१। श्री-श्री-गोपाल-चम्पूः

२। पूर्व-चम्पूः1 (१)

**प्रथमं पूरणम् **

श्री-श्री-राधा-रमणाय नमः

श्री-श्री-कृष्ण-चैतन्याय नमः

श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।

गोपाल रघुनाथाप्त-व्रज वल्लभ पाहि माम् ॥१॥

[१] तद् एवम् आरम्भसम्भवदन्तर्महसा सहसा विलिख्य तद् इदम् उल्लिख्यते । किम् इदम्? मदिष्टदेवस्य, मदन्विष्टदयाशिष्टतद्भक्त-समुदयस्य च क्रमतः स्मरणम् आविर्भूतम् । किं वा, केवलस्य मदिष्ट-देवस्य; किं वा, तद्विशिष्टस्य । आं आं, तन्त्रतस् तत् त्रयम् अपि स्वतन्त्रतया लभ्यते । तत्र प्रथमं तावत् प्रथमतः प्रथयामि । अत्र श्री पदम् अन्यद् अन्यद् अपि किञ्चिद् अनुष्टुप्छन्दःपरच्छन्दतया पूर्वत्र च परपरत्र च यत्र न दत्तं, तत्र च सन्धातव्यम् ।

[२] यथा- हे श्री-कृष्ण-नाम्नातिधन्य! सर्व-मूर्धन्य! हे श्री-कृष्ण-चैतन्य! सर्व-शर्मद-कीर्तन्य! हे महित-श्री-सनातन-सहित-श्री-रूप-नामधेय, मन्-मूर्धन्य् आधेय! हे श्री-गोपाल-भट्टाख्या-प्रवृद्ध-भट्टारकता-समृद्ध! हे श्री-रघुनाथ-दास! नाम-धामतयातिप्रसिद्ध-परम-भक्ति-भराविद्ध! हे तेषाम् एवाप्त-व्रजतासिद्ध-वर्णन-सत्-कर्ण-गर्भाभरण-श्री-भूगर्भादि-सञ्ज्ञाधिकरण! हे श्री-वल्लभ! प्राग्-भवीय-दुर्लभ-सुकृत-सन्धीयमान-मदीय-शरण-पितृ-चरण!

किं वा, हे श्री-रघुनाथस्याप्तान् व्रजत्य् अनुव्रजतीति तत्तया सर्व-वल्लभ! श्रीवल्लभ! मां पाहि! निजचरणच्छायया मत्प्रतिपालकताम् आयाहि । यथा कंसारातेर् आशु सुखविलासं शंसन्ती, सहायतया च लसन्ती च प्रियसखीयते, न तद्वद् अन्यो धन्योऽपि जनः सम्भवति।

[३] अथ द्वितीयम् अपि प्रतीयमानं निर्मामि- श्री-कृष्ण इति । श्रीर् अत्र राधा । एषा हि श्रीप्रधानतया साधयिष्यमाणतायां निराबाधा । तद्-अनन्तर-कृष्ण-शब्दश् चात्र शब्द-ब्रह्म-गूध-पर-ब्रह्म नन्द-नन्दन-वाचकतायां रूढः । तेन, “हे श्री-राधाख्य-स्वरूप-शक्ति-युक्त-कृष्ण” इत्य् अर्थश् च निर्व्यूधः ।

कृष्ण इति-

कृषिर् भू-वाचकः शब्दो णश् च निर्वृतिवाचकः ।

तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥

इति प्रमाण-ज्ञात-चरः कृष्ण-शब्दस् त्व् अत्र योग-पुरस्कृत-रूढितया तत्-परः । भूर् इति

भावक्विबन्तताकरः । स चायं भाव-शब्दवद् धात्व्-अर्थ-मात्रता-धरः । धात्वर्थश् चात्राकर्षणम्, तद् एव स्फुटम् आप्ततयाप्तमनसाम् आकर्षणम् । ततश् च भिन्न-पदार्थतयावगतयोर् दयितयोर् इव तयोर् ऐक्यं योग एवेति तद्-युक्त आनन्दः सर्वाकर्षकानन्द इत्य् अर्थ एवामन्दः; परं ब्रह्म इति, । णराकृति परं ब्रह्म इति हि प्रसिद्धिः । योग-पुरस्कृत-रूढतोपगूधतयापि श्री-नन्दनन्दनम् एव वक्ति तच्-छब्द-शक्तिर् इति व्यक्ति-सिद्धिश् च । तद् एतद् अभिधीयते चाभिधीयते इति । तस्माद् एव तदीय-स्वभाव-विशेष-भावनार्थम् एव पुनर्-उक्तिर् इयं युक्तिं युनक्ति ।

चैतन्य इति । “हे सर्वप्रकाशक! सद्रूपतया सर्वाश्रयस्वरूप!” तद्रूपता च विपश्चिद्भिर् अवगता, सच्-चिद्-आनन्द-रूपाय कृष्णायाक्लिष्ट-कर्मणे इति तापनीय-नान्दीनि-शमनात् । त्वय्य् एव नित्य-सुखबोध-तनौ इति श्री-भागवतीय-ब्रह्म-स्तवे निगमनाच् च ।

स-सनातन-रूपक इति, “हे सनातनेन सदातनेन श्वस्वरूपम् अनुभवद्भिर् अपि सुनिरूपण रूपेण सह वर्तमान! तेन स्वभक्तिवित्तचित्तम् अनुवर्तमान!”

गोपाल-रघुनाथाप्त-व्रज-वल्लभ इति, “गोपालेषु ये रघवो लघवो, ये च नाथा मुख्या इति विख्यातगाथास्, तैर् आप्तस्य व्रजस्य बल्लव-तल्लज-व्रजस्य वल्लभ!” किं वा, “गोपालानां लघुर् इष्टः, स च नाथश् च यस्, तस्य सम्बोधनम् त्रिष्व् इष्टेऽल्पे लघुर् इति नानार्थवर्गलब्धबोधनम् । आप्तव्रजवल्लभ इति “आप्तव्रजानां स्वजनसमूहानां वल्लभ! परेषाम् अलभ्य ंसत्प्रभ!”

[४] अथ तृतीयम् अपि सम्भृतीकरवाणि- हे श्री-कृष्ण इति । श्रीर् अत्र च परमप्रेयसीषु श्रेयसी राधा, ततस् “तद्युक्ततया मधुरलीलायाम् असङ्कीर्ण! हे कृष्ण-चैतन्याख्य-भक्तावतार! तादात्म्यापन्नतयावतीर्ण! हे सनातन-रूपाभ्यां परमानुरक्त-सुभक्ताभ्यां सह विद्यमान! हे गोपाल-रघुनाथाभ्यां तत्-तन्-नामाभ्याम् अपि सुभक्ताभ्याम् आप्तः प्राप्तो यो व्रजस्, तस्य वल्लभतया सर्व-विद्यमानं! मां पाहि, मत्-पालकतां याहीति ।

१। अथ ग्रन्थ-सूचना— [५] तद् एवम् मङ्गलं सङ्गमय्य कार्यं विचार्यते ।

_यन् मया कृष्णसन्दर्भे सिद्धान्तामृतम् आचितम् । _

तद् एव रस्यते काव्यकृतिप्रज्ञा-रसज्ञया ॥२॥ [अनुष्टुभ्]

_सोऽहं काव्यस्य लक्ष्येण मनो निर्मामि तादृशम् । _

तन् महान्तो यदीक्षेरंस् तदा हेम्नि चितो मणिः ॥ ३ ॥ [अनुष्टुभ्]

_पूर्वोत्तरतया चम्पू-द्वयी सेयं त्रयी त्रयी । _

पृथक् पृथग् ग्रन्थ-तुल्या यथेच्छं सद्भिर् ईक्ष्यताम् ॥ ४ ॥ [अनुष्टुभ्]

_श्री-गोपाल-गणानां गोपालानां प्रमोदाय । _

भवतु समन्ताद् एषा नाम्ना गोपाल-चम्पूर् या ॥ ५ ॥ [उपगीति]

_यद्यपि चिरम् अन्तर्धा जाता श्री-गोकुल-स्थानाम् । _

_तदपि महात्मसु तेषां व्यूह-समूहः पुरः स्फुरन् जयति ॥ ६ ॥ [उद्गीति] _

[६] अस्ति किल वृन्दावन-नाम-धेयं भाग-धेयम् इव सुभगं वनम् अवनी-देव्याः । यद् अहो, वनम् अप्य् अवनाय कल्पते सकल-लोकस्य । प्रसङ्ग-मात्रतः पवमानम् अपि तत्र क्षिप्रता-प्रतापतः पवमानताम् अप्य् अतिक्रामति । परम-त्रि-वर्ग-दाने निरर्गलम् अपि सर्वदापवर्गम् अपवर्जयति । मुक्ति-सन्ध-सम्बन्ध-गन्धम् अपि स्वबन्ध-निर्बन्ध-निबन्धनं भवति । सदा सदावलीशस्य भक्ति-प्रदम् अपि कदापि न ददाति तद्-भक्तिम् । ब्रह्मणात्मनि यद् अनञ्चितम् अपि मत्वा जन्म वाञ्छितम्, तेन तत् परमञ्चितं मतम् इति निज-हित-महित-महिमारम्भम् उपलम्भयति । तद् एवं गहन-चर्या-पर्याकुलतया विरोधालङ्कारवद् विरुद्धायमानम् अप्य् अर्थम् अनुरुद्धतया पर्यवसानतः परिणमयति । तस्मिन् कवीनाम् अकवितायाम् अपि कविता शम्भाविता भविता । तस्मिन्न् एव च परमोदार-सारतावगम्यते । तद्द् हि तद्धिततया मुहुर् अवतीर्णस्य सर्वस्याप्य् आनन्दनस्य श्रीमन्-नन्द-नन्दनस्य सर्वम् आनन्द-पर्व सर्वदा पर्वति ।

[७] अस्ति चेह श्री-शुकस्यापि सुख-चमत्कार-कारणं पद्यम्—

वृन्दावनं गोवर्धनं यमुना-पुलिनानि च । वीक्ष्यासीद् उत्तमा प्रीती राम-माधवयोर् नृप ॥ [भा।पु। १०.११.३६] इति ।

[८] तत्र गोवर्धनस् तु पुरस्ताद् एवं प्रस्तूयते –

यद् गोकुलेश्वर इति प्रथितिः पुराणे कृष्णस्य तद् भवति गोकुलम् अस्य धाम । गोवासता च किल गोकुलता-निदानं गोवर्धनस् तद् इह सर्व-निधानम् एव ॥ ७ ॥ [वसन्त-तिलक]

[९] तत्र चायं विशेषः –

त्रि-जगति मानस-गङ्गा गोवर्धनम् अपि विभिन्दती विदिता । अहम् इह मन्ये कृष्ण- स्नेहज-धारा तद्-अन्तरं विशति ॥ ८ ॥ [गीति]

किं च,

तस्मिन् श्री-हरि-राधयोर् युगलितं यद् भाति कुण्द-द्वयं संसङ्गेन परस्परं परिमलान् मन्ये तयोस् तन्-मिषम् । प्रेमासीत् प्रकटं यतः श्वसनकैः कम्पान्वितं जाद्य-युग् भक्तार्द्र-स्थिति-कृच् च तद् घन-रसाकारं दरीदृश्यते ॥ ९ ॥ [शार्दूल]

[१०] यमुनायां चायम् अतिशयः—

स्नान-जात-सुकृतान् न केवलात् स्फूर्तिदा मुररिपो रवेः सुता । वीक्षणाद् अपि यतो बिभर्ति सा श्याम-धाम-वर-माधुरी-धुराम् ॥ १० ॥ [रथोद्धता]

तस्यां चोत्प्रेक्षन्ते—

श्व-स्निग्ध-वृन्द-विषय-प्रियता-महिम्ना स्वेदांश एव किम् उ कृष्णतनोर् विसारी । वृन्दस्य कृष्ण-विषय-प्रियतैव किं वा तद्-भाव-भावित-गतिर् भवति स्म कृष्णा ॥ ११ ॥ [[वसन्ततिलका]]

[१२] पुलिनानि च तस्या महा-प्रेमोल्लासम् आविष्कुर्वन्ति । तथा हि—

अद्यापि यानि विबुधान् अवलोक-मात्रात्

पुष्णन्ति कृष्ण-कृत-रास-रसं विभाव्य ।

तान्य् अत्र किं वर-रसायन-दिव्य-चूर्णैर्

अभ्यासतः स्व-पुलिनानि चिनोति सौरी? ॥१२॥ [[वसन्ततिलका]]

[१३] भाण्दीरस् तु स नो मनो व्याकुलयति । तथा हि—

भाण्दीरस्य स्फुटम् अधिहरि प्रेम किं वर्णनीयं

सान्तर्धानं स्थितवति हरौ बाधम् अन्तर्दधे यः ।

यान्तु स्वांशेन च विषयताम् अत्र गोवर्धनाद्या

लोके स्निग्धा रचयितुम् इदं न क्षमः स्याम् इतीव ॥१३॥ [मन्दाक्रान्ता]

[१४] अहो प्रेमगम्भीर्यम् अस्य पश्य वृन्दावनस्य! यतः—

कुत्र कुत्रचिद् अगस्य दम्भतः

स्तम्भम् एति तद् इदं हरेर् वनम् ।

प्रायशश् चल-दलस्य कम्प्रताम्

अङ्कुरस्य पुलकानि सर्वतः ॥१४॥ [रथोद्धता]

[१५] आविर्व्रजति च तस्मिन् स-व्रज-वासि-जन-व्रजे व्रज-राज-तनूजे किं किं वा तद् व्यञ्जिजिषया

नाविर्व्रजति? तच् च युक्तम् एवोत्पश्यामः; व्रजपदम् हि सर्व-समीचीन-समूहम् ऊहयति ॥

[१६] अस्ति चेह श्री-भागवतीयं पद्यम्,

तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् ।

हरेर् निवासात्मगुणै रमाक्रीदम् अभून् नृप! ॥ इति । [भा।पु। १०.५.१८]

[१७] तेषाम् आविर्भावस्य पाद्म-पुराण-सन्दर्भानुसारेण प्रतिकल्पम् अनल्प-सुख-कल्पक-सम्पद्-उदन्त-दन्तवक्र-वधान्ते सर्वतोऽप्य् एकान्ते कान्ते यत्र प्रवेशस्य निर्देशः प्रथयिष्यते, तस्माद् भव-जन-मनः-काय-निकाय-स्पर्श-विरहिताद् वाराहादि-सङ्कीर्तित-प्रवर-कीर्ति-कदम्बादि-मयात् पाद्म-स्कान्दादि-गतासङ्कीर्ण-वर्णाकर्णित-तत्-तत्-सनातन-शील-तारामस-राम-गो-गोप-गोपाल-लीला-निधानाद् वृन्दावनस्यैव वैभव-विशेषाद् अशेषं भवति, प्रकृति-स्थितिम् अतीतो हि यः ।

[१८] बृहद्-गौतमीय-स्थ-श्री-कृष्ण-वचने तु तत्-तत्-सङ्क्षेपार्थ-निक्षेपः प्रेक्ष्यते ।

इदं वृन्दावनं रम्यं मम धामैव केवलम् । अत्र मे पशवः पक्षि-मृगाः कीटा नरामराः । ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥ अत्र या गोप-कन्याश् च निवसन्ति ममालये । योगिन्यस् ता मया नित्यं मम सेवा-परायणाः ॥ पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् । कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥ अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः । सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥ आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे । तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥ इति ।

[१९] यं खलु वैभव-विशेषं सर्व-सारेण यथा-स्थानं प्रकाशयिष्यमाण-व्याख्या-विशेषावतारेण श्रीमद्-भागवतानुसारेण गोपानां स्वं लोकं वरुणालयाद् आगतः करुणा-वरुणालयः स्वयं भगवान् अक्रूराय वैकुण्ठ-विशेष-लक्षण-स्व-वैभव-व्यञ्जनया सुख-प्रदे ब्रह्म-ह्रदे मज्जनेन तस्माद् उन्मज्जनेन च तज्-जन-कौतुक-जननाद् अनन्तरं छन्दः-स्तूयमानेनात्मनावित्रा विचित्रम् अत्रैव वृन्दावने तदीय-नर-लीला-वेशेन साधारणम् अन्येभ्यस् तेभ्यः सन्दर्शयामास; यं प्रति सम्प्रत्य् अपि प्रपद्यमाना विद्वांसश् चेतसापि साक्षाद् इव तल्-लीलाः प्रतिपद्यन्ते; यं परि हरि-वंशे गोविन्दाभिषेक-सम्पद्-अंशे महेन्द्रः श्रीमद्-व्रजेन्द्र-तनूज-तनुवद् व्यापकतां सत्यां प्रत्याययामास; यं पुनर् वृन्दावन-स्थ-समस्त-समभ्यर्णम् अपि तत्-तद्-वर्णनानुसारेण केचित् प्रकृत्य्-आवरणतः परम-वियद्-ऊर्ध्वं निर्वर्णयन्ति; अतएव लीलानुरूप-रूपतया भूमानम् अभूमानं च प्रपद्यन्ते यद् भूमयः । एष एव शेष-निर्विशेषतया ब्रह्म-साक्षात्-काराकारतया च ब्रह्म-संहितादिषु बृंहितं बृहद्भिर् वर्णयामासे । तत्र च प्रकटाप्रकट-प्रकाश-मयस्य वृन्दावनस्य बहु-विध-संस्थानतया बहु-विध-शास्त्र-श्रुतस्याप्रकट-प्रकाश-मय-वैभव-विशेष एव सम्प्रति वर्णनीयः । स च गोकुल-प्रधान एवेति स्व-विवक्षित-हिता ब्रह्म-संहितानु-संहिता क्रियते । तद्-वचनानि तु बोध-क्रमाय क्रमम् अतिक्रम्यानुक्रम्यन्ते, यथा—

भजे श्वेतद्वीपं तम् अहम् इह गोलोक इति यं विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये । श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवः द्रुमा भूमिश् चिन्तामणि-गण-मयी तोयम् अमृतम् ॥ कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखी चिद्-आनन्द-ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च । स यत्र क्षीराब्धिः सरति सुरभिभ्यश् च सुमहान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ॥ [ब्र।सं। ५.५७-५८]

[२०] किं च, ईश्वरः परमः कृष्णः इत्य् उपक्रम्याह—

सहस्र-पत्र-कमलं गोकुलाख्यं महत् पदम् । तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम् । तत्-किञ्जल्कं तद्-अंशानां तत्-पत्राणि श्रियाम् अपि ॥ चतुर्-अस्रं तत्-परितः श्वेतद्वीपाख्यम् अद्भुतम् । चतुर्-अस्रं चतुर्-मूर्तेश् चतुर्-धाम चतुष्-कृतम् ॥ चतुर्भिः पुरुषार्थैश् च चतुर्भिर् हेतुभिर् वृतम् । शूलैर् दशभिर् आनद्धम् ऊर्ध्वाधो-दिग्-विदिक्षु च ॥ अष्टभिः निधिभिर् जुष्टम् अष्टभिः सिद्धिभिस् तथा । मनु-रूपैश् च दशभिर् दिक्-पालैः परितो वृतम् ॥ श्यामैर् गौरैश् च रक्तैश् च शुक्लैश् च पार्षद-र्षभैः । शोभितं शक्तिभिस् ताभिर् अद्भुताभिः समन्ततः ॥

अपि च—

चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष- लक्षावृतेषु सुरभीर् अभिपालयन्तम् । लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इत्य् आदि ।

बृहद्-वामने—

रत्न-धातु-मयः श्रीमान् यत्र गोवर्धनो गिरिः । रत्न-बद्धोभय-तटा कालिन्दी सरितां वरा ॥ इत्य् आदि चान्यत्र ।

[२१] तद् एतद्-अनुसारेण प्रथमं तावत् काव्यस्य निधानं वस्तु-मात्रं स-प्रमाणं प्रकाश्यते, चित्रस्य फलकम् इव । [२२] तथा हि—यस्य खलु लोकस्य गोलोकतया गो-गोप-वास-रूपस्य, श्वेतद्वीपतया चानन्य-स्पृष्ट-परम-शुद्धता-समुद्बुद्ध-स्वरूपस्य

तादृश-ज्ञान-मय-कतिपय-मात्र-प्रमेय-गात्रतया तत्-तत्-परमता मता, परम-गोलोकः परम-श्वेतद्वीप इति । [२३] तद् एव युक्तम् उक्तं भवति ।

[२४] यत्र हि स्वच्छन्दतानन्द-प्रद-बहु-वचनार्था गोपी-पदार्थाः श्रियः श्रयन्ते । नान्य-वैकुण्ठवत् तद्-एक-वचनार्थता-कुण्ठाः । तासां तत्-पदार्थता च तन्-महा-वाग्-अर्थ-साराकर्ष-यन्त्रे महा-मन्त्रे बल्लवी-वल्लभतया तस्य जपम् उपदिशन्तीति सिध्यति ।

[२५] अत्र न केवलं तस्य द्वि-वर्ण-पदस्य वृत्ताव् एव रूढिम् अवलम्बामहे, अपि तु ध्यानेऽपि । किन्तु, नायं श्रियोऽङ्ग इति शुकानुवादः सामान्य-लक्ष्मी-विजयं व्यनक्ति । लक्ष्मी-सहस्र इति विरिञ्चि-वाणी लक्ष्मी-विशेषत्वम् उरीकरोति, यस्माद् अत्र कुरु-पाण्दव-शब्दवद् यथावसरं खण्दाखण्द-वाचकता मता । तद् एवं सति, तत्रापि राधा परमेति

पाद्म-स्कान्दादिवाराह-विमिश्र-मात्स्ये । गोविन्द-वृन्दावन-नाम-तन्त्रेऽप्य् अभाषि यत्, तत् कथम् अन्यथा स्यात्?

लक्ष्मीर् अभितः स्त्रितमा गोप्यो लक्ष्मीतमाः प्रथिताः । राधा गोपितमा चेद् अस्याः का वा समा रामा? ॥१५॥ [उपगीति]

[२६] तद् एवं-विधानां तासाम् अपि सर्वासाम् एक एव रमनस्, तत एव गोकुल-धामा गोविन्द-नामा प्रत्येकम् एकाम् एकां रमां रमयतां रमा-रमण-नाम्नां

पुरु-पुरुषाणां परमः । [२७] यत् तु मध्ये मायया प्रत्यायितम् औपपत्यं, तत् खल्व् अवास्तवत्वात् परस्ताद् अवध्वस्तम् इति श्री-परम-पुरुष-शब्दाभ्यां प्रमितम् । कथायां तु प्रमाण-विशेष-ग्रथनया प्रथमिष्यामः । [२८] एवं शिष्टः श्री-रामोऽप्य् अतिदिष्टः ।

[२९] किं च, अशेषा एवतरवः कल्प-तरवः सङ्कल्प-दान-बलात् केवलान्, न तु मान्यता-धन्य-सामान्य-विशेषात् । तेषु च जात्या कल्प-तरवस् तु विलक्षण-तया कृत-लक्षणा एव ।

[३०] किं च, आदर्शनि-भस्वच्-छवि-भवनानादर्श-स्पर्शादि-मय-भूमिका भूमिश् च कान्तेर् उत कान्तेर् वृष्टि-सृष्टि-कारिणी चिन्तामणीयते । [३१] आस्तां तावद् उत्तरम् अनु तारतम्य-रम्यता-गम्य-महिमा गृहादिषु महा-चिन्तामणि-मयी, यस्माद् उद्भिन्नास् तद्-उद्भिदश् च

तदीय-शोभाम् आत्मन्य् उद्भावयन्ति ।

[३२] यत्र च,

दृष्टि-श्रवणम् अयातास् तद्-गोचरिताश् च जाति-रूपाभ्याम् । नग-मृग-पक्षि-विशेषास् तत्रत्यानां च चित्रम् आदधति ॥१६॥ [गीति]

[३३] किं च, तोयम् अप्य् अमृतायते, किम् उतामृतम्? किं च, कथापि यथा गानं तथा कर्णयोः पानकायते, किम् उत स्वयम् एव गानम्? किं च, गमनम् अपि नृत्य-चातुरी-धुरीणताम् उरीकरोति, नृत्यं पुनर् अतीवादृत्यम् । किं च, वंशी यथा कंसारातेर् आशु सुख-विलासं शंसन्ती, सहायतया च लसन्ती च प्रिय-सखीयते, न तद्वद् अन्यो धन्योऽपि जनः सम्भवति ।

[३४] किं च, चिद्-आनन्द एव केवलं स्वरूपानतिरिक्त-शक्ति-व्यक्ति-वशाद् व्यक्ति-विशेषतया व्यक्तीभवन्, गोकुल-शब्द-बल-लब्ध-लोकवल्-लीला-कैवल्य-कलनाय पुष्पवद्-आदि-लक्षण-प्रकाशकतया तत्-तत्-प्रकाश्य-पुष्पादि-लक्षणास्वाद्यतया च

लापं कलयन्तीनाम् आलीनां निज-निज-यूथ-वरूथपायाः परमापूर्व-पूर्व-पूर्वानुरागादि-कथानिकायं गायन्तीनां मधु-मधुर-काकली-कुलानि तत्रकीयं सर्वं तर्व्-अन्तम् आर्द्रीकुर्वन्ति, किम् उत बहु-कष्ट-सृष्टतया मिथुनी-भूतं तत् तन् मिथुनम् ।

[३५] तथा च, हायशीर्ष-पञ्चरात्रे पञ्च-तत्त्व-निरूपणे वैकुण्ठ-स्थ-द्रव्य-तत्त्वं निरूपितम् –

गन्ध-रूपं स्वाद-रूपं द्रव्यं पुष्पादिकं च यत् । रसवद् भौतिकं द्रव्यम् अत्र स्याद् रस-रूपकम् ॥ हेयांशानाम् अभावाच् च रस-रूपं भवेच् च तत् । त्वग्-बीजं चैव हेयांशं कठिनांशं च यद् भवेत् । तत् सर्वं भौतिकं विद्धि न हि भूतमयं हि तत् ॥ इत्य् आदि ।

तथापि,

प्रपञ्चं निष्प्रपञ्चोऽपि विदम्भयसि भूतले । प्रपन्न-जनतानन्द-सन्दोहं प्रथितुं प्रभो ॥ [भा।पु। १०.१४.३७]

इति ब्रह्मवचनानुसारेण कृत-प्रपञ्चानुकारे लीला-सारे तस्य तत्-प्रपन्न-जनस्य च यथावेशः स्यात्, न तथा नित्याकारेऽपीति लभ्यते ।

हेयांशानाम् अभावाच् च रसरूपं भवेच् च तत् । त्वग् बीजं चैव हेयांशं कठिनांशं च यद् भवेत् । तत् सर्वं भौतिकं विद्धि न हि भूतमयं हि तत् ॥

[३६] ततः पूर्वत्र तस्य तस्य चावेशः परत्र च प्रवेशः स्यात् । [३७] ततश् च, तद्-इच्छा-वशाल् लीला-शक्तिः परत्र च प्रायः सर्वं व्यक्तीकरोतीति विवेक्तव्यम् ।

[३८] किं च, मुरजिन्-मुरली-कली-खुरली च स्व-माधुरी-प्रदुग्ध-मुग्ध-सुरभि-दुग्धानां सुरभीनाम् ऊधो-गिरितः सरितः प्रसारयन्ती परितः परिखायमाणं क्षीर-वारिधिं विस्फारयति । तत्र कामधेनुतया निकामम् एव स्नुवतीनां क्षीर-वाहितापि

प्राचुर्येणैव पर्यवसाय्यते । [३९] ततो नाना-रसा अपि ता नद्यः प्रतिपद्यन्ते विद्या-वद्भिः।

[४०] किं च, यत्र च तत्-कैशोरानुरूपार्ध-वार्धक-यौवन-नव-यौवनादि-वयस

एव तत्-पितृ-भ्रातृ-सखि-प्रभृतयस् ते निखिल-वर्गा नान्याम् अवस्थाम् आश्रिता भवन्ति ।

[४१] अन्यच् च, यस्य च गोलोकस्य मध्यम् अध्यास्य स्फुटतरानेक-सहस्र-पत्री-परिचितम् अजस्रम् एव खल्व् अमलं महा-मणि-कमलं गोकुल-नामतया निज-रूपं निरूपयति, “गो-गोपावास-व्रज-रूप-व्रज एवाहम् अस्मि” इति ।

[४२] न्याय-विन्यस्तम् एव च खल्व् इदम्, रूढिर् योगम् अपहरति इति । यथा जलज-शब्देनाप्सव्य-मात्रं नोच्यते, किन्तु कमलम् एव । रूढिताम् एव खल्व् आख्या-ग्रहणम्

आविष्करोति । [४३] श्री-शुक-देवेनाप्य् एतद्-अपेक्षयोक्तं, भगवान् गोकुलेश्वरः इति । वरट्-प्रत्ययः खल्व् अत्र शीलार्थता-परः । तद् एव चाम्नातं गोकुलं वन-वैकुण्ठम् इति ।

