये तच् छब्देनैव वीक्ष्यते सिद्धिः । जैमिनि-मुनि-शिष्यानां यज्ञे यद्वत् फलं बलते ॥३२॥ इति । [५०] अथ परम-गरिम-परिमल-कमन-कमलधिया स्व-चरणम् अनुचरन्तं षट्-चरणं क्षमापयन्तम् इव मत्वा तम् आक्षिपन्ती क्षिपन्ती च जजल्प—अरे! दुष्ट-षट्-पद! चाटुं घटयन् कथं मच्-चरणं शिरसा संसृष्टवान् असि? शीघ्रम् एव विसृष्टं कुरु । तव गुरोर् अपि तस्य तुर्य-कक्षामितं मायामय-विनय-चातुर्यं विद्मः, कः पुनस् त्वं तपस्वी । यतः, कपटी कुरुतां कपटं तत्र न यत्राभवत् प्रकटः । सकृद् अपि कपटे प्रकटे सर्वं नटवन् मृषास्य तर्क्येत ॥३३॥
तथा हि—
सर्व-त्याजन-पूर्वं स्व-कला-गत्यास्माकान् उरीकृत्य । सहसात्यजद् इह सर्वा यः पुनर् अमुकः किम् अस्ति सन्धेयः ॥३४॥
[५१] अथ विरम्य पुनर् इदं सम्यग्-गाढ-प्रणयमय-विवर्तम् अविदुषाम् अरस्यम् आह—अहो ! यस्य मननं न क्रियते, तस्य तावन् मर्म न श्रियते । पश्य पश्य, श्याम-जाति-मात्रस्य दुरात्मता । तत्रास्तां तावत् पुष्प-कीट-पर-पुष्टादीनां भवतां वल्ली-वलिभुगादिषु कृतघ्नता; यः खलु दाशरथिः सर्व-धर्म-सार-पारङ्गत इति परामृश्यते, तस्य च निरपराध-शाखामृग-देव-भू-भृति कृताराध-साक्षाद्-विश्रवः-प्रभव-योषिति च तथा तथा कृतिः श्रूयते । अरे! रे! किम् उक्तम्? स खलु स्त्री-सम्बन्ध-हेतोर् भ्रातृ-विद्वेषं कृतवान्! सा च स्वैरिणीति तयोस् तन् नायुक्तम् इति । धिक् त्वाम्, सोऽपि स्त्री-जित एवेति चामीकर-मृग-मारणे लब्ध-प्रचारम् एव । तस्माद् वयम् असिता वाचा कथं सिता भवेमेति मा गर्वं कृथाः । एषा च व्याहृतिर् अद्य सोदाहृतिर् दृष्टा ।
आवरितुं निज-दोषं यः खलु वाचालतां याति । वाचालतैव तस्मिन्न् अपरान् दोषान् व्यनक्ति सर्वत्र ॥३५॥ इति ।
[५२] यतः स खलु मृग-हन्ता पर-निन्दा-विमुखयापि मया सन्तापाद् एव निन्द्यते । तत्र तु स्व-सम्बन्धं विनापि यत् प्रतिवादितयावादीस् तत् खलु स्वीयम् असितं प्रति स्त्री-जित-तात्पर्यवसिता स्याद् इति तव श्ङ्कार्थं पर्यवसीयते, तच् च प्रकटम् एवेति कपटं मा कार्षीः । ततश् च माथुर-पुर-स्त्री-जिततया स्त्रीणाम् अस्माकं हत्यापि तस्मिन् प्रत्यासीदेद् इति । यत्र तव द्राडिकैव खलु बाढं साक्षिणी, तद् अलं तद्-विवादेन, प्रस्तुतम् अनुसन्धीयताम् । दाशरथिस् तावत् क्षत्रिय-जन्मा, ततष् तस्य क्रूरतादि न दूरताम् अर्हति । पश्य पश्य, साक्षात् कश्यप-जन्माग्र-जन्मा जन्मावधि ब्रह्मचारी चैकचारि च; यः खल्व् अपरः श्यामः, स च वलिं प्रति किं कलितवान् ? यस्य च वलि-ध्वंसिनः सम्यग्-दृष्टान्ततया कष्टं वलि-भुग्-जातिर् एव स्पष्टायते । यत्र वलिं लभते, तत्र नवं नवम् उपद्रवम् आतनोतीति । तस्माद् भवन्तः सर्वेऽपि साम्यवन्त एव भवद्भिर् वाचामिश्रणम् अपि कृच्छ्र-प्रदं स्यात् । अरे! किम् अव्यक्तम् उक्तम्? तर्हि कथं तेषां चरितं मुनिभिर् अपि सुनिरूपितं क्रियत इति । तत्र च तेषां दोष एव पोषं लभते । तादृशतायाम् अप्य् अकृश- तन्-मोहन-शक्तिर् मुनीन् अपि तदासक्तीकुर्वती भीषयत एव सर्वान् इति । अतः,
हिंस्राद् अपि न हि तादृग् भीतिर् भवतीह लोकानाम् । यादृग् दर्शन-मात्राद् धर्म-ध्वजिनः प्रजायेत ॥३६॥
तथा हि —
हिंस्रः खलु किं कुर्याद् यस्माद् भीत्या पलायते लोकः । हिंस्रात्मापि चरित्रं शुभम् इव कलयन् भृशं शङ्क्यः ॥३७॥
[५३] अथ क्षणं विश्रम्य चाधिगम्य चाह—अये! तत्-कथां प्रस्तुवतां तावद् अस्तु माया-वशता, तत्-कथापि तन्-मायामयम् अहसा सहसा दाम्पत्य-सम्पत्य् अधिकृत-धर्माणां मर्माणि निर्मूलयति; निर्मूल्य च प्रातिकूल्यम् अत्यजन्ती कुट-कदम्ब-सम्वलितं कुटुम्ब-निकुरम्वं गृह-भाजन्त्याजयन्ती, तच् च तांश् च दीनतां भाजयन्ती पुनर् उत्तरांस् तु विहङ्गमान् इव भिक्षु-चर्यां सङ्गमयति ।
[५४] अत्र चेदं वाग्-युद्धम् उद्बुद्धं मा कार्षीः, तर्हि तत् कथनम् अमी कथम् अर्हिततमाः शृण्वन्तीति? तत्र निरसूयतया श्रूयताम्—तत् खलु निष्कलुषवत् पुरतः ष्रवण-सञ्ज्ञायां रसज्ञायाम् आत्मनः पीयूषतां रूषयति; पश्चात् तु शर्करा-पूर्ण-धूस्तूर-चूर्ण-पानकवद् बुद्धिं घूर्णयति ।
ततश् च,
शङ्के विहगा नामी किन्त्व् एते स्युर् नरा गृहगाः । तद्-गीतेन विमुग्धा दुग्धात्मीयाश् च भिक्षवो जाताः ॥३८॥ [५५] अथ श्रुतिम् अभिनीय पुनः प्राह स्म—अरे! तद् इत्थम् आत्थ; अयि! कृष्ण-तृष्णा-पात्रि! यथा सम्भावयसि, तथा सत्यं न सम्भवत्य् असौ । किन्त्व् अन्तर्बहिऋ अपि महित एवेति । तत्र श्रूयताम्—नास्माकं सम्भावन-मात्रं तत्र प्रमा-पात्रं किन्तु प्रत्यक्षं प्रत्यक्षम् अपि; यतः पूर्वम् अस्माभिर् अपूर्वतया तद्-व्याहृतं भवद्वद् एव समाहृतम् आसीत्; पश्चात् तु मृगं मृगयमाणस्य मृगयोर् गीत-तत्त्ववद् एव ज्ञातम् । तत्र महा-दुःखे समुन्मुखे किं स-लज्जता-सज्जनेन ? श्रूयताम्—यतस् तेन लब्धाकर्षास् तस्य वन्य-वेशेन धृत-हर्षा जात-तन्-मिलन-तर्षाः केवलं कर-कण्टक-नामान्तर-खर-नखर-शर-स्पर्श-मात्रम् उपलभ्य लब्ध-वेदना भभूविम । तथा हि— शपथं करोमि मधुकर न मनसि तस्याङ्ग-सङ्गमः स्फुरति । नखर-स्पर्श-विषं पुनर् अन्तर्ज्वालाभिर् अनुमितं क्रियते ॥३९॥
[५६] तस्माद् अस्य दम्भारम्भितया मौनम् अवलम्बमानस्य तन्-मन्त्रिणः प्रतिनिधिवद् दर्शनाद् उपमन्त्रितया दृश्यमान! तथा तत्-पर्यायतया भण्ड-विद्या-पण्डित! तन्यतां कृपा, तद्-अन्य-वार्ता भण्यताम् । यतः,
नव्या नेयं विद्या तच्-छिक्षातस् त्वयात्र या योज्या । तस्मिन् सन्ति परा यास् ताभ्यो न भयं कदा स चागन्ता ॥४०॥
[५७] अथ तद् एवं कथयित्वा पुनः स्निग्धकण्ठः प्राह स्म—
[५८] एवं दिव्योन्माद-प्रमादाद् अस्मिन् महा-विरहेऽपि सा तद्-अङ्ग-सङ्ग-स्फूर्ति-वलमान-मान-भङ्गी-सङ्गिनी जाता । ततश् च भ्रमर-स्वभाव-सद्भाव-भ्रमण-रचनया तत्र वृक्षान्तरेणान्तारते जाते सेयं कलहान्तरितापि जज्ञे । यथा चाह स्म—
अघटि मया वत कठिनं रटितं कुटिलं हरेर् दूते । वक्रोक्तिं न हि यद् अयं वेत्तुं शक्तस् ततश् चलितः ॥४१॥ दयितेनान्यालाभाद् गोपन-कामाद् अपि भ्रमरः । प्रहितः क्षिप्तो मयका निज-हृदि कञ्जे निचिक्षिपे चाग्निः ॥४२॥
[५९] इति सारोदत् तस्या रोदनम् अवकलय्य च सर्वा रुरुदुः । सा तु रुदती तस्य वर्त्मनि नेत्रं नुदती च तं वा तद्विधम् अन्यं वाक्-अस्मादायान्तम् अवलोच्य सम्भ्रम-सम्पन्न-कम्प-सम्पद्-बलमान-विकृत-वर्णं वर्णयामास । तत्र च प्रिय-सख पुनरागाः [भा।पु। १०.४७.२०] इति वक्तव्ये पि पि पि पि प्रीय-सख पु पु पु पु प्यूनरागाः इति प्राह स्म ।
[६०] अत्र यद्यपि त्वम् इतो ययिथ, तथापि यस्मात् पुनरागास् तस्माद् अस्माकं प्रिय-सख एव त्वम् ।
[६१] अस्यायम् अभिप्रायः—
यः सह खेलति स सखा यः सम-दुःखः प्रियः स पुनः । अपि दुःखे सह-वासी यः प्रिय-सखतां स तु व्रजति ॥४३॥
[६२] तत्र चानुराग्य् अन्तस्तया निज-भाग्य-विशेषं तर्कयन्ती प्रेयसा प्रेषितः किम् इति मनसि प्रोच्य पुनर् वचसि वक्तव्ये प्रे इति वदन्त्य् एव मुमूर्छ । ततस् तद्-धूत-धैर्य-विभवे तस्मिन्न् उद्धवे सखी-वलयेषु च लब्ध-बुद्धि-विलयेषु सा तस्याम् इद्ध-मूर्छायां मूर्छायाम् एव स्वप्न इव हन्त! हन्त! केनास्य तद् एतद् ऋण-विगणनं कुर्याम् इति विचिन्त्य किञ्चित् प्रललाप, —यथा वरय किम् अनुरुद्धे इति । अत्र अवरुणत्से इति वक्तव्ये तिङ्-व्यत्ययः प्रज्ञाव्यत्य् अयम् एव व्य्ञ्जयति ।
[६३] अस्यायम् अभिप्रायः—
यत् प्रिय-सखता-भाग्यस् तस्य धनं तस्य नान्यस्य । प्रियतम-दूताय तु तन् नालं किन्त्व् अस्य वाञ्छितं पृच्छ्यम् ॥४४॥
[६४] अत्र तत्रावेशत एवेदम् आशशङ्के । सोऽयम् एवम् आशङ्केत—इयं खलु मुग्धा भवति, न तु विदग्धा; यस्मान् निरवधि निरुपधि-सुहृदं मामुपाधि-वाधित-हृदं मन्यते इति। तस्माद् इदं ब्रवीमीति ब्रवीति स्म—माननियोऽसि मेऽङ्ग [भा।पु। १०.४७.२०] इति ।
[६५] अत्रायम् अभिप्रायः—
यद्यपि मित्रं निरुपधि कश्चन कस्यापि सन्ततं भवति । तद् अपि सदा परितर्प्यः स हि न हि भिन्नः स्वतः परिस्फुरति ॥४५॥
[६६] अथ यदि तथा मन्य्से, तदा मह्यम् एतद् एव देहीति प्रोच्य किम् अप्य् अनुशोच्य तर्ह्य् एवात्मानं रथम् आरोहयितुं प्रयतमानतयासाव् अस्याः स्फुरति स्म ।
[६७] तत्र तु सेयं काकु-व्याकुलं प्रलपति स्म—नयसि कथम् इहस्मान् दुस्त्यज-द्वन्द्व-पार्श्वं [भा।पु। १०.४७.२१] इति ।
[६८] अस्यायम् अभिप्रायः—
मधुकर स भवान् जात्या सर्वेषां च प्रमोदम् आहर्ता । मत्-प्रिय-सखताम् अञ्चन् नयसि कथं मां स-पत्नीषु ॥४६॥ त्वं न हि यन् मम दुःखं कृष्णश् चावैत् ततः स-पत्नीषु । अविभर् माम् अपि विरह- व्याधिं नेतुं स-यत्नताम् अभितः ॥४७॥
[६९] तत्र चेदं पुनर् उट्टङ्कयति स्म—किम् अयं ब्रूते? साम्प्रतम् एव स गायत्र्-व्रतम् उत्तीर्णवान् अस्ति । कथं मिथुनीभावम् आपद्येत ? इति ।
[७०] तत्रेदं ब्रवाणीति ब्रवीति स्म—सततम् उरसि सौम्य श्रीर् वधूः साकम् आस्ते [भा।पु। १०.४७.२०] इति ।
[७१] अत्र चायम् अभिप्रायः—
तस्योरसि या रेखा सा खलु लक्स्मीर् इति प्रथितम् । तं मिलती किल तरुणं सा नव-तरुणी रहो भवति ॥४८॥
तस्मात्—
इत्व अरीणाम् इयं रीतिर् एति स्वैरम् इतस्ततः । नयन् मां नगरं तासां दशां माम् अव मा नय ॥४९॥
[७२] अथ पुनः कथम् अपि तद्-वासनया कृत-बहिर्-वृत्ति-प्रकाशनया चक्षुषी समुन्मील्य निभालयन्ती चिरं गतम् अपि तम् एव द्वि-रेफं साक्षाद् इव वीक्ष्यते स्म; वीक्ष्य च पुनर् विरहम् एव सन्ततं निरीक्ष्यते स्म ।
[७३] तत्र च पृच्छ्यम् इदं पूर्वं नापृच्छम् इति स विप्रतीसारं पृच्छति स्म—अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास्ते [भा।पु। १०.४७.२१] इति ।
[७४] अस्य चायम् अभिप्रायः—
तत्त्वं ब्रवीमि न रहस् त्वयि किं चनास्ते भृङ्गाधिप स्व-हितकारिणि बन्धु-बन्धौ । धर्मे विवेचनम् इते स तु नः पतिः स्याद् औत्पत्तिकी हि रतिर् अत्र मिथः प्रमाणम् ॥५०॥ कष्टं वत प्रियतमः स पुरि प्र्ययातः स्तब्धश् च वृत्तम् अपि नात्र चिराद् उपैति । तत्रानवस्थितिम् अथास्य वितर्क्य चित्तं सन्दिह्य दाह्य-दशया वत भस्मति स्म ॥५१॥
[७५] तत्र तन्-मुखात् तस्य सुखावस्थिति-सम्मतिं मतिम् आनीय पुनर् विशेषं पृच्छति स्म—स्मरति स पितृ-गेहान् बन्धूंश् च गोपान् [भा।पु। १०.४७.२१] इति ।
[७६] अत्र चायम् अभिप्रायः—
चित्ते चेद् व्रजम् आव्रजत्य् अनुदिनं सोऽपि स्मरत्य् अन्व् अहं तं तातं जननीं च ताम् अहह तान्य् आत्मीय-वृन्दान्य् अपि । तर्हि स्याद् उभयत्र सन्ततम् इथः स्फूर्तिः समक्ष-प्रभा येन स्याम वयं च हन्त मृतकाः शुद्धामृतेनोक्षिताः ॥५२॥
[७७] तत्र च तस्य सम्मतम् इव विविच्य पुनः सङ्कोचं व्यतिरिच्य पृच्छति स्म—क्वचिद् अपि स कथां नः किङ्करीणां गृणीते [भा।पु। १०.४७.२१] इति ।
[७८] अस्य चायम् अभिप्रायः—
क्वचिद् अपि रहसि स्वां मूर्तिम् अस्मन् निषेवा- विरचित-चरव् एषां वीक्ष्य चैतद् ब्रवीति । अपि वत परिचर्या-कारिका हन्त नामूः स्मरसि यद् असि दूरे नात्मना सार्धम् एषि ॥५३॥
[७९] तद् एतद् विलपितं वलयित्वा—भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु [भा।पु। १०.४७.२१] इति वदन्-मनाह् शुण्डावद्-भुज-दण्ड-शुण्डाम् अपि मदस्था-णुतयानुभवन्ती या बभूव, सेयं सम्प्रति तद्-विरह-दहनं वहन्ती भुजेऽतिमात्रं वचसि रचयन्ती मूर्छति स्म । अत्र धास्यतीति वाच्येऽधास्यद् इति तस्या भ्रम-विकार एव ।
[८०] मूर्च्छा तु यथा—
वैस्वर्यात् क्रशिमान्वयाद् अवयव-स्थित्य् अन्य-भावाश्रयाद् द्वै-वर्ण्याद् अपि या न सेति मुहुर् अप्य् ऊहाम्बभूवे यदा । तर्ह्य् एषा वत लालयावृति-वशाच् चेष्टा-विघट्टाद् उत श्वासाद्य् अनुपलम्भनान् निज-तनाव् अस्तीति नार्तकि च ॥५४॥
[८१] तद्-वचनस्य चायम् अभिप्रायः—
गुरुम् अगुरुम् अतीत्य स्वीय-पाणिं सुगन्धिं निज-परिचरणायां स्वीकृतिं लिप्समानः । अहह शिरसि नः किं कर्ह्य् अपि स्पर्शयिष्यत्य् अनुदिनम् अपि येन स्फीत-चित्ता भवामः ॥इति॥५५॥
[८२] तद् एवं वर्णयित्वा स्निग्धकण्ठः स्वं दुःखं राधा-कृष्णयोः शृण्वतोः कृष्णं प्रति वर्णयामास—
सुरूपा वैरूप्यं मृदुल-हृदयाक्रूरतरतां सुलज्जा वैयात्यं स्मित-मधुरिता म्लान-मुखताम् । तद् आगाद् एषा य तव विरहतः कृष्ण सुभगा तद् एतन् मच्-चित्तं विमृशद् अभ्तस् तापमयते ॥५६॥ असौ क्व विरह-व्यथा वलित-शून्यता सर्वतः क्व वा कलिरितः कलेर् व्यवहितिश् च सार्धं त्वया । इतीह वृषभानुजा-हृदय-दुर्दशाम् अमृशन् मनो मम मनोहराखिल मुकुन्द विभ्राम्यति ॥५७॥
[८३] अथ कृष्णेन परम-तृष्णेनाश्लिष्टतया म्लिष्टाधिकायां राधिकायां तस्यां सभायाम् अपि मह-सुखाधिकायां जातायां मूहूर्तम् एकं तत्-प्रतिपदेव तस्मिन्न् इतिहासाध्यने प्रतिपद् बभूव । यतस् तस्य च सम्मदान्तर् लीयमानं स्वान्तम् अपि चिराय स्वान्ताय कल्पते स्म ।
इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
दूत-भ्रम-कर-भ्रमर-सम्भ्रमं
नामैकादशं पूरणम्
॥११॥
(१२)
द्वादश पूरणम्
उद्धव-स्फुरद्-उद्धवं
[१] एतद् अनन्तरं मधुकण्ठ उवाच—
[२] अथ मुहूर्तं मूर्त-भाव-मितायाम् अस्यां तथा सर्वस्याम् अपि कृत-तद्-वरिवस्यायां हा सखि राधिके ! हा कृष्ण-प्रेमाधिके ! हा सदास्मद्-आनन्द-साधिके ! त्वाम् इमां शन्तम-दृशं हन्त ! हन्त ! कीदृशं पश्याम ? इति विलाप-वश्यायं स श्याम-सुन्दरस्य सेवक-वरः स्वयम् अपि परिदेवन-परः कथम् अपि निज-देव-विरचित-स्फूर्तिवद् एव तन्-मूर्ति-प्रतिकार-करः केवलेन तत्-कलेवर-सुरभित-सुरभि-द्रव्येण निज-सङ्गानीततया नव्येन चैतन्यम् आचितवान् । तद् आचित्य च तां तदानल्प-सङ्कल्पात् कृष्ण-सङ्गत-कल्पाम् अध्यवस्यन् मध्यम् अध्यास्य सर्वाः परितः संवास्य चिराद् आश्वास्य च प्रथमं ताः पूर्ववत् कृष्णस्य तासां च महिम्ना दुर्धर-तज्-जातीय-भावतः शिथिलयितुं साम्ना ललाप ।
अहो यूयं पूर्णा निखिलम् अहिता याभिर् अभितस् तथा न्य्स्तं चित्तं भगवति समस्तार्थ-भजने । विदूरे युष्माकं न स भवति मां किन्तु विरहच्- छलः प्रेमा दूरं निज-महिम-पूरं ज्ञपयति ॥१॥
[३] तद् एवं स्तुत्वा स-खेदम् इव निवेदयामास—
सन्देश-हर्तुः प्रथ्मं निशम्य दुःखं सुखं वा तनुते विवेकी । तस्माद् अनाकर्ण्य पुरा स्वयं यः सम्भाव्य तत् तन् मनुते स बालः ॥२॥
[४] तथा हि, यदा हि माम् अत्र प्रस्थापयितुम् अभ्युत्थानम् आचरितं तेन भवत्-प्रियतमेन, तदा मय्य् एतन्-निभृतम् उक्तम्—मम तादृग्-उद्धव ! श्रीमद्-उद्धव ! श्रूयताम्—
गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह । गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय ॥ ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः । माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः ॥ ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहम् । मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः ॥ स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः । धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥ [भा।पु। १०.४६.३-६] इति ।
[५] तद् एव गच्छोद्धव व्रजं सौम्य इत्य् उभयत्र साधारण्यतया मां विनुद्य पितराव् अपि श्लोक-चतुर्थांश-मात्रेण प्रस्तुत्य भवतीनाम् अनुरागं चतुर्भिः श्लोकैः कथयित्वा पुनर् आविस्तरां विस्तरश् च कृतः ।
[६] तद् एतावद् उद्धवस् ताभिर् बुद्धम् अवधाय तत्र च तेन स्व-प्रभुवरेण स्वस्मिन् पितरौ प्रति जानासि त्वं [गो।च। २.१०.८] इत्य् आदि-पूर्वोक्त-पद्य-रीत्या य ईषद् विस्तरः कृतस् तम् अनूद्य पश्चान् नितान्ततान्ताः कान्ताः प्रति प्रथिततया यस् तम् अप्य् अनूदितवान् । यथा—
व्रजे नार्यः काश्चिद् उरधिगम-भावा वत मयाप्य् अतस् ता नैव स्युर् विरहम् अपनेतुं तव गिरा । मदीयं सन्देशं विनिदिशसि चेत् तं च विविधं तथा बारम्बारं कथम् अपि भवेयुः किल तदा ॥३॥ मदर्थं सन्त्य्ज्याप्य् अनिशम् अशनाद्यं वर-दृशश् चिरं जीवन्तीति स्फुरति न मृषा विश्रुतिर् असौ । मयि प्राणास् तासां सद् अमृत-तनौ मय्य् अपि मनः सदा सन्त्य् अस्तीति प्रवल्म् इह यत्-कारणम् इदम् ॥४॥ सदा माम् एवामूर्दयितम् अतुल-प्रेम-वसतिं तथात्मानं मत्वा किल निखिलम् अस्यन्ति समयम् । बहिर् दृष्ट्या ये वा वत पतितया भान्ति पशुपाः स-लोका वा धर्मास् तृणवद् अजहुस् तान् अपि पुरा ॥५॥ स-लोकं धर्मं प्राग् यद् अपि विजहुर् मद्-रति-वशाद् अमूर् एतर्ह्य् अन्यां तद् अपि दधते तत्र कुदशाम् । पुरा चित्ते तत् त त्यजन-कृति-पूर्वं रहसि मां श्रिताः सम्प्रत्य् एतद् युगलम् अथ साक्षाद् विदधति ॥६॥ अहो येऽन्ये च प्रथम-भजनाय प्रति-निजं स्व-धर्मं तल्-लोकान् अपि परिहरन्ति श्रवणतः । अमी त्यक्तुं शक्याः स्खलित-भजनत्वेऽपि न मया कथं तास् त्यजन्तां बत नव-नव-प्रेम-तनवः?७॥ यद् अप्य् अन्तः-स्फूर्तिर् भवति मम तासु प्रतिपदं तदीय-प्राणानां धृति-भृति-विधान-क्षमतमा । तदाप्य् उद्योतन्ते क्वचन मम चेन् माथुर-कथास् तदा मद्-दूरत्व-स्मरणम् अनु मुह्यन्ति वत ताः ॥८॥ क्षणः कल्पस् तासां भवति विरहे हा मम यतः स्फुटं रासारम्भे कतिचिद् अगमंस् ताम् अपि दशाम् । तथाप्य् एतासां यन् न बहिर् असवो यान्ति तद् इदं मदीय-प्रत्यावृत्य् उपधि-शत-युग्-वाचिक-बलम् ॥९॥ प्रतिश्रुत्य प्राग् यन् निज-पितृतया वल्लव-पतिनां दिशामि त्वां गन्तुं स्वम् अपि मनुवे वल्लवम् इतः । अतो मे वल्लव्यो म [भा।पु। १०.४६.६] इति निजता-व्यञ्जि वचनं तथा ज्ञेयं तासां यद् इह न मया कापि च भिदा ॥१०॥
[७] तद् एवम् आकर्ण्य मया निवेदितम्—तर्हि कथं मध्ये मध्ये सर्वत्ः प्रकाश-रम्यतया स्वयं न गम्यत इति? तद् एतद् आकर्ण्य तेन च वैवर्ण्य-पूर्वकं मयि मर्म समुद्भेदितम्—यद्य् अपि शात्रव-विद्रवः समाधातुं शक्यते, तथापि तत्र चात्र च कश्चन सङ्कोचस् तत्र गन्तुं रचितारम्भम् अपि मां स्तम्भयति ।
[८] तथा हि, ताः खलु न केवलं मन्-मनस्काः, अपि तु ब्राह्मणस्य निज-ब्राह्मण्यां ममेयं ब्राह्म-नीति-वचनवन् मम वल्लव-पति-पुत्रस्य वल्लव्यो मे मदात्मिकाः [भा।पु। १०.४६.६] इति वचन-व्यञ्जित-साम्प्रतानिभवान् मम नित्य-प्रेयस्य एव, तथापि नूनं कयापि मायया पर-दारतया तत्र व्यवहारः सर्वम् आससार । यः खलु पुरा व्रज-प्रेमावेशतया लोकवल्-लीलाम् अनुशीलयता मयापि दुरपसार एवासीत् ।
[९] ततश् च जागरूक-तदनुराग-बद्धतया तासां मयि तासु च ममासक्ति-रति-रिक्ता जाता, यस्यां लोकवल् लीलावेश-वेशतया तत् तद्-अर्थं दृष्टम् अदृष्टम् अप्य् अर्थं पूर्वम् अपूर्वतया कुर्वन्न् अहम् अपि यत् कृतवांस् तत् कथं प्रणयवत्सु भवत्सु गुप्तं कुर्याम्? अयतिअत् खलु सार्वज्ञाद् अमन्देन स्कन्देन च पुरा स्व-पुराणे तुलसी-स्तुतिम् अनु प्रस्तुतिम् आनिन्ये ।
तथा हि—
गवां हिताय तुलसी गोपीनां रति-हेतवे । वृन्दावने त्वं वपिता सेविता विष्णुना स्वयम् । गोकुअस्य च वृद्ध्य्-अर्थं कंसस्य निधनाय च ॥ इति ।
[१०] यस्याश् च मय्यासक्तेः प्रभावेण तासां तेषु पतिन्मन्येषु रहः-सङ्गः शशशृङ्गताम् अवाप । पुत्रायमाणेषु यातृ-पुत्रादिषु चासङ्गः शिथिलाङ्गतां गतवान् । अथ पुनर् आसक्तिः सा क्रमाद् अमर्यादतया केन केनचित् पर्यालोचिता; यत एव सज्ज-लज्जतया तस्माच् छलान्तर-बलान् मय व्यवहितम् । ततश् च पुनर् मम तत्र प्रकट-गमने सति तासाम् अङ्गीकारे पूर्ववद् एव लज्जा प्रसज्जेद् अनङ्गीकारे च तासां प्राण-त्राणं न स्यात् । तथापि तत्र गत्वा तस्य सावधानं समाधानं कथम् अपि प्रथनीयम् इत्युत्कण्ठया धैर्य्यं कुण्ठयन्न् अत्रत्य-पित्रोर् उपकण्ठे गद्गद-कण्ठतया तत्रत्य-मित्रादीनां दुःखं वर्णयंस् तत्र मध्ये मध्ये गमनाय न्य्वेदिषम् । तौ तु नाज्ञां दत्त इति तद् अवज्ञाय गमने तद् अपि न मङ्गल-सङ्गि स्याद् इति विभाव्य निरुत्साहतां गच्छामि । किं बहुना? मध्ये मध्ये तेषां पित्रादीनाम् अत्रानयनाय च तयोर् अनुज्ञा जिघृक्षिता । सा पुनर् निज-यज्ञ-सूत्र-यज्ञम् अनु च तद् अनाह्वानान् न सम्भाविता । तस्माद् यावद् अहं समय-गत्या मत्या समादधामि, तावल् लब्ध-दुरवस्था-विशेषतयात्म-निर्विशेषं त्वाम् एव तत्र प्रस्थापयितुम् उद्यतोऽस्मि ।
[११] तत्र यद्य् अपि भवता सर्व-समाधानम् अनुसन्धातव्यम्, तथाप्य् अयं मम सन्देश-लेख-चयस् तासां पुरः प्रवेशनीयः, वारं वारं स्वयम् एव वाचनीयश् च; यतस् ताह् स्वाश्रुभिर् अन्धायमानाः स्वयं नानुसन्धातुं शक्ष्यन्ति इति ।
[१२] तत्र प्रथम-लेखो यथा—भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् [भा।पु। १०.४७.२९] इति ।
[१३] अथ तद् एतावद् आकर्ण्य ताभिर् मनसि विचारितम्—नन्व् इदं स्वस्य ब्रह्मता-ज्ञानम् इवोद्दिष्टम्, सर्वात्मना मे मयेति सामानाधिकरण्यात् । तद् अलम् अनभीष्ट-ष्रवणेन ।
[१४] अथ सावज्ञं पुनः पृष्टम्—किम् अप्य् अन्यद् अस्ति? इनान्ति । स तु द्रुत-वाञ्छित-तद्-अन्तर्-अन्तर्-अर्थ-ज्ञापनया तद् आज्ञापनया पुनर् लिखितम् इव तद् एव वाचितवान् ।
[१५] तस्मिन्न् एव वाचिते ताभिः पुनः स्व-गतं परामृष्टम्—नन्व् अनेन पुनर् उक्तेन पूर्व-पूर्वम् उपदिष्टं स्फूर्ति-लक्षणम् इवादिष्टम् । सर्वेण प्रकाशेन वियोगो नास्ति, किन्तु मथुरास्थेनप्रकटेन वियोगः । भवतीषु स्फुरता तत्रस्थेन संयोग इति । तद् अलं पिष्ट-पेषण-सर्ग-कर-चक्र-वर्गस्य घर्घर-शब्द-श्रवणेन इति ।
[१६] अथ ताभिः पुनः पृष्टस् तम् एवाचष्ट—ताभिश् च तत्र स-चमत्कारं विचारितम् । पुनः पुनर् लिखितं खल्व् इदम् अपरापर-सन्धर्भ-गर्भं भवेत् । तृतीयश् चायं सन्धर्भः स्फूर्ति-रूपतां निषिध्य साक्षाद् रूपतां विधत्त इति । ततश् च तन् निश्चयाय विचारम् एवाचरिष्यामः; यतः,
अलङ्कारम् अलङ्कृत्वा यत्र शोभा भवेन् न हि । यो न बुध्येत तत्रापि खलूक्त्वा खलि वाचिकम् ॥११॥ इति ।
[१७] अथ पुनः पृष्टः किञ्चिद् अन्यद् वाचयामास, यतः—
यथा भूतानि भूतेषु खं वाय्व्-अग्निर् जलं मही । तथाहं च मनः-प्राण-भूतेन्द्रिय-गुणाश्रयः ॥ [भा।पु। १०.४७.३०] इति ।
[१८] तत्र प्रथमतः एवं ताभिर् अन्तर् विचारितम्—नूनम् अस्मत्-क्लिष्टता-खण्डनाय स्वस्य सर्वोपादानतया सर्वाश्रयतया च ब्रह्म-ज्ञानम् एवोपदिष्टम् अस्ति, तच् चास्मासु न पर्याप्तम्; यतः,
यद् ब्रह्म-शर्म हृदये सनकादयः स्वे सर्वोर्धम् अप्य् अनुभवन्ति सद् एति सिद्धम् । तस्यारविन्द-नयनस्य पदारविन्द- किञ्जल्क-वयुर् अपि तद् विजितीकरोति ॥१२॥
[१९] अथवा महाकरुणया परमोदार-सारतां गतः कथम् अमृत-मोदकाच्छाद-पूर्वकं गुड-धाना-लड्डुक-दानवत् तत् कुर्यात् । तस्मात् पुनश् च पृच्छाम इति पृष्टे तस्मिन्न् एव तेन च वाचिते तद् इदं ताभिः स्व-हृदि विचारितम्—आम् आं! ब्रह्म-ताप-देशत आत्मन एव साक्षाद् एवात्र स्थितिर् उपदिश्यते । मम स्फूर्तिः खलु मूर्तिर् एव निर्णीयताम्; यतो यथा भूतानि स्व-स्व-कार्याणाम् आश्रय-रूपाणि तेषाम् अन्तः पर्यालोच्यन्ते, तथाहं च भवतीनां मन-आद्याश्रय-रूपः सोऽयम् असित-सुन्दराणां भूपस् तत्र पर्यालोच्येतराम् इति।
[२०] अथ तृतीयं वारम् अपि तद् एवाकर्ण्यातीव निर्णीतम् इति स्थिते पुनः पृष्ठस् तद् इदं निर्वाचयामास, यथा—
आत्मन्य् एवात्मनात्मानं सृजे हन्म्य् अनुपालये । आत्म-मायानुभावेन भूतेन्द्रिय-गुणात्मना ॥ [भा।पु। १०.४७.३०] इति ।
[२१] तत्र प्रथमतस् ताभिर् इदं चेतसि विचारितम्—तद् इदं स्वस्य खल्व् ईश्वरता-ज्ञानम् इव व्यञ्जितं लगति । यत्र स्वस्यैवेश्वरत्वम् अवगमितम्, तद् इदं चास्मच् चेतो-रूक्षणाय निक्षिप्तम् इति गम्यते । भवतु, किं तेन? यतः,
केषाञ्चन ब्रह्म-सुखानुभूतिः केषाञ्चन स्यात् पर-दैवतं सः । महन्-मते तत्र विचार्यमाणे धन्यास् तु ते ये विहरन्ति तेन ॥१३॥ इति ।
[२२] द्वितीय-वारतस् त्व् एवं विविक्तम्—नेदम् ईश्वरता-ज्ञानम्, किन्त्व् ईश्वरवद् आत्मनः शक्तिर् व्यञ्जिता । तथा हि, आत्म-माया खल्व् अत्र तद्-इच्छा-शक्ति-वाचिका । यस्मात् आत्म-माया तद्-इच्छा स्यात्, आत्मेच्छानुगतावात्मा इत्य् आदिकं पण्डिताः पठन्ति । भूतं चात्र नित्य-सिद्धं वस्तु प्रस्तुतं करोति लोक-नाथं महद्-भूतम् इतिवत् । ततश् च नित्य-सिद्धेन्द्रिय-गुण-विग्रहेणात्मना कारणेन तादृग् आत्मन्य् एवाधिकरणे यदृच्छया परमाश्चर्य-कारि-निजेच्छा-शक्ति-प्रभावेण करणेनात्मानं सृजे सृजामीत्यादि योज्यम् । तत्र सेजामीति निज-भक्तान् प्रति प्रकाशयन् नवम् इव मन्य इत्य् अर्थः । हन्मीति ततः स्वयम् एवान्तर्धापयन् हन्त ! हन्मीवेत्य् अर्थः ।
[२३] अनुपालय इति तेषु पुनर् आविर्भावयन् पालितम् एव करोमीत्य् अर्थः । तद् एतच् च तत्र स्थिताव् अप्य् अत्रात्म-स्थिति-ज्ञापनाय व्यज्यते ।2
[२४] अथ तृतीय-वारतस् तु तद् एव निश्चितम् ।
[२५] तद् एवं स्थिते पुनः पद्यानन्तरं त्रिर् वाचयामास, यथा—
आत्मा ज्ञान-मयः शुद्धो व्यतिरिक्तोऽगुणान्वयः । सुषुप्ति-स्वप्न-जाग्रद्भिर् माया-वृत्तिभिर् ईयते ॥ [भा।पु। १०.४७.३१] इति ।
[२६] तत्र च प्रथ्मतस् तासां मनसा विचारश् चायम्—तद् इदं स्वस्माद् बहिर् मुखता-सहितत्वाय पुनर् अस्मासु शुद्ध-जीवता-ज्ञानम् एवादिष्टम्, तद् अपि कृष्णम् एनं वयं विद्मः स्वात्मानम् अखिलात्मानां [भा।पु। १०.१४.५५] इति जीवानां कोटिस् तन्-निर्मञ्छनाय प्रजुञ्जानानाम् अस्माकं नोचितम् इति ।
[२७] द्वितीये त्व् इदं चिन्तितं—न हि न हि । यं खलु श्यामात्मानम् आत्मानम् अत्र प्रकाशयति, तम् एव स्वयं स्तौति, यस्मात् सर्व-विद्या-प्रचुरत्वं दोष-रहितत्वं सर्वातिरिक्तत्वं परम-गुणशालित्वं सर्व-दैवास्मासु समन्वितत्वं च वोध्यते ।
[२८] अथ तृतीयेऽपि तद् एव निर्णीय स्थितासु पुनर्लेखानन्तरं वार-त्रयं वाचितवान्, यथा—
येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्न-वद् उत्थितः । तन् निरुन्ध्याद् इन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥ एतद्-अन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् । त्यागस् तपो दमः सत्यं समुद्रान्ता इवापगाः ॥ [भा।पु। १०.४७.३२-३३]
[२९] अत्र च प्रथमं ताभिर् अन्तरे विचारयामासे—ननु योगाङ्गम् इवेदम् उपदिश्यते; तच् चात्र मनो-निरोध-लक्षणम् । तथा हि—उत्थितः पुमान् यथा मिथ्या-भूतम् एव स्वप्नं ध्यायत्य् एवं वाधितान् अपीन्द्रियार्थान् येन मनसा ध्यायेत्, द्यायंश् च येनेन्द्रियाणि प्रत्य् अपद्यत प्राप, तन् मनो विनिद्रोऽनलसः सन् निरुन्ध्याद् इति । तत् किं स्वस्मन् मनो निरोद्धुम् उपदिष्टम्? इति क्षणं विभाव्य द्वितीये विचारितम्—नहि नहि; यतः,
पुरापि ते ते बहवोऽपि योगिनस् त्वद् अर्पितेहा निज-कर्म-लब्धया । विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरे कृष्ण-गतिं परात्पराम् ॥ [भा।पु। १०.१४.५]
इति तस्यैव हेयत्वं दृश्यते । ततो विरह-भावाद् एव मनो निरोद्धुम् इति मनन-विषयीक्रियते । तद् एवं तृतीये च निश्चित्य स्थितासु तासु तत्-सम्वादितया पुनर् अन्यच् च वार-त्रयं वाचितवान्—
यत् त्व् अहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् । मनसः सन्निकर्षार्थं मद्-अनुध्यान-काम्यया । यथा दूर-चरे प्रेष्ठे मन आविश्य वर्तते । स्त्रीणाञ् च न तथा चेतः सन्निकृष्टेऽक्षि-गोचरे ॥ [भा।पु। १०.४७.३४-३५] इति ।
[३०] अत्र च प्रथमतस् तावद् इदं हृद्य् एव विचारितम्—
[३१] यत् पुनर् अहं भवतीनां दृशां प्रियोऽपि दूरे वर्ते, तत् खलु मद्-अनुध्यान-काम्यया दर्शनासम्भावनान् मम निरन्तर-ध्यानस्यैवेच्छया यो मनसः सन्निकर्ष आवेशस् तद् अर्थम् एव; यतो यथा दूर-चरे इत्य् आदि; अत्र स्त्रीणाञ्चेति पुंसश् च प्रेष्ठास्व् इत्य् अर्थ-लाभान् ममापि भवतीषु तादृशत्वम् इति व्याञ्जितम् । तस्माद् अस्माकं स्वस्मिन् मनस आवेश एव तस्याभीप्सितः, न तु स्वस्मान् निरोधः । तथापि हन्त! हन्त! किम् इदम् उपदिश्यते—क्षणं युग-शतम् इव यासां विनाभवत् [भा।पु। १०.१९.१६] तासाम् अस्माकं तस्मिन् किं मनो नासीत् इति ।
[३२] पुनर् द्वितीये त्व् इदं मनन-विषयीकृतम्—आम् आं मनसः सन्निकर्षार्थम् इति मनसो हेतोर् यः सन्निकर्षश् चक्षुर् गोचरता, तदर्थम् इत्य् एव तात्पर्यार्थः ।
[३३] यतस् तस्यायम् अभिप्रायः—मम खलु द्विधा साक्षात्कारः स्यात् । एकश् चक्षुः-प्रधानतया मनः-प्रवेशः परामृश्यते—यथा जागरणे; परन्तु मनः-प्रधानतया चक्षुर् गोचरता विमृश्यते—यथा स्वप्ने । तत्र तु तत्र स्थितस्य मम पूर्वं पूर्वम् एवासीत्, सम्प्रति तु दूर-स्थितस्य परः । मनः-प्रधानतया स एष च स्वप्न इव भाति, वस्तुतस् तु न स्वप्नः, ममापि तत्र साक्षात्-कृति-स्फूर्तेः । साम्प्रतं त्व् एष एव साम्प्रतं स्फुरति; यस्माद् गुरु-वर्गाल् लज्जां सज्जित्वा प्रकटं दूरम् अटितवतो ममायम् एव युष्माकं सङ्गः सुष्ठु सङ्गोपन-विषयः स्यात्, तस्मान् मया विचार्य कृते भवतीभिर् अत्रैव सन्तोष्टव्यम् इति । ततश् च विरह-भावाद् एव मनो-निरोधः पूर्व-लेखेन सुबोधः।
[३४] अथ तृतीये च तद् एव निशित्य स्थितासु तासु पुनर् अन्यत् पद्य-द्वयं तथा वाचितवान्—
मय्य् आवेश्य मनः कृष्णे विमुक्ताशेष-वृत्ति यत् । अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ ॥ या मया क्रीडता रात्र्या वनेऽस्मिन् व्रज आस्थिताः । अलब्ध-रासाः कल्याण्यो माप्र् मद्-वीर्य-चिन्तया ॥ [भा।पु। १०.४७.३६-३७] इति ।
[३५] अत्र च ताभिर् अप्र्काशं विचारितम्—अस्माभिर् यत् पूर्वं पर्यायतः पर्यवसायितम्, तद् अत्र प्रथमत एव केवलं स्वाभिमतम् उपलब्धम् । तथा हि— कृष्ण इत्य् उपक्रान्तं विशेषणम् उपलक्षणतया पर-परत्रापि सङ्क्रान्तं कार्यम् ।
[३६] ततश् चायम् अर्थः—यद् यस्मात् पूर्व-हेतोः कृष्णे क्र्ष्ण-नामाकार-विशेषतया प्रसिद्धेन पुनर् इतर-नामाकारतया विप्रतिषिद्धे मयि विमुक्त-विरहाशेष-भावनं मनः स्वयम् आवेश्य विनिवेश्य मां कृष्ण-नामाकारं नित्यं नित्यताशालि-युष्मद्-अनुसारि-विहारम् अनुस्मरन्त्यः स्मरणाद् अपरिहरन्त्यस् तं कृष्ण-नामाकारं माम् अचिरान् निज-निकट-विराजमानतया प्राप्स्यथ । अथ तद् इदम् उदाहरण-द्वारा स्फूर्ति-धाराम् आनयति—या मया इति । याः काश्चन शुश्रूषन्त्यः पतीन् काश्चित् [भा।पु। १०.२९.६] इत्य् अत्र पति-शुश्रूषणेन युष्मद्-अन्यतया विपश्चिद्भिर् निश्चिताः, पतिभिर् निरुद्धतया व्रज एव स्थिता इति वनेऽस्मिन् सम्प्रत्य् अपि निगूढं तत्र स्थितस्य मम कृष्ण-नामाकारस्य प्रत्यक्ष-विषये वृन्दावन-रूपतया लब्धातिशये वने पूर्वं क्रीडता मया कृष्ण-नामाकारेण सह प्रकाशं रासम् अलब्धा मम कृष्ण-नामाकारस्य वलवत्तर-लीला-चिन्तया मां कृष्ण-नामाकारम् अप्रकाशम् अपि धृत-विहार-पारावारम् आपुरिति ।
[३७] अत्रास्मदः पदानां मयि इत्य् आदि-निगदानाङ्कृष्ण-पद-विशेषणतास्पदानां प्रतिपाद्यं त्रिस् त्रिर् आवृत्या प्रतिपद्यमानानां परिवृडीभवनं तम् एवार्थं दृढीकरोतीतीति गम्यते । हे कल्याण्यः इत्य् अनेन साधक-चरताभासां तासाम् इव न षाष्वत-प्रेयसी-रूपतया श्वः-ष्रेयसवतीनां भवतीनां मयापत्य् आदि –परिहार-पुरःसर-मद्-एक-पतिता-प्रकाशे शरीर-परीहार-विडम्बनं सम्भवतीति च ताभिस् तद्-उपदेश-प्रभावाद् अवगत्य निर्णीतम् ।
[३८] तद् एतावत् कथयित्वा कथकश् चिन्तयामास—
देहादीनां विगानेऽप्य् अधिगति-गमिते तेषु राग-प्रकर्षस् तत् प्रावृण्वन् जगत्यां समुदयति मुहुर् यद्वद् उच्चैर् जनस्य । तद्वद् गोष्ठे बकारेर् अपि समधिगते वैभवे तत्र तस्मान्न् आभद्रं नापि भद्रं गणयति सहजः सोऽयम् अन्तर्-विरोधि ॥१४॥
[३९] अथ स्पष्टम् आचष्ट—[४०] तद् एवं निर्णीय नित्यम् अन्तः कृष्ण-संयोगम् उन्नीय तम् उद्धवं प्रति सम्प्रीय च सुप्रलापम् उपक्रममाणा मुहूर्त-द्वयं मूर्त-परमानन्द-रूपास् तेन सूपास्यतमा वभूवुः । हन्त! हन्त! तद् अनन्तरं तु क्रमशःपुनर् बहिर् दृष्टिं सङ्क्रममाणा विलापम् एव पर्यवसाययामासुः । तथा हि —
सुखं वा दुःखं वा स्वम् अनु गणयामो न हि वयं सदा तद्-ध्रुक्-कंसस्य तु मरणम् औष्माजनि च तत् । अथो पृच्छामस् त्वां निज-यदु-गणैर् आवृततया विपक्षान् आघ्रातः स निवसति किं माथुर-पुरे ॥१५॥ स्व-साम्यात् तृट्-कष्टं परगम् अपि विद्मस् तत इदं विपृच्छामस् तत् किं क्षपयति हरिः पौर-सुदृशां ? यद् अस्माकं स प्राग् अकृत हसित-स्निग्ध-नयना- म्बुज-प्रान्तेनाद्याप्य् अहह नववद् यद् विलसति ॥१६॥ भवेन् नारी-जाते रुचिर् उचित-कान्ते सुमधुरा हरौ चेद् एषा स्याद् अमृतम् अपि निन्द्यं वितनुते । तद् एवं ब्रूमस् त्वां शृणु रुचि-विशेष्ज्ञ-हृदयः कथं तासु स्नेहं स किल न विधत्तां प्रतिपदम् ॥१७॥ लभन्तां नागर्यः सुख-मघ-रिपोर् एष च ततः प्रमोदस् तस्मिन् नः समजनि हि योग्या मिथुनता । परन्त्व् एकः प्रश्नश् चपलयति चित्तं कथय नः स किं ग्रामीणानां विरचयति व्र्त्तं क्वचन च ॥१८॥ अमू रात्रीः किं स स्मरति कुमुदेन्द्व् आदि-रुचिभिः शुभा वृन्दारण्ये दयित-चर-नारीभिर् अभितः । सुगीतात्म-श्लोकं क्वणित-विलसन्-नूपुर-गणं महारासं कुर्वन् नरम् अत मुहुर् यासु कुतुकी ॥१९॥ किम् एष्यत्य् अस्मांस् तद्-विरह-शुचि-घर्मांशु-विदुताः पुनः सेक्तुं शौरिः सद् अमृत-वपुः स्वं प्रकटयन् । अहो तद्-दूरे तत् तुलित-कृतकाङ्गैर् अपि कदा स नः सिञ्चेन् मेघैर् इव मृदुल-वन्याः सुर-पतिः ॥२०॥ इह स्वाम्यं ग्राम्यं नृप-पद-मलं तत्र पशुपा जना अस्मिंस् तस्मिन् नर-पति-सुताः प्राण-सुहृदः । इतो गोपी-पाशाः स्मर-पर-वशाः सम्प्रति ततः क्षिति-क्षित्-कन्याः स्वं वरितु-मनसश् चैतु स कथम् ॥२१॥ अये मुग्धे यस्योरसि वसति सा वारिधि-सुता भवेयुस् तस्मिन् का वन-नगर-दिव्या वर-दृशः । ब्रवीषि त्वं तद् अभिलषिते सङ्कुचत भो यद् आशा स्वैरिण्याप्य् अलम् अवमता पिङ्गलिकया ॥२२॥ चिराद् आशां त्यक्तुं यद् अपि वयम् ऐच्छाम तद् अपि स्वयं सा वेवेष्टि प्रतिपदम् उदग्र-स्थितितया । हरिर् वारीशत्वं व्रजति वत पाशत्वम् अपि सा यद् अस्मिंस् तत् कस्माद् इति किम् अपि जानीम हि न हि ॥२३॥ सुरूपं तारुण्यं विलसितम् अपि प्रेक्ष्य न परं तद् आशां कुर्मः किं त्व् अपरम् अपि हेतुं निशमय । रहो नर्माद्यं यत् कलयति स यद् वा स-शपथं महा-प्रेम-व्यक्तिं हृदि वसति तत् तन् मुहुर् अपि ॥२४॥ रमा यस्यानिच्छोर् अपि न हि जहाति प्रति-पदं तनूम् इत्थं लोकाद् इति ह भुवनेषु प्रसरति । स एवायं यासु स्वयम् अहह सम्बिद्-विधि-शतं तनोति स्वैरं ता वयम् इह जहीमः कथम् अमुम् ॥२५॥ अहो तन्-माधुर्यं यद् अभिलषिताच् छ्रीर् अपि न तम् मनाक् त्यक्तुं शक्ता यद् अपि तद्-अनिच्छा-बलयिता । अये तस्यानिच्छा परम-स-बलापि प्रयतनान् न तां दूरीकुर्यात् तद् उभयम् इदं दुर्गमतमम् ॥२६॥ रमायां यान् इच्छा मुनिभिर् उदिता सात्वत-पतेर् भवेद् दम्भाद् एषा नियतम् इति बुद्धं बुध-वरैः । अथेयं चेत् तथ्या सपदि न कथं वा व्रज-मृगी- दृगालीवत् क्षिप्ता भवति सखि सा तल्-लवम् अनु ॥२७॥ सरिच् छैलारण्य-स्थल-सुरभि-वेणु-ध्वनि-चयाः समं रामेण प्राग् व्रज-पति-सुतेनानुचरिताः । दिदृक्षाम् अस्माकं विदधति बलात् तस्य सहसा विशेषाच् छ्रीमत्-तत्-पद-विततिर् अस्मान् दलयति ॥२८॥ उदार-श्री-लीला-गति-हसित-विक्षा-निगदितैर् हृता धीर् अस्माकं दनुज-रिपुणा या चिरतरम् । अभूत् तस्यास् तत्र स्थितिर् अपुनर्-आवृत्ति-वलिता कया युक्त्या तस्य प्रथय भविता विस्मृति-लवः ॥२९॥ अये नाथ श्रीमन् जल-निधि-सुता-नाथ दयित व्रजाधीश स्वानुव्रत-पशुप-वंश-क्लम-हर । वयं नार्ता जाताः स्वम् अनु परम् एतद् व्रज-कुलं स्व-गोविन्द-ख्यातिं त्वम् अवितुम् अव क्लेश-जलधेः ॥३०॥
[४१] तद् एवं पुनर् अपि ताः स्वभाव-ज-भावनाम् अनुवर्तमाना निरीक्ष्य प्र्भोर् एव शिक्षया तन् एव वाचित-लेखान् स वाचयामास । वाचितेषु च तेषु महामन्त्रेष्व् इव प्रभावतः स्वतन्त्रेषु ताः पुनः सान्त्वनम् आसादितवत्यः । सान्त्विताश् च ताः कृष्ण्म् आत्मानं च यथा तद् उपदेशम् अनुभूय दूयमानता-रहितास् तम् उद्धवं सभाजयामासुः ।
[४२] तद् एवं तासाम् अभ्यास-योगाय रोगापहर्तृवत् तद्-अभ्यासम् अनुदिनं प्रातः प्रातर् अनुगच्छन् व्रजम् अनु मास-कतिपयम् उवास, नित्य-नित्यम् उदयन् महा-भक्ति-वितानः स्तुवन्न् अमूर् ननाम च । यथा—
एता धर्मग-लोक-सेतु-बलितास् तत्-त्याग-पूर्वा हरिं सर्वात्मानम् उपेत्य काण्ड-युगल-श्रुत्यर्थ-पारं गताः । सर्वांशेन ततश् च मद्-विध-नुति-स्तोमास्पदानीत्य् अतस् तत्रासु व्यभिचार-दोष-बलका ये हन्त ते नारकाः ॥३१॥ सत्यं वृष्णि-पतेः प्रकाश-समये सर्वेऽत्र साम्यं गतास् ते मुक्तीच्छु-विमुक्त-भक्त-निचयास् तद्-भक्ति-तृष्णान्विताः । किन्त्व् एताः परम् अस्मद् अद्भुतकरं प्रेम श्रिता गोपिका वार्तां यस्य विना वृथा भवति तद् ब्रह्मात्मना जन्म च ॥३२॥ वृन्दारण्य-विहार-हारि-चरिताः क्वेमा हरेः सत्-प्रियास् तत्रान्ये व्यभिचार-चारि-मनसः स्त्री-पुंस-लोकाः क्व च । आसाम् ईदृश-भावएव हि भिदा हेतुस् तद् एवं स्थिते पुष्णात्य् अज्ञ-जनान् अपि स्व-भजनाद् एताः कथं स त्यजेत् ?३३॥ आसां श्रीर् अपि सा विभर्ति न तुलां यद् वाञ्छयासीत् तपश्- चारिण्य् एव चिराय नाप किल यं सोऽयं व्रजेन्द्रात्मजः । याः स्वेनाग्रह-पूर्वकं भुज-युगेनाबेष्टिता नोज्झितुं वाञ्छाम् आञ्चद् अभीक्ष्नम् अत्र सति काः स्वर्गादि-वर्ग्याः स्त्रियः ?३४॥ तस्माच् छ्री-मुख-सर्व-यौवत-जयाद् एता महा-श्रीतया श्री-वृन्दावन-नाथ-नित्य-दयिता भान्तीति लब्धे सति । एतद् यत् पुनर् औपपत्य् अचरितं तन्-मायया सम्भवेद् आसां प्रेम-निरर्गलत्व-कलना-कौतूहलंयत् फलम् ॥३५॥ या धर्मान्वित-लोक-वृन्द-चरिताः कृष्णं भजन्ते स्त्रियस् तासां वर्त्म विभाति तत्र सुगमं कीर्तिश् च लब्ध-स्पृहा । तत् तत् सर्वम् अपि स्व-जातिम् अहिता यास् तत्यजुस् तत्-कृते तासाम् अङ्घ्रि-रजःसु हन्त भवताद् आसां सदा मज्-जनिः ॥३६॥ चेतस्य् एव हि यत्-पदाब्ज-युगलं योगेश्वरैर् अब्ज-ज- श्रेयस्कै रमया च पूजितम् अनाद्य् एवानु तत् तत्-स्पृहम् । यास् तत्-पर्यटन-श्रमापनयनं कर्तुं स्तनैर् लालितं कुर्वत्यः सुकुमारम् एतद् इति भीगीर्णा मनाक् पस्पृशुः ॥३७॥ आसाम् अस्तु कथा हरेर् मुदि मुदा-शान्ति-स्पृशां याः परास् तत्-सम्बन्ध-भृतस् तद् अङ्घ्रि-रजसां वृन्दानि वन्दामहे । यासां कृष्ण-कथानुगानम् अपि तद् विश्वस्यगानं भवल् लोकांस् त्रीन् अपि तान् सहाधिपतिकान् पूतान् विधत्ते सदा ॥३८॥ युग्मकम् ॥
[४३] अथ मधुकण्ठः समापयन्न् उवाच—
सोऽयं नित्यम् अभिष्टुवन्न् अपि तदा सामान्यतस् ता वचस्य् आनिन्ये हृदि राधिकाम् अधिकताम् इत्य् एव मन्यामहे । यासां तं भ्रमरं भ्रम-स्पृश-महा-भाव-श्रिया चित्र-गीर् दूतीकृत्य तद् अद्भुत-स्मृति-चिते वाक्-स्तम्भम् अत्रास्यति ॥३९॥ श्री-रासां न तुलां विभर्ति नितराम् इत्य् उल्लपन्न् उद्धवो यासाम् अङ्घ्रि-रजो नमाम हरिणा यः स्वेन तुल्यो मतः । तासां तत्-प्रियता-सुधाकर-तनुर् या तां चकोरायित- श्री-कृष्णेन युतां समस्त-महितां वन्दामहे राधिकाम् ॥४०॥
[४४] अथ निवेदयामास च—
प्रेमोन्मादज-कृच्छ्रम् एतद् उदितं ते यत् प्रिये शृण्वति क्षान्तिं तत्र कुरुष्व देवि करुणा-कल्लोलिनि श्री-तमे । प्रायः कक्खट-धृष्टधीः कविजनः स्याद् येन नान्यस्य स ह्री-दुःखाद्यम् अवैति किन्तु कवते व्यञ्जन् निजां चातुरीम् ॥४१॥ दृष्टं हन्त मदीय-वर्णनम् अनु त्वं राधिके त्वत्-प्रियः सोऽयं च प्रतिवाचम् उन्मद-दशां ताम् एव चित्तेऽपिपः । किन्तु प्रेक्ष्य परस्परं मुहुर् अमू दिव्यौषधी-सेवन- प्राशस्त्याद् इव सान्त्विताव् अथ युवां धैर्यं धिया पप्रथुः ॥४२॥
[४५] तद् एवं पर्यवसाने तौ च तदीय-सुहृदश् च सन्तोष्य तत्-प्रसाद-पोष्यमाण-स्वात्मतया कथकौ निजावासम् आसादयतः स्म; श्री-राध माधवौ च यथा योग्यं सर्वान्न् अननुज्ञाप्य मोहन-मन्दिरं प्रविश्य सुख-सन्दोहम् आविविशतुः ।
[४६] अथ प्रातः-कथायां श्री-व्रज-युवराज-विराजमान-व्रज-राज-सदसि लब्ध-प्रथायां स्निग्धकण्ठ उवाच—[४७] तद् एवं मास-कतिपयम् उद्धवे व्रजम् आवसति—
कृष्णस्योद्धवकेन माथुर-कथा गीताथ या वल्लवैः सार्धं तेन समं च तैर् व्रज-कथा या तत्र तत्रापि च । साक्षात्कारम् इवाश्रयन् मुहुर् असौ तत् तद्-विहार-क्रमात् तान् मासान् परितः सुखाय चकॢपे तस्यापि तेषाम् अपि ॥४३॥ या या स्फूर्तिर् अभूत् तदा व्रज-जने कृष्णस्य ताम् उद्धवः साक्षात्कारतया न्यबोधयद् असौ तल्-लक्षणं दर्शयन् तेषां यर् हि तु तत्र निशिचितिर् इवासीत् तर्हि स प्रस्थितौ कुर्वंश् चित्तम् अमून् मिलद् विनयम् अन्व् अज्ञापयद् भागशः ॥४४॥
[४७] अथ यः कश्चिन् निशीथ-कथनीयः कथांशः श्री-राधा-सदसि कथकेन कथितः, सोऽप्य् अत्र दिन-कथायाम् एव ग्रन्थ-क्रमाय ग्रथनीयः ।
[४८] यथाह स्निग्धकण्ठः—तत्र च तत् तद्-अनुज्ञापन-क्रमं कृष्ण-प्रेम-क्रमत एव सम्मतवान् । यथाह श्री-शुकः,
अथ गोपीर् अनुज्ञाप्य यशोदां नन्दम् एव च । गोपान् आमन्त्र्य दाशार्हो यास्यान्न् आरुरुहे रथम् ॥ [भा।पु। १०.४७.६४] इति । सानुज्ञापन-रीतिर् उद्धव-कृता तत्-तद्-विनीतिः स्तृता सानुज्ञा च हरि-प्रियादि-रचिता तत् तद्-विकारावृता । हा हा नः स्मृतिम् आगता लवम् अपि प्राणान् विचूर्णीयितांस् तूर्णीभूय करोति तत्र कविता तस्मान् न पूर्णीकृता ॥४५॥
[५०] तथापि श्री-राधायाः स-विनय-निदेशं तु किञ्चिद् उद्देशं नयामि—
यथा मां सहसा-वादीस् तथा त्वं मा तम् उद्धव । अहं वज्र-मयी शश्वन् नवनीत-मयः स तु ॥४६॥ किन्तु स्नेह-त्याग-शिक्षां तं वद प्रान्त-कक्षया । क्रमेण हि बहिः कार्या जीर्ण-वस्त्रार्द्रता बुध ॥४७॥ इति ।
[५१] तद् एवं प्रोच्य किम् अप्य् अनुशोच्य मुद्रित-पत्रिकाम् एतत्-सन्देश-वागमत्रिकाम् उद्धव-हस्त-विन्यस्तां विहस्त-हस्तापि चकार—
व्रज-शशधर ता व्रज-गस् त्याज्या न कलङ्क-शङ्कया भवता । न शशी कलङ्क-तनुम् अप्य् उज्झति शशकं स्वम् आश्रितं जातु ॥४८॥ इति ।
[५२] तद् अनेनालम् अतिविस्तरेण मति-दुस्तरेण ।
[५३] अथ दिवस-कथा । रथारोहात् पूर्वं तु स्व-स्व-पाणिभिर् एव नानोपायनम् आनीय श्रीमन् नन्दादयस् तु निवेदयितुं विचारयामासुः—अयं खल्व् अस्मान् बन्धु-भावमय-तद्-विरह-क्लम-विरमणाय तम् ईश्वरतया समुपदिश्य तत्रोदासीनान् कुर्वन् बहुधा बोधितवान् । अथ तद् अङ्गीकृत्यापि निजाभिमतम् उत्तर्यिष्यामः इति ।
[५४] तद् एवं विमृश्य दृश्यमान-बाष्पं वदन्ति स्म—
अथ कृष्णः स्वयम् ईशस् तद् अपि च नस् तत्र वृत्तयः सर्वाः । भूयासुर् न तस्मिन्न् औदासीन्यं भजन्तु कुत्रापि ॥४९॥ कर्मभिर् उच्चैर् भ्रमताम् ईश्वर-वाञ्छा-वशाद् इहामुत्र । ईशे कृष्णाकारे रतिर् अथ नः सर्वदा भवतु ॥५०॥ अन्येषाम् उपदेष्टृषु गुरुतारोप्येत कर्मणा तेन । उद्धव तव गुरुम् अनु सा सिद्धा तत् त्वयि किम् अस्ति विज्ञाप्यम् ॥५१॥
इति वस्त्रेण मुखम् आस्तिर्य क्सणं रुरुदुः । रुदित्वा च मनसि धीरताम् ईरयमाणास् तं दूराद् अनुव्रज्य परिष्वज्य च परस्परम् आसज्जमाना लघु लघु निववृतिरे ।
[५५] अथ मधुरायां श्री-कृष्णस् तद्-वार्तायां धृत-तृष्ञ्तया वासर-पक्ष-मासान् क्रम-गणनया गणयन् दिनं दिनं व्रज-विलोकनया मनोरथ-पालिकाम् अत्य् उन्नत-चन्द्र-शलिकां विन्दमानस् तद्-वर्त्मनि दृष्टिम् अस्यन्न् अकस्मात् तम् आगतं पश्यन्न् उच्चैर् औत्सुक्य-वश्यताम् अवाप । ततश् च तं दूरम् अनुवृत्य सर्वम् एव गोकुलं साक्षाद् अयम् इति मनसिकृत्यमुहुर् आलिङ्गनादिभिर् आदृत्य निभृत-स्थानम् आनिनाय । आनीय च प्रथमतस् तस्य मुख-प्रसादं दृष्ट्वा तद् अनन्तरम् एव कुशल-मात्रं पृष्ट्वा वर्त्म-श्रमं मृष्ट्वा च पप्रच्छ; यथा—
गुरूंस् तातं मित्राण्य् अनुगत-जनान् गो-समुदायांस् तदापृच्छत् कृष्णः स-दयम् अपृथक् तं पृथग् अपि । प्रसू-प्रश्ने नासीत् पटुर् इह यतः कण्ठ-विवरं मुहुः कुण्ठं कुर्वन्न् उदयति दृग्-अम्भः-समुदयः ॥५२॥ इति ।
[५६] ततश् च सम्भ्रमाद् उद्धवस् तत्-तत्-कुशल-क्लाप-सम्वलनया तस्याधीरतां संस्तभ्य प्रथम-दिन-वृत्तम् आरभ्य सर्वम् एव यद्-यद्-वृत्त-महोभिर् बहुभिर् एव व्याहरिष्यते, तद् एव प्रथमं सङ्क्षेपेण निचिक्षेप; अन्ते पुनर् इदम् उक्तवान्—
अर्धं भवत्-प्रभावेण मया तत्र समाहितम् । भवत्-प्रयाण-पर्यन्तम् अर्धं पर्यवसीयते ॥५३॥
किन्तु,
अस्माकं किल निर्णयं समभवत् पूर्वं यद् एषा भवद्- भक्तिः स्याद् व्यवहार-वर्त्म-रहिता यावत् परं तावती । दृष्टं गोष्ठ-निवासिनाम् अपि तु सा पुत्रादि-भावात् त्वयि प्रेमोत्कर्ष-विचित्रताखिल-भवद्-भक्ता परिभ्राजते ॥५४॥
[५७] तद् एवं कथकः प्रथयित्वा रात्रौ कथनीयम् इति तद् अनन्तरं तद्-वाग्-वारं मनसि कृतवान्, यथा—
त्वयि सुतताद्य् अभिमानस् तेषां तस्मिन् समस्त-जेतास्ति । तद् अपि न चित्रं तासाम् उपपति-भानं तम् अप्य् अजैषीद् धि ॥५५॥
यत्र च—
यन् मद्-दर्शन-मात्रतः प्रलपितं त्वत्-प्रेयसीनां किमप्य् एकस्या यद् इतस्तवासु मयका यद्-वाचिकं चार्पितम् । तस्मिन् प्रत्ययम् अत्ययं च परितस् तासां यद् उद्घूर्णितं तन् मां हन्त वदन्तम् उग्र-मनसं रुन्धे तव व्यग्र्ता ॥५६॥ इति ।
[५८] स्पष्टं चाचष्ट—तद् एवं बहुविध-सम्वादम् आचर्य स भक्त-वर्यस् तेषां प्रेमायनान्य् उपायनानि दर्शयामास । तत्र तु—
मत्रा भोज्यादि पित्रा भरणम् अथ सुहृद्भिस् तु सद्-वस्तु वन्यं काभिश् चित्तार-हारादिकम् अपर-जनैर् अप्य् अनन्तं विसृष्टम् । तत् तच्-चिह्नेन कृष्णः परिचितम् अकरोत् किन्तु बाष्पाम्बु-पाताद् भीतस् तत् तद् विदूरार्पित-नयनतया वस्तु तत् तद् ददर्श ॥५७॥
[५९] अत्र काभिश् चिद् इत्य् अत्र कान्ताभिर् इति रात्रौ पठितव्यम् इति मनसि विभाव्य कथकः कथयामास—
यानि चानक-दुन्दुभ्यादिभ्यो यानि च भूभृते । व्रजेश-प्रहितान्य् आसंस् तानि तत्रार्पयत् प्रभुः ॥५८॥
[६०] रोहिणी-सङ्कर्षणाभ्यां तस्य तेन मेलनं तु पूर्ववद् उन्नेयम् ।
[६१] यत्र सहित-व्रज-महीपति-तन्-महिला-प्रहितम् अहित-द्रव्याणि स-व्यामोहं विलोक्य प्रवण-चित्ततया ताव् अमू द्रवद् अन्तराव् आस्ताम् आस्तां तावत् तत् तद्-विशेष-वार्ता इति ।
[६२] अथ स्निग्धकण्ठः कथां समापयन्न् आह स्म—
जाग्रद् व्यग्रतया सदा व्रज-कृते यः प्रापयन्न् उद्धवं युष्मान् स्वस्थ-निभांश् चकार भवतां सङ्गाय चान्यं कृतिम् । सोऽयं सम्प्रति गोष्ठ्-देव भवतः क्रोडे विराजत् तनुः सर्वं मातृ-मुखं जनं प्रमदयन्न् अस्मान् मुदा सिञ्चति ॥५९॥
[६३] तद् एवं सर्वान् आनन्द्य वन्द्यर्चितौ तौ वासम् आसन् नौ । रात्राव् अपि श्री-राधा-माधव-सदसि पूर्व-सूचनाम् अयं सर्वम् अन्यद् अन्यद् अपि कथयामासतुः ।
[६४] समापन्ं तु यथा—
उद्धवम् अनु तव नाम स्थाने प्रास्तौन् न शङ्कया दयितः । तद्-वृत्ताद् अधुना तद्- धृदि मुग्धा किं दधासि तां त्वम् इह ॥६०॥
[६५] तद्-अनन्तरम् अनन्त-रस-रभस-भर-वशतया शत-राग-मणि-सुवर्ण-वर्णयोर् अनयोर् अनयोर् इव विलसितं विलसितम् एव जातम् इति ।
श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
उद्धव-स्फुरद्-उद्धवं नाम
द्वादश-पूरणम्
॥१२॥
पूर्णोऽयम् अप्य् उद्धव-पूर्ण-व्रज-नामा
प्रथमो विलासः
॥१॥
—ओ)०(ओ—
(१३)
अथ त्रयोदशं पूरणम्
जरासन्ध-बन्धनम्
श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त-व्रज-वल्ल्भ पाहि माम् ॥१॥
[१] तद् एवम् उद्धवेन व्रज-मनोरथं पूरयित्वा श्री-बलदेवेन तं पूरयितुम् आरभामहे ।
[२] तत्र शास्त्र-प्रमाणेन कथयिष्यमाणेन पुनर् जीव-लाभेन दन्तवक्र-वधानन्तर-श्री-कृष्ण-लाभेन पूर्ण-मनोरथ-व्रजे सन्-मानस-समुन्मादि-श्री-कृष्ण-जन्मादि-कथन-मयी सेयं चम्पू-द्वयी मधुकण्ठ-स्निग्धकण्ठाभ्यां कथितेति पूर्व-पूर्वं सूचितम् एव सूचितम् । तत्रैव चावशिष्टं कथान्तरम् इदं विशिष्टं प्रस्तूयते ।
[३] अथान्येद्युः प्रातः-कथायां लब्ध-तृष्ण-कृष्ण-पित्राद्युपकण्ठः सन् मधुकण्ठश् चिन्तयामास—सैरिन्ध्री-गृह-गमनम् अनन्तरम् अनन्त-लीलस्य तस्य कथनाय लब्धम्, तच् च व्रजाद् आव्रजितेनोद्धवेन तत्-सान्त्वन-कथनया स्व-स्थित-चित्तस्य तस्य पूतनादिष्व् अपि नित्य-नूतनायमान-कृपया वित्तस्य नानुचितम् । तद् एतच् च तस्य व्रज-गमन-सम्पत्-सम्पादनाय सदा समुत्सुक-बुद्धीनाम् उद्धवादीनाम् अपि सान्त्वनाय प्रतिपन्नम् ।
[४] तथा हि श्री-वादरायणिना काम-निर्बन्धितया सैरिन्ध्र्याः प्रीतिर् नीरन्ध्रतया न श्लाघिता; श्री-व्रज-देवीनाम् अतिमात्र्ता-पात्र-प्रीति-स्तुतिस् तु तदादिभिर् उपर्य् उपर्य् उच्चैर् एव द्राघिता । ततस् तस्या अपि सोऽयम् अङ्गीकारः खलु सर्व-सङ्गीत-महाभावानां तासां तद् अनुभावं सुतरां व्यङ्गीकरोति । तद् अपि तत्-कथनम् अत्र सदसि तत्र च न प्रथनीयम्, उभयत्र लज्जा-सज्जनात् इति ।
[५] तद् एतन् मनसि विभाव्य स्पष्टम् आचष्ट—तद् एवम् उद्धवः श्रीमद्-व्रज-वर्तिनः पिपर्ति स्म ।
[६] अथ तत्र मथुरां गते निरन्तर-कृष्ण-वृत्ताण्त-श्रवणे चाभिमते परमादृत्या परिवृत्या द्वन्द्वीभूतौ सूत-मागध-वन्दिभूतौ दूतौ युक्तौ युक्तौ विज्ञाय श्री-व्रजराजेन नियुक्तौ ।
[७] यद् उद्धव-द्वारा श्रीमतः कृष्णस्य मिलनं रहः कर्तव्यम्, तत एवाकलय्य वृत्तं चानेतव्यम् । स ह्य् अन्तः-सर्वज्ञ इत्य् अस्माभिर् विज्ञातम् अस्ति, सर्व-सर्वज्ञ-सङ्घ-सङ्गतिश् च तस्मिन् सम्प्रत्य् अस्तीति ।
[८] तत्र प्रथम-दूताभ्यां तावद् गत्वागत्य च तत्रत्यं सर्वम् अनु मङ्गल-स्थापनम् अक्रूरस्य च पाण्डवेषु प्रस्थापनं प्रस्तुतम् । सोऽयं स्वस्ति-मुखश् च व्रज-क्षिति-पतेर् अभिमुखम् आनीतः । यथा—
त्वल्-लाल्यत्वातिलौल्याच् छिशु-वयसि मया यस्य गोवर्धनाद्रेः
पूजा विख्यापितासीद् अथ स च कृपया तत्र साहय्यम् आप ।
एष श्रीमान् सदा नः सुख-कुल-वलनः सर्वकेषां च तस्मात्
तात स्वेनैव पूज्यः प्रतिसमम् अपि मे यावद् अप्य् आगतिः स्यात् ॥२॥ इति ।
[९] यदा तु द्वितीय-दूतौ तत्र गतौ, तदा गत-मात्रयोः सङ्कलितानेक-राज-कटक-प्रवन्धेन जरासन्धेन मथुरा धाटीभिर् विघटिताटीकृतेति झटित्य् आगमनं न बभूव ।
[१०] ततश् च, लब्ध-तद्-भय-व्रजे व्रजे दूरं गत्वा स्थिते चिन्तया दुःस्थिते च चिराद् एव ताव् आगतौ । आगतौ च तौ भयेनापृच्छत्सु विचिकित्सया स्व-मुख-मात्रं पश्यत्सु व्रज-सुहृत्सु कुशलं कुशलं कुशलम् इति वार-त्रयं ऊचतुः । ततश् च तौ पुरस्कृत्य परिवृत्य स-भृत्य-बान्धवः श्री-व्रज-पृथिवी-धवः पप्रच्छ—कथयतं प्रथमं समासतः, पश्चात् तु व्यासतः, शृणवाम ।
[११] दूताव् ऊचतुः—भवत्-पुत्राभ्यां निहत-सर्व-सैन्यः संहत-दैन्यः प्राप्त-बन्धः स जरासन्धः सुष्ठु घृणया त्यक्तस् त्रपाभिर् अव्यक्तः स्व-गृहम् एव वव्राज ।
[१२] ततश् च व्रज-वासिनां हरिं वद, हरिं वद इति वहल-कोलाहल-जाते जाते व्रजराजः स-पुलकास्रम् आललाप—अनवशेषतः कथ्यतां विशेषः ।
[१३] दूताव् ऊचतुः—अस्ति-प्राप्ति-नाम्नी जरासुत-सुता-द्वयी किल कंसस्य भार्या-वर्यासीत् । सा सम्प्रति पति-पात-प्रतप्ता वप्तारम् अवाप्ता ।
[१४] व्रजराज उवाच—कथं कथं ते गते, यत्र विश्वस् ते अपि न विश्वस् ते जाते ?
[१५] दूतौ विहस्य वर्णयामासतुः—
एकैक-म्लान-वस्त्रा स्खलित-कच-कुचा म्लान-वक्त्रातिजीर्ण-
प्रावारास्तीर्ण-याना निरृइतिर् इवनिरै पत्तनान्तान् मधूनाम् ।
हासं हासं सकाशं प्रतिगत-पथिकैः पृष्ट-दृष्टातिधृष्टैः
कंसस्याकीर्ति-तुल्या पितृ-सदनम् अगात् प्राप्तिर् अस्तिश् च तर्हि ॥३॥
[१६] व्रजराज उवाच—भवतु नाम जालिके ते कालिके इव कुपिते पितरं गत्वा किं विलपतः स्म ?
[१७] दूताव् ऊचतुः—स्वं छत्र-भङ्गम् एव प्रसङ्ग-सङ्गतं चक्रतुः । तच् च श्री-राम-कञ्ज-लोचनयोर् असमञ्जसता-व्यञ्जनया ।
[१८] व्रजराज उवाच—कथम् इव?
[१९] दूताव् ऊचतुः—तद् इत्थं हि ते निजगदतुः । कौतुकन्निर्मात्रा भवज्-जामात्रा ताव् आनीतौ । तौ तु रङ्ग-कार-मारणम् असङ्गर-धनुर्-भन्गं राज-द्वार-स-नीड-क्रीडत्-कुवलयापीड-पीडनम् अपि प्रथमं प्रथयामासतुः ।
[२०] तथापि मल्ल-प्रतिमल्लतया स्व-मल्ल-पाल्या तयोर् मल्ल-लीला-कुतूहलं पश्यन् स भोज-राजश् चिराद् विराजते स्म ।
[२१] तौ तु तत्राविहितं तद्-वधं विहितवन्तौ । तदाप्य् आस्ताम् असावधानं राजानम् अपि हतवन्तौ । अहो वत! दग्ध-वक्त्रेण किं व्यक्तीकरवाम? तद् अनन्तरम् अपि केशाकर्षण-पूर्वं यत् तस्य कर्षणम् इति ।
[२२] व्रजराज उवाच—ततस् ततः?
[२३] ताव् ऊचतुः—तत्-पिता पुनर् अक्षमया क्षमां यादव-सङ्गाक्षमां विधातुं यमवद् उद्यमं विधाय स्व-जय-रक्षौहिनीभिर् अक्षौहिणीभिस् त्रयोविंशति-सङ्ख्या-लक्षिताभिः परितो रक्षिताभिर् मधुरिम-मधुरां मथुराम् आवृतवान् । किं बहुना? यत्र भीष्म-पाण्डवान् विना हिमवद् विन्ध्य-सिन्ध्यन्त-विराजमानान्य् अन्य-देश्यानि च राजकानि राजन्यकानि च निज-लोहाभिहार-कर्माण्य् आजह्रुः ।
[२४] व्रजराजः स-भयम् उवाच—ततस् ततः?
[२५] ताव् ऊचतुः—ततश् च सर्वे यादवाः स-भयतया दवाकुला इव तं भवत्-कुल-तपस्या-फलावस्याय-दीधितिम् एव व्यघ्रतयाग्रीयम् आचरितवन्तः ।
[२६] व्रजराज उवाच—हा! धिग् दुष्ठु तैर् अनुष्ठितम् ।
[२७] ताव् ऊचतुः—श्रूयताम् अनुवृत्तं वृत्तम् ।
[२८] ततश् च तावतीम् अपि पर-सेनां तृणाय मन्यमानः स भवद्-वंश-धरश् चेतसि शशंस—हन्त! मया यद् अभ्यर्थितम्, तद् एव दैव-समर्थितं बभूव । यतस् त एते सर्व एवाशिष्टा मया शिष्टाः कर्तुम् इष्टाः सन्ति । कुत्र कुत्र वा त एते क्रव्यादा विचेतव्याः?
[२९] ततः समुदितीभूतान् अमूंस् तामस-स्तोमान् समुदितीभूय हरिर् अहं संहरिष्यामि, किन्तु जरासन्धं विना; यतः,
मुहुर् अपि कुचरांस् चेता
नादौ घात्यो जरासन्धः ।
काकान् अन्यान् हन्तुं
रवणः काको हि पाल्येत ॥४॥
[३०] तद् एतन् मतं रामेण च सम्मतम् आतत्य गत्यन्तरम् अभीप्सन्न् अकस्माद् अरि-दर-चाप-गदा-पद्म-सद्म-नीडं विक्रीडद् द्वय-चतुष्टय-जुष्टं गुरु-गरुत्मद्धज-शोभा-पुष्टं सारथि-प्रथित-व्योम-पथं रथम् अवतन्तम् अद्राक्षीत् । रामश् च हल-मुषल-बलित-ताल-ध्वज-कलिततया तद्-विलक्षण-लक्षणम् अन्यं तम् अवलोकितवान् ।
[३१] सर्वे साश्चर्यं ऊचुः—ततस् ततः ?
[३२] व्रजराजस् त्व् इदम् उवाच—तस्य बाल्याद् एवेदम् आकल्यते, यन् नारायणः साहायकम् आचरतीति । भद्रं कथयताम् अग्रिमं वृत्तम् ।
[३३] ताव् ऊचतुः—अथ युद्धम् उद्बुद्धम् इति विवुध्य युधयमानताम् अनुरुध्य कवचेनाङ्गम् आरुध्य कतिपय-स-वयोभिः सह द्वाव् अपि दुर्गाद् अभ्यमित्रीयतया चित्रीयमाणौ निष्क्रान्तौ, उदय-भूभृद् अन्तात् पुष्पवन्ताव् इव, शङ्खं धमन्तौ च तौ वर्षा-वर्षान्त-तडित्व् अन्ताव् इव ददृश्यते । तच् छब्दस् तु सुहृदां स्तनितम् इव दुर्-हृदां स्फूर्जथुर् इव स्फुरति स्म, पुनर् अन्यद् अप्य् आश्चर्यं श्रवसोर् आचर्यताम्—
ताव् अतिकोमल-वालावरयस् ते स्फुट-करालाभाः सत्यम् । भीत-भयानक-भाव-क्रमऌअब्धिस् त्व् अत्र विनिमयं प्राप ॥५॥ वीक्ष्याजितम् अथ स जरासन्धः समधाद् भयं यत् तु । तद् अनादरतासञ्जनम् अनयद् व्याजान् निजाय गर्वाय ॥६॥ तं परिहृत्य तु रामं योद्धुं यद् असाव् उरीचक्रे । वैष्णवम् इह तत् त्यक्त्वा रोउद्रं ज्वरम् इव समाददे कुमतिः ॥७॥
[३४] अथ दरमय-तद्-अनादर-वचन-रचनतः कृष्णस् तु भासमानहासम् अह स्म,
न वै शूरा विकत्थन्ते दर्शयन्त्य् एव पौरुषम् । न गृह्नीमो वचो राजन् नातुरस्य मुमूर्षतः ॥ [भा।पु। १०.५०.१९] इति ।
[३५] अत्र युक्तम् इदम् उक्तं भवति—शूराः खलु न विकत्थन्ते । विकत्थन-रूप-वचन-बलं हि देह-बलं पश्चाद्-वृत्तं विधाय प्रवृत्तम् अभूद् इति तस्मिन् न्यूनतां स्वयम् एव नूनं व्यञ्जयति इति स्थिते तस्य दूरतया प्रवृत्तिः समर-जुषः पुरुषस्य शूरतां न व्यनक्ति, किन्तु मुमूर्षताम् एव । ततो महाराजस्यापि तवातुरस्येव तादृशत्वं युक्तम् एव; किन्तु सम्प्रति वयं तवाव्यवस्थित-विचारतया मुमूर्षओर् वचनं न गृह्नीमः इति ।
[३६] व्रजराज उवाच—ततस् ततः ?
[३७] ताव् ऊचतुः—ततो यादृशं भवत्-कुल-नन्दनेन निन्दितस् तादृशं स एव स्वम् अनु व्यक्तीचकार । यतो रामेण समं स्वयम् एव समरे समयं कृतवान् । कृतवांस् तु त्रयोविंशत्य् अक्षौहिणी-प्रयोजनया तयोर् द्वयोर् अप्य् आवरणम् इति ।
[३८] व्रजराजः सभयम् उवाच—ततस् ततः?
[३९] ताव् उचतुः—तत् तु सर्व-महिम-गभस्तौ हिम-कुज्झटिका-स्तोमवत् तयोर् महिम-न्यस्त-शक्तिताम् अवाप; न पुनर् अभ्यस्तताम् । यस्माद् असौ हरिः शस्त्रान्धकार-बन्धाय च्छिदुरतां यच्छन्न् अरि-करीन्द्र-वृन्दाय च भिदुरताम् अयच्छत् । परन्तु धूल्यादि-पुञ्ज-पिञ्जलताविलतया विदुरताविधुरा विदूर-धाम-पुर-वाम-नयनादय एव चिरं पक्षिराज-तृण-राज-चिह्न-विराजमानम् अह्नाय रथ-युगलम् अनवकलयन्तः समं मुहुः सम्मुमुहुः ।
पुनश् च—
हरिः परानीक-पयोमुचां मुहुः
पश्यन् शरासारम् उप-स्व-सैनिकम् ।
रङ्गान्तराच् छार्ङ्ग-धनुर् विकर्षण-
क्रेङ्कार-झञ्झा-पवनैर् उदक्षिपत् ॥८॥
संवर्मिताङ्गत्वम् अभूद् वृथा द्वयोश्
चम्बोस् तथाप्य् अस्ति पृथङ्-निमित्तता ।
द्वित्सूच्छिदानाम् अनिवार्यताभवत्
कार्ष्णेषु दूराद् इषुभिर् निर्वार्यता ॥९॥
विमर्दयन् कण्टकानाम् अग्र-कण्टक-संहतिम् ।
स्वस्य तत्-कण्ठगां कुर्वन्न् आसीत् कण्टकवान् हरिः ॥१०॥
तृणाद् उत्कलयन् दधद् अनुर् अनु प्रास्यन् मुहुर् मार्गणान्
कोटिन्य् अर्वुद-पद्मधाभवद् असाव् एवं तदातर्क्यत ।
एतद् युद्धम् अवाप्यतेऽपि रिपवो निर्भिन्न-नानाङ्गतां
यातास् तन्-मितिम् आपुरित्थम् अपि तत्-स्पर्धेव तत्रैक्ष्यत ॥११॥
हरिर् मेघश् चापं त्रि-दश-पति-चापं शरततिर्
महा-विद्युद् यस्मिन् भवति न हि तत्राद्भुतम् इदम् ।
द्विषां रक्त-स्रावाः सरिद् उपचया मानव-हयद्-
द्विपाद्या मत्स्यानां विविध-तनु-रूपा यद् अभवन् ॥१२॥
दृष्ट्वा राम-करे हलं मुषलकं चारातिसैन्यं पुरा
ग्राम्यः सोऽयम् इति प्रहास-वलितं व्यादात् तु यद्वन् मुखम् ।
आयात्याम् अपि तद्वदाकृतितया तस्थौ परं द्राग् यतः
स्वस्मिन् मर्दनम् आससाद बलवत् ताभ्याम् अकस्मान् मुहुः ॥१३॥
त्रयोविंशत्य् अक्षौहिणि परि परं पङ्कज-दृशा
युदार्ब्धत्य् एव द्रुतम् अथ जितेत्य् एव च वचः ।
समन्ताद् व्याप्तं तर्ह्य् अपरम् इह किञ्चिन् न हि यतः
क्रियाशक्तिस् तस्य स्फुरति तद् अतिक्रम्य पुरतः ॥१४॥
कृष्णा-वाण-मृता ये वा ये वा स्व-मुषलाहताः ।
हलेनाकृष्य रामस् तान् असृङ् नद्याम् अवाहयत् ॥१५॥
[४०] अथ तस्मज् जात-बहु-नृशंस-वीर-ध्वंसनाद् वीराशंसनाद् वाहितेषु तेषु महारथम् अपि विरथम् उपद्रव-कारिणम् अप्य् अपद्रवाय कृतानुसन्धं जरासन्धम् अनुद्रवन् प्राण-मात्रम् अवशिष्ट-कटकं गृहीत्वा शीघ्रम् अंहमानं सिंह इव ग्राम-सिंहं जग्राह; गृहीत्वा च तम् आघातम् एवानिनाय; आनीय च तं बल-हानाय वरुण-पाशेन तावद् वबन्ध ।
[४१] तद्-अनन्तरम् अपमानाय मानुष-पाशेन् च वध्यमानं बाल-वृद्धावध्य् अखिल-लोकेषु दत्तावलोकेषु कृष्णः पुनस् तत्-सम्बन्ध्यमानामान-मानव-नाश-नाशया विपाशयामास ।
[४२] विपाशितोऽपि पाशित इव शङ्कुचित-ग्रीवादिर् अपसरंस् तपसः कृते कृतेहः परिम्लान-देहः क्वचिन् निर्जन-पथे निर्यन् निर्हेतिर् विरथः स बार्हद्रथः केनचित् तत्-कटक-खटहारिणा परिचित-मूर्तिः स-प्रणामं कृत-स्नेह-पूर्तिश् च जिर्हेति स्म । ततः परं तत्-परम्परया निशम्य सर्वैर् अपि स-कृपैस् तदीय-नृपैर् यत्र कुत्रापगमात् कृत-समागमस् तपः-प्रतिगमनाद् अपगमयामासे, ऊचे च—
अल्पकैर् यदुभिर् अल्पम् अहोभिर्
निर्जिता वयम् अहो यद् अनल्पाः ।
दिष्ट-दिष्टम् अथ विद्धि बलिष्ठं
मन्महे यद् अनुजन्म महिष्ठम् ॥१६॥
त्वं नृपस् तरुण-मूर्तिर् इतीत्थं
वन्यम् अस्ति न तपस् तव योग्यम् ।
किन्तु तन्-निखिल-पालन-रूपं
दुःखजं वन-तपस् त्व् अभितो धिक् ॥१७॥
[४३] व्रजराज उवाच—आस्तां तत्, कृष्ण-रामयोर् निजा वार्ता तु कीर्त्यताम् ।
[४४] ताव् उचतुः—
कण्टक-घन-गहनं तत् कटक-युताभ्यां प्रविष्टम् एताभ्याम् । न हि पुनर् ईषल् लवम् अपि कुत्राप्य् आसीत् क्षतं नाम ॥१८॥
[४५] तद् एवं जये तु लब्ध-प्रचये केचिल् लज्जाधर्षात् केचिद् धर्षाद् अपि समवेताः सर्व एव यदवः कृत-महोत्सवतया स-स्पृहं गृहम् एव ताव् आनिन्युः ।
[४६] ततश् च दृष्ट-तद्-विभवौ हृष्टतया लब्ध-बलवद् उद्धवौ द्वारीकृतोद्धवौ स-रामं रामानुजम् अनुज्ञाप्य तद् एतत्-कथनाय तदाज्ञाप्यमानौ व्रजम् आव्रजन् ताव् एताव् आस्वहे इति।
[४७] तद् एतद् दूत-वाचम् अन्वाचार्य मधुकण्ठः प्राह स्म—मुहुर् एवम् एव कृत-निर्वन्धेन जरासन्धेन सह युद्धं जातं दूत-द्वारा च बुद्धम् इति । कश्चित् कश्चित् तद्-विशेषस् तु प्रस्तुतः करिष्यते ।
[४८] तद् एवम् उक्त्वा मधुकण्ठे स-गद्गदतया कुण्ठे श्री-व्रजेश्वरे च स्वोपकण्ठे कृष्णम् उपलभ्य धृत-तत्-कण्ठे व्रज-वन्दिनस् तद् इदं पठितवन्तः—
दुहितृ-द्वैताद् अथ जामातुः
शमनं श्रुत्वा द्रुतम् आयातुः ।
मगधान् पातुः कटकं प्रेक्ष्य
हरिर् आहेदं बलम् उत्प्रेक्ष्य ॥१९॥
भविकं जातं स जरा-जातः
स्वयम् उद्यम्य स्फुटम् आयातः ।
अथ शस्त्राद्यं द्योर् अभियातं
शकुनं मेने हरिर् इत-शातम् ॥२०॥
सहसा भ्राता सहसा रुद्धम्
अकरोच् छत्रुं कलयन् युद्धम् ।
तुहिन-स्तोमं स यथा सूरः
कटकं तद्वद् धतवान् शूरः ॥२१॥
द्विषतां गात्राद् अभवन्न् अद्यः
विशिखैर् दलितात् परितः सद्यः ।
किम् अतः कथ्यं विभवद्-बन्धं
तम् इतश् चक्रे स जरासन्धम् ॥२२॥
पुनर् इत्थं षोडशधा जित्वा
तम् अथान्यांश् च द्विषतश् छित्त्वा ।
अधुना सोऽयं स सुधा-वृष्टिं
रचयन् भाति व्रज-भृद्-दृष्टिम् ॥२३॥ इति ।
[४९] अथ राधा-माधव-सदसि कथा यथा मधुकण्ठः प्राह—
मुहुर् अपि समरं हरेर् द्विषद्भिर्
व्रज-वनितास् तु निशम्य तस्य कान्ताः ।
सकलम् अपि विसस्मरुः स्व-दुःखं
हरि-हरि दुर्वह-बुक्क-कम्पम् आपुः ॥२४॥
सम्प्रति जित्वा शत्रून्
साधूनां लघु निवृत्त्य निश्चिन्तः ।
सोऽयं क्रीडति राधे
तव नव-नव-सङ्ग-रङ्ग-संसङ्गी ॥२५॥
[५०] तद् एवं पूर्व-पूर्ववद्-अपूर्वं सुखं कुर्वन्तौ सर्ववन्तौ सूत-कुमार-सन्तौ वासम् आसन्न्वन्तौ; श्री-राधा-माधवौ च परस्परम् अपरस्परम् आचरित-चरिताराधनतया काम-धाम प्रविश्य निकामं निज-कामं जग्मतुर् इति ।
इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु जरासन्ध-बन्धनं नाम
त्रयोदशं पूरणं
॥१३॥
(१४)
अथ चतुर्दशं पूरणम्
काल-यवन-जय-विवरणम्
[१] अन्येद्युश् च श्रीमद्-व्रज-युवराज-दर्शनामृत-वर्ष-हर्ष-व्रज-भासिषु व्रज-वासिषु स्निग्धकण्ठ उवाच—
[२] अथ साग्रजावरज-व्रजः श्री-व्रजराजः परम-पर्व-पूर्वकं दानम् आचर्य कंस-शत्रोर् यावत्-सर्व-शत्रु-क्षयम् अक्षय-स्वस्त्ययन-सत्रम् आरब्धवान्; यत्र तेषां तन्-मङ्गलाभिसन्धानं केवलं बलवद् आसीत्; तद्-दर्शनानुसन्धानं तु तद्-अनुगतम् एव । यतः सर्व-दुर्गम-दुर्गावासः शूर-वर्गान्तर्-वासश् च तयोर् एभिर् अभिमत आसीत् । इति स्थिते पूर्ववद् दूत-गमनान्तरालेषु वार्ता-समुत्सुकतया यापित-कालेषु गोपालेषु स चमूनां विचेता विचेता जरासन्धस् तद्-विध एव मुहुः कृतानुबन्धः श्रुतः ।
[३] श्री-राम-कृष्णौ पुनस् तत्र वितृष्णौ स्व-पालित-वृष्णि-पालिभिर् एव तथा तथा तं पराजिष्णुं चक्रतुर्, न तु स्वयम् इति चावकलितम् ।
यदवोऽप्य् अथ यज् जिग्युर् मागधम् अजितस्य तेजसा तद् धि । तत्त्वानां किल वर्गाः ससृजुर् विश्वं यथा तथा विद्धि ॥१॥
[४] अथ सर्वतः प्रसृतं पद्यम् इदं च शुश्रुवे—
नैवाश्चर्यं हरेस् तद्-बहु-कटक-घटा-घातनं भाति किन्तु स्पष्टं तत् सङ्ग्रहात्म-व्यसनम् इह मुहुर् मागध-क्षौणि-पातुः । अग्निः खल्व् इन्धनानां नियुत-शतम् अपि प्लुष्टम् एवाशु कुर्यात् तावत् तत्-तत्-विचेता पुनर् इह सुचमत्कार-कारित्वम् एति ॥२॥ इति ।
किं च,
आगात् प्राक् स यदा तत्र द्वित्र-वारं जरा-सुतः । तदा सम्भ्रमम् आधत्त लोकानां हासम् अन्यदा ॥३॥
[५] सोऽयं दुहितुर् उपगन्ता पुनः समागत इति । अत्र वैहासिक-द्वय-सम्पाद्यं प्रश्नोत्तरमयम् इदं पद्यं च सर्वत्र प्रत्यपद्यत—
आनीय प्रस्मरणं मुहुर् अपमानं स्व-शत्रुणा रचितम् । उद्यमम् उच्चैस् तनुते मूढः कोऽसौ जरासन्धः ॥४॥ इति ।
[६] तद् एवं स्व-तनय-विजयं व्रज-पतिना श्रुत्वा श्रुत्वा स्व-वस्त्यम् अनु स्वस्त्यन-सत्रम् एव वर्धितम् । समनन्तरं च तावद् अनन्तम् अपि हविर्-आदि-हविर् द्रव्यं हुत-भुजि हुतम् । अतीत-सङ्ख्या-बन्धनं तु सर्वं धनं शन्तु-क्रमाद् एव देव-भू-देव-सात्कृतम् ।
[७] तद् एवं तन्-मध्ये मथुरा-पुरायाध्वानं गच्छत्सु प्रच्छन्न-दूतेषु सत्सु कदाचिद् दूत-विशेषाव् आगत्य शेषाख्यानं विख्यापयामासतुः । यत्र सुख-सम्भेदम् इमं निवेदयन्ताव् उत्फुल्ल-मुख-कमलताम् अवापतुः—[८] राजन् ! साम्प्रतम् इदं विराजमानं वृत्तम् आसीत्, यद् विदर्भ-नगर्यां भवद्-अर्भकस्य गमनं मङ्गल-सङ्गमनं वृत्तम् आसीत् ।
[९] व्रजराज उवाच—हन्त! तस्यातिदूरे कथं कथं गन्तव्यता जाता ?
[१०] दूताव् उचतुः—जरासन्धादीनां तत्र गमनानुसन्धानेन ।
[११] व्रजराज उवाच—ते च किं विधातुं तत्र सन्निधानम् अवापुः, येन तस्मिन्न् अपि स्फुटम् अस्वस्थित-मनाः सहसा रंहसा वत्सः प्रस्थितवान् ?
[१२] दूताव् ऊचतुः—विदर्भ-पालस्य तस्य बालां शिशुपालाय दापयितुं सर्वेऽपि मिलित्वा गर्वेण कंस-हस्तस् तत्र खर्वेहतां विधापयितुं च ।
[१३] व्रज-राजः स-भयम् उवाच—उत्तर-वृत्तम् उत्तर-विषयीक्रियताम् ।
[१४] दूताव् ऊचतुः—मान्य! मान्यथा मन्यस्व । तव तनू-जनुषः कुतूहलम् एव खल्व् इदम् । तथापि तस्य तत्रागतस्य विदर्भ-वृद्ध-महाराजता-समृद्ध-निःस्पृह-भक्ति-प्रथ-क्रथ-कैशिक-गृह-सङ्गतस्य तेज एव दुर्हृद्-उद्वेजनं जातम् । यथा—
ज्ञात्वा तं क्रथ-कैशिकालय-गतं श्रीमन्तम् अन्तं निजं मन्वानाः सह भीष्मकेश यमवद् भीष्मं नृपा मेनिरे । चण्ड-ज्योतिर् उपेत्य नित्यम् उदय-क्ष्मा-भृत्-परस्तात् तटं तेजः-सङ्घटनां विनापि घटते रात्रिञ्चर-त्रस्तये ॥५॥
[१५] अथ सर्व-नायकस्य तस्य साहायकं गरुडश् च परमातिशायकता-सरूढतया व्यूढवान् । यथा—
क्षाराब्धि-क्षिति-भृत्-क्षिति-क्षितिकर-क्षोभ-क्रियातिक्षम- द्वित्-पक्ष-क्षय-दक्ष-पक्ष-पवन-व्याक्षिप्त-वृक्षादिकः । दुष्ट-क्ष्मापति-लक्ष-लक्ष्यद्-अनुज-क्षिप्राक्षि-विक्षोभण- ज्योतिः-क्षिप्तिर् अघक्षिद्-ईक्षण-पथं पक्षि-क्षितीक्षिद्-गतः ॥६॥ अन्यत्र चण्डता तस्य चन्डतां प्रत्य् अपदयत । हरेस् तु निकटे सौम्य सौम्यता नाप सौम्यताम् ॥७॥
[१६] व्रजराज स-हर्षम् उवाच—ततस् ततः ?
[१७] दूताव् ऊचतुः—तद् एवं वैरि-खर्वेषु सर्वेषु सर्वथा खर्व-गर्वेषु क्रथ-कैशिकाव् आगत्य गत्य्-अन्तरं कंसान्तकाय शशंसतुः—सर्व-विज्ञाधिराज ! तद् इदम् आवयोर् विज्ञापनम् अङ्गीकृत्य साङ्गीकृत्यम् अस्मद्-अङ्गीकरणम् ।
[१८] श्री-कृष्ण उवाच—कामम् आज्ञाप्यताम् ।
[१९] ताव् ऊचतुः—
कम् अपि मनोरथ-लाभं लुभ्यत् क्षुभ्यद् विभाति नौ हृदयम् । तस्माद् अभिलष्यंस् तं भगवन्न् अङ्गीकुरुष्व नौ कृपया ॥८॥
[२०] तच् चैवं निवेदयावः—तेषां सर्वेषाम् एव कृत-भवद्-द्वेषानां राज-बेषाणाम् असुराणां भीष्मजा-स्व्यम्वर-तृष्णातुराणां सभा प्रभात एव भवितेति सम्यङ् निशम्यते । तत्र तव च गन्तुं शन्तुमनस् ता निशम्यते । तत्र च हन्त! राजताम् अनङ्गीकृतवतस् तव राजासनान् अङ्गीकृतिर् अपि सम्भाव्यते । ते चासन्तस् तत्र प्रहसन्त एव वर्तन्ते । स कथम् अत्रासमत्रागत्य नीचासन-सचमानतया पत्रपाम् अपयापयिष्यतीति । सम्प्रति चात्रभवतः प्रतिलब्धस्य तत्र गत्यागती द्वे अप्य् अगती । यद् अस्माभिर् द्वयम् अपि न दृश्यतया परामृश्यते, तस्माद् इदं तु निवेदयावः—यद् आवयोः प्राज्यम् इदं राज्यम् उरीकृत्य कृत्यम् इदम् उररीकृत्य च भृत्य-जनान् अस्मान् उररीकुर्वन्तु तत्रभवन्तः इति ।
[२१] व्रजराज उवाच—ततस् ततः?
[२२] दूताव् ऊचतुः—
यद्यपि जगद् उन्नत-पदम् अपदं मनुते व्रजेन्द्र पुत्रस् ते । तद् अपि च भक्ताग्रहतः साग्रहवत् तन्-मनाग् उरीकुरुते ॥९॥
[२३] व्रजराज उवाच—मर्यादा का पर्यापिता ?
[२४] दूताव् ऊचतुः—ततः स तु तूष्णीकतां पुष्णाति स्मेति तद्-अभ्यनुज्ञाम् अनुमाय ताभ्याम् उन्मनीभवद्भ्याम् अभ्यात्ताञ्जलितया पुनर् इदम् अभ्यधायि । तद् एतद् अद्य सद्य एवास्माद् राजासनं राजन् निज-चरण-राजीवाभ्यां राजयन्तः सन्त भवन्तः इति ।
[२५] अथ सङ्कोच-वशाद् अपि तद् अस्मै रोचमानम् अवलोचमानयोर् अनयोर् यदा तद्-आसन-निवेदनारम्भः सम्भवन् नासीत् तद्-आकाश-सकाशाद् वाणीयम् इन्द्र-दूताद् उद्भूता सावकाशा बभूव—
भो भो मा राज-युग्म स्वक-कूल-ततिभिर् भुक्तम् उक्तं महीक्षित्- पीठं कृष्णाय दाः किन्त्व् अपरम् अथ वयं दिव्य-नव्यं ददामः । इन्द्राद्याः के यद् एष स्व-जनि-शिव-रमानाम् अपि प्राग् अभाज्यः किन्तु क्ष्मापाधिपत्वे वत समय-वशाद् एनम् अभ्यर्चयामः ॥१०॥
[२६] अथ सुख-विराजमानौ लब्ध-निखिल-राजमानौ राजानौ तद् एतद्-वृत्तं प्रामाणिक-वृन्दं वृत्त-हरं विधाय जरासन्धादि-सदसि सन्धापयामासतुः ।
[२७] एतच् च शृण्वत्सु विचारं विवृण्वत्सु च तेषु द्विषत्सु तत्रैव त्रैपिष्टप-प्रधानम् इन्द्रस् तद् इदम् अन्तर्धानाद् अभिधापयामास; यथा चित्राङ्गदस् तद्-वाक्यतयेदं वदति स्म—
इन्द्रोऽहं वः प्रवक्ष्ये शृणुत वत नृपाः सोऽयम् अस्माभिर् इज्यः श्री-कृष्णस् तत्र गोवर्धनम् अभिसिषिचे नाम गोविन्द-नाम्ना । एतं राजेन्द्रतायाम् इह निधि-कलसैः सिच्यमानं न यः स्याद् द्रष्टा नात्रानुमन्ताप्य् अथ स तु भविता चक्रिणानेन वध्यः ॥११॥ इति ।
[२८] अथ सर्वेऽपि व्रजस्थाः सोल्लासं पप्रच्छुः—ततस् ततः ?
[२९] दूताव् ऊचतुः—ततश् च तेषु केचित् पुनर् अतीव भीता विनीता इव तत्रागताः श्री-कृष्णेन तु सादरम् अनुमतास् तद् अनुगता इवासन्; ये च जरासन्धादयो गर्व-दुर्गन्धाः कतिचिन्न् आगतास् ते विजमान-मनसः स्वागमने व्याजं व्यञ्जन्तस् तन् एव निज-प्रतिनिधितया ज्ञापयामासुः ।
लब्धेऽप्य् आनृततुस् तस्मिन् मागधे तं हतः स्म न । राम-कृष्णौ तथाप्य् अत्र नानृताद् विरराम सः ॥१२॥
[३०] तत्-प्रतिनिधयस् तु तत्र चित्रताम् अवापुः, यतः,
अष्टाभिः स्पष्ट-मूर्धान्-निधि-मणि-कलसैर् आत्मना सिच्यमानं चूर्णैर् आमोद-पूर्णैर् अपि कुसुम-शतैर् दैवतैर् अर्च्यमानम् । वस्त्रालङ्कार-सिंहासन-धवल-महश् चामरच्-छत्र-मुख्यैर् दिव्यैर् दीव्यद्भिर् अर्थैर् वलित-रुचिम् अमुं शत्रवस् तेऽप्य् अपश्यन् ॥१३॥ तदा जय-नमः-शब्दम् अभ्र-स्थास् त्रि-दशा व्यधुः । प्रतिशब्दम् इव त्रस्ताः शत्रवोऽप्य् अत्र तं दधुः ॥१४॥
[३१] किं बहुना, तथा ते तत्-प्रताप-तप्ता यथा जरासन्धं सङ्गत्य गत्य्न्तरम् अपश्यन्तस् तां भीष्मजाशाम् अपि परित्यज्य यथा-स्वम् आशां गताः ।
[३२] व्रजराज उवाच—ततस् ततः?
[३३] दूताव् ऊचतुः—
ततो यथायथम् अमुकान् समादधद् भवत्-कुल-प्रभव-विधुर् यथागतम् । समाव्रजन् मधुपुर-मोदम् आवहत् परं तदा व्रज-दिशम् आर्द्रम् ऐक्षत ॥१५॥
[३४] सर्वे सास्रं पप्रच्छुः—भवतोः प्रस्थापनं कुर्वता तेन किं स्थापनम् आचरितं ?
[३५] दूता ऊचतुः—
दृश्यते किम् अपि संविधानकं मद्-विमोचन-विधायि सम्प्रति किन्तु हन्त विधिना क्रियेत चेत् तद् ब्रुवे किम् उ युवां तु गच्छतम् ॥१६॥ इति ।
[३६] तद् एवं दूत-वाक्यं समाप्य स्निग्धकण्ठः स्वयम् आह स्म—[३७] अथ तद्वद् भवत्-प्रभव-परवशेऽष्टादशे जरासन्ध-बन्धे लब्ध-प्रबन्धे व्रजतः सन्देश-हरयोर् मथुरायां प्रवेश-करयोश् च द्वयोर् द्वयोः प्रान्ते कयोश्चिद् गतयोर् अकस्मात् पश्चिमतः कटक-घटितः कश्चिद् उत्पातः सम्पपात ।
[३८] ततश् च तद् रात्राव् एव स्व-स्थानं हित्वा गा गृहीत्वा सर्व एव व्रजः सङ्गत्य प्रत्यग् दिशि घन-वन-समुद्दण्ड-पर्वत-मण्डलान्तः प्रविष्टः । स तु समुत्पातवद् आगत्य मधु-पुरीम् एव परितः परीतवान् ।
[३९] ततश् च कृष्णस्य व्रजं प्रति व्रजस्य च कृष्णं प्रति वृत्त-श्रवण-तृष्णा वृत्ता । परस्परम् अपि न सन्देशस्य प्रवेशः सम्भवतीति ।
[४०] अथ प्रवेश-सङ्कोचनाद् असङ्ख्येषु गो-गणेषु सन्देश-संशोचनाद् गो-सङ्ख्य-गणेषु च लब्ध-भोजन-वियोजनेषु दिनान्तरे लब्धान्तरे शिखरि-शिखर-शाखि-वर-शाखाम् आरूढवद्भिः परमोत्कण्ठाम् आरूढवद्भिर् गोप-सद्भिः शीघ्रतया समुद्भूतौ ताव् एव दूतौ काभ्याञ्चिद् अन्याभ्यां सह ददृशाते । पश्यन्तश् च कञ्चन किञ्चिद् अपृष्ट्वा गोप-पत्य्-अग्रतः किम् आगत्य वदिष्यत इति बुद्ध्यापि दूर-दर्शिता-स्पर्शिनस् ते दूर-दर्शिनः प्रथमान-भिया प्रथमं तौ प्रत्य् अलं दुद्रुवुः ।
[४१] अथ हृष्ट-वदनाभ्यां पृष्ट-वदनाभ्याम् अपि ताभ्यां तत्-सहिताभ्याम् अन्याभ्याम् अपि सह स-हर्ष-धर्षतया श्री-व्रजराज-समाजम् एवाजग्मुः । ततश् च दूराद् एव दूताव् इमाव् अपृष्टाव् एव हृष्टाननतया कुशलम् इति पूर्ववत् त्रिशस् तान् निशमयामासतुः ।
[४२] अथाग्रजावरजादि-विराजमानः श्री-व्रजराजः सभाजयन् दूताव् अभाषत—कथ्यतां तावत् तथ्यं सङ्क्षेपत एव इति ।
[४३] दूताव् ऊचतुः—स-सैन्यः काल-यवनः स-दैन्य इव निहत एवेति न तत्र काप्य् आर्तता; किन्तु भवद्-वार्ता-श्रवणं विना परमार्ताभ्यां कृष्ण-रामाभ्यां सन्देश-हराव् एतौ प्रस्थापितौ । यतः,
अस्मार्ष्टां वत पितरौ सुतयोर् यकयोर् भवन्तौ यौ
अस्मरिषातां तद्वत् ताभ्यां तौ च व्रजाधीश ॥१७॥
[४४] अथ सर्वे स-हर्षतर्षं ऊचुः—अथ कथ्यताम् आविस्तरां विस्तरतः ।
[४५] दूताव् ऊचतुः—यस्यां सन्ध्यायां सन्ध्यायमान-कुशल-यशस् तत्रभवत्-कुल-चन्द्रमसः सन्निधिं निधिम् इव गतवन्ताव् आवां तस्यां न काञ्चिद् अपि तत्र चिन्ताम् अपश्याव, प्रत्युत सम्म् उद्धवेन तेन भवत्-प्रभवेण रोहिणि-सम्भवेन च प्रत्य् अन्व् अपि शश्वद् अत्र्कीयां वार्तां वार्ताम् इव पृच्छ्यावहे स्म । प्रातर् एव तु सामुद्र-पूरवद् दूरतः शूर-समूहाः शुऋअ-सेन-पुरीं परित एवावृण्वाना दृश्यन्ते स्म, दृष्टाश् च ते मुहुर् अवष्टभ्नन्तो जरासन्ध-सन्निकृष्टा इति पुरतः परामृष्टाः । पश्चात् तु ल-कार-प्रकारं वर्ण-वारं म्लेच्छन्तस् ते म्लेच्छा एव विनिशिता अनुमिताश् च । जरासन्ध-प्रत्यभिसन्धानानुसन्धानाभ्यां काल-यवन-प्रधाना एते समेताः इति ।
[४६] व्रजराज उवाच—काल-यवन एवेति चेत् तर्हि गर्हितम् एव भयम् आसीत्; यतः षण्डोऽयम् इति गर्ग-जः श्याल-रचितोद्दण्डोपहास-भासमान-यदु-संसद्-अनर्गल-हास-लब्ध-क्रोध-संसर्ग-गर्ग-ज-तद्-भय-सर्ग-सङ्कल्प-समाराधित-भर्गव-रतः सोऽयं गर्गजाद् एव यवन-राज-भार्यासम्भवः पुनर् यवन-भूआल-पालितस् ततः एव यादव-भयद-प्रभवः कालयवन इति । ततः कथ्यतां तथ्यम् अनन्तरं वृत्तम् ।
[४७] दूताव् ऊचतुः—अथ तं काल-यवनम् अवमृश्य रामस्य करं संस्पृश्य रहस्य् आभास्य घनश्यामः सन्मन्त्रयामास—अयं तावद् यादव-कुलानां योद्धुम् असह्यः सन्नह्य द्वारि वर्तते । यदि वा सह्यस् तर्ह्य् अपि समागत-प्रायः स जरा-संहित-कायस् तेनास्म्द्-युद्धं समुद्बुद्धं बुद्धा पुरीं प्रविश्य सर्वं परिकरं प्रहरिष्यति । तस्मात् प्रकारान्तरं चिन्त्यम्, तच् च परिकराणां भूरि-दूर-दुर्गम-दुर्गाश्रयणम् एव योग्यम्, तच् च सद्य एव लक्षितम् एव चानवद्यं भवति । स्फुटम् अनेनास्माकं दूर-गमनेन व्रजस्य च हितं विहितं स्यात्, यतो यत्र वयम् अर्दनं कुर्मस् तत्रैव शत्रु-सम्मर्दः स्यात् ।
[४८] तद् एवं लब्ध-तृष्णेन कृष्णेन परस्यां रात्राव् अचिराद् आचरितया निज-विमानेन यात्र्या लब्धम् अब्धि-पात्रान्तः कयाचिद् विद्यया सान्तःपुरं पुरं सद्य एव निर्माय तत्र सर्वान् एव माथुर-पुर-जनान् अन्तरीक्ष-वर्त्मना वर्तयामास; यत्र सर्व एव माथुरा मथुरायां शयाना एव प्रातर् अन्यत्र लब्ध-जागराः संशयाना बभूवुः—केयं परितः समुद्र-मुद्रिता दिव्या पुरी दिव्यति, कथं वा वयम् अत्रागता इति; यत्र च श्री-कृष्णस् तस्यां रात्राव् एव कुत्राप्य् अगत इवात्रागत्य स्थितः । आवां पुनर् मथुरायाम् एव प्रत्यूषे तत्-प्रत्युहमानाव् अत्यून-सङ्ख्य-जन-लब्ध-सख्यतया राम-रामानुजयोर् अवस्थानं निशामयामासिव ।
[४९] ततो व्रज-स्थाः सर्व एवोचुः—व्रज-नृपते ! तव प्रभावोऽयम् इति पूर्वम् एव जानीमः, येन सा सा विद्या च तेन लब्धा । तद् अनन्तरम् उदन्तस् तु समन्ततः कथ्यताम् ।
[५०] दूताव् ऊचतुः—ततश् च रामावरजः स्वाग्रजं व्याजहार—भवान् अत्र स्वीयान् पालयन् कालं चालयतु । अहं तु यवनं युक्त्या प्राण-मुक्त्या सम्वलयानि । तद् एतद् उक्त्वा दुर्गस्य सूक्ष्म-द्वारं मुक्त्वा द्वैताद् भयम् इति श्रुतिम् उत्प्रेक्षमाण इवाद्वैततायाम् अत्रस्तः सन् निर्जगाम ।
[५१] निर्गच्छन्तं च तं निरस्त्रं प्रशस्तालङ्कृति-शोभा-परीत-पीत-वस्त्रं स-विद्युद्-विद्युत्वन्तम् इव तं श्याम-ताराम् अधामानं चालन्-लाघवतः किं वा प्रतिच्छवि-वैभवतश् चतुर्भुजम् इव काल-यवनीयाः सर्व एवाकलयाम्बभूवुः । आकलयन्तश् च ते तस्य सौन्दर्य-वर्य-पर्याकुल-चित्ततया तं प्रष्टुम् अपि नाशकन्, किम् उत स्प्रष्टुम् । ततश् च तान् वञ्चयन् यत्र काल-यवनस् तत्रैवाञ्चंस् तेनालोकयामासे ।
[५२] स पुनस् तं श्याम-मनोहरं श्री-देवर्षि-कथित-प्रथित-लक्षणतया विज्ञाय मत्सरतस् तद्-विलक्षण-सुखम् अप्य् अवज्ञाय निरस्त्रेण तेन निरस्त्र एव युयुत्सां चकार । कृतायां च तेन युयुत्सायां कृष्णस् तु तत्र वितृष्णं विष्कम्भमाणं कुत्सयाञ्चकार—म्लेच्छानां स्पर्शं नेच्छांअ इति । ततश् च तं स्प्रष्टुम् इच्छुर् म्लेच्छ-राजस् तदाभिमुख्येन द्रुतम् ऋच्छति स्म ।
[५३] स तु द्रुतं द्रुतवान् व्याहृतवांश् च—त्वया मम स्पर्शास्पर्शाव् एव जयाजय-परामर्शाय कल्पेयाताम् इति । ततश् च,
पदे पदे स्पृश्यम् इव द्रवन्तं द्रवं दधानं सरसं हसन्तम् । अनुद्रवन् कृष्णम् उपद्रवन् स प्लुतं दधद् विप्लुत-शक्तिर् आसीत् ॥१८॥ तिस्रः कोटय एता यवनानां तत्र सान्द्रताम् आपुः । तद्-राट् चानुद्रुतवांस् तद् अपि वकारिर् न केनचित् स्पृष्टः ॥१९॥
[५४] व्रजराज उवाच—ततस् ततः?
[५५] दूताव् ऊचतुः—ततश् च दक्षिणाहि मथुराया लक्षितं पश्चिमेन धवल-नगरं गिरिम् अनुषज्य तेन तर्ज्यमानोऽप्य् अदरी तद्-दरीम् अवरीकृत्य कृत्यम् अनु वरीयान् केशवः स विवेश । अनुविशंश् च स पुनर् अदीर्घ-दर्शी तत्र निद्राविष्टं कम् अपि द्राघिष्टं पुरुषं रुषा तम् एव मन्वानस् तद् इदम् अवादीत्—स्थाली-विलीयवद् विलीयमानतां गच्छन्न् अन्तः-स्वच्छ इव स्वपिषीति । तद् इदं वदन्न् एव मदात् पदा बाढन्तताड; ताडयंश् च तद्-दृष्टि-विष-बृष्टितः सद्य एव भस्मसाद् भवति स्म । कृष्णस् तु तत्-कौतुक-सतृष्णस् तत्रैव लीनः पश्यति स्म ।
[५६] अथ सर्वे सोच्छ्वासम् अपृच्छन्—ततस् ततः?
[५७] दूताव् उचतुः—ततश् च भवतां जीवन-रूपः स च लघु लघु सचमानस् ताम् एव तस्य दृष्टिम् अमृत-बृष्टिम् इव परामृष्टवान् ।
[५८] उपनन्द उवाच—तद् इदम् अहो! अन्धक-वर्त्मकीयं जातम् । यस्मान् मुचुकुन्द-नामा भगवद्-भक्ति-धामा तत्र निद्रायते । तं च जागरयंस् तद् दृष्ट्या प्लुष्टीभविष्यतीति किंवदनी यसीद् एषा तदैव दैव-घटिता जातेति । किन्तु सेयं च येन ज्ञात्वा किल प्रत्यक्षीकृत्य सम्प्रत्यक्षीकृता तस्य कथ्यताम् अन्यापि दामोदरस्य रहस्य-चातुरी-सुरीतिता ।
[५९] दूताव् उचतुः—आस्तां तावद् अस्य चातुरी, एका माधुरी सर्वम् असीम-वशीकरोति । तत्र माधुरी-वर्णना तु भवत्सु न युक्ता, पुनर् उक्ता हि सा भवेद् इति ।
तथा हि—
तद् असित-घन-लक्ष्म्यां चातकास् ते भवन्तस् तद्-अवयव-विचित्र-श्रीचये दिव्य-नेत्राः । तद्-अतिगुण-सुधानां स्वादने देव-वर्य्या व्रज-कुल-पतयः किं तस्य वः श्रावणीयम् ॥२०॥
[६०] तत्र तस्य परम-वृद्धस्य च तत्र समृद्ध-सार्द्रतामयं वचनं कर्णे विरचयत—
स्फुटिततर-खराग्र-ग्राव-खण्डातितीक्ष्णे पटुतर-कटु-जाग्रत्-कण्टक-व्राततीव्रे । स्थपुट-गिरितटान्तः स्निग्ध-नीलाङ्ग-पद्भ्यां नव-कमल-मृदुभ्यां हा कथं भ्राम्यसि त्वम् ॥२१॥
[६१] अथ तद् एतद् दूत-वर्ण्यमाणम् आकर्ण्य लब्ध-करुणा-सज्जनाः क्षण-कतिपयं रोरुदामासुः; रुदित्वा च स-गद्गदं ऊचुः—ततस् ततः?
[६२] दूताव् उचतुः—अथ समुद्बुद्ध-भावः स महानुभावस्य विशेषं प्रष्टुं निज-विशेषं सुष्ठु कथयामास ।
[६३] कथिते च तस्मिन् कृत-स्मितः कृष्णः स्व-विशेषम् अपि यथायथं तस्य कर्णयोः श्लेषयामास । तद् एवं मिथः स्निग्धता-विद्धयोर् द्वयोः स तु मुचुकुन्दः सर्वत्र विरज्य, मुकुन्द एवासज्य, तत्-सङ्ग एव स्व-मङ्गलम् इति तम् एव ययाचे । मुकुन्दस् तु तत्र तद्-इष्टं सहसा नाकल्पिष्ट, किन्तु काल-विलम्बम् आलम्बिष्ट । यत्र च कारणं विचारयताम् अस्माकं तद् धि जानन्ति तद्-विदः इत्य् एव मनस्य् आवर्तते । दुर्लभः खलु भवत्-कुल-चन्द्रमः-सङ्गः इति च । यतः,
शान्ततां यद्यपि प्राप्तः स तेनैकान्तिकाम् अपि । अदर्शद् एव तं तस्य स्पर्श-मात्रं न चासदत् ॥२२॥
[६४] व्रजराज उवाच—ततस् ततः?
[६५] दूताव् उचतुः—ततः स तु तद् अधिगम्य मुहुः प्रणम्य पुनस् तद्-उपासनायाम् एव वासनां विधाय तपसे समुपसेदिवान्, यत्र कृष्ण-सङ्गाय एव सततम् आसीत् ।
[६६] तद् एवं यावच् छ्री-कृष्णेन काल-यवनः स जिग्ये, तावत् तद्-अग्रजेन मथुरा दिग्ये ।
[६७] अथ मथुरा-नाथस् तु रथादि-सामग्रीं स्मरण-मात्राद् अग्रीयां कुर्वन्न् आगत्य तु पाञ्चजन्यं दध्मौ—कालः काल-वशं यात इति ।
[६८] ध्माते च तत्र श्री-बलभद्रश् च किं कुर्मस् तद् विधेहि न इति स्व-शङ्ख-नाद-सङ्करतया निष्क्रान्तः । निष्क्रान्ते च तस्मिन्न् असौ पुनः शङ्खं दध्मौ—हत तुच्छान् इमान् म्लेच्छान् हलेन मुसलेन च इति ।
[६९] ततः श्री-रोहिणी-नन्दनः स्व-मुसलाघातानन्दम् आरब्धवान् । श्रीमन्-नन्द-नन्दनश् च नन्दकाघात-सुख-व्रातम् इति स्थितेन तु वयं ज्ञातवन्तस् तदा कदा पुनर् अश्वादि-मिश्रास् तिस्रोऽपि म्लेच्छानां कोटयः कृत्ता वृत्ता इति । तत्र तु हन्यमानानां तेषाम् अगण्यमानानां यन् म्लेच्छितम्, तत् केवलम् उच्चारणत एव यदु-वीरान् स्मारयामास, न पुनर् अर्थतः, स हि दुर्बोध एवेति । ततश् च,
च्छिन्नैर् भिन्नैस् तुरुष्काणां मूर्धभिर् द्राढिकावृतैः । तस्तरे धरणिस् ताल-लक्षैर् इव समक्षिकैः ॥२३॥
[७०] व्रजराज उवाच—ततस् ततः?
[७१] दूताव् ऊचतुः—ततश् च तेषां यत्र कुत्र पतितानि शरीराणि क्षेप्तुं धनानि च सङ्क्षेप्तुं यदा ताभ्यां युक्ता जना नियुक्तास् तदा तु मन्त्रि-वरम् उद्धवं निजागमनानुज्ञापन-प्रार्थनं श्रावयित्वा, तस्माद् इमां कथां श्रुत्वा, श्री-कृष्ण-प्रस्थापिताभ्यां निज-सङ्गेऽवस्थापिताभ्याम् आभ्यां दूटाभ्यां सह भवत्-पद-सदनम् आसादयाव । किन्तु ज्ञात-भवद्-भविक-वृत्ताव् इमौ शीघ्रम् एवानुज्ञातव्यौ; यथाभ्यां राम-रामानुजौ सान्त्वयितव्यौ स्याताम् ।
[७२] तद् एतच् छ्रवसि योजयित्वा तौ भोजयित्वा वस्त्रालङ्कारादिना रोचयित्वा निज-दूताभ्याम् अन्याभ्यां सह स-न्यायं व्रज-पतिना प्रस्थापिताव् इति ।
[७३] अथ सम्प्रति सम्प्रतिपन्न-शुश्रूषावेशेन व्रजेशेन सन्देशेन यौ दूतौ योजितौ, यौ च यदु-व्रजेशेन, तौ च तौ च मधुर-जन-पुण्यं मधु-पुरं शूण्यम् एवावलोच्य भृशम् अनुशोच्य व्रजम् एवाव्रजितवन्तौ, पथि तु श्रुतवन्तौ—जरासुतः श्री-कृष्ण-रामाव् अनुद्रुतः सन् द्वारका-दिशं विशति स्म इति ।
[७४] ततश् च श्री-कृष्ण-दूतौ तद्-वार्ता-सतृष्णतया द्वारका-पथम् एव जग्मतुः । व्रजपति-दूतौ तु विशेषं श्रावयितुं श्रोतुं च व्रजम् एवाजग्मतुर् व्रजम् आगत्य तद् एव कथयामासतुश् च । कथिते तु तस्मिन् व्रजराजादयः समस्ता व्यग्रता-ग्रस्ता बभूवुः । तद् अलं तस्य वर्णनेनाकर्णनेन च ।
[७५] अथ द्वारका-दिशम् एव प्रस्थापितयोस् तयोर् अन्ययोर् अन्ययोर् अपि दूर-गततया झटित्य् अनागतयोर् दुर्गतिमये दिन-कतिपये च लब्ध-व्यत्यये, शत-योजन-व्राजिनौ वाजिनौ समारुह्य प्रसन्नता-जुषौ कौचित् पुरुषौ समागतौ । समागम्य च श्री-व्रजराज-चरण-राजीवं पुरतः प्रणम्य रम्यम् इदं निवेदयामासतुः—परम-मङ्गल-सङ्ग-लवलिम-बलवद् बल-बलानुजौ कृत-शात्रव-रुजौ तत्रभवत्सु चरण-प्रणिपाताचरण-पुरःसरं विज्ञापयतः स्म ।
[७६] अथ तद् एतन्-मात्रं कर्ण-पात्रं विधाय स-पुलक-गात्रं सर्वेऽपि प्रोचुः—ततस् ततः?
[७७] दूताव् उचतुः—तद्-विज्ञापनं त्व् इदं विज्ञापयताम्—वयम् अत्र निःश्रेयस-मिश्रतया शत्रु-दुर्गमं द्वारकाख्यं दुर्गं सङ्गताः; यत्र दृष्टम् अदृष्टं च भयं न दृष्टं भविता । तथापि तत्रभवतां भविकम् एकास्माकं भविकाय भवितेति तन्-निःसन्दिग्धं सन्दिश्य वयम् आनन्दनीया इति ।
[७८] विशेषतस् त्व् इदम् अनुजः स-गद्गदं निवेदयामास—
सम्बन्धेन ममात्मजस्य बहुशस् तान् पूतनाद्य्-आचितान् उत्पातान् बत यूयम् आपुर् असतः श्री-गोकुले तत्र च । पुर्यां तत्र च मागधादि-यवन-प्रान्ताहृतान् इत्य् अतः कालं क्षेप्तुम् इहागमं द्रुतम् इतः प्राप्तं तु जानीथ माम् ॥२४॥ इति ।
[७९] तद् एवं सम्यङ् निशम्य स गोपाधिपतिर् उवाच—दिष्ट्या तादृशं दुर्गम् अधिष्ठानम् अनुष्ठितम्, यद् गोकुलम् इव माथुरं पुरम् अपि भयाकुलं भाति । भवतु, पश्चाद् विशेषं प्रक्ष्यामः, सम्प्रति तु भोजनाय ताव् इमौ योजयथ ।
[८०] अथ भोजनानन्तरं सर्वैः सहोपविश्य कृष्ण-वृत्तान्त-श्रवणायाविश्य तौ स महेच्छः पप्रच्छ—कथ्यतां कथं कथं द्वारका-पथं ताव् आश्रितौ इति ।
[८१] दूताव् ऊचतुः—आवां खल्व् इमौ श्रीमद्-उद्धव-दासताम् अध्यास्वहे । आश्रित-यदुपत्य्-आदेशात् तद्-उपदेशाद् एव च सन्देशं वः स-देशं प्रवेशयितास्वहे । यदा म्लेच्छानां धनानि न स्वेच्छा-विषयीकृतानि, किन्तु राज-द्रव्याणीति रक्षितानि, तदा पूर्ववद् अन्धता-कल्प-सन्धस्य जरासन्धस्यागमनं लक्ष्यं विधाय तानि त्यक्ष्यद्भ्यां सम्प्रति तु द्वाभ्याम् अपि ताभ्यां पलायन-कुतूहलम् आरब्धम् । आरभ्यमाणे च तस्मिन्न् असौ स-देशम् एवाविवेश । आविष्टे च तस्मिन्न् अनिष्टे श्री-कृष्णस् त्व् इदम् आबभाषे—
अस्माभिर् बहुधासि हन्त विधृतस् त्यक्तश् च तस्मात् पुनस् तत् कर्तुं त्रपया न शक्तम् इति चेद् धन्तुं विदूरे स्थितिः । तस्मान् मागध-विद्रवोऽद्य रचितः किं त्व् अत्र चास्ति स्फुटं शक्तिस् ते यदि नौ जितौ कुरु न वा सम्प्रत्य् अपि त्वं जितः ॥२५॥
[८२] तद् एवम् उक्त्वा द्रव-केलि-परिहासानाम् एकार्थताम् इत्थम् अपि प्रथयति स्म । यत्र स्व-कटकं पृष्ठत एव मुक्त्वा तद्-रक्षणाय पर-कटक-मध्यम् अन्व् आत्मानं युक्त्वा तत्-पृष्ठ-वर्त्मना विद्रुतं स-राम-माधवं स मागध-राड् अनुदुद्राव । न केवलं स एव, किन्तु रथ-कड्यादि-त्रयोविंषत्य्-अक्षौहिणि च ।
द्रुतम् अन्वगंसातां वा मागध-राजेन वाग्-अधः-स्थेन । समगंसातां नतरां कंसाराति-प्रलम्बारी ॥२६॥
तथा हि—
यदा मागध-सेनान्तस् तौ विदुद्रुवतुः स्फुटम् । विद्युत्-प्रायौ तदा दृष्टौ न स्पृष्टौ तत्र केनचित् ॥२७॥ पदे पदे स्पृशत्-प्रायः प्रदुद्राव स मागधः । कल्प-कोटिभिर् अप्राप्यतया दुद्रुवतुस् तु तौ ॥२८॥ अक्षौहिण्यः परिश्रान्ता न तु शश्राम मागधः । पर्यश्राम्यन् मागधोऽसौ न परिश्राम्यतः स्म तौ ॥२९॥ हसन्तौ द्रुतवन्तौ तौ गर्जन् दुद्राव मागधः । हर्षस् तयोर् बलं चक्रे क्रुज्-ज्वाला तस्य खिन्नताम् ॥३०॥ पलायमानाव् अपि ताव् उल्लसितन् मुख-पङ्कजौ । जिघृक्षन्तम् अपि ग्लानं वीक्ष्य तं जहसुः सुराः ॥३१॥ मध्ये मध्ये केलि-गत्या व्यतिजित्य द्रुताव् अमू । स तु तस्मिन्न् अशक्तः सन् नासीद् धिक्-कृत-जीवनः ॥३२॥ तौ तु पञ्च-शत-क्रोशिम् अतीत्य् आरोहतं गिरिम् । दशैक-योजनोत्तुङ्गं दुरारोहन् त्व् अनेन यः ॥३३॥ द्विष्पीत-दव-वह्निं तं वह्निनापचिकीर्षवः । दूराद् एधांसि ते चित्वा दहन्न् अद्रिं प्रवर्षणम् ॥३४॥ प्रतीयेत न वा वार्ता-हर्ता सत्यं तु भाषते । उत्प्लुत्य तस्माद् अद्रेस् ताव् उपद्वारकम् आरतुः ॥३५॥ विहङ्गमादि-सत्त्वानाम् उत्प्लवः सम्भवत्य् अपि । परैर् अलक्षितत्वं तु लक्षितं केवलं तयोः ॥३६॥ न दूरात् पतितत्वेऽपि कोऽप्य् अभूद् विक्लवस् तयोः । हसन्ताव् एव तौ यस्माद् द्वारका-द्वारि वीक्षितौ ॥३७॥ बद्ध-केशांशुकौ तर्हि स्वेदोद्यद्-वदनांशुकौ । अव्यग्रौ समम् एवास्ताम् अभ्यग्रौ निखिलस्य तौ ॥३८॥
[८३] व्रजराज उवाच—जरासन्धादयः पापिनस् तदापि निवृत्ताः !
[८४] दूताव् ऊचतुः—
जरासन्धादयो दृष्ट्या तर्ह्य् अन्धा नाभवन् परम् । किन्तु बुद्ध्यापि यत् तस्मिन् मेनिरे विपरीतताम् ॥३९॥ हरिम् अनु विपरीत-भावनायां सुखम् अगमन् यद् अमी जरा-सुताद्याः । चर-कृत-नहि-कारतस् तदासीद् असुखम् अघाद् उदितं यद् इत्थम् एव ॥४०॥
[८५] तदा चान्धायमाना जरासन्धादयस् तु—
गत्य्-आगतिभ्यां ते तत्र तृषार्ता मरु-वर्त्मनि । अल्पे कृच्छ्राद् गताः सद्म स्वस्यानल्पे मृतेशितुः ॥४१॥
[८६] किं बहुना? म्लेच्छ-धनानि च तानि पुनर् नानुसन्दधुर् यानि खलु क्रमाद् द्वारकायाम् एव पर्युपशोभा-रचनाय पर्यवसितानीति पर्याकलयन्ति ।
[८७] तद् एतच् छ्रुत्वा सर्वेषु सास्रं हसित्वा श्वसित्वा च विरमत्सु व्रजराज उवाच—
हा तयोश् चरण-पल्लवाः कथं तत्र कर्कश-पथे गतिं व्यधुः?