[४४] अथ श्रीमद्-व्रज-राज-तनूजता-शील-लीलस्य महा-भगवतस् तदीय-कर्णिकां-मध्यम् अधिकृत्य नाना-वर्ण-धामतया निर्वर्णित-मणि-मय-महा-धाम निकामम् उद्भ्राजते, यद् एव स्वयम् अनन्तांश-सम्भूतम् इति स्फुटम् अनन्तधा प्रकाशते ।

यस्मिन् केसर-विसरान् प्राचीराङ्गान् समन्ततः समया । सदया दायादायाः सोपासीना वसन्ति गोपालाः ॥१७॥ [गीति]

[४५] गोकुलताबलतस् तद् अपि संवलते । तथा हि,

अंशा भागा दायास् तद्-धित-योगेन दायवन्तश् च । तत् किल जातेर् भागा बकजिति ते सन्ति दायवन्तश् च ॥१८॥ [गीति] तस्मिन्न् अंशो येषाम् इति वा गम्यो बहु-व्रीहिः । व्रीहि-निभस् तत्-प्रेमा तेषां वृत्तौ तद्-आश्रयो युक्तः ॥१९॥ [उद्गीति]

[४६] तद् एवम् एषां तज्जातित्वम् एवोक्तं श्री-शुकेन—

एवं ककुद्मिनं हत्वा स्तूयमानः स्वजातिभिः । विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥ [भा।पु। १०.३६.१५] इति ।

पत्राणि तत्र कमले कमलालयानाम् अंशेन केलि-विपिनानि भवन्ति येषु । चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष- लक्षावृतेषु निभृतं रमते मुकुन्दः ॥२०॥ [वसन्ततिलका]

तत्राधिराज्यं किल राधिकाम् अनु प्रत्तं प्रियेणेति पुराण-विश्रुतम् । अहं तु मन्ये पुनर्-उक्तम् एव तद् गुणेन तस्याः स च यद् वशं-गतः ॥२१॥ [उपजाति १२]

[४७] इह च पूर्वं यद् एव श्री-परम-पुरुष-शब्दाभ्याम् अध्यवसितं, तद् एवाध्यवसीयते । तासु केवलासु व्रज-राज-सुत-वधू-भावस्य लब्ध-प्रसिद्धितां विना

व्रज-कमल-सकल-पत्रावल्य्-आधिपत्यं न प्रसिध्यतीति ।

[४८] अथ किञ्चित्-कुञ्चित-कमल-पत्रवद्-उन्नत-पार्श्व-द्वयावयवतया बहिर्

दुर्लङ्घ-शृङ्ग-मणि-मयालवाल-शोभा-मत्राणां पत्राणाम् अन्तरालेषु केशराद् अवतीर्णानि विस्तीर्णानि पृथक् पृथग् उपनिष्कराणि विराजन्ते । तेषाम् अग्रिम-सन्धिषु स्फुटम् अधिमध्य-मध्यम् अध्यस्त-समस्तेश-गोष्ठानि गोष्ठानि विभ्राजन्ते ।

अतएव तत्पर्यन्तस्य तस्य गोकुलतावकलिता ।

तत्रापि दोह-समयं समया समेन गो-वृन्द-पाल-वलयेन निविश्य पश्यन् । चिन्तामणि-प्रचित-सद्मसु कल्प-शाखि- पद्मावृतेषु सुरभीर् अभिपाति कृष्णः ॥२२॥ [वसन्ततिलका]

[४९] यस्य च समीपगानाम् आलय-रूपस्य कमलस्य सर्वतश् चतुरस्रं भवति, तद् इदं सर्वं वृन्दावनम् इति वदन्ति । तद्-बहिर्-अन्तरं समस्त-दीपायमानः स

महा-द्वीपायमानः परम-सुवेशः सर्वश् च देशः श्वेतद्वीप इत्य् आचक्षते गोलोक इति च । यस् तु बहिर्-भागः सागरवद् अपरिच्छेद्यस् तत्र विगत-शोका धारित्र-निभ-विचित्र-लोकाः सलोका विद्यन्ते । पत्र-स्थितानि तु वनानि केलि-वृन्दावनानीति भणन्ति । यथोक्तं

पाञ्चरात्रे – महावृन्दावनं तत्र केलिवृन्दावनानि च इति ।

[५०] अथ चतुरस्रम् अनु कमलात् पतयालुतया परितः स्रवन्तीर् मधु-धाराः पिबन्त इव पुनर् उपरत-तत्-पानाय वमन्त इव च दक्षिण-पश्चिमयोः सर्वतः पर्वतः पर्वत-षट्-पदा दृश्यन्ते । यत्र च तत्रापि महा-मणि-मय-कूट-घनः श्री-गोवर्धनः कुटी-भूत-महा-निधिवद् अखर्वम् आनन्द-गर्वं सर्वाधिपतेर् अप्य् आविर्भावयति ।

[५१] श्री-गोवर्धन-नामा चायं रमणीय-मणि-शिलाभिः समासनम् आसनम्,

खगावलि-कलित-काकलीभिः स्वागतं स्वागतम्, श्यामाक-दूर्वाब्ज-विष्णुक्रान्तापर्यग्-आक्रान्त-तिर्यग्-निर्झरिभिर् निष्पाद्यं पाद्यम्, चञ्चन्-मृग-चरण-न्यञ्चद्-अक्षत-दर्भानन्ताङ्कुरैः समर्घ्यम् अर्घ्यम्, तीर-सनीड-जाती-लवङ्ग-कक्कोल-सङ्गत-पल्ललैर् अलम् आचमनीयम् आचमनीयम्, नव-नव-नव-प्रसूत-गवी-नवीन-स्नुत-क्षीर-परिणत-दधि-तत्-प्रसृत-घृत-शबलनैस् तरूपहृत-मधुपर्कं मधुपर्कम्, शिखर-शेखर-शिलासर-प्रखर-धारा-पातैर् अनुकृत-स्नपन-परिचर्या-प्रीति-मज्जनं मज्जनम्, दुकूलवद्-अनुकूल-संश्लेष-स्वर्ण-वर्ण-वृक्ष-विशेष-वल्कलैः कलित-सुख-वसनं वसनम्, स्वभावानुबन्ध-गन्ध-सुगन्ध-शिला-शत-परिणत-हरि-चन्दन-गौर-गैरिकैश् चर्चातिशयं चर्चातिशयम्, प्रफुल्ल-माल-मालती-लतादिभिर् नन्दित-सुमनसः सुमनसः, गव्याखुरव्याहति-जातागुरु-दारु-धूमैर् व्याहत-सर्व-धूपं धूपम्, दिवापि विद्योति-मणि-निकर-ज्योतिभिः सर्व-सम्पद्-उद्दीपं दीपम्, मञ्जुल-गुञ्जापिञ्छा-दिवि न्छोलीवाञ्छित-निर्माणैः कृत-सुषमा-भरणम् आभरणम्, अभिलाषानुकूल-फल-मूल-वलयैः सर्व-सुख-समाहारं समाहारम्, पुष्प-वासित-शीतल-जल-वलयित-पुनर्-आचमनम् अनु विमल-परिमलातुल-तुलसिका-पल्लवादिभिर् मुख-वासनं मुख-वासनम्, मरुद्-उच्चल-स्फुट-पुष्प-सम्पच्-चम्पक-दीपावल्या स्फुटम् आरात्रिकम् आरात्रिकम्, घन-किसलय-वलय-सङ्कुल-बकुल-मुख-शाखा-निकरैः शोभान्तरतमातपत्रम् आतपत्रम्, मलय-मरुल्-लव-चलत्-पल्लव-विशाल-शालैर् नन्दित-भव्य-जनं व्याजनम्, निज-स्वर-विवेकिनां केकिनाम् अनेकाङ्ग-केकाभिः कलिलास्यं लास्यम्, हरि-वेणु-ध्वनि-भ्रम्-कीचक-कल-क्रम-क्ताकर्स-वनितान्वित-शय्यायमान-पुस्प-पात-पर्यायैः क्त-सर्वातिशयनं शयनम्, काकली-कलिल-कल-कोकिल-कुलैर् लब्ध-सङ्गानं सङ्गानम् अपि हरिं परिकलयन् पूर्व-पूर्व-सिद्ध-निज-हरि-दास-वर्यतां पर्यापयन्न् आस्ते ।

[५२] कृत-हरिदास-वर्य-सङ्गा मानस-गङ्गा च सर्व-सुख-स्थेमनि कृष्ण-प्रेमणि मानस-द्रव-मयीति किल तन्-नामतया तां वर्णयन्त्य् उपश्लोकयन्ति च—

स्वल्पेनाघजिद्-अंश-वामन-पद-स्पर्शेन गङ्गा सदा सर्वाघ-प्रशमन्य् अभूद् अपि शिवस्यारूढ-मूर्धाजनि । स्वेनैवाघजिता सदा विहरता ब्रह्मेश-लक्ष्मी-जयि- प्राशस्त्येन सह व्रजेन मिलिता गङ्गापरा किं पुनः ॥२३॥ [शार्दूला]

[५३] अथ यत्राप्य् उत्तर-पूर्वयोः कस्यानन्द-व्रज-रूपस्य व्रजस्यालिन्दाद् अदूरभवेति किल कालिन्दीति-नाम्नी यमुना विलसति । या खलु—

कदाचिद् धाराभिर् वहति हरि-रत्न-द्रव-निभा कदाचित् स्तब्धाङ्गी स्फुरति हरि-रत्न-क्षितिर् इव । क्रमाद् वेणौ तस्मिन् न नदति नदत्य् अर्क-तनया जलस्थल्योः शर्म प्रसवति हरेः सेवन-विधौ ॥२४॥ [शिखरिणी] पश्यन्ती जलजेक्षणा घन-रसावर्त-श्रुतिः शृण्वती जिघ्रन्ती झष-नासिका तरल-दोर् आलिङ्गनं कुर्वती । जल्पन्तीव च हंस-चक्र-वदना नीरात्मना कृष्ण-भाग् या कृष्णा बत साथ कीदृग् असकृद् देव्यात्मना चेष्टते ॥२५॥ [शार्दूला]

[५४] यत्र च सर्वत्र सरांसि चैवम् उत्प्रेक्ष्यन्ते—

व्रज-विपिन-विभागे निश्चलो यस्य वासः

स्वयम् अयम् अपरेषां पोषको जञ्जनीति ।

कलय वर-सरांसि स्रोतसाम् अत्र वृन्दैर्

विदधति यमुनादि-द्वीपिनीः स्हीत-तोयाः ॥२६॥ [मालिनी]

यत्र च—

काश्चित् पङ्क-कैरवावलि-लसत्-स्रोतस्वती-प्रान्तगा नाना-पुष्प-वनी-विराजद् अवनी-मध्य-स्थिताः काश्चन । केका-झङ्कृति-मत्-कुहू-मधुरिताः कान्ताङ्ग-चर्चाचिता नासादृक्-श्रवसः सदापि सुखदा रासाङ्किता भूमयः ॥२७॥ [शार्दूला]

किं च—

भाण्डीरस् तरणि-पदं समुन्नतेर् न प्रायातः परम् इह किन्तु विस्तृतेश् च । तच्-छाखाः परिविहरन्न् अवार-पारे कालिन्द्या मुहुर् अभियाति गोप-सङ्घः ॥२८॥ [प्रहर्षिणी]

तथा—

क्वचित् सद्माभास-प्रकट-बलवत्-कोटर-घटः

क्वचित् पल्यङ्काभ-प्रथित-पृथु-शाखा-सुखतमः ।

क्वचिद् दोलातुल्य-ग्रथित-लतिका-पालि-वलितः

सदासौ भाण्डीरः कम् इव हरि-केलिं न तनुते ॥२९॥ [शिखरिणी]

तद्-उदीचीम् अनुदेशः

प्रथयति सौख्यानि राम-घट्टाख्यः ।

यत्र च रामं कुर्वन्

सुखयति रामः सरामताम् अञ्चन् ॥३०॥ [गीतिः]

[५५] अथ तस्य लोकस्य लोअक-पालैर् वरणीयानि विमान-चारिणां वराण्यावरणानि सुर-वर्त्मनि वरीवृतति । यत्र च वासुदेवादि-सञ्ज्ञं स्वयम् एव चतुर्व्यूह-वृन्दं लोक-पालायमानं सेना-व्यूहताम् उररीचरीकरीति । तत्र च पुरुषार्थादयः के वराकाः ?

[५६] तद् एवं सति गोलोक-नामायं लोकः परम-मान्यः सामान्यतयापि केन वर्ण्यताम् ? यः खल्व् अमृत-सिन्धुर् इत्य् अमृतान्धसः, यशसः सवया इति कवयः, विचित्री-धर्माकृतिर् इति विश्वकर्माणः, आनन्दानां ब्रह्म-साक्षाद् इति ब्रह्मानुभविनः, प्रेमा स्वयं व्यक्त इति भगवद्-भक्ता मन्यन्त इत्य् अनेक-मत-परामृष्टतया दृष्टः ।

किं च—

किं तेजः किं नु चित्रं किम् उत नट-कला किन्तरां कोऽपि लोकः किं वा प्रेमा स साक्षाद् इह कलित-वपुर् यः शुकेन प्रगीतिः । इत्थं तल्-लोकपाल-प्रमुख-दिविषदां संहतिस् तर्कयन्ती तस्मिन् गोविन्द-धाम्नि प्रतिदिनम् अयते सम्भ्रमं च भ्रमं च ॥३१॥

[स्रग्धरा]

[५७] तद् एवं बुद्ध-पद्धतिम् अप्य् अतीतवान् असौ लोकः प्रसभं बुद्धि-मध्यम् अध्यारोहति । यतः—

ये ये प्रीतिं ददति विषया ये च तत्-तद्-विदूरास्

तेषूत्कण्ठा मम नहि कदाप्य् अत्र सत्यं करोमि ।

कृष्णे स्नेहं बत वितनुते यश् च यत्रापि कृष्णः

शश्वल्-लोकं स तु सरभसं मां दिदृक्षुं करोति ॥३२॥ [मन्दाक्रान्ता]

यस्याकर्णनम् अप्य् अपूर्वम् अमित-ब्रह्माण्ड-कोटि-व्रजे

वैकुण्ठेष्व् अपि वाञ्छितं किम् अपरं यल्-लालसा श्रीर् अपि ।

गोलोके स तु बान्धवाग्रिमतया विभ्राजते सर्वदा

येषां तन्-मधुरिम्णि हन्त मम हृन् मज्जन् मुहुः सज्जति ॥३३॥ [शार्दूला]

[५८] हन्त किं करवाणि ? सहसैवारब्धवान् एतद् वर्णनम् । निर्वाहं तु न पश्यामि । [५९] यतः प्रथमतश् चतुरस्र-परि-हरि-चरित-चारुता-प्रणिधान एवेदृशता दृश्यते, यथा—

गवां क्षेपश् चारं प्रति सखिभिर् आक्रीड-परता

मुहुस् तासां दूरे गमनम् अनुसम्भालन-विधिः ।

तद्-आह्वानं तासु क्रमम् अनुविसृष्टिः सवयसां

पुनः क्रीडावेशः स्मृति-पदतया क्षोभयति ॥३४॥ [शिखरिणी]

तत्रापि—

क्व चापि कृष्ण-रामौ तौ कर-बद्ध-करौ मिथः ।

हसन्तौ हासयन्तौ च कुर्वाते चित्तम् आकुलम् ॥३५॥ [अनुष्टुभ्]

किं च—

वृक्षान् अङ्कुरयन्तु विद्रुत-दशाम् अद्रीन् नयन्तु द्रुतं

स्तम्भं चाम्भसि लम्भयन्तु सरितां किं वा प्रतीचीनताम् ।

वेणु-ध्वान-घटा यतोऽतिनिकटाः कस्माद् अकस्माद् बलात्

कर्णाभ्यर्ण-गता इव स्फुटम् अमून् धुन्वन्ति तद्-ध्यायिनः ॥३६॥ [शार्दूला]

[६०] यतस् तद्-अनुभविनां सुखं तु मनसि स्फुरद् अपि न वक्तुम् ईश्यते ।

यस्मिन् हरिर् याति विहार-हेतोस्

तस्मिन् मुदा फुल्लति चेत् कुटोऽपि ।

न तत्र पृच्छा न च वक्तृता तन्

न पृच्छ्यम् एतन् न च वाच्यम् अस्ति ॥३७॥ [उपजाति]

[६१] इदं च सुजन-मतिम् अतीवाकर्षति ।

गायन्ति तत्र धवलाः परिपालयन्तः

पारावतीं मधुर-रागवतीम् उदस्राः ।

जन्मादि-कृष्ण-चरितानि चिरं गतानि

स्मृत्वा यतः सपदि मुह्यति सर्व एव ॥३८॥ [वसन्त]

[६२] अहो कुतः कुतो वा मनः संयमनीयम्, यतो गोष्ठानि च तानि द्रष्टुं मनः प्रसभम् उत्कण्ठयन्ति । यथा—

विराजत्-कस्तूरी-द्युति-परिमलैर् गोमय-मय-

स्फुरच्-चूर्णैः सद्म-प्रतिकृति-वपुभिस् तरु-वरैः ।

दिवा नूत्नैर् वत्सैर् निशि सुरभिजिद्भिः सुरभिभिः

समनाद् गोष्ठानिइ प्रतिमति दिशन्ति स्मृति-शतम् ॥३९॥2 [शिखरिणी]

सन्ध्ययोस् तु—

वत्सान् मोचयतां धनानि दुहतां दुग्धानि सञ्चिन्वतां

गाः सम्भालयतां गृहान् प्रचलतां कृष्णं पुरः कुर्वताम् ।

तल्-लीलाः परिगायतां पुलकिताम् अश्राणि चातन्वतां

गोपानां बत चित्तम् उच्चित-मदं मच्-चित्तम् आक्रामति ॥४०॥ [शार्दूला]

[६३] सदा चैतानि राज-वर्त्मानि तत्-कीर्तन-चत्वराणीव प्रसभं मच्-चित्तम् आकर्षन्ति । तथा हि—

रामः कृष्णः कृष्ण-रामौ च कृष्णः

कृष्णः कृष्णः कृष्ण इत्य् एष जल्पः ।

यातायातं कुर्वतां सर्वदापि

स्वैरालापे श्रूयते तत्र तत्र ॥४१॥ [शालिनी]

[६४] श्री-कृष्ण-प्रमदानां प्रमदानां प्रमद-वन-पात्राणि पत्राणि तु वर्ण्यमानानि कवीनाम् अपत्रपाम् एव बिभ्रति, यतस् तत्रत्यं सर्वम् एव चित्रम् इति दुष्प्रत्यायतां प्राप्नोति । येषु हि—

क्वचित् कुञ्जाः सद्म-भ्रमकर-रुचैस् तैर् अवयवैः

क्वचिच् चित्रैः सद्मान्य् अपि तुलित-कुञ्जानि शतशः ।

जलानि क्वाप्य् उद्यत्-कमल-वलितानि प्रतिपदं

स्थलान्य् अप्य् एवं क्वाप्य् अथ किम् इव किं निर्णय-पदम् ॥४२॥ [शिखरिणी]

सखीनां सारण्य-त्रिदश-सुदृशां गान-वलनां

मुहुः प्रोद्यन्-मूर्च्छां मधु-मधुर-राग-प्रणयिनीम् ।

हरि-प्रेमार्त-स्त्री-प्रथम-रचितां शृण्वति जने

सुखं वा दुःखं वेत्य् अवकलयितुं कः प्रभवति ॥४३॥ [शिखरिणी]

क्वचिद् गानं सूक्ष्मं क्वचिद् अपि च तौर्यत्रिक-कला

क्वचित् प्रेम्णा गोष्ठी क्वचिद् अपि महा-केलि-कलहः ।

इति स्फारं ताभिः प्रणय-मय-सारं विहरणं

हरेर् ध्यायन् नाना भवति कवि-चित्तं मुहुर् अपि ॥४४॥ [शिखरिणी]

प्रेमा कामति तत्-क्रिया कलहति स्तम्भादि-भावावली

सख्यां सञ्चरति श्रुतं च चरितं सर्व-श्रुतं लङ्घति ।

इत्थं केलि-कला-कलाप-कलितं वृन्दावनान्तर्-वने

दम्पत्योर् निखिलं विचार-पदवीम् उद्धूय विभ्राजते ॥४५॥ [शार्दूल]

अकुण्ठाम् उत्कण्ठां वहति हरिर् आसु प्रतिपदं

हराव् अप्य् एता यद् व्यतिमिलन-सौख्यं विजयते ।

अहो यस्माद् अस्मिन् निरुपधि सखी-वृन्दम् उभय-

प्रकृष्टोत्कण्ठित्वं विशति तद् इदं हन्त किम् इव ॥४६॥ [शिखरिणी]

अपि सुन्दरतां प्रति ताः, सुन्दरतां किल वहन्ति गोपाल्यः ।

यन् निर्दूषण-भूषण-, भूषण-कृष्णे विभूषणायन्ते ॥४७॥ [उद्गीतिः]

न भजति लक्ष्मीस् तुलनाम्, इति किं स्तुतये घटेत राधायाः ।

या लक्ष्मीम् अपि जेत्रीः, स्व-रुचा गोपीः पृथक् कुरुते ॥४८॥ [आर्या]

[६५] तस्माद् असाम्प्रताय तु साम्प्रताय मद्-विधाय स्वं वर्णयितुं किम् उत निर्वर्णयितुम्—

रव्य्-आदि-द्युति-जिष्णु-दिव्य-धरणि-क्षौणी-रुहान्तर्गत-

प्रासाद-स्थित-सिंह-पीठ-महसि च्छन्नान्य-दृष्टि-त्विषि ।

स्पष्टात्मीय-दृशि प्रकीर्णक-विकीर्णाली-हिताली-वृता

राधा-माधव-माधुरी-वर-सुधा तृष्णां मुधा यच्छति ॥४९॥ [शार्दूल]

[६६] तद् एवम् आनन्द-सत्र-पत्रादि-स्थितानाम् उपरि सान्द्र-शाखाभिर् अलक्ष्य-तलानाम् अनल्प-कल्प-वृक्ष-लक्षाणाम् अधिमध्यं राज-समाज-विराजमानां वर्णित-मञ्जु-किञ्जल्क-कर्णिकाम् अधिवसन्तः सदा लसतः स-परिवार-वार-सुरभी-पाल-भूपाल-कुमारस्य तस्य सर्व-चिन्तातीत-चिन्तामणि-मयम् अक्षामं सप्त-कक्ष्यारामं धाम निकामं धाम विस्तारयन् नेत्राणि विस्तारयति । तत्र च भासमानं तद् आवासम् अभितः सततम् उपपरार्धे गणनीयानां सजातीयानाम् अद्वितीया वसतिः । सेयम् अभिस्निह्य वन्दिभिः सन्दिह्यते ।

अब्जं तद् आलिङ्गितुम् अब्ज-बन्धोर्

बन्धुर् ययौ किं परिवेष एषः ।

गोपालयानां वलयावलिर् वा

गोपेश-वेश्माभित एवम् अस्ति ॥५०॥ इति । [इन्द्रवज्रा]

[६७] तद्-वासिनस् त्व् एवं स्तूयन्ते—

अर्थाः सर्व-जनार्थनाम् अतिगताः कामा निकामाग्रिमा

धर्माः कर्मठ-देव-धर्म-महिता मोक्षाश् च मोक्षातिगाः ।

तेषां तत्र वसन्ति सेवकतया कृष्णाय तृष्णा-जुषां

यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् तत्-कृते ॥५१॥ [शार्दूला]

नेत्रं श्रोत्रं चित्तम् अप्य् अन्यद् अन्यत्

तुच्छं यस्मिन् भाति कृष्णं विना तु ।

घोषे तस्मिंश् चक्षुषश् चक्षुर् एवं

श्रौती वार्ता पश्य दृश्या विभाति ॥५२॥ [शालिनी]

विभ्राजन्ते सूत्र-सञ्चार-विद्या

पाञ्चाल्यः किं विश्व-विस्मायनाय ।

किं वा गोपाः स्वान्तरे कृष्ण-भावैर्

बद्धाः सन्तस् तत्र तत्र भ्रमन्ति ॥५३॥ [शालिनी]

किं च—

पितायं मातेयं पितृ-सहज-वर्गः स्वयम् असौ

तथैवान्ये चान्य-प्रथित-हित-सम्बन्ध-महिताः ।

व्रजे ख्यातिर् यैषा बकरिपु-गणे भाति खलु तां

क्वचित् तुल्यः प्रेमा पथिकम् अनु शश्वद् भ्रमयति ॥५४॥ [शिखरिणी]

[६८] अथान्यद् अपि किम् अपि विभाव्य सम्भाव्यते । तद् यदि सताम् अनुभवम् अप्य् अनुभविता, तदा भव्यम् एव खल्य् भव्यम्, न चेन् नव्य-काव्यता तु न व्यभिचरिता । अथवा, तथापि यत् किञ्चिद् अपि तेषां वाञ्छितं स्याद् एवेति सर्व अञ्चितम् एव मन्यामहे ।

[६९] तत् तु सम्भावनं, यथा—अथ गोपावासाभ्यन्तरे तादृशाम् एव सभ्यानां लभ्या सभावलिर् उपलभ्यते,

यत्र भूरि-वैचित्री-धुराणि महा-गोपुराणि पुराणीव विराजन्ते, येषां पन्थानः किल किञ्जल्क-वलज-पर्यन्ताः समस्ताद् विभ्राजन्ते, यत्र च परस्परम् अभिमुखाः सुमुखा महान्तस् ते गृहा मिथः पृथुल-शोभा लोक-स्पृहा इव विमृश्य दृश्यन्ते, यत्र च सिंह-संहननानां पुरुष-सिंहानां निश्चलाङ्घ्रीणि महा-सिंहासनानि विचित्रतया नेत्राणां परिबृंहणताम् अंहन्ते, यत्र च परावर-कक्ष्या-वासि-लोक-लक्षाणि समम् एव समक्षाणि सन्ति, मिथः सुख-शतानि वर्षन्ति, यत्र चैकत्रासीनानाम् अन्यत्रापि रूपक-काव्य इव प्रतिरूपाणि रूपाणि प्रतीयन्ते—न च तानि केवलानि, अपि तु प्रतिध्वनयश् च ध्वनि-काव्य इव ध्वनितया विभाव्यन्ते, यतः स्वच्छान्तः-करणा महान्तः खलु पर-गुणान्तराण्य् अपि आयच्छन्तीति प्रथितिः प्रथीयसी; यदा च तथा प्रथीयन्ते विभाव्यन्ते च, तदा ह्य् आगन्तुका नाना-जनास् तत्-तद्-रूपाणां जानानाः परितः परिहास्यन्ते; यत्र च कुत्रापि यदा सदा परमानन्द-स्यन्द-सन्दोह-दोहन-कान्ति-कन्दली-लम्भित-सुख-तन्द्रः श्रीमन्-नन्द-कुल-चन्द्रः स्वयम् आलोक-सुधया लोक-चक्षुश्-चकोर-वारपाराणाम् आपूरयति, तदा तूत्सवानाम् अपि महान् उत्सवः स्फुरति ।

[७०] अथ सभा-वलयम् अन्तरा च कक्ष्या-पञ्चकतया लब्ध-बोधः सर्व-चित्तावरोधः स तु व्रज-नृपावरोधः समुद्भ्राजते । तत्र तम् एव हि सह-मातर-पितरादि-वृन्दः श्री-गोविन्दः स्वयम् आवसति । यत्र सभा-वलयान्तर्-अन्तः परितः परीतश् चतस्रोऽप्य् अन्तः पृथग्-अवरोध-लक्षाः कक्ष्या लक्ष्यन्ते । अन्या च पञ्चमी धन्या सर्व-मध्य-लब्ध-न्यासतया यत्र चित्रीयते, यस्यां तु महा-प्राङ्गण-सङ्गिन्यां प्रतीचीम् अनु स्वान्तर-अङ्गम् अङ्गणम् अङ्गणं परितो निकायानां निकायः सर्वतोऽपि श्रेयस्या श्रीमद्-व्रज-नर-देव-प्रेयस्या समाश्रियते । उदीचीम् अनु सुख-मयूख-रोहिण्या रोहिण्या । प्राचीम् अनु समस्त-कृत-सेवेन श्रीमद्-व्रज-नरदेवेन । अवाचीम् अनु स्वजन-सभाजन-भोजनापवर्जन-प्रयोजन-सामग्र्या ।

[७१] अथ तद्-बहिर् बहिर् अन्तः-पुर-प्रयुत-विभाग-प्रचुराणां परम-सन्तुष्ट-जन-पुष्टानां चतुष्टयीनां च कक्ष्याणां पश्चान् निश्चित-पश्चिमादि-ककुभं शुभां रीतिम् अवलम्ब्य सकल-शर्म-दृश्वरी श्रीमद्-व्रजेश्वरी राम-घट्टाभिरामः श्रीमद्-बलरामः सर्व-लोक-गतिः श्रीमद्-व्रजाधिपतिः स च गोवर्धनानन्दनः श्रीमद्-व्रजाधिपति-नन्दनः पतिर् अतीव राजते ।

[७२] तत्र चाहरहर् अविरह-रहः-केलि-कलित-तृष्णयो राम-कृष्णयोर् विख्यात-तत्-तन्-नामसु मध्यम-कक्ष्या-द्वय-धामसु परम-रमा-गण-श्रेयसीनां प्रेयसीनाम् आवास-प्रासादावलिर् उद्भासते; [७३] यत्र चावेशनम् अनु सावेशं नाना-कला-कलापं कलयन्तीनाम् आलीनां निज-निज-यूथ-वरूथपायाः परमापूर्व-पूर्व-पूर्वानुरागादि-कथानिकायां गायन्तीनां मधु-मधुर-काकली-कुलानि तत्रकीयं सर्वं तर्व्-अन्तम् आर्द्रीकुर्वन्ति, किम् उत बहु-कष्ट-सृष्टतया मिथुनी-भूतं तत् तन् मिथुनम् ।

[७४] तयोर् द्वयोर् आवरणतया लक्ष्ये ये चान्यतरे प्रत्यन्तर-कक्ष्यम् एक-भूम-द्वि-भूमतादि-प्रकारेणाधिक-भूमिका-रचनाभिर् उच्चतर-रीतिकायाः समान-मान-गृह-स्व-स्व-वीथिकाया धारिणी गोलोक-धरणी-लोक-हारिणी भवति । तत्र सर्वास् तु गृह-लेखा-मणि-भित्ति-सम्बध्य-मध्य-रेखा-लब्ध-द्वैविध्या समन्ताद् उभयतः-स्थित-द्वारतया परस्पर-सम्मुखता-शोभानन्दित-दिग्-अन्ताः कैमुत्यम् आसादयन्ति ।

[७६] यत्र च सर्व-मध्यमावरोधस्याधिमध्यं बृहत्-प्राङ्गणम् अधिकृत्याखण्ड-पुट-भेदन-मुकुट-भङ्गी-लङ्गिनं निश्रेणि-श्रेणि-मिश्रान्तः-श्वभ्र-शुभ्र-लघु-लघु-द्वार-सुखारोह-सञ्चार-मेर्व्-आकार-चार्व्-अङ्ग-कुट्टिमाद् उपरि परितः स्तम्भ-वार-सङ्गतम् अगारम् एकं सर्वतश् चलत्-पताकम् अवलोक्यते । [७७] यदा च तस्य सर्व-ककुदम् उदञ्चितस्य धिष्ण्यस्य पुरूपरि चालङ्करिष्णुतया श्री-कृष्णः स्वयं वर्तिष्णुर् भवति, तदा सर्व-जिष्णु-तद्-उपरिचरिष्णु-जिष्णु-नील-मणिर् इव कं वा तल्-लोक-भविष्णु-लोकं कान्ति-कन्दलीभिर् न पुष्णाति?