[८८] दूताव् ऊचतुः—
स्पर्ष-मात्रम् इव तौ भुवस् तदा बिभ्रतौ नभसि चक्रतुः प्लुतम् ॥४२॥
[८९] अथ तद् एतन् निवेद्य दूतौ व्रज-सदसः समासादित-प्रसादतया प्रभूतौ द्वारकां प्रतस्थाते । प्रस्थान-समये च श्रीमन्-नन्द-गोपति-नाम्ना समस्तानां च तद्-अनुगत-साम्ना पत्रिका दत्ता । यथा—
सहामहे त्वद्-विरहस्य पीडां मा तत्र चिन्तां कुरु गोकुलेन्दो । अभूम यद् दुर्जन-दुर्गमायां पुर्यां त्वद्-आवास-सुधाद् बलिष्ठाः ॥४३॥ इति ।
[९०] अथ स्निग्धकण्ठः समापनम् अह स्म—
यद्यपि समरे कुतुकी तद् अपि त्वरितं हरिर् जघानारीन् । भवद्-अङ्के स्थितिर् एषा द्रुततरम् अस्यान्यथा न स्यात् ॥४४॥ क्व प्रवर्षण-गतिः क्व वा हरेर् द्वारका-निवसतिश् चिरन्तनी ? क्वायम् अस्मद्-उदयः स दृश्यतां श्री-व्रज-क्षितिभृद्-अङ्कग-स्थितिः ॥४५ ॥
[९१] तद् एवं श्री-व्रजेन्द्रादीन् सन्तोष्य तत्-प्रसाद-पोष्यतया स्व-सुख-प्रथकौ तौ कथकौ कथां रचितवन्तौ ।
[९२] अथ व्रज-वन्दिनश् च तत्र तं साक्षाद् वन्दितवन्तः—
भीष्मक-पुर-भाग-चलित-राज-निवह-राज्य-वलित । सर्व-विबुध-वृन्द-महित तत्र च निज-गर्व-रहित ॥अ॥ माथुर-पुर-तोष-वलन ख्याति-कलित-शत्रु-दलन । काल-यवन-लब्ध-वृतिक काल-यवन-काल-कृतिक ॥ब्॥ स्वापगमन-लील-गमन केलि-महसि दुष्ट-शमन । अन्वयद्-अरि-दुर्गम-गम नर्म-घटन-पण्डिततम ॥च्॥ सङ्गत-मुचुकुन्द-सदन कॢप्त-सभय-कम्प-वदन । विष्ट-गहन-पर्वत-दर दृष्ट-शयित-तन्-नरवर ॥द्॥ तत्र यवन-राड्-अनुगत गोपन-कर-धाम-निरत । तद्दुत–मुचुकुन्द-करुण तामस-गण-दीव्यद्-अरुण ॥ए॥ शस्त्रित-मुचुकुन्द-नयन निर्मित-यवनेश-लवन । तर्षित-मुचुकुन्द-हृदय भक्त-लषित-दान-सदय ॥अं॥ सृष्ट-यवन-कोटि-निधन तत्र च युधि संहत-धन । अङ्ग-मगध-राड्-अनुगत त्यक्त-घृणित-तद्-धन-शत ॥ग्॥ पूर्ववद् अपयानक-मन मागध-नृप-जैत्र-गमन । वर्षण-गिरि-मूर्ध-वलन उत्प्लुति-जित-दाव-कलन ॥ह्॥ सिन्धु-ग-यदु-पत्तन-हित सर्व-भुवन-लोक-महित । साम्प्रत-मित-गोष्ठ-निलय गोष्ठ-नृपति-पुतक-जय ॥इ॥ ॥४६॥ इति ।
[९३] तद् एवं कथावेश-वशात् कण्ठ-निबद्धं चिन्तामणिम् इव तं विस्मृत्य चिन्तातुराम् अमून् प्रति वन्दिनः स्निग्धकण्ठवद् एव तम् आयत्यां समक्षम् अनुभाव्य, स्वाभाव्यतः श्रीमद्-व्रज-हिताः श्रीमद्-व्रजराजेन विहित-विसर्जिताः सर्वैः सह यथायथं जग्मुः ।
[९४] अथ रात्रि-कथायां श्री-राधा-माधव-सदस्य् आरब्ध-प्रथायां स्निग्धकण्ठः कथयामास—यद्-अवधि स उद्धवः समस्ताण् व्रजस्थान् यथायथम् आश्वास्य विश्वास्य च यदु-धाम जगम, तद्-अवधि जातु जातु स्वापे जागरे चैकाकिता-समवाये कृष्णस्य साक्षात्कार-कल्पस् तान् पुष्णाति स्म । बहु-संहिततायां बहिर्-अनुसंहितिस् तु मथुरा-स्थितिम् अनुसंहितां करोति स्मेति । यद्यपि साधारणोऽयं व्यवहारस् तथाप्य् अस्ति विशेषः । श्री-कृष्ण-प्रेयसीनां यदा यादृशी वृत्तिर् जायते, तदा तादृशी चिरं गाढम् आरूढतां ऊढवती मूढवती भवति स्मेति ।
[९५] तदा च यदा कमलाक्षः साक्षात्काराय कल्पते, तदा बाहु-वल्ली-वलयितं कलयन्ती निरोत्स्यामि इति प्रति-स्वं कृत-चरं मन्त्रम् अपि तद्-अङ्ग-सङ्ग-सम्मद-परतन्त्रतया विस्मृति-विद्धं रचयन्तीनाम् अकस्मात् तद्-अन्तर्धाने तु न वाञ्छित-विञ्छोली सिध्यति, किन्तु माथुर-पुर-सन्देश एवावेशः स्यात् । ततश् च मुहुर् अपि व्रज-राज्ञी-चरण-परिसरणम् एव शरणं भवतीत्य् उभयी गतिर् यावत् प्रिय-प्रत्यागमनम् आसीत् । उद्धवस् तु गुप्त-स्वस्तिमुख-मुखतः पूर्व-पूर्ववद् एव यदु-देव-सन्दिष्टम् उप्तं कुर्वन्न् अस्ति स्म ।
[९६] श्री-कृष्ण-स्फुरणास्फुरणयोस् तु—
दधत्यः स्फीतं ताः क्वचन वपुर् आभां च महतीं क्वचिच् च क्षीणां तत्-क्षय-युजम् अमूं च प्रति-मुहुः । प्रिय-स्नेह-प्राप्ति-स्फुरण-तद्-अयोग-व्यतिकृतिं गता या दीपाल्यस् तद्-उपमितिम् उच्चैर् ववलिरे ॥४७॥ राधा-प्रेम्णः सुखं दुःखं चान्वकुर्वंस् तद्-आलयः । यथा ऋतु-प्रथा भानोः सौम्यताम् उग्रताम् अपि ॥४८॥
[९७] यदा च श्री-कृष्णेनातितृष्णेन तौ स्व-हितौ दूतौ प्रहितौ, तदा प्राग् मिथः सङ्केतित-वेषेण लिपि-विशेषेण शस्तं स्वस्तिमुखं विधाय, सोऽयं सुबल-हस्ते वलनीयः इति तद्-उक्ति-कृत-नियुक्तिभ्यां ताभ्यां तथा कृतं, यथा सुबलश् च तासु तम् अवकलयामास । यथा—
यद् विदूरम् अगमं तद् इदं वः स्याद् अदूर-गति-भाग् इति वित्त । आगति-प्रतिरुधोर् मम मित्रा- मित्रयोः पुरम् इदं प्रतिरोधि ॥४९॥
[९८] तादृश-लिपि-कॢप्त-लेखश् च ताभिर् अप्य् उद्धव-हस्ते देयः सोऽयम् इति सुबल-द्वारा निधीयते स्म ।
[९९] स यथा—
अकण्टकम् अकर्करं चलसि यर्हि वृन्दावनं तदापि चरण-व्यथां तव वितर्क्य यः खिद्यते । कथं द्विषद्-अनुद्रवाद् विषम-वर्त्म शैलाक्रमाच् छ्रुताद् अहह जीवनं वहतु स व्रज-स्त्री-जनः ॥५०॥ इति ।
[१००] अथ स्निग्धकण्ठः समापनम् आह स्म—
आस्तां भवल्-लेख-निशामनोत्थं
तदातनं दुःखम् अमुष्य दूरे ।
आलिङ्ग्य सोऽयं भवतीम् इहास्ते
तथापि शक्नोति न रोद्धुम् अस्रम् ॥५१॥
यद् इदम् उदितम् आसीच् छ्रव्यम् एतन् न दृश्यं तद् अपि विरहितास्या दृश्यवद् भाति पश्य । यदि च हरि-समक्षं सम्प्रतीदृश्य् अवस्था कथम् इव न तदा स्याद् यर्हि हा तद्-वियोगः ॥५२॥
[१०१] तद् एवं-विधया विधया तस्यास् तत्रावधानं विधाय परमानन्दं सन्धाय वासाय चलितयोः सूत-सुतयोः सर्वे यथायथं स्व-पथम् अनुववृतिरे । श्री-राधा-माधवाव् अपि वलित-स्नेहं ललित-गेहं कलित-लीलतया शीलयतः स्म ।
इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
यवन-जरा-भव-निर्जय-जवं नाम
चतुर्दशं पूरणम्
॥१४॥
(१५)
अथ पञ्चदशं पूरणम्
श्री-बलदेव-विवाहः
[१] अथ प्रातः कथान्तरं यत्र श्री-कृष्ण-कृत-महसि व्रजराज-सदसि मधुकण्ठ उवाच—गतयोश् च तयोः श्री-कृष्ण-प्रेषितयोस् तद्वद् व्रजेश-प्रहितयोर् अन्ययोर् अपि व्रज-सान्त्वनाय कुतः कुतश्चित् तत्-पुरतश् च यत्-किञ्चिद्-वार्ताम् आदाय शिघ्रम् एव पृथक् पृथग् आगतयोः श्री-व्रजराजादयो मन्त्रयामासुः—सम्प्रति दूरं गच्छति स्म वत्सः । तर्ह्य् अव्याहतं कथं वृत्तम् अनुवर्तितास्महे ?
[२] उपनन्द उवाच—दूतानां प्रभूत-युग्मता कार्या, यथा नित्य-नित्यम् एकं युग्मम् आजग्मिवद् भवति ।
[३] व्रजराज उवाच—प्राङ्-मिश्राणां तिग्म-जवानां युग्मानां शतं विधीयताम् इति ।
[४] अथ तत्राहो-रात्रेण गव्युतीनां षष्टिं सुष्ठु क्रामताम् अन्यतरौ लब्ध-तद्-आज्ञा-वितरौ पञ्चभिर् वासरैर् द्वारकाम् आसदितवन्तौ । आसाद्य च तत्र सर्वम् अत्रत्यं वृत्तम् उद्धवम् अन्तरे विधाय श्री-कृष्णाय समर्पितवन्तौ । श्री-व्रज-भूपतिना प्रभूतानां दूतानां विनियोगं च श्रावितवन्तौ ।
[५] अथ स्वयं श्री-कृष्णः प्राह स्म—नेत्थम् अपि वृत्ताव्याहतिः प्रतिपत्तव्यता भवति, किन्तु शत-योजन-व्राजिनां वाजिनां शत-द्वयम् एभ्यः समर्प्यताम्, यथा गमनागमनम् अनारतं भवति इति ।
[६] अथ तौ तत्रत्यं वृत्तं सङ्गृह्य वाजिनावारुह्य व्रज-समाजम् आव्रज्य प्रथमं तेषु तत्-कुशलं संसज्य वार्तां वर्तयामासतुः—
[७] यद्यपि मथुरा निकते, तथापि तत्र मुहुर् अटितवतोर् आवयोर् नेदृशं सुभृशं सुखम् उपजातम्, निरन्तरोत्पात-सम्पात-दर्शनात् । द्वारकायां तु सुख-सारश् चक्षुर् विस्तारम् अनुससार, यस्माद् उत्पात-मात्राद् दूरीभवन्ति सा पुरी यादृग् उरीकृत-सुख-सुरीतिर् अवलुलोके, लोके तु तादृशता भृशद् दुर्लभा इति । तथा हि—
यत्राब्धिः सुष्ठु धत्ते परिगत-परिखा-रूपतां यत्र पर्यक् प्राचीरं वीर-नेत्रातिग-शिखरवतां यत्र वीक्षा3 पृथक्ताम् ।
द्वार्वत्यां तत्र बाढं भयम् अपि सभयं नावगाढं समन्ताद् भावीति स्वान्तम् उच्चैर् वहति सुख-शतं सन्ततं गोष्ठ-देव ॥१॥ स्वर्णानां मौक्तिकानाम् असित-मणि-हरिद्-रत्न-वैदुर्यकाणां हीराणां विद्रुमाणां रवि-शशि-दृशदां पद्म-रागादिकानाम् । कैवल्यान् मिश्र-भावान् मधुर-रुचि-धुरा-सद्मनां सद्म-वृन्दैः सा दिव्या पूर-पूर्वं प्रमदम् अदिशत श्रोत्र-दृक्-चित्त-दूरम् ॥२॥ यस्यां देव-द्रुमास् ते परम-सुर-सभा सा निधीनां स-वर्गः4
स्वर्ग्यावस्थाम् अतीत्याप्य् अतिरुचिम् अदधुर् विस्मिता यत्र देवाः । अस्माभिः पूर्वम् आसन् मुहुर् अपि यदवः सुष्ठु दृष्टाः परन्तु प्रेक्ष्यन्ते साम्प्रतं चेद् दधति परिचयं हन्त नापूर्व-लक्ष्म्या ॥३॥ सुधर्मानन्दने न प्राग् यथार्ह-फलतां गते । इतीव ते यथा नाम सफले कृतवान् हतिः ॥४॥
[८] किं बहुना? यत्र भागधेयं दधत्यश् च प्रजाः प्रजात-श्री-कृष्ण-वैभव-दर्शना भागधेय-लाभम् एव मन्यन्ते । तद् एवं कृत-कृत्यायाम् अपि द्वार्वत्याम् अकृत-कृत्यान्तः-पुरता प्रतीयते; यतः,
पताका-युक्-चूडा-पटल-वडभी-स्तम्भ-वरणा- ङ्गनाद्य्-अङ्गा यस्यां बहिर्-अबहिर्-अंशा मणि-रुचः । महान्तः-पूर्य् एषा यद् अपि वलिता नील-निधिना तथाप्य् उच्चैर् अस्याप्य् उचित-वृति-लक्ष्मीर् मृगयते ॥५॥
[९] अथ तां पुर-शोभाम् आवयोः स-वैलक्ष्यम् ईक्षमाणयोर् भवत्-कुल-चन्द्रमा विहस्य प्राह स्म—किं पश्यथस् तत्र भवताम् इतोऽपि विलक्षण-वैभवम् अस्ति, यद् वरुण-लोकाद् आगम्य रम्यतया निशामितम्; यच् च साधु-प्रमाथानाम् उत्क्राथनानतरं निशामयिष्यते इति ।
[१०] व्रजराज उवाच—कथं किल विलम्बं भवन्ताव् अवलम्बाते?
[११] ताव् ऊचतुः—तत्र महामहः संवृत्तः इति ।
[१२] व्रजराज उवाच—कथ्यतां कीदृशः?
[१३] ताव् ऊचतुः—आश्चर्यम् इदम् इति प्रतीतिम् आचर्य श्रूयताम् ।
[१४] तद् एवं श्री-हरेर् दर्शनामृत-भृत-चित्ततया तत्र लब्ध-भावयोर् आवयोर् उपवन-पालकः कश्चिद् आगत्य साश्चर्यतया तम् उवाच—देव! ताल-प्रमाणः कश्चिन् मानवः कयापि तादृशा सुदृशा समम् आगत्य कत्य् अपि दण्डानत्य् अपूर्वतया सर्व-विचारं खण्डयंस् तेजसा वनं मण्डयंश् च वर्तते, वदति च— सात्वत-पति-मिलनायकिल सङ्गतवान् अस्मीति । लोकास् तु प्रथमं भीताः, पश्चात् तु मद्विध-सविधतया भीतिम् अतीतास् तद्-अवलोकाय निःसीमाः सीमानम् अतिक्रम्य निष्कुटं पुट-भेदनम् इव चक्रुर् इति ।
[१५] अथ श्री-कृष्णे च तद्-दर्शन-सतृष्णे स्वयम् एव नर-यानतया चलत्य् आवाम् अपि तद्-अनुगत्या तत्र गतवन्तौ । तयोर् अग्रे सर्वांल् लोकांस् तन् नव-तोकानीव च विलोकितवन्तौ । विलोक्य च विचारितवन्तौ— कतिभिर् अहोभिर् अहो! ताव् एताव् एतावत्-प्रमाणतां याताव् इति ।
[१६] सर्व्ऽपि व्रजस्थाः प्रोचुः—ततस् ततः?
[१७] दूताव् ऊचतुः—स पुनः श्री-कृष्णं पश्यन्न् एव सुख-वश्यतया दण्डवत् पतन्न् अनेन बाहुभ्याम् उन्नमय्य शिरसा प्रणम्य चाभिमुखं स-सुखम् उपवेशितः । सा काचित् तु स-लज्जा स्वावरण-पर्यापणाय दृष्टं तत्-पृष्ट-देशम् अनुनिवेशं लब्धवती ।
[१८] व्रजस्थाः प्रोचुः—ततस् ततः?
[१९] दूताव् ऊचतुः—ततश् च द्वारका-पतिना तद्-विशेषम् अनुयुक्तः स तु तद् इदं मेघ-गर्जितम् इवार्जन्न् उक्तवान् । यर्हि बर्हिणश् च बृहद्-उल्लासाद् अर्हितम् एव शकुनम् उल्लपन्ति स्म ।
[२०] तद् वचनं यथा—अहं किल रेवत-स-पर्याय-ककुद्मि-नामा प्राक्तन-राज-ग्रामान् आकर्णयता भवता कर्ण-गोचरताम् आनीत एवास्मि । स खल्व् अहम् अनया नव-तनयया साकं नाकं व्यतीत्य ब्रह्मणः स्थानं प्रति प्रस्थानं कृतवान् । कारणं तु प्राचीना वयं नार्वाचीना इव भङ्गीभिः स-प्रसङ्गीकरवाम; किन्तु प्राञ्जलम् एवेदं वेदम् इव कर्णासञ्जनं नीयताम् । तस्याः खल्व् अस्या विलक्षणं लक्षणम् आलक्ष्य स-लक्षणं नरम् अनालक्ष्य वरता-योग्यम् एव प्रष्टुं स्रष्टुः समीपम् एतया तं विलोकयितुम् अभ्युपेतया समम् अगमम् इति । स्रष्टा तु तदा नाट्य-द्रष्टासीत् । पश्चात् तु तत्-कौतुकाविष्ट-चरं स्मितम् आचरन् माम् आदिष्टवान्—अत्र खल्व् अल्पतया यः कल्पते कालः, स तु तत्र कल्प-कल्पस् तस्माद् भवद्-दृष्टः सर्वश् च काल-स्पृष्टताम् अवाप, न च कश्चित् तदामुष्याः परमायुषाया विचित्र-लक्षण-पवित्र-तनोः सुतनोः पति-योग्यां गतिम् अवाप । सम्प्रति तु प्रतीमः—श्री-कृष्णाग्र-जन्मा राम-वर्मा खल्व् अस्याः शर्मार्थं भवेद् इति ।
[२१] ततो मया पृष्टम्—सम्प्रति साम्प्रतिक-जनानुरूपम् एव तत्र तद्-रूपं भवेत् । सेयं च द्राघिष्ठा कथं तस्य द्वितीयतायां विशिष्टा भवतु?
[२२] स तु प्राह स्म—
त्रि-वक्रा-वक्रता-हारि-ज्येष्ठः स च तथाविधः । एतां श्रेष्ठतमां कर्ता भर्तास्याः सर्वदा हि यः ॥६॥
[२३] ये तु विरिञ्चि-मुखाद् भवतो विशेषाः श्रुतास् ते खलु शेषाद् अपि दूरा इति न तान् वर्णयितुं शूराः स्म । तस्माद् इतः परं यथायथं प्रथयन्तु तत्रभवन्तः इति ।
[२४] व्रजराज उवाच— ततस् ततः?
[२५] दूताव् ऊचतुः—ततश् च भवद्-वंश-चन्द्रमा मन्द-हासतत्या तुष्णीकाम् आसद्य सद्यश् चिन्तितवान्—यदु-वंश-मस्तकाभरणानां श्रीमद्-अग्रज-चरणानां क्षत्रिय-कन्या परम् उद्वाहाय भवति । न च मद्वद् विचारान्तरम् अन्तरायतया वर्तते । समुपनत-परित्याग-दोषतस् तं स्वाग्रजम् अप्य् अङ्गीकार-पोषम् आनेतारः स्मः । तस्माद् उरीकृत्य पुरीं परिनिवृत्य मन्त्रं वलयिष्यांअः इति ।
[२६] व्रजराज उवाच— ततस् ततः?
[२७] दूताव् ऊचतुः—ततश् च तथा विधाय तत्रैव दैवतवत् तस्यातिथ्यं सम्विधाय श्रीमद्-आनकदुन्दुभ्य्-आदिभिः समं मन्त्रयित्वा श्री-रामम् अपि तेन परतन्त्रयित्वा तद्-अनुज्ञापनया हल-प्रस्थापनया निशि शयन-श्लिष्टां तां योग्यता-विशिष्टाङ्ग-प्रापणया नन्दयित्वा श्री-हरिस् तयोर् विवाहम् एव निर्वाहयामास इति ।
[२८] किं बहुना ? अथ सर्वेषु साश्चर्यतयाखर्वेहतां चिरं गतेषु पुनर् दूताव् ऊचतुः— पूर्वं व्रजेन्द्र-नन्दनानुसारिणा सीरिणाम् अपि विवाह-विमुखता गतासीत्; किन्तु तादृग् उपेक्षा-दोष-भिया लोकापेक्षा-धिया च सा स्वीकृता ।
[२९] व्रजराज उवाच—दिष्ट्या तस्य तज् जातम्; न जाने कनिष्ठस्य का निष्ठा भवेत् ।
[३०] सर्वेऽप्य् ऊचुः—सर्व-गुण-वरिष्ठस्य कनिष्ठस्य तथा कुतश्चन सङ्कोच एव तत्र प्ररोचकतां रचयिता ।
[३१] व्रजराजः सोच्छ्वासं पप्रच्छ— प्रस्थापन-समये किम् अपि वत्सेन सन्दिष्टम्?
[३२] ताव् ऊचतुः—अथ किम् । तथा हि पत्रिकेयम्—
मां बन्धुं बन्धु-वृन्दैर् वनम् इह रचितं वृन्दकारण्य-नाम्ना कालिन्दी-सञ्ज्ञयापि व्यरचि सरिद् इह स्थापिता धेनवश् च । तेनाथ प्रत्युतास्मद्-धृदयम् अनुदयं तत्र तत्र स्व-सिद्धे वस्तुन्य् उच्चैर् भवद्भिर् मधुर-मधुरिते सन्ततं हन्त याति ॥७॥ या हंसी या सुनन्दा सुरभि-जयि-गुण याश् च गङ्गा-प्रधाना याश् चान्यास् तत्र मान्या मम हृदय-गता धेनवः प्राण-तुल्याः । ताः शश्वत् पालनीया मम पितृ-चरणैर् मय्य् अतिस्नेहवद्भिः सोऽयं यावत् कृतघ्नः स्वयम् अथ वसतिं याति हन्त व्रजस्य ॥८॥
[३३] अथ तद् एतद् आश्रुत्य क्षण-कतिपयम् अश्रूणि वहन्तः श्रीमद्-व्रज-सन्तस् तूष्णीम् आसन् । ऊचिरे च—
स्वेषां तद्-विरहे दुःखं यन् न तद् गणयामहे । अस्मद्-दुह्खे दुःखितया तस्य पीड्यामहे वयम् ॥९॥ इति ।
[३४] श्री-व्रजराजेन तु प्रति-पत्रिकेयं दातुम् ईहिता—
यत्-सम्बन्ध-वशाद् भवान् यदु-कुलं कृच्छ्रेण रक्षंश् चिरात् काल-क्षेपम् इतस् ततः प्रथयति स्वं वाञ्छितं प्रत्यजन् । सोऽयं तु त्वद्-अभीष्ट-धेनु-वलयं नेत्रानभीष्टं मृशन् श्रीमंस् तत्र न सज्जति स्वयम् इतः स त्वत्-पिता लज्जते ॥१०॥
[३५] अथ मधुकण्ठः कथान्तरं विस्तीर्णम् आयास्यतीति तेन सङ्कीर्णता-भिया तूर्णम् एव समापनम् आह स्म—
सा हंसी सा सुनन्दा कलय कुल-पते ताश् च गङ्गा-प्रधानाः स्वेनानेनाव्यमाना दधति सुख-शतं साम्प्रतं नेत्र-भाजाम् । आस्तां तत् पश्य गोपेश्वर तव तनयः सोऽयम् अङ्कं त्वदीयं पुष्णन् कृष्णः समन्ताद् व्रज-सदन-जनं सुष्ठु पुष्टं करोति ॥११॥
[३६] इति तान् आनन्द्य तन् नन्द्यमानः स मधुकण्ठस् तस्यां तस्यां श्री-राधा-माधव-पुरतः कथयामास—तदानीम् अनेन रमणेन भवतीः प्रति च पत्रिका वितीर्णासीत्, यथा—
वासन्तिकाः सन्ति मयाभिषिञ्चता पुञ्जीकृताः कुञ्ज-कृते सहस्रशः । प्रियाभिर् अर्धाङ्गतया स-धर्मभिर् मनोरथः सम्प्रति पूर्यतां मम ॥१२॥ इति ।
[३७] भवतीभिश् च प्रति-पत्रिका दत्ता, यथा—
कुञ्जीकर्तुं यास् त्वया पुञ्जिताङ्गा माधव्यस् ताः सेक्तु-कामा वयं स्मः । हा धिक् किन्तु प्राप्य शिताम्बु-सिक्तीर् अप्य् उष्णैर् नः शुष्कतां यान्ति बाष्पैः ॥१३॥
[३८] अथ मधुकण्ठः समापनम् आह स्म—
कुञ्ज-पालन-वचांसि सन्दिशन् व्यानगागमनम् आत्मनो हरिः । व्यज्य चास्य रचयन्न् उदाहृतिं राधिके विहरति त्वया सह ॥१४॥ इति ।
[३९] तद् एवं तयोः सुखम् आधाय तथानुज्ञाम् आदाय कथकयोः सर्वकेण सह निष्क्रान्तयोः सतोः, अनयोस् तु कान्तयोर् लब्ध-लीला-निशान्तयोः सुखं मुखतः कति वर्णनीयम्?
इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
श्री-बलभद्र-विवाह-भद्र-प्रपञ्चो नाम
पञ्चदशं पूरणम्
॥१५॥
(१६)
षोडशं पूरणम्
श्री-रुक्मिणी-पाणि-परिपीडन-क्रीडनम्
[१] तद् एवं रात्रि-कथायां कृत-प्रथायां श्री-कृष्ण-मुख-सितांशु-स्मित-सिते श्री-व्रजराज-भासिते सदसि कथान्तरं स्निग्धकण्ठः कथयामास—[२] तद् एवं दूतेषु गतागततया सम्भूतेषु कौचिद् दूताव् आगतौ । आगत्य च पूर्ववत् कुशलम् आवेदयन्तौ निवेदयां
आसतुः। तस्यां नाम्ना वमनालिन्यां धाम्ना च सर्व-शुभ-शालिन्यां पुर्यां किम् अप्य् अपूर्वं वृत्तं सम्प्रति वृत्तम् अस्ति ।
[३] व्रजराज उवाच—सौम्यौ ! सम्यक् कथ्यताम् ।
[४] ताव् ऊचतुः—तत्र सर्व-सुख-मये दिन-कतिपये गते क्वचिद् एकान्ते कान्ते रत्न-निशान्ते काञ्चन काञ्चन-पर्यङ्कीम् अनु कदाचिद् उदासीनवद् आसीनं भवद्-उद्भवं दुर्जन-विप्रलब्ध इव कश्चिद् विप्रः स-सम्भ्रमं लब्धवान् । लब्धवन्तं च तं विप्रता-विस्रब्ध-हृदयः सम्यग् धृत-तनयः स तु भवत्-तनयः प्रणामेन संयुज्य पाद्यादिभिः सम्पूज्य मधुरं सम्भोज्य शय्यायां संयोज्य चरणौ परिचरणाय धारयन् वार्तान्तरम् अन्तरावतारयन्न् आगमन-कारणं पप्रच्छ ।
[५] स तु सलज्जतां सज्जन् क्षणं तूष्णीकां पुष्णाति स्म । पश्चात् तु जगाद—विदर्भ-देश-नरेशः कुण्डिन-कृत-निवेशः खलु भीष्मक-नामा विस्तृत-कीर्ति-धामा भवता ज्ञायत एव। अमुष्य चामुष्य-कुलिका-कलितस्य दनुज-प्रकृतीनां रुक्मि-प्रभृतीनाम् अनुजा रुक्मिणी नाम तनुजा चावगम्यते । सा च ज्ञात-तत्-तात-हृद्भिः सुहृद्भिर् भवते दातुं विभाविता । रुक्मिणा तु तान् विप्रलब्धान् विधाय शिशुपालाय दातुम् आरब्धोऽस्ति । धन्या सा तु कन्या तव श्रुतिं श्रुतिम् इव प्रमाणीकृत्य स्वानुभव-वर्त्मनि त्वाम् एव वरीयस्तया वरीकृत्य च वरीतुम् इच्छति । वरीतुम् इच्छतीति किं वाच्यं ? अपि तु मनसावारीद् एव । तद् अनु चान्येन पाणि-पीडनं पीडनम् अव्यवहितं पर्यालोच्य लज्जाम् अप्य् असज्जन्ती मां तव स्थानं प्रस्थापितवती । उक्तवती च—
लज्जा कार्या नात्र यत्रास्ति धर्मः का सा या स्याद् एनसे मृत्यवे वा । उद्यद्-रागास् तं पुनर् लोक-धर्म- त्यागाद् धन्याः सर्व-कान्तं भजन्ते ॥१॥ इति ।
[६] अथ कृष्णः स्वगतं विचारयति स्म—सत्यं सत्यम् । सा खलु गत्य्-अन्तरम् अनासक्ता मय्य् एवानुरक्तास्तीति कृत-सर्व-सुखाद् देवर्षि-मुखाद् अप्य् अवकलितम् । किन्त्व् आस्तां तावद् अनुराग-वार्ता । सद्-आम्नायवती सा न कदाचिन् मद्-एक-पातिव्रत्य-मयम् आम्नायं त्यजेत् । परं तु कायम् एव विसृजेत् । तद् एतच् च मद्-इङ्गितम् अपेक्ष्य गुरुषु न ज्ञापयतीति लक्ष्यते । मद्-इङ्गितं वेद चेद् असाव् आत्मनि मद्-अङ्गीकृतिम् अनीषितं स्वाङ्गीकृतम् एव मन्यते । तद् अन्यथा तु स्वम् अङ्गम् अपि नाङ्गीकृतम् इति । मम तु स एष निसर्गः सदा निरर्गलः स्फुरति । यद् अनुराग-मात्र-पात्रता यत्र न तत्र त्यागम् अयितुं शक्नोमीति । तथापि गोकुल-प्रेम-लक्ष्मी-विलक्षणी-कृत-हृदयतया न तु तस्यानुद्यमं कुर्वन्न् अस्मि । सम्प्रति तु तस्यास् तावती तापवती प्रयत्न-वरिवस्या । तत् किं कर्तव्यं निश्चिनोमीति नश् चित्तं न विपश्चिद् भवति । तस्मान् नव्यं तु प्रष्टव्यम् इति ।
[७] अथ पप्रच्छ—किम् अपि विशिष्टं तया स्वाभीष्टं निर्दिष्टं ?
[८] विप्र उवाच—न हि न हि, किन्तु पत्रम् एवेदं सापत्रपं मां ग्राहितम् अस्ति ।
[९] श्री-कृष्ण उवाच—वाच्यताम् ।
[१०] ब्राह्मणः स-गद्गदम् उवाच—
ते ते गुणा भुवन-सुन्दर कर्ण-रन्ध्र- द्वारा मदीय-हृदयं विविशुर् निकामम् । तेऽप्य् आसताम् अहह यच् च दृग्-एक-गम्यं तद्-रूपम् अप्य् अथ तथा विशति स्म तत्र ॥२॥ आविश्य तत्र भवद्-एक-गतित्वम् आत्म- सम्बन्धि मन्-मनसि तानि निदिह्य तस्थुः । येनेदम् अप्य् अहह ह्री-परिवर्जनेन त्वाम् एव शश्वद् अनुगच्छति कञ्ज-नेत्र ॥३॥ ये ये गुणा निखिल-ताप-हरास् तथा यद्- रूपं समस्त-फल-रूपम् अमी च तच् च । मद्-वाञ्छितं न ददतां न तु तेन गातां अन्यादृश-प्रथितिम् ईश तद् एतद् ईहे ॥४॥ कन्या भवेत् कुलवती गुण-शालिनी या सा चेत् सुधीर् अवसरे न भजेत का त्वाम् । यस् त्वं गुणादिभिर् अनन्य-समः समस्त- त्रैलोक्य-लोक-हृदयान्तर-हृद्-विभासि ॥५॥ तस्मान् मया ह्रियम् अपोह्य निगद्यते द्राग् अद्यैव दैवत मया स भवान् वृतोऽस्ति । त्वय्य् अर्पितं वपुर् इदं स्पृशतान् न चैद्यः सिंही-वपुः किम् उ नृसिंह शृगाल-योग्यम् ॥६॥ पूर्तादिभिः स भगवान् यदि शैशवादाव् आराधितस् तव मया चरणार्चनाय । तत् तर्हि सेत्स्यति न वा यदि तत्र पातः पातस् तनोर् भवतु तां स्पृशतान् न चान्यः ॥७॥ श्वो भाविनि त्वम् अजितोद्वहने विदर्भान् गुप्तः समेत्य पृतना-पतिभिः परीतः । देव्य्-अर्चनानय-कृते कृत-निष्क्रमां मां निर्मथ्य चेदिप-मुखान् सहसा हरस्व ॥८॥ यस्याङ्घ्रि-पङ्कज-रजांस्य् अपि सर्व-दुःखं सर्वं हरन्ति स च चेन् न भवेत् प्रसन्नः । तर्हि व्रतायुत-युजां जनुषां सहस्रैर् जह्यां पुनः पुनर् असून् वरम् एतद् अस्तु ॥९॥ इति ।
[११] अत्र व्रजस्थाः केचित् प्रोचुः—अहो ! बालिकाया अपि शुभाभिनिवेश-परिपालिका बुद्धिः कलिता, तद् एतावद् अन्तं स्वान्तम् इति ।
[१२] काश्चित् प्रोचुः—कथं सा बालिका ? किन्तु चालिका । यत् तावति भये तं प्रायुङ्क्ते इति ।
[१३] अन्ये प्रोचुः—क्षत्रिय-जातितया तस्या मनसि भयं नायाति, किन्तु तस्या धर्म-निष्ठा खलु सर्वं प्रतिष्ठापयिष्यतीति पुनः पुरतः कथ्यताम् ।
[१४] दूताव् ऊचतुः—तद् एवम् अवधार्य हरिणा पुनर् इदं मनसि विचार्यते स्म—सम्प्रति किं कार्यं ? यतस् तत्-प्राण-त्यजनम् अवश्य-निवार्यम् । गोकुल-गति-प्रतिबन्धावहं तद्-विवहनं तु कथं पात-निर्वहणं विधेयं ? इति ।
[१५] अथ पुनर् अपि विचार्यते स्म—आपाततः सा समाहार्या, पश्चात् तु विचार्याचरिष्यांइ इति ।
[१६] तद् एवं विविच्य प्रोच्यते स्म—भो भट्टार-चरणाः ! समवधीयताम् । यद्-अवधि तां देवर्षि-मुखात् तथा मद्-उन्मुखाम् अश्रौषम्, तद्-अवधि निरवधि मयापि मनस् तच्-चिन्तायां श्रौषट्-कृतम् । यतः—
भजनीयानां भक्ता गुणम् अनुयान्तीति सर्वतः ख्यातिः । भक्त-गुणान् अनुयातुर् मम तु हरेः स्फटिकाद्रिवद् वृत्तिः ॥१०॥
[१७] तस्मात् तस्याः समुद्धारः सर्वथा कार्यः, पश्चात् तु कार्य-गत्या यथावद् विचार्यम् इति।
[१८] तद् एवं विविच्य निजम् उत्कण्ठितम् अतिरिच्य द्विजेन सह रथम् आरुह्य तद्-विवाहावसरं समूह्य स स्वयम् एक-रात्र-मात्रेण विदर्भ-गर्भ-गं कुण्डिन-पुट-भेदनं प्राप । गमन-समये तु केषाञ्चिद् अत्र सम्मतिः स्यात्, केषाञ्चिन् न चेति भिया ह्रिया च सङ्कर्षणम् अपि न सङ्कलयति स्म, किन्तु तद्-अवस्थेहः प्रदोष एव प्रतस्थे ।
[१९] अथ कुण्डिनम् आसाद्य पुण्डरीकाक्षः पुत्र-मतम् आश्रित्य विदर्भ-क्षित्य्-अधिपेनारब्धम् उद्धवम् उद्धर्षं ददर्श । क्रमात् कलित-जामातृता-गतिं चेदिपागतिं चावगतवान् । तद्-अनन्तरं तस्मिन् वर-समागमावसर-समुचिततयाचित-भरं भीष्मकादरं तद्-अवधारण-कृते मागधादि-समाहारं चावलोकितवान् ।
[२०] अथ व्रज-राजः स-सम्भ्रमं पप्रच्छ—तर्हि वत्सः कथं तत्-समीपत एकाकितया तस्थौ ?
[२१] दूताव् ऊचतुः—
अरि-कोटीर् अवगणयद् व्रज-नृप तेजः सुतस्य जानीथ । यद्यपि वारण-चक्रे हरिर् एकाकी बिभेति किं तद् अपि ॥११॥
[२२] व्रजराज उवाच—पश्चाद् अपि कश्चित् तम् अनु न गतः ?
[२३] दूताव् ऊचतुः—अन्यो नानुगच्छतु नाम, श्रीमान् रामः कथं नानुगच्छेत् ? स खलु व्रज-क्षीर-नीरधि-जन्मा स्निग्धतां कथं त्यजतु । यत्-सम्बन्धात् तत्-पत्तन-जाताश् च केचन स्निग्धतां याताः ? तथा हि—
एकं कन्या-हरण-विधि-कृते कुण्डिनं प्राप्तवन्तं श्रुत्वा रामः स्वम् अनुजम् अथ तं तत्र शत्रूद्यमं च । स्नेहाम्भोधि-व्रज-जनु-रुचित-स्निग्ध-भावेन दिग्धः शङ्कातङ्की कटक-घटनया सज्जितस् तज् जगाम ॥१२॥
[२४] अथ सर्वेऽपि यादव-ग्राम-रामयोस् तारतम्यं मनसि-कृत्य प्रोचुः—
जन्मना सह यः प्रेमा स्याद् एष निरुपाधिकः । आगन्तुकस् तु सोपाधिः कथं तत्-तुलनां व्रजेत् ॥१३॥
[२५] व्रजराज उवाच—ततस् ततः ?
[२६] दूताव् ऊचतुः—गते च तत्राग्रजे लज्जिते चावरजे श्रीमान् अग्रजस् तु रोषम् अनु ताम्र-तनुर्-औषधीशवद् उदितस् तेन स्तेनम्मन्येन समं किञ्चिद् अपि नोक्तवान् । सर्वैः सह तं परिहार्य तु स्थितवान् ।
[२७] व्रजराज सहर्षम् उवाच—स तु ब्राह्मणः कुत्र गतवान् ? तस्या वा स्व-धर्म-नाश-त्रासं मर्मणि स्पृशन्त्यास् तम् एव गतिं परामृशन्त्या मतिः कां गतिं गतवती ?
[२८] दूताव् ऊचतुः—विप्रः स च बन्ध्यानुनीतिर् अजनीति विभाव्य निज-भाव्य-शुभं सम्भाव्य सर्वां रजनीं जजागार । सन्ध्यात एव सा सन्ध्यात-विप्रागमना । आत्म-चापलम् एव च फल-निकार-कारणतया विचाराद् अनुससार । पुनश् च श्वो-भाविनि त्वम् अजितेत्य् आदिना तं प्रति प्रथितः स च खल्व् अवसरः सम्प्रति च नाससार । काल-यापश् च मया दुराप इति पराममर्श । तथापि पन्थानं पश्यन्ती तत्राक्रमतया मनः संयमयन्ती मूर्धानं नमयन्ती परस्परं कृत-सक्ती दन्त-पङ्क्ती निष्पील्य धैर्यं कलयन्ती सलिल-धारा-बिल-विलोकने निमील्य क्षण-कतिपयं गमयामास । तथागमयमानायाम् अपि तद्-असहमानायाम् अनुकूलेन शुभ-मूलेन विधिना वाम-नयन-भुजोर् वङ्घ्रि स्पन्दयामास। स्पन्दिते च तस्मिन्न् असाव् उन्मीलित-मना नेत्र-युगलम् उन्मीलयामास । उन्मीलिते च नेत्र-युगले तम् एव विप्रं क्षिप्रं पुरो भुवि प्रत्यक्षीचकार । प्रत्यक्षीकृते च तस्मिन् सन्दिग्ध-मनास् तन्-मुखं सुख-स्निग्धम् ईक्षमाणा हृच्-चक्षुः-कञ्जान्तः-कम् आसाद्य सद्य एव जलवद् आसीत् ।
किं च—
क्ष्मा-देवान् मुररिपु-सङ्ग-वासिताङ्गाद् आमोदं सपदि विदर्भजा भजन्ती । सानन्तं सरभसम् अन्तर् आप हर्षं यल्-लोम्नां कुलम् अपि चातुलं जहर्ष ॥१४॥
[२९] तथापि प्रच्छन्नतया तं पप्रच्छ । पृष्ठश् चासौ हरेर् अङ्गीकारं तत्-सङ्गितया पथागम्य-रम्यं रथावतारं चात्मनः स्पष्टम् आचष्ट । आख्याते च सर्व-स्तुतम् अपि वस्तु प्रस्तुत-तद्-दानोपयोगि न स्याद् इति तम् एव गुरू-कर्तुं पुरु नमन्ती स्व-मूर्धानम् इव समर्पितवती । ततश् च—
सप्तम-राशिग-राहोर् इव शिशुपालस्य दूरगस्यापि । दधती स्फुरणं भैष्मी विधु-तनुर् इव तेन मुक्तासीत् ॥१५॥
[३०] व्रजराज उवाच—राम-कृष्णौ तत्र निजागमने कं व्याजम् आजह्रतुः, तयोर् अपि राजा कथं व्यजहार ?
[३१] दूताव् ऊचतुः—तद्-विवहन-वहल-कुतूलम् एव ताभ्यां छलतया विलम्बितम् । ततस् तयोर् अपि तत्रानुमोदाकर्णनाद् आमोदाद् अतिथिं प्रति कथितां पूजा-प्रथितिं स च प्रथितवान् ।
[३२] व्रजराज उवाच—अतिथि-मात्र-बुद्धिता चेद् उदासीनता परमस्यावसीयते, तर्हि मन्ये तत्-पुर-वासिनः सर्व एव स-रामे तस्मिन्न् उदासीना एवासन् ।
[३३] दूताव् ऊचतुः—नहि नहि । स एव केवलस् तत्र दुष्पुत्र-कुमन्त्रण-मूल-यन्त्रणया नानुकूल आसीत् । लोकस् तु तत्र शोकम् एव समवाप । यतस् तु यतस् ततः सर्व एव समुदित्य नित्य-समुदित्य्-अनिश-सुख-सञ्जनं तन्-मुख-नील-कञ्जम् अनु माधुरी-धारा दृग्-अञ्जलिभिः पिबन्न् इदं जगाद—
एतस्य भार्या भवितुं रुक्मिण्य् अर्हति सर्वदा । असौ चास्याः पतिस् तत्राप्य् एव-कारः पदे पदे ॥१६॥
किं च—
यद् भूतं यच् च भव्यं भवद् अपि यद् अलं पुण्यम् अस्माकम् अस्मान् नैवाश्मः सौह्यम् आत्मन्य् अपि तु परम् इदं प्रार्थना-शर्म कुर्मः । हे धातः प्राण-भाजां सकल-फल-पते सोऽयम् अम्भोज-नेत्रः श्री-रुक्मिण्याः कराब्जं कलयतु बलवान् न्यायतोऽन्यायतो वा ॥१७॥
[३४] व्रजराज स-व्रजः सानन्दम् उवाच—ततस् ततः ?
[३५] दूताव् ऊचतुः—ततश् च प्रातर् विधेयं विधाय नन्दित-मना द्वारका-गमनानुज्ञापनार्थम् इव वन्दित-गुरु-जना तद्-उपदेशात् तु सा कन्या हिमवत्-कन्यार्चनाय कृताभिनिवेशा धृत-वेशा सहचरीभिर् भ्रातृ-गृह-चरीभिः पितृ-भार्याभिः स्व-कुलाचार्याभिः किङ्करी-निकरैः कञ्चुकि-प्रकरैर् धृत-खड्ग-चर्मादि-सम्पत्ति-पत्ति-सन्दोहैः प्रशस्त-शस्त्रादृततया कृत-हयारोहैः सर्वग-दृष्टि-प्रशस्ति-हस्ति-गत-महा-मात्रैः शताङ्ग-कृत-यात्रैर् विचित्र-सम्भृत-वादित्रैर् वर्तित-नर्तन-चरित्रैः पूर-वर्णन-विभाग-सूत-मागध-वन्दिभिः शश्वद्-उत्प्रेक्षा-सन्दित-कुतुकेक्षानन्दिभिः पर-पर-क्रमाद् बहिर् बहिः परिवारिता हृदि तु स्व-कान्त-धारणायां केनाप्य् अवारिता सावरोधाद् अवरोधान् निष्क्रम्य निगमं मिगमम् अपि सङ्गम्य धर्म्यं तद्-देवी-हर्म्यं जगाम। श्री-कृष्णः पुनर् अभ्यवस्कन्दन-तृष्णस् तत्र मन्दं मन्दं बहिर् बहिर् विहरति स्म ।
[३६] अथ सापि ता यथा-चर्चितम् अर्चित्वा तत्-प्रसादं वपुषि मनसि च चित्वा तस्या गृहं हित्वा रत्न-मुद्रा-शोभा-करेण करेण सखी-करं गृहीत्वा बहिर् निर्जगाम । निर्गच्छन्तीं च ताम् अथ कुन्द-कोरक-दन्तीं देव-माया द्विधा-कायां निचाययामास—कृष्ण-बहिर्मुखान् प्रति माया-मयी । तद्-अन्तर्मुखान् प्रति तु तज्-जाया-मयीति । यत्र पूर्वं तच्-छक्त्या मूढा बभूवुर् उत्तरे तु तद्-भक्त्या मूढयां बभूवुर् इति स्थिते श्री-कृष्णे च सर्वस्माद् उन्नतं रथम् अधिष्ठिते तयोर् वर-कन्ययोर् वर-जनता-दृष्टि-शून्ययोर् अन्योन्यम् ईक्षणम् अपि विलक्षणं जातम् ।
[३७] जाते पुनर् ईक्षणे—
रथारोहे कार्ये मिष-चित-विलम्बां स्वम् अनु च स्फुरन् नेत्र-प्रान्तां नृप-दुहितरं स-द्रव-रथः । तथाकार्षीत् कृष्णोऽप्य् अमनुत यथा दूर-जनता ध्वज-द्रष्ट्री कृष्ट्वा नयति गरुडस् तां द्रुतम् इति ॥१८॥
[३८] तां गृहीतुम् आगच्छति । गृहीत्वा गच्छति च तस्मिन्—
ते मुग्ध-बुद्धिकचरा मगधाधिपाद्याः सङ्ख्यातिगा हरि-रथ-ध्वनि-चेतिताश् च । तन् नोहितुं समशकन् ननु सोऽयम् अस्मिन् कर्ह्य् आगतः क्व नु कदा गतवान् इतीत्थम् ॥१९॥
[३९] जात-विधाने पुनर् अनुसन्धाने—
क्रूर-क्रेङ्कार-दुन्दुन्दुम् इति परिनुदद्-दुन्दुभि-ध्वान-बृंहद्- ध्रेषायुग्-बृंहिताति-प्रकट-रथ-घटत्कार-कोटि-प्रकारः । सेना-सारः स मृग्यन् नृप-दुहितृ-हृतेर् वर्त्म-तद्-धृच्-छताङ्ग- च्छिन्न-द्विट्-कूट-लब्ध-च्छदनम् अनुसरंश् चाभिदो दूयते स्म ॥२०॥ यद्यपि तेऽप्य् अभियुयुजुः प्राधनिकान् श्री-हरेस् तथापि तु न । वर्ण्या यत उन्मादाद् अभिसिंहं फेरवोऽपि गच्छन्ति ॥२१॥ यद्यपि नव-संवलना कुल-जनिता ह्रीत-चित्ता सा । तद् अपि प्रतिबल-भीता प्रिय-मुखम् आलिङ्गद्-इङ्गि-नेत्रेण ॥२२॥ यद्यपि मम महिमज्ञा, तद् अपि च भीताबला-स्वभावेन । इति हरिर् उपचित-करुणं, वचसा सहसाप्य् असान्त्वयद् दयिताम् ॥२३॥ अभ्ययुर् अरयो वृष्णीन्, मुमुचुर् बाणांश् च तेषु तत् सत्यम् । किन्तु प्रबल-समीरेष्व् अम्भो-मुग्-व्रात-तुल्यतां याताः ॥२४॥ यदवो ददृशुः स्पष्टं, तेषां पृष्ठ्यानुपासङ्गात् । चित्रं ते पुनर् एषां, स्थितिम् अपि नाज्ञासिषुः स्वाङ्गे ॥२५॥ कौक्षेयक-समुदायस् तेषाम् आसीत् परार्ध-मूल्यार्हः । किन्तु यथा कृपणानाम् अर्थः कोषाद् अनिष्क्रान्तः ॥२६॥ अपि बहु पतितं युद्धे नाशोचंस् ते चतुर्विधं कटकम् । निज-वपुर् उर्वरितं यत् तस्माद् एवातुलं दधुः शर्म ॥२७॥ द्विषताम् अति-भय-भाजां यदु-राजानुद्रवाद् द्रवताम् । देह-स्तोम-विघट्टः, स्फुटम् आसीद् द्योगतेः कृते घट्टः ॥२८॥ केचिद् दृष्ट-कबन्धा, दूरं विद्रुत्य सम्भ्रान्ताः । मस्तक-मस्तं किम् इति न्यस्तं हस्तं व्यधुस् तत्र ॥२९॥ हारित-दारम् इवामुं चैद्यं संसान्त्व्य ते चेलुः । उत्साहं विसृजन्तः सम्प्रति कर्मन्दिनां वादैः ॥३०॥ वारान् सप्तदशाहं, जिग्ये हरिणाथ तं सकृज् जितवान् । पश्यत तद् अपि समं माम् इति मागध-वाङ् न कं प्रहासयति ॥३१॥ सप्तदशाहं समरान्, जिग्येऽष्टादशम् अमुं पराजिग्ये । इति मागध-वाग्-भ्रान्ता, सम्प्रति तस्मिन् पराजये स्वस्य ॥३२॥
[४०] तद् एवं स्थितेऽपि तेषां दुरवस्थिते रुक्मवांस् तु तैः सहापद्रुतवान् अपि स्फूर्जद्-ऊर्जस्वल-वज्र-निपात-प्रज्वलित-ताल-सङ्घवद्-दृश्यमानानाम् अमङ्गलानां तेषाम् एव पुरतः प्रतिश्रुतवान्—रुक्मिणी-हर्तारं रुक्मिणीम् अविजित्य न नित्य-गृहम् एष्यामीति ।
[४१] तेषां वचसि पुनर् अस्माकम् अकस्माद् एकं सुखं जातम् । हलायुध-पित्रा स्वपुत्रतया ख्यापितम् अपि तं तव पुत्रं ते गोपतया वदन्तस् तन् न प्रतियन्ति । कृष्णस्य च तेन सन्तोष-पोष एवादृश्यत इति ।
[४२] व्रजराज उवाच—ततस् ततः ?
[४३] दूताव् ऊचतुः—रुक्मिणस् तावद् असमीक्ष्याकारितास्ताम् । तेषाम् अपि क्लीबतातीव दृश्यताम् । तथापि यद्-अनुगत-पलायनतया परमासीन् न तु वलायनता, यतो हरिण-हृदया एव ते बभूवुर् न तु हरि-हृदया इति ।
[४४] व्रजराज उवाच—ततस् ततः ?
[४५] दूताव् ऊचतुः—रुक्मी तु निर्विद्य निर्विद्य-जनान् इव तान् हित्वा निजम् अक्षौहिणी-मात्रं गृहीत्वा कृत-यात्रस् तस्याप्य् अननुवर्तमानतां वीक्ष्य सहायीकृत-केवल-निज-गात्रः पुनर् गात्रम् अप्य् अनुवर्तितुम् अशक्तं समीक्ष्य प्रलाप-मात्रं तद्-अनुषक्तं प्रतीक्ष्य तिष्ठ तिष्ठेति निज-पृष्ठमांसादतया दूराद् अह्वास्त । कृष्णस् तु पूर्वं स्वरथ-निर्घोष-गिलितं तद्-रथ-निर्घोषम् अशृण्वन्न् एव गच्छन्न् आसीत् । श्रुत्वा तु धृत-स्तम्भारम्भ-मात्रे तस्मिन् गुण-पात्रे रुक्मी मुखाद् दोषारोपान् कार्मुकात् तु रोपान् ससर्ज । कृष्णस् तु स्मितेन तावद् दोषारोपान् अपसार्य योग-माया-मय-कवच-मय-त्वचा तु रोपान् अपसारयामास ।
अथ रुक्मिणी-पतेः शराः पुङ्खम् अनु रुक्मिणः सन्तस् तस्य रुक्मिणः स्पर्धया किल तेजसा वर्धमाना युगपद् एव कोदण्डं ध्वज-दण्डम् अपि खण्डितवन्तः । तद्वद् एव सहसा सह-सारथिम् अस्यावयव-चयं हय-चतुष्टयम् अपि स्पष्टं युगपद् एव दष्टं सृष्टवन्तः । रुक्म्य् एव तु तत्-तत्-क्रम-वलनया दृष्टवान् । यच् च कष्टाद् अन्यद्-धनुः परामृष्टवान् । बाणान् अपि विसृष्टवांस् तत्र तत्र कथा तथासीद् इति सीदन् पुनश् च तद्वद् एव विषीदन्न् आत्मना समराय सङ्घट्टितानां परिघ-पट्टिश-शूल-वर्म-चर्मासितोमराणाम् अपि गतिं प्रति तथा दुर्गतिम् आसीदन्, विदीर्ण-शताङ्गः शीर्ण-शताङ्गाद् अवतीर्णवान् ।
[४६] तद् एवम्—
जवाद् अरथिनं कृत्वा तं तदा रथिनः स्वयम् । हित्वा रथिकतां शार्ङ्गी द्रुतं दुद्राव रुद्रवत् ॥३३॥
[४७] अथ ये रुक्मी भर्म-निर्मित-चित्र-विचित्र-खड्ग-चर्मणी गृहीतवांस् तेऽपि तदा गमन-स्तम्भ-विप्रलम्भनार्थं चक्रपाणिना तिलश एव कृत्वा चक्राते, न पुनर् अखिलशः । कृत्त-खड्ग-चर्मा चासौ हत-शर्मा निज-खड्ग-सम्भिन्न एव च चिकीर्षाम् आसे, न पुनस् तस्माद् भिन्नः ।
[४८] व्रजराज उवाच—ततस् ततः ?
[४९] दूताव् ऊचतुः—ततश् च योषिद्-आकृति-जां प्रकृतिम् अनुकृतवती सा रुक्मिणी लज्जाम् अप्य् असज्जन्ती दैन्य-चर्यया साहाय्यम् आचर्य निज-सोदर्यं रक्षितवती । किन्तु तस्य धृष्णजात् प्राण-घातनाद् अपि बलवद् यातनाकरं कौतुकान्तरं कृष्णेन लब्धान्तरम् अक्रियत ।
[५०] सर्वे ऊचुः—कथ्यतां, तत् किं ?
[५१] दूताव् ऊचतुः—यत् खलु हत-दर्प-सर्पम् इव तम् अपसर्पणा-समर्थं कर्पटी-भूत-तत्-पटीभिर् एव वटीभिर् इव कपटिनं पटीयान् असौ तथा वधार्थम् इव बन्धनेन घटितवान्, यथा बली चासौ न तद्-विरलीकर्तुं शशाक ।
[५२] ततश् च रुक्मिणी-प्रार्थनया लब्ध-कृपाभासः स खलु जित-चन्द्रहासश् चन्द्रहास-विक्षेप-क्षेपिम् अशिक्षया तस्य मूर्धन्य् अद्राढिकाटव्याम् अधिमध्यमध्यं युकानाम् अध्वन इव नव्यान् स-व्याप-सव्यानुसृत-विच्छेदान् कृतवान् ।
[५३] तद् एवं वर्ण्यमानम् आकर्ण्य व्रज-सभासत्सु हसत्सु पुनर् दूताव् ऊचतुः—श्रूयतां तस्मिन् नासिकायां छिन्नायां दुकूल-कृतार्जन-मार्जनम् इव बलभद्रानुकूलता । यावद् रुक्मिणा सह जित-रुक्मिणीकस्य युद्धम् उद्बुद्धम् । तावद् बलभद्रादयस् ते जन्याश् चाजन्यं जन्यं च जनयन्तीस् तत्-कटक-घटा विद्रावयन्तः स्थितवन्तः । यदा चासौ बद्धस् तदा बलभद्रश् च तत्र सम्बद्धः । सम्बध्य च तत्र तं बध्यम् इव बद्धं दृष्ट्वा करुणाम् इव स्पृष्ट्वा बन्धनं स्पृष्ट्वा बन्धनं कृष्ट्वा कृष्णं किल मुहुर् उपालब्धवान् । तद्-विक्लव-धूतां वधूम् अपि शिक्षया सन्धुक्षितां विधातुम् आरब्धवान् ।
असाध्व् इदं त्वया कृष्ण कृतम् अस्मज्-जुगुप्सितम् । वपनं श्मश्रु-केशानां वैरूप्यं सुहृदो वधः ॥ मैवास्मान् साध्व्य् असूयेथा भ्रातुर् वैरूप्य-चिन्तया । सुख-दुःख-दो न चान्यो ऽस्ति यतः स्व-कृत-भुक् पुमान् ॥ बन्धुर् वधो-ऽर्ह-दोषो ऽपि न बन्धोर् वधम् अर्हति । त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः ॥ क्षत्रियाणाम् अयं धर्मः प्रजापति-विनिर्मितः । भ्रातापि भ्रातरं हन्याद् येन घोरतमस् ततः ॥ [भा।पु। १०.५४.३७-४०]
[५४] व्रजराज उवाच—ततस् ततः ?
[५५] दूताव् ऊचतुः—तत्र रुक्मिणी सरला बलानुशिक्षितम् एवानुसरति स्म । रुक्मी तु बन्धनाद् अपि तद्-वचनानुसन्धानात् प्रत्युत दुःखानुबन्धावृत-मना बभूव ।
[५६] व्रजराज उवाच—पश्चाद् असौ क्व गतः ?
[५७] दूताव् ऊचतुः—पश्चात् तु रामेण निकामं मुक्तः सन् न सन्न् असौ हतावशेषं स्व-सैन्यम् एव विषण्णतयासन्नवान् ।
[५८] सर्वे प्रोचुः—स खलु खलत-रूप्यः कथं स-वैरूप्य एव तत्र गतः ?
[५९] दूताव् ऊचतुः—रामस् तु द्विपाद्यं दण्डम् एव प्रतिपाद्यं कुर्वन्न् अपि तस्य कीर्तिं रक्षन्न् इव दिवाकीर्तिनामुण्ड-मुखम् अखण्डं मुण्डयित्वा तं तीर्थ-पथेनागतम् इव रथेन प्रस्थापयामास । स तु स्वभावतः कृष्ण-शत्रुता-धृष्णक्तया दुराशया मध्यत एवालयं विधाय तम् अध्यासामासेति । कथापि खलु पापानाम् अलम् अश्रेयसे भवेत् । इत्य् अलं तत्-प्रसङ्गेन ।
[६०] व्रजराजः पप्रच्छ—कृष्णः समङ्गलम् आलयम् आययौ ?
[६१] दूताव् ऊचतुः—तद्-आगमनानन्तरम् एव पूर्व-पूर्व-तत्-तद्-उद्धव-द्वारा श्रवसि समवाप्य तं तम् आवाभ्याम् अनुज्ञाप्य च द्रुतम् अत्राप्यते स्म ।
[६२] व्रजराजः पप्रच्छ—विवाह-निर्वाहः किं सम्पन्नः ?
[६३] दूताव् ऊचतुः—नहि नहि, किन्तु शैथिल्यम् एव दृश्यते । तत्-कारणं तु पूर्वम् एव कृतावधारणम् । तथा हि—
उद्धव-मुख-सुख-जातं तादृश-सन्देश-जातम् आतत्य । कथम् अथ विवहेद् अघजित् तस्मिन् न वहेत चेद् विधिं भवताम् ॥३४॥
[६४] अथ तद् एतद् विचारयत्सु व्रज-सभासत्सु द्वारका-देशतः कौचिद् आनकदुन्दुभि-किङ्करौ परौ सन्देश-हरौ श्री-व्रजराज-चरण-राजीवं सङ्गम्य प्रणम्य तत्-कुशल-प्रश्नम् अनुगम्य निवेदयामासतुः—देव ! श्रीमद्-अस्मद्-देव-निवेदन-पत्रम् इदम् आदीयताम् इति ।
[६५] व्रजराजः सादरं तद् आदाय वाचयति स्म, यथा—स्वस्ति सदा मद्-आनन्द-सन्धुक्षण-सक्षण-बन्धु-वरं श्रीमन्-नन्द-नाम-शुभ-कन्दम् अमन्दम् आलिङ्गन्न् आनकदुन्दुभिर् अयम् अहं स-प्रणयं निवेदयामि ।
पुत्रे तावकता तु मामकतया भेदं न विन्देत् क्वचित् तत्त्वं वेत्सि च वेद्मि च स्वयम् अहं कोऽप्य् अन्यथा मन्यताम् । तस्माद् यद्वद् इमं कर-ग्रह-कृते याचामहे ते वयं तद्वद् यूयम् अपि स्वहस्त-लिपिभिर् याचध्वम् अद्धा मुहुः ॥३५॥ इति ।
[६६] तद् एतद् वाचयित्वा व्रजराज उवाच—भद्रम् अनयोर् भाजनं योजयत । पश्चात् तु सदेश-रूपं सन्देशं दास्यामः ।
[६७] अथ पुनः सर्वे सङ्गम्य रम्यम् इदं विचारयामासुः—यद्यपि सत्य-सङ्कल्पस्य तस्य व्रजागमन-सङ्कल्पः कदाचिद् व्यभिचाराय न कल्पः स्यात् तथापि यावद् विपक्ष-पक्ष-क्षपणं विलम्बम् एवालम्बेत । तच् च न प्रतिपद्यते, कदा समुत्पद्यते । तत्र सति रामस्यापि गृहारामतायां जातायां कुमारस्य तु तस्य तावत् कुमारता-स्थितिर् न सुकुमारा भवति । स्वयं च तेन यद् एतन्-मिष्टम् अस्मान् प्रत्युपदिष्टम् ।
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भा।पु। १०.४५.२३] इति ।
[६८] तच् चेदम् अपि वेदयति—
यावता सुहृदां सुखं भवति तावद् अपि विधेयम् इति । तद्-अन्तः-पाति चेदं स्वस्य यदु-क्षत्रजताख्यापनादि ॥३६॥
[६९] तद् अन्यथा तु तेष्व् एकतापत्त्य्-अभावात् तत्-तद्-गत्य्-अन्तरं न सिध्यति । तस्माद् वसुदेवाद् इव द्वयम् अपि तद्-अर्थं प्रार्थयामहे इति ।
[७०] अथ व्रजेशश् च सन्देशम् इमं लिखितवान्—स्वस्ति समस्त-सुख-निर्मञ्छनीय-मुख-सुषमाभर-श्रीमद्-वत्स-वरम् आलिङ्गन् सोऽयम् इङ्गितं याचते—
वत्स त्वं वेत्सि चित्तं मम तु यद्-अभिदां शूर-पुत्रेण मन्ये तस्माल् लिप्सां तदीयां रचयसि खलु यां तां मदीयाम् अवेहि । एवं चेद् अन्यथा स्याद् बत कथम् अभितस् त्वन्-मुखाम्भोज-लक्ष्मी- शून्यं दारिद्र्यम् एतच् चिरम् इह विषहे हा सहे नैव नैव ॥३७॥ इति ।
[७१] तद् एतं सन्देशम् आदाय सन्देश-हरयोस् तत्र गतयोः कतिचिद् दिनान् अतिक्रम्य यथा-पूर्वं व्रज-दूत-द्वयम् आवव्राज । आव्रज्य च पूर्ववत् कुशलं श्रावयित्वा तत्र वृत्तं वृत्तं श्रावयामास ।
[७२] तत्र व्रजराजः पप्रच्छ—कथयतं ततः परं किं जातं ?
[७३] दूताव् ऊचतुः—
यदा भवल्-लेख-विशेष-पत्रिका विलोकिता गोपयते सुतेन ते । तदा निजास्रेण लिपिर् विलोपिता तद्-अर्थ-लक्ष्मीर् अधिरोपिता हृदि ॥३८॥
[७४] व्रजराजः सास्रम् उवाच—ततस् ततः ?
[७५] दूताव् ऊचतुः—ततश् च त्वद्-उरीकृतम् उरीकृतं च पाणि-पीडनं, यथा—
यस्मिन् धामनि गेह-गेह-विसरद्-वाद्यं द्युषद्-वादनं सिन्धूल्लोल-विमर्द-नर्दनम् अपि प्राभून् मिथः-स्पर्धनम् । तस्मिंस् तद् यदु-कुन्ती-केकय-कुरु-क्रान्ते विदर्भान्विते भैष्म्याः पाणि-निपीडनं भृशम् अगाद् उद्धर्षम् उद्धर्षजम् ॥३८॥
[७६] व्रजराजः पप्रच्छ—विदर्भा अपि कृत-सन्दर्भा जाताः ?
[७७] दूताव् ऊचतुः—ततश् च तद्-उरीकृत-जाताः, किन्तु भीष्म-पुत्रान् विना ।
[७८] व्रज-राज उवाच—स खलु भीष्मः कथम् आगन्तुं लज्जां न सज्जति स्म ?
[७९] दूताव् ऊचतुः—सज्जति स्म, यस्माद् आनकदुन्दुभ्यादीनां यत्नस्य कन्या-रत्नस्य च व्यर्थीभाव-भये सज्जति स्म ।
[८०] व्रज-राज उवाच—ततः किल वर-कन्या-पक्षयोः सपक्षयोर् अखिलयोर् मिलनम् एव जातम् ।
[८१] दूताव् ऊचतुः—बाढम् । येन बाढम् एव तन्-महे निर्व्यूढम्, किन्तु भवन्तं विना नास्मन्-मनः शन्तमं समवाप । तद् अलं तद्-वर्णनया ।
[८२] तद् एवम् आकर्ण्य वैवर्ण्यं पूर्ववत् कथा-सभायाम् अपि भजति व्रज-राजे स्निग्धकण्ठः समापनम् आह स्म—
प्रसू-तात-प्राय-स्वजन-जनता-पद्मम् उत तन्- महा-सम्पत्-सद्म-प्रकर-शत-लक्षं हरिर् असौ । भजन् नाभूद् ईदृक् सुखद-सुषमासम्भृत-मुखः स्फुटं यादृक् श्रीमंस् तव दृग्-अमृतं प्राप्य लसति ॥४०॥
[८३] तद् एवम् आकर्ण्य तस्य लोचनयो रोचनं वर्णं निर्वर्ण्य सद्य एव त्यक्त-वैवर्ण्यस् तं परिष्वक्तवान् व्रज-राजः सर्वम् एव रोम-पर्वणा विराजयन्न् अत्रासीद् इति ।
[८४] अथ व्रज-वन्दिनस् तत्र श्री-कृष्ण-दर्शनानन्दिनस् तद् इदं ववन्दिरे—
व्रज-मधुर-माधुरी-ह्रसित-पर-कामनम् । मनसि नृप-वैभवं दधतम् अतिवामनम् ॥ परिणयन-वाञ्छता-रहित-मनसाचितम् । अगमद् अथ कश्चन द्विज-निरसुराहितम् ॥क॥ निज-नृपति-देहजा-वचनम् उपसन्दिशन् । स तद्-उदित-चातुरीम् अमृतम् इव निर्विशन् ॥ तम् अनु निजम् आययौ नगर-मित-सम्मदः । अवदद् अपि तां हरेर् अभिगमन-सम्पदः ॥ख॥ अथ स-सुख-भीष्मजा मुहुर् अनमद-त्रसा । द्विजम् अमुकम् इच्छती निज-भविकम् अत्र सा ॥ इह महसि शैलजा-परिचरण-दम्भिका । भवितुम् अथ भीष्मजा हरि-चरण-लम्भिका ॥ग॥ सरथ-हरिणाहृतारुचदमल-रोचिषा । रिपु-निचयम् आचिनोन् मलिन-मुख्य-शोचिषा ॥ मगध-मुख-शात्रवे रण-विमुख-भावके । युधम् अधित रुक्मवान् असुर-परिभावके ॥घ॥ व्यधित खलु रुक्मिणं कृत-वपन-मुण्डकम् । न परम-जितस् तथाकृत-विकृत-तुण्डकम् ॥ मुरजिद् अस्य निर्जयन् सनृप-चय-भीष्मजम् । अगमद् अथ तन् निजं नगर-मित-भीष्मजम् ॥ङ॥ इति विविध-शात्रव-प्रजय-यशसाञ्चितः । अधिवसति स व्रजं पुनर् अखिल-वाञ्छितः ॥च॥४१॥
[८५] अथ रजनी-कथापि प्रसजति स्म, यथा श्री-राधिकादि-सुखम् अपि प्रथाम् अवाप ।
[८६] यथा स्निग्धकण्ठ उवाच—यदा यदा दूतागमनम् आसीत् तदा कृष्ण-प्रेयसीनाम् अपि प्रायशस् तत्र समागमः समभवन् न तु सर्वदा, यतः काश्चित् तासाम् उत्तर-साधिकास् तत्रासाम् आसुः । ताः खलु तासां सुखावसरम् अवसरम् अवधाय परं ताः समानयन्ति स्मेति ।
[८७] अतो रुक्मिणी-विवाह-प्रस्तावं तु ताः सूक्ष्मम् एव जन-श्रुतिभिः श्रुति-विषयं चक्रुः । किं च, यथा श्रीमान् वसुदेवः श्री-व्रज-राजं प्रति पत्रिकां प्रहितवांस् तथा श्रीमान् उद्धवश् च ताः प्रति, यथा—
हरिणा निश्चितम् एतन् न हि यादवके मया विवोढेति । प्राणांस् त्यजति तु भैष्मी जाने नतरां किम् आपतिता ॥४२॥
[८८] तद् एवं ताः समवधाय स्त्री-वधाद् भीताः प्रति पत्रिकां ददुः, यथा—
वयम् असद्-अदृष्ट-सृष्टं वरम् अहह सहामहे कष्टम् । न तु हरि-यशसि कलङ्कश् चन्द्रमसीव क्वचिद् भवतु ॥४३॥
[८९] अथ श्री-व्रजेशितुर् वर्ण-दूते तस्य कर्णयोः सम्भूते सेयं लिपिर् उद्धवेन रहसि दर्शिता यदा, तदा तु मुदा विनापि सा स्वीकृतेति कृतं तद्-वर्णनया । साम्प्रतं तु प्रतिपद्यताम्—
राधे य एवापरिहार्य-कार्यतस् तत्याज वस् तर्षज-धर्ष-धीर् अपि । स एव सर्वं हृदि खर्वम् आचरंस् त्वाम् अङ्कम् आनीय तम् अङ्कम् उज्झति ॥४४॥ इति ।
[९०] तद् एवं श्री-राधादीन् अपि विगत-बाधान् विधाय सर्व-सुख-प्रथकौ कथकौ वासम् आसादितौ ।
मिथस् तदा तौ प्रणिधानम् आगतौ राधा-विधू साधु विधूत-विक्लवौ । अन्योन्यम् आलिङ्गन-सङ्ग-रङ्गिणाव् आतेननतुः सुश्रियम् अत्रकौमुदीम् ॥४५॥
इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु श्री-रुक्मिणी-पाणि-पीडन-क्रीडनं नाम
षोडशं पूरणं
॥१६॥
(१७)
सप्तदशं पूरणम्
समाप्त-पर-विवाह-सप्तकं
[१] अथ परेद्युः प्रातः-कथायां श्री-कृष्ण-मुख-सुषमा-समास्वाद-सादर-वीक्षित-श्री-व्रज-महीक्षितः सभायां मधुकण्ठ उवाच—
[२] तद् एवं सन्देशं हरत्सु गतागतम् अनुसरत्सु कौचिद् दूतौ सम्भूतौ । आगम्य च श्री-व्रजेश्वर-चरणं स्पृष्टवन्तौ तेन पृष्टोदन्तौ तत्राष्टानाम् अपि प्रकृतीनां कुशल-कथन-पूर्वकं श्री-कृष्ण-रामादीनां श्री-वसुदेवोद्धवादीनाम् अपि यथायथं वाचिकं वचन-रचितं विधाय तूष्णीकताम् आसेदतुः ।
[३] व्रजराज उवाच—कथम् इव नान्यत् प्रथयतं ?
[४] दूताव् ऊचतुः—व्यथां कथं प्रथयावः ?
[५] सर्वे प्रोचुः—दूतानां सर्वम् एव वक्तव्यम् इति । कथं तत्र विरक्तता प्रसज्जेत् ?
[६] दूताव् ऊचतुः—रुक्मिणी-देव्यास् तोकम् एकं जातम् । स-शरीरम् एव च न प्राप्तम्, यथा स खल्व् अशिश्वी शश्वद् एव विश्वेषां दुःखम् अशिश्वियत् ।
[७] सर्वे म्लान-मुखतया प्रोचुः—हन्त हन्त ! शन्तम् अमनसः कंसान्तकस्य च तेन स्वान्तं क्लान्तम् इव लक्ष्यते ।
[८] दूताव् ऊचतुः— नहि नहि, प्रत्युत रुक्मिण्यादिषु स एव चिन्ता-शान्तिं कुर्वन्न् आस्ते ।
[९] सर्वे स-सान्त्वं ऊचुः—तर्हि मङ्गलम् अपि सङ्गतं भविष्यतीति ।
[१०] तद् एवं दिन-कतिपयेषु लब्ध-दूत-गतागत-व्यत्ययेषु पुनर् अन्यौ कौचिद् आगम्य सम्यक् तद् इदं ऊचतुः—सम्प्रति किञ्चिद् अपूर्वं दृष्ट-पूर्वम् अकरवाव ।
[११] व्रजराज उवाच—कीदृशं ?
[१२] दूताव् ऊचतुः— एकदा परम-सुष्ठु-धर्मायां सुधर्मायां श्री-गोविन्दः सम-कक्षैः स्व-पक्षैः समम् अक्षैः क्रीडति स्म । क्रीडति तु तस्मिन् सर्वे स-गर्वेहा नागराः कोलाहल-बहल-भय-कुतूहल-भय-कुतूहल-वलिताः सीमातिगामि-सागरायमाणाः स-सम्भ्रमम् इदं निवेदयामासुः । सर्व-भाग्य-साक्षात्-फलतया साक्षाद्-भवन्तं भवन्तं वीक्षितुं त्वष्टायम् आयाति, किन्तु सर्वेषाम् अस्माकं चक्षूंषि तक्षन्न् इव लक्ष्यते। तस्माद् आदिश यथा सोम इव कोमलतां भजेत ।
[१३] अथ श्री-कृष्णः किञ्चिद् विहस्य प्रोवाच—नेदृशीं चण्डताम् आचरेद् अस्मासु चण्ड-रश्मिः। किन्तु मादृशास्पर्धमानतया तं प्रसादयमानस् तत्-प्रसाद-लब्ध-मणि-मात्रमानस् तत्-सत्रानुष्ठाता सत्राजिद् एव ।
[१४] यतः प्रसिद्धम्—
अन्यस्माल् लब्धोष्मा प्रायः क्षुद्रः सुदुःसहो भवति । रविर् अपि न तपति तादृक् यादृक् तत्-तप्त-बालुका-निकरः ॥१॥ इति ।
[१५] किन्तु कालातिक्रान्ति-वशात् तद्वत् तस्य च शान्तिर् भविष्यति ।
[१६] अथ तेषु विहस्य तं द्रष्टुं गतेषु निज-निज-गृहं सङ्गतेषु च साहं-मतेस् तस्य चरितम् अन्यद् अपि समाकर्ण्यतां, यत् खलु श्रीमान् उद्धवः सर्वस्मिन् विस्मितं स-स्मितम् अपि शृण्वति समुद्भावयामास—अहो ! पश्यत पश्यत ! तादृश-मणि-निदान-दिनमणि-हृदय-मणिं निखिल-तमः-शमन-व्योम-मणिं त्रिलोकी-चूडामणिं निज-कुल-चिन्तामणिं कौस्तुभ-मणि-पतिम् अवमन्य तन्-मात्र-लाभात् पूर्णं-मन्यतया स्पर्धा-विषयीकृतं तम् अनिवेद्य गृहम् एवासाद्य सद्यः सत्राजिन्-महा-महम् आरभ्य निज-सभ्य-द्विज-द्वारा तं मणिं वेश्मनि निवेशयामास । प्रतिदिनम् अष्ट-भारान् अष्टापदानाम् असौ सृष्टान् करोति, सर्वारिष्टानि च नष्टानि विदधातीति ।
[१७] किम् अपरं ब्रूमः ? श्रीमद्-व्रज-वासिनाम् एवम् अनेनापि नायम् अस्माकम् आदिमः समतां याति । ये खलु साधारण्येनैव हिरण्यगर्भेण श्लाघिताः—यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भा।पु। १०.१४.२५] इति । धिग् धिग् आस्तां तद् अपि, यस्मै बहिः-सेवैर् अपि देवैः शेवधि-पारिजातादयः प्रस्थापितास् तं तत्-परीक्षार्थं महीक्षित्-कृते भिक्षमाणम् इव व्यवहरन्तं स प्रत्याचचक्षे नहि कौलेयकानाम् आस्वाद्ये कुल्ये कुल्य-जनानाम् आदित्सास्ति । ते तु तान् अपि जातु जात-कुतुकतया पुरः स्फुरतः प्रतिघुरन्ति । भवतु, स्वयं शास्तिम् अवाप्स्यति ।
[१८] व्रजराज उवाच—ततस् ततः ?
[१९] दूताव् ऊचतुः— तद्-अनन्तरम् आवाम् आगताव् एव । तद्-उत्तर-वृत्तं पुनर् अन्याभ्यां वृत्तं भविष्यतीति स्थिते पुनर् अपरौ सन्देश-हरौ सङ्गतौ । सङ्गत्य च तन्-मङ्गल-वृत्तं सङ्गमय्य तत्-प्रसङ्ग-शेषम् एव कथयतः स्म ।
[२०] श्री-कृष्णं तृष्णकम् इव पश्यन् सत्राजित् सत्रा-जनये प्रसेनाय तं मणिं दत्तवान् । यत् खलु तद्-अववाद-वञ्चनाय प्रयुक्तम् । तद्-अपवाद-प्रपञ्चनाय जातम् । तथा हि—स तु प्रसेनः कदाचित् केवलस् तन्-मणि-गलः समारूढ-तुरग-वरः पापर्धि-कृते कानन-चरः प्रनष्ट इति तत्र स्पष्टं जना वदन्तः सन्ति । तत्राप्य् अन्यत् कष्टम् आपतितम् । स खलु सत्राजित् तत्-सत्रा-वासिनश् च जना मणि-तृष्णया कृष्णस् तं निघातितवान् इति कौलीनम् उद्भाव्य सर्वं लज्जया कौ लीनम् इव कुर्वन्तः सन्ति ।
[२१] तद् एतद् आकर्ण्य सर्वेऽपि व्रजस्था वर्णयामासुः—वयम् इह तद्-यशः-प्रिया इति तस्य तत्-तत्-क्रियाकर्णन-सुख-श्रिया तद्-विरहम् अपि सहमानाः स्मः । यद्-अर्थं तस्य तत्-तत्-क्रिया तत्र पुनर् इयं तत्-तत्-खलता-मय-विशृङ्खलता जाता । तस्माद् अस्माकं जीवनम् इदम् अतीव दुःखदं जातम् । भवतु, तद्-अनन्तरम् उदन्तः कथ्यताम् ।
[२२] दूताव् ऊचतुः— तद्-अनन्तरम् आवाम् आगताव् एवेति सर्वेषु तद्-अहरहर् वेदनाविलता-विरचित-मनश्-चर्चेषु चिरं सन्देशागति-विरतिर् आसीत् । तद्-गतिः पुनर् अप्रतिहता बभूव । चिराद् एव तु सह बहवस् ते जाङ्घिकास् तरस्वितया सङ्घशः समागताः । किन्तु लब्ध-निदाघ-चराः स्थावरा इवावगताः । कुशलं कुशलम् इति वदन्तश् च स-गद्गदतयाधिगताः ।
[२३] ततश् च तेषां सन्तर्पणम् अप्य् अकृत्वा करेण तत्-प्रधानस्य करं धृत्वा व्रजराजः सामान्यतया पप्रच्छ—
[२४] स तूवाच—
सिंहस्याधिपदं प्रसेनम् अधियन् दीर्णं तथा तं महा- भल्लूकस्य तदीय-वर्त्म-गमनात् तद्-गर्त-मध्यं विशन् । अष्टाविंश-दिनान्तम् अत्र समरं कृष्णः प्रचित्यामुना रत्नं तच् च सुतां च तस्य जगृहे गेहे च सत्राजितः ॥२॥
[२५] अथ धीरतां धारयित्वा भोजनादिकं कारयित्वा पुनस् तं व्रज-समाज एव व्रज-राजः पप्रच्छ—कथय विस्तरतया ।
[२६] दूत उवाच—यदा रहः-कथन-गतिभिर् अहरहः सत्राजिद्-आदि-जनस् तत्र सदापवादम् अदात् तदा सुधी-गणानां निधीयमान-धीः स तु भवदीय-सुतस् तद् अवगत्य चानवगतवान् इव नाति-स्वानुगतानि हानिर् जाता । यद् यादव-गण-वरीयांसं कश्चन पाटच्-चरश् चरीकर्ति स्म । तस्माद् आगच्छत, तस्य नष्टस्य पदम् अन्विष्टं करवामेति ।
[२७] तद् एवं विविच्य तांस् तत्-प्रामाणिकान् अग्रिमतयातिरिच्य निजान् अवरिच्य तद्-अश्व-पदान्य् अनुपद्यमानस् तत्र यानादिना चिह्न-गत-निह्नवम् आशङ्कमानश् चरण-सरसिजाभ्याम् एव सञ्चरन् गतवान् यत्र हय-सहितः स निहतः । तत्र सिंह-मात्र-पद-पात्रं तत्-पदम् अवलोच्य तद् अनु यात्रतया सिंह-गात्रम् अपि गोत्रम् अनु महा-भल्लूक-लूनं विलोकयामास, यत्र सा हि धरित्री तद्-द्वय-मात्र-पद-चित्री-भवित्री कृष्ण-कीर्तिं पवित्री-चकार ।
[२८] व्रज-राज उवाच—सन्दिग्धि-दिग्धीकृत-सपत्नस्य रत्नस्य का वार्ता ?
[२९] स उवाच—रत्नं तु सयत्नतयापि न लब्धम् ।
[३०] व्रज-राज उवाच— हन्त ! कथम् इव ?
[३१] स उवाच—हर्यक्ष-महर्क्षाव् एव तद् ग्रहीतारौ जातौ ।
[३२] व्रज-राज उवाच— तयोर् मणिना किम् अणीयश् च फलं जयेत ?
[३३] स उवाच—हर्यक्षस्य तावत् तद्-विलक्षणतायाम् आखोर् इव कौतुकम् एव । महर्क्षः पुनर् असौ साक्षाज् जाम्बवान् एव ।
[३४] व्रज-राज उवाच— तर्हि महत्सु पर्यवसितं कार्यम् इदं न पर्ययं गच्छेत् । अथवा न जाने, जाति-क्रूरता तत्रासूरता स्याद् इति । तद् अनन्तरम् उदन्तस् तु कथ्यताम् ।
[३५] दूत उवाच—ततश् च तस्मिन्न् अच्छ-भल्ल-पदान्य् अप्य् अनुगच्छन् गुहाम् एव तस्य प्रवेश-देशं ऊहां चक्रे ।
[३६] व्रजराजादयः सावेगं ऊचुः—ततस् ततः ?
[३७] स उवाच—ततस् तस्य प्रत्येकं स्वस्य तु सुतरां तत्-प्रवेशाय खर्वान्तरान् सर्वांस् तद्-अर्वाग् एव गति-भङ्गिनः कृत्वा केवल-मङ्गल-सङ्गितालब्ध-सुख-जातः स भवद्-अङ्ग-जातस् तां प्रविवेश ।
[३८] तद् एतावच् छ्रवणतः सर्वे ततस् तत इति वक्तव्ये वाक्-स्तम्भम् आलम्बन्त ।
[३९] स तूवाच—प्रविश्य च तद्-अन्धङ्करणम् अन्धङ्कारं करेणेव करेण भित्त्वा पुरः पुरः सर्व-विलोकितवान् । विलोक्य च स श्लोक्य-चरितस् तं बालम् अनतिचरन् मणिम् अपि हरन्न् अवसरम् अनुचरंस् तद्-विरहण-वीक्षण-कुतुकीव तस्थौ । धात्री तु तत्राकस्मान् नरं तत्र चापूर्वताधरं वीक्ष्य कम्पित-गात्री बभूव । विभावयां बभूव च—
अहो यद्यप्य् एष स्फुरति नव-जीमूत-रुचिरः सुधांशूद्यद्-वक्त्रः कमन-कमलालोचन-पटः । मणौ बालेऽप्य् अस्मिन् कुतुकिनम् अथाप्य् एतम् अधियद् भिया लोलं हृन् मे न वहति बहिर् धीर-पदवीम् ॥३॥
[४०] तद् एतद् विभाव्य चानुक्रोशवती चुक्रोश । क्रुष्टवत्यां च तस्याम् अतिरुष्टतया दष्ट-नेत्रः स जाम्बवांस् तल्-लावण्यामृतास्वादम् अनालम्बमानः केवलं बलं वलमानस् तेन सह युयुधे ।
[४१] व्रजस्थाः सर्वे स-सम्भ्रमं ऊचुः—ततस् ततः ?
[४२] दूतस् तु ततश् चाष्टाविंशतिम् अहोरात्रान् अविश्राम-सङ्ग्रामः समजनि इति वदन् दुःख-धूतः सम्भूत-वाक्-स्तम्भम् आसीत् ।
[४३] तद् एतन्-मात्रस्य श्रवण-पात्र-श्रवणतया मूर्च्छतोर् व्रज-राजयोश् च सर्वेऽपि स-सम्भ्रमं ऊचुः—अस्तु तावत् प्रस्तुता तद्-वार्ता । तस्य वार्ततां तु श्रावय ।
[४४] स उवाच—ततश् च,
कृष्णं तन्-मुष्टि-निष्पात-पिष्टाङ्गः कष्टम् आसजन् । आचष्ट नष्ट-दर्प-श्रीस् तुष्टूषन् स्पष्टम् ऋक्ष-राट् ॥४॥
[४५] तच् च नास्मभ्यं रोचत इति शोचनीयस्य तस्य नानुवदनीयम् । स तु कृपण-वत्सलः कृपया तस्य स्तुति-विसरम् अप्य् असहमानः सर्व-शङ्करेण करेण तं पस्पर्श । तेन स्पृष्टश् चायं कष्टं परिहरंस् तन्-माधुर्यम् अपि दृष्टवान् । दृष्टे च तत्र श्री-रघुवर्य-सौन्दर्येऽपि तद्-अन्तः-पातिततया परामृष्टे क्षण-कतिपयम् अष्टापि स्पष्टम् एव सात्त्विकान् भावान् उवाह । पुनश् च भवन्-नन्दनेन स्वस्थित-मनाः समनास्तदाज्ञा-विज्ञानाय साञ्जलि तस्थौ । स तु स्वागमन-कारणं सङ्क्षेपतः सर्व आचचक्षे । ततश् च स पुनर् अच्छ-मतिर् अच्छ-भल्ल-तल्लजः सलज्जं परामृश्य गृहं प्रविश्य स-कन्या-रत्नं तद् एव रत्नम् आनीय तस्य पुरस्ताद् अर्पितवान् । तर्प्तवांश् च तं स्नपन-प्सापानादिना ।
[४६] स तु—
यद्-रूपं जन्मनो ध्यातं तद्-रूप-वर-लाभतः । मूर्च्छन्ती जाम्बवत्-कन्या पितुर् आकुलयन् मनः ॥५॥
[४७] तच् च ध्यानम् ईदृशम्—
तातः प्राचीन-भल्लः स्फुटम् अथ जननी तादृग् अन्ये तद्-आभा वासः क्ष्मा-भृद्-गुहान्तः कथम् अपर-पदं दृष्टि-वर्त्म प्रयातु । नीलेन्द्राणां कुलेन्द्रः स्मित-कमल-बल-स्तोत्रगी-स्तोत्र-नेत्रः स्वर्णांशु-स्रावि-दिव्यांशुक-रुचिर-सकृन् मां विकर्षत्य् असौ कः ॥६॥
[४८] व्रज-राज उवाच— ततस् ततः ?
[४९] दूत उवाच—ततश् च तत्-कर-स्पर्शामृतं स्मृतवतस् तस्य जाम्बवतः प्रार्थनया श्री-कृष्ण-स्पर्श-लेशाचेतितयां मुहूर्तान् मूर्तभावाद् उत्थितायां तस्यां सङ्गीत-मङ्गलं विधाय स धन्यं-मन्यः स-निज-कन्यं भवन्-नन्दनं स्वन्धम् अनु निर्बन्ध-धृत-चतुर्दोल-धामनि निधाय गर्त-द्वार-पर्यन्तं स्वयम् आससार । गर्त-द्वार-स्था द्वारकीयाः पुनस् त्रयोदशाद् अह्नः पुरस्ताद् एव निर्विद्य खिद्यमाना गृहाय प्रस्थानम् आचेर्रु न तु गुहायां सञ्चेरुः ।
[५०] तद् एतद् आकर्ण्य दूत-मुखं निर्वर्ण्य सवैवर्ण्यं सर्वेऽपि प्रोचुः—हन्त ! किम्-अर्थं ?
[५१] दूत उवाच—निज-प्राण-त्राणार्थं द्वारकागाराणां केषाञ्चिद् उत्त्रासनार्थम् अपि इति ।
[५२] तद् एवं दूत-वचनम् अनूद्य मधुकण्ठः स्वयं वदति स्म—यत्र खलु वक्ष्यमाण-श्री-कृष्णागमनान्ते दिन-कतिपय-प्रान्ते तत्-प्रस्तावम् उपलभ्य सभ्य-जनान् अनु तद् इदं सोत्प्रासं श्रीमद्-उद्धवेनानुशय्यते स्म—कालिय-कलह-व्याकुल-गोकुल-वासिनाम् इव कथम् अस्माकीनानां कश्चिद् अप्य् अविपश्चिद् भवेत् ? इति ।
[५३] तद् एतच् छ्रुत्वा व्रजेश्वरी प्रोवाच—व्रज-राज-चरणात् प्रति कथय कथं न्यायेन जित्वा नात्मनः स्तनन्धयं करे गृहीत्वा समानयन्ति, कथं तं क्षीर-कण्ठम् अनुपकण्ठ-वर्तिनाम् उदासीन-वासनानाम् अन्तर्वासिनं कुर्वन्ति ? इति । [५४] हन्त हन्त ! किम् अहं ब्रुवे ? जठरम् इदं यन् नाद्यापि विदीर्यति, तन् नेदं जठरम्, किन्तु जरठम् एव इति ।
[५५] तद् एवं श्रुत्वा सर्वेषु साश्रुतया स्वरतः खर्वेषु स-गद्गदं व्रज-राजः प्राह स्म—ततस् ततः ?
[५६] दूत उवाच—ततश् च भूरि-दूरतया विसूरित-पूरिततया च चिराद् एव द्वारकाम् आगतेभ्यस् तेभ्यस् तद् अवकलय्य लब्ध-धर्षं सङ्कर्षणादिषूद्धव-सम्बन्धतया तत्र प्रस्थानाय मिथः संवादिषु केषुचिच् च सर्व-मङ्गलाय सर्व-मङ्गलाराधन-कृत्सु सत्राजितं प्रति चातीत-जीवन-कारम् आक्रोशत्सु सद्य एव जाम्बवत्-प्रस्थापितन् अवद्य-वाद्यादि-मङ्गल-सङ्गतं शार्ङ्गी पाञ्चजन्य-ध्वनिं प्रपञ्चयामास । श्रुत-मात्रे च तत्र जातानन्द-कोलाहल-हलहलायमानतया हलि-प्रभृतयः सुबहल-लोकास् तम् अभिगम्य रम्य-विधानेन तद्-भासा खद्योतायमान-मणि-कण्ठं नव-रामा-शोभितोपकण्ठं हर्म्यम् आनिन्युः इति ।
[५७] तद् एतद् आकर्ण्य दूत-गणं धृत-सुवर्ण-मय-मणि-भूषणं विधाय ते पुनर् उत्कतयातीवार्ता वार्तान्तरानयनाय तदीयं द्वयं द्वयं सन्दधुः ।
[५८] आगतयोः पुनर् अपरयोः सन्देश-हरयोः पूर्ववद् व्रज-राज पप्रच्छ । [५९] तौ च कथयामासतुः—आगत-मात्रं स खलु मङ्गल-यात्रः सत्राजितं राज-सभायां भूयसादरेणाहूय तन्-मुख्याय सर्वस्मै सर्वम् आख्याय तस्मै मणिं स्मयमानतया समर्पितवान् ।
[६०] व्रज-राज उवाच— ततस् ततः ?
[६१] दूताव् ऊचतुः—
प्राक् पऋआङ्-मुखतां कृष्णाद् अथावाङ्-मुखतां मणिः । ददौ सत्राजिते किन्तु विमुखत्वं यथा तथा ॥
[६२] ततश् चायं पराममर्श—नूनं मयि निगूढतया रोष-प्रथनस्य कथं केशि-मथनस्य सन्तोषः स्यात् ? कथं तदीयानां शापश् च नापतेत् ? आम् आं जाम्बवान् इव चातुरीम् अवलम्बेय, यः खल्व् इदं रत्नम् अस्माद् अप्य् अधिकेन कन्या-रत्नेन द्विगुणी-कृत्य प्रददानः सपत्नतायां कृत-चर-यत्नायाम् अप्य् अमुम् अतोषयत् ।
[६३] तद् एवं सत्राजिद् विचार्य स्वकार्य-मात्र-साधकः सत्यभामां नाम स्व-कन्यां मणिना सह स-न्यायं दातुम् आरब्धवान् । जाम्बवति समुद्बुद्धा प्राचीना भक्तिर् अधिकासीद् इति तु नोपलब्धवान् । दीयमानयोस् तयोर् द्वयोः श्री-कृष्णस् तु स्व-मात्र-जीवनतया धन्यां कन्याम् एवाङ्गीकृतवान्, न तु मणिम् इति तस्या भक्तिम् एव तस्याभक्तिम् एव च व्यक्तीकृतवान् । तत्राभक्तिस् तस्य वर्णिता । [६४] भक्तिस् तु तस्याः स्वयम् एव निरर्गला सती तत्र संसर्गं चकार । पित्रादीनां द्वित्रामित्रादयस् तु तत्र चित्रायमाणतया निमित्त-मात्रम् एव । यतः—
जन्माद्येन निजेन सार्धम् अभवज् जन्मादि यस्या रतेः कृष्णानन्य-गतेर् अमूं पितृ-जनाद् भामावृणोल् लज्जया । पूर्णत्वेन तु पूर्णताजनि यदामुष्यास् तदा सा कथं वामूम् आवृणुयात् कथं स च जनस् ताम् आचरेद् आवृताम् ॥८॥ बाल्याद् एव यद् एतद् अद्भुतम् अभूद् अस्यां हरिं सर्वदा पश्यन्त्यां बडभी-गवाक्ष-निचयाद् अत्रावधानं कुरु । दृग्भ्याम् अञ्जन-मञ्जुलं जल-कुलं यन् निर्ययाव् अञ्जसा- विन्दत् तेन कलिन्द-पर्वत-तुलां तस्मिन्न् अलिन्द-स्थलम् ॥९॥
[६५] व्रज-राज उवाच— ततस् ततः ?
[६६] दूताव् ऊचतुः— तत आवाम् आगताव् एवेति परौ प्रतीक्ष्येताम् इति ।
[६७] अथ कथकस्य कथायाम् अन्तरम् उपलभ्य व्रज-सभ्य-वन्दि-गणः श्री-कृष्णं पणते स्म, यत्र वर्णयिष्यमाणं च दूत-वचनं सूचयामास । यथा—
अघारिर् अथ सभ्यैः सभान्तर् उपवेशी । प्रजाभिर् अभियातः समेत्य शुभ-वेशी ॥ अवादि पुनर् एतद् रविश् च तव पादौ । विलोकयितुम् आगाद् इहोद्यद्-उपसादौ ॥अ॥ हसंस् तु हरिर् ऊचे न चायम् अहिमांशुः । परं तु बत सत्राजिद् एष मणिजांशुः ॥ तद् एतद् अवकर्ण्य प्रजास् तु गतवत्यः । स कृष्णम् अभि नागाद् यथाशु कृतहत्यः ॥ब्॥ हरिस् तद्-अतिगर्व-प्रकाश-कृति-कामः । नृपाय मणिम् अस्मिन्न् अथार्दद् अनु रामः ॥ अदत्त मणिम् एष प्रसेनम् अनु यर्हि । प्रहासम् अनुचक्रे मुरारिर् अपि तर्हि ॥च्॥ यदा तु स-मणिं तं जघान वन-सिंहः । गभीर-मनसासीत् तदा च यदु-सिंहः ॥ तदीय-जन-सङ्घस् तदाथ मुर-शत्रुम् । उपावदद् अवेत्य प्रति स्वम् अपि शत्रुम् ॥द्॥ हरिस् तु पुरु-सद्भिर् विमृग्य परिनष्टम् । ददर्श हय-युक्तं तम् एव हरि-दष्टम् ॥ मृगेन्द्र-पद-चिह्नैः प्रपद्य गिरि-देशम् । ददर्श सह सर्वैर् हतं च स मृगेशम् ॥ए॥ अथात्र पदम् ऋक्ष-प्रभोश् च स लुलोके । मणिं तु न हि तच् च प्रतीतवति लोके ॥ तदीय-पदम् ऋच्छन् जगाम गिरि-रोकम् । विवेश तद् अमत्वाखिलस्य निज-शोकम् ॥अं॥ प्रविश्य स महर्क्ष-प्रकृष्ट-पुर-गामी । अपश्यद् अथ रत्नं तदीय-हृति-कामी ॥ यद् एव किल धात्रीम् उपेत्य सुकुमारः । विहार-पदम् आगात् तदृक्ष-कुल-सारः ॥ग्॥ सरत्नम् अहिजीर्षन् मुरारिर् इति धात्री । अकूजद् अतिभीता सकम्पतर-गात्री ॥ स भल्ल-कुल-मुख्यस् तदाथ हत-बुद्धिः । बभूव सह तेन प्रकृष्य कृत-बुद्धिः ॥ह्॥ सहाष्ट-दश-युग्मं स तेन दिवसानाम् । व्यधत्त युगम् उच्चैर् अनुद्यद्-अवसानाम् ॥ विहृत्य मुर-वैरी स तेन चिर-कालम् । चकार करुणाक्तं स्वकीयम् इव बालम् ॥इ॥ स चाथ हृदि शुद्धस् तम् एत्य गति-सारम् । निवेद्य निजम् आगः प्रसन्नम् अकृतारम् ॥ स्यमन्तम् अपि कन्यां ददे तु वर-भक्त्या । स जाम्बवद्-अभिख्यः परं च पर-शक्त्या ॥ज्॥ सकन्य-मणिर् आगान् मुरारिर् अथ गेहम् । समर्प्य मणिम् ईशे ननद वलितेहम् ॥ त्रपार्त-मति-सत्राजितस् तु कृत-घातम् । स्यमन्त-हरम् अक्रूरकादि-मत-यातम् ॥क्॥ मुरारिर् अथ कन्याम् इयेष न तु रत्नम् । सभक्तिर् इह सा यत् परन्तु कृत-यत्नम् ॥ द्रवन्तम् अथ सत्राजितस् तु कृत-घातम् । स्यमन्त-हरम् अक्रूरकादि-मत-यातम् ॥ उपेत्य शत-चापं जघान वनमाली । स्यमन्त-मणिम् अक्रूरकाच् च मतिशाली ॥ल्॥ समेत्य यदु-वृन्दं प्रतोष्य बहु-कर्मा । स एष तव गोष्ठ-क्षितीश कृत-शर्मा ॥ व्रजस्य नयनालिं बिभर्ति जित-तन्द्रः । सदापि परिपूर्णस् त्वदीय-कुल-चन्द्रः ॥म्॥ इति ॥१०॥
[६८] अथ मधुकण्ठ उवाच—[६९] अथापरौ वार्ताहरौ सङ्गत्य पूर्ववद् व्रज-राजं प्रत्यभाषेताम्—तत्र सर्वं सुखम् एव किन्त्व् एकं दुःखं दुःखनन-मूलं जातम् अस्ति । न जानीवहे किम् आयत्यां प्रत्यासीदेत् ।
[७०] व्रज-राज उवाच— हन्त ! किं तत् ?
[७१] दूताव् ऊचतुः—तत्-कन्या-द्वयं नाद्यापि परिणयम् आपन्नम् इति विषण्णं सन् निरन्नम् एवास्ते ।
[७२] व्रज-राज उवाच— अपरिणये किं कारणं ?
[७३] दूताव् ऊचतुः— भवद्-आज्ञानवधारणम् एव लक्ष्यते । श्री-वसुदेवादयश् च वारं वारं तद् भवन्तम् अवधारयितुं सङ्कुचन्तः सन्तीति च तर्क्यते ।
[७४] अथ व्रज-राजः सर्वान् व्याजहार—साम्प्रतम् अन्याश् च कन्या धन्यास् तस्मै दास्यन्ते, वास्मत्तः सङ्कोचश् च रोचिष्यत एवेति युगपत् तद्-अपत्रपा-हर्तृ-परं पत्रं दातव्यम् ।
[७५] सर्वेऽप्य् ऊचुः—बाढम् । किन्तूद्धवाय प्रहातव्यम् ।
[७६] व्रज-राज उवाच—सम्यक् तस्माद् इत्थं लिख्यताम्—
इच्छा यासीत् पुरस्तान् मम तु बहु-विधा सा विधात्रावकीर्णा सम्प्रत्य् एतद् विधत्स्व त्वम् अतनु-मद्-अनुज्ञा-वशाद् उद्धवाख्य । तासां तद्-भक्ति-पात्री-कृत-चरित-युजां येन साद्गुण्य-लेशं धात्री भिर् वत्सवत् सः प्रतिगृहम् अभितः सेव्यते स स्नुषाभिः ॥११॥
[७७] अथ तत्-पत्रिकायां तत्र गतायाम् उद्धव-द्वारा च श्री-माधवेनावगतायां पुनर् दूत-द्वारा प्रतिपत्रिकायां व्रजेन्द्रेण चास्वादित-तद्-अनुमतायां पुनर् अपरौ सन्देश-हरौ व्रजेश-पुरः-सरान् प्रति लब्धावसरौ बभूवतुः । तद् अनु युक्तौ च ताव् इदम् उक्तवन्तौ—परम-मङ्गल-सङ्गताः कालिय-भुजङ्ग-भङ्गद-महाशया निजाग्रजेन सह नाग-साह्वयं नगरम् आगतवन्तः ।
[७८] व्रज-राज उवाच— कथम् इव ?
[७९] दूताव् ऊचतुः—अहि-भयं निशम्य । यतः धृतराष्ट्र-कूट-कालकूट-सृष्ट-नव-कुटं प्रविष्टवन्तः पाण्डवा मात्रा सत्रा शश्वत् प्रश्वयद् उष्मणाकस्मिक-शुष्मणा भस्म-सात्कृता इति निशम्यते स्म ।
[८०] व्रज-राज उवाच—कष्टम् अनभीष्टं जातम् । सम्प्रति तु हस्तिनापुर एव पुनर् अपरौ सन्देशहरौ गच्छताम् । इति तथा-गतयोस् तयोः पुनर् आगतयोश् च मुख्यात् पुनर् उत्पातान्तरम् आकर्णितं यद् द्वारकान्तःपुर एव सुप्तः सत्राजित् केनचित् तु सौप्तिकेन गुप्तं हतः स मणिश् चापहृतः ।
[८१] व्रज-राज उवाच—हन्त ! किं तद् इदं तथ्यं ?
[८२] दूताव् ऊचतुः—अथ किम् । यत्र स्वयं तत्र वधूर् अवधूत-सामा सत्यभामा नादृत-धामा तैलद्रोण्यां तं मृतं प्रास्य सबाष्पास्यतया स-प्रयासं या समागता, स्वयम् एव तस्या सर्वं कथितम् ।
[८३] व्रज-राज उवाच— ततस् ततः ?
[८४] दूताव् ऊचतुः—ततो भ्रातरौ किल कातरौ भूत्वा क्षणम् अपि न तत्र स्थितवन्तौ, किन्तु तया सह द्वारकाम् एव प्रस्थितवन्तौ ।
[८५] व्रज-राज उवाच—हन्त ! वत्सस्य स्वक-सङ्ग-भङ्गः खल्व् अयं मङ्गलाय कल्पताम् । सम्प्रति तु द्वारका-सम्भूतानां दूतानां मुखाद् विशेषएं ज्ञास्यामः ।
[८६] अथ तेषु कौचिद् आगतौ पृष्ट-स्वागतौ विज्ञापयामासतुः—श्री-कृष्ण-रामयोर् द्वारका-धाम-गमनं जातम् ।
[८७] व्रज-राज उवाच— गतयोस् तयोः किं जातं ?
[८८] दूताव् ऊचतुः— गतौ च सत्राजिद्-धन्तारं सर्वेण सत्रा तर्कितवन्तौ, तर्कयित्वा च निश्चितवन्तौ ।
[८९] व्रज-राज उवाच— कथम् इव ?
[९०] दूताव् ऊचतुः— तत्-पापम् एव खलु तत्-ख्यापकम् ।
[९१] व्रज-राज उवाच— कथयतम् ।
[९२] दूताव् ऊचतुः—गूढ-पुरुषः कोऽपि कृष्णाय निगूढम् इदं वर्णितवान्—द्वारकाया भवद्-रहिततया च्छिद्रं निर्वर्ण्य पाण्डवेषु धृतराष्ट्र-कौटिल्यम् आकर्ण्य तद् एव गुरूकृत्य स्व-कृत्य-कृते त्यक्त-धर्माक्रूरः कृतवर्मणा साकं निःशलाकं शतधन्वानम् उवाच—मणिः कस्मान् न गृह्यत इति ।
[९३] शतधन्वोवाच—कस्य ?
[९४] अक्रूर उवाच—यः खलु खलः कृष्णाद् बिभ्यद् अस्माभिः स्वसाहाय्याय कन्या-रत्नम् अस्मभ्यं पृथक् पृथग् अषड्-अक्षीणं सम्प्रतिश्रुत्य श्रुत्य्-अन्तर्मुखता-रहितः पुनः कृष्णाय दत्तवान् ।
[९५] शतधन्वोवाच—पर-द्रव्य-ग्रहणे भव्यं नश्येत् ।
[९६] द्वाव् अप्य् ऊचतुः—मूर्ख ! तद् व्यञ्जितम् एव, यत् खलु तद्-दत्त-कन्या-रत्न-परीवर्तेनैवाश्म-रत्नं हर्तव्यम् इति । ततः कोऽयं दोषः ?
[९७] शतधन्वोवाच—सत्राजिद् असौ स्व-कण्ठ एवावगुण्ठिती-कृत्य तन् निद्रातीति कथं गृह्णीयां ?
[९८] उभौ विहस्योचतुः—मूढ ! निद्रातीति स्वयम् एव वदसि चेद् वयं तत्र कतर-च्छिद्रान्तरं ब्रूमः ?
[९९] शतधन्वोवाच—तस्य ग्रहणम् अनु यदि जागरणम् आसीदेत्, तर्हि गर्हितं स्यात् ।
[१००] अक्रूर उवाच—मातृ-मुख ! स कथं भ्रातरं नान्वियात् ? इति ।
[१०१] तद् एतद् आकर्ण्य सर्वे व्रजस्था विहस्य प्रोचुः—अस्य कोऽभिप्रायः ?
[१०२] उपनन्द उवाच—सोऽपि तद्वद् अज्ञातव्यतया सज्ञपयितव्यः ।
[१०३] पुनर् अपि सर्वे ते प्रोचुः—अक्रूरः खलु धर्मात्मेति तु भूरि-दूर-प्रसिद्धिः सिद्धिं लब्धवती ।
[१०४] व्रज-राज उवाच—तथापि वैष्णवस्य दैवविद्रव-वशाज् जातं छिद्रं न द्रव-विषयीकार्यम् ।
[१०५] दूताव् ऊचतुः—श्रीमान् उद्धवस् तु तत्र कारणं कार्यम् अपि पर्यालोचितवान् । श्रीमद्-व्रजवासिनां तत्र शाप आपतद् इति तावद् एव न फलम् अपि तु श्री-कृष्ण-विच्छेदस् तथा बहिर्-जन-सम्भेदस् तथा कर्म-खेदः सम्भविता ।
[१०६] व्रजराज उवाच—आस्तां तद् अपि, पश्चाद् गूढ-पुरुषः स खलु किं निगमितवांस् तत् कथ्यताम् ।
[१०७] दूताव् ऊचतुः—ततश् च शतधन्वा तद् अन्व् आचरितवान् एव । किन्तु मणिं ताभ्यां याच्यमानम् अपि न दत्तवान् इति ।
[१०८] सत्राजितम् उद्दिश्य तो श्रीमान् उद्धवस् तद् इदम् उद्बुद्धं चकार—
धनार्थं सत्राजिन् मणिम् अधित गेहे मणिर् अपि व्यनश्यन् नाशार्थं निखिल-विपदां चेच् छृणुत भोः । वने भ्राता नष्टः स्वयम् अथ गृहे तत् स्फुटम् इदं विजानीध्वं कृष्णाद् विमुखम् अखिलं नश्यतितराम् ॥१२॥
[१०९] व्रज-राज उवाच— ततस् ततः ?
[११०] दूताव् ऊचतुः—ततश् च तत्त्वम् अधिजगन्वान् शार्ङ्गधन्वा शतधन्वानं हन्तुम् आरब्धवान् । न तु सहसा जघान । यद्य् अयम् एकाकितां प्रतिपद्य विद्रवति, तच् छिद्रम् उपसद्य च द्रुह्येत, तर्ह्य् एव न द्वारकायाम् उपद्रवः समुद्भवति इति ।
[१११] राजघ्नतया स्फुरद् अधः शतधन्वा तु भयं मन्वानः कृतवर्माक्रूरयोः क्रूरयोर् अपि कृष्णाल् लब्ध-भय-पूरयोः शरण-भावाद् दूरयोर् आश्रयम् अनासद्य सद्य एव शतयोजन-वाजिनं वाजिनम् आरुह्य द्रुतवान्, द्रुतवन्तं च तं राम-कृष्णौ रथेनानुद्रुतवन्तौ ।
[११२] ततश् च कंस-प्रमाथी तं मिथिलोद्यानं प्रपद्य विपद्यमानं हयं विहाय पलायमानम् आततायिनं पद्भ्यां जव-लीलयाधिवलय्य चङ्क्रमण-तुलित-चक्रवातेन चक्र-पातेन तच्-छिर उच्चकर्त । उत्कृत्य च कृत-विचयं तस्य सिचय-द्वयम् अनु मणिम् उपलभ्य भ्रातरम् उपलभ्य वृथा हतः शतधनुर् न तु मणिर् लभ्यते स्मेति वचनेन विस्रम्भ्य च स कमल-लोचनः सङ्कुचन् कुञ्चद्-विलोचनेन कृतानुशोचनेन चानेन प्रोचे—सोऽयम् अचित् क्वचित् पुरुषे पुरम् अन्व् एव स्व-विश्वस्ते न्यस्तवान् मणिम् इति तत्रैव भवान् व्रजतु, सत्वरम् अहं पुनर् मत्-प्रेम-शिथिलान्य-गतिं मिथिला-पतिं द्रष्टुम् इच्छामि इति ।
[११३] तद् एतत् कथान्तरे स्व-दूतौ प्रति सर्वे पप्रच्छुः—साम्प्रतं रामस्यापि प्रतीति-वितथं कथनम् उपलभ्यते । यत् तथा निरुच्य तम् एकाकिनं विमुच्य गत इति । तद् एतत् पुनर् असम्भाव्यं सम्भाव्य भण्यताम् ।
[११४] दूताव् ऊचतुः—अस्ति खल्व् अत्र स्वस्ति-भावार्थम् अविश्वस्ति-निवारणं कारणम् । यतस् तस्यात्रायम् अभिप्रायः । शतधन्वनो विश्वस्तौ खलु कारित-तत्-कर्माणाव् इति तद्वद् अभिशस्तौ नावक्रूर-कृतवर्मानाव् एव । तत्र च धर्मात्मतया दूर-लब्ध-प्रसिद्धिर् अक्रूर एवेएति स मणिस् तेन तस्मिन्न् एव न्यस्तः । स चायम् अक्रूरः स्निग्धता-दिग्धतया तदानीम् आसन्न-विरहानल-ज्वाला-दग्ध-प्रायतां व्रजत्सु व्रज-सत्सु क्रूरतापन्न-दृष्टिर् एव दृष्ट इति मह्यं न ह्य् अतिरोचते । तथाप्य् अनेन धनादिनातीत-सामान्यतया मान्यत एवेति न स स्फुटम् अट्टङ्कनीयः । पश्चात् तु विपश्चिद्भिर् निश्चयेष्यत एव । अतश् च मम तत्र गमनम् अपि न रमणीयम् । किन्तु सर्व-सहिष्णोर् अस्य विष्णोर् एव तत्रैकाकिनोऽप्य् अस्य रथ-जवं व्यस्यतः कश्चिद् आत्मनि पश्चिमतां विधातुं शक्ष्यति । शस्त्राण्य् अस्यतः सम्मुख-मुखतां वा वक्ष्यतीति न प्रतीमः । ततो मित्र-मिलन-मिषान् मया प्रणय-मय-रोष एव पोषणीयः इति ।
[११५] व्रजराज उवाच—सङ्गि-मालिन्यात् स्फटिक-मणिर् मलिनता-घटित इव प्रेक्ष्यते । स पुनर् अन्तः शुभ्र एव । तस्माद् आस्तां तत् प्रस्तावः । वत्सः किं द्वारकाम् आनर्च्छेति तु पृच्छ्यते ।
[११६] दूताव् ऊचतुः—तस्मिन्न् आगत एव तु ततः प्रतस्थिवहे ।
[११७] व्रजराज उवाच—शतधन्वा खल्व् अधर्माद् वीरहा जातस् ततस् तस्यान्त्येष्टिर् अपि नष्टिम् अवाप । जाताशर्मणोर् अक्रूर-कृतवर्मणोः का वार्ता ?
[११८] दूताव् विहस्योचतुः—तौ तु तिग्म-वेगतया तस्माद् अपजग्मतुः इति ।
[११९] तद् एवं सन्देश-हर-समुदयेषु मुहुर् आनीत-केशवाग्रजाव्रजनादि-सन्देश-चयेषु कदाचित् कौचिद् आगत्य तत्रत्य-वृत्तं किञ्चिद् अपूर्वं पूर्ववन् निवेदयामासतुः—श्री-व्रज-महेन्द्र ! सम्प्रति बल-गोविन्दाव् इन्द्र-प्रस्थम् आगतौ स्तः ।
[१२०] व्रज-राज उवाच— किम्-अर्थं ?
[१२१] दूताव् ऊचतुः—स-कुन्ती-मातृक-भ्रातृ-पञ्चकस्य मिलनार्थम् ।
[१२२] व्रजराज उवाच—हन्त ! किं ते सकुन्तीकाः कुन्ती-सन्तानास् तनूनपातः शिष्ट-तनूकाः सन्ति ?
[१२३] दूताव् ऊचतुः—अथ किम् ।
[१२४] व्रजराजः सहर्षम् आह—कथम् इव ?
[१२५] दूताव् ऊचतुः—विदुर-सूचित-विदूर-गामि-बिल-वर्त्मानुवर्तनेन ।
[१२६] व्रजराज उवाच—तर्हि दिष्ट्या वत्सस्य दग्ध-प्रायाश् छाया-भूमिरुहास् ते भूमि-पर्युप्तता-गुप्ताङ्गतया पुनः साङ्कुरा जाताः ।
[१२७] दूताव् ऊचतुः—तावद् एव देव ! किं वक्तव्यं ? यतस् ते द्रुपद-कन्याम् अपि पाणौ गृह्य गृह्यमाण-निज-गृहा दत्त-समस्त-स्पृहा गृह एव विराजन्ते ।
[१२८] सर्वे प्रोचुः—पाणौ गृह्येति सामान्यतः कथं कथ्यते ?
[१२९] दूताव् ऊचतुः—तत् तु तथैव कथैव तु द्रुतं न प्रतीयते ।
[१३०] व्रजराज उवाच—भवेद् अत्र कश्चिद् विपश्चिन् मत-गर्भः सन्दर्भः । भवतु, तयोः सदेश एव प्रवेशः सम्पन्न इति तद्-अर्थं गुप्तं भोज्य-भोग्यम् अर्थ-जातं पेटिका-पर्युप्तं विधाय सन्देश-हरेषु निधाय प्रहीयताम् इति प्रोच्य स्वक-शोच्यतां वर्णयति स्म ।
दूरस्थेऽपि सुते पितुर् गतिर् अथो मातुश् च दृष्टा द्वये तस्मिंस् तस्य च किन्तु हन्त तद् अभूद् अस्माकम् एवान्यथा । सोढुं तच् च समर्थयाम बत चेद् दुर्गे स्थले तत् स्थितिस् तत्-कान्त्या मुहुर् ईक्षणं चर-गणा बिभ्रत्य् अमी नस् तु धिक् ॥१३॥
[१३१] सर्वेऽपि स-बाष्प-रोम-पर्वेह प्रोचुः—
एषां नेत्राणि वार्तां मुहुर् उपहरताम् अस्मदीयानि नेत्राण्य् एव स्युश् चेत् तदा तन्-मुख-सरसि-रुहास्वाद-कर्तृण्य् अमूनि । आगम्यागम्य सम्यग् गति-धर-सरघा-केलि-वल्गूनि दूर- स्थित्यास्मान् नीरसाङ्गान् मधुपद-सदृशान् पुरयेयुः सदापि ॥१४॥ इति ।
[१३२] दूतौ तत्-तद्-उपायन-सम्भूतौ विधाय सास्र-नेत्रवत्सु व्रज-सत्सु कृष्ण-प्रहितौ स्व-हितौ कौचिद् आगम्य प्रणम्य पुनस् तत्-प्रतिनिध्तयावनम्य रम्यम् इमं स्वस्ति-मुख-कृत-प्रवेशं कृष्ण-सन्देशं दृशि निवेशयामासतुः । यथा,
यावद् वैरि-निवारणं स्फुटम् अहं नागन्तुम् अर्हस् ततः साक्षान् नागतम् आचरामि रचयाम्य् अन्यत् तु यन् नित्यशः । यूयं चेद् बहिर् ईक्षणाद् बहिर् अदः सत्यं मनुध्वे तदा तेन प्रीति-मयानि तन् न यदि वा युष्मद्वद् उच्चैः क्लमम् ॥१५॥
[१३३] अथ राम-सन्देशम् अपि तथावेशं निवेदयामासतुः—
पिता मे गोपेश त्वम् असि जननी कृष्ण-जननी न चान्यं नैवान्यं मनसि मनुवेऽहं कथम् अपि । विलम्बं कृष्णस्यागमनम् अनुगन्तुं परम् अहं दधे किं वागच्छान्य् अचिरम् अपि तस्मिंश् चिरयति ॥१६॥
[१३४] तद् एवं मनसि न्यस्य विश्वस्य निःश्वस्य च व्रजेशः पप्रच्छ—कुरुषु कः खलु राम-कृष्णयोः स्निग्धता-दिग्धः संलक्ष्यते ?
[१३५] दूताव् ऊचतुः—कुन्त्य्-उपपञ्चमाः पञ्चापि कुन्ती-पुत्राः । तत्र च—
कुन्ती सा कुरुते व्रजेश-सदृशः प्रेम-स्तुतिं सर्वदा गोष्ठेशस्य युधिष्ठिरो हलभृतो भीमोऽर्जुनस्यार्जुनः । स्तोकाग्राह्वय-कृष्णकस्य नकुलस् तस्यानुजश् चेत्य् अमून् पश्यन्ति मुनि-संहतिर् व्रज-कथां निर्मात्यमीषां पुरः ॥१७॥
[१३६] यत्र विदूरश् च तत्-तद्-विदूरतां गतस् तासु तासु कथासु पुरः-सरताम् एवनुसरन्न् अस्ति ।
[१३७] व्रज-राज उवाच— हन्त ! कथा-शेषताम् एव वयं गताः । भवतु, साम्प्रतं वत्सस्य किं विधित्सितं तथ्यं तत् कथ्यताम् ।
[१३८] ताव् ऊचतुः—तद् एवं दिन-कतिपये लब्ध-व्यत्यये श्री-रामादीन् द्वारकां प्रस्थाप्य सम्प्रति स-कृष्णः स खलु कृष्णः कानन-क्रीडा-सतृष्णः कृष्णा-तीर-पथेन रथेन सञ्चरमाणताम् आनञ्च । प्रथमं तावद् भक्षणार्थं भिक्षमाणाय सर्व-सुपर्व-मुख-लक्षणाय यक्ष-रक्षः-स्पर्शन-भक्ष-हर्यक्ष-पुण्डरीकादिभिर् उच्चण्डं खाण्डव-वनं खण्ड-मण्डकायमानं चकार । दिनान्तरे तु भास्कर-कन्याम् आजहार । यत्रावाम् अपि तदीय-सेवा-सङ्गिनौ सङ्गिनौ बभूविव ।
[१३९] तथा हि—तदा च धनञ्जयं सञ्जयमानः कञ्ज-नेत्रः कञ्चन वन-भागं जगाम । तत्र च छत्र-शोभाम् अत्रपत्र-तरु-दुष्परिहर-पुष्प-फल-सत्रता-भृत-पतत्र-भृत्-प्रभृतिनि सुख-कृतिनि नीराद-समीपे घन-वन-द्वीपे प्रविशन् कलिताश्रमे क्वचिद् आश्रमे मुहूर्तं निविविशे । दिशे दिशे च दृशं निदिदिशे । तत्र च शुक-शारिकादिकानाम् अपि काकलीर् निजानुराग-भाग-बलावलीनाम् इव विलापवलीर् विस्मय-स्मय-त्रपा-कृपा-शवलं कलयामास । यथा—
हा गोष्ठाधिप-गोत्रजासितमणे हा गोष्ठ-चिन्तामणे हा वृन्दावन-चन्द्र हा व्रज-रमा-गोप्यातिगोप्य प्रिय । हा तत्-तीर-विलास-लास्य-कलनात् त्रैलोक्य-सौख्य-प्रद क्लान्तं क्लान्त कुमारिका-जनम् इमं हा त्वं कदा वीक्ष्यसे ॥१८॥ इति ।
अत्र यद्यपि हा मत्तीरेति तैर् अवकलितं तथापि विलक-लपिततया तत्-तीरतया कलितम् ।
[१४०] अथ सर्वे पप्रच्छुः—तदा किं वृत्तं वृत्तं ?
[१४१] दूताव् ऊचतुः—तदा तद्-आज्ञया परितः परियन् परिजनः कश्चन श्यामां पति-विशेष-कामां काञ्चिद् दिव्य-लावण्यां कन्यां तपस्यन्तीं वरिवस्यन्तीं नमस्यन्तीम् अपि दूरात् पश्यति स्म ।
[१४२] दृष्ट्वा च विस्मयं स्पृष्ट्वा तेन निवेद्यमानः स-तृष्णः श्री-कृष्णस् तद्-अव्यवहित-देशाय प्रवेशाय स्व-हितम् अर्जुनम् असितम् अपि निज-स्मित-महसा सितं विहितवान् प्रहितवांश् च । अर्जुनश् च तां मन्दं मन्दं विन्दन्न् अवनत-कन्धरताम् आमृच्छन् पप्रच्छ—का त्वम् असि ? किम्-अर्थं वा समर्थं तपस् तप्यस ? इति ।
[१४३] सा च निर्जन-वनम् अनु स्वानभिरुचितताचित-पुरुषान्तरावलोचनया चकिता लज्जाम् अप्य् असज्जन्ती सहसा निज-तत्त्वं निजगाद—
अयि भ्रातः पूष्णस् तनुजनिर् अहं नाम यमुना तपस्यन्ती पित्रा रचित-भवने प्राणिमि जले । स वृन्दारण्यान्तर्-विलसित-जगत्-कामद-गतिः पतिः स्याद् इत्य् एतं समयम् अनुयामि प्रतिपदम् ॥१९॥
[१४४] सर्वे दूतौ पप्रच्छुः—स्थानान्तरम् अन्तरा कथं सा तत्र परं स्व-मनोरथं पश्यन्ती तपस्यन्ती बभूव ?
[१४५] दूताव् ऊचतुः—तत्र हि कुन्ती-सन्तति-सम्बन्धेन निर्बन्धेन तस्य तद्-वन-विहारम् अवश्यम् अध्यवस्यन्ती बभूव ।
[१४६] व्रराजः स्व-वृन्दावनं शोचन् निश्वस्य प्रोवाच—ततः किं जातं ?
[१४७] दूताव् ऊचतुः—तद् एवं तस्या भाव-वश्यायाः स-गद्गद-निगदं जिष्णुः सार्ध-नयनतया रभसाद् अनुगत्य वितत्य दनुज-जिष्णुम् अनुजगाद ।
[१४८] स च मम ममतातिशय-अम्मता रुचि-समतायता वृन्दावन-वृत्त-वाहिनी स्याद् इयं वाहिनीति नीति-सतृष्णस् तदीय-समीपम् अन्तर् अन्तरीपम् आप । सा च सहसा तद्-भासा चक्षुषी चमत्कारयन्ती विचित्र-भाव-वशान् मुहुर् अपसारयन्ती मुहुर् उपसारयन्ती च तूर्णम् एव घूर्णम् अवाप । यत्र च द्वयम् एव परस्परम् असिततायां विततायां सिततां विततान ।
[१४९] अस्रवत्तायाः सत्तायां स्रवत्-प्रस्वेदतां विवेद । स्तम्भवत्तायाम् अनायत्तायाम् अस्तम्भवद् विचारताम् अनुचचार । तत्र च सति सव्यसाची साचिव्यं विधाय चिराय चित्रताया विरामम् आत्म-मित्रम् आनिनाय ।
[१५०] ततश् चानुराग-मात्र-जागरुक-तृष्णः स च कृष्णस् तां तद् अवस्थां रथम् आरोप्य चिरेण स्वस्थायमानां गोप्यतया फाल्गुना नीताम् अन्तःपुर-पुरन्ध्र्रि-जनावरोप्यतया कुन्ती-समीपम् आपयामास ।
[१५१] कुन्ती च फाल्गुनात् तन्-नर्म निशम्य निशाम्य च निर्निमेषादितया तद् एव निर्णीय निर्निमेषमाणा विस्मयादर-स्नेह-किर्मीरिततया तां मुहुर् निर्वर्णयन्ती वरवर्णिनी-मध्यम् अध्यासयामास इति ।
[१५२] मधुकण्ठ उवाच—अथ तौ दूतौ वस्त्रालङ्कार-प्रभूतौ विरचय्य प्रस्थापितवान्। व्रज-राजः पुनर् अपराभ्यां निज-सन्देश-हराभ्यां श्रावयां चक्रे । यथा—
पार्थानां नगरं विधाय दिविषत्-तक्ष्णा पुराखण्डला- रण्यं खाण्डवम् अर्जुन-प्रिय-सखः स्वाहा विधायार्चितात् । उग्राग्नेर् अभिरक्षितेन च मयेनान्वर्प्य तेभ्यः सभां नीत्वा द्वारवतीम् उवाह रविजां गोपेन्द्र पुत्रस् तव ॥२०॥
[१५३] तत्रेदं च तद्-वन-स्वामिनं प्रत्युपहसितम् इव जातम्—
कोकिलादि-मयं पूर्वम् आसीत् खाण्डव-काननम् । अधुनापि तथेत्थं मा शक्र वक्रं मनः कृथाः ॥२१॥
[१५४] अथ व्रज-राजः स-समाजः स्मित-विराजमानं वदति स्म—तया परम-धन्यया त्रयी-तनु-कन्यया पुनर् अन्यदीया कुलीन-राजन्य-कुल-जन्यं-मन्यता लीनताम् आनिन्य एव, किन्तु पितरं विना तद्-वितरं न मन्यामह इति तद्-विशेषश् च वर्ण्यताम् ।
[१५५] दूताव् ऊचतुः—
सूर्यस् तन् निशमय्य भृउय् अपि सुक्ल्हं सज्जन् सुपर्वावलिं सर्वां पर्वणि संवलय्य समगाद् गर्व गर्वादिवद् द्वार्वतीम् । द्वार्वत्य् अप्य् अनुसद्म चार्व् नौगत-शब्धिस् तम् अप्य् आत्मसात् कुर्वत्य् उद्यद्-अपूर्व-पूर्व-रतया साकर्षद् उर्वीम् अपि ॥२२॥ ज्योतिर्विद्-रविर् एव वेद-विहितं विद्वान् स एवात्र यत् कन्याया जनकश् च स क्व नु ततश् चित्रं भजेद् वर्ण्यताम् । यस्मिन् पाणि-समर्पणं स दुहितुश् चक्रे तम् एतं तदा पश्यंश् चित्र-दशाम् असाव् अपि ययाव् आस्ताम् इदं दूरतः ॥२३॥
[१५६] मधुकण्ठ उवाच—अथ पूर्ववत् पुनः पुनर् आगम्य वार्तावर्तिनः पञ्चमादींस् तद् उद्वाहान् प्रपञ्चयामासुः ।
तत्र ५अमः
राजाधिदेव्यास् तनयां पितृ-ष्वसुः स मित्रविन्दाम् अहरद् वृतस् तया । विन्दानुविन्दाख्य-तद्-अग्रज-द्वये द्विषन् नृपाणां च चये निरुद्धति ॥२४॥
[१५७] यत्र वन्दिभिर् इदं वन्दितम्—
साजैषीन् मित्रविन्दा हरि-वरण-विधौ भ्रातृ-युग्मं निरुन्धद् यद्वद् भ्रातृ-वृन्दं हरिर् इह हितयोर् वीर-भावं सदृक्षः । कन्याप्य् आत्मार्पणे वा प्रतिभट-दलने कस्यचिद् वा भवेद् यः सत्त्वोद्रेकस् तम् एतं निगदति भरतः शश्वद् उत्साहम् एव ॥२५॥
[१५८] व्रज-राजः सलज्जं व्याजहार—यादव-क्षत्रियाणाम् अयं किल कुलाचारः, यत् खल्व् अतिनिकट-सम्बन्धिनाम् अपि सम्बन्धितान्तरं घटते । वत्सस्य चास्माकं गोत्रान्तरताचिन्तनया तत्र प्रवृत्तिर् जाता ।
[१५९] दूताव् ऊचतुः—तस्यां कन्यायाम् अपि न्यायता नान्यथा न्याय्या, या खलु तं वीक्ष्य सहचरीभिर् अन्यथा शिक्ष्यमाणापि गाढम् एव तद्-एक-गतित्वम् अवगाढासीत् । यत्र च—
कुलजे मातुल-जन्मा सोऽयं तव तोयद-प्रख्यः । इति सुखम् अदिशन् महिलाः सा शशि-सुमुखी तु रवि-मुखी कलिता ॥२६॥
[१६०] सर्वे पप्रच्छुः—तद् अवलोकनम् अवन्तीपुरावरोध-वश्यायास् तस्याः कुत्र पर्यवस्यति स्म ?
[१६१] दूताव् ऊचतुः—तद् इदम् उद्धवेनानुद्धतम् आवयोर् वर्णितम्, यत् पूर्वं नाम राम-कृष्णावध्ययन-सतृष्णावपह्नुत्य तत्र गतवन्ताव् आस्तां, किन्तु भवच्-छङ्काशङ्कासक्ततया न व्यक्तं कारयामासतुः । यत्र गुरु-पुरु-सेवा-प्रचयाप्रणयानुभावाच् चतुर्दशापि विद्याश् चतुःषष्टिम् अपि कलास् तावद्भिर् एव दिनैर् गच्छद्भिर् अधिजगाते । यत्र च ताभ्याम् आरब्धानि लब्ध-पञ्चजन-शमन-शमन-विजय-कर्माणि यद् अपि रचित-शर्माणि, तद् अपि परजनकीय-परम-दुष्करतया सदयानां मर्माणि भिन्दन्ति । यद्-अनन्तरं तु राज-महा-देव्या राजाधिदेव्या ज्ञात-तत्त्वयोः स्नेहाद् अनयोर् गेहानयन-पूर्वम् अपूर्वम् आतिथ्यं चक्रे ।
[१६२] व्रज-राजः सास्रम् उवाच—सद्-अग्रगण्य-श्रीमत्-पितृ-चरण-पर्जन्य-पुण्याचरण-धन्यता-वशाद् एव साङ्ग-मङ्गलं सङ्गंस्यत इति । अत्र विशेषः कथ्यताम् ।
[१६३] दूताव् ऊचतुः—स एष पुनर् ईदृग् ईदृक् इति ।
[१६४] मधुकण्ठ उवाच—तद् एवं सर्व-तत्-पर्व-श्रवणात् सर्व एव व्रज-वासी चित्रम् इवासीद् इत्य् अलं कथित-कथनेन ।
अथ षष्ठः
[१६५] तत्र व्रज-राजं प्रति दूतौ व्याजह्रतुः—नग्नजिन्-नाम्नः कोशल-धाम्नः कन्या सन्यायम् अभिरुचित-वन-दाम्ना समानीता ।
[१६६] व्रज-राज उवाच—कथं कथम् इति कथ्यताम् ।
[१६७] दूताव् ऊचतुः—सा खलु तस्य दुहिता नाम सत्या कृष्ण-तृष्णया सर्व-त्याग-परासीत्। यत्र च—
उदयति नव-मेघे लोक-दृग्-विद्युद्-आलिः स्वर-विवलन-गर्जा-विस्फुरद्-बाष्प-वृष्टिः । अभवद् इति परं न प्राप्य तस्य स्वभावं निखिलम् अपि यद् आर्द्रं निर्ममे तत्र सत्या ॥२९॥
[१६८] पितापि तस्यास् तत् पश्यन् सुख-वश्य-मना बभूव, किन्तु भ्रातृ-व्यसदृश-भ्रातृव्य-बृहद्बल-प्रबल-बृहद्बल-शबल-मित्राणां भाव-विचित्राणाम् अनुरोधान् न निज-बोधार्ह-कार्याय पर्याप्नोति स्म ।
[१६९] ततश् च बहु विचार्य तद् इदं पर्यालोचयति स्म—यत्र क्षत्रिय-मात्राणां न शक्ति-परिपक्त्रिमता, न चाभ्यास-व्यासतः कृत्रिमता सज्जति, किन्तु सर्व-शक्ति-समतिरिक्तस्य श्री-गोविन्दतयासुर-मथन-पुरःसर-सुर-सुरभि-समभिषिक्तस्य सज्जेत् । स एव समयः समयितव्यः, स च रभस-पालितानां केनाप्य् अचालितानां दनुजता-प्रबन्धावहानां क्रोध-तप्तानां सप्तानां सर्व-दुर्धर्ष-शक्ताव् ऋषभाणां मम वृषभाणां युगपद् बन्धन-मय एव युक्ततां सन्धत्त इति ।
[१७०] तद् एवं पर्यालोच्य प्रथमतस् तावद् बृहद्बलादि-सम्मत्या तत्-प्रत्यासन्नानां मुहुर् आहूतानां प्रभूतानां पृथिवी-पुरुहूतानां क्षत्रिय-यूथानाम् अप्य् अङ्ग-भङ्ग-कौतुकम् अवलोच्य स खलु साधूनाम् अशोच्यः सभावतया श्री-कृष्णम् आजुहाव ।
[१७१] व्रज-राज उवाच—ततस् ततः ?
[१७२] दूताव् ऊचतुः—ततः स तु पृथु-कुतुकतया महा-पृतनावृतः सर्व-सुखारामः सङ्ग-लसद्-अर्जुन-रामः समाजगाम । समागम्य च तस्य सौहार्दं हार्द-भावम् अप्य् अधिगम्य जगद्-अदम्यं वृष-सप्तकं यम्यं कर्तुम् अपि पराकर्तुम् इव रहसि केन केनचित् प्रामाणिकेन द्वारीकृतेन निवेदयामास—नरेन्द्र ! तद् इदं तवेन्द्र-पर्यन्तं पर्यवसितम् अस्ति । यत् खलु स्वार्थ-निबन्धन-वृष-बन्धन-कन्या-शुल्क-सनिर्बन्धः स राज-धुरन्धर इति । क्षत्र-बन्धोर् अपि नायं सत्य-सन्धो धर्मः । या खलु शौल्किकता, तस्मात् स्नेह-वशाद् वरं देवाद् वरम् इव भवतस् तां याचामहे, न तु शुल्कं दित्सामहे । राजा च स-लज्जं तद्-द्वारा तद् इदं निवेदयामास—युक्तम् एव तद् इदं भवद् उक्तम् । किन्तु मया नायं शुल्काचारः प्रचारितः परं शुल्क-कल्कतया भवत्य् एव वरता-पर्यवसानाय तथाचर्यते स्म इति ।
[१७३] व्रज-राज उवाच—ततस् ततः ?