[७८] या चेयं कर्णिकायाम् उपरि पुरी, तद्-अधस्ताद् अन्यापि समन्ताद् अस्ति, किन्तु सा प्रति-कृष्ण-कान्ता-धामन्य् एव निजाङ्गन-निभ-पत्र-पङ्क्ति-सीमन्य् एव चायन्त्रित-द्वार-गणेति परेषाम् अज्ञाता, द्युमणिवन्-मणि-गण-समुज्ज्वलालय-कलापा, वातानीत-सुजात-परिमल-सम्पाता, निर्जनता-जनित-स्वैरतानारत-रति-प्रदा, शय्यासन-च्छत्र-चामरादि-सामग्रीति-बहुल-शती-प्रीतिदा-नाना-क्रीडा-भाण्ड-मण्डल-मण्डिताखण्ड-मण्डपा, तत्-तच्-चेष्टाधिष्ठान-नर-मृग-पक्षि-प्रतिकृति-लक्ष-विलक्षिता प्रेयसीषु विभक्त-प्रदेश-विशेषा शेषालयायते । यत्रत्येन पथा यथावत् प्रेयसी-नामानन्दनः श्रीमान् नन्द-नन्दनस् तत्र पत्र-समुद्यद्-उद्यान-वृन्दम् अमूभिर् अनुविन्दन्न् अतीव नन्दति । तस्माद् उद्यानाद् अन्तर्-द्वारेण चतुरस्रं प्रत्युद्यानम् अपि विन्दति ।

[७९] एवं श्री-बलरामस्य राम-घट्टाख्य-निज-क्रीडा-वन-गमनं च तल-वर्त्मनैव वर्तते, किन्तु सङ्क्षिप्ततया निहितेन पत्रावलि-पर्यन्ताल-वाल-पिहितेन मन्तव्यम् ।

[८०] ताम् एताम् उपरिगतां श्रीमद्-व्रजेश्वर-पुरीं परि तु श्लोकाः परिगीयन्ते—

यस्तां पताका मृदु-वात-कम्पिता

नानामुखीभावम् इताः पुनः पुनः ।

सौरभ्यम् आयाति यदा यतस् तदा

विवृत्य पश्यन्ति दिशाम् अमूम् इव ॥५५॥ [उपजाति १२]

नित्यं सुधा-धामज-धाम-सङ्गतः

पूर्णाङ्गताम् अङ्गल-सङ्गतिं गताः ।

यत्रापि कुम्भा विधु-कान्त-सम्भवाः

कूटान्तरत्व-मुकुटा इव स्थिताः ॥५६॥ [इन्द्रवंशा]

यत्रान्विता कुम्भा विधुकान्त-सम्भवाः

कूटान्तरत्न-मुकुटा इव स्थिताः ।

यत्रान्विता स्वच्छतया विभातया

हीरादि-रत्न-च्छदिर् आलिर् ईक्ष्यते ॥५७॥ [इन्द्रवंशा]

मयूर-पारावत-कोकिलाद्या

वसत्नि यस्यां तु विनापि यत्नम् ।

शब्दायमाना विपिनस्य तैर् ये

विवाद-संवादवद् आचरन्ति ॥५८॥ [उपजाति ११]

विचित्र-रत्नावलि-चित्र-चर्चिता

सौवर्ण-भित्तिः परितश् चकासती ।

गोपाल-बाल्यादिइ-विलास-माधुरीः

साक्षाद् इवालक्षयते शिशून् अपि ॥५९॥ [उपजाति १२]

विस्तारितोत्सङ्ग-निभैर् अलिन्दैः

श्लिष्यन्ति कृष्णं भवनानि नित्यम् ।

येषां सदान्तर् निवसन्ति ते तद्-

भक्ता अमी तादृशतां व्रजन्ति ॥६०॥ [इन्द्रवज्रा]

प्राङ्गणानि मणि-दर्पण-च्छवीन्य्

उल्लसन्ति सदनावलीम् अनु ।

येषु नूतन-वधूर् बकान्तकं

व्रीड-नम्र-वदनापि वीक्षते ॥६१॥ [स्वागता]

चन्द्रकान्त-मणि-बद्ध-भूतले

पल्वलानि च लसन्ति सर्वतः ।

राधिकादि-मुख-कान्ति कन्दली

यानि पूरयन्ति हन्त सर्वदा ॥६२॥ [स्वागता]

लोकः श्रीनाथ-लोक-प्रतिरुचि-विजयी काननं श्री-स्पृहाजिद्-

वासः श्री-राजधानी-निखिल-शुभ-रुचां वासिनस् ते त एव ।

भोक्ता कृष्णः स भोग्यः प्रणय-मधुरिमा शश्वद् इत्य् एवम् अस्मिन्

प्रत्येकं सर्वम् अन्तःकरणम् अतिगतं कस् तद्-अन्तं लभेत ॥६३॥ [स्रग्धरा]

[८१] तत्-प्रेम-शर्मणां सर्वातिशयि-धर्मतायाम् अहम् अपि मर्म-वेत्ता, यतः—

हरिर् गोप-क्षौणी-पति-मिथुनम् अन्ये च विबुधा

न नः क्रूरं चित्तं मृदुलयितुम् ईशा लवम् अपि ।

अहो तेषां प्रेमा विलसति हरौ यस् तु बलवान्

हरेर् वा यस् तेषु द्रुतयति स एव प्रतिपदम् ॥६४॥ [शिखरिणी]

[८२] अतः सर्वतः क्षेमाणां स एव प्रेमा सर्वत्र स्फुरति । तथा हि—

हरिः प्रेमा साक्षाद् इव भवति किं वा व्रज-जनस्

तयोर् एकस्मिंश् च स्फुरति स हि शश्वत् स्फुरति नः ।

इदं वारं वारं विधि-शिव-सुरर्षि-प्रभृतयः

स्फुटं कर्तुं शक्तिं दधति नतरां यत् कियद् अपि ॥६५॥ [शिखरिणी]

[८३] स तु परमाश्चर्य-चर्यः, यतः—

तदीयानां प्रेमा यद् अपि कृति-चर्यातिग-सुखस्

तथाप्य् उच्चैर् हेतुर् भवति हरि-साहायक-विधौ ।

जगत्-कार्ये यद्वच् छ्रुति-मत-पर-ब्रह्म नितराम्

अचिन्त्यो यो भावः स हि न हि वितर्कं विषहते ॥६६॥ [शिखरिणी]

[८४] यस्माद् एवं स एव चित्तम् आकर्षति, तस्मात्—

ज्ञात्वा कर्म स्वयम् उत परात् कृष्ण-तृष्णानुकूलं

तस्मिन्न् अन्तर् बहिर् अपि सदा गोप-राजावरोधे ।

यातायातं मुहुर् अतितरां कुर्वताम् आदृतानाम्

अप्य् उत्कण्ठाचलित-मनसां मानसं भावम् ईहे ॥६७॥ [मन्दाक्रान्ता]

[८५] तत्रत्यानां समूहावलोकनं तु परम-परमाद्भुतम्, तथा हि—

उद्घूर्णन्ते प्रिय-परिजनाः स्निग्ध-भावा यथा-स्वं

गोप-क्षौणी-पतिम् अनुगतास् तस्य चात्म-द्वितीयाम् ।

यौ प्रेमाख्य-प्रबल-रशना-यन्त्रनात् कृष्ण-कान्ति-

ज्योतिश्-चक्रे रवि-शशि-तनू ये च नक्षत्र-सङ्घाः ॥६८॥ [मन्दाक्रान्ता]

[८६] गानं तु प्रतिगणं साधारणम् अपि कञ्चिद् विशेषं वहति, यथा—

जन्माद्य्-अर्भकता हरेः प्रवयसां मध्ये-सभं प्रायशः

पौगण्डादिषु निर्जरारि-विजितेः प्रायः सुहृन्-मण्डले ।

कालियाइदिषु दुर्जनेष्व् अपि कृपा-भक्त-व्रजेऽनल्पशः

प्रायेनात्मनि राग-रीतिर् अभितः कान्ता-गणे गीयते ॥६९॥ [शार्दूला]

तत्र च—

सङ्गाने चेद् भजति मुरजिद्-भक्त-मात्रं विमोहं

शर्माशर्माप्य् अनुमिति-मियान् तर्हि न प्रेक्षकाणाम् ।

शान्तिर् दास्यं सहचर-दशा वत्सलत्वं तथान्यद्

गच्छेद् एषां हृदि कथम् इह क्षीर-वार्-वद् विवेकम् ॥७०॥ [मन्दाक्रान्ता]

[८७] हन्त! पद्य-द्वयम् इदम् आलोले मनसि उद्भूय तद् एवान्दोलयति । यथा—

मातर् मातर् जननि मम तद् देहि देहीति शब्दैर्

वत्सायुष्मन् सुत वदसि किं प्राण-लाल्येति चार्द्रैः ।

नानालाप-प्रणय-वलिता मां बलात् स्नेह-मुद्रा

तस्मिन् गोष्ठे स्मरयतितरां तौ सवित्री-कुमारौ ॥७१॥ [मन्दाक्रान्ता]

गेहेशि त्वं चरित-सुकृता हन्त वत्सस् त्वद्-अग्रे

वक्ति प्साति प्रथयति रुचिं याचते जाहसीति ।

अर्धाद् एवं स्थगित-वचनं स्नेह-पूराद् व्रजेशं

ध्यायेद् वृत्तिं बत न लभते मन्-मनो बम्भ्रमीति ॥७२॥ [मन्दाक्रान्ता]

इति श्री-श्री-गोपाल-चम्पूम् अनु

श्री-गोलोक-रूप-निरूपणं नाम

प्रथमं पूरणम्

॥१॥

(२)

अथ द्वितीयं पूरणम्

श्री-राधा-कृष्णाभ्यां नमः ॥।

[१] अथ कथा-प्रथनाय ग्रथनम् इदम् आरभ्यते । [२] स्वभजन-लसन्-मानस-सन्-मानद-जन्मादि-लीला-भव्याय भुव्य् आविर्भावितस्य तस्य निज-व्रज-लोक-चक्रस्य दन्तवक्रं हतवता श्री-भगवता तत्र विगत-सर्व-शोके गोलोके पुनर् अपि संश्लेषः साधित इति चम्पू-द्वयस्य प्रतिसम्पूर्ति-वक्ष्यमाण-सप्रमाण-कथा-लक्ष्यतया विविक्तम् एव व्यक्तीकरिष्यते ।

सिद्धे तत्र तु संश्लेषे कुत्रापि रात्रिविशेषे शेषे गोलोकाद्वन्द्व-महेन्द्र-द्वारि हारि दुन्दुभि-द्वन्द्वम् उन्ननाद । नाद-विशेष-मिषेणानन्दम् एवेदम् उज्जगारेति मत्वा, लोकोऽप्य् उज्जजागार । न च स एव केवलः, किन्तु कृष्णावलोक-तृष्णया सह, यथा कमल-समूहः परिमल-धारया । अथ निज-निज-वृन्दिनः सूत-मागध-वन्दिनः श्रीमन्-नन्द-राज-पुर-विराजमान-बृंहित-सिंह-द्वारि सर्वोर्ध्वं विन्दमानां चन्द्र-शालिकाम् अधिरुह्य, नूतनानि पूतनादि-दन्तवक्रान्त-दुर्बुद्धि-शक्रारि-चक्र-वध-सम्बद्धानि विरुदादि-च्छन्दांसि स्वच्छन्दतया नटन्त इवापर्यन्तं पठन्तः समन्ताद् एव जन-सन्दोहम् आनन्द-दोहं लम्भयामासुः । सानुराग-रागावलि-विभाग-लङ्गिम-सङ्गीत-सङ्गि-तल्-लीला-कथाकुलम् अप्य् आकलयामासुः ।

[३] तदा मुहुर् अपि हरेर् अवदान-गानतो लब्ध-तोष-पोषा घोषाधिपति-दम्पति-मुखाः परम-सुखाद् अतिशस्त-वस्त्रालङ्कार-भारं तेभ्यः स्वयम् ईहया विहापयामासुः । किन्तु श्रवणेऽपि तृप्तिर् न कॢप्तिम् अवाप, कथं वा तत्रावश्यम् एव वशनीया सातिः सातिम् आसीदतु? तद् अनु च समुद्भूत-प्रेम-रस-राशिर् व्रज-वारि-राशिः स्वयम् एव निज-निज-हृदयङ्गम-व्रज-मङ्गल-श्यामलाङ्ग-सङ्गान-तरङ्ग-सङ्घ-सङ्गितया विश्व-विस्मय-कारितां सङ्गतवान् । तत्र च, गीयमानतया सन्निधीयमानस्य तदीय-यशसश् चन्द्रमसः समताम् अनुमिमीमहे ।

[४] यदा तु श्रील-गोपाल-लीला-गान-ग्रहिला महिला गातुम् आरब्धास् तदा सर्व एव सतृष्णास् तूष्णीम् आसन्, कृष्ण-मुरली-काकलीम् अनु कोकिला इव । यद् एव गानं वैदग्धी-दिग्ध-कङ्कनादि-झङ्कारालङ्कृत-मन्थान-निर्घोषः स्वर-तालादि-दानम् इव कुर्वाणः स्व-पोषं पुपोष ।

[५] तद् एवं सति, सर्वतः-सारेण सप्रमाण-वर्णयितव्यानुसारेणापगतापर-पति-भ्रमाः सर्वा एव व्रज-रमा मारवाण-दलित-मर्माणस् तद्-एक-सेवा-

धर्म्येषु निज-निज-हर्म्येषु समम् एव लब्धागमनं तम् एकम् एव रमणं रमणतां गमयमाना न विरामम् इच्छन्तीति सखीभिर् एव प्राभातिकरागमय-गान-नर्मणा तस्माद् उपरमयामासिरे ।

[६] तच् च न सहसा, किन्तु क्रमशः । तथा हि,

बाहू विश्लथितौ श्लथीकृतम् उरो वक्त्रं दरच्यावितं,

तल्पाद् उत्थितम् एकदा विनिमयेनालम्ब्य यत्नान् मुहुः ।

याभ्यां स्पर्शसुखाग्रहोऽपि दमितस् ताभ्यां हरिप्रेयसी

व्यक्तिभ्यां बत सोढम् अत्र सहसाक्रष्टुं न दृष्टिं मिथः ॥१॥

[शार्दूलविक्रीडिता]

[७] हन्त, तासु च सर्वाधिका या तु राधिका, सा खलु तद्-आरम्भ-सम्भवाद् एव प्रायः सर्वदा मूर्च्छाम् ऋच्छति । यत्र च,

“पूर्वानुराग-गलितां मम लम्भनेऽपि लोकापवाद-दलिताम् अथ मद्-वियुक्तौ । दावानल-ज्वलित-जाति-वनी-सदृक्षाम् एतां कथं कथम् अहं बत सान्त्वयामि?” ॥२॥ [वसन्ततिलका]

इति सदा भावयन्तं, सम्प्रति चातिव्यग्रीभवन्तं व्रज-युवराजं प्रति समाश्वासनया विश्वासनया च तां व्यवहितां कुर्वाणाः, प्राण-तुल्याः परमाल्यस् तदीय-ताम्बूलोद्गारादि-संवलनया चेतनाम् आलम्बयन्ति; समन्ताद् अपि सान्त्विताम् अथ पृच्छन्ति च, “हन्त, केयं तव रीतिः?” इति ।

[८] सा पुनः सास्रम् आश्रावयति,

“न मूर्ख-धीर् अस्मि न वा दुराग्रहा शरीर-भोगेषु न वातिलालसा । किन्तु व्रजाधीश-सुतस्य ते गुणा बलाद् अपस्मार-दशां नयन्ति माम् ॥३॥ [वंशस्थविला]

[९] “किं कुर्महे? यया मर्म-पीडया क्वचन च शर्म न लभामहे वयम्” इति।

[१०] अथ पुनर् व्याकुली-भवन्ती सा शुभ्र-दन्ती रसान्तरेण ताभिः सान्त्विती-क्रियते । तद्-दिने तु तद् इदम् आचचक्षे- “अशेष-मङ्गल-सङ्गताचरणानां श्री-व्रजेश-गृहिणी-चरणानाम् आदेश-प्रवेश आसीत्, ‘हन्त, सर्वा एवार्वाचीन-वयसः समागताः, मत्-प्राणाधिका राधिका कथम् अधुनापि नागता?ऽ इति ।” तद् एवम् अवधारितवती श्री-राधापि सावधानी-भवन्ती, शीघ्रम् एव प्रातर् औचितीं विधाय, सर्वाभिर् एवोपशाय-विशाय-वलिताभिः कल्यम् आकल्य मिलिताभिर् ललिता-विशाखादि-सखिभिः सार्धं श्री-व्रजाधीश्वर्या धाम जगाम । गत्वा च, परम-कान्त-स्व-कान्ति-कन्दलीभिर् अन्तिम-गताभीर-कान्ताः समन्ताद् अप्य् अन्तर्-बहिर् अपि देवयामास । [११] यत्र तासां निर्निमेषता च जाता । सम्भावनावती भावना चेयं,

“अधि-विधु नीलाम्बुज-युगम् अपि तिल-पुष्पं सबन्धूकम् । यस्यां कनक-लतायां सेयं कृष्णाङ्गना चित्रम् ॥”४॥ [उपगीति]

[१२] अथ भक्ति-तृष्णङ्-मनाः कृष्ण-जननीम् अनु माननीयतया निजम् आननम् अवनीम् अवनीय ननाम । सा च तां सह-सभ्यानन्दम् अभ्यनन्दत् । तत्र च,

असौ चरणयोर् नता शिरसि हस्तम् आधत्त साप्य् असौ भुवि तथा स्थिता कचम् अजिघ्रद् उत्थाप्य सा । असौ कुचित-विग्रहा भुज-तले निधायाथ सा स-बाष्पकम् उदैक्षत द्वयम् अहो द्वयोह् किं ब्रुवे? ॥५॥ [पृथ्वी]

[१३] तद् एवम् अपि रोहिणी-प्रभृतीनाम् आदराय भृत-निभृत-सङ्कोचाम् आलोचयन्ती राज्ञी ताम् अनुजज्ञे, “पुत्रि, वन्दस्व वन्दन-योग्याः” इति । सा च रम्य-गुणा पुरु-निपुणा भक्ति-पूरतः सर्वा एव गुरूर् अवनम्य दूर-देश एव निवेशं विनत-वक्त्रम् आससाद ।

[१४] अथ ललितादिस् तद्-आलि-पालिर् अपि तासु गुरु-वनितासु तद्वद् एव कृत-वरिवस्या तस्या एव सदेशम् उपविवेश । [१५] ततश् च श्री-राम-प्रसूः स्पष्टम् आचष्ट, “व्रजेश्वरि, सर्व-सुख-रोहिणी रोहिणी-ताराद्य विद्यते । तद् आदिश्यताम्- इयं सद्-भाव-धूत-सर्व-दिश्य-वधू-नैपुण्या, पाकादि-साद्गुण्याय पूर्वम् एव सोमाभानुलोमतया या रसवतीं प्रतीताः समम् अन्या धन्या मङ्गलाद्या मङ्गलाराम-रामानुज-रामास्, तथा याः परापर-नामानः कल्याणाराम-राम-रामाः समन्ताद् अप्य् अमूर् अमूम् एवानुवर्तन्ताम् । ललिताद्याः पुनर् अस्याः काय-निकाय-रूपा एवेति, न साहायकायास्माभिर् नियोजनीयाः ।”

[१६] अथ तयापि तथादिष्टा शिष्टाङ्गना-गण-गणेय-गुणा शिरो नमयित्वा सखीषु तिरोभूय तत्-कालम् एव चचाल ।

[१७] अथ प्रसङ्गम् अन्यम् अपि सङ्गतं प्रथयामः । [१८] अथ धृत-प्रणय-नय-सारा वयसा महसा सहसा च कृत-सवयसः सभानुकाराः, स्वकुल-परम्परा-गत-परिचारक-शूद्राभीर-कुमाराः स्वावसर-विसर-प्राप्तावसरतया प्रातर् एव मोहनागार-द्वार-सारम् आव्रजन्तः समं विराजन्ते स्म ।

[१९] ततश् च स्नानीयादि-रम्य-करैस् तैः किङ्करैर् अनुगम्यतया स तु वर-किशोर-वया निखिल-त्राता राम-भ्राता प्रातर्-आचारा-चरणाय सदेशम् उपवेश-प्रदेशं पूर्वम् एव विवेश ।

[२०] तत्र च नर्म-मय-शर्मद-प्रणया वैश्याभीर-तनयाः सखायः सुबलादयः समम् एव समगंसत । तैः सङ्गतैः सह तु विलम्ब-कथन्ता-कथावलम्बेन मिथः परिहास-विलास-कौतुकी वरासनम् अध्यासामास । ते सर्वे प्रेम्णा परिचर्यायां परम् आश्चर्य-चर्याः, यतः—

आदेयाधारादि-भावेन भेदात्
प्राणा भिन्नाः प्राणिनः सन्ति भिन्नाः । ये कृष्णाद्याः स्निग्धता-शर्म-भाजः
प्राणा ज्ञेयास् ते मिथः प्राणिनश् च ॥६॥ [शालिनी]

[२१] प्रभाते च प्रभाते, तादृशानाम् मध्ये तादृशस्य तस्य तु,

श्रीमद्-वक्त्र-कराङ्घ्रि-धावन-कला तैलादिभिर् मर्दनं

स्नानं गात्र-मृजांशुक-द्वय-धृतिः साचाम-पुण्ड्र-क्रिया ।

प्रातर् धर्मग-कर्म दिव्य-वसनं रत्नावली-मण्डनं

वंशी-शृङ्ग-शिखण्ड-दण्ड-कलना मच्-चित्तम् आकर्षति ॥७॥ [शार्दूल]

[२२] तेषु च केषुचिद् अङ्ग-सेवकेषु विशेषः शेष-वचसाम् अपि शेषस्य विषयायते । यतः,

सौरभ्यं शिरसः पदाम्बुजयुगं बाहुप्रसारादिकं

लब्ध्वा-श्लेषविशेषतां दधति ये कृष्णस्य तृष्णान्विताः ।

वात्सल्ये परिषेवणे सखिपदे कान्त-स्थिताव् अप्य् अमी

सौख्यं यत् तद् अशेषम् एव दधते प्रेम्णा तदभ्यङ्गिनः ॥८॥ [शार्दूल]

[२३] अथ तस्मात् तैः परिवीतः पीत-वसनः स्वाङ्गन-प्रवेशम् अङ्गीकुर्वन् सदेश-समवयस्काभिः समं, जनन्या जीव-न्यास इव प्रतिमया लभ्यते स्म । तत्र च,

“आगच्छज् जयताद् अहो मधुरता निर्मञ्छनद्रव्यतां

गच्छेयं, मम दृग्द्वयस्य भवताद् अत्रातिपक्ष्मास्थितिः ।”

इत्थं कञ्जविलोचनस्य कलयन्न् आकस्मिकीम् आगतिं

चित्रं चित्रजनः सदा भजति चेद् आसां तु किं तद् ब्रुवे? ॥९॥ [शार्दूल]

[२४] अथ गुरवश् च ता रजनिजनिततद्विरहज्वालाकलितस्नेहपूरवशतया मुहुर् अगुरुताम् आसाद्यानवद्यामोदम् आविष्कुर्वत्यः पूर्वदिङ्मुखमहा-मन्दिरालिन्दाद् अवतेरुः । तत्र पूर्वं माता वत्सम् इव माता वत्सं मिलितवती, यत्र रोहिण्य् अपि रोहिणीवद् ऊहाञ्चक्रे लोकचक्रेण । [२५] श्री-गोविन्दश् च द्वयोर् अपि तयोः पदारविन्दं क्रमाद् वन्दित्वा नन्दित्वा, मान्यानाम् अन्यासाम् अपि यथान्यायं मानम् उन्नमयामास ।

[२६] तदैव च श्रीनीलाम्बरम् अनु समागतिकराः सहचराः श्रीदाम-सुदामादयः श्रीहरिसहविहारिविततयस्, तथा सर्वविद्यापटवः पुरोहित-बटवस्, तथा काश्चिद् अन्यास् तत्प्रसूसमानमाननीय-तन्माननीयादि-वराङ्गनासु गण्यास्, तथा सर्वसुखदोहाः स्वसृस्वस्रीयादिस्निग्ध-सम्बन्धिनीसन्दोहास् तत्प्रदेशं विशन्ति स्म । [२७] वारं वारं प्रत्येकम् उत्थानाद्यभावार्थं तथैव हि सर्वैर् मर्यादा पर्यापितास्ति ।

[२८] अथ खलु सिद्धानां परिषदि योगमायेति प्रसिद्धा भक्ति-सिद्धान्त-सद्-भाव-रते श्रीमद्-भागवते च योग-मायाम् उपाश्रितः इत्य् आदिना भगवल्-लीलाधिकारितया सिद्धा स्वरूप-शक्तिः स्वाभिव्यक्तिम् अन्तरेण रूपान्तरेण तापसीति व्यवसीयते, यस्याः पौर्णमासीति नाम-व्याहार-व्यवहार आसीत् । तस्याम् आगतायाम् अगर्वेण सर्वेऽपि स-सम्भ्रमम् अभ्रमं नमः समम् अकुर्वत । तया चानन्दाद् आशीर्भिः स्फुटम् अभ्यनन्दिषत ।

[२९] अथ यश् च सर्व-विद्या-निष्णातस् तस्याः स्नातकः श्री-कृष्णस्य रहस्य-नर्माणि बद्ध-तृष्णतया तद्-वयस्यतां वश्यताम् आनिन्ये, यश् चाविदूषण-भाव-रूषित एव देवर्षि-प्रकृतितया तस्य कौतुक-कृते विदूषकताम् अपि विभूषयति स्म, स खलु मधुमङ्गल-नामा नर्मणा मर्म-स्पर्शि-कुतुक-रचनैर् आशीर्-वचनैः सर्वान् अमन्दम् आनन्दयामास, निधिम् इव हरि-सन्निधिं चानञ्च ।

[३०] ततश् च परस्परं कर-बद्ध-करौ सितासित-कुमार-वरौ मातृभ्याम्

उभयतः पृष्ठतः प्रदत्त-हस्तौ स्मित-वशंवद-वदन-शस्तौ मन्दं मन्दं तद् एवामन्दम् अलिन्दम् अविन्दताम् । [३१] सुवर्ण-स्वर्ण-किर्मीरित-प्रयत्न-निर्मित-पृथु-रत्न-पीठम् अभि पृथक् पृथङ् निविष्टवन्तौ सुधा-वृष्टिम् इव च सर्वेषूपविष्टेषु दृष्टिं सृष्टवन्तौ ।

[३२] अथ प्रतिमास्या सेयम् आस्या जन्म-तारा-गमन-मयीति श्री-यशोदा-यशो-दातुस् तस्य तदा तद्-आचार्याणाम् अर्भका दर्भकाग्रीय-नीराभिषेकं विवेकातिरेकवन्तः शन्तम-मन्त्र-प्रवचन-सचनया रचयामासुः । ततश् च,

मन्त्रा गीतानि वाद्यान्य् अपि च जय-रवाः कृष्ण-शोभास् तदीय-

प्रेयो-वर्गाति-चित्र-प्रणय-विलसितानीति पर्वण्य् अमुष्मिन् ।

प्रत्येकं तत् तद् एकीभवनम् अपि तदा प्राप रुच्यत्वम् उच्चैः

शृङ्गाराद्यो रसो वा कवि-कृतिर् अथवा षाडवो वापि यद्वत् ॥१०॥ [स्राग्धरा]

तस्मिन् नीराज-निर्मञ्छन-भविक-पदार्थालि-संस्पर्शनानाम्

आज्यादर्शादि-दर्श-द्विज-निज-जनतार्चादिकानां शुभानाम् ।

कृष्णो गोत्रादिर् आसीत् प्रवर-वर-दशां तानि जग्मुः समन्ताद्

येभ्योऽन्ये च प्रथन्ते शुभ-शत-निवहस्यान्वयाः सर्व-लोके ॥११॥ [स्राग्धरा]

ब्राह्मण्यस् त्व् अधिकचम् अच्युतस्य दूर्वा

पूर्वाणि न्यधिषत तत्र मङ्गलानि ।

यद्य् आशीर्वचनम् इहारुरोध बाष्पः

कल्याणं बत भवतान् मनोरथस्य ॥१२॥ [प्रहर्षिणी]

दृगम्भः-स्तम्भ-रुद्धापि कुर्वती तिलकं प्रसूः ।

कुर्यात् किं यदि साहाय्यं नाकरिष्यत रोहिणी? ॥१३॥ [अनुष्टुभ्]

मातुः पितुस् तस्य च तत्र मातृ-

भावान्विता-भ्रातृ-वधू-स्वसॄणाम् ।

उपायनं पुण्ड्रम् इतीयती गीर्

आसीत् तदीयार्थ-चये मितिर् न ॥१४॥ [उपजाति]

[३३] अथ प्राची-गत-द्वितीय-प्रकोष्ठाद् आगम्य रम्य-कुमारः कश्चिद् आचष्ट, यः खल्व् एतद्-अर्थम् एव पूर्वं विसृष्टः । “श्रीमन् व्रज-राज-कुमार, श्रीमद्-व्रज-राज-सभायां सर्व एव पर्वणीह संवलिता वर्तन्ते, किन्तु भवद्-यात्रा-द्वार-मात्रावलोकिनः । यानि च सर्वाराधन-धनानि श्रीमद्-व्रज-राज-चरण-राजीव-परिसराय सज्जितानि भवद्-विसर्जितानि ताम्बूल-दुकूलादीनि, तानि चाधुनापि मूर्धानं धुनाना नोपयुञ्जते स्म ।”

[३४] अथ सोऽपि तद् अवधारयन्न् एव, तद् एवावधारयन् मातरम् अनु कातर इव निष्क्रमण-क्लम-समनुज्ञा-याचनम् अनुसन्धाय, प्रणामादिना पौर्णमासीम् उटज-गृहाय विहाय, श्री-रामम् अग्रे विधाय, श्रीदामादीन् परितो निधाय, पश्चिमाग्रिम-प्रेम-दोलायमान-स्वान्तस् ततो निष्क्रान्तः; सहसा महसा वृतः सभ्यालिभिर् अभ्यालोकयाञ्चक्रे ।

[३५] अथ सोदित-मेघाश् चातका इव, लब्ध-चन्द्राश् चकोरा इव, सङ्गत-जला जल-जन्मान इव, समुन्मीलित-प्राणा देहा इव, सर्वेऽप्य् आनन्द-गर्वेण वन्दि-वृन्दादि-कलित-कोलाहलेन च समम् एव समुत्तस्थुः । [३६] किन्तूत्कलिका-कलित-मनसोऽपि स्व-स्व-मर्यादयापर्यापिता इव लब्ध-स्तम्भारम्भास् तत्र तत्र केवलं स्थितवन्तः । युक्तम् एव च तत् प्रोक्तं, यतस् तस्मिन् खल्व् अस्माकं श्री-नन्द-व्रज-राज-ग्रामे तत्-तत्-प्रेम-विशेष-रीति-नीतिर् एव ग्रामणीर् इव वर्तते । [३७] तथा हि, कदाचित् कस्यचित् कञ्चित् प्रति वचनम्,

“तौ शुभ्र-द्युति-नीरद-द्युति-हराव् इन्द्राश्म-हेम-प्रभा

हृद्-वस्त्रौ सित-कञ्ज-नील-कमल-श्री-चोरि-चार्व्-आननौ ।

चञ्चत्-खञ्जन-गञ्जनाक्षि-युगलौ दन्तीन्द्रजिद्-विक्रमौ

तान् अस्तम्भयतां जनान् यद् अखिलांस् तन् मित्र चित्रं न हि ॥”१५॥ [शार्दूल]

[३८] यदा च दक्षिणे सर्वानर्वाचीन-माहात्म्य-गुरवो गुरवो बभूवुः; ते च सर्वे पूर्व-पूर्वतः पूर्वजा एव तस्थुः । यत्र पुरोहिताः स्वयम् अनर्घम् अर्घ्यं दधानाः सर्वतः पूर्वे भवन्तः स्व-नाम-निरुक्तिम् इव व्यक्तीकुर्वन्ति स्म, “पुरो धीयन्ते” इति । तद् एतद् अपि युक्तं, श्लेषेण च प्रथमतो हितास् त एव हि भण्यन्ते ।

[३९] अथ तादृश-निज-कुल-चन्द्र-प्रेमानन्दामृत-तुन्दिलिततया किल श्रीमद्-उपनन्दाभिनन्द-नन्द-सनन्द-नन्दनादि-नामानः प्रबल-नन्दन-स्नेह-मधुर-धामानस्, तान् अनु च प्रेम्णा सम्यग्-बन्धुता-बन्धिनः सम्बन्धिनः परापर-नामानस् तन्-मिलनम् अनुसन्धाय स्थिताः ।

[४०] अथ वामेऽपि तथैवालघु-प्रेम्णा लघूभवन्तो लघवः समवतस्थिरे । [४१] सर्वे चैते यथा-पूर्वं यथा-यथं सर्व-चित्तारामेण रामेण सह हारिणा हरिणा मिलिताः समुन्मीलित-भावा बभूवुः, चन्द्रमसं विन्दमानाः कुमुद-सन्दोहा इव ।

[४२] ततश् च क्षण-कतिपयाद् अक्षीणानन्द-वृन्दार्पित-सत्वर-विसृत्वर-मोहाद् उन्मग्नेषु तेषु तदीय-श्रीमन्-मुख-निरीक्षण-लग्नेषु श्रीमान् व्रज-राजस् तं व्याजहार, “तात, तवाद्य विद्यते सर्व-सम्पन्-मयी जन्म-तारा । तस्माद् व्रज-धाम स्वयम् आ मध्याह्नम् अध्यासितव्यम् । गो-सम्भालन-पालनाय पुनः प्रातर् एव मया समयास्थिता युक्ता नियुक्ताः सन्ति । स्वयम् अथ प्रथम उपविश्य दृश्यतां स्वजन-व्रजः” इति ।

[४३] अथ सोऽप्य् अवाचीनता-समीचीन-शिरस्कतया राज्ञां ताम् आज्ञां मालाम् इव शिरसि निधाय, श्री-राम-मुख-तामरसम् अवधाय, स्वजन-व्रज-सहिततया सहितम् अधिरुह्य चतुष्क-देश-गतं पुष्कलम् उपवेश-वेश्म वलित-स्मितं तारा-पतिर् इव पूर्व-पर्वतम् अध्यासितवान् । विप्रादि-सम्प्रदानतया यथा-यथं गवादिकम् अपि सातवान् । ततश् च तस्मिन्न् उपविश्य, पुनस् ताम्बुलादि-संविभाग-सुख-संवलनया सम्बन्धिभिर् मिथो नर्म-संवाद-सम्बन्धि-सन्धि-कुतूहलं कलयामास ।

[४४] मुहूर्ताद् अथ कश्चिद् अन्तः-पुर-सारः कुमारः समागम्य साम्येनोपविष्टयोर् ज्यायः-कनिष्ठयोः सम्बन्धि-निवहाराधनाय धृत-तृष्णयोः श्री-राम-कृष्णयोः कर्णाभ्यर्णं लगितवान्, ताभ्याम् अनुमतः पुनस् तद्-रूप-तश् चित्रीभवितुः श्रीमद्-व्रज-धरित्रीशितुः । तेन च “अद्य श्रीवत्स-वत्स-प्रसाद-लब्धस्य वत्सस्य शुभ-सम्पन्-मय-जन्म-र्क्षम्” इति विनय-सन्धेन केवलेनाञ्जलि-बन्धेन व्यञ्जनया भोजनाय याचिताः सन्तोऽति-सन्तोषाद् व्यतिवीक्ष्य युगपद् उत्थितवन्तस् ते प्रस्थितवन्तश् चान्तः-पुरम् ।

[४५] अथाग्रतः-सरेण तेन सुकुमारेण कुमारेण प्राङ्गणतः प्रतिरुद्ध-सङ्गमनासु शुद्धान्त-सङ्गताङ्गनासु प्रविष्टास् ते कंसजिद्-इष्टा गृहादि-शोभेक्षण-स्पृहातः क्षणम् आविष्टाः, क्रमशो भोजनालयाय कलयाम्-बभूवुः ।

[४६] राम-कृष्णौ तु गवालोकन-सतृष्णौ तद्-अङ्गण-सङ्गत-मेर्व्-आकार-महागारम् आरुह्य, मही-महित-माहेयी-स्थानेषु पीयूष-वृष्टीर् इव दृष्टीर् विधाय, विधेयैर् विदूर-देशान् निदेशयामासतुः, “भो भो गोप-गणाः, वर्त्मनः सव्यापसव्ययोर् एव पातव्या गव्याः” इति ।

अथावतीर्णाभ्याम् आभ्याम् अभ्यागतैर् अपि,

अगुरुज-गुरु-धूपः शुभ्रता रत्न-पीठा-

वलि-मद्-अशन-पात्रासङ्गि-भृङ्गार-सङ्घः ।

नियत-सचिव-लोकः सादर-प्रेम चासीद्

इति दिशि दिशि धर्म्यं भोग-हर्म्यं व्यलोकि ॥१६॥ [मालिनी]

“अङ्घ्रि-क्षालन-मार्जने इह भवान् जीयाद्” इति प्रार्थना,

सम्यग् वीजनम् अन्तरा प्रमदसूहास-प्रसू-सूक्तयः ।

रुच्यानां परिवेषणं मुररिपोर् दृष्टि-प्रसादामृतं

यत्रैवं सुहृदां सभोजन-विधिः सूते न किं वा सुखम्? ॥१७॥ [शार्दूल]

[४७] तत्रानुपयुक्त-युक्त-भोक्तॄणां विप्राणां पङ्क्तिर् एकत्र, सग्धि-दिग्धानाम् असन्दिग्ध-स्निग्धानां वैश्य-वंश्यानाम् अन्यत्र । तत्र तत्र च वृद्ध-मध्यम-नव-यौवनानां पृथक् पृथग् इति वियुताव् अपि, मिथो यथास्वं परिहास-विलासेन संयुतिर् इव वीक्ष्यते स्म । न च केवलेन तेन, तद्-अवलोचन-समुन्मीलित-लोचन-रोचन-विलासालाप-लीला-रस-वारिधेर् व्रजेन्द्र-कुल-सुधा-निधेर् असकृद् अनुभव-यौगपद्येन च ।

[४८] यत्र च स एव सर्व-रस-सत्रम् अमत्रम् एकम् आसीत् । तत्र च,

परस्परस्य स्फुट-हास-वार्तां

सञ्चारयन्तः परितो हरौ च ।

षण्णां रसानां परिवेषका ये

ते सप्तमस्यापि बभूवुर् अत्र ॥१८॥ [उपजाति ११]

[४९] यत्र परिहास-बीजं च पृथग्-दिग्-देश-लोक-प्रसिद्धानाम् अत्रैव चान्यथा-सिद्धानां तेमनादीनां नाम नाम्नातुं शक्यते, नामान्तरेण वाम्नायते, सद्-आम्नाय-जन्मभिर् अपि बन्धु-सम्बन्धिभिर् इत्य् आदि लक्षणं लक्ष्यते ।

[५०] किं च, तत्र मधुमङ्गलः कौतुकेन केनचित् प्रहितेन निज-हितेन श्रीमद्-व्रजेशं सन्दिदेश, “राज-वर, तद् एतद् अस्माकं ब्राह्मणा निवेदयन्ति- ‘शौक्ल-नाम-धेयं प्रथमम् एव जन्म तावद् अस्मादृशां भृश-शर्मणे चकॢपे । यद् द्वितीये सावित्राख्ये जन्मनि लब्ध-स्व-कुलैश्य-वैश्य-द्विजतया राजन्यवद् ब्राह्मण-भोज्य-पक्वान्नैर् अपि भवद्भिर् विदूर-विभक्त-पङ्क्ताव् एव निवेशिता वयं न प्रतीमः, तत्र किं किं परिवेषितम् अत्र वा किम् इति । तस्माद् गोष्ठाधिपतिना स्व-दृष्टि-निष्टङ्किती-कृतान्य् अस्मत्-कृते पुनः प्रथमतः सर्वाण्य् एव तेमनानि परिवेष्यन्ताम् । यान्य् एव वार्षभानव्य्-आदि-स्व-हस्त-प्रयस्ततया पक्तानि परम-शस्तान्य् उत्तर-तापन्य्-अनुसारेण पूर्वं दुर्वाससापि क्रोध-दुर्वासनां निर्वासयता प्रसादम् अपि भासयता रसनयाभ्यस्तानीति निखिल-मिष्टताविशिष्टतया किल वर्त्मन्य् एव परिवेशकैश् चोरं चोरम् उर्वरितानि, पराण्य् अपि दृशैव भुक्त-पूर्वाणि सन्ति, तानि च भुक्त्वा वैष्णव-यज्ञाय श्रुति-स्मृति-विहित-हित-प्रतीकार-मयं दैक्षसम् आख्यं तृतीयम् अपि जन्म द्रुतम् उरीकरिष्यतेऽ इति ।”

[५१] तद् एतद् आकलय्य कलितं हास-कोलाहलं, गोकुल-कुलेश्वरी गृहाद् अवकलयन्ती स्वयम् अनल-पक्व-तुलितानि सूर्य-पक्वानि बहून्य् अनुप-भुक्त-चराणि विहापयामास, येन बहुलम् एव सहास-कुतूहलं निखिलः कलयाम्-बभूव ।

[५२] तद् एवम् उदर-पूरण-मात्रेण तृप्ता, न तु तत्-तद्-बहुल-रस-पूर-कुतूहलेन, नतरां तत्-तद्-आनन्द-मूलेन सद्-आनुकूल-पीत-दुकूलेन प्रति-रुचि-नव-नवायमानता हि तत्रायता, तथापि बलाद् इव परिमल-रमणीयम् आचमनीयं दत्तम् । गत्य्-अन्तरेणासमापनीय-स्पृहणीयता हि तत्र बृहती । ततश् च,

दिव्य-ताम्बूल-चार्चिक्य

वस्त्र-माल्य-विभूषणैः ।

अर्चिता बन्धवः सर्वे

दक्षिणाभिश् च भूसुराः ॥१९ [अनुष्टुभ्]

[५३] लक्षितायां च दक्षिणायां, मधुमङ्गलः स तु नर्म-शर्मामृतम् अदुग्ध । “भो व्रज-महनीयाः, नास्याम् अक्षीणायाम् अपि दक्षिणायाम् ईर्षया वयं वीक्षणीयाः । भवतां भुञ्जानानाम् एकैक-व्यञ्जन-मूल्य-तुल्यतयास्माकं समस्तापि सा न प्रस्तावयति ।”

[५४] तद् एवं बहल-हास-कोलाहल-कुतूहले निवृत्ते पितरम् उपेत्य सर्व-सुख-पालः श्रील-गोपालः शनैः सनिं प्रणयन् स-विनयम् आललाप, “अर्वाग् एव सर्वान् आदाय सभालय-वलयं स्वयं तत्र-भवन्तः समयन्तु । वयं तु श्री-राम-दाम-सुदामादयः समागत-प्रायाः ।” तद् एवं मातृ-गृहम् उपेत्य ताम् अप्य् उवाच, “मातर्, मातॄणां सम्भालनार्थम् अनुयातॄण् अस्मान् अनुमन्यस्व ।”

[५५] माता च क्षरत्-क्षीर-कुल-कुच-मुकुलम् आललाप, “आयुष्मन्, युष्मद्-एक-प्राणा वयं, तस्मान् न विलम्बनीयम्” इति ।

[५६] ततश् च तस्याः सवयसः प्रवयसश् च सर्वाः सङ्घशः सास्रम् ऊचुः, “वत्स, नाम्नैव ता मातरः, एषा तु तव मातैव, तस्माद् अस्यां कथं न विलक्षणं पक्षपातम् आपातयसि?” स च नत-वदनः सास्र-स्मित-वाचम् उवाच, “मातरः, किं कुर्मः? तास् तु पशु-जातयो न विवेकम् एकम् अपि लभन्ते, यतो मां विना तृणम् अपि न तृण्वन्ति ।”

[५७] मातोवाच, “सम्यग् आह वत्सः, यतो धर्म एवास्माकं मर्मभेदी बभूव, येषां धनानि तनयाश् च सदा वनानि निलयान् कुर्वन्ति ।”

[५८] कृष्णः सहासम्- आह स्म, “मातर्, अत्र वने न कोऽपि त्रासः । स तु समूलकासं कषितानां केशिप्रभृतीनां सङ्गत एव गतः ।”

[५९] मातोवाच, “तर्हि किम् आकर्ण्यते, यद् अद्यापि किञ्चित् तेषाम् औद्धत्यं विद्यते, प्रेतानाम् अपि तत्तदाकारतया सद्यः प्रेततां प्राप्तानाम् इव ।”

[६०] कृष्णः सहासम्- आह स्म, “मातर्, न ते प्रेतजातिताम् अवाप्ताः । किन्तु, भवच्चरणरेणुगणगुणितभूमिम् अनु मरणप्रतापवर्गाद् अपवर्गम् एव गताः । वयं तु मायामयतत्प्रतिकृतिप्रपञ्चसञ्चयम् अञ्चन्तः सुखसन्तानाय मध्ये मध्ये लीलाम् अध्यस्यामः; यथा निलायनैः सेतुबन्धैर् मर्कटोत्प्लवनादिभिः कौशल्येयलीलाम् ।”

[६१] ततश् च सर्वासु गत-सन्देहासु स्नेहातिशयात् कृष्ण-माता सव्येन पाणिना पृष्ठम्, अपसव्येन चिबुकं स्पृष्ट्वा कृष्णज्येष्ठं प्रति सबाष्पम् आचष्ट, “वत्स नीलाम्बर, तवेयम् अम्बा मम समक्षं बाल्याद् एव त्वयि नातीव वात्सल्यम् उल्लासयति, किन्तु स्वयम् उदासीनवद् आसीना भवति । तत् खलु मम तारल्यं कथम् इव वैरल्याय कल्यताम्? तस्माद् अहम् एव त्वाम् उपदिशामि- पीताम्बरेण समम् अविलम्बम् एवालम्बनीयं व्रजवर्त्म” इति ।

[६२] अथ रामानुजं हितवती रोहिण्य् अभिहितवती, “तात, यशोदामात, बाल्याद् एव लाल्य-भावान् मातुर् उपदेशं जातु न च मन्यसे । मम तु तं न मतान्तरम् आतनोषि । ततः सकृद् अपि मम निदेशम् असकृद् इव मन्यस्व । मातुर् मनस्-ताप-विस्तारान् निस्ताराय निज-वदनांशु-सुधां विस्तारय त्वरितम्” इति ।

[६३] अथ तासां चरण-पाताचरणाय कृत-रोचने निर्मल-कमल-लोचने सर्वाभिर् अनर्वाचीनाभिः सह गृहं हित्वा तत्-पाणिं गृहीत्वा प्राङ्गन-सङ्गितां गतायां गोप-पति-पति-व्रतायां, सर्वतः श्रेयस्यस् तत्-प्रेयस्यः सगवाक्ष-भित्ति-भित्तीकृत-निज-विलोकना विलोकयामासुः । तथा हि,

औत्सुक्यं प्रिय-माधुरी-मधु-मदं प्रेमातिपात-भ्रमं

विश्लेषागम-भीतिम् अप्य् अनुगता लज्जातिपर्याकुलाः ।

गोचाराय वनाय गच्छति हरौ तस्याङ्गनानां गणाश्

चित्राणीव निरीक्ष्य तस्थुर् अभितो द्वित्र-क्षणं भित्तिषु ॥२०॥ [शार्दूल]

तत्र सति,

अच्युतस्य नयन-द्वयम् आसां

तृष्णग् अप्य् अतिह्रिया निमिमील ।

अस्य मानसम् अमूर् अतिगूढं

पश्यतीति मिलितुं तद् इवेच्छु ॥२१॥ [रथोद्धता]

यदा च तासां स्फुरणं जगाम तन्-

मनस् तद् आशङ्कत तासु राधया ।

“अहो गुरूणां पुरतो विकारितां

लभेय चेत् किं कर-वैतराम्” इति ॥२२॥ [वंशस्थविला]

तत्र मातृ-गणतः क्रम-पूर्वं

प्राप्य यन् बक-शमनः समनुज्ञाम् ।

अम्बकान्य् अहरत प्रतिबिम्ब-

व्याजतः स्वतनुगान्य् अखिलानाम् ॥२३॥ [रथोद्धता]

[६४] अथामर-दुर्लभ-च्छत्र-चामर-पट-पुट-ताम्बूल-सम्पुटादि-घटित-कराः सवयसः कर्म-कराः श्री-राम-दामादिभिः सह गच्छन्तं तम् अन्वगच्छन् ।

अथ ततभायां परम-सभायां

पितृ-मुख-लोकान् स्फुरद्-अवलोकान् ।

सुखयितु-कामः सह-सखि-रामः

समधुर-वेशः सपदि विवेश ॥२४॥ [कुसुमविचित्रा]

तत्-तद्-वृन्दैः कृत-परिवेषः

क्षोणी-पृष्ठ-स्थित-विधुर् एषः ।

क्रमतो दृष्टि-भ्रमणाभ्रेष-

स्थिति-कृतम् अखिलान् अपि विशिशेष ॥२५॥ [मात्रासमक]

रहित-निमेष-प्रथितोन्मेष-

स्वक-दृक्-प्रेष-प्रचितान्वेषः ।

अभवद् अशेष-च्छवि-सविशेष-

स्व-तनु-श्लेषः श्री-हरिर् एषः ॥२६॥ [मात्रासमक]

[६५] तद् एवं लब्ध-परमानन्द-मज्जनेषु सर्व-सज्जनेषु कुल-परम्परा-वरावार्यः कश्चन सूताचार्यः कतिचिद् आत्मीयान् परिवार्य पेशल-वेशौ काक-पक्ष-केशौ कौचिद् बालकौ पुरतः सन्धार्य तत्र प्राट, पाठयामास च ताव् आशीर्वाद-विरुदम् । तौ च चातकानाम् अन्तस्-तडित्वन्तम् इव सागराणां वारि-निधिम् इव, धन-चिन्ताचितानां चिन्तामणिम् इव, ज्योतिर्-मण्डलानां व्योम-मण्डलम् इव, तेषाम् आश्रयं तम् एकं श्री-व्रज-राज-कुमारम् आलोकयाम् आसतुः । ततश् च तौ स-परिवारम् एव तं पारावार-रहित-शोभावार-वारां-निधिं निध्याय क्षण-कतिपयम् अनुध्याय च स्वजन-स्तम्भित-पतनारम्भौ मूर्च्छा-प्रायम् ऋच्छतः स्म । तद्-उपरिष्टाद् एव कथञ्चिद् विशिष्टताम् आविष्टौ सगद्गदं जगदतुः, “जयाशेष-चिन्ता-रत्न-नील-रत्नाकर व्रज-धरणी-धर! जय धरणी-भारावतार-वितीर्ण-धरणी-धर-शेष-पर्यन्ताशेष-सुख-समाज व्रज-युवराज! जय निज-वंशाग्र-व्रज-कीर्ति-ध्वज-समान-शुभ्र-धाम श्री-बलराम! जय जय!” इति ।

[६६] पुनश् च कमल-लोचनं विलोचन्ताव् ऊचतुः,

“रोहिण्य्-उद्यद्-विधुः पक्ष इव कृष्णः स्व-जन्मनः । सोऽयं यशोदानन्दः सन् यशोदानन्द-नन्दनः ॥”२७ [अनुष्टुभ्]

[६७] पुनश् च साश्चर्यम्,

“यशः प्रशंसन्ति बुधा मुधागिरः

सर्वत्र शश्वद् विशदं भवेद् इति ।

अहो, यशोदा यद् असूत सा यशस्

तत् कृष्ण-रूपं पुरतो विलोक्यताम्” ॥२८॥ [उपजाति १२]

[६८] ततः श्रीमान् व्रज-राजः सुप्रलापं ललाप, “सर्व-सूत-चूडा-रत्न, रत्नचूड, काव् एतौ सुकुमारौ कुमारौ?”

[६९] रत्नचूड उवाच, “सर्व-सम्पद्-विराजमान, श्रीमद्-व्रज-राज, मम भागिनेयौ ।”

[७०] व्रजराज उवाच, “कतमाया भगिन्या भाग-धेय-रूपाव् एतौ?”

[७१] रत्नचूड उवाच, “असपत्न-रत्न-गर्भा-पते! रत्नवत्याः । सा चैषा भवद्-अपूर्व-पूर्व-पुरुष-पुण्य-दर्शनाय कृत-परामर्शा समागतास्ति । नमस्करोति चेयम् ।”

[७२] व्रजराज उवाच, “भगिनि, भागधेयेन वर्धस्व ।”

[७३] रत्नचूड उवाच, “देव, मम भगिनी-पतिर् अप्य् अयं सुमति-नामा ।”

[७४] व्रजराजः सस्मितम् उवाच, “बाल्ये दृष्टोऽयं नातीव निष्टङ्कितुं शक्यते ।”

[७५] तं च सत्कृत्योवाच, “मान्य, स्वयम् अग्रतः समग्रम् एहि” इति पृष्टवांश् च, “सम्प्रति भवतां कुत्र भवनम्?”

[७६] स उवाच, “राजवीर, नीरधितीर एव ।”

[७७] उपनन्द उवाच, “तर्हि दूराद् अभ्यागतोऽयम् अभ्यागतः ।”

[७८] अथ वदन-सुधा-करांशु-सुधा-स्नपित-दृगन्तः स्मित-मधुराधरावृत-कुन्द-कोरक-दन्तः श्री-कृष्णः स-तृष्णम् इव पृष्टवान्, “किं-नामानाव् एतौ?”

[७९] रत्नचूड उवाच, “प्राणि-कोटि-निर्मञ्छनीय-नख-कोटे, मधुकण्ठ-स्निग्धकण्ठ-नामानौ ।”

[८०] कृष्ण उवाच, “समान-नामानौ दृश्येते ।”

[८१] रत्नचूड उवाच, “सहजाव् एतौ सहजाव् एव ।”

[८२] उपनन्द उवाच, “रत्नचूड, किं खलु भवद्-विद्याम् अनवद्याद् अधीतवन्ताव् एतौ?”

[८३] रत्नचूड उवाच, “अथ किम्, आकस्मिकतया विस्मायकौ गुण-विशेषाव् अप्य् अनयोः स्तः ।”

[८४] उपनन्द उवाच, “कौ तौ?”