[१७४] दूताव् ऊचतुः—अथ श्री-गोविन्दः स्मित्वा तद् अभीष्टम् एवानुतिष्ठति स्म । यथा—
दुर्गे वज्रत्-कवाटे व्यतिविघटनया पर्यटन्तः समन्तात् तीव्रास् तीव्राग्र-शृङ्गाः श्वसित-विलसित-स्फूर्जद्-ऊर्जस्वि-गर्जाः । सप्तारिष्टातिदिष्टा दनुज-तनु-वृषाः कंस-हन्त्राथ बद्धा यद् धा-हा-कारम् अद्धा विदधद् उत जगन्-नद्ध-नेत्रं बभूव ॥२८॥ उक्ष्णां निबन्धन-कृते दनुजारि-धाम दामाभवत् परम् अभूद् उपलक्षणाय । यत् स्तम्भयत् स्फुटम् अमून् अपरांश् च शत्रून् मध्याह्न-सूर्यवद् अदीप्यत तत्र तत्र ॥२९॥
[१७५] व्रज-राज उवाच—ततस् ततः ?
[१७६] दूताव् ऊचतुः—
तदा राजा राज्ञ्यः सकल-नर-नार्यश् च मुदिताः स्फुरद्-वाद्य-प्रोद्यन् महसि हरये ताम् इह ददुः । अथासौ तस्यानुव्रजन-विधये यान् नियुयुजे सदासीकान् दामान् बल-समुदयांस् तान् अपि ददे ॥३०॥ वृषभैर् ये पुरा भग्नास् ते तु लग्ना हरेः पथि । विद्राविताः परं बीभत्सुना बाणैर् न दारिताः ॥३१॥
[१७७] व्रज-राज उवाच—वत्सः किं मङ्गल-सङ्गितया द्वारका-द्वारं सङ्गच्छति स्म?
[१७८] दूताव् ऊचतुः—अथ किम् । यन् मात्राद् अत्रागमनायावाभ्यां यात्रा कृता ।
अथ सप्तमः
[१७९] यद् अनु दूताव् अपरौ झटिति सम्भूतौ वदतः स्म—श्री-वसुदेव-स्वसृतया कीर्तितायाः श्रुतकीर्तेर् मूर्तिजाश् चामृत-मूर्ति-पूर्ति-निभ-कीर्तितया नग्नजिता तुलिता जाताः।
[१८०] सर्वे प्रोचुः—कथम् इव ?
[१८१] दूताव् ऊचतुः—तेऽपि सर्व-गुण-भद्रां भद्रां नाम भगिनीं तया कृत-तृष्णाय कृष्णाय प्रददुर् इति । तथा हि—
भ्रातृऋणां या हरौ भक्तिर् नूनं सैव स्वसाजनि । तत् तादात्म्याद् असौ तेषां तत्र हि व्यक्तिम् आगता ॥३२॥
[१८२] अथ दूताव् इव सूताव् अमू चेतसीदं विविचतुः—बाल्यतस् तद्-भक्तिश् चावाभ्यां तत्र तत्र स-विविक्ति श्रुतापि नास्यां गुरु-सभायां भासनीया । यथा—
श्यामाङ्गीं प्रतिमां विधाय मधुरां पीतांशुका-मालिभिर् दीव्यन्ती विविध-क्षितीश-विभवेनाभ्यर्चयन्ती स्फुटम् । चित्ते यद् यद् इयं दधार कुलजा तत् तच् च चित्ताद् अपि त्रप्ता सा मुहुर् आवृतं विदधती प्रापानवस्थां मुहुः ॥३३॥ इति ।
अथाष्टमः
[१८३] तत्र लब्धावसरयोर् अपरयोर् अपि सन्देश-हरयोः कथितं प्रथितं क्रियते । यथा ताव् ऊचतुः—अस्ति मद्राधिपतिः पश्चिमायां दिशि कश्चिद् अच्छे सिन्धुनद-कच्छे बृहत्सेन-नामा, तस्य कन्या च शुभ-लक्षणतया लक्ष्मणा-नामतां जगाम । सम्प्रति तु विलक्षणतया शुभ-क्षणा जाता । यतः,
यद्यपि कुलजा हरि-रतिम् अन्तःस्थां सा न तु व्यनक्ति स्म । तद् अपि स्वाप्निक-जल्पास् तां व्यानञ्जुर् जने जनन्यादौ ॥३४॥
यथा—
भास्वद्-देव नमस्करोमि कृपया गृह्णीष्व हा मत्-कराद् अर्घ्यं शश्वद् अनर्घ्य-रत्न-वलितं पूज्यां च पूजाम् इमाम् । किं वाच्यं बहुधा मयात्र भवते पुत्रीतयात्मार्पितस् तस्मात् ताम् इव माम् अपि प्रथय भोस् तेनेप्सितेनान्विताम् ॥३५॥ हन्त व्योमनि नीरद-भ्रम-कर-द्योतः किशोराकृतिर् मां पश्यन् स्मितम् आतनोति तद् अहं विद्येय लीनालिषु । इत्थं किं बत लक्ष्मणा तव सुता निद्रायमाणा मुहुर् ग्रस्तं जल्पति भद्र भूप तद् अहं मातापि जानामि न ॥३६॥ इति ।
[१८४] ततश् च यस् तस्या देह-जनकः, स एव स्नेह-जनकः सन् मद्र-पतिर् भद्रम् उपायम् इमम् उपेयाय, सर्व-धानुष्क-दुष्कर-कर्मणः फाल्गुनस्यापि यः फल्गुताम् आधत्त ।
[१८५] तत्र तस्य विज्ञापिका तत्-प्रतिज्ञा, यथा—
विस्तीर्ण-प्राङ्गणान्तर्जल-भृत-परिखा-दुर्गमाधः-प्रदेश- स्तम्भोपर्यावृति-स्थं वृति-रहित-तलं भ्राम्यद् उच्चैर् झषाङ्गम् । यो दृष्ट्वा नीरमध्यप्रतिफलनवशाद् एकवारं शरेण छिन्द्यान् मच्-चाप-कर्षान् मम परम-सुता लक्ष्मणास्मै प्रेदेया ॥३७॥
[१८६] तद् एवम् एव निर्णीय च वितीर्णीकृत-तादृश-पत्रिकः क्षत्रियानयम् आजुहाव । किन्तु—
मद्रेशेनाञ्चितास् ते निज-निज-विजयं व्यञ्जयन्तः क्षितीशाः पूर्वात् पूर्वान् निजेषु स्फुट-विजय-विधिं प्रापुर् आसु क्रियासु । आदानं ज्या-निधानेऽस्खलनम् अधिकृत-ज्यात्वम् आमृष्ट-वेध्य- प्रान्तत्वं चेति जाता धनुर् अनु बत या या च निर्वाहितार्था ॥३८॥
तथा हि—
वन्दे तं मद्रेन्द्रं, यः कृष्णस्य द्विषच्-चक्रम् । कल्यालम्भन-दम्भान्, न्यक्-चक्रे तत्-क्रमेण तेनैव ॥३९॥ यस्मिन् मागध-चेदिप-दुर्योधन-भीम-कर्णाद्याः । मौर्वी-रोपण-मात्रं चक्रुस् तत्रापरे वराकाः के ॥४०॥
यत्र तु—
येन झषाङ्गम् अदृष्टं, स्पृष्टं बाणेन पश्यतां जगताम् । अपि जिष्णुं तं जिष्णुं, तच् छिदम् अजितं नृपो वरं मेने ॥४१॥ परम् अर्जुन-नामा प्राक्, वपुषि च पुनर् अर्जुनत्वम् आयातः । कृष्णेनैव स्वजयाद् इह हि स्मित-रोचिषा निचितः ॥४२॥ मीनं बृहत्सेन-कृतं बकी-रिपुश् चिच्छेद यत् तन् मिषम् एव केवलम् । किन्तु द्विषां मानम् इति प्रतीयताम् आकार-भेदान् न च तत्र भिन्नता ॥४३॥
[१८७] छेदनं च तद् एवं वर्णयन्ति—
धृत्वा धनुर् गुण-युतं विदधद्-विबृंहट्- टङ्कार-घोषम् अभिकृष्य कपोल-मूले । बाणं जहद्-वृति-विभेदन-पूर्वम् आराद् अन्तर् झषस्य च खलस्य च निर्विभेद ॥४४॥ भिन्दन् दीव्यद्-अभेद्य-दिव्य-कवच-द्वित्र-स्थितिं प्रावृतिं छिन्दन् वज्र-विनिर्मितं प्रतिलवं भ्राम्यन्तम् अन्तर्-झषम् । तत्-तद्-घर्षण-धर्षजात-हुत-भुग्-विस्फार-गर्ज-श्रिया तर्जन् सर्वग-शत्रु-खर्वम् असुर-च्छेत्तुर् विजिग्ये शरः ॥४५॥ यदाभिजित्-ख्यातिर् अभून् मुहूर्तकस् तदा बकारेः समयोऽप्य् अजायत । यदा स जज्ञे स झषं तदाच्छिनद् यदाच्छिनद् द्योः कुसुमं तदापतत् ॥४६॥ तत पपातासकृद् एव तद् यदा तदा हरिं मद्र-पतेः सुतावृणोत् । वव्रे यदा सा भुवि दिव्य् अपि स्फुटं वाद्यानि वन्द्यानि तदा च जज्ञिरे ॥४७॥
[१८८] व्रज-राज उवाच—ततस् ततः ?
[१८९] दूताव् ऊचतुः—ततश् च माधवस् तान् मागधादीन् प्रकोप्य तां वदन-नयन-कर-चरण-रुचिभिः कञ्च-वनीम् इव रथम् आरोप्य शर-पञ्जरेण सङ्गोप्य च द्वारकाम् अटन्न् अग्रतो घटमानांस् तान् राज-हंसान् घनागम इव घन-बाण-प्रक्षेप-वर्ष-धाराभिर् विद्रावयामास । कांश्चन प्राणैर् विच्यावयामास च ।
अथागतः स्व-पुरम् असाव् अशोभयद् व्रजेशितस् तव तनुजः स्वया रुचा । यथा भजन्न् अवसरम् आत्म-तेजसा स्व-मण्डलं वलयति विष्णु-भास्करः ॥४८॥
[१९०] ततश् च बृहत्सेनया बृहत्सेनस् तत्र सङ्गम्य महोत्सव-वलित-विवाहोत्सर्वम् उच्छलयामास इति ।
[१९१] अथ मधुकण्ठः समापनम् आह स्म—
आज्ञयैव भवतां व्रजेश्वर प्राज्ञ एष खलु ताः करेऽग्रहीत् । साम्प्रतं तव मनोरथ-स्थितिं तां प्रतत्य वलते त्वद्-अन्तिकम् ॥४९॥ तद् एवम् आकर्ण्य बलाद् व्रजेशिता तम् अङ्कम् आकृष्य मुदाङ्क-पालयन् । अस्राणि सुस्राव तदीय-मस्तके व्रजेश्वरी चात्र ययौ यदात्मताम् ॥५०॥
[१९२] अथ व्रज-वन्दिनस् तं वन्दमानाः सर्वम् आनन्दयति स्म—
इत्थम् अत्र भीष्मजादि तिस्र एष सद्विजादि- लोक-वर्ग-पर्वगाह-शर्म-केलि-भाग् उवाह । तां तपस्य् अदर्कजां च तत्र तर्षभाजम् आञ्चद्- अङ्ग मित्रविन्दया स विन्दकानुविन्दयास- नाशनेन वव्र एव शृण्व् इदं च गोष्ठदेव कोशलेशजां च तत्र तां बभाज सुष्ठु यत्र मत्त-भद्र-सप्तकं च तन् निबध्य शं ववञ्च किं च भद्रिकां च नाम सोदराः प्रदान-धांअ- योग्यताम् अवेत्य कृष्णम् अन्वदुः स्व-भक्त-तृष्णम् अष्टमे विवाह एवम् उन्नयस्व गोप-देव- लक्ष्मणाख्य-मद्र-राज-कन्यकां च कृष्ण-भाजम् उद्वितर्क्य तं तु पात्रम् ऐच्छद् एव तत्-पितात्र । किन्तु तत्र लक्ष्मम् एष निर्ममेऽल्प-मत्स्य-वेषम् एतम् अत्र दृष्ट्य्-अतीतमुद्विभेद यः प्रतीत- कीर्तिर् एनम् आनिनाय घोष एष शं विधाय पश्य पश्य गोपराज राज-मान-सत्-समाज ॥५१॥ इति ।
[१९३] तद् एवं व्रजेश्वर-सभान्तः कथायां समाप्त-प्रथायां श्री-राधिका-माधव-सभान्तः प्रथितं कथितम् ।
[१९४] यथा मधुकण्ठ उवाच—य एते विवाहाः प्रस्तुतास् तान् खलु तदानीं दूत-मुखाद् अमूर् व्रज-चमूरु-नयनाः पूर्णतया नानुभूतवत्यः, किन्तु परस्परया यत् किञ्चिद् एवेति पूर्वम् एव व्यञ्जितम् अस्ति । सम्प्रति श्री-कृष्णस्य तात्पर्यं पर्यालोच्यते ।
विवाहा यत् कृताः कृष्णे- नासीत् तत्-काल-यापनम् । गोपजाः क्षत्रजाताश् च यद् अमूर् एक-धर्मिकाः ॥५२॥
[१९५] कुरुक्षेत्र-यात्रायां हि श्री-रुक्मिण्यादीनां श्री-कृष्ण-प्रवणताश्रवण-करी-गणनायां—श्रुत्वा पृथा सुबल-पुत्र्य् अथ [भा।पु। १०.८४.१] इत्य् आदौ, उत स्व-गोप्यः इत्य् अनेन तासाम् आसु स्वैक-रूप्यम् अनुमोदनं च दर्शितम् । तथा हि—
चन्द्राल्या भीष्म-कन्या वृषरवि-सुतया सत्यभामा विशाखा- नाम्न्या द्योरत्न-कन्या स्फुरति ललितया जाम्बवद्-वर्ष्म-जाता । श्यामाङ्ग्या लक्ष्मणाख्या शिवि-तनु-जनुषा मित्रविन्दाभिधाना भद्रावल्याथ भद्रा प्रकृति-दर-समा पद्मया सा च सत्या ॥५३॥
[१९६] न केवलम् एक-धर्मत्वम् इति कृष्णस्यैव शर्म-कारणतासीत्, किन्तु चरणाब्यङ्गेन दृष्टीनाम् इव तत्-तद्-भोगेनैतासाम् अपि कथम् अप्य् ऐक्यांश-वशाद् यत् किञ्चित् सन्तर्पणम् एव जातम् । काल-क्षेप एव तेन जज्ञे, न चातिविक्षेपः ।
आस्ताम् एकांश-भाजां नृप-पद-सुदृशां कृष्ण-सङ्गस्य गोपीष्व् अन्तः-स्फूर्तिः पराम् अप्य् अनुभव दशमे युग्मकाध्याय-दृष्ट्या । वंशी-वल्ली-नदीनां यदि च स कुरुते दूरगश् चुम्बनाद्यं तर्ह्य् अप्य् एताः स्फुरत्-तत्-प्रमदज-पुलक-स्तम्भतां सम्भवन्ति ॥५४॥
[१९७] तत्रैव चोक्तम्—
एवं व्रज-स्त्रियो राजन् कृष्ण-लीलानुगायतीः । रेमिरेऽहःसु तच्-चित्तास् तन्-मनस्का महोदया ॥ [भा।पु। १०.३५.२६] इति ।
[१९८] तद् एवं वक्ष्यमान-षोडश-सहस्र-सङ्ख्येन परिणयनेनान्यासाम् अपि गम्यम् इति । गच्चह्तु तावद् गतम् । साम्प्रतं तु,
राधे त्वद्-आलिङ्गन-सङ्गिनो हरेर् दूरात् पुरस्था विरमन्तु ताः प्रियाः । श्रीमद्-व्रजे सम्प्रति सङ्गताश् च या नामूर् अपि त्वत्-तुलनां हि बिभ्रति ॥५५॥ इति ।
[१९९] तद् एवं प्रथयित्वा कथकौ सर्वैः सह वासम् आसन्नौ श्री-राधा-माधवौ च तद् एतद् अतिरम्यं निशम्य सम्यक् सुखम् अधिगम्य तम्यन्तः क्रम्य-लीला-गृहम् एव शीलयामासतुः ।
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
समाप्त-पर-विवाह-सप्तकं नाम
सप्तदशं पूरणम्
॥१७॥
(१८)
अष्टादशं पूरणम्
नरक-संहरण-पारिजात-हरण-
युगपद्-अष्ट-सहस्र-युग-कन्या-पाण्य्-आदानं
[१] अथ श्री-कृष्ण-मुख-सुषमापान-लब्ध-सुख-महसि श्री-व्रजेश-प्रमुख-सदसि स्निग्धकण्ठः कथयामास—कदाचिद् दूतान्तरयोः पूर्ववल् लब्धान्तरयो श्री-व्रजेश-प्रश्नः—कथ्यतां तथ्यम् इदानीन्तनं श्री-हरि-चरितम् ।
[२] दूताव् ऊचतुः— इदानीम् अतीत-नृलोकः खलु तस्य देवर्षभ-देवर्षि-प्रश्नोत्तर-मय-श्लोक-युगलात्मकः श्लोकः सोऽयम् उदभूत्—
को नाम नरक-च्छेत्ता घटते सुर-भूसुर ? यो नाम्ना नरक-च्छेत्ता सुरलोक-भुवां सुर ॥१॥ कुर्याद् अपारिजातं कः स्वर्गं स्वर्ग-तपोधन ? कुर्याद् अपारिजातं यः स्वर्गं स्वर्गाधिनायक ॥२॥ इति ।
[३] व्रज-राज उवाच— विशेषः शेषश् चेत् कथ्यताम् ।
[४] दूताव् ऊचतुः— एकदा सदा शुभ-धर्मायां सुधर्मायां त्रिलोकी-पालन-कर्मा नर्मादिना सर्वेषां शर्मानुरचयन् विरुर्चे । विरोचमाने च तस्मिन्न् अकस्माद् अभ्रम् अभि शुभ्राभ्रम् इव किम् अपि विभ्राजते स्म । न चात्र विभ्राजिता-मात्रम् । किं तर्हि घनाघन-गात्रताम् अपि जगाम । न केवलं तन्-मात्रताम् अपि तु मन्द-गर्जिताम् अप्य् अर्जितां चकार ।
[५] तद् एतन् निर्वर्ण्य सर्वैर् वर्ण्यते स्म—नेदम् अभ्रम् आभ्रति, यस्माद् ऊर्ध्वत एवास्यागमनम् अवगम्यते । न तु तिरशीनाद् आकाशाद् इति । तद् एवं विचारणया सत्सु सभासत्सु तस्माद् ध्वनिर् अपि कर्णाध्वनि वर्णाङ्गताम् अवाप । यथा—
अस्मद्-द्रक्षाकृते यः पुरुजनुर् उररीकृत्य विभ्राजमानः सर्वांस् तान् पूर्व-देवान् अलम् उपशमयन् क्रीडति स्वैर-लीलः । सोऽयं सूक्ष्मावधानं विरचयति यदि स्वैस् तदा लोक-पालैः सार्धं जिष्णुः स-हार्दं यदु-सदसि विशन् पश्यतात् पाद-पद्मम् ॥३॥
[६] तद् एतद् आकर्ण्य सर्वैर् वर्ण्यते स्म—
ऐरावतोऽयं न तु शुभ्र-मेघः शर्माश्रु-धारा न तु दृष्टि-वारि । शब्दः स्तुतीनां न तु मन्द्र-गर्जः शक्रस् तद् अत्राञ्चति चक्र-पाणिम् ॥४॥
[७] व्रज-राज उवाच— ततस् ततः ?
[८] दूताव् ऊचतुः— ततश् च भगवत् कुल-रत्नाज्ञया परिषदं परिचरद्भिर् यत्नाद् आहूयमाणः पुरुहूतस् तु भूयसादरेण सुर-विस्तरेण सम्भूयमानः सुधर्माम् आगच्छन् दण्डवन्-नमनम् एवागमन-साधनं चकार । आगताश् च ते यथावद् आदृत्य कृत्य-जिज्ञासया तस्यां निवेशयामासिरे । कृत-निवेशाश् च ते त्रिदिवेशा नम्र-ग्रीवतयातीव भक्त्यावेशाद् आसक्त्या क्षण-कतिपयं तूष्णीकाम् एव पुष्णन्ति स्म । तद् एतस्मिन्न् अवसरे मुनि-ततिर् मनसीदं मन्यते स्म—
सुधर्मायाम् अस्याम् अयम् अपि विडौजाः पतिर् अभूद् अहो सम्प्रत्य् एष स्वयम् असुरवैरी विभवति । यथा मुक्तावल्यां तरल-पदवीं काच-सकलः पुरा यातः सम्प्रत्य् असित-मणि-सम्राड् विजयते ॥५॥
[९] अथ श्री-वृष्णीन्द्र-महाशयः सविनयम् आललाप—
त्रिलोकी-पालका यूयं मर्त्य-लोकं यद् आगताः । तन् मन्महे पालनार्थं शतमन्यो वयं नराः ॥६॥
[१०] अथेदम् आकर्ण्य स-वैवर्ण्यं स वर्णयति स्म—
सर्वेषां सर्व-कर्ता स्यात् परमात्मा स केवलः । स्वाङ्गादि-कर्तृताद्य्-अर्थासमर्थस् तत्-परस् तु कः ॥७॥
[११] श्री-कृष्ण उवाच—कामम् आज्ञाप्यताम् ।
[१२] इन्द्र उवाच—
तस्मिंल् लज्जा कार्या, द्रुतम् ऋच्छति सा यम् अन्तरा शान्तिम् । नास्मिं लज्जा कार्या, द्रुतम् ऋच्छति सा याम् अन्तरा कान्तिम् ॥८॥
[१३] तस्माद् एवेदं निवेदयामि—
यः प्राग्ज्योतिष-पत्तनेऽस्ति मलिनीभूत-क्षमा-गर्भजः किं वान्यन् नरकाख्ययैव निखिला यस्मिन् गुणा व्यञ्जिता । स च्छत्रं वरुणस्य रत्न-गिरिम् अप्य् अस्माकम् आकृष्य यच् चक्रे चक्र-गदाधरान्यद् अपि किं ब्रूमस् त्रपा तेऽपि हि ॥९॥
[१४] श्री-कृष्ण उवाच—तेन यत् तादृशं भृशं कर्म निर्मितम् । तज् जगद् इवाधिजगद् वर्तते। त्रपा च तदैव स्याद् यदि नैव तत् प्रतिकर्तुं शक्नुमः । यदि च भवताम् अभुपगमःस्यात् तदाकाशेऽपि गन्ध-गुणतां कर्तुं क्षौण्याम् अपि तद्-गुणताम् अपाकर्तुं पारयामः । तस्मान् मातुस् तद् अमृत-स्रावि कुण्डलं तस्य मृत-स्रावि रचयिष्यामः ।
[१५] इन्द्र उवाच—
मातुर् यत् कुण्डलं तेन हृतं तेन हृतं श्रवः । यस्य श्रवण-मात्रेण वयं च वधिरीकृतः ॥१०॥
[१६] श्री-कृष्ण उवाच—नानेन तद्-अपहारः कृतः, किन्तु स्व-प्राणापहार एवेति स्वैरं वैरं जितम् इति मत्वा त्रिपिष्टपाय प्रतिष्ठन्तां तत्रभवन्त इति ।
[१७] अथ ते तत्-पद-पद्म-पद-पर्यन्त-भूमिं स्पृष्ट्वा शिरः स्पृशन्तः प्रसाद-स्पृशं तद्-दृशं दृष्ट्वा भृशं सुखम् आमृशन्तश् चेदं निवेदयामासुः—सोऽयम् अस्मद्-भ्रातापन्न-त्राता पन्नगाशनः स्वयम् अत्र भवद्-गमनासनं भविता ।
[१८] श्री-कृष्ण उवाच—नारायणासनं नराणाम् अस्माकं कथम् आसनाय कल्पतां ?
[१९] ते स-स्मितं ऊचुः—अस्मद्-आशंसया नारायणतापि भवत्य् अधुना सुष्ठु प्रत्यक्षताम् आप्स्यति ।
[२०] श्री-कृष्ण उवाच—किन्तु सङ्कोचाय रोचते ।
[२१] पुनस् त ऊचुः—अस्मद्-अर्थं भवद्भिर् अनर्थनीयम् अपि समर्थनीयम् ।
[२२] श्री-कृष्ण उवाच—यथाज्ञापयन्ति यज्ञाधिपतयः ।
[२३] तद् एवं सर्वे पर्वेह लभमाना यथागतं प्रणमन्तस् तत्-प्रसन्नतां स्मरन्तः प्रतस्थिरे ।
[२४] व्रज-राज उवाच— ततस् ततः ?
[२५] दूताव् ऊचतुः— ततश् च यत् पूर्वं सत्यभामां प्रति पारिजात-तरुं दातुं जातु प्रतिज्ञातम् आसीत् तस्यायम् अवसर इति सतीनाम् अप्य् अन्यासां प्रेमवतीनां तस्या एव तद्-दानस्य लक्ष्याय सर्व-शस्त्र-निवारणता-भासि-वरासि5-संवृतया तया सह सहसा हरिर् विहङ्गम-राज-वाहितेन विहायसा प्राग्ज्योतिष-पुरं जगाम । किन्तु भार्या-युत-गमनं वैरिणं प्रति स्वैरितानुसार्यात्म-केलिं गमयति स्म । तत्रान्यद् अप्य् आश्चर्यं पर्यवलोकितम् आसीत् ।
[२६] व्रज-राज उवाच— तद् अपि कथ्यताम् ।
[२७] दूताव् ऊचतुः—यदा तम् आरुह्य चक्रादि-चतुष्टयं तुष्टतया समूह्य प्रस्थितवांस् तदा भुज-द्वय-प्रतिबिम्बवद् अपरं तद्-द्वयम् अप्य् आलोकितम् इति ।
[२८] व्रज-राज उवाच— पूर्वत एवेदं ज्ञायत इति नापूर्वं, यन् नारायण-प्रसादस् तत्र तत्-साम्यम् आसादयति । गर्गस्य च सोऽयं वाक्-सर्गः—तस्मान् नन्दात्मजोऽयं ते नारायण-समो गुणैः [भा।पु। १०.८.१९] इति ।
[२९] दूताव् ऊचतुः— सत्यं सत्यम् । सत्यभामापि तद्-अनुजं भुज-युगलं दृष्ट्वा स्पृष्ट्वा च संवस्त्रित-मुखतया कृत-रहा जहास ।
[३०] व्रज-राज उवाच— तद् अस्तु तस्माद् अन्यम् अप्य् अस्मान् सन्तोषं जोषयतम् ।
[३१] दूताव् ऊचतुः— ततश् च हिरण्य-गरुत्मद्-उपरि गारुत्मत-हिरण्य-प्रतिमूर्ती इव भवत्-पुत्र-स्नुषा-मूर्ती विलोक्य खेचरा विचारयन्ति स्म—
पक्षि-समे कनकाद्रौ, नभसा गच्छत्य् अमू कलय । दम्पति-तुल्यौ विद्युल्-लेखा-विद्युत्वतां सारौ ॥११॥
[३२] सर्वे प्रोचुः—हन्त ! सा वधूटी कृष्ण-सवर्णतया कर्ण-पुटी-विषयी-क्रियते । कथम् अन्यथा वर्ण्यते ?
[३३] दूताव् ऊचतुः— तद् अपि सद् अवगतम् । किन्तु नावगन्तुं शक्यते तन् नाटी-परिपाटी ।
[३४] व्रज-राज उवाच— ततस् ततः ?
[३५] दूताव् ऊचतुः— तद् एवं देवैर् अपि दुर्गमान्तरं दुर्गा-पुरम् एव स प्राप्नोति स्म । यत् खलु—
शैलैः शस्त्रैः सरोभिः सहज-हुतवहैर् वायुभिर् दुर्ग-रूपैस् तद्वत् पाशैश् च मौरैः परिवृतम् अभितः काम-रूपं निवातैः । तद्-दूरान् नाग-शत्रूपरि परिविहरन् श्री-हरिः प्रेक्ष्य चित्रं गच्छन् श्री-सत्यभामाम् अपि स तु कुतुकी चित्र-गात्रां चकार ॥१२॥
[३६] अथ विविवेच च—नन्व् अमी देवा दुर्गाणीमानि दुर्लङ्घ्यानि वीक्ष्य मां गरुडारूढताम् अङ्गीकारयाञ्चक्रुः । [३७] तद् इत्थम् आक्रमणं तु छलाद् एव, न तु बलाद् । बलम् एव तु शूराणां व्यवहर्तव्यम् अतस् तद् एव मम कर्तव्यम् इति ।
[३८] व्रज-राज उवाच— ततस् ततः ?
[३९] दूताव् ऊचतुः— ततश् च—
ऊर्ध्वात् प्रवेष्टुं यद् अपीदम् ईष्टे पत्रीश-पत्रः कुतुकात् तथापि । दुर्गाणि दुर्गा-नगरस्य विष्वग् विक्रम्य भेत्तुं स मनश् चकार ॥१३॥
[४०] व्रज-राज उवाच— हन्त ! कथं कथं ?
[४१] दूताव् ऊचतुः— प्रथमं तावद् भूतानां संहार-क्रमम् आरब्धवान् । तत्र गदयाद्रीन् बाणेन च शस्त्राणि विद्राव्य पृथिव्य्-अंशं जल-दुर्गे प्रवेशयामास । ततश् च चक्रेण जलम् अग्नाव्, अग्निं वायौ, वायुम् आकाशे विलापयामास ।
[४२] सर्वे व्रजस्थाः साश्चर्यं ऊचुः—ततस् ततः ?
[४३] दूताव् ऊचतुः— ततश् च ये पृथिव्य्-अंशाः क्षुरप्रान्तता-हिंस्र-षट्-सहस्र-पाशतया पृथक्-स्थितांस् तान् अप्य् असिनैव तूलवद् वितस्तयाम् आस । तद्-अनन्तरं तद्-अनन्तरम् अभि च—
न केवलान्य् अस्य दर-ध्वनिस् तदा यन्त्राणि तस्मिन् वितथानि निर्ममे । मनस्विनां मङ्क्षु मनांसि चासकृद् दरोऽप्य् असौ यद् दर-हेतुतां गतः ॥१४॥ तत्-प्राकारं निर्विभेदाघ-वैरी कौमोदक्या तत्-परं चाचचार । येनोत्सृष्टान्य् अश्म-लोष्टानि तेषां पृष्ठाद्य्-अङ्गं भ्रष्ट-नष्टं वितेनुः ॥१५॥
[४४] किन्तु जल-दुर्गातिक्रमेण युद्धम् अप्य् उद्बुद्धम् । यथा तस्मिन् जलावरण-वारिधाव् अवधीरित-कालः कश्चित् करालः स मुर-नामासुरः पुरः शयानतयासीत् । यदा तु प्राञ्चन् काञ्चनाम्बरः पाञ्चजन्य-ध्वन्य्-अत्जवम् उज्जगार । तदा स च जजागार । तत्र तु—
द्वयम् इह मम मोहनं मुरारेर् दर-निनदः शयनं तथा मुरस्य । प्रलय-पवि-निनाद-तुल्य-वीर्यः स खलु तद् एकक-नाश्य-धाम तच् च ॥१६॥
[४५] तत्र च यदा जलाद् उद्गम्य त्रिशूलम् उद्यम्य स खलु पञ्चमुखः समुत्थितवांस् तदा सर्वंसंहरन् हर इवादृश्यत । यदा च क्रोध-लब्धोद्बोध-तेजसा सर्वं रोध-विषयी-चकार, तदा च कल्पान्त-कल्पनाय मिथः-सङ्घृष्ट-धृष्ट-भानु-बृहद्भानुवद् भाति स्म । यदा च पञ्चापि मुखानि प्रपञ्चयामास, तदा सर्व-ग्रसनाय सम्यग्-रसना-प्रसारण-कृत् कालाग्नि-रुद्रवद् उपद्रवाय बभूव । यदा च तार्क्ष्यं विधक्षन्न् इवाभ्यद्रवत् तदा तद्-रूप-रुद्र-वक्षः-प्रभ्रष्ट-दीर्घ-पृष्ठ इवालक्ष्यत । यदा च परितः परीततया गरुत्क्षेपं कुर्वते गरुत्मते शूलम् अस्यन् पञ्चभिर् आस्यैर् नोर्घोषं व्यस्यति स्म, तदा भवन्तश् च स्फुटं तम् अनुभवन्तस् तस्थुः । यतो घोष-स्थानां भवतां का वार्ता ? स खलु सर्वान् एवाण्ड-कटाह-स्थानार्तांश् चकार ।
[४६] सर्वे व्रज-सभासदः सप्रत्यभिज्ञं जिज्ञासामासुः—ततस् ततः ?
[४७] दूताव् ऊचतुः— ततः समिच्-छर्म-सम्पद्-आत्मम्भरिः श्री-हरिस् तु युगपद् अपि तत्-तद्-उपद्रवं विद्रावयंस् तत्र कौतुकं बभार । तीक्ष्णीकृत-मुखाभ्यां शिलीमुखाभ्यां तस्य त्रिशूलं त्रिधा विधाय निर्मूलं चकार । लब्ध-देह-व्यूह-प्रपञ्चकेन शिलीमुख-पञ्चकेन मुख-पञ्चकं तूणम् इव पूरयामास इति ।
[४८] सर्वे साश्चर्यं ऊचुः—ततस् ततः ?
[४९] दूताव् ऊचतुः— ततश् च निजम् उत्कर्षं चिकीर्षुर् अपि वस्तुतः स खलु मुमूर्षुर् यां गदां ससर्ज, तां ऊर्जस्वतीम् अपि निज-गदया सहस्रधावस्रस्तां कुर्वन्न् एव तत्पूर्वाङ-सङ्घम् अपि चक्र-वीर्येण चेकीर्यमाणः सर्वत्राप्य् अपूर्वं पूरयति स्म ।
[५०] व्रज-राज उवाच— ततस् ततः ?
[५१] दूताव् ऊचतुः—ततश् च दिङ्मतङ्गजान् इव तद्-अङ्गजांस् तद्-दार्ष्टान्तिकतया कृत-धार्ष्ट्यान् सप्तापि पीठ-साहित्येनाष्ट-सङ्ख्यतया तस्माद् अप्य् अखर्व-गर्व-स्पृष्टान् लब्ध-कष्टान् विधाय काल-दष्टांश् चकार । तद् एवं नरकः स्रस्त-निज-गर्वं तत् तत् सर्वं लोकम् अतीतं कर्म क्रमशश् चित्रवद् अवलोकयन् मर्मणि चुक्षोभ । गत्य्-अन्तराभावतः स्वयम् एव निर्गत्य द्रुत-गत्य्-अभिषेणयन्न-त्रस्तम् अतिहस्तयन्न् अप्य् उद्धतं युद्धम् उद्बुद्धं चकार । यत्र च हरिः परितः सर्वान् अपसव्यान् शरव्यान् व्यतानीत् । तथा हि—
भौमः सिन्धूत्थ-दन्ति-प्रयुत-युततया निर्गतः सैनिकानां पद्मैः सत्रा शतघ्नी-सख-विशिख-शिखान् अस्त्र-पूगान् व्यमुञ्चन् । कृष्णस् तांस् तान् समन्त्रि-त्रिभिर् इषुभिर् अनु स्वं समन्ताद् विभिन्दन् योधांस् तान् दृष्ट-मात्रान् विघटित-निटिलाद्य्-अङ्ग-सङ्घांश् चकार ॥१७॥ जिह्मगेष्व् अरि-सैन्येषु निजाजिह्मग-शङ्कया जिह्मगारिं हरिर् युञ्जन् प्रसक्त-कृतिम् अक्तवान् ॥१८॥ क्षिप्त-स्व-पक्षे तार्क्ष्येऽथ शक्तिं चिक्षेप भूमिजः । स च तत्रापरां ये द्वे संयोग-समवायगे ॥१९॥
ततश् च—
अव्यर्थं शूलि-शूलं द्रुतम् इह विकिराप्य् एवम् अन्तर् विचारात् स्रक्ष्यं तं तद्-विदूरात् क्षिति-तनयम् अमुं श्री-मुरारिर् वितर्क्य । ध्वस्तं चक्रे पुरस्तान् निटिलम् अकुटिलं तस्य चक्रेण तादृग् येनायं नाविदद् यत् क्व कथम् अथ कदा केन किं कश् चकार ॥२०॥ भौमे तु निहते सर्वोऽप्य् आह स्म भुवि दिव्य् अपि । अहहेत्य् अद्भुताद् धर्षात् खेदाद् अपि यथायथम् ॥२१॥
[५२] ततश् च निज-प्रेष्ठां तार्क्ष्य-पृष्ठाग्रे संरक्ष्य स्वयं क्षौण्याम् अवतीर्य वीर्यवत्-ताराणां विजय-कुञ्जराणां पुञ्जता-कृते जनान् नियुञ्जानः कञ्ज-लोचनः स तु क्षणं कुतुकम् अनुभूतवान् ।
[५३] अथ स्व-भारावतारात् तुष्यन्ती पुत्र-शोकाच् छुष्यन्ती च पुत्र-हृत-तद्-अदिति-कर्णालङ्कृति-प्रभृति-दिव्य-वस्तु-व्रजेन निज-पुरः पुष्यन्ती धरित्री वृष्यमाण-नाना-वर्ण-विचित्रीकृत-स्रग्भिर् विश्व-सृग्भिः स्तूयमानं हरिं सम्भूय परिष्टूय च निवेदयामास—नाम च ग्रहीतुम् अयुक्तस्य सानुग्रही-भवता भवता देह-बन्धान् मुक्तस्य तस्य तनयः सोऽयं बालतया लब्ध-भयः सर्वस्याप्य् अनुकूलं भवत्-पद-पङ्कज-मूलं समता मया सङ्गमयाम् आसे । तस्माद् अस्य शिरसि कर-सरसीरुहं यद्य् अर्पयति, सर्प-दर्प-दलन-वाहनस् तद् आस्तां तावत् प्राचीनानां कल्मषाणाम् अपहननं प्रतीचीनानाम् अपि स्याद् इति ।
[५४] श्री-कृष्णस् त्व् अभय-मात्रं तस्यास् तात्पर्यम् अवधार्य वाङ्-मात्रेण तद्-दानं वितीर्य सुर-पुरज-कीर्यमाण-दिव्य-कुसुमः सुकुमार-चरितः क्षितिज-क्षितिपाल-वेश्म प्रविवेश । प्रविश्य च वृषण्वसु जय-सम्भवं दिव्य-विभवं पश्यन् क्व च न कल्प-वल्लीनाम् अग्रतश् चन्द्र-बिम्बानीवापश्यन् । किन्तु ताश् च तानि च धूलिल्-भीष्म-ग्रीष्म-वात्याभिर् इव म्लानतया पश्यतस् तस्य सुखम् अनशयत् । यदा तु मन्द-मन्द-लावण्यामृत-निस्यन्द-निर्धूत-रजस्-तमस्काकस्मिक-बलाहक-शकलतया तासां पुरतः स स्फुरति स्म, तदा तत्र तत्र लक्षणं विलक्षणम् आसीत् ।
[५५] तद् एवं स्थिते पुनर् उभयेषां क्षणात् प्रत्यभिज्ञा च जाता । ता इमास् ता एवेति । सोऽयं स एवेति । ततश् च—
बाष्पं दूरम् अवर्षन् मुररिपुर् अमुका दधुस् तु कम्पादि । तादृश-तापेऽप्य् आसां, पश्यत हिमताकरत्वम् आद्यस्य ॥२२॥
[५६] सर्वे प्रोचुः—अहो बत ता इमाः काः ?
[५७] दूतौ सास्रं ऊचतुः—हन्त ! ता इमा बाल्यत एव सन्तत-कृष्ण-भर्तृकता-संविद् अनन्या युगपद न्याय-परिणयाय नरक-सङ्गृहीततया लब्ध-नरकं-मन्या रक्षित-निज-व्रततया धन्याः सद्-उपदेव-देव-नरदेव-कन्याः । याः खलु हारि-वंशाः केचिद् विप्र-वंशास् तत्र प्रशंसन्तः सन्ति—
निर्विशन्त्यो यथा देव्यः सुखिन्यः काम-वर्जिताः । परिवव्रुर् महाबाहुम् एक-वेणी-धराः स्त्रियः ॥ सर्वाः काषाय-वासिन्यः सर्वाश् च नियतेन्द्रियाः । व्रतोपवास-तन्व्-अङ्ग्यः काङ्क्षन्त्यः कृष्ण-दर्शनम् ॥
[ह।वं। २.६४.२६-२७] इति ।
[५८] सर्वे प्रोचुः—तस्य विशृङ्खलस्य खलस्य समीपे कथम् आसां व्रतम् अपि प्रततं जातं ?
[५९] दूताव् ऊचतुः—कालिका-पुराण-परायण-परायणास् तत्रेदं श्रावयन्तः सन्ति । तासु कृष्णानुराग-जागर-विसारदस्य श्री-नारदस्यागमनम् एव ताभिस् तेन शिक्षिताभिर् नारायणाभिजन्मना च विज्ञात-तन्-मरणम् अर्मणा तद्-उपयमन-मर्यादा पर्यापिता । श्री-नारदस् तु तदा तत्रागतवान्, यदा तन्-मरणं लब्धानुशरणं जातं, तदा चाह स्म—तेन निवेदितात्म-रागः स महा-भागः अद्य खलु पञ्चमी वर्तते । यदि नवम्यां तव वर्तनम् अनुवर्तते, तदा त्रयोदश्याम् एताः पाणौ कर्तव्याः इति ।
[६०] सर्वे क्षणं विहस्य प्रोचुः—कञ्ज-लोचनस्यावलोचनतः पश्चात् किं जातं ?
[६१] दूताव् ऊचतुः— ताभिर् मनसा वरणम् एव ।
[६२] सर्वे प्रोचुः—मनसा वरणं न खलु करणताम् आपद्यते, यदि तत्र श्रीमान् कृष्णः तृष्णङ् न स्यात् ।
[६३] दूताव् ऊचतुः— श्री-कृष्णस् तु कारुण्य-वशतया तासु सतृष्ण एवासीत् । यद्-अर्थम् एव सत्यभामाम् अपि तां गरुडान् नावतारयामास । सम्प्रति तु तासां तादृग् ईहया समानं भाव-समूहं ऊहमानः सर्वा एव ताः स्नानालङ्कृतिभ्यां सेविता देवता इव नरयानम् आरोहमाणाः सर्व-सम्पत्-कोशैर् जित-वाजिभिर् वाजिभिस् तिरस्कृत-दङ्-मतङ्गजैर् गजैर् लब्ध-मनोरथैः रथैः सह विवाह-सम्पादर्हैः पारिबर्हैर् इव द्वारवतीं प्रति सवेषं प्रवेषयामास । प्रेष्य च तया निज-व्यूढया सह गरुडारूढतया सत्यभामा-करेण कुण्डल-द्वयं तां प्रत्युपहृत्य कुण्डल-मण्डनया तां परिष्कृत्य तस्याः शुभाशिषः सन्धृत्य महेन्द्रयोर् बहु-पूजाम् आदृत्य ततश् चचाल । चलन-समये च हरिचन्दनादि-मिश्र-मिश्र-कावणात् पारिजातं निनाय ।
[६४] सर्वे प्रोचुः—हन्त ! कथम् इव ?
[६५] दूताव् ऊचतुः—
याचित्वा पारिजातं तरु-वरम् ऋषिणा नाप्नुवन्न् अप्य् अघारिः शक्रे यत्र क्षमावान् अभवद् अयम् अनेनार्थितः शत्रु-नाशम् । कृत्वा तं भार्यया तत्-परिवलन-कृतौ हेतुना सार्धम् आगात् तद्-गेहं तं तथापि स्वयम् अयम् अददान् नेति गच्छन्न् अगृह्णात् ॥२३॥ यः सर्वां यस्य लक्ष्मीम् अवितुम् अवतरन् यस्य शत्रून् विमृद्धन्न् अध्यास्ते विप्र-नीत्या तरुम् अवृणुत चानेन तस्मान् निरस्तः । स स्वीयं क्षत्र-धर्मं पुनर् अथ विदधद् योधितस् तेन देवैः सार्धं सर्वान् विजित्य स्वयम् अहरत तं पश्य कः कस्य धर्मः ॥२४॥ इति ।
[६६] अत्रावाभ्यां तु तद् इदं विचार्य निर्धार्यते—भवतां मातामहस्य वैश्याभीर-वंश्यतायाम् अपि पितामहस्य वसुदेव-पितामहता महतां सदसि विख्याता । यथा च—यादवानां हितार्थाय धृतो गिरिवरो मया [स्क।पु।] इत्य् आदिषु यादवता । वसुदेव उपश्रुत्य भ्रातरं नन्दम् आगतं [भा।पु। १०.५.२०] इत्य् आदिषु तत्-पितृव्य-प्रभवता च पुराणविद्भिर् गीयते । तस्माद् अध्यात्म-शास्त्रानुमत्या पुत्रेषु पित्रंशाधिक्यात् क्षत्रिय-बीज्यतायाम् अपि लब्ध-वीर्यतायां मातृवद् वर्ण-सङ्करः इति धर्म-शास्त्र-मतानुरोधाद् आभीर-वैश्यता-धर्मस् तत्र भवद्भिर् आत्मनि समुद्भावितः । तद् एवं सति सम्प्रति यादवानन्दनस्य भवन्-नन्दनस्य स्फुटम् अलौकिक-प्रभावाद् विश्व-कृत-वन्दनसय् यद् अपूर्ववद् आत्मनि क्षात्राविष्कृतिः कृति-विषयीभवन्ति, तत् तु पूर्व-पक्षे न प्रक्षेपम् आप्नोति इति ।
[६७] तद् इदं सर्वेऽपि सानुमोदं निशम्य स-प्रमोदं ऊचुः—प्रस्तुतं प्रस्तूयताम् ।
[६८] दूताव् ऊचतुः—केचिद् एवं च देवेन्द्र-वञ्चनं प्रपञ्चयन्ति—यदा सात्राजिती पारिजात-तरवे सयत्नीभवन्ती सुत्राम-पत्नी-सदनम् आससाद, तदा वन-देव्य्-आनीतं वाञ्छाभिनीतं सुजात-पारिजात-कुसुमं तस्याः पश्यन्त्याः सा शची-नाम्नी सुत्राम्नी निज-शिरसा युक्तवती, तद् इदम् उक्तवती च—मनुजाद् उद्भववत्या भवत्या नाधिकृतिर् अत्रेति, किन्तु छन्दोमय-शब्द-गतेः भग-सन्दोह-पतेर् आरोहणं मोह-विषयीचकारेति ।
[६९] तद् एवम्—
तेषां कृतघ्नतां वीक्ष्य कृत-तद्-वाञ्छितो हरिः । पारिजातेन सहितं रत्नाद्रिं चानयद् गृहम् ॥२५॥
[७०] सर्वेऽप्य् ऊचुः—आत्मानं पङ्क-सङ्करम् अशङ्कम् आचरन्न् असाव् अमुना कं कं वारं वा क्षालयितव्यः ? ततः स्व-कथ्यं तु प्रथ्यमानताम् आनयतम् ।
[७१] दूताव् ऊचतुः— ततश् च तासां कन्यानां विवाहे विहित-निर्वाहे श्री-नारद-वचनम् इदम्—
चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [भा।पु। १०.६९.२] इति । \
[७२] व्रज-राज उवाच— तद् इदम् अपि गर्ग-वचन-जात-निसर्गम्, किन्तु परं कथ्यताम् ।
[७३] दूताव् ऊचतुः— ततश् चावां सन्देशम् आवेशं केशवेनात्र प्रहितौ ।
[७४] सर्वेऽप्य् ऊचुः—कोऽयं सन्देशः ?
[७५] दूताव् ऊचतुः—
यद् व्याकारं वर्धयन्न् अत्र वर्ते तत्-तृप्त्य्-अर्थं शूर-पुत्रस्य वित्त । दत्त्वा स्वीय-व्यूहम् अस्मै विचित्रं लब्धानुज्ञा-भव्यम् अस्या व्रजामि ॥२६॥ अङ्गस्य वह्निना तापस् तस्य तापेन शाम्यति । एवं व्यस्न-शान्त्य्-अर्थं व्यसनं क्रियते मया ॥२७॥ इति ।
[७६] अथ स्निग्धकण्ठः समापनम् आह स्म—
व्रज-नृप-धर-कर्ण-युग्मम् अस्मिन् बत सुत-रूप्य-विवास-वृत्त-वृन्दे । नयन-मधुकर-द्वयं सुतस्या- नन-सरसी-रुह-माधुरीषु धेहि ॥२८ ॥ इति ।
[७७] तद् एतद् अवधाय तद्-उत्तमाङ्गम् अङ्के निधाय स्वाश्रुभिर् अभिषिक्तं विधाय क्षण-कतिपयं व्रज-राज स्तम्भं सम्भवति स्म ।
[७८] अथ व्रज-वन्दिनस् तत्र वन्दन्ते स्म—
शक्र-श्रावित-भौमातिक्रम । वक्र-क्ष्मापति-माथि-प्रक्रम ॥ भामा-लक्षित-तार्क्ष्य्-रोहण । नामाभासक-पाप-द्रोहण ॥ कामाद् भूमिज-दुर्ग-प्रेक्षक । रामा-कौतुक-दानापेक्षक ॥ वीरोत्कम्पक-दुर्गामर्दक । दुर्गालोचन-चित्र-निषेवक ॥ सृष्ट-क्ष्मा-मुख-भूत-प्रक्षय । दृष्ट-क्ष्मा-सुत-सर्वान्तः-क्षय ॥ क्षैतेयं प्रति निर्जिष्णु-क्रम । दैतेयं लघु तं ध्नन् निष्क्लम ॥ तत्-पुत्राय च राष्ट्राद्य्-अर्पक । यत्-कुत्राप्य् अनुभक्तं तर्पक ॥ कन्यानाम् अपि तसां पारक । धन्यानां निज-भाजां तारक ॥ देव-क्ष्मा-पति-सच्छल-पूजित । देव-क्ष्मारुह-हृति-वाञ्छाचित । तं कर्षस् तरुम् इन्द्र-प्रावृत । अङ्कस्थाङ्गन-युद्धे चादृत ॥ जित्वा तं तरुं ऊर्जद्-विक्रम । हित्वा वासवम् उद्यद्-विभ्रम ॥ यत्नाप्रापित-तच्-छत्रादिक । रत्ना-क्ष्माधर-हृल्-लीलाधिक ॥ भक्त-प्रीतिद तत्-तद्-विजय । सक्त-स्व-व्रजम् आप्तस् त्वं जय ॥ वीर ॥२९॥ इति ।
[७९] अथ पूर्ववच् छ्री-राधा-माधव-सदसि कथेयम्, यथा स्निग्धकण्ठ उवाच—यदा नाना-संवदन-सुख-वशंवदद्-तत्-तद्-युद्ध-समुद्बुद्ध-कामया सत्यभामया सह नरक-वधं निधाय मणि-गिरि-पारिजात-तरू गरुत्मति निधाय सर्व-शर्म-निधान-रूपः स खलु दयालूनां भूपः स्व-पुरं समागतवांस् तदा व्रज-साधारण्येन राधादिषु च दिव्यालङ्कार-रत्नानि यत्नाद् विहापितानि । यत्र सर्वत्र द्वि-त्र-वर्ण-क्रम-वलनया समस्त-कलनया तद् इदं चित्रतम् इव लिखितं विलक्ष्यते स्म—
व्याकारा निचिता मया बहु-विधा युष्मच्-छवि-च्छायया कालं क्षेप्तुम् अथाजनि प्रतिपदं निर्वेद-खेदः परम् । यावद्-बन्धनम् आत्मना विरचितं तत्-तद् विचित्रं बलाच् च्छित्वा तत्र समेमि तावद् असकृत् प्राणान् प्रिया रक्षत ॥३०॥
[८०] तद् एतद् अपि बहिर् दृष्ट्य्-अपेक्षया लिख्यते, वस्तुतस् तु—
यद् यद् अत्र किल रच्यते बहिस् तत् तद् अङ्ग बहिर् एव मन्यताम् । अन्तरेऽहम् अपि यूयम् अप्य् अहो केलिम् एव कलयामहे मिथः ॥३१॥ इति ।
[८१] अथ समापनं च स्निग्धकण्ठः सोत्कण्ठम् आह स्म—
इन्द्रजालम् इव विद्धि राधिके तत् तद् आधि-वलनं पुनः पुनः । पश्य कृष्ण इह तृष्णग्-अन्तरस् त्वन्-मुखं सुख-वशान् निरीक्षते ॥३२॥
[८२] तद् एवं सर्व-सुख-प्रथकयोः कथकयोः सर्वेण सह स्वस्य पथं गतयोः श्री-राधा-माधवाव् अपि माधवी-मण्डपम् एव सकेलि-सम्पदा मण्डयामासतुः ॥
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
नरक-संहरण-पारिजात-हरण-युगपद्-अष्ट-सहस्र-युग-कन्या-पाण्यादानं
अष्टादशं पूरणम्
॥१८॥
(१९)
एकोनविंशं पूरणं
स-बाणेश-विजय-निर्देशनम्
[१] अथ प्रभाते श्री-कृष्ण-प्रभा-जात-सुख-लम्भायां व्रजराज-सभायां मधुकण्ठ उवाच—भूनां दिनानाम् अनन्तरे दिनान्तरे चापरौ सन्देशहरौ प्रथम-गतौ बहुभिर् अन्तर-गतैः समं समागतौ, समागत्य च तत्-प्रश्न-पूर्वकं पूर्ववत् कथयामासतुः—भवद्भिर् यत् तत्रकीयं कुशलं पृष्टम्, तत् सुमृष्टम् एव; परं च किम् अपि पूर्वं यद् अपरामृष्टम्, तद् एव दृष्टम् ।
[२] श्री-व्रजराज उवाच—कथ्यताम्?
[३] दूताव् ऊचतुः—श्री-रुक्मिण्या जातकः खलु जात एव यः प्रनष्टतया सर्वं स-कष्टं चचार । स तु सम्प्रत्य् आत्मना प्रत्यागत्य दृष्ततया हृष्टम् आचचार । न केवलम् आत्मना, किन्तु कयाचिद् अन्यया च धन्यया नर-देव-कन्यायमानया ।
[४] सर्वेऽपि साश्चर्यं ऊचुः—कथं कथम् इति कथ्यताम्?
[५] दूताव् ऊचतुः—तद् इदं श्री-नारद-वदनाद् विदितम्; यथा—
मारम् आराद् उपानीय पानीय-निधिम् आर्छयत् ।
शम्बरः शम्बरात् तं तु समारन् निज-मारकम् ॥१॥
[६] तथा हि, यदा परिणामतस् तादृश-दनुज-प्राणाकर्षि-सुजन-सुख-वर्षि-देवर्षि-नियोगाद् आत्म-घातकतया निश्चित्य विचिन्त्य च शम्बर-नामा दानवः शाम्बरी-सम्वलनयात्म-सम्वरणम् आलम्बमानस् तं वरुणालय-शम्बरम् अनुलम्बयामास, तदा स बालः सहसा मिलितः, केनचिद् अपूर्व-शकलिना गिलितः; स यदा गिलितस् तदा स च शकली केनचन जालिकेन कलितः; स यदा कलितस् तदा शम्बर-बलि-कृते बलितः; स यदा च वलितस् तदा तदीय-महानसाधिकारिण्या रति-नामिन्या दलितः; स यदा च दलितस् तदा स बालकस् तत्र पर्याकलितः; पर्याकलितवती च सा तं शम्बरस्य दुर्मर्यादतां विचिन्त्य गुप्तं पालितवती । एषा हि पूर्वं स्मर-भार्यासीत्, स्मरे तु हरेण दग्धे पुनस् तत्-प्राप्तये तम् आराधयामास । ततः शम्बरेण स्मर-हरं प्रसाद्य निज-गृहानीतापि प्राग्-लब्ध-तद्-वर-बलाद् अभीता मायामय-कायया कयाचिद् आत्म-भ्रान्तिकारिकया तं वञ्चयत्न्ती बभूव । तस्मिन्न् अतिबाले बलात् पति-भावे मुहुर् लब्ध-भावे तु धिग्-धिग् इत्य् आत्मानं गर्हितवती ।
[७] अथ कदाचिद् एतां ॠरीमान् देवर्षिः सर्व-हर्षि तद् इदम् अषट्-कर्णि वर्णितवान्—अयि रति-देवि! मन्मथतया लब्ध-प्रथितिस् तव यः पतिः, स खलु दुर्गा-पतिना प्रापितान्यथा-गतिः सम्प्रति सर्व-मन्मथ-गतिताश्रेयसि निजांशि-यदुपति-तेजसि लब्ध-सात्म्यापत्तिः सन्न् अयं वर्तत इति ।
[८] सा तु तद् एतत् कर्णयोर् आसज्य तस्मिन्न् आरोपितं भावान्तरं परित्य्ज्य पति-भावम् एव प्रसज्य स्थितवती; स तु शावकः प्रति-श्वः शश्वद् एव शुक्ल-पक्ष-शशीव शुशाव । प्रौडस् तु स कुमार-परिवृढन्तं तद्-भावं दृढं बुद्ध्वा तस्यै गाढं चुक्रोध; सा तु कथित-रहस्यतया तं वश्यं चकार । स्वीयाम् अनवद्यां विद्याततिम् अपि तस्मिन्न् आविशकार।
[९] किं बहुना, युद्धं समुद्बुद्धं विधाप्य तं दारकं तस्य दानव्स्य दारकम् एव चकार । अनन्तरं च सुर-वर्त्म-वर्त्मना तन्-मारतया तत्र तत्र सुर-विसर-लब्ध-प्रसार-मार-नाम-सारं कृष्ण-कुमारं द्वारकाम् अनुसारयाञ्चकार । यः खल्व् इन्द्र-सञ्चारं सञ्चरंस् तत्रत्यैश् चन्द्र-दर्शं दृश्यते स्म; सान्द्रानन्द-कन्द-कन्दर्पतया परामृश्यते स्म च ।
[१०] व्रजराज उवाच—कथ्यतां तथ्यम्; कीदृग् आकारः स कुमारः?
[११] दूताव् ऊचतुः—तद् एव निवेदयन्तौ स्वः —
आत्मा वै जायते पुत्र इति या श्रुतिर् आदृता ।
रौक्मिणेये हरेः पुत्रे तद्-उदाहृतिर् ईक्ष्यते ॥२॥
मनोजवस इत्य् आख्या यत् ख्याता पितृ-सन्निभे ।
तस्येदम् एव वीजं किं स तद्वद् वसतीति यत् ॥३॥
[१२] सर्वे पप्रच्छुः—कीदृग् वयाः सयागतः ?
[१३] दूताव् ऊचतुः—यादृग् वयाः श्रीदामादि-स-वयास् तादृग् वया एव प्रतीयते । साम्प्रतिक-सङ्ख्यया तु षड्-वर्ष एव ख्यायते; यतः सर्वेऽपि तं विलोकमाना लोकाः स्वयं श्रीकृष्ण एवायम् इति स-सम्भ्रमं वम्भ्रमन्ति, किं बहुना, तन्-मातरोऽपि ।
[१४] पुनः सर्वेऽपि पप्रच्छुः—स च खल्व् अस्माकं जीवन-नामा श्याम-धामा सम्प्रति कीदृञ् मानः स्फुरति?
[१५] दूताव् ऊचतुः—स यथा गोकुले ज्ञायते स्म, सम्प्रत्य् अपि तथा प्रत्य्भिज्ञायते ।
[१६] तद् एतद् आकर्ण्य सर्वे दूअत-मुखं निर्वर्ण्य क्षण-कतिपयं फुल्ल-दृग्-वर्णम् आसन् ।
[१७] ततश् च दूताव् ऊचतुः—अत्र किम् आश्चर्यम्?
तत्र प्रवयसोऽप्य् आसन् युवानोऽतिबलौजसः ।
पिबन्तोऽक्षैर् मुकुन्दस्य मुखाम्बुज-सुधां मुहुः ॥ [भा।पु १०.४५.१९]
इति कैमुत्य-प्रत्ययात् ।
[१८] यस्य चानुभूत-चरस्य मनसि सञ्चरणाद् भवन्तश् च तथाभवन्तः समन्ताद् विराजन्त इति ।
[१९] अथ व्रजराजस् तत्-पत्नी च मनसि चिन्तयति स्म—हन्त! किं तस्य जगत्-प्रशंस्यं मुखारविन्दं तम् अनुबिन्दमानं तं दारकम् अपि वारकम् एकं पश्याम ? इति ।
[२०] स्पष्टं च श्री-व्रजराज उवाच—तद्-आगमनान्तरं किन्तरां जातम्?
[२१] दूताव् ऊचतुः—सर्वत एवाखर्वं पर्व जातम्; यत्र दिन-सप्तकं यावद् बालकालोककानां लोकानां यात्राच् छिद्र-मात्राय न जाता; यत एवावयोर् विलम्ब-सम्वलनं बभूव । तद् अनन्तरम् एवानुज्ञापनायाम् आवाम् अन्तरम् अवापाव ।
[२२] व्र्जराज उवाच—बालकस्य नाम किं नाम कृतम्?
[२३] दूताव् ऊचतुः—प्रद्युमन इति ।
[२४] सर्वेऽप्य् ऊचुः—निरुक्त-संयुक्ततावगत्या युक्तम् एव च तन् नाम; यतः प्रकृष्ट-धन-लाभम् एव तस्मात् ते मेनिरे ।
[२५] दूताव् ऊचतुः—लोकास् तु कामं काम-नामानि समस्तानि चामनन्ति इति ।
[२६] तद् एवम् उत्सुकतया सत्सु व्रज-सत्सु पुनर् अन्यौ दूतौ तत्र सम्भूतौ; सम्भूय च तत्-प्रणामादि-पूर्वकं सुख-संयूयमानतया वदतः स्म,—
[२७] व्रजराज उवाच—कथयतम्, तत् किं तावत्?
[२८] दूताव् ऊचतुः—यदर्थं श्रीमति कृष्णे सम्यग्-तृष्णेऽपि दुर्वादमाचार्य भहुभिः कदर्थनम् आचर्यमाणम् आस्ते । तस्य खलु स्यमन्तकस्य केनचित् कृतं चौर्यम् आत्मचर्यया कम् अपि निजाचार्यं व्यञ्जयति स्म ।
[२९] सर्वे प्रोचुः—कस् तावद् एवं महान्?
[३०] दूताव् ऊचतुः—यस् तावद् भवताम् अनाशीर्वाद-पात्रतया कृष्णम् आदाय गोकुलतः कृत-यात्र आसीत् ।
[३१] सर्वे सोत्प्रासं प्रोचुः—कथं कथम् इति कथ्यताम् ।
[३२] दूताव् ऊचतुः—स यदा मणिम् आदाय शिव-सम्प्रदायम् अनु स्वं विधाय कृष्णाद् आत्मानं पिधाय काशीम् ऋच्छन्न् आसीत्, तदा तच्-चिन्तककृताव् अज्ञान् काम्य-यज्ञान् एव निज-समज्ञा-हेतुंश् चकार; यत्र दान-पत्याख्ययाप्य् आत्मानं प्रत्याययामास ।
[३३] सर्वे प्रोचुः—युक्तम् अस्मन्-नीलनिधिम्-हरणं न तस्य भरणाय जातम्, तस्मात् तु तन्-निधि-हरणं निस्तरणाय भातम्; युक्ततरं तु तेन पण्यं (पुण्यं – घ) पुण्यम् आत्मनि नैपुण्यम् आवहति इति ।
[३४] तत्रापर आह—पूर्वं खल्व् असौ तत्र पार्श्व-ग आसीत्, अधुना तु पार्श्वक इति वर्ग-प्रथमतां प्रथितवानस् तस्य प्रथिमा परं प्रथते ।
[३५] अथ सभा-सत्सु हसतु व्रजराज उवाच—ततस् ततः?
[३६] दूताव् ऊचतुः—पूर्वम् एवापूर्व-विद्यानुसारी दनुजारी रम्यातिशौर्यागत्या मत्या तदीय-चौर्यं गोचर्यमाणं चकार; किन्तु स खलु सकम-भक्त इति तत्-काम-पूरणासक्तस् तत्रोदासीन एवासीत् । सम्प्रति तु पूतनादीनाम् अपि पूतताविधायी सोऽयं सुखदायी कयापि विद्यया द्वारकायाम् उत्पातम् उत्पाद्य तं चाक्रूर –प्रवसन-हेतुकं वृद्ध-मुखेन प्रतिपाद्य तस्य चाक्रूरतां व्यञ्जयितुं किल तं सकृतवर्माणं यदुसदः समानाय्य वाग्भिः सुसभाज्य पूर्यमाण-चातुर्यतया तन्-मुखम् एव तस्य तद्-अपहारं व्याहारयामास । त एते मणि-प्रसङ्ग-सङ्गज-मत्-कलङ्क-सङ्कर-दुःखतः क्लेशं गता मद्-अग्रज-चरणाश् च मय्य् अकस्मान् महा-सम्पन्मयतया प्रभवन्तं भवन्तं श्रुतवत्य् अपि मणिम् अन्वेष्टुं सन्दिष्टम् अकुर्वति कोपवन्तः सन्ति । स्वयम् अहं तु तादृश-सत्-कर्मणि भवत्य् एव मणिः शर्मणे चकॢप् इति विभावयन्न् आतियत्नम् आचरन्न् अस्मीति वचः प्रचारयामास च ।
[३७] अथाक्रूरस् तदानीम् अपि तद्-गोपनानुचिततया सङ्कुचित-चित्तस् तद् इदं चिन्तयामास—सोऽयं सम्प्रति मयि शर्मवान् आलोच्यते; सङ्कर्षणस्य न शङ्करता पर्यालोच्यते; तथा मम मर्म तु नर्मणामीभिः सभासद्भिर् उद्धूत-वर्म-निर्मितम् अस्ति, सम्प्रति चामीषाम् अन्तः-पट-पुटिताम् अपि रत्न-सम्पुटं प्रतिदृक् पातयन्तं प्रतीमः । तस्मान् मणि-व्यञ्जना परमञ्जसा समञ्जसा जञ्जनीतीति । स्पष्टं चाचष्ट—सत्राजित् खलु भवद्-अपराधीति कथम् अनपराधी (कथम् अवाधी —घ) भवितुम् अर्हति? ततः शत-धन्वानं वा कथम् अन्यथा मन्वाना भवामः? अक्रूर-कृतवर्माणाव् आवां तु भवन्-माययारब्ध-विरुद्ध-कर्माणाव् अपि लब्ध-धर्माणाव् अधुना जनिष्वहि; यतः कृपावता भवतापसार्याव् आराद् आकार्यावहे (भवता ताम् अपसार्याराद् आकार्यावहे — घ) स्म । तत्र सोऽयं कृतवर्मा मत्-पश्चाद्-वर्तीति न पृथग् वरिवर्ति । सोःअम् अपि भवन्-निदेशम् उद्देशम् उद्देशं तं देशम् अनु निवेशं कृतवान्; अधुनातु भवन्-निदेशं भवद्-अभिनिवेशं च विदन्न् इदं कर-कलितं करवानि इति ।
[३८] सर्वे व्रज-सभासद ऊचुः—तद् इदं वचनम् अपि दुरूह-रचनं भाति । ततस् तनुतं (ततस् ततः — घ) ।
[३९] तद् एवं लज्जाम् इव सम्पूट-कृत-सज्जां मणिं व्य्ञ्जितवति तस्मिन् श्री-कृष्णम् अभ् विश्वस्ति-प्रशस्ता जय जय-शब्दम् अविश्वस्ति-विगत-शस्तास् तु निःशब्दम् आचेरुः ।
[४०] व्रजराज उवाच—ततस् ततः?
[४१] दूताव् ऊचतुः—ततश् च धृत-मणि-योग्यता-गर्वेषु सर्वेषु सत्यभामा-जाम्बवत्य् अपत्येषु तु तत्-प्रत्यासन्नतया धृत-प्रत्याशातत्येषु श्री-कृस्नस् तु परम-शुभवतस् तत्रभवत एव मणेर् अस्य धारणं साधारणम् इति प्रोच्य सर्वान् आलोच्य निष्कल्कः श्वफल्क-सूनव एव तं सस्मितम् अर्पयामास ।
[४२] व्रजराज उवाच—ततस् ततः?
[४३] दूताव् ऊचतुः—ततश् च,
गले वहन् मणिम् अथ गान्दिनी-सुतस्
तद्-अर्चिषा दधद् अपि श्भ्र-कान्तिताम् ।
मनोमिलन्-मलिन-दशा-तमश्-छटा-
घटावृतः स्फुरति न स स्म सम्प्रति ॥४॥
[४४] तद् एवं बहुषु रहोवार्त्ऽआ-हर्तृषु गतागतं कर्तृषु कदाचित् कौचिद् आगत्य कथयतः स्म—पूर्वं रुक्मिणी-दाक्षिण्याल् लब्धायां रुक्मि-कन्यायां रुक्मवत्यां रौक्मिणेयाज् जातकः सञ्जातः । सा च न केवलं तम् असविष्ट, किन्तु सर्वेषां विशिष्टं सुखम् अपि ।
[४५] व्रजराजः समुत्सुकम् उवाच — नाम किं नाम धृतम्?
[४६] दूताव् ऊचतुः—अनिरुद्ध इति ।
[४७] व्रजराजः स्वगतम् उवाच—नूनं वैदुष्यं पुष्पन् मतम् इदं वसुदेवस्य पर्यवस्यति, येन कृष्णस्य वासुदेवतां रामस्य स सङ्कर्षणतां ख्यापयित्वा प्रद्युम्नानिरुद्धाव् इति तौ विख्यापितौ । तथाप्रभावा एव त एत इति ।
[४८] स्पष्टम् उवाच—रूपं कीदृशम्?
[४९] दूताव् ऊचतुः—पितृवद् एव ।
[५०] व्रजराजः स-हासम् उवाच, तत् तत् सर्वं घटमानम् अपि जातम् ।
[५१] पुनः स्वगतम् उवाच, हन्त! मनः! कथम् उन्मनस् ताम् आप्नोषि? पुत्रस्य दर्शन्म् एव तावत् कुत्र, किम् उत पौत्र-प्रपौत्राणाम् इति ।
[५२] मधुकण्ठ उवाच— अथ समयान्तर-दूत्यम् अनुभूत्य् अन्तरम् आनयध्वम् ।
[५३] यथा दूताव् ऊचतुः—प्रद्युम्न-पुत्राय रुक्मिणी-भ्रात्रा पुत्र-पुत्री दत्ता इति ।
[५४] व्रजराज उवाच—भद्रं जातम्, यद् रुक्मिणी-भ्रात्रा पुत्र-पुत्री दत्ता इति ।
[५५] दूताव् ऊचतुः— नेयम् अपि तस्य भद्रता, किन्तु रुक्मिण्या एव भद्रङ्करणी युक्तिः ।
[५६] व्रजराज उवाच— भवतु, यथा-किञ्चिद् भद्रम् एव मृग्यते ।
[५७] दूताव् ऊचतुः— स्व-पक्षस्य तु भद्रम् एव जातम् ।
[५८] व्रजराज उवाच—सम्प्रति रुक्मी च स्व-पक्ष एव ।
[५९] दूताव् ऊचतुः— स्व-पक्षो भवतु वा, मा वा, तस्य तु भद्रम् एव जातम्, किन्त्व् अमुत्र ।
[६०] व्रजराजः स-विचिकित्सम् उवाच—अमुत्रेत्य् अमङ्गलम् इव कथं सङ्गमयथः?
[६१] दूताव् ऊचतुः— सङ्गतम् एव, तत् कथं भङ्गम् आपयिता स्वः?
[६२] व्रजराज उवाच—यद्य् एवम् अपरस्परं परस्पर-सम्बन्धः सिद्धस् तथा बलभद्रश् च तत्र भद्रतया प्रतीतिस् तर्हि तस्यामुत्र गतिः कुत्र जाता?
[६३] दूतौ विहस्योचतुः—बलभद्र-बल-ज्वलन एव ।
[६४] व्रजराज उवाच—कथम् इव?
[६५] दूताव् ऊचतुः—गोपित-कोपस्यापि तस्य तेनैव प्रकोपिततया ।
[६६] व्रजराज उवाच—कथ्यताम् ।
[६७] दूताव् ऊचतुः—रुक्मि-नप्त्री-पाणि-पीडनं नाम रुक्मि-प्राणानां कालिङ्ग-दन्तानां च पीडनाय जातम्; यतस् तत्र लिप्सित-कलि-रुक्मि-कालिङ्गादिभिः कलित-दम्भे द्यूतारम्भे बहूपहसित-दूषित-बलभद्रः स श्री-बलभद्रः प्रमाणीकृत-स्वर्-वाणीकतालब्ध-बलस् तथा वलयाम्बभूव ।
[६८] अथ स्व-सभा-सत्सु हसत्सु व्रजराज उवाच—अत्र वत्सः किं विधित्सितवान्?
[६९] दूताव् ऊचतुः—रुक्मि-हन्तः रुक्मि-स्वसुश् च स्नेहो न दुःखङ्कुष्णीयाद् इति तुष्णीकाम् एव पुष्णाति स्मेति तद् एवं समयान्तराणि गमयाञ्च्क्राणेषु गोप-गीर्बाणेषु पुनर् अप्य् अन्याव् अवागत्य रुक्मिण्यादीनाम् अपत्यम् अन्यद् अन्यद्-गण्यं चक्रतुः । पुऊर्व-पूर्वं तु पूर्वं पूर्वम् अपि तन् निवेदयामासतुः; किन्तु कथान्तरावेशेनैव आवाभ्यां न कथितम् । श्री-व्रज-भू-भर्तृ-प्रभृतयस् तु लब्ध-सुख-सम्भृतयस् तत् तच् च्रवणम् आरभ्य विहित-यत्नानि तेभ्यस् तदा तदा रत्नानि दत्तवन्तः, किन्तु तत् तद् बालं प्रति तत् तद् द्वारापि न प्रत्तवन्तः; स्वेन सम्बन्धं गोपयितुं कलित-युक्ति-जालेन श्री-गोपालेन लब्ध-सन्धं (लब्ध-सम्बन्धं – घ) निरबन्धं स्मरन्त इति ।
[७०] अथानिरुद्धस्यान्तःपुराद् एवान्तर्धानम् अवधार्य निदानम् अनवधार्य श्री-गोप-राजादिषु मिथो दुःख-सम्वादिषु कौचिद् दूतौ चिराय सम्भूतौ दृष्टौ पृष्टौ च ताव् अनिरुद्धस्यापि निरुद्धतां प्रोच्य च शोच्यतां विना तत्रोचतुः—
बाणस्योषाहव-कन्या स्वपनम् अनुययौ रौक्मिणेयाङ्ग-जातं
नाजानाज् जाग्रती तं पुनर् अविदद् असौ चित्रिताद् आत्मसख्या ।
योगिन्या चानयाजीहरत वरम् अनु द्वारकायाः ससञ्जा-
प्य् एतज् ज्ञात्वा स दैत्यः प्रधन्म् अनु चिराद् एनम् उच्चैर् बबन्ध ॥५॥
श्रुत्वा देवर्षि-वर्यात् तद्-असुर-विजयी तत्-पुरं शोणिताख्यं
गत्वासौ द्वादशाक्षौहिणि-बल-वलितस् त्वं स-रुद्रं विजित्य ।
छित्वा तद्-बाहु-सङ्घं परिवलित-चतुःशेषं ऊषानिरुद्धाव्
आनीयाथ स्व-पुर्यां परिऽनयम् अनयोर् निर्ममे शर्म-शालि ॥६॥
[७१] सर्वे व्रज-सभासद ऊचुः—चित्रं चित्रं रुद्रम् अपि कथम् उपद्रुतवान्, तत् कथयतम् ।
[७२] दूताव् ऊचतुः—यत्र चादौ—
विद्युत्वानद्य विद्युत्-परिधिर् उपसरत्य् अत्र विश्व-क्षयर्थं
किंवा किंवाभिचार-ज्वलनम् अधिवसन् कज्जल-स्तोम एषः ।
किंवा कालग्नि-रुद्रः प्रति-लव-विसर-ज्ज्वाल-मध्यस्त-देहः
पश्येत्याचष्ट कृष्णे दिविजमणि-रथे लोकिते बाण-लोकः ॥७॥
[७३] यदाक्षौहिणीभिर् विक्षभयन्न् अधोक्षजः सुदर्शनेन सुदर्शनेन नन्दकेन च नन्दकेन क्षतज-पुरं क्षतज-पूरं चकार, तदा बाण इव बाणः सर्वस्यापि भीमं भीमं पुअरस्कृत्य तद्-गणैः पशुभिः स्व-गणैश् च पशुभिर् इव संवृतः कृत-रभसं निर्जगाम ।
[७४] व्रजराज उवाच—शङ्करस्य कथम् अत्राशङ्करता जाता?
[७५] दूताव् ऊचतुः—पुत्रायमानस्य बाणस्यापत्-त्राणाय, स्मर-सम्बन्ध-स्मरणतः पुनर् आत्मनः स्मर-हरता-ग्रहणाय चेति प्रेक्षावताम् उत्प्रेक्षा-मात्रम्; तत्त्वं तु स्वयम् एव वक्ष्यति ।
[७६] सर्वे स-सम्भ्रमं पप्रच्छुः—ततः किं जातम्?
[७७] दूताव् ऊचतुः—ततश् च कृष्ण्म् अनु कृष्ण-लोहितः संयुगं युगलतया युयोज । स्मरम् अनु च स्मर-हर-पुत्रवर इत्यादिनि स्थिते जगति तु दुःस्थिते ब्रह्मादयः सदयतया शान्ति-ब्रह्माधीयानाः समधिगत-सम्भ्रमतया सायास-भ्रमम् अभ्रम् अभितस्थुः ।
[७८] अथ सर्व-भूत-प्रमथन-भूत-भूत-प्रमथादि-तद्-दुर्गणे दुर्गणे रचितावरणतया सर्वेषां लोम-हर्षणे जाते युधि जातेच्छः स महेच्छः शार्ङ्ग-सङ्गत-शरैः कृतया धृत-प्रत्यङ्ग-च्छिन्नताभिन्नतया तत्र सुष्ठु दुर्गणताम् आसादयामास । ततश् च जटा-घटा-सङ्घट्टन-भर-ललाट-बाट-दृग्-विभाव-सुज्वाल-वात्या-पाङ्शु-चक्र-बाल-द्रवाद् उपद्रावणया श्यामता-राम-स्निग्ध-धाम-धाम-लसित-वाम-स्मितामृत-वर्षाद् अन्तर् बहिर् अपि द्रावणया च यथास्वं निदाघ-मेघागमयोर् इव तयोर् युद्धम् उद्बुद्धम्; यत्र च हरः सर्वं संहरन्न् इव स्वयम् अस्त्राणि मुमोच, सर्वं पालयन्न् इव तु तत्-प्रत्यस्त्राणि हरिः । यथा—
( स्थिथिस् पस्सगे अबोवे हस् तो बे रेअद् तोगेथेर् अंओर् ओउर् उन्देर्स्तन्दिन्ग्)
वायव्ये पार्वतं स व्यकिरद् अघ-रिपुर् भर्गम् उक्तेऽस्त्रम् अस्त्रे
वाह्ने पार्जन्यम् अन्यत्र च बहुनि बहु ब्राह्म उच्चैस् तद् एव ।
सर्व-ध्वंसाय रौद्रे तद् अमित-शमनं स्वीयम् इत्य् एवम् उच्चैस्
तं शश्वल् लज्जयित्वामुचद् अचिर-तद् उज्जृम्भणं जृम्भणाख्यम् ॥८॥
[७९] व्रजराजः साश्चर्यम् उवाच—ततस् ततः ?
[८०] दूताव् ऊचतुः,—
विजिते तु तदा रुद्रे तद्-भटान् आर्दयद् धरिः ।
हस्ति-यूथ-पतौ यद्वद् अर्दयेत् कलभादिकान् ॥९॥
आमुक्ता वारवाणेनाप्य् अमुक्ता बाण-बृष्टिभिः ।
शिरस्त्रेण समेताश् च प्राप्नुवन् न शिरस्त्रताम् ॥१०॥
सन्नद्धास् तत्र नद्धास् ते दंशिता दंशिताः शरैः ।
अधिकाङ्ग-युजस् त्वन्ये चिन्नाङ्गत्वम् उपागताः ॥११॥
अत्र कावचिकान्यासन्न्न्येभ्यः प्राङ्मृतिं प्रति ।
कृष्णादीनां यतः पूर्वत्रैव ग्रहिलता मता ॥१२॥
[८१] तेषां च कृष्णादीनम्;—
अपराधपषत् का ये ये चासन् कृत-हस्तकाः ।
ते सर्वे तुलनां याता यतः शत्रुषु सान्द्रता ॥१३॥
प्रद्युम्नम् आगतः पूर्वं शिखी स शिखि-वाहनः
मेघं मत्वेव तद्-बाणं त्विरन्मदम् अपद्रुतः ॥१४॥
कुम्भाण्डः कूप-कर्णश् च यथार्थाख्याव् इमौ मतौ ।
मुसलेन बलस् तत् तद्-अङ्गं तत्रान्यथा व्यधात् ॥१५॥
इति द्रुते निखिल-चमूपति-व्रजे
बलेः सुतः स सपदि सात्वकिं जहत् ।
हरिं द्रवन् भुजशत-पञ्चके धनूंष्य्
अधात् तथा द्वि-गुणतयामितानिषून् ॥१६॥
चापं विना चेदिषवओ द्रवन्त्य् अमी,
तदा सहस्रं घटनाय शक्यते ।
तन् नेति किंवार्ध-सहस्र-पाणिभिर्
दध्रे परैर् बाणक एष तान् द्विशः ॥१७
प्रत्येकं करम् अनु चेद् द्विशः पृषत्कान्
बाण त्वन्दधिथ तथा भवन्तु चापाः ।
इत्य् एवं किल मुरजिज्च् छरैः प्रतिस्वं
तावत्कान् व्यधित स तान् द्विधा विभिद्य ॥१८॥
यदा चापांश् छिन्नान् मुर-रिपु-चरैः पश्यति पुरा
तदा सूतं साश्वं रथम् अपि तथा पश्यद् अभितः ।
यदाद्राक्षीत् तत् त-वलिततनुजनौस् तर्हि मुरजिद्
दर-ध्वानाद् ध्वस्तः सपदि न ददर्श स्वम् अपि सः ॥१९॥
[८२] व्रजराजः उवाच—ततस् ततः ?
[८३] दूताव् ऊचतुः—ततश् च यदा कौट्टवीत्वं गता तद्-गृह-कोटरान् निर्गता कोटरा नाम देवी स्व-पुत्रायमाणं बाणं व्यवधाय पुरःसरताम् अवाप, तदा हरिः स्वां दृष्टिं पिधाय परां हरितं पश्यति स्म।
[८४] अथ सर्वे व्रजस्थाः स-हासं ऊचुः—तद् इत्थम् अपि शिवस्य लज्जापरं सज्जायते स्म । भवतु, तद्-उत्तरं किं जातम्?
[८५] दूताव् ऊचतुः—तद् एतद् अन्तरम् अवाप्य बलि-जन्माप्य् अन्तःपुरम् अन्व् अन्तराधात् । तस्मिन्न् अन्तर्हिते पिहिते च सर्वस्मिन् भूत-पति-हिते विहित-सर्व-ज्वरः स्मर-हर-ज्वरस् तु प्रादुर् अभूत्। प्रादुर्भूतं च तं त्रि-शिरस् त्रि-पाद्भूतं विलोक्य श्लोक्यचरितः प्रहसन् स हरिर् वैष्णवं ज्वरं ससर्ज ससर्ज च तं प्रति । सृष्टश् चायं परम-धृष्टं तं प्रति संससर्ज । यदा तु तेन संसृष्ट-कलेवरः स खलु माहेश्वर-ज्वरस् तदा भुवि दिवि च हास-कोलाहलः सम्वलते स्म । ज्वरोऽपि ज्वरित-दशया चेष्टमानः कस्य नेष्टः कुतुकाय स्यात्?
[८६] सर्वे स-कौतुकं ऊचुः—ततस् ततः?
[८७] दूताव् ऊचतुः—ततश् च स खलु ज्वरः स-ज्वरः सन् श्री-व्रजेश्वर-कुल-प्रवरम् एव शरणम् आगतवान् । शरणागति-मात्रतस् तत्-प्रसादम् आसाद्य मुनिवद्-गुणिताम् आपद्य स्तुतवांश् च । स तु शुकोक्ति-व्यक्त-सुकोमल-स्वभावः स्वभावक-जन इव तत्र भृशं प्रससाद; प्रसद्य च सद्यस् तं मुमोच । स च प्रसादस् तस्य विधोर् इव सर्वम् आससाद । यत इदं चोवाच—
त्रि-शिरस् ते प्रसन्नोऽहं व्येतु ते मज्-ज्वराद् भयम् ।
यो नौ स्मरति संवादं तस्य त्व् अन्नो भवेद् भयम् ॥ इति ॥ [भा।पु। १०.६३.२९]
[८८] व्रजराज उवाच—बाणस् ततः किम् अकरोद् धरो वा कथम् आसीत्?
[८९] दूताव् ऊचतुः—चिराल् लब्ध-जागरः स हरस् तत् तत्-सर्व-ज्ञानधर इति शान्ति-पर एवासीद् बाणस् तु गर्व-मात्रं पात्रं विभ्राणश् चक्रपाणिं प्रति रथेनाभिचार-यज्ञ-दानव इव कृत-प्रयाणस् तं बाण-प्रधान-शस्त्र-विस्त्रितिभिर् आस्तृतं कुर्वाणस् तच्-चक्रेण निर्वाण-बाहु-हुत-वह-चक्रश् चक्रे ।
[९०] यदा च तस्य चत्वार एव बाहवः शिष्टास् तदा शिष्टानां वर्गणीः सर्वज्ञः स तु भर्गः स्फुटम् ईश्वरोऽप्य् अनीश्वरः सन्न् उग्रोऽप्य् अनुग्रतया निज-शिवतां पुरष्कुर्वन्न् एव च स्वयं सङ्गम्य कपर्द-मात्रं यन् निज-धनं तद्-विसर्गम् अपि तस्मिन् कुर्वन्न् इव प्रणम्य निरर्गल-भक्त्या तुष्टाव । तुष्टावस्य पुष्टायां तु विज्ञापयामास,—
सोऽयं मद्-वर-गर्ववान् मम भिभुं त्वाम् अप्य् अमंस्तान्य् अथे-
त्यात्मानं विजितं त्वयावगत्मयन्न् एतन्तथाबोधयम् ।
तस्माद् अस्म्य् अपराध-बीजम् अहम् इत्य् अस्मिन् मयि क्षम्यतां
मूर्ख्ऽप्य् एष उपेक्षतां यद् इयम् अप्य् अज्ञाद् भिदा धीमति ॥२०॥
नृत्यं मे कुर्वतः सोऽयं त्वय्य् आविष्टस्य तुष्टये ।
विधत्ते दोःसहस्रेण वाद्यानां शत-पञ्चकम् ॥२१॥
मयायं न परं स्वीय-भक्त-बुद्ध्यानुगृह्यते ।
प्रह्लादान्वय-दृष्ट्या च प्रह्लादो हि तव प्रियः ॥२२॥
[९१] श्री-कृष्ण उवाच,—
आत्थ त्वं भगवान् यद्वत् तथा व्यवसितं मम ।
तद् एवम् आवयोर् ऐक्ये ज्ञापक-ज्ञाप्यता कुतः ॥
गर्वस्य खर्वतार्थस् तु पूर्वं कुर्वे स्म दोश् छिदाम् ।
चत्वारोऽस्य भुजाः शिष्टाः शिष्टाः स्युः सेवया तव ॥इति॥२३॥
[९२] तद् एवं शङ्करस्यापि भद्रङ्करः स तव नन्दनः स्वेषाम् आनन्द्नतां विन्दति स्म—
अथोषया समम् अनिरुद्धम् आनयन्
निजं पुरं विवहनम् आवहत् तयोः ।
तदा तु नौ हरिर् अवधाय सान्त्वयन्
भवत्-पदाम्बुज-युगम् अन्व् अयापत् ॥२४॥
[९३] सान्त्वनं यथा—
पुत्राः पौत्राश् च मे स्युः स्फुटम् इह मम नैवन्तरीणोऽभिमानः
किन्तु प्राग् येन गोओष्ठान् निरगमम् अधुनाप्य् अस्मि तत्राभिमाने ।
तत्-स्थानां भाव-बद्धः स कथम् इतरकं शक्नुयां भावम् एतुं
तादृङ् मूर्त्यादिकं मे बहिर् अपि सुतरां दृश्यताम् अत्र साक्षि ॥२५॥
तातं प्रत्य् एवम् उक्तं मम यद् इदम् अहं बन्धुतां नन्दयित्वा
ज्ञातीनां वः समीक्षां परम-फलतया तत्र नित्यं करिष्ये ।
तत्-सम्पत्त्यर्थम् एव व्यवहृतिम् अमुकां तत्र विघ्नायमान-
स्वर्-वसि-द्विड्-विघात-प्रभृतिम् अथ जवात् सुष्ठु कुर्वन्न् इहास्मि ॥२६॥इति।
[९४] तद् एवम् अनवद्य-दूतवद्यम् अनूद्य मधुकण्ठः समापनम् आह स्म,—
आयास्यामीति यत् प्रोक्तं हरिणा तत् कथागतम् ।
समागतं तु गोपेश पश्य तं सुतम् आत्मनः ॥२७॥इति।
[९५] अत्र व्रज-वन्दिनोऽप्य् अवन्दन्त,—
अनिरुद्ध-बन्ध-विषयानुसन्ध गत-बाण-धाम विततात्म-धाम ।
हर-बद्ध-युद्ध-यशसातिशुद्ध तत-शस्त्र-जाल-भव-वृन्द-काल ।
भव-जृम्भकास्त्र-जित-लोक-शास्त्र मुहुर् उप्त-बाण-जित-जैत्र-बाण ।
युधि मध्य-यातृ-बलि-पुत्र-मातृ-निभ-कोटराङ्ग-कलनातिसाङ्ग-
परिजात-लज्ज विमुखत्व्-सज्ज रचित-ज्वरान्तर-पर-ज्वरान्त-
कृत-तत्-प्रसाद पृथु-कीर्ति-वाद पुनर् आगतस्य बलि-दुःसुतस्य
भुज-वृन्दलाववलित-प्रभाव शिव-सूक्त-तुष्ट कृपयाभिजुष्ट-भव-पार्षदत्वम् अनु दत्त-सत्त्व बलि-सूनु-पाल-कृपया विशाल
शर-पाश-रुद्ध-सुत्जानिरुद्ध-परिमोक्ष-दक्ष सुखित-स्व-पक्ष
स-बधूकम् एवम् अनिरुद्ध-देवम् उपनीय गेहम् अति-मानुषेह ।
पुनर् आत्म-गोष्ठम् इत वेणु-कोष्ठ परिपूर्य सर्वम् अकृथाः स-पर्व
जय गोप-राज-कुलजाधिराज ॥ वीर ॥२८॥इति।
[९६] अथ रजन्याम् अपि मधुकण्ठः पूर्ववच् छ्री-राधिकादिकाराधन-प्रथने कथने सुब्ल-पत्रान्तः-कृत-सान्त्वना-मात्रं पत्रं यथा—
आरब्धं यत् पुरा कर्म बन्धु-रक्षादि-लक्षणम् ।
तत्-कृतं व्यसनं छिन्दन्न् एष्याम्य् एवात्र वः शपे ॥२९॥इति।
[९७] विशेषतः श्री-राधायाम् अपि स्वस्ति-मुखः सोऽयम् अस्ति स्म—
रामः क्लेशम् अरण्य-जं सहितया निस्तीर्णवान् सीतया
शून्ये तत्र च रोदनं गतिम् इतस् तस्यां हृतायाम् अपि ।
ताम् आप्ताम् असद्-उक्ति-ह्रीर् विजहद् अप्य् अर्चां श्रितस् तन्-निभां
हा राधा-वियुगप्य् अनिष्ट-सुख-युक् कृष्णस् त्व् अहं दुःस्थितिः ॥३०॥इति।
[९८] अथ कथकेन समापनम्—
यं पूर्वं शपथं कुर्वन् सान्त्वयामास वः प्रियः ।
तत्-प्रतीत्थं नवाऽपूर्वं शङ्कध्वे कथम् अद्य च?३१॥
[९९] तद् एवं कथां समाप्य गतयोस् तयोः सूत-सूतयोः श्री-राधा-कृष्णौ परस्पर-सतृष्णौ मदन-कुञ्ज-सदनम् एव रञ्जयामासतुः ।
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
स-बाणेश-विजय-निर्देशनं नाम
एकोनविंशं पूरणम्
॥१९॥
(२०)
विंशं पूरणं
श्री-राम-व्रजागम-कामना-पूर्णं
[१] अथ प्रातः-कथायं स्निग्धकण्ठः सम्यग् उत्कण्ठतया श्रीमद्-बलभद्र-व्रजागमन-प्रसङ्ग-मङ्गलं सङ्गमयितुं चेतसि चिन्तयामास—श्रीमद्-बलस्य व्रजं प्रति चलनाय निदानं खलु सादरं बादरायणिर् वदति स्म—
बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः ।
सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥ [भा।पु। १०.६५.१] इति ।
[२] तद् एवम् अपि तत्र चात्र च यत् किञ्चन तेन विहितम्, तत् खलु निजानुज-मन्त्र-गत्या, न तु स्वतन्त्र-मत्या; यथा हरिवंश-पारायणम् अनु वैशम्पायनः—
कस्यचित् त्व् अथ कालस्य स्मृत्वा गोपेषु सौहृदम् ।
जगामैको व्रजं रामः कृष्णस्यानुमते स्थितः ॥ [ह।वं। २.४६.१] इति ।
[३] तद् एवम् एव कथयिषामि इति ।
[४] अथ स्पष्टम् एव श्री-व्रजराज-युवराजादीन् उत्कण्ठयन्न् उवाच—यथा व्रज-कृष्णयोः परस्पर-सन्देशमयी स-तृष्णता वर्णिता, तथा व्रज-रामयोर् अपि तदा तदा निर्वर्ण्या । तदा तदा च रामः कृष्णं प्रति स-निह्नवम् अह्नाय व्रज-गमनाय सम्यग् आगृह्नन्न् आसीत् । कृष्णश् चाद्य श्वः प्रस्थास्यावह इति तं स्वस्थयामास ।
[५] अथ कदाचिद् उत्कण्ठा-बाष्प-कुण्ठ-कण्ठतया बलस् तं प्रति गुप्तम् आललाप—
इच्छाम् अनयोः पित्रो
रक्षन् सकृद् अपि न यासि तद्-गोष्ठम् ।
दहसि तयोः पुनर् अन्तर्
जाने न तवेदम् ईहितं किम् अपि ॥१॥
[६] किं वा प्रस्मृतम् एव तत्रत्यं सर्वम् इति ।
[७] श्री-कृष्ण उवाच—हन्त! हन्त! निरन्तरम् अन्तरितं कथम् अन्तरितं करवाणि? किन्तु पित्रोर् अनयोर् इच्छा-भङ्गः खलु न मङ्गलाय स्याद् इति तयोः पित्रोर् इच्छा । अनयोस् तु मम तत्र गमने सर्वथा नेच्छा । तस्माद् अहम् अप्य् उभयेषाम् इच्छा-भङ्ग-भयान् न तत्र गच्छामि, दुःखं चायच्छामीति समयं प्रतीच्छन्न् अस्मि । तद् यदि भवान् अनयोः समञ्जसताम् अञ्चति, तदाञ्जसा व्रज-व्रजनम् एव रञ्जयिष्यामि इति ।
[८] अथ रामस् तौ पितरौ स्वस्य कृष्णस्य च व्रजागमनाय दत्ताज्ञावितरौ चिकीर्षन्न्, अनुजं प्रति न तद् अनुज्ञां प्रापयद् इति परम् आपदं भावयित्वा स्वं प्रत्य् एव व्रज-गमनानुज्ञां कथम् अपि यापयित्वा, तौ प्रति स-रोषं दोषम् उद्भावयन् विज्ञापयामास—
पितराव् आवयोर् भेदः कोऽयं वा कृष्ण-रामयोः ?
अहं चात्म-ज एव स्यां श्रीमन्-नन्द-यशोदयोः ॥२॥ इति ।
[९] अथ भ्रातरम् अपि विज्ञापयामास—भवद्-अनुरोधेनाहं पदयोः प्रतिरोधेनेव चिरं व्रज-गमनान् निरुद्ध एवासम् । पितरौ च भवन्तं प्रति नानुज्ञापरौ दृश्येते; तस्मान् माम् एव केवलं भवान् व्रज-भवान् द्रष्टुम् अनुमनुताम् इति ।
[१०] श्री-कृष्णस् तु श्री-रोहिण्य् अनुज्ञापनयापि तद् विशिष्य तम् आश्लिष्य द्विष्यमाण-निज-चरित्रः पित्राद्य अनुस्मृति-मुख-विचित्र-दुःखतया निवेदयामास—तत्र च प्रथमं साहचर्यमय-चर्याशीलायां गो-चारण-लीलायाम् अहो अमी देव-वराम् अरार्चितं [भा।पु। १०.१५.५], गोप्यो ऽन्तरेण भुजयोर् अपि यत्-स्पृहा श्रीः [भा।पु। १०.१५.८] इति स्व-निर्मित-नर्म-वचन्-रीतिं तथा लोक-शास्त्रावलोकतः स्खलित-ब्रीडायां शङ्खचूड-वधावधिक-होरिका-क्रीडायाम्,
कदाचिद् अथ गोविन्दो रामश् चाद्भुत-विक्रमः विजह्रतुर् वने रात्र्यां मध्य-गौ व्रज-योषितां [भा।पु। १०.३४.२१]
इति गान-नर्म-विलोकन-शर्म-मात्र-तत्-पर्व-स्थितिम् अप्य् उपलक्ष्य निरन्तराय कार्यान्तराय सार्धम् अमुना सख्यमय हार्दं स्मरयामास, तद् अनन्तरम् एव विवक्षितं प्रकाशयामास । यथ—
मयि विधेर् अधुना प्रतिकूलता
व्रजम् अनु व्रज तत्-पुरतः स्वयम् ।
अनयद् अग्र-जता तव मां व्रजं
त्वरितम् अग्र्-गताप्य् उपनेष्यति ॥३॥
यद् अपि शान्त्वितवान् अहम् उद्धव-
प्रमुख-दूत-मुखात् तद् अपि स्वयम् ।
मधुरम् आदिशतां स भवान् व्रजं
मद् अपि तत्र सदापि हि रज्यति ॥४॥
तद् अपि चेन् न भवेत् परिसान्त्वनं
मम समागमनं शपथैर् वद ।
विकलताथ तथापि यदीक्ष्यते
निज-बलेन मम स्फुरणं कुरु ॥५॥
यदि च सिद्धि-मितं तद् इदं तदा
मम निवेदनयापरम् आचर ।
स्वयम् उरीकुरु ताः स्व-कृते तु या
निज-कुमार-दशा-वशतां गताः ॥६॥
अथ मयापि तदीय-समाह्वयाद्
अभिहिताः कुतुकात् तव शारिवाः ।
उरसि गोप्य इति स्फुट-होरिक्ं
अहसि ताश् च भवद्-दृशि शर्मदाः ॥७॥
अपि नवं प्रणयं मुहुर् आश्रिता
निजम् अभीष्टम् अयुर् न तु कर्ह्य् अपि ।
सतत-मद्-व्रज-केलि-सुखाचिते
न हृदि जग्म यतः परम् अण्व् अपि ॥८॥ (युग्मकम्)
कथम् अहो व्रज-वासिनि सज्जने
तव वियोग-दुते परिपश्यति ।
इदम् अहं तनुयाम् इति मा वद
स्वयम् असाव् अपि तत् स्फुटम् ईहिता ॥९॥
[११] किन्तु तावत् तत्र तास् तत्रभवत्-कृपाणीयासु कासुचिद् अपि तासु स्वयं स्थापनीया, यावन् मया सह सन्तत-व्रज-वासाय गन्तव्यं स्यात् । सर्वम् अप्य् एतत् खलु खलानां वञ्चनाय गुप्ततया पर्युपतं विधेयम् । तच् च परालक्षितता-कृते स्वयम् एक-रथितया पथि परम् अद्रुत-गमनात् तत्र च गत्वा गोपतया स-देश-रूप-वन्य-वेश-नियमनात् परं सेत्स्यति इति ।
[१२] तद् एवं प्रोच्य स्वीयं गमनम् अनुशोच्य दूराद् अनुव्रजनेन तम् अभिरोच्य स्वयं सास्रं केशवः स्वाश्रयं विवेश ।
[१३] अथ बलदेवः पुनर् अतिरथ-गति-तूर्णतया नीयमानः पथिकैः पूर्णम् अपरिचीयमानः श्रीमद्-उपव्रज-सदनम् आससाद । आसद्य च सद्यस् तद्-भावावेश-सदेश-रूपतया गोपनानुरूपतया च गोप-रूपम् एव सेवते स्म । यथोक्तं हरि-वंशे—
स प्रविष्टस् तु वेगेन तं व्रजं कृष्ण-पूर्वजः । वन्येन रमणीयेन वेषेणालङ्कृतः प्रभुः ॥ [ह।वं। २.४६.३] इति ।
[१४] अथ तथा तस्मिन्न् आगच्छति चाच् छसङ्गता ये व्रज-गतास् तेषां तद् अङ्क-पाल्या हर्षस्स् तद् अनुजस्य पश्चाद् भाविताशङ्कया तर्षस् तद् अलाभेन धर्षश् च जात इति तद् उट्टङ्कयतः «स्फुटति मम बुक्का» इति तद् अर्थ-तत्-प्रश्नादि-विस्तारणया कृतम् ।
[१५] अथ तद् अबुध्य सुध्य्-अग्रणीर् दूरत एव सुरततया व्रजराजादीन् अधिकृत्य केवलं निजागमनम् अधिगमयामास । तद् अधिगतवन्तश् च ते सन्तस् तन्-मात्रेणापि सन्तत-सुख-मनसस् तं सन्तति-दारादिभिर् आदराद् अभिव्रज्य प्रसज्य च हृदि सरसता-समुत्कर्षेण बहिर् बाष्प-वर्षेण च जलधरवद् एव हलधर-देव-धरणी-धरम् आर्द्रयामासुः । स च स्नेहातिशयी तथा कथा-विषयी बभूव, यथा सर्वम् अद्यापि तत्-कीर्ति-नद्याः पद्यायमानं वर्वर्ति । तद् एवं क्षण-कतिपये लब्ध-व्यत्यये पुरोहितादि-कृत-सान्त्वनामये तस्मिन् समये सुतानां समयं समयन्न् उत्थाय सर्वाशीर् उत्थाय तेभ्यो निज-नाम्नानुज-नाम्ना चाम्नातं स-नमस्कारं नमस्कारं चरीकरीति स्म । ते चाभिवदन्तस् तस्य पथि प्रतितं श्रमं चरीकृतति स्म।
[१६] तत्र पितरौ तु —
अनुजम् अनु सदास्मान् पाहि दाशार्ह विष्वग्-
जगद् अपि विभवेन प्रापयन् शर्म-जातम् ।
इति स-रुदित-वाचा बाष्प-भाजा तम् एतं
सुपितम् इव सुधानां धारया चक्रतुस् तौ ॥१०॥
व्यवाहरद् गुरुषु यथा बलस् तथा
बले मुदा लघु-वयसः समाचरन् ।
समाश् च ये किल वयसा तदा च ते मिथोऽमुना व्यवहृति-साम्यम् आहरन् ॥११॥
तत्र च—
यदा स्व-नाम्ना नमनाद्यम् आचरद्
बलस् तदा ते विविदुस् तम् एव तम् ।
कृष्णाख्यया यर् हि तदामुम् अप्य् अमू-
दृशं विदन्तः सुख-सम्भ्रमं ययूः ॥१२॥
[१७] अथ् अगृहम् आनीय सुरभि-पानीय-मुख-नीयमानं सुखं प्रणीय क्रमशः क्लम-शमनाय स्नपन-प्सा-पानादिकम् आपादयामासुः ।
[१८] ततः एकान्ते निशन्ते क्षणं विश्रम्य समुन्नते तु तस्मिन्न् अन्तःपुर्यां गते श्री-व्रजेश्वर्यादयः पुनः सभायां सङ्गते व्रजेश्वरादयस् त-तत्-कुशल-प्रश्नम् उदस्रं विश्रावयमासुः ।
[१९] तत्र व्रजेश्वरी यथा—
किं ते माता बल कुशलतां धारयन्ती समन्तात्
त्वां त्वत्-प्राणानुजम् अपि सदा लालयन्ती बिभाति ।
हन्त त्वं चेन् मम सविधतां यासि तस्याः पुनः स
स्वैरं तर्ह्य् अप्य् अनुभव-सुखं वां समक्षं लभेय ॥१३॥ इत्य् आदि ।
[२०] अत्र तस्योत्तरम्—
मतस् त्वं चेन् मम सविधताम् एषि किं मे जनन्या
मातस् त्वं चेन् मम सविधतां नैषि किं मे जनन्या?
त्वाम् आनेतुं सततम् अनुजं काल-यापनं वितन्वन्न्
अस्मि च्छिद्रं लवम् अपि भजन्न् आययाव् एव तेन ॥१४॥
[२१] अथ श्री-व्रजेश्वरो यथा—
अद्यापि वत्स रिपवः कति सन्ति घात्या
यद्-घातनाद् यदु-गणाः सुखम् आव्रजन्ति?
तेऽमी वयं च युगपन् मिलितौ व्रजे वां
प्राग्-वन् निरीक्ष्य नितरां मृतिम् उत्तरामः ॥१५॥
[२२] अथ तस्योत्तरम्—
कंसादि-भूमि-तनयावधि-वीर-वर्यान्
हन्ति स्म यस् तम् अनु के विभवन्ति शिष्टाः?
कारूष-चेदिपति-पुण्ड्रक-काशिराज-
साल्वा जरा-सुत-मुख-द्विविदान्त-दुष्टाः ॥१६॥ इत्य् आदि ।
[२३] तद् एवं सुख-दुःख-प्रथाभिर् बह्वीभिः कथाभिर् अहो-रात्रेऽतिवाहिते व्रज-हितेप्सुर् असाव् अतिस्पृहया गृहं गृहं पृथग् अपि तत्-तन्-मिलनाय परेद्यवि बभ्राम ।
[२४] तत्र तु—
गुरून् गुरु-स्त्रीश् च लघून् सखींश् च
मिलन् पुरावत् कुशलाद्य् अपृच्छत् ।
बलस् तथा तं प्रति तेऽप्य् अपृच्छन्
सतां मतिः स्यान् निजम् एक-रूपा ॥१७॥
बलस् तदामून् कलयन् व्रज-स्थान्
कृष्णार्थम् अन्तः-क्षपितात्म-भोगान् ।
बहिः परं तत्-परितोष-हेतोर्
गवादि-पालान् अवहद् घनाश्रु ॥१८॥
[२५] यथा च स्वयम् आह महा-मुनिः—
विश्रान्तं सुखम् आसीनं पप्रच्छुः पर्युपागताः । पृष्टाश् चानामयं स्वेषु प्रेम-गद्गदया गिरा । कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसः ॥ [भा।पु। १०.६५.५-६]
[२६] तत्र तस्मिन् पृच्छति गुरूणाम् उत्तरम्, यथा—
यत् कंसो निहतस् ततश् च सुहृदस् ते यद् विमुक्तास् तथा
सर्व्ऽमी कुशलं दधत्य् अथ युवां यद् एतैः श्रितौ ।
तस्मिन् यच् च सुतादि-वैभव-युता यूयं रमध्वे वयं
तन्-मात्रेण शुभं गताः किम् उत वस् तत्र स्मृतिं सङ्गताः ॥१९॥
[२७] लघूनां यथा—
अद्य श्वः समियाद् भवद्-युगलम् इत्य् एवं कृताशा वयं
हन्ताद्यावधि काल-याप-कृइतिनः प्राणान् वहाम्श् चिरम् ।
एवं तेऽङ्घ्रि-युगं विधृत्य वृणुमः सङ्कर्षण त्वं ततः
कृष्णं चानय न स्वयं च नितरां याहि क्वचित् कर्हिचित् ॥२०॥
[२८] अथ सखीनाम्—
त्वं कृष्णश् च बल क्व चापि मिलथः प्रत्येकम् अस्मासु किं
त्व् एकान्ते न ततः सुखं प्रथमवत् क्रीडासु सज्जामहे ।
प्राणान् गाश् च परं गतागत-दशाम् आसादयामः स्वयं
श्रीमंस् तत् कुरु येन पूर्ववद् अमी जीवन्ति दिव्यन्ति च ॥२१॥
[२९] अत्र च श्री-हरिवंशाद् विशेषो ज्ञेयः—
तं ऊचुः स्थविराः गोपाः प्रियं मधुर-भाषिणः । रामं रमयतां श्रेष्ठं प्रवासात् पुनर् आगतम् ॥ इत्य् आदौ । स्वागतं ते महा-बाहो इत्य् आरभ्य [ह।वं। २.४६.६-७] दिष्ट्या ते निहता मल्लाः कंसश् च विनिपातिनः । उग्रसेनोऽभिषिक्तश् च माहात्म्येनानुजेन वै । समुद्रे च श्रुतोऽस्माभिस् तिमिना सह विग्रहः ॥ [ह।वं। २.४६.११-१२]
इत्य् आदिकं मध्ये प्रोच्य प्रोक्तम्—
प्रत्युवाच ततो रामः सर्वांस् तान् अभितः स्थितान् । यादवेष्व् अपि सर्वेषु भवन्तो मम बान्धवाः ॥ [ह।वं। २.४६.१७] इत्य् आदि ।
[३१] अथ स्पष्टं चाचष्ट,─तद् एवं तद् दिनार्धं गुरु-लघुषु तादृश-लघु-सम्भाषनया सखिषु तु हास्य-हस्त-ग्रहण-शस्ततया समाप्य श्री-व्रजेश्वर-सदनं प्राप्य भोजनादि-पूर्वकं सभाम् अवाप्य स्वानुज-विजय-कथाभिः सभा-सत्सु मुदं निधाप्य तन् बहिर् अबहिः श्री-व्रजेशरीम् अप्य् अनुज्ञाप्य शयन-लीलां शीलयामास ।
किन्तु,
यद्य् अपि गोपालानां
वासे रामः पुनर् विचिक्रीड ।
तद् अपि स नान्तमुर् मुदे
कृष्णश् चक्षुर् हि तस्य तेषां च ॥२२॥
प्रातः सायं परम् इह
धेनु-समीक्षां समाचरद् रामः ।
न पुनर्मूषां चारणं
अनुज-विना-भाव-निर्विण्णः ॥२३॥
[३२] कथान्तरं तु प्रातः कथयिष्यामः इति स्निग्धकण्ठः समापनम् आह स्म ।
नात्मानं यो बलं मेने सर्व-प्राणम् इमं विना ।
सोऽयं तम् एनम् आसज्य धिनिते त्वां व्रजेश्वर ॥२४॥ इति ।
[३३] अथ श्री-राधा-माधव-सदसि कथा, यथा स्निग्धकन्ठ उवाच—यदा यादवेन्द्र स्व-व्रजं व्रजन्तं स्वाग्रजं रामं प्रति स्व-प्रेयसीर् विना सर्वेषाम् एव व्रज-जन्मनाम् इष्टं सान्त्वनम् उपदिष्टवांस् तदा स खल्व् इदं सास्रम् अश्रावयत्—हन्त! षन्ततं याः सन्तप्ततया लुप्त-प्राणा इव श्रूयन्ते, ताः प्रति कथम् अव्यथवन् न किञ्चित् प्रथयसि? ईति ।
[३४] अथ कञ्जाक्षः स-मन्दक्षम् उद्धव-मुखम् ईक्षते स्म, स तु चतुरः प्रोवाच—मयेदं निवेदयितव्यम् इति ।
[३५] अथ निज-गृहे यान्तं रोहिण्य् अङ्ग-जातम् अनुगत्य स्व-गोकुल-गत्य् अवसर-लब्ध-यदुपत्य् अभिहित-प्रतिपत्त्य् अनुसाराद् अमूषां तन्-निज-प्रेयसी-रूपतादिकं निरूपयामास, तस्मान् निवृत्य च स्व-प्रभुं निवेदयामास—श्रीमान्-सङ्कर्षणः खलु गत्वा तासाम् उन्माद-दर्षन्द्रक्ष्यत्य् एवेति मया तत्र तत्त्वं सूचितम् अस्ति । यथा चायम् अमूषां सान्त्वनाय सम्पत्स्यते, तथा नान्य इति सन्देश-हरतयायां स-देश-रूपः स एष एव इति ।
[३६] अथ तच्-छ्री-मुख-गिरा स्वस्ति-मुखं विलिख्य तस्मिन् समर्पितवता तेन मन्त्रि-वरेण यथा समुपदिष्टम्, तद्-वद्-अन्विष्टं विधाय तृतीयेऽह्नि स तत्-प्रेयसीनाम् एकीभाव-देशम् एव विवेश । ततश् च,
बलम् अपि बत दृष्ट्वा मूर्ध्नि शाटीम् अकृष्ट्वा
हसितमयम् इहाख्यन् यत् तु गोपालरामाः ।
अहह तम् इमम् आसां भावम् उन्माद-भाजां
मनसि विधद् उच्चैः प्राण-घातं प्रयामि ॥२५॥
[३७] तत्र हासम् एवम् अप्य् उत्प्रेक्षामहे─
सङ्कल्पं कृतवान् हरिर् व्रजम् उपागन्तुं ततस् ता
धृति-प्रायां सोऽयम् उपाव्रजेद् बल-सखः स्राग् इत्थं ऊहां गताः ।
प्र्त्याजग्मुषि केवले बत बले तत्रादृताव् अप्य् अमूर्
दुःखेऽप्य् उद्धसिताद् असु-व्यसनितां स्वेषां तदासूसुचन् ॥इति॥२६॥
[३८] तथापि तासां तल्-लालसा नालसा जातेति तेन समं सम्वादश् च सम्पन्नः ।
[३९] तत्र लालसा-निदानं यथा─
उद्धवः खलु विदूर-सम्भवस्
तस्य तत्त्वम् अपि नः स वेत्ति न ।
जन्मनाघ-जयिना सह स्थितिः
श्री-बलः पुनर् अवैति सर्वशः ॥२७॥ इति ।
[४०]] संवादे क्रमस् तु, यथ—यत्र व्रजं परित्य्ज्य गोकुल-कुल-चन्द्रमसं रज्यमान-मनसं सम्भाव्य सोत्प्रास-स्मितं तावद् आचख्युः—
कच्चित् कृष्णः समन्तान् मुदम् अनुभवति द्वारकायां स्व-पुर्याम् इति
(पुनः स-हासम् आचचक्षिरे)─
चित्रं किं तत्र यस्मान् निखिल-पुर-जनीवल्लभः सैष एकः । इति
(पुनः स-परमर्शम् इव प्रोचूः)─
पृच्छ्यं तावत् पुरस्तात् तद् इदम् अहह नः किन्तु बन्धूंस् तथा किं
तातं किं व कदाचित् क्वचिद् अपि जननीं किञ्चिद् अध्येति सद्म ॥२८॥ इति ।
(पुनः स-निर्वेदं ऊचुः)─
बन्धूंस् तातं कदाचिद् यदि किल जननीं स स्मरेद् वा न वेति
प्रत्याशायां विकल्पः स्फुरति ननु तदा का वराकी स्मृतिर् नः?
हा धिक् चित्तं पुरस्तत् तद् अपि च तद् इदं प्रष्टुम् इच्छत्य् अवाधं
किं नः सेवानुचर्याततिम् अहह महा-बाहुर् अध्येति पूर्वाम् ॥२९॥ इति ।
[४१] तद्-बाहु-माधुर्य-स्मरणेन क्षण-कतिपयं विमुह्य पुनर् ऊह्यमान-चेतनाः शनैर् ऊचिरे—
प्रसू-तातौ भ्रातॄन् अहह भगिनीर् यातृज-मुखान्
गृहाध्यक्षान् हित्वा स्वम् अनुभजमाना न इह यः ।
जहौ छिन्न-प्रेमा तद् अपि हृदयं नस् तद्-अनुगं
कथं तं तद्-वाणीं प्रभु-वर वराङ्गी न मनुताम् ॥३०॥
[४२] तत्र काश्चिद् आचक्षत—
अस्माकं चेद् दशां स व्यरचयद् अमुकां धिक् कथं तर्हि तस्य
श्रद्धस् ते वाचम् उच्चैर् अनियत-मनसस् तां पुर-स्त्री-जनश् च ।
(इति वाग्-असमाप्ताव् अन्या भणन्ति स्म)—
यश् चित्रां वेत्ति वाणिं कथयितुम् अतुलां माधुरीं सन्दधानस्
तस्मिन्न् अम्भोज-नेत्रे स्मर-वश-गतया का वशा वास्ति न स्त्री ? ॥३१॥ इति ।
[४३] तद् एवं सति—
या पश्चाद् आह सर्वाः स्वयम् उपदिशती हन्त साक्षेपम् अस्या
वाणीं बाणायमानांहरि-हरितम् इमां प्रापयन्न् अस्मि मां धिक् ।
अस्माकं तत्-कथाभिः किम् इह सु-कथनं रच्यताम् अन्तरा नः
कालश् चेत् तस्य यायात् कथम् अथ बत नस् तं विना यातु नेति ॥३२॥
इति यद् अपि निजान्तर् दारुणीकृत्य तस्थुर्
व्रज-कुल-महिलास् ता हन्त बाढं तथापि ।
हसित-गमन-जल्प-प्रेक्षितालिङ्गितानां
स्मरणम् अनु मुरारे रोरुदामासुर् आशु ॥३३॥
[४४] अथ सङ्कर्षणः परम-करुणया लम्भित-वेत्र इव बाष्प-धाराभिर् अरुण-नेत्रः क्षण-कतिपयं कर्तव्य-मूढतामूढवान् ।
[४५] पुनश् च स वात्सल्या-सम्बोधन-मुद्रया तासां तत् तन्-निवेदन-श्लाघया सानुताप-तद्-आगमन-विलम्ब-कारण-नानोपद्रव-सूचनया युष्माकम् ईदृशार्ति-श्रवणेन स तु महान्तं मोहं प्राप्स्यतीति विभीषिकया च नानानुनय-कोविदस् तद् इदम् उवाच—
युष्मासु वत्सलतयाहम् इहास्मि वाल्यात्
कृष्णे यथा किल तथात्र करोमि सत्यम् ।
हन्त स्नुषा हृदयम् अस्य मम स्व-हृदैगर्
अर्चिभिर् उद्धततमैर् बत मास्म दग्धे ॥३४॥
जानन्न् एव निजानुजस्य हृदयं प्रत्यव्रजं श्री-व्रजं
विद्वान् एव च तत् प्रगाढम् अभितः सान्त्वेन युष्मान् ब्रुवे ।
औदासीन्यम् अवेत्स्यम् अस्य यदि वा तत् तन् न कर्तुं तदा ।
क्षन्ता स्याम् अथ नाल-पेयम् अपि हृत् प्रीणित तस्मिन् न मे ॥३५॥
भ्रातासौ मम वैरिणाम् अपि गतिं शुभ्रां ददाति स्वयं
सोऽयं हन्त परित्यजेद् अहह वः प्रत्य् एमि नैतद् वचः ।
या यूयं बत लोक-धर्म-परतां तत्-कामनाद् औज्झत
स्वैरं गेहम् अनूज्झ्य देहम् अपि हा द्राग् उज्झितुं वाञ्छथ ॥३६॥
युष्माकं गुणतस् तथा पर-वशः कंसारिर् आस्ते यथा
मां ज्यायांसम् अपि प्रसत्ति-विधये प्रास्थापयद् वः प्रति ।
सन्देशास् त इमे बिभान्ति रचितास् तेन स्वयं यत्र वः
सौख्यं भावि तद् अस्तु तस्य भविता सन्देष्टुर् अप्य् आगतिः ॥३७॥
[४६] अथात्र स्वस्ति-मुखश् चायं सुखदो भविता, यथा─
प्रस्थनावसरे यद् एव बहुलं प्रस्थापितं वाचिकं
प्रत्यायातिमयं ततश् च्यव-वशात् प्राहैषम् अप्य् उद्धवम् ।
हा धिक् तत्र च विग्न-निघ्न-दशया शङ्की तु सङ्कर्षणं
सन्दिश्य प्रहिनोमि किन्तु मम धीर् युष्मद्-धिया लज्जते ॥३८॥
आत्मानं यदि वा मृषा रचितवान् धिक् किन्तराम् उद्धवं
षाधूनां परमं तथा विरचयाम्य् आस्तां च तत् तद् बत ।
स्व-ज्यायांसम् अहो महा-महिम-युग्-विख्यातिम् एतं कथं
तादृक्षं रचयानि तेन दयिता मद्-वाचिकं नान्यया ॥३९॥
युष्मत्-सन्निधिम् आवसामि यद् अहं तत्र प्रमाणं मिथः
स्फूर्तिः स्याद् उभयत्र तर्ह्य् अपि न चेत् पूर्तिर् द्वयानाम् अपि ।
शैघ्र्याद् उत्कमना निहत्य सुहृदां शत्रून् सताम् अप्य् असौ
सप्ताष्टान् अवशिष्टताम् इव गतान् अस्म्याव्रजन् गो-व्रजम् ॥इति॥४०॥
[४७] एवम् एवोक्तं श्री-विष्णु-पुराणे—
सन्देशैः साम-मधुरैः6 प्रेम-गर्भैर् अगर्वितैः ।
रामेणाश्वासिता गोप्यः कृष्णस्याति-मनोहरैः7 ॥ [वि।पु। ५.२४.२०] \
श्री-भागवतेऽप्य् एतद् एव सङ्क्षिप्याह—सन्देशैर् हृदयङ्गमैः [भा।पु। १०.६५.१६] इति ।
[४८] तास् तु तद् एवम् आकर्ण्य तत्-प्रभावेण मध्ये मध्ये लब्धम् इव कृष्णं निर्वर्ण्य दिनान्तरे लज्जा-सज्जन्-मानसाः सज्जनी-द्वारा तद् इदं निवेदयामासुः । तदा भवद्-वचनं निजानुजा-नयन-रचनं प्रतीमः ।
[४९] यदि भवन्-निमित्तम् अद्यावधि रक्षित-कौमार-योगाः सम्यग्-अवधीरित-भोगा रोगाक्त-देहा इव गेहान्तरेव वर्तमानाः काश्चिद् अस्मत्-सङ्गिनीस् तन्व् अङ्गीर् अङ्गीकुरुथ; ताश् चास्माकं सन्निधाव् एव निधाय स्वानुजम् आनेतुं गच्छतेति ।
[५०] अथ रामः साभ्युपगमम् आह स्म—सम्प्रत्य् अकृत्यम् अपि तद् इदं भवतीनां सान्त्वनं विदन्तः कथञ्चिद् यद्यपि करवाम, तथापि गुर्वनुज्ञाम् अनुज्ञातुं कामयामहे ।
[५१] तासु काश्चित् पुनश् च तथा निवेदयन्ति स्म—गुरवश् च ते जातम् अस्माकम् अन्यत्र परिणय-कलङ्कम् अपि शङ्कमानाः सम्प्रति नः काय-वचो-मनःसु कृष्ण-मात्र-तृष्णा-निर्वन्धम् अस्मद्-ईहया सम्भाव्य सीदन् मनसः सन्ति ।
[५२] अथ तथानुमत्य मत्य् अतिशयवति तस्मिन् व्रजेश-वासम् आसन्ने राधिकादिकास् तु काश्चिद् उत्तर-साधिका विधाय तद्-विधानाय श्री-व्रज-पुर-पुरन्ध्रीश्वरीम् उरूकृत्य गुरून् अपि तद्-अर्थम् अर्थयितुम् अनुवर्तयामासुः ।
[५३] अथ तत्र चाम्रेडित-वशाद् असाव् इदं निवेदयामास—यद्यपि सम्प्रति न साम्प्रतं, तथापि यथाज्ञा परम-मङ्गलाचरणानां श्री-चरणानं किन्तु भ्रातुर् अगमन-पर्व यावन् न पर्व-पूर्वकम् अङ्गीकुर्मः । अथ तेऽपि पमम् आनन्दं विन्दमानास् तद् एवानुमुमुदिरे ।
[५४] अथ रमश् च तः सर्वाः गान्धर्व-विधिना सन्दधानः श्रीमद्-भाण्डीर-वन-खण्डम् उत्तरेण वामे क्वचिद् एकान्त-रामे स्वीचकार । यत्र च यमुनाख्या सा स्रवन्ती विदूरेण स्रवन्ती सहस्रधा सिस्रावयिषता तेन ज्ञात-धर्षा तस्य सन्निकर्षाय कर्षम् उवाह। ततो व्रज-तट-निकटं सङ्गतया तया व्र्ज-जनश् च हर्सं बव्राज । कृष्यमाणा तु यमुना तं तुष्टाव इति।
[५५] अथ स्निग्धकण्ठं प्रति कथायां सख्यः पप्रच्छुः—यमुना खलु द्वारका-पतिं पतिम् आसाद्य द्वारकां गता । सेयं का?
[५६] स्निग्धकण्ठ उवाच—सञ्ज्ञाया इव तस्याश् छाया पयोनिधि-जाया तत्-प्रतिनिधितया तत्-प्रवाहम् अधितिष्ठति । तथा चाकृष्टां यमुनां प्रति राम-वचनं—एष ते सुभ्रु सन्देशः कथितः सागराङ्गने [ह।वं। २.४६.५१] इति ।
[५७] अथ कथकः स्व-मनस्य् एवं विविवेच—तद् इदं तावद् अस्तु तद् एवम् एव श्री-भागवत-प्रस्तुतं वस्तु-तत्त्वम् अजानन्न् एकस् तु निर्विवेकगणः समनन्तर-प्रस्तूयमान-समान-शब्द-मात्रतस् तयोर् भ्रात्रोर् गोष्ठ-गत-कलत्राण्य् अभिन्नान्य् एव प्रलपिष्यति, याः खलु श्री=कृष्ण-प्रेयस्यस् तादृग् उन्माद-वश्यतया भ्रश्यन्-मतयोऽपि कच्चिद् आस्ते [भा।पु।१०.६५.९]इत्य् अनेन लब्ध-प्रामाण्यावस्थेन श्री-भागवतस्थेन स्वीयवद्येन पद्येन श्री-कृष्णस्य सुखाद् एव तदीय-हित-वर्ग-सुखाद् एव च निज-सुखं श्रावितवत्यः ।
[५८] याश् च अपि वा स्मरते [भा।पु। १०.६५.१०] इत्य् अर्ध-पद्येन स्व-कर्तृक-प्राक्तन-तदीय-सेवायास् तत्-कर्तृक-स्मरण-मात्रेण कृत-कृत्यतां विभावितवत्यः, [५९] याश् च मातरं पितरं भ्रातॄन् [भा।पु। १०.६५.११] इति पद्येन सम्प्रति तद्-अर्थं मात्रादिकम् अपि त्यक्ततया विख्यापितवत्यः, तच् च स्वयं सर्व-ज्यायसे तस्मा एव तज्-ज्यायसे निवेद्य स्वेषां तद्-एक-निष्ठतां प्रतिष्ठापितवत्यः, [६०] याश् च ता नः सद्यः परित्यज्य [भा।पु। १०.६५.१२] इति पद्यार्धेन स्वेषां तस्मिन् सौहृद्यम् अनुच्छिद्यमानं विज्ञापितवत्यः, [६१] तत्र च कथं नु तादृशं [भा।पु। १०.६५.१२] इति पद्यार्धेन स्वीय-भावातिरेकस्य तद्-एक-परता-कैमुत्याय स्त्र्य्-अन्तर-भावम् अपि प्रमापितवत्यः, [६२] याश् च कथं नु गृह्णन्ति [भा।पु। १०.६५.१३] पद्यार्धन्तरेण तस्यानवस्थित-मनस्तां कृत-घातितावस्थाम् अपि स्थापितां विधाय स्वेषां तद्-अव्यभिचारि-चरित्रतां निश्चितवन्तः, [६३] तत्र च या गृह्णन्ति इतिपद्यार्धान्तरेण स्वेषां तद्-एक-हृत-चित्ततां सूचितवत्यः, [६४] याश् च किं नस् तत्-कथया [भा।पु। १०.६५.१४] इत्य् उक्त्वा महा-तद्-विरहासहिष्णुता-युक्त्या स्वमनः-कठिनी-करणाय प्रवृत्त-प्रायतया व्यवसितवत्यः, [६५] ताः खलु इति प्रहसितं [भा।पु। १०.६५.१५] इति मुनीन्द्र-वचनेन सर्व-सुख-रचनेन प्रत्युत तदीय-स्नेह-वारिधि-निमग्नतया जवाद् द्रवाङ्गतां गता इत्य् अवगतास् तस्माद् अन्यथासम्भावनं यथा-जातानाम् एव सम्भाव्यते ।
[६६] तद् एवं तासां तद् एक-परता कुरुक्षेत्र-यात्रायाम् अपि संवदिष्यते । गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं [भा।पु। १०.८२.३९] इत्य् आरभ्य, आहुश् च ते नलिन-नाभ पदारविन्दं [भा।पु। १०.८२.४८] इत्य् अन्तेन, श्री-भगवद्-उद्धव-संवादे च रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मय्य् अनुरक्त-चित्ताः [भा।पु। ११.१२.१०] इत्य् आरभ्य, मत्-कामा रमणं जारं [भा।पु। ११.१२.१३] इत्य् आदि-पद्येन ।
किं च,
सङ्कर्षणस् ताः कृष्णस्य सन्देशैर् हृदयङ्गमैः ।
सान्त्वयाम् आस भगवान् नानानुनय-कोविदः ॥ [भा।पु। १०.६५.१६]
इत्य् अत्र तासां सान्त्वने कृष्ण-सन्देशानाम् एव साधकतमा मता, यतस् तेषाम् एव हृदयङ्गमता सम्मता । नानानुनय-कोविदः इत्य् अस्य तद्-अधिकारि-विशेषणस्य तु गौणताभिमता । यत्र भगवान् अपि नानानुनय-कोविदः सन्न् इति ततोऽपि भगवत्ताया गौणताधिगता । तस्माद् अन्यथा-कथा मूर्खता-मात्रम् इत्य् अभियुक्ता एवात्र प्रामाण्य-पात्रम् ।
[६७] न च गोपी-शब्द-साधारण्याद् अमूर् अन्यासु न गण्याः । गोप्यश् चाकर्ण्य मुदिता यशोदायाः सुतोद्भवं [भा।पु। १०.५.९] इति, गोप्यः संस्पृष्ट-सलिला [भा।पु। १०.६.२१] इति । तथात्र च, परिष्वक्तश् चिरोत्कण्ठैर् गोपैर् गोपीभिर् एव च [भा।पु। १०.६५.२] इत्य् आदिषु, नेमं विरिञ्चो न भवः [भा।पु। १०.८.२०] इत्य् आदिषु च तन्-मातृ-प्रभृतिष्व् अपि तच्-छब्दः सर्वत्राप्य् अति-प्रसिद्धः । न चाव्यवहित-पाठतया च तया तावत् ता एवावगताः । यतः, क्षेत्रज्ञ एता मनसो विभूतीः [भा।पु। ५.११.१२] इति, क्षेत्रज्ञ आत्मा पुरुषः पुराणः [भा।पु। ५.११.१३] इत्य् आदिषु लब्धानन्तर्य-निबन्ध-शालिषु पञ्चम-स्कन्ध-प्रमुख-वचनालिषु क्षेत्रज्ञादि-शब्दानां क्रमतः पृथग्-आत्म-परमात्मता व्याकृता । तथापि यदि द्वयोर् अपि भगवत्त्वान् न भेद इत्य् अस्मान् न दोष इतीदम् अन्य् मयेरन्, तर्हि द्वारका-गत-तद्-द्वारा अपि तद्-दोषारोपास्पदानि जायेरन् । सोऽयं श्री-बलदेवस् तु नतराम् उद्धववन् नतमां श्री-कृष्णवच् च तेषां सान्त्वनार्थम् अपि ब्रह्मत्वेनेश्वरत्वेन चाभेद-वादः । स्वस्य न तत्र समञ्जस इति मत्वा क्वचिद् अपि न तं प्रत्याकृतवान् प्रत्याहृतः । तद् अप्य् अस्तु, मास-द्वयम् अजस्रम् अपराणाम् अपि पर-दाराणां सहस्र-सङ्ख्यया सह विहारः स खलु घस्र-पति-जात-स्रवन्ती कृष्टि-पर्यन्त-धृष्टि-व्यवहारतः प्रसृत-प्रचारः श्रीमन्-नन्दाद्यानाम् आनन्दनायागतस्य मन्दतां विन्दमानः कथम् आनन्दं दधीत ? तस्मात् कृतं कृत-मर्यादावारनार्या मर्यादा-स्रस्तरेण विवादीकृत-तद्-दुर्वादानुवाद-चर्या-विस्तरेण ।
[६८] अथ कथकः सभासु सुख-प्रथकं समापनम् आह—
आस्तां पूर्व-कथा सेयम् अपूर्वा बत मृग्यताम् । संयोगेऽपि वियोगाभ-प्रतीतिः पूतना-रिपोः ॥४१॥
[६९] तद् एवम् अवधाने जाते, जाते च सर्व-सुख-जाते सर्वस्मिन्न् अपि यथा-स्वम् आवासं याते, श्री-कृष्ण-राधे च लब्ध-शाते मोहन-मन्दिराय प्रयाते इति ।
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
श्री-राम-व्रजागम-कामना-पूर्णं
विंशं पूरणम्
॥२०॥
(२१)
एकविंशं पूरणं
पौण्ड्रकाद्य्-उद्दण्ड-सङ्ग्राम-श्रवणज-धाम-
राम-द्वारका-धाम-प्रतिगमनम्
[१] अन्येद्युस् तु व्रज-राज-सदसि व्रज-युवराज-वदन-शशि-महसि मधुकण्ठ उवाच—तद् एवं मधु-माधवम् अपि व्रज-वासम् अध्यवस्यतः पश्यतां शृण्वतां सुखं व्यस्यतस् तत्र व्रजेऽपि काम-पालतया सर्व-पर्वारामस्य रामस्य द्वारका-गमनायानु-ज्ञापनायाम् अनुज्ञायाम् अपि प्रसङ्गम् असङ्गतायां पूर्व-पूर्ववद् गतागतम् आचरत्सु सन्देशं हरत्सु कौचिद् आजग्मतुर् उचतुश् च—तत्र पौण्ड्रकः खलु खलताम् आरभ्य द्रुतम् असभ्यः काशी-मण्डलाधिपेन सार्धं खण्डितताम् अवाप इति ।
[२] अथ व्रजेश्वरादिषु लब्ध-सम्भ्रमादिषु राम उवाच—कथ्यतां कथं कथम् इति ।
[३] दूताव् ऊचतुः—भवत्य् अत्रागते कुमतेस् तस्य करुषाधिपतेः पुरुष एकः स्र्स्त-धर्मा सुधर्मा-सदसि सर्व-यादव-कृतोपसदन-श्री-कृष्ण-पद-सीमनि निराकृतिर् अपि न निराकृतिं लभेतेति विप्रतया दौवारिकानिवारितः समासदद् अवदच् च—अयम् अहम् अस्मि सर्व-वेद-विदादिभिः कृत-सेवएन प्रत्यग्-अत्मना वासुदेवेन प्रस्थापित इति ।
[४] अथ सर्वे तम् अन्यादृशं परामृशन्तः स-हास-विस्मयं ऊचुः—प्रतिकूल-स्वभावतया तस्य प्रत्य्ग्-आत्मता चेज् ज्ञातुं शक्यते, परमात्मतया चेत् तर्हि कथं ज्ञातुं शक्यतां ? तस्माद् विशद्यताम् ।
[५] विप्रस् त्व् अन्तः स-रोषम् उवाच—अहो! टम् अपि न जनीथः, यः सम्प्रति पौण्ड्रकतयावतीर्ण इति पण्श्डितैरुद्दन्डतया निर्णीतः ।
[६] रामः सारुणाक्ष-हासम् आह—ततस् ततः ?
[७] दूताव् ऊचतुः—ततश् च सभासद्-विप्रा ऊचुः—बाडव ! ते बाढं साक्षाद् एव सुराचार्याः कथम् अन्यथा कथयेयुः ? तत्र च ये दोषाद्य्-अन्ताभिनिर्मुक्ताभ्युदितास् ते पुनः किम् उत? यतः सर्वथा परिवेत्तार एव इति ।
[८] श्री-कृष्णस् तु तं धृष्णं विवदमानं विप्रं वचसा प्रणमन्न् उवाच—भवतु, सन्दिष्टं विनिविष्टं क्रियताम् ।
[९] विप्र उवाच—सन्दिष्टम् इति किम् उच्यते, श्री-भगवद्भिस् तैर् इदम् आदिष्टम्—
वासुदेवो ऽवतीर्णो ऽहम् एक एव न चापरः । भूतानाम् अनुकम्पार्थं त्वं तु मिथ्याभिधं त्यज ॥ यानि त्वम् अस्मच्-चिह्नानि मौठ्याद् बिभर्षि सात्वत । त्यक्त्वैहि मां त्वं शरणं नो चेद् देहि ममावहम् ॥ [भा।पु। १०.६६.५-६]
[१०] रामः स-हस्त-पेषं ग्रस्तम् उवाच—ततस् ततः ?