[८५] रत्नचूड उवाच, “सर्वज्ञता तद्-अविता कविता च ।” इति । [८६] ततश् च सर्वे साश्चर्यं पश्यन्ति स्म ।

[८७] व्रजराज उवाच, “मान्य सुमते, कुत एतत्-प्रभाव-भावितव् एतौ?”

[८८] सुमतिर् उवाच, “विश्व-पावन, स्वच्छ-कीर्ते, पृच्छ्येताम् एताव् एव ।”

[८९] व्रजराज उवाच, “आयुष्मन्तौ, युष्मद्-वृत्तेनास्माकं चित्तं विस्मयम् एवाविवेश, तस्माद् अपनीयताम् अयम् ।”

तौ च साञ्जलि-वचसा व्यानञ्जतुः, “श्री-गोलोक-लोक-देव, श्री-गुरु-प्रसाद एव सर्वत्र दुर्वारं कारणम् इति तत्रभवन्त एवानुभवन्ति ।”

[९०] व्रजराज उवाच, “के खल्व् ईदृश-महा-महिमानस् ते?”

[९१] अथ तौ पुनर् घटित-कर-पुटाव् ऊचतुः, “सुगृहीत-नाम-धेया मद्-विध-भाग-धेय-रूपाः सर्व-सुख-वर्षि-श्री-देवर्षि-चरणाः ।”

[९२] अथ सर्वेऽप्य् ऊचुः, “तर्हि नाश्चर्यम् इदम् ।”

[९३] पुनः ताव् ऊचतुः, “सम्प्रति च यद्-उपदेशाद् वृन्दावन-देशम् आगता वयम् । नूनं यत्-प्रसादाद् एव देव-वर्ग-दुर्गम-समधिगमस्य भवाभिभव-भावन-भावनस्य तद् एतद् भवदीय-वैभव-प्रदेशस्य प्रवेशे सदेश-रूपतां याताः स्म ।” [९४] पुनश् च सर्वे साश्चर्यम् इदं पश्यन्ति स्म ।

[९५] ततश् च श्री-कृष्णश् चिन्तितवान्, “आं आं, चिरान् ममाप्य् अनयोर् आगमनं स्फुरण-मयम् आसीत्” इति ।

[९६] अथ श्री-कृष्णानुमतानुगततया श्री-रामस् तु समीपम् आगम्य व्रज-राजम् उवाच, “बृहत्-तात, तयोर् अनयोः कौतुकं द्रष्टुम् उत्कण्ठिताः स्मः ।”

[९७] तद् अनुमोद्य पुनर् व्रजराज उवाच, “रत्नचूड, अद्य दिनम् आरूढम् । प्राघुणाश् च त एते घुणाक्षर-न्यायेनोपलब्धाः, तद् एषाम् आतिथेय-वस्तुभिर् अवितथम् आतिथ्यम् एवाद्य विधीयताम् ।” पार्श्व-वर्तिनश् चादिष्टवान्, “दीयताम् एभ्यो वर्षं यावद् भोग्या वरीयसी समग्रा सामग्री, सा च यथैवास्माकं तथैव । प्रातर् आरभ्य तु सभ्याः समाहूयन्तां कौतुकावलोकाय ।”

[९८] अथ पुरस्कृतोपनन्देषु व्रजजन-वृन्देषु तत्र ज्ञापित-निजानन्देषु तथा तेषु सूतेषु च कृत-सर्व-क्लेश-वर्जनेषु भोज्य-भोग्य-योग्य-वस्तुभिः प्रस्तुत-विसर्जनेषु मध्याह्नः सोऽयम् अह्नाय व्यतीत इति राज्ञे विज्ञाप्य विज्ञात-सकल-तत्त्वः श्रीमान् महा-सत्त्वः श्रीपतिर् अपि श्री-रामादि-सहित-गतिस् तत्-तन्-नमनादि-क्रमान् निष्क्रम्य प्रस्थितवान् । तत्र च,

बुद्धिर् एव सुहृदाम् अनुमेने

तं गवानुगतये न मनस् तु ।

सा हि मन्त्र-सचिवं सुविचारं

पाति तत् तु रहितार्गल-कामम् ॥२९॥ [स्वागता]

अथो वनं प्रति चलितः सहाग्रजः

समित्रकः पृथु मुरलीम् अनादयत् ।

यतः श्रुताद् बत पुरतस् तु तस्थुषां

सुपूर्णताभवद् अतिशून्यतान्यतः ॥३०॥ [रुचिरा]

तदा गुरु-व्यवहितिम् आगता मुदा

परस्परं पशुप-सुताः करैर् युताः ।

सभागतं जहसुर् अधीत्य कस्यचिद्

वचस् तदा स्खलितम् अनूद्य चापरे ॥३१॥ [रुचिरा]

[९९] हासे चोपरताभासे राम उवाच, “भङ्गुर, मधुमङ्गल, मातृभिर् अस्मासु विनीयमानेषु भवान् किम् अविस्पष्टम् आचष्ट, ‘व्रजेश्वरि, कथयिष्याम्य् अहं रहःऽ इति । किन्तु ताभिर् आवेशवशान् नावकलितम् ।”

[१००] मधुमङ्गल उच्चैर् विहस्य निमील्य च मौनम् आललम्बे । क्षणाद् उवाच च, “हन्त, शन्तमम् अपि तद् विस्मृतम् इव ।”

[१०१] राम उवाच, “प्रियसख, शपथं प्रथयानि, तथ्यं कथ्यतां- किं तत्?”

[१०२] मधुमङ्गल उवाच, “यज्ञोपवीताय शपे, नान्यथा प्रथयानि । यतः,

“दान्तेन दमितः सोऽहं शमितः शान्त-चेतसा ।

ज्ञप्तेन ज्ञपितः पूर्णेनाचार्येणास्मि पूरितः ॥३२॥ [अनुष्टुभ्]

तेन छन्नेन चाभूवं छादितानृत-वाक् पुनः ।

कथं वा स्पाशितान् कुर्यां गुणांस् तान् स्पष्टम् इष्टदान्” ॥३३॥ [अनुष्टुभ्]

[१०३] “किन्तु युवयोर् वधूनां चाज्ञाम् आज्ञाय परं विज्ञापनीयं तासु, तन् न चेन् न ।”

[१०४] कृष्ण उवाच, “उन्मत्त, प्रथमम् आवयोर् आवेदय ।”

[१०५] मधुमङ्गल उवाच, “यदि न खिद्याथे ।”

[१०६] उभाव् ऊचतुः, “नहि नहि ।”

[१०७] मधुमङ्गल उवाच, “एवम् उच्चैःकारम् अपि विवक्षामि, तयोर् अनयोर् यथास्वं प्रेयसीभिः सह सा सा श्रेयसी विद्या नाद्यापि विच्छिद्यमाना विद्यते, यन् मुहुर् आरभ्यत एव वनाभ्यन्तरे केलि-कलह-प्रलाप-कलापः” इति ।

[१०८] ततश् च कृष्णः सव्येन पाणिना तद्-अपसव्यं बाहुं गृहीत्वा दक्षिणाङ्गुष्ठ-मध्यमाभ्यां तद्-अधर-पुटं मृदु निष्पीड्य स्मयमान उवाच, “सुष्ठु घुष्ट-पट्ट-डोरकेण तद् इदं सीव्यते चेन्, मुनिताम् आपद्यते विप्रकीर्ण-बुद्धिर् अयं यन् मित्र-विप्रः ।” मधुमङ्गलस् तु तद्वन् मुद्रित-मुख एवाम्बू-कृत-निरस्त-ग्रस्त-वचनतया व्यक्तवान्, “तथा चेद् अन्तर्-लोभनम् अन्यत्र तु दुर्लभं निज-गृहान् मत्स्यण्डी-खण्ड-चयम् आदायाखण्ड-कालम् एव मन्-मुखं पूरयथः । ततः कथं वा किम्-अर्थं वा वाणी-व्ययं करवाणि? तद् एतद् अपि सेवनम् एव भण्यते ।”

[१०९] रामः सस्मितम् उवाच, “उत्कोचश् चामिषम् एव भण्यते, तद् अपि ब्राह्मणाः कामयेरन्?”

[११०] तद् एवं सखि-सभासत्सु हसत्सु स्वयं स तु नर्म-पटुर् बटुः स-तृष्णं कृष्णं क्षणम् आलिङ्ग्य प्रेङ्खोलयन् प्रकटं जहासीति स्म ।

[१११] अथ सर्व-गुण-शाली वनमाली बहल-कुतूहल-कलित-चित्ततया चलितः, सखिभिर् वलितः, फलित-शाखि-शाखा-शिखा-ललितेनाध्वना धेनूर् लब्ध्वा वेणु-ध्वनिम् उद्भावयामास ।

[११२] ततश् च धेनूपलक्षणतया सर्वाणि यदाकृक्षन्त, तदा साश्चर्यं नभस्थः कश्चिद् आह स्म,

“सर्वः प्रवाहः सर्वत्र

स्वानुकूल्येन कर्षकः ।

वेणु-ध्वनि-प्रवाहस् तु

प्रातिकूल्येन कर्षति ।” ॥३४॥ [अनुष्टुभ्] इति ।

अनन्तरं च—

गावः स्वान् ऋषभान् भुजङ्गम-भुजः षड्जान् पिकाः पञ्चमान्

अन्ये च प्रतिपद्य तान् निज-निजान् सुष्ठु स्वरान् वेणुतः ।

आश्चर्येण विकर्षणं मुहुर् अहो मोहं तथा भेजिरे

सर्वे चेद् असकृत् क्व सान्त्वन-विधिं कुर्वन्तु के वा तदा? ॥३५॥ [शार्दूल]

स्वयम् अपि मोहं भेजे यदि निज-वेणु-ध्वनौ कृष्णः ।

स्याद् उर्वरितः को वा, जीवः स हि सर्व-जीवस्य ॥३६॥ [उपगीति] इति ।

[११३] किन्तु हन्त, वेणु-रव-श्रवण-सुख-विस्तार एव तत्र निस्ताराय बभूव । यतः,

मोहेऽपि स्वप्न-कलितं निशम्य मुरली-कलम् ।

परस्परं जाग्रतस् ते पश्यन्ति स्म स-विस्मयम् ॥३७॥ [अनुष्टुभ्]

[११४] ततश् च स्वस्थी-भूतेषु तेषु समुत्थितेषु गाः प्रति प्रस्थितेषु च मधुर् मधुर-स्मितम् उवाच, “ब्राह्मणान् प्रति दुरनुध्यानस्य फलं सद्य एव जातं निध्यातम् । यद् अहो मम मूकत्वम् अनुध्यातं सर्व-मध्यम् अध्यासीनेनैकेन, सर्वस्यैव तु मूकत्वं जातम् ।”

[११५] एवम् एव तेन सह हसन्तस् ते माथुर-देश-देश-रूप-गो-निदेश-

वचनतया,

सम्बोधने हिहीत्य् ऊचुः क्षेपे जिहिजिहीति तु ।

धीरीह इति विष्कम्भे गां नेतुं यमुनाम् अमी ॥३८॥ [अनुष्टुभ्]

चोकारं पाथसः पाने झिरि-कारं वियोजने ।

तस्मात् पयस उत्थाने चक्रुस् तिरितिरीति ते ॥३९॥ [अनुष्टुभ्]

स्तम्भयित्वाम्भसस् तीरे गो-सङ्ख्या गो-गणान् अथ ।

सम्भाल्य सम्भृतानन्दाः कृत-स्नानादिका जगुः ॥४०॥ [अनुष्टुभ्]

प्रहापितं प्रतिशिशु मातृभिस् तदा

सुभोजनं सुरभित-योजनं मुदा ।

हरिः सखीन् परि परिवेषयन् हसन्

परीक्षितं सकृद् अकृत स्वजिह्वया ॥४१॥ [रुचिरा]

[११६] ततश् चाचरिताचामः श्रीदाम-दाम-सुदाम-वसुदामादिभिः सह कर्पूर-पूरित-खपुरानुकूल-स्वर्ण-वर्ण-पर्ण-शुभ्रतावकीर्ण-चूर्ण-मय- ताम्बूल-पूर्ण-कपोल-लोल-कुण्डल-मण्डनानन-लक्ष्मीकश् चक्षुर्-विजित-नालीकः स्वजनावलोक-नाभीकः श्रील-गोपालः स्वालयाय चचाल । यथा,

शनैः शनैः सरभसम् अन्य-वन्यया

स तर्णयन् सुरभि-तृणानि सौरभम् ।

व्रज-स्थितान् प्रति विरहाकुलीभवन्

बकान्तकः प्रतिचलति स्म तैः सह ॥४२॥ [रुचिरा]

विधाय गा गोकुल-सम्मुखीना,

महा-तरु-च्छायम् उपास्य कृष्णः ।

देवोपदेव-स्तुति-गीत-वाद्यं

शृण्वन् मुहुः प्राप तटं व्रजस्य ॥४३॥ [उपजाति]

गीर्-वाणैर् दिव्य-यानैः पथि पथि मुनिभिर् मन्त्र-योगादि-सिद्धैर्

गव्याभिर् घ्राण-दृग्भिस् तद्-अनुगत-नरैर् दृष्टि-देशे सरद्भिः ।

गोष्ठ-स्थैर् उन्नत-स्थैः प्रणिहित-वदन-श्रीमयूखः समन्तान्

नेत्राब्ज-प्रान्त-लक्ष्मी-कलित-सुख-कुलः पूर्ण-वेणुर् विवेश ॥४४॥ [स्राग्धरा]

हम्बा-रावः पशूनां प्रमद-कल-कलः पाशुपाल्य-व्रजानां

स्तोत्रासारः सुराणां निगम-समुदयावृत्ति-घोषस् त्व् ऋषीणाम् ।

इत्थं सांराविणान्त-वधिर-सम-दशाम् आगते सर्व-लोके

वेणोः सूक्ष्मोऽपि नादः स जयति नितरां यः समस्तं भिनत्ति ॥४५॥ [स्राग्धरा]

[११७] अथ वन-कुल-गोकुलाभ्यां मिथः सुखम् अभिमुखम् आगतयोर् महतां समूहयोर् महोदधि-तुल्ययोः सङ्गमः संवृत्तः; यथा नित्यम् एव तथानुभविनाम् अपि दिवौकसां चमत्कृतिर् अजायत; यत्र श्री-गोविन्द एव स्वयम् इन्दवति स्म, स्वयम् एव च वेणु-शिक्षया धेणूः पृथक् पृथग् अवातस्तम्भत् ।

[११८] तत्र गोष्ठाद् बहिर् लम्भित-मुहुर्-उपष्टम्भानां दोहनादि-कर्मणा गवां तर्णकादीनाम् अपि शर्म निर्माय, दुग्धाय जनान् पुरो विधाय, सवयोभिः सवयोभिर् आवृतौ सर्वेषां मध्य-वृत्तौ सुवृत्तौ गोपुरम् आव्रजन्तौ गृहाय व्रजन्तौ, स्वकुल-यशोदादि-पुरन्ध्री-राजि-नीराजितौ राजितौ लाजादिभिर् अभिवृष्टौ समम् एव समस्त-नयन-दृष्टौ, गोष्ठाभ्यन्तरं प्रविष्टौ समम् एव निज-निज-प्रेयसी-समाकृष्टि-पटु-दृष्टि-विशिष्टौ निहत-दनुजौ राम-रामानुजौ चरण-मार्जन-वीजनादिभिर् विशश्रमतुः ।

[११९] तत्र क्षण-कतिपयं जननी-जनित-लालन-निर्माण-शर्मानुभूय, स्नान-धामनि सम्भूय निज-सेवा-कृज्-जन-कारित-मज्जनादिभिः, सुवेशतया विभूय, पुनर् जननी-सनीडम् एवाजग्मतुः ।

[१२०] ततश् च सन्ध्यां गमयित्वा जनकादिभिः सह भोजन-लीलां जनयित्वा बहिः-सभा-भागम् आगम्य नाना-बन्धु-जनतया समागम्य तद्-विशिष्टौ सूपविष्टौ बभूवतुः, [१२१] यत्र नाना-गुणि-शतेषु समागतेषु ताभ्यां सुकुमारता-प्रभूताभ्यां कुमार-सूताभ्यां सह सुमति-रत्नचूडाव् आवव्रजतुः ।

[१२२] ततः श्रीमता गोलोक-साम्राज्यवता भोजनादिकं पृष्टयोस् तयोः परम-हृष्टयोः, श्रीयुत-रामानुजस् तु निजानुज-वद् एव तौ सूत-तनूजाव् आहूय भूयसा स्नेहेन सदेशम् उपवेशयामास । निज-व्रज-वासि-सूतादीनां प्रभूतानां भव्यानि काव्यानि तैर् एव श्रावयामास च । ततश् च तौ परम-हृष्टौ सन्तौ स्व-गुण-कलापं सफलयितुं बलवद् उत्कण्ठितवन्तौ ।

[१२३] अथ प्रहर-मात्रायां रात्राव् आचरित-यात्रायां नन्दित-सर्व-समाजेन श्री-व्रज-राजेन समज्या-प्रधानेषु प्रातर् नव्य-काव्य-श्रवण-निमन्त्रणम्

अपवर्ज्य विसृज्यमानेषु, तं निज-जनकम् अनुज्ञाप्य कनक-वसनस् तौ सुकुमारौ सूत-कुमारौ करे गृहीत्वा स्पृहान्तरं हित्वा मातृ-गृहान्तः सङ्गतवान् । मातरं प्रति तयोः प्रसङ्गं सङ्गमितवांश् च ।

[१२४] ततस् तु तां सर्व-स्तुतां तौ कुमार-सन्तौ सुख-सारं सम्भवन्तौ विविधम् एवं विचारितवन्तौ, “किम् इयम् अस्य गोकुल-कुल-चन्द्रस्य क्षीर-नीरधि-गम्भीर-वेला? किं वा पूर्ण-तद्-उदयाकर-राका-साकारतया लब्ध-मद्-विध-दृष्टि-मेला? किं वा प्राची दिग् एवम् आनन्दनया रचित-तनया? वस्तुतस् तु तनय-विषय-दया किल स्फुरद् एवम् उदयतया शीतली-कृत-लोक-समुदया” इति ।

[१२५] अथ सा च परम-रमणीय-चरिता मधुरेण व्यवहारादिनाभ्य्-अवहारादिना वस्त्रालङ्कारादिना च प्रचुरतरम् एव स्नेहं तयोर् आचरितवती ।

[१२६] ततश् च तयोर् मङ्गलाय मातरम् आशिषश् चित्वा, वाससम् आसादनाय चानुज्ञा-वितरं याचित्वा स्वयम् अपि स्नेहावेश-मय-तन्-निदेश-वशतया विश्रमाय संवेश-वेश्म प्रविशन् सर्व-सुख-सारः श्री-गोपाधिपति-कुमारस् तौ सूत-सुतौ स्वेन युतौ विधाय श्री-राधिका-सदेशम् आसादितौ चकार ।

[१२७] आसन्नौ च तौ विद्युद्-आवलिषु तद्-अधिदेवताम् इव, कमलिनीषु कमलालयाम् इव, सर्व-सम्पत्तिषु सद्-अनुकम्पाम् इव, गुण-श्रेणिषु स-विनय-नीतिम् इव, हरि-रति-जातिषु महा-भाव-सम्पदम् इव, निखिल-सखीषु श्री-राधाम् ईक्षामासतुः ।

[१२८] अथ तां पश्यन्ताव् एव प्रेम-वश्यं ताव् आत्मानम् अजानन्ताव् आत्मना कृष्ण एव सान्त्वयामास, सान्त्वितौ च तौ तं च तां च निचाय्य चिन्तयामासतुः,

“इन्द्रनील-रुचि-जीवनं महः

स्वर्ण-वर्ण-निकराकर-प्रभा ।

यच् च या च चयनं तयोर् इदं

द्वन्द्वम् आदि-रस-सार-कारणम् ॥”४६॥ [रथोद्धता] इति ।

[१२९] अथ कंस-रिपुणा परिचायितयोश् च तयोर् एषा स-कौतुकं बालदेव-रयोर् इव कुमार-वरयोः सशर्म सनर्म च पुरस्कारं चकार ।

[१३०] ततः सङ्गिनः प्रदाप्य मातुल-गृहम् एव तौ प्रस्थाप्य श्री-गोविन्दः स्व-मोहन-मन्दिरं प्रविवेश संविवेश च । तत्र,

आयाते रमणे ससम्भ्रमम् उपागम्यासनादि-क्रियाम्

आचर्य व्यजनादिभिः स्वयम् असौ सेवावधानं दधे ।

शय्यायां त्वरितं गते पुनर् इयं लीना सखीयाचिताप्य्

आसीत् क्वापि कदापि तत्परिचिता नास्मीतिवद् व्यञ्जती ॥४७॥ [शार्दूलविक्रीडित]

[१३१] तत्र सखीनां वचनम्,

“अदृष्टे दर्शनोत्कण्ठां दृष्टे तु त्वम् अपह्नुतिम् ।

सर्वदा कुर्वती कृष्णे कीदृशीति न लक्ष्यसे ॥”४८॥ [अनुष्टुभ्]

ततः सखीभ्यां सुगृहीत-बाहुर्

नीतापि मध्ये-गृहम् आयताक्षी ।

स्तम्भेन बाह्येन तथान्तरेण,

कृतावलम्बा चकृषे प्रियेण ॥४९॥ [उपजाति ११]

बलेन कृष्टा हरिणाप्य् अनल्पं

तल्पं गतासीन् मिलितुं च लोला ।

तथापि नायाद् ऋजुतां तु किन्तु

कराकरिप्रायतया ससञ्ज ॥५०॥ [उपजाति ११]

अमिलन-हठ-कृद् यदामिलद् वा

हरिम् अथ भेदयितेयम् आशु केन ।

द्वयम् अपि चरितं न चित्रम् अस्या

यद् अलम् असौ रस-रूपताम् अयासीत् ॥५१॥ [पुष्पिताग्रा]

श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।

गोपाल रघुनाथाप्त- व्रज-वल्लभ पाहि माम् ॥५२॥

इति श्री-गोपाल-चम्पूम् अनु

गोलोक-विलास-विकासनं द्वितीयं पूरणम् ।

॥२॥

पूर्णः श्री-गोलोक-विलासः ।

—ओ)०(ओ—

(३)

अथ तृतीयं पूरणम्

कृत-पूरण-वर्ति-तृष्ण-

श्री-कृष्ण-जन्म-सम्पन्-मयम्

श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।

गोपाल रघुनाथाप्त-व्रज वल्लभ पाहि माम् ॥१॥

[१] तद् एवं प्रशस्त-शास्त्रावलोकतः श्रीमान् गोलोकः प्रस्तुतः । यत्र लोकाभिव्यक्त-तद्-अभिव्यक्त-वैभव-भेदाद् द्विधापि वृन्दावन-वैभवं विभावितम् । यत्र च लोकानभिव्यक्त-वैभवे चिन्तामणि-मय-कमलाकार-गोकुल-प्रकारश् चाविकलम् अवकलितः । यत्र च सप्त-प्रकोष्ठा गोष्ठाधिपति-पुरी वर्णनाभिर् उरीकृता । यत्र च प्रातर् औचिती-चित-कृति-प्रभृति श्री-हरि-चरितं प्रचारितम् । यत्र च गोप-राज-राजित-सकल-भाजित-सभायां भव्य-काव्य-विज्ञ-सर्वज्ञतातिमनोज्ञ-प्रज्ञ-सूत-वंश-प्रसूत-कुमार-द्वयागमनम् अनवद्यं वर्णितम् । यत्र च व्रज-राजादिभिस् तत्-कथा-शुश्रूषा प्रथयाञ्चक्रे इत्य् अपि निगदितम् । तद्-अनन्तरम् अत्र तु तत्-कथा वितायते ।

[२] अन्थान्येद्युर् ब्राह्म-मुहूर्तम् आरभ्य पूर्ववद् एव पूर्वज-रामः सर्वं पर्वति स्म । भोजनं पुनर् ऐकान्तिकम् एव नित्यम् इव तद्-दिने जातम् । यथा ज्ञापयन्ति स्म श्रीमत्-पितृ-चरणाः – “तात! प्रातर् एव गोभिः शोभिष्यमाणतां सम्भवता भवता ताभ्यः समग्रानुत्तम-ग्रासान् प्रादेश्य मद्-आदेश्यतया यत् किञ्चिद् उपयुज्य स्वयम् अञ्चितव्यम् ।” इति ।

भोजनं, यथा—

अग्र्ये सद्मनि रत्न-पीठ-महितौ रामाजितौ तद्-वधू-

हस्तेभ्यः परिगृह्य मातृ-युगलेनान्नादि पर्यापितम् ।

भुञ्जानौ सखिभिः सुनर्म-वलितं प्रस्माययन्तौ च तद्-

युग्मं तेन च पर्वणा परिजनं सर्वं सुखाचक्रतुः ॥१॥ [शार्दूल]

[३] भोजनानन्तरं तु सास्रं निभालयन्त्याः सस्मितं चाकर्णयन्त्याः श्रीमत्या मातृ-द्वितीयायाः पुरस्ताद् अग्रजेन सखिभिश् च सुखद-नाना-वार्तां वर्तयति श्री-व्रज-राज-कुमारे व्रज-नरेशादेशः प्रविवेश—“वत्स! सभासदः सभायां सभाजिताः शोभन्ते । तौ च सूत-सुतौ स्व-सम्प्रदायम् आदाय वर्तेते” इति ।

तदा च—

स तु जननीम् अनुजानतीं प्रणम्य

द्रुतम् अनु-रामम् इयाय सभ्य-वृन्दम् ।

द्वयम् अपि तद् अथ प्रकाश-युक्तं

कुमुद-सुहृत् कुमुदाकरायते स्म ॥२॥

[४] तत्राभ्यन्तरः सभा-वलय-प्रवेश-द्वारं परितः स्तम्भ-पङ्क्ति-सक्त-गृहाकारं यत् पञ्चमं लोक-सहस्राधारता-समुचिताकारं पूर्व-दिग्-गतं पूर्-द्वारं, तस्य बहिर्-अन्तरतया घटित-सूक्ष-जाल-रन्ध्र-जालेन कुड्येन द्विधा-विभक्त-दीर्घता-विधानस्य तिर्यक्तया मध्य-स्थितेन निम्न-वर्त्मना बहिर-अन्तर्-लब्ध-कुट्टिम-चतुष्टयस्य बहिः-कुट्टिम-द्वय-वलित-रत्न-पीठ-घटासु यथायथम् उपविष्टा मुदाविशिष्टास् ते विभ्राजन्ते स्म ।

[५] यस्मिन्न् उदीची-कुट्टिम-तट-घटिताम् अवाची-मुखतया विभ्राजिनीं राजिम् अधिकृत्य विराजमानः श्री-व्रज-राजस् तस्य तु सव्य-तत्-तट-घटितां प्राची-मुखतया श्री-निधानां श्रेणिम् आश्रित्य दत्त-सुख-समाजः श्री-व्रज-युव-राजस् तथापसव्यतस् तत्-तट-गत-कुड्य-सनीड-घटितां प्राचीमुखतया सुख-करीम् आवलिम् आसाद्य परम् अहितः क्षिति-सुरोत्तम-समूह-सहितः पुरोहितः सम्य-विराजते स्म । तत्रावाची-कुट्टिम-गताश् च केचिद् आभीर-वीरा विराजन्ते स्म ।

[६] ततश् च तयोः कुट्टिमयोर् मध्य-भागश् च प्राङ्गणात् क्रमत उन्नतः । स्वयं तु विस्तीर्णतया नातिनिम्नतया च कुट्टिम-स्थानां सुष्ठु दृष्टि-सङ्गतः सन् विभ्राजते स्म । श्री-भाजं गोलोक-सम्राजम् अभिमुखीकृत्य तयोः कुट्टिमयोर् मध्यस्थौ पुटिताग्र-हस्तौ तौ सूत-सुतौ तु सह सहायम् उत्थान-युतौ वर्तेते स्म । ययोश् च सव्यापसव्यतः सर्वे व्रजस्थाः सूतादिषु स्फुरद्-अर्हद्-अवस्था-विशिष्टम् उपविष्टा विस्तीर्णतासाङ्ग-प्राङ्गणे तु परे शिष्टाः ।

इति स्थिते—

सर्वस्माद् उच्चमाने मणि-जनित-महा-सिंह-पीठे निविष्टः

साध्विष्टः सत्-प्रकीर्णाद्य्-उपवलित-करैर् भ्रातृ-मध्यं प्रविष्टः ।

दृष्टिं पीयूष-वृष्टिं विनिदधद् असकृत् कृष्ण-वक्त्रे स-तृष्णं

श्रीमान् गोलोक-राजः स-सदसि ददृशे राजमानः प्रजाभिः ॥४॥

श्री-शुभ्रासन-तुलिकोपरि-मिलत्-कायाधरांशो मनाग्

आलम्बाद् उपधान-चन्द्र-वलयस्येषत् तिरो-वर्तनः ।

धिन्वन् सस्मितया दृशा परिषदं श्री-राम-दामादिमान्

श्री-कृष्णः समयात्र साम्प्रतम् अपि प्रत्यक्षवल् लक्ष्यते ॥५॥

[७] तत्र च तस्य वर्णादिकम् एवं वर्ण्यते—

श्यामे श्याम-दशाम् अवाप सहसा शोणे तथा शोणतां

पीते रोचिषि पीत-धाम विविधे वैविध्यम् आगाद् इति ।

अङ्गोपाङ्ग-रुचा हरेर् जन-दृशां वीथिर् गता तत्-क्षणान्

नाना-रूप-गतीर् नटानुपजहासेव स्मित-व्यङ्गतः ॥६॥

किं च—

चन्द्रोऽयं श्याम एष प्र्थम-जलधरः कान्तिभिर् विश्व-दीपः

शोभन्ते विद्युतस् ता इह सपदि जहत्यात्म-सत्ताम् अमूस् तु ।

नक्षत्राणीह लीनान्य् अपि बत कुमते नो नभः सा सभासाव्

इत्य् अन्योन्यं विनोदाद् विवदनम् उदभूत् तत्र शश्वत् कवीनाम् ॥७॥

[८] तत्रैव कस्यचिद् अन्यस्य कविता—

उपरि मधुकरावली तदीयं

तलम् अनु सस्मित-नील-वारि-जातम् ।

तद् अनु रवि-सुताच्छवारि-पूरं

स्फुरति सखे किम् इयं सभा नवास्ति ॥८॥

[९] अथात्म-स्थाने युक्तः श्री-कृष्ण-रामाभ्यां प्रयुक्तः प्रसिद्ध-नामा श्रीदामा श्रीभाजं व्रज-राजम् आवेद्य सद्यः पुर-मध्यम् आसाद्य कृती श्री-व्रजराज्ञी-प्रभृतिर् बहिः कुट्टिमात् किञ्चिद् उन्नत-कुट्टिमम् अनु मर्यादाम् अंशम् अप्य् अतिचर्य स्फुटम् उपर्य् उपरि घटित-गात्रं लब्ध-सन्निकृष्टि-दृष्टि-मात्र-पात्रं श्रेणितयालङ्कृतम् अनेक-नीरन्ध्र-जाल-रन्ध्र-जालं समया समानीय प्रतीहारं सप्रतीहारं प्रणीय दृग्-भङ्गि-कलया तासाम् अन्तः-सभा-सङ्गिताम् अभिनीय पुनस् तयोर् अविप्रकृष्ट एवोपविष्टः ।

[१०] यत्र श्रीमतां मित्राणां सङ्गतौ मधुमङ्गलोऽपि रङ्ग इव तत्-तत्-प्रसङ्गेन नर्म-भङ्गिभिः शर्म दातुम् अङ्गीकुर्वन्न् इव निविवेश ।

[११] तत्र श्री-व्रज-राज्ञी—

मणि-मय-वर-पीठे यातृ-मुख्यान्तराले

तनय-नव-वधूभिः सेवितारात्-प्रदेशा ।

सुत-मुख-विधु-कान्तिं सा गवाक्षात् पिबन्तौ

सुत-सुचरित-तृष्णक् कृष्ण-माता व्यराजीत् ॥९॥

[१२] अथ राज्ञा व्रजस्य मधुरम् आज्ञाप्यते स्म—“अये मधुकण्ठ-स्निग्धकण्ठौ! वयम् उत्कण्ठिताः स्मः । ततः किञ्चिद् उट्टङ्क्यताम् ।”

[१३] तौ च साञ्जलौ व्यान्ञ्जतुः—“देव! किं प्रक्रमितव्यम् अवलम्ब्य संवादवहे?”

[१४] व्रजराज उवाच—“भवन्तु सर्वज्ञाव् इति विज्ञापनायास्मदीय-कथाभिभिर् एवास्मान् विस्माययेताम् ।”

[१५] ताव् ऊचतुः—“यथा शिष्टिः शिष्टाग्रणी-चरणानाम् । किन्तु शावयोर् आवयोर् एकतरः समाज्ञाप्यतां, यथान्यतरः श्रोता भवति ।”

[१६] व्रजराज उवाच—“दिनम् एकम् एकम् अन्तरा प्रत्येकम् अपि तत्-तद्-रूपताम् आप्नोतु । प्रक्रान्ता पुनर् ज्यायान् एव ज्यायान् विधीयते ।”

[१७] ततश् च धृतोत्कण्ठः सपदि मधुकण्ठः कृताञ्जलितया नान्दीं पठन्न् अखिलम् आनन्दयति स्म । यथा—

श्रीमान् यो भगवान् स्वयं विजयते ब्रह्मा सुरर्षिर् महान्

व्यासस् तत्-प्रभवः परीक्षिद् अपि याव् उग्रश्रवः-शौनकौ ।

श्रीमद्-भागवत-प्रथा-प्रणयिनस् तान् विश्व-निस्तारिणः

श्री-गोष्ठस्य महिष्ठतां प्रथयितुं कम्रान् नमस्कुर्महे ॥१०॥

ततश् च—

पश्चाद् अल्पं ताल-युग्मं गृहीत्वा

गायन्तौ द्वौ पार्श्वयोर् मड्डु-विज्ञौ ।

श्रोता भ्राता यस्य सव्येतराग्रे

सोऽयं वक्ता सर्वम् उच्चैर् दिधिन्व ॥११॥

[१८] इति प्रकारे लब्ध-सारे पुनर् मधुकण्ठः सोत्कण्ठं गायन् नृत्यन् तत्-तद्-भावाभिनयं प्रणयन् कथाम् अभ्याददे ।

अथ कथारम्भः

[१९] यथा—अथ सर्व-श्रुति-पुराणादि-कृत-प्रशंसस्य वृष्णि-वंशस्य वतंसः श्री-देवमीढ-नामा परम-गुण-धामा म_त्_हुराम् अध्यासामास । तस्य चार्याणां शिरोमणेर् भार्या-द्वयम् आसीत् । प्रथमा द्वितीय-वर्णा, द्वितीया तु तृतीय-वर्णेति । तयोश् च क्रमेण यथावद् आह्वयं पुत्र-द्वयं_ _प्रथमं बभूव शूरः पर्जन्य इति । तत्र शूरस्य श्री-वसुदेवादयः समुदयन्ति स्म । श्रीमान् पर्जन्यस् तु मातृवद् वर्ण-सङ्करः इति न्यायेन वैश्यताम् एवाविश्य गवाम् एवैश्यं वश्यं चकार । बृहद्-वन एव च वासम् आचचार । स चायं बाल्याद् एव ब्राह्मण-दर्शं पूजयति, मनोरथ-पूरं देयानि वर्षति, वैष्णव-वेदं स्निह्यति, यावद् वेदं व्यवहरति, यावज्-जीवं हरिम् अर्चयति स्म । तस्य मातुर् वंशश् च व्याप्त-सर्व-दिशां विशां वतंसतया परं शंसनीयः । आभीर-विशेषतया सद्भिर् उदीरणाद् एष हि विशेषं भजते स्म ।

[२०] तथा च मनुः—

ब्राह्मणाद् उग्र-कन्यायाम् आवृतो नाम जायते ।

आभीरोऽम्बष्ट-कन्यायाम् आयोगव्यां तु धिग्वणः ॥ [Mअनु १०.१५] इति ।

अम्बष्ठस् तु विशः पुत्र्यां ब्राह्मणाज् जात उच्यते इति चान्यत्र । अतः पाद्मे सृष्टि-खण्डादौ यज्ञं कुर्वता ब्रह्मणाप्य् आभीर-पर्याय-गोप-कन्यायाः पत्नीत्वेन स्वीकारः प्रसिद्धः । एष एव च गोप-वंशः श्री-कृष्ण-लीलायां संवलनम् आप्स्यतीति । सृष्टि-खण्ड एव तत्र स्पष्टीकृतम् अस्ति । तस्मात् परम-शंसनीय एवासौ वैश्यान्तः-पाति-महाभीर-द्विज-वंश इति ।

[२१] अथ स्निग्धकण्ठेन चान्तश् चिन्तितम्—एवम् अपि केचिद् अहो एषां द्विजतायां सन्देहम् अपि देहयिस्यन्ति । ये खलु श्रीमद्-भागवते कुरु द्विजाति-संस्कारम् [१०.८.१०] इति गर्गं प्रति श्री-व्रजराज-वचने, वैश्यस् तु वार्तया जीवेत् इत्य् आरभ्य,

कृषि-वाणिज्य-गो-रक्षा कुसीदं तूर्यम् उच्यते ।

वार्ता चतुर्विधा तत्र वयं गो-वृत्तयोऽनिशम् ॥ [भा।पु। १०.२४.२०-२१]

इति व्रजराजं प्रति श्री-कृष्ण-वचने, अग्न्य्-अर्कातिथि-गो-विप्रः [भा।पु। १०.४६.१२] इति श्री-शुक-कृत-गोपावास-वर्णने, व्यतिरेकतस् तु धर्म-राज-चरतायाम् अपि विदुरस्य शूद्र-गर्भोद्भवतयान्यथा-व्यवहार-श्रवणेऽप्य् अधिकं विअधिरायिष्यन्ते इति ।

[२२] अथ स्फुटम् ऊचे—ततस् ततः ?

[२३] मधुकण्ठ उवाच—स च श्रीमान् पर्जन्यः सौजन्य-वर्येणार्जितेन निजैश्वर्येणापि वैश्यान्तर-साधारण्यम् अतीयाय, तच् च नाश्चर्यम् । यतः स्वाश्रित-देश-पालकता-मान्यतया वदान्यतया क्षीर-वैभव-प्लावित-सर्व-जनता-लब्ध-प्राधान्यतया च पर्जन्य-सामान्यताम् आप; यः खलु प्रह्लादः श्रवसि, ध्रुवः प्रतिश्रुति, पृथुर् महिमणि, भीष्मो दुर्हृदि, शङ्करः सुहृदि, स्वयम्भूर् गरिमणि, हरिस् तेजसि बभूव । यस्य च सर्वैर् अपि कृत-गुणनेन गुण-गणने वशिताः सहस्र-सङ्ख्याभिर् अप्य् अनवसिता मातामह-महा-वंश-प्रभवाः सर्वथा प्रभवन्ते गोपाः सोपाध्यायाः स्वयम् एव समाश्रिता बभूवुः । तत्-सम्बन्धानि च वृन्दशः यं खलु श्रीमद्-उग्रसेनाग्रीय-यदु-संसद्-अग्रण्यस् ते समग्र-गुण-गरिमण्य् अग्रगण्यम् अवलोकयन्तः सकल-गोप-लोक-राज-राजता-सम्बलकेन तिलकेन सम्भावयामासुः । यस्य च प्रेयसी सकल-गुण-वरीयसी वरीयसीनाम् आसीत् । यस्य च श्रीमद्-उपनन्दादयः पञ्च-नन्दना जगद् एवानन्दयामासुः ।

[२४] तथा च वन्दिनस् तस्य श्लोकं श्लोकताम् आनयन्ति—

अन्यस् तु जल-पर्जन्यः सुख-पर्जन्य एष तु ।

सदा यो धिनुते सृष्टैर् उपनन्दादिभिर् जनम् ॥१२॥

पर्जन्यः कृषि-वृत्तीनां भुवि लक्ष्यो व्यलक्ष्यत ।

तद् एतन् नाद्भुतं स्थूल-लक्ष्यतां यद् असौ गतः ॥१३॥

उपमान्ति च—

उपनन्दादयश् चैते पितुः पञ्चैव मूर्तयः ।

यथानन्दमयस्यामी वेदान्तेषु प्रियादयः ॥१४॥

उत्प्रेक्षन्ते च—

उपनन्दोऽभिनन्दश् च नन्दः सन्नन्द-नन्दनौ ।

इत्य् आख्याः कुर्वता पित्रा नन्देर् अर्थः सुदण्डितः ॥१५॥

[२५] तद् एवं सतीषु सर्व-सम्पत्तिषु तस्य पुत्र-सम्पत्तिस् तु परम-रमणीयताम् अवाप । नेपथ्य-सम्पत्तिषु वासः-सम्पत्तिर् इव । तत्र्âपि मध्यम-सुत-सम्पत्तिः सुतराम् ऐश्वर्याणाम् अविच्छिन्न-सम्पत्ति-पङ्क्तिम् अनु मध्यम-सम्पत्तिर् इव ।

[२६] अत्र केचिद् अर्जुनम् उपमानीकुर्वन्ति । वयं तु तस्य मध्य-सम्बध्यमानस्य सर्वानन्दनस्य श्रीमत्-पर्जन्य-नन्दनस्य बालक-पर्यायेण तेन पाण्डु-तनयेनोपमानं न मन्यामहे । अपि च परमोदारेषु च सहोदरेषु तेषु न केवलं जन्मना तावन् मध्य-वर्तितया सोऽयं वर्तते । अपि तु स्नेह-सम्पदाम् आस्पदतयापि न च केवलं तेषाम् किन्तु सर्वेषाम् अपि । येन तस्मिन् पित्रोर् अप्य् अधिका स्नेहर्द्धिकाया वर्धिष्णुता भ्रातॄनाम् अपि सदा सुख-संवर्धनी बभूव, न जातु स्पर्धनी । न चैतावान् उद्भूतः सुगुणस् तस्मिन्न् उद्भूतः ।

[२७] भवति हि स्वयं भगवति तस्य भक्ति-विशेष-व्यक्तिः—यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः इति हि भगवती श्री-भागवत-गीर्-देवी ।

[२८] तद् एतन् मधुकण्ठतः श्रुत्वा श्रीमद्-उपनन्दः श्रीमद्-अभिनन्दं नीचैर् उवाच—विज्ञाता कथां प्रकुर्वाणस्य किम् अस्य पर-हृदय-विज्ञता?

[२९] अथाभिनन्दस् तद् अवधार्य साश्चर्यं मधुकण्ठम् उवाच—ततस् ततः?

[३०] मधुकण्ठ उवाच—तद् एवं सति नाम्ना सुमुखेन केनचन गोपानां मुखेन तस्मै परम-धन्या कन्या दत्ता । या खलु स्व-गुण-वशीकृत-स्वजना यशांसि ददाति शृण्वन्त्यः, किम् उत पश्यद्भ्यः, किम् उततराम् भक्तिमद्भ्यः । ततश् च तयोः साम्प्रतम् एव दाम्पत्येन सर्वेषाम् अपि सुख-सम्पत्तिर् अजायत, किम् उत मातर-पितरादीनाम् ।

[३१] तद् एवम् आनन्दित-सर्व-जन्यु-विगत-मन्युः पर्जन्यः सर्वतो धन्यः स्वयम् अपि भूयः सुखम् अनुभूय चाभ्यागारिकतायाम् अभ्यागतं-मन्यः श्री-गोविन्द-पदारविन्द-भजन-मात्रान्वितां देह-यात्राम् अभीष्टां मन्यमानः सर्व-ज्यायसे ज्यायसे स्वक-कुल-तिलकतां दातुं तिलकं दातुम् इष्टवान् । श्री-वसुदेवादि-नरदेव-गर्गादि-भूदेव-कृत-प्रभां सभां कृत्वा दत्तवांश् च ।

[३२] स पुनः पितुर् आज्ञाम् अङ्गीकृत्य कृत-कृत्यस् तस्याम् एव श्री-वसुदेवादि-संवलित-महानुभावानां सभायाम् आहूय सभावम् उत्सङ्ग-सङ्गिनं विधाय मध्यमम् एव निजानुजं तेन तिलकेन गोकुल-राजतया सभाजयामास ।

[३३] अथ तत्रानुजे सङ्कुचति सर्वत्र च जने विस्मयं सचमाने पितरि च रोचमान-लोचने स चोवाच—मयेदं नाविचारम् आचरितम्, यतः सर्व एव स्नेह-परम्परायाः पराधीनः । सा च साद्गुण्यस्य, तच् च सर्व-समञ्जसतायाः । सा चात्र यथा तथा न मद्-विधे । सैव च खलु सर्व-वशीकारितायां स्वैरिताम् अर्हति ।

[३४] किं च, सर्वान्तर्याम्य् अप्य् एनम् एवोररीचरीकरीति । दृश्यताम् अस्यां भासमानायां सभायां सर्वेषां नेत्र-पटली-षट्पदवल्-लीलायमाना केवलम् अस्य मुखं कमलम् इव संवलते । तथा प्रथमत एव तद्-आनुकूल्यम् अत्राकल्प्यते । परिकल्प्यताम् अपीदं मम नाम्नैव । तस्माद् अस्माकम् अयम् एव राजेति ।

अथाभवत् कुसुमक-वृष्टिभिः समं

स्फुट-ध्वनिर् दिवम् अनु साधु साध्व् इति ।

सभासदाम् इह च विकासि-दृष्टिभिर्

यथास्फुरज् जय-जय-शब्द-मङ्गलम् ॥१६॥

[३५] अथ स्निग्धकण्ठ उवाच—मधुकण्ठ-कृत-जगद्-उत्कण्ठ-श्रीमन्-मधुकण्ठ! श्रीमद्-उपनन्द-नन्दनयोस् त्रय एव मध्यमा इति कोऽयं मध्यमः । कीदृशी वा तस्य समञ्जसतेति सोदाहरणम् उच्यताम् ।

[३६] मधुकण्ठ उवाच—एकं तावद् भवन्-मनः-प्रह्लन्नता-समुचितं प्रवह्लिका-पद्यम् इदम् अनवद्यं पूर्यताम् ।

[३७] स्निग्धकण्ठ उवाच—कामम् ।

[३८] मधुकण्ठ उवाच—

आकृष्य मत्-पुत्रम् अनेन पुत्री-

कृतेन भूतिं भजते स एषः ।

इति स्वयं वेत्ति न तेन मैत्रीं

भिनत्ति कोऽयं वदने वदेति ॥१७॥

[३९] स्निग्धकण्ठः सोत्कण्ठतया शीघ्रम् एव सानन्दम् उवाच—नन्द एव इति ।

[४०] मधुकण्ठ उवाच—भवता ज्ञात्म् एवेदम् इति । तद् एतच् छ्रूयताम्—

स्वेनाल्पेन गुणेन वाञ्छति निजे पूजा-सुखे भूयसी

लोको यस् तु महीयसापि खलु तेनैवान्यदीये सदा ।

सोऽयं श्री-व्रजराज एव यद् असौ शूराङ्गजं धिन्वितुं

तत्-तद्-धानिम् असोढ सख्यम् अभिन्नाल्पं च तस्यान्तरम् ॥१८॥

[४१] ततश् च तद् एतन् मधुकण्ठ-सूक्त-सुधाकरम् आसाद्य रत्नाकर इवोच्छलद्-अङ्ग-तरङ्गस् तद्-अन्तर्-बहिरङ्ग-सभ्य-सङ्घस् तद्-उपरि-हृदयङ्गम-रत्नावलिं विकीर्णवान् हृदयावलिं वा वितीर्णवान् इति स्वयम् अपि न भिदां विदाम्बभूव ।

[४२] अथ स्निग्धकण्ठ उवाच—ततस् ततः?

[४३] मधुकण्ठ उवाच—ततः श्रीमान् असौ धन्यः पर्जन्यः श्री-गोविन्द-पदारविन्द-भजनाय वृन्दावनं प्रविशन् समासत एव समस्त-शास्त्र-सारं पृच्छतः पुत्रान् उपदिदेश, यथा—

किं भय-मूलम् अदृष्टं किं शरणं श्री-हरेर् भक्तः ।

किं प्रार्थ्यं तद्-भक्तिः किं सौख्यं तत्-पर-प्रेम ॥१९॥ इति ।

[४४] तद् एवं सह-भार्ये वृन्दावनं गते तस्मिन्न् आर्ये श्रीमान् उपनन्दः स्व-नामानुरूपं श्रीमन्-नन्द-व्रज-महेन्द्र-सभायाम् अयन्त्रित-मन्त्रितया स्थितवान् । विचित्रवीर्य-सभायां भीष्म इव । सोऽपि मन्त्र-मिषेण विशेषेण तद्-आज्ञाम् एव गृह्णन् सर्वं सर्व-कालं सुराजा प्रजा-कुलं पालयति स्म ।

[४५] तत्र चेयं चर्याचरिताश्चर्या बभूव, यथा—

मर्यादां पितुर् अयम् आवद् एव सर्वां

धर्मादिर् न विपदम् एति यत्र चार्थः ।

सम्पत्तिर् न पुनर् अभूद् अमुष्य वश्या

येनासौ प्रसभम् अवाप वृद्धिम् एव ॥२०॥

[४६] तद् एवं सर्व-समृद्धि-वृद्धि-सिद्धिम् आयाते राजन्वति व्रज-जन-जाते कलिकायमाना काचिद् उत्कलिका क्रमेण विकासम् अयामास । सर्वेषां प्राण-तुल्यस्य निज-कुल्यस्य राज्ञस् तस्य सन्ततिर् न जायत इति । कालात्यये चाशा-व्यत्ययात् सर्वं जनम् अतीव कृच्छ्रम् आनर्च्छ । अग्रजादींस् तु सुतराम् । श्रीमद्-व्रजपति-जम्पती तु प्रजाशां पूर्वत एव सन्दिग्धि-दिग्धाम् अपि कुर्वाते स्म, उत्तरतस् तु विशेषतः ।

[४७] स्निग्धकण्ठ उवाच—कथं तत्-प्रेष्ठाः पुत्रेष्ट्यादिकं नानुष्ठापितवन्तः? कथं वा विदग्धयोर् अपि तयोः सन्दिग्धता जाता । तथापि परमेश-परयोः कथन्तरां वा तद्-आशा? उत्तरतस् तु विशेषतः कथन्तमाम्?

[४८] मधुकण्ठ उवाच—अनुष्ठापितम् अपि तत् तन् न प्रतिष्ठाम् आससाद ।

[४९] स्निग्धकण्ठ उवाच—कथं तत्? कथं वान्यद् अन्यत्?

[५०] मधुकण्ठ उवाच—तथा हि, तत् तद् अशेष-सम्पत्त्योर् अपि दम्पत्यो रहसि संवादोऽयं बभूव । यथा श्रीमान् पतिर् उवाच—कुटुम्बिनि! किम् अवलम्बी मम सनानाय वितानादि वितानयति शोक-वशोऽयं लोकः ? यतो मम सङ्कल्प-कल्पना-समये यादृशाय सर्वतो विचित्राय पुत्राय चित्तं कल्पते । स तु परम एवापूर्वः कथम् अपूर्व-विषयतां प्राप्नोतु ? तत पुनर् अन्यत्र वचन-गोचरं रचयितुं सङ्कुचत्य् एव चेतो-वृत्तिः । यतो यत् खलु मयि दया-परायणस्य श्रुति-पारायण-फलस्य श्री-नारायणस्य रूपं ततोऽपि मधुरतरं कतरद् वा भवेत्, परिजात-कुसुमाद् आकाश-कुसुमम् इव ।

[५१] अथ स्निग्धकण्ठश् चिन्तयामास—अस्य ततोऽपि मधुरतरत्वं नायुक्तम् । यत एतद् उद्दिश्य श्री-भागवत-पद्यम्—

यन् मर्त्य-लीलौपयिकं स्व-योग-

माया-बलं दर्शयता गृहीतम् ।

विस्मापनं स्वस्य च सौभगर्द्धेः

परं पदं भूषण-भूषणाङ्गम् ॥ [भा।पु। ३.२.१२] इति ।

[५२] अथ स्फुटं पप्रच्छ—ततस् ततः?

[५३] मधुकण्ठ उवाच—अथ श्रीमती तत्-पत्नी चोवाच—कीदृशं रूपं तद् इति कथ्यताम्।

[५४] स उवाच—

श्यामश् चञ्चल-चारु-दीर्घ-नयनो बालस् तवाङ्क-स्थले

दुग्धोद्गारि-पयोधरे स्फुटम् असौ क्रीडन् मयालोक्यते ।

स्वप्नस् तत् किम् उ जागरः किम् अथवेत्य् एतन् न निश्चीयते

सत्यं ब्रूहि सधर्मिणि स्फुरति किं सोऽयं तवाप्य् अन्तरे ॥२१॥

[५५] सोवाच—श्रीमन्! ममापीयम् एव मनो-वृत्तिर् मति-वृत्तिम् अतिवर्तमाना वर्तते । केवल-विलज्जया तज् जातु भवन्तं न निवेदयामि । तस्माद् अस्माद् असम्भव-मनोरथान् निवृत्ति-शास्त्र-विचारम् उद्यच्छन्तौ मन एव संयच्छेवहि ।

[५६] स उवाच—यद्यपि मयाप्य् एतद् एव मध्ये मध्ये स्फुटम् अध्यवसीयते, तथाप्य् अस्तोको वशित-विश्वोद्रेको महान् सहायः श्रीमन्-नारायण-देव एव शरणम् इति चित्त-वृत्तिः परिवर्तते—योऽस्माकम् अदृष्टाश्रुतम् इदं दृष्टम् इव करोति। स सर्वं कृत-पूर्वी तद् अपि कुर्वीत ।

[५७] सोवाच—देव! तस्य देवस्य काम् अपि सेवायोग्याम् एवात्र योग्याम् उपलभामहे ।

[५८] स उवाच—बाढम् । किन्तु कीदृशी सा?

[५९] सोवाच—द्वादशी-व्रत-रूपा ।

[६०] स सानन्दम् उवाच—सङ्गतं ब्रवीषि । ममाप्य् उत्कण्ठाङ्कुरितं स्फुरितम् एतद् एवासीत् । तस्माद् अद्यारभ्य समारभ्यताम् एष व्रत इति ।

[६१] तद् एवं सम्प्रवदमानयोर् उद्भवन् देव-दुन्दुभि-नादः सर्वम् अतिचक्राम्।

[६२] अथ तया वृत्त-स्व-चित्त-वृत्ति-प्रथया तत्-कथया श्लथितवान्तः श्री-व्रज-धरित्री-कान्तः कान्त-निजालङ्कार-वारं सूत-कुमाराय विततार । श्रीमती व्रजपति-पत्नी च महा-नीलमणि-मय-नायकं हारं विहापयामास ।

[६३] अथ सोत्कण्ठं स्निग्धकण्ठ उवाच—तर्हि किं जातम्?

[६४] मधुकण्ठ उवाच—तेन व्रतेन पूर्णे वर्षे बृंहिते च तर्षे युगपद् एव देव-देवः स्वप्ने तयोर् आविर्बभूव, चोवाच च—अहो! मय्य् अतिसक्तौ भक्तौ कथं निर्विद्य खिद्याथे? योऽसाव् अतसी-कुसुम-सुषमः सुकुमारः कुमारः शश्वद् एवानुभवतोर् भवतोः कुमारतया स्फुरति । स तु सदा भवतोर् एवानुगतः प्रतिकल्पं स्वभक्ति-प्रवर्तनाय दिवि मत्-प्रवर्तित-द्रोण-धरा-रूप-कलांश-कलावतोः तद् भूरि भाग्यं इत्य् आदि-रीत्या ब्रह्माद्य्-अलभ्य-साक्षात्-तत्-फल-साक्षात्काराय स्वयम् एव पृथिव्यां भवतोर् भवतोर् एव भवं लभत एव ‘ अचिराद् एव च रुचिरा रुचिरेषा युवयोः सफलतां वलिता ।

[६५] तद् एवं श्राविताभिहिते तिरोहिते च परमहिते भगवति लब्ध-जागराव् उपलब्धामृत-सागराव् इव च मिथस् तद् एव सङ्कथयन्तौ प्रथयन्तौ च परम-चमत्कार-निवहं वहतः स्म ।

[६६] अथ स्निग्धकण्ठः स्वगतं चिन्तयामास—तद् एवं जातान्य् एव मम प्रश्नानाम् उत्ताराणि । तत्र च भवतोर् एवेति युक्तम् एवोक्तं श्री-भगवता—प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [१०.८.१४] इति वदतोऽप्य् अव्यभिचार-वचः-प्रचार-सर्गस्य मुनेः श्री-गर्गस्य प्रायः सोऽयम् अभिप्रायः ।

[६७] श्री-भगवता सह सम्बन्धः किल केवल-प्रेम-निबन्धनः—भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.११] इत्य् आदेः । अतस् तद्-विशेषस्य तद्-विशेष एव हेतुः—ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इत्य् आदेः । ततस् तस्मिन् वत्सतां सतां वात्सल्याभिध एव प्रेमा प्रमापयति ।

[६८] तत्र श्री-वसुदेवस्य तद्-ऐश्वर्यालोचनेन वात्सल्यस्य तारल्यं सारल्यं चासादितम् । श्री-व्रजराजस्य पुनस् तद्-वात्सल्यं शश्वद् उद्बुद्धं शुद्धम् एव च प्रसिद्धम् । पितृभ्यां पुत्रतया तद्-धारणे कारणं च मुनिभिर् मन एव मन्यते । आविवेशांश-भागेन मन आनकदुन्दुभेः [भा।पु। १०.२.२६] इत्य् आदेः । दधार सर्वात्मकम् आत्म-भूतं काष्ठा यथानन्द-करं मनस्तः [भा।पु। १०.२.१८] इत्य् आदेश् च । श्री-व्रज-राजाभ्याम् अपि मनसा धारणं तस्य कार्यान्यथानुपपत्ति-सिद्धेन भक्ति-स्वाभाव्येनैव सम्भाव्यते । तत्र च सति साम्प्रतं तु विशेषत एव साम्प्रतं परावस्थाम् अनु कृतासक्तौ हि भक्तौ तद्-उदयः स्यात् । तस्मात् तवैवात्मजस् तस्य वसुदेवस्य तु क्वचित् कार्ये निमित्ते जातः प्रादुर्भूतः इति ।

[६९] अथ प्रकटम् उवाच—ततस् ततः ?