[११] दूताव् ऊचतुः—ततश् च सर्वत्र-वाखर्वम् उग्रसेनाग्रगण्यस् ते तम् उग्रम्पश्यतया पश्यन्तः साट्टहास-भङ्गम् अङ्गं घट्टयामसुः ।
[१२] श्री-कृष्णः पुनर् इदम् उवाच—प्राग्-औत्पत्तिकीं वासुदेवताम् आपन्नः, कथम् अहम् अपि ताम् अभिधां दूरे विधातुं शक्नोमि ?
[१३] अत्र तु केचिद् इदं सोत्प्रासं ऊचुः—क इदं विदन्तु ? भवेद् अपि साम्प्रतं तस्यापि तथात्वम् इति ।
[१४] श्री-कृष्णस् तु तान् स-प्रणय-रोषं स्तम्भयन् स-लज्ज-स्मितम् आसज्जतीं स्व-वाचं पूरयामास—अये ! हास-रसिकाः ! परिहासस् त्यजयताम् । विप्र-वर ! श्रूयताम् । तस्य चिह्नानि तु तत्रानपह्नवतया वर्तन्त एव ।
[१५] रामः स-स्मितम् उवाच—ततस् ततह् ?
[१६] दूताव् ऊचतुः—ततश् च दूतस् तद्-वचन-तेजसावगुण्ठिततया कुण्ठितः सन् निजोद्यमम् अन्यथा मत्वा गत्वा च तत्-तत्-कथया पुण्ड्र्काधिपतिम् अपि म्लान-तुण्डं चकार ।
[१७] श्रीमान् कृष्णश् च कौतुक-सतृष्णः काशी-करूषान्तरालं जगाम । गते च तस्मिन् पुण्ड्रक-काशी-मण्डल-पती पञ्चभिर् अक्षौहिणीभिः कृत-गती बभूवतुः ।
[१८] राम उवाच—ततस् ततः ?
[१९] दूताव् ऊचतुः—ततश् च,
नटम् इव निज-तुल्य-वेश-लेशं
परिकलयन्न् अजितः स पुण्ड्रकं तम् ।
हसित-वशतयावधान-शून्यः
समम् अरिभिः सम-वारि शस्त्र-वर्षैः ॥१॥
[२०] अथ श्री-व्रजेश्वरे ततस् तत इति वक्तुं प्रवृत्तेऽप्य् असमर्थे स्वयम् एव दूताव् ऊचतुः—
अथार्ध-देशम् आगतां स शस्त्र-वृष्टि-संहतिम् ।
निजायुधैः किरन्न् अरीन् अशेषकान् वितीर्णवान् ॥२॥
खगा इव गताव् आसन्न् आगतौ तु खगा इव ।
खगाधिपति-पत्रस्य खगाश् चिक्रीडुर् अत्र ते ॥३॥
ततश् च,
सैन्य-स्थलं शत्रवम् अश्व-कुञ्जर-
द्विपाद् वराणां प्रथमं गणैर् वृतम् ।
अनन्तरं फेरव-गृध्र-वायस-
प्रेतादिकानां निकरैः पराचितम् ॥३॥
[२१] तद् एवं तन् निहत्य व्रजपति-वंश-पुण्ड्रं पुण्ड्रक-राजाय सोल्लुण्ठतया शशंस—अहं खलु त्रिलोक्या राज्ञस् तवाज्ञया शस्त्राणि समर्पयितुम् आगतवान् । तत्र मुधा व्यवधान-कारिणस् तान् इमांस् तिरोधापितवाम्स् तद् अधुना तानि सावधानतया गृहाणेति । तद् एवम् उक्तवता पुनर् वाणान् प्रयुक्तवता तेन तैस् तस्य शताङ्गं सहस्राङ्गं चक्रे; यान् प्रयुज्य च चक्रं विचकिरे, येन तस्य मस्तकम् अपि निरस्तम् इति समस्तानां कतुकं न्यस्तम् आसीत् ।
[२२] तर्हि लब्ध-विनाशीभवन् काशी-पतिश् च कदात्मनः शिर उत्करितुं तेन पत्रिणो विकीर्णा इति न दृष्टिम् अपि वितीर्णं विधातुं सावसरतां ससार ।
[२३] तत्-सदन-जन-गणस् तु विकीर्णतया समागच्चत् अवतिर्णतां गच्छत् तच्-छिरः प्रति नेत्रं विस्तीर्णवान्; तद् यथा—
पुत्रैः पौत्रैः प्र-पौत्रैर् दुहितृभिर् अनुजैः स्त्रीभिर् अन्यैश् च यस्य
स्वर्गाद् एतीदम् अब्जं मम मम मम मेत्य् उक्तम् आयाति यस्मिन् ।
काशीराजस्य तस्य प्रकटम् असुरजित्-पत्रि-विक्षिप्तम् अस्तं
स्रस्तं निर्वर्ण्य तत् ते पुनर् अखिल-जना मेनिरे वज्रम् एव ॥५॥
[२४] रामः स-हासम् उवाच—ततस् ततः ?
[२५] दुताव् ऊचतुः—ततश् च श्रीमान् द्वारका-भर्ता द्वारकाम् एवावससार ।
[२६] अथ दूरान्तरागमने दिनान्तरेऽपि तद् एव प्रस्तुतवान् ।
[२७] राम उवाच—साधिष्ठं साधितम्, यद् द्वाव् अपि ताव् अववधिषाताम्, किन्तु─ अग्नेः शेषं व्याधि-शेषं शत्रु-शेषं न शेषयेत् इति नीत्या कथं तत्-तद्-अपत्यादयोऽपि प्राणैर् त्याजिताः ?
[२८] अथ दूताव् उचतुः—देव ! तद् एव श्रूयताम् । घृणया तत्- तद्-वधार्थम् अतृष्णेऽपि श्रि-कृष्णे काशी-क्षितीश्वरस्य विश्वेश्वरस्य च नश्वर-धामता जाता ।
[२९] तथा हि अथ सुदक्षिणाख्यः काशी-राट्-पुत्रश् श पितृ-वधम् अधः-कृत-मिखतया वीक्ष्य पुनस् तया शिवम् अप्य् आराधयामास । प्रत्यक्षे तु तस्मिंस् त्र्यक्षे कञ्जाक्षं विपक्षं न ज्ञापयामास । किन्तु कश्चिद् विपक्ष-मात्रम्, शिवस् तु तत्-प्रस्तुतम् अवस्तु विज्ञाय तस्मा इदं सर्वं तव भस्मायितम् इति स-स्मितं व्यञ्जयन्न् आह स्म—ब्राह्मण-पाशैर् अपि सह परिचितः स दक्षीणाग्निस् तव काङ्क्षितम् आचरिष्यति, यद्य् अब्रह्मण्य एव हन्यमनतया गण्यः स्याद् इति । अथ व्यञ्जना च तद् ईदृङ् आसञ्जयामास─ ब्रहण्य-देवश् चेद् असौ तदाग्निर् एव ब्राह्मण-पाशान् अपि तन्न्शाय सम्पादयिष्यति इति ।
[३०] रम उवाच—ततस् ततः ?
[३१] दूताव् ऊचतुह्—ततः स तु मूढः स्फुट-मूढ-हर्षस् तं ब्रह्मण्य-देवम् अप्य् अभिचरितुं दक्षिनाग्निं परिचरति स्म । परिचरितश् चायं शुष्मा शुष्मातिशयवद् उष्मा प्रकट-जटादि-मुद्र-रुद्र-मूर्तितया शश्वद् अश्वयीत् । तद् अनु च द्वारका-दिशम् अनुद्रवन्न् उपद्रवंश् च त-तद्-रुद्र-गणैर् अग्र-पश्चाद्-भावेन स-व्यग्रम् अनुद्रूयते स्म । यथा─
विद्युद्वत्-केश-कूर्च-ज्वलन-निचय-मुक्-चक्षुर् उद्दन्ड-दंष्ट्रा-
भ्रूकुत्य्-उद्यत्-कठोरानन-कटु-रसनालीढ-सृक्क-द्वयान्तः ।
नग्नः शूलांशु-भग्न-प्रतिदिश-विषयस् ताल-तुल्याङ्घ्रि-नलः
सर्वाम् उर्वीं धुनानः प्रमथ-पथ-पथह् सोऽयम् अग्निः ससार ॥
[३२] व्रजराजः सभयम् उवाच—ततस् ततह् ?
[३३] दूताव् उचतुः—
तस्मात् क्र्ट्याग्नि-दाहाद्-भय-निचय-धरं द्वरका-लोकम् आराद्
विक्ष्य् अक्षेष्व् आत्म-पक्ष-ग्रहणा-परतया तत्र हेलां विधात्रा ।
कृष्णेनादेश-मात्रो दहनम् अमुम् अरिर् द्रावयल् लब्ध-नाशी-
भावां काशीं विधाय म्रदिम-विभृद्-अमुष्याङ्घ्रि-देशं विवेश ॥८॥
[३४] राम उवाच—किञ्चिद् विव्रियताम् ।
[३५] दूताव् उचतुः—
चक्रस्याग्रे तदा कृत्यावह्निर् एवं व्यदृश्यत ।
प्रलयार्क-गणाद् भीतः परैति ज्योतिर्ङ्गणः ॥९॥
ये तु रुद्रगणास् तस्मिन्न् आसन् कृत्याग्नि-सैनिकाः ।
केचित् तेनैव बिप्लुष्टाः कतिचिच् चक्र-बह्निना ॥१०॥
स काश्यां दहनो »प्याशु विशन् सर्त्विक्-सुदक्षिणम् ।
दहन्न् अदाहि चक्रेणा यत्र पूर् अपि सा स्वयम् ॥११॥
काशी चक्राग्निना प्लौषीत्य् अन्यथा मन्यतां न हि ।
तस्याग्नि-कुक्कुतैर् देशोऽप्य् असौ प्लुष्टः सनिष्कुटः ॥१२॥
[३६] अथ सर्वे स-हासं प्रोचुः—कल्याणं जातम्, यद् अक्रूरस्य तत्र तावत् स्थितिर् न जाता इति।
[३७] रामश् च स-हासम् आह स्म—ततस् ततः ?
[३८] दूताव् उचतुः—
गतौ चक्रस्य यस्यासीत् कल्पार्कत्वं तद् अप्य् अदः ।
आगतौ हरि-पार्श्वाय शीतांशु-समतां गतम् ॥१३॥
[३९] राम उवाच—यस् तु दुर्वाक्यं ब्रवीति स्म ब्राह्मण-ब्रुवह्, स क्व नु गतः ?
[४०] दूतौ स-हासं ऊचतुः—कृत्याग्नि-नृत्यालय एव ।
[४१] सर्वे स-हासं ऊचुः—स पापाग्निना स्वयम् एव प्लुष्टश् चेत्, कस्य व दुष्टता भवेत्? यत्र कृत्याग्नेर् अपि तस्य स्वस्य दुरसद-स्थन –प्रस्थापनया प्रस्थापकेषु क्रोध एव बोध-विषयीभवति इति ।
[४२] तद् एवम् आकर्ण्य श्री-कृष्ण-पाष्णि-ग्रहणर्थं राम-मुखम् उन्मुखं निर्वर्ण्य व्रजेश्वरः स्वयम् एव वर्णयामास—
प्राग् अहं त्वा मुहुः पश्यन् मेने क्र्ष्णस्य चेक्षणम् । अधुनऽव्यग्र-मनसं मनुवे तस्य पलकम् ॥१४॥
[४३] रामः सास्रम् उवाच—
यदि त्वां पितरं तं च भ्रातरं समम् ईक्षते । सोऽयं कायस् तद्-ऐकध्यं जायताम् अन्यदा द्विधा ॥१५॥
इति प्रतिज्ञाय चिचलयिषति बलदेवे सर्व एवेह व्रजस्थस् तत्-प्रस्थापनाय सङ्गम्य रम्यं तत्-प्रेम-निरीक्षणम् अधिगम्य मुहूर्त-द्वयम् अस्रम् एवाजस्रं ऊहुः । व्रजेश्वरी तु मुहुस् तम् आश्लिष्य तस्य मातरं भ्रातरम् अपि विशिष्य सन्दिदिक्षमाणापि किञ्चिद् अपि यद् वक्तुं न शशाक, तद् एव पर्म-सन्देश-वेशताम् आविवेश ।
[४४] किं बहुना ?
पितुर् यन् मातुर् यद् यद् अथ सुहृदां यद् व्रज-सदां
चरित्रं विश्लेष-ज्वर-वलितम् उच्चैस् तद् अखिलम् ।
हरौ सन्देशाय स्वयम् अजनि यस्मिन् स तु परः
स्फुटं व्यर्थीभूय ह्रियम् अनु तद् आलीयततराम् ॥१६॥
रामस्य चलने दुःखं सुखं चाजनि गो-दुहाम् ।
स्वयं विश्लिष्यतः कृष्णागतिं च प्रतिजानतः ॥१७॥
पश्चाट् त्यक्तं गोकुलं गम्यम् अग्रे
कृष्ण-स्थानं दूरम् इत्य् एष रामः ।
मध्यं शून्यं सम्विदानः समन्ताद्
एकेनाह्ना द्वारकायां विवेश ॥१८॥
[४५] इह हरि-वंश-कृत-शंसनम् इत्थम् अनुमोदामहे—
अथागतं बलम् उपदिश्य माधवः श्रितोद्धवः श्रम-जल-संवृतं मिलन् । रहो नयन् नयन-जलाकुलं पुरा- खिले व्रजे भविकम् अपृच्छद् एकदा ॥१९॥ किं वाच्यं जनकावपृच्छद् अयम् इत्य् एवं जनानां जनं गा वन्य-स्थिर-जङ्गमांश् च निखिलान् पप्रच्छ यद् भ्रातरम् । तेनाश्वस्त-मतिर् व्रजं प्रति गतिं तत्राप्य् असौ निर्णयन् यच् च प्रत्यवदत् प्रतिस्वम् अधिकं तत् तन् मुहुः पातु नः ॥२०॥
[४६] यथा च तत्-पद्यानि—
तथैवाध्वन्यवेषेण सोपश्लिष्टो जनार्दनम् । प्रत्यग्र-वन-मालेन वक्षसाभिविराजता ॥ स दृष्ट्वा तूर्णम् आयान्तं रामं लाङ्गल-धारिणम् । सहसोत्थाय गोविन्दो ददाव् आसनम् उत्तमम् ॥ उपविष्टं तदा रामं पप्रच्छ कुशलं व्रजे । बान्धवेषु च सर्वेषु गोषु चैव जनार्दनः ॥ प्रत्युवाच ततो रामो भ्रातरं साधु-भाषिणम् । सर्वेषां कुशलं कृष्ण येषां कुशलम् इच्छसि ॥ [ह।वं। २.४६.५६-५९] इति ।
[४७] तद् एवं श्रीमद्-व्रजस्थाह् सदापि स्वस्था एव स्थास्यन्तीति च सूचितम् । अथ तत्र श्री-कृष्ण्यस्यावेशान्तरं व्यज्यते । यथा─ अधसीद् राम-नीतानि दुग्धानि मधुमर्दनः ।
फलान्य् अजक्षद् आख्यच् च तत्-तद्-धेनु-नगाभिधाम् ॥२०॥
[४८] अथ मधुकण्ठह् समापनम् आह स्म—
व्रजेश तद् अदः कथं व्यभिचरिष्णु कार्ष्णं वचस्
तथा बल-मुखोदितं बत भवेद् अहो द्र्श्यताम् ।
स एष वर-व्र्षवान् बल-युतः सुतस् ते पुरः
पुरस्कृत-निज-व्रजः स्फुरति शीतयन् द्राग् उरः ॥२२॥
[४९] अथ व्रज-वन्दिनश् च तत्र तं ववन्दिरे—
त्वं पुण्ड्रक-श्लिष्ट-सन्दिष्ट-विस्मेर ।
वाचाटता-ध्वसि-वाक्-पाटव-स्मेर ॥
नाट्याभत-द्वेषम् उद्द्रष्टुम् उत्कण्ठ ।
शङ्ख-ध्वनि-ग्राम-विस्फोरिसत्-कण्ठ ॥
सानन्दम् आगत्य सन्दृष्ट-तद्-देश ।
तं द्रष्टुम् अत्यर्थम् उद्यम्य सावेश ॥
अन्तर्धिम् अत्राथ तत्-सैन्यम् उद्धूय ।
तन्-मुख्य-सान्मुख्य-कार्याय सम्भूय ॥
संवेषम् उत्प्रेक्ष्य तत्रालम् उत्प्रास ।
प्रत्यर्पणायेव तद्-धाम्नि चक्रास ॥
तस्याशु-विध्वस्त-मस्तस्य तत्राथ ।
मित्र-च्छिद्-आकारिन् आराचसन् नाथ ॥
काशी-नराधीश-मूर्धानम् उत्कृत्य ।
काश्यां निरस्यापि सम्पूर्ण-तत्-क्र्त्य ॥
स्वावासम् आसाद्य खेलाप्त-संसङ्ग ।
तत्-पुत्र्-कृत्याग्निम् आकर्ण्य सद् रङ्ग ॥
पार्श्वस्थाम् आदिश्य चक्रं च सक्रीड ।
मित्रात् पराजित्य खेलासु स-व्रीड ॥
काशीश-पुत्राभिचारं परावर्त्य ।
चक्रेण काश्यादि दग्धं च निर्वर्त्य ॥
यां द्वारकाम् आशु यासि स्म ताम् एव ।
हित्वा व्रजे भासि वृन्दाटवी-देव ॥२३॥ इति ।
[५०] अथ बहिः-सभायां कथनं कथकः सम्प्रथय्यान्तः-सभायाम् अपि श्री-राधा-माधवादीनां चित्तं किञ्चिद् अञ्चितं चकार ।
[५१] व्रजतश् चलन्न् अपि बलदेवः स्वानुज-दयिता न साक्षाद् आश्वास-नमयिताः कृता इति मनस्य् अवगम्य तां रजनीं स-व्याजं विरम्य प्रातः सर्वम् अप्य् अनुव्रजन्तं व्रजं यत्नाद् अतिक्रम्य ताश् च वन्य-वर्त्मन्य् अनुशोचन्तीर् अनुगम्य सम्यग् आश्वासनाय स्व-प्रेयसीर् अपि तद्-आज्ञा-वशात् तद्-अनुगततया व्रज एव वासाय नियम्य जातु जातु पितृ-निशान्त-गमन-पर्यवसानं समाधानं सन्तन्वन्त्या सान्त्वनयाङ्गीकृतय सुज्ञानां तद्-अनुज्ञाम् अधिगम्य चलितवान् । चलन-समये तु शुक-शारिकयोर् द्वयं ताभिः शिक्षयित्वा कृष्णायोपायनतया प्रहापितं निनाय ।
[५२] क्रमेण तयोः शिक्षा यथा─
आयास्याम्य् अथ यावत्
तावत् प्राणान् प्रिया वहत ।
जीवन्ति हि सारङ्ग्यो
यावन् मेघागमो भवति ॥२४॥
सत्यं सारङ्गीणां
घन-समयापेक्षि सन्त्य् अपि प्राणाः ।
घन-समयेऽपि समन्ताद्
अघने कथम् अहह सन्तु ते दीनाः ? इति ॥२५॥
[५३] तद् एवम्─
नीतं रामेण गोष्ठाद् उपहृति-वलयं सुष्ठु-कृष्णाय रुच्यं
तत्रागाद् बाढम् अह्नां निकरम् अनु परिच्छेदम् एव क्रमेण ।
किन्त्व् अन्तः कीर-शारी-युगलम् उपदिशत् पाठितं तत्-प्रियाभिस्
तर्षं कर्षं च तस्मिन् विधद् अपि परिच्छेदम् आप्तं न जातु ॥२६॥
[५४] अथ मधुकण्ठः समापम् आह स्म—
सेयं भवती राधे
सोऽयं कृष्णः समं लसति ।
यत्राश्लेषं पश्यन्
जित-विश्लेषं मदं यामि ॥२७॥
[५५] तद् एवम् आनन्द्य त-तद्-वृन्दम् अनु मन्दिरं विन्दमानयोर् अनयोः श्रि-राधा-माधवानन्द-सम्बाधालयम् अधिशयाते स्म ।
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
पौण्ड्रकाद्य्-उद्दण्ड-सङ्ग्राम-श्रवणज-धाम-
राम-द्वारका-धाम-प्रतिगमनं
नामैकविंशं पूरणम्
॥२१॥
॥२२॥
द्वाविंशं पूरणं
द्विविद-हस्तिनापुर-ध्वस्तिः
श्री-श्री-राधा-कृष्णाभ्यां नमः ।
श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥
[१] तद् एवम् उद्धवः श्री-रेवती-धवश् च व्रज-परमानन्दं पपरतुः । अथ श्री-रमणस्य दन्तवक्र-शमनानतर-व्रजागमनाय यस्मै पूर्वोत्तर-चम्पू-द्वय-निर्माणम् आरब्धम् । तद् एव स-प्रमाणं निरूपयितुम् उत्तर-चम्पूम् अनु कृष्ण-पूर्ण-व्रज-नामा विलासः परिवेष्यते । यत्र तस्य व्रजागमनानन्तरं पूर्व-पूर्ववद् एव सूत-सुतौ तां कथां प्रथयामासतुः ।
[२] तत्र श्री-व्रज-युवराज-विराजमान-व्रजराज-सदसि स्निग्धकण्ठ उवाच,─ तद् एवं विलास-द्वयं कथितम् । यत्र तूद्धव-रामौ व्रजस्य कृष्ण-विरह-व्याधिं प्रत्यौषध-निभ-सान्त्वन-विधौ नासत्यौ जातौ, किन्तु नासत्यौ । तथपि─
यदा रामः कृष्णानयनम् अनु सम्विद् रचनया
व्रजं सान्त्वं सान्त्वं व्रजति स पुरा यादव-पुरम् ।
तदा तृष्णा तस्याभ्यधिकम् अभवत् प्रावृषि यथा
समीपायां धर्यं वहति न हि वापीह-निवहः ॥२॥
किं च,
ते कृष्णाह्वयम् आलिहन् घन-रसं साक्षात्-कृतं सीरिणा
स्फूर्ति-व्याजि तथापि तत्र विदधुस् तृष्णां त्रि-दोषार्तिवत् ।
तस्माद् अत्र सुखं दधुर्यद् अनिशं तन् नानृतं यन् मुहुस्
तत्-प्राप्तिं प्रति लालसाम् अपि ययुर् व्याहन्यते तच् च न ॥३॥
[३] तद् एवं राम-दत्त-प्रत्याशायां व्यप्त-प्रत्याशायां दिनान्तरे पूर्व-पूर्ववत् द्वारका-पुरात् दूताव् आगम्य सम्यग् इदं जगदतुः,─ सम्प्रति झटिति व्रजागमनं घट्यितुकामः श्री-रामस् तद्-विघ्न-निवारणाय स्वयम् एव दुर्-दुरूढ-विजयारम्भं सम्भवन्न् आस्ते । तद् इदं श्रूयताम्─ यद् द्विविद-घातनम् इति ।
[४] व्रज-राज उवाच—को व्यायं विद्विड्-द्विविदतया मतः ?
[५] दूताव् ऊचतुः—यः खलु राघवेन्द्र-कटकेऽपि वानरेन्द्रः प्रकटतया घटनां गतः।
[६] व्रज-राज उवाच—हन्त स कथम् अकूटः स्फुटं दुर्-दुरूढवद् घातितः ?
[७] दूताव् ऊचतुः—तस्य सम्प्रति नरकासुर-सङ्गत्या वैमत्यातिशयः प्रत्यासन्न इति ।
[८] व्रज-राज उवाच—तादृशस्य तादृश-सङ्गतिम् अपि न भृशं परामृशामः ।
[९] दूताव् ऊचतुः—तस्य कारणम् अपि तत्रावधारणम् अवाप, यत् पुरा लक्ष्मणं प्रति तस्याविनय-लक्ष्म लक्ष्यते स्म ।
[१०] व्रज-राज उवाच—दुर्गमः खलु सताम् अनुगमः । भवतु, साम्प्रतं हत-व्रतस्य तस्य दुर्नयं वर्णयतम् ।
[११] दूताव् ऊचतुः—
पर-लोक-गतस्यापि साचिव्यं नरकस्य सः । कुर्वन् नरक-संहर्तुर् देशादिकम् उपाद्रवत् ॥३॥
यथा—
क्षिप्तैर् वह्न्य्-अब्धि-शैलैर् दिशि विदिशि पुर-ग्राम-घोषान् विनिघ्नन् स्त्री-पुंसान् अद्रि-गर्तान्तरम् अनुवलयन् प्रस्तरैर् आस्तरंश् च । साध्वी-धर्मं विधुन्वन् मुनि-निलयम् अपि ध्वंसयन् कुत्सयंश् च स्वैरं कृष्णस्य देशान् दिविव्द-कपिर् असाव् अर्दयन्न् उन्ममर्द ॥४॥
[१२] व्रज-राज उवाच—ततस् ततः ?
[१३] दूताव् ऊचतुः—ततश् च यत्रैव रैवतम् अनु रेवती-रमणस्य रममाणस्य सङ्गीतं कर्ण-सङ्गीचकार, तत्रैवागत्य तरुतत्य् अवधूननया पत्र-पुष्प-फल-शाखाः शीयमानस् तद्-गीयमान-विडम्बकः स किल किल-किला-शब्दम् आततान । तेन हसन्तीश् च तस्य वसतीर् विलोकयन् निज-जाति-ज-विलोलतया बहूपजहास । किं बहुना,─
स मत्वा राम-सम्बन्धं रामः सहनतां गतः ।
तथापि कोटिधा दृष्टं कृष्ट-प्राणं चकार तम् ॥६॥
यद्यपि कृष्ट-प्राणं
चकार रामस् तदा द्विविदम् ।
स-दयं तद् अपि तं ऊहे
स विविध-दोषाद् अमूमुचद् यद् अमुम् ॥७॥
[१४] तत्र युद्धं यथा─
ग्रावभिर् आहतिर् इह वञ्चन-गतिर् अपहृत-मधुता क्षण्म् इव मृदुता ।
वस्त्रास्फालनम् अथ सम्भालनम् अविनय-बलना स-मुसल-हलना ॥
सालहतिर् लसद् अङ्ग-समिद्-रस-मुसल-क्षिप्तिः स्वासृग्-लिप्तिः ।
कुतुकालोकः सालविमोकस् तस्य च्छेदह् स च स-भेदह् ॥
प्रस्तर-वृष्टिर् मुसल-विसृष्टि-स्फुट-चूर्णीकृतिर् अधिदूरावृति ।
मुष्टिभ्यां हतिर् अथ तद्वद् गतिर् अनुगत-मृतिता सम्भृत-कृतिता ॥
तद् इदम् अनुक्रम-लब्ध-निज-क्रम-कपिल-बल-युद्धं पृथग् उद्बुद्धम् ।
अकरोद् अचलाम् अस्कृत् प्रचलाम् इति सङ्कलिता तत्-कृत-कलिता ॥८॥
[१५] तद् एवं कथितवतोर् अनयोर् अपराव् अपि द्वारका-पथिकौ तत्रागतिं प्रथितवन्ताव् आहतुश् च,─ द्विविद-हन्तुर् इतोऽप्य् अन्यद् आश्चर्यम् अवधार्यतम्, यद् धस्तिनापुरं प्रस्थितवता तेन तद् उदस्तीकृत-कल्पम् अस्ति ।
[१६] सर्वैः साश्चर्यं ऊचुः—किम् इदं वृत्तं कथ्यताम् ।
[१७] दूताव् ऊचतुः—जाम्बवती-सुतः साम्बः खलु स्वयम्बरं सम्बलमानः सुयोधन-सुताम् एकक एवाचकर्ष; यत्र शल-भूरि-भूरिश्रवः-सुयोधन-कर्णाः शोण-वर्णाः सन्तः किम् अपरं भीष्मश् च भीष्म इव सन् तम् अव्यग्रीभवन्तं प्रत्येकं वीर-प्रवेकम् एकम् अनेकता-लब्धातिरेकतया घनिभूता यदु-पद्म-बन्धुं बबन्धुः ।
[१८] बद्धं च तं नारद-मुखात् कर्णयोः सम्बद्धं कृत्वा धीरतम् अधृत्वा यदु-समूहेषु घटित-कटक-व्यूहेषु बलभद्रः कुरूणां भद्रम् इच्छन् शिक्षणाकृते तेषां धाम जगाम ।
[१९] तद्-अनु-जन्म-भावी तु भावि कौतुकं भावितं कुर्वन् न किञ्चित् पूर्वं जगाद ।
[२०] अथ स तु विप्र-प्रायेण सम्प्रदायेन सार्धं कुरु-पुरीतः क्रोशार्ध-स्थित-क्रीडा-वनम् अनु स्थितवान्, प्रस्थापितवांश् च तेभ्यः शुद्धं सन्देशम् उद्धव-द्वारेति स्थिते ते च साम्ब-मोचनार्थम् एव सोऽयम् आगत इति मत्वा तत्-प्रार्थनया स्वीय-महत्त्वाय स-सम्भ्रममेव तम् अनुचक्रमुः; अनुक्रम्य च परम् आदर-तत्-परतां ज्ञापयितुम् आज्ञा-वितरः क्रियताम् इति विज्ञापयामासुह् ।
[२१] स तु मनसीदं विदाञ्चकार—मत्-सम्बन्धेन सम्बन्ध-बन्धेन कदाचिद् एतेऽपि क्रमाद् अद्धा कृष्ण-सम्बन्धा भवेयुर् इति सम्भावना-समुपलम्भाद् अहम् एषु विषमेषु च पक्षपातं रक्षन्न् अस्मि । एते तु पक्षता-मात्रं लक्षयन्तस् तं मां परमादरतयानुसरन्ति । मदीय-हृदय-मणिं तं पुनर् अरि-सरणिम् अनुगणितं कुर्वन्ति । तत्र चालं बहुना, जहुम् अपि तम् अस्मदीयं न जहुः, किन्त्व् अबन्धुवद् बबन्धुः । तस्मात् कृष्णेन कथ्यमानं तथ्यम् एव तद् एषां वैतथ्यम् इति नामी सममयीं मुद्राम् अर्हन्ति, किन्तु भेदमयीम् एव । तत्र च क्षुद्रेष्व् अमीषु शूद्रेषु वेदम् इव कृष्णस्य नाम नान्नातुं युक्तं परं तूग्रसेनस्य वरम् इति ।
[२२] अथ स्पष्टम् आचष्ट—दूत-व्रतागतानाम् अस्माकं न काचिद् आज्ञा, किन्तु राज्ञाम् उग्रसेन-चरणानाम् एवेति ।
[२३] व्रज-राज उवाच—ततस् ततः ?
[२४] दूताव् ऊचतुः—ततश् च परस्परम् ईक्षमाणतया कृतान्तस्य पुरत इव तस्याग्रतः कृतान्तः क्रोध-सर्गेषु कुरु-वर्गेषु स पुनर् अनर्गलम् उवच─सा च श्रवसोर् आचर्यताम् । अस्माकम् अजिह्मेन डिम्भेन तेन क्षत्रियाणाम् उचित एव धर्मः प्रचितः, भवद्भिः पुनः क्रुद्धतां सम्भरद्भिर् अशास्त्र-बुद्धं युद्धम् उद्बुद्धं चक्रे; यद् एक-कृतेऽनेकता शिश्रिये, स तु तावत् भवत्-कन्याहारी वीर-पारीन्द्रः स्फुटम् अन्यायेनापि न वारीगतः कर्तुं न शक्येत, यद्य् अस्माकं शिक्षां न वीक्ष्येत । भवतु, भवद्भिर् अद्याप्य् अनवद्या रीतिर् आपद्यताम् इति ।
[२५] व्रज-राज उवाच—ततस् ततः ?
[२६] दूताव् ऊचतुः—ते तु तद् आकर्ण्य वैवर्ण्य-पूर्ण-वद्नतया तूर्णम् एव विविधम् अवर्णं वर्णयन्ति स्म; यत् खलु भीष्म-मुखाः केचन कृष्णातिक्रम-ग्रीष्म-वशाद् विवर्ण-मुखा अपि स्व-धर्म-कर्मठता-स्पृष्ट-प्राय-मर्मतया न निवारयन्ति स्म । तत्रास् तां तावद् दूरे यदून् अनु तेषां ऊनताभिधानम्, तस्माद् अप्य् अप्रत्यासन्ने वर्तताम्, तम् उग्रसेनं प्रत्य् अप्य् उग्रता-विधानं तस्माद् अपि विप्रकृष्टे तिष्ठतु, स्वम् अप्य् अनादृत्य परावृत्य गृहान्तर्गमनानुसन्धानम् । अहो ! कृष्णं प्रत्य् अपि दृष्णग्-वचः कथं सोऽयम् अनन्तः सहतां ? तत्र स्वयं तन्-मुखम् उद्दिश्य दूरतो दिशति स्म─ रे दुर्बोधन ! दुर्योधन ! हरिम् अभजसि चेद् अनेधि चिर-रत्राय त्वम् इति ।
[२७] व्रज-राज उवाच—ततस् ततः ?
[२८] दूताव् ऊचतुः—
सर्वोत्तमानां तैर् उक्ता यदूनां विपरीतता । इतीव विपरीतत्वं तत्-पुर्याः स व्यधित्सत ॥९॥
[२९] व्रज-राज उवाच—ततस् ततः ?
[३०] दूताव् ऊचतुः—ततश् च शाक्य-दुर्वादम् इव तत्-तद्-दुर्वाक्यं सोत्प्रासम् अनूद्य तद्-अनुद्यम् अलवं वलयन् विविध-सद्-अङ्गं पुरं च तां गङ्गां कर्षंस् तद् इदम् अकार्षीत्; यथा─
उत्कुर्वन्न् अट्टहासं कटु-कटक-घटाक्रुष्ट-कोटि-प्रकृष्टं
कृष्टं कर्तुं पुरं तत् प्रकट-हलहला-रावम् अस्यन् हलाग्रम् ।
आकर्षस् तत्र घर्षं विधद् अपि जगद्-धर्षम् उच्चैर् वितन्वन्
श्रीमान् सङ्कर्षणः स स्फुटम् अरिगण्म् उद्बाष्पम् अवर्षं चकार ॥१०॥
यर् हि न्यग्-भावम् अग्रं गतम् अपरम् अभूद् उन्नतं तर्हि तस्याः
पुर्यास् तैस् तैः समस्तैः कुरु-नृप-तनयादीन् पुरस्ताच् छपद्भिः ।
आक्षिप्तास् ते स-लज्जाः शरणम् उपगताः कन्यया साम्बम् अग्रे
कृत्वा नम्रा बलेन स्फुरद् उरु-करुणं वीक्षिताः शिक्षिताश् च ॥११॥
[३१] भोः ! कुरु-वराः ! भूयस् तु यूयम् एवं कुपूयं मस्म कुरुतेति । ततश् च, लब्ध-साध्व-स-रोधनः स दुर्योधनः साश्रित-पूर्-जनः कृत-तत्-पूजनह् सुबहु यौतकम् आनिय पुरतः प्रनिय तं जमात-दुहितृभ्यं सह प्रस्थनय प्रार्थयमास । साम्बस् तु प्रस्तुत-लज्जतां सज्जंस् तैः समस्तैः सह प्रत्येक-न्याय-युद्धम् एव स्व-बृहत्-तात-पुरस्ताद् आत्मनानुरुद्धं चकार, न तु यत्न-वशाद् अपि कन्या-रत्नम् इति स्थिते पुनर् अपि ते व्यग्रास् तिरीट-किरीट-स्पृष्ट-तत्-पद-पद-व्यग्रास् तं सानुग्रहतां ग्राहयामासुः ।
[३२] व्रज-राज उवाच—कृष्णानुगति-स्पृही भीष्मः कथम् असत्-पक्षं गृहीतवान् ? कथं वा साम्ब-पितृव्यः साम्ब-संवलितं तत्-पुट-भेदनं भेदनं नेतुं तत्-क्षणं तत्-क्षणम् अक्राक्षीत् ।
[३३] दूताव् ऊचतुः—भिष्मस् तावद्-भावि-मर्म-ज्ञात्रन्तरतया केवलं क्षात्रं धर्मम् अनुसृतवान् । रामश् च कुरु-दायादान् दायंस् तत्-पत्तनस्योत्पातम् एवाराब्धवान् न तु पातम् इति ।
[३४] व्रज-राज उवाच—ततस् ततः ?
[३५] दूताव् ऊचतुः—ततश् च स-हर्षं सङ्कर्षणः स्नुसा-पुत्राव् आदाय द्वारकायाम् आधाय यां सर्वां वार्तां वर्तयामास, तया क्र्ष्णः पुनः स्मितम् एवानुवर्तयामास । मया तेषाम् अन्तरम् अनुभूयत एव भवता पुनह् सरलेन भूयत इति व्यञ्जयितुम् इति ।
[३६] अथ स्निग्धकण्ठः समापनम् आह स्म—
कथनम् इदम् अनूक्तम् आज्ञाया ते न च चरितं भवतीत्थम् एव सद्यः । व्रज-नृप कलयात्र पार्श्वतस् त्वं स्व-नयनयोः सुख-मात्र-कृष्ण-धाम ॥१२॥ इति ।
[३७] तद् एवं सन्तोष्य क्सण-कतिपयं तूष्णीकाम् अवलम्बमाने तस्मिन् व्रज-वन्दिनः श्री-रामं ववन्दिरे─
द्विविद-दुरन्त-चरित्र कोपिन् सज्जन-मित्र ।
रैवत-लिला-लक्ष्य प्राकृत-धीभिर् अलक्ष्य ॥
निज-रामा-गण-जुष्ट तत्-कपि-धार्ष्ट्याद् रुष्ट ।
तेन समं कृत-युद्ध तद्-युधि कौतुक-रुद्ध ॥
चिर-हत-कपि-कुल-दुष्ट सुर-मुनि-गण-नुति-तुस्ट ।
कुरुभिः साम्बे बद्धे यदु-निवहे सन्नद्धे
स्वयम् अथ सन्धिं कलयन् शान्तान् सङ्गे वलयन् ।
कुरु-नगरं लघु गतवन् तद्-दुर्वचनं श्रुतवन् ॥
तेषां पुरुम् उत्कलयन् वलित-क्रोधं हलयन् ।
गज-साह्वयम् आकर्षन् परितश् चित्रं वर्षन् ॥
भीत-कुरु-श्रित-पाद कृपया त्यक्त-विवाद ।
बधु-सुत-यौतुक-सङ्गि गृहम् आगा बहु-रङ्गि ॥
सम्प्रति सह-सह-जन्म गोकुलम् ऐर् निज-जन्म ।
जय जय जय बलराम केवलम् अनुजाराम ॥इति॥१३॥
[३८] अथ श्री-राधा-माधवयोः सदस्य् अपि कथकः स तयोः सुखाय पर्यवस्यति स्म, यथा चाह स्म—
यद् अवधि गोकुल-देशाद् गतवान् सङ्कर्षणः कृष्णम् । तद् अवधि सङ्कर्षणतां तं प्रति स गतः स्व-घोषाय ॥१४॥ व्रजम् अनु कृष्णाकृष्टिः यान् येनासाव् असूक्ष्म-दृग्-दृष्टिः । सूक्ष्म-दृशां मतिर् एवं राधे त्वयि मूलम् अत्र सद्-गुणता ॥१५॥
[३९] समापनं चाह स्म—
एतावतालम् अति-विस्तर-वर्णनेन प्रत्यक्षम् एव तद् इदं वृषभानु-पुत्रि । सोऽयं प्रियस् तव मुखं सुख-बाष्प-कीर्णं निर्वर्ण्य शश्वद् इह पश्य भृशं विभाति ॥१६॥
[४०] तद् एवं कथां समाप्य सर्वेण सह गतयोः कथकयोः श्री-राधा-कृष्णाव् आत्म-तृष्णानुरूपम् एव सदनम् आसदताम् ॥
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
द्विविद-हस्तिनापुर-ध्वस्तिर् नाम
द्वाविंशं पूरणम्
॥२२॥
(२३)
त्रयोविंशं पूरणं
पुरु-सुख-क्षेत्र-कुरुक्षेत्र-यात्रा
[१] अथ दिनान्तरे लब्ध-स्व-नन्दन-श्रीमन्-नन्दराज-विराजमान-सभान्तरे मधुकण्ठश् चेतसि चिन्तयामास—[२] अथ कुरुक्षेत्र-यात्रा-कथन-पात्राय सम्पद्यते स्म । [३] श्री-शुकदेवस् तु युगपत्-तत्-तल्-लीला-स्फुरण-पुरस्कृत-प्रेम-मय-प्रमादाद् एव तां दूरे प्रतिपद्यते स्म । येन ह् सा भीष्म-द्रोन्ण-दुर्योधनागमन-मयी घटिता । दुर्योधन-वध-काल-पर्यन्ता श्री-रामस्य तीर्थ-पर्यटना तु तत्-पूर्वं पठिता । तथा कंस-वधान् नातिविलम्ब-संवलनया कुरुक्षेत्र-यात्रायाम् एवार्जुन-मात्रा सह वसुदेव-संवदनम् इदं संवदते ।
कंस-प्रतापिताः सर्वे वयं याता दिशं दिशम् । एतर्ह्य् एव पुनः स्थानं दैवेनासादिताः स्वसः ॥ [भा।पु। १०.८२.२१] इति ।
[४] अथ युक्तम् उक्तवान् । तद् एवं स्थिते पुनर् दूताव् आजग्मतुश् च । तस्मिन् अरिष्ट-घाती सर्वेषां रिष्ट-तातिर् विराजते, सम्प्रति त्रिलोकी-जनानाम् अपि युगपत् कृत-नेत्र-सुख-भातिर् भवितेति लक्ष्यते । यस्माद् ज्योतिर्विद्भिर् द्योतितं महद्-अहर्पति-ग्रहणं निशम्य सम्यक् कृत-तन्-महिम-वन्दनः श्रीमान् भवन्-नन्दनः प्रचित-विश्वानन्दनः सुपर्व-निर्मित-सेवः स्वयम् एव सर्व-यदु-देवः प्रथित-सुख-पोषणां समन्ताद् घोषणां प्रदाय स-सम्प्रदायः कुरुक्षेत्रम् आगन्तुं शन्तुर् अस्ति इति ।
[५] तद् एतद् दूत-वचनान्ते निशान्ते स्व-पत्न्या सम्मण्त्र्य सभायां स-भाव-जनतया च व्रजेशिता मन्त्रयामास—अस्माकं तद्-एक-तृष्णजाम् अपि तत्-सन्निधि-निधिं गन्तुम् उद्यतानां विधिर् विरोधी वर्तते । तस्य पुनर् आगमनं मनसापि दुर्गमम् इति भवद्भिर् अनुभवद्भिर् एव स्थीयते । सम्प्रति श्रूयते—सूर्य-ग्रहणम् अनु पूर्यमाण-कुतुकतया कुरुक्षेत्रागमनाय कृताग्रह-चयः स सम्भृत-भवत्-प्रणयस् तत्र विराजत इति । तत्र च तीर्थ-यात्रायां जगन्-मात्रागमन-पात्रतां गतायां नास्माकं गमनं विस्मायकं भवतीति तद् उक्तः स खल्व् अस्मासु तदीय-सुहृद्-बुद्ध्या दुष्ट-द्वेष-दोषस् तु न पोषं लभते इति ।
[६] अथ सर्वे सहराश्रु-वर्षं ऊचुः—सम्यग् इदं रम्यम् उक्तम्, किन्तु व्रज-रक्षणाय के रक्षणीयास् ते लक्षणीयाः । यतः,
येषां धाम धनत्मजात्म-वलितं सर्वं परं यत्-कृते तेषां तद्-विरहे चिरेऽपि झटिति प्राप्ताव् असम्भाविनाम् । गोपानां कुरु-भूमि-यात्रिक-गति-व्याजेन तल्-लम्भन- प्रत्यासत्ति-युजां भवेत् कतमया युक्त्या ततो वारणम् ॥१॥
[७] तद् इदं चिराय विचारयत्सु व्रज-सभासत्सु द्वारकाधिपतेः पत्रिकायाताः, यथा—
यावच् छत्रु-क्षयन्न व्यतिमिलन-कृतेऽस्माभिर् उद्युक्तिर् इष्टा तस्मात् क्लिष्टा वयं तत्-प्रतिविधिम् अधुना तात लब्धाश् चिरेण । अस्मिन् सूर्य-ग्रहे यन् निखिल-जनतया पूर्यमाणं कुरूणां क्षेत्रं व्याजाय कुर्याम् अहम् अथ भवताम् अञ्जसा सञ्जनाय ॥२॥
किन्तु,
यद्यप्य् अहं गोकुल-लोकम् आशु प्रतिस्वम् अभ्यस्य रहो भजामि । तथापि ये न प्रतियन्ति तेऽमी मिलन्तु मां तत्र परे वसन्तु ॥३॥
किं च,
गावो मम चित्-कल्पाः सखि-निचयास् तत्र च प्राणाः । तस्माद् वलयित-निष्टं तासु सदामी तु तिष्ठन्तु ॥४॥ इति ।
[८] तद् एतद् आकर्ण्य सर्वे स्व-स्वाभिमतं वर्णयन्ति स्म । तत्र साक्षात्कार-निभ-तद्-उपलम्भ-विस्रम्भ-पराणां परायणतया सखायस् तु तद्-अस्तुं-कारता-प्रथन्याय यथा-प्रस्तुतम् एव वस्तु तत्र स्तुतवन्तः—अस्मत्-प्राण-कोटि-निर्मञ्छनीय-वाञ्छित-लेशस्य निदेश एवास्माभिर् अञ्चनीयः इति ॥
[९] अथ कथा-शेषं परिवेषयन्न् एव स्थगित-कण्ठतया मधुकण्ठस् तूष्णीकाम् एव पुष्णाति स्म । स्निग्धकण्ठ एव सम्पानम् आह स्म—
अकुण्ठाम् उत्कण्ठां कुरु-भुवि गतिं वः कलयतां स्मरन्ती मद्-बुद्धिर् विकलतरतां या वलयते । इमं सा पश्यन्ती व्रज-नृप तवात्र व्रज-भुवि स्थितस्याङ्के कृष्णं प्रमदम् अधुना माद्यति चिरम् ॥५॥
[१०] तद् एवं दिन-कथा समाप्ता । अथागामिन्यां यामिन्यां श्री-राधा-माधव-सदसि च स्निग्धकण्ठ-कृत-यथावत्-कथा । यथा—तत्र पतत्रि-पति-पत्रः प्रगुप्ताक्षर-पात्रं पत्रम् एकं प्रेयसीः प्रति प्रस्थापयामास । यथा—
यद्यप्य् आत्मैक-वेद्या मम लसति मुहुः सङ्गतिर् युष्मकाभिः स्फूर्ति-भ्रान्त्या प्रतीतिस् तद् अपि किल न वस् तत्र हा धिङ् ममापि । यद् द्विष्ट-द्वेष्टृ-तर्क-ग्रहण-मिषतयास्माकम् अन्योन्य-सङ्गः सम्भाव्यस् तत्-प्रियाल्यः कुरु-भुवि सकृद् अप्य् अस्तु स प्राणनाय ॥६॥
[११] अथ यदा व्रजेश्वरी-प्रभृतयश् च सर्वाश् चलितुम् उद्यतास् तदा वृन्दावनेश्वरी-प्रधानाश् च तथावधारयन्ति स्म ।
[१२] तत्राथ ये तत्-तद्-भर्त्राभासादयः प्रतिबन्धं प्राग्-अनुबबन्धुस् ते च कृष्णाय तृष्णाभाजां तासाम् असुनिरसन-व्यसनम् आलोच्य, सर्वेषाम् अपि तद्-एक-भावतां विलोच्य, स्वेषाम् अपि तद्-अवेक्षणायाम् अक्षमताम् अवलोच्य, तस्मिन्न् उदासते स्म । स्वयं तु पृथक्-प्रस्थानम् इच्छवोऽपि श्री-कृष्ण-रहः-सन्देश-सदेश-रूपतयान्तरङ्ग-तन्-मित्र-जनैर् व्रज-निर्जनता-दोष-वर्जन-मिषाद् व्रज-राजाज्ञाम् उपार्जयद्भिस् ते कतिचिच् चान्ये स्व-सङ्गतिं प्रति सौहृद्य-हृद्यता व्यञ्जनया सञ्जयामासिरे ।
[१३] अथ स्वभावत एव तासु निगूढ-स्नेहातिशयावरणा, विशेषतस् तु स्वसुतं प्रति सम्प्रति निरुपाधि-महा-प्रीति-कृत-विरह-व्याधिं वितर्क्य विधूत-तद्-आवरणाः श्री-व्रजेश्वरी-चरणास् तु स्व-सङ्गत्यागमनाय श्री-राधा-प्रधानाः प्रत्यासन्नाश् चक्रुः।
[१४] तद् एवं स्थिते कुरुक्षेत्र-यात्रानुक्रमस् तु प्रातः प्रस्तोष्यते ।
[१५] अथ कथकः समापनम् आह स्म—
यद्-अर्थं प्राणानां सततम् अभितः शोषणम् अधुर् यद्-अर्थं क्षीणाङ्ग्योऽप्य् अहह कुरु-भूमीम् अभिययुः । भवत्यस् तं कान्तं वृष-रवि-सुते स्वालयम् अनु प्रसज्य स्वं शश्वत् प्रमद-मधु-मत्तं विदधति ॥७॥
[१६] तद् एवं कथित-कथयोः कथकयोः सर्वेण सह प्राप्त-निज-पथयोः श्री-राधा-माधवौ तु निर्बाध-सुख-स्फुरण-स्फुरद्-उद्धवौ मण्डपं मण्डयामासतुः ।
[१७] अथ विगत-सर्व-शल्ये कल्ये पुनः श्री-व्रजराज-सदसि श्री-कृष्ण-कृत-महसि गद्गद-कण्ठतया मधुकण्ठ उवाच—
अथ हरिम् अवलोकितुं चिराय स्फुरद्-उरसां व्रज-वासिनां जनानाम् । नयन-सलिल-सिक्त-रोमम् अस्याङ्कुर-महसा निखलाक्षितोष-दानाम् ॥८॥ मुहुर् अपि रद-शब्द-कारि-कम्प- स्थपुटित-वर्ण-विभाग-संस्कृतीनाम् । विविध-विध-विचिन्तनाभिघात- स्फुरद्-उरुधाकृति-वर्ण-भावितानाम् ॥९॥ प्रतिपद-रचितात्म-तत्त्व-साक्षात्- कृति-जनवद्-बहिर् आत्त-चेष्टितानाम् । मनसि तु सतत-स्फुरत्-तद्-एक- प्रमद-मृषा-मत-सर्व-वैभवानाम् ॥१०॥ अशन-शयन-विस्मृति-प्रपत्त्य्- आकृश-वपुषाम् अकृश-स्वभाव-भाजाम् । अलम् अपरिचितैर् जनैर् अपि स्वं परिहृतवद्भिर् उररीकृतान्वितीनाम् ॥११॥ कथम् अपि कुरु-भूमिम् आगतानां सपदि निशम्य सदेशतां मुरारिः । सुख-शत-भर-भार-पारवश्यान् न चलितुम् आशु शशाक साकम् अङ्गैः ॥१२॥ (पञ्चभिः कुलकम्) कृष्णस्य सौरभ्य-भरेण पुष्टिं तथा विकृष्टिं गमिता व्रजेशाः । नेदिष्ट-देशे विविशुर् यद्-अन्तर् विराजते राज-गणैः स कृष्णः ॥१३॥
[१८] तदा च हरि-हलिनौ कर्णाभ्यर्णतया तस्य वर्णितस्य कलनाद् भावान्तर-वलिनौ भक्ति-प्रसज्यमान-मनस्तया स-द्रवम् उपविव्रजिषन्ताव् अपि सहसा न चेलतुः । किन्तु राज-व्रजं निज-निज-शिविराय विहित-व्याजं विससृजतुः । शात्रवा ममात्र तैः सत्रा मा मैत्रीं ज्ञासिषुर् इति तान् व्रज-राजादीन् उद्धव-द्वारा सम्भवन् निभृत-सम्भवन-देशे स्तम्भयामासतुः ।
[१९] जाते बहिर्जन-वर्जने तु स्वजनेन सह स्वयम् उपव्रजन्तौ दूराद् एव व्रज-राज-पद-राजीव-समर्याद-मर्यादम् अखण्ड-दण्डवत्-प्रणिपातम् आततवन्तौ । यथायथम् उपनन्दादीन् अपि प्रणतवन्तौ । व्रजराजश् च कम्प-सम्पत्-सम्पतद्-अश्रु-पुलकाकुलतया स्वान्तर्-व्यकुलतया च युगपद् एव युगलं तदालिङ्गंश् चापल-युगलं स-गद्गद-मन्दं चक्रन्द ।
[२०] राम-कृष्णौ च यद्यपि तद्-आलिङ्गनाय सतृष्णौ, तथापि सर्वैः सङ्गमनाय तस्य साङ्गताम् अङ्गीकुर्वन्तौ पुनश् च रण-पातम् एवाततवन्तौ ।
[२१] अथ व्रज-राजस् तयोर् नमस्कार-श्रम-प्रशमनाय यद्यपि निवारण-कामस् तथापि भाव-वैवश्य-वशस् तत्र स्वकरयोर् अवश्यताम् अध्यवस्यन्न् इतस् ततः पश्यति स्म । पश्यंश् च तद् इदं वदतः श्री-वसुदेवादीन् अपश्यत्—आयुष्मन्तौ त एते सङ्कोचं रोचते ।
[२२] ततः स्वयम् अवधाय विश्रम-सुखम् उपधाय कुशल-प्रश्नः प्रस्तूयताम् इति । ततश् च राम-कृष्णयोः साञ्जलि-बन्ध-स्थित्-सन्धयोर् आलिङ्गनादिना व्रजेन्द्रम् अनुविन्दमानः स्वयम् आनकदुन्दुभिस् तेन तं तं सतत-वाञ्छित-तदीय-सङ्गं मुनि-सङ्घ-वर्यं प्रद्युम्नादि-पर्यन्तं सर्वं जनं सङ्गमयामास । स एव च तं देवम् इव निज-निवेश-वेश्मानीय कृष्ण-रामादि-कृतानुसारः स-परिवारम् आराधयामास ।
[२३] तद् एवं स्थिते पट्ट-पट-संवृतं सङ्गायातृ-कतिपयातृ-मुख-महिलावलित-व्रजेश्वरी-शकटम् अन्तः-पट-गृहं प्रविष्टम् आकर्ण्य तद् दिष्टत एव तव तत्र तौ प्रविष्टवन्तौ । प्रविश्य चात्मानौ पश्यन्तीम् एनां पश्यतः स्म ।
[२४] तत्र सा, यथा—
यस्य प्राग्-विरहोष्ण-रश्मि-खरताशीर्णाङ्ग-पर्णावलिः पश्चाद् उत्कलिका-मरुद्-वलनया क्षिप्ता विदूरे पथि । तं पुत्राकृति-वारि-वाह-समयं सम्भूय गोपेश्वरी वल्लीवाशु पुनः स्वमूल-विसृतेर् लोभाद् अगाद् आर्द्रताम् ॥१४॥ तां शुष्क-देहाम् अथ वीक्ष्य देवकी सन्तर्पणायाम् अभजद् विहस्तताम् । कृष्णेक्षणाद् एव तु पुष्ट-मूर्तिकां दृष्टान्तर्विन्दत् पुनरुक्त-यत्नताम् ॥१५॥ माता द्राग् अथ सह सीरिणा समीक्ष्य स्वं पुत्रं कुरु-भुवि तद्-वियोग-दूना । उत्थानं रचयति यावद् एष तावद् विद्रुत्य न्यपतद् उपाङ्घ्रि तेन तस्याः ॥१६॥ सा कृत्वा भुवि जानुनी स्व-तनयाव् उन्नम्य नम्रौ तयोर् मूर्धानाव् उद्रसोपगुह्य नयनासारं तथामुञ्चत । देवक्यादिभिर् एवम् औह्यत् तथा सेयं कृशाङ्गी कुतः प्रादुर्भूतवती नदी जगद् इव व्याप्तुं मुहुर् वर्धते ॥१७॥ कृष्णस् तत्-पद-पद्मयोर् अथ पतन् रामेण सार्धं रुदन् बाढं रोदयति स्म सर्व-जनतां वर्षन्न् इव स्वां दशाम् । एवं सत्य् अपि गोपराज-महिला तत्रातिशङ्काकुला तद्-दुःखान्तरता-वितर्क-वशगा सा श्ष्क-बाष्पाभवत् ॥१८॥ ततश् च शुष्यद्-वदनां विलोक्य तां विलोकयन्ताव् अभितः सहोदरौ । मातॄर् मिलन्ताव् अपरास् तया सहा- गताश् च ताव् आर्द्रयताम् अमूं पुनः ॥१९॥ अथ कथम् अपि धैर्यं रोहिणी-वर्य-रामास् तनुज-जनि-जननीनाम् अर्जयित्वा क्रमेण । अभिनव-रुचि-शुभ्रे राङ्कवे सन्निवेशं सपदि विदधुर् आसाम् आत्मनोपाविशंश् च ॥२०॥ या आसन् मातृ-मानिन्यः कंसारेर् देवकी-मुखाः । यशोदाग्रे तु ताः सर्वास् तटास्थन्ति स्म साम्प्रतम् ॥२१॥ देवकी-प्रभृति-मातृता हरौ गोष्ठ-मातृ-पुरतो वृथाजनि । वार्षिकी यदि भवेद् घनावली सेक-पालिभिर् अलं कृषि-व्रजे ॥२२॥ जिघ्रन्ती शिरसी तयोः सुरभिणी बाष्पेण चासिञ्चती मार्जन्ती वदने दृग्-अम्बु-वलिते यत्नेन पश्यन्त्य् अपि । कल्पं चाल्पम् इयं तु मंस्यत इति ज्ञात्वा तदा रोहिणी देवक्या सह निर्भरादरतया वष्टि स्म ताम् अञ्चितुम् ॥२३॥ रुक्मिण्यादिवधूभिर् अञ्चितुम् अमूं पर्यागताभिर् यदा सार्धं देवक-देहजा-प्रभृतयस् तद्-विष्वग् आरिप्सत । तर्ह्य् एतौ बहिर् आगतौ हरि-बलौ गोपान् अशेषांस् तथा- तिथ्येनार्चितुम् अत्र तत्र बहुधा बम्भ्र्माञ्चक्रतुः ॥२४॥ स नासीद् गोष्ठजो लोकस् तद्-आतिथ्यं न विद्यते । यं यद् अप्य् अजितस् तत्र नान्वगच्छद् व्यधत्त न ॥२५॥ आस्तां तावद् व्रज-परिषदां सज्जनानां प्रसङ्गस् तत्रत्यानां जरद्-अनडुहाम् अप्य् असौ केन वर्ण्यः । लम्भं लम्भं कुरु-भुवि तदा यान-शेषान् समन्तात् कृष्णः श्लिष्यन् नयन-सलिलैः सिक्त-मूर्तींश् चकार ॥२६॥
[२५] तद् एवं स्थिते स्व-स्थिते च सर्व-व्रज-जने पुनर् व्रजेश्वरीं परिष्वज्य रज्यमान-मनस्तया श्री-रोहिणी-देवक्याव् ऊचतुः । तत्र श्री-रोहिणी-वचनं, यथा—अयि व्रजेश्वर्यावयोर् एकापि कान् उज्झित-प्रेम-सम्पत्त्योर् दम्पत्योर् वां मैत्रीम् ऐन्द्र-सम्पद्-अनुगमे सम्प्रत्य् अपि नानुसन्दधीत ? यस्याः प्रत्युपकार-कोटयोऽपि न सम-कोटयो भवन्ति इति ।
[२६] अथ सरलया देवक्या वचनं, यथा—यतः स्व-जन्मत एव चिरम् अपरिचित-पितृकाव् इमौ धर्मान् मातर-पितरतां प्रपद्य पक्ष्म-वलयाभ्याम् अक्षि-गोलकाव् इव युवाभ्यां पालितौ नाद्यापि तादृशान् मनसश् चालितौ । तत्र च पर-पुत्रतया निश्चितेऽपि रामे न वामम् आचरितम् । न हि सतां परस्व-व्यवहार-परता सम्भवति इति ।
[२७] अत्र स्निग्धकण्ठ उवाच—अत्र किं विचारितं ? व्रजेश्वर्या किं वा बाढम् उत्तरितं ?
[२८] मधुकण्ठ उवाच—न किम् अपि ।
[२९] स्निग्धकण्ठ उवाच—कस्माद् इव ?
[३०] मधुकण्ठ उवाच—सा खलु चिर-तृष्णया कृष्णम् उपलभ्य सुख-स्तभ्यमान-सर्व-वृत्तिस् तत् कथम् अन्यद् अनुसन्दधीत, येन विचारादिकं सन्दधीत ?
[३१] स्निग्धकण्ठ उवाच—पुनर् अप्य् एतादृश-प्रसङ्गः सङ्गतिम् अवाप्नोति स्म, न वा ?
[३२] मधुकण्ठ उवाच—नहि नहि । यतो रोहिणी हि तत्-प्रतिरोधिनी बभूव । तत् तद् अप्य् आस्ताम् । यतः—
यस्य स्वानुभवः सदा न वलते यस्मिन् स तत्र स्फुटं शृण्वन्न् अन्य-वचः-प्रचारम् अपरं सन्दिह्य विक्षुभ्यति । श्री-गोपाधिप-दम्पती कथम् अमू स्वत्रापि कृष्णेऽपि तान् भावानां वलयान् अधीत्य बलवद्-भावान्तरं गच्छताम् ॥२७॥
[३३] सम्प्रति तु पश्य पश्य—
हरिम् अनु पितृताभिमानः, शूरज-देवक-तनूजयोर् यः प्राक् । अमूम् उत्क्रमयन् स पुनर्, व्रज-नरपत्योर् मुदं दुग्धे ॥२८॥
[३४] इति व्रज-राज-सभायां कथयित्वा रहसि राधा-माधव-सदसि मधुकण्ठ उवाच—तद् एवं परस्पर-प्रेम-सम्मर्द-शतेन तस्मिन् दिवसे गते श्री-व्रजेश्वरादि-व्रज-जने कृत-निज-निज-वास-सज्जने, निद्रया सर्वत्र निर्जने च जन्यमाने स खलु जनार्दनः स्व-प्रेयसी-जनानां लब्ध-सुख-सद्-उद्धव-हलभृद्-उद्धव-रचितम् उचितम् एकान्तावासम् आससाद ।
[३५] तत्र तासां तत्रावस्थितिर् यथा—
तीव्रं मिमीलुर् अभितः पुनर् उन्मिमीलुर् उच्चैर् मुमूर्च्छुर् अतिचेलुर् अथास्रं ऊहुः । याताः कुरोर् भुवि हरिं दृशि लब्धुम् उत्का हा मेनिरे व्रज-रमाः क्षणम् अत्र कल्पम् ॥२९॥
[३६] तस्य तु समासत्तिर्, यथा—
उद्धवं विनिदधन् निजाग्रतो मन्द-मन्दम् उदयन् घनागमः । गोपिका-निचिति-चातकावलीम् अन्वजीवयद् असौ मुरान्तकः ॥३०॥
तत्र च—
कृशा मलिनिमस्तृताः प्रतन-जीर्ण-वस्त्रावृता विकीर्ण-कचकाचिताकृति-मुखीः स पश्यन्न् अमूः । विघूर्ण्य दधद्-उद्धवं क्षण-शतं धृतास्रस् तदा कदाहम् इह कः कथं किम् इदम् इत्य् अजानन् नहि ॥३१॥
[३७] अथ दीर्घ-रात्रेण तस्य गात्रे तासां नेत्र-पात्रे सति किम् इव विवरणीयं ? यतः—
चातुरक्ष्यम् अभवद् यदा हरेर् गोपिकाभिर् अभितस् तदा द्रुतम् । चित्तम् अक्षि-युगम् अप्य् अमूदृशां हन्त हन्त जडवद् व्यजायत ॥३२॥ यस्यालोके निमिम् अपि निमेषाधिकारीति शेपुस् तावन्-मात्रं विरहम् अनु या वीथयो गोपिकानाम् । तास् तं वीक्ष्य प्रचुर-विरह-ज्वालया लब्ध-तृष्णा याम् आसेदुः प्रमद-विकृतिं वक्तुम् ईशीति कस् ताम् ॥३३॥ उत्कण्ठाभिः सपदि शकटारोहणे प्राप मोहं राधा यद्वत् कुरु-भुवि तथावस्थम् एषा विवेश । किन्तु श्रीमान् जयति सुरभिः श्री-हरेर् यः पराभिर् गोप-स्त्रीभिः समम अरचयत् ताम् अमुं वीक्ष्यमाणाम् ॥३४॥ स्तम्भः स्वेदः पुलक-वलना गद्गदं कम्प-सम्पद् वैवर्ण्य-श्री-नयन-सलिलं सर्व-बुद्धि-प्रमोषः । एते भावा व्यक्तिमिलनजा राधिका-कृष्णयोर् ये ते सर्वासाम् अपि सवयसां व्यापकाः सम्बभूवुः ॥३५॥
[३८] अथ लब्ध-दुःख-सम्पद्-उद्भवः कथम् अप्य् उद्धवश् चिराद् उभयत्र च तत्र सान्त्वया प्रणयाद् विनयाद् अपि परस्परम् अभिमुखतया समुपवेशम् आनिनाय ।
[३९] ततश् च तासु कृष्णस्य चरण-मात्रं तृष्णया क्षोभाविल-गात्रं पश्यन्तीषु बहिर् निर्गच्छद्-अन्तर्-बाष्पतया कान्ति-वलनाद् भ्रश्यन्तीषु च स तु करुणामयः, कथञ्चिन् मार्जित-बाष्प-तार्जित-समयः शनैः सनैपुण्यम् अमूः प्रसादयामास, यथा—
हरिर् आलिङ्गंश् चुम्बन्न्, अश्रु विलुम्पन् शिवं पृच्छन् । व्रज-सरसीरुह-नेत्राः कुरु-भुवि विजने ससान्त्वम् अस्तौषीत् ॥३६॥
तच् च, यथा—
कान्ताः कान्त-प्रथम-विरहाद् एव तान्ता नितान्तं देहस्यान्तं बत वितनुते तत् तु नात्यन्त-चित्रम् । नैरन्तर्यान् मद्-अतिवियुतेः क्लान्तवन्तं पतन्तं तं रक्षन्तीर् मद्-अनुगतये सन्ततं हन्त नौमि ॥३७॥ इति ।
[४०] अथ कथं केवलम् आत्म-दृष्ट्या कष्टं लम्भमानाः स्थ, मां कथं न पश्यथ इति वदन् पुनर् वदति स्म—
सर्वे वदन्तु मम रूपम् इदं पुरावत् तत्-तद्-गुणैर् विलसतीति तु मन्द-दृष्ट्या । दिष्ट्या विलोकयथ मां व्रज-चारु-नेत्रा रासादि-केलि-कलिता रुचिर् अत्र कुत्र ॥३८॥
[४१] अथ युगपन् नेत्र-युगल-शतं किञ्चिद् उन्नतं विधाय यथावद् एव तथा तम् अवलोकमाना विस्मृतात्म-दुःखिताभिमानाः परम-दूयमाना बभूवुः । ततः स च भृशम् एवान्यादृशतां सचमानस् तल्-लघूकरणाय लघु हसित्वा किञ्चिद् उवाच, यथा तद् एवानूक्तं श्री-शुकेन—
अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया । गतांश् चिरायिताञ् छत्रु- पक्ष-क्षपण-चेतसः ॥ अप्य् अवध्यायथास्मान् स्विद् अकृत-ज्ञाविशङ्कया । नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ वायुर् यथा घनानीकं तृणं तूलं रजांसि च । संयोज्याक्षिपते भूयस् तथा भूतानि भूत-कृत् ॥ मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते । दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥ अहं हि सर्व-भूतानाम् आदिर् अन्तोऽन्तरं बहिः । भौतिकानां यथा खं वार् भूर् वायुर् ज्योतिर् अङ्गनाः ॥ एवं ह्य् एतानि भूतानि भूतेष्व् आत्मात्मना ततः । उभयं मय्य् अथ परे पश्यताभातम् अक्षरे ॥ [भा।पु। १०.८२.४१-४६] इति ।
[४२] तद् एवं स्वस्मिन्न् अनीश्वरत्वाद् व्यवहार-परवशता-करम् ईश्वरान्तर-वशत्वम् ईश्वरत्वाद् भक्त-मात्रं प्रति ब्रह्म-भाव-भावकत्वं तद्-विध-स्निग्धं प्रति तु तद्-अतिक्रमि-स्व-समर्पकत्वं पुनर् ब्रह्मत्वान् नित्य-प्राप्तत्वं सुखैक-रूपत्वम् अपि सचमानं रचयतां स्व-वचसाम् असम्बद्धतां समग्र-व्यग्रतया नाधिजगाम ।
[४३] तत्र दुःसह-विरह-विधुर-भावाद् अपिपश्चिताम् इव तासां काश्चित् तु पप्रच्छुः—हन्त सर्व-कृच्छ्र-विमुक्त ! किम् उक्तम् इदम्, यत् खलु व्यतियुक्तम् इव न लक्ष्यते ।
[४४] अथ तद् अधिगम्य नम्र-मूर्धन्य् उद्धवे श्री-कृष्णस् तु लज्जया तद् एव सज्जयति स्म। तथा हि—अहो सख्यः ! कथम् इव माम् अपि वीक्ष्य म्लान-मुख्यः स्थ ? अथ ब्रूथ—धिग् अस्मान् परित्यज्य त्वया दूरम् अव्रज्यतेति । तत्र किं करवाम ? दुर्हृदां ततिभ्र् या सुहृदां दुर्गतिर् जाता, तस्यां सुहृदां गतितां याताः कथम् इव वयम् उपेक्षां प्रथयामः इति ।
[४५] अथ विलम्बमानताम् अस्माकं विडम्बयथ चेतस्याम् अपि तद् एव दुर्निवारं कारणं, यत एकस्मिन् कंसे लब्ध-ध्वंसेऽपि बहवस् तत्-सम्बन्धिनस् तत्-कर्मानुबन्धिनः सम्पन्नाः । तत्-तद्-ध्वंस-साहाय्याय च मया नाना-व्यवहाराणाम् एषां समाहारः कृतः । तथापि भवद्वद्-अनन्य-वृत्तिता-रहिततया माकृतज्ञता परं प्रतीयत इति चेद् इदं सत्यम्, परन्तु सहज-प्रेम्णा मिथः-प्रसङ्गतानां योग-वियोगौ पुनर् ईश्वर-कृत-योगाव् एव । स्व-वशतायां खलु वियोग एव न स्यात्, कुतस् तत्-पूर्वको योगः ?
[४६] अथ यदि नारायण-समो गुणैः [भा।पु। १०.८.१९] इति गर्ग-वचनानुसारेण नारायणम् एव मां मन्यध्वे, तथापि भवतीभिर् योगः प्रेम्ण एव स्वाधीन इति तं भवतीनां परमः प्रेमोद्रेक-प्रवेकः स एक एव झटिति घटयिष्यति । यतः मयि भक्तिर् हि [भा।पु। १०.८२.४४] इति । तद् इत्थम् अपि भवतीनां बहिर् दृष्टिम् एवावष्टभ्य समाधीयते । अन्तर् दृष्ट्या तु भवतीभिः सह नित्य-संयुक्त एवेत्य् एतद् अपि मयि भक्तिर् हि इत्य् आदि स्व-प्रतिज्ञाम् अनुल्लङ्घ्य द्वयेनापरेण विव्रियते । यस्माद् अहम् इत्य् अहङ्काराख्यं तत्त्वं सर्व-भूतानाम् आकाशादीनां यथाद्य्-अन्तादि-स्थं भौतिकानां च षाद्जादि-नाम-वेणु-रन्ध्रादीनां यथाकाशादीन्य् आद्य्-अन्त-स्थादि-रूपाणि, एवं ह्य् एतानि भूतानि प्राणिनो जीवा भूतेषु स्व-स्व-देहेषु तादृशानि । एवम् एव चात्मना परमात्मना आत्मा जीवस् ततो व्याप्तः । एवम् इति परेणान्वयः । परत्र च पश्यतेत्य् अनेन तासाम् अवधान-विषय-भाग एव पर्यवसीयत इति स्वीय-पदम् अध्याहार्यम् । ततश् च यथा-पूर्वम् उक्तम् एवम् एव । तद् उभय-विधं व्यापक-व्याप्य-रूपं सर्वं स्वीयं मयि परे परत्र स्थितेऽपि अक्षरे परस्पर-स्फूर्ति-प्रामाण्येन नित्य-युष्मत्-सङ्गिनि आभातम्, मद्-आश्रयतया विराजमानं, न तु प्राकृतानां तत् तद्वल् लीनं पश्यत । सर्वदानुभूतं स्मरतेति ।
[४७] तद् एवम् आत्मानम् अधिकृत्य या शिक्षा तया, तेन शिक्षिता गोप-सीमन्तिन्यः पूर्व-तद्-विरहजानुस्मरण-विकलित-जीवनाधाराः सम्प्रति पुनर् अन्तर्-बहिस्-तर्पकं तं मयीति स्वयं निर्दिष्टं श्री-कृष्ण-लक्षणं नित्य-संयोगिनम् एवाधिगतवत्यः । हन्त हन्त ! तद्-अन्तरा तासां तद् अपि सान्तरायं बभूव । अत्र तद् इदम् अपि ता ग्लपिता मयि भक्तिर् हि इत्य् आदिना स्व-प्रभाव-मयेन पुनस् तेन तर्पिता बाष्प-स्नपिताश् चिरेण ययाचिरे—
वृणीमहि पदाम्बुजं तव सरोज-नाभ प्रभो मनस्य् अपि कथञ्चन स्फुरतु नः समन्ताद् इति । इदं हि बत योगिनां स्मृततया तमश् च्यावनं वियोगि-सुदृशां तया तमसि मज्जनं प्रत्युत ॥३९॥
[४८] एतद् एव भवताप्य् उद्धवं प्रति स्वयम् उक्तम्—
मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः । स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥ [भा।पु। १०.४६.५]
[४९] यस्मात् मय्य् आवेश्य मनः कृष्णे [भा।पु। १०.४७.३६] इत्य् आदिकया तव शिक्षयापि तद् अस्माकं न सिध्यति, गृह-जनाधीनतया स्वच्छन्दम् आगमनं च न सम्भवति, तस्माद् अस्य त्वत्-पदाम्बुज-युगलस्य नित्यं व्रजम् अध्यासीनस्य दर्शनम् एवास्मभ्यं सुख-स्पर्शनम् इति ध्वनितम् । तद् एतद् अभिप्रायकं श्री-बादरायणि-वचनं—आहुश् च ते नलिन-नाभ [भा।पु। १०.८२.४८] इति ।
[५०] अथ विरह-वशता-वशात् पुनर् मूर्च्छाम् ऋच्छन्ति स्म । यत्र मुहूर्त-द्वयम् एव पूर्तये बभूव । तद् अनु श्री-कृष्णश् च धृत-कष्टस् तद् इदम् आचष्ट—अहो सर्वत्र सञ्चरित-चरित-शुद्धयस् तृष्णया विचार-व्यभिचार-चरिष्णु-बुद्धयः किं सम्प्रत्य् एव यूस्मान् प्रत्य् एवम् उक्तं विस्मृतं ?
[५१] ताः स-गद्गदं ऊचुः—एवम् इति किं ?
[५२] स उवाच—मयि भक्तिर् हि इत्य् आदि ।
[५३] ता ऊचुः—सत्यम् उक्तम् । किन्तु विरह-शस्त्रिकया छिद्रिते हृदि न किञ्चिद् आधेयताम् अधियाति । तस्माद् वृणीमहीत्य् आदिना यद् अस्माभिर् व्यञ्जितम् । तद् एवास्मभ्यं देहि । इति ।
[५४] अथ स्निग्धकण्ठ उवाच—ततस् तासां प्राणनाथः स तु किं व्यवसितवान् ?
[५५] मधुकण्ठ उवाच—यद् आह श्री-बादरायणिः—
तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः । युधिष्ठिरम् अथापृच्छत् सर्वांश् च सुहृदोऽव्ययम् ॥ [भा।पु। १०.८३.१]
[५६] तस्य रजनी-विशेषस्य शेषम् आरभ्य तु रजनी-वृत्तं दिग्-दर्शनतया परामृश्यते । तद् एवं तादृश-प्रार्थनानुसारि समनुगृह्य मुहुर् आगृह्य श्री-राधिकादिकाः प्रत्येकं रिङ्गद्-अस्रम् आलिङ्गन् सङ्गिनम् उद्धवम् आज्ञापयन् माधवः स्नानालङ्करणानि समानाय्य ता सम्मानयामास । प्रच्छन्नम् उवास च तां रजनीं तत्र ।
[५७] तासु लोक-धर्म-विलङ्घि-चरितासु निरोध-निर्बन्ध-कृतां सम्बन्ध-विशेष-भृताम् अनागमनाद् अगोचरतया स्वस्य च रहस्य-गमनात् परेषाम् अतर्किततया तदासीद् इति, तथापि ताः प्रथम-रजन्यां तु विरह-स्मरणानन्याम् एव वृत्तिम् आसेदुर् न तु सुख-विलास-धन्याम् । क्रमाद् एव तु दुःखातिक्रमाद् अपरस्याम् अपरस्यां रात्राव् एव चिर-रात्राय रति-पात्रायमाणा बभूवुः । यथा—
प्रति-गोपि प्रति-रजनि, प्रति-मुहुर् उद्यन्-मनोरथ-प्रथनम् । कुरु-भुवि निशीथ-वीथिषु, रहसि विहारं हरिर् विदधे ॥४०॥
किन्तु,
यद्यपि वृन्दा-विपिनाद् अन्यत्रासाव् अमूभिर् अक्रीडत् । तद् अपि विना तन् मेने, ताभिस् तेन च तद् अप्य् अदः स्वप्नः ॥४१॥ यद् अपि व्रज-कुल-महिला, हरिर् अपि शश्वत् परस्परं भेजुः । तद् अपि न तृप्तिर् जज्ञे, हृदि यद्-विरहौ गतागमिनौ ॥४२॥
तत्र च—
यद्यपि हरिणा गुप्ता, गुप्ताः स्वेनापि कौरवे क्षेत्रे । तद् अपि च कुलपति-महिला-महिता जाता गुणेन गोपाल्यः ॥४३॥
[५८] तत्र श्रीमन्-महिषीणां श्री-राधाम् उद्दिश्य व्रज-स्त्रियो यद् वाञ्छन्ति [भा।पु। १०.८३.४३] इत्य् अत्र कृत-शंसनं प्रशंसनम् । यथा—
इच्छामो न वयं तु विष्णु-पदम् अप्य् अन्यस्य का वा कथा किन्त्व् एतस्य गदाग्रजस्य पदयोर् धर्तृं रजो मूर्धनि । राधा-हृद्-घुसृणं यतस् तृणम् इदं पश्चात् पुलिन्दी-धृतं गोपीभिः स्पृहितं ययोः स सुरभिश् चेतो हरत्य् अद्य च ॥४४॥ इति ।
[५९] इयम् एव व्रज-देवीभिः सर्वोर्ध्वं श्लाघिता—पूर्णाः पुलिन्द्य [भा।पु। १०.२१.१७] इत्य् आदिना । अनयाराधितो नूनं [भा।पु। १०.३०.२८] इत्य् आदिना च । मुनिभिस् तु नाम्नापि व्यक्तीकृता—राधा वृन्दावने वने इत्य् आदिना ।
[६०] स्निग्धकण्ठ उवाच—तथानुगृह्य भगवान् इत्य् अस्मिन् सर्व-सुख-रचने बादरायणि-वचने युधिष्ठिरम् अथापृच्छत् इति न सम्यग् अवगम्यते स्म । ततो देश-काल-निमित्तानां समावेशः प्रतत्य कथ्यताम् ।
[६१] मधुकण्ठ उवाच—तासां वासः खलु श्री-रामावरजस्य स्नानादि-कर्म-शर्मदं यद् एकान्त-हर्म्यं तद्-अनुषङ्गं भजन्न् उद्धव-धाम्नः संसक्ततया बहिर् अव्यक्त आसीत् । तत्र सति परमादृतानाम् अपि युधिष्ठिरादीनां तस्याम् एव रात्रौ कुरुक्षेत्रम् आगतानाम् ऐ तद्-आवेश-वेशेन श्री-केशवेन मिलनायोगात् प्रातर् आगत्य सभासद्मन्य् उपविश्य स्थितानां प्रातर् अपि विलम्बत एव स्नानाद्य् आचर्य तेन मिलता कुशल-प्रश्नो जातः । इति ।
[६२] तद् एवं सङ्क्षेपेणानुवर्ण्य श्री-राधिका-मुख-विधुं निर्वर्ण्य मधुकण्ठः समापनं वर्णयति स्म—
कुरु-भुवि तव राधे वर्णयन् शर्म-जातं व्यवहितम् अपि दिष्टेनास्मि शर्मावृतात्मा । किम् उत भृशम् इदानीम् आमृशन् वां मिथः श्री- परिमल-कुल-भोगं चक्षुषोर् युग्मकेन ॥४५॥
[६३] तद् एवम् आनन्द-पर्यन्तम् उदन्तं कुर्वन् पूर्व-पूर्ववत् कथकः स्वानुज-सहितः सर्व-संहितः स्व-धाम जगाम । श्री-राधा-माधवाव् अपि विहार-धाम कामयामासतुर् इति ।
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
पुरु-सुख-क्षेत्र-कुरुक्षेत्र-यात्रा
नाम त्रयोविंशं पूरणम्
॥२३॥
(२४)
चतुर्विंशं पूरणं
पुनर् व्रज-वासि-व्रज-व्रजनम्
[१] अथ व्रज-युवराज-विराजमान-सदसि प्रातः-कथायां स्निग्धकण्ठस् तद् इदं प्रथयञ्चकार—लोकानां कुरुक्षेत्र-यात्रा-समृद्धिस् तु न वर्णन-पात्राय कल्पते । ततश् च,
कुरुक्षेत्रान्तस् तैर् ग्रहणम् अनु यात्राम् अनुगतैर्
गता या या चेष्टा बहु-निज-निजेष्टाः कति च ताः ।
मया वर्ण्याः किन्तु स्मृति-विषयम् एकां कुरुत या
हरेर् वक्त्र-द्योतामृत-रसिकता सर्व-वितता ॥१॥
[२] तथापि सर्वतः समुपचितं यद् अस्मभ्यं रुचितम्, तद् एव किञ्चिद् वर्ण्यते—
कुरुक्षेत्रे सूर्य-प्रशम-तमसि व्यक्त-तमसि
व्रजाल् लब्धः कृष्णं व्रज-नरपतिः स-व्रज-जनह् ।
वितर्तुं तं रत्न-प्रचयम् अचकर्सन् निज-पदाद्
यद् आलोकाद् अन्योऽप्य् अखिल-निज-कर्म व्यतनुत ॥२॥
धर्मं केचित् केचिद् अर्थं निकामं
कामं केचिन् मोक्षम् अप्य् अत्र केचित् ।
केचित् कृष्णे भक्तिम् एते तु गोपास्
तस्मिन् भव्यं हव्य-कव्येषु दध्युः ॥३॥
[३] अथ लब्ध-शर्मणि ग्रहण-पर्वण्य् अपि पूर्णे दिवि भुवि च विराजमानाकृतीन् प्रजापति-प्रभ्र्तीन् निज-गुण-स्थेम्ना पूरयन्न् आत्मना तु व्रज-जन-प्रेम्णा पूर्यमाणः स यदा हरिर् विराजते स्म, तदा तद्-आनन्दानुभवाय ब्रह्म-नन्दनादयः सर्व एव मुनयः समागताः ।
[४] समागत्य च—
न केवलं तस्य तथा समुन्नतिं
निरीक्ष्य चित्रं मुनयस् तदा ययुः ।
विनम्रतां स्वेषु च ये परस्परं
विरुद्ध-भावे अपि जग्मतू रुचिम् ॥४॥
[५] ते तद् इदं ऊचुश् च । तत्र श्री-भागवतीयं पद्यं यथा─
अद्य नो जन्म-साफल्यं विद्यायास् तपसो दृशः । त्वया सङ्गम्य सद्-गत्या यद् अन्तः श्रेयसां परः ॥ [भा। १०.८४.२१] इति ।
[६] एतद् अनुसृतम् अन्यदीयम् अपि यथा─
यद् अपि वयं प्रतिकल्पं
नाना-रूपं तवाद् राक्षा ।
नव-नवम् इव तद् अपीदं
घटयति पुरुषार्थ-जात-सारं नः ॥५॥
किञ्च,
अपरो द्वापरान्तः स्याद् द्वापरान्ताय न क्वचित् ।
सोऽयं तु चकॢपे तस्मै यत्र त्वं नेत्र-गोचरः ॥६॥ इति ।
[७] मनसि चेदं विचारितवन्तः—
यद्यपि यदवः सन्तत-सङ्गाः
केचिच् च मर्मगा विष्णोः ।
विधि-वाञ्छित-पद-रजसस्
त्व् एते गोपा गिरां दूरे ॥७॥
[८] तद् एवं विदिवद्-गोपानुगमि तनु-गमितम् एव मनसिकृत्य गमन-याचनाम् अनुसृत्य चलितवत्सु मुनि-सत्सु श्रीमान् वसुदेवः स्व-वसु-साफल्य-कामनया तान् इदं निवेदयाञ्चकार । कर्मणा कर्म-निर्हारो यथा स्यात् तथा यथावद् उपदिशतेति । अत्र व्रज-भक्ति-तर्षी श्रि-देवर्षिस् तु चेतसि विविवेच—नायं नन्दवच् छुद्ध-पित्र्-भावमय-स्नेहतया बुद्धः, येन ननद एव नन्दः किम् अकरोद् ब्रह्मन् [भा।पु। १०.८.४६] इत्य् आदिना सर्वतः स्तूयते, सोऽयं तु न तथा प्रस्तूयते, किन्तु भगवत्त्व-ज्ञानेन सहित इत्य् एवं महितः । तेनानेनास्य जन्मत एव हि विदितोऽसि भवान् [भा।पु। १०.३.१३] इत्य् आदिना तत्त्व-बोध एव संहितह्; पितृभावस् तु तेन पिहितः । तस्माद् विद्यमानेऽपि कृष्णे तम् इमम् अर्भकान्तरवद् अज्ञं मत्वा कर्म-निर्हार-मात्र-तृष्णेन, न तु नन्दवत् तद्-अभ्युदय-मात्र-तृष्णेनानेन । यद् अस्मासु प्रश्न-विधानं, तन् न शोभा-निधानं भवति इति ।
[९] स्पष्तं चाचष्ट— नातिचित्रम् इदं विप्रा वसुदेवो बुभुत्सया । कृष्णं मत्वार्भकं यन् नः पृच्छति श्रेय आत्मनः ॥ [१०.८४.३०] इत्य् आदि ।
[१०] अथ मुनयस् तस्य सङ्कोचं विलोचमाना रोचनाय तद् इदं ऊचुः—
कर्मणा कर्म-निर्हार एष साधु-निरूपितः । यच् छ्रद्धया यजेद् विष्णुं सर्व-यज्ञेश्वरं मखैः ॥ [१०.८४.३५] इत्य् आदि ।
[११] अथ ते च मुनयस् तेन वृता ऋत्विजः कृतास् तम् अयाजयन् ।
यस्मिन् बर्हिषि याजका विधि-सुता याज्यः स शूरात्म-जः सोऽयं शत्रु-जयी बलेन सहितः पुत्रीभवन् पार्षदः । श्रीमन्-नन्द-महाशयः स्वयम् असौ लभ्दानुमोदः स्थितस् तस्मिन् वैदिक-लौकिकाः सुविधयः स्युः केन वर्ण्या भुवि ? ८ ॥
[१२] किन्तु तस्मिन्न् अपूर्वान्तर-भावना न पूर्व-सुरिभिर् मता; यतः,
द्वि-परार्ध-स्थिराः सर्वं दृस्टवन्तो विधेः सुताः ।
यद् अपूर्वम् अमन्यन्त तद् एवापूर्वम् इष्यते ॥९॥
ततश् च,
कृष्णस्यापि विशिष्य विस्मित-करं कृष्णाख्य-रुपं तथा
वृष्णीनां वलयं तद्-एक-शरणं गोपाञ्च् च तज्-जीवनान् ।
दर्शं दर्शम् अमी यद् अप्य् अपगमं नैच्छंस् तथापि स्वकां
जानन्तोऽनधिकारितां बत तदा वाञ्छन्न् अनुज्ञां ततः ॥१०॥
कृष्णात् प्रियजन-सहिताद्
यद्यपि मुनयो व्रजन्त आसंस्ते ।
तद् अपि च तत्-तच्-छोभा-
स्फुरणात् तत्रैव वासम् आसन्नाः ॥
[१३] अथ स्नेहानुबन्धिनः सर्वान् समबन्धिनः स्व-स्व-मन्दिराय विहाय यदर्थम् एतत् तीर्थ-यात्रां मिष-पात्राय कल्पितवान् अयं गोकुल-पालकस् तान् गोकुल-पति-प्रभृतींस् तत्रैव कृतावस्थानः स्थापयामास । दुग्धं विना तेषाम् अवस्थानं मुग्धं न स्याद् इति गाश् च कश्चन तत्र प्रस्थापयामस । यस्याम् अवस्थितौ पर-पक्स-वज्चनार्थं तत्रस्थ-नाना-तीर्थ-क्रमण-चिरता परस्पर-दूर-शिविरता च तद् उभयेन प्रचारिता । यत्र श्रीमद्-व्रज-वासिनस् तन्-मात्रार्थ-विवेचनतया तत्रागताः सुधा-सत्रायमाणं तम् उपलभ्य नापरत्रान्तश्-चरणं चक्रुः; यत्र व्रज-राण्-मिथुनं पुनः पुनर् अपि विकशित-सुत-शात-तरङ्ग-जातम् अपि सुत-प्रसूत-सुकुमार-कुमार-वारः स्फार-घन-रस-प्रसार-सरम् आसादयामास, सुधा-किरण-करणक-किरण-गण इवाकूपारम् ।
तत्र च─
कुरु-भुवि गता यशोदा
सुत-तनयानन्वलालयद् बहुधा ।
किन्तु श्यामल-बाले
क्वचिद् अपि लेभे चमत्कृतिं प्राग्वत् ॥१२॥
[१४] किन्तु तद् एवं परस्परं पूरणम् अपि परालक्ष्यता-परतया परं तैर् विरचितम् । यत्र तु—
कुरुक्षेत्रे गो-धुग्-गृह-गण-मनोभिर् व्रज-समं
समं रामेणागान् मुहुर् अथ मुहुः केवलतया ।
जनन्यां यत् तेने शिशुर् इव हरिस् तत्र चरितं
सुखं वा दुःखं व तद् इति विमृशन् मुह्यति मनः ॥१३॥
[१५] अथ लब्धावसरः कदापि शूर-तनय-वरः सहानीत-सर्व-परिकरः कर-स्पृष्ट-तत्-करस् तं श्रीमद्-व्रज-राज्य-धरम् उवाच—
भ्रातर् ईशेन रचितं वैचित्र्यं चित्रम् ईक्षते । आत्मारामाश् च योज्यन्ते स्नेहेन गृहिणश् च न ॥१४॥ पश्यापि धीर-धीरस् मत्-स्नेहेन त्वं नियन्त्रितः । अहं स्वार्थ-परोऽपीदं विदंश् चानेन वर्जितः ॥१५॥ तथापि त्वं तु नास्मत्तः क्वचिद् भ्रातर् विरज्यसे । तथापि सोऽहं युष्मासु रज्येय न मनाग् अपि ॥१६॥
दारिद्र्यं पङ्गुता लक्ष्मीरान्ध्यं दृश्येत मादृशाम् । येन पूर्वं यया पश्चान् न त्वादृश्य् उन्मुखी गतिः ॥१७॥ एवं सौहृद-शैथिल्य- चित्त आनकदुन्दुभिः । रुरोद तत्-कृतां मैत्रीं स्मरन्न् अश्रु-विलोचनः ॥१८॥ [भा।पु। १०.८४.६५]
[१६] अथ मधुकण्ठः पप्रच्छ—अत्र व्रजराजः किं व्याजहार ?
[१७] स्निग्धकण्ठ उवाच—न किम् अपि ।
[१८] मधुकण्ठ उवाच—हन्त ! कथम् इव ?
[१९] स्निग्धकण्ठ उवाच—
जहार यस्य पुत्रं तत् स्निग्धतां यः स्मरत्य् अथ । स्निघ्यतस् तत्र पुत्रेच्छोस् तस्य मौनं हि शस्यते ॥३२॥
[२०] मधुकण्ठ उवाच—कथ्यतां तावद् अग्रिमं वृत्तम् ।
[२१] स्निग्धकण्ठ उवाच—अथ व्रजराज-महाशयः सख्युर् वसुदेवसय प्रियकरतयानभिव्यञ्जित-निजाशयः श्री-गोविन्द-रामयोः प्रेम्णा तस्मिन्न् अद्य श्व इव शीघ्रं लब्ध-व्यत्यये मास-त्रये शात्रव-निवारणादि-कार्येषु च हरेर् अपरिहार्येषु स्वयम् एव चिर-गो-व्रज-त्यजन-वर्जन-व्याजम् आसज्य स्व-व्रज-गमनार्थं, न तु कृष्ण-नयनार्थं श्री-वसुदेवम् अर्थयामास । तच् च नाद्धानुवर्तितया किन्तूद्धव-मध्यवर्तितया । साक्सद् अर्थनायां शालीनत लीनताम् आपद्यत इति । श्री-कृष्णस् तु न तादृशतयापि गन्तुं ययाचे । तथा हि─
यस्य प्राग्-विरहात् क्षणं युगतया वेत्ति स्म यं वीक्षितुं
ज्ञात्वानन्यम् उपायम् अव्रजद् अयं क्षेत्रं कुरूणां द्रुतम् ।
तेन प्राण-सुतेन हन्त चिरतः संसज्य गन्तुं गृहं
तत्रानुज्ञापनाय जल्पतु कथं साक्षाद् असाक्षाद् अपि ? २०॥
शुर-जह् स्व-सुतम् एव यं विदन्न्
आश्रितः श्रयति दिव्य-सम्पदम् ।
तं ततः प्रिय-सुहृद्-वरात् कथं
याचतां स सुतम् उत्क-धीर् अपि ? २१॥
[२२] अतस् तादृश-तद्-व्यवहारतः श्री-वसुदेव एव केवलं स्नेहम् अवलम्बमानः स-बास्प-गद्गद-निगदः श्री-राम-कृष्णौ तत्-सम्वासाय सायत-तृष्णौ तद्-अर्थितं ज्ञापयामास । श्री-कृष्णस् तु तद् आकर्ण्य स-वैवर्ण्य-मुखं राम-मुखम् ईक्षामास । श्री-रामश् च साञ्जलिता-वामम् अवामं निवेदयामास—तात ! वयं विचार्य निधार्य च तद् इदं निवेदयिष्यामः इति ।
[२३] अथ तद्-अनुकूलता-वितर्क-मूलतया सम्भजद् उद्धवाभ्यां प्रलम्बजिद्-उद्धवाभ्यां सुख-सम्पद्-आरोहिण्या रोहिण्या च सार्धं विचार्य निधार्य च श्री-रामावर-जः स्वाग्रजम् एव गृहं यातायाताय निवेदयितुं योजयामास । स च तत्र गतः स-परामर्शम् आह—पितरौ यदि दत्ताभय-वितरौ भवेतं, तदा तद् इदम् अनन्वित-भेदं निवेदयाम ।
[२४] ताव् ऊचतुः—कामम् ।
[२५] श्री-राम उवाच—
स्नेहं व्यञ्जयथस् तात मातर् व्रज-महेशयोः ।
तयोः कथम् अभीष्टं तन् नयथः स्वेष्टतां न वा ? २२॥
[२६] श्री-वसुदेव उवाच—किं तत् तदीयम् इष्टं ?
[२७] श्री-राम उवाच—तत् किं भवन्तोऽनुभवन्तो न भवन्ति?
[२८] श्री-वसुदेव उवाच—अनुभवन्त एव स्म; किन्तु भवद्-अनुजे तयोः पुत्रतया गाढ एवाभिमान इति बाढं शङ्कामहे । कदाचिद् अयं सन्तत-भाव-वश-स्वभाव-शुद्ध-बुद्धस् तत्र निरुद्धः स्यात् इति ।
[२९] श्री-रामः स-हासम् उवाच—अहम् अपि तावद्-गर्भत एव भवद्भिर् अर्भक-रक्षणार्थम् अक्षमतया स्व-भवनाच् चालितस् तैर् एव पालित इति तदीयताम् एव सम्यग् अर्हामि । किम् उत, स तु जात-मात्रः स्वयम् एव भवता तथा व्यवहृतः । ततस् तेषाम् एवास्मिन्न् अस्य च तेषु स्वीयतयाङ्गीकृतिः साङ्गीभवितुम् अर्हति; न तु भवतं तत्र, तस्य व भवत्सु । तद्-वैपरीत्येऽपि तेषां भवत्-सुखेनैव सुखं प्रतीयते, भवतां तु न तत्-सुखेनेति; किं बहुन धार्ष्ट्येन । न च स खलु ममानुज-वरः, कस्यचित् कष्टं द्रष्टुं शक्नोतीति कृतं कृतक-चिन्तया ।
[३०] श्री-वसुदेव उवाच—भवतु, किम् अथ विधेयं तद् विधीयताम् ।
[३१] श्री-राम उवाच—इदानीम् अपि विधत्त यन् मध्ये मध्ये कुरु-पुरवद्-व्रज-सदनम् अपि तेनानेनासाद्य्ताम् इति ।
[३२] अथ श्री-वसुदेवः स्वान्तश् चिन्तयामास—सत्यं वदत्य् असौ; तथा पुत्र-पौत्रादि-गार्हस्थ्य-प्राशस्त्य-स्वस्त्यनः सोऽयं कथम् अत्रत्य-त्यागम् आपद्येत इति ।
[३३] स्पष्टं चाचष्ट—भ्रात्रा नन्देन सह देह-मात्रान्तरता; तस्माद् यथेच्छम् एव तत्र गच्छतु चातागच्छतु च, सोऽयम् उभयेषां प्राणमूलम् ।
[३४] अथ तत आग्तात् तद् एतद् अग्रजाद् आकर्णयन् श्री-कृष्णः प्रणमन्न् अश्रुभिर् वचनाद् विरमंश् च नत-फुल्ल-वदनश् चिरम् असीत् ।
[३५] अथ कृष्ण-रामोद्धवा-रोहिणीभिः सह स्वयम् एवानकदुन्धुभिः श्रीमन्-नन्दस्य शकट-मन्दिरम् अनुगम्य तम् अपि यथायथं सङ्गम्य रम्यम् इदं जगाद─
भ्रातर् नन्द सुतस् तवाथ मम वेत्य् अस्मिन्न् अभेदः क्वचिद्
यत् कृष्णस् तु जगाम नैतद् अवधि त्वन्-मन्दिरं तच् छृणु ।
अस्माकं किल शात्रव-क्षय-कृते सोऽयं त्वया रक्षितः
कृत्यं शेषम् अपेक्षते प्रति-लवं तस्मिन् यियासन्न् अपि ॥२३॥
[३६] तद् एवं लब्ध-सुखानाम् अपि श्रीमन्-नन्द-प्रमुखाणां श्री-शुक्श्-मुखाद् उदित-विरचनेन कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राढसः [भा।पु। १०.६५.६] इति वचनेन पुरा श्रि-कृष्णायोग-दुःखाद् अपर-तृष्णा-विमुखानां तन्-मङ्गलाय सत्सु समर्पित-विष्वग्-अर्थानां चिराय वाञ्छितं व्रजाय तद्-आगमनम् अञ्चितुम् असमर्थानां सम्प्रति च किञ्चिद् अप्रतीति-किञ्चित्-प्रतीति-क्षुभित-तत्-तद्-अर्थानां भावनेयं जाता—हन्त ! हन्त! षन्ततम् अस्माभिः प्रार्थित-व्रजागतिर् अयं तद् अस्माकं जानात्य् एव, सम्प्रत्य् अपि मनोरथ-पथ-स्व-जन-धन-सम्पदस् त्याजयितुं योग्यतां न यात्य् एवेति च व्रज-नयनाय न साक्षाद् विज्ञापयितव्यः, सोऽयं किम् उतत्र क्षात्र-नीत्या कर्तुम् आरब्ध-त्रिलोकीभव्यः । तथापि शश्वद्-अभ्युदययास्मासु दयालुतया मुहुः कृत-प्रतिज्ञतया चावश्यम् आगमिष्यति । किन्त्व् ईदृशम् ईदृशम् अस्य स-मर्याद-स्थितम् अमर्यादम् एतदीय-सद्-उपचर्यापर्यापणं दिव्यं दिव्यं द्रव्यं प्रति यथा-स्वम् अस्माकं मनोरथः प्रथिमानम् आत्मानम् आनयन्तीति तद् इदम् इदम् एव कामनीयम् इति ।
[३७] अथ कंस-मथनश् चेदं भवयामास—पूर्व-पूर्वम् उदयद् अपुर्व-योगेन सन्त्वना-प्रयोगेण मयामिषु कदर्थनापरं फलाय कल्पिता, न तु सदर्थना । ततश् च नाधुनापि तादृग्-उक्तनां विसयीकर्तुम् अमी युक्ताः; किन्तु सर्वन्तःपातितया प्रीति-दान-व्याजान् मद्-उपभोग्यतयतिआं योग्यानां वस्तूनां प्रस्थापनया निजं साम्प्रतं व्रज-प्रस्थानं सूचितं कर्तुम् उचितम् । यस्माद् एव खल्वेषां मन्-मात्र-कामनाशेषाणां तथा तत्र स्थानां मत्-प्रीति-मात्र-जीवनता-पात्र-तत्-तद्-विशेषाणां कामना पूरिता स्यात् इति ।
[३८] तद् एवम् एव मुनीन्द्रः प्राःआ─
ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः ।
परार्ध्याभरण-क्षौम- नानानर्घ्य-परिच्छदैः ॥
वसुदेवोग्रसेनाभ्यां कृष्णोद्धव-बलादिभिः ।
दत्तम् आदाय पारिबर्हं यापितो यदुभिर् ययौ ॥ [भा।पु। १०.८४.६७-६८] इति ।
किन्तु,
चलन-समये या यावस्था व्रजेश-पुरःसर-
व्रज-परिषदाम् आसिद् एषा कथं बत वर्ण्यताम् ।
मनसि च गता यस्माद् अस्माद्र्शाम् अपि सा सदा
वपुषि गिरि च स्फूर्तिं वर्ण-श्रियाम् अथ लुम्पति ॥२४॥
ज्ञात्वा तेषां हृदय-वपुषोः शक्ति-हानिं प्रयाणे
शत्रु-श्रेण्याः प्रतिहतिम् अपि प्रान्तरान्तर् वितर्क्य ।
भृत्यैः सूतैः कटक-पटलैर् अप्य् अमीषां समन्ताद्
दत्तैर् व्याजाद् अनुगति-मितैर् यापनं प्राप कृष्णः ॥२५॥
कथञ्चिद् अपि माथुरान् अनुगताः कुरूणां स्थलाद्
व्रजेन्द्र-मुख-गो-दुहः पुनर् उपेतुम् अत्मालयम् ।
विरक्त-मनसस् तदा तपन-जां समुत्तीर्य गोर्
अयीति विदित-स्थले व्रजम् अवासयन् दूरतः ॥२६॥
गोकुल-पतिर् इति गो-उर-
व-इति तद् गोर इत्य् अपि च ।
संस्कृत-जं प्राकृत-जं
ग्राम्य-जम् आख्यानम् अञ्चति स्थानम् ॥२७॥
गोकुल-पतिर् इति नाम्ना
ख्यातं गोकुल-पतेः स्थानम् ।
पुरुषोत्तम इति यद्वत्
पुरुषोत्तम-धाम विख्यातम् ॥२८॥
[३९] अथ कथकेन तद् एतत् प्रोच्य क्षणं परिशोच्य समाप्यितुं तद् इदं रुच्यम् उच्यते स्म─
तद्-अयनम् अभिनौमि तच् च लग्नं
व्रजपति-वस-शुभं-युमञ्जु-रूपम् ।
यद् उदित-शुभ-वैभवन् मुरारिर्
व्रज-सुऋदां विरहं निजं लुलोप ॥२९॥
[४०] तद् एवं व्रजराज-सभा-कथायां पुर्णायां श्री-राधिका-सदसि कथायां स्निग्धकण्ठस् तद् इदम् उवाच—अमूस् तु श्रीमद्-आनकदुन्दुभि-संविन्-मयं तत्-तद्-वर्ण्यमानम् आकर्ण्य तानि भावि-तद्-उपासेवार्थता-भावितानि स्वस्मिन्न् अपि प्रीति-दानानि निर्वर्ण्य वैवर्ण्य-वशाद् इदं व्यानज्ञुः । विलम्बमानेनानेन किम् अस्माकम् अमूनि विलम्बनानि रच्यन्त इति ।
[४१] कृष्णस् तु तद् उद्धव-द्वारा शृण्वन् स-लज्जं सन्दिदेश । पूर्वम् उपक्रमत एवेदं मया निवेदितम्,
अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया गतांश् चिरायिताञ् छत्रु- पक्ष-क्षपण-चेतसः ॥ [भा।पु। १०.८२.४१]
इत्य् अनेन स्वल्पावशिष्टानां विनष्टी-करण-कारणम् एव मम किञ्चिद् विलम्ब-संवलनम् अस्तीति । तस्माद् उभयेषाम् अस्माकं यावद्-इष्ट-दिस्टं कियन्ति दिनानि पूर्ववद् वियन्ति प्रतीक्ष्यन्ताम् ।
[४२] अथ् श्री-गोप्यस् तु तद् एतन् नासत्यम् इति मनसि वितत्य समयान्तरे समक्तं तं प्रति व्यक्तम् उक्तवत्यः─
तव सत्य-गिरः कृष्ण स्यात् किं सङ्गिणिर् अन्यथा ।
किन्तु तां मादृशाम् आशां यदि कालः सहेत सः ॥३०॥
[४३] अथ श्री-कृष्णस् तु ताः प्रत्य् एकम् आलिङ्गन्न् इदम् अङ्गीचकार─
यो भवतीभिः कृष्णः
स्वीचक्रे काल-पर्यायाः ।
तेनैव स्म व्याप्ता-
वस्था नान्यः प्रभुस् तत्र ॥३१॥
[४४] तद् एवं सति─
यस्याः प्रातर् अथाचलद्-व्रज-जनः स्वान् माथुरान् सा तमी
शीघ्रं पूर्तिम् अवाप यद्यपि कुरुक्षेत्र्-स्थ-गोपी-गणे ।
मय्य् अद्यापि तमांसि हन्त तद् अपि स्फूर्तिं नयन्ती न सा
वञ्छत्यात्म-समापनाम् उभयथा भीतिर् हि तत्-कारणम् ॥३२॥
[४५] अथ कथकः समापनम् आह─
चित्रं कुरुक्षेत्र्म् इहापरत्र वा
प्रतिश्रुतं वीजम् उवाप यत् प्रभुः ।
तत् तत्र लब्धाङ्कुरताम् उपागतं
वृन्दावनेऽविन्दत राधिके फलम् ॥३३॥
यद्-अर्थं यूयं तद्-विनशनम् अगात् व्रत-परा
यद्-अर्थं स्व-वासं विससृज वनान्तर् जगृह च ।
स एष श्री-राधे तव हृदय-नाथः पुनर् अमूस्
त्वदादीर् आलिङ्गन्न् इह वसति ही ही सुख-सुखम् ॥३४॥
[४६] अथ तद् एवं सुखयित्वा सखीन् आत्म-सङ्गे गृहीत्वा कृत-चलने कथक-युगले श्री-राधा-कृष्ण-मिथुनं तु निज-मनोरथम् एव प्रथ्यामास ।
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
पुनर् व्रज-वासि-व्रज-व्रजनं
नाम चतुर्विंशं पूरणम्
॥२४॥
(२५)
पञ्चविंशं पूरणं
शुद्ध-संविद्-उद्धव-मन्त्रणा-तन्त्रम्
[१] अथापरेद्यवि रवि-विद्योतमानायां द्वयि व्रज-युवराज-विराजमाना-व्रजराज-समाजम् अधिकृत्य मधुकण्ठ उवाच—
[२] अथ द्वारका-पतेः पुनर् द्वारकागारतानारता जाता, यत्र यथा-पूर्वं तत्-तद्-अपूर्व-वृत्त-ज्ञानाय श्री-व्रज-क्षितिपतिना वैवधिकाः पुनर् पै तद्-अब्धि-नगर्य्-अवधि प्रस्थापिताः । ये खलु पूर्वस्माद् अपूर्वतया सुकुमाराणाम् अमीषां कुमाराणाम् अपि नमस्कारादिकम् आसादितं चक्रुः । तेषु कयोश्चिद् वैवधिकयोर् आगतयोः कथनम्, यथा—
व्रजराज ! तद् इदम् अपूर्वं श्रूयताम् । श्री-राम-रामानुजौ यदा गायत्रं व्रतम् अनुगतवन्तौ, तदाचरणाय स्वयं निह्नुतवन्तौ च, तदाध्यय्नार्थम् अवन्ती-मध्य-स्थित-गुरु-कुलं गतवन्तौ । तत्र च यदा समावर्तनम् अनुवर्तमानाव् अभूताम् । तदा च आचार्याण्या याचितं मृतं तत्-पुत्रं यमाद् आचितवन्तौ । तच् च पूर्वं देवकी-देवी श्रवसि पर्युप्तं विधाय, तद् इदं मनसि निधाय च चिराय गुप्तं चकार । कंस-कृत-हन्यानि मम षड् अपत्यानि च आयत्यां साग्रजः कदाचिद् अयं याचितव्य इति । सम्प्रति पुनस् तद्-अनुजं प्रति द्विधाभाव-विधाम् अस्मद्-व्रज-विश्व-धात्री रक्षाविधात्री-सम्बन्धाद् अनुसन्धाय तत्-तद्-अपत्य-सम्पत्त्य्-अर्थम् अपि । सम्प्रतिपत्तिम् अवाप, तत्-फलाचयनाय तस्मिन्न् उवाप च याचना-बीजम् ।
[३] तद् एतद् दूत-वचनं श्रवसि रचयन्तः सर्वेऽप्य् ऊचुः—तद् एतत् पूर्वस्माद् अप्य् अपूर्वं जातम्, यत् तयोर् अपि सुततयावगतयोः सुतान्तर-स्पृहा इति ।
[४] दूताव् ऊचतुः—सुततावगतिर् एव तावदनयोर् विचार्या । प्रभावावलोकात् पारमैश्वर्यावगतिः परं पर्यालोच्यते इति ।
[५] पुनः सर्वे प्रोचुः—
प्रभुता व्रज-पति-सूनोर् मैत्री-सुखम् एव वर्धयति । मरिचं खण्डज-लड्डुनि मधुर-रसं चारु पुष्णाति ॥१॥
[६] दूताव् ऊचतुः—लवणाकर-न्यायेन भवताम् इव कस्य वा सर्वम् एवैक-रसताम् आप्नोतु?
[७] व्रजराज उवाच—यथा तथा भवतु, लब्ध-कृष्ण-लब्ध-तत्-तृष्णयोर् महद् एवान्तरम् । तस्माद् अग्रिमम् अनुक्रम्यताम् ।
[८] दूताव् ऊचतुः—अपूर्वान्तरं श्रूयताम् । ततश् च सुतलम् अवलम्बमानौ बल-बलानुज-नामानौ बलिना वलित-कंस-हत-बाला-बलिना पूर्व-पूर्व-सङ्गृहीत-परम-दिव्य-सामग्रीभिः सम्यग्-रीति पूजयामासाते । पूजितौ च तौ सर्व-जितौ तान् षड्-गर्भ-नाम्ना समान्म्नातान् कंस-लब्ध-कालान् बालान् आदाय दर्भस्थलीम् आजग्मतुः, यत्र बहुविधं बलिं लभमानौ तद्-बलि-सद्म बलि-सद्मतया कलितवन्तौ । किन्तु तत्राप्य् एवम् अपूर्वं श्रूयताम्—
यद्यपि तत्र च भगवान्, साक्षाद् आस्ते बलेः सदने । तद् अपि स-रामं कृष्णं, पश्यन् स तम् अपि विसस्मार ॥२॥ विस्मृत्सर्व्यात्मार्पण-पद-, भगवद्-रूपं बलिस् तत्र । आत्मानं सह निखिलं, ताभ्यां पुनर् अर्पयामास ॥३॥ विस्मृत्येति किम् एतद्, द्वार-स्थितम् अपि ददर्श तं न बलिः । कृतम् अपि तत्-प्रणिधानं, दर्शन-संस्काराद् अभूद् अनयोः ॥४॥ दुर्लभम् अननं केवलम्, इह न बलेः कृष्ण-राम-वीक्षायाम् । गद्गद-पुलक-स्तम्भ-स्वेदाद्य्-आवेशिताप्य् आसीत् ॥५॥ इति ।
[९] अथ सर्वेऽपि पप्रच्छुः—कुशस्थल्य्-आगमन-समनन्तर-वृत्तम् उच्यताम् ।
[१०] दूताव् ऊचतुः—तत्राप्य् अपूर्वं जातम्, यतस् तयोर् विद्यमानयोर् अपि देवक-सुतायास् तेषाम् अवलोकनादस्तोकस्तनक्षरणं जातम् । तथापि तु तस्य तेषाम् अपि फल-कलनाय कृष्णः स-तृष्ण इव तत् प्राक पीतवान् । पश्चाद् एव निजावशेष-पान-पुण्य-विशेषं परिवेषयन् स्वस्मिन्न् एव पुत्र-भावं विशेषयंस् तान् दिविषदां ध्येयं धाम गमयामास ।
[११] तद् एतद् अप्य् उपलक्षणम् एव । यम् इतः पूर्वं देव-भाग-पूर्वजस् तत्त्व-ग्राम-निरूपण-पूर्वकेण तद् ईश्वरता-प्रतिपत्तिभिर् अपूर्वेण पूर्व-पक्षेण स्वस्य तस्मिन् पुत्र-भावं प्रक्षिप्तवांस् तम् एव स खलु गोकुल-स्नेह-मय-देहः स्वयम् उत्तर-पक्षं कृतवान् ।
[१२] यथा च स-स्मितम् आह स्म—
वचो वः समवेतार्थं तातैतद् उपमन्महे । यन् नः पुत्रान् समुद्दिश्य तत्त्व-ग्राम उदाहृतः ॥ [भा।पु। १०.८५.२२]
[१३] देवकी-वृत्तं पश्यद्भिस् तु मुनिभिस् तद् इदं गीतम्—
पुत्रान् कामयते स्म देवक-सुता सा यान् मृतांस् तान् असाव् आनीय प्रददौ तद्-अर्थ-विसृतं स्तन्यं च तस्याः पपौ । एवं हन्त मनोरथान्तरम् अपि प्रापय्य तस्यां पुनः स्वीयं शर्म परं ररक्ष विसृजेत् किं तां यशोदाम् अपि ॥६॥ इति ।
[१४] तद् एवं दूत-वचनं लब्ध-वर्ण-कृत-निर्णय-रचनं कर्णेषु सचमानास् ते सुख-प्रचयम् अवापुः ।
[१५] अथ कथकः समापनम् आह स्म—
यदागमन-वार्तया व्रज-पते सुखं यद् भवान् मुहुः समुलब्धवांस् तद् अधुना द्वयं त्वत्-पुरः । नवीन-घन-सुन्दरं तडिद्-अभीषु-वस्त्राञ्चितं शिखण्ड-रुचि-मण्डितं स्फुरद्-अभेदम् उद्भ्राजते ॥७॥
[१६] अथ तद्-दिन एव श्रीमन्-नन्द-तन्-नन्दन-सदसि कथान्तरम्, यथा मधुकण्ठ उवाच—
[१७] अथ श्री-देवक्या मनोरथं पूरयित्वा श्री-यशोदायाः पूरयितुं मुरमथनस् तद् इदं चिन्तितवान्—हन्त हन्त ! कुरुक्षेत्रे व्रजराजादीन् प्रति पुरु व्यञ्जितं नाद्यापि सञ्जितं, यन् मगध-पाल-शिशुपाल-शाल्व-दन्तवक्राह्वय-शक्रारि-चक्रम् अतिक्रामद् एव वर्तते इति ।
[१८] तद् एतद् विचिन्त्य ब्राह्म-मुहूर्तम् आरभ्य नित्यं यद् यद् अभ्यस्तम्, स तदानीम् अपि तच् चकार यदादिकं तु तदा दूत-मुखाद् व्रजराजः श्रुतम् आचचार, यथा—
उत्थानाचमनात्म-चिन्तन-सरः-स्नानोदकस्थ-क्रिया- वासो-युक्-परिधान-सान्ध्य-विधि-युग्-गायत्र्य्-अजप्त्याहुतीः । रव्य्-अर्घ्यामर-तर्पण-र्षि-सुर-पित्रात्मीय-विप्रार्चना बद्धाख्यान्वित-सङ्ख्य-धेनु-वितरान् अप्य् अत्र चक्रे हरिः ॥८॥ गो-विप्रादिक-वन्दनं शुभ-पद-स्पर्शं निजालङ्कृतिं सर्पिर् दर्पण-गो-सुर-द्विज-समालोकं जनानन्दनम् । स्रक्-ताम्बूल-विलेप-दानम् अनु तद्-भोगं विधायाजितः सूतानीतम् अथारुरोह स रथं तत्-पाणि-धृत्-पाणिकः ॥९॥ सात्यक्य्-उद्धव-सम्बद्धः स रथं तम् अशोभयत् । विष्वक्-सेन-सुपर्णाढ्यो विष्णुर् वा रवि-मण्डलम् ॥१०॥ अन्तःपुराणां हृद्-रत्नान्य् अपनीय बहिर् भवम् । तैर् नेत्रेणापि निर्बद्धः स्मेर-दृग् निरगात् प्रभुः ॥११॥
ततश् च—
क्वचिज् जय-जय-प्रथा क्व च नमो-नमः-सन्ततिः क्व च श्रुति-ततिः क्व च स्तुति-कथा हरिं पश्यताम् । इदं तुमुल-चर्यया न हि विविक्तम् आसीद् यद् अप्य् अथापि सुखम् आदधे स्वन-कुलं विविक्ताद् अपि ॥१२॥ अथ सुधर्म-सभां स्व-पथेक्षकैर् यदु-गणैर् विशति स्म जनार्दनः । हृत-षड्-ऊर्मिर् इयं स्वत एव या किम् उत शर्म-ततिः प्रभुणामुना ॥१३॥ श्यामैर् गौरैर् अपि रुचि-गणैर् देह-रत्नाम्बराणां आशा व्याप्ता यदि मुररिपोर् अस्तु वार्ता सभायाः । यत्रामी तद् रुचि-चय-चिताः पार्षदा यादवाद्याः सारूप्य-श्री-चितिम् इव गता राजि-बद्धा विरेजुः ॥१४॥ विप्रैर् मागध-सूत-वन्दि-भरतैर् वैहासिकैश् च प्रति- स्वं विद्या-चय-चायकैर् वलयिते राजादिभिर् भ्राजिते । तस्मिन् विस्मिति-कारि-हारि-सदसि प्रत्येकम् ईक्षां नयन् स प्रत्यायाखिलेन पश्यति हरिर् माम् एव नान्यान् इति ॥१५॥
[१९] तद् एवं स्थिते मणि-घटितल-कूट-धारी प्रतिहारी हारि तद् इदं व्याजहार—देव कश्चिद् पुरुषताजुषः पुरुषः सुषमा-रहित-मुखतया द्वारि वर्तते ।
[२०] श्री-कृष्ण उवाच—आनीयताम् इति ।
[२१] ततस् तेनानीतः स चातिविनीतः साश्चर्यतयालोचयामास, यथा—
ताप-त्रय-विनाशाय सोऽयं तोयधि-सप्रभः । यद् उद्यत्-कीर्ति-चन्द्र-श्री-शीतलं पृथिवी-तलम् ॥१६॥
[२२] अथ प्रणत-सर्वाङ्गतया साङ्गं नमस्कृत्य कृत-कृत्यम्मन्यः स धन्यः पुरतः समागच्छ स्वच्छन्दम् इति पुरःसरतया दत्त-यदृच्छाम् अनुगच्छंस् तद् इदम् अञ्जलि-वलितं निवेदयन् पर्यालोचयामास—
एते लोकास् त्रिभुवन-जुषोऽप्य् अत्र कृष्णेऽनुरक्ता दृश्यन्ते यत् पुलक-कुल-युग् नेत्र-नीराः स्फुरन्ति । तस्माद् गोप्यं यद् अपि तद् इदं मागधानद्ध-भूभृत्- सन्दिष्टं स्यात् तद् अपि सदसि प्रस्फुटं जल्पितव्यम् ॥१७॥
[२३] अथ निवेदयामास च—पूर्वं मथुरा-रोधनार्थम् अलब्धानां ततश् च कृत-दिग्-विजय-निर्बन्ध-जरासन्ध-विहित-बन्धानां लब्ध-मरणानुबन्धानां भवद्-एक-शरणतानुसन्धानां राज्ञाम् अयुते द्वे युते सती निवेदयतः—
अगणित-गुण-रूप कृष्ण कृष्ण, स्वक-शरणागत-पालक-स्वभाव । वयम् इह भवतः पृथक् पुमर्था, इति भव-मुक्ति-कृते तवास्म भक्ताः ॥१८॥ वयम् इह शरणागताः परे तु, त्वयि विमुखा इति गर्वितं दधानाः । तम् अपि च निज-भावम् आश्रयाख्यं, मलिनम् अकृष्महि हन्त कंस-हन्तः ॥१९॥ वयम् अघम् अपरं परं वहामस्, त्वयि परमे यद् अधाम दोष-दृष्टिम् । स्वयम् अवति भुवं हरौ कथं नस्, तपति विकर्म-गतिः परेण नाथ ॥२०॥ वयम् इह न भवद्-विशुद्ध-भक्ता, न च शरणागतिम् आगता भवत्सु । परम् इह नृप-कर्म-शर्म-लोभाद् अनिशमिता बत तत्-तद्-आत्म-दम्भम् ॥२१॥ वयम् इह बत मायया विमूढास् त्वम् असि निजाश्रित-पालकाङ्घ्रि-पद्मः । इति मगध-नृपाह्व-कर्म-पाशाद् अपि परिमोचय नः स्वयं परेशः ॥२२॥ इति ।
[२४] तद् एवं तेषां वाचिक-वचनानन्तरं दूतः स्वयम् उवाच—
दुष्ट-क्षार-समुद्र-कुम्भज-मुनिः शिष्टाब्धता-कृत् तमः- सूर्यः पाप-चरित्रता-कृत-युगं दीनार्ति-धन्वन्तरिः । सोऽयं चेत् पृथिवी-तले बत भवान् कृष्णात्मना राजते तृष्णा कस्य कथं कथा-विषयतां सिद्धिं विना यास्यति ॥२२॥
[२५] तृष्णा तु तेषां केवल-कृष्णाकार-माधुरी-सार-विषया लज्जातिशयाद् एव हि नात्मना व्यक्ती-कृता ।
[२६] यस्माद् एव तस्मात्—
तेषां मागध-रुद्धानां भवद्-वीक्षण-काङ्क्षिणाम् । तत्-पाद-पद्म-भक्तानां दीनानां शं विधीयताम् ॥२३॥
[२७] यतस् त एवेदं मध्ये मध्ये परस्परं सास्र-कम्प-सम्पन् निवेदयन्त्—
यस्मात् पूतनिकापि दिव्य-सुरभिस् तद्-दुग्ध-दावानलाद्य्- अर्थं शुद्ध-सुधा-सदृङ् नग-ततिर् वंश्यादि-नादार्द्रिता । कुब्जा श्री-मृदुला तथा यदुजरद्-वृन्दं वयः सुन्दरं जज्ञे तस्य सुगन्धितादि-सुगुणाः कर्षन्ति चित्रं मुहुः ॥२५॥
[२८] श्री-व्रज-सदस ऊचुः—ततस् ततः ?
[२९] दूतौ सानुतापाभासहासं ऊचतुः—[३०] अथ तत्र प्रतिविधिम् अभिधित्सति माधवे सुरमुनि-वरः शरद्-वारि-धर इव शुभ्रस् तडिन्-निभ-केशान् बिभ्रन्-महती ध्वनि-मन्द्र-गर्जम् अर्जन् दृष्टितः सुखमय-वारि-धारा-वृष्टिं कुर्वन्न् एवागच्छन् सर्वं रसान्तरम् आसादयामास, यत्र स्वयं कृष्णश् च तदीय-भक्ति-तृष्णः सन्न् अभ्युत्थाय तं वन्दते स्म । अथ सभाजयित्वा भ्राजयित्वा च तद् इदम् अपि वन्दमानः पृच्छति स्म ।
पर्यक् पर्यटतस् तवानुमिलनाद् विश्वं भवेद् भव्य-युक् तत् पृच्छामि तु किं तद् अद्य वलते मत्-स्नेह-मोहात्मनः । तच् चेद् अस्ति विशेषतः पुनर् इदं कुर्वेऽनुयोगास्पदं ते कुन्ती-तनया मद्-एक-गतयः किं-वृत्तयः साम्प्रतम् ॥२६॥
[३१] अथ देवर्षिर् उवाच—
तव यशसाजनि शान्तिर्, जगति विनापि श्रमेण वृष्णीश । तस्मात् किल मम गीतात्, पलितवतीति प्रियां जना जहति ॥२७॥ सर्वं त्वद्-वैभवं मन्ये यल् लोकस्याथ यन् मम । तस्मात् त्वद्-गोचरः सर्वं तथाप्य् आज्ञां करोमि ते ॥२८॥
[३२] इन्द्रप्रस्थ-महेन्द्रः स त्वाम् एव मख-पुरुषं मत्वा राजसूय-नाम्ना मखेन्द्रेण यष्टुम् इच्छति ।
[३३] श्री-कृष्णः सहासम् उवाच—माम् अन्तरीण-प्रेम्णा परम-सुख-स्थेम्ना यजत एवासौ किं राजसूयेन ?
[३४] देवर्षिर् उवाच—तेनासौ पारमेष्ठ्य-श्रियं कामयते ।
[३५] श्री-कृष्णः पुनः स-हासम् उवाच—तर्हि स-काम-कर्मा किम् असौ ब्रह्मणः सालोक्यम् अभीप्सति ?
[३६] देवर्षिर् उवाच—नहि नहि, किन्तु तव ।
[३७] श्री-कृष्ण उवाच—परमेष्ठित्वं मम कया वाचा प्रतिष्ठितं ?
[३८] देवर्षिर् उवाच—तावच् छ्रीर् जगृहे हस्तं तत्-परा परमेष्ठिनः [भा।पु। १०.८१.१०] इति पृथुक-तण्डुलाख्याने पण्डित-वचन-प्रसिद्ध्या ।
[३९] श्री-कृष्ण उवाच—तर्हि च सकाम एवासौ ?
[४०] देवर्षिर् उवाच—नहि नहि, किन्तु समवलोकित-तादृश-भवद्-विभवः स्व-गृहम् आगमनेनानुगृहीतवति भवति लज्जते कृच्छर्म अपि सज्जते । न भवादृग्-योग्यं भोग्यम् अस्तीति ।
[४१] श्री-कृष्ण उवाच—तेन विभवेन कथं राजसूयाद् भूयेत ? राजसूयम् अपि महाराज-समाज-याजकता-साधनम् इति दुःसाधनम् एव द्वयम् ।
[४२] देवर्षिर् उवाच—भवांस् तावद् अनुमोदताम्, तदा सर्वम् एव प्रमोद-पदतां प्रयास्यति । यतः—
यत्रानुमोदस् तव कृष्ण तत्र समागमः स्याद् इति विज्ञ-गीतिः । समागमो यत्र च तत्र सर्वे सिद्धि-प्रदाः स्युस् तव वीक्षणाय ॥२९॥
[४३] तद् एवं देवर्षि-वर्णितम् आकर्णयति सर्वान् निर्वर्णयति च दामोदरे तद्-अनुमोद-रहितान् जरासन्ध-वध-निर्बन्ध-सहितान् स्व-सम्बन्ध-सहितान् स्व-हितान् प्राश्निकान् वीक्ष्य श्री-नारदं च द्वारका-गतं निज-विभव-सारं द्रष्टुं प्रतिष्ठमानं निरीक्ष्य सहसा स्वयम् आसनाद् उत्थितः सुद्ःईः सधी-सचिवान् विना प्रायशः परेषां स्वस्य तस्मिन् सोऽयम् अञ्जलिं बबन्ध । बद्धाञ्जलिम् अपि तम् एनं कञ्जाक्षः सञ्जितादरतया सर्व-समञ्जसं जगाद—
सर्वेषां द्वि-द्वि-चक्षुर् विलसित-वपुषां नस् त्वम् एकं स्व-चक्षुस् तस्मात् त्वाम् एव नित्यं वयम् इह निखिलाः श्रद्दधाना भजामः । सम्प्रत्य् एतच् च वर्त्म-द्वयम् अथ स भवान् गम्यम् अस्मिन्न् अगम्यं स्याद् ईदृक् तारतम्यात् प्रथयतु सुमते मा तु सङ्कोचम् अत्र ॥३०॥
तद् एवं—
निखिलविद् अपि कृष्णः स्वीय-भक्तं महिम्ना कलयितुम् उभयेच्छां जात-पृच्छां चकार ।
ततश् च—
तद् अखिल-महिम-ज्ञोऽप्य् उद्धवस् तन्-निदेशं शिरसि दधद् इवासौ निर्ममे तद् विनम्रम् ॥३१॥
[४४] विचारयाञ्चकार चान्तस् तद् इदम्—
तत्-तन्-मतं तत् तद् अभीप्सित-प्रदं हरेर् मतं सर्व-सुखाय कल्पते । ततो यथा सर्व-सुखं सुखं भवेद् एवं विचारं रचयामि वच्मि च ॥३२॥
[४५] वक्ति स्म च व्यक्तम् इदम्—
भूम्य्-आदि-प्रकृति-स्रष्ट्री यस्य प्रकृतिर् उच्यते । तस्य प्रकृति-सिद्ध्य्-अर्थं प्रकृतिर् न प्रतीक्ष्यते ॥३३॥ सामादिज्ञैर् नृपः कैश्चित् सेव्यः कैश्चिद् भवान् अपि । परमर्थ-विदः पूर्वे परमार्थ-विदः परे ॥३४॥ तवादीनश् चतुर्वर्गः किं त्रिवर्गस्य नीतिभिः । वृद्धि-क्षय-स्थान-रूपः स भूपानां परा गतिः ॥३५॥ अनन्ताः शक्तयस् ताश् चेत् तिस्रः काः शक्तयस् त्वयि । तथापि कुतुकान् नाथ नाथसे मन्त्रिणाम् अपि ॥३६॥ नित्यं यत्रास्ति षाड्गुण्यं षाड्गुण्यं तत्र किं परम् । तथापीच्छन् लोक-रीतिं नीतिं गोविन्द विन्दसि ॥३७॥ नृपाणां ताप-निर्वाणं निर्माणं तस्य च क्रतोः । द्वयम् एतत् पुरा कार्यं कार्यं नाना विहाय च ॥३८॥ जरासन्ध-वधाद् एव देव स्याद् द्वयम् एव नः । राज्ञां मुक्तिस् तथा युक्तिर् दिग्-जयाद् यज्ञ-निर्मितौ ॥३९॥ यथा दोषाकरस्येन्दोश् छिन्दन् पक्ष-द्वयं मुहुः । छिनत्त्य् अतिक्रमं भास्वान् मागधस्य भवांस् तथा ॥४०॥ व्यक्तं स्वेन मुहुस् त्यक्तं नह्यमानं प्रसह्य तम् । हन्त हन्तव्यतां नेतुं भवान् यायान् न योग्यताम् ॥४१॥ स यज्ञो जित-दिक्-चक्र दिक्-चक्र-जयिनां क्रिया । यियक्षून् पाण्डवान् एव देव तत् तत्र वर्तय ॥४२॥ तेषां भीमः सदेहास्ति हास्तिना-युत-शक्तिकः । जिगीषेद् द्वैरथेनैव नैव सैन्येन यश् च तम् ॥४३॥ अक्षौहिणी-शत-युजा तेन युद्धे तु तद्-युजाम् । राजसूयं राज-नाशान् नाशा-बद्धं च सिध्यति ॥४४॥ जरासन्ध-वधो धीमन् भीमसेनेन सिध्यति । किन्तु त्वत्-प्रेरणा-तन्त्रो मन्त्रोऽयं मयका यथा ॥४५॥ बलवान् भीमसेनः स्यान् मन्त्रवान् पुनर् उद्धवः । इति प्रसिद्धताम्भात् तत् तद् आरम्भता तव ॥४६॥ त्वां विना कोटि-कटकान् मन्त्र-तन्त्रायुधाद् अपि । स नान्य-तन्त्रः स्याद् यद्वद् आत्मा यन्तारम् अन्तरा ॥४७॥ सद्-अम्भम् अपि हन्तव्या हन्तव्या इति नीतिमत् । तस्माद् अन्योऽपि दम्भः स्यात् तद् आरम्भ-कृते कृते ॥४८॥ यस्माद् ब्रह्मण्य-देव-ध्रुग् धत्ते ब्रह्मण्यता-मिषम् । तस्माद् अस्माकम् अपि स ब्रह्मता-मिसम् अर्हति ॥४९॥ रामात्मनोर् एव युद्धं मत्वा स त्वापि सेनया । अरुन्धद् द्वन्द्व-युद्धं तन् न बुद्धं तस्य दुर्मतेः ॥५०॥ यद्य् असौ सत्यतातत्याद् द्वन्द्व-युद्धं प्रपद्यते । सत्यतां विप्रतामत्या विप्रलब्धिं तदार्हति ॥५१॥ तस्माद् अमुं विप्रलब्धं कुरुताद् विप्रता-मिषात् । भीमं भीमं विधायाग्रे जिष्णुत्वं जिष्णुना सह ॥५२॥ इति ।
[४६] किं बहुना ? सर्व एव योद्धारो बोद्धारो वा त्वाम् अन्वेवेति लीला-मात्रं तत् तत् इति ।
[४७] श्री-व्रज-राज उवाच—ततस् ततः ?
[४८] दूताव् ऊचतुः—
ते सर्वे सर्वतो-भद्रम् उद्धवस्य मतं तदा । आनर्च्च्र् वेद-भणितं यथा धर्मादि-तत्-पराः ॥५३॥ इति ।
[४९] अथ व्रज-स्थेषु भिन्न-मर्मणा कृष्ण-रमणीय-तादृश-दुष्कर-कर्मणा लब्ध-चिन्तावस्थेषु सान्त्वनार्थम् आगन्तुकः कश्चिद् विपश्चिद् उवाच—सेयं स्व-प्रभोर् भावं प्रभावम् अपि विज्ञातुस् तस्य मन्त्रज्ञता-तद्-विज्ञानां श्लाघाम् एव ध्राघीयसीं करोति ।
[५०] व्रज-राज उवाच—ततस् ततः ?