[७०] मधुकण्ठ उवाच—तद् एवं परमार्तेर् उपकण्ठतां प्राप्तायाम् उत्कण्ठायाम् एकदा सर्वेऽनर्वाचीना व्रज-वासिनः सभावाः सभायां मिलिताः । मिलित्वा च तद् एव सोत्कण्ठं सुष्ठु प्रतुष्टुवुः ।

[७१] तदा च तत्रैका तापसी केनचन स्नातकेन समम् आयाता । तां च महा-प्रभाव-लक्षणां लक्षयित्वा सर्वे समुत्थायातिथ्यम् आवितथ्येन विधाय विज्ञापयामासुः—साक्षाद् भगवतो योगमायेव का त्वम् असि ? श्रीमन्-नारदस्याभिनव-तनुर् इवायं वा कः ?

[७२] सा च सहासम् आह स्म—पौर्णमासी-नाम्नी कात्यायनी च कुमार-श्रमणा च पारिकाङ्क्षिणी चेक्षणिका चास्मि । अयं च मधुमङ्गल-नामा स्नातकः श्री-नारद-प्रकृतिः । आवां च विद्या-विशेषेणैतद्-वयस्काव् एव सदा विद्यावहे ।

[७३] ते ऊचुः—एतावती कृपा कृपणेषु कथम् अस्मासु कृता ?

[७४] सोवाच—भवतां किम् अपि वैभवं सम्भाव्य ।

[७५] सर्वे ऊचुः—किं तत् ?

[७६] सोवाच—भवतां प्राण-कन्दस्य श्रीमन्-नन्दस्य जगदानन्दः स खलु नन्दनः सम्भवितेति ।

[७७] सर्वे स-बाष्प-पुलक-कुलम् ऊचुः—बृहद्-वनम् अस्माकम् इद बृहत्-तीर्थं भवति । तस्माद् अस्मभ्यं दत्त-विश्रान्तिके कृष्णान्तिके स्फुटम् उटजं तव घटयामः ।

[७८] सोवाच—उपश्रुतिर् एषा श्रुति-वेषा नव्यापि न व्यभिचरिता । यतः कृष्णाया इति विवक्षितम् अपि कृष्णस्येति लक्षितं करोति । कृष्ण-नामा हि भवितासौ । महा-प्रभाववति यस्मिन् जातवति निर्दानवता पृथिव्यां भविष्यति । तदीय-गुणे तु सदा नवता, सगुणता विद्यादि-प्रबन्धे तत्-सम्बन्धे तु निर्गुणता । सकिञ्चनता विषय-सम्पत्तौ तद्-भक्तौ तु निष्किञ्चनता इत्य् आदिकं विरुद्धायमानम् अपि सर्वैर् अनुरुद्धं करिष्यति । तस्माद् अस्माकम् अत्र स्थातुम् आग्रह एव भवताम् अनुग्रहाय सम्पन्नः ।

[७९] अथ तां सर्वे सानन्दं वन्दमानास् तया समम् इन्दीवर-रुचि-निन्दीहित-कालिन्दीं विन्दमानाः पर्ण-मन्दिरं पूर्णयन्तस् तत्र वासयामासुः ।

[८०] तस्मिन्न् एव दिवसेऽपगत-दोषे प्रदोषे समुद्भट-कंस-रोषेण जात-चित्त-शोषेण कृत-परिदेवेन वसुदेवेन प्रहिता व्रज-हिता बडवारोहिणी रोहिणी गुप्तम् आजगाम । यस्याम् आगतायां परम-पतिव्रतायां सर्व एव व्रज-राज-राज-समाजः शुभ-शकुन-सङ्कुल-शकुनादि-समजेन समम् उल्ललास । तत्र चानन्द-मोहिन्यौ श्री-यशोदा-रोहिण्यौ यमुना-गङ्गे इव सङ्गत-सङ्गे परस्परं परेभ्यश् च सुख-समूहम् ऊहतुः ।

[८१] व्रज-राज-पत्नी च तस्या ज्यैष्ठम् अवष्टभ्य मास-त्रय-जातम् अन्तर्वत्नीत्वं पर्यालोच्य स्वाभेद-वेदनेनैव शात-जातं प्राप ।

[८२] अथ माघ-मासि चासित-प्रतिपदि कृत-सर्व-सुख-प्रसर-जन्यां रजन्यां सा व्रज-राजं सेव्यमाना तन्द्रापरतन्त्रायमाणा स्वप्न-तुल्यता-सञ्चितं किञ्चिद् अञ्चितं ददर्श ।

[८३] यथा स एव बालः सर्वतस् तद्-आवरण-कारिकया कयाचिच् दिव्य-कुमारिकयात्मानं पिधाय व्रज-राज-हृदयान् निज-हृदयं प्रविश्य दृश्यवद् एव स्थित इति । ततश् च सोऽयं हृदय-कमल-मध्य्म् अध्यासामास । सेयं तु जठर-मध्यम् इति । व्रजराजश् च निरन्तर-स्वान्तर-तत्-प्रवेशावेशं दुर्निदेशं चिरम् अनुभूय दूयमानतां विधूय तथैवानुभूतवान् ।

[८४] अथ स्निग्धकण्ठः स्वान्ते चिन्तयति स्म—सत्यम् एतद् अत एव सद्-वाणी-गुणिभिर् मुहुर् अनयोर् आत्मज इति मतम् । मया च सुविचारतस् तद् एव पूर्वं निश्चितम् आचरितम् इति । उवाच च—ततस् ततः ?

[८५] मधुकण्ठ उवाच – अथ तद् आरभ्य गर्भ-लक्षणम् उपलभ्य सम्भूत-भव्यानां सभ्याङ्गना-गणानां गोकुल-कुल-पात्री सुख-दात्री बभूव । यथा –

मुखम् आपाण्डु कुचाग्रं स्फीतं जठरं दरोत्तुङ्गम् ।

अभजत कर्णेजपतां गर्भे वृत्ते यशोदायाः ॥२२॥

यथा च –

व्रज-राज्ञ्यां स्फुरितात्मा कृष्णः स्फुरति स्म लोकेऽपि ।

दीपः स्फटिक-घटी-भाग् अन्तर् बहिर् अपि विभाति तत्-तुल्यः ॥२३॥

किन्तु –

जित-रसना रस-धैर्या गाम्भीर्यादि-प्रवीणापि ।

स्पृहितं किञ्चित् किञ्चिद् व्रज-नृप-गृहिणी तदा चक्रे ॥२४॥

यथा –

ऐहत दोहदम् एषा कृष्णावेशाविशत् तृष्णा ।

तुलसी-संस्कृत-घृत-युक् स-सितं सित-कान्ति-गन्धि परमान्नम् ॥२५॥

[८६] अथ योगमाया रोहिण्याः साप्तमासिकं गर्भं स्रस्तं विधाय देवक्यास् तद्-विधं तं तस्यां नियोजयामास । ततश् च लब्ध-सर्व-समय-सम्पद्-दशे चतुर्दशे मासि श्रावणतः प्राक् श्रवण-र्क्षे समस्त-सुख-रोहिणी रोहिणी गुण-गणनया सुषमं सित-सुषमं सुतं सुस्राव । सान्द्र-शुभ्रता-विभ्राजमानतया पौर्णमासी चन्द्रमसम् इव, दर्शित-विक्रम-क्रमतया सिंह-वधूः शावकम् इव, निर्मल-परिमल-धाराधारतया नव-कमलिनी धवल-कमलम् इव, सर्व-श्रवण-सङ्घ-मङ्गलतया निरवद्य-विद्यता यशः-स्तोमम् इव च ।

किं च –

शुभ्रांशु-वक्त्रं तडिद्-आलि-लोचनं

नवाब्द-केशं शरद्-अभ्र-विग्रहम् ।

भानु-प्रभावं तम् असूत रोहिणी

तत् तच् च युक्तं स हि दिव्य-बालकः ॥२६॥

[८७] स एष च असित-वर्ष्मा सित-वर्ष्मा सद्-अनुजः सूदित-दनुजः, पालित-धेनुको दलित-धेनुकः, प्रलम्ब-बाहुः प्रलम्ब-घातयिता, स्वयं राम-नामा राम-रमित-द्विविद-विदारयिता च भविता इति ज्योतिर्विद्भिर् उद्भावितम् ।

[८८] अस्य जातकर्मादिकं च मर्मगैर् एव शर्मान्तनामभिर् गुप्तम् एव पर्याप्तम् अकारि आनक-दुन्दुभि-मन्त्रणा-परतन्त्रतया । किन्तु तत्रैकं दुःखम् इवासित् । [८९] यतः स तु जन्मत एवानुज-जन्म यावत् जड एवादृश्यत । तत्र प्रतीकारश् चैक एवासीत् यथान्तर्धृत-निजावरजं व्रजेश्वर्य्-अङ्कम् एव केवलं वलमानः समुल्लसितवल् लक्ष्यते ।

[९०] तद् एवं दिन-कतिपये लब्ध-व्यत्यये गर्भ-सन्दर्भात् स्पष्टम् अष्ट-मासि तद्-अवरजन्म-जन्मनः समारम्भः सम्भवति स्म । यथा चाधुनापि वर्णयन्ति—

अष्टाविंश-चतुर्-युगे कलि-शिरः सम्मर्द्य वैवस्वते

भाद्रान्तर्-बहुलाष्टमीम् अनु विधोः पुत्रे विधोर् उद्गमे ।

योगे हर्षण-नाम्नि शुद्ध-विधिभे पुर्णः परः श्री-विधुर्

नन्दन् नन्द-वधू-मुदे स्वयम् उदैद् अह्नाय धुन्वंस् तमः ॥२७॥

यथा च –

तदा युगादि देवास् ते स्व-स्व-स्मपद्-उपायनम् ।

आदाय कृष्ण-जन्मर्क्ष-निशाम् आशु सिषेविरे ॥२८॥

यथा हि –

विबभूव विना सत्यं ध्यानं त्रेतां विना मखः ।

विना द्वापरम् अभ्यर्चा हरेर् नाम कलिं विना ॥

विना मधुं सप्तलादि विनोष्णं पाकिमाम्रता ।

विना शरद्-अम्बु-श्रीः शालिस् तस्याः परं विना ॥

शिशिरेण विना माघ्यं विनाह्नाम्बुज-विस्तृतिः ।

विना ज्योतिष-शास्त्रेण ग्रहाणां शुभदा स्थितिः ॥

विना गुरु-प्रभावेण सर्वत्र स्फुरणं हरेः ।

विना सूति-प्रतीत्या च प्रसूतोऽसौ यशोदया ॥२९॥

[९१] तद् इदम् अग्रे व्यक्तीकरिष्यते । किं च –

मध्ये तारावार-सारं नभस् तत्-

प्रान्ते सिन्धूर्ध्वं ध्वनन्-मेघ-बन्धु ।

इत्थं वर्षाधामतर्षा शरच्-छ्रीस्

तस्यां तिथ्यां तथ्यम् आतिथ्यम् आप ॥३०॥

किं च –

जातिभिः सह माधव्यः केतक्यः केतकैः समम् ।

कुमूद्यान्य् अम्बुजैः सार्धं स्फुटन्ति स्मेति दिग् यदा ॥३१॥

तदा तद् अपि नाश्चर्यम् आचार्यैः परिचीयते ।

सर्वाश्चर्य-निधिः सोऽपि जन्म-चर्यां यतो गतः ॥३२॥

[९२] तथा हि एतद्-उत्तरं भावि-तद्-विलोकानां लोकानां भावितानम् –

[९३] मुखम् अस्य लसित-स्मितासित-कमलानाम् अधिपम् इव विलोक्यते,

नेत्र-युगलं सूक्ष्म-भ्रमर-चित्र-कैरवान्तः-पत्राणाम्,

घ्राणं नील-नीरद-च्छवि-लध-कील-तिल-प्रसूनानाम्,

ओष्ठाधरं सिन्दूर-गिरिजनि-जवा-बद्न्हूक-बिम्ब-गोष्ठीनाम्,

कर्ण-द्वन्द्वम् अञ्जन-भूमिज-श्यामलता-पोतानाम्,

कर-प्रान्तता-कान्त-भुज-युगलं स-नव-पल्लव-नव-ताल-शाखानाम्,

श्रीवत्स-सिन्धु-वत्साख्य-लेखा-सहित-वत्सं धृत-दक्षिणावर्त-द्युति-विशेष-कृत-स्थिर-विद्युद्-आश्लेष-मेघ-खण्डानाम् इति ।

[९४] किं च मुखेन महापद्मं विजेता,

नयनाभ्यां पद्मम्,

नासिकया मकरम्,

स्मितेन कुन्दम्,

कण्ठेन शङ्खम्,

चरणयोः पृष्टाभ्यां कच्छपम्,

रुचा नीलम्,

सर्वैर् एव च सर्वेषां खर्वम् ।

किं बहुना, स्वेन मुकुन्दम् अपीति युगपद् अत्र तत्-तद्-अवसर-प्रसवादीनां तथा दुर्लभ-सन्निधीनां निधीनाम् अपि सन्निपतनं नासम्भाव्यम् ।

[९५] अथ तस्य जन्मनि कोऽपि विशेषः, यथा –

तदा तत्र माया मिलद्-बाल्य-काया

तदीयानुकूल्यं कृपा-मात्र-मूल्यम् ।

सदा कुर्वती तं समस्तान् अतीतं

विधायाग्रजातं स्वयं प्राप जातम् ॥३३॥

[९६] अथ स्निग्धकण्ठेन भावितं स-प्रमाणः खल्व् इदम् – अदृश्यतानुजा विष्णोः सायुधाष्ट-महाभुजा [भा।पु। १०.४.९] इति श्री-भागवताद्, तच् च नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महा-मनाः [भा।पु। १०.५.१] इत्य् आदिष्व् आत्मज-पदैः स्थापना-व्यपदेशतः सदेश-रूपम् एव निरूप्यते । किन्तु तद् इदम् अप्रच्छन्नं विविच्य पृच्छामः यथेह सन्देहः सर्वेषां शाम्यति । [९७] स्पष्टम् अप्य् आचष्ट – अहो आर्य तर्हि कथं वसुदेव-देवकी-पुत्रतया सोऽयम् अवधार्यते ?

[९८] तद् ईदृग्-वचसि सति स्निग्धकण्ठे वचसि किञ्चित्-कुण्ठेन मधुकण्ठेन मनसि भावितम् – श्रीमता देवर्षिणेदम् आवां प्रत्य् अतिहर्षेणादिष्टं – यदि कदाचिच् छ्रीमति महा-प्रेमवति व्रजे कृत-व्रजनयोः कथा-योगो भवतोः सम्भाव्यते, तदा श्री-कृष्ण-देवस्य सर्वतो वर्ष्यम् ऐश्वर्यं गोपनीयम् इत्य् अतो मुनिवर्ग-प्रसिद्ध-गर्ग-सिद्धान्तम् एवालम्ब्य संवदिष्यावहे । स चामीभिः श्रुत एवेति नाश्चर्याय पर्यवसिष्यतीति ।

[९९] प्रकटं चोवाच – अत्र खल्व् इदम् अस्य श्री-व्रज-राज-तनूजस्य रहस्यम् उद्भावयतो मम समतिक्रमः स्वयम् अमुनैव बाढं सोढव्यः । तथा हि अस्मिन् सर्वतो लब्धातिरेकका संसिद्धिः खल्व् एका वर्तते । यद् अतिक्रान्त-सर्वेह-स्नेह-मय-हृदय एव सदा वर्तमानः स्निघ्दता-दिग्ध-जनानां भाव-मुद्रया परोक्षं कृतयापि स्वहृदि प्रतिबिम्बततया मुद्रितो भवति । अस्य स्वरूपेणाविर्भावश् च स्नेह-मय-स्फूर्ति-पूर्ति-वशीभावत एव सर्वथा, न त्व् अन्यथा । पुत्रतयाविर्भावे च बीजं पितृ-भाव-मय-स्नेह एव नान्येषाम् इवान्यत् । जाते च कुत्रचित् पुत्रतयाविर्भावे तत्-तत्-सम्बन्ध-मय-स्नेह-कृत-चय-स्फूर्तिर् एव तथा तथा भावेनाविर्भावे निबन्धनं भवति ।

[१००] तद् एवं स्थिते सर्वतः समुद्बुद्ध-शुद्ध-पित्रादि-भाव-विचित्राणां व्रज-नृपति-प्रभृतीनां भृति-भुक्-पर्यन्तानां व्रज-जनानां येषाम् अधिमध्यं प्रति-द्विपरार्धं प्रतिकल्पम् आविर्भवति, वृद्धि-जीविकानाम् इव तेषाम् एव प्रेम-सञ्चय-पर्युदञ्चन-प्रपञ्चम् अञ्चंस् तद्-वृद्धेर् अपरिच्छेद्यताबुद्ध्या प्रतिदातुम् अध्यवसायं मुञ्चन् सदा पुत्रादितया स एष विराजते, नान्ये तु तत्र किल तिलम् अप्य् अवकाश-कालं लभन्ते ।

[१०१] एतद् एवोक्तं ब्रह्मणा एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नः [भा।पु। १०.१४.३५] इत्य् आदिना । एतद् एव च श्री-नारायण-देवेन समादिष्टं – योऽसाव् अतसी-कुसुम-सुषमः सुकुमारः कुमारः इत्य् आदिना । ततश् च –

तस्मान् नन्दात्मजो ऽयं ते नारायण-समो गुणैः । श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥ [भा।पु। १०.८.१९]

इति गर्ग-वचनानुसारेणेदम् उत्प्रेक्ष्यामहे – एतद्-रूप-स्वपुत्र-मात्र-पर्याप्त-सर्व-स्वार्थेन श्रीमद्-व्रज-महेन्द्रेण महीयमानस्य यस्य महाभगवतो या योगमायाख्या दुर्घट-घञनी स्वरूप-शक्तिः शास्त्रेण वक्तीक्रियते । तेन किल दत्ता सा त्वत्-पुत्रे श्री-कृष्ण एव पर्यवस्यति स्म । सा चेह स्वजन-स्नेह-निक्षिप्त-चित्तस्य यद्यप्य् अस्य तत्-पुत्रस्य प्रायोऽवधानं न प्राप्नोति । तथापि तस्माद् अन्यस्माच् च परोक्षम् अनुक्षणम् अनुगतिं लीला-सहायकं च प्रपञ्चति । यथा च योगमाया तथा तद्-अनुगता मायादयोऽपीति । यद्यप्य् एवं तथापि त्वत्-प्रभु-प्रत्त-शक्तिम् एनं त्वम् एव निज-श्री-प्रभृति-शक्तिभिर् गोपायस्वेति गर्गो व्यञ्जितवान् । तद् एवं सति बहूनि सन्ति नामानि रूपाणि च सुतस्य ते [भा।पु। १०.८.१५] इत्य् अपि तद्-उक्तिर् उद्रिक्तीस्यात् ।यतः स्व-स्निग्ध-जन-भजन-रसावेशितावेशतया सदा विराजमानस्य श्रीमद्-व्रज-राजात्मजस्य खल्व् अस्य स्व-स्निग्ध-जन-भाव-स्वभाव-विशेष-विनोदम् अनुमोदमानस्य तद्-भाव-रूपानुरूपं रूपं यदृच्छावशाद् एकधानेकधा च समीपतोर्ऽसमीपतोऽप्य् आविर्भवति तिरोभवति च ।

[१०२] ततः श्री-वसुदेव-देवक्योर् अन्तर् यच् चतुर्भुजम् अस्य रूपं स्फुरति, तद् एव हि बहिर् आविर्भवति स्म । फलेन फल-कारणम् अनुमीयते इति न्यायेन । तेनैव च न्यायेन श्री-व्रजेश्वर्योस् तु परं द्विभुज-मूर्तितया स्फूर्तिर् आसीत् ।

ततः प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [भा।पु। १०.८.१४] इति धृत-तपो-वर्गस्य गर्गस्य वचनम् अनुसृत्य परामृश्यते । यदा नृशंस-कंस-भिया स्वाविर्भूत-चतुर्भुज-रूपाच्छादन-पूर्वक-द्विभुज-रूपाविर्भावनाय श्री-देवकीच्छा जाता, तदा तस्य यद् अपूर्वं द्विभुज-रूपं पूर्वं मायया सह श्री-यशोदायाः स्वान्तरम् आयातं, तद् एव तत्र सन्निधानम् अवाप्य चतुर्भुजं रूपम् अन्तर्भाव्य स्वयम् आविर्बभूव । यत्र साकारतया मातृ-गर्भ-स्थितापि माया निराकारतया तूर्ध्व-गत्या तन्वा तद्-वाहनताम् आगता । गन्दवाह-श्रेणी नील-कमल-दलम् इव तत्र सर्वालक्षिततया तत् प्रापितवती । या खलु पूर्वं तद्-आकर्षेण धर्षेण परं मातरम् अपि मोहेन म्लापितवती ।

[१०३] अथ पुनस् तेन गर्भस्थेनाकारेण मातुः प्रसूति-भ्रमं च सम्प्रथय्य बहिर् आत्मनं संवलय्य प्रसूति-शय्याम् एवाधिशय्य स्थितवती । या खलु श्री-देवकीतः श्री-रोहिण्यां सङ्कर्षण-सङ्क्रमणेऽपि तथा प्रक्रमते स्म इति ।

[१०४] अत्र च स्निग्धकण्ठेनान्तश् चिन्तितम् – सत्यम् एवाह स्म नूनं अथाहम् अंश-भागेन [भा।पु। १०.१.२९] इति हि मायां प्रति श्री-भगवद्-वाक्यम् आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति [भा।पु। १०.१.२५] इति च देवान् प्रति ब्रह्म-वचनम् । अत्र अंशभागेन चतुर्भुज-रूपेणाकार-भेदेनेति भगवद्-अभिप्रायः । कार्यार्थे तत्-तन्-मोहनाय अंशेन सम्भविष्यति श्री-कृष्णस्य द्विभुज-रूपेणाकार-भेदेन सह मिलिष्यति सेति ब्रह्मणोऽभिप्रायः । तद् एवम् एव हि व्याख्यातम् अन्यत्र श्री-भागवत-तत्त्वविद्भिः अवतीर्णौ जगत्य्-अर्थे स्वांशेन बल-केशवौ [भा।पु। १०.३८.३२] इत्य् अत्र स्वांशेन मूर्ति-भेदेनेति ।

[१०५] अपि च श्री-व्रजेश्वर-सम्बन्ध-निबन्धना या कृष्णे योगमायाभिव्यक्तिर् उक्ता सा सिद्धान्ततोऽपि सिद्धताम् आसीदति । भगवतः खलु प्रियजनेच्छाम् एवानुगच्छति सर्व-शक्ति-व्यक्तिर् न तु यदृच्छाम् इति ।

[१०६] अथ सर्वे साश्चर्यम् ऊचुः – भवतु नाम तत् तत् । किन्तु ततः किम् अनन्तरं जातम् ?

[१०७] मधुकण्ठ उवाच – अनन्तरं तु चतुर्भुजताविर्भावानुरूप्यतः प्रव्यक्त-योगमायस्य तस्य प्राग्-उपदेशतः श्री-वसुदेवः सर्वत्र मायिक-शायिकायां जातायां पूर्व-देव-भिया द्विभुजम् अत्रकीयं बालकम् अत्रानीय तया बालिकया विमिलितवान् । सोऽयं तु तेनेश्वरता-प्रत्यायकेन चतुर्भुज-रूपेणोपदेशेन च न तत्र जातकतां व्यञ्जितवान् इति पुत्रतां सन्देहितवान् । अत्र तु द्विभुज-रूपेण वचनादि-शक्तेर् व्यक्तेर् अभावेन च ताम् एव व्यज्य पुत्रताम् एव निदेहितवान् । श्रीमान् आनकदुन्दुभिस् तु तद् इदं सर्वं नानुसदधौ इति ।

[१०८] स्निग्धकण्ठ उवाच – नानुसन्दधातु नाम । तथापि यां तनयाम् अत्रकीयाम् अपमाय स्वयम् अपनिनाय तस्याः प्रतिदानस्यापि सद्-भावाभावात् कथम् इव न्यस्तेऽप्य् अस्मिन्न् आत्मीयतां प्रत्यपद्यत ? आगमादाव् अपि यस्य नन्दनन्दन-नन्दात्मज-नन्दज-नन्दतनय-बल्लवीनन्दनादि-नामानि तत्-तद्-अभीष्ट-प्रदतया निर्दिष्टानीति ।

[१०९] पुनः स-हासम् आह स्म – यस्य नन्दनन्दन इति नाम विपरीततया पठतापि क्रम-परीततयानुभूयते । तस्माद् एवम् अप्य् अस्मन्-नृपतेर् एव पूर्व-व्यञ्जितं समञ्जसं सञ्जनम् अञ्जसा तस्य लभ्यत्वायोपपलभ्यत इति ।

[११०] हसित्वा पुनर् उवाच – अथ स व्रज-देव-सुतस्य वसुदेवस्यागमन-प्रकारस् तु वर्ण्यताम् ।

[१११] मधुकण्ठ उवाच –

अङ्घ्र्योर् बन्धो व्यदालीद् अशयिषत जना द्वार-रोधा विदीर्णाः शेषश् छत्रं बभूव द्युमणिजनि-नदी प्राप्य केदार-भावम् । आगोपाधीश-गेहं वृति-रहितम् अभूद् गोकुलं कृष्ण-वाहं प्राप्य श्री-शूर-पुत्रं यद् इह तद् अखिलं कस्य किं ब्रूहि तत् तु ॥३४॥

[११२] स्निग्धकण्ठ उवाच – तद् अखिलं गोपराजस्य भाग्यम् इति ।

[११३] तद् एवं लब्ध-प्रथायां कथायाम् –

तयोर् माया-जाल-प्रथन-तुलया सङ्कथनया हरेः सा सा लीला नयनम् इव याता किल यदा । तदा बाष्प-स्तम्भअ-प्रलय-मुख-भावाः प्रतिपदं बभूवुर् ये वा ते कति कति च वर्ण्या व्रजसदाम् ॥३५॥

[११५] ततश् च तं रत्न-निधायं निधाय गते श्री-वसुदेवे कारणाभावात् प्रचलायितता-प्रचय-दोहं मओहम् अपहृत्य च गतायां मायायां श्री-व्रज-राज-जाया पुनः सम्भूतं सुतं साक्षाद् एव ददर्श । यथा विष्णु-पुराणे —

ददृशे च प्रबुद्धा सा यशोदा जातम् आत्मजम् । नीलोत्पल-दल-श्यामं ततोऽत्यर्थं मुदं ययौ ॥ [वि।पु। ५.५.२२] इति ।

[११७] यथा च –

बालं दिव्याति-दिव्यासित-मणि-वपुषं चन्द्रजिच् चन्द्र-वक्त्रं लोकातीताब्ज-नेत्रं द्यु-तरु-नव-दलोल्लङ्घि-शोभाङ्घ्रि-पाणिम् । किञ्चिच् चञ्चत्-करादि-म्रदिम-मधुरित-क्रन्दनाद् विश्व-मोहं पश्यन्ती गोप-राज्ञी तनुजम् अमनुत स्वं तदा चित्र-कल्पम् ॥३६॥ साम्राज्यं श्याम-भासां निधिर् अपि तद् इदं रूप-रत्नाकराणां भाग्यं लावण्य-भाजां विलसित-निगमस् तत्-तद्-अङ्गावलीनाम् । एवं मीमांसमाना व्रजपति-दयिता यावद् आस्ते स्म तावत् क्रन्दन्न् ओम् ओम् इतीत्थं नव-शिशुर् असकौ तद् ध्रुवं स्वीचकार ॥३७॥ दृष्ट्वा पुत्रम् असौ व्रजेश-गृहिणी सद्यः प्रजातं सखीर् आहूता न शशाक कर्तुम् अपि चेद् आस्तां परं चेष्टितम् । अस्रैर् आवृतम् अक्षि-कण्ठम् अथ यत् स्तब्धं च तस्या वपुस् तस्मिन् लालन-लालसा-वशतया चात्मात्मना व्यग्रितः ॥३८॥