[५१] दूताव् ऊचतुः—तद् एतत्-पर्यन्तं पर्यालोच्य भाविनम् अर्थं स-व्यामोहम् अनुशोच्य ताव् एताव् आजग्मिव । अन्यौ तु शेषं विशेष-वृत्तम् आदायागच्छन्ताव् एव स्तः ।
[५२] तद् एवं समाप्य मधुकण्ठ उवाच—
पूर्वं यद् विरहेण गोप-नृपते पुत्रस्य यूयं गता दूनत्वं स्मृति-सङ्गतेऽप्य् अनुपदं तत्रानुतप्यामहे । तद्-दूरेऽस्त्व् अधुना नवाम्बुद-रुचिः पीतांशुकश् चन्द्रकी वंशी-पाणिर् उदेति हन्त तद् अपि त्वं तेन सन्तप्यसे ॥५४॥ इति ।
[५३] तद् एवं व्रज-देवं प्रति सुखम् आधाय श्री-राधा-माधव-सभायाम् अपि तद् इदं भासयामास—
भक्ता वः पूर्वम् आसन् वृषरवि-दुहितस् ते भविष्यन्ति चान्ये सन्त्य् एके स्फुटन्तु स्फुरति परम् असाव् उद्धवः सर्व-बुद्धः । योऽयं तत्रापि युष्मान् यदु-वर-सदसि स्मारयन् यादवेन्द्रं गायन्तीत्य्-आदि-पद्यं किल भवद्-अभिधा-युक्त-मुक्तं चकार ॥५५॥
[५४] तथा हि—
गायन्ति ते विशद-कर्म गृहेषु देव्यो राज्ञां स्व-शत्रु-वधम् आत्म-विमोक्षणं च । गोप्यश् च कुञ्जर-पतेर् जनकात्मजायाः पित्रोश् च लब्ध-शरणो मुनयो वयं च ॥ [भा।पु। १०.७१.९]
[५५] अस्यार्थः—सर्वे भक्तास् तावत् तव सर्व-क्षणं दुष्ट-हनन-भक्त-रक्षा-लक्षणं विशद-कर्म गायन्ति । तत्र प्रस्तुतम् अवधीयताम् इत्य् आह—गृहेष्व् एव स्थित्वापि त्वाम् उद्दिश्य दैन्यम् आविश्य चार्थयमाना देव्यः स्व-पतीनां नृपतीनां स्व-शत्रु-जीवन-मोक्षम् आत्म-मोक्षं च गायन्ति, तत्र दृष्टान्तम् इव कुर्वंस् तत्र च सामान्यताम् आरोप्य गोप्य्-अन्तराणि सङ्गोप्य विशिष्टम् अपि निजाभीष्टं व्ज्ञापयन्ति । गोप्यश् च स्व-शत्रोः शङ्खचूडस्य वधं तद्-धस्ताद् आत्म-विमोक्षणं च गत-क्षण-गतम् अपि सम्प्रति भवद्-उद्भववद्-विरह-शत्रु-वधाद्य्-आशा-वधानबाधया गायन्ति । अथ तद्-द्वय-रक्षाम् एव द्रढयति—“कुञ्जर-पतेः” इत्य् आदिना । तव जन्मान्तर-जन्मापि तेषां तयोर् द्वयं वयं गायामः । तासां तासां पुनर्-लब्ध-फल-प्रकाशायाम् एव तत्-तद्-आशायां गास्याम इत्य् अतः पूर्वासाम् इव परासाम् अपि सा तद्-विधा विधातव्येति । यथा च गजेन्द्रस्य लब्ध-शरणा जना जनकात्मजायाश् च मुनयः स्व-शत्रु-वधादिकं गायन्ति, पित्रोः श्री-देवकी-वसुदेवयोस् तत् तच् च वयं यदवो गायामस् तथेति ।
[५६] अथ मधुकण्ठः समापनम् आह स्म—
तद् एतत् प्राचीनं कथितम् इह वृत्तं मुरिरिपोर् अभूद् दुःखं यस्मिन् विरह-मयम् आभीर-सुदृशाम् । इदं पश्याद्य श्वः प्रकटम् इव भाति स्फुटम् अथाप्य् अमुं सम्भोगाख्य-प्रमदम् अथ पुष्णद् विलसति ॥५६॥
[५७] तद् एवं वृत्ते वृत्ते सर्वेण कत्घक-द्वये च गृह-वर्त्मानुवृत्ते श्री-राधा-[गो।ता।उ।आव् आनन्द-मन्दिरं विन्दमानाव् आत्म-लीलाम् एवानुविन्दतः ॥
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
शुद्ध-संविद्-उद्धव-मन्त्रणा-तन्त्रं नाम
पञ्चविंशं पूरणम्
॥२५॥
(२६)
षड्विंशं पूरणं
जरासन्ध-तत्-कृत-बन्ध-राज-वृन्द-मोचनम्
[१] अथ प्रातर् व्रजराज-युवराज-विराजमान-परिषदि स्निग्धकण्ठः प्राह स्म—[२] अपरौ सन्देश-हरौ समागम्य तद् एतद् अवादिष्टाम्—श्री-व्रजराज ! श्रूयताम् उद्धव-मन्त्रणा-परतन्त्रतया नियन्त्रितायाम् अन्येषां स्वतन्त्रतायां तत्न्रानुमोदमानः श्री-दामोदरः सपरिकर-स्व-यात्रा-कृते मात्रा निष्क्रमयितुम् अनुक्रमयामास ।
[३] यस्य प्रथमतः पुरून् अपि गुरून् प्रति स्वम् अनुज्ञापयामास । यत्र च नृपतिम् उग्रसेनं काम-पालकाम् असहायतया परम् अनु स्थापयन्न् उग्रसेनतया स्थापयामास ।
[४] ब्रह्म-सूनु-मुनिं सुनिहित-पूजा-समुदायं विहायसा गच्छन्तं विहाय गृहाय निवृत्त्य प्रस्थान-कृत्यं चातस्थे ।
[५] ततश् च परिच्छद-परिकर-परिषत्सु निर्गम-कृत्सु तदीय-समृद्धि-कलकल-वृद्धिभ्यां वार्धिर् अपि निहतर्धितां मूकतां च प्राणं च । यत्र वैजयन्तिकाभिचर-पुरःसराः सर्व एव जङ्घाला दृष्टा, न तु मन्थराः । यत्र वन्दिजन-सन्दिता भोगावलयः पथि भोगावलय इव सर्वेषां मुदं ददिरे ।
यत्र काण्डीर-शाक्तीक-याष्टीक-मुख-शस्त्रिणः । नैस्त्रिंशकैस् तथा पारश्वधिकैर् अन्विता ययुः ॥१॥। वादित्र-ध्वज-पत्ति-कुञ्जर-रथ-स्त्री-रत्न-यानान्यनः- क्षुद्रानः-शिविकास् तथार्थ-भर-भाग्-उष्ट्रादयश् चक्रमुः । येभ्यो दूर-गता न भिन्नम् अविदुः पूरं महा-वारिधेर् येष्व् अन्तः-पतितास् तथा न विविदुर् निर्णीतिर् उच्चैः कुतः ॥२॥
ततश् च—
यस्मिन् पैतृष्वसेयाः कुरु-कुल-जवराः प्रीति-याच्ञा-निदानं यस्मिन् देवर्षि-वर्या दिवि भुवि विदिता वाचिकानां निधानम् । प्रस्थातुं सम्भ्रमेऽस्मिन् यदु-कुल-कलिते कोऽहम् इत्थं विदूरे वृत्तं तं राज-दूतं निकटम् उपनयंस् तुष्टुवे यस् तम् ईडे ॥३॥
यथा हि—
राज-दूतम् उवाचेदं भगवान् प्रीणयन् गिरा । मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥ [भा।पु। १०.७१.१९] इति । विविध-जन-पदं ततः समन्तान् निज-महसा परिषिच्य कृष्ण-चन्द्रः । द्रुतम् अभजत तात-भागिनेय- क्षितिप-सवाय कुरु-क्षितीश-देशम् ॥४॥
[६] व्रज-राज उवाच—ततस् ततः ?
[७] दूताव् ऊचतुः—ततस् तम् अनुज्ञाप्य भवत्-पद-पद्म-पदम् आवाभ्याम् आप्यते स्म । अन्यत् तु दूत-द्वयं तदीय-सरण्य्-अनुगतम् आगत-प्रायं वर्तते इति ।
[८] अथ तत्-कथनानन्तरम् एव ताव् अपि प्रथमान-तद्-अनुबन्धाव् ऊचतुः—
इन्द्रप्रस्थम् उपागाद्, विधुर् अथ विकिरन् यदा किरणम् । तं वारिधिवत् फुल्लं तर्ह्य् अपवव्राज तन् नगरम् ॥५॥ नगरं तम् उपाव्राजीद् इति किं वाच्यं स तस्य राजापि । राजा तम् उपाव्राजीद् इति किं वाच्यं जगच् च तत् कुतुकम् ॥६॥ पाण्डुज-वृष्णिज-कटकं निकटं निकटं मिथो गच्छत् । सुबहलजल-पूराभं तद्-द्वयम् आसीद् व्यतिस्फीतम् ॥७॥ पाण्डुषु धर्म-सुताद्या वृष्णिषु कः स्वयं तत्र । अभजन् निमेष-लोपं तत्-तद्-रूपं तदान्वेष्टुम् ॥८॥ प्रेमा जनयति सङ्गं सहृदय-जन-योनिर् मिथः परितः । हरि-पार्थ-व्यतिमिलनं स्तम्भाश्रुभ्याम् अतस्तम्भत् ॥९॥ प्रेमा हरि-सञ्जनकद् विघ्न-दशायाम् अपि ध्रुवं पश्य । हर्षं स्तम्भकम् अति यत् कर्षकम् औत्सुक्यम् आर्पिपत् तेषु ॥१०॥ उभयं प्रेमणि सास्रं, तादृक् पश्यन् जनः स्निग्धः । उभयं प्रणयज-युक्त्या, वीक्षितुम् उक्त्या प्रभुं मिथश् चक्रे ॥११॥ द्रवतां समभजद् अजितः, प्रणतावस्थाम् अजातशत्रुस् तु । स कथम् इमं प्रति न मिलेद् अकलै तथा यज् जल-स्थलयोः ॥१२॥ प्रतिपाण्डव-मिलनं तद् यद्यपि जातं हरेस् तद् अपि । जयताद् अर्जुन-सङ्गः पुलकयति स्माखिलं यस् तु ॥१३॥ हरिणा पाण्डुषु मिलनं मनसि न नः स्याद् इहातिचित्राय । तेषाम् अनुषङ्गिष्व् अपि तद् यद् विविधं तदा दृष्टम् ॥१४॥ विनयाद् विप्रादिभ्यः सूतादिभ्यस् तदा नयात् कृष्णः । अचिनोद् आशीर्वादान् आशीर्-दाताप्य् असौ समस्तेभ्यः ॥१५॥ प्रविशति नगरं हरौ स राजा तद् अकृत मङ्गलि तस्य मङ्गलाय । यद् अभवद् उत तत्-प्रवेश-लक्ष्म्या निजम् अनु माङ्गलिकं तथा जगच् च ॥१६॥ यदेन्द्रप्रस्थाख्यं नगरम् अविशत् कंस-विजयी तदान्येषां वृत्तं निखिलम् अपि दूरे विजयताम् । असूर्यम्पश्यास् ता यदि सपदि लोकाद् अपि ह्रियं न जग्मुः सङ्कोचं क्व किल कतमं कः कलयतु ॥१७॥ यदावरोधं प्रविवेश केशवः क्षितीश-पत्नीभिर् इतं तदा वयम् । बहिश् च वृत्ताः शृणुमः स्म तद्-वचः प्रत्येकम् अल्पं च बहूक्तम् इत्य् अतः ॥१८॥ पश्य पश्येति पश्य त्वम् अहम् अश्रु-पराहता । वर्ष वर्षेति वर्षाणि पुष्प-लाजादि-मङ्गलैः ॥१९॥ इति । प्रेम्णा विमुग्धेषु सुतेषु शूरजा भ्रातुस् तनूजस्य चकार लालनम् । तस्यास् तद्-आज्ञाम् उपलभ्य तद्-वधुर् वधूरुपासेवत देवता इव ॥२०॥
[९] तद् एतद् अन्तर्वंशिकानां शंसितं कर्णावतंसितं विधाय तद्-द्वारा तद्-अनुज्ञाम् आदाय च शीघ्रम् आगच्छावः इति तयोर् दूतयोः कथा ।
[१०] अथ दूतान्तरयोः तद् एवं नित्यम् एव श्रद्धा-बन्धाच् चिततया नूतनागति-कृतीव सति दिनानि कतिचिद् वसति च तत्र विष्टर-श्रवसि कदाचिद् उपविष्टतया तेषां शिष्ट-समुदय-विशिष्टां सभां भासयन् भ्रातृभिर् वेष्टितः सुभग-चेष्टितः स्थिरः स तु युधिष्ठिरस् तद् इदं निवेदयामास ।
[११] पूर्वाभिप्राय-वेष्ट्यमान-पारमेष्ठ्य-कामनां तु न वचसि रचयामास ।
[१२] निवेदनं, यथा—सर्व-ताप-प्रालेय ! श्रीमन्-मातुलेय ! किम् अपि चापलम् अवलम्बितुम् आज्ञा-बलं वलयितुम् इच्छामि ।
[१३] श्री-कृष्ण उवाच—कामम् आज्ञाप्यताम् ।
[१४] युधिष्ठिर उवाच—
विभूतिस् तव देवाद्या मम कुर्व् अर्ध-मात्र-जा । तथापि तां यियक्षामि तत् सम्पादय मे प्रभो ॥२१॥
[१५] श्री-कृष्ण उवाच—धर्म-सुतस्य तव सर्वम् इच्छा-मर्म शर्मणा सम्पत्स्यत एव । किन्तु कतमेन साधकतमेन, तन् निरूप्यताम् ।
[१६] युधिष्ठिर उवाच—
प्रीणाति राजसूयेन त्रिलोकीति सतां मतम् । यद् अस्य क्रतु-राजत्वम् अपि वेदेन गीयते ॥२२॥
[१७] श्री-कृष्णः स-स्मितम् उवाच—राजन् ! वेद-विनाशकान् विना विश्वेऽपिमत्-प्रीतिमन्तः परामृश्यन्ते । मत्-तर्पणाद् एव देवतादयस् ते लब्ध-विसृप्त्या तृप्त्या स्पृश्यन्ते च । तस्मान् नित्यं मत्-तृप्तिं कुर्वतां भवतां तत्-तृप्तिर् नापूर्वताम् अर्हति । तथापि यदि राजसूयेन च सा तत्र भवद्भिर् इष्यते, तदा तेनापि सम्भूयते । तथापि सुसिद्धङ्करं भविता, नान्येनेव दुःसिद्धङ्करम् । किन्तु सुखान्तरम् अपि तत्र मां सुखाकुर्वीत ।»यस्माद् एव च त्रिलोकीम् अपि तव कीर्ति-चन्द्रिका त्यक्त-तन्द्रिका नन्दयिष्यति ।
[१८] तद् उपकरणं च भवद्-अन्तःकरणानुरूपम् एव स्तूपताम् आप्स्यति, यत्र प्रौढिम् अपि व्यूढीकरोमि ।
द्विषः क्षय्या नृपा जय्याः सर्वे क्रय्यास् तवाभवन् । अलं भावय सम्भारान् आरम्भान् कुरुतात् क्रतोः ॥२३॥ इति ।
[१९] तद् एवं राजानं निज-तेजसा प्राज्यं विराज्य, पुनर् एते ते भ्रातरो लोकालोकादिपति-मूर्तय इति वाग्-अर्थ-मयेन च तेन तद्-भ्रातॄन् समर्धयामास ।
[२०] अथ राजापि हरेस् तेन तेजसा फुल्ल-मुख-कमलस् तल्-लक्षणेन सहज-वर्गेण सह सहसा समुल्लसन् जगत्-कमलालयाम् एवात्मनि वासयल् लक्ष्यते स्म ।
[२१] अथान्याव् आगत्य कथावशेषं ऊचतुः—
दिग्-जयाय गता ये तु युधिष्ठिर-जघन्य-जाः । आगम्य ज्यायसे तस्मै ते तं तत् कथयार्पयन् ॥२४॥ तत्रात्म-शिक्षया दूरात् त्यक्ते कृष्णस् तु मागधे । तेनोद्धवस्य मन्त्रेण नृपस्योद्धवम् आचरत् ॥२५॥
[२२] नृपतिर् अप्य् असाव् उद्धववद् बुद्ध-तत्-प्रभावः इति ।
[२३] व्रजराज उवाच—ततस् ततः ?
[२४] दूताव् ऊचतुः—ततः कथयितुं लज्जावहे शङ्कावहे च । यतः—
भीमसेनो ऽर्जुनः कृष्णो ब्रह्म-लिङ्ग-धरास् त्रयः । जग्मुर् गिरि-व्रजं तात बृहद्रथ-सुतो यतः ॥ [भा।पु। १०.७२.१६]
[२५] व्रजराजः स-भयम् उवाच—ततस् ततः ?
[२६] दूताव् ऊचतुः—तत आवाम् आगताव् एव ।
[२७] तद् एवं लब्ध-प्रथया तत्-कथया कतिपयेषु समय-चयेषु विसरद्-भयेषु पुनर् अन्याव् आगत्य कथयामासतुः—श्रीमद्-व्रज-राज ! मा स्म यूयम् उद्विजध्वम् । जरासन्धः खलु ध्वंसम् आययौ इति ।
[२८] सर्वे प्रोचुः—कथ्यताम्, तथ्यं कथ्यताम् ।
[२९] दूताव् ऊचतुः—
यदा ययुर् ब्राह्मणानां वेषेणामी तदा जनैः । पर्वत-व्रज-देश-स्थैः शीलेनापि तथा मताः ॥२६॥
यथा—
धृत्वाग्र्यं यज्ञ-सूत्रं पृथु-शुचि-रुचिभाग् ऊर्ध्व-पुण्ड्रं सुधौत- श्वेताभं वस्त्र-युग्मं लघु-लिपि-वलितं पुस्तम् अर्भं च दर्भम् । गच्छन्तस् तत्र तत्र प्रसरद्-उपनिषन्-मुख्य-वेदाग्रि-जिह्वाः कृष्ण-च्छात्र-द्विकास् ते त्रितय-नर-वरालोक-पूजाम् अवापुः ॥२७॥
[३०] व्रज-सदसः सहासं पप्रच्छुः—भीमस्य भक्ष्यस् तु बह्व् एव लक्ष्यते, तत् कथं सम्पन्नं तावद् अन्नं ?
[३१] दूतौ च हसन्तौ शशंसतुः—तस्य देहम् एव तद्-अर्थं दातृषु तदेहमानम् इवासीत्। तद्-विवरण-कौतुकम् आस्ताम् ।
[३२] ते तु क्रम-गत्या मागधान् गत्वा तु गिरि-व्रज-नागर-जन-लब्ध-सत्ताः स्रक्-चन्दनादिमत्त्वाद् अत्यपूर्व-वेश-धरा विद्याधरा इव तत्र विहरन्ति स्म ।
अथातिथ्य-काले धृत-ब्रह्म-वेशाः प्रभावेण विध्वस्त-पौराद्य-शेषाः । नृपान्तःपुरान्तस् तदाराद् अपूर्वा नृपस्याग्रतस् तेऽभवन् कृष्ण-पूर्वाः ॥२८॥
[३३] व्रजराज उवाच—ततस् ततः ?
[३४] दूताव् ऊचतुः—
श्वेत-पत्रग-संसक्त-गदाभृद् भीम-तेजसा । सर्वेषु बन्धु-वर्गेषु त्वं सुखायस्व मागध ॥२९॥
[३५] सर्वे स-हासं ऊचुः—ततस् ततः ?
[३६] दूताव् ऊचतुः—तद् एवम् आकर्ण्य निर्वर्ण्य च मागधस् तेषां देहं सन्देहम् अनैषीत् । एषु क्षात्र-गात्र-मात्रता तद्-उचित-गम्भीक्र-वीर-स्वर-पात्रता च दृश्यते । विप्रतिपत्ताव् अस्यां न केवलं तत्-तत्-ताम् अवलम्बामहे, किन्तु कलितावलोक-लोकताम् अपीति ।
[३७] अथ विचारान्तरम् अप्य् अन्तश्-चरम् आचचार—
ब्राह्मणाश् चेत् क्षत्रिया वा मायिनः स्युर् अमी मया । अवश्यम् उपगन्तव्या धर्मं शौर्यं च वाञ्छता ॥३०॥ इति ।
[३८] अथ दित्सन् मित्संश् च स्पष्टम् आचष्ट—के भवन्तः ? कथं विप्र-लिङ्गानुसारितायाम् अपि बहिर् माल्यादि-धारितेति ? तत्र तु—
रूपादिना विबुध्यापि यत् पृष्टं तत् कथा वृथा । इति व्यञ्जन् हरिः प्रोचे वयम् अभ्यागता इति ॥३१॥
किं च,
दूषणं नापि विन्देत बहिर् माल्यादि-भूषणम् । पुंसां लक्ष्मी-निवासानां तद् धि लक्ष्मीर् इतीष्यते ॥३२॥
[३९] स तु प्राह—भवतु, भो जनाः ! भोजनादि-सामग्री-समग्रम् एभ्यो दीयतां
।
[४०] श्री-कृष्ण उवाच—
वयम् अभ्यागताः किन्तु नान्न-मात्राभिकाङ्क्षिणः । कस् त्वां तत्र च दूरस्थं तन्-मात्रार्थम् अभिव्रजेत् ॥३३॥ हरिश्चन्द्रादयोप्य् आसंस् तादृशं सत्त्वम् आश्रिताः । किं पुनस् त्वं जरासन्धस् तन्-निर्बन्धः स्वयं भवान् ॥३४॥ भवतः समितिं द्रष्टुम् एव तस्माद्द् इहागताः । पित्रादि-क्रमतः सा हि वित्रासा परिकीर्त्यते ॥३५॥
[४१] तद् एवम् आकर्ण्य याचमानतायाम् अपि स-स्मितं भाषमाणस्य कृष्णस्य स्व-प्राण-पर्यन्त-पर्येषणां पर्यालोच्य चाननुशोच्य तेषां विप्रेतरताम् अभिप्रेत्य च ताम् अभ्युपेत्य ब्रह्मण्य-देव-द्विषद्-अग्रगण्यः स खलु ब्रह्मण्यं-मन्यस् तद् इदं जगाद—-हे विप्रा व्रियतां कामो ददाम्य् आत्म-शिरोऽपि वः [भा।पु। १०.७२.२७] इति ।
[४२] श्री-कृष्णस् तु तद्-वध-तृष्णस् तद्-वचनम् एव निज-शुभ-रचन-शकुनम् अवधार्य निज-कार्यम् उवाच—एकेनैकेन युध्यस्व स्वयं त्वं यदि मन्यसे इति ।
[४३] व्रजराज उवाच—ततस् ततः ?
[४४] दूताव् ऊचतुः—ततश् च जरासन्धे स-स्मितं स-विस्मितं च कृत-लोचन-सन्धे स पुनर् उवाच—किं स-वैलक्ष्यं लक्षयसि ? अस्मासु विप्रतां माभिप्रगाः । यस्माद् अन्न-मात्राकाङ्क्षिण एत इत्य् अवलम्बमानः शिरसोऽपि दानम् उद्दिशसि ? वयं तु क्षत्रिया युद्ध-काङ्क्षिण इति तद् अपि त्वत्तो गृह्णीमः । तच् च युद्ध-शिक्षया , न तु भिक्षया कदाचिद् अपीति ।
[४५] पुनश् च स-चित्रं द्वि-त्र-वारं वीक्षमाणे मागध-महीक्षिति श्री-कृष्ण उवाच—किं सन्दिग्धम् ईक्षसे ? परिचिति-निदिग्धम् ईक्षस्व । अयं खलु भीम इवाहङ्कार-धामा पराग्-व्यत्यस्त-प्रत्यक्-पुरुषः श्री-भीमः । असौ चार्जुन इव कृतवीर्य-प्रसवस् तत्-सहोदरः श्रीमान् अर्जुनः । अहं तु हरिर् इव सर्वदा नव-नाग-हारि-कर्मानयोर् मातुल-जन्मा स्वयं हरिर् इति ।
[४६] जरासन्धस् तु कृत-हास-प्रबन्धः स्वस्मिन्न् अभीतिं तेषु चानीतिं व्यञ्जयामास कथयामास च—न त्वया मया कृत-चयाद् भयात्मकरालयान्तर्-वलितालयात्मना युद्धम् उद्बुद्धम् इष्यते । न च निर्बलतया वलित-धनुर् अवलम्बनेन फल्गु-गुणेन फाल्गुनेन । सर्वत्र लम्भित-दरे तदीय-सहोदरे वृकोदरे तु दरेवादरेण मम मनः समरीयति ।
[४७] श्री-कृष्णः सहर्षम् उवाच—
योऽयम् अस्मद्-उरीकारस् तम् उराकृतवान् भवान् । दृष्ट्वापि भीम-तेजो यत् पुरस्ताद् अन्धकायते ॥३६॥
[४८] तद् एवं स्थिते स तु शूरम्मन्यः स्व-मुखोद्यम-मृषोद्यमं कर्तुम् अनन्यः सम्मदाद् गदा-द्वयम् आनाय्य तत्र यथा तद्-इच्छाम् एकां भीम-हस्ते प्रणाय्य रङ्गम् अङ्गनम् अङ्गति स्म ।
[४९] ततश् च गदा-दण्डाभ्यां परस्परं खण्डयन्तौ तौ वीरा-खण्डलतया वज्राभ्याम् इव दृष्टौ, चट-चटायमानाभ्याम् अच्यवमानाभ्यां ताभ्यां प्रहरन्तौ पुरुष-कुञ्जरतया दन्ताभ्याम् इव ।
[५०] तथा गदा-युद्धोचित-मण्डलैश् च भ्रमन्तौ रङ्ग-शोभितया ताण्डवैर् इवेति तत्-प्रकारे पराक्-स्थिते मुष्टि-प्रहारे च वैयर्थ्याय संस्थिते परस्पर-जयाय चिराय द्वयेऽप्य् अनवस्थिते दिवस-प्रसरे च प्रस्थिते कृष्ण-दृशा भृशाप्त-बल-सीमापि भीमाभिधस् तद्-विधम् आनाय तद्-विधं नोपायम् अह्नाय ज्ञातवान् इति कृष्ण-घटित-विटप-विपाटन-सञ्ज्ञा-लब्धावधारणः स पर-बल-प्रबल-शैवल-वार-दुर्वार-वारणस् तं तथा विचकार, स्वजनानां सुजनानाम् अपि सुखं चकार, यथा—
पूर्वं पूर्वम् इवात्र पातन-वशाद् ऊर्वे तम् उर्वी-गतं कुर्वन् अर्जुन-पूर्वजः स सहसा धुर्वंस् तद्-उर्वोस् तटम् । कट्यन्ताद् अथ पाट्यम् आशु घटयन् पुष्णन् नटाचार्यताम् घाटाग्रं निटिलं तथा व्यघटयद् यद्वत् पटं वायकः ॥३७॥
[५१] विघटयंस् तद् इदम् उद्घाटयामास च—
नाहं कृष्णाग्रजः कृष्णश् चास्मि कृष्णाग्रजः परम् । कथं क्षमायां रक्षेयं त्वां क्षमायां च मागध ॥३८॥ इति ।
[५२] तथासुरा हा जरासन्धेति, तथा सुरा हा जरासन्धम् इति वदन्तः सर्वं हा-हा-कारस्याधारतां धारयामासुः । [५३] यत्र विजयाच्युतौ चात्मानौ विजयाच्युतौ मन्वानौ तं पूजयामासतुः ।
[५४] ततश् च विपक्ष-जनातिक्रान्ति-भ्रान्तिम् इव सम्भृत्य तद्-अन्तःपुर-पथ-स्थितम् अश्व-शस्त्रादिशस्तं कञ्चन मणि-काञ्चन-रथं बलाद् आत्म-सात्कृत्य भीमार्जुनाभ्यां समम् अधिकरणीकृत्य च श्री-माधवः सावधानतयावतस्थे, यत्र तु रथे गरुडश् च तदा ध्वजतस्यैरूढः ।
[५५] यः खल्व् असौ रथः शक्र्ताद् उपरि-चर-रसुनालब्धः क्रमाज् जरासन्ध-पित्रा यस्माल् लब्धाद् बृहद्रथतया प्रथना लब्धा इति ।
[५६] व्रज-राज उवाच—ततस् ततः ?
[५७] दूताव् ऊचतुः—ततश् च समवलोकित-शोकानां तदीय-लोकानां विशोक-कृते तत्-पुत्रं सहदेवं स श्री-यदु-देवः सह-भीमार्जुनः समभिषिषेच ।
[५८] अथ जरासन्ध-कृत-बन्धानां राज्ञां कृतानुसन्धः सत्य-सन्धः स दया-सिन्धुर् दिन-बन्धुर् गिरि-दरी-सन्धित-तद्-बन्ध-गृहम् एव विन्दमानस् तान् निष्कालयामास । निष्काल्य च निभाल्य च निभाल्य चिरं सास्र-गद्गदतया न किञ्चिद् गदति स्म । यथा—
म्लानान् म्लान-पटान् क्षुधाति-विकटान् शुष्काननान् यन्त्रितांस् तान् पश्यन् हरिर् अस्रम् अस्रवद् असौ पुतान् पितेवौरसान् । एषा तस्य शुभ-क्रिया न तु परं तेषु स्फुटं सार्द्रतां दध्रे किन्त्व् अपरेषु च प्रतियुगं सर्वत्र च स्थायिषु ॥३९॥
[५९] तद् एवं तेषां तत्-कृच्छ्रम् एव तस्य करुणाम् ऋच्छत् कृच्छ्र-कोटिम् अपि जिगाय । ततश् च—
दृग्भ्यां रूपं त्वचांशु-प्रथनम् अथ नसोर् युग्मकेनेष्ट-गन्धं कर्णाभ्यां वाग्-विलासं तम् अपि रसनया लेह्यवन् मिष्टम् इष्टम् । कंसारातेः स्पृशन्तः क्लमथम् अपजहुस् ते जरासन्ध-बद्धाः श्रद्धा-नद्धास् तथासन्न् अपि सपदि यथा सस्मरुर् नात्म-बन्धम् ॥४०॥
[६०] व्रज-राज उवाच—ततस् ततः ?
[६१] दूताव् ऊचतुः—ततश् च करुण-वरुणालयः स खलु कमलालयस् तान् समलान् सपरिमल-स्नपनादिना लालयितुं परिजनान् निज-तरङ्गान् इव प्रेरयामास । ते तु
नयन-सलिल-धारा-स्नान-भाजः प्रमोद- च्छवि-विलसित-वस्त्रा रोमहर्षाङ्ग-भूषाः । मगध-नृपति-बद्धाः पार्थिवा लब्ध-कृष्णा गत-परिकृत-तृष्णास् तुष्टुवुः सुष्ठु कृष्णम् ॥४१॥
[६२] तदा च तदाज्ञाव-शब्ददा लब्ध-सन्-मदा ज्ञाताधिक-तदीय-दया राज्ञां समुदयाः स्नपनादि-समासाधित-रोचनया भोजन-योजनया राजद्-उदयास्तद्-अङ्गीकार-साङ्गीकृताभ्युदयास् तेन विहापित-चतुरङ्ग-सेनादि-सङ्गितया गृहाय विहापयामासिरे ॥
[६३] यथा-पूर्व-वैभवाद् अपूर्वतया पश्यद्भिस् तेषां परिषदि निवसद्भिर् अन्यैर् अपि सद्भिश् चिराद् एव परिचिक्यिरे । श्री-गोविन्दाल् लब्ध-कृपाणां नृपाणां तेषां मुखाद् एव तदीय-सुखास्वादम् आसादयद्भिस् तैस् तैर् मैत्रीमद्भिः समुद्भवद्-भूत-भाग्यतया मेनिरे च ।
[६४] व्रज-राज उवाच—इतः परं परं तेषां कृत-ब्राह्मण-वेषाणां कुरुषु पुरु-प्रवेश-भव्यं कव्यताम् ।
[६५] दूताव् ऊचतुः—अथ ते पथि विसृष्टान् निजान् परिच्छदान् सहदेवेन भक्त्य्-उत्सृष्टान् अप्य् अन्यान् संसृष्टान् विधाय शक्रप्रस्थाय प्रस्थानम् आसेदुः ।
आसद्य प्रिय-सदनं त एवम् इन्द्र- प्रस्थाख्यं स्फुटम् अधनं प्रति स्व-शङ्खान् । येषु द्वौ निज-निजम् आश्रयं तम् एकं बिभ्राणौ जगति विबभ्रतुः श्रवांसि ॥४२॥ अथागतैर् मुररिपु-भीम-जिष्णुभिः स्फुटं जरा-तनय-नृपासु-जिष्णुभिः । निजागति-श्रवण-शर्म-पूरिता नृपत्य्-उपाव्रजनम् अवाप्य पूरिता ॥४३॥ गाम्भीर्ये धर्म-सूनोर् अघरिपु-रचितां शृण्वतस् तत्र मैत्रीं तस्याः श्लाघाम् अथावृण्वति वर-बलवान् आवृणोद् बाष्प-पूरः । पूर्वं साधारणानां गुण-गण-गणनाम् आविशेद् उत्तरस् तत् प्रेम-प्राबल्य-भाजाम् अथ कथम् अनयोः साम्यम् ऋच्छेद् अवाम्यम् ॥४४॥
[६६] व्रज-राज उवाच—केन पथा मगधान् पथन्ति स्म ते ?
[६७] दूताव् ऊचतुः—अन्तर्-वेदि-मध्यासीनेन दूर-सम्बन्धेन, यस्मान् नित्य-स्थितय एव भवतां स्थानाया प्रस्थातव्यं तेन ।
[६८] सर्वेऽप्य् ऊचुः—हन्त हन्त ! सन्ततम् एतद् आकर्ण्यते परं परं तु न निर्वर्ण्यते ।
[६९] दूताव् ऊचतुः—श्रीमद्-उद्धव-मतेनेदं गम्यते । अत्र नातिविलम्बः स्याद् इति । तद् एतावद् वृत्तान्तं वृत्तान्तम् आसद्य सद्य एव ततश् चलितवन्ताव् अत्रागच्छावः इति ।
[७०] दूत-कथानुकथनानन्तरं स्निग्धकण्ठ उवाच—
मा त्वरां कुरु गोपेश कृष्णागति-कथां प्रति । भ्राजते सोऽयम् आगम्य तत्-कथाप्य् आगमिष्यति ॥४५॥ इति ।
[७१] अथ श्री-राधा-माधव-सदसि सोऽयं शंसति स्म, भवतीषु च श्रीमत उद्धवस्य सन्दिष्टम् उद्बुद्धम् आसीत् ।
प्रतिश्रुत् कंसारेः कुरुषु किल यासीद् अधिभवत्य् असौ तस्याप्य् अन्तर् वसति तद् इदं निर्णय-पदम् । यदाहं मन्त्रान्तर्-भवद्-अभिधया किञ्चिद्च् अवदं तदा तस्याःन्तः-स्थं किम् अपि नयनाद् आकलि मया ॥४६॥ इति ।
[७२] तद् एवं लब्ध-भव-भीतिभिर् जनताभिर् ज्ञानम् इव श्रवसा तद् एतद् अनुभवन्तीभिर् भवतीभिः कृष्ण-लाभासम्भावना-दुःखम् अभिभवन्तीभिः स्थितम् । सम्प्रति तु तस्य फलम् इवेदं फलति स्म । तथा हि—
आसीत् पुरा विरह-ताप-रविर् मुरारेर् यस् त्वत्-कमम् अङ्गम् अतिशोषयतीति वित्तः । सोऽयं तद्-ईक्षण-घनैर् उपलाभम् आर्द्री- कुर्वन् प्रफुल्लयति तद् वृषभानु-पुत्रि ॥४७॥
[७३] तद् एवं सुख-प्रथकयोः कथकयोः सङ्गत-सद्म-पथयोर् अनङ्ग-निशान्तस्यान्तः श्री-राधिका-कान्तः कान्तया सह विश्रान्तवान् ।
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
जरासन्ध-तत्-कृत-बन्ध-राज-वृन्द-मोचनं नाम
षड्विंशं पूरणम्
॥२६॥
(२७)
सप्तविंशं पूरणं
राजसूय-पूरणं
[१] अथ प्रातर् अनन्तर-कथा-व्रातं मधुकण्ठः सुष्ठु मधुवत् परिवेषयामास । दिनान्तर-सम्भूतौ तु दूतौ व्रज-राजेनानुयुक्तौ युक्तौ कथान्तरम् अनु रसान्तरं प्रथयामासतुः—
[२] अथ मय-निर्मित-सभायां सभायां भासमानाः समानाशयाः परस्परं परं परं परि परस्परागत-परिहास-भासन-मुखेन सुखेन वृष्णि-पाण्डु-वंश-धरास् तथा दिव्ज-वराश् चिराद् विराजन्ते स्म । तत्र विनयेन नयेन चाधिष्ठितः श्री-युधिष्ठिरः श्री-कृष्णं तुष्टात्मा तुष्टाव—
यत्र क्वचन निजाज्ञां, प्रथयितुम् ईशश् चिनोति सद्-भक्तान् । त्वं पुनर् अधीश तेषां, याच्ञाम् आज्ञां विदन् मुदं यासि ॥१॥ भक्तेष्व् अनुगति-हेतोस्, तव न हि तेजो-विपत्तिः स्यात् । भजतां द्रवतां नान्यद्, विधु-तन्-मणि-वृत्तम् अप्य् एवम् ॥२॥ तस्माद् भवद्-अनुगमनाद्, एवास्मासु प्रकृष्टता दृष्टा । कमलेष्व् इव रवि-योगाद्, आज्ञापय तद् यद् अस्ति कृत्यं नः ॥३॥
[३] अथ ।शृङ्खलश् च तद् एतद्-आत्म-कृत-प्रतिज्ञाय यज्ञाय स्वयम् अनुमोदनाद् विनुनोद, यथा—
माम् इह भजनीयं, भक्तं वा त्वं विचारयसि । वैदिकम् अथवा लौकिकम्, अखिलं तव कर्म मच्-छर्म ॥४॥
[४] अथ राजा राजद्-अञ्जलितया तद् इदं व्यानञ्ज—
एकैकस्यापि येषां गतिर् अतिविरला दिव्य् अपि स्वेन तेऽमी लब्धास् त्वल्-लाभ-लुब्धा मम सदसि विभो भूसुराः के नृपाद्याः । तस्माद् एवैष यज्ञस् तव रुचि-विषयश् चेद् अमीषाम् अपि स्याद् अस्माकं सूत्र-यन्त्र-प्रतिकृति-निभता युष्मद् एवात्र सिद्धिः ॥५॥
[५] अथ ।शृङ्खल उवाच—मयि निरुपाधि निरवधि च स्निघ्दा एते तत्र-भवन्तस् तथा भवन्तश् च तद्-भाव-दिग्धा इति परस्परं निदिग्धा भवितुम् अर्हन्तीति । यथा-युक्तं प्रयुक्तम् आतन्वन्तु ।
[६] अथ समाजान्वित एव राजाराजासनाद् उत्थाय बद्धाञ्जलितानद्धां वाचम् अव्याजं व्याजहार—
यथा सभास्माकम् इयं भवद्-विधैर् अङ्गी-कृताङ्गी-करणाद् बकी-रिपोः । तथा वयं चाङ्ग तद्-अङ्गतां गता भवत्कम् अङ्गीकरणं भजेमहि ॥६॥
[७] मुनयश् च पूर्वोपेन्द्र-सहितां सुधर्माम् अपि विजयमानां पूर्वोपेन्द्र-सहितां सुधर्माम् इमां धर्म-सुत-विराजमान-राजानां सभां स्वभावं युगपद् उत्थिताम् आलोच्य सङ्कोच्यमान-मनस्तया समुत्थितवन्तः ।
[८] अथ व्रज-राज उवाच—के ते ?
[९] दूताव् ऊचतुः—कति वा ते गणनयातती-कर्तव्याः ? यत्र वसिष्ठ-वामदेव-त्रितासित-कश्यप-भरद्वाज-गौतम-पराशर-मैत्रेयाः, यत्र च साक्षान् नारायणः स्वयम् एव बादरायणस् तत्-परायणताम् एव दधते स्म ।
[१०] अथ सर्वेऽप्य् ऊचुः—नाश्चर्यम् इदं तस्य धर्म-चर्यस्य राज-वर्यस्य, यः खलु तद् अपि नील-कमल-कमला-कमनीय-मुख-मयूखं जूषमाणः स्वक-मुख-सुषमाभिः ।सर्वम् एव सुखयति । [११] इति निगदम् आकर्ण्य व्रज-राजस् तु गद्गद-वशंवदतया क्षणम् अगदन् कथम् अपि जगाद—ततः किं व्यवजहार व्याजहार वा धर्म-जहु-राजः ?
[१२] दूताव् ऊचतुः—दण्डवद् अखण्डं प्रणिपत्य निज-मुकुट-रत्न-मण्डलेन तेषां चरण-खर-दण्ड-मण्डलं मण्डयामास । प्रार्थयामास च पार्थस् तान् ब्रह्म-भूयङ्गतान् राजसूय-विधि-सिद्धि-समर्थनम् ।
[१३] ते तु युगपज् जगदुः—
नित्यं यस्यायम् अर्थो द्रुहिण-शिव-मुख-प्रार्थनार्हः स्वम् उच्चैर् जानन् कुर्वंश् च चित्रं सुखम् उपलभते तस्य किं तेऽनवाप्यम् । तत्रापि प्रार्थनीयास् तव वयम् इति नापूर्वम् अस्य त्व् अपूर्वं यत् कर्मोपज्ञम् अस्ति द्विज-कुल-विषया सत्-कृतिः सत्-कृतीनाम् ॥७॥ सान्दृष्टिकं यथा दृष्टि-विषयी-क्रियते फलम् । उदर्कश् च तथा तर्क-गोचरी-भवति स्फुटम् ॥८॥
[१४] तस्मादं भवन्तः स्वस्थीभवन्तः प्रतिस्वम् आसन-मध्यम् अध्यासताम् । पश्चाद् विचारम् आचराम ।
[१५] व्रज-राज उवाच—देवर्षिः कथम् इव ऋषि-गणनायां न प्रस्तुतः ?
[१६] दूताव् ऊचतुः—स खलु श्री-कृष्ण-लीला-कुतूहल-मात्र-शीलात्मतया विलसति, न तु कर्माङ्गतया वसति इति ।
[१७] व्रज-राज स-निश्वासम् उवाच—ततस् ततः ?
[१८] दूताव् ऊचतुः—तद् एवं समुपविष्टे सुखाविष्टे सर्वस्मिन्न् एव शिष्टे जने जनेश्वरानुमत्या सम-मत्यादरणीयान् दैवज्ञान् सर्वत्र सर्वज्ञा अपि ते मुनयस् तद्-अनन्तरस् तद्-अवज्ञा-प्रज्ञाना यज्ञाय दिनं जिज्ञासामासुः ।
[१९] ज्ञाते च जिज्ञासिते राज्ञा श्री-कृष्णानुज्ञां सुज्ञातवता विज्ञा द्विजास् ते वेदानां भेदाद् ऋत्विग्-विभेदाख्यया वेदयामासिरे, निवेदयामासिरे च । दूतैः स-वर्ण-दूतैर् आगमनाय स-कृप-द्रोण-भीष्मादयस् तथैवाकृप-धृतराष्ट्रादयश् च । किं बहुना, राष्ट्र-गताः सर्व एव भूदेव-प्रभृतयस् तत्-कृत-भृतयश् च । यत्र तत्-सभा-पर्वातत-सर्वागमन-पर्याय-मर्यादया वृष्णि-प्रवीरार्य-मिश्र-रेवती-भार्य-मिश्र-महाजन-सङ्गमनम् अपि रङ्गदं जातम् । तद् अप्य् आस्ताम् आस्था पुनर् अत्र क्रियताम् । विनापि समाहूतिं स्व-नयनां त्वत्-प्रसूति-विभूति-शश्वद्-अनुभूति-कृति-लोभाद् भव-कमल-भवादयस् त्रि-लोकी-लोका एव तत्रागता विलोकिताः । किन्तु भवन्त एव स्व-पुत्र-मन्त्रणापर-तन्त्रतया तत्र न गताः । भवत्-पुत्र-प्रधानेऽस्मिन् विताने भवताम् अनागमनं चेत् तद्-उदासीनताम् एव भवत्सु परे वितर्केयुर् इति ।
[२०] अथ यदा भू-देवा इव नर-देवाश् च तत्र तत्र युक्ता नियुक्तास् तदा सर्व-पदावनेजन-प्रयोजनाधिष्ठानस् तु कश्चिद् अपि नानुतिष्ठेद् अनुतिष्ठतु वा, तथापि प्रायो गर्ववतः सर्वत एव तन् न सुष्ठुताम् आपद्येतेति निश्चितम् । तदा तद् विचार्य स्वयम् एवार्याणाम् अग्रणीर् भवत्-कुल-ग्रामणीर् भक्तार्थम् अकार्यम् अपि कुर्वाणस् तद् अप्य् अङ्गीकृतवान् ।
[२१] अथ तद् एतद् वर्ण्यमानम् आकर्ण्य सर्वेऽपि व्रजस्थाः स्वस्थात्मना चिन्तितवन्तः—व्यक्तं न त्यक्तव्या एव तेन मद्-विधाः इति ।
[२२] स्पष्टं च पृष्टवन्तः—ततस् ततः ?
[२३] दूताव् ऊचतुः—अथ यदा तु विप्राः सुवर्ण-कलिलाङ्ग-लेप-सुवर्ण-लाङ्गलेन देव-यजनं कर्षन्तः सर्वेषां मुहुर् अपि हर्षं ऊहुस् तदा भूमि-स्पृशस् तत्र स्मित-स्पृश-दृश एवासन् । ते हि न तत्र शिक्षावन्तः, किन्तु दीक्षादि-कर्म्ण्य् एवेति ।
[२४] यदा तु राजानं दीक्षां व्राजयामासुस् तदा सर्वे वीक्षा-मात्रं चक्रुर्, न तु परीक्षाम् । यतस् तद्-उपक्रमम् एव सर्वा विधि-चर्या ।
[२५] यज्ञारम्भे तु—
केचिद् धाटक-मात्र-पात्र-घटनां वीक्ष्यागता विस्मितिं केचिद् रूप-सुरर्षि-शक्र-विधिजान् केचिद् विधीशाव् अपि । केचित् तत्-तद्-अशेष-कर्ष-बलवत्-तीव्र-प्रभावं हरेः सर्वेऽप्य् अद्भुत-रूपम् अस्य यद् इदं मुक्तेऽप्य् अलं सत् फलम् ॥९॥
[२६] तद् एवं स्थिते सर्वेणापि सिद्धतया स्थिते तत्र यज्ञे हवन-क्रिया सञ्जज्ञे । किं तु,
स्नेहं तत्र हुताशसाद् अकृषत श्रौतैर् विधानैर् द्विजाः सर्वे तु व्रजराज तावक-सुत-श्री-सात्कृतं निर्ममुः । एव्ग् यद्यपि पश्यति स्म जनता तस्मिंस् तद् अप्य् अग्रिम- स्याप्य् अस्त्य् अन्तिम एव पर्यवसितिस् तात्पर्यम् अत्रैव हि ॥१०॥
[२७] अथ सोमाभिषवे सदस्यानाम् अर्चायाम् अभिनवे विचारे कृत-प्रचारे कोऽयम् एषाम् अशेषाणाम् आदिमः स्याद् इति विविध-सङ्ग-हेतोर् मत-भङ्ग-भिया सर्वेषु स्व-स्व-मत-प्रभविष्णुषु च तूष्णीं-भविष्णुषु केषुचित् तु कर्णे कर्णे वर्णावर्णीव वर्णयत्सु तत एव तद्-अर्चा-पात्र-हस्ते राज्ञि च चिराय विहस्ते सर्वम् उपर्य् उपरि हरिम् एव पर्यवस्यन् सहदेवः सह-देव-मुनिषु सर्व-सभासत्सु चाभ्यर्णतः समाकर्णयत्त्सु वर्णयामास—
एते यस्य तु दृष्टि-लेश-वशतः पद्मासनस्यात्मजाः के देवाः स्वयम् आगमन् न तु शिवोऽप्य् अब्जासनेनान्वितः । तं हित्वा परगां पराम् अपचितिं यां निर्मिमीते जनः सेयं तत्र च तत्र चापचितितां यात्य् एव किन्त्व् अन्यथा ॥११॥ आत्मायं जगतां विधेः पशुपतेर् अप्य् अस्ति वृष्णी-शता बाढं पश्यत चक्षुषेदम् असकृन् मज्-जल्पितानन्तरम् । सर्वेऽमी लसित-स्मितं सपुलकं मां लोकयन्तः स्थितास् तस्माद्द् अस्य समर्चनं तु भविता सर्वेषु सन्तोषणम् ॥१२॥
[२८] अथासुराणाम् अत्र दुराशयतां व्यवसाय पुनर् जगाद—
सर्वात्मनस् तु ये वा स्युर् अस्माद् अतिबहिर्मुखाः । न तेषां मतम् आचेयम् आत्म-द्विट्त्वं गता हि ते ॥१३॥
[२९] पुनः प्रतीचां काल-मुखतां निभालयन्न् आललाप—
कनिष्ठोऽप्य् आत्मनो धार्ष्ट्यं सभायां वर्णयामि किम् । वामाङ्घ्रिर् मम वामानां कामं कामयते शिरः ॥१४॥
[३०] अथ मेघनादानलासिनाम् इव सर्वेषां पर्वागतानां सुपर्वादीनाम् उल्लास-कोलाहल-वहं सहदेव-मेघस्य नदित-प्रभं गदितम् अनुकर्शित-दुष्ट-कृकलास-चयः सन् मेघ-समय-समनयः स धर्म-तनयः समस्त-मूलं पीत-दुकूलं सन्तर्पयन् नाना-स्नाय-शाखा-भृतां तद्-अनुगति-कृताम् अपि सन्तर्पणम् अर्पयामास—
तदा मदात् पाण्डु-नृपः प्रतीति- सारात् तम् आनर्च तथा च हार्दात् । पादाम्बु तत् तस्य यदा ददानः स बाष्प-रोमाञ्चिततां ततान ॥१५॥ इत्थं सभ्पजितम् अवेक्ष्य मुकुन्दम् एतं सर्वे जयेति नम इत्य् अपि शश्वद् ऊचुः । किं च द्रुतं सुमनसां कुसुमानि हस्तात् कम्प्रान् निपेतुर् इह मोचनतः पुरापि ॥१६॥ ये साधु-कारम् अवदन सुर-सोमपाद्या येऽस्मिन्न् असाध्व् इति च दानवम् अद्य-पाद्याः । तेषां तद् एव च तद् एव च युक्तम् उक्तं वक्तृ-स्वरूप-गत-रूपम् उदेति वक्त्रे ॥१७॥
[३१] तद् एवम् उपलम्भ्यतायाम् उपालभ्यतायाम् अपि तत्रोपलभ्यमानायां विशेषतस् तद्-उत्कर्षम् असहमानः सहमानः स भासमानायां सभायाम् एव चेदिपतिर् धर्मतः पतितः कर्मतस् तु बाहू विक्षिप्य समुत्थानाद् उत्पतित इव धृष्णग् आत्मा शृण्वत एव कृष्णस्य तद् इदं गदितवान्—
ब्रह्माद्यास् त्रिदशा वशिष्ठ-वलिताः शिष्टा मद्-आद्या नृपा यस्मिंस् तत्र समर्हणं प्रथमतः सोऽयं व्रजेत् कृष्णकः । गोपः खल्व् अयम् अस्ति मातुल-जनिर् नैवास्ति नः पाण्डवांस् तस्माद् धिग् धिग् इमां सभाम् अपि तथा धिग् यज्ञम् अज्ञ-श्रितम् ॥१८॥
[३२] व्रजराज उवाच—ततस् ततः ?
[३३] दूताव् ऊचतुः—ततश् च,
श्रुत्वा तेन पृथासुता मुररिपोर् निन्दां क्रुधावेशतस् तां स्वेषाम् अपि शुश्रुवुर् न हि यदा विस्मृत्य दीक्षां तदा । चञ्चत्-प्रायत-रक्त-नेत्र-महसा सोसूच्यमाना इव स्वास्त्राणां द्रुत-भाविनीं गतिम् अमून्य् उत्तस्थुर् आदित्सवः ॥१९॥
[३४] अथ हरि-परिभाषण-श्रवणान् निर्गच्छत्सु शास्त्र-विद्वत्सु स्वानुज-मन्त्रणा-यन्त्रणानुसारिणि च सीरिणि दीक्षा-वत्तायाम् अपि शस्त्रवतस् तान् गृहीत-खड्ग-चर्मणस् तस्माच् छिशुपाल-वर्मणः स्वयं हरिर् एव निवारितवान् ।
किं च,
रीढां चैद्य-कृताम् असोढ शतधा यन् नास्ति गर्वस् तथा गोपाख्यां स्वदते स्मयद्-विधि-वृतं गोपाङ्घ्रि-जुष्टं रजः । यर्ह्य् एवाघटि पाण्डवावगणना तेनाथ चण्डात्मना मुण्डं तस्य विखण्डितं तव सुतश् चक्रेण चक्रे तदा ॥२०॥
ततश् च,
यत् तेजः समगाद् विभुं सुमनसां स्मेराननं श्री-मयं धारा-पातमयं च तर्हि युगपल् लोके मुदा पश्यति । तत् तत् तत्र परं न साद्भुतम् अभूद् यत् स्पर्धयेवापरम् चैद्यान्तर्-हृदयाद् अपि स्फुटम् अमुं तत्-सङ्गतः सङ्गतम् ॥२१॥
[३५] अथ तत्-पक्षपातवत्सु भयात् पक्षिवद् उड्डामरम् उड्डीनवत्सु लोकास् तु कृत-तद्-विलोआस् तारतम्य-रम्यम् इदं ऊचुः—
यः कंसादि-हरः समर्हति स एवेन्द्रादि-सम्पत्पदं तर्ह्य् अप्य् एष ददे स्व-देशम् अपि यत् कंसस्य तातं प्रति । तस्माद् अस्य न गर्विता न नितरां क्रोधश् च यत् तामसान् जङ्घन्ति स्फुटम् एव तत् तु घटते तेषां तमः-शान्तये ॥२२॥ उग्रसेनम् अनु राजतार्पणं तस्य चानुसृतिर् अस्तु दूरतः । पश्य पाण्डव-मखे पदार्चन- स्याधिकारम् अधृत स्वयं हरिः ॥२३॥
[३६] तद् एवं सत्रे शत्राव् अपि समाप्ते राजा राजद्-अवदानानि दानानि विधायावभृथं कर्मावभृतं चकार । न केवलं तद् एव, किन्तु स-देव-भूदेवं जगद् एव च । मनसीप्सित-दुर्योधनं तु विना स हि तस्य हित-सहितं सर्व-महितं मन्यते, यः खलु मय-माया-मय-तन्-निलय-महिम्ना मोहिततया नो हितं किम् अपि कर्तुं समाहित-मना बभूव । जल-स्थल-द्वारा द्वारादि-परीत-बुद्धि-परीततया न मनः-शुद्धिम् अवापेति स्थिते श्रीमद्-उद्धव-नाथानुमत्या द्रुत-गत्या प्रस्थितयोर् आवयोः किम् अनन्तरम् अन्तरं बभूवेति दूतान्तर-युगलं कलयिष्यति ।
[३७] व्रज-राज उवाच—किं यावद् अत्र सत्रं समाप्य च स सर्व-सुख-सत्र-वदनः स्थास्यतीत्य् अपि किम् अवकलितं ?
[३८] दूताव् ऊचतुः—अथ किम् । यदा हि सर्वान् परिकरान् द्वारकां प्रस्थाप्य स्वयम् अग्रजेन सह शक्रप्रस्था-वासं श्रीनिवासः स्व-वासतया भासयामास, यदा चाकूलाशा-प्रसारे गोकुल-सारेऽस्मिन्न् आगन्तुकामौ नौ प्रति नौर् इव समुद्रे समुद्रेयं पत्रिका दत्ता, तदा स्वयम् एव तेन कथयामास—मास-कतिपयम् अत्रास्माकं स्थितिः इति ।
[३९] एवं दूत-कथनं प्रथयित्वा मधुकण्ठः स-गद्गद-कण्ठः प्राह स्म—अथ तद् एवं प्रोच्य पत्रिकां विमोच्य कम्प-सम्पद्-विहस्ते व्रजराज-हस्ते ताव् अदाताम् ।
[४०] व्रजराजस् तु व्यग्रतया समग्रावलोकनासमर्थः पुरोहित-हस्ते विन्यस्तवान् । पुरोहितश् च लिपि-निहितं तद् अभिहितं प्रणिहितं विधाय श्रावयामास, यथा
नेन्द्रप्रस्थं द्वारकां नापि किन्तु श्रीमन्न् एतत् पत्रम् एवावसामि । एतत् तस्माद् अञ्चले रक्षणीयं मत्-प्रत्याशा-व्यत्यये लक्षणीयम् ॥२४॥ इति ।
[४१] अथ ते तद् एतद् आश्रुत्त्य श्रुत्य्-अनुगृहीत-पुमर्थम् इव समर्थ्य तद् अवैयर्थ्यं मन्यमानान्तम् अपि कालं कालम् इव चालयामासुर् इतीदं सर्वं पूरा-वृत्तं पुरा-वृत्तम् एव सम्प्रतीतं क्रियताम् ।
दूर-स्थिर-प्रवसनात्मकम् आत्म-वृत्तं तातान्तिकेऽस्मद् अवकर्ण्य स एष कृष्णः । तातस्य पश्यति मुखं किम् अयं ममास्यं पश्येन् निजाश्रु परिमृज्य कदाचनेति ॥२५॥
[४२] अथ ते तद् एतद् आकर्ण्य वर्ण्यमानं तम् एव निर्वर्ण्यं चक्रुर् इति श्री-व्रजराजस् तं चरणयोः सङ्गतम् आलिङ्गन् निज-नयन-कीलालाकुल-पुलक-कुलं कला-बलत इव सर्वम् एव स्वजनं सङ्क्रमयामासेति ।
[४३] अथ व्रज-वन्दिनश् च वन्दमाना नन्दन्ति स्म ।
जरासुतानुबन्धन-क्षितीश-वृन्द-बन्धन- श्रुतेर् अतीव सूरतः सुरर्षिणापि दूरतः । समेत्य पार्थ-याचितं क्रतु-क्रियाशया चितं सदुन्नयार्थम् उद्धव-प्रयुक्त-मन्त्रम् उद्धवः । क्षयाय मागधेशितुः पुरागतः परं पितुः स्वसुः सुतस्य मन्दिरं स्व-योग्य-संसद्-इन्दिरम् । तद्-उद्धवोक्त-मन्त्रणात् तदीय-भक्ति-यन्त्रणात् किरीटि-भीम-सङ्गतश् छलेन विप्रतां गतः । तदा जरासुतं सज्जन् नियोद्धुम् अर्थितां भजन् युधीह भीमम् उन्नयन्-मुखेन तस्य निर्णयन्न् अनेन तं च योधयन् स्वम् एनम् अत्र बोधयन् निजेङ्गिताद् अनेकशस् ततानचास्य सद्-यशः । स मागधेश-घातनः क्षितीश-बन्ध-शातनः समस्त-यन्त-सार्थकः प्रनन्दितात्म-पार्थकः स्व-कॢप्त-राजसूयकस् तदाप्त-पूज्य-भूयकः ततश् च चेदिपे रुषा क्षिपत्य् अपि क्षमा-जुषाम् उपेत्य वर्त्म सुस्थिरः स्व-भक्त-निन्दनाचिर- प्ररूढ-कोप-पद्धतिः स्व-चक्र-सृष्ट-तद्-धतिः समाप्त-पार्थ-यज्ञकः प्रसिद्धि-भाक् समज्ञकः । तद् एवम् अप्य् असौ पुनः स्व-घोष-वासिनस् तु नः समर्धय्न् समागतः सुखाकरोति रागतः ॥२६॥ इति ।
[४४] अथ श्री-राधा-माधव-सभा-रञ्जनी रजनी-जनिर् अपि कथाम् इष्टां व्यजनिष्ट । [४५] यत्र च मधुकण्ठ उवाच—तदा भवतीः प्रति च पत्रिका-पतत्रि-राज-पत्रेण सापत्रपम् एव रहसि प्रहिता, यथा—
स्व-शात्रवाणां निहतिर् निजागतौ सीमा कृता या तु मया कुरोर् भुवि । सा मे तद्-अर्थं प्रतिभूर् इवानिशं पुरः स्फुरन्ती द्रुतम् एव सेत्स्यति ॥२७॥ इति ।
[४६] तद् एवं प्रोच्य पुनः श्री-कृष्णं विलोच्य तां विलोचयन् मधुकण्ठस् तद् इदं रोचयति स्म—
तस्मात् पुनश् चागमनं हरेर् व्रजे त्व्ग् प्राङ् न सम्भावितम् इत्य् अमन्यथाः । युक्तं तद् आस्तां किम् अयुक्तम् एव वा कथं तद् आवेश-वशासि सम्प्रति ॥२८॥
[४७] अथ प्रणय-साराधिका सा च राधिका तद् एतद् अवधारणाच् चमत्कारं तत्-कार-कारणं कृष्णाकार-साक्षात्-कारम् अपि समधिगम्य रम्य-वितानयोः कथा-कारयोर् बहु सत्कारं चकार । विवेश च वश-वशंवदतया केशवेन सह लीला-वेश्मेति ।
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
राजसूय-पूरणं नाम
सप्तविंशं पूरणम्
॥२७॥
(२८)
अष्टाविंशं पूरणं
नष्ट-साल्वतास्पष्टानन्दम्
[१] अथ प्रतिप्रातर् इव तत् प्रातर् अपि स्निग्धकण्ठः कथया सर्वम् उत्कण्ठयामास—
[२] तद् एवं प्रस्थापिता दूताः पुरुहूत-प्रस्थात् तत्-प्रस्थानं यावद् एव प्रात्यहिक-कथां व्रज-पतिं प्रत्याययामासुः । तद्-अनन्तरं तु शक्रप्रस्थात् कृत-प्रस्थाने लब्ध-कुशस्थली-समीप-स्थाने यादवेशाने तत्-प्रवेशम् अलभमानौ शलभ-समानौ कौचिद् व्रज एव सङ्गच्छमानौ व्रजपतिं प्रति निवेदयामासतुः—आवां तावद् वर्धमान-भूम-धूम-वृताम् इव द्वारकां द्वारका-पतिना प्राग् द्रुत-लब्ध-प्रवेशाम् अनुविशन्ताव् अपि न द्वारम् अलभावहि, परन्तु तस्याम् अमन्दम् आक्रन्दम् एव स्रवसोर् अभजावहि । द्वारकाखण्डलस् तु मार्तण्ड-मण्डलवन् निज-तेजसा तत्-तेजः खण्डयन्न् एव सरथ एव च पथन् प्रविवेशेति तु बहिर् जन-गणान् निरधारयावहि ।
[३] अथ तद् एवम् आकर्ण्य वैवर्ण्य-पूर्णा मर्मणि चूर्णा इव च तूर्णं तूर्णम् एव ते व्रजेश-मुखा दीन-मुखा गति-शक्ति-परीताननयान् अभिनीतान् प्रेषयामासुः । सर्वेऽपि ते बहिर् बहिर् एवावहितं विधाय चलिताः, न हि मध्यम् अनुसन्धाय चलिताश् च तेऽमी, न तु व्रज-पर्यन्तं लब्धाः, किन्तु दुःख-स्तब्धाः पथि पथि बद्धा इव स्थिताः । वस्तुतस् तु तत्र वृत्तम् एवं वृत्तम् । खलाग्रणीः साल्वः खल्व् अग्रे श्री-कृष्णेन रुक्मिण्या हरणे वृष्णिभिश् च तस्य तत्-पक्ष-मागधादि-लक्षस्य च निर्हरणे सम्पन्ने पन्ने हि तेषु हितेषु वरम्मन्य-शिशुपाल-मन्युं शमयत्सु निशमयत्सु च जरासन्धादिषु सन्धाम् आचचार ।
[४] यादव-दवं प्रति दव-प्रतिनिधिं शस्त्रम् अस्तं कुर्वन् वस्त्रं विना जाताम् इव वस्त्रपाम् अपाकरिष्यामीति । किन्तु सन्धां सन्धाय च क्षात्र-सन्धायाम् अन्धायमानस् तपस्या-निर्बन्धाय प्रस्थितवान् । प्रस्थाय च पाशुपत-प्रस्थानम् आस्थाय पशुपति-तुष्टिं पुष्टीकर्तुम् इच्छन् मुष्टि-मितं यत् पांशुं नक्तं नक्तं भुक्तवांस् तत्-पांशुम् एव मुहुर् उपयुक्तवान् ।
[५] भावि-शोके लोकेहिते हि तादृग् एव विहितावहिताचाराणां वाचाम् आचारः । पशुपतिस् तु सात्वत-पतिम् अवजानतस् तस्य पुनर् अपयानं जानन्न् अपि सात्वत-पतेर् एव वीर्य-प्रचारणाय शरणागतान् अनुसरणी-कीर्ति-दोष-मोषाय च जाताशुतोषायमाणस् तं मत्सरान्तरं वत्सरानन्तरं वरं वितरितुम् आससार । स तु दुष्टादिमः सन्तुष्टाद् इव तस्मान् मय-माया-मयम् अयो-मयं सुरादीनाम् अभेद्यम् अवेद्यं च यदूनां दूनान्तरता-रचनाय गगन-यान-यानं याचित्वा लब्धवान् । तथापि जित-बाण-पक्ष-स्पृग् उमापतेस् तु भीत एवासीत् ।
[६] तावता कालेन शिशुपाले तु लब्ध-काले तन्-मैत्री-पालेन तेन द्वारकायां द्वारका-पति-रहितताम् अवहितां विधायाभियुयुजे । अभियुज्य चालात-चक्रवत् तत्-पुर्यां वक्र-गत्या सर्वतः प्रत्यासन्नतया दिवि भूमाव् अपि कृच्छ्र-भूमानम् ऋच्छयामास । यत्र च—
पेतुर् वक्रग-चक्र-वातज-रजः-स्पृक्-कर्करा-सार-युग्- वृक्ष-ग्राव-स-वज्र-सर्प-निवहा द्योचारिणस् तत्-पुरात् । भूमाव् उद्भ्रमता तु तेन ससुर-प्रासाद-लीला-वन- प्राकाराजिर-गोपुरादिकम् अभूच् चूर्णीभवद् घूर्णितम् ॥१॥
ततश् च—
यर्ह्य् अन्तर्-नगरान्तम् आगमद् अदस् तर्ह्य् एव लोक-द्रवान् मारः कृष्ण-कुमारकः स्वयम् अगात् तस्याभिमुख्य-स्थितिम् । मा भैष्टेत्य् अभिजल्पता रथवता येनाथ सर्वो जनः कृष्ण-भ्रान्ति-करेण सान्त्वित-दशाम् आसाद्य सद्यः स्थितः ॥२॥
[७] व्रजराज उवाच— तस्य बालकस्य किं वालम्बनताम् अन्येनालम्बन्तः ?
[८] स्निग्धकण्ठ उवाच—कथं नालम्बेरन् ? यतः—
योग्यत्वाद् अनपेक्षो यः स सर्वापेक्ष्यतां व्रजेत् । विश्वेषाम् ईश्वरो यद्वद् वेदेषु परिगीयते ॥३॥
[९] भद्र-बल-श्रीर् बलभद्रस् तु श्री-गोविन्देन सत्रा सत्रायाप्रयातोऽपि राज-गणामन्त्रणामत्रायमाण-पत्रागमनान्तरं तत्रायाञ्चक्र इति वर्णितम् एव ।
[१०] यदि च तन् नाभविष्यत् तदा तेन हलिना जित-कलिना हलेनाकृष्टं सर्वत्र कुशलेन मुसलेन च घृष्टं सत् तद् अयः-पुरं तूर्णम् एव चूर्णम् अभविष्यत् । तद्-अविद्यमानत्वाद् एव च प्रद्युम्न एवात्र प्रधने प्रधानतां दधार ।
[११] व्रजराज उवाच—कस्कः स्वक-यशस्करतां सहायतया जिघाय ?
[१२] स्निग्धकण्ठ उवाच—गद-साम्ब-सात्यकि-चारुदेष्ण-सानुजाक्रूर-हार्दिक्य-भानुविन्द-शुक-सारणादिर् अखर्वः खर्व-सङ्ख्यः सर्व एव यदु-गणः ॥
[१३] व्रजराज उवाच—ततस् ततः ?
[१४] स्निग्धकण्ठ उवाच—ततश् च,
माया-निर्मित-शस्त्र-जालम् अभिनत् तस्याथ सौभं चलत् तं साल्वं च यथा यथा मनसिजस् तद्वत् परे चापरान् । एवं यर्हि परत्र चित्तम् अभवत् तेषां तदा तु द्युमांस् तत् तस्य द्विषतः सखा स्व-गदया हन्ति सं वक्षः प्रति ॥४॥
ततश् च,
तस्माद् अजात-व्यथम् अप्य् अकस्माद् गदाहतेर् विस्मय-मूढ-चित्तम् । अपोढम् आत्मानम् अवेक्ष्य सूते- नाभर्त्सयत् तं मुर-शत्रु-पुत्रः ॥५॥
ततश् च,
मन्मथः सपदि सूत-यापितस् तं द्युमन्तम् अगमत् पुनश् च सः । तस्य साङ्गक-शताङ्गम् अच्छिनत् कं शताङ्गम् अकरोद् विभिद्य च ॥६॥ येऽन्ये व्यापादिता देहाः साल्वीयानां तदा मृधे । सिन्धाव् एवापतंस् ते च वृष्णीनां बाण-शिक्षया ॥७॥
[१५] तद् एवं साल्व-वाहिनी-पतिं प्रति कुम्भ-सम्भवस्य मनो-भवस्य सप्तविंशताव् अहोरात्रेषु युद्धेन कृत-यात्रेषु दुर्निमित्त-विलोकं लोकं प्रति निमित्तं विधाय कुरु-रद्धाद्य्-अनुज्ञाम् आत्मनि निधाय त्वरया द्वारकां सन्निधाय समम् एव प्रकृष्ट-युधं हलायुधं पुर-रक्षणाय प्रणिधाय सोऽयं दैत्यानाम् अवदायकः सर्व-नायकः कलहायमानं वैरायमाणम् अभ्रायमाण-प्रायतया शब्दायमानं दुरिनायमानं साल्वम् एवाभियुयुजे । यत्र लीलायमानतया स्वयं सुदिनायमानः सञ्जातः ।
तदाविशन्न् उरग-रिपु-ध्वजः स्वकैः परैर् अपि त्वरितम् अलोकि सर्वतः । रविर् यदा विशति सुरेन्द्र-दिक्-तटं न वीक्ष्यते स्फुटम् अथ केन वा तदा ॥८॥
[१६] तद् एवं स्थिते, यदा कार्ष्णिः पार्ष्णि-ग्राहितां जग्राह, तदा—
शीर्ण-सैन्य-निकरेण शार्ङ्गिणे शक्तिम् आशु किरता विकुर्वता । दारुकः स्व-वपुषास्तृत-प्रभुर् लक्ष्यताम् अगमि सौभ-पालिना ॥९॥ अथापतन्ती शक्तिः सा महोल्कावद् अलक्ष्यत । या कृष्ण-बाण-रक्षोभिर् व्योमान्तर्गैर् अभक्ष्यत ॥१०॥
[१७] अथ वरैः षोडशभिः शरैर् आविध्य विध्य्-अर्चित-चरणैः परितः परीतैस् तैः साल्वं गलित-पल्लव-शाखा-कुलैर् आवृतं शाखिनम् इव चकार । तदैवापरिमाणैर् बाणैः साल्व-पुरम् अपि सम्मुख-विमुख-निर्गत-तत्-तुण्ड-मण्डलावगुण्ठिततया सीहुण्ड-वनम् इवाचचार ।
[१८] तद् एवम् आचर्य विचारयति स्म—नानेन निरवसान-ज्ञान-बलयोर् वितानेन मम युद्ध-कौतुकम् उद्बुद्धं स्यात् । तस्माद्द् भक्ति-विनाकृत-जन-कृत-ज्ञान-बल-निकृतिता-रहित-प्रकृतिर् एवाहम् अज्ञ-दुर्बल-सम्भवां तत्-तद्-विकृतिं प्रत्याययिष्यामि इति । तत्र तस्यान्य-माया-वशाद् अज्ञानादौ वास्तवताया वादिनस् तु बादरायणिस् ताडन-विषयताम् अनैषीत्—एवं वदन्ति राजर्षे [भा।पु। १०.७७.३०] इत्य् आदिना ।
[१९] अथ तटस्थताम् अटन् कृष्णस् तस्य धृष्णजः शर-विसर-स्पर्श-मिषम् अवलम्बमानः स्व-चापं लम्बमानम् आचचार । ततश् च कृत-हाहा-कारे लोक-वारे सौभेशाने च विकत्थमाने मुरमथनस् तत्-कत्थनम् अन्यथयन् गदा-पातेन तम् अतीव-सव्यथं चकार, न पुनः कुतुक-संयोजनाय प्राणैर् वियोजयाञ्चकार ।
[२०] अथ पुनर् उपेक्षितः सौभ-महीक्षित् तस्माद् अन्तर्दधे, दधे च माया-वितानम्, यत्र खलु देवकी-सन्देश-हर-वेषः पुरुष-विशेषः पुरुषम् इदं गोविन्दं विन्दमानं चकार—पिता तेऽपयापितः साल्वेन इति । गोविन्दश् च तत्र शोकम् इव विन्दमानः सन्दिहान इव च पुनर् इदं ददर्श । यथा साल्व एव पुरतः स्व-पुरतः श्री-वसुदेवम् इव किम् अपि दूरतः समानीय क्रूर-कर्म विनिर्ममे ।
[२१] तद् एवं दृष्ट्वा तद्-आभासेऽपि क्षमाम् अस्पृष्ट्वा लम्भित-तद्-विरोधं बोधम् एव प्रबोधयंस् तं सौभ-स्थम् एव बुबुधे रुरुधे युयुधे च । यत्र चेदं पूर्वम् अवादीत्—अरे भूरि-माय ! रे वञ्चक ! कति कति वञ्चना सञ्चेतव्या ? इति ।
[२२] युद्धस् तु, यथा—
सर्वैर् ओजोभिर् अस्त्रैर् अपि युधम् अभितः सन्दधद् बन्ध्य-यत्नः साल्वः खल्व् अत्र जज्ञे हरि-विशिख्स-फलं त्वन्-नगाल् लक्ष्यम् एव । तस्मिंस् तिष्ठन् स-वर्मा स-धनुर् अपि दलन्-मूर्धतां स प्रयास्यंस् तत्-पूर्वं तद्वद् आसीद् यद् अमनुत दशां भाविनीं भूत-रूपाम् ॥११॥ गदा हरेः परम् इह सौभम् आतनोन् न चूर्णितं जनम् अपि चैतद् आश्रितम् । उडुम्बरं यदि मूषलेन कुट्यते कथं हठात् कृमि-पटलः पलायताम् ॥१२॥ तथा चूर्णी-कृतं जज्ञे तद् अयो-मय-पत्तनम् । यष्टम्भुधि-जनि-स्त्रीणां नेत्राञ्जन-दशां ययौ ॥१३॥ यदाब्धाव् अपतत् पूर्णं सौभ-चूर्णं तु सर्वतः । तदा जलार्णवस् तस्माद् उत्तस्थुर् धूमिका इव ॥१४॥ साल्वस् तु पूर्वम् अजहाद् अतिधूर्त-चेतास् तच् चूर्णनान् न तु कम् अप्य् उपदेष्टुम् ऐष्ट । यावन् निजौष्ठ-पुटम् उद्घटयेत् स तावत् कार्ष्णी गदा न सहते सहसा विलम्बम् ॥१५॥ गदा-बलं वीक्ष्य हरेः स मूढ-धीर् उद्यम्य यां रौद्र-गदां दधाव् अथ । तस्याविदूरेऽस्तु कथा तदास्पदं भुजं शरेणायम् अमुष्य चाच्छिनत् ॥१६॥
[२३] तथापि वितथाभिनिवेश-भरेण सव्य-करेण युद्ध-व्यवसायिनस् तस्य—
अरुण-च्छवि-चक्र-सङ्गमाद् उदयाद्रि-प्रभ-मूर्तिर् अच्युतः । तमसातिसमस्य विग्रह- प्रथमांशं विचकार वैरिणः ॥१७॥ यदा सौभं तथा साल्वः पपाताम्भसि वारिधेः । तदा स्वर्-दुन्दुभि-ध्वानः कल्लोल-ध्वनिनाक्रमि ॥१८॥
[२४] अथ स्निग्धकण्ठः समापनम् आह स्म—
यद्-अर्थं साल्वान्त-प्रधन-भव-चिन्ता-चयम् अगाद् व्रज-स्वामिन् प्राण-प्रणशन-करं गोकुल-जनः । स एवायं पूर्णं सपदि भवद्-अङ्कं विरचयन् रुचीभिः स्वामिंस् तं विरचयति फुल्लं तव सुतः ॥१९॥ इति ।
[२५] अत्र व्रज-वन्दिनश् च तद्-वन्दिताम् आप्तवन्तः, यथा—
पार्थ-क्रतु-राज-प्रथ ! दिव्य-द्रव-सम्पद्-रथ- शब्द-प्लुत-दिग्-अन्तिक ! आप्त-स्वक-पूर्यन्तिक ! दृष्टोद्भट-सौभ-क्रम-स्पृष्टोन्नति-भाग्-विक्रम ! बाण-च्छित-साल्वादिक-शस्त्र-प्रतिशस्त्राधिक ! काण्ड-स्तृत-सौभ-स्थल ! साल्व-च्छल-लङ्घि-च्छल ! अज्ञं प्रति दत्त-भ्रम ! विज्ञं प्रति सद्-विभ्रम ! छिन्न-प्रतिहन्त्र्-अस्त्रक ! तत्-ताडन-जिच्-छत्रक ! सौभ-क्षय-कृत्-सद्-गद ! धूत-प्रतिकृत्-तन्-मद ! तद्-दक्षिण-दोर्-हृच्-छर ! चक्र-क्षित-तत्-कन्धर ! एवं कृत-तत्-तत्-क्रिय ! त्वं राजसि गोष्ठ-प्रिय ! ॥ वीर ॥२०॥ इति ।
[२६] तद् एवं सर्वे कथाम् आपूर्य सुख-पूर्यमानतया तुर्यं वादयन्त इव यथा-स्वं पथा चलितवन्तः ।
[२७] अथ रात्राव् अपि तद् एतन्-मात्रा वार्ता श्री-राधा-माधव-सदसि पदताम् आदधे, या खल्व् एक-पद्म-मयी प्रतिपद्यते । यथा—
भाति यद्वत् प्रियो लब्धः पुष्णन्न् एष त्वद्-अक्षिणी । राधे वार्ताप्य् अथो तस्य श्रवसी तव पोक्ष्यति ॥२१॥ इति ।
[२८] तद् एवं सुख-वशान्तस्तया सर्वे निशान्तम् आसन्ना रहसि तु श्री-राधा स्व-कान्तम् इति ।
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
नष्ट-साल्वतास्पष्टानन्दं नाम
अष्टविंशं पूरणम्
॥२८॥
(२९)
अथैकोनत्रिंशं पूरणम्
भावि-कथा-प्रमाण-प्रथनम्
[१] अथ भावि-कथान्तरावतारणाय क्रमात् प्रमाणं निरूप्यते । तद् एवं तत्र मङ्गल-भजने स्थिते व्रज-जने पुनर् अत्र दुःस्थिते पूर्णिमा-वृन्देऽपूर्ण-मनस्तया विविक्तम् अनु विविक्तवत्यौ ।
[२] तथा हि—यदा केशि-मथनस्य व्रजान् मथुरागमन-समनन्तरम् अनन्तरम् एव तज्-जन-दुःखम् ईक्षितुम् अक्षमतया तद्-अतिदूर-क्षिति-स्थितिआं गतयोर् मधुमङ्गल-सङ्गत-वृन्दा-पूर्णिमयोश् चिरम् एकान्त-वन-निशान्ततासीत् । तदा च नाना-संवदमानयोर् अनयोः सम्प्रति संवदनम् एवं बभूव ।
[३] यथा—यदा साल्व-युद्धम् उद्बुद्धं तद्-दुःखेन च गोष्ठं रुद्धम् । तदा तत्-तद्-वृत्तं विद्नमाना वृन्दा स-रुदितम् उदितवती—भगवति ! किम् अनन्तरम् अन्तरं भवितेति न प्रविशति मे हृदयम् ।
[४] अथ पूर्णिमा गद्गद-पूर्णं गदति स्म—मम च विगमित-सर्वालोकेन शोकेन वपुर् अपि न स्फुरति, किम् उत पुरः-स्थितम् आस्तां तावद् अपुरःस्थितं ?
[५] वृन्दाह—योगमायया भवत्याः स्व-गोपनार्थम् एव तपस्वि-वेषेण भवन्त्याः कथं मध्ये मध्ये ज्ञानं पराहन्यते ?
[६] पूर्णिमाह—लीला-शक्ति-रूपवत्या भवत्या यथा ।
[७] वृन्दाह—तच् च कथं ?
[८] पूर्णिमाह—या काचिद् एका रति-प्रेम-प्रणय-रागानुराग-महाभाव-पर्यन्त-वृत्ति-मयी प्रीति-नाम्नी हरेः शक्तिर् विराजते, सा सर्वत्र प्रवलायास्मद्-आदीनां परमाश्रय-रूपं श्री-कृष्णम् अपि शश्वन् मोहयति । यथा—
ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् । उभाव् अपि वने कृष्णो विचिकाय समन्ततः ॥ [भा।पु। १०.१३.१६] इति ।
[९] वृन्दाह—तद् एतद् अपि सार्वत्रिकं न दृश्यते, कारणं तु न परामृश्यते ॥
[१०] पूर्णिमाह—स-प्रेम-भक्तानां निकटीभावत एव सा शक्तिः श्री-कृष्णेऽपि रुचिं प्रकटय्य प्रकटीभवति ।
[११] वृन्दाह—प्रस्तुते किम् आयातं ?
[१२] पूर्णिमाह—परम-प्रेमवतां श्रीमति व्रजे वसतां सङ्गाद् वयम् अपि ।किं बहुना, श्री-कृष्णः स्वयम् अपि प्रेम-गङ्गा-प्रवाहम् अनु मग्ना उन्मग्नाश् च भवन्तः संविदम् असंविदं च प्रतिपद्यामहे इति ।
[१३] वृन्दाह—तर्हि कास्मद् आशाया गतिः ?
[१४] पूर्णिमाह—भवत्या इव स्वप्नेऽपि परिदेवनाम् एव सेवमानायाः कृत-क्षपणायाम् अनन्तर-क्षपायां कोऽपि गोपितात्मा पुरुषः पुस्तकम् इदं मम हस्त-विन्यस्तं चकार ।विचारय तद् इदम् इति वदन् पुनर् अवदन्न् एव कुत्रापि चचार च । ततस् त्वम् अत्र काच-कामलामल-कार-दुष्पार बाष्पानुमोचन-पर-लोचनायां मयि लोचनायमाना भव ।
[१५] वृन्दा तु तद्-वन्दमाना प्रोवाच—
पर्णेषु स्वर्ण-वर्णेष्व् अमर-पति-मणि-प्रख्यतावर्ण्य-वर्णैर् निर्वर्ण्यैर् गढतम्याम् अपि चितम् अभितो रत्न-सङ्कीर्ण-गात्रम् । आमुक्त-स्वच्छ-मुक्ता गुणम् इदम् अनु यत् पुस्तकं कृष्ण-शोभां तद्-वस्त्रादि-प्रयुक्तां स्वयम् इह स इव प्रादुरस्तीति विद्मः ॥१॥ (स्रग्)
[१६] पूर्णिमा सानन्दम् आह—तर्हि परमम् अर्हितम् एव तद् इदम् अस्मन्-मनः संविदं विदितां करिष्यतीति त्वरितम् एव वाचय ।
[१७] वृन्दा स-प्रमद-वृन्दं तद्-वाचनास्पदम् आचचार ।प्रथमं तावद् बहिर् विहितान् नाम-वर्णान् निर्वर्णयन्ती वर्णयामास—अत्र कलित-त्वद्-भाग-धेयं श्रीमद्-भागवत-भाग-सम्भाग-जागरूकं पाद्मोत्तर-खण्डस्य खण्डं निध्येयम् ।मध्ये मध्ये तत्-तत्-पोषणाय सञ्चितं किञ्चिद् अन्यद् अन्यद् अपि इति ।
[१८] अथ प्रथमं पठ्यताम् इति पूर्णिमा-कथनानन्तरं वृन्दा पपाठ—[१९] अथ श्री-भागवत-पद्यानि—
तस्मिन् निपतिते पापे सौभे च गदया हते । नेदुर् दुन्दुभयो राजन् व्योम्नि देव-गणेरिताः । सखीनाम् अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात् ॥ (१०.७७.३७) श्री-शुक उवाच— शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः । पर-लोक-गतानां च कुर्वन् पारोक्ष्य-सौहृदम् ॥ एकः पदातिः सङ्क्रुद्धो गदा-पाणिः प्रकम्पयन् । पद्भ्याम् इमां महा-राज महा-सत्त्वो व्यदृश्यत ॥ तं तथायान्तम् आलोक्य गदाम् आदाय सत्वरः । अवप्लुत्य रथात् कृष्णः सिन्धुं वेलेव प्रत्यधात् ॥ (१०.३८.१-३) इत्य् आदि ।
[१९] तद्-अन्ते च—
कृष्णोऽपि तम् अहन् गुर्व्या कौमोदक्या स्तनान्तरे । गदा-निर्भिन्न-हृदय उद्वमन् रुधिरं मुखात् ॥ प्रसार्य केश-बाह्व्-अङ्घ्रीन् धरण्यां न्यपतद् व्यसुः । ततः सूक्ष्मतरं ज्योतिः कृष्णम् आविशद् अद्भुतम् । पश्यतां सर्व-भूतानां यथा चैद्य-वधे नृप ॥ विदूरथस् तु तद्-भ्राता भ्रातृ-शोक-परिप्लुतः । आगच्छद् असि-चर्माभ्याम् उच्छ्वसंस् तज्-जिघांसया ॥ तस्य चापततः कृष्णश् चक्रेण क्षुर-नेमिना । शिरो जहार राजेन्द्र स-किरीटं स-कुण्डलम् ॥ एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् । हत्वा दुर्विषहान् अन्यैर् ईडितः सुर-मानवैः ॥ वृतश् च वृष्णि-प्रवरैर् विवेशालङ्कृतां पुरीम् ॥ (१०.७८.८-१३,१५)
[२०] पूर्णिमा प्राह स्म—अत्रेदम् अधिगतम् । यदा साल्व-वधः सम्बद्धस् तदा गदाम् आदाय दन्तवक्रः सन्नद्धस् तत्र चङ्क्रम्यते स्म । श्री-कृष्ण-गदयाप्य् उत्क्रम्यते स्म इति ।
[२१] अथ तद्-अन्ते तद्-अन्तेवासिनी वृन्दा सन्दिदेह—भगवति ! तद् इदं मम मतिम् अतीतम् । कदा नामावधारितवान् विदूर-धामा दन्तवक्र-नामा तत्-क्षणारब्ध-साल्व-वधाभिधानं ? अवधारयतु वा कथं तदैव दैवतम् इव दूर-निज-देशात् तद्-देशं प्रविवेश । तत्रापि गदा-पाणिः सन् पदातिर् एव केवल एव चेति कथम् इव ?
[२२] पूर्णिमा प्राह स्म—उत्कृष्टं पृष्टम् । किन्तु तद्-अनन्तर-वाचनयापि रोचय निज-वाचम् ।
[२३] वृन्दा तद् अपि वाचयति स्म—अथ पाद्मोत्तर-खण्ड-गद्यानि—अथ शिशुपालं निहतं श्रुत्वा दन्तवक्त्रः कृष्णेन योद्धुं मथुराम् आजगाम । कृष्णस् तु तच् छ्रुत्वा रथम् आरुह्य तेन योद्धुं मथुराम् आययौ । दन्तवक्त्र-वासुदेवयोर् अहोरात्रं मथुरा-पुर-द्वारि यमुना-तीरे सङ्ग्रामः समवर्तत कृष्णस् तु गदया तं जघान । स तु चूर्णित-सर्वाङ्गो वज्र-निर्भिन्न-महीधर इव गतासुर् अवनि-तले पपात । इति ।
[२४] तद् एवं वाचयित्वा वृन्दा पप्रच्छ—तद् इदं पुराण-द्वयं प्रत्युत परस्परं विरुद्धम् इव बुद्धम् इति ।
[२५] एतद्-उत्तरं पूर्णिमायाः पुनस् तत्-तद्-वचन-लब्ध-विज्ञान-पूर्णिताया उत्तरम्—न हि न हि ! किन्तु श्रीमद्-भागवतस्य तावद् असम्बद्ध-भाषिता न सम्भवति । तथा पुराणान्तरेण सम्भवति चैक-वाक्यत्वे वाक्य-भेदो न न्याय्य इति वाक्यैक-वाक्यतान्यथानुपपत्त्या तद् इदं गम्यते ।
यत्र प्रथमं साल्वस्येव शिशुपालेन सह राजसूयम् अनागतस्य तस्य पृथ्वी-प्रकम्पन-गति-सम्पत्तया प्रसिद्धतया महा-सत्त्वतया सिन्धुतया वज्र-निर्भिन्न-महीधरतया च पठितया सहसा प्रबलतमतां प्राप्तः सोऽयम् इत्य् अवगतस्य स्मर-हराराधनं तर्क्यते । यत्र एव वराभासेन निर्वास्यतः पाद-घात-प्रतीक-सङ्घातयोर् अनुसन्धानम् अदुःसन्धानम् अवधीयते ।
तत्र च सति मनोरथ-गति-प्रथकस्य मुरमथन-रथस्य च वैभवं सुसम्भवम् अवगम्यते । तथा हरि-लिप्सित-सम्प्रहार-लीलां वलयितुर् मनोजवतां कलयितुस् तत्-तद्-वृत्त-सञ्चारणाविशारदस्य श्री-नारदस्य च साहायकम् उदीक्ष्यते ।
[२६] तद् एवम् एव श्री-भागवते—
सखीनाम् अपचितिं कुर्वन् दन्तवक्रो रुषाभगात् । शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः ॥ इत्य् अत्र शाल्वोऽपि गणितः ।
पाद्मे च—कृष्णस् तु तच् छ्रुत्वा इति गदितम् । किन्तु—महा-सत्त्वो व्यदृश्यत [भा।पु। १०.७८.२] इति यच् छ्री-भागवत-वचनं तत् तु दृष्टोऽप्य् असौ श्री-नारद-वचनेन विज्ञात-तत्त्व इति गम्यते ।
तथा च सति निहत-शिशुपालं श्री-गोपालम् इन्द्रप्रस्थाद् अकृत-प्रस्थानं निशम्य मथुराम् आगम्य पथि निर्द्वन्द्वं तं प्रति द्वन्द्व-युद्धेन परिपन्थिताचरणाय स्थितः । प्राग् एव तं द्वारकां प्रस्थितम् आकलय्य संशय्य कृत-विचार-चक्रः स खलु दन्तवक्रस् तच् चक्रपाणिः स्वयं लीला-सुख-सारदेन श्री-नारदेन साल्व-वधादिकम् अवधारयामासे । द्वारका-नाथश् च तथा तत्-कथनया तद्-आगमन-साक्षात्कार-प्रथनया च मनोवद् अतीत-पथेन तेन रथेन तत्रापयामासे । नूनम् इति मत-द्वयम् अनूनम् एक-मतं स्यात् । तद् इदम् अपि व्यक्तम् अद्य श्व एव विशेषाद् व्यक्तं भविष्यति । पुनर् उत्तरम् उत्तर-विषयी-क्रियताम् ।
[२७] अथ वृन्दा पठति स्म । पठन्ती च नटन्तीवासीत् । तत्र पूर्ववत् तद्-गद्यं, यथा— कृष्णोऽपि तं हत्वा यमुनाम् उत्तीर्य नन्द-व्रजं गत्वा प्राक्तनौ पितराव् अभिवाद्य आश्वास्य ताभ्यां साश्रुकण्ठम् आलिङ्गितः सकल-गोप-वृद्धान् प्रणम्याश्वास्य रत्नाभरणादिभिस् तत्रस्थान् सन्तर्पयामास । इति ।
[२८] तद् एतत् पठित्वा च वृन्दा पुनर् उच्छलद्-बाष्पं पप्रच्छ—तद् इदम् अपि किं श्रीमद्-भागवत-सम्मतं ?
[२९] पूर्णिमा पूर्ण-मनाः प्राह स्म—दृश्यताम् उत्तर-विभागः ।
[३०] वृन्दा पुनः श्री-भागवत इति पठित्वा पपाठ—
तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः । सान्त्वयाम् आस स-प्रेमैर् आयास्य इति दौत्यकैः ॥ [भा।पु। १०.३८.३५] इति ।
[३१] पूर्णिमोवाच—मथुरा-प्रस्थान-स्थानम् इदं वचनम् ।
[३२] वृन्दा पुनः पपाठ—
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भा।पु। १०.४५.२३]
[३३] पूर्णिमा जगाद—कंस-वधाद् दिन-कतिपयानन्तरं श्री-व्रजेशादि-व्रज-व्राजे तद् इदंश्री-कृष्ण-वाक्यम् ।
[३४] वृन्दा पुनः पपाठ—
हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् । यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥ [१०.४६.३५] इति । आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः । प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥ [१०.४६.३४] इति च ।
[३५] पूर्णिमोवाच—तद् इदम् उद्धव-सन्देशतया बुद्धम् । अत्र च द्रष्टुम् इति दर्शनम् एव पुरुषार्थ इत्य् अर्थः । पित्रोः प्रियं विधास्यते इति तद्-एक-पुरुषार्थत्वेऽपि तयोर् अभीष्टं नित्य-निज-लालना-रूपम् इत्य् अर्थः । [३६] पूर्णिमाह—पुनर् वाच्यताम् ।
[३७] वृन्दा वाचयति स्म—
मय्य् आवेश्य मनः कृत्स्नं विमुक्ताशेष-वृत्ति यत् । अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ ॥ [भा।पु। १०.४७.३६]
[३८] पूर्णिमाह—सोऽप्य् एष श्रीमद्-उद्धव-सन्देश एव । अत्रास्मच्-छब्द-पदानां मयि इत्य्-आदिना त्रिर्-आवृत्तिस् तत्र च प्रथमतः कृष्णे इति विशिष्य शिष्यमाणयोर् अपि मा माम् इत्य् अनयोर् विभक्ति-विपरिणामेनानुवृत्तिम् अभिप्रेत्य कृष्णाकारेणैव स्व-प्राप्तिः प्रकरण-निगमनायाम् अभिप्रेता । किन्त्व् अन्यद् वाच्यताम् ।
[३९] वृन्दा प्राह—अस्ति चात्र किञ्चन हरिवंश-वचनम्—
अहं स एव गो-मध्ये गोपैः सह वनेचरः । प्रीतिमान् विचरिष्यामि कामचारी यथा गजः ॥ इति ।
[४०] पूर्णिमा चाह—तद् इदं कंस-वधाद् उत्तरम् उग्रसेनं प्रति श्री-कंस-जित् प्रत्युत्तरं मद्-व्याख्यान-साक्षितया लक्षितम् ।
[४१] अथ वृन्दा तदैतद्-उक्ति-विषयी-कृत्य नृत्यन्तीव तद् इदम् उक्तवती—सत्यं सत्य-सङ्कल्पस्य तस्य वचनं नासत्यताम् ऋच्छेत् । यदि च श्री-भागवताद् एव पुनर् व्रजागमन-वचनं साक्षात् कर्ण-सुख-रचनम् आलोचयामि, तदा तत्-परम् एव रोचनं स्यात् ।
[४२] पूर्णिमाप्य् उत्सुकता-पूर्णम् उवाच—उल्लेखय तद्-उत्तर-लेखम् । कदाचित् तद् अपि सम्प्रदाय कल्पेत ।
[४३] वृन्दा सानन्दं ऊचे—अस्ति किञ्चित् । यथा श्री-भागवत एव—
यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-दिदृक्षया । तत्राब्द-कोटि-प्रतिमः क्षणो भवेद् रविं विनाक्ष्णोर् इव नस् तवाच्युत ॥ [भा।पु। १.११.९]
[४४] पूर्णिमोवाच—तद् इदं भावि-भारत-युद्धानन्तरं श्री-द्वारका-पतेर् द्वारका-प्रवेशो द्वारका-प्रजा-वचनम् ।
[४५] अत्र वृन्दा निवेदयामास—पद्यम् इदं विशद्यताम् ।
[४६] पूर्णिमाथ वर्णयामास यथा—कुरून् इति कुरु-देशस्य, तथा मधून् इति मथुरा-देशस्य समुद्देशः । सुहृदोऽप्य् अत्र द्वारका-प्रस्थानात् परस्ताद् व्रजस्था एवेति व्यवस्थापयन् । यथा—
बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः । सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥ [भा।पु। १०.६५.१]
[४७] वृन्दोवाच—तद् इदं कालान्तर-भावीति च सम्भावितं स्यात् । न तु परं दन्तवक्र-संयद्-अनन्तर-भावि इति ।
[४८] पूर्णिमा विमृश्य पुनर् दृश्यताम् इत्य् उपदिदेश ।
[४९] वृन्दा पुनर् उवाच—आम् आं पुनः श्री-भागवतीयं पद्यम् एकं प्रतिपद्यते ।
अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया । गतांश् चिरायिताञ् छत्रु-पक्ष-क्षपण-चेतसः ॥ [भा।पु। १०.८२.४१]
[५०] तद् एतद् वाचयित्वा वृन्दा पुनर् उवाच—किम् अनेन समुन्नेयं ?
[५१] पूर्णिमा प्राह स्म—तद् इदं कुरुक्षेत्र-यात्रायां श्री-राम-भ्राता निज-स्नेह-पात्राणां व्रज-तनु-गात्राणां दुःख-त्राणाय भङ्ग्या शत्रु-पक्ष-क्षपणम् एवावधितया प्रतिज्ञातम् । शत्रु-पक्ष-क्षपणं च स्वदूरथ-दन्तवक्र-संयद्-अन्तम् एव । तद्-अनन्तरं हि स्वयं शस्त्र-हस्तता सन्न्यस्ता स्यात् । तस्माद् इदम् अपि सर्व-सुख-सद्म-पद्म-पुराण-मतं श्रीमद्-भागवत-भाग् अवगतम् ।
[५२] ततः कश्चिद् दन्तवक्र-वधं कुत्रचिन् मन्यतां नाम । तद्-अनन्तरं तु श्री-कृष्णस्य व्रजागमनम् अवश्यम् एव मन्तव्यम् । इतीदं प्रोच्य भगवती पुनः प्रोवाच—किञ्चिद् अन्यद् अस्ति ?
[५३] वृन्दोवाच—तथैवाध्वन्य-वेषेण इत्य् आदिना पूर्वं दर्शितं श्री-रामस्य व्रजाद् आगतस्य श्री-कृष्णेन संवाद-रूपं हरिवंश-वचनम् एव पपाठ ।
[५४] अथ तद्-अभिप्रायं पूर्णिमा प्राह—अत्र यद्-व्रजाद् आगतं रामम् अग्रजं रहसि रामानुजः प्रत्येक-व्रज-जीव-कुशलं पृष्टवान् । यच् च सर्वेषां कुशलं कृष्ण येषां कुशलम् इच्छसि इति । तस्माद् उत्तरं लब्धवांस् तस्माद् भावि-निज-सङ्गम-मङ्गलम् अपि तत्र द्वयोर् अपि भावितं बभूव । तत्रोदासीनतायां तत्राप्य् उदासीनता स्याद् इति ।
[५५] अथ तेन निदिग्ध-धीर् अपि वृन्दा सन्दिग्धम् आचचार—पद्म-पुराणम् इव कथम् अच्छद्म न तद् व्रज-प्रत्यागमनं वचन-सद्म चकार स च पुराण-सारः ।
[५६] पूर्णिमा बभाषे—श्रीमद्-भागवतं खल्व् इदं श्री-कृष्ण-भाग्-अवतंस इति शंसन्ति । तच् च निज-रहस्यम् इदं न व्यक्तं वक्तुं व्यवस्यति । तच् च गर्व-स्थेम्ना स्वतन्त्रं-मन्यतया नानान्य-सम्पत्-कामनाधीनानां तद्-उदासीनानां मत्य्-अवगुण्ठनार्थं प्रेम्णा गोकुल-लोकं-मन्यतया तम् उपासीनानां विशिष्ट-तन्-निजाभीष्ट-स्पष्ट-श्रवण-विहीनानां बाढम् उत्कण्ठनार्थं च इति ।
[५७] वृन्दोवाच—पूर्वेषां मत्य्-अवगुण्ठना समुचिता । परेषाम् उत्कण्ठना तु किम् अर्थं समुदिता ?
[५८] पूर्णिमा वदति स्म—
उत्कण्ठया सह प्रेमा धत्ते मिथुनतां यदा । अङ्गजं हरि-सङ्गाख्यं तदा भजति नान्यदा ॥२॥
[५९] वृन्दा विरमानन्दान् निरीहतया स्मित्वा प्राह—जन्मारभ्य कियद् वर्षानन्तरं कंसान्तकस्य यद्-उपत्तनाद् व्रजागमन-शन्तमम् इदं जनिता ।
[६०] पूर्णिमा स-प्रणिधानम् आह—भारत-रीत्या भारत-युद्धानन्तरं युधिष्ठिरस्य प्राज्यं राज्यं तस्य षष्ठि-वर्षत एव जनिता । श्री-विष्टरश्रवाश् चार्जुन-सवयस्कता-विशिष्टतया युधिष्ठिरस्य वर्ष-त्रय-कनिष्ठस् तदानीं सप्त-पञ्चाशद्-वर्षताम् आप्स्यतीति लक्ष्यते । तत्र तु तद्-युद्धतः पूर्वाद् वनाज्ञात-वास-मय-वर्ष-त्रयोदशकात् पूर्वं साल्व-दन्तवक्र-धूर्वणम् इति तस्य व्रजागमन-समय-विचारणायां वर्षाणां चतुश्-चत्वरिंशद् एवावशिष्यते । तद्-उत्तर-कालतः प्रकाशान्तरेण पुर्यां स्थितस्य पृथिवी-पालने तु भारताच् छ्री-भागवतं मतं विलक्षणम् इति तद्-एक-वाक्यतायाम् अशक्यतयाकल्प-भेद-कल्पनम् एव कल्पते । न तु तद् अत्र प्रयोजकम् । ततस् तद् अस्तु, प्रस्तुतं तु प्रस्तूयताम् ।
[६१] वृन्दोवाच—कृष्णोऽपि तं हत्वा इति गद्यानन्तरं पाद्म-पद्य-द्वयम् इति लिखित्वा लिखितम्—
कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समावृते । गोप-नारीभिर् अनिशं क्रीडयामास केशवः ॥ रम्य-केलि-सुखेनैव गोप-वेष-धरो हरिः । बद्ध-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥ [प।पु। ६.२५२.१९-२७] इति ।
[६२] अथास्य वृन्दा तात्पर्यं पर्यनुयुक्तवती ।
[६३] पूर्णिमा चोवाच—गोप-नारीभिः इत्य् अत्र नृ-नरयोर् वृद्धिश् चेति जाताव् एव स्त्री-प्रत्यय-विधानाद् गोप-जातिभिर् नारीभिर् इति गम्यम् । तृतीय-स्कन्धे देवहूतिम् उद्दिश्य कर्दमं प्रति श्री-शुक्ल-वचने
दृश्यते च तद्-अनुवादि-मृत्युञ्जय-संहिता-वचनम्—
स्मरेद् वृन्दावने रम्ये मोहयन्तम् अनारतम् । गोविन्दं पुण्डरीकाक्षं गोप-कन्याः सहस्रशः । मुक्ताहार-लसत्-पीन-तुङ्ग-स्तन-भराननाः ॥ इति ।
गौतमीये च—
गोप-कन्या-सहस्रैस् तु पद्म-पत्रायतेक्षणैः । अर्चितं भाव-कुसुमैस् त्रैलोक्यैक-गुरुं परम् ॥ [गौ।त। ४.२६] इति ।
ब्रह्म-रात्र उपावृत्ते इत्य् आद्य्-उक्ताद् विलक्षणेन अनिशम् इत्य् अनेन च तत्-पतिम्मन्यादिषु वास्तवाभीरीणां विवाहादि-वञ्चनार्थं नासूयन् खलु कृष्णाय इत्य् आद्य्-उक्त-दिशा या मया योग-मायया सृष्टास् तासु पुनर् व्यक्ती-क्रियमाणासु पूर्वासां पर-दारत्व-भ्रमापक्रमानन्तरं सङ्कोच-मोचनं गम्यते । तच् चावश्यं तत्रावगन्तव्यम् । तत्र हि सर्वे गुणा लज्जानुगुणा एव कीर्त्यन्ते । तथा हि हरि-वंशे श्री-नारदेन तस्य प्रशंसेयं यादव-संसदां कर्णावतंसवद् आचरति स्म ।
यत्र ह्रीः श्रीः स्थिता तत्र यत्र श्रीस् तत्र सन्नतिः । सन्नतिर् ह्रीस् तथा श्रीश् च नित्यं कृष्णे महात्मनि ॥ [ह।वं। २.१०१.७३]
[६४] तद् एवम् एव रम्य-केलि-सुखेनैव इत्य् अनेन, बहु-प्रेम-रसेन इत्य् अनेन चात्र व्रजे तत्-केलि-सुखस्य सर्व-मनोरथत्वं नाना-प्रेम-रसदत्वं च दर्शितं स्यात् । तद् एवम् एव च पूर्वं यद् असूया-राहित्यं तेषु मायया सम्पादितम्, तच् च महा-विरहेण व्यक्त-रहस्यास्व् अप्य् एतासु निर्व्यूढं स्यात् । किं च या श्री-भगवतः प्रतिकल्पम् अवश्यम्भावि-तादृशता-स्वभावावतार-लीलात् प्रेयसी-प्रेम-प्रभाव-व्यञ्जनाय तत्-प्रिय-जन-रञ्जनाय च खेलन्ती जनक-कन्यायाम् इव गोप-कन्या-श्रेण्यां तस्य नित्य-कान्तास्मीति ज्ञानं यद्यप्य् आवृतवती, तथापि प्रेमाणाम् अवरीतुं न शक्तवती ।
[६५] यः खलु प्रेमा तादृश-तल्-लीला-परवशतया तस्या इव तस्याः पर-हस्त-पतनावस्थायाम् अपि तत्-पातिव्रत्यं प्रतिपालयिता, स एवायत्याम् अपि तां दुःख-रूपां शमयित्वा मेलयिता स्याद् एवेति मास्मान्यथा मन्यथाः । तथा हि, ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् इति तत्-तद्-वचनं प्रसिद्धम् । तत् खलु पर-दारताप-क्रम-रचना-पूर्वक-तन्-मिलनार्थम् एव तासां सचते । भक्तानां यादृङ्-मनोरथ-प्रकारता, तादृग् एव मद्-आकारताविष्कार इति हि तत्र विवक्षितम् । तत्-प्रकारता च तच्-छ्रेणीनाम् इत्थम् एव—अहो कदाचिद् एवं भाग्यम् अस्माकं भविता । यद् अन्य-पत्नीत्व-प्रतीतिर् अयत्नीभूय दुःस्वप्नतया मिथ्या स्यात् तत्-पत्नीत्वम् एव जागरतया त्वरया सत्यं स्याद् इति ।
[६६] आस्ताम् इह पर-पुरुषे रागि-स्त्रीणां तथा रीतिः । अन्यत्र च तत्-सदृशां गृहिणी-भावः सदापीष्टः । तथा च ताभिर् एवाभिप्रेतम् । गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर् दामोदराधर-सुधाम् अपि गोपिकानां भुङ्क्ते स्वयम् इति ।
अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास्ते स्मरति स पितृ-गेहान् सौम्य बन्धूंश् च गोपान् । क्वचिद् अपि स कथां नः किङ्करीणां गृणीते भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु ॥ [भा।पु। १०.४७.२१]
अत्र यः खल्व् अस्माकम् आर्य-पुत्र-शब्द-वाच्यस्य प्रत्युतस् तस्य स्वीयाः स्मः इत्य् अभिमानस् तत्र गुप्तम् अस्ति । तदैव ताः किङ्कर्य इति मत्यापि कदा स्वयं व्यक्तम् अङ्गीकारिणा तेनास्मान् अङ्गीकरिष्यत इति । इत्य् अत्र आर्य-पुत्रः इत्य् अनेन तत्र पतित्वं व्यज्य नः किङ्करीणाम् इत्य् आदिना तथा तदीय-स्वीकारः प्रकटम् एव स्याद् इति व्यञ्जितम् ।
[६७] तद् एतद् आत्मनः श्रीमद्-व्रजागमनम् । व्रजागमनम् अनु च तासु स्वीयताप्रक्टी-करणम् एव शुभङ्करणम् इति श्रीमद्-व्रजेन्द्र-नन्दनेन स्वयम् एव व्यञ्जितम् ।
धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥
इति तद्-वचनं हि तासु स्वीयताम् । स्वीयतायाम् अपि तद्-एक-स्वरूपतां, तथापि विदूर-स्थिततया विसूरित-पूरिततां तत्-प्रत्यागमनम् अपि प्रत्याययति । तथा च सति यथा तासु विरहस्य दुःसहता तथा परकीयताख्यातेश् चेति ख्यापयति । अथवा, ताम् इमां ततोऽप्य् अधिकाम् अधिगमयति । ततस् ताम् अवश्यम् एव नश्यन्तीं करिष्यामीति पर्यवसाययति ।
[६८] वृन्दा प्राह—युष्मद्-भावितम् एवायुष्मद् भविता ।
[६९] पूर्णिमाप्य् आह—
श्री-कृष्णास्वादिताधरासु विजित-श्रीषु व्रज-स्त्रीषु सा माया-मात्र-मयी भवेद् विवहनाद्य्-उत्था परोच्छिष्टता । मन्यन्ताम् उभयत्र भक्ति-रहिताः सत्येति तां दुर्दशां हा धिक् तां किम् उ तत्-पराः स्थिरतया वाञ्छन्ति शृण्वन्ति च ॥३॥
[७०] वृन्दा पप्रच्छ—मास-द्वयम् इह वासश् चेत् कथम् एवं सौभं च साल्वं च [भा।पु। १०.७८.१३] इत्य्-आदि-वीक्षया तस्य प्रतीक्षया रण-रङ्ग-सङ्गतैर् यदु-सङ्घैः सहैव द्वारकान्तः-प्रवेशः सदेश-रूपः स्यात् ?
[७१] पूर्णिमा सहासम् इवाह स्म—न जानामि । ता इमास् तस्य योगमायाः प्रक्रियाः । यथा ब्रह्म-मोहनानन्तरं तद् इदं दर्शितम्—
एकस्मिन्न् अपि यातेऽब्दे प्राणेशं चान्तरात्मनः । कृष्ण-माया-हता राजन् क्षणार्धं मेनिरेऽर्भकाः ॥ [१०.१४.४३] इति ।
[७२] वृन्दाह—तर्हि व्रजम् आगत्य हरिणा चिराय यद् यत् कृतम् । तत् किं द्वारका-वासिभिर् न ज्ञातं ?
[७३] पूर्णिमाह—पूर्वम् अज्ञातम् अपि दारुक-मुखाद् अवधार्य ज्ञातम् अनुभूतं च येन तत्-प्रजाभिः यर्ह्य् अम्बुजाक्षापससार इति प्रोक्तम् ।
[७४] अथ वृन्दा सानन्दापि समुत्कण्ठया ततः कण्टकम् उद्धर्तुम् इच्छति स्म । यथाह यर्ह्य् अम्बुजाक्षापससार इत्य्-आदि-रीत्या मास-द्वयम् उवास ह इति नीत्या च पुनर् व्रजाद् व्रजनं व्रजराज-सूनोर् उपलभ्यते ।
[७५] पूर्णिमोवाच—वाचि शेषय । यद् पाद्म-वाचां शेषः स्यात् ।
[७६] वृन्दा च वाचयति स्म— अथ तत्रस्था नन्दादयः सर्वे जनाः पुत्र-दार-सहिताः पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूप-धरा विमानम् आरूढा परम-वैकुण्ठ-लोकम् अवापुर् इति । कृष्णस् तु नन्द-गोप-व्रजौकसां सर्वेषां परमं निरामयं स्व-पदं दत्त्वा दिवि देव-गणैः संस्तूयमानो द्वारवतीं विवेश ॥ [प।पु। ६.२५२.२८-२९] इति ।
[७७] पुनर् निभाल्य वृन्दा तद् एतद् आह—तद् एतत् पदम् एव महा-गोलोकाख्यं तच् च सर्वोर्ध्वम् एव वर्तत इति ब्रह्म-संहिता-वचनं चात्र दृश्यते । यथा—
गोलोक-नाम्नि निज-धाम्नि तले च तस्य देवि महेश-हरि-धामसु तेषु तेषु । ते ते प्रभाव-निचया विहिताश् च येन गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
तथा मोक्ष-धर्मस्य नारायणीयोपाख्यान-वचनं च—
एवं बहु-विधै रूपैश् चरामीह वसुन्धराम् । ब्रह्म-लोकं च कौन्तेय गोलोकं च सनातनम् ॥ [म।भा। १२.३३०.६८] इति ।
[७८] अथ पुनश् च निरूप्य वृन्दा सविस्मयम् आह—अहो ! हरिवंशे गोविन्दाभिषेकं रचयितुम् आगतस्य शचीपतेर् वचनम् इदम् इति लिखितम् । तस्य सर्वगतताम् अपि शंसद् दृश्यते, यथा—
तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि । स हि सर्व-गतः कृष्ण महाकाश-गतो महान् ॥ उपर्य् उपरि तत्रापि गतिस् तव तपोमयी । यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥ [ह।वं। २.१९.३१-२। इति ।
किन्तु तद् इदं विशद्यताम् ।
[७९] पूर्णिमा प्राह—साध्याः इति सर्वेषाम् अस्माकं प्रसादनीया इत्य् अर्थः । सर्व-गतः इति श्री-कृष्ण-विग्रहवद् अचिन्त्य-शक्तितया विभुर् इत्य् अर्थः । तथापि सर्वोर्ध्वता तादृग्-उपासकानां तथैव स्फुरणाद् इति गम्यते । महाकाशो ब्रह्म आकाशस् तल्-लिङ्गात् [विशेष्स् १.१.२२] इति न्यायात् । तद्-गतः इति तद्-अनुभवोपर्य् अप्य् अनुभवनीय इत्य् अर्थः । तपोमयी इति पारमैश्वर्यमयीत्य् अर्थः । यां न विद्मः इति ब्रह्मापि दुर्ज्ञेयतया न सम्यक् प्रकाशयतीति भावः ।
[८०] अथ वृन्दा पुनर् वाचितवती श्री-भागवते—
नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम् । कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥ ते चौत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् । अपि नः स्वगतिं सूक्ष्माम् उपाधास्यद् अधीश्वरम् ॥ इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् । सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत् ॥ जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः । उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः । दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ सत्यं ज्ञानम् अनन्तं यद् ब्रह्म-ज्योतिः सनातनम् । यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुर् ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥ नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः । कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [१०.२८.१०-१७]
[८१] अथ वृन्दा वदति स्म—किम् अत्र सुख-सत्रम् आयातं ?
[८२] पूर्णिमोवाच—तद् एवं यन्-निज-पदं तेषाम् एवास्पदतया तेषाम् एव दृष्टि-पदम् अकार्षीत् तद् एव पश्चाद् व्यतारीद् इति तत्र परामृश्यते । तत्र ते तु ब्रह्म-ह्रदं नीताः इत्य् अत्र यत्राक्रूरः स्तुतवांस् तं ब्रह्म-ह्रदं कृष्णेन तत्-तीर्थ-महिमानं लक्ष्यं विधातुं नीता मग्नाश् च पुनः कृष्णेनैवोद्धृत्य वृन्दावनम् आनीतास् तस्मिन्न् एव नराकृति-पर-ब्रह्मणस् तस्य लोकं ददृशुर् न त्व् अक्रूरवज् जल-मध्य इति न चान्यथेति च गम्यते । पुरा इत्य् एतत्-प्रसङ्गाद् भावि-काल इत्य् अर्थः । पुरा पुराणे निकटे प्रबन्धातीत-भाविषु इति हि कोष-काराः । लोकः स च सूक्ष्मम् इति तमसः परम् इति । सत्यं ज्ञानम् इत्य् आदि-स्वरूप इति च प्रकृति-गुणास्पृष्टतया चिच्-छक्ति-विलास एवेति लभ्यते ।
[८३] तथा अपि नः स्व-गतिम् इति, न वेद स्वां गतिम् इति, गोपानां तमसः परम् इति, कृष्णं च तत्र इति च । न परम-व्योमादि-रूपः । किन्तु ब्रह्म-संहितादि-कृत-श्लोकः स्फुटम् अप्राकृत-गोलोक-स्वरूप एवायं श्रीमद्-व्रजेश-श्लोक इति पर्यवसीयते । तत्र छन्दोभिः स्तूयमानम् इति तज्-जन्मादि-लीला-वर्णनीनां श्रुति-वर-वर्णिनीनां साक्षिता तु तत्रापि पुरः स्फुरति कृष्णे तेषां निज-सुततादि-मात्रता-ज्ञानाय पार्षदान्तर-दर्शनानुक्तिस् तेषां गोपानाम् एव तत्रत्य-तत्-परिकरता-व्यञ्जनायेति ज्ञेयम् । यत एव तद्-एक-रुचीनां श्री-नन्दादीनां परमानन्द-निर्वृतिर् विस्मितिश् च घटते ।
[८४] स्व-लोकतायाम् अप्य् अवतारावसरे तेषां तस्यादर्शने कारणं जनो वै इति । सालोक्य-सार्ष्टि इत्य् आदि-पद्ये जना इतिवज्-जन-शब्दोऽयं तदीय-स्वजन-परः ।
तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् । गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ [भा।पु। १०.२५.१८]
[८५] श्री-कृष्णस्यैव तत्र च मनसैव स्व-निष्ठा-प्रतिष्ठा-रचनाद् वचनाद् अत्र स तु व्रज-जनः परम-स्वजन एव स्पष्टः । साधारण-जन-वाचित्वे तत्-कृपा सर्वस्यापि जनस्य व्यापिन्य् अभविष्यत् । स्वां गतिम् इत्य् अपि न समगंस्यत । ततश् च परम-स्वजनोऽयं मम व्रज-वासि-जनः प्रापञ्चिके लोके याः स्वाविद्यादिभिर् देव-तिर्यग्-आदि-रूपा त्गतयस् तासु भ्रमंस् तन्-निर्विशेषतयात्मानं मन्वानः स्वां गतिं गोलोक-लक्षणां न जानातीत्य् अर्थः । अत्र कारणं तु—
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा । कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ [भा।पु। १०.११.५८] इति ।
इत्य् अनुसारेण मदीय-लौकिक-लीला-शक्तिर् एवेति भावः । तद्-अज्ञानाद् एव च नन्दस् त्व् अतीन्द्रियम् इत्य् आदिकं घटत इति । तस्माद् यद् एव खल्व् इदं दर्शितम् । तद् एव तेभ्यः पश्चाद् दत्तम् इति गम्यते ।
[८६] वृन्दा प्राह—हन्त ! कथं त एते मद्-वनाद् अन्तर्हितताम् आप्स्यन्ति । श्री-कृष्णेन पुनर् वियोगं च लप्स्यन्ते ?
[८७] पूर्णिमा प्राह—किञ्चिद् अन्यद् अस्ति चेद् वाच्यताम् ।
[८८] वृन्दा प्राह स्म—अथ वाराह-वचनम् इति किञ्चिद् अन्यद् अपि सञ्चितम् अस्ति । तद् यथा—
तत्रापि महद् आश्चर्यं पश्यन्ति पण्डिता नराः । कालीय-ह्रद-पूर्वेण कदम्बो महितो द्रुमः । शत-शाखं विशालाक्षि पुण्यं सुरभि-गन्धि च । स च द्वादश-मासानि मनोज्ञः शुभ-शीतलः । पुष्पायति विशालाक्षि प्रभासन्तो दिशो दश ॥ इति ।
तथा—
तत्राश्चर्यं प्रवक्ष्यामि तच् छृणु त्वं वसुन्धरे । लभन्ते मनुजाः सिद्धिं मम कर्म-परायणाः ॥ तस्य तत्रोत्तरे पार्श्वेऽशोक-वृक्षः सित-प्रभः । वैशाखस्य तु मासस्य शुक्ल-पक्षस्य द्वादशी ॥ स पुष्पति च मध्याङ्गे मम भक्त-सुखावहः । न कश्चिद् अपि जानाति विना भागवतं शुचिम् ॥** **इत्य् आदि ।
[८९] अत्र तस्य इति ब्रह्म-कुण्डस्येत्य् अर्थः इत्य् उक्त्वा पुनः पूर्णिमोवाच—किञ्चिद् अन्यद् अप्य् अस्ति ?
[९०] वृन्दा सानन्दम् उवाच—अस्ति चान्यत् स्कान्द-मथुरा-माहात्म्ये—
ततो वृन्दावनं पुण्यं वृन्दा-देवी-समाश्रितम् । हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥ इति । वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः । वृन्दावनान्तर-गतः स-रामो बालकैर् वृतः ॥ इति च ।
अथादि-वाराह-वचनं च—
कृष्ण-क्रीडा-सेतु-बन्धं महा-पातक-नाशनम् । वलभीं तत्र क्रीडार्थं कृत्वा देवो गदाधरः ॥ गोपकैः सहितस् तत्र क्षणम् एकं दिने दिने । तत्रैवे रमणार्थं हि नित्य-कालं स गच्छति ॥ इति ।
वृन्दावने वसेद् धीमान् यावत् कृष्णस्य दर्शनम् ॥ इति ।
[९२] अथात्र वृन्दा पप्रच्छ—सम्प्रति चिराय प्रोषितत्वेन परामृश्यमानस्य तस्य सदा क्रीडनम् अत्र कथ घटते ?
[९३] पूर्णिमा प्राह—वैकुण्ठाद् गजेन्द्र-ध्रुवादि-कृपार्थं मध्ये मध्ये पृथ्विईम् आगतस्य च यथा तन्-नाथस्य तत्र नित्यावस्थानं प्रोच्यते । तद्वद् अत्रापि सच्यते । अनाद्य्-अनन्त-कालं तत्र विहरतस् तस्य निमेष-मात्रम् एव तत्-तत्-काल इति । अतः परं किञ्चिद् अस्ति, तत् तु वद ।
[९४] वृन्दा प्राह—एतद्-अनन्तरं बृहद्-गौतमीय-पद्यानि प्रतिपद्यन्ते ।
[९५] पूर्णिमाह—वाच्यन्ताम् ।
[९६] वृन्दा च वाचितवती । यथा, नारद उवाच—
किम् इदं द्वादशाभिख्यं वृन्दारण्यं विशाम्पते । श्रोतुम् इच्छामि भगवन् यदि योगोऽस्मि मे वद ॥ श्री-कृष्ण उवाच— इदं वृन्दावनं रम्यं मम धामैव केवलम् । अत्र ये पशवः पक्षि-वृक्षा कीटा नरामराः । ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥ अत्र या गोप-कन्याश् च निवसन्ति ममालये । कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥ अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः । सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥ आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे । तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥ इति ।
[९७] पूर्णिमा प्राह—आयातम् अत्र च प्रकटाप्रकट-लीलावकाशताम् अयं प्रकाश-द्वैविध्यम् । अत्र मे पशवः इति, तेजोमयम् इति चोक्तवान् ।
[९८] तद् एवं जात-सुख-वृन्दा वृन्दा पुनः पप्रच्छ—तद् इदं च सर्वं पर्यक् तात्पर्याय-पर्यालोच्यताम् ।
[९९] पूर्णिमोवाच—अनेनेदं गम्यते । गोलोकाख्यं तद् वैभवं सदैव वृन्दावन-भवम् । किन्तु त्वं व्रज-वासि-जनवद् एव सम्प्रति न तद् अवगच्छसि । यथा पृथ्व्या अपि तद्-अज्ञानं वाराह-वचनाल् लभ्यते । तद् एतद् एव च नित्य-धाम तेभ्यस् तेन दर्शितं, तद् एव च तेषां नित्य-प्राप्यतया वर्णितम्, अक्के चेन् मधु विन्देत किम् अर्थं प्रवतं व्रजेत् ? इति-न्यायेन दूरे तेषां गमनं च व्यर्थम् इति ।
[१००] वृन्दाह—सत्यं सत्यम् । द्वयोर् अभेदेनैव व्यवस्था-रचनं हरिवंश-स्थ-तत्-प्रसङ्ग-सङ्गत-शक्र-वचनं चात्र दृश्यते—
स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना । धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ [ह।वं। २.१९.३५]
[१०१] किन्तु, अथ तत्रस्था नन्दादयः इत्य् आदि-पाद्म-गद्य-द्वयं विशद्यताम् ।
[१०२] पूर्णिमा व्याचचक्ष—श्रीमन्-नन्दाद्या व्रज-स्थिताः स्व-स्व-पुत्रैः स्वयं कृष्णादिभिः स्व-स्व-दारैः श्री-यशोदादिभिः सहिता वसुदेवाद् आगतस्य तस्य कृत-निजागमन-सङ्कल्प-संवादेन प्रसादेन पूर्वतोऽपि परमापूर-रूप-धराः परसपर-दृक्-सुख-करा सर्वत्र मनोरथ-पथ-प्रापक-तदीय-रथम् आरूढास् तत्त्व-मात्रानभिज्ञेषु तत्त्वान्तर-विज्ञेषु च तत् तेजसा गूढाः ।महसाधः-कृताशेषं श्री-वृन्दावनस्य पूर्वोक्त-प्रकाश-विशेषं पराभिर् माभिर् अकुण्ठं गोलोकाख्य-वैकुण्ठं तत्र च गोकुल-कमलं यमुनाया उत्तर-पाराद् दक्षिण-पारम् अवाप्य प्रापुः इति ।
[१०३] तच् च निरामयं कुत-पुनर्-विरह-व्याधि-विलयं स्व-पदं निज-नित्यास्पदं पुत्र-दार-सहिताः इति पूर्व-सूचित-तत्-पुत्रतोचित-रूपेणात्र स्थितिर् एव यदु-पुर-समुचित-स्वरूपेण तु द्वारवती-प्रवेश इति सर्वम् एव सदेश-रूपम् । किन्तु गोपनार्थं लोकेषु चमत्क्रियारोपणार्थम् एव च सेयं विमान-प्रक्रिया । पारेऽवारे वा वसतु । स तु घोषस् तां विनापि ब्रह्म-ह्रद-मज्जनानतरवत् तत्र सज्जनं लभेत ।
नाध्यातिष्ठेद् यदि यदु-पुरात् प्राप्य गोष्ठं स भूयः सर्वं तर्हि प्रतिहत-रसं सर्वथा स्याद् वृथा च । जन्मानन्दः प्रतिलव-वयः श्री-चितिः स्नेह-वृद्धिर् लीला-पूर्तिर् विरह-मथितः सान्त्वनं चात्र तस्य ॥४॥
[१०४] अथ वृन्दा पप्रच्छ—यद्य् एवं पश्चाद् अपि सर्व-व्रज-प्राणस् तत्-त्राणम् आचरितवांस् तदा पुरा मथुरा-प्रस्थान एव न कथं वा रचितवान् ?
[१०५] पूर्णिमा प्राह—रस-पोषाय प्रतिकल्पम् ईदृशम् एव लब्ध-सातत्येन लीला-नैयत्येन स्थापितम् अपि तद् इदं पृच्छत्या भवत्या निजम् उत्कण्ठितम् एव मच्-छ्रोत्रयोर् उपकण्ठीकृतं वादरायणादिभिर् अपि कृत-लालसा-सङ्क्रमस्य श्री-भगवल्-लीला-क्रमस्य वैयर्थ्यं तु न समर्थनीयम् ।
पुनर् उदयज-शर्म-पोष-धर्म स्वयम् उपशर्म हरेः प्रवास-मात्रम् । व्रजम् अपि तद्-ऋते रसस्य पूर्तिर् यदि वलयेत तदा तद् एव न स्यात् ॥५॥
[१०६] तस्माद् व्रज-रस-सम्पद्-अर्थं तद् अप्य् अर्थनीयम् इति । तद् एवम् एव स्वयम् उक्तम्—नाहं तु सख्यो भजतोऽपि जन्तून् [भा।पु। १०.३२.२०] इति ।
[१०७] तद् एतद् व्याख्याय पूर्णिमा पप्रच्छ—किञ्चिद् अस्ति वान्यत् ?
[१०८] वृन्दा सानन्दम् उवाच—भगवति श्री-भागवतीयम् अन्ते किञ्चिद् अञ्चितं दृश्यते ।
[१०९] पुर्णिमा प्राह—कामं वाच्यताम् ।
[११०] वृन्दा तच् च वाचयामास, यथा—
जयति जननिवासो देवकी-जन्म-वादो यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् । स्थिर-चर-वृजिन-घ्नः सुस्मित-श्री-मुखेन व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ (१०.९०.४८)
[१११] पूर्णिमोवाच—तद् इत्थम् आख्याता मम व्याख्या । यत् खल्व् अयं दशम-स्कन्धान्तर्वर्ती श्री-शुक-सिद्धान्तस् तत्र चात्र च तस्य विच्च्छेदं निरस्य नित-विहारम् एव व्याहरति ।
[११२] यतः स्व-दोस्-तुल्यैर् यदुकुल्यैर् अधर्म-बहुल-राज-कुल-व्याकुलतार्थं देवकी-जन्म-प्रसिद्धिम् उरीकृत्य कृत-कृत्यः सुस्मित-श्री-मुखेन व्रजस्य पुरस्य च वनितानां काम-प्राय-प्रेम-वर्धन-सुखेन सर्वतोऽपि शश्वद् उत्कर्षेण सदा विराजत इति लभ्यते । तत्र हेतुः—तत्र तत्र स्थावर-जङ्गम-मात्राणां विरह-दुःख-हन्ता तत्-तद्-उपासक-स्वजन-हृदये तथा स्फुरंश् चेति ।
[११३] तद् एतद्-उक्ति-कौशलाद् भावि-मौसलादि-लीलानाम् अपि मायिकत्वम् एव प्रत्यायितम् । क्षीर-नीर-निधि-शायिन एव तद् एतद्-रूपावतार इत्य् आदि-व्यवहारश् च तादृश-नित्य-विहार-गोपनार्थ एवेति च ।
[११४] अथ श्री-भागवतीयं पद्य-द्वयं सा पठति स्म—
द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् । वर्जयित्वा महाराज श्रीमद्-भगवद्-आलयम् ॥ स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् । नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः ॥ (११.३१.२३-२४)
[११५] अत्र विष्णु-पुराणीयं तु किञ्चिद् विशिष्टम् अपि—यदु-देव-गृहं त्व् एकं नाप्लावयत् इति । विष्णु-क्रीडान्वितं स्थानम् इति च ।
[११६] पूर्णिमा प्राह—तद् इदं वृन्दावन-नित्य-विहारस्य दृष्टान्ततयापि घटितम् ।
[११७] अथ वृन्दा श्री-भागवतीयं (१०.१४.३५) पद्यं पुनः पपाठ, यथा—
एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नश् चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति । सद्-वेषाद् अपि पूतनापि सकुला त्वाम् एव देवापिता यद् धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥ इति ।
[११८] पूर्णिमा पूर्णम् इदम् उवाच—तद् एतत् कैमुत्य-विधिना प्रस्तुत्य व्रज-वासिनां तेन संवासं सत्य-लोक-परिवृढः परम-दृढं चकारेति सर्वं शान्तम् ।
[११९] पुनः पूर्णिमा प्राह—किम् अप्य् अन्यद् वचनम् अस्ति ?
[१२०] वृन्दाह—तद् अपि श्रूयताम्—
तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् । यज् जीवितं तु निखिलं भगवान् मुकुन्दस् त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव ॥ (१०.१४.३४)
[१२१] पूर्णिमा सहर्षम् आह—पूर्व-निर्णयाद् एव तद् इदं ब्रह्मा स्व-पुरुषार्थतया वर्णयामास । पुनर् दृश्यताम्—
अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् । यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ (१०.१४.३२)
[१२२] वृन्दा सानन्दम् आह [भा।पु। १०.२६.२५]—
देवे वर्षति यज्ञ-विप्लव-रुषा वज्राश्म-वर्षानिलैः सीदत्-पाल-पशु-स्त्रिय् आत्म-शरणं दृष्ट्वानुकम्प्य् उत्स्मयन् । उत्पाट्यैक-करेण शैलम् अबलो लीलोच्छिलीन्ध्रं यथा बिभ्रद् गोष्ठम् अपान् महेन्द्र-मद-भित् प्रीयान् न इन्द्रो गवाम् ॥
[१२३] अथ पूर्णिमा वर्णयामास—तद् एवं श्री-बादरायणिर् अपि तस्य गवेन्द्रतां निजाश्रयतया श्रावयामास । सोऽयं यत्र गोपालादीनां तेनापरित्याज्यतां व्यञ्जयामास। तथैव हि तत्र श्री-गवेन्द्रस्यान्तः-प्रतिज्ञा तस्मान् मच्-छरणं गोष्ठम् इत्य् आदि ।
[१२४] अथ पुनर् वाच्यताम् ।
[१२५] वृन्दा तां वन्दमाना प्राह—ग्रन्थना पूर्णतया मया पूर्णीकृतास्मीति किंवान्यद् वाच्यता याच्यताम् आसीदतु ? किन्तु समाज्ञापयन्तु तत्रभवत्यस् तद् इदं पुस्तकं नायकम् इव हार-विन्यस्तं करोमि इति ।
[१२६] पूर्णिमाह—साम्प्रतम् ।
[१२७] अथ वृन्दा च तथा कृतवती ।
इति श्री-श्रीमदुत्तर-गोपाल-चम्पूमनु
भावि-कथा-प्रमाण-प्रथनं नाम
एकोनत्रिंशं पूरणं
॥२९॥
(३०)
त्रिंशं पूरणम्
पुनर् व्रज-देश-केशव-प्रवेश-शंसनं नाम
[१] अथ सर्व-सुख-सारेण तत्-तत्-पुराणानुसारेण तत्-कथा प्रथनीया । यथा पुनः प्रातः स-पुत्र-व्रजराज-सदसि कृत-मनोरथायां कथायाम् उत्कण्ठया मधुकण्ठः स-मधुर-कण्ठम् इदम् अवादीत् ।
[२] दन्तवक्रः खलु पूर्वं चक्रधरं विजेतुं देवता-चक्राराधनं चेक्रीयमानस् तं राजसूयम् अपि नागतवान् । यदा तु शिशुपालस् तत्र चक्र-लब्ध-कालः संवृत्तस् तदा सोऽयं भ्रष्ट-द्वितीय-चक्र-शकट-चक्रवद्-गत्या विघटमानताम् आसादयामास । आसाद्य चाचिराय चित्तं विषाद्य चिराद् एव विचारम् उपसाद्य दुश्चर-तपसा नातिचिरेण चण्डीपतिं किल प्रसाद्य, तस्माद् धिरण्याक्ष-सदृक्षता-लाभाद् धृष्णग् असौ कृष्णं जेतुं तृष्णग् अपि तच्-चक्र-प्रभाव-वक्र-मनास् तद्-असम्भावनया भावनया सङ्कीर्णीभूय तद् इदं निर्णीतवान् । शक्रप्रस्थाद् द्वारकां प्रति कृत-प्रस्थानं तं कुत्रचिन् निर्द्वन्द्वम् उपलभ्य निर्द्वन्द्व एव समभ्यस्य द्वन्द्व-युद्धम् उद्बुद्धं करिष्यामि । तच् च सर्व-जय-प्रदयानया रुद्र-प्रसाद-लब्ध-पदया गदया परं चरिष्यामीति ।
[३] तद् एवं सोऽयम् उन्मादाद् अधिगत्य गदा-मात्रं सङ्गत्य सम्पत्त्य्-अन्तरम् अन्तरापत्त्य्-अन्तरवन् मधुपुरम् आगत्य गत्य्-अन्तरापेक्षया तत्-प्रस्थानम् अवेक्षां चक्रे। स्वयं मृगयमाणस्य मृगयोर् आगमनम् इव मृगः ।
[४] अथ सर्व-क्लम-पारदः श्रीमन्-नारदः स्वच्छया यदृच्छया गत्या तं देशम् ऋच्छंश् चैद्य-मित्रं निर्वैद्य-व्याधितम् इव साधिं ददर्श च पराममर्श च—सोऽयम् अकस्माद् विलक्षणाक्¸अरतया हिरण्याक्ष इव गदा-मात्र-महा-मात्रतया वित्रासित-लोकाक्षः समीक्ष्यते । तद् एनं तेन लक्ष्मी-लक्षित-क्रोडेन घातयिष्यामि इति ।
[५] तद् एवं देव-स्पृश्य-चरण-रजाः स विरजा विमृश्य स्वेन दृश्यमानेनानेन दृश्यमानः पुरःसरताम् अनुससार । अनुसृत्य च स-व्याजं व्याजहार—करूष-राज ! चेद् इह चेदिराज-प्राण-पराजय-विरज्यमानतया शिवम् इव सम्भज्य तद् इदं रूपम् आसज्य वर्तसे । तर्हि सम्प्रति द्वारकां प्रतिगत्य प्रत्यनीकतया कृत-सौभ-पति-पर-लोक-गतिः स द्वारका-पतिः श्रम-पतित-युयुत्सा-मतितया तव जयास्पदं भवेद् इति तत्र कथं न गच्छसि ?
[६] अथ दन्तवक्रः ससम्भ्रम-क्रमम् उवाच—हन्त हन्त ! बाल इव किं वा लपसि ? साल्वश् च खल्व् असौ दिव्य-संस्थाम् आजगाम ।
[७] देवर्षिर् उवाच—तुभ्यं शपे, न खल्व् अभ्याख्यानम् इदम् । सौभम् अपि सुभूतिताम् अवाप । यतो गदास्पदाग्नि-सात्कृततया लोहामृत-चूर्ण-स्वरूपता-पूर्णं तज्-जातम् इति ।
[८] दन्तवक्रस् त्व् अभाषत—सोऽयम् उदन्तश् चेद् अलं दन्तवक्रस्य जीवनेन । तद् एवं वदन्न् एवसपदि वातूलवद् एव स्व-प्रतिकूलानुकूलम् अजानन् द्वारकां प्रति प्रस्थितवान् ।
[९] देवर्षिस् तु तस्य तद्-उन्मादभित्त-चित्तताम् अध्यवय्सन् रहस्य् अपि बहु विहस्य मनोवन् मनोरथ-पथं गच्छन्न् अच्छ-मनास् तत्-क्षण-निहत-सौभ-पतिं सद्-एक-गतिं कृष्णं पुना रण-रङ्ग-तृष्णम् इव रणाङ्गनम् एव सङ्गतं सङ्गतवान् । सङ्गमितवांश् च दन्तवक्र-प्रसङ्गम् । दर्शयामास च तं हिरण्याक्षम् इव कृत-वियत्-परामर्शम् । यः खलु पूर्वं दृष्टश् च न परामृष्टताम् अवाप । श्री-कृष्णश् चान्तर् व्रजागमन-तृष्णग् एव सदासीद् इति तन्-मिषम् आसाद्य तद्-अन्त-शात्रव-गात्र-वेध-पर्यन्तं निज-व्रजागमनाय प्रतिज्ञातम् आनन्तर्यम् आसद्य सद्य एवागच्छन्न् अस्मीति सर्वम् अनुज्ञाप्य मनोजव-व्रजनायसारथिम् आज्ञाप्य तद्-अवस्थ एव प्रतस्थे । तत्र च—
एवं शौरेः स रथम् अवहद् दारुकश् चारु-कर्मा नास्यालक्षि द्रुतिर् अपि यथा किन्तु गम्याभिलब्धिः । एका रेखा त्वरितम् उदभूत् तैजसी द्वारवत्याः पुर्या यावन् मधुपुरम् इति प्रोचिरे यत्र देवाः ॥१॥
तद् अनु च—
पश्चात् पश्चाद् अतूर्णं क्रमज-वलनया तैजसी पङ्क्तिर् एषा लुप्तासीद् अग्र्यम् अस्या वलयम् इह पुनः सुस्थिरं वर्तते स्म । यस्मात् कृष्णः समञ्चत् तिमिरम् इव तदा दन्तवक्रं न्यचायीत् कृष्णं यस्मिन् विवस्वत्य् अधिपुरुषम् इवालोकयद् दन्तवक्रः ॥२॥ अथ हरिर् अमुकं गदा-पदातिं स्वरथम् अभिप्लवमानम् ईक्षमाणः । स-विनय-वद् अवातरत् पुरस्तान् निज-गदयापचितिं विधातुम् अस्य ॥३॥ यत् तर्जति स्म तरसा स हरिं लघिष्टस् तन्-निष्ठम् एव विदधुस् तद्-अमर्त्य-लोकाः । तस्मिन् मुहुर् यद् अकरोत् गदया प्रहारं कौमोदकीं च विषयं तम् अमुष्य चक्रे ॥४॥ अहो रात्र-मात्रं तदैवं विजह्रे हरिर् नातिमात्रं व्रजं यद् दिदृक्षुः । अतस् तस्य विघ्नं तम् एवाशु निघ्नन्न् उरो-मर्दम् अस्थाद् गदा-पातनेन ॥५॥ शिशुपालस्य रक्तानि चक्रम् एव पपाव् इति । गदां रुष्टाम् इवापुष्णाद् दन्तवक्रासृजा हरिः ॥६॥
[१०] तत्र यदा तु दन्तवक्रः स्व-स्थानात् प्रतस्थे, तदा तद्-भिया विदूरथस् तद्-भ्राता विदूरत एव तद्-अनुचारिताम् आचचार । यथा—
भ्रातुर् उद्धुरतयातिचिन्तितस् तस्य दन्त-कुटिलस्य वर्त्मना । कर्मणा च समताङ्गतस् तदा माथुरं पुर-मयाद् विदूरथः ॥७॥ (रथोद्धता) यदा गदा-घातम् अहन् हरिस् तं विदूरथस् तर्हि समाजगाम । एकत्र कीटे ज्वलितेऽपि चान्यः कथं ज्वलन्तं ज्वलनं विशेन् न ॥८॥ (उपेन्द्र) युक्तम् एव गदया किल पश्यन् भ्रातरं निहतम् अत्र स मूर्खः । चर्म-मात्र-वृतिर् उद्यत-खड्गः काल-चक्र-धरम् एनम् इयाय ॥९॥ (स्वागता) खड्ग-चर्म-धर-पाणि ते वपुस् तद्वद् एव युधि सुष्ठु तिष्ठतु । मस्तकेन किम् अति ब्रुवन् स्फुटं चक्र-कीर्णम् अकरोत् तद् अच्युतः ॥१०॥ (रथोद्धता) अन्ये युद्ध-विशारदा निज-रिपोर् लीनं वपुः कुर्वते नात्मानं तद् इदं तु गोप-नृपते पुत्रस्य तेजस् तव । पूर्वं यद्वद् अघासुरस्य शिशुपालस्यापि तं लीनतां स्वस्मिन्न् आनयद् आशु पश्यति जने तद्वद् द्वयोर् एतयोः ॥११॥ (शार्दूल)
[११] तद् एवं सर्वान् अरीन् हत्वापि तेषां तरणि-याने सोऽयम् अरित्रताम् अवाप ।
[१२] अथ द्वारका-पुर-दिक्-पुरस्थं दन्तवक्र-हति-स्थलं तन्-मधुपुर-पुर-द्वारं लोके दतिहा-नाम्ना लब्ध-प्रसिद्धि-सारं हित्वा, व्रज-गमन-लालसां गृहीत्वा, मुहुर् अपि लब्ध-विश्रान्तिं विश्रान्तिम् आगम्य, स्नान-विधानानि सङ्गम्य, कृत-कृत्यतां गच्छन्न् “इतः परं स्वीयम् अस्त्रं न प्रयुञ्जीय क्वचिद् अपि” इति सञ्चकॢपे ।
[१३] ततश् च निज-चिन्ता-मत्र-विधानान् निधान-देवताचित-सन्निधानतया नाना-दान-समुचित-धन-प्रधानानि विप्रादि-साच्-चक्रे । कृत्वा गत्वा च यदा शीघ्रं व्रजं वीक्षकस् तं व्राजकः सम्भ्रमति स्म । तदा—
स्नानाद् उत्थितम् एतद् एतद् इति सन्दिग्धि-प्रदं कम्पितं रोम्णां जृम्भणम् अश्रु-गद्गदम् अपि द्राग् यन्न् अपृच्छत् प्रभुः । मद्-गोष्ठं क्व नु सम्प्रतीति यद् इह स्वां हेतुतां स्पष्टयन् प्रष्टव्यान् अपि तां दशां नयद् अतस् तम्भत् क्षणान् कत्य् अपि ॥१२॥ (शार्दूल)
[१४] अथ मधुमथनः कथञ्चिद् कथयन्तं कञ्चिद् आलिङ्गन-सङ्गमनया रभसाद् दृग्-अम्भसाभिसिञ्चन् कृत-दिव्य-विमानावमानेन निज-विमानेन यमुना-पारम् अञ्चंस् तत्-तत्-कौतुकालोकाय तम् अनु सञ्चरतां सुरलोक-लोकानां मनः प्रमनस्तया चञ्चलं चकार ।
[१५] तद् एवं स्थिते निरन्तर-तत्-परता-भासिनां व्रज-वासिनां वृत्तं वृत्तं करिष्यामः ।
[१६] यदा खलः खल्व् असौ साल्वः कृष्णावगाढ-द्वारां द्वारकां सौभ-द्वारावगीर्णवान् इति दूताद् वर्णनम् आकर्णनम् आनीतवन्तस् तत्-प्रभृति-निरन्नताम् आपन्नास् ते पन्न-जीवना इव बभूवुः । टत्र च दिन-यामिनी-यामेषु यमवत् कृत-वियामेषु तद्-अन्तिम-दिनं पुनर् अन्तक-निभम् अमन्यन्त । दूतानां दुःख-स्यूतानां तत्र तत्र स्तम्भात्, पथिकानाम् अपि दन्तवक्र-समिद्-उदन्त-पर्यन्त-पर्यालोच्यनार्थम् असञ्चरणाद् अपार-कृच्छ्राकूपारम् अनु ममज्जुर् इति । यत्र खलु—
केचिद् अह्नि शरणम् अविदुः केऽपि गम्भीर-नीरं शस्त्रीम् अन्ये गरलम् अपरे केचनापात्यम् एव । इत्थं हा धिग् मति-विषमताम् एक-चित्तेऽपि गोष्ठे सुष्ठु प्राप्ते प्रतिजनम् अगाद् आशु निर्नायकत्वम् ॥१०॥
[१७] अथ तम् इमम् आधिव्याधिम् ईर्त्सन्तं चिकित्सन् सर्वेषां पुरोहितः स खलु पुरोहितस् तु व्रज-महीक्षितम् अभिहितवान्—[१८] भवान् अपि कथं विस्मिति-पथं प्रथितवान् अस्ति ? सर्वानेकत्राधाय सर्व-त्राणाय पूर्वत्रागत-भवत्राकृत-सुख-सत्रायमान-लिपि-कृष्ण-पत्रालोकनया लोकय तदीयागमन-मयं समयम् ।
[१९] व्रजराज उवाच—समयेन शमये कथं स्यात्, यद्य् असौ शात्रव-रोध-पात्रतां गतः?
[२०] पुरोहित उवाच—तस्य वचनं खलु विधिनापि नान्यथा रचनं कर्तुं शक्यते । तस्मान् मम वचनात् तां पत्रीं सकृद् अपि कर्णयोः सचमानां कुरु ।
[२१] अथ व्रज-राजेन तत्रानुमते मिथः सङ्गते च सदसि पुरोधसि च वाचित-तल्-लिपि-वचसि सर्वेषां नेत्र-नीरदावरुण-सूक्ताद् इव तद्-उक्तान् मिलद्-उत्कर्षं वर्षन्तः कं वा न धर्षयामासतुः ? पत्रं च तत् कर्ण-पात्रं कृतम् अस्ति । यथा—
नेन्द्रप्रस्थं द्वारकां नापि किन्तु श्रीमन् नैतत् पत्रम् एवावसामि । एतत् तस्माद् अञ्चले रक्षणीयं मत्-प्रत्याशा-व्यत्यये लक्षणीयम् ॥१४॥ इति (शालिनी)
[२२] तद् एवम् अत्र पत्रे वाच्यमानेऽवाच्यां दिशि पाञ्चजन्य-जन्यमानो ध्वनिर् अध्वनि मथुरायाः पृथुर् आविर्बभूव । आविर्भूते च तस्मिन् कर्णानाम् अमृत-भूते परस्परं वीप्सया जीप्समानः स-चमत्कारं जय-जय-कार-बहलं कोलाहलं कुर्वन्तः । सर्वेऽप्य् आनन्द-गर्वेण तद्-अभिमुखं मुखरीकृत-चरण-पात-सुखं धावन्ति स्म । यथा—
स्त्री-बाल-वृद्ध-वलिता व्रज-वासिनस् ते कृष्णागतिं यदु-पुराद् अनुमाय शङ्खात् । एवं द्रवन्ति चपलं स्म यथा विदुर् न स्वात्मानम् अप्य् अहह किं पुनर् अग्र-पश्चात् ॥१५॥ (वसन्त-तिलक)
[२३] अथ पुनः पर्यग्-इङ्खच्-छङ्ख-ध्वनि-निरर्गल-रथ-घर्घर-स्वन-स्वर्ग-जन-कृत-सर्ग-जय-जय-कार-वर्गं शृण्वन्तः सर्व एवात्मानं प्रमदेनावृण्वन्तः स्तम्भारम्भम् अलभन्त । तथापि चलन्त एव यदा गदाधर-रथ-ध्वजारूढ-गरुडम् अद्राक्षुस् तदानुपदम् अपि पदं दातुम् अस्पद्यमानाः सद्य एव स्थगित-गतयस् तरव इवावतस्थिरे । यदा चैवं, नेत्र-मात्रं प्रस्थापयन्तः सर्वात्मना तद्-अवस्थताम् एवाजग्मुः ।
शङ्ख-ध्वान-बुधा मुदा व्रज-जना यस्मात् तद् उद्दिश्य तं गच्छन्तः पथि दूर-दूरतरतः संलक्ष्य वैलक्ष्यतः । यस्मिन् नाय-रव-प्लुतं मुहुर् अधुः सांराविणं तद्-वशाद् अद्याप्य् आयर इत्य् अदः पदम् अमी चाचक्षते माथुराः ॥१६॥ (शार्दूल)
तत्र च—
सुरेशानां वाद्यैर् जय-जय-रवाद्यैः सुर-तरु- स्फुटत्-पुष्पासारैर् मधुप-नुत-सारैर् मुहुर् अपि । रथाध्वन्य् अध्वानैर् जन-रव-निधानैः शवलितः सुहृद्भिः श्री-कृष्णः परिमिलन-तृष्णः समसजत् ॥१७॥ (स्रग्धरा) ये ते कम्प-मिता व्रजेश-वलितास् तान् आत्मनास्तम्भयत् क्षौणी-पात-विशङ्कया समम् अपि प्रेम्णाथ येन प्रभुः । शक्तिं तस्य परां च पश्य यद् अमुं कम्प्री-भवन्तं चिरात् स्तब्धीकृत्य तद्-अङ्ग-सङ्ग-निविडं कुर्वन् स पर्वाण्य् अधात् ॥१८॥ (स्रग्)
[२४] ततश् च घनम् इव घन-रस-वर्ष-हर्ष-प्रद-घनं तडित्वन्तम् इव तडिद्-अम्बरम् आगतवन्तम् अभ्रम् इवात्मानं बिभर्तुम् अभिमुख-लसद्-अभ्रम्, जल-धरम् इव जलवद् अङ्ग-धरम्, स्तनयित्नुम् इव गद्गद-गर्जित-स्तनयित्नुम्, धाराधरम् इव विलोचनाम्बुधाराधरं तम् उपलभ्य परिरभ्य च निदाघ-दग्ध-वन-भाग इव जागरूक-रोमाङ्कुरतां व्रज-जन-व्रजः स वव्राज । तत्र च—
दिविज-भविक-गर्जासङ्गि-पीयूष-वर्षं पशुप-सुख-जगर्ज-स्पर्शि-दृग्-वारि-वृष्टिः । द्वयम् इदम् इह भूयः सङ्करीभूय शुष्क- द्रुम-समुदय-शङ्कून् साङ्कुरान् मङ्क्षु चक्रे ॥१९॥ (मालिनी) दुर्भिक्ष-क्लम-पीडितान् इव चिरं जीर्ण-ज्वरार्तान् इव द्रुह्यद्-बन्धन-सद्मगान् इव कृतानेकातिकृच्छ्रान् इव । पश्यन् मीलित-दृष्टितां समभजत् पित्रादिकान् श्री-हरिः स्व-स्पर्शाद् अथ दिव्य-रूप-वलितान् उत्फुल्ल-दृष्टिर् बभौ ॥२०॥ (शार्दूल)
ततश् च—
माता तातस् तद् एतद् द्वितय-सवयसः क्ष्मा-सुराः सर्व-वृद्धा ज्यायांसश् चानताः प्राग् दनुकुल-रिपुणा सास्रम् आशीशिषंस् तम् । श्लिष्टाः प्राक् स्वेन तुल्या व्यवहृति-समताम् आगमन् जन्मना ये प्राग् नासंस्ते तदा तु रणति-विरचना-कर्मणा प्राग् बभूवुः ॥२१॥ (स्रग्)
[२६] तद् एवं स्थिते—
गावोऽप्य् अत्र तदीय-सौरभ-मरुद्-विस्तारम् आविस्तराम् आघ्रायागत-शीघ्रताः समभजंस् तं तत्र ता यूथशः । यस्मिन् रम्भण-शब्द-युक्-खुर-घटा-सङ्घट्ट-घण्टा-रवैः सार्धं गोप-शताततं झरिझरीत्य् उन्नर्दितं व्यानशे ॥२२॥ कृत्वा दण्डवद् आनतिं मुररिपुर् यर्हि क्षितिं सङ्गतस् तर्ह्य् आघ्राय गवां ततिर् मुहुर् अमुं लीढे स्म बास्पाकुला । यर्ह्य् उत्थाय तदीय-कण्ठ-घटना-कृद् बाहुर् एष स्थितस् तर्ह्य् एषा च तद्-अङ्ग-सङ्गत-गला दुग्धं स्म दुग्धे स्वयम् ॥२३॥ दूराद् दूरान् मुरारेः प्रसृत-परिमलेनाहृता ये मृगाद्या भूमिष्ठा व्योम-निष्ठाह् पुनर् इह विहगाश् चात्रये चित्रद्-अङ्गाः । ते पूर्वे सम्यग्-आप्ता वरण-गण-दशां ते परे छात्र-चर्याम् आसन्ना गोष्ठ-गोष्ट्ःईम् अपि सकृद् अजयन्न् आद्यया सेवयाद्य ॥२४॥ जात्या परं परिचिता न जवात् परन्तु व्यक्त्यापि तर्हि हरिणा हरिणादयस् ते । आसन् परं परिचिता इति नास्ति किन्तु प्रेमावलोक-सुधया पुरु शीकिताश् च ॥२५॥ (वसन्त-तिलक)
[२६] तद् एवं स्थिते वृन्दा-मधुमङ्गलाभ्यां कृत-सङ्ग-मङ्गलापूर्ण-मनाः पूर्णिमा तूर्णम् एव चिर-विरहार्ति-दिग्ध-स्निग्ध-धन-जन-सम्मर्द-मर्दित-विवेक-निर्वर्णनं तद् अभ्यर्णम् आजगाम । आगम्य च रम्यम् इदं तम् उवाच—आधि-समाधिं सावधिं विधाय समवधीयताम् । सेयं भवद्-विरह-चूर्णीकृतावयव-जालापि तद् एतद् आशया पूर्णीयित-जीवित-काला पूर्णिमाहम् अस्मि । ताव् इमौ च तद् एतद्-विध-भावि-लङ्गिम-मङ्गलौ वृन्दा-मधुमङ्गलौ स्तः इति ।
[२७] तद् एतन् निशम्य सेयं पौर्णमासीति समधिगम्य व्रजराज-राज्ञी-युवराज-मुखाः सुखाद् अभिमुखा भवन्तस् तत्-परिसरं परि नमः-पुरः-सरतया पुरः-सरन्तः सकम्प-सम्पद्-अञ्जलि-रञ्जि-नयन-निष्पतन्-मेघ-पुष्पतया तन्-निष्ठ-नयनतया च तिष्ठन्ति स्म ।
[२८] सा च शीतल-विलोचन-जल-सम्पतन-लब्ध-कम्प-सम्पत्-सङ्कुल-पुलक-कुल-कलिला पित्रोः पुत्रस्य च कलेवरं सुख-करेण करेण, वरेण च वरेण्यम् आचरन्ती तद् इदं व्याजहार—[२९] भो व्रजपति-दम्पती ! वियोग-संयोग-सन्धि-समयं प्रति सम्प्रति धीरताम् आत्मानं धारयेयाथाम् । यदायुष्मतः खल्व् अस्य चागत-मात्रस्य विश्रमाय कल्पते । ततश् च «स्वस्थे हि चित्ते प्रसरन्ति बुद्धयः» इति न्यायाद् अयति-सुखम् अपि सदायती-भावम् आपद्येत ।
[३०] तथा चोपदिशन्ति—
घर्मान्ति-वर्षादिम् असन्धि-सङ्गतिः सुदुःसहाय ज्वलनाय कल्पते । एषा जगत्-प्राणम् अपि प्रतापयत्य् अतः प्रतीक्षेत तदीय-शीतताम् ॥२६॥
[३१] तस्माद् अत्र घन-च्छाये घन-च्छाये तरु-निकाये धीरताम् आविशन्तः समन्ताद् अस्य समुपविशत ।
[३२] अथ तथा विधाय कृष्णं मध्ये निधाय तया सह जगत्सु व्रज-सत्सूपविशत्सु, श्रीमद्-उपनन्दादिषु च लब्धानन्दादिषु, श्रीदाम-मुखेषु च प्रपञ्चित-सुखेषु, वृन्दा-मधुमङ्गलयोश् च लब्ध-तत्-तत्-सङ्ग-मङ्गलयोर् द्यावाभूम्न्योश् च लब्ध-सुखातिभूम्योः, श्री-व्रज-पति-दम्पत्योश् च मुहुर् अपि तम् उपगुह्य विमुह्य च सन्दृश्य विमृश्य च लब्ध-बाष्प-सम्पत्योः, सा पुनर् उवाच—
इन्द्रप्रस्थं यावद् अत्यजि साल्वः पर्यक्राथि द्राग् अथो दन्तवक्रः । गोष्ठे चायाय्यत्र तावन् न पीतं न प्सातं वानेन वां देहजेन ॥२७॥
[३३] किं बहुना ? बहु नमस्कृत्य भवेतः पुरस्कृत्य बद्धञ्जलि-धामा दारुक-नामा पुष्कल-सारथिर् अप्य् अयं शुष्क-दारुवद् एव दृश्यते, तस्माद् अस्य सुख-सम्पद् उत्थाय समुत्थाय व्रजम् एव व्रजन्तस् तत आनीय स्नानीय-मुख-सुख-कर-सन्तर्पण-व्रजं समर्पयथ । यावद् अशेष-मङ्गल-मूलं गोधूलं श्री-व्रज-प्रवेश-देश-रूपम् उपलभ्यते इति ।
[३४] अथ श्री-कृष्णः सर्वान् सगद्गदं जगाद—कथम् अधुनापि स्वमनो धूनानास् तद्-अवस्था एव यूयम् अस्थात ? मम व्रज-वासाय कृत-विघ्नाः पाप-निघ्नाः साव-दन्तवक्रान्ताः सर्व एवाश्रान्ताः शत्रवस् तत्रभवतां भवतां शापाद् अपकृताह् कृतान्त-मुख-निशान्ता जाताः । तत्र च दन्तवक्रः सविदूरतहः संरुद्ध-मथुरा-द्वार-पथः समाप्तताम् अवाप्तवान् । ततः सर्वम् एव मङ्गलं सङ्गतम् । व्रज-प्रवेशे तु साम्प्रतम् इदम् अभिनिविविशे मदीय-पुनर्-व्रज-समागम-भाग-धेयाचरणाः श्रीमद्-आर्य-चरणा माम् आदायागच्छन्तस् ते साल्वापाततस् तत्रापाततः समुपद्रवान्तः क्लान्त-जन-मनः-शान्तनार्थं मया रक्षिताः । तस्मात् तान् आनीय सम्प्रीय व्रज-प्रवेश-मङ्गलं कुर्याम् इति मह्यं नितरां रोचते ।
[३५] पूर्णिमोवाच—तद् अपि स्याद् अद्य तु सर्वेषां सुखम् अनवद्यं कर्तुम् उचितम् इति ।
[३६] तद् एवं सानन्दं शृण्वन् पूर्णिमा-निदेशम् एव सदेश-रूपतया वृण्वन्, कश्चन कश्चन गृह-गृह-बृहल्-लोकः स-स्पृहं निज-निज-मोकः संहाय प्रतिहायनं तन्-नाम्ना समुच्चितानि समुचितानि वस्त्रादीनि तत्रानीय चितानि चकार । श्री-कृष्णस् तु तानि सर्वाणि सुपर्वणाम् अपि खर्वित-गर्वाणि वीक्ष्य व्रज-वासिनां पुनर्-अङ्ग-सङ्गत-रसणावसनादीनि शरदन्तनलिनानीव मलिनानि समीक्ष्य पौर्णमासी-मुखम् असुखम् ईक्षामास ।
[३७] सा पुनर् इदम् अवादीत्—सर्वेणापि व्रज-वासिना सेयं पूर्व-पूर्ववद् भवद्-एक-सम्प्रदानताध्यवसेयतयारब्धा कुरु-भुवि भवल्-लब्धा च सामग्री भवद्-एकाग्रायता-कृते धृत-व्यग्री-भावा गावश् च नान्यथा प्रथयितुं शेकिरे, सर्वसानि पुनर् असुर-सङ्गर-कारिणस् तव मङ्गलाय यज्ञ-पुरःसरतया सुर-भूसुरसाद् एव चक्रिरे । विशिष्टानि वा यानि कानि चिद्-अवशिष्टानि तानि च सौभ-युद्धम् उद्बुद्धम् अवधार्य वार्य-विप्र-वर्य-द्वाराहुत-भुजि जुहवाम् आसिरे, निज-निज-गात्राणि परं कर्तव्यताशेष-पात्राय पूर्णाहुति-मात्राय त्राणानि विदधिरे ।
[३८] तस्मात् केवल-भवद्-दुःख-विद्रावणाय विद्रावित-सम्पद्-राशितयादरिद्रायि ।
[३९] अथ दानवारिर् निज-नयन-वारि-कर-वारितम् आचरन्न् अधिदारुकम् इदं चारु-वर्णं कर्ण-समभ्यर्णतया वर्णयति स्म—आनय शस्तानि वस्त्रालङ्करणानीति ।
तद् अनु व्रजाङ्ग-भूतानि च निजाङ्ग-सेवक-यूथानि तत्-सम्भूतानि चकार । ततस् तानि च तेन सारथिना सह मनोरथ-स्थानीय-रथ-स्थानि वस्त्रादीनि समानयन्ति पुनस् तद्-अवस्थानि पश्यन्ति पर्यन्तं नाप्नुवन्ति स्म । मुररिपु-पुरः-पर्यन्त-भूर् इयं तु तैर् दूरतः पूरिता बभूव ।
[४०] अत्र च विशेषः—
हत्वा तं दन्तवक्रं दनुज-कुल-रिपुर् गोष्ठम् आत्मार्थ-सर्व- त्यागि प्राति स्म चिन्तामणिभिर् अथ निधि-श्रीभिर् आत्मीय-तातम् । किं चामीषाम् असङ्ख्याभरण-गण-शतं बिभ्रद् अप्य् एष कृष्णस् तैर् एतैः स्व-स्व-दत्तं पदम् अथ कलयन् नैक्षि नान्यैर् वितीर्णम् ॥२९॥ (स्रग्) चक्राद्यं स्यन्दने स्वं परिकरम् अदधात् क्षत्रियावास-योग्यं वेणुं यष्टिं शिखण्डादिकम् अपि जननीं याचमानः स्व-वेशम् । आदायाधाय चाङ्गे कम् अपि रुचि-भरं व्यञ्जयन् कुञ्ज-नेत्रश् चित्रं चित्रं च बाष्पादिभिर् अघ-विजयी दारुकं चारु चक्रे ॥३०॥ (स्रग्) ये तत् तत्-संविधानैः परिचरण-कृतः सम्भ्रमात् पूर्ण-कार्यास् तत्राप्य् अन्ये समन्ताद् भ्रमण-गति-धरा ये भ्रम-ध्वस्त-कृत्याः । ते सर्वे तुल्य-भावं ययुर् अतिरति-भाक् चित्त-भावेन यद् वा प्रान्त्या एवाग्रिमत्वं यद् अभवद् अजितस् तेषु पूर्णाम्बु-नेत्रः ॥३१॥ (स्रग्) किं ज्यायान् किं कनीयान् किम् उ तुलित-वयाः किं वशः किं वशी वा सोऽयं स्याद् इत्थम् आगात् परिचिति-पदवीं कोऽपि कस्यापि नात्र । द्वार्वत्याः सङ्गतस्य व्रजम् अरि-जयिनः श्री-व्रजेन्द्राङ्गजस्य श्रान्तिं तस्यापनेतुं व्रज-महित-जना यर्हि जोघूर्णति स्म ॥३२॥ (स्रग्धरा) आस्तां सा स्नेह-चर्या मुरजिति विदधुर् याम् अमी दारुके यां स्वस्मिन् सा चास्तु दूरे हय-चयम् अनु यां सापि न क्वापि दृष्टा ।
एतस्य स्यन्दने यां किम् अपरम् अनया दारुकाख्यः स तत्रा- वश्यं वश्यत्वम् आप्तः समय-कतिपयं चित्र-मित्रं बभूव ॥३३॥ (स्रग्) कृष्णः कंसं निहन्तुं प्रवसन-समये यादृशान् यत्-प्रमाणान्
गोष्ठ-स्थान् दृष्ट-पूर्वान् कृत-चिरतयागत्य तद्वद् ददर्श ।
तस्यान्तर्ध्यान-लग्नं भवति यद् अनिशं तत् कथं वा
वराकः कालः कल्पेत कल्प-स्थितिर् अपि स बलान् नेतुम् अन्याम् अवस्थाम् ॥३४॥ सिद्धे स्वे स्नान-वस्त्राभरण-विधि-मुखे साधिते चात्म-पित्रा- दि-स्थे श्रीमान् मुकुन्दः समम् अशन-सुखं तर्हि तैः सम्बभार । निर्वृत्ते तत्र चायं शकट-घन-घटा-मध्य-लब्धं शताङ्गं शार्ङ्गी सङ्गम्य रम्यं सखि-वलय-शतासङ्गवान् अङ्गति स्म ॥३५॥ (स्रग्धरा) वाद्यैर् गीतैः सनृत्यैर् जय-जय-निनदैः पुष्प-कीर्ण-प्रकारैर् वेदाशीः-स्वस्ति-घोषैः प्रमद-कलकलैः स्यन्दनानः-स्वनाद्यैः । उत्सर्पन् गोप-वर्गस् त्रिदश-समुदयश् चावसर्पन् समन्ताद् एकीभूतस् तदासीद् व्रज-गृहम् अविशद् यर्हि कंसादि-शत्रुः ॥३६॥ (स्रग्धरा) कुर्वन्न् आरात्रिकं स व्रज-जन-निचयस् तस्य रत्नात्म-दीपांश् चिन्ता-रत्न-प्रसूतान् करम् अनु विदधन् नावकाशं जगाम । तर्ह्य् आगत्य क्रमं यं प्रथमम् अलभत द्राग् अनेनैव तत्र श्रेणीभूतः समन्ताद् उभय-विधतया तत्-पथिश् चकार ॥३७॥ (स्रग्धरा) तावच् छ्री-गोप-राज्ञीम् अनु शतशतशः स्त्रीषु रत्नानि रत्नान्य् आदायातिप्रमोदाद् अथ पुर-पुरतस् तस्य नीराजनानि । नृत्यैः सङ्गीत-वाद्यैः सजय-जय-रवैस् तत्र कुर्वन्ति शश्वद् देवीनाम् अप्य् उडूनाम् अपि नभसि गतान्यत्र वृन्दानि जिग्युः ॥३८॥ (स्रग्धरा) हरिम् अथ जननी पिता च लब्ध- स्वजन-सहस्र-वृतिः स्व-वृत्ति-मूलम् । धनम् इव विगतं समेत्य् दुर्गात् पर-सदनाद् उदितं गृहं निनाय ॥३९॥ (पुष्पिताग्रा)
[४१] ततश् च नव-वासतया स-प्रसव-कुठ-वाटिका-भव्य-निष्क-वाट-सगव्य-घट-शकाट-वाट-मङ्गल-सङ्गत-गृह-व्रजावासं व्रजावासम् अभीक्ष्य तत्र च भद्र-कुम्भादिभिर् भद्र-वेशं बहिर् उपवेशं निरीक्ष्य तस्मिन् विस्तीर्णे मृदुल-तूलिकादिभिर् आस्तीर्णे मुरशमनः समं ज्ञातिभिर् वलित-गोप-वेशम् उपविवेश । क्षण-कतिपयम् अपि तेषां स्वर-समयं समयम् अयन् नय-मयम् अयामास ।
[४२] तद् एवं प्रमदं चित्वा क्रमम् अनु सर्वम् अनुज्ञां सुज्ञानतया याचित्वा स्नेह-कातर-मनसं मातरं सम्भालयितुम् अखिल-सखिभिः समम् अन्तःपुरं विवेश । ततश् च तत्रापि सत्रा तया स्वागमनेन त्रातया पितृव्य-पत्नी-प्रभृतीः स्निग्ध-प्रकृतीः सयत्नी-भूय भूयः सान्त्वयन्न् अत्वरयानुज्ञां वरयामास । तद् अनु च किञ्चित् किञ्चिद् अन्यद् अपि दुष्पार-बाष्प-धारा-जनन्या जनन्या सञ्चितं सखिभिः समम् अदन्न् अञ्चितं चकार । तद् अनु च जननी-नीतम् अभिनीतं रमणीयतया प्रणीतं शयनीयं सखिभिः समम् अखिल-सुख-धाम-नामा रामानुजः समाजगाम । माता तु सुष्वापयिषां याता तदीय-सङ्कोचम् अरोचयन्ती श्वस्तन-तल्-लालनम् आलोचयन्ती तद्-उपचाराय चचाल ।
अथ निज-परिचारक-प्रवेकाश् चिर-विरहाचिर-योग-कम्प्र-देहाः । परिचरणम् अकार्षुर् अस्य यद् अयत् तद् अखिलम् अभ्यसनात् ॥४१॥
[४३] अथ कृत-शयनावलम्बने घन-श्याम-घने सखीनां सखिता सेयम् अखिलान् सुखयति स्म । यथा—
क्षौणी-भारं विधूय स्वर्-अधिपतिम् अपि स्थाप्यैत्वाधिपत्ये स्वं गोष्ठं हृष्टमत्या व्रजितवति हरौ तेन सार्धं सखायः । अङ्गान्य् आलिङ्ग्य तस्य श्रित-शयनतया वृत्तम् आपृच्छ्य साम्ना वक्त्रेणास्पृश्य वक्त्रं हृदयम् अपि हृदा सक्थि-सक्थ निदद्रुः ॥४२॥ (स्रग्)
[४४] अथ कथकः स-समापनम् आह स्म—
आवाभ्यां प्रथमं यद् उक्तम् असकृन् नास्ते वियोगस् तव श्री-गोपेन्द्र-सुतेन बाढम् इति तन् नादृत्य शुश्रोथ यत् । जाड्यं तत्-परमावयोर् मुहुर् अदः प्रस्तावम् आतन्वतोर् यच् छुद्धं मिलनं स्फुटं कथयतोः सम्प्रत्य् असौ नन्दसि ॥४३॥ (शार्दूल)
[४५] तद् एवम् आनन्देन सन्न-कण्ठे सर्व एव स-श्लाघं ऊचुः—
सुखं वा दुःखं वा तद्-उभय-विनाभूतम् अथवा तद् एतद् युग्मं वा युगपद् इति वेद्यं न हि यया । तयाप्य् अस्मद्-दूर-स्थित-चर-हरेर् अस्य कथया स्फुरद्-दूतान् उक्त्या विजित-सुधयास्मान् असिचतम् ॥४४॥ इति । (शिखरिणी)
[४६] तेषु च शिष्टेषु सुखाविष्टेषु व्रज-वन्दिनः प्रस्तुत-वस्तुतः सर्व-नन्दितां विन्दमाना ववन्दिरे—
खल-साल्वक-हृद्-दलनाच् छुभ-कृत् प्रवरर्षि-मुखाद् अवकर्ण्य सुखाद् अथ हृज्-जव-जिद् रथ-भाग् अभिजिद्-गमनः सहसा रमयन् महसा मधुरा-निकटं मधुजित्-प्रकटं रदवक्र-दृग्-गदयाम्बुज-दृग् निहतं कृतवान् इह तं भृतवान् अखिलं जगतः सखितां प्रगतः सविदूरथ-हृत् प्रविदूर-सुहृत्तम-गोकुलजान् नमयन् कुलजान् रवजापरतः प्रविशन् निरतः परम-ध्वनि-भृद् दरतः सुख-धृद्- व्रज-भू-वपुषां स्वजय-प्रजुषां परितः स्वम् इमान् परियन् रतिमान् जननी-सुख-पृग् जनकानन-दृग् जनम् उद्वलयञ्जनयन्न् अलयं व्रज-भू-वसति-व्रजम् आवसति स्वजनेर् अयनं स्वजने नयनं जय नन्दज हे जयद स्व-महे ॥४५॥
[४७] अथ रजन्याम् अपि जनित-प्रभायां श्री-राधिका-सभायां जात-श्री-कृष्ण-प्रभायां मधुकण्ठ उवाच—
तदा साल्वस्योपद्रवम् अनु समस्त-व्रज-जनः समन्ताद् वह्न्य्-आद्यं शरणम् अवगच्छन् स्थितिम् अधात् । विना कृष्ण-प्राणाः पशुप-रमणी-मस्तक-मणीर् अमूषाम् अस्त्य् अन्तर् यदि विरह-वह्निः किम् अपरैः ॥४६॥ (शिखरिणी) यदा तादृग् जाता परम-कुदशा तर्हि निखिलाः समं स्वप्नेऽपश्यन् व्रजम् अनु हरेर् आगति-शुभम् । मिथस् तच् चावोचन्न् इति कलित-विश्वासम् अथ तत् पथं पश्यन्त्यस् ता विगलित-निमेषाः समभवन् ॥४७॥ (शिखरिणी) यदा शङ्ख-ध्वानां श्रवसि कृतवान् स व्रज-जनः प्लुत-प्रायं गच्छन्न् अघहरम् उपेयाय रभसात् । अपि स्तब्धास् तर्हि प्रथमम् अयुर् एतस्य दयिता मनस् त्वं या याता न वपुर् अभिमानं लवम् अपि ॥४८॥ (शिखरिणी) यदा तन्वस् तासां न हि तम् अनुगन्तुं समशकन् सुहृद्-वृन्दं तर्हि द्रुततर-मनोभिर् न यद् अमूः । तदालोकास्तोक-स्फुरद्-अमृत-धाराभिर् अभितः पुनः शक्तीकुर्वत् पर-पदम् अगात् प्रत्युपकृतेः ॥४९॥ तदा कृष्णे सर्वान् स्पृशति तद् अनुस्पर्शम् अविदुर् मुदा मूर्च्छा-भाजोऽप्य् अनुलवम् अमूस् तं न तु परे । समूर्च्छामूर्च्छानां न खलु घटते तत् तद् इति चेत् प्रभावस् तत्-पृष्टेर् भवति विपरीतत्व-कृद् अपि ॥५०॥ अमूषां तेषां वा भवतु कवितार्हं कियद् अपि स्फुटं यस्माद् भावः कलयति चिरं निश्चिति-दशाम् । न तु श्री-राधाया भवति खलु यस्यां प्रतिपदं मनः-क्षिप्तिर् मूर्च्छा चलनम् अचलत्वं परम् अपि ॥५१॥ यदा चक्रे वेषादिकम् अघरिपुस् तर्हि तद्-अनु- ज्ञया सर्वे चक्रुस् तद्-अनुकृतिम् एता बत विना । अमूर् यत्-प्रेम्णा तं स्वम् इव कलयित्वा समनसस् तदा तेनैव स्वं परिकृतम् इतीमां मतिम् अयुः ॥५२॥ प्रवेष्टुं गोष्ठं यर्र्ह्य अभिरुचितम् आसीन् मुररिपोस् तदा यानं तासां गतिर् अभवद् अस्यापि च परम् । न चेद् अन्योन्यं दृग्-विसृति-गुण-वल्ली-वलयिताः कथं विश्लेषार्ताः पदम् अपि नयेरन् पदम् अमी ॥५३॥ यदा गोधुग्-वृन्दे मद-कल-कलान्दोल-वलिते प्रसू-मुख्य-स्त्रीभिः स खलु निरराजि प्रतिगतः । तदा कम्पं स्तम्भं नयन-सलिलं वर्ण-विकृतिं स्वर-च्छेदं स्वेदं पुलकम् अपि मूर्च्छां ययुर् अमूः ॥५४॥ सुहृद्भिः सार्धं यर्ह्य् उपशयनम् आगान् मुरहरस् तदा ताभिर् मेने तद् इदम् अधिचित्तं समम् अपि । वयं भस्मीभूतास् तद् अमिलनतः स्याम किम् अतः सुखं श्यामः सोऽयं व्रजम् अपि पुनः प्राप्य लसति ॥५५॥ यर्ह्य् आसीद् व्रज-पदम् असाव् उद्धृत-क्ष्माति भारः
सर्वैस् तर्हि स्व-नयन-पदं राधयाप्य् आशु नीतः ।
विच्छिद्यापि प्रतिहत-निमेषाक्षि सास्रं स-कम्पं
पश्यन्तीयं पुनर् अमुम् अविश्रान्ति रात्रीम् अनैसीत् ॥५६॥ \
[४८] अथ मधुकण्ठः समापनम् आह स्म—
तदा हरेर् असङ्गं च त्वं सङ्गमम् अमन्यथाः ।
साम्प्रतं विपरीतं तं मौनं नस् तत्र साम्प्रतम् ॥५७॥ एवं सा कथकाद् वृत्त-श्रुति-स्मृति-विकासिनी । भजमानात्म-रमणं रहो-धामान्वसेवत ॥५८॥
इति श्री-श्रीमद् उत्तर-गोपाल-चम्पूम् अनु
पुनर् व्रज-देश-केशव-प्रवेश-शंसनं नाम
त्रिंशं पूरणम्
॥३०॥
(३१)
एकत्रिंश-पूरणम्
श्री-राधादि-बाधा-समाधानम्
[१] अथ प्रातः श्री-व्रजराज-सभायां श्री-व्रज-युवराज-विराजमानायां स्निग्धकण्ठ उवाच—
[२] तद् एवं व्रज-मङ्गलस्य व्रजान्तः-पुरम् अनु सायं मङ्गल-सङ्गमे सर्वेषां हृदयङ्गमे जाते प्रातः श्री-व्रजवासि-व्रातः श्रीमद्-व्रज-त्रातरि सङ्गम्य पुनः स्व-जीवनं रम्यं विधातुं बहिस् तस्य सङ्गम-पर्यग् अवतस्थे । तद् एवं स्थिते, श्री-व्रजराज-तनयश् च कलित-प्रातर्-उचित-नयः सहज-विनयः सखिभिर् अखिलैः सह मातुः सदनम् आससाद ।
आसन्नस् तु हरिः पुनश् च नववन् मात्रादिभिः पात्रतां नेत्राणां वलितः स शात्रव-जयी शैघ्र्याति-मात्राकुलः । तत्-तत्-प्राथम-कल्पिक-क्रम-वशात् कुर्वन् नमः सर्वतः पूर्णाशीर्-वचनः स-बाष्पम् अचिराद् अध्यास्त मध्यासनम् ॥१॥ क्षणं मातुः स्तन्यं सद्-अमृतम् अथाक्षि-द्वय-भवं भजन् सर्वाङ्गेषु स्नपनम् इव कृष्णः पुलकवान् । उरः-कम्पं बिभ्रच्-चरण-युगम् अस्या निज-दृशोः सुधा-तुल्यैर् नीरैः शिशुर् इव सिषेच प्रतिमुहुः ॥२॥ आयातस्य यदु-स्थलाद् अतिचिराद् दैत्यात् विजित्याजित- स्यान्ये-द्युर् निज-बाहु-युग्म-वलितस्याङ्गानि सर्वाण्य् अपि । पश्यन्ती परिचित्य पूर्व-तुलया क्रन्दन्त्य् अनुक्रोश-भाक् उद्गीत-प्रभम् आत्मनीन-जनतां सारूरुदत् तत्-प्रसूः ॥३॥
[३] अथ कातरतां गतयोर् मातृ-सुतयोः सर्वाभिर् अखर्वाश्रु-धाराभिर् अनर्वाचीनाभिः सकातर्य मातर्य् अलम् उपालम्भ-पर्यवसायिनीभिः कृतानुताप-निवारणयोर् विश्व-सुख-कारणयोः क्षण-कतिपयं व्यतिवीक्षण-सुखम् उदभूत् । ततश् च पौगण्ड इवासनाय मात्राकृष्य कॢप्त-निजार्धास्तरणस् तया माणवकः इव स्व-हृदि विधायतया विहिताभरणः कृत-मङ्गलाचरणः क्षणानां गणम् ईक्षणानां पर्वणा सर्व अखर्वं चकार ।
[४] अथ कथम् अपि प्रणीत-तद्-अनुज्ञानुसरण-सखि-कुलावरणः सकल-सुख-निधानं पितुः सन्निधानम् अपि सम्बभाज ।
तस्यां संसदि सङ्गम् ऋच्छति विधौ कल्लोल-कोलाहलः श्रीमान् वार्धिर् इव स्फुरन् जन-गणः प्रोत्सर्पद् अङ्गः स्थितः । क्षुद्-व्यालोल-चकोरका इव तम् आवृत्य व्रजेशादयश् चक्षुस् त्रोटिभिर् अंशु-पान-कृतिनोऽप्य् उच्चैर् न तृप्तिं ययुः ॥४॥
ततश् च,
कैशोरं मुरली-शिखण्ड-कलनं ज्ञातेयम् अप्य् आत्मनः प्राक् साम्याद् अनुभावयन् पुर-गति-क्लेशं स विस्मारयन् । स्व-स्व-प्रेम-विधा-विधान-पटुतां तान् आन्यत् तर्हि यत् पश्यंस् तस्य पुनः पुराय गमनं न श्रद्दधे दारुकः ॥५॥ सर्वे तात-पितृव्य-तत्-समजना विप्राचिता मस्तकं क्लिन्नं नेत्र-जलैर् अलं विदधिरे कृष्णस्य साशीः-स्थिति । स्वेदैस् तद्वद् उरः सुहृद्-विततयः पाल्यास् तथाङ्घ्रि-द्वयं बाष्पैः सुष्ठु यथाभिषेकजम् अहस् तस्मिन् जना मेनिरे ॥६॥ तस्मिन् मागध-सूत-वन्दि-निवहाः सङ्गीत-विद्याबुधा भेरी-दुन्दुभि-काहलादि-विदूरास् तत्-तत्-कला भेजिरे । कृष्ण-प्राप्ति-सुखास-वातुल-मदाद् बाला युवानस् तथा वृद्धाः किं बहुना स्त्रियश् च ननृतुः स्वैरं गृहान् निर्गताः ॥७॥ पूर्वं जन्म-महामहे मुररिपोर् यद् गोकुलस्था जनाः स्त्री-पुंसा निखिलाश् च नृत्य-वलिताः क्रीडाकुलं भेजिरे । तस्माद् अप्य् अलम् अत्र शर्म-वलिताश् चिक्रीडुर् अत्युत्सुकाः स्थाने तन्-निधि-लब्धि-दस्यु-हृत-तल्-लब्ध्योर्भिदा तादृशी ॥८॥ तस्मिन् दुग्ध-हविर्-दधीनि रजनी-तैलानि चात्युन्नताद् देशात् केचन तेषु बाढम् अकिरन् वर्षाम्बुवाहा इव । येषूच्चैर् निपतत्सु ते पुनर् अलं नृत्यन्त एव स्थिता देवाद्यैर् जय-कार-मन्त्र-सचिवैः पुष्पैः स्तवैश् चार्चिताः ॥९॥ कृष्णं मित्राणि गोपाधिप-मुख-सहजांश् चित्र-सम्बन्धि-वृन्दान्य् अन्यानन्ये तथा श्री-व्रज-पति-दयितां यातृ-मुख्याः पुरन्ध्रयः । राधाद्यास् तद्-वयस्या विहरण-वलनाम् आनयन् ये तु सर्वेऽप्य् उच्चैर् आनन्द-ग्रह-वलिततया नाविदुः किञ्चनापि ॥१०॥
किं बहुना—
हरिं वद हरिं वदेत्य् अलम् अनल्प-जल्पं नटन् पठन् हरि-पराक्रमं क्रमज-शत्रु-जत्रु-च्छिदम् । हसन् वसन-दोः-कर-प्रकर-कर्ष-हर्ष-प्रदः प्रसह्य मधुमङ्गलः कुतुक-सङ्गरं सङ्गतः ॥११॥ क्रीडन्तः किल यान् मुदा द्विज-वरान् सूतान् नटान् वन्दिनस् तत्-तद्-दिव्य-धनस्य दान-महसा तृप्तान् व्यधुर् गोदुहः । अन्योऽन्यत्र च तर्हि तस्य रुचिकृच् चित्र-प्रभस्यार्पणं चक्रुस् ते मिथ इत्य् अवापुर् अखिला एव स्फुटं दातृताम् ॥१२॥
[५] तद् एवम् अव्रीडित्वा सुचिरं क्रीडित्वा जलम् अवगाह्य तद् अदिवाह्य च शस्त-वस्त्रालङ्कारादीनि सर्व-जनांस् तृप्तिभिर् नेपथ्य-कारि-जनान् अपि व्रज-क्षिति-पालन-कारी धारयामास । पुनर् आहारयामास च मधुरान्नानि । दारुकस् तु सर्वेण स्वस्मिन् कृत-वरिवस्याखर्वेण पर्वेह लभमानः सात्वत-कुल-मधुरं पुरम् अपि विसस्मार ।
[६] तद् एवं स्थिते श्री-कृष्णस् तु व्रजेश्वरादीन् कतिपयान् अग्रियतया विधाय सखिभिर् अखिलैः सह गवाम् अवलोकनाय वनाय जगाम ।
गवान्वेषं कर्तुं वन अनुययौ नन्द-तनयः समन्तद्-गावस् तद्-विनिमितम् अकार्षुः प्रथमतः । यतस् तस्यामोदं विसृमरम् अवध्राय परितस् तम् अवावृण्वाना द्रुत-गति विदूराद् अभिययुः ॥१३॥ हुङ्कार-घोष-परिपोष-सतोषं एनम् आवृत्य नृत्य-वलिता इव चानुसृत्य । नन्दादिभिर् झरि-झरीत्य् अपि रुध्यमानाः कृष्णं निरुध्य लिलिहुर् व्यतियुध्य चात्र ॥१४॥ गास् तर्हि च स्वर-विशेष-विशिष्यमाण- वेणु-स्वनेन विनिरुध्य स तत्र तत्र । प्रत्येकम् ईक्षण-करः स्मृत-नाम पृच्छन्न् ऊचे विविच्य पितृभिः सखिभिश् च तद्वत् ॥१५॥ प्रतिस्वं पश्यन् गा नयन-सलिलान्य् अस्रवद् असौ तद्-ईक्षा-सार्द्रान्तर् व्रज-नृप-मुखश् च व्रज-जनः । यथा देशः सोऽयं बत सुर-नदी-मातृक-दशाम् अतीत्यापि स्निग्धः समजनि चिराय प्रतिदिशम् ॥१६॥
[७] तद् एवं गाः पुनः पुनर् अनुलोमयन् स सोम-वदनः प्रणिधाय नियुक्त-गोपाल-पाल्या सह पाल्या विधाय श्री-व्रज-युवराजादीन् अग्रे निधाय गो-गृह-निकायं सन्निधाय गो-दोहनादिक-सुखम् अनुसन्धाय पूर्ववद् एव देव-समुचितारात्रिकादिभिर् अर्चितस् ताम् अपि रात्रिं जननी-जनित-भोजनादि-लब्ध-शस्तः कृत-समस्त-सखि-सुखातिशयतया शयन-लीलया पूर्वज-रामः पूर्ववद् अतिवाहयामास ।
[८] तद्-अनन्तरम् अहर्मुखे च सचित-सर्व-सुखे श्रीमान् उपनन्दः श्रीमन्-नन्द-नन्दनम् आनन्दान् निमन्त्रयन् सकल-लोकानां निर्यन्त्रणं निमन्त्रणं कृतवान् । तद् एवम् अहरहः परमम् अहवहतया श्रीमद् अभिनन्दादयश् च लब्ध-सम्बन्ध-तद्-अनुसम्बन्ध्यादयश् च तद्-अनुबन्धम् अविन्दत । तत्र च—
तं तस्यागम-मङ्गल-क्षणम् अथारभ्य व्रजे सर्वतः कंसाद्य्-आहति-गोकुलागति-कथा-गीताङ्ग-वाद्यादिकम् । नित्यं नित्यम् अगाद् वराम् उपचितिं तत्रापि यस्यालयं गच्छत्य् एष यदा तदा पुनर् इयं लक्षात्मना लक्ष्यते ॥१७॥ यद्-अवधि यादव-नगरात् पुनर् अपि हरिर् एष गोष्ठम् आयातः । गोत्राणां गोत्राणां गोत्राणाम् अपि समागतं शर्म ॥१८॥
[९] अत्रेदं दारुकश् चारु चिन्तयामास—
दैतेयान् घातकस् तत्र पुर्य् अद्धा स्थितवान् हरिह् ।
किन्तु व्रजस्य वश्यः स्यात् परार्धम् इव दायकः ॥१९॥
[१०] अथ कथकः समापनम् आह स्म—तद् एवं दर्शं दर्शं स-परामर्शं लेखास् तद् इदम् उल्ल्केहयामासुः । यः प्राग् आसीद् व्रजान्तर्-विहरण-कुतुकाद् वंशिका-वेत्र-पाणिः स श्री-गोपेन्द्र-जन्मा यदु-सदनम् अगात् कंस-मुख्यान् निहन्तुम् । तस्मिंश् चक्रादि-हस्तः खग-पतिग-गतिस् तान् निहत्यात्र सम्प्रत्य् आगत्यास् ते पुरावल् लसित-चित-कला-नाट्यम् एतस्य पश्य ॥२०॥ इति ।
[११] तद् एवं परम-हिते सुख-सहिते दिन-कतिपयेऽतिवाहिते प्रस्तावान्तरं तु प्रातः प्रस्तोष्याम इति श्री-व्रजेश-सभायां कथां सम्प्रथय्य निशि श्री-राधा-सदसि कथान्तरं स्निग्धकण्ठः समुद्भावयामास, यथा—
[१२] तद् एवं शरच्-चण्ड-चण्डद्युति-मण्डलम् इव विरहं विरहय्य विधुर् उत्पल-वलयान् इव व्रज-निलयान् उत्फुल्लयामास । तथापि तस्य तत्-प्रेयसीनां च परस्परम् अन्तस् तृष्णा धृष्णग् आसीत् । समयम् अनागम्य नव्यं न व्यतिगम्यं स्याद् इति । तस्माद् विरम्य च स्थितिर् आसीत् । तत्र तस्यान्तर् विचारं तावत् प्रचारयामः—
तासां मम च परस्पर-तृष्णान्तर्-दाहिनी यद् अपि । तद् अपि न रुच्या शमयितुम् अधुनापि ह्रीः परावद् धि ॥२१॥
तथा हि—
लोकाल् लज्जां सुष्ठु सज्जन् पुराहं
कंस-ध्वंसं व्याजम् आचर्य यातः ।
आयातश् च प्राणम् आसां विभर्तुं
नाद्याप्य् अन्तः सा तु मां हा जहाति ॥२२॥
वृत्तं कुरुक्षेत्र-गतं पुरा यत् तप्ते कटाहे जल-बिन्दु-तुल्यम् ।
आसीत् तद् अन्वेषि-जनेन शून्यं व्रजे तु तत् तद्-विपरीतम् एव ॥२३॥
[१३] ततः कतिचित् काल-गतीः प्रतिपालयन्न् उदासीनवद् आसीनः स्याम् । तद् एतत् क्षणं विचारयन् भाव्य् अन्यद् विचारयामास—
[१४] हन्त हन्त ! किम् उदासीनतया वा प्रत्यासीदतु । यस्माद् आजन्म-विहार-सार-निजागार-परिहारम् आचार्य चिर-विरचितायाम् अपि तस्यां तासाम् उन्मादम् आसादयन्तीनां मद्-भावः प्रत्युत सर्व-प्रत्यक्षताम् आपन्नः । यथा च तद् इदम् इदं जगद् एव विदद् अस्ति । तत्र मम यदु-स्थाने प्रस्थाने निवारयामः समुपेत्य माधवं; किं नो ऽकरिष्यन् कुल-वृद्ध-बान्धवाः [भा।पु। १०.३९.२८] इति ताः प्रोच्य, विसृज्य लज्जां रुरुदुः स्म सु-स्वरं; गोविन्द दामोदर माधवेति [भा।पु। १०.३९.३१] इति तथा, ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः [भा।पु। १०.४६.४] इति, कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः [भा।पु। १०.४७.९] इति, गायन्त्यः प्रिय-कर्माणि रुदन्त्यश् च गत-ह्रियः [भा।पु। १०.४७.१०] इति, काचिन् मधुकरं दृष्ट्वा [भा।पु। १०.४७.११] इति च ।
[१५] यत्रोद्धवस्यापि वचनम् इदं या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा [भा।पु। १०.४७.६१] इति, तथा श्री-रामस्य व्रजागमने तासाम् अपि वचनम् इदम्—
मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि । यद्-अर्थे जहिम दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो ॥ [भा।पु। १०.६५.११] इति ।
[१६] अत एव किम् इह बहु षडङ्घ्रे गायसि त्वं [भा।पु। १०.४७.१४] अगृहाणां नः इति व्यक्तम् एव श्री-राधया प्रोक्तम् । तस्माल् लज्जा तु मयि सर्वतः सज्जताम् अगाद् एवेति तासां पर-दारता यदि परिहारम् आपद्येत । तर्ह्य् एव पूर्वम् अपरम् अपि सर्वं समञ्जसम् अञ्जसा भवति । किन्तु प्रायः कृताभिप्राय-मदीयान्तर्यामित्वादि-सम्पदि मुन्य्-आदि-संसदि कथा-रीत्या प्रतीतम् । तासु मत्-पर-पत्नीत्वं तादृग्-अलौकिक-मामक-रीत्या निरस्य वैरस्यं प्रत्याख्यायते । अत्र तु मुन्य्-आदि-दुर्लभ-मद्-बन्धु-भावाकुले गोकुले लौकिक-रीत्या परं प्रत्याख्यातव्यम् । तत्र काल-प्रतीक्षा तु न तितिक्षां लक्षयति । स एव हि कालस् तासु कालतां कलयेत् । साम्प्रतम् अपि नकिम् अपि साम्प्रतं लक्ष्यते ।
[१९] श्री-कृष्ण उवाच—कस्माद् इदम् अकस्माद् वदसि ?
[२०] पौर्णमासी उवाच— यस्माद् उपलब्धार्थतायाम् अपि तवालब्ध-स्वार्थता दृश्यते ।
[२१] श्री-कृष्ण उवाच—रुच्यं चेद् व्यक्तम् उच्यताम् ।
[२२] पौर्णमासी उवाच— रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति समान-प्रसिद्धितायाम् अपि कीदृग् अस्मिन् न सिद्धता, येन रुक्मिण्यादीर् इव न राधादीर् अङ्गीकरोषि ?
[२३] श्री-कृष्णस् तु सलज्ज-स्मितम् उवाच—गोकुल-लोक-कुलं तु नेदृशम् आलोकयति ।
[२४] पौर्णमासी सानन्दम् उवाच—
[२५] श्री-कृष्ण उवाच—जनित इति चेत् तर्हि दोष एवायातः ।
[२६] पौर्णमासी स-हासम् उवाच—स्वयं तु न ते त्वद् अन्यत्र भीष्मकवत् तं जामातृ-भावं साक्षाद्-व्यवसाय-विषयं कृतवन्तस् तर्ह्य् अत्र वा स्वप्न-दोषाद् उत्पन्ने को दोषः ?
[२७] श्री-कृष्ण उवाच—तथापि यथा तथा तासु निर्दूषणम् एव दूषणम् आयातम् । तासाम् अन्यत्र पतिताप्रतिभानात् तेषां शय्या-सङ्गति-सन्धानाच् च ।
[२८] पौर्णमासी उवाच— द्वयम् अपि न वयं मन्यामहे ।
यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग स्त्रीणां स्व-धर्म इति धर्म-विदा त्वयोक्तम् । अस्त्व् एवम् एतद् उपदेश-पदे त्वयीशे प्रेष्ठो भवांस् तनु-भृतां किल बन्धुर् आत्मा ॥ [भा।पु। १०.२९.३२] इति ।
[२९] भवति तासाम् एव वचनं भवत्य् एव पतित्व-स्थापनम् आचरति । तनुभृन्-मात्राणां चेत् प्रेष्ठादिरूपस् तर्ह्य् अनन्य-स्पृशम् ईदृशं भाव-विशेषं स्वभावतः परामृशन्तीनाम् अस्मादृशां प्रेष्ठ-विशेषतया कान्त एव भवान् इति भवद्-अनुवृत्तिर् एव वृत्तिर् इति हि तत्रार्थः।
[३०] तद् एवम् एव याह् शुश्रूषन्त्यः पतीन् काश्चिद् [भा।पु। १०.२९.६] त्वां प्रति प्रतस्थिरे तास् त्व् अन्याः काश्चित् अन्तर्-गृह-गताः काश्चिद् [भा।पु। १०.२९.९] इत्य् आद्य् उक्त्या त्वल्-लाभानर्ह-देहा जात-त्वत्-स्नेहाः साधक-चर्यः सम्प्रति तद्-अर्ह-देह-लाभेन त्वत्-परिचर्याकर्य एव गम्यन्ते ।
[३१] यत् पत्य्-अपत्य-सुहृदां [भा।पु। १०.२९.३२] इत्य् आद्य्-उक्तवतीर् उद्दिश्य प्रयुक्तं तु,
नासूयन् खलु कृष्णाय मोहितास् तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [भा।पु। १०.३३.३७]
इति श्री-शुकस्य वचनं रास-प्रसङ्गजम् अपि साङ्ग-समय-सङ्गम् अङ्गीकरोति । मायायाः सर्वदा सर्व-शक्तित्वेन त्वद्-एक-भक्तित्वेन च तद्-अपरिच्छदातिरिक्तिं दार-शब्देन च तेषां तद्-अविविक्तिं प्रसक्तीकरोति ।
[३२] ये विवाह-समये त्वद्-अवराणां वराणां वञ्चनाय मायया कल्पिताः श्री-राधादिभ्यः परतया विवेक्तुम् अशक्याः स्वे स्वे दारास् तान् एव स्व-पार्श्वस्थान् मन्यमानाः शय्यायाम् अपि तद्-अविविक्ततया जानन्त इति ह्य् अत्रार्थः । अतस् तासां न तत्र तत्र विवाह-सम्मतिर् न च तदीय-शय्या-सङ्गतिर् इति ।
[३३] तद् एवम् एव भवताप्य् उद्भावितम् उद्धव-सन्देशे—माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः [भा।पु। १०.४६.४] इति । बल्लव्यो मे मद्-आत्मिकाः [भा।पु। १०.४६.६] इति । ताभिर् अपि— अपि बत मधु-पुर्याम् आर्य-पुत्रो ऽधुनास्ते [भा।पु। १०.४७.२१] इति, श्री-शुकेनापि रासे कृष्ण-वध्वः [भा।पु। १०.३३.७] इति, दुर्वाससापि तापन्यां ताभिः कृते प्रश्ने—स वो हि स्वामी भवति इति । ब्रह्मणापि ब्रह्म-संहितायां श्रियः कान्ताः कान्तः परम-पुरुषः इति।
[३४] मन्त्र-राजयोस् तत्-तन्-मन्त्र-द्रष्टापि गोपी-पदानन्तरं जनेत्य् अस्यान्ते वल्लभायेति । यत्र खलु गौतमीये तन्-मन्त्र-व्याख्यायां गोपीति प्रकृतिं विद्यात् इत्य् आदि-पद्य-द्वयेन पूर्व-पूर्वत्र ब्रह्मत्व-नेश्वरत्वेन च विकल्प-कल्पतया निरुक्तस्य तन्-नाम्नः पुनः अनेक-जन्म-सिद्धानाम् इत्य् आदि-पद्येन सर्वोत्तर-पक्षे गोपीनां पतिर् एव इति भ्रमान्तर-निवारण-कृते सावधारणं व्याख्या-पर्यवसानं पर्याकल्प्यते । तस्माद् अमूषाम् अन्येषां वान्यत्र पत्य्-आदि-शब्द-प्रयोगश् चान्यथाख्यातिम् अनुसृत्य केवल-प्रकृति-प्रत्ययोगम् अवलम्बमानं वृत्त्य्-अन्तरम् अवलम्बते । पातीति पतिर् इति । अतो रासार्थं तासां हर्षेण समाकर्षे मातरः पितरः पुत्राः भ्रातरः पतयश् च वः [भा।पु। १०.२९.२०] इति भवज्-जल्प-विलासश् च परिहासाय कल्पमानः परोच्छिष्टताश्लिष्ट-जुगुप्सावश-विरसतां नावहति । पुत्राश् च ते यातृं-मन्यानाम् एव पुत्राः पुत्रतयातिदिश्यन्ते । यान् उद्दिश्य मुनयस् तु पाययन्त्यः शिशून् पयः इत्य् एवाहुर् न तु सुतान् स्तनम् इति ।
तस्माद् गर्ग-वचनावञ्चनायात्मना प्रपञ्चितम् इदम् असञ्चितं वयम् एव करिष्यामः, यथा गोकुले लोका अपि यथावद् आलोकेरन् इति ।
[३६] अथ मधुमङ्गलः सकष्टम् आचष्ट—
व्रजस्य लोके तव सङ्गतेर् मुदं गते तथामूर् मलिनत्वम् आगताः । यथा सिते तण्डुल-मण्डले ययुर् निष्कास्य दुर्वीज-कणावलेस् तुलाम् ॥२५॥
[३७] वृन्दोवाच—
अकस्मात् त्वल्-लाभाद् व्रज-जनवद् उत्फुल्ल-तनुतां गतास् ते प्रेयस्यः स्फुटम् इति कथा सा न वितथा । तवौदास्ये किन्तु प्रययुर् अधुना म्लानिम् अतुलाम् अमूः श्री-राधा तु प्रवलयति धूमं निज-तनोः ॥२६॥
[३८] पौर्णमासी उवाच—
शृणु सङ्क्षेपतः सम्प्रत्य् औदास्ये तव केशव । यदा बाष्पायते राधा धूमायन्ते तदा दिशः ॥२७॥
आश्रयाशत्व-विख्यातिर् वह्नेः सर्वत्र लभ्यते ।
प्रेम्णश् च तव गोविन्द सा चेन् निन्दाम् अवाप्स्यसि ॥२८॥
[३९] अथ स च गोकुल-कुलज-रमा-जन-भागः पतत्-पराग-समागत-राग-निज-भालादि-भाग-मार्जन-व्याजाद् दुकूलाञ्चल-संवलनया निजाक्षि-जलम् अपसारयन् व्याजहार, यथा—भद्रं भवति, तथा तद्-रञ्जितं क्रियताम् इति ।
[४०] तद् अनु च वृन्दा-मधुमङ्गलाभ्यां पूर्ण-परिसरा पूर्णिमा तद्-अभिप्रायं सुज्ञाय सुख-विहाराय च तम् अनुज्ञाय समान-वासनया क्वचन च निर्जने कृत-संवासानां तासां सकाशमयामास । ततश् च गोकुले तासां मण्डलीं ज्योतिर्-मण्डले लब्धोपराग-चन्द्र-मण्डलीम् इव सुस्निग्धता-दिग्ध-गहने वात्या व्यत्यासित-लता-पङ्कित्म् इव काव्य-मीमांसा-शास्त्र-विज्ञाविज्ञ-सदसि सत्-कविताम् इव विलसद्-अन्य-पुमर्थ-साधन-साधु-वर्गे भगवद्-अनन्य-कामना-मय-भक्तिम् इव म्लानिं गच्छन्तीं वीक्ष्यानच्छ-हृदयतां गच्छति स्म । गत्वा च शुभाशिषा विषादम् अपनयन्ती तद् इदं तावद् वदति स्म ।
सरसी-भवन्तु ते ते, घन-रस-पूर्णे महा-गुणे सरसि । मलिनी-भवतितरां चेन्, नलिनी-जातिस् तदालिनीनां किम् ॥२९॥
[४१] तद् एवम् आकर्ण्य च भूमिं निर्वर्ण्य वैवर्ण्यम् अत्यजन्तीषु वैवर्ण्यम् एव च भजन्तीषु तासु कापि तासां सखी स-गद्गदं गदति स्म ।
नलिनी-जातिः कथम् इव, मलिनी-भविता न सा सरःस्थापि । वृश्चिक-राशि-गतश् चेन् न रवि-च्छविम् आदिवत् तनुते ॥३०॥
[४२] पौर्णमासी उवाच— रवेर् नायम् अनयः, किन्तु समय-गतेर् एव ।
[४३] सोवाच—योग-चर्या-वर्याया भवत्या न भवत्याश् चर्याय किम् अपि । तस्माद् अस्माकम् इव तासां समयस्य गतिर् अस्मात् विस्मापयते ।
[४४] पौर्णमासी सास्रम् उवाच—न भवेद् अद्यादितः काचिद् अवद्या तस्या गतिः, यद् अयं सकल-सुख-दायकः श्रील-गोकुल-कुल-नायकः पुनर् अपि गोकुलम् अवलम्बते स्म । सम्प्रति चानन्द-घन-समयं लभमानः सहस्र-गुणम् अमृतम् अपि वर्षिष्यति, न तु स्नेहाशवद्-आत्माश्रय-वर्ति-गणं धर्षितं करिष्यति, परन्तु परमाभील-निलीनानां भवद्-आलीनां समीहितं कर्ण-निहितं कर्तुम् इच्छामः ।
[४५] अथ सा सखी पुनर् उत्कण्ठा-युक्ताप्य् अश्रु-कण्ठतया क्षण-कतिपयं कुण्ठायते स्म । तद्-अनन्तरं तु सर्वासां समय-लेख-पत्रं तस्या दृग्-अमत्रं करोति स्म । यथा—
व्रजे वयं द्विधा वृन्दा वृन्दावन-गता मताः । एकाः कन्या-गणे गण्या गण्या नास्मिंस् तु काश्चन ॥३१॥ द्वितीयानाम् इयं संवित् संवित्-सद्मनि धीयताम् । जगत्य् अस्मिन्न् असर्वज्ञैः सर्वज्ञैर् अपि सर्वशः ॥३२॥ यथा ख्यातिर् गवां पत्युः पत्युस् तद्वद् गृहस्य नः । वाङ्-मात्रेण धवत्वं स्याद् धवत्वं स्याद् द्रुमेष्व् अपि ॥३३॥ यदि कृष्णात् परं कान्तं कान्तं वेच्छाम गोचरम् । स्वसात्कुर्यात् कृष्णवर्त्मा कृष्णवर्त्मान् यथास्मकान् ॥३४॥ एवं विशाम सङ्कल्पं सङ्कल्पं ज्वलने वयम् । येन लज्जाम् अतिक्रम्यम् अतिक्रम्यं लभेमहि ॥३५॥ इतः किम् अन्यत् कान्तस्य कान्तस्य च मुदं वहेत् । यस्य सा ह्रीर् अभूद् अस्मद् अस्मद्-अन्तर्-विमर्दिनी ॥३६॥ यदि तस्य गता लज्जा तातस्य च कुलस्य च ।
प्रवेक्ष्यामः पुनर् वह्नाव् अह्नायाकान्क्षि ताप्तये ॥३७॥
अथ संवित् कुमारीनाम् आरीनाश्रु-भृताम् इयम् ।
तं विना न नवाश्वासान् न वा श्वासान् भजेमहि ॥३८॥
[४६] तद् एवं सुवचनामत्रिकायां पत्रिकायां वाच्यमानायं सभायम् अपि बाष्पेण पाच्यमानायां पौर्णमासी सानुशयं स्वाशयम् और्णवीत् । प्रत्युत तासां साक्षाद् वचस्यः स्व-कर्णयो रचनाय भाव-परीक्षा-सचनाय च विरुद्ध-रचनम् इव वचनम् इदं प्रचारयामास—अयि विपश्चितः ! काश्चिद् एवं निश्चिन्वन्ति । ताः खलु रमणे रामावरजे प्रेम-मात्रं क्षेम-मात्रं क्षेम-पात्रतया मन्यन्ते । रमणे प्रेमा च रामाणां निरोधमयाभ्यां लज्ज्जाभ्याभ्यां सज्जां गतां सज्जति । तर्हि ता अपि यन्-निरोधनाम्नाभिहितान् निज-हिताद् उद्विजमानाः पर-दारतां निवारयितुं लिप्सन्ते । तन् न युक्तम् इति ।
[४७] तद् एतन् निशम्य क्षणं विरम्य च सवैवर्ण्यम् इतस् ततो निर्वर्ण्य तास् तद् इदं स्वयं वर्ण्यम् आचरन्ति स्म ।
[४८] तासाम् एव तन्-निरोधः समुद्बोधम् आप्नोतु, न पुनर् अन्यासाम् । आन्यास् तु तद् इदं बोद्धुम् अप्य् अधन्या भवन्ति तत्-प्रेम-नामाभावस् तल्-लाभ-निरोधस्यानुरोध-मयः स्याद् इति, किन्तु यद्यप्य् असौ पार्श्व-गतो रहो-गतस् तथापि तस्याङ्घ्रि-युगं नवं नवं [भा।पु। १.११.३४] इत्य् एव बोद्धुम् उद्बुद्धा भवन्ति ।
[४९] तद् एवं वर्णयित्वा लुप्त-वर्ण-पदं रुदतीषु सुदतीषु बाष्प-पूर्णा पौर्णमासी तद् इदं चिन्तयामास—
हरेर् नित्याः कान्ता इति न हि विदुर् ये व्रज-रमाः
मतं तेषां तासां तद्-उपपतिताप्य् उत्तम-फलम् ।
विदुर् ये ता नित्याः परम् अहह तेषां पुनर् असाव्
अमूषु गालिह् कथम् अनुग-लोकं सुखयतु? ॥३९॥
[५०] तस्मान् नाहम् आसाम् अवर-पत्नीत्व-दुष्कीर्ति-रक्षणार्थम् एतन्-मतम् आक्रुक्षम् । किन्तु कुक्षि-गतं भावम् एवामूषां निरकुक्षम् । वस्तुतस् तु, पतित्वस्यासम्भव एव किल सम्भवति भाववतीनां तस्यपशृण्वति जारता तिरस्कृता, निःश्वं त्यजन्ति गणिकाः [भा।पु। १०.४७.७], जारा भुक्त्वा रतां स्त्रियं [भा।पु। १०.४७.८] इत्य् अनेन ।
[५१] अथ पुनः साशीर्-वचनम् उवाच—
हे राधे हन्त चन्द्रावलि बत ललिते हे विशाखेऽङ्ग भद्रे भो श्यामे पश्य पद्मे कलय शिविसुते किं च शृण्वन्तु सर्वाः । युष्मच्-चिन्ता-मणीन्द्रः स खलु हरि-मणिः कामितं वः सुपूर्णं तूर्णं कर्तास्मद्-आद्यास् त्व् इह परिचरण-ब्राह्मणादि-प्रकाराः ॥४०॥
[५२] अथ वृन्दाप्य् उवाच—
वृन्दावनं भवद्-वृन्दावनम् एतद् द्वयं हरिः । न हास्यतीति जीवामि यन् न हास्यति गीर् असौ ॥४१॥
[५३] अथ मधुमङ्गलश् चाललाप—
अस्मि च मधुमङ्गलकः पुनर् अपि मधु-मङ्गलत्वम् आपत्स्ये । अधि मधु-ऋतु वः पाणौ-कृत्य स पाणौ करिष्यते कृष्णः ॥४२॥
[५४] तद् एवं तासाम् अबाधाय समाधाय तां गच्छन्तीम् अनु व्रजन्ती नित्यं सखिता-मात्र-सुखिनी काचन सखी-श्रेणीतया रहस्य् अन्वयोजि । सभायां खलु विषम् अभावानां प्रसाद-लाभ-हेतोर् अपि नावभासयन्ति गम्भीर-स्वभावाः स्व-मतम् । तस्मान् निःशलाकता-बलाद् इदम् आलपामि, नापलपत स्व-मतम् इति । तास् तु स-गद्गदं जगदुः—
यथा सीता-देव्या दश-मुख-कृतार्तिर् विपद् अभूद् यथा वा रुक्मिण्या विवहन-विधिश् चेदिप-कृते । तथा राधादीनां पर-गृह-गतिर् या बत विपत् कथं तस्या नित्या स्थितिर् अभिमता हन्त सुहृदाम् ॥४३॥
[५५] पूर्णिमा स्वगतम् आह—सत्यं सत्यम् । यतः—
शशभृति राहोश् छाया चिराय नेति व्यनक्ति कुतुकं च । नित्यावस्थितिलाञ्छनम् अखिलस्वान्तं विरञ्जयति ॥४४॥
[५६] स्पष्टं तु तद् इदम् आह—पर-गृहिणीतया तासां पर-निगृहीतत्वे सत्य् एव भवतीनां साहाय्य-सुखम् अतिशाय्य् अस्तीति तत् कथं परित्यज्यते ?
[५७] तास् तुमलिन-लपन-नलिनम् आलपन्ति स्म—भवत्य् अवधीयताम् । ताः खलु दैवतस् तावन् निज-प्राण-वल्लभस्य वल्लभत्वेनालाभाल् लब्ध-महा-दुःखास् तत्र च स्वस्यान्य-हस्त-पतितया जुगुप्सितं-मन्यता-शुष्कास् तत्र च प्रियाप्रिय-विप्रकर्ष-सन्निकर्षाभ्यां लब्ध-मनो-धर्षास् तत्र च निरन्तर-शङ्कमाणैः पतिम् अन्यादिभिर् मङ्क्षु-कृत-निवारण-भर्त्सनादि-निकर्षास् ततस् तत एव दुःसह-प्रेष्ठ-विरह-तीव्र-ताप- [भा।पु। १०.२९.१०] इति प्रसिद्ध-तादृग्-अवस्थाभ्योऽपि महानुरागतः पीडनाद् वहल-दहनाकार-कारागार-वसतिं-मन्यतया निगीर्ण-सर्व-क्षणं क्षणम् अपि कल्पं मन्वानाः सम्प्रति तदीय-महा-विरह-समयं विरहय्य चात्मानस् तद्-उपेक्षताम् उत्प्रेक्ष्य लज्जा-मात्र-पर्यवसानताम् आसज्य च धिक्-कृतम् अन्या दशमीम् अपि दशां तन्वानाः । किं बहुना ? बहिर्-अन्तः-सुकुमारतायाम् अपि कौमारत एव व्याधानुविद्ध-स्निग्ध-कानन-प्रत्यासत्त्य्-अपरित्यागि-मृगीवत् प्रखर-दरापार-पर-पारवश्य-लब्ध-विचित्र-दुर्गति-सम्प्लुततया पश्यतां शृण्वताम् अपि हृदयं धुन्वाना रसोऽयम् इति मन्यमानेन निष्करुण-कौतुकेन केनचिद् एवोपेक्षितुं शक्यन्ते, न पुनर् अन्येनेति, काली कालीव कल्पान्ताय कल्पताम् ।
[५८] अथ भगवती रोदन-सम्पत्-कम्प-सम्पात-पात-जात-मूर्तीर् आसां मूर्तीर् आलिङ्गनामृत-सङ्गाद् विगत-जूर्तीर् विधाय शुभाशिषा वाञ्छित-महसि निधाय तदीय-स्व-सखी-सन्निधान-गमनाय संविधाय निज-पर्ण-शालाम् आगतवती, वृन्दा च निज-वनम् ।
[५९] मधुमङ्गलस् तु सर्वम् इदं मङ्गल-वृत्तं श्रीमति व्रज-माग्गले प्रसङ्ग-सङ्गि चकार ।
[६०] पुनश् च पूर्णिमा सखी-द्वारा स्व-हृदयं परीक्षमाणाया राधाया बाधातिशयं निशम्य रम्यम् इदं सन्देश-पत्रं तस्याः सन्देशं प्रेषयामास, यथा— नाम श्रीमति राधिका तव पिता भानुः प्रसूः कीर्तिदा श्वश्रुर् नन्द-वधुः सखी च ललिता सार्धं विशाखादिभिः । आरामः किल कृष्ण-कानन-ततिः कान्तः स कृष्णः सदा नाहं किञ्चिद् अवेदिषं तद् अपरं नो वेद्मि वेत्स्यामि न ॥४५॥
[६१] तद् एवम् एकान्त-भक्तानाम् एषां त्व कान्तं प्रति प्रार्थना च नितान्तं विश्रान्तताम् आप्स्यति ।
गोपेशौ पितरौ तवाचल-धर श्री-राधिका प्रेयसी श्रीदामा सुबलादयश् च सुहृदो नीलाम्बरः पूर्वजः । वेणुर् वाद्यम् अलङ्कृतिः शिखि-दलं नन्दीश्वरो मन्दिरं वृन्दाटव्य् अपि निष्कुटः परम् इतो जानामि नान्यत् प्रभो ॥४६॥ इति ।
[६२] अथ कथकः समापनम् आह—प्रस्ताव्यान्तरं तु प्रातः प्रस्तोष्यामः ।
यस्माद् एव भवन्तौ तौ सम्भवन्तौ मिथोऽप्य् अमू । सर्वा अस्मान् अखर्वेण गर्वेण धिनुतः सदा ॥४७॥ इति ।
[६३] स्निग्धकण्ठ-समापन-कण्ठ-सूक्त-निदिग्धता-स्निग्धाः सर्व एव यथायथं वासम् आसन्नाः श्री-राधा-माधवौ च स-स्पृहं विलास-गृहं जगृहतुः ।
इति श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
श्री-राधा-बाधा-समाधानं नाम
एकत्रिंशं पूरणम्
॥३१॥
(३२)
अथ द्वात्रिंशं पूरणम्
सर्व-समाधानाधान-पर्व-पर्वणं
[१] अथ व्रज-युवराज-विराजमान-व्रज-राज-सभायाम् अन्येद्युश् च सर्व-सुख-धन्ये मधुकण्ठ उवाच—
[२] तद् एवं व्रजस्य व्रज-मङ्गलस्य च शर्माभिमानेषु शश्वद्-उल्लास-भासमानता-समानेषु निरन्तर-तरतमता-रहित-हरि-हित-सञ्ज्ञानेषु चित्र-वादित्र-नर्तन-गान-प्रधानेषु विचित्र-समित्र-कंसामित्र-केलि-वितानेषु च तत्र तत्र समम् अत्र सत्र-सुख-सत्र-निदानेषु प्रति-रात्रिन्दिवम् अभिन्नवत्-तत्-त्रयं विन्दमानम् आसीत् ।
[३] तत्र च सति सरथः सारथिर् यथावद् एवावस्थित इति व्रज-पति-प्रभृतीनां मनः सन्दिग्धता-दिग्धं बभूव । अत्र तु सति परम् अतिमतिमान् श्रीमान् नन्द-कुल-नन्दनः क्वचिद् आनन्द-कथायां स-विनयेन नयेन कारिताभिमुख्यान् पितृ-मुख्यान् पप्रच्छ—हन्त कथम् अद्यापि वः परितोषस्य केनचिन् मोष इव दृश्यते ?
[४] अथ सर्वे रूक्ष-स्निग्धताम्रक्षितं हसन्तः शंसन्ति स्म—अस्मत्-परितोषस्य मूलं परमानुकूलः स भवान् एव । ततः किं तस्य पर्यनुयोग-चर्यया ?
[५] अथ श्रीमान् व्रज-चिन्तामणिस् ताम् इमां चेतसि चिन्ताम् आचचार—नामी तावन् मम काञ्चिद् अन्य-चित्ततां चित्तीकुर्वीरन्, किन्तु रथ-स्थितिम् एव मत्-प्रस्थिति-कारणम् अवधारयेरन् इति ।
[६] स्पष्टम् आचष्ट—भवन्-मनोरथ-विशेष-श्लेषार्थम् एव सोऽयं रथः स्वीकृत-प्रथतां न प्रथयति । तत्र कथम् इव निज-चिन्त्यम् अन्यथयत । यतः—
हित्वा वः परिदेवना-परिवृतान् कंसं निहन्तुं गतस् तत्रानेक-तद्-एक-चर्यद्-अनुज-ध्वंसाय लब्ध-ग्रहः । तस्मिन्न् आत्म-बलोद्धवादि-वचनान् निर्बद्ध-युष्मद्-गलत्- प्राणः सोऽहम् इहागतोऽपि भवतस् तप्तास्मि हा किं पुनः ॥१॥
[७] अथ तद् एवम् आकर्ण्य व्रज-राज-मुखं निर्वर्ण्य सर्वेऽपि तं निवेदयामासुः—तर्हि द्वारकावद् आगारम् अत्र यदि स्यात् तदा तद् अस्माकं सुख-सत्रं भवति । तस्माद् अन्यथा स्थितिस् तु भवतः स्फुटम् अस्माकं व्यथां जनयिष्यति इति ।
[८] तद् एवम् आकर्ण्य भूमिं निर्वर्ण्य स तु मनसि विचारम् आचचार—अगार-पदम् एते दार-पर्यवसानतां गमयन्ति । नास्मन्-मनः-सारं तु जानन्ति । तस्माद् आत्म-सहाय-पौर्णमास्य्-आदि-साहायकं सञ्चारयितुम् आचरितुम् अञ्चितानुसारं कृत-यमुना-विदारं भ्रातृ-सारम् अत्राकारयितास्मि । मदीय-मातुः प्रिय-यातरं तन्-मातरम् अपि, यस्माद् एव चात्मनि पूर्ववद् अपूर्व-व्रज-वास-सुखानि साधयिष्मः इति ।
[९] स्पष्टं च व्याचष्ट—तर्हि भ्रातरं तन् मातरम् अपि व्रजम् एवाव्राजयिष्यामि इति ।
[१०] सर्वेऽप्य् ऊचुः—तर्हि सर्वदा राकाशर्वरी-पर्व-शर्वरी-नाथाद् वरयतश् चकोर-वारस्य तस्माद् अपार-दशारदसम्भार-सारस्यापि लाभः समजनि ।
[११] अथ कंसारिर् दारुकं प्रति रहसि चारु निदिदेश—भोः सूत ! मदीय-स्नानीय-दानीय-द्रव्य-विशेषानयनाय प्रभूत-जव-प्रथेन रथेन द्वारकां प्रस्थाय दन्तवक्रादि-वधम् अभिधाय ममात्र तु भूत-भविष्यत्-काल-प्रसूतता-मात्रं तत्र व्यक्तम् अभिधाय मातृ-मिश्राः श्रीमद्-आर्य-मिश्राः समानीयन्ताम् उद्धवश् च तेषाम् अनुषङ्गितया विधीयताम् । किन्तु तेषु रहस्य् एवं निवेदयितव्यम् । यथात्र व्रजासक्ततया प्रतीतस्य मम शीघ्र-विनिवर्तनम् एव लक्ष्यम् अनुवर्तते इति ।
[१२] पुनश् चादिदेश—श्रीमद्-अग्रजेन व्रजान् नीते ते शुक-शारिके चानेतव्ये इति ।
अथ व्रजात् प्रचलितवान् स दारुकः समागतः सपदि कुश-स्थलाद् अपि । बलादिक-त्रयम् इह यत्र साक्षितां नयंस् तद् आनयद् इति चित्रम् आदधे ॥२॥ हरेर् वाचा ज्ञात्वा पथि कृत-गतिर् धेनुक-रिपोर् उपव्रज्यां चक्रे व्रज-जनि-जनः प्राग् इव हरेः । तथाप्य् अस्मिन्न् एकं समधिकम् अभूत् प्रस्फुटतरं यद् अन्तर् बभ्राजे स्वयम् अपि हरिस् तद्-गण-गतः ॥३॥ व्रजाधीशं रामः स-सुतम् अमिलद् यर्हि सगणं व्रजाधीशां रोहिण्य् अपि पशुप-रामावलयिताम् । तदा सर्वं गोष्ठं प्रमद-भर-पुष्टं तद् अभवद् यथा दिव्यैर् लोकैर् द्विगुणम् इदम् इत्य् एव ददृशे ॥४॥ नीराजनादिकं तर्हि रामस्याकारि पूर्ववत् । कृष्ण-द्वैततयालोकि तथापि यद् अपूर्ववत् ॥५॥
[१३] अथात्र स्निग्धकण्ठः सहासम् आह स्म—
पुत्रीं पुत्रं चापजह्रे व्रजेश- स्यात्मार्थं यः शूर-पुत्र-च्छलेन । तत्-पुत्रेण द्वीभवन् पुत्र एष स्वीयं तातं पश्य शश्वत् पिपर्ति ॥६॥
[१४] अथ मधुकण्ठ उवाच—तद् आरभ्य च—
आस्तां रामस्य सा वार्ता तां पश्यन्न् उद्धवस्य च । गोपाल-समता-चित्रां दारुकश् चित्रतां ययौ ॥७॥
[१५] उवाच च दारुकः स्व-बुद्धम् इदं रहस् तम् उद्धवम्—मयायं मायामयवद् व्रज-जन्मनां कृत-प्रचार-पद-व्यवहार-व्यवहारः पथि भवत्सु भवत्सु प्रतीतम् अतीत इति न प्रथितं चक्रे । त एत एव तम् एतं गोचरयितार इति चिन्तयाञ्चक्रे च । तत्र तु भवन्तोऽपि तन्-मायया तद्-रूपीभवन्तो दृश्यन्ते । तस्माद् अतीव चित्रायमाणं मां कथञ्चित् त्रायमाणः स भवान् भवतात् । इति ।
[१६] उद्धव उवाच—मुग्ध-धीर् अपि भवान् मुग्धताम् अदुग्ध । यः स्व-प्रभोः सव्येष्ठ-दक्षिणस्थ-रथ-कुटुम्बीति सञ्ज्ञा-त्रय-मयः स भवान् नाद्यापि तद् इदं विदन्न् अस्ति । व्रज-वास्तव्या वा स्तव्याः कस्य न स्युः ? येषां पाद-रजः-सञ्जनाय विधिर् अप्य् आत्मनः सुविधिम् अभ्यर्थयते । इति ।
[१७] अथ प्रकृतम् अनुसरामः । ततः सर्व-सुख-जन्यां तस्यां रजन्यां मुहुर् मुहुर् अपि—
अन्तर् बहिर् द्रव-वशाद् वपुषी मिथस् तर्ह्य् आश्लेष-शर्म-निविशन्-निभयोर् जनन्योः । रामाजिताव् अनुशयाद् इव हार्द-वाचा स्वत्रावधान-रचनौ वियुतिं व्यधत्ताम् ॥८॥
[१८] तद् एवं तस्यां रात्राव् अतिमात्रानन्द-गात्रायां तत्-प्रभृति च प्रातः प्रातर् अनुसृत्य श्री-रामम् आदृत्य तेन सह सह-तातं श्री-राम-सहजातं परावृत्य पित्र्व्य-मुखादृत्य-गोपाः क्रमान् निमन्त्रयामासुः, रोहिणीम् अपि व्रज-महीपति-पत्नी-सहिताम्, यत्र सर्व एव व्रजः परस्पर-निमन्त्रिततयासीद् इत्य् अतिशयितुम् असमर्थतया लज्जा-यन्त्रित एवाजनिष्ट ।
[१९] अथ निमन्त्रणायाम् अतूर्णं पूर्णायां पुनः सर्वान् महा-पर्वणा स्वयं श्री-व्रज-युवराजः सभाजयामास । यत्र कंस-वधाद् अधस्ताद् व्रजेश्वरादीनां व्रज-प्रस्थापने यद् वेणु-शृङ्गादिकं स्व-प्रतिनिधि-भावाय सह रामेण स्वयं स्तोककृष्ण-सुबलयोर् अर्पितवान्, तेन तौ अन्यैश् च धन्यैर् अगण्यैर् निजालङ्कारैर् अलङ्कृतवान् परैर् अपरान् अपि सखीन् इति । किं बहुना ? सन्देश-हरान् अपि तान् आचरित-गतागति-चरान् आनाय तत्-तन्-न्याय-वस्तुभिः स्तुतिभिश् च पुनश् चकारेति सर्व-सुखं वर्वर्ति स्म ।
[२०] स्वयं तु प्राचीन-बहुविध-तत्-तन्-निज-स्पृहितं वेण्व्-आदिकं जनया गृह-सङ्गृहीतं गृहीत्वा सखिभिः सह सहरामं विहरन्ति स्म । [२१] अथ प्रकृतम् एव सेवध्वम् ।
[२२] श्री-रामः समागत्य द्वितीयं दिनं सङ्गत्य श्री-हरेः प्रेम्णावगुण्ठिताः काश्चन विस्फुटद्-धृदयताकृत्-उत्कण्ठाः स्फुटम् उद्धव-द्वारा शुभाशीर्भिः सान्त्वन-गीर्भिश् च मङ्क्षु सन्धुक्षयामास । तद् एतच् च शुक-शारिका-युग्मं मद्-द्वारा प्रहितं श्रीमन्-मद्-अनुजेन च परम-हिततया निज-निकटे निहितं सम्प्रति च मादृग् इव व्रज एवानीतं तदीय-सत्य-सङ्कल्पता-जल्प-मयं पद्यं स्वयं भवतीभिर् अध्यापनीयम् इति वाचिकं च प्रस्थापयामास ।
[२३] तत्र च द्वित्राहोरात्रानन्तरम् उद्धवेन सत्रा रहसि रोहिणी-रामाभ्यां पूर्णिमाभ्यासः सादरम् अभ्यासेदे, यत्र वृन्दा-मधु-मङ्गल-सङ्ग-लग्ना पूर्णिमा तान् सङ्गमितम् अङ्ग-लतया पूर्णित-मनसः सन्धाय प्रस्ताव-परम्पर-यात्रकीयाय श्री-कृष्ण-विवाहाय श्री-व्रज-राज-समीहितं तत्-कर्णाभ्यर्णम् आचचार, यत् खलु मधुमङ्गलात् कर्णयोः सङ्गतवती ।
[२४] तत्र कन्याश् चाङ्गीकृत-स्व-निर्णयाभ्यां लब्ध-वर्णाभ्यां रामोद्धवाभ्यां रोहिणी-कर्ण-पथम् आरोहयामास । तद् इदम् अव्याजं व्याजहार च—जाते तु व्रज-प्रजापतेः पुरस्ताद् एतत्-प्रस्ताव-जाते, मन्-मतम् एव स्वेन सम्मतम् इति वक्तव्यं, न तु स्वयं किम् अपि वक्तव्यम् इति ।
[२५] तद् एवं पौर्णमास्या सहैकमत्येन सातत्येनानन्दारामा व्रज-धामागता रामादयः श्री-व्रज-पति-तत्-पत्नीभ्यां तद्-अर्थम् अनुयुक्तास् तद्-उक्ताम् एव रीतिं प्रयुक्तां निममिरे।
[२६] ततश् च व्रजपति-जम्पती तद्-अभ्यासम् एवाभ्याजग्मतुः । तद् अनु च तद्-अनुनयादिकं विधाय तद्-अनुज्ञया सन्निधाय च तद् इदं निवेदयामासतुः—तपः-प्रभाववत्या भवत्या प्रसादाद् अपत्यस्य प्रत्यागमनं प्रत्यासन्नम् । अनन्तरं तु निजान्तरस्य दुरन्त-दुस्तर-लषितान्तरम् आख्यातुं लज्जां सज्जावः, यद् अधुना तस्य वधू-सम्पत्तये च प्रयतते चेतो-वृत्तिः ।
[२७] पौर्णमासी सानन्दम् उवाच—
श्रोतृ-वक्त्रोर् ऐकमत्यं यदि स्याद् दैव-योगतः । तदा लिप्सित-भावानां सिद्धिः शकुनविन्-मता ॥ इति ।
[२८] शकुन-शास्त्रानुसारेण लब्ध-मनोरथ-पारेण मनसा पृच्छामः । भवतोर् अत्र कुत्र गोप-गोत्रजायां मनोरथः प्रथते, तत् कथ्यताम् ।
[२९] अथ व्रजराज्ञी विज्ञापयामास—काश्चिद् धन्या-प्रभृतयः कात्यायन्य्-आराधन-धन्याः कन्यास् तस्मिन्न् एव स्व-न्यासात् कन्यात्वं रक्षितवत्यः सन्तीति ताः प्रत्यधिकम् । इति ।
[३०] पौर्णमासी उवाच—कथम् असाधारणा राधादयस् तासां साधारणा अपि न क्रियन्ते ?
[३१] ताव् ऊचतुः—हन्त ! ताः भवद्-अन्तरम् आगताश् चेत्, परम-शन्तमा एव भवेयुर् इति कथन्तरां नोररीक्रियन्तां ? किन्त्व् अमूः कतमाः ?
[३२] पौर्णमासी उवाच—धन्यानां वृषभान्व्-आदीनां कन्या एव ।
[३३] ताव् ऊचतुः—सुध्यादि-गुरो ! तद् इदं न बुध्यामहे ।
[३४] पौर्णमासी सहासम् उवाच—ताश् च कन्या एव, न पुनर् अन्यादृशाः ।
[३५] व्रजराज उवाच—कथम् इव ?
[३६] पौर्णमासी उवाच—यदा किल वसुदेव-मन्त्रणैक-सर्गतया गर्गस् तासां वर्गम् अन्यत्र प्रादेशयितुं तत्-पितॄन् उपदिदेश, तदा भवद्-आदि-मनोरथ-विज्ञया मया प्रेरितया सर्वत्र व्याप्नुवतः स्वप्नस्य सम्पादन-व्यवसायया मायया तासाम् अन्यत्र विवाह-भानं निर्वाहितम् । तत्-पतिं-मन्यानाम् अन्यायादि-प्रवृत्तिम् अनु च माया वृत्ति-रूपास् तासां स्वरूपाश् च मध्ये मध्ये परा निध्येयतया निर्वाहिताः । इति ।
तस्मात्—
कौमारः सन्न् अजितः, कौमारीभिः समं गोष्ठे । द्वन्द्वीभावं गच्छन् निर्द्वन्द्वीभावम् आगन्ता ॥
[३७] अथ तौ तद् एतन् निशम्य ताम्यन् नेत्र-नलिनवद् अमलिन-मुख-सुषम-सुख-समाधि-साधीयांसौ तूष्णीकतयापि तां पुष्णीतः स्म । यतः—
हेमन्तामर-दीर्घिका०विसरवत् कल्पद्रु-वन्य-स्थली च्छायावद्-धरिचन्दन-स्वरसवच्-छुभ्रांशु-निर्यासवत् । राधादीय-कुमारतान् अपगमं व्यञ्जद्-वचस् तन्-मुनेः सद्यः स्पृश्यतयाभिमृश्य जहतुस् तापं व्रजाधीश्वरौ ॥११॥
[३८] अथ क्षणं विरम्य स-गद्गदं जगदतुः—वत्सः किं तद् इदं तद्वत् समधिगच्छति ?
[३९] पौर्णमासी उवाच—अथ किम् । किन्तु मद्-आद्य्-उपदेशाज् ज्ञात्वापि लज्जां सज्जंस् तत्र न सज्जते ।
[४०] व्रज-राज्ञी प्राह स्म—राधिकादिकानाम् अपि का वार्ता ?
[४१] पौर्णमासी उवाच—ताश् च तथा स्वयम् एव मां प्रति सम्प्रति चाविश्चक्रुः, यथा—
लब्धेऽप्य् अनूपवासे, बत चातक-जातयश् चिरं परितः । केवल-वारि-धरामृत-तृष्णा-ज्वालासु जुह्वति प्राणान् ॥१२॥ इति ।
[४२] तद् एवं सति, यावत् तद्-अलाभम् एव तासां तद्-आशया घूर्णमानानाम् अप्य् उपायम् अजानानां तत्-प्रतिकूल-वास-पाश-यन्त्रणासहनं सम्भवन्ति, न तु तल्-लाभेऽपि तद्-अङ्गीकरणम् ।
[४३] व्रज-राज उवाच— तत्-पितॄणां का वार्ता ?
[४४] पौर्णमासी उवाच—ते च मद्-उपदेशाद् अवगत-रहस्याः परमावेशाद् इदं ऊचुः—
कृष्ण-सार-तनया यदि तीर्णा व्याघ्र-मुखग-हानाद् भवितारः ।
कृष्ण-सार-तनयं परम् एताः सम्भवेयुर् अखिलाः स्व-समानम् ॥१४॥ \
[४६] पौर्णमासी सहासम् आह स्म—स खलु भाविनीं ताद्र्शीं गतिं प्रतीत्य मतिम् एताम् उत्थापितवान् । नहि भवद्-अङ्गजे परम-मङ्गला तासाम् अङ्ग-सङ्गतिस् तस्य व्रजे सङ्ग-भङ्गाय सङ्गच्छते ।
[४७] अथ व्रज-राजौ सोच्छ्वासम् इदं व्याजह्रतुः—तद् इदम् अन्ये लोकाः कथं मन्येरंस् तासां श्वशुरं-मन्यादयो वा ?
[४८] पौर्णमासी उवाच—तत्र वयम् एव समाधाम् आधास्यामः । भवद्भिस् तु श्वः सर्वोऽपि व्रजः पर्वोदयम् आचर्य निमन्त्रण-चर्ययाकार्यताम् इति ।
[४९] अथ तौ च तद् एतत् कर्ण-पीयूषम् आस्वाद्य तत्-पदम् अभिवाद्य गृहम् आसाद्य वाद्य-प्रभृतिभिर् विप्रादीन् आहूय भूयश् च श्री-कृष्णागमनवन् महोत्सवम् उच्छलयामासतुः, तादृश-मन्त्रणया निमन्त्रणयामासतुश् च सर्वं व्रजम् इति स्थिते, निरन्तर-दिनान्तर-वृत्तान्तः कर्णान्तरम् आनीयताम् ।
[५०] अतः प्रातः प्रातत-महा-महा-व्रज-महीपति-महाशयः सर्व-सहाम् अपि मुदान्दोलयामास, यत्र सर्व एव खर्व-सङ्ख्यास् तदीय-समीपम् ईयन्ते स्म । तत्-पत्नी-महाशया च पूर्ण-महाशया पौर्णमासीं समीपम् अध्यासीनां विधाय सर्वाः समानयामास, यत्र श्री-राधा-प्रभृतयश् च यद्यपि लब्ध-बाधामृतयस् तथापि व्रज-राज्ञ्याः समाज्ञावज्ञा-त्रस्तास् तत्राजग्मुः, याः खलु प्राण-वल्लभस्य निज-वल्लव-पल्ली-समागमेन हर्षातुल-वर्षाभिर् लब्ध-सम्पदोऽप्य् अवग्रह-व्यग्रा वल्ल्य्-अङ्कुर-पाल्य इव जात-शरत्-ताप-परिसर-तप्त-जीवनाः पल्लल्य इव घनाशक्य्-स्थिति-मय-समय-वितर्क्यमाण-निज-लयश् चातक्य इवालोकयन्त । तद्-दृश्वरी व्रजेश्वरी तु सास्रतया पूर्णिमा-मुखं निर्वर्णयामास, यत्र विलोक्यमानाश् च ताः श्लोक्य-चरितादि-गणिता व्रजेश्व-वनिता बाष्प-सलिल-कलिल-निज-विलोचनान्त-विरोचनान्तर्-विरोचमान-तत्-प्रतिबिम्ब-संवलन-लक्ष्यतया भगवतीम् आलक्ष्ययन्ती तस्यां समर्पयन्तीवालक्ष्यत ।
[५१] भगवती च दृशा तादृशताम् अनुकुर्वती ताः स्फुटम् अङ्गीकुर्वती बभूव, अभिहितवती च—सर्व-निमन्त्रण-मयं खल्व् इदं पर्व । तस्मात् सर्वतः सर्वाः समाहूयन्ताम् । इति ।
[५२] तद् एवम् आकर्ण्य प्रतिगृहं निर्वर्ण्य च काश्चिद् आगताः कर्ण-लग्नतया भगवतीं प्रति वर्णयामासुः । आश्चर्यम् आश्चर्यम्, यत् खलु राध-प्रभृतीर् एता निज-निज-गृहे च लब्ध-धृतीर् अपश्याम इति ।
[५३] पौर्णमासी उवाच—यान्तु पुनर् अन्याश् च सन्याय-वचनाः ।
[५४] अथ तथा कुर्वत्यः पूर्ववद् अन्याश् च विज्ञप्तिं कुर्वते स्म ।
[५५] ततश् च सर्वेषाम् आश्चर्य-पर्यायतया व्रजेश्वर-सभा-पर्यन्तं वृत्तम् इदं वृत्तिं बभूव । व्रजेश्वरश् च भगवत्य् उपदेश-पात्रतया व्रज-वासि-स्त्री-पुंस-मात्रम् एकत्र चकार । भगवती च तत्र ध्यानम् आचचार । ध्यानम् आचरन्ती च विष्णु-मायां निध्यान-पदवीम् आनिनाय ।
[५६] ततश् च सा—
श्यामाष्ट-पाणि-परिवेष्टित-पार्श्व-युग्मा चक्रादि-शस्त्र-वलिल्ता खग-सिंह-वाहा । देवादिभिः परिणुत-प्रसरत्-प्रभावा सर्वैः समुन्नत-मुखैः परितो व्यलोकि ॥१५॥
[५७] तद् अनु च विहङ्गम-सिंह-पृष्ठम् एवाधितिष्ठन्ती यथायथं सर्वान् उपतिष्ठन्ती तद् इदं वदति स्म—
सन्देहं मा कथञ्चित् कुरु पितर् इह हे मातर् अन्य-स्व-वर्ग स्वैरं प्राग् एव गर्ग-प्रतिहति-विहतिं कुर्वती काञ्चिद् आसाम् । कुर्वे स्माहं सरूपा यद् अनु च पशुपा मत्-कृतास् ता द्वितीया दारात् स्वान् मन्यमानाः परिणय-शयनं नापुर् आदि-स्थितानाम् ॥१६॥ जानामि या निज-भ्रातुर् अङ्गीकार्या इति स्वयम् ।
ताः कथं रक्षितुं दोषाद् उपेक्षे सर्वतः क्षमा ॥१७॥
[५८] पूर्वम् अपि मया तद् ईदृग् अपूर्वं जनकात्मजाया हितं हव्य-वाहन-सहायतया विहितम् । यदा खलु रावणस् तस्याः कलुषाय तापसतादम्भमर्जन् निर्जन-वनम् आगतस् तद्-आतङ्क-सङ्करतयात्मानं संस्तुवानाम् अमूम् आवसथ्याग्निर् दृशोः पथ्याविर्बभूव, सर्वत्र विभूय वोभूयमानया मया मायया गोपयन्न् अन्यां तादृशीम् अन्यां तत्रारोपयन् पूर्वां मय्य् अर्पयामास । अपनीतवति तु परां रावणे कालाल्लक्स्ंअणाग्रजवाण-दलिततया कलिते पराम् एव परीक्षा-दहन-दाह-परिक्षीणाम् ईक्षयित्वा पूर्वां तु पूर्ववद् अनाकुल-पातिव्रत्यां सत्यां सीतां दर्शयामास । यत् खल्व् इदं सर्व-लोक-दुर्मनस्ता-प्रशमनाय कूर्म-पुराणम् अनु स्वयं वेदव्यासः सव्यासतया निज-गीतायां गीताञ्चकार । किन्तु,
अन्याः सन्तु सहस्रशः पतिपरा नामूः स्तुवे या निजं
लोकं धर्मम् अपि श्रिता न हि पुनः स्वं स्वं पतिं केवलम् ।
गोपीह् स्तौमि जन-प्रसिद्धम् अपि यास् तं तं विहाय स्फुटं
निर्णीय स्व-रति-प्रतीति-विभवात् कृष्णं पतिं मेनिरे ॥१८॥
[५९] आयत्यां फल-प्रत्यासत्त्यां तु मेनिरे इत्य् अत्र भेजिरे इत्य् एव पठनीयम् । ततश् च—
यत एतासु शुद्धत्वं ध्रुवं तस्मात् कृपा हरेः । सा चेत् कः क्षमते धर्म-लोपायासां मनाग् अपि ॥१९॥
[६०] शुद्धत्वादिकं चोक्तम् अनेन स्वयम् एव—न पारये ऽहं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः [भा।पु। १०.३२.२२] इति । अन्येषां तद्-धर्म-लोपाक्षमत्वं गर्ग-वाक्येन भवद्भिर् एवोपलब्धम् ।
य एतस्मिन् महा-भागाः प्रीतिं कुर्वन्ति मानवाः । नारयो ऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥ [भा।पु। १०.८.१८]
[६१] अथ सर्वस्मिन्न् उत्फुल्लारविन्दवद् उल्लास-शवलिते वहल-कोलाहल-संवलिते पुनर् ऐ शुश्रूषा-कलिते हसन्तीव साह स्म—किं पुनः पुनर्-उक्तेन ? युक्तेन सता सर्वेणापि सतां खर्वेण साक्षाद् एव लक्ष्यताम् इति । तद् एतत् प्रोच्य तत्-तद्-दिशम् अवलोच्य काञ्चिद् अप्य् अपरिमोच्य द्रुतम् अन्तर्धान-मात्राद् अन्तर्धान-वर्त्मना स्व-कल्पितास् ताः सर्वा एव तत् पर्वान्तरम् आनिनाय । याः खलु प्रतिबिम्बावल्य इव बिम्बावलीनां राधादीनां साधारणतयात्मणम् अवधारयन्ति स्म ।
[६२] इति स्थिते पुनः कात्यायन्य् उवाच—
यथावसरम् एतासाम् उभयासां कृता मया ।
प्रकाशना गोपना च व्यक्तं तेन न तद् रहः ॥२०॥
सम्प्रति तु तादृश-सुदृशां कतिप्याभिर् उभयासां भेदः संवेदन-विषयोऽन्तर् नीयताम् ।
[६३] अथ तद् एतद् अवधार्य व्रजेश्वर्यादयः स्वयम् एवोभयोः पर्यालोचयामासुः । पर्यालोच्य चापवार्य चान्योऽन्यं निवेदयामासुः—
मणीनां काचानाम् अपि बहिर् उदीक्षाधुतभ् इदां परीक्षां पृच्छद्भिर् दृग् अपि च परीक्ष्येत वणिजाम् । तथा राधादीनां तद्-अनुकृति-भाजाम् अपि भिदा कृते देव्य्-आदिष्टा वयम् इह परीक्ष्या विरचिताः ॥२१॥
[६४] देव्य् उवाच—स्वरूपकं द्वयं द्वयम् एकत्र कृत्वा पर्यवलोच्यताम् ।
[६५] अथ तथा कृत्वा तास् तथा पुनर् ऊचुः—
दूरे भास्वान्-मूर्तेः शश-लाञ्छन-मूर्तिर् आभाति ।
निकटे निखते तस्याः सा पुनर् आभाव्ययायजाघट्टि ॥२२॥ \
[६६] अथ व्रज-राज उवाच—सर्व-मङ्गले ! किम् अतः परं मङ्गले प्रतिपत्स्यते ?
[६७] देव्य् उवाच—तात ! प्राचीनाः स्व-स्व-पितृ-भवनं गच्छेयुर् अर्वाचीनास् तु स्व-स्व-पति-भवनम् इति ।
तद् एवं सुख-सचित-कर्णाः सर्व एव वर्णा जय-जय-कार-मङ्गलं रचयामासुः । सर्व-शोकापनुदतया मुदं सङ्गता सर्व-मङ्गला चानुज्ञापन-पूर्वकं निजालयम् इङ्गति स्म । ततश् च—
हरेस् तत्-कान्तानाम् अपि तद्-अभितः सात्त्वैक-गुणे समुद्भूते हर्षाद् व्यक्तिकर-वशाद् अप्य् अपिहिते । स चामूश् च क्लान्ति-क्षयम् अनु निजां कान्तिम् अभजन् यथा वर्षालोपाद् उडुपतिर् उडूनां च ततयः ॥२३॥ जनास् तदा महसि विधाय भोजनं नृपालयान् निज-निज-मन्दिरं ययुः । निजां निजाम् अपि पितरः सुतां गृहं महीयसा सपदि महेन निन्यिरे ॥२४॥
[६८] अथ स्निग्धकण्ठः पप्रच्छ—भोजनात् पूर्वं दुर्वाससः समासन्नताप्य् आसीद् इति निशम्यते ।
[६९] मधुकण्ठ उवाच—सत्यं सत्यम् आनन्दात् तद् अपि स्मरणाय मन्दायते स्म । सम्प्रति तु प्रतिपद्यताम् । यदा तु वृषभान्व्-आदयः कृत-सुकृतम् अन्या निज-निज-कन्या गृहं निनीषन्ति स्म । तदानीं तास् तु तत्र सर्व-जननास् तु ताश् च न सहसा तद् अङ्गीकुर्वन्ति स्म, तद् इदं च स-प्रसङ्गीकुर्वन्ति स्म । यद्यपि हैमवती तथा दर्शितवती, तथापि पर-वास-कृत-वासानाम् आसाम् अस्माकं शुद्धता-निर्वहण-वहं पावकं विना नान्यत् कलङ्क-पावकं स्याद् इति । सम्प्रति तु न तात-वेश्म-प्रवेशः सदेश-रूपः स्यात् । किन्तु शुद्धता-निर्वहण-वह-दहन-सात्कृत-देही-भवनं युक्तम् । यथा च सङ्कॢप्तं तथास्माकम् अपि शिरसि कॢप्तं प्रतिस्वं प्रतिज्ञा-पत्रं वर्तते । तद् अलम् अतिविस्तरेण ।
[७०] अथ तद् एतन् निशम्य तन्-मातरस् तु कातरतया ताभ्यस् तत्-तद्-अधृष्यतयाकृष्य निज-निज-पतिं प्रति दर्शयामासुस् ते चान्यांस् ते चान्यास् ते च पति-प्रभृतीन् इति सर्वेषां चमत्कार-मयः समयः समवर्तत ।
[७१] तत्र तन्-नेत्रामत्रीकृतं पत्रम् अपि, यथा—
वचसि मनसि काये जागरे स्वप्न-भावे स्खलितम् इह यदि स्याद् गोपराजात्मजान् नः । सपदि खलु तदास्मन्-मूर्तिर् आयातु जूर्तिं सदसि पशुप-पातुः सत्-परीक्षाहुताशे ॥२५॥
[७२] तद् एतद् वर्णनाकर्णतया दुःख-दूयमान-गात्रेषु व्रज-वासि-मात्रेषु पूर्णिमानुस्मृति-वशाद् विचलद्-वल्कल-वासा दुर्वासाः समाससाद । स खलु तदा तपः-प्रभाकरः शिव-पत्नी-पितरं गो-भृतां प्रवरं सङ्गत्य निर्वापित-प्राय-तीव्र-भावः सर्व-मुदम् उदयात् कुर्वन्न् अदृश्यतः, सर्व-जनतया युगपन्-नमस्कारादिना तत्-कृपा-दृष्टिर् आमृश्यत च । यद् अनु स्वयम् आह स्म—
[७३] सोऽहं सर्व-भयद-धामा दुर्वासो-नामास्मि । [७४] भयदता च मम निरुपधि-सर्व-हितेऽस्मिन् कृष्णतयाभिहितेन कस्यचिद् ऐश्वर्य-मर्मानुभव-मय-धर्मादिकम् उपाधिं विना भजनं दृश्यत इति परायणतया परामृश्यताम् । तं विना तत् तु भवताम् एवेति तत्र च राधादीनाम् असाधारणम् इति नात्र मम तादृशता, प्रत्युत वशीभाव-भृशता च। ततः सम्प्रत्य् अपि राधादीनां बाधाम् अवधार्यागतस्य मम निवेदनं श्रवसि धार्यताम् । न खल्व् एतास्व् अन्यथा प्रथा कार्या । पूर्वं हि मयाप्य् एतासु—«कोऽयम् अस्माकं कृष्णः» इति प्रशन्-समेतासु स्वयम् एवापूर्वम् इवेदं निवेदितम् अस्ति—स वो हि स्वामी भवति इति यद् एव तापन्याम् अपि जल्पतां प्राप्तम् अस्ति । एतासां विरह-व्याधिम् अवधार्य महिषीषु लब्ध-प्रावीण्यायां रुक्मिण्याम् अपि तद्-धवेऽस्मिन् माधवेऽपि मयापराधः कृतः । यद् एव स्कन्द-पुराण-द्वारका-महिमादिषु मम दुर्यशः-कृत-शंसनम् अस्ति । इति ।
[७५] अथ सर्वेऽपि ससम्भ्रमम् इदं निवेदयन्ति स्म—भगवन्न् अमूर् न सम्प्रत्य् अस्माभिर् अन्यथा प्रत्यय-विषयी-क्रियन्ते, किन्त्व् एता एव समवेताः सङ्कोचं रोचयमाणः शोचन्-मनस्तया वर्तन्ते ।
[७६] अथ पुनर् मुनिः सुनिरूपित-हासं ताः प्रति प्राह स्म—भोः मातरस् तथापि यद्य् एवं-कारतया मातरिश्व-मित्र-परीक्षां प्रतीक्षध्वे, तदा किं तावता प्रयासेन ? प्रयासे च कृते भवत्-पातिव्रत्य-प्रतापेन वह्निर् अपि भस्मसाद् भविष्यति । तस्मान् मम तपसां ज्वाला न क्वचित् प्रतिहन्यन्त इति ताः प्रविश्य शपथं निर्दिश्य महा-ज्वलन-रूपं माम् उद्दिश्य हस्त-मस्तकं कुरुध्वम् इति । तद् एतद् अभिधाय सर्वान् अप्य् आदाय श्री-व्रजेन्द्र-कुल-रत्नम् अपि यत्नतस् तेषु सन्धाय ताः प्रान्तर-देश-लब्धान्तराश् चकार ।
[७७] अथ लब्ध-प्रान्तर-प्रदेशम् आकस्मिक-रश्मि-भस्मिती-कृत-सदेश-देशम् अग्नि-वेशम् आत्मानं विधाय यद् आसामास, तदा तद्-अर्चिः-प्रवेशं प्रवेशं तम् उद्देशम् उद्देशं हस्तं प्रसारयन्ती सानन्दानां तासाम् अलकनन्दानां ततिः स्वयम् अलकनन्दावद् एव शीतला सकलान् अपि शीतलांश् चकार । तत्र च—
परीक्षायां तस्यां मुनि-दहनम् अह्नाय विशतीर् अमूः साध्वीः पश्यन् स्वकृत-नयनान्तः-स्रव-जलाः । निजाश्रूण्य् आवृण्वन्न् अपि मुररिपुर् व्यग्रित-मनाह् पुरासीन् नश् चित्तं विकलयति सम्प्रत्य् अपि यतः ॥२६॥
[७८] विचारस् त्व् इदं प्रतिपद्यामहे—
न चेद् एताः शुद्धा भवति न हरेर् आसु करुणा
तया सन्दीप्राश् चेत् किम् अनल-वराकः कलयतु? ।
स चास्तां कः स्याद् वा बडव-दहनः कः खर-रुचिर्
भवेद् वा कः कालानल-किरण-रुद्रः स्वयम् अपि? ॥२७॥
यदानन्यां वृत्तिं हरिम् अनु निजां व्यक्तुम् अमुका
दधत्यः सत्यं तं मुनि-दहनम् आविश्य निरयुः ।
तदा पक्ष्माप्य् एकं न वसन-दशानां मलिनतां
अयासीद् एताः प्रत्युत नव-कुमारी-श्रियम् अधुः ॥२८॥
[७९] अनन्तरं तु मुनिः सुनिरूपित-सर्वानुज्ञापनः श्री-कृष्ण-राम-सुखापनस् तर्ह्य् एवान्तरधाद् इति स्थिते भोजनादिनि चानुष्ठिते किम् अधिकम् अधिगमयितव्यं तासु सर्व-स्तव्यत्वम् । यतः—
प्राचीन-श्वशुरम्मन्यादिभिश् चामूः सुपूजिताः । तेभ्यश् चाभ्यस्त-विनयास् त्रिलोकी-स्तव्यताम् अयुः ॥२९॥
ततश् च—
भौमैर् दिव्यैश् च पुष्पैर् जय-जय-निनदैर् गीत-वादित्र-नृत्यैः दानैर् यानैः प्रयाणैर् द्विज-पठित-शिवैस् तत्-प्रसू-तात-वर्गाः । ताः कन्या गोप-राज्ञी-प्रभृति-वर-दृशः किं च गोप-क्षितीक्षिन् मुख्यान् नत्वा मुनीशाम् अपि चलितवतीर् निन्यिरे स्व-स्व-गेहम् ॥३०॥
[८०] नीतैश् च ताः परम-विनीताः श्री-कृष्ण-मात्रानुयात्रावताः परमापन्-निर्गताः परलोकाद् इवागताः पितृभ्यां मेनिरे । परम-सौकुमार्येण कौमार-वर्येण सङ्गता एव चानुवभूविरे । तथा हि—
तदामूर् निर्मायापति-निलय-कारावसतयो विशुद्धाः शुद्धान्तेष्व् अखिल-सुहृदां सम्मद-कृतः । क्षणं मातुः क्रोडे क्षणम् अथ पितुर् दृष्टि-विषये क्षणं तद्-बन्धूनां प्रणय-वलये लालनम् अयुः ॥३१॥ एताः कृष्णस्य कान्ताः परम् इति निखिलैर् ज्ञात-तत्त्वाः समं तैर् इष्टास् तस्यैव हेतोः पितृ-मुख-जनताभिश् च संलाल्यमानाः । नाशृण्वन् नाप्य् अप्श्यन् न च किम् अपि परं द्राग् अबुध्यन्त किन्तु स्वान्ते तस्यैव रूपं गुणम् अपि शतधा नाम चावृत्तम् आर्च्छन् ॥३२॥
[८१] अथ स्निग्धकण्ठः सोत्कण्ठं पप्रच्छ—धन्यादीनाम् अपि कन्यानाम् आर्तानां का वार्ता ?
[८२] मधुकण्ठः प्राह—धन्यादयश् च ता धन्यास् तासां प्रतीक्षाम् ईक्षमाणाः परीक्षा-पर्यन्तं स्थितास् ताभिः समम् एव यथास्वं पितृ-धाम जग्मुः ।
[८३] स्निग्धकण्ठ उवाच—ततः कीदृग् अनन्तरं वृत्तं ?
[८४] मधुकण्ठ उवाच—अथ त्रि-चतुरेषु वासरेषु परमानन्देन गमितावसरेषु पूर्णिमा तत्-तत्-कन्या-पितॄणां मनस्-तन्-मनस्कारेण पूर्णीकृत्य स्वम् अपि तेन तूर्णीकृत्य श्री-व्रजराज-विराजमानं समाजम् आजगाम । आगम्य च तं रम्य-हासम् आह स्म—आभीर-वृषभ ! वृषभान्वादयस् तत्र-भवतः कुलं परिहसन्तः सन्ति । न खलु तत्राभीर-वैश्यत्वं शुद्धम्, किन्तु यादव-क्षत्रिय-जन्मता-सम्मततयान्यथा बुद्धम् इति ।
तद् एवं तेषां नर्म-रचनं वचः सम्बन्धानुबन्धं सचमानम् आकर्ण्य सहासं भ्रातॄन् निर्वर्ण्य स्थितवति व्रज-महीक्षिति तदीय-सभ्यम् अपि कञ्चन तस्मिन्न् उपलभ्य मधुमङ्गलः स्मित-सङ्गतम् उवाच—तेऽप्य् अम्बष्ठायाम् अस्मद्-ब्राह्मण-प्रेष्ठाद् उद्भूता वैश्यभीराभिधाः, न तु शुद्ध-वैश्यतया परामृश्यन्ते, प्रत्युतास्मद्-व्रज-मही-पति-पितामहाय यदु-परिवृढाय देवमीढ्याय परम-कुलेन तत्-पितामह-भगिनी-पति-कुलेन कन्या दत्तेति तद् अन्या रीतिर् न गण्या । तस्मान् मा कर्कश-गर्व-मोदक-चर्वणं कुर्वन्तु, किन्तु पूर्वजान् एव पश्यन्तु इति ।
[८५] तद् एवं ज्ञात-तदीय-हार्दता-मधुरेषु तिर्चतुरेषु वासरेषु लब्धानन्द-विसरेषु तन्-नर्मणा लब्ध-शर्मतां गतानां श्रीमतो बलस्य बलानुजस्य च पृथग्-गणतया चरणानुरागि-कन्या-पितॄणां दूता मङ्गल-वलि-वलय-सम्भूताः क्रमतः श्रीमन्-नन्द-महाराज-समाजम् आजग्मुः । आगम्यागम्य च श्री-राम-रामानुजयोर् जामातृतां तत्-तन्-मातर-पितरादिषु च तत्-तत्-सम्बन्ध-पालयितृता सूचितवन्ति महावसूचित-मूल्यानि रचित-मङ्गलानुकूल्यानि वस्तूनि महाराज-पुरतः स्तूपयाञ्चक्रुः । ततश् च तद् अवगम्य रम्य-स्मित-वशंवद-वदनतया किं किम् इदम् इति वदन् व्रजराजस् तान् किञ्चिल् लज्जया सज्जयामास । अथ च सम्मान्य भोजनादिकं विश्राण्य च विश्रमयाञ्चकार । न केवलं व्रज-राजः, किन्तु क्रमशस् तस्य भ्रातृ-समाजश् च तथा व्यवजहार ।
[८६] तेषु वस्तुषु यथायथं श्री-राम-कृष्णार्थं प्रस्तूयमानेषु पूर्वः पूर्वम् अपि विवहनम् अहं विनापि कृत-सर्व-मनस्कारेण स्वयम् अङ्गीकारेण मार्जित-तद्-अनुरागर्णः कर्ण-प्रवेशित-वर्णतया निर्वर्णयामास । अपूर्वस् तु गुप्तता-रचित-तत्-तद्-अपूर्वस् तत्र सत्रपतया पूर्वम् अश्रुतवान् इवासीत् । पुनस् तु मातर-पितरादीनाम् अपरितोषं भ्रातुश् च तत्-परित्याग-दोषं विचारयन्न् इव तद् अजानन्न् इव च तानि स्वीचकार । यत्र च—
वरार्हं कन्यानां पितृभिर् उपटौकाय घटितं स-वस्त्रालङ्कारं हरिर् अधृत हृद्यावृत-सुखः । अथाप्य् एतर्ह्य् एव द्यवि भुवि च पर्वाण्य् उदभवंस् तरोर् अन्तर्मूले रसम् अनुसृते भान्ति विटपाः ॥३३॥ यदा हरिः स्वयम् उररीचकार स प्रहापितां श्वशुर-कुलैर् अलङ्क्रियताम् । यदा भुवि द्यवि च सवाद्य-गीतिका समं मदाद् अधिनुत राधिकादिकाः ॥३४॥
यत्र च—
श्रीदामन्न् एज मा त्वं सुबल पुलकितां मुञ्च हंहो सुभद्र प्रस्वेदं मा स्म धेहीत्य् उपधि-विधितया कृष्णम् अन्व् एव जल्पन् । तस्योद्वाहार्थ-चर्या सदसि मधु-समम् आह्वान-विप्रः स-नर्म प्रेयान् कुञ्चद्-दृशन्तं मुहुर् अवकलयन् मन्द-मन्दं जहास ॥३५॥
[८७] अथ व्रज-राजश् च तान् दूतान् बहु-सम्प्रदानम् असम्भूतान् विधाय प्रतिसम्बन्धि-गृह-निबन्धनं बहूपकरण-प्रबन्धं निधाय विसर्जयामास, यत्र श्री-राधादीनाम् अपि वधू-भावम् अनवधूतम् एव तत्-तद्-उपादान-भङ्गीभिः स-प्रसङ्गीचकार । तत्र च—
व्रजेश्वरी-प्रहित-परिष्क्रियां यदा वहन् अमूः सह-निज-घर्म-वारिणा । तद्-उत्थया परिमल-धारया हरिर् विदूरगोऽप्य् अजनि तदाधिवासिनः ॥३६॥
[८८] तद् एवम् अपि त्रिचतुरेषु वासरेषु परमानन्देन गमितावसरेषु दिनान्तरे तु पौर्णमासी स्व-स्व-गृह-मध्य-मध्यासीनानुदासीनान् इव वीक्ष्य कन्या-तात-पशु-प्रजात-प्रवीणान् सर्वान् स-हासम् आह स्म—यद् वदाकारत एव परस्पर-विवाह-याचन-प्रकारं निर्वाहम् आपयामास । मन्ये तद्वद् इवाहम् अपि निर्वाहयितुम् इच्छथ इति ।
[८९] अथ तेऽपि हसित्वा तद् इदम् आहुः स्म—वयं किं जानीमः ? किन्तु तदानीम् इदानीम् अपि तत्रभवत्य एव सर्वम् अनुभवन्तः सन्ति ।
[९०] पौर्णमासी उवाच—आस्तां तावद् वामतारामता । सम्भूय ज्योतिर्विदः समाहूयन्ताम् । ततश् च हसद्भिर् गोप-सद्भिर् निज-निज-कुलाभिमानवद्भिर् अपि हृदि तत्-सम्बन्धानुरागवद्भिर् बहिः पूर्णिमाज्ञां प्रतिपालयद्भिः समाहूते च प्रभूते विप्रादि-गणे तूर्णित-मनाः पूर्णिमा व्रज-नृप-द्वार-वरानुसार-दैवज्ञांस् तत्-तत्-कन्या-पितॄणाम् अनुचारकान् अपि तान् एकानुज्ञान् विधाय परम-मङ्गल-लग्नं लग्नं निर्णीय तद्-वर्ण-दूतं प्रभूतं प्रणीय च तिलकाग्रिम-बहुल-सामग्रीभिस् तत्-तद्-अग्रीय-जनान् अग्रीयान् विधाय श्री-व्रज-नृपतेर् अग्रम् आनिनाय । तत्र चाग्रज-वैवाहिक-लग्नं निर्णीयावरजस्य च निर्णीतवन्तः ।
[९१] तत्रावरजस्य, यथा—
ललित-माधव-पूर्ण-मनोरथं समयम् ऐक्षत दैव-विदां गणः । इह गवागमन-क्षण-सङ्गतं विधिभम् एव शुभं समबुध्यत ॥३७॥
[९२] अथ व्रज-राज उवाच—भगवति ! तद् एकम् एव गो-धूल-लग्नं सर्वासाम् एव शुभ-संलग्नम् इति तद्-एक-मग्नता युक्ता, किन्तु कन्यानाम् अगण्यानां यौगपद्यं कथं सम्पद्यताम् ।
[९३] मधुमङ्गलः समन्द-हासम् उवाच—राजन् ! किं तावद् अत्र चिन्तास्पदं ? मत्-प्रिय-मित्रस्य विचित्रं वैभवम् अस्ति । ततस् तत्-प्रतिनिधिता-विधिं विधातुं कुत्रापि शस्त्रं कुत्रापि वस्त्रं कुत्रापि मुकुटं कुत्रापि लकुटं कुत्रापि चार्चां कुत्रापि चर्चां कुत्रापि माल्यं कुत्रापि यत् किञ्चिन् निर्माल्यं कुत्रापि वेणुं कुत्रापि चरण-रेणुं प्रस्थापयिष्यामः ।
[९४] अथ पौर्णमासी कन्या-जनक-जनानां मुखं समीक्ष्य व्रजेन्द्रं प्रति विहस्योवाच—हसतु नामायं कटु-भाषी बटुर् मया तु योग-मायया तथा योजनीयम् । यया भवद्-उद्भवं सम्भवतां भवतां तत्र तत्र सर्वत्र च समम् एव देववद् दुर्भावः प्रादुर्भावः स्यात् ।
[९५] व्रजराजः सानन्दम् आह उवाच—या काचिद् अस्माद् अस्माकं सिद्धिः, सा सर्वा सर्वदापि सर्वत्रापि चार्वग्-भवन्त्या भवत्या एवेति प्रसिद्धिस् तस्माद् भवद्-अनुगतान् अस्मान् विद्धि।
[९६] पौर्णमासी उवाच—व्रज-जनानाम् अपि स्वामिन्न् अनुगम्यानुगामित्वं पश्चाद् विचार्यम् । सम्प्रति तु श्री-कृष्ण-रामाव् आकार्य तिलक-कार्यं पार्यताम् ।
[९७] अथ व्रज-पुरुहूतः स्व-जाति-प्रसूतं द्विजाति-सम्भूतं वन्दि-मागध-सहित-सूतं श्रेणी-प्रभूतम् अपि जनं निज-समाजम् अन्वाधाय तद्वद् अन्तःपुरम् अपि तत्-तत्-पुरन्ध्री-धुरन्धरं विधाय स्वस्ति-वाचनादि स्वस्ति सन्धाय स्तव-वाद्य-गीत-कृत-संस्तवं हृष्ट-देव-गण-वृष्ट-नव-पारिजात-प्रसवं तत्-तत्-कन्या-पितृ-सौवस्तिक-प्रशस्त-हस्त-लब्ध-श्लेष-विशेषक-विशेषं श्री-कृष्ण-राम-मस्तक-न्यस्तं कारयन् सुख-कारान् निज-गाम्भीर्यं प्रत्यस्तम् अपि न विदाञ्चकार । तथा हि—
श्रीमन्-नन्दः प्रसिद्धः स च चिर-विरहात् पुत्रम् आप्तः सपुत्रः स्व-भ्रान्त्या हारिताभिर् निज-निधि-तनुभिः सद्-वधूभिश् च वव्रे । यर्ह्य् एवं तर्हि देयं प्रचुरतर-मदाद् इत्य् अदः किं नु वर्ण्यं यन् नात्मानं ददे तद्-वियुति-भय-वशाद् एव तस्येति मन्ये ॥३८॥
[९८] अथ विप्र-कुलाय यथेच्छं प्रतीच्छते प्रयच्छता महेच्छेन व्रज-पतिनापाङ्ग-सङ्गीकृतः स मधुमङ्गलः सङ्गतम् इदम् आह स्म—अस्माकं विस्मायकं किं भवतां वेश्मनि विद्यते ? यच् च विश्व-विस्मय-निधानं किम् अपि निधानं विद्यमानं, तद् अपि चास्मासु हस्त-न्यस्तम् एवेति किं याचितम् आचितं वा कर्तव्यम् ।
[९९] तद् एवं हसित-विलसिते पर्यवसिते—
अथ भविक-जुषां स्नुषावलीनां निज-निज-रोचिषि योग्यम् अम्बरादि । निज-महित-हित-द्विज-प्रधानैर् व्रज-नृपतिः प्रजिहाय सप्रधानैः ॥३९॥
[१००] अथ कथकः समापनम् आह स्म—
यः पूर्वं यद् उपत्तने मुररिपोर् आसीद् विवाह-क्रमः । स्फीताः स्मः किल तेन गोप-सदने यश् चात्र तेनाप्य् अथ ॥४०॥ किन्त्व् आद्ये हृदि वाचि च प्रतिगते शम्यात्मना स्मः स्थिता । हंहो पश्यत साम्प्रते वयम् इता भद्र-श्रिया नान्यताम् ॥४१॥
[१०१] तद् एवं कथां यथावत् प्रातर् विधाय निशीतिन्यां हरि-प्रेयसी-कथायाम् अतिप्रथां सन्धाय मधुकण्ठः श्रोतृभिः समं स्व-धाम जगाम । श्री-गोविन्दम् अनुविन्दमाना श्री-राधा च कन्दर्पारामम् इति ॥
इति श्री-श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
सर्व-समाधानाधान-पर्व-पर्वणं नाम
द्वात्रिंशं पूरणम्
॥३२॥
(३३)
अथ त्रयस्त्रिंशं पूरणम्
श्री-राधा-माधवाधिवास-प्रसाधनं
[१] अथ वासरान्तर-वसरे श्री-व्रज-राज-सभा-भास्वरे रजन्यां च श्री-राधा-माधव-रहः-सभा-कृत-सुख-जन्यां यत्र यथा-युक्तं तत्र तथा मुक्त-कण्ठः स्निग्धकण्ठः कथयामास—[२] अत्र तु क्रमोपलम्भाय तत् तद् एकत्र सम्भावयिष्यामः।
[३] अथ राम-विवाह-क्षणम् अनुपलक्षणं कृष्ण-विवाह-मङ्गलं प्रसङ्ग-सङ्गतं क्रियते । यस्मिन्न् इह वसुदेव-वंशतया लब्ध-स्वपुत्र-भगिनी-भाव-श्रीर् एकानंशापि व्रज-राजाभ्याम् आकृष्टि-मन्त्रवद् वृन्दा-द्वारा रचित-प्रणय-मय-यन्त्रणया निमन्त्रणया सन्निकृष्टिम् आनीतासीत् । तत्र प्रथमतः स-मङ्गल-गीत-वाद्यारम्भः शर्म-सम्भवं सम्बभार ।
हरि-परिणयनेऽस्मिन्न् एकदा कोटि-सङ्ख्ये समजनिषत पद्मं वाद्य-गीत-प्रकाराः । भुवि दिवि बत चित्रं ये तु सञ्जायमाना जनितम् अकृषत द्राग् भव्यम् अन्योऽन्यगामि ॥१॥ सर्वं समारम्भि स-वाद्य-गीतं न वाद्य-गीतं बत तद्वद् अस्ति । इतीव देवाश् च तद् उद्यमान्तः स्वयं तद् ऊरीकृति-मुद् वितेनुः ॥२॥ तत्र प्रवचनीयत्वं गेयत्वं चाथ ये ययुः । अपि प्रवचनीयास् ते गेयाश् चासन् प्रशंसताम् ॥३॥
ततश् च—
सामग्रीणां मण्डपानां फलानाम् उल्लोचानां तोरणानां तरूणाम् । निर्माणेन ज्योतिः-स्थानां विमान- श्री-वृन्दानां गोकुलं जैत्रम् आसीत् ॥४॥
[४] तद् एवं सति च—
उद्धर्षे वृद्धिम् ऋच्छत्य् अनुजनम् अभितश् चेतसः फुल्लतासीद् इत्य् एवं तर्कयामः स्फुटम् उभयम् इदं चन्द्रमः-कैरवाख्यम् । किं वा चन्द्राब्धि-नाम द्वयम् इदम् अभवद् विश्रुता यत् परस्मात् प्राचः सम्भूतिर् एवं परम् अनु च मता फुल्लता प्राच एव ॥५॥ द्वार्वत्यां ते विवाहा युगपद् अपि हरेः षोडशानां सहस्रं प्राग् आसन् यत्र पित्रादिकम् अखिल-कुलं तावद् आसीद् इतीदम् । आश्चर्यं कोटि-सङ्ख्ये परिणयन-विधाव् अत्र तु स्मर्यमाणे स्रोतस्वत्योद्यवृन्दं जल-निधि-वलये यद्वद् आभाति तद्वत् ॥६॥ गोष्ठं तावन् निरस्त-प्रमिति-नरम् इदं चित्रम् अत्राप्य् अनन्तान् प्रत्येकं तद्-विवाहान् समम् अखिल-जना व्यापुर् एतद् विचित्रम् । तत्राप्य् अन्यद् विवेकातिगम् इह यद् अहो धाम तत् तत् तु नासीद् अत्यास्तीर्णं तथा ते क्वचिद् अपि च निजं नाविदुर् व्यूह-भेदम् ॥७॥
[५] तद् एवं पूर्णिमा पूर्णित-योगमाया-प्रभावे तु तत्र लब्ध-भावे श्री-रामावरजस्य सद्य एव सम्पद्यमानम् अनवद्यम् उद्वाह-भव्यं निखिलम् एव वर्णयितव्यम् इति स्थिते—
जगच् चेत् कविताम् ऋच्छेद् युगपत् क्रमशोऽथवा । तथापि तद् वर्णयितुं लब्ध-वर्णं भवेन् नहि ॥८॥ इति ।
[६] तत्र च श्री-राधा-पाणि-ग्रहणम् असाधारणम् इति तद् एव यथा-मति गिराराधयिष्यामः, यथा—
मण्डपाद्य् अथ यदा व्रजेशितुर् द्वार्य् अलक्षि वृषाभास्करस्य च । केवलं न हि नटास् तद् आनटन् वाद्य-कौतुकितया जनाश् च ते ॥९॥ उत्साहस् तेष्व् अस्ति सर्वत्र नित्यः कृष्णस्यार्थे किं पुनस् तद्-विवाहे । ताल-प्रोद्यद्-वाद्य-सङ्घस् तु तेषाम् उद्बुद्धं तं युद्धवत् पुष्यति स्म ॥१०॥ हंहो सत्वरम् एहि देहि नय रे याता दयन्ते परे कुर्वन्त्य् एतद् अपूर्व-पर्व-रचनं हे याचनं मे शृणु । एवं केवल-सेवक-प्रभतया मान्याश् च ते मान्यतां उज्झन्तो महसीह शर्म-वलिताः कर्म द्रुतं निर्ममुः ॥११॥
[७] अथाधिवास-वासरम् आसद्य सद्यः सम्पद्यमान-सुख-विकासतासमान-मुख-सुधाकर-कर-सुधा-निकरार्पणया प्रणयाद् वरवधू-मातराव् अन्यान् अपि निज-निज-गण्यातिधन्यान् पुरन्धिर्-जनान् आत्मवद् एव सक्षणान् आचरन्तौ तैर् नीरन्ध्र-मङ्गल-कृतिभिर् मिथः मङ्गल-सद्-आकृतिभिः प्रतिस्वम् आलयान्तस् तत इतश् चरन्तौ बभूवतुः । तत्र लब्ध-पर्वाणः प्रायशः सर्वा एव तावन्-मङ्गल-गानं वितानम् आनयन्त । यत्र च—
गायन्त्यस् ताः कृष्ण-राधा-विवाहं तत्-तन्-मात्रोर् आलये स्नेह-भाजः । प्राग् अन्योन्यं प्रेर्य शश्वद्-विकासं हासं हासं गापयामासुर् आशु ॥१२॥
[८] गानं च तत्र तत्र पौर्णमासी-शिक्षितं, यथा—
राधा राका-शशधर मुरली-कर, गोकुल-पति-कुल-पाल जय जय कृष्ण हरे ॥अ॥ राधा-बाधा-मोचन मुख-रोचन विदलित-गोकुल-काल जय जय कृष्ण हरे ॥ब्॥ राधा-परिकर-पुण्यद नैपुण्यद गोकुल-रुचिषु विशाल जय जय कृष्ण हरे ॥च्॥ राधा-सुकृत-वशीकृत मङ्गल-भृत तिलकित-गोकुल-भाल जय जय कृष्ण हरे ॥द्॥ राधा-निज-गति-धर्मद पुरु-शर्मद हत-गोकुल-रिपु-जाल जय जय कृष्ण हरे ॥ए॥ राधा-जीवन-जीवन गो-व्रज-धन गोकुल-सरसि-मराल जय जय कृष्ण हरे ॥अं॥ राधा-मोद-रसाकर सरसिज-वर गोकुल-मण्डल-नाल जय जय कृष्ण हरे ॥ग्॥ राधा-भूषण भूषण गत-दूषण गोकुल-हृद्-रत्न-भूपाल जय जय कृष्ण हरे ॥ह्॥ इति ॥१३॥
[९] तद् एवं मङ्गलम् आचर्य परस्परं सुखम् अपवर्य वरं वधूम् अपि यथावसथं यथायथं स्नपयामासुः ।
[१०] तत्र वर-स्नपनं, यथा—
परिधृत-मृदुलान्तरीय-मात्रं परिहृत-वेष-गणं च मज्जनाय । वृति-रहित-हरिण्मणीन्द्र-शोभा- विजयिनम् ऐक्षत कृष्णम् अत्र लोकः ॥१४॥ स-तैलम् उद्वर्तनम् आददानाः स्निग्धाङ्ग-लावण्यम् अमुष्य वीक्ष्य । उद्वर्तिताभ्यक्त-जल-प्लुताभं मत्वा समस्थुः स्थगिताश् चिराय ॥१५॥ अभ्यक्त-स्नातवद् दृष्टम् अपि तत्-तत्-क्रियाचितम् । तम् अकुर्वन्न् अमी स्निग्ध-माङ्गल्यम् इति बुद्धयः ॥१६॥ स्नानानन्तरम् उच्चकै रुचि-धरं तं शक्रनील-प्रभं वीक्ष्यामन्वत तत्-कृति-प्रणयिनस् ते स्वं सुपूर्ण-क्रियम् । या राजन्ति रुचः प्रतिक्षण-नवास् तस्मिन्न् अमूः सर्वतो भद्रास् तेषु कथं प्रसाद-पदतां कुर्युर् न तल्-लिप्सुषु ॥१७॥ परं न तस्मिन् स्नपकावलीनां यशो बभूवाजित-कान्ति-वृद्ध्या । तत्-स्नानकानाम् अपि तत्र वृत्त- स्वस्ति-श्रुतीनाम् उदभूद् अतीव ॥१८॥
[११] तद् एवम् अमी तस्य कनक-कलस-लसद्-अमल-सपरिमल-जल-स्नपने कृत-समापने स-यत्न-निर्मित-रत्न-पीठान्तरम् अधिष्ठितस्य सपरिनिष्ठम् अङ्ग-मार्जनादिजम् अपि सुखम् आर्जन् स्म । यत्र—
सुमार्जयन्न् अस्य सुकोमलेन वस्त्रेण कश्चित् तु निरीक्ष्य गात्रम् । अन्यादृग् आभं भय-लोल-नेत्रस् तन्-नेत्र-भावं परिपश्यति स्म ॥१९॥ प्रत्युद्गमनीयं यत् कमनीयं श्री-हरौ दधति । केचित् परिधापनम् इह कुर्वन्ति स्मापिधापनं केऽपि ॥२०॥
[१२] अथ तूलिकानुकूलितासन-मध्यम् अध्यासीनस्य तस्य वेश-विनिवेशश् चित्तं सावेशं रचयन् झटितीष्ट-विवाह-निर्वाह-कथा-विलम्बाय सम्पत्स्यत इति विवहन-यात्रायां किञ्चिद् अतिमात्रात्मतया वर्णयिष्यते । किन्तु सङ्क्षेपत एवाद्य तस्य वचसि निक्षेपः क्रियते ।
तथा हि—
उष्णीषः शकलीन्द्र-कुण्डल-युगं ग्रैवेयकं कौस्तुभः केयूरादि-समुद्रिकान्तिम-ततिर् मुक्तावली-सन्ततिः । काञ्ची-नूपुर-हंस-कांशुक-चितिर् मध्ये घन-श्यामता तत्रत्यान् अधिनोत् तद् अस्तु धिनुते सर्वांश् च सम्प्रत्य् अपि ॥२१॥
[१३] तद् एवं स्थिते शुभ-समय-मय-मङ्गल-पालनाय मातृ-द्वय-मुखेन पतिवत्नी-प्रमुखेन सुखेन निज-द्विज-बालक-नायक-मुखेन समाकारितः श्रीमद्-व्रज-राज-कुल-देवस् तद् एव सर्व-मङ्गल-कुल-लसन्-मण्डल-रचना-मण्डलं मण्डपम् आजगाम ।
[१४] अथ वधू-स्नपन-मङ्गलं सपर्व-रङ्गम् उच्यते ।
[१५] यद्-अवधि श्री-राधिकादीनां पितृ-सदनासदनम् आसीत् तद्-अवधि परमोत्कण्ठावगुण्ठितस्यापि कौस्तुभ-कण्ठस्याधिकम् अधिकं लज्जा सज्जा बभूव । मम तासु ममताभाग्-अनुराग-सागरस्य तरङ्ग-लेशश् चान्य-मनः-सदेश-सङ्गं मागमद् इति ।
[१६] तद् एतन् मर्माविद्भिः काभिश् चिन्मर्माविद्भिर् इव तद्-उदासीनता-व्यञ्जना-भाग्भिर् निभृत-वाग्भिर् मिथः संवदनं कुतश्चनावधारयन्तीं श्री-राधां बाधा-वशम् आनिनाय ।
[१७] सा तु जातु च नात्मनि तद्-अङ्गीकार-निलयतां विचार-विषयताम् आनयति । यतः परमोत्कता-सोत्कम्पमनस्तया विश्वम् अविश्वस्ति-विषयम् एव करोति । यतः सुमनायमानतावसरम् अप्य् उन्मनायमानतया विमनायमानता-परिसरं नयन्ती, तदा तद्-आचरित-वर्णनात् कृताकर्णनाद् गदा-मर्दन-पदाद् गदाद् इव निज-शोच्यतां सोसूच्यमाना छेक-वचसा सखीर् उवाच—
[१८] पूर्वं यदासौ विदूर-भूरास् ते स्म, तदा खलु यथा तद्-उदासीनताम् अपि दीनताम् आनिनाय, न तु सम्प्रति तथा तस्य तद्-अनुव्रतस्य च व्रजस्य सौख्यम् एव मम सौख्यम् ।
[१९] सख्य आचख्युः—अयि कृशाङ्गि ! तद् इदं नामृशामः, यतः स्फुटम् अपीदं मुख-पुट-सम्भिन्नं करोषि ।
[२०] सोवाच—अयि ! सवयसस् तद् इदं वदामि—यदा तस्य विदूर-स्थितितास्माकं मनसि स्थिता, तदा तद्-भावनया तथा-गतिर् अभविष्यद् अधुना गोकुल-स्थिति-भावनया पुनर् इत्त्थम् एव स्यात् इति ।
[२१] सर्वाः सास्रं ऊचुः—हन्त ! भवत्या सातत्याद् एव वयं ज्वलिताः सम्प्रति च मास्माधिकम् अस्माकं जातं सुख-जातम् अन्यथा मन्यथाः ।
[२२] सोवाच—तस्य गोकुलागमनाद् अप्य् अधिकं सुखं किम् अवधीयते ?
[२३] सर्वा ऊचुः—तस्य भवद्-अङ्गीकरणं भवद् इव यत् प्रसङ्ग-सङ्गि क्रियते ।
[२४] सोवाच—सा वह्निना दग्धे वपुषि शीतल-जल-दिग्धताम् आचरत । पुनस् तस्य ताप एव तद्-आपन्नाशायापन्नः स्यात् ।
[२५] सर्वा ऊचुः—न खलु जल-सेकेनैव वचन-विवेकेन त्वां सान्त्वयामः, किन्त्व् अमृतातिरेकेणेति मन्यताम् ।
[२६] सोवाच—कथम् इव?
[२७] सर्वा ऊचुः—अस्माकं चरास् तत्र प्रस्थापित-चराः समागततराः सन्ति । ते च तस्य रहस्य-भावम् इमं कथयन्ति—
यदा ते तातेन प्रहितम् अपि जामातुर् उचितं दुकूलालङ्कारादिकम् अवहद् आत्माङ्गम् अजितः । तदा भिन्दंस् तस्मिंस् तनुरुह-गणः कञ्चुक-वरं तथा कम्पः काञ्चीम् अपि मुखरयंश् चित्रम् अजनि ॥२२॥
तथा च—
यदा ते तातेन प्रहितम् अतुलं रत्न-तिलकं वरार्हं तर्ह्य् एव स्व-मुख-सुख-वर्णं दधद् अपि । मिषात् तत्-कान्तीनां पिहितम् इव कुर्वन् सदसि च स्व-गाम्भीर्यं रक्षन् निखिल-जन-सौख्यं व्यतनुत ॥२३॥
[२८] तस्माद् अमूश् चमूरु-नेत्रे वयं सवयसस् तव चरण-पातम् आचरामः । समाचरास्माकं स्मायकं सुखम् इति ।
[२९] तद् एवं प्रसङ्गे कृतासङ्गे तस्याः कापि धात्रेयी समागत्य स-प्रणय-कोपं वितत्य बभाषे—अयि सुतनु किम् अत्र वितनुषे ? तवाधिवास-समयः समयामास । त्वां स-नाम-व्याहारम् आकारयति सा बृहद्-ईश्वरी इति ।
[३०] अथ तद् एतद् वर्ण्यमानम् आकर्ण्य सर्वा एव सानन्दं स्पन्दमान-बाहुतया तद्-बाहुम् आन्दोल्य ताम् उत्तोल्य मातृ-सदनम् आसादयितुम् उद्यमयामासुः । उद्यम-समय एव च श्री-व्रज-राज-द्वारि श्री-वृषभानु-द्वारि च हारि दुन्दुभ्यादिकम् उन्ननाद ।
यदा मुहुर् दम-दम-दुन्दु-दुन्द्व् इति स्वनान्वितं शुभतम-वाद्यम् आनशे । तदा सखी-ततिर् अपि सापि चेतसा समं स्खलत्-पदम् अगमत् प्रसू-सदः ॥२४॥
[३१] गत्वा च ताः प्राग्-उन्नीत-गीत-मङ्गल-कलसादि-सङ्गिनीनां तासां सभां भासयामासुः।
[३२] अथ विलज्जमानानाम् एनां सज्जन्ती सा शुभ्रदन्ती-ततिर् मातॄणाम् आज्ञयानया सह स्नान-धाम समाजगाम । ततश् च—
वस्त्रालङ्करणवती सती लसन्ती स्याद् एषा भृशम् इति भावना तु यासाम् । स्नानार्थं लघु वसनं परं दधाना ताश् च स्वातुल-रुचि-विचित्रतां निनाय ॥२५॥
ततश् च—
उद्वर्तनं परिमलान्वयि पक्व-तैलं चान्यत्र योक्तुम् उचितं न तु राधिकायाम् । स्निग्धं सुगन्धि-रुचिरं हरि-चन्दनान्तः- सार-द्रवाद् अपि वपुस् तद् इदं हि तस्याः ॥२६॥ स्निग्धं सुगन्धि-रुचिरं स्वत एव गात्रं नोद्वर्तनादि-वलितं ललना वितेनुः । किन्त्व् अत्र मङ्गल-विधौ समयोऽयम् एवं तस्या तदा युयुजुर् ईषद् इव स्पृशन्त्यः ॥२७॥
[३३] अथ वीध्र-व्यवसायेन लोध्र-कषायेण तां हृताङ्ग-तैलाम् आचर्य, लब्ध-पर-भागेण कालेयकाङ्ग-रागेण च परिचर्य, शश्वद् अदोष-तत्-तद्-औषधि-सन्धीयमान-मानस-हर-बल-परिमल-जल-पूर-कृत-पूरण-रत्न-कुम्भ-रत्नं शुभ-वस्तूपसम्पन्न-धूप-स्तूप-धृत-वासन-यत्नं त्रिलोकी-लक्ष्मी-सिंहासन-गर्व-निर्वासन-कर-कनकासनासन-सम्भृत-प्रयत्नं सदप्रत्न-स्नान-वासन-स्थानम् आसादयामासुः । आसाद्य च स-मङ्गल-गीतं परस्पर-सङ्ग-लवलिम-परीतं स्नपयामासुः।
किं तु,
स्वस्मिन् हरि-वरतायाः स्मरणाद् धर्माम्भसा स्नाता । अन्यत् स्नानं राधा, व्यवहृति-साधारणं दध्रे ॥२८॥
[३४] मङ्गल-गीतं, यथा—
जय जय माधव-विधु-सङ्गिनि राधे । माधव-लाभ-विधु-विधुराधे ॥ध्रुव॥ माधव-परिणय-लसद्-अधिवासे । माधव-हृदय-स्फुरद्-अधिवासे ॥ब्॥ माधव-नेत्र-मधुप-मधु-माधवि । माधव-दयिता-जन-गण-माधवि ॥च्॥ माधव-मधुकर-सुख-मुख-कमले । माधव-हृदि रेखाकृति-कमले ॥द्॥ माधव-वक्षसि मद-सम्बाधे । माधव-भाविनि रस-जित-बाधे ॥ए॥ माधव-मनसि रुचा रसदापि । माधव-वनम् अनु विहर सदापि ॥अं॥ इति ॥२९॥
[३५] अथ मधुकण्ठः पप्रच्छ—ललिता-विशाखे खल्व् अष्टसु नायिकास्व् अपि स्पष्टं गणिते । ततस् तयोर् अत्र वा तत्र वा स्थितिर् इति व्यवस्थितिः क्रियताम् ।
[३६] स्निग्धकण्ठ उवाच—तद् उक्तम् एव पूर्णिमया—«यन् मया विभुतामयानेकता सर्वत्र निर्बाधं साधयिष्यते» इति ।
[३७] प्रस्तुतम् अनुसन्धीयताम् ।
[३८] अथ सङ्कोच-कारण-साधारण-सखी-लोचन-विस्तारणम् आवार्य तिरस्करिणीं प्रसार्य प्रणयिनीम् उदुपार्जनम् अङ्गम् आर्जनम् ।
[३९] यथा—
तस्या मार्जनम् अङ्ग-राजिर् अभजत् स्नाता न दृक्-कैरव- द्वन्द्वं यद्-विधु-वैभव-स्फुरणतः पूर्णार्द्र-भावं मुहुः । तैलं तत्र तु कारणं मिषतया विख्याप्य वस्त्र-द्वयं प्राणाल्यः परिधाप्य कृष्ण-नयनां वेष-स्थलं निन्यिरे ॥३०॥
[४०] ततश् च तस्यां वेशे लब्ध-विनिवेशे सति—
सीमन्तालक-नासिका-श्रुति-भुजा-वक्षो-नितम्बाङ्घ्रि-युक् स्वर्ण-द्योतित-रत्न-मौक्तिक-मयालङ्कार-शोभाकरी । कृष्ण-स्फूर्तिज-कम्प-घर्म-पुलक-स्तम्भाश्रुभिर् लज्जया गुप्तैर् अप्य् उदितैः सुशोभित-वपुः श्री-राधिका दिद्युते ॥३१॥
[४१] तद् अनु दर्पण-समर्पणम् अनु सख्यास् तया सह वचन-प्रतिवचने—
इन्दु-निर्मञ्छ-पात्री प्रकटम् उपरि यद् भ्रम्यते तस्य धात्रा पद्मं निर्माल्यम् अप्सु प्रतिदिशं पै यत् क्षिप्तम् एवास्ति तस्याम् । आदर्शश् चायम् अर्चापदम् अधिकरणं तस्य सम्पाद्यते यत् किं तत् प्राणालि तत् ते मुखम् इह सुचिरं पश्य राधे विभाति ॥३२॥
[४२] अथ ललित-गति-कल-कमल-मुख-कलहंसी-ततिर् इव सखी-ततिर् अमूम् अमूदृश-राजहंसीम् इव विरामानां मध्ये निधाय प्राग्-वर्णित-लसद्-अखण्ड-शुभ्र-मण्डप-तल-कृतोपवेश-पेशल-पुरन्ध्रीणां नीरन्ध्रम् आनन्दं सन्धाय-सभाम् आसां तां भाजयामास, सभाजयामास च कनकासनासन-चामर-चालनादिभिः ।
[४३] तद् एवं धन्ययोर् अनयोर् वर-कन्ययोर् युगपद् एव तत्र तत्र प्राङ्-मुखतया कृतोपवेशयोर् लब्ध-मातृ-तद्-यातृ-मुख-पुरन्ध्रि-सदेशयोर् अधिवास-मङ्गलम् आसन्नं जातम् । तत्र च—
मान्याभिर् वर-कन्ययोस् तनु-रुचि-व्यत्यस्त-रोचिश् चितं भालान्तस् तिलक-द्वयं निज-निज-स्थाने सगीतादिकम् । यद् यद् वर्णम् अभीक्ष्य ते अपि मिथः स्फूर्त्य्-एकताम् आगते शश्वद्-भ्रान्ति-वशाद् विलज्जिततया कम्पं दरानञ्चतुः ॥३३॥
ततश् च—
दर्भाग्रैर् अभिषिच्य तद्-वर-वधू-युग्मं पृथक् स्नातकास् तत्-तद्-वेद-विधा विधानम् अदधुः पश्चाद् इदं प्रोचिरे । दाम्पत्यं युवयो रमा-मधुजितोः साम्येन सम्पद्यताम् इत्य् आशीर् जन-रीतिर् एव लषितं नस् तूर्ध्वम् अस्माद् अपि ॥३४॥
तद् अनु च रमा-मधुजितोः साम्याद् अपि पुरन्ध्रयः—
वास-योगम् अधिवासनाय ताश् चिक्षिपुर् वर-वधू-तनूर् अनु । यस् तु तत्र मिथुने भवन् मिथो वास-योग इति सङ्गतिं गतः ॥३५॥ श्रुति-द्वयं तत्र न केवलं तयोर् यवाङ्कुरेणाङ्कुरितं तदा व्यधुः । मनोरथं चाथ कृतानि सर्वतो भद्राणि यद् भान्ति सदैव तादृशम् ॥३६॥ ऊर्णाकङ्कण-बन्धान् मणि-कङ्कण-शुभ्रम् अप्य् अनयोः । मणि-बन्ध-द्वयम् अरुचत् कान्ति-मङ्गलम् अपीह सद्-धेतुः ॥३७॥ मृत्स्ना-गन्ध-शिलादि-वन्दन-विधिं तत्राधिवासे बहिर् दध्रे माधव-राधिकाख्य-मिथुनं मङ्गल्य-चर्या-कृते । मन्येऽन्तः स्फुरितं यद् अत्र च निज-प्रार्थ्यं ववन्दे तु तत् किं तन् न श्रुतम् अन्तरङ्ग-बहिरङ्गेत्य् आदि-शब्द-स्मृतेः ॥३८॥
[४४] तद् एवंविधां विधाय तैल-कृत-प्लव-हारिद्र-विद्रवम् अपि तयोर् वस्त्र-कृतास्तरे मस्तके न्यस्तं कुर्वत्यः पूर्वज-वर-वर्णिनी-पूर्वकं पतिवत्न्यः पूर्वादिदिक्षु स्थिता दूर्वाग्रेण स्रावयाम्बभूवुः । तत्र परस्परं गापयाम्बभूवुर् अपीदम्—
राधा-माधव-युगलम् । स्नेह-राग-मय-तैल-हरिद्रा-परिवलितं मुहुर् अचलम् ॥ ध्रुवम् ॥ नवम् इदम् अवतान् मिथुनं गोकुलं गोकुल-वसतीन् सर्वान् । कुरुताद् अपि पुरु-गुरु-सुख-सन्तति-सन्तत-सन्तत-गर्वान् ॥ब्॥ भृशम् अपि विहरतु हरतु च चित्तं हरतु च दुःखं नित्यम् । ग्रथयतु कान्तिं कान्तिम् अपीह प्रथयतु महिमादित्यम् ॥च्॥ सकल-सकल-गुणम् इह गुणयतु पुनर् अनुनयतान् निज-लोकम् । नयन-नयन-पद-सम्पद-मयतां दयतां शश्वद् अशोकम् ॥द्॥ जीव सुजीवन निज-रूपामृत-भृतम् अपि कुर्वद् अशेषम् । राजतु राज-तुलाजयि विभवं विभवतु विस्मित-शेषम् ॥ए॥ इति ॥३९॥
[४५] अथ रक्षा-मन्त्र-लक्षाभिमन्त्रणया तत्-तद्-अक्षाम-प्रभाव-समधिक-सम्पद्-ओषधि-यन्त्र-परतन्त्रतया च प्रत्यूहस्य यन्त्रणया कृत-शुभ-तन्त्राभ्यां ताभ्यां तत्र तत्र गुरूणाम् आज्ञया मात्रोर् मात्रोर् आज्ञया च गुरूणाम् अभिवादनम् अनु पुरून् नत-मुख-सदनं तेषाम् अभिवदनम् आसीत् । यथा—
कृष्णोऽसौ परम-रमा-पतिस् तथासौ राधा स्यात् परम-रमास्मदीय-गोष्ठे । यस्मात् ते वयम् इह नित्यम् एव शर्म स्वं तत्-तद्-रुचि-भरम् उच्चकैर् भजामः ॥४०॥
[४६] अथ तौर्यत्रिक-शौर्य-बहल-कोलाहलतया निज-निज-पल्ली-मतल्ली-चय-मध्यस्थ-देवालय-मय-मध्य-स्थलं सकल-वेदसारायणं लक्ष्मी-नारायणं सभाजयितुं पृथक् पृथक् क्रमतया वरः सह-व्रज-नर-वरः कन्या च सा सह-व्रज-जनीका धन्या जगाम ।
[४७] तत्राश्चर्य-चर्यम् इदम् आसीत् । यदा वरः स सुवेशः प्रविवेश, तदा तत्-कान्ताव् अन्तर्हिते लक्ष्मी-हिते केवला लक्ष्मीर् एव व्यलक्ष्यते । तद् एवं कन्यया कृत-प्रवेशे सदेशे केवलो लक्ष्मी-हितः । उभयोर् निज-निज-क्रमेण बहिर् अपक्रमे पुनर् अवहिते तत्र तत्र यथावद् एव देवता-द्वयम् इति । लोकास् तु तस्य तस्याश् चावरणं ज्योत्स्नान्धकार-गताभिसार-वेशस्येव मतवन्तः ।
[४८] तद् एतद् अवधार्य मधुमङ्गलः साश्चर्यम् आह—ही ही पश्यत पश्यत ! मन्-मित्र-दम्पत्योः स्व-नियत-दाम्पत्याद् अविरलता, यद् इयं नारायणम् अपि सोऽयं लक्ष्मीम् अपि नात्म-कान्ति-सात्-करोति इति ।
[४९] अथ समापनाय प्रकृतम् अनुसरामः—
ततः कृत-सुरार्चनौ विविध-वाद्य-गीतान्वितौ निजं निजम् अमू गृहं वधू-वरौ पृथग् जग्मतुः । तदा बहिर् इदं बभौ हृदि पुनस् तयोर् अन्यथा वरं सपदि कन्यकान्वगमद् एष चामूम् इति ॥४१॥
[५०] तद् एवं क्रमतः सभा-द्वयं यथास्वं कथनम् आकर्ण्य कथकादीनां स्व-स्वावास-प्रस्थानं निर्वर्ण्य वर्ण्यमान-परस्पराभिगमनम् एव मिथस् तन्-मिथुनं रहसि साक्षाद् अधिगमयामास ।
इति श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
श्री-राधा-माधवाधिवास-प्रसाधनं नाम
त्रयस्त्रिंशं पूरणम्
॥३३॥
(३४)
अथ चतुस्त्रिंशं पूरणम्
विविधालङ्कार-मय-राधा-कृष्णालङ्कार-समय-मयं
[१] अथ पूर्ववद् एव सभा-द्वय-कथा-युगलम् एकीकृत्य कथयिष्यामः । यथा मधुकण्ठ उवाच—
[२] तद् एवं नक्तम् अपि सर्वं गीत-नृत्यादि-पर्वणानुरक्तं विधाय वर-कन्ययोः सम्प्रदायः क्षणाद् इव प्रभातम् आयातवान् । ते धन्ये वर-कन्ये पुनः कांश्चित् क्षणान् निमेष-वेशतया निन्याते, कांश्चित् तु युग-सहस्र-समुदायतया । यतः—
कदाचिद् ध्यानान्तर्-वलयित-समाधी वर-वधू- जनौ साक्षात् तुल्यं स्व-परिणय-भव्यं ददृशतुः । कदाचिच् चिन्ताभिर् विकलित-मती कर्हि भविता प्रभातं तद् यस्मिन् परिणयनम् इत्य् आममृशतुः ॥१॥ अथाचिरत-जागरे बहुल-वाद्य-कोलाहले समुद्यद्-अरुण-प्रभावि-वृत-राम8-साम्ये व्रजे ।
हरिं तम् अपि राधिकाम् अपि च तां यथा सङ्गतः शुभाय सवयो-जनः स्नपन-मङ्गलं निर्ममे ॥२॥
[३] तत्र च प्रथमं सर्व-सुख-साधिकाया राधिकायाः स्नानानन्तर-रचनां प्रचारयिष्यामः—
गौर-कान्तिर् अरुणाम्बरा पुनः स्व-प्रकाशनवता सुख-प्रदा । राधिकेयम् उदिता विदिद्युते यद्वद् आदि-शशभृत्-कला-द्वयी ॥३॥
[४] यस्याम् अङ्गानि विद्युत इव, केशा विद्युत्वन्त इव, ग्रीवाद्य्-अधरावयवाः स्वर्ण-वर्ण-सुर-लताया विभागा इव, भ्रमर-केशोभि मुखं कमलायमान-तत्-कुसुमम् इव, भालं बाल-कलाधर इव, नेत्रे तारके इव, भ्रू-लता त्रिनतेव, नासिका विशिख-विशेष इव, कर्ण-युगलं सुवर्ण-वर्ण-लताग्र-युग्मम् इव, कपोल-द्वयं निस्तल-तत्-फल-द्वन्द्वम् इव, मुखं पद्मराग-द्वार-धर-वृत्त-कनक-पात्रम् इव, दन्त-पङ्क्तिस् तद्-अन्तः-स्थापित-मेघ-मुक्त-मुक्तावलिर् इव, मृदु स्मितं वाक्-कुसुमित-वल्ली-सुरभिर् इव, वाग्-दलं नव्य-दलम् इव, वक्षः सुदुर्लक्ष्य-लक्ष्मी-स्थलम् इव, तत्र चालक्ष्यं किम् अपि द्वयं निधि-कलस-द्वयम् इव, उदरं चल-दल-किसलय-दलम् इव, तनु-तनूरुह-लेखा तन्-मध्य-सम्बध्यमान-रेखेव, मध्य-प्रदेशम् अनु मध्यमं देव-शिल्पि-कल्पित-वेदि-मध्यम् इव, नाभिस् तद्-अतिसनीड-गभीर-तीर्थम् इव, चरण-पर्यन्तता-धन्यम् अन्यद् विचित्र-परिधानम् अङ्ग-युगं विविध-रङ्ग-मण्डितं करि-शुण्डा-प्रधान-युग्मम् इव, नखर-कान्ति-धर-चरण-युगलं तद्-धृत-सशीकर-नव-पल्लव-तल्लज इव, भुजा-द्वन्द्व-मखर-नाल-हेमारविन्दिनी-नाल-द्वन्द्वम् इव, कर-द्वन्द्वम् अपि कम्ल-द्वन्द्वम् अपि कमल-द्वन्द्वम् इवेति योग्य-युग्मतया सर्वं शुशुभे ।
[५] अपि च, कौटिल्यम् एव केशानां वेशः, चिल्ली-चूर्ण-कुन्तलावल्य् एव पत्र-रचना, अविच्छेद-तिलक-कृत-वर्ण-भेद एव तिलकम्, विलोचन-नीलोत्पल-प्रतिभासाव् एव कर्णावतंसौ, स्मित-प्रतिच्छविर् एव गन्ध-वहामुक्त-मुक्ता-फलं, सैव च वक्षसि कृत-विहारा हाराः, मृदुल-मर्मर-सिचयाद् उच्छलत्-कान्ति-विलास एव काञ्ची-कलापः, तिलकवत् तत्-तद्-अलङ्कार-कारणक-रेखा एव ग्रीवा-भुजादि-भूषण-सम्भाराः । किं बहुना ? स्वयम् उत्तमाङ्गम् एव सर्व् एषाम् अङ्गानाम् उत्तमालङ्कार इति ।
[६] तद् एवं विस्मय-प्रयुक्ताः पुनरुक्ता इव ताः श्री-राधिकायाः प्रसाधिका यद् आरम्भत एव स्तम्भम् आगतवत्यः, तदा चिराद् एव तदीय-वेश-रचनाय चातुरीम् आचरितवत्यः । तथा हि—
यस्या कान्तिभिर् उच्चैर्, भर्त्सित-कान्तिः स-मत्सरः सोमः । तत्-ताप-जलदङ्के, स्व-हृदि कलङ्केन सङ्गतः शङ्के ॥४॥ अपि दुर्वर्णं यस्या, रुचिम् अनु रुचिरां सुवर्णतां याति । तस्माद्द् अपर-सुवर्णं, स्थाने दुर्वर्णताम् अयते ॥५॥ यस्या साङ्गान्य् अङ्गान्य् अङ्गीकुर्वन्ति दर्पण-च्छविताम् । द्वि-गुण-विभूषण-शोभां, गुणयन्तीव च विमृश्य दृश्यन्ते ॥६॥ यस्या भाल-कपोल-द्वय-रदनाद् विदलिताः सुधा-द्युतयः । यन्-मुखम् अनु सुख-भाजस् तत्-सुषमां किं स लाञ्छनी जुषताम् ॥७॥ तस्या वेश-विधाने नेत्र-निधाने समागताः सख्यः । चित्रन्ति स्म प्रत्युत तच्-चित्र-द्युति-विभूषिताः परितः ॥८॥
पञ्चभिः कुलकम् ।
अथ मातृभिर् आम्रेडितम् अर्थे तस्मिन् कुमारीभिः । प्रणयज-कोप-विमिश्रं विश्राव्यामूः प्रवर्तितास् तत्र ॥९॥ यत्र च तस्याः केशावेशार्थं वस्त्र-मार्जनं याताः । जातास् ते तु सुजाताः, सर्वासाम् अभिनिवेशाय ॥१०॥ अपि घन-रुचि-जय-गण्याः शीर्षण्यास् ते परस्परं मिलिताः । भङ्गं सुबहु वहन्तः कृष्णाम् अपि भङ्गम् आनयन् महसा ॥११॥ अपि घन-जयि-रुचि-धन्या शीर्षण्यानां समाचितिस् तस्याः । अचलाप्य् ऊर्मिमद्-अङ्गी, प्रचल-जलाङ्गीं जिगाय कालिन्दीम् ॥१२॥ यद्यपि धूपं गमिताः, शमितार्द्रत्वं गताश् चिकुराः । तद् अपि च सार्द्राम् अजयंस् ततिम् अतिनव-धूम-योनीनाम् ॥१३॥ तत् कैशिक-मालीभिः प्रसूतं चक्रे परिष्कर्तुम् । अपि तस्यै पुरु रुरुचे स्निग्ध-श्यामा हि तद्-भासाः ॥१४॥ कङ्कतिका-सङ्कलिताः केशास् तेऽमी परस्परं वलिताः । स्तुतिभिस् त्रपया नूनं व्यतिपिहितं स्वं यथा-स्वम् आचेरुः ॥१५॥ अथ कुसुमादि-श्रेणी-मिश्रा वेणी व्यरोचतामुष्याः । गङ्गादिक-संसङ्गाद् वेणी-भावङ्गता यथा कृष्णा ॥१६॥ सा पुष्पितया वेण्या रुरुचे पुष्पेषु-तूण्य् एव अजितं विजितं रचयत् तस्या दृष्टं हि काण्डपृष्टत्वम् ॥१७॥ शिरसि ग्रथित-कचानां वलये रत्नावली वलिता । सन्तम् असाचित-नभसि प्रथते तारा-ततिर् यद्वत् ॥१८॥ अथ सिन्दूरज-रेखा शुशुभे तस्याः शुभे शिरसि । कृष्ण-घने रुचि-सुघने रोहित-लेखेव या कलिता ॥१९॥ अथ मुक्तावलि-वलिता भाले ललिता ललाटिका कलिता । अभिनव-शशधर-मूर्ति-स्पृग् उपरि पूर्तिर् यथा भानाम् ॥२०॥ चिल्ली-मृगमद-वल्ली-मध्ये लसति स्म हालम् एतस्याः । अलि-पालि-द्वय-पलितं पर्णं वा स्वर्ण-वर्ण-कञ्जस्य ॥२१॥ अगुरु-द्रव-कस्तूरी-तिलकं रेजे सरोजाक्ष्याः । यत् किल तिलकं जज्ञे सर्वेषाम् एव वेषाणाम् ॥२२॥ नेत्रे तस्याः क्षेत्रे कृष्ण-रुचीनाम् इतीव तत्रैव । उप्तं कृष्ण-फलार्थं कज्जल-बीजं तदालीभिः ॥२३॥ अञ्जन-रेखा-व्याजाद् अस्या नेत्र-त्रिभागान्तम् । निज-बाणं किल जानन् जाग्रत्-फलम् आचरत् कामः ॥२४॥ कर्णौ स्वर्ण-लताग्रे यत्र च मणि-कर्णिके पुष्पे । नासा-कीर-त्रोटिः शुशुभे मुक्ता-फलेन यत्-कोटिः ॥२५॥ या नासा तिल-पुष्पं युक्ता मुक्ता-फलेन राधायाः । अस्त्राग्रम्फलम् इति तां कृष्णः पुष्पायुधास्त्रं ऊहते ॥२६॥ अवतंस-द्वय-फुल्लं कर्ण-द्वन्द्वं रराज राधायाः ।
नेत्रालि-द्वयम् असकृद् वल्गति वल्गु स्फुटं स्मयत्-स्पृहया ॥२७॥ विलसति कस्तूरिकया चित्रं यत्र स्म गण्डान्तः । तत् कलयन् स्व-कलङ्क-विधुर् अपि सुतरां कलङ्कम् औहिष्ट ॥२८॥ रुरुचे चिवुकम् अमुष्याम् अगुरुज-गन्धस्य बिन्दुना शितिना । यद्वत् पक्व-रसालस्याधः सुप्तेन भृङ्गेण ॥२९॥ रेजे कपोल-मकरी सा सा कस्तूरिका लिखिता । या प्रिय-कुण्डल-मकर-द्वय-सुभग-प्रेयसी-प्रतिमा ॥३०॥ कटका भुजयोर् अस्याः कटकाः सन्तु प्रियं जेतुम् । अथ कथम् अङ्गद-युगलं प्रसभं तस्मिन्न् अनङ्गदं भविता ॥३१॥ श्याम-स्तवकौ मुक्ता-वदनौ तत्-पारिहार्ययोः कलितौ । किं वा पाणि-सरोज-च्युत-मधु-पानान्वितौ मधुपौ ॥३२॥ जित-नव-कल्प-द्रुम-दले वृषरवि-पुत्र्या भुजा-दले विमले । मुद्रालि-द्युति-सुकले रेजतुर् उद्यत्-कले परितः ॥३३॥ तस्या नख-मणि-लक्ष्मीम् अनुराजन्तई सद्-ऊर्मिका-श्रेणी । ताम् अनु सवयस्-ततिर् इव शोभां लोभान्विता लेभे ॥३४॥ मणिबन्धौ मणि-बद्धाद् अपि जज्ञाते मनो-बन्धौ । अपि कर-शाखा-मुद्राः क्वचन विशाखा-वयस्य-मुद्राः स्युः ॥३५॥ ग्रैवेयक-सख-हारा हारास् ते स्युः कदाचिद् अप्य् अत्र । हरि-रत्नं बत तर्ह्य् अपि यस्मात् तत्राथ नायको व्यजनि ॥३६॥ घनरुचि-कञ्चुक-रुचिरा विविध-मणीनां विराजिता राजिः । इन्द्रधनुः प्रतिमा या मुक्ता-श्रेणी-वलाकया रुरुचे ॥३७॥ मृगमद-कृष्णा चोली कुङ्कुम-चित्रा विचित्रतां ऊहे । पीताम्बर-पर-भागात् पीताम्बरतां गता तत्र ॥३८॥ सुभग-कटीरक-घटना-महसा घटिता पटी तस्याः । प्रकटीचक्रे सुदृशां स्व-विषय-दृष्टेर् नटी-भावम् ॥३९॥ यद् वैवाहिक-वस्त्रे शास्त्रेष्व् आनन्द-पत-पदं ख्यातम् । कर्मण्य् अण्ण् इति सिद्धं विस्तारार्थात् पतेस् तत् किम्? ॥४०॥ मणि-रसना बत मध्ये बद्धा सत्य् एव सा तस्याः । कथम् अथ हरि-चित्तं वा बद्धं कुर्यान् न तद् विद्मः ॥४१॥ तस्या गज-गामिन्या मणि-हंसक-नूपुर-ध्वनयः । घण्टा-टण्टन-तुल्या दध्युः कम्पं सपत्नीषु ॥४२॥ कृत-चरणाम्बुज-चरणाव् इह मञ्जीरौ तु खञ्जनौ मञ्जु । हरिर् अपि यत् कलकलने हरितां जयवन् मुदामनुत ॥४३॥ अनु नख-चन्द्रावलिं सा शुशुभे पादाङ्गुरीयक-श्रेणी । नक्षत्रालि-सदृक्षा यस्मिन्न् अक्षीणि कैरवन्ति स्म ॥४४॥ स्पर्शात् पद-तलमस्याः कोकनदाभं तदा जज्ञे । लाक्षा-रसस् तु मिथ्या कीर्तिं तस्मिन्न् निवर्तयति स्म ॥४५॥ अकुरुत रक्तक-युगलं प्रच्छद-युगलं स्वसाद् अलङ्करणम् । तद् अपि च निर्जन-जलधर- वृत-शशधर-वद् व्यलोकि तत् सर्वम् ॥४६॥ याः पूर्वं निज-निजया दृशा वयस्यास् तस्याः श्री-रस-रसिका बभूवुर् एताः । पश्यन्त्याम् अथ मुकुरं तदीययासन् आवेशः स यद् अभिधा-निदानम् आसीत् ॥४७॥
[७] तद् एवम् एतां प्रसाधिताम् अपि कम्रां नम्राम् अपि मङ्गल-सङ्गत-प्रदेशं मातॄणां पेशल-सदेशम् आवेशयन्तो ज्योतिष्मदोषधीनाम् ओषधीश-कलाम् इव ।
[८] ततश् च तां पटु-बटुभिः कृत-स्वस्ति-वाचन-स्वस्तिकां धृत-वैष्णव-मन्त्र-न्यास-प्रशस्तिकां मङ्गल-वलय-निलयं निलयं सहचर्यया सहचर्यः सञ्चारयामासुः ।
ततः सखीभिःसह नर्म-शर्मा कृष्णाति-तृष्णाकुल-मर्म-धर्मा । कथं च नेयं बत कल्प-कल्पं दिनं विचिक्षेप विकल्प-कल्पम् ॥४८॥
[९] अथ वर-यात्रा-वर्णन-पात्राय कल्पते स्म । तत्र तस्य वेश-रचना रचनानाम् आदितः शोभां श्रोतृ-लोभाय वर्णयिष्यामः ।
इन्द्रनील-मुख-नील-गणानाम् इन्द्र एष वर-रूप-वरेशः । तद्-विवाह-विधये स्नपिताङ्गः कान्तिभिः स्वम् अपि सुष्ठु जिगाय ॥४९॥
[१०] यत्र चाखिलं कान्तिर् एवेति सकलं लावण्यम् एवेति समस्तं सौरभ्यम् एवेति, कृत्स्नं कौमल्यम् एवेति न विवेक्तुं शक्यते । तथा निखिलं भूषितम् एवेति भूषणम् एवेति वा तद्वद् उप्मेयम् एवेत्य् उपमानम् एवेति वा नयनादीनां प्रकाशनीयम् एवेति प्रकाशकम् एवेति वा विचार-पदवीं नारोहति । यत्र च मुखम् इव मुखम् इत्य् आदिर् अनन्वय-नामाप्य् उपमा-सुख-कृद् अन्वयम् आपद्यते । यत्र च मुखम् इव नेत्रं नेत्रम् इव मुखं कमलं जयति, दन्तकान्तिवन् मृदु-स्मितवद् दन्त-कान्तिः सित-कान्तिं तिरस्करोतीत्य् आदिकम् उपमेयोपमानाम् अपि सुतराम् अनुपमानत्वं प्रपद्यते । यत्र च मुखं निज-द्वितीयतया राधाया मुखम् एव स्मारयति । नेत्रम् अपि तस्या नेत्रम् एव पुरः स्फुरद्-रूपं करोतीत्य् आदि-स्मरण-नामालङ्कारः सर्वम् अलङ्कारं विस्मारयति । यत्र सौन्दर्य-सम्राजः स्वेनैव वैभवं विभवद् एव राजते ।
[११] तथा हि विश्व-दृष्टि-प्रसार-वृष्टि-समाकृष्टिर् एवाभिषेकः, श्रीमद्-भालम् एवार्ध-कला-धराकार-तिलकम् । निस्तलाकृति-शस्त-मस्तकम् एव मेघाडम्बर-च्छत्रम् । चलद्-अपाङ्ग-स्मित-च्छवी एव चामरे । सर्व-वशीकरण-कारण-मुखम् एव पूर्ण-पूर्ण-राज-चय-पराचय-सामग्री । सर्वान्तर-क्षोभि-नव-यौवनम् एव शौर्येण । त्रि-नत-भ्रू-युगम् एव त्रिनता । खग-पति-चञ्चू-समता-चुञ्चु-घ्राणम् एव बाण-विशेषः । भङ्गी-विन्यास-सङ्गि-कर्णाव् एव पाशौ । पुष्ट-दीर्घता-जुष्ट-भुजाव् एव परिघौ । कामाङ्कुशा एवाङ्कुशा । त्रिरेखी-कृत-सर्वोत्कण्ठ-कण्ठ एव कम्बु-राजः । कर-चरण-स्थित-चक्र-मुख-लक्षण-चक्रवालम् एव चक्रम् । स्थूलता-विलसद्-ऊर्वादि-भागाव् एव जय-स्तम्भौ । विस्तीर्णता-कीर्ण-श्रोणि-फलकम् एव देश-वलयः । गम्भीरताभिराजिनाभिर् एव कमलाकरः । अतिसुन्दर-तुन्दम् एव बलि-वलयावासः । विचित्र-पद्माकार-नेत्रे एव चिन्तामणी । लक्ष्मी-निधान-वक्षः-स्थलम् एवावरोधः । श्रीमत्-पद-द्वन्द्वम् एव सर्वेषां सुखास्पदं पदम् इति ।
[१२] अथ परम-हित-निहिता वर-लक्ष्मी-घनाः सापघनास् तत्-परिष्कार-रमणा वर्णयिष्यते ।
मुकुटं रत्न-प्रभवं मूर्धनि कृष्णस्य सर्व-दिग्-द्योतम् । उदय-गिरेर् वर-शिखरेऽद्योतत चण्डांशु-मण्डलं यद्वत् ॥५०॥ श्याम-स्निग्ध-सभङ्गः सद्-भाव-स्वच्छ-रत्न-संवीतः । शुशुभे केशव-केशः किं वा राधा-मनः-सारः ॥५१॥ कुङ्कुम-तिलकं भाले तर्ह्य् उपमेयं मुरारातेः । श्यामल-शशधर-शकले यदि गुरुर् ईक्ष्यते कुत्रापि ॥५२॥ राधा-वदनं चन्द्रः स तद्-अनुकर्ता परश् चन्द्रः । इति हरिर् इतरति-पूर्तिस् तत्-प्रतिमूर्तिं बिभर्ति किं तिलकम् ॥५३॥ कृष्ण-भ्रू-युगलं तद्-धनुर्-अनुकृद् अपि स्फुरच्-चित्रम् । यत् खलु विनापि बाणं ताम् अपि राधां स्वयं जयति ॥५४॥ राधा-मुखेन्दु-लोभात् तद्-अक्षि-युग्मं चकोरतां किम् अगात् । सम्प्रति यत् तद् अलाभाच् चञ्चल-मूर्ति स्म चञ्चुर्ति ॥५५॥ एकं मण्डनम् अङ्गं मण्डयद् एकं यथा-स्वम् आभाति । जयतात् कुण्डल-युगलं युगपच् छ्रुति-गण्ड-मण्डनं यत् तु ॥५६॥ श्रवसोर् न परं भूषणम् आसीत् कृष्णस्य कुण्डल-द्वन्द्वम् । अपि गण्ड-द्वितयस्य प्रतिबिम्बं यद् व्यलोकि तस्यात्र ॥५७॥ कर्ण-लता-युगम् अनिशं भूषण-दम्भात् प्रफुल्लम् एतस्य । युक्तं तद् इदम् इदं यन् मुहुर् अपि राधा-वचः-सुधा-सिक्तम् ॥५८॥ नित्यं केशि-निहन्तुः पूर्णं कैशोरम् उद्भाति । मात्रा नसि विन्यस्ता मुक्ता पुनर् एतद् आचरन् नव्यम् ॥५९॥
श्री-हरि-नासा सक्रमम् उन्नत-शिखरा कुतूहलं तनिता । भ्रू-भुजगी यदि तस्याः खग-पति-चञ्चू-भ्रमेण घूर्णेत ॥६०॥ रञ्जितम् अजनि तद्-ओष्ठं न हि बहिरङ्गात् परं रागात् । राधाधर-संस्पर्शं प्रति हृदिजाद् अन्तरङ्गाच् च ॥६१॥ अधरस् तस्यांऋत-खनिर् इति राधाया विनिश्चितं सत्यम् । अन्तर् दन्तावलि-मिषम् इह लसतश् चन्द्र-लेखे द्वे ॥६२॥ चिवुकं तमसः खण्डनम् अथ मण्डन्म् अस्य वक्रस्य । इति किल मण्डनम् अन्यन् मण्डन-लोकश् चकार नैवात्र ॥६३॥ मुखम् अघ-शत्रोस् तन्-मह-हर्ष-व्यक्तेर् मुखं जातम् । प्रेक्षा-कारिणि तां यद् दर्पण-तुलया समर्पयति ॥६४॥ दर्पणम् अपि किं मनुषे निज-मुख-तुल्यं मुरारातेः । इति किल सम्मुख-बालतं तस्य व्यदधाद् अमुं कोऽपि ॥६५॥ कंसद्विषि यः कण्ठः स तु जगद्-उत्कण्ठम् आचचारेति । युक्तं स इव द्रष्टुं स्वत उत्कर्षं स यद् वष्टि ॥६६॥ नन्दति नन्दज-हृदयं रेखा-रूप-श्रियेति विख्यातम् । तस्मिन् विभवति या सा तां राधाख्यां तद् एव जानाति ॥६७॥ वक्षसि दक्षिण-भागात् प्रभवति तनु-रोम-दक्षिणावर्तः । श्रीवत्साख्यः किं वा कान्ता-स्मृतिजान्तर्-आवर्तः ॥६८॥ ग्रैवेयक-हाराणाम् उपमा कृष्णस्य तर्हि स्यात् । विद्युद्-बक-पङ्क्तीनाम् आश्रयतां चेद् भजेत नव्याब्दः ॥६९॥ पृथुतर-हीरक-चन्द्रे कौस्तुभ-सूर्ये लसत्-तारे । उरसि हरेः शुभ-शोभा या स्यात् किं व्योम्नि सापि वीक्ष्येत ॥७०॥ नव-रत्नी-चितम् अङ्गद-युगम् इह दोष्णोर् व्यराजिष्ट । यद्वज् ज्योतिश्-चक्रं ग्रह-नवकान्वयि विभाति तत्-तुल्यम् ॥७१॥ मणि-वलयोर्मी-वलया हरि-सेवायां रुचिं जग्मुः । त इमे गुरु-शिष्याभा गुरु-लाघवतो वितर्क्यन्ते ॥७२॥ अङ्गद-वृत्तावलयास् तद्वद् वृत्ताश् च मुद्रिका-सङ्घाः । क्रमतः श्रित-लघवो ये लघवोऽप्य् एषां तथा युक्तम् ॥७३॥ साङ्गद-वलय-प्रतिसर-मुद्रिक-दोर्-युग्मम् अंशुम् आसन्नम् । मूलाद् विकच-हरिन्मणि-रुचि-तरु-शाखा-युगं यद्वत् ॥७४॥ भवति च हरि-दोः-शोभा-हरि-मणि-तरु-शाखया काम्या । अतिकनक-श्री-राधा-मिलनं तस्या मनो-दूरे ॥७५॥ तद् बाहोर्गिरि-धरणं न स्तौम्य् आयास-रिक्तं तत् । यत्-स्मरणाद् अपि कल्पस् ताव् अपि धर्तुं तम् उद्यमं वन्दे ॥७६॥ राधाया हृदि मुकुरे प्रतिबिम्बाभां सदा व्रजतः । इति किल कृष्ण-नितम्बौ बिम्बतया तौ निरूपितौ ॥७७॥ शृङ्खल-हंसक-नूपुर-सङ्घः शोभां तथा वाद्यम् । अतनोत् तत् किं पाणि-ग्रहणं स्व-गतेः स तस्य वेत्ति स्म ॥७८॥ जङ्घासक्थि-श्रोण्य् अप्य् ऊर्ध्व-क्रम-पुष्टम् अच्युते दृष्टम् । तत्-क्रम-महता तत्-तद्-विषयक-रागेण राधयापोषि ॥७९॥ अन्तर्-वसनं वव्रे यद् अपि श्रोण्य्-ऊरु-जानु-जङ्घादि । तद् अपि च शोभां तस्य स्फुटम् अनुकुर्वद् विभाति स्म ॥८०॥ अथ कञ्चुकम् अपिधानं दध्रे वीध्रं स गोपालः । मृदु हरि-चन्दन-चर्चा तुल्यं यद् अलक्षि तद्-गात्रे ॥८१॥ पुरट-पट-स्फुट-घटिका मणि-गण-किर्मीरिता तस्य । मध्यम-बन्धं कृत्वा स्वाम् उत्तमतां निरीक्षयाञ्चक्रे ॥८२॥ श्यामल-रक्तौ चरणौ नख-शशि-चित्रौ हरेः कलितौ । राधाया रस-रागौ किल तौ लसतः प्रसाद-संवलितौ ॥८३॥ कृमि-जनि-वसन-स्यूते दध्रे स्वच्छे उपानहौ यत्र । सुभगां पदयोः स्वस्याप्य् अथ रुचिम् अघजिद् व्यनक्ति स्म ॥८४॥ दध्रे स वैजयन्तीं जगति जयन्तीम् अशेष-रोचींषि । या खलु भूषण-चक्रे शोभां चक्रेऽत्र वैजयन्तीव ॥८५॥ रेजुर् वन-मालायाः पञ्च च वर्णा हरेर् वपुषि । मुनि-दयनीय-दयाकर-मित्र-वधूनां यथा भावाः ॥८६॥ प्रच्छद-वस्त्रं चित्रं लक्ष्मी-भाग् अपि जहार पर-भागम् । सा साप्य् अन्तः-शोभा तस्मिन्न् उदिता विलक्षणा दृष्टा ॥८७॥ पीताम्बरता चित्र-प्रच्छद-वलिता मुरारातेः । राधा-रुचिर् इव नाना-भाव-च्छन्ना विराजते तत्र ॥८८॥ लीला-कमलं सन्तत-विमलं कलयंस् तदा कृष्णः । सौरभ-भजन-व्याजाद् आस्यन्तेनावृणोत् त्रपया ॥८९॥ मस्तक-घाटा-पृष्ठ-श्रोणी-जङ्घाङ्घ्रि-शोभायाम् । पश्चाद्-देश-गतायां पतिता दृष्टिर् निवर्तते न पुरः ॥९०॥ राजतु बहु-नेपथ्यं व्रज-नृप-तनयस्य दिव्य-भू-दिव्यम् । तादृश-मुरली-लकुटी-पिञ्छान्य् अस्माकम् उच्चकैः प्राणाः ॥९१॥ मृगमद-कर्पूरागुरु-गुरु-परिमल-वास-वास-योगेन । वासन-योगाद् आसन-सुस्थोऽप्य् अजयद् दिशः कृष्णः ॥९२॥ राधायाः सौरभ्यं तस्माद् अस्माच् च कृष्णस्य । अभिगमनाद् व्यतिमर्दं कुर्वज् जगद् एव मुग्धम् उद्विदधे ॥९३॥ ध्वनि-भृद्-अलङ्कृति-दीव्यद्-वर्णं सरसं हरेर् अङ्गम् । श्रव्यं काव्यम् अधीत्य श्री-राधा यद् विनिर्ममे दृश्यम् ॥९४॥ इति ।
[१३] अथ कथकः समापनम् आह स्म—
न हि राधा-कृष्णाङ्गे परम् इह निहितास् तथा भान्ति । अपि जनता-हृद्-वचसोस् ते तद्-वेषा धृता रुचिं दधति ॥९५॥
[१४] तद् एवं—
कथाम् आश्रुत्य ताम् एतां न रहः-शयनं च तौ । प्राप्तम् अप्य् अन्वय्मन्वातां पुनस् तत्रैव लालसौ ॥९६॥
इति श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
विविधालङ्कार-मय-राधा-कृष्णालङ्कार-समय-मयं नाम
चतुस्त्रिंशं पूरणम्
॥३४॥
(३५)
अथ पञ्चत्रिंशं पूरणम्
श्री-राधा-माधव-विवाह-निर्वाहः
[१] अथ पूर्ववद् एव कथा-द्वयम् एकी-कृत्य कथयिष्यामः । यत्र स्निग्धकण्ठः प्राह स्म—
[२] तद् एवं तस्य वरस्य वेषे शेषेणापि वर्णयितुं शेषे लब्ध-विशेषे जाते, प्राते च नान्दीमुखादि-शाते द्विजातेन तातेन तद्-बन्धु-जातेन मातृ-सङ्घातेन देव्य्-आदि-भगिनी-सम्पातेन च यथायथं मङ्गल-सङ्गमितस्य तस्य विवाह-निर्वाहण-यात्रा-वर्णन-पात्राय कल्पयिष्यते । तथा हि—
यदा ज्योतिर्वद्भिः सदसि कथितं यात्रिकतया पलं तर्हि क्ष्मापि स्वर् अपि भृत-वाद्यं समजनि । यदा जातं वाद्यं हरिर् अपि तदा सर्व-मनसा समं हर्षं बिभ्रद्-भविक-गति-शर्म व्यतनुत ॥१॥ उद्यद्-दुन्दुभि-वृन्द-शब्द-बलवद्-वाद्यान्तरान्तर्-गतैः सङ्घट्टाकुल-रत्न-धोरण-घटा-घण्टा-रवैर् आदृते । कृष्णस्यानुदिशं निज-स्फुरण-कृत् कान्तेः प्रयाणेऽदधाद् दीव्यन्ती त्रि-दिवे च तद्-विध-गतिस् तद्-व्यूह-भेद-भ्रमम् ॥२॥ वाद्यानां कोटि-युक्तैस् तवर-नियुतैर् दिव्य-भौमैः समन्तान् मिश्री-भूतं मिथस् तैर् न परम् इह तथा चान्यद् अप्य् अत्र विद्धि । उत्क्षिप्ता ये व्रज-स्थैः कुसुम-समुदयास् ते तु दिव्यैः पतद्भिस् तैर् अन्यैः पृक्तिम् आप्ताः परिचय-रचने नापुर् उच्चैर् विविक्तिम् ॥३॥
[३] यत्र च यथान्तर् अन्तः-पुरस्तान् माला-वैजयन्तीनां वैजयन्तीनाम् । स्वर्ग-वाद्य-विद्यैर् अपि समभिवाद्यानि वाद्यानि । तौर्यत्रिक-शुभरता भरताः पुरोधः-पुरोगमाः पुरोगमाभि-गुरूणां शकटाकाराणि विमानानि विमानानि, यत्र चोभयतः सुहृदाम् आत्म-समयानानि यानानि । धृत-चामरादि-परिकराः परिकराः । राम-दामादीनां सुख-लसद्-उद्धवाः समुद्धवाः । सैव्य-सुग्रीव-मेघ-पुष्प-वलाहका वलाहकाः । विसरत्-कृष्ण-कान्ति-घनरसा घनरसाः । दारुकस् तथा कृष्णः क्रमतः सारथी रथी । परस्तान् नाना-सामग्री-सङ्गिनः सङ्गिनः । नाना-श्रेणि-जनाः श्रेणि-जनाः । सर्वतः कौतुक-विभावका विभावकाः । वर-कीर्ति-वन्दि-मुखा वन्दिमुखाः । उपरि भव-कमल-भवमुखाः सुपर्वाणः सुपर्वाणः । विष्णुपद-स्था विष्णुपद-स्था वृष्टिश् च सुमनसां सुमनसाम् इति ।
दारुक-सारथि-युक्तं युक्तं सैव्यादि-वाजि-सङ्घेन । हरिर् इह रथम् आरूढः स्व-रुचा तस्तार देव-यानानि ॥४॥ सुर-वर्त्मेति नामासीत् प्रसिद्धं यस्य तन्-नभः । सुर-वर्त्मतया साक्षाद्-व्रज-वासिभिर् ऐक्ष्यत ॥५॥ पुष्कर-स्थानि तत्रास्य-पुष्कराणि द्यु-योषिताम् । हरेर् अंशु-सहस्रेण घस्रेऽस्मिन् फुल्लताम् अयुः ॥६॥
तत्र च—
काश्चित् पुष्पाणि वर्षन्त्यः स्तब्धः श्री-विधु-कान्तितः । तथापि केश-विस्रस्तैर् अगच्छंस् तैः कृतार्थताम् ॥७॥ काश्चिन् मङ्गल-गायन्यः स्वर-भङ्गं गता मुदा । तत्रापि स्निग्धकण्ठत्वाल् लोकं निन्युर् दशां निजाम् ॥८॥ अन्या वरस्य माधुर्यात् कन्या-भावम् उपागताः । यासाम् एव निज-स्त्रीणाम् आवेशाद् अमरा अपि ॥९॥ पतन्त्य इव याः काश्चिद् विमानाद् अभवन् नमुः । तत्-कान्ताश् चकृषुः कृष्ण-कान्तयश् चात्मनो दिशम् ॥१०॥ पश्यन्त्यः कृष्णम् अपराः कण्टकोद्भेद-दन्तुरैः । आश्लिष्य रक्षतः कान्तान् स्व-प्रतीकैर् अविव्यथन् ॥११॥ काञ्चीं गलन्तीम् एकास् तु प्रेक्षमाणा रुचिं हरेः । मुहुर् मुहुः स्व-कान्तेन स्तभ्यमानां च नाविदुः ॥१२॥ कृष्णस्य नेत्रान्त-शरः सुर-स्त्रिया नेत्रान्तम् आविश्य तदाविशन् मनः । तदीय-भर्तुस् तद् अगाद् विलोक्य ताम् इतीव लज्जालुतया न निर्ययौ ॥१३॥ एकाः श्री-मुख-चन्द्रम् अस्य नयनेनावृत्य तेनेभ्यतां मन्यन्ते स्म परा दृग्-अम्बुज-युगं वक्षः-स्थलं काश्चन । काश्चिद् दोर्-नव-नीलरत्न-जनि-युग्-यूप-द्वयं तत्-पराश् चैवं किन्तु न जानते स्म निखिलं राधार्पितं तस्य यत् ॥१४॥
[४] तद् एवम् अनन्तोऽपि तत्-तद्-विभवेनानन्ते मधुमङ्गलस् तु यष्टिं मुहुर् ऊर्ध्वं क्षिपन्न् ऊर्ध्व-गत्या कूर्दन्न् आसीत् ।
[५] सर्वे सहासं पप्रच्छुः—भो बटो ! किं कर्तुं प्रकटोऽसि ?
[६] मधुमङ्गल उवाच—भोस् तुन्द-परिमृजाः ! बाढम् ऋजवो यूयम् । न पश्यथ, किं न पश्यथ ? यद् एता मम वयस्यं वश्यं विधातुम् अवतरन्त्यः प्रतीयन्ते । तद् एता निवारयाणि इति । ततश् च—
किञ्चिज् जयाद् भयात् किञ्चिद् उद्गले मधुमङ्गले । सांराविणं व्यावहासी चात्रासीद् वर-यात्रिणाम् ॥१५॥
[७] तद् एवं हासादि-कोलाहल-वहल-वाद्य-व्याजम् आनन्दम् एव श्वशुर-पुरान्तः-पुर-समाजं स्वयम् अपि सर्वेषां लोचन-नीरज-विरोचनतया श्री-केशवस् तदीय-सन्देशं विवेश ।
विधुर् अन्यो भानु-धाम प्रविशन् क्षीणतां व्रजेत् । सोऽयं पुनः प्रतिपदं पूर्णताम् एव सङ्गतः ॥१६॥
यत्र च—
श्रुतवती सहसा स्व-वरागति-प्रथित-वाद्य-गतीर् वृषभानुजा । अधृत कम्प-भरं मुहुर् एव साकृत सखी-कुलम् आकुलम् अत्र च ॥१७॥ हन्त कृष्ण-मुदिरश् च तर्ह्य् अगाद् उत्तरोत्तरतया समीपताम् । शश्वद् उत्कलिकिकां च भूयसीं चातकीव बत राधिका ययौ ॥१८॥
[८] अथ विविधम् आनाय्यम् आनाय्य होम-स्तोमं विधाय स्वधा-द्रव्यं सन्धाय नान्दीमुख-श्राद्धं राद्धं कुर्वति श्री-वृषभास्वति सर्वाणि तत्-पक्ष-लक्षाणि चित्र-वादित्रादिभिर् अतीत-निज-कक्ष्याणि वरम् उपव्रजन्ति स्म ।
[९] यत्र चोभयम् अपि तद्-वर-कन्या-कुलं व्यतिमिलमानं किल सागर-समुद्र-समाहार-सारताम् एवात्मनि जागरयामास । यत्र च सर्वत ऊर्ध्वम् उदयन् विधुर् विधूत-मर्यादताम् आसादयामास । ततश् च—
स्त्री-पुंसास् ते लक्षम् अक्षाम-रत्नैर् नीराज्यामुं तत्र निर्मञ्छ्य तद्वत् । स्वेनाप्य् एनं चालिताभ्यां कराभ्यां सास्राश् चक्रुः साधु निर्मञ्छिताङ्गम् ॥१९॥ दर्शं दर्शं वरम् अघरिपुं ते तु भानोः स्व-लोकास् तत्-कन्यायाः सुकृत-विभवं फुल्लद्-अङ्गाः शशंशुः । किं चाचख्युर् गुण-ततिर् असाव् अस्य सङ्ख्याम् अतीता शोभां नां चेद् यदि तु दयिता राधिका हन्त न स्यात् ॥२०॥
[१०] पुनर् विमान-चारिणीनां वचनं तत्रापरिचितवतीनां, यथा—
मुखं यत्राम्भोजं प्रतिलव-नव-श्री-वलयितं दृशाव् उद्यत्-तारे विलसित-विहारेण चलने । वपुश् चाम्भोदानां वलयम् अध ऊर्ध्वं प्रतिदिशं सद्-इत्य् अमरःअ-स्पन्दं कलय किम् इदं हन्त किम् इदम् ॥२१॥
[११] परिचितवतीनां तु—
सावित्री ब्रह्मणः स्त्री हिम-गिरि-तनया चन्द्र-मौलेस् तथा मा श्री-विष्णोर् अस्य रुक्मिण्य् अपि सुमुखि भवेद् बाढम् अक्ष्णां सुखाय । रूपं स्वस्यापि विस्मायक-मयम् अभितः शोभयन् स्वीयम् आसीद् रासे यासां रुचा ता यदि न हि विवहेद् अस्तु राधा तु मूर्ध्नि ॥२२॥
[१२] अथ विविध-वस्त्र-संस्तरणया रत्न-भुवीव विरचितायां निजान्तः-पुर-वर्त्म-भुवि चावतारिते सर्व-सुहृत्-परिवारिते वृन्दावन-पुरन्दरे श्रीमति वरे श्रीमान् भानुर् अपि सहर्ष-निज-पार्षत्-पाल-वलयेन सह पद्भ्याम् एव स्वयम् उपवव्राज । तत्र च—
पूर्वं ददर्श शतधा पस्पर्श च तं चिराय वात्सल्यात् । तद् अपि तदानीं पश्यन् नवम् इव चकॢपे च-चित्र-कल्पाय ॥२३॥
[१३] ततश् च क्षणं तद्-वीक्षणम् आचर्य, निर्मञ्छनारात्रिकाभ्यां परिचर्य, पुष्पावलिं विकीर्य, तं नम्रं प्रति कम्रम् आशीर्वचनं वितीर्य, व्रज-राजादिभिः सास्रं व्यतिपरिष्वज्य, तम् एव चाग्रतः प्रसज्य, सर्व-सुख-सम्पद्-अखण्ड-तण्डकं मण्डपम् एवानिनाय । चन्द्र-मण्डलम् इव तारा-मण्डलं नील-निधि-कलसम् इव वा तन्-मङ्गल-सदनं साक्षान्-मङ्गलाधिदेवम् इव वा तन्-मङ्गल-वलयम् । यत्र च—
रम्भा-स्तम्भ-चतुष्टयेन फल-सञ्जुष्टेन कोणेषु या मुक्ता-दाम-वितान-तोरण-चयेनार्धं वृता द्योतिना । कुम्भ-भ्राजित-दीप-राजि-वलिता रत्नाङ्ग-चित्राचिता वेदिः सा विशता तु कृष्ण-शशिना कृष्णांशुना चर्चिता ॥२४॥ पुरस्ताद् गोपेन्द्र-प्रभृति-गुरवः पार्श्व-युगले वयस्या रामाद्याः क्रम-वलनयाप्य् उद्धव-मुखाः । परस्ताद् अप्य् आसन् सुररिपु-रिपोर् दारुक-पुरः- सराः सेवाकारा इति परिषद् एषां विरुरुचे ॥२५॥
[१४] तद् एवं सति तूद्ग्रीवकाकृते प्रग्रीवावलि-वलित-चन्द्र-शालिका-सञ्चारिकासु कासुचित् तूष्णीकाम् एव पुष्णानासु कासुचित् तु जय-कल्पं कासाञ्चिन् नर्म-गालि-शर्म-गीतिर् यथा—
पश्य सखी-जन सोऽयं कस्य ? सुचिवारयद् अपि चित्तं क्वचिद् अपि नान्तं लभते यस्य ॥ ध्रु ॥ सुचिरोपार्जित-सुकृत-शतायुत-निर्जित-तरुण-समाजौ । वर्षीयांसाव् अपि यं तनयं लेभाते व्रज-राजौ । यस्य च पितराव् अतिसरलाव् इति जगति समन्ताद् वित्तम् । चतुर-शिरोमणि-वरता यस्य च वशयति जगतां चित्तम् । सर्वः स्निह्यति ममतां सचयति घोषो यत्र सदैव । मातर-पितरादिकम् अभिमनुते यश् च न सर्वं नैव । व्रज-पति-वंशे यादृङ् न भवति नाभूद् अत्र कदापि । सोऽयं गुण-रूपादिकम् ईदृग् भजते चारु सदापि । यस्य च लब्धाव् अपि धनि-मानी स्वयम् अपि सर्वं दाता । वृषभान्व्-अन्वय-लक्ष्मीं येन च याचयते व्रज-याता ॥ इति ॥२६॥
[१५] अथ मधुमङ्गलः प्रजजल्प—ही ही दासी-तनूजाभिर् आभिरं मदीय-युवराजाय गालिर् एव दीयते । तस्माद्द् आसां शासनार्थम् एता एव तेनानेनादौ दासीतया ग्राहयितव्याः, बाढं पश्चाद् एव तु भार्यातया कन्या इति ।
[१६] अथ बटुर् अयं कटु-भाषी गृह्यतां गृह्यताम् इति तासां वचनं कर्णे रचयन् श्री-व्रजराज-समीपं जवाद् आजगाम । आगम्य च जगाद—क्? अधुना पलायध्वे ?
[१७] यदि चाहं मित्रेण सह गत्वा तत्र तत्र सहकृत्वा राज-युद्धा चाभविष्यम्, तदा व्रज-संवलनाय क्? एतावान् विलम्बः सम्भवम् अवाप्स्यत् । सम्प्रति च सहकृत्वर्यः ! सन्त्वर्य पूर्वथास्माकं विस्मापकताम् इति ।
[१८] तद् एवं हास-कोलाहले वहले प्रबले क्षण-कतिपयं सर्वम् अन्यद् विस्मृति-मयम् आसीत् । ततश् च—
पीठं स-वस्त्र-द्वय-यज्ञ-सूत्रकं पाद्यादि-दत्तं श्वशुरेण सूत्तमम् । जग्राह कृष्णः पृथु-शर्मणा स तु त्रपाम् अवापात्र विदन्न् अयोग्यताम् ॥२७॥ यदा च पीठं श्वशुरेण दत्तं तदेप्सितं प्राप्तम् अमंस्त कृष्णः । सन्-मान-मात्राद् अतिथिः स्व-भोज्य- प्राप्तिं विनिश्चित्य मुदं प्रयाति ॥२८॥ यदा च मन्त्रेण स गां समर्पयां- चकार जामातरि तर्हि सोऽप्य् अदः । तेनैव वक्ति स्म मुदा सदाप्य् असौ तृणं सवार्यत् तु न चान्यद् अर्हति ॥२९॥
ततश् च—
स्वाभीष्टं वरम् उपलभ्य हृष्ट-चित्तः कर्तव्यं प्रति वृषभानुर् अस्मृतात्मा । स्वैर् एव स्फुटम् इह दारु-यन्त्र-तुल्यश् चाल्यत्वं दधद् अथ कार्यम् अर्जति स्म ॥३०॥ आनर्च व्रजपति-मुख्य-मुख्य-वर्गं दिव्यैस् तैर् अथ वृषभानुर् अर्थ-जातैः । किं तस्मिन् यद् इह मुहुश् च नर्म-जातं तच्-छर्मावहत यथा तथा परं न ॥३१॥
[१९] अथ मस्तकम् अवधूनानः स मधुमङ्गलस् तत्र चाह—तद् इदं कञ्ज-नयन-परिणयनं मम पुनर् अतीव मङ्गलम् अङ्गयति स्म । यद् एतावन्तं समयम् अयम् अहम् एव वैहासिक इति सर्वे बभाषिरे । सम्प्रति तु मद्वद् एव ते सम्प्रतीतिं गताः इति ।
[२०] तद् एवं स्थिते मङ्गलाष्टक-पाठे चानुष्ठिते, परमानुकूलं गोधूअम् उपलभ्य समुपलभ्यमान-सुखतया सकल-शुभ-रूपं वरम् अन्तः-पुरम् अन्तरङ्ग-सहितं पुरोहित-सहितं वृषभानुर् निनाय ।
[२१] नीते च तस्मिन् परमाभिनीते वरे सर्वा एवान्तःपुर-वनिता ध्वनिताभरणाः सर्वतः समुदिता मुदिता बभूवुः । ततश् च—
चित्राज् जामातृ-भावाद् द्रव-मय-कुतुकाद् आदराद् अप्य् अमूषां वृन्दं तत् तद् विचित्रं सपदि तम् अगमद् द्रष्टुम् उत्कण्ठ-दृष्टि । माता श्री-राधिकायाः स्वयम् अथ सवयः-सङ्गता दूर-देशाद् रत्नैर् नीराज्य-निर्मञ्छितम् अकृत निजेनोत्तमाङ्गेन चाङ्गम् ॥३२॥
[२२] अथ वरं वरम् आसनम् उपवेश्य गोधूल-मूल-देश्यम् अनु सर्व-शिरोमणि-कन्या-सुधन्यां पुरन्ध्रयस् तस्य परिक्रम-क्रम-शस्तां तत्-पुरस्तान् मिथः सम्मुखतया निवेशयामासुः ।
आनीयमानाम् अवलोक्य कन्यां उच्चासनस्थां तु वरानुयाताः । तद् ऊर्ध्वम् उन्नम्य वरं स-पीठं सहास-खेलं मुहुर् उन्नन्दुः ॥३३॥
[२३] मिथः सम्मुखतया जाते तु निवेश-शाते समय-विलम्बम् इवासहमाने सहमाने वर-कन्ययोर् इन्द्रनील-सुवर्ण-सवर्ण-सान्द्र-वर्ण-ज्योत्स्ना-द्वये तथा स्फुरद्-उत्पल-कमल-परिमल-सम-परिमल-द्वितये च व्यतिमिलिते सुख-शिथिलिते च तयोर् अङ्गे स्तब्ध-तत्-प्रसङ्गे च तत्रकीय-सङ्घे तद् इदम् आसीत्—
द्रष्टुं समर्थे गुरु-संसदि स्फुटं नैवेति नेत्रे वर-कन्ययोर् मिथः ।
शक्तिं समादाय मनः-स्थितां तदा निमीलनेऽपि स्फुटवत् प्रतीयतुः ॥३४॥ यद् अपि मीलितम् अक्षि-युगं तयोर् मिलित-चित्तम् अभून् मिथ ईक्षितुम् । तद् अपि मीनवद् उच्छलद् एव तद् बहिर् अपि व्यत्वीक्षितुम् ऐहत ॥३५॥
[२४] अथ मुहूर्त-विदः कांस्य-वाद्येन वैवाहिक-मुहूर्तं शशंसुः । ततश् च सेयं पितृ-प्रसू-निखिल-सुखानां पितृ-प्रसूर् जाता क्षणदा च क्षणदेति विविच्य हित-मनसि समस्त-सदसि कृत-विहितः पुरोहितः समधीत-सर्व-तन्त्रः स्फुट-पठित-तन्-मन्त्रः कन्या-विश्राणनं प्रति निज-यजमानं नियोजयामास । ततश् च—
कम्प्रेणार्द्र-करेण साश्रु जनकस् तस्याः करं कम्पितं कम्प-भ्राजि-करे हरेर् विनिदधे यर्ह्य् उल्लसल्-लोचनः । तर्ह्य् एवान्वहं नव्य-भव्य-विभव-व्यञ्जि-प्रथा-सञ्जकं वाद्यं प्रादुरभूद् भुवि द्वयि च यद् विश्वाभिवाद्यं बभौ ॥३६॥
[२५] तद् अनु च गवादीनां दाने परमावदाने सति—
अथात्र कोऽदाद् इति मन्त्र-वाच्यं पाणि-ग्रहे तस्य न कोऽप्य् अजानात् । दातृ-ग्रहीतृत्वम् अनूक्तम् अस्मिन् कामस्य यत् तद्-वर एव वेद ॥३७॥
[२६] अथ शुभ-समयोऽयम् ईक्ष्यतां तन्-मिथ इति गौरव-यन्त्रणान्य-तन्त्रौ दृशम् अपि नव-दम्पती किरन्तौ सुखम् इव रक्षितुम् अत्र मीलितः स्म ।
अन्यत्रापाङ्गताम् आगाद् अपाङ्गस् तद्-दिनावधि । स राधा-कृष्णयोर् यस्मिन् मिथः-सङ्गेन साङ्गितः ॥३८॥ आदिष्टौ देवतां ध्यातुम् आचार्येण वधू-वरौ । तयोर् मिथस् त्व् एक-सर्ग-मनस्त्वं विविदे न हि ॥३९॥
[२७] अथ तद्-उल्लासेन मङ्गल-गानं कुर्वति समम् अङ्गना-सङ्घे तेनान्तरङ्ग-जनेन सा कन्या वरस्य सन्निहित-न्यासेन धन्या विदधे ।
[२८] यद्यपि सम्प्रति नव्या हरि-रमयोः सा किशोराभ्युदिता, तद् अपि विवाहे तस्मिन्न् अतिसङ्कोचात् कुमारतेवासीत् ।
[२९] तत्र गानं, यथा—
अद्य समस्तं सफलं जातम् । श्री-राधाया विवहनम् इह यच् छ्री-कृष्णेन विभातम् ॥ध्रु॥ तस्या जननी-जनक-महा-कूलम् अपि लोकानां स्व-कूलम् । अपि सम्पत्-कुलम् अपि लीला-कुलम् अपि सवयः-कुलम् अतुलम् ॥ तत्र भाव-कुलम् अपि सङ्गति-कुलम् अपि कुलम् अपि विरहाणाम् । पुनर् अपि सङ्गति-शुभ-कुलम् अपि कुलम् अविरत-सुख-निवहानाम् । श्वश्रू-श्वशुर-सुखान्वयम् अस्या गास्यामः सखि किलकम् । एनाम् अपि परि परिणयि जातं तद् इदं तत्-कुल-तिलकम् ॥४०॥ इति ।
[३०] तद् एवं जात-मिलनं तन्-मिथुनम् अन्येनान्यद् इव मन्यते स्म, यतः—
यद् अपि च कनक-विलासा, राधा कृष्णश् च जिष्णु-नीलाभः । तद् अपि च वैदूर्याभं तद् युगम् ऐक्षि व्यतिद्युतिभिः ॥४१॥ इति । एवं तयोः सापर-भाग-लक्ष्मीर् विष्कम्भितान् सर्व-जनान् अकार्षीत् । वैवाहिकं कार्यम् अनन्तरार्हं यथा न ते कर्तुम् अथाक्षमन्त ॥४२॥ गुरोर् अथाज्ञाम् अनुगम्य दम्पती मान्यानुबद्धाञ्चलता-मिथः-स्थिती । प्रदक्षिणी-कर्तुम् अमू हुताशनं समुत्थितौ सर्व-तनूरुहैः सह ॥४३॥ प्रदक्षिणावर्तम् अमू हुताशनं प्रदक्षिणं चक्रतुर् अत्र दम्पती । ततस् तद्-आवेश-वशेन निर्ममुः सर्वस्य नेत्राण्य् अपि तं प्रदक्षिणम् ॥४४॥ जनेन सङ्कीर्णतया न शेकतुर् मिथो विदूरे गतये वधू-वरौ । स्पृष्टिश् च धृष्टिं तनुतेतराम् अतः परिक्रमे तौ ययतुर् विमूढताम् ॥४५॥ गुर्व्-आज्ञया यर्हि स-गर्भ-दत्तान् लाजान् जुहावाग्थ वरायताक्षी । तदा सलज्जं कर-पद्मम् अस्या गतागतेनाप तडिद्-विलासम् ॥४६॥ लाजैर् होमेषु पृष्ठात् कर-युगल-धृतिः सुभ्रुवः स्कन्ध-देशा- लम्बः स्पर्शश् च वक्षः-स्थलम् अभिदयिते नेति यद् यत् प्रदिष्टम् । तद् वक्तुं नेश्महे किं कृतम् इति सहसा यत्र वक्तुश् च लज्जा सज्जेत् तद् वा क्? स स्वयम् अथ कुरुताम् अन्तरा पारवश्यम् ॥४७॥ कन्याया दक्षिणाङ्घ्रिं दृशदम् अथ वरः स्पर्शयेद् दक्षिणेन स्वेनाल्पां पाणिनेति श्रुतिभिर् अभिहितं निर्मिमाणः स एषः । पूर्वं गोवर्धनाद्रिं यद् अपि च धृतवान् अश्रमेणेति वित्तश् चित्रं चित्रं तथापि प्रचल-करतया नात्र शक्तिं जगाम ॥४८॥ स एष वां राजति दम्पतित्वे हुताशनं साक्षि-पदं दधानः । एवं गुरुः सोऽयम् उवाच तत् तु स्वभाव-सिद्धं न तयोर् विवेद ॥४९॥ ततः साप्तपदीनस्य सिद्धये सप्त यान् क्रमान् । अतिक्रान्ताव् अमू कान्ताव् अमून् लोकान् वितर्कय ॥५०॥
[३१] अथ सप्त-पदी-क्रमे परिक्रमे च लब्ध-क्रमे ध्रुव-विलोकन-शातं जातम् इति पत्न्या तत्-प्रच्छकाय पत्ये सत्येनासत्येन वा वक्तव्यम् इति स्थितिं सेयम् अपूर्व-व्यवस्थितिम् आचचार । तथा हि—
यदा पृच्छन् नीचैर् ध्रुवम् इह किम् आलोकितवती त्वम् इत्थं कान्तस् तर्ह्य् अनवदधती ह्रीभिर् अपि खम् । तथा सेयं मिथ्याप्य् अनभिदधती तर्हि परमं ध्रुवं मवाना तं लव-मल-पदालोकयम् इति ॥५१॥ तद् अनु वर-वधूभ्याम् अग्र-पश्चात् स्थिताभ्यां अनमि पशुप-राजः प्रच्छदेनावृताभ्याम् । यद् अनु नतिम् अवाप्तास् तेऽपि सर्वे सभाज्याः सदसि नमनम् एकं कोविदैर् यद् व्यधायि ॥५२॥ तनयम् अथ शुभाशीर् अञ्चि-निर्मञ्छितं द्राग् अरचयद् अथ गोपाधीश्वरस् तां स्नुषां च । यद् अनु मुखम् अमुष्याः सत्-प्रचारेण पश्यन् वृषरवि-कुल-विप्रान् दान-वृन्दैः पुपोष ॥५३॥
[३२] ततश् च परम-मधुर-वर-वधूभ्याम् अभ्यास एव चतुरस्र-वेद्यां कनकासने कृतासने स्त्री-कुलाचार-प्रचार-समयः सोऽयम् इति सर्व्७ पुरुष-वृन्दे च बहिर् विन्दमाने श्वश्रू-प्रधाने गणे चार्द्राक्षतरोपणाय कृताभियाने वर-वशी-करणाय काभिश्चित् कार्मणं कर्म सनर्म सशर्म च समारब्धं, मर्म तु नोपलब्धम् । तथा हि—
राधा दृशोः श्रवणयोर् अपि यस्य राधा राधा नसोर् मनसि च प्रतिभाति राधा । तं कार्मणेन तु तदीय-वशं विधित्सुर् नारी-गणः स जहसे बत मर्मविद्भिः ॥५४॥ आचाराद् अथ दयिता-कचान्तराले सिन्दूरं निदधद् असौ वरो ललज्जे । श्वश्रूणां परिषदि तत्र धार्ष्ट्य-योगात् कम्पेन प्रतिपद-तत्-क्रिया-हेतोश् च ॥५५॥
[३३] अथ तत्-तत्-कर्मणि भोजन-नर्मणि च लब्ध-शर्मणि शय्या-पर्यापनाय याचितः श्रीपतिर् अपत्रपया भोजनादि-महित-बहिर् विहित-सभ-स्वहित-पितृ-पितृव्यादि-हलभृद्-उद्धवादि-सहित-स्वजन-जन-मध्यम् एवासीदति स्म । यत्र गण-चक्रके नर्म-चक्रं मधुमङ्गलः सङ्गमयन्न् आस्ते । अन्तःपुरे तु—
रवि-सख-तनया-गुरूपदेशाद् विजन-गृहं गमिता निज-प्रियाभिः । हैस्तम् अनु रुषेव तत्र निन्ये वर-हृत-धी रजनईम् अमूम् अमूभिः ॥५६॥
[३४] मधुमङ्गलस्य तु नर्म, यथा—
रूक्षास्यताम् अपि यदा मधुमङ्गलोऽसौ तद्-भोजनादि-महसि छलवान् उवाह । सर्वस्य हास-विभवाय तदापि जज्ञे यर्हि प्रहास-मुखतां किम् उताङ्ग यर्हि ॥५७॥
तथा हि—
यद् व्यञ्जनं व्यञ्जित-वेश-वारकं स्व-भागम् अस्मिन् किल रूक्षतां दधत् । प्रसन्नताम् अन्यतरत्र चासकौ वैहासिकः सग्धि-जनान् अजीहसत् ॥५८॥
[३५] कृते च भोजने कञ्जनेत्रः स्वजनेन सह नाना-नृत्यादि-कौतुकेन स्वयं जाग्रद् एव रात्रिम् अपि जाग्रतीम् इव चकार । यत्र चान्तःपुरम् अपि तद्वद् आनन्द-धुरं बभूव ।
[३६] तद् एवम् अतिचित्रायां रात्राव् अतिवाहितायां शुभ-प्रभातेन चातिहितायां स निज-समाजः श्रीमान् व्रजराजः स्नेह-बन्धिनं स्व-सम्बन्धिनं प्रति स्वस्य गृह-प्रस्थानाय गृहीतवान् । श्रीमान् स च वृषभानुर् वृषभानुर् इव भुवन-द्रव्याणि सङ्गृहीतवान् । पर्जन्य-सन्ततये च पर्यर्पितवान् इति कृतं वर्षा-साराणां हर्षाधाराणां तेषां गणनया यानि नेत्रयोर् इव श्रोत्रयोर् अपि शर्म निर्मान्ति स्म । यत्र च—
द्वैतेनास्मिन् विवाहे व्रज-धरणि-पतिर् जन्य-यात्रा-विभूतेर् लब्धेन श्री-विराजद्-वृषरवि-निलयात् तोषम् उच्चैर् जगाम । किन्त्व् आसाद्य द्वितीयां निज-तनुज-तनोस् तत्-तनूजात-लक्ष्मीं तच् चाशेषं तथा तन्-निज-गृह-वलितं व्यस्मरत् किं च विश्वम् ॥५९॥
तत्र तु—
दुहितुर् उपरि माता तत्र तातश् च बाष्प- प्रसर-कृद् अलपद् यल् लुप्त-गीस् तत् तु लोकः । वितरणम् अनु तस्या जातम् इत्य् अध्यगच्छत् पुरु-कदनम् अभूद् यत् प्राक् तद्-उत्थं न वेद ॥६०॥
[३७] ततश् चान्तः-पुरं जामातरम् आनाय्य स खलु न्याय्य-चरितः पुनर् अपि परितस् तं परिष्कृत्य मधुर-भोजनादिना सम्भृत्य स्व-पत्न्या सम्मन्त्र्य स्व-कर-गृहीत-तत्-करतया तातेति तम् आमन्त्र्य तद् इदं सास्रम् उवाच—सेयं मम बालिका बाल्याद् एव जलताम् अवलम्बमानावलोक्यते । तस्माद् अस्मिन् दोषे तु न स्वयं सरोषेण भवितव्यम् इति ।
[३८] श्लोकयन्ति चात्र—
जामातर् बत कृष्ण सा स्व-तनुजा त्वय्य् अर्पिता त्वत्-परा किं त्व् अस्यां सहतां भवान् करुणया दोषं तम् एतं मुहुः । धीमत्याम् अपि तात जाड्यम् इव यद् बाल्याद् दरीदृश्यते यत्रावां पितराव् अपि स्फुटनमू विद्वः स्म हेतुं न हि ॥६१॥
[३९] तद् एवं स धन्यात्मा बहु-सद्-व्यवहारेण मुहुर् अपि तं सन्तर्प्य पुनश् च तस्मिन् कन्यां समर्प्य पुत्रान् अपि समर्पितवान् । क्? अपि दुहिता जामातराव् अतिकातरात्मा पुनस् तादृश-विसर्जन-वितराय सम्प्रदानीकृतवांश् च ।
[४०] अथ जामातरि तत्-तत्-प्रणामादि-पुरःसरं बहिर् आयाते दुहितुः संवस्त्रण-शस्तं मस्तकं यौगपद्येन पितराव् आश्लिष्य चक्षुः-पयसा स्नपयन्तौ प्रशंसन्तौ च सास्रं शशंसतुः—
भर्तारं धिनु चेतसान्वयितया श्वश्रूं वधू-कर्मणा तन्-नाथं सुचरित्रता चित-ह्रिया सर्वांश् च कीर्ति-श्रिया । किं शिष्मस् त्वयि पुत्रि या स्वयम् अमूंस् तत् तत् तया जानती कृष्णाद्यान् अपरेषु थूत्कृतिम् अधास् तत्-तद्-भ्रमं धर्तुम् ॥६२॥
ततश् च—
आर्या मातृ-पितृष्वसृ-स्वसृ-मुखा नेत्राम्बुभिः सम्प्लुताः पर्याश्लिष्य पृथक् प्रतिस्वमपृथग् मङ्गल्य-सङ्गीतयः । उद्यद्-गद्गद-मित्र-चित्र-गदिताः पूर्णास्रम् अस्या मुखं पश्यन्त्यः क्? अप्य् अमूम् अनु प्रस्थापयाञ्चक्रिरे ॥६३॥
[४१] तथानु कान्त-गन्तृ-दुकूल-परिवृत-सुख-गमनानुकूल-गन्त्रीम् अनु तां कुलजां वधूं गन्त्रीं विधाय श्वशुर-कुलेन प्रहीयमाणाम् आदाय कुल-द्वय-सङ्कुलतया पूर्वाद् अप्य् अपूर्वं वाद्यादि-पर्व सन्दिधाय गृहाय कलित-व्राजे व्रज-युवराजे तद्-उपरि तथा पर्व विदधाने च सुपर्व-राजे द्याव्-आपृथिव्याव् आत्मनोर् अभेदम् एव वेदयाम्-बभूवतुः ।
विप्र-स्तावक-सूत-मागध-नटादीनां गणं दुर्गणं तद्-वासस्य बहिर् निरूप्य सहसा मृश्यापि गोपाधिपः । वृष्टिं तत्र धनस्य तावद् अकरोत् ते यावता वारशस् तद् वोढुं न हि शेकिरे किम् अपरं रात्रिं तथा भेजिरे ॥६४॥ श्रुतेऽभिलषित-स्नुषा-वलित-पुत्र-सङ्ग-स्फुरद्- विचित्र-वर-वादने व्रजपतेर् गृहाधीश्वरी । जडीकृत-शरीरता-विधुत-शक्तिर् अप्य् उन्नमद्- दयावलि-बलात् परं भविक-कार्यम् आचीचरत् ॥६५॥ यशोदा पूर्णिमा-तुल्या रोहिणी प्रतिपत्-तुला । तदाजनि ययोः सङ्गस् तत्र पर्वतयाजनि ॥६६॥
[४२] यत्र शस्त-वस्त्र-समास्तृतानां पथाम् उभयतः श्रेणी-कृतानां नव-प्रसव-समावृतानां तरु-जातिषु समादृतानाम् अधिमध्यम् अध्यमध्यस्तां पल्लव-ग्रस्त-मुखीं पूर्णां गर्गरीं गर्गरीम् अभितः प्रदीपान् परिजना दीपयामासुः । यत्र च मधुकर-निकर-झङ्कार-व्याजेन तादृश-तरु-गर्गरी-वर्गश् च मङ्गल-गानम् अङ्गीकरोति स्म । यल्-लोभात् किल क्षोभाविलतया सुरभी-कृत-समीपाः सर्पिर्-दीपाः कज्जल-धारा-मोचन-व्याजाद् अपर-मधुकर-व्रजं सञ्जगृहुः । दीप-वृक्षास् तु ध्वज-भृद्-व्रजा इव सकज्जल-ध्वजा भान्ति स्म । यच्-छोभा-लोभावृत-मनसः सुमनसस् तत्र सुमनसः ससृजुः ।
तत्-तत्-स्थानस्य नाम्ना कलयति तु जने जन्य-वाद्यं क्रमेण प्रोद्यत्-कोलाहले तद् द्रवति सुख-वशाद् द्वारम् आप्ते वरेऽपि । यद्वच् छ्री-राधिकागान् निज-दयितवती तद्वद् अन्याः सजन्यं संसज्य स्वं तम् एकं पतिम् अनु सदनस्यासदन्न् अग्र-देशम् ॥६७॥ मुररिपुर् इह वाद्य-पुष्प-वर्ष- प्रथित-सुखेन सुखेचराभिगीतः । मुहुर् अपि मिष-लोकित-स्व-कान्ता- स्थिति-लसद्-अन्तर-यान आजगाम ॥६८॥ स्पर्शं स्मरन्ती हुतभुक्-परिक्रमे लब्धं हरेर् मुद्रितया न मध्यगा । तस्य स्फुरन्तं च करं नुदन्ती श्री-गोप-पातुर् जगृहे गृहं वधूः ॥६९॥ निज-जनि-सदनाद् व्रजेश-गेहं वृषरविजा प्रविवेश दिव्य-वेशम् । उदय-गिरि-वरस्य पूर्व-देशाद् विधु-वर-मूर्तिर् इवान्तरिक्ष-मध्यम् ॥७०॥
[४३] तद् एवम् एवापरासु श्री-कृष्ण-पति-व्रतासु सर्वासु चार्वागागतासु लोकेषु च स-पुलक-कुलं दत्तावलोकेषु—
ता नन्द-नन्दन-व्यूढास् तदा नन्द-पटावृताः । इत्य् अमरःअ-घटया मूढाश् चित्य् अमरःअं पर्यनन्दयन् ॥७१॥
[४४] मधुमङ्गलस् तु जात-सुख-मङ्गलं सर्वान् अर्वाग् आदाय दुन्दुन्दयद् इति दुन्दुभि-वाद्यम् आस्वाद्यम् आधाय नर्तनं वर्तयामास ।
[४५] ततश् च श्री-कान्तम् अग्रे विधायान्तःपुर-स्थलेऽतिविस्तीर्ण-गणतायाम् अपि सङ्कीर्णतां विना यान-यानाद् अवतीर्णवतीषु स्नुषा-ततिषु जिष्णु-चाप-पुरस्ताद् वर्तिष्णु-सवारिद-शोभा-लोभनास्पदं बभूव ।
[४६] यत्र च शोभित-सर्वावल्यो राधा-चन्द्रावल्योः श्री-कान्तस्य तस्य सव्यापसव्य-संवलितयोस् तत्-कान्ति-सङ्क्रान्ति-शवलितयोः प्रतिच्छवि-परस्परया पर-परासु च दर्शित-निज-व्यूहावलिकायास् तयोर् विभुताम् इवान्तः-पुर-लोका विलोकयन्ति स्म । तास् तु सर्वास् तद्-एक-पत्न्यस्श् चैक-पत्न्यश् च निज-निज-प्रान्तम् अनु तं कान्तम् एवेति स्थिते—
आगच्छद् व्रज-वर-राज-गेह-लक्ष्मीर् नीराज-क्रम-विधये सुत-स्नुषाणाम् । मुग्धात्मा भवद् इह रूप-दिग्ध-चिन्ता- दुग्धानि स्तन-युगलाम्बराद् अवोढ ॥७२॥ आरात्रिकं न खलु सङ्गम् असौ विदध्याद् आरात्रिकं विरचयेद् बत यद्यपीति । तस्याः सकम्प-कर-पल्लव-धारिणीभिः पर्यापितं पुनर् अदः सहचारिणीभिः ॥७३॥
[४७] रोहिणी तु तद्वद् एव स्नेह-मोहिततया सहचारिणी बभूव, न तु साहायकतयेति स्थिते तस्मिन्न् आरात्रिके स सुस्थिते—
उपनमद् अनमच् च स्वैर-नीराजनाया मणि-ततिर् इह कृष्ण-प्रेयसीनां मुखाग्रे । अपि किल शशि-वृन्दान्य् अत्यपूर्वाणि वीक्ष्य व्यतनुत ननु तारा-मण्डलं ताण्डवानि ॥७४॥
[४८] अत्र च महिला गायन्ति स्म—
अहो पश्यथ चित्रं गोप-कुल-राजि-महिमानम् । य इह सुत-कर्मणे परिनयन-शर्मणेऽ चिनुत कमला-गणम् अमानम् ॥ यद् अनु किल राधिकां निखिल-सुख-साधिकां अचित सकल-समुदय-सारम् । अधियद् अपि भव्यता मुहुर् अपि च नव्यतां वहति बहल-फलम् अपारम् ॥ उचितम् अपि तादृशं स हि तनयम् ईदृशं लब्धम् अरचयद् अमल-रूपम् । अपर-हृतम् अप्य् अलं प्रणय-कृत-सद्-बलं स-बलम् अपहृत निज-कुल-भूपम् ॥ त्रिजगद् अतिचारकं हृदयम् अभिभारकं धर्तुम् अभितोऽपि न शक्यते । तद् इह परमं सुखं विवह-नाद्यम् उन्मुखं हृदि वसतीति च वितर्क्यते ॥७५॥ इति । यदा च ता हरि-परिणीति-सम्भृता- रमादृताव्रज-पति-वासम् आगताः । पुरा यथा न्यधित हरेर् न जन्म तत् तदा तथा न्यधिगत वैभव-श्रियम् ॥७६॥
[४९] अथ मातृ-तद्-यातृ-प्रभृतयः सुत-स्नुषा-मुख-तुषार-करं मुहुर् विलोकिती-कृत्य मुहुर् अलङ्कृतीकृत्य मुहुर् निर्मञ्छितीकृत्य च दृग्भिर् अमृत-धारां वर्षन्ति स्म । ततः कमल-लोचनः सङ्कोचान् निज-मोचनाय मातुः प्रणम्य रम्य-वर-वेश एव व्रजेश-विभ्राजित-देशम् आससाद । श्री-व्रजेश्वरी तु नन्दित-सर्व-बन्धूनां नव-वधूनां तत्र च सर्वाधिकायाः श्री-राधिकाया बहुधा लालनं विदधती नावधिम् अवाप ।
[५०] तत्र श्री-राधिकाया, यथा—
ताम् एकां मुहुर् आर्द्रयन्त्य् पि वधूम् आर्द्रीचकारान्तिकान् सान्निध्याद् द्रवताविधायि-गुणया नद्येव सर्वान् अपि ॥७७॥
[५१] श्रीमान् विधुस् तु पूर्ण-वर-शोभालोभायन-शिति-रूपतया जात-गौराम्बर-च्छवि-जित-जात-रूपतया नक्षत्र-माला-संवलक-ज्योति-स्तूपतया च यदा स्फुटम् उद्गच्छति स्म, तदा पारावार-वहित-लोक-वार-वारां निधिर् उल्लोल-कोलाहलं कलयति स्म ।
आशीर्वाद-नति-स्तुति-श्रुति-गिरां संवीत-विद्या-श्रियां वाद्यानां च दिवस्-पृथिव्य्-अनुगत-प्राबल्य-भाजां तदा । यः शब्दस् तुमुलः स तु स्वयम् अपि प्रत्यङ्गम् अप्य् एकतां कृष्णार्थं विदधद् दधार भगवच्-छास्त्रस्य तुल्य-स्थितिम् ॥७८॥
[५२] अथ तत्र व्रजराजस् तेन विराजमानतया निविश्य दिश्य्-अदिश्य्-अगुणि-जनानां गुण-गणम् आविश्य तेभ्यश् चालभ्य-धनानि प्रादेश्य बन्धु-जनान् निज-वेश्म प्रवेश्य नाना-रसं नाना-रसम् अपि निर्वेशयामास । तत्र च—
भोग्यानाम् उत भोग्यानां सङ्ख्या सङ्ख्यावताम् अपि । सङ्ख्यानाय च कल्पेत कल्पे तत्रापयात्य् अपि ॥७९॥
[५३] तद् एवं दिव्य-पक्षिण्याम् इव चमत्कारं लक्षयित्वा गतायां तस्यां पक्षिण्यां, सुखदे वृत्ते च वृत्ते सद्-वृत्तेन श्री-व्रज-राजेन सह सर्व एव विवाह-पर्व-सङ्गताः परार्धम् अतीत्य वर्धमानाः सार्ध-दिवस-त्रयम् अधिकृत्य समर्ध्यमाना बभूवुः । तद् अनु च तास् तु हरि-नयना हरि-परिणयनाल् लब्ध-गर्वाः सर्वाश् चतुर्थ-दिन-कर्मणा लब्ध-शर्मताम् अवापुः । तत्र च—
राधा-माधवयोः समासन-युजोस् तुर्योऽह्नि पाणि-ग्रहात् तत्-स्नानं वसनं विलेप-रचनं माल्यं मणीनां कुलम् । निर्मञ्छावलिम् अन्वनेकम् असकृन् नीराजनं ध्यायतः स्वान्तं मे सुखतां प्रयाति न सुखं भिन्नं क्वचित् पश्यति ॥८०॥ समशनम् अधाद् यत् तत् क्रियाचार-लब्धं मिथुनम् इदम् अजैषीद् द्यूतके यन् मिथश् च । तद् इदम् उभयम् आसीन् नाद्भुतं यद् व्यतिस् ते सतत-वलित-सर्गे भोग-वर्गे जये च ॥८१॥ यः स्यात् कङ्कण-मोचनाख्य-कुतुके प्रेयान् प्रिया वा जनस् तद्-ग्रन्थि-व्यतिमोचने द्रुततरः श्रेयान् स इत्थं प्रथा । तत्र श्री-युत-राधिका तु दधती लज्जां विलम्बान्विता चक्रे स्व-प्रभ-कम्प्रतां गतम् अपि स्वं कान्तम् अग्र्य-क्रियाम् ॥८२॥ वीक्ष्य ब्रह्म-शिवादयः परिणयं कृष्णस्य नाना-विधं यद् यद् वस्तु विचिक्यिरे बहुतरं तत्-प्रीति-दानं प्रति । तत् तु श्री-व्रज-जन्मनाम् अतिमति-प्रीतिं तथात्मावधि श्रीमद्-दानम् अवेक्ष्य ह्रीभिर् अखिलं निर्मञ्छनं निन्यिरे ॥८३॥
[५४] अथ पञ्चमेऽहनि निमन्त्रण-प्रपञ्चम् अञ्चन् पूर्ववद् एव स-वधूकः सह बन्धुभिः प्रति श्वशुर-गृहम् असुर-मर्दनः स-सुखम् अर्दति स्म । तत्र च सम्भोजन-पर्वानन्तरम् अम्होज-लोचनः सर्वासाम् अपि तासाम् अर्वाचीन-वधूनां केलि-कुञ्चिकादि-कुञ्चित-नयनाभिः सञ्चित-सर्वानन्द-नर्म-द्वितीयानयन-पर्वानुभूय भूयश् च गृहम् आजगाम ।
[५५] यत् पर्व चारभ्य साङ्ग-सभ्याङ्गनानिमन्त्रणया प्रेम-परतन्त्रतया च मुहुर् अभ्यर्णतया माया-रचित-समाधान-मय-राधादि-साधारणकायाश् च ताः श्री-वल्लभ-संवलित-राधादि-वल्लवीनां तन्-मातर-पितरादीनाम् अपि प्रीत-दान-पात्री-बभूवुः । यतः पूर्वम् एता एवास्मन्-मर्यादां पर्यापयामासुर् इति । ततः सख्यादि-प्रख्यां प्रीतिं प्रख्याययामासुः ।
[५६] स्व-पाणि-ग्रहणानन्तरं यथावसरम् अन्यद् अपि कौतुकम् अनुभूतवान् अननुभावितवांश् च, यत् खलु स्वापेक्षया कौमार एव स्थितानां श्रीदामादीनां विवाहनम् इति ।
[५७] अथ स्निग्धकण्ठः समापनम् आह स्म—
तत् पर्व व्रज-दुग्ध-सिन्धुज-रमा-पाणि-ग्रहाख्यं हरेर् आलोक्यापि सरस्वती स्वयम् अपि श्लोकेत न ह्य् अण्व् अपि । तर्ह्य् अन्ये कवयः क्व वा स्थिति-पदं गच्छेयुर् एवं स्थिते तत्रानन्वयि वर्णनं रचितवान् आत्मा मम हृइच्छति ॥८४॥
तत्र च—
यद्यप्य् अभूत् तत्र विचित्र-सुभ्रुवां कृष्णेन पाणि-ग्रहणे सहायकः । तथापि मासः स विभाति दृश्यतां राधाख्यया माधव-सञ्ज्ञयापि ॥८५॥ माधव-स्वच्छ-पक्ष-श्रीः सा जीयाद् वर-शर्मदा । विधु-राधा-युग्म-भावे निर्बाधान्तर-दूतिका ॥८६॥
[५८] अत्र मधुकण्ठः सानुशयम् आह स्म—हन्त यद्यपि सर्व-शन्तमं सन्ततम् एव सन्ततं तथाप्य् अस्मन्-मनः कम् अपि मनस्-कारं विना विकारम् आसीद् इति । यद् वृन्दावनीय-रासादि-विलासानन्दिन्याः कालिन्द्या द्वारकावरोध एव रोधाय कल्पते स्म ।
[५९] स्निग्धकण्ठ उवाच—भ्रातर् मात्र तिल-मात्रं तृप्तेर् अपात्रं मनः कृथाः । तस्याः खलु विशाखा-रूपेणात्र वर्तमानायाः शाखान्तरम् एव तत्र वर्तते, या च गोप-कन्या-रूपेणातीवात्र धन्या विभाति इति ।
[६०] मधुकण्ठ उवाच—विशाखा का? अत्र गौरी दृश्यते, यमुना खल्व् अन्यत्र श्यामा परामृश्यते इति ।
[६१] स्निग्धकण्ठः स-स्मितम् उवाच—श्री-राधिका वेश-साधिका तद्-आवेशाधिका सा पेशस्कारी सङ्गृहीत-शलभी-भावं लभते स्म, यथा प्रतिकल्पं जन्म-तारा-साधारणताम् अपि तन्-नामाभेद-कारणताम् आनयति इति ।
[६२] अथ पुनः समापनम् आह—
राधा-माधवयोर् विवाह इह यः काव्यस्य निर्वाहना
स्वस्त्य्-अर्थं निहितः तयोश् च स भवेद् रागस्य निर्वाहकः ।
रागः सोऽप्य् अनुपद्रव-स्थिति-मिथः सङ्गास्पदस् तत् त्यजन्न्
आत्मीयास्पदम् अन्तरा विवहनं दध्याद् वृथा-जन्मताम् ॥८७॥
[६३] तद् एतद् उपलक्षणतयान्यासाम् अपि तद् उपलक्ष्यम् । तत्र च पूर्वार्धम् एव परिवर्तनीयम्—
दाम्पत्यं व्रज-सुभ्रुवाम् अघजिता यज् जातम् एतत् परं काव्यस्य प्रथितेन निर्वहण-कृत् किं त्व् एषु रागस्य च । इति ॥ तद् एतद् आकर्ण्य तु वर्ण्यमाणं विवाह-वृत्तं चिर-काल-वृत्तम् । ताम् एव साक्षाद् इव वीक्ष्य रात्रिं रहस्य् अमू धामनि दीव्यतः स्म ॥८८॥
इति श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
श्री-राधा-माधव-विवाह-निर्वाहो नाम
पञ्चत्रिंशं पूरणम्
॥३५॥
(३६)
अथ षट्त्रिंशं पूरणम्
श्री-माधव-राधादि-व्यतिषङ्ग-दिव्य-मङ्गलम्
[१] अथ तस्या एव रजन्याः श्री-राधा-माधव-सभा-कथा पृथक् प्रथ्यते । यथा मधुकण्ठ-स्निग्धकण्ठाव् अनुक्रमेणाहतुः—तद् एवं स्थितेऽपि हरिणा सह हरिणी-नेत्राणाम् अमूषां मिलन-युक्तिर् न मीलितासीत् । यतः—
सङ्कोच-कारण-शते विगतेऽपि कुल्य- स्त्री-पुंसयो रुचि-भृतोर् व्यतिसङ्गमाय । लज्जा तु तत्र कलयापि कृतानुषङ्गा सर्वं व्यतीत्य सहसा जडतां तनोति ॥१॥
तथा हि—
बाढं प्राग् औपपत्य-भ्रमम् अनु तद् इदं तर्कयेत् को ऽपि नेति श्री-गोपी-गोप-राजात्मज-मिथुन कुलं जानद् आक्रीदद् एव । सम्प्रत्य् उद्वाहतः स्याद् विदितम् इति विदत् तन् मुहुर् लज्जमानं क्रीदायां सुष्ठु सज्जत्य् अपि मनसि मिथः शश्वद् औदास्यम् आप ॥२॥
[२] श्री-व्रजेश्वरी तु तत्-तन्-नाम्ना शय्या-मात्राणि तासाम् आशा-पात्राणि सज्जयति स्म । तथापि तत्र तत्र सुतस्यानासज्जनं श्रवसि सज्जयन्ती त्रपा-कृपाभ्यां कृपण-मना बभूव । तद् एवं स्थिते स-प्रेयस्यास् तस्य मनः पुनर् अविकल-विकलताम् अप्य् अतल-स्पर्शितया कलयति स्म ।
[३] तत्र प्रत्येकं प्रेयसीनां, यथा—
मिथ्या-भूतस्य मादृश्य् उपपतिर् इति गीर् नैव सङ्कोच-चर्या सङ्गस् तस्मिन् कथं स्याद् इति पशुप-रमा-वृन्दम् आगाज् जडत्वम् । लज्जां मार्ष्टुं सहायान् अपि विदधद् अमूम् एव पर्येति पर्यग्- यस्मिन् किं तत्र कुर्याद् यद् अपि हृदि जनस् तृष्णया धृष्णग् अस्ति ॥३॥
[४] पुनश् च तासाम् एव—
अपयाते भय-जाते, स्वयम् अथ साम्राज्यम् आगता लज्जा । स्त्रीत्वाद् इव नः स्त्रीणां, मर्म ज्ञात्वा विमर्दयत्य् अभितः ॥४॥
[५] श्रीमत्-प्रेयस्यश् च, यथा—
हा मद्-विश्लेष-दूनाः कृत-परिणयना एवं सङ्गं मयामूर् नायाता ह्रीर् वराकी भवति जगति का हन्त विद्युर् जनन्यः । त्यक्ष्यन्ति प्राणकांस् ताः किम् अहह करवै स्त्रोतसोः सङ्गमान्तर् घूर्णायां घूर्णमानः किम् अपि न हि मनाग् धीरतां धारयामि ॥५॥ नाथं मां नाथमानास् ता विजह्युर् मान्यथा व्यथाम् । राधा मद्-बाध-सम्बाधा प्राण-बाधां तु यास्यति ॥६॥
[६] तद् एवं स्थिते, वृन्दा तु पौर्णमास्या मन्त्रं विन्दमाना स्व-वचसा यन्त्रयितुं तद् इदं श्री-गोविन्दं रहसि निवेदयामास—हन्त पूर्वं लोक-धर्मयोर् मर्म-बाधा भवतीति भवता तथा तथा व्यवसितम् । सम्प्रति तु तद् उभयं किम् इव न सम्प्रतीक्षते ?
[७] श्री-कृष्णः सावहित्थम् आह—कथम् इव ?
[८] वृन्दोवाच—स्वयं जानतापि भवता कथम् अजानता विद्यते ? तासां दुःसह-जीवन-निर्वहणता पुनर् अस्मत्-प्राण-विरहम् आवहति ।
[९] श्री-कृष्ण उवाच—नाद्यापि ताभिः किं सुखम् अभाजि ?
[१०] वृन्दाह—अभाजीति सत्यम् एव, किन्तु भञ्जेः रूपम् इदम्, न तु भजेः ।
[११] श्री-कृष्ण उवाच—दुःसदनाद् आकृष्टा एव तान् तर्ह्य् अद्यापि कथं हृष्टा न विद्यन्ते ?
[१२] वृन्दा स-प्रणय-रोषम् उवाच—
बाडवाग्निः सुधाब्धिर् वा न तासां स स उच्यते । किन्तु तौ ते क्रमात् कृष्ण विश्लेषः श्लेष एव च ॥७॥
[१३] ततः सम्प्रति विश्लेषं प्रति तु—
स्तम्भे भद्रा निमग्ना वपुर् अनु चलने श्यामला लोमहर्षे शैव्याक्ष्णोर् वारि पद्मा वचन-विकलता स्थेम्नि चन्द्रावली सा । घर्मस्यन्दे विशाखा सितिमनि ललिता लीनतायां च राधेत्य् अष्टाभिर् बाढम् अष्टाव् उदरम् अभिकृताः प्राण-नाथेन रक्ष्याः ॥८॥
[१४] तद् एवं रहसि निविशमानेन तेनानेनाभिनिविशमानया देव्या सह संवादे व्याकृते कर्तव्यता-बाधेन मनसि प्रत्याहृते मधुमङ्गलेन सह सहसा पौर्णमासी समाससाद । आसद्य च तम् आशीर्वादेन विशद्य वृन्दां प्रत्याह स्म—भवतीम् एवान्विच्छन्ती तद् एतन् मङ्गल-सङ्गितां सङ्गतास्मि ।
[१५] वृन्दा सानन्दम् उवाच—आज्ञाप्यताम् ।
[१६] पौर्णमास्य् उवाच—तद् एतन् मम व्रज-मङ्गलं प्रति निवेदनाय च सम्पत्स्यते इति पुरत एवास्य प्रथयामि ।तथा हि—तद् इदं मया व्रज-राज्ञीं प्रति विज्ञापयितुं गतम् आसीत् । यत् खलु पूर्वं तद् इदम् अपूर्वं सङ्कॢप्तम् । माधवेन राधादीनां दाम्पत्य-सम्पत्त्य्-अनन्तरं मया लक्ष्मी-नारायणाराधनं साधयितव्यम् । तच् च तन्-निर्विशेष-दम्पत्याराधनतः इति ।
[१७] वृन्दाह—ततस् ततः ?
[१८] पौर्णमास्य् उवाच—ततश् च तया सन्तुष्य मम वचनम् अपुष्यत । तद् इदम् अच्छम् अपृच्छ्यत च । तादृश-दम्पती च काव् अत्र परामृश्येते ? ततो विहस्य मया रहस्यम् उक्तं यद् दाम्पत्य-सम्पत्त्य्-अर्थं तत्रैव तन्-निर्विशेषता प्रतिपद्यते नान्यत्र इति ।
[१९] वृन्दाह—ततस् ततः ?
[२०] पौर्णमास्य् उवाच—ततश् च व्रज-पति-पत्नी तद् एतन् निशम्य रम्यम् इदम् आह स्म—कुत्र किं यावत् तद्-आराधनम् इति । अथाहम् अवोचम्—निर्जन-वनम् अनु मासम् एकं यावत् इति ।
[२१] वृन्दाह—तत् किम् आज्ञापितं व्रज-राज्ञ्याः ?
[२२] पौर्णमासी स-स्मितम् उवाच—किं राधादि-श्वश्रूं-मन्य-चर-वृद्धावद् इयम् अपि दुःसाधा ? परं तु यथा मद्-इच्छा, तथैव हि तद्-इच्छा स्यात् ।
[२३] वृन्दाह—विस्तीर्य तद्-आराधानम् उदीर्यताम् ।
[२४] पौर्णमास्य् उवाच—
प्रातः श्री-व्रज-राज-दम्पतिम् आज्ञप्त्या हरिं राधिकाद्य्- आभिः सङ्गतम् आनयन्त्य् अनुदिनं पूज्यं विधास्ये दिनम् । सन्ध्यायां च तथा निशाम् इति यथा पक्ष-द्वयं पूरितं स्याद् एवं सुरहः-स्थलं प्रति तद् अभ्यर्च्य विधेया मया ॥९॥
[२५] वृन्दा पुनर् अतिसानन्दम् आह—अधुना किम् आज्ञाप्यते ?
[२६] पौर्णमास्य् उवाच—आज्ञाप्यत इति कथम् उच्यते ? किन्तु भवद्-ईशितारं विज्ञाप्यते । यथा नानन्याश्रित-जनस्य मनस्य् अयं सिद्ध-कल्पः सङ्कल्पः प्रणश्यति ।
[२७] श्री-कृष्णः स-स्मितम् आह—यथा न मम सङ्कोचः स्यात्, तथा रोचनीयम् ।
[२८] पूर्णिमाह—अरविन्दाक्ष ! मन्दाक्षं खलिउ नाम्ना मन्दाक्षम् एव, तद्-आदरः कथम् आनन्दाय कल्पतां ? मया च तद् एतद् भवद्-असङ्कोच-रोचनार्थम् एव पर्यालोचनं कृतम् अस्ति । तस्माद् अन्यथा न शोचनीयम् ।
[२९] श्री-कृष्णः प्राह—सर्वान् हित्वा कुत्रचिद् एकत्र स्थाने स्थाने स्थाने सङ्कोचः स्याद् एव ।
[३०] पूर्णिमाह—तद् एतद् अपि प्राज्य-पूजायां तद्-अनुज्ञा-साम्राज्यम् असङ्कोचार्थम् एव तत्र प्रार्थितम् । भवता तु दिवा गो-चारणं सम्भावता नक्तं चाव्यक्तं कुत्र कुत्रचिद् भवता पुरा यथा वर्ग-कोटि-संसर्गः समाधीयते, सम्प्रति च तथा समाधातव्य एव ।
[३१] अथ तद् एतन् निशम्य रम्य-स्मिततया मौनम् आलम्बमाने वन-मालिनि वृन्दा तद्-इङ्गितम् अपाङ्ग-सङ्गि विधाय सानन्दम् उवाच—
जीयाद् गोकुल-जीवातुस् तारका-शोभनोदयः । श्यामानन्दि-स्वच्छ-पक्षः श्री-राधा-राध-चन्द्रमाः ॥१०॥
[३२] पुनर् अपि स-गद्गदम् आह—भगवति ! कदा तद् इदम् उपक्रमणीयं ?
[३३] पूर्णिमाह—मम निष्किञ्चनाया अद्य सन्ध्या यथा न बन्ध्या स्यात् तथा क्रमणीयम् ।
[३४] वृन्दाह—मय्य् आज्ञाप्यतां, यथा पुष्प-समयेऽस्मिन् समये प्रति पुष्प-कुञ्जं तद्-आराधन-धनानि समाचीयन्ते ।
[३५] पूर्णिमाह—निष्किञ्चनायास् त्वम् एव काञ्चनम् इति किम् अधिकम् आज्ञाप्यताम् ।
[३६] वृन्दा स-स्मितम् आह—पूर्ववद् एव सच्छलाभिसारादि-रीतिर् आयातास्तीति तद्-विशेषश् चाज्ञाप्यताम् ।
[३७] पौर्णमास्य् उवाच—यथा मन्त्रः कृतस् तथा निर्यन्त्रणं मया सोऽयम् अभिसारयितव्यः । त्वया तु सर्वासामञ्जस्याय साधारणतया सर्व एव श्री-राधादि-गणः इति ।
[३८] अथ वृन्दा स्व-मनः प्रत्याह—अत्र चेयं दाम्पत्य-नीतिर् इत्थम् अप्य् अदाम्पत्य-रीतिं तिरस्करोति, यतः—
पत्न्याः सङ्गे विविक्ताङ्गे सूचितं गच्छति त्रपा ।
परास्य भय-निन्दाभ्यां क्लिष्टे तद्-रूपतां न तु ॥११॥
अनाचारात् तथा गोप्य-चरल्-लज्जा भवेन् नृणाम् ।
पुर्वा भयाद् अभिन्नात्मा परा लज्जा परं मता ॥१२॥ \
ततश् च—
शृङ्गारस्य भयानकेन मिलने हानिर् ह्रिया माधुरी
तस्य स्याद् उदितेति सर्व-कविभिर् बाढं कृते निर्णये ।
प्राचा सत्यम् अधर्मजा मिथुनता धत्ते वृता व्यग्रतां
धर्म्या चापरया परन्तु कतरा रस्येति निर्णीयताम् ॥१३॥
किं च,
एके ह्रेपण-मात्राद् इतरे साध्या विभीषिका-रचनात् । ज्ञाते तेषां तत्त्वे, विपरीतोपायम् इच्छवः पृच्छ्याः ॥१४॥
[३९] तद् एवं सति कादाचित्की भीस् तु भवतु नाम, पूर्वं स-प्रयोजन-प्राया, पुनस् तु कदर्थना-मात्राभिप्राया स्यात्, यतः—
नामूषां सहजानुराग-विभुता भी-निर्मिता किं नु भीर् लङ्घ्या स्यान् न तु वेति तत्-प्रबलता-ज्ञानार्थम् अन्तः कृता । तज्-ज्ञातं निज-धर्म-सेतु-दलनात् तस्यास् तथा विस्मृतिस् तद्वद् भाति यथा परीक्षित-वचोऽप्य् अग्रे मुहुर् दृश्यते ॥१५॥ \
[४०] तद् एवं सर्वेऽप्य् आनन्दनताम् आनन्दितताम् अपि विन्दमाना यथायथं पथन्ति स्म ।
[४१] अथ स्निग्धकण्ठः प्रच्छन्नं पप्रच्छ—भ्रातः ! कथम् अस्या वर्षीयस्याः स श्यामलः सर्व-लोकाद् इव लज्जां न सज्जति स्म ? न वा देवता-भूदेवताभ्यां वृन्दा-मधुमङ्गलाभ्याम् इति कश्चिद् अनुयोक्ष्यति । तत्र किम् उत्तरं दातव्यं ?
[४२] मधुकण्ठश् च तथा प्राह—भवान् खल्व् एतन् नानुभवन्न् इव दृश्यते । पूर्णिमासौ रासारम्भे, योगमायाम् उपाश्रितः [१०.२९.१] इति श्री-शुक-निर्दिष्टा सर्वत्र लीला-पर्वणि तस्य विशिष्टा शक्तिर् एव । वृन्दा तु वृन्दावन-लीला, मधुमङ्गलश् चात्र श्री-नारद-प्रकृतिर् नर्म-प्रकृतिर् एव इति ।
[४३] अथ स्पष्टम् आचष्ट—श्री-व्रज-राज्ञी तु तद् अशेषं श्री-व्रज-राजं विज्ञाप्य सुत-स्नुषाश् चाज्ञापयामास । व्रज-वासि-मात्राणां तत्र यात्रां च वर्जयामास । पौर्णमासी च श्री-कृष्णम् एवम् अनुज्ञाप्य तद्-वधूर् अप्य् अनुज्ञापयामास । यत्र तासाम् अभीप्सित-सिद्धिम् अपि सूचयामास, यथा—
पूजायाम् अन्यस्यां, पूजा-कर्तुः परं फलं कलितम् । पूज्यानाम् अपि वस् तत्, परमं सद्यो भवेद् अत्र ॥१६॥
[४४] अथ सा श्री-राधा-वर्ग-निमन्त्रणं सद्य एव सम्पद्यमानम् आचचार । चन्द्रावल्य्-आदिकाः प्रति तु यत्रयथं तारा-चन्द्रादि-बल-प्रतीक्षां लक्ष्यं चकार । कृत्वा च मधुमङ्गल-सङ्गता सन्ध्यातागमनायां तस्यां सन्ध्यायाम् एवागत्य व्रज-पत्य्-अनुज्ञानुसारतः कञ्ज-लोचनं निकुञ्जम् एवोपयामास । यत्र च मधुमङ्गलः श्री-मधुसूदनं रहसीदं सहासम् उदितवान्—अद्य च यद्य् अब्जलोचन तम् एव सङ्कोचं रोचयसि, तर्हि विवाहः कं निर्वाहं वहति स्म ?
[४५] श्री-कृष्णः स-प्रणय-रोषं तस्मिन् पाणि-घात-लेशं जोषयन्न् आह—रे धृष्णक् ! तुष्णीम् आस्स्व इति ।
[४६] अथ वृन्दा स्व-करेण पूर्वं कुञ्ज-वृन्दानां सञ्चस्करे । तथा राधिकादि-वृन्दं स्व-वृन्द-सहिता सहिता सुमनः-संवृति-धीर-यमुना-नीर-समीर-सर्व-लोभास्पद-शोभा-पुञ्जं कुञ्ज-विशेषं सञ्जयामास ।
[४७] तत्र श्री-कृष्णस्य गमनं, यथा—
पीताम्बरावृत-तनुस् तनु-यष्टि-पाणिर् वेणु-प्रवेश-रुचि-सङ्कर-शृङ्खल-श्रीः । कृष्णः करेण कलयन् मधुमङ्गलांसं प्रेम्णानुपूर्णिमम् अगाद् अथ तन्-निकुञ्जम् ॥१७॥
[४८] तासां, यथा—
वसित-नव-नवांशुक-प्रधाना मणि-कनकाभरणानुशिञ्ज-भाजः । मिष-चित-गुरु-दिष्टि-कृष्णम् इष्टं वर-वनिताः सह वृन्दयाभिसस्रुः ॥१८॥
[४९] अथाश्रमेण पूर्णाश्रमे गत-मात्रे सर्व-सुख-पात्रे मधुर-मुखारविन्दे गोविन्दे स-मूढ-रुचि-गूढ-कुञ्ज-पुञ्ज-स्थापित-राधादि-वृन्दा वृन्दा तत्र समयामास निवेदयामास च तद् इदं—भगवति ! कथं विलम्बमालम्बध्वे ? कुञ्ज-सञ्जिता राधादयः खलु निदाघान्त-क्लान्त-चातक्य इव क्षणम् अपि चाशक्य-प्राण-धरियास् तर्क्यन्ते इति ।
[५०] अथ तद् एतन् निशम्य बाष्प-पूरित-गलौ पूर्णिमा-मधुमङ्गलौ वचन-विकलौ सविकारेण विलोचनाद्याकारेण कमल-लोचनम् अनुचलनाय याच्ञां कलयाम्बभूवतुः । ततश् च—
राधां प्रतिपदं व्रजति स्म यर्हि श्रीमान् विधुः क्रम-वशात् क्रमते स्म तर्हि । तन् मासि माधवतया विदितेऽभिनीतं स्याद् इत्थम् एव किम् उ तद्-वलितं चकार ॥१९॥
[५१] गत्वा च कुञ्जानाम् उपरि सुमनोभिः सुमनोहरं मणि-मय-मित्रं चित्रं ददर्श । तले च तल्पादिभिर् आकल्पम्, न तु राधिकां तद्-आराधिकां वा । तदा च विस्मिततयाविस्मिततया च तस्य परिस्पन्दं पश्यति, परिस्पन्दम् अपि विन्दमाने श्री-गोविन्दे वृन्दा जगाद—
[५२] नूनं राधिकादिकास् तादृशतया संस्कृताद् अस्माद् अकस्माच् छ्री-गोकुल-राज-कुल-चन्द्रागमन-सम्भावनया सम्भृतान् निभृतात् कुञ्जाल् लज्जायां लब्ध-मज्जा मद्-गमनानन्तरं कृत-निःसज्जनाश् च सम्प्रति सम्यग् एतस्माद् अस्मद्-उपलभ्यमान-तदीय-सौरभ्य-पूरे किञ्चिद् दूरे विश्रम्य वर्तन्ते ।
[५३] पौर्णमासी उवाच—भवत्या तावन् मन्-नाम्ना समाहूय ताः समागम्यन्तां, किं वा निशाम्य समागम्यन्ताम् ।
[५४] अथ वृन्दा तथा विधाय पुनः पूर्णां सन्निधाय च स-स्मितम् आह स्म—किं ब्रुवे ? ताः खलु तथा लज्जां सज्जन्ति स्म, यथा गृह एव सज्जेयुः । परं तु भवद्-आज्ञावज्ञा-भयात् परम् अत्र भवतीं प्रतीक्षन्ते, कथं मद्-वचनाद् आगच्छन्तु ? किन्तु,
यदा विदूरे मुर-शत्रुर् आसीत् तदा तथा रीतिर् अदर्शि तासाम् । अस्याधुना सौरभ-तर्पितानां अन्येति दूते किल धूर्तता स्यात् ॥२०॥ इति ।
[५५] अथ तद् एतन् निशम्य पूर्ण-मनाः पूर्णिमा तत्र सङ्गम्य रम्य-मुखीर् अमूर् व्रीडितवतीर् अपि निजाम्रेडित-बलाद् आगमयामास ।
[५६] अमूषाम् आगमनं, यथा—
कृत्वा पुरस्ताद् अथ पौर्णमासीम् आनम्र-मूर्धा मृदु-चञ्चद्-अङ्घ्रिः । राधा-प्रधानागमद् आलि-पालिः स यत्र कान्तस् त्विषम् आतनोति ॥२१॥
[५७] तत्र च तरङ्गिणी-पतिना तरङ्गिण्य इव त्रियामा-रमणेन त्रियामा इव सुमनः-समयेन सुमनस इव षडङ्गादि-स्वर-जातेन तदीय-जातय इव विद्युत्वता विद्युत इव तेन मिलन्त्यस् ताः परस्परं परस्परम् अपि रुचि-वैभवं बिभ्रति स्म । मिलित्वा च—
अन्यत्र नेत्रे यद् अपि व्यसारयत् प्रियावलिः सा च हरिश् च तत्-प्रियः । तथापि दृष्टिर् विततान धृष्टतां ग्रीवां च कृष्टां व्यतनिष्ट यान्व् अपि ॥२२॥
[५८] तद् एवं सति तूर्णित-मनाः पूर्णिमा तु जाया-धवौ ताव् अथ राधा-माधवौ सनीतिभिर् याचना-चन-रीतिभिर् एकासन-गतौ विततान । यत्र च—
एकस्मिन्न् आसने तन्-मिथुनम् उपविशन्-नीलपति-द्युतीनां इन्द्राभं सङ्क्रमेण च्छवि-विनिर्मिततां धावयद् धूत-भेदम् । पश्यन्ती पौर्णमासी परिचय-बुधताम् आशु सा ना व्रन्ती दण्डार्धं खण्ड-बुद्धिः पृथग् उपचरितुं तत्र चित्रायते स्म ॥२३॥
[५९] अथ कथम् अपि परिचयं वितत्य वृन्दायाम् उत्तर-साधकताम् अनुमत्य बृहद्-गौतमीय-विधि-विस्रब्धतया स्वासाधारण-भजनीय-राधा-माधव-पूजाम् एवारब्धवती । पूर्वं हि लक्ष्मी-नारायण-पदं तद् व्यञ्जकता-भाजनम् एव व्याजहार ।
[६०] तत्र च नायिकाष्टकम् अनु स्पष्ट-गणनयोर् अपि ललिता-विशाखयोस् तद्-आवरणताम् एव रुचिताम् आचितवती । तथा हि, तयोस् तद्-एक-हितयोर् आत्मनि निर्णयः—
काश्चित् तं तु भजन्तु गोप-नृपजं तेनात्मनः शर्मणे काश्चित् तस्य तथात्मना न तु वयं तत् तच् च बुध्यामहे । किन्तु श्री-गण-लोभनीय-मधुर-श्री-भाइ तस्मिन् परां राधा यत् परमौचितीं भजति तद्-दृष्ट्या सुखं मन्महे ॥२४॥
[६१] अथ सभाजन-कर्ण-सुखदं सभाजनं वर्णिष्यामः—
विविध-कुसुम-कॢप्तं तत्र सङ्कॢप्तम् एषा व्यतनुत हरि-राधाराधनायासनं तत् । कनक-मणि-जनीति प्राक् प्रतीतं दृशा यत् तद् अनु परिचितं यन्-नासया च त्वचा च ॥२५॥ अरचयद् अथ यत् तु स्वागतं वाग् अमुष्यास् तद्-अतिमधुर-भावेनामृतं द्राग् अजैषीत् । इति किल नयनं च स्वाश्रु तज्-जिद् व्यतानीत् यद् इह विषयि-वृन्दं स्यान् मिथः स्पर्धितर्धि ॥२६॥ महयितुम् इह लक्ष्मी-युक्त-नारायणाख्यं भवद्-उपहितम् अस्मिन् कुञ्चतः किं भवन्तौ । इति दर-हसित-श्री-पूर-कर्पूर-युक्तं व्यतरद् अमल-पाद्यं पूर्ण-धीः पौर्णमासी ॥२७॥ अकृत चयम् अनर्घं पूर्णा शुभ्रम् अर्घं स्वयम् अनुमतवन्तौ स्वीयम् अर्घं तम् एतौ । वशयति किल पूजाभास-लेशश् च तौ चेद् वलित-रति-विलासस् तद्-विधस् तूर्ध्वम् अस्तु ॥२८॥ इयम् अथ यद् अदाद् वा रम्यम् आचम्यम् अम्भस् तद् अनु मधुरता या कस् तु तां प्रस्तुवीत । प्रत्फलितम् अभूद् यत् तत्र कान्तास्यम् अस्माद् अरचयद् अधिकान्तं शर्म शीत्कार-कारि ॥२९॥ अदिशत मधुपर्कं पूर्णिमा यं च ताभ्यां स पुनर् अतिमधु-श्रीर् मादनार्थं बभूव । मिथुन-वदन-पद्म-व्यस्त-सौरभ्य-योगाद् अधर-रसम् इवान्योन्यस्य यत् तर्हि दध्रे ॥३०॥ तद् अधर-रस-पर्कं तं रसं माधुपर्कं मिथ इह मिथुनं तत् त्यक्तुम् ईशीत नैव । इति किल सहसा साचम्य नीरं व्यतारीत् तद् अपि हृदि स लग्नः क्षालनं केन यातु ॥३१॥ स्नपनम् अथ मुनीशा प्रस्तुतं वीक्षमाणा निशि तद् उचितम् आसीन् नेति तन् नाचचार । विधिम् अथ च समाप्तं कर्तु-कामानुकल्पं मुकुर-कलितम् एतन् मोदमाना चकार ॥३२॥ वितरितुम् अथ वस्त्रं सा क्षणं प्राप किन्तु ह्रियम् अभिमृशती न स्वैर-संवस्त्रणाय । इति विधि-भृति-हेतोर् दर्शितं यत् तु दूरान् मिथुनम् अनु तथापि छाययासीत् कृतार्थम् ॥३३॥ स्फुटम् अधि दश-वर्णं गौतमीये यद् इष्टं व्रज-वर-पति-सूनोर् अर्चने यज्ञ-सूत्रम् । अवसरम् इह तस्य प्राप्य तद् वैश्य-वेश्यं रुचिम् अनु वितरन्ती तां तरन्तीयम् आसीत् ॥३४॥ अधित मिथुन-तन्वोर् अप्य् अलङ्कार-सङ्घं कुसुम-मयम् अपूर्वं तर्हि सा पौर्णमासी । मणि-मयम् अपरं यः स्वर्ग-वर्ग-स्थम् उच्चैर् अजयद् अतुल-लक्ष्म्यामोद-लक्ष्म्या तु बाढम् ॥३५॥ शुभ-सुरभिम् अथादाद् अङ्ग-रागं तम् एषा तद् अतनुतनु-गन्धं प्राप्य यः सुष्ठु वल्गून् । विदधद् अनुग-लोकं वासितं तं च कुञ्जं निखिलम् अकृत तद्वत्ग् काननं तच् च सर्वम् ॥३६॥ स्रजम् अतनुत गौरी-कृष्णयोर् अत्र युग्मे बहु-रुचिम् अथ यां याम् अन्यथातर्कि सा सा । हरि-धनुर् इह विद्युद् विद्युद् अभ्राद् उपेत्य स्व-लषितम् उपसीदत् तद्-भिया लीयते स्म ॥३७॥ दिशि दिशि कृत-पूर्तिर् धूम-योनीयमानः सद्-अगुरु-गुरु-धूमस् तत्र सन्तन्यते स्म । वर-परिमल-वृष्टिं यस् तु कुर्वन् समन्तात् तनुरुह-कुल-दृष्टिं शष्प-सृष्टिं चकार ॥३८॥ अरचि य इह दीपः स स्फुरन् दम्पती तत् तनु-रुचिम् अनुय् भान्त्या स्वीय-कान्त्या पुपोष । इयम् इह गुण-पूर्तिर् नातिचित्राधि-मूर्ति प्रतिसखि यद् अमूर्तं भावम् अप्य् आततान ॥३९॥ अरचि च फल-मूलं यत् तु वृन्दावनीयं मिथुनम् अनु निवेद्यं तत्र वीक्षस्व चित्रम् । यद् अलम् अशनतः प्राग् एव सौरभ्य-पूरं प्रवहद् अतिविदूरं तृप्ति-कॢप्तिं चकार ॥४०॥ तद् अनु मदन-बीजेनानुजप्तं मुनीशा मिथुनम् अनु ददे तन् नव्य-ताम्बूल-वर्यम् । यद् अनु च दुरवाप-प्रार्थनायां निजायां अनुमतिम् अनु तस्मान् निःससञ्जाथ लज्जा ॥४१॥ रचयितुम् अथ तां सा हृद्य-विज्ञप्ति-चर्याम् अरचयद् अतुलाभैर् वैभवैः सेवनानि । रुचिर् अरुचि-विराजच् चामर-च्छत्र-नीरा- जन-मुख-सुख-सारैर् लास्य-हास्यादिभिश् च ॥४२॥
[६२] सा च विज्ञप्तिर् यथा—
यत् प्राप्तुं स्पृहितं मया विरचिता यार्चा च ताभ्यां मम स्वान्तं पूर्णम् अपि स्पृहान्तरम् अथ श्रथ्नाति तच् छ्रूयताम् । तद्-बीजाङ्घ्रिप-तुल्यतां द्वयम् अगाद् एतत् तु तस्मिन् फलं यज् जायेत विविक्त-विश्रम-सुखं वाम् अत्र कुञ्जान्तरे ॥४३॥
[६३] अथ तद् एतन् निशम्य सलज्जायमान-रम्य-नयनयोर् अनयोर् मुनि-वर्या कार्य-पर्यायं व्याजम् आचर्य वृन्दा-मधुमङ्गलाभ्यां सह स्वयं व्यवधानम् अभ्याददे । आल्यश् च तं समयं प्रतिपाल्य कुञ्जस्य बहिर् इतस् ततः स्वयम् उपविश्य कर्णेन तं पुनर् अन्तः प्रविश्य स्थिताः । तद्-अनन्तरं तु—
राधा तद्-विरहं महानलतयानुस्मृत्य तस्मिन्न् अलं रास-क्ष्मादि-कुरु-स्थलान्त-मिलनं सर्पिष्टयाध्याय च । तं च प्राग्वद् अनुस्फुरत् तनुतया मत्वा प्रियं तत्-पुरः सम्मोहं मुहुर् आगता तमसकृद् व्यग्रान्तरं निर्ममे ॥४४॥
[६४] अथ तेन सम्भ्रमात् क्रमाद् एव बहिर् उपलम्भं लम्भिता तु—
सा तत्-तद्-विरहं पुरा गततया स्मृत्वा मुहुस् तत्-पदोर् भालं सन्दधती समन्द-रुदितं तौ रोअदनेनार्द्रयत् । कृष्णस् तां परिरभ्य पृष्ठम् अनु सोऽप्य् अश्रूणि सुस्राव तद् रात्रौ तत्र तयोर् विलास-कर्णिकाप्य् आप्नोतु कुत्रोदयम् ॥४५॥ तावत् तत् परिकल्य तुल्य-वयसः सान्त्वार्थम् अन्तर्गता दम्पत्योः प्रतिपद्य विक्लव-दशां तां भेजिरे प्रत्युत । आलिङ्ग्याथ मिथः स-बाष्प-विविध-क्षोभेण पर्याकुलाः प्रत्युषं प्रतिपेदिरे कथम् अपि प्रेयान् स ताश् च प्रियाः ॥४६॥
[६५] ततश् च प्रातः कथञ्चिद् बहिर्-आगतेषु तेषु—
अस्राक्तानि च लोचनानि दशनास्पृष्टानि चोष्ठाधराण्य् अस्रस्तानि च कैशिकानि वलित-ग्रन्थीनि वस्त्राण्य् अपि । तासु प्रेयसि चावलोक्य रजनी-प्रान्ते तदा पूर्णिमा- वृन्दाद्या न रहः-कलाम् अनुममुः किन्त्व् आदि-दुःख-स्मृतिम् ॥४७॥
[६६] ततश् च दम्पती प्रति पूर्णिमा पूर्णास्रम् इदं बभाषे—
यद्यपि वियोग-दुःखं मनसस् त्यक्तुं न हीशाथे । पातुं तद् अपि सदास्मान् अभ्यस्यतम् आशु विस्मर्तुम् ॥४८॥
[६७] अथ लज्जां सज्जन्ताव् अमू किञ्चिद् अप्य् अप्रोच्य नम्रतयैव तद् अभिरोच्य पृथक् पृथग् व्रजाय वव्रजतुः । तत्र प्रेयसी स्व-प्रेयसीभिर् निर्जन-वर्त्मना वव्राज । व्रजित्वा च प्रातः-कृत्य-पूर्वकम् आत्मानं परिष्कृत्य व्रजेश्वरी-चरणानुचर्याम् आचचार ।
प्रेयांस् तु क्रमशः स-नर्म-बटुना तत्-तद्-रहः-सेवकैर् मित्रैश् चित्र-जनैः पथि श्रित-गतिः प्राप्य व्रजं तेषु च । कैश्चित् तैर् उचितैर् गतान्तर-गृहः स्नानादिभिः शोभितः पित्रोस् तत्-तद्-अशेष-लोक-वलयस्याप्य् अक्षि-सौख्यं दधे ॥४९॥
[६८] तद् एवं मुहूर्त-पूर्त्या तौ पुनः पुराणादिभिर् वनानयनम् अनुभूय पुनस् तत्-पूजां मध्यन्दिने कृत-दिनेश-किरण-विस्तरणे निर्जने घन-छाया-मञ्जु-कुञ्जम् अनु कुसुम-पुञ्ज-तल्पम् एवानल्प-सुखाय तन्-निवेदन-वशंवदतया भजतः स्म ।
[६९] तत्र च कृष्णस् तद्-विलास-सतृष्णस् तां मुहुर् अनुनिनाय । तथापि तस्या दुःख-वश्यताम् एव व्यस्यन्त्याम् अत एव तस्मिन् मलिनां दृष्टिम् एव न्यस्यन्त्याम् अत एव संहित-मानायाम् इव तस्य मुहुर् अपि हस्त्ययमानायां सख्यस् तु तन्-मनः प्रख्यापयामासुः । विरह-व्याकुलतया बहुल-प्रकार-विकारम् अस्या मनः कियद् वर्णयिष्यामः । सम्प्रति प्रतीतं तु प्रथयिष्यामः ।
हा यादृग्-विरह-क्लमः समभवत् तादृग् न यद्य् आशया स्तब्धः स्याद् बत तर्हि जीवनम् इदं क्वासीत धिङ् माद्दृशाम् । तन् नासीत यदा च माधव तदा चेद् आगतिस् ते भवेद् गोष्ठे सा तव दुष्टु-कष्ट-निचितिर् वा कुत्र मायात् प्रभो ॥५०॥
[७०] ततश् च तस्य तासाम् अपि दुष्पारे बाष्पे बाष्पेण समं समन्ताद् बहिर् लब्ध-निष्पाते श्री-कृष्णस् तस्या मुखम् आर्जवेण मार्जयन् कथम् अपि ताम्बूलं संवलयति स्म । यथा—
वियोगार्तिं तीर्त्वा प्रिय-हृदि गतापि स्मृति-वशाद् उदस्रासीद् एषेत्य् अनुनय-गिरा शश्वद् अमुना । वितीर्णं ताम्बूलं मुखम् अनु चिरस्यापि सुमुखी न गीर्णं न त्यक्तं व्यतनुत न दष्टं तिलम् अपि ॥५१॥ नाचर्वायत ताम्बूलं सेयम् इत्य् अघमर्दनः । तत्र स्व-चरितं प्रादान् मुखम् उन्नमयन् मुहुः ॥५२॥
[७१] तद् एवं ताम् एतावत् प्रसाद्य पुनस् तद्वद् व्रज-गमनादिकं विनिष्पाद्य रजनी-शयनम् आसाद्य कान्तेन भिक्षिता सखीभिश् च शिक्षिता कान्तम् अनु शान्तं विलोचनान्तम् आचचार । यत्र च—
यद् यद् वृन्दावन-भुवि कुरु-भुवि चाभूद् द्वयोर् मिलनम् । तद्-विस्मृतिर् अप्य् आसीद् अनुरागस् तन् नवं नवं कुरुते ॥५३॥
ततश् च—
हस्ताब्जं बाहु-वल्लीम् अपरम् अवयवं चामृशन् पञ्च-शाखे- नालिङ्गन् साङ्गम् उच्चैर् अनुनय-चतुरस् तां प्रसन्नां चकार । कृत्वा चामूं निजेनाप्य् अधरज-मधुना मोहयन् नागराणां सोऽयं चूरामणीन्द्रः क्रमम् अनु रमणं रोचयामास कृष्णः ॥५४॥
तत्र च—
नहि-कारं चाटु-कारं द्वयोर् अत्र सखीजनः । आकर्णयन्न् अमुं रात्रिं शर्म-पात्रीं विनिर्ममे ॥५५॥
[७२] अत्र रात्रेर् अवशेषेऽपि तयोर् अनवधान-श्लेषे सखीभिर् एवं प्रभातिक-राग-मयम् उपजगे—
सखि दम्पत्योर् अनयोर् युगलम् । कुरुते किम् अपि च न स्मृति-युगलम् ॥ कैरविणी-कुलम् अलिर् इह विसृजति । तद् अपि विहारं कं वा न सृजति ॥ विसिनी-कुलम् अथ दिशि दिशि विलसति । तद् अपि च नतरां बहिर् अनु विकसति ॥ दिनकर-सारथिर् उदयं गच्छति । तत्र च नयनं नाण्व् अपि यच्छति ॥ तारावलिर् अथ रुचिम् उत्कलयति । एतत् पुनर् इह ताम् उच्छलयति ॥ वीनां ततिर् अपि कमलाकलयति । तद् अपि च मौनं नितरां वलयति ॥ दधि-मथनं व्रज-निलये निनदति । आकारितम् अपि तद् इदं न वदति ॥ उद्गानाद् अपि तद् इदं कविर् अपि । बहिर् उपलभ्यं न नयति रविर् अपि ॥५६॥ इति ।
[७३] तद् एवम् अपि तयोर् आवेशम् अत्यजतोर् विशाखा तु शाखा-व्यवहिततया विलोकं विलोकं स्वल्प-स्मितम् अल्पम् अल्पम् इदं जजल्प—सखि ललिते ! पश्य पश्य ! तव वयस्ययो रीतिर् भ्रम-परीती-भवित्री विभाति ।
[७४] ललितापि तत्राह स्म—सखि ! सत्यम् इत्थम् आत्थ । यत् खलु प्रेयस्याम् अस्याम् एष प्रेयसः स्फुरति वेषः, प्रेयसि तु प्रेयस्याः इति ।
[७५] विशाखा प्राह—तन् मन्ये द्वयम् अन्योन्यम् अभिमान-विनिमयम् अवाप, यत् परस्पर-नेपथ्य-परायणतायाम् अपि वैपरीत्यम् उवाह ।
[७६] ललिता ललाप—अत एतद् अनुरूपं विलासम् अपि लब्ध-रूपं निरूपयामि । भवतु, सम्प्रति शृणुवः । किम् आह प्रेयसी ?
[७७] विशाखा वक्ति स्म—तद् इदम् इयं सास्रम् आश्रावयति—
पुराभीक्ष्णं स्वप्ने मिलन-कृद् असाव् अद्य च तथा मिलित्वा तां मां त्वं छलयितुम् अलं मा किल शकः । महा-मोहं गत्वा तव विलसितेनाहम् अमुना पुनर् जाग्रद्-भावं बत कथम् अयिष्ये शुभ-मते ॥५७॥
[७८] ललिताह—हन्त ! पूर्वम् इयं चिरन्तन-विप्रयोग-निदाघ-तर्ष-चार-मरुद्-अन्तर्-वर्तमानासीत् । अद्य तु सद्यस्तन-सम्भोग-हर्षा-विलास-झञ्झानिल-शीतल-देह-लतापि प्राचीन-ताप-संस्कारं न मुञ्चते । द्वयोर् अपि तयोः प्रगल्भतया क्षुभिततां च सञ्चिनुते ।
[७९] विशाखा प्राह—किम् अद्यापि विलम्बसे ? रवि-बिम्बम् उद्यद् वर्तते ।
[८०] ललिताह—लघु लघु त्व अभ्यन्तरं शन्तम-गमनतया गच्छ ।
[८१] अथ विशाखा तथा विधाय सन्निधाय स्मितम् अपिधाय च प्रेयसी-वेषं प्रेयांसम् अवादीत्—सखि ! प्रातर् विभातं सर्वं पश्य, तस्माद् एवं वयस्यम् आदाय बहिर् विराजस्व । अथ तदा मिथुनम् अपि मिथः पश्यत् किञ्चिल् लज्जा मानं च ।
[८२] प्रेयसी तु प्राह स्म—प्रिय-सखि ! तव सखासौ मयि खलु काम् अपि मोहनीं विद्याम् आरोहयामास, येन भ्रमः समजायत । तस्माद् अहो बत ! हहा ! तद् इदं यथा ललिता न पश्यति । तथावश्यम् आचर ।
[८३] अथ विशाखा स्मित्वा कमित-पञ्च-शाखतया सयाथाथ्यं तयोर् नेपथ्यं प्रथयामास । प्रथयित्वा च मिथः प्राण-प्रतिमं तन्-मिथुनं कुञ्ज-शयनाद् आनिनाय । आनीतं च तद्-अभिनीत-सखीभिः सविधाद् असविधात् पुनः पूर्णिमादिभिर् अवलोकयामासे । ततश् च—
सम्भ्रमात् प्रतिगतं विचप्रचां वेशम् अस्य मिथुनस्य पश्य्यत । इत्थम् उन्मद-गिरः सखी-ततेर् देवतेव विशति स्म सा हृदि ॥५८॥ \
[८४] अथ पूर्णिमापि समीपम् आगतास्तीति निशम्य रम्य-स्वभावा लब्ध-लज्जा-बाधा राधा सखीनाम् अधि मध्यं लीनतया स्थिता । श्री-कृष्णस् तु नम्रतयातिकम्र-वदनं स्व-वज्रम् एव वव्राज, पश्चाद् असौ च ।
[८५] अथ पूर्ववत् पुनर् वनागमने दिवस-समापने च जाते नक्तम् इदं निज-प्रेयसि राधा निवेदयति स्म—
मम सुख-विधये सदा समस्तं निज-सुखम् आचरतः स्म नादृतं ये । प्रियतम ललिता-विशाखिके ते धिनु लसिते न पराश् च मत्-परा याः ॥५९॥
[८६] श्री-कृष्णः प्राह—प्रिये ! ते ताश् च व्याजे व्यज्यमान एव सम्मंस्यन्ते । स खल्व् अत्र कतमः स्यात् ?
[८७] सा तु स्मित्वाह—मम वेशं विधाय प्रथमं प्रवेशम् आचर ।
[८८] श्री-कृष्णः प्राह—प्रियतमे ! तथा क्रियताम् ।
[८९] अथ कृत-बहु-विलासेन परिहासेन तया तथा रचितः श्रीमान् अजितस् तेनातिगोपिना तद्-वेषेण ते सङ्गम्य विकस्वरेण श्री-राधिका-स्वरेण रम्यम् इदं सूचित-प्रणयं ऊचिवान्—भो वयस्ये ! युवयोर् वयस्यं परिहस्य रहस्यम् अत्रागतास्मि । तस्माद् युवयोर् उपगात्रं मम गात्रं क्षण-मात्रं शयन-पात्रं क्रियताम् इति ।
[९०] तथा विधाय शयितः संहित-राधा-वेषः स राधा-दयितः स्वैरम् एव राधेति मत्वा ताभ्यां बहु परिहसितः पुनर् उवाच—सखि विशाखे ! किं कुरुते स पुरुषोत्तमस् तद् अवमृश्यताम् ।
[९१] अथ विशाखा तत्र गत्वापि ततः शङ्कां मत्वा तद्-ईहां ऊहितुं चिरं निलीय तस्थौ । अत्र तु स नागरेन्द्रः स्व-विलसितम् एव लसितं चकार ।
[९२] अथागतायाम् अनिर्धारित-वृत्त-शाखायां विशाखायां ललिता स्व-लज्जा-निःसञ्जनाय तस्याम् अनादरम् इव विधाय मिषात् तद्-वृत्तान्त-विशेषानयनं प्रतिज्ञाय तां तद्-अन्तिके रक्षित्वा स्वयम् अलक्षितं तत्र स्थित्वा कुतुकानन्तरं च मनसि बहु जहास । हसित्वा च तत्रैव स्थानान्तरे निलीय स्थितां श्री-राधिकाम् अपि लब्धवती । पुनर् एवं तेन प्रेयसा प्रेयसीभ्याम् अपि ताभ्यां मिलित्वा सा तद्वद् अखिलाः सखीर् व्रीडयामास ।
[९३] तद् एवं रात्राव् अत्रानेक-कुतुक-सत्राणि विस्तार्यापरस्याम् अपि तस्यां स विदग्ध-शेखरस् तया परम-वल्लभया सह विहरति स्म ।
[९४] तदा तु सा पुनर् अन्यत् प्रार्थयामास—अयि नाथ ! तद् इदम् अपि मम नाथितं प्रथितम् आचर । चन्द्रावली-वलिताः सर्वा एव वयं निदाघ-लता इव विरह-दहन-जात-दहनाङ्गतां गताः । ततः सर्वासाम् अपि तद्-उपशम-पूर्वकाणि पर्वाणि चक्षुषोः समक्षाणि कर्तुम् इच्छामः । \
[९५] श्री-कृष्णः प्राह—
भवती यदि लब्धाभूल् लब्धा एवाखिलाः प्रियाः । न लब्धा यदि लब्धा स्यान् न काचिद् अपि सुन्दरि ॥६०॥
[९६] तथापि यदि तव सुखम् उन्मुखं स्यात् तदामूर् अपि तव समूहम् आनयिष्यामि । किन्तु पूर्णिमायां याचस्व, यथा सा तासाम् अपि साम समासादयति ।
[९७] अथ सर्व-सुख-परीतायाम् अतीतायाम् अपि तस्याम् अपि तस्यां तम् अस्विन्यां विशाखा-पर्याय-नाम्नी विशाखया भगवतीं निवेदयामास । सा पुनर् एवम् आह स्म—मया पूर्वं चन्द्र-तारादि-बल-प्रतीक्षा लक्षीकृता । तत्र किम् असाधारणं समाधानं ?
[९८] विशाखा वक्ति स्म—अत्र वाञ्छित-सर्व-वरिवस्यया प्रिय-वयस्यया तद् इदम् उक्तम्—
व्रजेऽपि तं विना जातः स कालः काल एव नः । अत्राभिमुख्यं यत्र स्यात् तं मुख्यं मन्महे सखि ॥६१॥
[९९] पूर्णिमा स-स्मितम् आह—तस्याः सम्मतिर् एव सर्व-मङ्गल-सङ्गतिं धास्यति इति ।
[१००] अथ वृन्दां प्रत्य् अप्य् आचचक्षे—त्वं तावद् अधिगत-तत्-तन्-निशान्ता विज्ञापितार्वाचीन-वृत्तान्ता सर्वा मन्-नाम्ना साम्ना निमन्त्रय । अहं पुनर् अस्यां सर्व-सुख-सम्पद् अबन्ध्यायां सन्ध्यायाम् आगम्य वन-मालिनं रम्य-वनम् इदम् आनयिष्यामि ।
[१०१] अथ वृन्दा च तथाचचार । तासु श्री-राधायाः प्रणय-लब्धोदयां दयां चाधिगमयामास ।
[१०२] ततश् च वल्लीनाम् इव तासाम् उत्कलिकां विकाश्य वन-पालिका तद् आमोदं दामोदरम् आसादयितुं पौर्णमास्म् आसीदति स्म ।
[१०३] पूर्णिमा तु पूर्णित-मनास् ताम् आह—अथास्यां रात्रौ रात्रौ चेन् मन्मथाक्रान्तम् इत्य् आदि तत्रानुक्रान्त-कृष्णार्चाम् अनु मम स्वान्तं सङ्क्रान्तम् अस्ति । ततस् तद्-विहितम् उपहारं हारं हारं रास-विहारं कारयस्व ।
[१०४] अथ सायं स वृन्दया श्री-राधा-चन्द्रावल्य्-आद्याः सर्वा एव प्रणय-विनय-नय-प्राबल्याद् वनम् आनाययामास । आत्मना तु तासाम् आत्मायुत-वल्लभं वल्लभम् आनिनाय । राधा तु तासु तारासु चन्द्र-मूर्तिर् इव, वलक्ष-पक्ष-तिथिषु पूर्णिमा-पूर्तिर् इव, सर्वर्तु-सम्पत्तिषु वसन्त-सुषमेव, अलङ्क्रिया-प्रक्रिया-सूपम् एव, काव्य-श्रेणिषु रस-ध्वनि-प्रतिपत्तिर् इव, हरि-रति-जातिषु महा-भाव-सम्पत्तिर् इव चमत्काराधायिनी बभूव ।
[१०५] अथ पूर्णिमा तस्मिन् घने यामुन-कुसुम-वने सुख-प्रभविष्णुता-पदे तारा-वार-सम्भविष्णु-विष्णु-पदे चन्द्रेण कला इव कृष्णेन ता योजयामास । तदा तु— पूर्वं या न हि सङ्गताः प्रियतमं तासां तु तत्-सङ्गमा- रम्भः स्तम्भ-मुखं विकारम् अदधाद् यत् तत् तु युक्तं ब्रुवे । तेनालङ्कृत-सङ्गमा मुहुर् अमूः सङ्गमय्य राधादिकाः सूद्दीप्तं निखिलं च तं यद् अभजंस् तत् तत्र कस्माद् वद ॥६२॥
[१०६] अथ तूर्णतयामूर् आश्वास्य परिष्वज्य च पूर्णिमा निज-कलाविर्भावित-रत्न-स्थल्यां वृन्दा-सङ्गमित-नाना-शोभावल्यां रङ्ग-स्थानाखण्डले कर्णिकाकार-शङ्कु-सार-सद्-अलङ्कृति-कमलाकृति-मण्डले मध्यम् अधिकृत्य माधवम् अध्यस्तं विधाय परितस् तद्-वधूर् उपवेषयामास । तासु तु श्री-राधां पुनर् अपेक्षितासाधारण-निवेशतया तां सर्वोपरि विहितांसन्ती निज-सदेश एव रक्षितवती । ततश् च वाग्-देवताकाशतः स-परिहासम् आह स्म—
मध्ये तमालम् अधिरोप्य समं समन्ताज् जाम्बूनदद्युतिलताः समयोजयस् त्वम् । तर्ह्य् ओषधीश-कलशेन सुधाभिषेकं पूर्णेन चात्र कुरु यत् खलु पूर्णिमासि ॥६३॥
[१०७] तद् एवं समितम् आकर्णयन्ती पूर्णिमा पूर्णीकारि-निरीक्षणेन निर्वर्णयन्ती सहसा चन्द्रमसम् अपूर्णम् अपि पूर्णं चकार ।
[१०८] तस्या मुनेर् आज्ञया राज्ञस् तस्य तथाभ्युदयात् तत्-क्षणम् एव तामस-कुलं नाशम् आसन्नम् । यत्र तद्-अनुमति-पूर्वा का सा काचित् तिथिर् अपि राका बभूव । यत्रोडुप एवासौ तत्र महा-रास-सरस-विहारे स्वयम् उडुपतां व्यञ्जयामास । पूर्णिमा पुनस् तत्रान्यद् अपि श्री-कृष्णम् अभि तद् इदम् आश्चर्यम् आचचार ।
तस्यास् तस्या दक्षिणांशे तम् आवाहन-मुद्रया । साचकर्ष स यत्राशु प्रतिदीपवद् आगतः ॥६४॥
ततश् च—
मण्डलेषु स्थलाभावाद् इव राधां तदा तु सा । मध्यस्थ-कृष्ण-रूपस्य वाम-भागे न्यवीविशत् ॥६५॥
तत्र च सति—
दिक्ष्व् अष्टासु प्रसून-प्रकर-वर-वनं मध्यतः प्रस्फुट-श्री- रत्नाङ्ग-स्फार-पद्मं हरि हरि रमणी-मण्डलं तस्य चान्ते । श्री-राधा-माधवाख्यं मिथुनम् अथ बभाव् अन्तरे तत्र चैकं यत्र च्छत्रं प्रजातं निखिल-गुण-कला-सान्द्रता-चारु-चन्द्रः ॥६६॥
[१०९] अथ यथा-विधानं रास-वलय-सभाजन-सनीराजनं विधाय पूर्णिमयेदं ययाचे—चिराय तद् इदं जातम् अस्माकम् अभिलषितम् अचिराय फलम् इच्छति, यत् पुनर् अपि रास-विलास-विलोकनम् इति । तद् इदम् उपलभमानः श्री-वल्लवी-वल्लभश् च यथोपवेशं सदेश-वल्लभतया समुत्थाय सर्व-सुख-सम्पद् उत्थाय रास-रागं नाना-विभाग-रूप-प्रतिरूपतया वंशीभिः शशंस । यत्र च—
स्रोतांसि स्तब्ध-भावं कठिनतर-शिलां सार्द्रताम् उन्नतस्था नीचीनत्वं नतस्थास् तद् इतर-पदवीं तद्वद् अन्ये तद् अन्यत् । वंशी-गानेन यर्हि द्रुतम् अघ-दलिनः प्रापुर् एताश् च तर्हि श्री-गोप्यः स्वीय-लज्जा-ग्लपन-मदतया रेभिरे रास-लीलाम् ॥६७॥ शिञ्जितानि मुरली-रुतान्य् उत स्फार-लास्यम् उदयाय यन् मिथः वाद्य-गीत-वलनाय सर्व्स्थितता यत्र मोहम् अभजन् सुर-स्त्रियः ॥६८॥ उद्यत्य् आवेश-पुष्टे नटन-पटिमनि स्फारतां भूषणानां वंशीनां चाधिजग्मुः स्वनित-विलसितान्य् एवम् अत्रान्यदीयम् । वाद्यं गीतं च गच्छद्-विफलतम-दशाम् उच्चकैः स्तब्धम् आसीद् अग्रीयाग्रे जघन्यः स्वयम् अनुभजते मौनम् अच्याविनोऽपि ॥६९॥ गाङ्गेय-द्युति-नील-रत्न-महसः सौन्दर्य-साराकरास् ते गोपी-चय-कृष्ण-मूर्ति-निचयाः स्वेनैव चेतो-हराः । किं वक्तव्यम् अहो यदि स्वयम् अमी सङ्गीत-लीलाम् इता येषां तत्र विष्र्त्वराङ्ग-रुचयोऽप्य् उच्चैर् अनृत्यन्न् इव ॥७०॥ परस्परालिङ्गन-चुम्बनाद्य् अधुस् तत्राङ्ग-हार-च्छलतः प्रिय-प्रियाः । तल्-लाघवाद् व्यक्तिम् अनागतं मनाग् अप्य् आगमन् लाघवम् अत्र नाण्व् अपि ॥७१॥ चिरम् अतिविरहार्ता लब्ध-सङ्गाः पुनस् ते सुख-वलितम् अनृत्यन् दम्पति-व्यूह-सङ्घाः । इति भवति रहस्यं यद् विदित्वा तद् एव स्वयम् अभिलषति स्म प्रेमतः पूर्णिमापि ॥७२॥ वीक्ष्य प्राग्वद् अशेष-सत्-परिकरैः स्वैर् उच्चकैर् आचिते रासे कृष्णम् अमूर् विदूर-भवनाल् लब्धं चिराद् भाग्यतः । स्तम्भ-स्वेद-विवर्णता-स्वर-भिदा रोमाञ्च-बाष्पाश्रुभिः पूर्णैर् ज्ञान-लयेऽपि कान्तिम् अदधुर् ज्ञानेऽपि या दुर्लभा ॥७३॥
[११०] तद् एतद् वीक्ष्य खेचरीभिर् विचारितम्—
यः पुरासाम् अभून् मारः साम्प्रतं मदनः स तु । आसीत् कृष्णस्य दूरत्वाद् दूरत्वं कारणं यतः ॥७४॥ असाक्षयन्ती कञ्जाक्षं या क्षयन्ती पुरा स्थिता । सा राधा पश्य साराधा साराधा तेन दीव्यति ॥७५॥
[१११] अथ परस्पर-स्नेह-मय-स्वेदातिमात्रान् अत एव शिथिलित-गात्रान् अपि तान् दम्पतीन् अवलोक्य श्लोक्य-चरिता सम्प्रतीदं विश्राम्यतु, काम्यमानम् अन्यद् अनुमन्यताम् इति पौर्णमासी निवेदयामास ।
[११२] अथ तथा मण्डली-मण्डिततया निविशमानं दम्पति-मण्डलं श्री-खण्डादिभिर् दुग्ध-खण्डादिभिर् अपि सपर्याम् आपयन्ती पृथक् पृथक् कुञ्ज-कृत-शय्यासु सुखमय्या लीलया पर्यापयामास । ततश् च—
चिरात् कृच्छ्राल् लब्धः प्रणयि-हरिर् एकः प्रणयिनी महा-पद्मेनोद्यत्-तद्-अनुगुणित-व्यूह-सुभगः । विदग्धानां चूडामणिर् अखिल-वैदग्ध्य-गुरुणा रहश् चेत् कस् तर्हि प्रथयतु कविस् तत्र कविताम् ॥७६॥
यत्र तु,
तस्मिन्न् अस्रम् अजस्रम् एजनम् अनेजद्-रोमहर्षः स्फुरद्- धर्षं स्वेदज-वारि-हारि-निगद-स्पृग्-गद्गदः सत्-पदः । वैवर्ण्यं जित-वर्ण्यम् अन्तर-बहिः स्तम्भश् च दृक्-स्तम्भकः कान्तानङ्ग-रणे स्व-संहति-रणं बिभ्रद् विजिग्ये मिथः ॥७७॥ सर्वाभिसारस् तं जेतुम् अजितं जज्ञिवान् असौ । तथापि विजयस् तस्य विषमेषु-रणेऽजनि ॥७८॥ तद् एवं कुञ्जेषु क्वचन पुलिनेषु क्वचिद् अनु- स्थलं कापि क्रीडाम् अरचयद् असौ ताभिर् अनिशम् । यदि क्वाप्य् आवेशाद् व्यभिचरति कुत्रापि मिलनं तद् आजग्मुर् मानादिकम् अपि पुरावद् वर-दृशः ॥७९॥
यतः—
निवारणा दुर्लभता च योषितां मता सपत्नी-रचिता रस-प्रदा । ययाति-रत्नावलि-वर्णनं यथा सा सा पर-स्त्रीषु पराचितार्तिदा ॥८०॥
[११३] यद् अष्टानां नायिकानां गणनया स्पष्टतार्थं प्रोषित-भर्तृका स्वाधीन-भर्तृका प्रोषित-पतिका स्वाधीन-पतिकेत्य् एवम् एव निगद्यते, न तु प्रोषित-जारेत्य्-आद्य् अप्य् अनूद्यते । गच्छतु तावद् गतं, प्रस्तुतस् तु संस्तूयताम् ।
भवेद् असौ यर्हि हरि-प्रियावली परस्परं सेर्ष्यतया विशृङ्खला । हरिर् मिथस् तर्हि युनक्ति चातुरी रुरीतिभिस् ताम् अखिलाम् अपि स्वयम् ॥८१॥
[११४] तद् एवं लब्ध-विकासे बहु-केलि-विलासे, कदाचिन् मिलित्वा च तास् तद्-अधीता विद्या विलोकयामासुः । यत्र च—
वेदास् तद्-अङ्ग-कुलम् अङ्ग-कलाश् च साङ्गाः सान्दीपनेर् अधिजगे स भवांस् तद् अस्मान् । तान् ईक्षयत्व् इति पृथक् सकृद् एव तस्माद् अन्वीक्ष्य विद्म इति ताः स्मित-युक्तं ऊचुः ॥८२॥
[११५] यदा तु स्वयं पूर्णिमा-तिथिर् अतिथिवद् आगता, तदा स तु कृत-पक्ष-क्षणः शश-लक्षणः श्री-राधा-सपक्ष-विलक्षण-रास-केलि-संलक्ष्य-सुख-लक्षवान् पक्षतिं प्रति चिराय गति-स्तम्भम् अवाप । तदा तु—
अरराधत् वृथा कृष्णः सतृष्णः स प्रतिक्षणम् । अचकृष्णन् मुहुः सापि मनसा वचसा न तु ॥८३॥
[११६] अथ दिन-कतिपये पूर्णिमया पूर्णित-पूजा-चये परमानन्देन विन्दमान-समये तत्र चार्वागाविर्भूतं नव्यम् इव कैशोरम् आरभ्य पूर्ववत् प्रतिदिन-पूर्यमाण-कैशोर-मये कदापि राधा-विशाखयोः रहसि संवादम् इमं हरिर् अपह्नुत्य श्रुत्य्-अधिगतं व्यतानीत् ।
[११७] अथ विशाखोवाच—सखि ! परमानन्द-कन्दल-मयेऽप्य् अस्मिन् समये तव कलिकायमाना काचिद् उत्कलिकावकल्पते । तां कथं न विकासयसि ?
[११८] श्री-राधाह—सखि ! सत्यं ब्रवीषि । किन्तु भवतीनाम् अपि सा भवेद् एव ।
[११९] विशाखाह—का सा ? विकास्यताम् ।
[१२०] श्री-राधाह—यथा सर्वातिशायिकायाः कस्याश्चिन् नायिकायाः लब्ध-निजाभीप्सितायाम् अपि कापि लिप्सा कविभिः कविताम् आनीयते, तथैव दैव-वशाद् अस्माकं जाता ।
[१२१] विशाखाह—सा च का ?
[१२२] श्री-राधाह—
यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपास्
ते चोन्मीलित-मालती-सुरभयः प्रौढाः कदम्बानिलः ।
सा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौ
रेवा-रोधसि वेतसी-तरु-तले चेतः समुत्कण्ठते ॥१२२॥ इति ।
[१२३] तद् एवं सहसा रहसः शृण्वन्न् एव तां भुजाभ्याम् आवृण्वानः स व्रज-सुभ्रू-कुसुम-धन्वा तन्-मुख-बिम्बं चुम्बन्न् उवाच—साधूक्तं प्रेयसि ! साधूक्तम् । किन्तु “कृष्णा-रोधसि तत्र कुञ्ज-सदने” इति पठनीयम् । यस्माद् अद्य सद्य एव श्रीमत्-पितृ-चरणानुचरन्-निज-चारु-कौमार-प्रचार-मय-विहार-सार-सन्दीपित-वर-कालिन्दी-दक्षिण-पार-सन्दितं वृन्दावनम् एव सञ्चरितुं गोचरयिष्यामि इति ।
[१२४] तद् एतद् विचारयति चक्राङ्कित-चरणे पूर्णिमा वृन्दया सह विन्दति स्म । विन्दमाना च वृन्दा-मुखम् ईक्षते । [१२५] सा पुनर् आह—वृन्दावन-चन्द्र ! सेयं वृन्दा निवेदयति—
वृन्दावनं गोवर्धनं यमुना-पुलिनानि च । वीक्ष्यासीद् उत्तमा प्रीती राम-माधवयोर् नृप ॥ [भा।पु। १०.११.३६]
इति श्रीमद्-भागवत-गाथा । ततश् च—
विना भवन्तं त्रितयाङ्गम् अर्कजा- पारीण-मत्-कानन-धाम ताम्यति । तस्मान् नखाकार-सुधाकराकर- स्वाङ्घ्रि-क्रमालङ्कृतम् आशु तत् कुरु ॥८४॥
[१२६] अथ श्री-कृष्णः सतृष्णं तद् अनुजानन् भगवतीम् अनुज्ञापयंश् च श्री-पितुर् अनुज्ञापनाय व्रजम् आव्रजितवान् । श्री-राधादयः पूर्णिमादयश् च यथायथम् इति ।
[१२७] अथ कथा-समापनाय स्निग्धकण्ठः श्लोकयामास—
यथा भवद्-अभीप्सितं सुमुखि सम्यग्-उद्यत्-फलं प्रजातम् अथ तादृशं तद् इह मादृशः सम्प्रति । अनेक-वृजिनात्ययाद् अहह मादृश-गोकुलं समेत्य निरवर्णि यत् प्रमद-सम्पद् आवर्णि च ॥८५॥ सर्वासां हरि-लम्भनार्थम् अभवच् छ्री-राधिके केवलं रागस् ते प्रबलस् तथैव विरहात् तत्-प्राप्तये स प्रभुः । श्री-वृन्दावन-गुप्त-नित्य-वसतिं यः साधयन् सर्वदा स्वेषां स्वाश्रयिणाम् अपि व्रज-भुवां त्राणाय सम्पद्यते ॥८६॥ अथ यथाकथयत् कथकस् तथा स्वम् अनुभूय हरिः सह राधया । निज-विहार-भरं कथया समं न हि विवेद विभेद-समन्वितम् ॥८७॥
इति श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
श्री-माधव-राधादि-व्यतिषङ्ग-दिव्य-मङ्गलं नाम
षट्त्रिंशं पूरणम्
॥३६॥
(३७)
सप्तत्रिंशं पूरणम्
सर्व-सुख-सम्पद्-अवलोक-श्री-गोलोक-देश-प्रवेशः
[१] अथ श्री-व्रजराज-सभा-कथायां मधुकण्ठ उवाच—
[२] अथ लब्ध-सर्व-मनोरथ-सम्पद्-अन्तरे समनन्तरे दिनान्तरे व्रजराज-विराजमान-परिषद्-अभ्यन्तरे समुदन्तानाम् अन्तरम् आसाद्य श्री-गोविन्दस् तद् इदम् अवादीत्—यदि राज्ञां समज्ञा भवति, तदा रथः सोऽयं द्वारका-पथम् अनुसरतु, तथा माम् अनुविन्दमानं गो-गोप-वृन्दं कालिन्दी-दक्षिण-पार-गत-वृन्दावनम् एव विन्दताम् ।
[३] व्रजराज सानन्दम् आह—तात ! सर्वेषाम् अपि तद् इदम् एवाविशिष्टम् इष्टम् । किन्त्व् अत्राप्य् अस्ति किम् अपि विशिष्टम् ।
[४] श्री-कृष्णः प्राह—कामम् आज्ञाप्यताम् ।
[५] व्रजराजः सास्रम् उवाच—नाना-त्वद्-विरहानलान्तर-दशाम् आसाद्य माद्यद्-भया नाद्यापि प्रतियन्ति । पुत्रक ! बहिर् लोकाद् यथाक्रूरकाद् एते तद् व्रज-वासिनः स्वम् अपरे जानन्तु, नेत्य् उच्चकैर् वाञ्छन्तीति तथा स्वयं रचयितुं श्रीमान् भवान् बुद्धिमान् इति ।
[६] अथ मधुकण्ठस्य मनः-कथा—श्री-कृष्णस् तु तूष्णीकाम् अवलम्ब्य विविवेच—[७] एते खलु मम माधुर्य-पूर्यमाण-स्नेह-मय-देहाः, न तु मद्-ईशता-ज्ञान-वलितेहाः । तथापि यद् इत्थं प्रार्थयन्ते, तन् मम सान्दीपनि-सन्दीपित-विद्यता-ज्ञानेन सम्भवतु नाम । किं त्व् अमी न कदाचिद् अपि निज-महिम-समीहाः । तथापि चाहं पुनर् एषु समुत्कर्षम् एव वर्षन् हर्षम् आप्नोमि, तथा सम्पदम् एव सम्पादयन् स्वं पदं सम्प्रतिपद्ये । तस्माद् अशेष-सम्पद्-उपरिचरं सर्व-विष्णु-पद-वरं सर्वान् अप्य् एतान् परिकारितालोक-चरं गोलोकम् एव लब्धम् । तत्र च सर्व-नयन-चमत्कार-वाहं रथ-विहारं निर्वाहयिष्यामि इति ।
[८] अथ मधुकण्ठस्य स्पष्ट-कथा—अथ कृष्णस् तेषां तद्-इष्टं सुश्लिष्टं वेदयन् निवेदयामास—[९] तात ! तत्र वृन्दावन एव तादृग् अवकाशतां ब्रह्म-ह्रद-मज्जनाद् उन्मज्जन्तः स्व-स्थानं सज्जन्तश् च भवन्तः सर्व एवानुभवन्तः सन्ति स्म । तादृश-दुर्निर्देश-देश-प्रवेशनादि-विद्या च मया विद्या-तीर्थादाव् अन्त्याद् अधीतास्ति । तस्मान् न पूर्ववत् तीर्थान्तरावगाहनाद्य्-अपेक्षा वीक्ष्यते, किं तु सोऽयं मम रथ एव सर्वम् एव मनोरथं प्रथयिष्यति ।
[१०] अथ सर्वेऽपि प्रोचुः—यद्य् एवं सर्वे जानीयुर् अत्रैव वृन्दावने निज-जन-वृन्दानुगततया गुप्तः स वृन्दावन-पुरन्दरः सर्वदा वर्वर्तीति, तदा कश्चित् कश्चित् त्वं दीन-दयाधीन इति विपश्चिद् अत्रागत्य त्वाम् उद्दिश्य विक्रुश्य स्वार्थ-साधनाय यत्र कुत्रापि नेष्यति । ततश् च पूर्ववद् अस्माकं कदर्थना स्यात् ।
[११] अथ श्री-कृष्णः सास्र-स्मितम् आह—तथा रथस्य गति-प्रथा भविता, यथा न कश्चिद् अपि निश्चितम् अनुभविता ।
[१२] अथ सर्वे प्रोचुः—तत्र च यमुना-गोवर्धनादिकं वृन्दावनान्तर्-गततया पूर्व-दृष्टम् एव द्रष्टुम् इच्छामः । तत् कथं सम्भवति ?
[१३] श्री-कृष्णः स-स्मितम् आह—तत् तद् एवम् एकम् एव वस्तु प्रपञ्चाभिव्यक्त-तद्-अनभिव्यक्त-तद्-अनभिव्यक्ततया द्विधा प्रकाशमानं वर्तते । भवद्भिः पूर्वं दृष्टम् अपि शीघ्राकृष्टस्थिते न सम्भालितम् । तस्मात् किञ्चित् किञ्चिद् अपूर्वत्वेऽपि नान्यथा मन्तव्यम् ।
[१४] अथ सर्वे त एतद् आकर्ण्य स-सुखं तन्-मुखं निर्वर्ण्य वर्णयामासुः—
वक्तुं योग्यम् इदं न यद्यपि तथाप्य् अद्य स्फुटं ब्रूमहे सर्वेषां बहिर् अन्तरं च करणं नस् त्वत्-प्रयोज्यं परम् । तस्मात् त्वं कुरु तद् यथा यद् अभितो यद् येन यस्मै यतो यस्य द्राग् अपि यत्र सुष्ठु भविता नित्यं तवालोकनम् ॥१॥
[१५] अथ व्रजराज उवाच— एवम् अपि यथा तत्रापि मद्-भ्रात्रादीनाम् आनकदुन्दुभ्य्-आदीनां दीनान्तरता न स्यात् तथा प्रथनीयम् ।
[१६] श्री-कृष्ण उवाच—भवतां शुभानुध्यानेन तद् अपि सिद्धं बुध्यामहे इति ।
[१७] एतद् उक्त्वा च श्री-लाङ्गल-भृद्-उद्धवयोर् मुखं लसद्-उद्धवं ससुखम् ईक्षित्वा दारुकम् आह स्म—सारथे ! रथेनानेन यथेह सर्व-समाधानं स्यात् तथेहस्व । तच् च सर्व-व्रज-समावेशित्वं त्रि-लोकी-लोकालोकातीततया गोलोक-धाम-प्रवेशित्वं च इति ।
[१८] अथ वन्दारुकतया दारुकः प्राह स्म—यद्यपि नाहं विशेषं वेद्मि, तथापि यथादिशन्ति शरणागतानुगताचरणाः श्रीमद्-ईश-चरणास् तथैव सेत्स्यति इति ।
[१९] अथ क्षणाद् एव तथा लक्षणं रथस्य प्रथितिम् आचरंस् तं प्रति तं गोचरयाञ्चकार । ततश् च—
तज्-ज्योतिर्मयम् एव यानम् इति तर्ह्य् अह्नाय वह्नेर् इव स्फारत्वं प्रतिपद्य तत्र च गवावासादि-चित्रां गताम् । स्वं तेजो भुवनेषु तन्वद् उरुधा लोकेन नालोकि यत् क्वेदं तिष्ठति चाजनिष्ट च कुतः सङ्गंस्यते कुत्र च ॥२॥ अपरैस् तद्-दूरालोकं स्वालोकं व्रज-वासिभिः । तत्र दृष्टान्त एकः स्याच् छ्रीकान्तः स तु नावरः ॥३॥
[२०] तद् एवं सति सर्व एव व्रज-वसतिर् गोवर्धन-तल-निलयम् इव तद्-उपरि-वलयं तेन सह विवेश । ततश् च—
उत्सर्पज्-ज्योतिर्-आलीर् विभव-वशतया तं रथं तूर्ध्व-भाजं चर्माक्षा मेनिरे तर्ह्य् उपरि-गततया तत्-पदोपासकाश् च । कृष्ट्वा ब्रह्म-ह्रदात् प्राग् अपि मुर-जयिना लम्भिता गोमिनो यां तां वृन्दारण्य-मध्ये गतिम् इह सुमतं तद्-विदश् चार्व् अपश्यन् ॥४॥
[२१] तत्र यमुना-दक्षिण-पारीणादयस् तु—
नारूढा ये रथं ते च कृष्णं रूढानुरागकाः । पूर्णिमा-वृन्दयोर् योगाद् अनुजग्मुश् चर-स्थिराः ॥५॥ तत्रान्यच् चित्रम् आलोकि सर्वैश् च व्रज-वासिभिः । ये प्राग् अदृश्यतां प्राप्तास् तेऽप्य् अदृश्यन्त तत्र हि ॥६॥ रथं विभुर् गतम् अथ सिद्ध-कार्यतां व्रजेश्वर-स्पृहित-वशात् कुश-स्थलम् । वपुर् बहूकृति-कृति-विद्ययानयद् बलादिभिस् त्रिभिर् इतम् आत्मना च तम् ॥७॥ इति ।
[२२] तद् एवं कथकः कथयित्वा मनसि तु तद् इदं कथयामास—किन्तु व्रज-जनास् तथागच्छतस् तान् नाध्यक्षम् अध्यगच्छन् केवलं गोकुल एव स्थितान् अपश्यन् । दारुकश् च न तान् गोकुल-स्थान् अपश्यत्, किन्तु रथ एव स्थितान् ।
[२३] तद् एवं व्यूह-भेदेन लब्धे श्री-कृष्णादीनां व्रजेऽवस्थाने श्रीमद्-उद्धवस्याप्य् अत्र च तथा स्थितिर् युक्ता । यतः—
आसाम् अहो इति यद् अर्थितम् उद्धवेन प्राप्तं तद् एव खलु यत् त्रितयाङ्गम् इत्थम् । स्वस्याग्रिमा गतिर् अमूर् नितराम् अमूषां वृन्दावनं सदनम् आत्म-पतिर् मुकुन्दः ॥८॥
[२४] देवास् तु पूर्वम् अन्तर्धान-दृष्ट्या दुःख-स्पृष्टाः सम्प्रति यान् दृष्ट्वा स्फुटम् उल्लसन्तस् तव जयकार-वाद्य-प्रकार-वारं भासयन्तः सङ्गम् एव सङ्गता बभूवुः ।
[२५] किं च, तत्र तत्र च लीलायां देह-व्यूहं प्रपन्नास् ते चित्त-व्यूहम् अपि प्रपद्यन्ते । तं च तं च प्रपद्य तत्-तल्-लीला-रसाभिनिवेश-वशतया न सर्वत्र सर्वं प्रतिपद्यन्ते, किन्तु यथा-स्वम् एव । न हि लक्ष्मीस् तद्-भेदाः सीतादि-स्व-भेदानां खेदादिकं स्पृशन्ति ।
[२६] अथ यदवश् च तेषां तावन्तं विलम्बं नाजानन्, किन्तु स्वल्प-मात्रम् । यः खलु मास-द्वय-मयोऽपि व्रजे वहल-समय-व्रजतयासीत् । तच् च सर्वम् अस्य पूर्व-पूर्व-लब्ध-योगमाया-बलत्वान् नापूर्वं मन्तव्यम् इति ।
[२७] तद् एवं विभाव्य पुनर् गोलोक-प्रवेश-कष्टम् आविर्भाव्य स्पष्टम् आचष्ट—
ईक्षा-मात्रात् प्राप्त-चित्राविशेषान् कृष्णाज् ज्ञात्वा कौतुकं चाप्तवन्तः । लब्धाशास् ते गोपकाः प्रेम-वृद्ध्य तत्रामान्तोऽप्य् अन्तर् उच्चैर् विजह्रुः ॥९॥ श्री-कृष्णश् च द्राक् स्वयं सर्व-वन्यां पश्यन् धन्यां राम-चित्रः समित्रः । क्रीडन् धेनूश् चारयन् वेणु-गानं कुर्वन् सर्वं शर्म-पूर्णं चकार ॥१०॥
[२८] अथ लब्ध-तत्-प्रवेशस्य गोलोक-प्रदेशस्य परिपाटी पुनर् अन्यत्र ब्रह्म-संहिताप्य् अत्र तु नेत्राभ्याम् उद्घटिती-क्रियते । किन्त्व् इदम् अप्य् अनुसन्धेयम् ।
यद्यपि भवद्-अङ्गजता साक्षाद् अस्येति नेशता योज्या । तद् अपि महा-गुण-दृष्ट्या हृष्ट्या कविभिः परेशता कविता ॥११॥ इति ।
[२९] तथा हि, स खल्व् अयं लोकः प्राकृत-दृष्टीनां प्रकटे वृन्दावन एवाप्रकटं वर्तत इति पूर्वम् अत्र च प्रकटितम् अस्ति । तथा च सति—
चिच्-छक्ति-व्यक्त-वैचित्र्यं ब्रह्म-ज्योतिर् अदः पदम् । गोकुलाख्यं योग्य-लीलं श्रुति-स्मृति-विलोकितम् ॥१२॥ अस्मिन् यद् यद् भासकं भासितं वा तत् तत् सर्वं भाति कृष्णस्य योग्यम् । यस्माद् इष्टं न ह्य् अनिष्टं तु किञ्चिच् चिच्-छक्तिः सा सौति तस्यार्चनाय ॥१३॥ लक्ष्म्यैकयैव वलितं प्रति विष्णु-लोकं गोलोक एष जयतीति यद् आह शास्त्रम् । लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानः कृष्णः से एष वलते खलु तत्र साक्षी ॥१४॥ अतीत्य ब्रह्माण्ड-प्रचयम् अथ वैकुण्ठ-वलयं समूहं भक्तानाम् अपि मधुरिपोर् मूर्ति-निचयम् । अयं लोको धत्ते विधि-कलित-पूर्वाण्ड-पटलं रमा-कोटीः सर्व-स्तुत-गणम् अघारेर् वपुर् अपि ॥१५॥ चिन्ता-रत्नानि सन्ति स्फुटम् अपि तु न तद्-भूमितान्यत्र सिद्धा सिद्धा वा स्यात् तथापि स्फुरति धनम् इतः कामनान् नापरार्थः । मुक्तिर् नैवेति लब्धे तद्-उपरि च विभुर् यातु गोविन्द-भक्तिस् तस्याश् चूडामणिर् या तद्-उदय-वलिता भूर् इयं केन तुल्या ॥१६॥ अन्यत्र कल्प-तरुता निज-जाति-मात्रे व्यक्ता भवेद् इह तु सार्कतरौ च चित्रा । एष त्रिवर्गम् अपि यत् परमं विमोक्षं रुच्यं हरेर् भजनम् अप्य् अतुलं ददाति ॥१७॥ अमृतम् अपि च पीत्वा देव-वर्गः कदर्थं भजति सलिल-मात्रं चात्र किं वर्णयामः । अमृतपदुरवापध्यान-कृष्णाङ्घ्रि-पद्म- स्फुट-मधुरिम-धारा-वाहि यल् लालसीति ॥१८॥ गावो यत्र मुकुन्द-वेणु-रणितास्वादेन पुष्टाङ्गता जुष्टाः स्वस्तन-पर्वताज् झरमुचश् चिन्वन्ति दुग्धाम्बुधिम् । गोलोकः स यथा परीत्य विलसन् खातेन तेनानिशं श्वेतद्वीपतया प्रसिद्धिम् अयते मन्त्रेषु यन्त्रेषु च ॥१९॥ श्वेतद्वीप-प्रथिति तद् अदः किं च गोलोक-नाम श्री-कृष्णस्य स्फुरति भुवनं तत्-कृपा-मात्र-गम्यम् । जानन्तश् चेद् इदम् अपि मता दुर्लभाः क्षौणि-पृष्ठे तिष्ठत्व् एषां तद्-अधिवसतां चारु वार्ता तु दूरे ॥२०॥ उपरि विमानावलिभिर् लोकप-मुख्या ग्रहाश् च भान्तीह । गोकुल-शब्दाल् लब्धा लौकिक-लीला हि तत्र विस्रब्धा ॥२१॥ यत्र वासुदेव-मुख्य-वृन्दम् आवृत्तित्वम् एति । अस्तु तत्र चान्यद् अन्यद् अन्य-लोक-वन्द्य-वस्तु ॥२२॥
[३०] तद् एवम् उपरि परीवार-परीतम् अपि परितः सुदुस्तर-पारावार-तीर-क्षीर-पारावार-सीमतया प्रतीतम् अपि भगवद्-वपुर्वत् तम् इमम् असीम-प्रदेशं देशं कथयन्ति । [३१] यत्र चाष्टासु काष्ठासु धारित्र-निभ-विचित्र-लोकाः सलोकतां गता विलसन्ति । तस्य चान्तर्-वाचाम् अभूमिर् वृन्दावन-नाम्नी गोचारण-भूमिः । तथापि किञ्चिद् वचसा तद् अञ्चितं करिष्यामः ।
स्वर्ण-क्षौण्यां तमाल-गरुडमणि-भुवि स्वर्ण-पुष्पाः सुवर्ण- प्रख्ये वृक्षे पलाशान्यसित-मणि-समान्येवम् अन्यत्र किं च । तेषां यद्य् एक-पत्रं प्रतिकृति-कलया कर्तुम् इच्छेद् विधाता श्लोकेताहरिन्शं वा तद् अपि नहि यशः किञ्चिद् अप्य् अञ्चतीव ॥२३॥ कुञ्जाः क्वचिद् रत्न-गृहाङ्गतां गता वृक्षाः क्वचिद् राज-गृहाधिक-स्पृहाः । वल्ल्यः क्वचिल् लास्य-कला-कलापिकाः स्थल्यः क्वचिद् रत्न-तुलातुलार्चिताः ॥२४॥ एकस्यां दिशि पङ्कजादि-विलसन्-नद्यः परस्यां प्रसून्- आदि-क्ष्मा हिम-बालुकाभ-सिकता मध्ये तु यासाम् इह । एता रास-भुवः क्वचित् क्वचन ताः पुष्पाटवीर् अन्तरा क्वाप्य् अद्रि-स्थित-रत्न-भूतल-गता राजन्ति सर्वोपरि ॥२५॥ चित्र-भ्रमं दधति ते तरवो न यावद् वाता वहन्ति कुसुमादि विलोलयन्तः । चित्रन्ति तेऽपि च खगा न यद् आह्रियन्ते कंसारि-वंश-रणितादिक-माधुरीभिः ॥२६॥ शिलीवक्ता भेरी-ध्वनिम् अवर-वाद्यं चल-दलाः कुहूकण्ठा गानं दधति शितिकण्ठा नट-गतिम् । तद् एवं भ्राजन्ते बहु-विध-कला यत्र विपिने विना यत्नं रङ्ग-क्षिति-कुल-मयं तद् विलसति ॥२७॥ गीतं केचन केऽपि वाद्यम् अनिशं केचिच् च नृत्यं खगाः सम्मोदाद् अनुकृत्य बिभ्रति रुचिं वृन्दावने सर्वतः । किन्तु श्यामल-गौर-कान्ति-वलिता ये तत्र ये चाप्य् अमी तत्-तन्-नाम-विहार-सूचक-रुतास् तेऽस्माकम् अन्तर्-गताः ॥२८॥ परस्परं तत्र मृगाः स-सौहृदा भान्तीति चित्रं नतरां विमृश्यताम् । प्राणा हि तेषां स्फुटम् एकतां गताः कृष्णात्मना यद् विलसन्ति सर्वतः ॥२९॥ प्रान्तर-गोष्पद-भूमिषु हरिमणि-तुलितानि भान्ति तार्णानि । गावो मृगाश् च यासु श्री-हरि-परिपाल्यता-तुल्याः ॥३०॥ गाश् चारयन्ति विहरन्ति मिथो हसन्ति श्लिष्यन्ति बिभ्रति कलां रतिम् आवहन्ति । अत्र व्रजान्तिम् अवने हरि-राम-मुख्याः सार्द्रात्मना निखिल-चेतनम् आर्द्रयन्ति ॥३१॥ कृष्णस् तत्र च पूर्व-पूर्व-रिपुजित् केलीन्द्र-जालं कदाप्य् उच्चैर् मित्र-जनस्य संसदि मुहुः कुर्वन्न् अपूर्वायते । आसीद् भीषणता पुरा रिपु-ततेः सत्या न सा साम्प्रतं तादृग् या कुतुकं परं प्रसवति प्रत्यक्षता-कारिणाम् ॥३२॥ गावः शुभ्राः स-शृङ्ग-द्वय-शफ-चय-भू-जात-रूपांशु-रागाः स्थूलाम्भः-कुम्भदूधः-स्रवद्-अमृततया सार्द्रितान्तः-प्रदेशाः । आयत्या बालधीज्या नव-तनयम् अतीत्यापि कृष्ण-प्रसङ्गा- सङ्गाद् उद्यद्-द्रवाङ्गाः सुख-मुखर-मुखाः स्नेह-देहाः स्फुरन्ति ॥३३॥ दध्य्-अम्बुधेस् तरल-भाङ्-नवनीत-पिण्ड- प्रख्यानि शावक-निभान्य् अमृत-द्युतेश् च । कृष्णस्य च स्मित-सुधा-परिणाम-रूपाण्य् अस्मिंश् चरन्ति विहरन्ति च वात्सकानि ॥३४॥ नित्यं नित्यम् उदञ्चि-कान्ति-विशदास् तारुण्य-बाल्यांश-भू- चापल्यातिमनोहरा निज-गणासङ्गातिरङ्गाकुलाः । प्रत्यग्रामल-शृङ्ग-भा-वितरणा नाना-गति-द्योतितास् ते ते वत्सतरा हरेर् विलसित-प्राया रुचिं बिभ्रति ॥३५॥ शुभ्रा भस्म-प्रमुख-रजसः शृङ्खला-घण्टिकाभ्यां सर्प-स्रक्का द्वि-गुणित-जटा-बन्ध-तुल्याङ्ग-शृङ्गाः । अप्-पिताक्षाः सदुदय-लसच्-चन्द्रमः-खण्ड-पुण्ड्रा यस्मिन्न् उग्रा इव विदधति क्रीडितं तस्य भद्राः ॥३६॥ गाः पालयतां तेषां, आस्ताम् आह्वान-गान-नृत्यादि । अपि सहजं गदिताद्यं, तत्-तन्-मधुरि-मधुरां धरति ॥३७॥
[३२] तथा हि, गोलोक-मात्रम् एव वर्णना-पात्रम् आचरन्ति—
माध्वीक-जैत्र-मधुर-स्वरम् अक्षराणां उच्चारणाद् विजित-वेद-विद्-आदि-गर्वम् । कृष्णार्थ-तृष्ण-रस-भाव-कुलाकलङ्का- लङ्कारम् ईरितम् अपि स्फुटम् अत्र गानम् ॥३८॥ अकाले हंसालीर् वलयति विदूराद् विकलयत्य् अलं दिग्-दन्तीन्द्रान् दिविज-भरतान् उन्मदयति । गतिः कृष्णादीनां यद् इह तद् अहो किं कवि-जनस् तदीयं नृत्यं वा कवयतु वयः-कोटिभिर् अपि ॥३९॥
[३३] तत्र कंसारि-वंशी तु सर्वावतंसायते । यतः,
सर्वेषां स्फुटम् अत्र भृङ्गम् अवधिं कृत्वा तद्-आवासिनां सर्वाण्य् एव सदा हरेर् अनुभवे साहाय्यम् आतन्वते । किन्त्व् एतेषु च वेणुर् एव परमं सौहृद्यम् आपद्यते यस्माद् दूरतराद् अपि द्रुतम् अमुं कंस-द्विषः शंसति ॥४०॥ इति । नद्यश् च यत्र विविध-द्युति-नीरवत्यः सद्-रत्नज-द्रव-निभाः परितः स्रवन्ति । या वंशिका-कल-वशात् कठिनाः कदाचिद् रत्नाङ्गता-प्रकटिना महसा स्फुरन्ति ॥४१॥ शैलाश् च वेणु-रसार्द्र-शिलाखिलाङ्गाः पङ्क-प्रभा हरि-पदावलि-लब्ध-मुद्राः । याताः पुनः प्रकृतिम् अप्य् अथ तेन मुद्रा चित्रेण भूषिततमाः सुखम् आवहन्ति ॥४२॥ नाना-सरांसि कुमुदाम्बुज-जाति-जात- युक्तानि मान-गुणयोर् जल-सिद्धवन्ति । यत्र स्फुरद्-विधवति व्रजराज-सूनोर् वक्त्रं विभाकरति रत्नवतंस-युग्मम् ॥४३॥ तटिनी कृष्णा-नाम्नी, स्मरयति नाम्ना रुचा च तं कृष्णम् । मानस-गङ्गा पुनर् अथ, मानस-रूपा विभाति तस्यात्र ॥४४॥ यद् अपि कमल-बन्धोर् आत्मजा वाहिनी सा तद् अपि कमल-पालिं केवलां नानुपाति । अपि निज-हित-सोमां गन्ध-सोमालिम् एषा विदधति कुल-तुल्यं सर्वम् अच्छ-स्वभावा ॥४५॥
[३४] तद्-आदि-नदीनां च—
गाः पाययत्य् अपि च खेलति वारि मित्रैस् तीरे सुखं निविशते तरु-धाम्नि शेते । जाग्रत् तु चित्रम् इह जीवन-जीव-जात- केलिं विलोकयति गोकुल-राज-पुत्रः ॥४६॥ श्री-वृन्दावन-देश एष रुचिरः पुष्पादिभिर् भूषितः कृष्णा-मानस-गङ्गयोर् वलनया माला-द्वय-भ्राजितः । श्री-गोवर्धन-शैल-रत्न-तिलकश् चक्रादि-लक्ष्माङ्कितः श्री-कृष्णार्चन-दीक्षिताकृततया चित्तं सतां कर्षति ॥४७॥
[३५] तद्-देश-सन्निवेशश् च स्वयम् एवं निर्देशम् अर्हति । अथ श्री-वृन्दावनाह्वय-वन्या-मध्ये धन्यानां यत् परमं ध्येयं श्री-कुलाकुलं गोकुलं भवति, तस्माद् उदगर्ध-पूर्वयोः कृष्णा सर्वेषां सर्व-तृष्णां पूरयति । हुताशन-दिशः कतिपय-देशस् तु हुताशन-वेश एव व्रज-वासिनां प्राक्-कृत-व्रज-बहिरङ्ग-जन-सङ्गानङ्गी-कार-याचनया वासनया भासते ।
[३६] अथ दक्षिणार्ध-पश्चिमयोर् विपश्चितः सर्वतः पर्वतानकान् पर्वतान् वर्णयन्ति । येषां समीपे स्रवन्ती मानस-गङ्गा नाम स्रवन्ती विराजते । तत्र यद्यपि गोवर्धन-बहु-स्थान-सौगन्धिक-धवल-शोणराङ्कवाष्ट-कूट-वर-सानुमुख्याः सुख्याता महीयांसस् ते महीधरा महीयन्ते, तथापि ते च सर्वे गोवर्धन-लक्ष्म्यास् तद्-उपलक्षणतया लक्ष्यन्ते ।
[३७] स च श्री-गोवर्धनस् तस्य गोकुल-कमलस्य दक्षिणस्यां दिशि दृश्यन्ते । यमुना-सदेशे चेशान-देशे शोभित-तटेः श्रीमान् भाण्डीर-बटः सुष्ठु भ्राजते ।
[३८] तत्र श्री-गोवर्धनस्य प्रथमं प्रस्तूयते । स हि संहित-महा-धन-मणि-परिपाटी पटीयसा शुभ-जुषा वपुषा विश्व-विलक्षण-विश्वकर्म-घटिताङ्ग इव सङ्गच्छते । यस्य च क्वचित् क्वचिन् मिथः कृत-राग-मरकत-पुष्प-राग-शिला-युगल-रुचि-पूरात् कृष्ण-राम-सतृष्णया दूराद् अपि तत्-तद्-भक्ति-शूराः पर्यावर्तन्ते । क्वचन च स्वर्ण-रेखा-लब्ध-रुचिर-वर्ण-हरिन्मणि-भागम् आगम्य श्री-व्रजेशस्य यः सूनुर् या च स्नुषा, तयोः सुषमया तुषारयन्ति, वृत्त-तद्-अदर्शन-तप्त-चित्ता देव्यश् चित्त-वृत्तिम् । क्वचिद् अपि स्फटिक-गण्ड-शिला-खण्ड-मण्डल-मण्डतया स्व-यूथ-भ्रमात् तत्र कृत-क्रमा यूथ-भ्रष्टा गावः प्रणष्टान्वेषिभिर् विस्रभ्यमाण-कृष्णोपदिष्टतया लभ्यन्ते । क्वापि च कन्दरा-मन्दिराणीव श्री-गोविन्दानन्दि-तया सम्पद्यन्ते, नग-वराणां वारा नगराणीव । यत्र फलादिकं क्रय्यम् इव पर्यवस्यति । यत्रैव कलकल-कलाः पक्षि-कलापाः क्रय-नय-मय-संलाप-जना इव लक्षिताः क्रियन्ते । यत्रैव च मणि-शिलासन-युगलानि श्याम-शुभ्र-लावण्य-राज्यमान-राज-प्रकृति-निवेश-धन्यानि पण्य-कर-स्थानतया गण्यन्ते । यत्र यत्र च पुत्र-पुष्पादि-दुष्पाराश् छत्र-वारा इव केचिद् वृक्ष-साराः समक्षाः सन्ति । तेषु केषुचिच् चमरी-गुलुच्छाश् चामराणीव दृश्यन्ते । कुत्र च कृत-निर्झरिणी-विसराः स-सरोवर-निर्झराः सेवा-परिकरायन्ते । यतः,
ऊर्ध्व-स्नानावगाहाचमन-मुख-सुख-प्रापका निर्झरास् ते धाराभिस् तादृशीभिर् विदधति वृथितान् सीम्नि तांस् तान् उपायान् । मध्ये गोवर्धनाद्रेः सरसि सरसिज-भ्राजि मध्यस्थ-गेहे स्नेहेनाति-प्रसक्तान् दयिततम-जनान् केह्लयत्य् एष कृष्णः ॥४८॥
अत्र च—
उच्च-स्थितः क्वचन धैनुकम् ईक्ष्यते स्वं सत्रोपविश्य सखिभिर् लसति क्व चापि । संविश्य गूढम् अपि कुत्र च रत्न-दर्यां वर्याम् उपार्जयति केलि-कलां मुकुन्दः ॥४९॥
किं बहुना—
श्याम-द्युति-प्रथित-मूर्तिर् अनेक-धातु- चित्रः सदा शुषिर-वंशज-गान-रम्यः । पीताम्बरः सकल-भूमि-भृद्-आदि-वन्द्यो गोवर्धनः स इव गो-धन-भृद् विभाति ॥५०॥
[३९] एवं भाण्डीरश् च स्वयं खण्ड-मण्डल-पतिर् अपि तत्-केलि-कलाप-मण्डिततया तदीय-सेवा-पण्डिततया च तत्र स्तोत्र-पात्रतां विन्दते । यथा—
राष्ट्रं यस्य वनं स्व-नाम विदितं नाना-प्रजा-भूरुहा देशाध्यक्ष-जनाः स-पक्षि-पशवः पुर्यान्तरं स्व-स्थलम् । राजार्हासनम् आत्म-कुट्टिम-वरः पट्टाङ्गना-वीरुधः श्री-भाण्डीर-वनस्पतिर् नरपति-शब्धिः स विभ्राजते ॥५१॥ ऊर्ध्वं योजनम् अस्ति तिर्यग् अपि तद् भाण्डीर-नामा बटः पत्रैर् मारकत-च्छविर् नव-दलैर् उद्यत्-प्रवाल-प्रभः । शस्यैः काम-दुघस् तथापि सुमहा-गेहाय ते श्री-हरेर् यात्रावान्तर-गेह-कोटि-घटनां ते कोटरा बिभ्रति ॥५२॥ यस्मिन् विस्तीर्ण-दीर्घा रवि-दुहितुर् उपर्याशया पारमाप्ताः शाखाः पुष्पाटवीनाम् अपि हरितम् इता भान्ति पल्यङ्क-तुल्याः । हिनोद्ल्याभाश् च वल्ल्यः सुरभि-सुमनसां यत्र यत्रापि कृष्णस् तत्-तल्-लीलासु तृष्णग् विहरति परितोऽप्य् आवलीभिः सखीनाम् ॥५३॥
[४०] तद् एवम् अनयोर् भाण्डीर-गोवर्धनयोर् विदूर-भवनयोर् अपि निज-निज-कृष्ण-सेवन-मात्र-तृष्णतया किल तत्र तत्र स्थिरासनयोः समान-वासनयोर् उन्नत-शिरस्तया परस्परम् आलोकनम् इवालोक्यते । ययोश् च द्विज-वरा गत्यागति-धरा परस्पर-सन्देश-हरा इव दृश्यन्ते । याभ्याम् अगजिष्णुभ्याम् अनुचरीष्णुभ्यां विराजमाना सेयं वृन्दावन-लक्ष्मीः सर्वर्तु-लक्ष्मीम् आत्मसात् करोति । यत्र क्वचन सदा परम-शीतला-जल-वाहिनीनां कासाञ्चन वाहिनीनां बहल-गन्धवाहं वहति प्रदेशे विनापि तत्-तद्-ऋतु-दिनानि निज-निज-समयावेशाल् लब्ध-निज-निज-समवाय-वास-देश-सदेश-प्रवेशा निहिल-हारीत-किखि-वर्गा यथा-विभागं स-खेल-कृत-नाद-सर्गास् तत्र तत्र तम् अशेष-स्थले लब्ध-स्व-समयावलेपा झिल्लि-तल्लजाः कर्ण-शूल-मूलताशङ्का-कारण-क्रूर-झङ्कार-धारया सर्वं विदूरं कुर्वन्तस् तं हसित-शस्तं कुर्वन्ति । क्वचन च वारिधाराधर-तिर्यक्-प्रसार-शिखरि-शिखर-निज्र्हरासार-स्फुट-वर्ष-वार-रचित-सुख-सार-निस्तर्ष-चातक-भणित-प्रतिभणित-शब्द-मणि-कन्दराद्य्-आगार-वेश-देशस् तं कृत-प्रवेशं केशवं संवेश-सुखम् अनुभावयति ।
[४१] क्वचन च कंसारि-वंशी-गान-विशेषाद् अशेषानेहः फुल्ल-कमल-स्थलकमल-प्रधाने स्थाने हंस-पिकादि-लीला-निधाने सरागं वंशी-धरम् अमुं यथा-विभागं रास-कुञ्ज-विलास-लीला-पुञ्जं कञ्ज-नेत्राः परितः सञ्जयन्ति, सर्व-गरिम-ध्येय-मध्ये तु क्रम-जात-तत्-तद्-ऋतु-जातान्य् आद्यन्तरन्त-सन्धि-सम्बन्धि-सन्तत-शन्तम-सुखं सुख-रूपम् अपि तं सुखयन्ति । यथा—
दुष्प्रापानन्त-पुष्पाद्य्-उपहृति-कृतिनः कोकिलाद्याखिलाख्यान् आनीय स्वीय-वर्गान् विसरद्-अवसरास् तृष्णया कृष्णम् अत्र । निर्माणाः सेवमानाः सद्-अमृतम् ऋतवः स्वस्य कान्त्या विभान्त्या वर्षन्तः सन्ति सन्तः सततम् अपि यतः सर्वदा पर्वदाः स्युः ॥५४॥
[४२] कृतम् अतिविस्तरेण मति-दुस्तरेण ।
[४३] अथ तद्-अन्तः श्रीमन्-नन्द-भूप-भवन-स्तूप-गोकुल-रूप-मणि-महा-पद्मं महा-पद्म-पत्रं वर्णयिष्यामः ।
[४४] यस्य च सर्व-सुख-सत्राणां पत्राणाम् अग्रिम-सन्धिषु रुचिर-रचन-निर्बन्धिषु जित-परम-द्यो-स्थानानि गो-स्थानानि विभ्राजन्ते । येषु कल्प-शाला एव गवां शालाः । येषां मध्यं मध्यम् अधिकृत्य श्री-गोकुल-सम्पद्-अध्यक्षस्य गवां धामानि धामानि तन्वन्ति, परितः परितः पुनर् अन्येषाम् । यत्र मध्य-मध्य-स्थित-तद्-अध्यक्ष-गो-स्थानेषु गवावलोकार्थम् उपवेश-समावेशाय निरावृति-कुट्टिम-निविष्टानि मणि-वेश्मानि निर्दिष्टानि ।
[४५] तेषु सर्वेषु—
दिवा नूत्नैर् वत्सैर् निशि सुरभिजिद्भिः सुरभिभिस् तृतं सन्ध्या-युग्मे हरि-बल-सुहृद्भिश् च पतिभिः । गवां स्थानं तत्-तन्-मनसि मुनि-राजां च निदधन् निजां कान्तिं कान्तिं जनयति जनाः के किल परे ॥५५॥ गवाम् आहूतिः सा मुहुर् अपि च सा दोहन-कला हरेः सा सा चात्र प्रचुर-हसिताद्या विलसितिः । स्व-मित्रैः सा क्रीडा गृह-पतिर् असौ चास्ति सुख-भृन् मुहुर् यद् द्रष्टॄणां दृग्-अपर-दृशं लालसयति ॥५६॥
[४६] सदन-वनयोर् आगमन-गमनं तु पात्राणाम् एव सन्धि-सम्बन्धिभिः पथिभिः प्रथितम् । तत्र चेदं वर्णयन्ति—
श्रीमद्-व्रजस्य पदवीषु गुरु-प्रथासु श्री-कृष्ण-तत्परतया विलसत्-कथासु । सावृत्ति-सर्व-वर-वर्ण-समाश्रितासु सर्वासिनः श्रुति-समां प्रतियन्ति रीतिम् ॥५७॥
[४७] तेषाम् अपि पथां यथायथम् उभयतः प्रमद-वन-पात्रतया मोद-सन्दोहेनाबाल-सम्मद-सत्राणि पत्राणि तानि विराजन्ते । यानि च किञ्चित्-कुञ्चित-कमल-पत्रवद् एवालवाल-सङ्घ-सङ्गततया बहिर्-जन-दुर्लङ्घताम् अङ्गन्ति, शाखिनां घन-शाखतया न च स्फुट-मध्याद् अपि दृष्टि-परामृष्टिं गच्छन्ति ।
[४८] ये च राजान्तः-पुरं गन्तारः पन्थानः कथितास् ते तस्य कर्णिका-सङ्गतस्य सुबहु-मुख-शतस्य मणि-बद्ध-क्रम-सोपान-नद्धतयालम्बमाना वृन्दावन-वन-वृन्दम् आलम्बमानास् तन्-मकरन्द-समास्वाद-सुखाद् अस्पन्द-जिह्वा इव दृश्यन्ते ।
[४९] यस्य कर्णिकाकारस्य किञ्जल्क-वार-निभ-प्राचीरम् अभिस्पृशन्तस् तद्-अन्तः सदाभीर-निकराणां सपरिकराणां पुरोहितानां पुरो-हितानां श्रेणी-रूपाणां श्रेणी-रूपाणाम् अपि यथा-स्थानं निवासाः स-विकासा विलसन्ति ।
[५०] ये खल्व् अन्तर्-धाम-मण्डल-मार्तण्डस्य परिवेषा इव सुवेषा लक्ष्यन्ते । तद्-वासिनश् च ते गोकुल-पतेः सम्पद्-अंश-भागितया तद्-अंशा इति व्यपदिश्यन्ते ।
[५१] तेषु च—
ये सद्-भाव-समाः स्फुरन्ति पितृभिः कृष्णस्य ये भ्रातृभिर् ये सख्य-प्रथया विहार-परमैर् ये वा निषेवापरैः । विभ्राजि-व्रज-वासिताशुभ-जुषस् तान्-नूतनागन्तुका नामीभ्यः पृथग्-ईक्षया कलयितुं लोकाश् चिराद् ईशते ॥५८॥
किं च,
मातस् तात भ्रातर् इत्य् आदिम् आह्वां कुर्वंस् तत्-तत्-तुल्य-भावेषु कृष्णः । तत्-तल्-लोकाद् अप्य् अलं तेषु मोदं दत्ते यत् ते सर्वकं विस्मरन्ति ॥५९॥
[५२] अथ तस्माद् आवरणाद् अभ्यन्तरम् असाधारणान्तरम् अशेष-सभाखण्डलं सभा-मण्डलं परितश् चकास्ति ।
[५३] यत्र च स्व-वासि-जनम् अनुकुर्वन्तः परस्पर-सम्मुखतया सुखम् इव वलमाना विमानावतारा इव गृह-सारा विराजन्ते । ये खलु जात-रूपेण जात-रूपा वैदूर्य-मणिभिर् दृष्टि-प्राचुर्यम् इव हीरक-लसितैः सततम् अधीर-हसितम् इव विसृमर-राग-पद्मरागैर् महानुरागम् इव लावण्य-युक्तामल-मुक्तावलिभिर् विसरद्-अजस्र-सन्मदास्रम् इव मद्-कल-कलविङ्कादि-कलैः कलकलम् इव परस्परं व्यञ्जयन्तः सन्ति ।
[५४] तद् एवं सति बहिर्-अन्तः-सदन-जनाः सहज-कनकासन-गणम् अध्यासीनाः श्री-कृष्ण-राम-कथा यथायथं प्रथयन्तस् तत्-तद्-भाव-भावनतया शारीर-स्वभावम् अपि विस्मरन्तीति किं वर्णनीयम् ।
[५५] यदा यदा तु कदाचित् क्वचिद् असौ श्रीमन्-नन्द-कुल-चन्द्रमा निज-कान्तिभिस् तेषां चकोर-वाराणाम् इव पारणां पूरयति, तदा ते निज-निज-जन्म च नवनववन् मन्यन्ते ।
तत्रैव श्रव्य-दृश्याभिध-विविध-महा-काव्य-वृन्दं स-चित्रं कृष्णस्याजन्म-लीलावलि-वलिततमं दर्शयन्तः सुविज्ञाः । तं तात-भ्रातृ-बन्धु-प्रभृति-निज-जनानेक-लक्षेण सौख्याद् आसीनं नन्दयन्तश् चिरम् अपि विगतं तत् तद् अध्यक्षयन्ति ॥६०॥
[५६] तद् एवं परितः परिसृतं कक्ष्या-देवयं प्रख्यापितम् ।
[५७] तयोर् अप्य् अन्तः-पञ्च-कक्षी तु साक्षाद्-व्रज-क्ष्मापतेर् एव निवासः श्रीनिवासतया श्रीनिवास-वासतया च सर्वेषाम् अपि सर्व-वासनां पूरयति ।
[५८] तत्र मध्यमं प्रकोष्ठं पुनः सर्वतः श्रेष्ठतया मध्यमताम् अतिक्रान्तं शुद्धान्त इति कथ्यते । यस्य पश्चिमायाः काष्ठायाः पञ्चापि प्रकोष्ठा निखिल-साध्वीश्वर्या श्री-गोष्ठाधीश्वर्याधिष्ठीयन्ते । उत्तरस्याः साम्बालेन प्रलम्ब-कालेन पूर्वस्यां सर्वेश्वरेण श्री-गोष्ठाधीश्वरेण, दक्षिणस्याः स्वयं गोकुल-लक्ष्मी-नाथेन मद्-विध-नाथेन ।
[५९] तद् एवं कक्ष्या-सप्तक-मयी सर्वेषाम् अपि जीवनस्य लक्ष्या, सेयं राजधानी विराजते ।
[६०] यत्र खल्व् अन्तर् अन्तः प्रतिकक्ष्यम् उपर्य् उपर्य् एकैकाधिक-भूमिकतया गृहानयन-स्पृहां बृंहयन्ति । [६१] अत एव—
यद्यपि मणि-मय-लक्ष्मीः सर्वा सेयं पुरी भवति । तद् अपि शिरोवन्-मध्यः कोष्ठः सर्वाङ्गतः श्रेष्ठः ॥६१॥
[६२] अस्य मध्न्ये महा-महिम-ध्येयतानन्दित-निज-भक्तं मेर्वाकार-कुट्टिम-निविष्ट-स्तम्भ-पङ्क्ति-सक्तं सर्व-मुकुट-भानं कुट-प्रधानं विराजन्ते ।
[६३] यच् च निकेतनं विराजत्-केतनं चलत्-पताका-खेलतया चेतनम् इव चिन्त्यते ।
[६४] यत्र च सखिभिः स कदाचिद् आरूढः प्रथित-जिष्णु-नीलकान्ति-विजिष्णु-कान्तिभिर् उपगूढः सर्व-गोलोक-लोकं लोकयन्तं लोकयन् युगपद् एव प्रमद-मूढं करोति । यथा—
चक्षूंषि सिञ्चति मनांसि मुहुर् धिनोति प्राणान् बिभर्ति पुलकेन तनूस् तृणोति । तेषां तदा बत यदा मणि-कुट्टिमाग्रम् आरुह्य गोकुल-विधुः किरणं तनोति ॥६२॥
[६५] अस्तु तावत् तत्-स्थ-तद्-अवस्थ-जनानां वार्ता, सा च पुरी तादृश-प्रेम-विकारम् उरीकुर्वतीव महद्भिर् उरीक्रियते । तथा हि—
यस्यां पत्काकाइर् अनेक-रूपा वातेन नाना मुखतां प्रयाता । चित्रालनेत्राः परितः स्फुरन्तं व्यक्तं हरिं पश्यति पश्य पश्य ॥६३॥ कुम्भाः सुधाकान्ति-समाः स्व-कान्तिभिः पूर्णा गृहाणाम् अधिशेखरायिताः । मङ्गल्य-रूपाणि वपूंषि बिभ्रते हरेः सदाभीप्सित-सर्व-पर्वसु ॥६४॥ सद्मावलीनां पटलेषु शुभ्र- प्रभाः प्रभान्ति स्फुट-रत्न-बिम्बाः । श्रीमद्-व्रजेन्द्रात्मज-केलि-वृन्दाद् इव प्रफुल्लाः पुलक-प्रकाराः ॥६५॥ मयूर-पारावत-पक्षि-मुख्याः क्रीडन्ति चित्रं प्रणदन्ति चारु । भक्ता इवामी च विचित्रयन्ति श्रोत्रे च नेत्रे च सुरारि-शत्रोः ॥६६॥ चित्राणि रत्न-प्रचितानि भित्तिष्व् आभान्ति तत्-तद्-रुचिरोचितानि । जन्मादि-लीला-व्रज-राज-सूनोर् अद्यापि यानि प्रथयन्ति सन्ति ॥६७॥ सद्मानि शश्वद् विलसन्ति सर्वतस् तदीय-सद्-भक्त-यशांसि बिभ्रति । अभ्यन्तरेऽलिन्द-मुखे च सानुगः स्वं नाम विन्यस्यति येषु माधवः ॥६८॥ विचित्र-शोभा-मणयः सुभासुराः सभान्तरालं रचयन्ति चित्रितम् । नेयान् परं तेषु गुणः परश् च यद् दोषासु दोषा-तिलका भवन्ति ते ॥६९॥ तस्यां समन्तान् मणिजाङ्गनानि स्वच्छानि सद्-भक्त-मनः-समानि । स्थाने ततस् तानि हरेस् तदीय- व्रातस्य चाभास-तनूर् वेऽन्ति ॥७०॥ इति । (कुलकम् अष्टभिः)
किं च,
लोको दिव्यातिदिव्यस् तम् अनुसमधिकं गोकुलं तत्र लोका ब्रह्मादीनां विमृग्य-स्थिति-पद-रजसस् तेषु तृष्णक् स कृष्णः । योऽयं जीवातु-रत्न-प्रतिकृतिर् अथवा जीवनस्याङ्गम् इत्थं ज्ञातः कुत्रापि गत्वा प्रतिमिलिततया येषु शश्वद् विभाति ॥७१॥
[६६] तद् एवम् अनभिव्यक्त-चिद्-वस्तूनाम् अपि प्रस्तुत-तत्-प्रेमाभिप्रेयते । किम् उत तत्-प्रेम-मय-चिद्-विलास-भासमानानां, किम् उततरां चिर-विरह-दहनानन्तरम् अमृतम् इव तम् उपलब्धवतां तस्य च पुनर् अगमनं विस्रब्धवतां तेषाम् इति तात्पर्यं पर्यवसीयते । यतः—
आजगाम यदु-पत्तनाद् असौ माधवः किल यदा तदा व्रजः । आगतोऽयम् इति वर्धि-सम्मदाद् अद्यताम् इव सदाधिपद्यते ॥७२॥ यर्ह्य् आयातः स यदु-सदनाच् छ्री-व्रजेशाङ्ग-जन्मा तस्माद् ऊर्ध्वं पर-पर-दिनं शर्म-धर्माजनिष्ट । तत्-तत्-कृच्छ्रात् तद्-अनु मिलनं सूचयद् गीत-वाद्यं स्वाद्यं कर्त्री निखिल-जनता यन् नयन्ती न वेद ॥७३॥ ये ये चासन् प्रकट-विभवे स्थवरा जङ्गमाश् च श्रीमद्-वृन्दावन-भुवि त एवात्र कृष्णं प्रपद्य । आनन्देन प्रतत-रुचयस् तं प्रति स्वं भजन्तः स्वस्मादन्यत् किम् अपि न विदुः श्रेयसां चारु-पात्रम् ॥७४॥ वृक्षाः शैलाः ह्रदिन्यः खग-मृग-निचया वन्य-देव्यः सुरभ्यः सेवा-तृष्णाः सखायः पितृ-मुख-गुरवः किं च कान्ता व्रज-स्थाः । कृष्णाद् विच्छिद्य कृच्छ्रात् प्रतिमिलिततया स्निग्धता-दिग्ध-भावं बिभ्राणास् तस्य कान्तीर् नव-नव-तुलया शश्वद् एव प्रतीयुः ॥७५॥ शृण्वन्ति जिघ्रन्ति विलोकयन्ति स्पृशन्ति कृष्णं व्रज-वासि-जीवाः । अहो चिरात् प्राप्तम् अमुं त एके लिहन्त्य् अपि प्रत्यहं ऊढ-तृष्णाः ॥७६॥ जन्म-श्री-प्रभृतीनि केशि-निधन-प्रान्तानि गायन् व्रजः कृष्णस्याचरितानि सौख्यम् अयते यत् तानि तच्-छर्मणे । यद् यत् कंस-वधादि सुष्ठु तद् अपि प्रोद्गाय भूयः सुखं यात्य् उच्चैर् विजयी निजं गृहम् असाव् आगत्य यन् नन्दति ॥७७॥ जन्मारभ्य हरेर् निजा यद् भवद् बाढं रमाक्रीडता- नन्दत् तेन पुरा व्रज-क्षिति-जनश् चित्रं न तत्र क्वचित् । द्वार्वत्याम् अपि भूतिर् अस्य यद् अभूत् स्फारा स तेनाप्य् अलं सौख्यं याति स यत् प्रियः किम् उत तत्-त्यागेन चेद् आगतः ॥७८॥ दत्ते यस् तुलसी-दलं लवम् अपि द्राग् उत्तमर्णं तम् अप्य् अङ्गीकृत्य वशीभवत्य् अयम् इति ख्यातं मुनीनां मतम् । तस्मात् सर्व-समर्पिणं व्रज-जनं हित्वा गतः सद्-द्रुहां नाशायाथ विधाय तं पुनर् इहायातोऽप्य् असौ लज्जते ॥७९॥ बाढं ह्रीच्छति तत्र चायम् अगतिं पित्रादि-लोकं व्रजं हित्वा भूतिम् अपार्जयं जनपदे दूरे वरेण्याम् इति । जिह्रेत्य् एष च स व्रजः स्वयम् अमूम् औज्झीद् असौ नः कृते द्राग् इत्थं मिलनोत्थ-शर्म तु परं तच्-छादनायाजनि ॥८०॥ दूरं गत्वा विचिन्वन्न् इव जगति च यैस् तुल्य-भावान् अतोषं सर्वत्र प्राप्य भूयः स्वक-सदनम् अगात् तैर् व्रजस्थैर् अपूर्वम् । क्षेम-श्री-प्रेम-मात्रं सततम् अभिलषन्न् अर्थम् एतन् निधींस् तान् उद्बिभ्रत् तात-मुख्यान् हरिर् अयम् उदयद्-गर्ववान् पर्व याति ॥८१॥ पाल्यानां सद्-गति-श्रीः स्फुरति सवयसां दिव्य-सत्-कर्म माता- पित्रादीनां विलोकः प्रणयि-वर-दृशाम् एष कृष्णः परात्मा । ते तस्याप्य् अङ्घ्रि-युग्मं भुज-युगम् अभितोऽप्य् उत्तमाङ्गं हृद्-अन्तः कञ्जं पूर्व-क्रमेणेत्य् उभयक-पुरुषाकारम् आभाति गोष्ठम् ॥८२॥ मातुर् लालनम् एत्य सम्मतिम् इतस् तातस्य च भ्रातृभिः सार्धं धेनु-गणावनाय विपिनं गत्वाचरन् क्रीडितम् । आगम्याथ गृहं समस्त-सुहृदाम् ईदृक्-प्रतीतिं भजत्य् एष श्री-व्रज-राज-नन्दन-शशी श्वासो न एषाम् इति ॥८३॥
[६७] अथ कथकः समापनम् आह स्म—
हंहो सौख्यं सुर-द्विट्-कटु-कटक-घटा-प्रष्ठकंसादिकांस् तान् हत्वा तत्-क्लिष्ट-इच्त्तां पितृ-मुख-जनतां निर्वृतां सुष्ठु चक्रे । किं चान्यः स्व-प्रियाणां पतिर् इति बहिर् अख्याति दुःखानि हत्वा तत्-तद्-विशेष-पीडा-च्छिद् अयम् अतिजगद्-दृष्टि गोष्ठे विभाति ॥८४॥
अत्र च—
तत्-तत्-केलि-कला-कलाप-कलनाः कृष्णस्य विश्लेषता- तृष्णक्-चित्ततया पुनर् व्रजम् उपायातस्य वर्ण्याः कति । सोऽयं गोकुल-बन्धु-वृन्द-वलितः श्रीमान् सभा-मण्डले गोपाखण्डल-सूनुर् अत्र निवसंश् चित्तं हि बध्नाति नः ॥८५॥
[६८] इति वाक्-स्तम्भं सम्भवन् मधुकण्ठः साञ्जलितया बाष्प-पुरा-सञ्जनं स-व्रजं कञ्ज-लोचनं विलोचयन् क्षण-कतिपयं विलक्षणतया तस्थौ ।
[६९] श्री-व्रजराजस् तु नन्दित-सर्व-समाजस् तं स-भ्रातरं भूयश् च भूयश् च भूयः समाहूय स्व-वपुषा सम्भूय निज-नयनामृतेनाभिषिषेच ।
[७०] तयोः सर्व-तृष्णां तर्पयन् समर्पयामास च कृष्णाय स्वयं ताव् इति । कृतं सर्व-व्रज-सह्तिअ-व्रज-राज-कृत-तत्-तद्-अगणेय-दानादि-गणनया । स-व्रज-वधू-व्रजा व्रजराज-वधूर् अपि यां तदीय-महा-सुकृत-परिणाम-रूपां कृपाम् अकृत, सापि कतिपयं वर्णनीया ।
[७१] यस्याम् अच्छायां निज-सुतस्य छायावद् एव ताव् अधिगतवती ।
[७२] अथ श्री-व्रज-वन्दिनस् तं वन्दमाना मङ्गलम् आचरन्ति स्म—
यः श्रीमान् व्रजराज-सिन्धुज-विधुः स्वां कीर्ति-कान्तिं किरन्न् अच्छिद्रं त्रि-जगत् पुपोष नितराम् आस्तां व्रजान्तः-कथा । गत्वा दूरतरं च गूढ-तमसां नाशाय भूयः समा- गच्छद् बाढम् असौ सदा विजयताम् अस्मद्-दृशां गोचरे ॥८६॥
[७३] अथ वन्दनम्—
श्याम-पुरन्दर-धाम-मधुरन्धर दुष्ट-विनाशन जुष्ट-विपाशन सम्मद-सागर-जन्म-दशाधर पूत-निभाकृति-पूतनिका-मृति- तन्-मृति-तारक-सत्कृति-पारक शाकट-भञ्जन-भाग्-अटद्-अञ्जन- लोचन-मर्दन-रोचन-मर्दन-संहित-रोदन-बंहित-तोदन गर्ग-कृताह्वय-वर्ग-भृतान्वय दानव-मारुत-दान-बलान्वित बन्धु-रसेलित बन्धुर-खेलित भक्षित-मृत्तिक लक्षित-वृत्तिक दर्शित-विश्वक मर्शितर-स्वक-मातृ-सुविस्मय धातृ-शुचि-स्मय तर्णक-मोचक वर्णक-रोचक शोभन-चौर्यक लोभन-शौर्यक मातृ-समीक्षण-यातृ-सभीक्षण मातुर् उरोजप जातु रुदन्न् अप- हृत्य हविर् द्रुत-कृत्यतयाद्भुत दुष्ठु-भयादित सुष्ठुतया सित भिन्न-नग-द्वय-मिन्न-नमन्मय जात-विशोचित-तात-विमोचित हर्यग-कानन-वर्य-रतानन गोकुल-सङ्गत गो-कुल-सङ्गत वत्स-वनार्दन वत्सवकार्दन दीर्णमयात्मज तीर्ण-महा-व्रज सर्व-जनाद् अघ-गर्व-जयानघ कालिय-जिन् नटनालि-यशो-नट चारित-धेनुक मारित-धेनुक अस्त-प्रलम्बक शस्त-कृदम्बक भाव-मुधा-भय-दाव-सुधाधय बोधन-गर्धन गोधन-वर्धन पर्वत-याजन पर्वत-याजन-धर्म-वर-प्रथ शर्म-भर-ग्रथ- तद्-धरणी-धर-सद्-धरणी-धर धृष्ट-सुरेश्वर-वृष्ट-सुजित्वर काम-गवीसुर-धामग-ठक्कुर-सिक्त तद्-आदिक-निक्ततमाधिक ॥ वीर ॥८७॥ स एष कृष्ण सम्प्रति त्वम् अत्र गोपतिं प्रति प्रशस्तम् अङ्कम् आश्रितः सलोभ-चेतसार्द्रितः । भवन्तम् एनम् ईक्षितुं निमेर् जयाय शिक्षितुं मनस् तु वष्टि योगितां न यद् भजेद् वियोगिताम् ॥८८॥
अपि च—
पैत्र-विमोषक जैत्र-विदोषक पाशि-भय-भ्रम-नाशि-जय-क्रम सन्तत-गोकुल-सन्तत-गोकुल-दर्शनया युत-दर्शन-संस्तुत नाग-सुदर्शन-भाग-सुदर्शन रत्न-निपातन-यत्न-निघातन तक्षित-यक्षक रक्षित-पक्षक तर्जद्-अरिष्टद गर्जद्-अरिष्टद वेशित-सद्-भुज केशि-तनूरुज कंसक-मारण शंसक-कारण सङ्गत तत्-पुर-रङ्ग-ततः पुर एव वपुर्हर देववद्-अम्बर सद्-वर-वायक सद्-वर-दायक मालि-सुधामक पालि-सुधामक कुब्जि-वपुः-सुदृग्-उब्जितता-धृग्-अङ्ग तद्-अर्पित-सङ्गत-कल्पित चन्दन-रूषित वन्दन-तूषित पृष्ट-मख-स्थल सृष्ट-महा-बल खण्डित-चापक दण्डित-शापक सङ्ग-परादिम रङ्ग-पदाग्रिम- हस्ति-पदारक हस्तिप-मारक अंसग-दन्तक कंस-सद्-अन्तक मल्ल-जन-क्रथ तल्लज-मुत्-प्रथ मारित-कंसक तारित-शंसक प्राज्य-दयाहुक राज्य-दयाहुक जङ्गत यादव-सङ्गत-माधव युक्ततयासजद्-उक्त-चयाद् व्रज-यापित-तातक धापित-शातक तन्-निजता-प्रथ सद्-द्विजता-व्रत गौरव-भूमत गौरव-भू-गत शास्त्र-कथाञ्चित शास्त्र-कलाञ्चित पञ्चजनाद् दर-सञ्चय-सुन्दर धर्म-नृपार्चित-शर्म-कृपाञ्चित काल-वशं गुरु-बाल-वपुः पुरु दक्षिणयन्न् अथ दक्षिण-सत्-पथ-सद्म-समागत पद्म-समायत- लोचन-बन्धुर-रोचन शन्धुर संस्मृत-गोव्रज-सम्भृत-शुग्-व्रज तत्-प्रहितोद्धव तत्-प्रहितोद्धव तच्-छ्रुत-शान्तिक सम्प्लुत-कान्तिक दूत-समागम-भूत-शमाशम-मागध-योधन-सावध-रोधन ॥ वीर ॥८९॥ अहो स एष भो भवन् व्रजेश-गोचरे भवन् निजां कथां परामृशन् सुखायसे ह्रियं स्पृशन् । तदास्मदीयम् अन्तरं मदेन माद्यद्-अन्तरं न चान्यद् अन्यद् ईहते कृपेदृशी यद् ईहते ॥९०॥
अपि च—
राजप-याचित रज-पदार्चित सप्त-दशाहव तप्त-दशाद्रव दन्ध-जरासुत बन्ध-जयानुत यावन-राड्-भय-भावनतामय- विद्रव-पण्डित विश्रव-मण्डित भस्मित-कालक स-स्मित-भालक अङ्ग-जरासुत-रङ्गजव-द्रुत अब्धि-पुरी-चिर लब्धि-पुनः-स्थिर भीष्मकजाहृति-भीष्मकलाकृति-सन्दित-दुर्जन नन्दित-पुर्-जन सत्यतयाजित-सत्य तथा हित-जाम्बवद्-ईडित जाम्बवती-श्रित हेलि-सुतावर केलि-सुधाकर उज्जयनीजनुर् उज्जयनाद् अनु भद्रितयाभृत-भद्रिकयावृत सप्तौक्षण-जय-नाग्नजिती-प्रिय आयित-भाद्रिक जायितमाद्रिक भूमिज-कालक भूमिज-पालक अन्य-सुतामर-धन्य-सुताकर-पीडन-सज्जित-पीडन-वर्जित निर्जर-पादप-निर्जर-पादप-हार-जगन्-मद सारङ्गय-ह्रद शम्बर-दारण-डम्बर-कारण-शङ्कर-मोहन शङ्करणोहन- बाण-करायुत-दान-कलायुत पण्डित-पुण्ड्रक-दण्डित-पुण्ड्रक काशिप-चक्र-कनाशित-चक्रक कौरव-भूगत-पौरव-सङ्गत नन्द-नृपादिक नन्द-कृपाधिक गर्भक-मेलय-दर्भक-निर्भय बल्य-तुल्याञ्चित बल्य-कुलार्चित चैद्य-महा-गद-वैद्य-मतागद सौभ-विलापक कौ भविकापक रागतमात् पुरम् आगत माथुरम् अत्र च नारद-मन्त्र-चयादद कुल्य-मतङ्गज-तुल्य-करूषज- पञ्च-मुख-प्लुत पञ्च-मुख-स्तुत वन्द्य पुनर्-व्रज-नन्द-पुनर्-व्रज- नागति-सन्मदभागति-शर्मद दातकुविक्रय तात-कुल-प्रिय शर्म-तुलाधृत-कर्म-कुलावृत ॥ वीर ॥९१॥ व्रजेश-दृष्टि-वश्यतां यता त्वया च दृश्यतां निरिङ्गतां गतोऽप्य् असि त्वम् अत्र नापि तृप्यसि । कथं वयं तवेदृशं सुखं स्तवाम ये भृशं निरुद्ध-कण्ठ-तातताः स्फुटं समूकता मताः ॥९२॥
अपि च—
तातजनन्यप-यातपथिग्लपनाथ समस्तकनाथ सशस्तक- मित्र-रति-ह्रद-चित्र-गति-प्रद उद्वहनागमम् उद्वहनासम लक्ष-विवाहक पक्ष-विगाहक उल्लसद्-अन्तर-फुल्लदनन्तर- लज्जन-मज्जक सज्जन-सज्जक पूर्व-वनं पर-पूर्व-मनः-परम् आगत तत्-कृत-रागतयावृत सद्-व्रज-रञ्जक सद्-व्रज-सञ्जक अच्छ-वनाचल-कच्छ-गणाचल शील-कुलाकुल-लील तुलातुल तात-जनन्य्-अनुयात-कुलान्य् अनु शान्तिद शर्मद कान्तिद नर्मद इन्द्रमणि-द्युषद्-इन्द्र-महो-जुष तुण्डल-सत्तम कुण्डल-सत्तम शुभ्रतर-स्मित शुभ्र-कर-श्रित-रोचन खञ्जन-लोचन-रञ्जन सुन्दर-नासिक कुन्दरदाधिक यत्न-वसत्-कल-रत्न-लसद्-गल अङ्गद-कङ्कण-सङ्ग-सद्-अङ्कन हारि-हृद्-अन्तर हारि-हृद्-अन्तर तुन्द रमालय सुन्दरतामय-नाभि-सरोवरताभि-मनोहर चीन-पटी-वृत पीन-कटी-भृत सक्थि-गताक्लम शक्ति-गणासम जानु-युगासित-भानुतयाचित चित्रद्-अलङ्कृति-चित्रद-झङ्कृति- लोभित-षट्पद शोभि-नटत्-पद गो-गण-बालक गो-गण-पालक मन्द्रक-वेणुक चरणक-वेणुक वेत्रग-हस्तक नेत्रग-शस्तक मित्र-रुचि-स्मृत चित्र-रुचि-स्मृत केलि-कलाहल केलिस-लालस सन्नत-वत्सल सन्नत-वत्सल सुहृद-दक्षक सौहृद-रक्षक सज्जनिताचन-तद्-वनिता-धन नित्य-नवं सुखम् इत्य् अलम् उन्मुखम् आश्रित-ताप-रमाद्रितम् आचर गोप-सद्-अन्वय गोप-समन्वय कृष्ण सदाशय-तृष्ण सदा जय ॥ धीर ॥९३॥ निजं पदं व्रजाभिधं समित्य नित्यम् उद्विधं प्रियैर् जनैर् विराजसे परं कियत् कृपायसे । न भावम् आवृणीमहे न यत् पृथग् वृणीमहे तद् अन्यद् धुनीमहे मनस् ततः पुनीमहे ॥९४॥ भृत्यान् पालय वत्सलान् प्रमदय क्रीडा-सहायान् अव प्राण प्राण-समाः पराश् च जनताः संरक्ष रक्षा-मणे । तच् च श्री-व्रज-वन्य-धन्य-विहृति-प्राचुर्यतः सिध्यति त्वां तत् कृष्ण स-दैन्य-काकु वृणमस् तन् नित्यम् आविष्कुरु ॥९५॥
[७४] अथ तस्याम् एव निर्बहिरङ्ग-जनायां रजनाव् असौ मधुकण्ठः कंसजिद्-उपकण्ठ-स्थित-राधा-सदसि कथां प्रथयामास—
यदा कृष्णापारादनयत हरिर् गोकुल-जनं पदं गोलोकाख्यं निभृतम् इह वृन्दावन-भुवि । तदा यद् यत् पूर्वं विविधम् अनुभूतं स्थल-जलं तद् एवापूर्वं सत् स्फुटम् अकलि तस्मिन् निखिलकैः ॥९६॥
[७५] यथा च गोलोक-देशे विमानेन प्रवेशे श्री-राधिकादिकाः सम्भ्रमाद् अधिकानवधाना जाता इति तासां भ्रमापनयनाय क्रमाद् दर्शितं कलित-सुख-जन्यां तस्यां रजन्यां निगूढता-निरूढ-पुनर्-लीला-सतृष्णेन श्री-कृष्णेन ।
एतद् गोकुल-रूप-रत्न-कमलं विभ्राजते यत्र च श्रीमत्-तात-पुरं विभाति यद् वाग् वः शुभ्रम् अन्तः-पुरम् । एतस्मिन् किल यत्र मद्-वर-रमा यूयं मया क्रीडितं कुर्वत्यो भवितास्थ मोह-विषयाः कस्यापि कस्यापि च ॥९७॥ अस्मिंश् चित्र-मिषेण भान्ति विभवा वृन्दावन-स्थाः सदा यांस् ते लोभ-वशाद् भजन्ति सततं तत्र-स्थ-भृङ्गादयः । आस्तां तद् बत युष्मद्-अक्षि-पटलान्य् अप्य् अत्र भृङ्ग-क्रियां गच्छन्ति प्रतिदृष्टि हन्त मम तद् भ्रान्तिं बलाद् बिभ्रति ॥९८॥
[७६] अथ तद् एतद् आकणिन्यस् ता वर-वर्णिन्यस् तं प्रति तद् इदं वर्णयामासुः—
[७७] गोकुल-युवराज ! स्वच्छन्दामन्द-शन्द-स्थल-विहार-लब्ध-च्छन्दानां शत-कोटि-सङ्ख्यया कृत-भवद्-आनन्दानाम् अस्माकम् अस्मान् नतरां शर्म मर्म स्पृशति । तस्माद् अस्मत्-कामनारामं धाम कामम् अन्यद् अपि कामयामहे ।
[७८] अथ स्मित्वा रत्न-शिलावरणम् अयत्नत एव च भित्त्वा स च प्रोवाच—मणिभिर् गृह-मणिभिः कलित-तमो-निर्याणेन सुयानेन तल-स्थल-कृत-सोपानेनागच्छत, तद् इदम् अच्छ-धाम निशामयत च । तथा हि—
यद्वत् पुरुपरि प्रकाम-सुभगा तद्वत् तले विस्तृता सूर्येन्दु-प्रभ-रत्न-सङ्घटनया धार्त्रीष्टद्-इष्टावलिम् । एकान्तत्व-नितान्त-कान्त-विभवा क्रीडा-करार्थावहा युष्मत्-केलि-कला-विनाकृत-दूता सेयं पुरी दृश्यताम् ॥९९॥ पातालस्य तुलामितेऽत्र शशभृद्-द्यो-रत्न-रत्न-स्थले सद्-वातायन-जात-वात-सुरभि-व्राते लसत्-पल्वले । ये वृन्दा-विपिन-स्थिरास्थिर-वपुः-पञ्चालिकानां गणास् तेऽमी तत्-तद्-अनुक्रियाम् अपि कला-योगाद् अलं बिभ्रति ॥१००॥ यस्या पृथुतर-मध्यं, लसति मद्-ऐश्वर्य-सम्बध्यम् । परितस् त्व् इमम् अथ भवतीः प्रति भवतीति प्रथावती वसतिः ॥१०१॥
[७९] अथ तथापि न तथा सुखम् अवापुर् इति पुनर् अमूर् ऊचिरे—निपुण-गुण-विस्मायक तद् इदम् अप्य् अस्माकम् अधिध्यतीतम् अपि मणि-गृह-सङ्ग्रह-मध्यं पदं वन्दी-गृहवद् अस्पृहयामन्दी-भाव्यते, किन्तु स्वल्पम् अपि वन-कल्पं कल्प-तरु-वनवत् स्पृहयान् अल्पीभाव्यते । तस्मात् पूर्वानुभव-धन्यं वन्यं किञ्चिद् अन्यद् अञ्चितुं वाञ्छामः ।
[८०] अथ श्री-कृष्णश् च व्यस्यमान-निज-तृष्णतया किञ्चिद् विहस्य तस्य सहस्रधा-गणित-द्वारग-मणि-शिलावरणानि निरस्य सहस्र-पत्र-पत्र-स्थित-प्रमद-सत्र-भान-प्रद-प्रमद-वनानि निज-परिमल-पद-तद्-अन्तः-सदन-सद्-अङ्गन-निभानि निभालयामास, समभ्यर्णतया वर्णयामास च तद् इदम्—
कुञ्जा वृक्षाश् च रत्नालय-चष-सुहृदः कान्ति-संवास-लाभाद् वृत्ता नीराशयाश् च स्फटिक-मुख-मणि-क्ष्मासु मैत्रीम् अवाप्ताः । वल्ल्यश् चाराल-चिल्ली-परमतम-सखी-भाव-कम्राः समन्ताद् उद्यान-स्तोम एष प्रणय-मय इति व्यञ्जयन्तः स्फुरन्ति ॥१०२॥ पुष्पाद्य्-उद्योति-कुञ्जा मणि-मय-निलयाश् चात्र भेदं न यातास् तस्माद् एतन्-मतेन प्रकटम् अधिगतेनालिपालि प्रवच्मि । यूयं पूर्वं वनस्थाः पुनर् इह गृहगा मत्-प्रियाः स्थेति लोके विख्यातिं मा मनुध्वं द्वयम् इदम् अभिदाशालि किन्तु प्रतीतम् ॥१०३॥ यद् यद् वृन्दावन-भुवि महा-वैभवं राजमानं सारं तस्य स्वम् अनु समगाद् एतद् दुयान-वृन्दम् । स्थाने तच् च व्रज-कुल-भुवां श्री-कुलं यत्र युष्मद्- रूपं भागान् निज-निजतया वश्यताम् आनयेत ॥१०४॥ अत्र सर्वा विराजन्ते वृन्दावन-विभूतयः । भवतीषु यथा सर्व-रमाणां कान्ति-भूतयः ॥१०५॥
[८१] अथ तथापि प्रचित-निज-विहार-धनादिषु यमुना-गोवर्धनादिषु निज-वल्लभानां निर्जन-गमन-गर्धनस्य वर्धनताम् आलोकयंस् तत्र प्रच्छन-द्वारम् अपि स्वच्छयन्न् आलोकयामास, श्लोकयामास च तद् इदम् ।
वृन्दारण्यं समन्तात् कलयत तद् इदं तं च गोवर्धनाद्रिं तां चादित्य-प्रसूतां सरितम् अथ महारास-भूमीम् अमुं च । याश्चर्या कान्तिर् एषा निखिलम् अतिगतान् आनयाप्य् अन्यद् ऊह्यं लोकातीतः पदार्थः किम् इह न तनुते वैभवं स्वं विभूय ॥१०६॥
किं च,
क्वचन क्वचन विहारे प्राग् अत्रालोकि यद् दृग्-आश्चर्यम् । तस्माद् दृष्ट-पूर्वं मत्वा नेदं स-भेदम् अमृशत ॥१०७॥
[८२] तान्य् एतानि च वन्य-सत्त्वान्य् अत्र लब्ध-सत्त्वानि दृश्यन्तां, यथा—
बम्भन्यन्ते भृङ्ग-सङ्घा बेभिद्यन्ते च कुट्मलान् । अशाश्यन्ते पुष्प-रसानरार्यन्ते च सर्वतः ॥१०८॥ जेगीयन्तेऽपि काश् चैते जेजीयन्ते परस्परम् । पेपीयन्ते मधुन्य् उच्चैर् दोधूयन्ते वधू-मनः ॥१०९॥ अटाट्यन्ते पक्षि-घटा बोभुज्यन्ते फलादिकम् । चेक्रीयन्ते नीडं ऊर्णोनूयन्ते तच् च यत्नतः ॥११०॥ जेघ्रीयन्ते कोकूयन्ते सासद्यन्ते जेगिल्यन्ते । लोलूप्यन्ते सोषुप्यन्ते चञ्चूर्यन्ते शावास् तेषाम् ॥१११॥ प्रनरीनृत्यन्ते तं प्रपनीपद्यासिताम्भोदम् । रोरूयन्ते चङ्क्रंयन्ते ते ते शिखण्डिनः परितः ॥११२॥ चञ्चरीति देदिवीति दन्दशीति जंहनीति । अर्यरीति चाकरीति सन्मृगालिरात्त-केलि ॥११३॥ देदेति चञ्चूर्ति जंहति जाहाति । चर्कर्ति सोषोप्ति पश्व्-आलिर् अन्यापि ॥११४॥ इति ।
[८३] अथ वन्यान् अपि स-बाष्प-प्रणय-न्यायम् इदम् अवादीत्—
नद्यं स्वस्ति किम् अस्ति वः क्षिति-भृतः क्षेमं नगा मङ्गलं भृङ्गाः शं शिखिनः सुखं पर-भृताः शातं मृगा भावुकम् । तेऽमी माधव-राधिका-प्रभृतयः स्नेहेन वः पुष्टता- जुष्टा युष्मद्-अपेततां चिरम् इताम् उत्तीर्य पृच्छन्ति वः ॥११५॥
[८४] अथ यूथशः पृथग् विभूय वनितासु तद्-अन्वितासु स पुनः श्री-राधां प्रति च तद् इदम् असाधारणतया प्राह—
पूर्वं यत् कुण्ड-युग्मं व्यतिललित-सुखायावकाभ्यां कृतं यत् कंसोत्पातेन चाशु व्यतिविरह-शात् त्यक्तम् आसीच् चिराय । राधे गोवर्धनाद्रेः शिरसि घन-रस-स्फार-भासां विकासाच् चूडा-रत्न-द्वयाभं तव मम च मनः-शान्ति-कृद् विभाति ॥११६॥ पुनर् वृन्दारण्ये रवि-दुहितरि श्री-हरि-गिरौ तथा भाण्डीरे यद् यद् अपि तव कुण्डे विहरणम् । भविष्यत् एतन् मे हृदयम् अधितिष्ठत् प्रथमतः स्व-निष्ठं तत् कुर्वद् वृष-रवि-सुतेऽन्यद् भ्रमयति ॥११७॥ आम् उच्चैर् विरहेष्व् अहं त्वम् अपि च स्व-प्राणम् आश्वासितं कर्तुं यान् बत चित्त-मोदक-निभान् भावान् अकुर्व स्फुटम् । ते चैते सखि सन्निधिं प्रति गताः साक्षाद् अहो मन्-मनः प्रत्येकं स्वक-भोग-सम्भृति-कृते तृष्णग् वितत्य स्थिताः ॥११८॥ सत्यं सङ्गिनि साम्प्रती च बलवल् लीलावली-चारुता स्वान्तं क्लान्तम् अतिप्रवास-महसा नः सर्वतः पुष्यति । किन्तु प्राग्-गत-पूर्व-राग-मुख-तन् नानङ्ग-केलि-प्रथा पुष्णाति स्व-रसैर् इमाम् अपि शिफा-वीथीव शाखा-ततिम् ॥११९॥ ततो नाना-लीला विदधद् अहम् आलीभिर् अनव- स्व-वृत्तान्तं गीत-प्रचुरम् अभिनीतं च परितः । त्वया सार्धं शृण्वन् प्रकटम् अनुपश्यंश् च बहुधा गतागन्तृ-प्रेमाण्य् असकृद् अनुभूतानि करवै ॥१२०॥
ततश् च—
आरामः परिचीयतां सखि सखी-वृन्दं समानीयतां लीला-धाम विधीयतां निज-कला-केलिस् त्वया चीयताम् । रासाद्यं मुहुर् ईयतां मम रतिस् तत्रापि सङ्गीयतां सर्वं सुष्ठु विजीयतां किम् अधिकं मद्-धीर् वशे धीयताम् ॥१२१॥ इति ।
[८५] तद् एवम् आदि-बहु-संवादितया तां सुखा-कुर्वंस् तत्-तद्-अपूर्व-सुख-केलि-पर्व-सतृष्णाः श्री-कृष्णस् तां रजनीं जनित-कौतुकतया गतयामास ।
[८६] यत्र प्रथमतस् तु तां सर्व-स्तुतां सखीभिः संवलिताम् अङ्क-कलितां विधाय मणि-खचित-चामीकर-चित-रङ्गम् अनु रास-रङ्गम् एव देवयामास । यथा—
यद्वत् पूर्ण-विधुः लतारक-गणस् तद्वत् प्रसूनाटवीम् अध्यस्तामल-रास-मण्डलम् अतिस्वच्छां रुचिं यच्छति । यद्वत् तत्र तमाल-हेम-लतिका-वृन्दान्य् अपि स्पर्शनात् स्पन्दं स्पन्दम् अटन्ति तद्वद् अनटद् गोविन्द-गोपी-ततिः ॥१२२॥
[८७] अथ रजन्य्-अन्तरे लब्धान्तरे श्री-राधिकायाम् एव तद्-अर्थ-साधिकायां जातायां रवि-कन्या-रोधसि वन्यायां श्री-हरि-रसावन्याभिर् अपि रासम् उल्लासयामास । यत्र च—
तत्-तन्-निज-निज-कलया घनं घनं शुषिरम् । शुषिरं ततं ततम् आनद्धं चानद्धं विदधे ॥१२३॥
[८८] विधाय च—
मध्य-स्थानां कृष्ण-राधाभिधानाद् युग्मात् प्राप्ता प्राइत्बिम्बीम् अवस्थाम् । कृष्ण-व्यूह-श्री-व्रज-स्त्री-ततिः सा रेजे तस्मिन् मण्डले रास-नाम्नि ॥१२४॥ शुभ्र-श्रिया रास-मही शशीयते स्वच्छाभया रास-महीयते नदी । नदीयते चारु-मुखाब्ज-रोचिषा राधादिकालिर् वन-मालिना सह ॥१२५॥ गानाङ्घ्रि-नूपुर-नितम्बक-मध्य-बाहु- नेत्र-भ्रू-ताल-कलया लसितं ततान । हस्ताक्षि-वाच्यम् इव चाह दृग्-अन्त-चित्ते तासां विना हरिम् उपेयतुर् अन्यकं न ॥१२६॥ आस्यं गायति नूपुरादि तनुते वाद्यं पदे नृत्यतः श्रोत्रे द्वे नयने च सभ्य-जनतां यान्ति स्म तस्मिन्न् इति । रासे पश्यत सम्प्रदाय-वलना कृष्णाङ्ग-नानाङ्गनेऽ नन्तेऽत्र प्रतिमूर्ति चेत् किम् उत सा सा सामुदायी स्थितिः ॥१२७॥ नृत्यति स्म यदा कृष्णस् तासां तर्हि मनो-नटः । अनटद्-दृङ्-नटीभ्यां द्राग् अनुकुर्वंस् तद् एव सः ॥१२८॥ कृष्णं कान्ततयानुपेत्य पुरतः स्वं नित्य-कान्तं तु तास् तत्राप्य् अन्यकरे निपत्य च बलान् निर्वाह्य धर्मं निजम् । तत्रापीष्टम् अमुं कथञ्चन रहः प्राप्यापि विषिताः पुण्यात् तं पतिम् एत्य शर्म-वलनां सम्भृत्य नृत्यं व्यधुः ॥१२९॥ सरोजाभं रास-स्थलम् इह दलेषु प्रणयिनी- ततिर् मध्येराधा विलसतितमाम् इत्य् अपि मतम् । अहं त्व् अन्यद् वक्ष्ये प्रमद-गति-धृष्णङ्-मतितया स्फुटं श्री-कृष्णस्य स्फुरति हृदयं तद् बहिर् अपि ॥१३०॥
[८९] तद् इदम् अपि भङ्गीभिर् अङ्गीकृतं स्फुट-भाषितया तु स्फुटम् इदं क्रियते—
कामं सन्तु हरेर् दृशोः श्रवणयोर् नासा-पुटस्य त्वचो जिह्वायाश् च सदापि वृत्ति-तुलिता गोप्यः सहस्रायुतम् । किन्तु स्वरतया ब्रवाम न पुनः सङ्कोचितां चिन्-महे श्री-राधा बत सेयम् अस्य नियतं सर्वा मनो-वृत्तयः ॥१३१॥ यद्यप्य् एषा बकारेर् हृदय-कमलगा हृद्-बहिर्-भूति-रेखा राधा-मनुष्यास् तथापि द्रुतयति मम हृद् द्राग् इह स्नेह-चर्या । यस्यां लक्षे सखीनाम् अपि सति सततं सेयम् एनं स्व-कान्तं सेवाभिश् चार्द्रयन्ती परिचरण-करीश् चित्र-मूर्तीः करोति ॥१३२॥ तस्मात् कर्बुर-रत्न-कर्बुर-रुचां वल्ली-तरूणां गणे चिन्ता-रत्न-गृहे महासन-वरे प्राणालिभिः प्रावृता । अन्याभिः परिवीजिता प्रियतमस्योत्सङ्ग-सङ्गं गता रोमाञ्चिआचित-घर्म-वारि-वलिता राधैव सा राध्यते ॥१३३॥ कम्पः सम्पदम् एति घर्म-सलिलं रीणाति रोम्णां कुलं हृष्यत्य् अस्रम् अभिस्रवत्य् उदितम् अप्य् आलम्बते कुण्ठताम् । चित्तं वर्ष्म च गच्छति स्तिमिततां मे पश्यतो माधवं राधा-युक्तम् अहो मदान् न च पुनः स्वं धर्तुम् अत्रोत्सहे ॥१३४॥
[९०] इति वैवश्य-वश्यतां स्वस्य व्यस्य मधुकण्ठः कुण्ठ-निखिलेन्द्रिय-गणः परम-प्रेम-चणः स्व-भ्रात्रा स्तम्भित-विग्रहः सन् ग्रह-गृहीत इव मुहूर्तं मूर्त-भावम् आससाद । न च स एव केवलतया, किन्तु सह सह-जन्मा च तन्मयताम् अवाप । न च ताव् एव स्वयं तद् एव सेवमानाव् आस्तां, किन्तु तया साजितया सभाजितया सभया च समम् इति स्थिते, मुहूर्तेन सर्व्७न् अपि सुस्थिते, तया सभया ताभ्यां नाना-दानाभ्यासः कृत इति वर्णनया कृतम् । यतः—
परिष्वङ्ग-श्रेण्या प्रियतम-सुहृद्भिर् मुररिपोस् तथा राधा-प्राणालिभिर् अतिसुख-प्रेक्षण-रुचा । स-राध-श्री-कृष्णेन च निज-पद-स्पर्श-वितर- श्रियाङ्गीकृत्येमौ बत किम् अनयोर् नेह वरितम् ॥१३५॥
[९१] ततश् चाभीष्टं वरयतम् इति विशिष्ट-कृपया समादिष्टौ तौ परम-शिष्टौ वरयामासतुः—
यद् अपि करुणया वाम् अङ्घ्रि-पार्श्वे निवासं वरम् अनुगतवन्ताव् अत्र विस्पष्टम् आवाम् । तद् अपि च पुनर् एवं हन्त वृन्दावनेशौ प्रकटम् अभिलषावो यद् युवां वर्णयाव ॥१३६॥
[९२] अथ सख्यानन्दिन्यः काश्चिद् वन्दिन्यः पूर्व-चम्पू-कष्टम् अनुविन्दमानास् तत्र वन्दन्ते स्म—
श्रीमति राधे श्रीमति-राधे भानु-तनूजे मानुत-पूजे घोष-वर-श्री-पोष-कर-स्त्री-सङ्घ-वरिष्ठा त्वं घन-निष्ठा- वन्दित-तृष्णानन्दित-कृष्णा लोक-हितार्थं श्लोक-चितार्थं सर्वग-चित्रं पर्वग-मित्रं सम्मत-भागाज् जन्म तवागाद् यत्र च रूपं सत्र-स्वरूपं कृष्ण-समस्तं सृष्ट-सुशस्तं तात-मुखानां जात-सुखानां चाजनि शङ्का राज-चिद्-अङ्का तैर् अवरोधे स्वैर-निरोधे रङ्ग-जुगोप्ता सङ्गतिम् आप्ता शर्मद-बाल्या नर्मद-लाल्या खेलित-लोला हेलित-चोला धूलिषु भान्ती शूलिषु यान्ती कर्दम-दिग्धा नर्द-निदिग्धा भ्रातृ-निरुद्धा मातृ-विशुद्धा स्तन्य-सुपुष्टा जन्यनुजुष्टा क्वापि च मात्रा स्वापित-गात्रा श्यामल-नाम्ना श्याम-सुधाम्नाप्य् अश्रुत-तत्त्वाद् अद्भुत-सत्त्वा वंशज-गानाद् वंश-समानात् ताडित-कल्पा नाडित-जल्पा पाति च ताते वाति सुवाते केशव-गन्धा वेश-विसन्धा सूचित-भीत्या सूचित-रीत्या त्वं तव पित्रा स्वन्तर्-अवित्रा जातु सुतेष्टा दातुम् अथेष्टा तस्य स-पात्रं यस्य सुगात्रं श्यामल-धाम श्यामल-नाम स्वान्तम् अभीष्टं कान्त-ततीष्टः क्रूर-निरुद्ध्या शूरज-बुद्ध्या गर्ग-निदेशाद् अर्गल-वेशाद् अन्यग-दानं गण्य-समानं बालतया नात्रालम् अजानाद् देह-विवृद्धिः स्नेह-समृद्धिश् चेति सदागाश् चेतितरागा वर्ण-समेधा कर्णग-वेधा नव्य-शिरस्या घ्राण-सभास्या प्राण-समास्या तन्-मधुरिम्णा शर्म-वरिम्णा त्वद्-धृदयार्त्या तद्-धृदयार्त्या शं-युत-लोकैः संयुत-शोकैर् लाल्यतयाभूर् बाल्य-दयाभूस् तावद् अथान्या भावक-मान्या-सत्-कुल-भावास् तत्-तुल-भावा वाञ्छित-कान्ता लाञ्छित-तान्ताद् वाग्-गत-शातास् ता बत जाता ॥ देवि ॥१३७॥ शिशु-वयसि च सर्वं शील-रूपाद् अखर्वं जगद् अपि धृत-हर्षं निर्ममे जात-कर्षम् । मुहुर् अपि तु भवत्या विस्फुरत्-कान्ति-मत्या समरचि निज-लोकः शङ्कया जात-शोकः ॥१३८॥
अपि च—
कालिय-मर्दे ज्वालि-विमर्दे यूयम् अयध्वे भूयसि धध्वे स्माजित-वीक्षाम् आजित-दीक्षा जात-विमोहाः प्रातर् अथोहा- पोह-विसृष्टाः श्वोऽहनि दृष्टाः सद्मनि चैतास् तद्वद् अथैताः कंस-निहन्त्रा वंशज-मन्त्राद् आचित-चित्ताः साचित-वित्तास् तत्-प्रभृति त्वं तत्-प्रकृति-स्वं लोभयमाना शोभयमाना धैनुक-पाले धैनुक-काले तत्र दिनान्ते सत्रभकान्ते तस्य विलोके सस्यद-लोके ताभिर् उपेता साभिक-चेता द्राग् अथ कान्तं राग-मितान्तं तं त्वम् अपश्यः शन्तम-वश्यः सोऽपि च तत्त्वं गोपित-तत्त्वं बाढम् अपश्यद् गाढम् अनश्यद् धरिय-कथापि स्थैर्यम् अथापि स्वं युतवन्तौ शंयु-भवन्तौ गेहम् उपेते स्नेह-निकेते त्वाक्षय-लोकस् त्व् आनयद् ओकः काल-विलम्बेऽकाल-विलम्बे दैव-परीते दैवम् अतीते दुःखज-शूले दुःखन-मूले छद्म-पतीनां सद्म-गतीनां संयति-काले संयति-जाले भीति-परीता नीतिम् अतीताः कालिक-कुण्डे कालिक-तुण्डे मज्जन-कामावर्जन-वामास् तत्र गतास् ताः स्वत्र-हतास्था नाथ-विलग्नाः पाथसि मग्नाः सूर-सुतावः सूरत-भाव-स्रावित-चक्षुर् भावि-विचक्षुः स्थानम् अनैषीन् मानम् अचैषीत् पूर्णिमया सा पूर्णित-भासा- सान्त्वयद् उक्त्या सान्त्वन-युक्त्या तद्-वरवल्या गत्वर-शल्या गेहम् अनिष्टं चेह निदिष्टं ताभिर् अयित्वा ता भियम् इत्वा ह्रास-स-शङ्कान् वास-कलङ्कानङ्ग-भवत्यः सङ्गतवत्यस् तद्वद् अनन्तापद्-वदलम्भा-भाग्-मिलन-हाद्याविलदेहा त्वादृश-रामा हा कृश-धामा स्पष्टतयासीत् कष्टम् अयासीद् राग-भृतान्तः स्राग् अथ कान्तः कीर्तित-कान्ताः कीर्ति-नितान्ताः क्रष्टुम् अभूद् वः स्रष्टुम् अपूर्वः स्वैर-बलाद्यं वैणव-वाद्यम् ॥ देवि ॥१३९॥ अनभिमत-निशान्तं तत् तु गत्वा स्व-कान्तं मनसि विदधती त्वं पर्यरक्षः सती त्वम् । यदि हृदि तव राधे सोऽयम् उच्चैर् अबाधे वसति कथम् अहृद्यं तर्हि तिष्ठेद् अमृद्यम् ॥१४०॥
अपि च—
या वर-लीला क्ष्माधर-शीला तत्-प्रमितीनां तत्र कृतीनां सन्तत-सारानन्त-विहारा येऽप्य् अतिकर्ण्यान्ते कति वर्ण्या माधव-गानागाध-वितानाज् ज्ञान-विनाशे प्राणमिताशे पूर्णिमा-यात्रा प्यूर्णित9-गात्रा त्वं प्रतिकर्तुं स्वं परिकर्तुं
हा श्रम-पीता स्वाश्रम-नीता पूर्णिमयाथो पूर्णित-पाथो- धि-प्रभकान्तः क्षिप्रमितान्तः प्राघटि यर्हि प्राकटि तर्हि त्वां चरणाग्र-प्राञ्चल-जाग्रद्-रीतिमकार्षीद् भीतिम् अहार्षीत् तोदय-कान्तः सोञम् अघान्तस् तत्-पदरागं सत्-पद-भागं प्रापुर् अनिन्द्य-प्राण-पुलिन्द्यः स्वोपरमाणां गोप-रमाणां चाद्भुत-देहा भानु तदेहास् तद्-विध-रागे सद्-विध-भागे शारद-मासं शारद-भासं त्वं भजमाना तं यजमाना राग-नितान्तं द्राग् अधिकान्तं सर्व-समेताखर्व-मुदेता नर्मणि भीता शर्मणि नीता तेन सगीता तेन परीता सैकत-देशा सैकतयेशा-लुप्त-विहारा सुप्त-विचारा माधव-मात्राराधन-पात्रानन्य-मनस्का धन्य-यशस्का- लब्ध-वयस्यारब्ध-रहस्या स्वेषि-विनीता द्वेषि-विगीताप्य् आङ्घ्रिपम् आप्ता स्वाङ्घ्रि-पदाप्ता प्रेमज-कोपात् स्थेम-विलोपात् प्राणपमुक्ता त्राण-वियुक्ता स्वाभिर् उपेता ताभिर् उपेता स्वेषण-धामान्वेषान-कामा शान्त-विहारं कान्त-विचारं कान्तम् अयाता तान्ततयाताम् आयत-सौरीम् आयत गौरी या भवती सा लाभवतीशा सत्र-समाना तत्र च गानाद् आहृत-कृष्णा व्यापृत-तृष्णाप्य् अर्चित-माना तच्-चित-माना नर्मद-हासा शर्मद-रासा नीरग-खेला तीरग-हेला त्वं हरिकान्ता स्वं परिशान्ता गेहम् इतापि स्नेह-जतापि स्वान्तर-मग्नार्थान्तर-लग्ना कृष्ण-गताशीर्-धृष्णग् अयासीः ॥ देवि ॥१४१॥ अमित-गण-सपत्नी-जैत्रम् आस्ते सयत्नी भव दिव-सुयशस् ते हन्त सर्व-प्रशस्ते । तद् अपि परम-लीला विश्व-विस्मापित-शीला त्वम् अथ तद्-अजाना कृष्ण-तृष्णैक-ताना ॥१४२॥
अपि च—
तत्-प्रभृति त्वं तत्र कृतित्वं केलिषु याता मेलित-शाता कान्त-विसृत्या कान्त-विहृत्या कर्हि च युक्ता ज्कर्हि च मुक्ता शङ्कर-यात्राशङ्कर-गात्रा होरिक-पर्वा गौरि स-गर्वा घस्रग-गीताजस्र-परीतारिष्ट-वधास्ते त्व् इष्टद-कान्ते सन्दित-नर्मा नन्दित-शर्मा तुण्ड-विभात्री कुण्ड-विधात्री पर्वत-राजे पर्व-समाजे सञ्जित-भासा रञ्जित-रासा सा मधुरायां धाम-धुरायां स्राग्-गत-कान्तानारततान्ता वल्लभ-वार्ताप्य् उद्धव-दृष्ट्याप्य् उद्धत-धृष्ट्या षट्पद-मात्रं तत्-पद-पात्रं सम्प्रति मत्वा तं प्रति गत्वा क्लान्ति-निदान-भ्रान्तिज-मान-व्याकुल-जल्पा बातुल-कल्पा वाचिक-मर्माभ्याचित-शर्मा तर्ह्य् अपि कष्टं गर्ह्यम् अनष्टं क्वापि च मत्वा तापित-सत्त्वा राम-निदिष्टं साम-विशिष्टं भूय उपेता यूयम् अकेतास् तद्-ग्रहणान्तः-सद्-ग्रह-कान्त- श्लाघित-तर्षा द्राघित-हर्षा स्वागमनाशा-भाग-विनाशा- ङ्गीकृत-रीत्या श्रीपति-नीत्या श्रद्धित-चित्ता तद्-धित-वित्ता नाथ-निदेशेनाथ च देशे स्वे पुनर् एतास् तेपुर् अपेता गोकुलम् एते गोकुलकेते त्वत्रभवत्यस् तत्रभवत्यस् तं सपदीता ध्वंसम् अतीताः सम्प्रति माया दम्पतितायां अन्य-गतायां धन्य-गतायां तत्-परिगीतास् तं परिणीतास् त्वं पुनर् एषा सद्-गुण-वेषा सर्व-सपत्णी-गर्व-सयत्नी- भावम् अतीता भाव-परीताग्रण्यग-वृन्दारण्यग-वृन्दा स्वान्तर्-अवस्था कान्त-वशस्था मन्द-सुहासा चन्दन-वासा शन्द-विकासा मन्द-विलासा छन्द-निवासा स्कन्दनयासा- नन्द-निवासा नन्द-चिद्-आसा नन्दज-भासा कन्दर-वासा कन्दल-हासा कन्द-समासा राजसि राधे राजसि राधे ॥ देवि ॥१४३॥ चिर-विरह-विदूना कान्तम् उत्कं यदूनां अधिप-सुख-वितानाद् आगतं विन्दमाना । अपुनर्-उदित-बाधा तं विलासेन राधा वशयति शुभ-वेषा यावताद् भव्यम् एषा ॥१४४॥
[९३] तद् एवम् अप्य् अवधाय पुनः स्व-वर्णित-सुखम् अन्तर् उपधाय बहु नमस्कुर्वन्तौ परम-गुणवन्तौ तत्-प्रसाद-वसनादिकं धावयन्तौ निश्चल-प्रेम-बाष्प-धारया वर्त्म पिच्छिलं भावयन्तौ सूत-सुत-सन्तौ निजालयं कलयामासतुः । सखायश् च सुखातिशयम् अयताम् अयमाना निजं निजम् अयनम् अयन्ति स्म । सखी-प्रभृतयश् च परम-शर्म-भृतयः स्व-स्वावसर-विसरानुरूपं तत्-तद्-वस्तूपाददानाः सावधानाः सेवा-निधानयन्ते स्म ।
[९४] श्री-राधा-कृष्णौ च निज-तत्-तत्-पूर्व-कथानुभवेन परस्पर-स्फीत-तृष्णौ परम-सुख-कल्पे दिव्य-तल्पे शयानता-मयानन्दं विन्दतः स्म ।
[९५] किं बहुना ? अनयोः स एष व्यवहारः सर्वदा सहचरीणां हारवद् विहरति ।
शश्वद् ध्यायति दूरग-स्थिति-मिथः सूक्षम-प्रथं चायति प्राज्यान्तर्-गतम् आत्म-नर्म तु सखी-मध्य-स्थितं पश्यसि । राधा-माधव-नाम-धेय-मिथुनं विघ्नानतीत्य् आमितान् दाम्पत्ये स्थितम् अत्र वा यदि रहः प्राप्तं तदा किं पुनः ॥१४५॥
तथा हि—
राधा-कृष्ण-युगं मुहुर् विघटनाम् उत्तीर्य दाम्पत्य-भाक् प्रत्येकान्तम् उदस्रम् एकतरग-स्वापान्तर् अन्तर् मिथः । राधा-कृष्ण-परस्पर-व्यतिकरानन्दात्मना येन ते याता दिव्य-गतिं वयं सुखमयं सर्वोर्ध्वम् अध्यास्महे ॥१४६॥
ततश् च—
प्राग् आरब्धम् अभूत् तद् एतद् अमलं चम्पू-द्वयं
यत्-कृते तच् चेदं हृदि शुद्धम् आविरभवल् लोक-द्वयस्यामृतम् ।
राधा-कृष्ण-परस्पर-व्यतिकरानन्दात्मना येन ते
याता दिव्य-गतिं वयं सुख मयं सर्वोर्ध्वम् अध्यास्महे ॥१४७॥
[९६] अथ तादृशतया लब्ध-भृशतायाम् अपि व्रज-विलोकनेच्छायां तद् एतद् एवान्तरङ्गतां सङ्गच्छति, यथा—
—ओ)०(ओ— श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥१४९॥ पवन-कलाम् इति संवद् विन्दन् वृन्दावनान्तः-स्थः । जीवः कश्चन चम्पूं सम्पूर्णाङ्गीचकार वैशाखे ॥१५०॥ \
[९७] अथवा, विद्या-शरेन्दु-शाकम् इति प्रथम-चरणः प्रचारणीयः ।
लीलानां रस-पूर्तिर् मयकादर्शि क्रमाद् अत्र । स्व-स्वाग्रहस् तासां काचन केनाप्य् उपास्यतां नाम ॥१५१॥
किन्तु,
रसिक-जन-सुखार्थं साधयामास शश्वत् क्रमम् अनु रस-पूरं सूदवत् कृष्ण-चन्द्रः । क्रमम् अनुरसयन् यः पूर्तिम् आप्नोति पूर्त्यां सफलम् इह परं स्यात् तत्र वैदग्ध्यम् अस्य ॥१५२॥
[९८] तद् एतद् एव तद् भूरि-भाग्यम् इत्य् आदि-प्रार्थना-गर्भेण वेद-गर्भेण निर्णीतम्—
प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले । प्रपन्न-जनतानन्द- सन्दोहं प्रथितुं प्रभो ॥ [भा।पु। १०.१४.३७] इति ।
[९९] किन्त्व् एतेषु रस-निकेतेषु मम तु विज्ञापनम् इदम्—
काचित् काचिद् इति प्रोच्य प्रगुप्ताः श्री-शुकेन याः । नाम्ना तासां रहः-केलिं व्यज्य प्रेजति मन्-मनः ॥१५३॥
ततश् च—
मया स्वीये काव्ये निखिल-रस-योगं ज्ञपयता कृतं धार्ष्ट्यं कष्टं बत हरि-रमा-ह्री-कृद् असकृत् । विधातव्यं धीरैर् यदि दृशि तदा तत् तु न गिरीत्य् अमुं चाटुं भीतः प्रकटयति सोऽयं कवि-जनः ॥१५४॥
अथवा—
मया यन् मत्-काव्यं सरसम् इदम् इत्थं ज्ञपयता कृतं धार्ष्ट्यं कष्टं बत कुल-वधू-ह्री-कृद् असकृत् । तद् अस्पृष्टास् ताः स्युर् यद् अतिकवि-धी-श्री-वृति-वृता जगच्-चित्ताद् दूरे रहसि हरि-सेवां विदधति ॥१५५॥
इति श्रीमद्-उत्तर-गोपाल-चम्पूम् अनु
सर्व-सुख-सम्पद्-अवलोक-श्री-गोलोक-देश-प्रवेशो नाम
सप्तत्रिंशं पूरणम्
॥३७॥