किं च –

यदा माया गता तर्हि व्रजे मोहं जहौ जनः । कदा यदा ह्य् आविरासीत् तत्र श्री-पुरुषोत्तमः ॥३९॥ तदा व्यवहितानाम् अप्य् एष प्राकाशयन् मनः । कुमुद्वतीनां सुमनो-गणं वा शीत-दीधितिः ॥४०॥ स्फुरति स्म परं मातुः शय्यायां न स बालकः । स्निग्धानाम् अपि चित्तेषु स्वच्छेषु प्रतिबिम्बवत् ॥४१॥ स्फुरति स्म यदा बालस् तासां व्यवहितोऽपि सः । तं द्रुतं तास् तदा जग्मुः सारङ्ग्यो वा घनागमम् ॥४२॥ रोहिण्यादिभिर् एताभिः समम् आलोकि बालकः । उदयत्-पूर्ण-चन्द्रो वा चकोरीभिः समन्ततः ॥४३॥ स्तम्भेऽपि स्मेर-नेत्राभ्यां पश्यन्तीं सुतम् एव ताम् । प्रतिकार्यां विचार्यामूः पर्यालोचन्त तं ततः ॥४४॥ ता एता मनसा दृशा कलितम् अप्य् अत्रासितं बालकं सन्देहास्पदताम् अनैषुर् असकृद् यत् तत् तु योग्यं मतम् । यद् वस्तु प्रथितं सुदुर्लभतया तद् दैवतो लभ्यतां किन्त्व् एतत् प्रथमं प्रतीति-पदवीं नात्मन्य् अलं यच्छति ॥४५॥

तद् यथा –

नव्येन्दीवरम्-माल्यम् अस्ति किम् इदं किं शक्र-नीलं महत् किं वैदूर्यम् अहो तद् एतद् अतुलं ज्ञातुं न यच् छक्यते । पश्यामः किल बालकस्य तु तनुं सर्वेन्द्रियाणां कृतिं रुन्धाना खलु या तनोति नयन-द्वन्द्वस्य निर्द्वन्द्वताम् ॥४६॥

[११८] तत्र च – निर्मितं किल मृगमद-सौरभ-तमाल-दल-सारेण, अभ्यक्तं किल निखिल-विलम्बक-लावण्येन, उद्वर्तितं किल निज-देह-तेजसा, स्नातं किल निज-मुख-निर्यत्-कान्ति-सुधया, अनुलिप्तं किल जननी-दृष्टि-कर्पूर-लब्ध-सङ्घृष्टि-भद्र-श्रिया, भूषितं किल सहज-शुभता-रूषित-निजाकारेण इति सद्यो-जातं तद् अपत्यं वितर्क्य मिथः-कृत-समागमाः सर्वाः पुनस् तं बालं लब्ध-तमाल-पत्र-भोग-मृग-भेद-मृगमद-सार-पङ्कम् इव कोमलाङ्गम्, निज-कर-चूर्णिततम इव चूर्ण-कुन्तलम्, वहन्-मुख-विधु-बिम्बम् ईक्षयन्तं सर्व-मनांस्य् आक्रष्टुम् इव करौ मुष्टीकुर्वन्तं, तरणिजा-निजागुरु-तरङ्गम् इव कर-चरण-कमलं चालयन्तं विलोकयामासुः ।

[११९] तद् एवं विलोक्य च –

सर्वास् ताः कलकलम् एव मोद-युक्ताः

कुर्वत्यः परम् अविदुर् न तत्र कृत्यम् ।

एका तु द्रुतम् अथ सुष्ठु-धीर-चित्ता

तं कम्प्रे कर-युगले दधत्य् अपश्यत् ॥४७॥

[१२०] ततश् च पुम्-अपत्य-चिह्नम् अह्नायावगत्य तासां प्रत्येकम् अपि समीहितम् । यथा –

अहो शिरसि धारये नयनयोर् मुहुः स्पर्शये

हृदि प्रचुरम् अर्पये हृदय-मध्यमावेशये ।

इदं विविध-भावनं भृशम् अतीत्य वीचिक्षिषा

बलाद् वर-दृशां दृशां विषयताम् अनैषीद् अमुम् ॥४८॥

तत्र च –

मुहुर् अहो तनयं नयनं गतं

प्रमदतः प्रणयन्त्य् अपि नातृपत् ।

घन-रुचिर् जननी-स्तन-युग्मजाम्

अमृत-वृष्टिम् अधाद् अपि दृष्टिजाम् ॥४९॥

[१२१] ततश् चात्यर्वाग् अर्ह-शिशु-स्नपनादि-पर्वानुसन्धानतः सर्वासां सावधानता-विधाने जाते –

रोहिण्याज्ञाम् अनु पति-सुत-श्रेयसी वृद्ध-विप्रा

वृत्तं विज्ञापयितुम् अतुलानन्दम् एति स्म नन्दम् ।

वक्त्रोल्लासात् पलित-वलनाद् अम्बराच् छुभ्र-धामा

धाम्नां हास-प्रथिति-तुलिता या जवान् निर्जगाम ॥५०॥

[१२२] अथ तद् एतत्-पर्यन्ते वृत्ते वृत्ते, जात-तत्-तद्-भाव-सम्पदः सभासदः प्रतिकृताञ्जलितया स्थितयोर् मधुकण्ठ-स्निघ्दकण्ठयोर् मधुकण्ठः प्राह स्म–

व्रजेन्द्र सोऽयं पुत्रस् ते सदः-साद्भुत-सम्पदः ।

जन्म-मात्राज् जन-श्रेण्या नन्दन-श्रेणि-जन्मदः ॥५१॥ इति ।

[१२३] ततश् च तौ निजोपकण्ठोपम् अनु व्रज-राज आजुहाव । आगत्योश् च तयोः शिरसि कर-सरोरुहम् आधाय निजालङ्कारैर् अलञ्चकार । सर्वं च तत्-सम्प्रदायं बहु-सम्प्रदानेन सम्प्रदानम् अकरोत् । उवाच च – अद्य वासः समासाद्यतां भोजननाद्य्-अर्थम् इति । सर्वान् प्रति चोवाच – पुनर् एवं प्रातः प्रातर् आयातव्यम् इति।

[१२४] अथ गो-सम्भालनार्थं पितरम् अनुज्ञां समभ्यर्थ्य मातरं च वन्य-भोजन-प्रस्थापनं प्रार्थ्य सूत-कुमारअयोश् चात्म-सङ्गमनं समर्थ्य कृत-व्राजे व्रज-युव-राजे सर्वे यथा स्वम् आवासं ययुः ॥

इति श्री-श्री-गोपाल-चम्पूम् अनु

**कृत-पूरण-व्रज-वर्ति-तृष्ण-श्री-कृष्ण-जन्म-सम्पन्-मयं **

नाम तृतीयं पूरणम्

॥३॥

(४)

२। अथ चतुर्थ-पूरणम्

३। नन्द-नन्दन-पर्व [१] अथ पूर्वेद्युर् मधुकण्ठः कृती यथाचीकृतत्, एवम् अपरेद्युश् च व्रज-देव-सभायां भासमानायां सावसर-निदिग्धः स्निग्धकण्ठस् तत्-कीर्तिम् अचीकीर्तत् ।

[२] मधुकण्ठः सोत्कण्ठं पप्रच्छ—

प्राग् यद्वच् चरितं हरेर् अरसयद् वाग्-इन्द्रियं तद्वद् अप्य् अद्यास्वादयितुं ममेच्छतितराम् उद्यम्य कर्ण-द्वयम् । यद्य् अप्य् एकक एव भोक्तृ-पद-भाग् जीवस् तथापि प्रति- स्वं चक्षुः-प्रभृतीनि तानि च मुहुर् वाञ्छन्ति भोग-प्रथाम् ॥१॥

[३] तथा च स्निग्धकण्ठ उवाच—अथानन्द-समृद्धा सा वृद्धा गो-दोहनार्थं गोस्थानम् अध्यवस्थितान् मध्य-स्थित-श्रीमन्-नन्दोपनन्दादीन् विन्दति स्म । तत्र च—

अस्त-व्यस्त-गतिः प्रमोद-मधुरा पश्यन्त्य् अमून् अग्रतः किञ्चिद् वक्तुम् इवोद्यद् आस्य-वलना दीर्घायिताल्प-क्षितिः । हस्त-न्यस्त-फलादिर् एवम् अपि सा पुत्रोद्भवं व्यञ्जती यत् किञ्चिद् वदति स्म तत् पुनर् अवादीद् इत्य् अमी मेनिरे ॥२॥

[४] मधुकण्ठ उवाच—किम् उक्तवती सा?

[५] स्निग्धकण्ठ सस्मितम् उवाच—अस्माकं राजाद्य प्रजात-प्रजाः । कथं भवन्तस् तन्-मिलनाय नायान्ति? इति ।

[६] मधुकण्ठ सहासम् उवाच—ततस् ततः?

[७] स्निग्धकण्ठ उवाच—ततश् च तज्-जन्म-वृत्तामृत-नव-वर्षाभिः शिखिन इव गोपाः कोलाहलं कलयामासुः । श्री-गोपत्य्-अधिपस् तु वानस्पत्य इव पुलकाङ्कुर-कुलाकुलतया परं परमानन्दं व्यञ्जयामास, न तु वचसा ।

[८] मधुकण्ठ उवाच—ततस् ततः ?

[९] स्निग्धकण्ठ उवाच—ततश् च स्मित-सम्भ्रमादर-भर-कर्बूरितैः सर्वैर् वन्दितया नन्दितया च तया सत्वरया पलिक्नी-वरया स-निजाङ्ग-जात एव भवान् मङ्गल-सङ्गी भूयाद् इत्य् अपूर्वां सुख-पूर्वां वाचं प्रोच्य रोचना-कुङ्कुम-सङ्ग-लेप-सङ्कुल-सद्-अङ्कुर-फल-मङ्गले श्रीमद्-व्रज-राजस्य क्षेमङ्कर-करयोर् विन्यस्ते तेन विलोकित-कल्पः श्रीमान् उपनन्दः सानन्दं जल्पति स्म—इह दोहाय संहाय रंहसायमाना धेनु-सङ्घाः काम् अप्य् अविहाय द्रुतम् अस्याः सगृहाय विहाप्यन्ताम्।

[१०] तत्र सर्वे चामोद-गर्वेण प्रोचुः—अन्यद् वा यत् किञ्चिद् अस्या हितं समीहितं भवति । ततश् च—

आह्लादेन समं जज्ञे बालः किं किं स एव सः । एवं विविक्तुं नन्दस्य नासीन् मतिमती मतिः ॥३॥

[११] अथ श्रीमान् व्रजेशः स्वीकृत-धार्मिक-वेशस् तद् अपि बहुलम् अन्यद् अपि बहुलादिकं दानाय सञ्चकॢपे । यत्र सर्वश् च तथाभावाय खर्वशश् चकॢपे । सङ्कल्प्य च गृहे गन्तुं कृत-स्पृहे धृत-वेशे च तत्-तद्-वृत-व्रज-नरेशे श्री-राम-प्रसू-समादेशान् महा-गोपुर-देशाद् दुन्दुभि-द्वन्द्वम् उन्ननाद । तच् च वाद्य-विद्या-विदुर-व्यञ्जितं वाद्यं व्यक्तम् एवेदं मुहुर् वक्ति स्म—प्रादुर्भूतो नन्दानन्द इति । ततश् च—

अपि श्रुतम् अभून् निशि त्रिदिव-वाद्य-गर्जोजितं जितं जितम् इति स्वनं न तु विनिश्चितं कारणम् । तदा तद्-अनुवादि तत् कलयताम् अमीषां मुहुर् मुदा कलकला-रवं समजनि व्रज-प्राणिनाम् ॥४॥

[१२] अथ सम्मदेन मुहुर् लम्भित-स्तम्भारम्भतायाम् अप्य् उत्कण्ठयाकृष्ट इव तत्र च लब्ध-कम्प-सम्पत्तायाम् अपि केवलं स्वकृत-सेवेन नारायण-देवेन दत्त-हस्तावलम्ब इव धैर्यम् अवलम्बमानः स्वालयं प्रति व्रज-भूपालः प्रचचाल । ततश् च—

तद् वृन्दे गृहम् अभियाति बन्धु-वर्गा धावन्तः क्रम-मिलिता मिथः पुरोगाः । ये गङ्गा-झरम् अनु निर्झर-प्रभेदा यद्वत् तत्-तूलिततयानयन्त वृद्धिम् ॥५॥ अथागताः पुर-वनिताः पुरः पुरः सहस्रशः कलित-शुभायुतायुताः । व्रजेश्वरं पुरु निरराजयन् जयन् नवात्मज-प्रभवमहे महेहया ॥६॥ ततश् च कोलाहलिभिर् व्रज-स्थितैः समं गतः श्रील-महा-व्रजेश्वरः । स्वरांस् तु सालङ्कृति चार्व् अशूशुभन् नभः-सभं पूर्ण-सुधांशुवत् प्रभुः॥७॥ यद्यपि विप्राः सहसा स्वयम् आगतये कृतोद्यमाः सर्वे । तद् अपि तद्-आदर-विधये राज्ञाहूताः पृथक् पृथक् प्रथमम् ॥८॥ सुखाविष्टस् तस्मिन् मधुरम् उपविष्टैः सदसि तैर् महा-स्निग्धैः शर्म-प्रकर-परिदिग्धैः परिवृतः । पठद्भिः पुत्राशीर् उचित-निगमं भूसुर-वरैः किरद्भिर् दूर्वाद्यं शिरसि सुख-पूर्वं स महितः ॥९॥ सस्ने यत् परिचस्करे वपुर् अपि स्वस्ति-श्रुतिः शुश्रुवे श्रीमन्-नन्द-महात्मना सुत-जनौ तत् तत् स्तुवे नापरम् । अद्यापि स्फुटम् एति सर्व-जनता येषां श्रुताद् अप्य् अहो स्नानाद्य् अप्य् अतिगम्य सत्कृति-फलं यस्यास्ति नान्तः क्वचित् ॥१०॥

[१३] अथ जात-कर्म भव्यं कर्तव्यम् इति गुरुभिर् आदिष्टेन तेन तत्-प्रत्युत्क्रमश् चक्रे, यथा—

आनर्चिरे व्रजेशित्रा मातृका यास् तदा तु ताः । मातुः कम् इव कं यासाम् इत्य् अर्थ-व्यक्तिम् आगताः ॥११॥ अथ नान्दीमुख-श्राद्धं राद्धं गोपाल-पालिना । पितरो हि स्वयं यस्मिंस् ते नान्दीमुखतां गताः ॥१२॥

[१४] अथ वेद-विधान-पटुभिः सार्धम् अन्तःपुरं प्रविष्टे भद्र-कुम्भादि-भद्र-विशिष्ट-सूतिका-गृहाग्र-वेद्य्-उपविष्टे श्री-व्रज-कुल-महिष्ठे परम-मनोरथारोहिणी रोहिणी तद् अवधाय कुल-त्रय-यशो-दायि-यशोदा-खट्टाम् अन्तः-पटेन व्यवधाय बालं पिधाय गृहावग्रहणीम् आनिनाय । किन्तु नव-बालकं विलोकयितुं शर्मणा नर्मणा च निजालङ्कृत्य्-अर्थं प्रजावत्यस् तं प्रत्यभितः किम् अपि किम् अप्य् अमूल्यता-पर्याचितं याचितवत्यः प्रतिश्रुते तु तं विलोकयामासुः ।

[१५] स च खल्व् अस्तोक-रोक-लोक-वलय-भव-प्रबल-नव-कुवलय-कुलपति-दुर्लङ्घ-शोभा-सङ्घं दुर्लभ-कोमलामल-कान्ति-विश्रान्ति-भूमिं, कलित-मर्म-प्रयतन-कर्म-विश्वाद्भुत-विश्वकर्म-निर्मित-निर्मल-नील-चिन्तामणि-प्रतिमा-प्रतिप्रतीकातिक्रम-परिमित-सर्वावयवं, प्रबल-प्रवाह-दलित-चर-बाल-वायज-समवायज-मञ्जुलाञ्जन-कलित-तल-निश्चल-जल-कालिन्दी-ह्रद-जालज-बाल-शैवालक-रुचि-रुचिर-रोचिर्-वलिताराल-श्लक्ष्ण-बाल-समुदायं, कमलालया-कर-किशलय-सित-लसित-सित-कमलान्तर्-वलय-दल-निर्मल-विलोचनं, वैकुण्ठ-स्थित-कल्प-तरु-तल्लज-पल्लव-कुण्ठताकर-कर-चरणाधरं, निपीत-कनक-रुचि-शुचि-पीतन-पीतिताम्बरावरण-रोचनं रोचनं बालकम् आलोचयन्न् आत्मानं नयन-पयः-पयसा स्नपयन् विलक्षणतया क्षण-कतिपयं जलवद् आसीत् ।

यद्यपि बहुविध-भावा, जाता गोष्ठेशितुस् तर्हि । तद् अपि च जाड्यं बलवज् जज्ञे गाम्भीर्य-शीलस्य ॥१३॥

[१६] अथ चिराय धीर-भावं धारितवती व्रज-धरित्री राज्य-श्रीमती तद्-आनन्द-स्पृहिणी नव-नन्दनम् उपनन्द-गृहिणी तद्-उत्सङ्ग-सङ्गिनं चकार ।

उत्सङ्गं वहति शिशुं व्रजाधिराजे सा दूराद् अधिशयिता प्रसूति-शय्याम् । आसीत् तच्-छ्रवणज-बाष्प-रोमहर्ष- स्तम्भाद्यैर् विवश-तनूर् व्रजाधिराज्ञी ॥१४॥

[१७] अथ तत्र मेधा-जनकं कर्म शर्मान्त-नामभिर् निर्ममे, यत्र भूस् त्वयि इत्य्-आदिकं पठित्वा हेमान्तर्हितयानामिकया बालो घृत-लवं लेहयामासे । अथायुष्य-क्रिया क्रियते स्म, यत्र ओं दिवस्पति इत्य् आदिकेन डिम्भः स्पृष्टः । दिक्-चतुष्टये मध्ये च ओं हृदम् अन्नं प्राणाय इत्य् आदिभिर् भूमिश् चाभिमन्त्रिता । अथ ओं अश्मा भव इत्य् आदिना पुनर् अर्भकोऽभिमृष्टः । ततः ओं इडासि इत्य् आदिना तन्-माताभिमन्त्रिता । पुनर् मातुः स्तन-द्वयं ओं इमं स्तनम् इति, ओं यस् ते स्तनम् इत्य् आभ्याम् ऋग्भ्यां क्रमेण प्रक्षालितम् । ततश् च तम् उत्तान-शायिनं सूतिका-शय्यायां निधाय तच्-छिरः-प्रदेशे ओं आपो देवेषु इत्य् आदिनोदपात्रं निहितम् इति ।

[१८] तद् एवं जात-कर्म-शर्मणि निर्वृत्ते बाल-नाभि-नाले च प्राप्त-च्छेदन-काले वृत्ते परमानन्द-सन्दोहेनानवहित-प्राया या सैव तदैव तद्-अवधात्री धात्री सपुलक-काया चित्रम् इदम् इति द्वि-त्रि-वारम् इदम् निवेदितवती—राजन्! इतरत्र नाभि-सरसि नालम् एव लक्ष्यते, न तु नालीकम् । अत्र पुनर् नालीकम् एव न तु नालम् इति ।

किं च—

अङ्घ्र्योर् व्यक्त-दरारि-वज्र-कमलाद्याश्चर्य-चिह्नैर् अलं कम्रैर् उज्ज्वलितां तथा कर-युगे तैः कैश्चिद् अन्यैर् अपि । पश्य श्री-व्रजनाथ नीरद-रुचेर् बालस्य सामुद्रको- ल्लङ्घि-श्री-विभवस्य देह-वलनाम् अस्मासु चित्र-प्रदाम् ॥१५॥

[१९] तदा च सर्वस्मिन्न् अपि विस्मित-चर्या-पर्याकुले बटवः सहास-पाटवम् ऊचुः—अये! सर्व-शर्मद! निर्मल-धर्मणो भवतः कथम् अशौचं नाम सामर्थ्यं समर्थयताम्? यतो नाडी-च्छेद एव वृत्ते तद् आमनन्ति स्म।

[२०] तद् एवम् उल्लसन् निखिल-रोम-समुत्फुल्ल-मुख-सोमः परिवारित-बटु-स्तोमतया बहिर् विहित-होम-स्थानम् आगम्य सम्यग् अर्पित-सर्वानन्दः सङ्गि-समर्पित-तत्-तद्-वृत्त-शन्तम-कन्दः श्रीमान् नन्दस् तान् दानीय-विप्रान् आनीय प्रदानारम्भं सम्भृतवान् ।

आरेभे स च दातुं, लेभे न तुलां तु सङ्गिनां तेषाम् । तादृश-तत्-प्रसव-श्री-वार्ता यैर् अर्पिता परितः ॥१६॥

तथापि—

अयुतं प्रयुतं नियुतं भवति दशानां सहस्रम् आरभ्य । नियुते विंशति-लक्षं तावद् धेनूर् अदान् नन्दः ॥१७॥ विंशति-लक्षं दत्त्वा धेनूः सौवर्ण-शृङ्ग-सङ्ग्य्-अङ्गीः । हृदयम् अपूर्णतयासीत् तस्यान्यस्मै प्रदानाय ॥१८॥ दशभिर् दशभिर् द्रोणैः कृत-तिल-सप्ताचलीम् अददात् । यद्-वृति-मणि-कनकानां तद्-अधिकतर-भारता द्विजैर् मेने ॥१९॥ तेभ्यश् च दक्षिणीयेभ्यः प्रत्ता या दक्षिणामुना । तयाप्य् अक्षीणयान्येषाम् अक्षीण्य् आश्चर्यम् आययुः ॥२०॥ बाडव्यानाम् असङ्ख्यानां नासीत् परिचितिस् तदा । ब्रह्म-वर्चसम् एवास्मिन् परिचायकतां ययौ ॥२१॥

[२१] तत्र ये विदित-वेदाभिप्राया विप्रा निज-निज-विद्यातिशायकाः सूत-मागध-वन्दि-कृशाश्वि-गायकाः स्वच्छन्द-नाना-शब्द-वादका वादकाश् च, ते सर्वेऽपि तस्मिन् पर्वणि सङ्गिनः सन्तः सुमङ्गलम् एव शब्दायमानाः पृथक्तायाम् अप्य् अपृथङ्-निस्वना इव विश्वं विस्माययन्ति स्म । यावद् एवं वृत्तं वृत्तम्, तावद् व्रज-स्थलम् अपि हृष्टम् इव दृष्टं, किम् उत व्रजस्थाः । यतः संसृष्टतया विक्षेप-शून्यम् इव संसिक्ततया स्निग्धम् इव, चल-चित्र-ध्वजादितया नृत्यद् इव चासीत् । तत्र च यदा गो-वृष-वत्सानाम् अपि स्वभावत एव भवतः सानुराग-स्नेहस्य तैल-विद्रावित-हरिद्रा-समक्ति-व्याजाद् बहिर् अपि व्यक्तिर् आसीत् । हर्ष-वैचित्र्यस्य च विचित्र-धातु-बर्ह-स्रक्-काञ्चन-माला-व्याजात् । तदा किम् उत गोपानां ते ह्य् अद्यापि यशसा विद्यमाना गो-पृथिव्याः पातार इतीव तथोच्यन्ते । ये खलु व्यञ्जित-रस-भावतया विधृतालङ्कारतया च स्व-वर्णन-काव्य-ग्रन्थैर् अभेदम् आययुः । उल्लास-विधृत-नाना-मणि-मय-बलि-पाणितया प्रेमणि स्वेषां वीरतां च व्यञ्जयामासुः । यदा चैवं गोपास् तदा पुनर् अतीव जीवनायमान-गोकुल-कुलेश्वरी गुण-गण-दिग्ध-स्निग्ध-हृदया गोप-वर-वर्णिन्यः कियद् वा वर्णनीयाः?

[२२] याः खलु पूर्वं तद्-अपत्य-समपत्त्य्-अभावान् निर्वेद-वेदनया त्यक्त-प्राय-परिष्काराः, सम्प्रति तु किञ्चिच्-चरण-प्रवण-तद्-अपत्य-श्रवण-मात्रेण विधृत-विविध-सुख-विकारास् तत्-पर्व-रञ्जनार्थं विलम्बनीयाम् अपि परिष्कृतिम् उरीकृत्य नृत्यन्त्य इव तत्-पुरीं प्रति चलिताः । याश् च व्यञ्जिजिषित-मङ्गल-सङ्गतया स्नेह-मय-कामना-परिणामतया च स्वयम् एव महा-मणि-मयोपायन-पाणयो बभूवुः। यासाम् आनन्दाद् अन्यद् एव शोभा-वैभवम् आविर्भवति स्म ।

तथा हि—

जित-कुङ्कुमम् उरु रुरुचे मुख-शशिनां रोचिर् एतासाम् । समुदितम् उदितं पर्वणि सुत-जनुषः श्री-यशोदायाः ॥२२॥

[२३] तत्र च गायन्ति—

अजनि यशोदा निशि सुत-सारम् । इति महिलालिर् इता तद्-अगारम् ॥ ध्रु ॥ सम्भ्रम-विरचित-बहु-विध-वेशम् । पथि माल्य-च्यव-पूरित-देशम् ॥ चल-मणि-कुण्डल-वलित-कपोलम् । अपरिकलित-गलद्-अंश-निचोलम् ॥ उच्छलित-च्छवि-चपलाहारम् । चित्र-वसन-वस-रसना-वारम् ॥ अपरस्पर-गति-विजितान्योन्यम् । सगणा व्यहसीद् इह चान्योन्यम् ॥२३॥ इति ।

किं च—

व्रजः प्रकटतां यातस् तत्र कृष्णश् च सङ्गतः । इत्य् अवाद्यन्त वाद्यानि वाद्याधिष्ठातृ-दैवतैः ॥२४॥ तस्माद् आनन्द-सन्दोहाद् उपनन्द-पुरःसराः । गम्भीरास् तेऽपि चाभीरा विजह्रुर् ननृतुर् जगुः ॥२५॥ तदा तत्रागता योषास् तं सदाशीर्भिर् अर्भकम् । निर्वर्ण्य वर्णयित्वा च परस्परम् इदं जगुः ॥२६॥ पाहि चिरं व्रज-राज-कुमार । अस्मान् अत्र शिशो सुकुमार ॥ ध्रु ॥ द्रुततर-वृद्धि-समृद्धि-गतेन । शं भवताद् भवताभिमतेन ॥ स्पृहयामस् ते हसित-मुखाय । अङ्गन-सङ्गत-रिङ्ग-सुखाय ॥ गो-बालावलि-लूमालम्बि । चलनं तव वलताम् अविलम्बि ॥ सह गो-शावक-गम-रमणेन । सुखयसि हन्त कदा कमनेन ॥ गो-गण-चारण-विहरणम् अस्य । स तु पश्येद् वर-भाग्यं यस्य ॥ दुष्ट-कदल-दद-सुष्ठु-बलाय । भव-शिष्टालि-विशिष्ट-फलाय ॥२७॥ इति सङ्गीत-सङ्गिन्यो रङ्गिण्यो मह-सम्पदि । पीता-तैलेन सिञ्चन्त्यः सिञ्चन्त्यः प्रययुर् बहिः ॥२८॥

ततश् च—

दधि-दुग्धादि-सेकेन मिथोऽमी शुभ्रतां गताः । तरङ्गा इव दुग्धाब्धेर् अनृत्यन् वर-गोदुहः ॥२९॥

[२४] अथ तास् तद् अवधाय तद् एव गायन्ति स्म, यथा—

पश्य सखी-कुल गोकुल-राजम् । पुत्रोत्सवम् अनु खेला-भाजम् ॥ ध्रु ॥ उदधि-प्रभ-दधि-सम्प्लव-देशम् । परितो घूर्णित-मन्दर-वेशम् ॥ मध्य-धटी-फणि-र्âजे कृष्टम् । हृद्य-सुहृद्भिर् अतीव च हृष्टम् ॥ मध्ये मध्ये दुर्लभ-दानम् । ददतं दधतं विस्मय-भानम् ॥ एकं पुनर् अलम् अभवद् अपूर्वम् । अजनि विधुर् बत यद् इतः पूर्वम् ॥३०॥ इति ।

[२५] एतद् अपि श्लोकयामासुः—

नेयं दुग्ध-विकीर्णि-पालिर् अपि तु द्राग्-वारि-धारा-गतिर् नेयं स्यान् नवनीत-पिण्ड-विसृतिर् मुक्तास् तु मुक्ताम्बुदाः । नेयं दीर्ण-हरिद्र-नीर-विकृतिः किन्तु प्रभा विद्युतां पर्वैवेदम् अतीव हर्ष-महसा वर्षा-वपुर् निर्ममे ॥३१॥ इति । बालस्य मातामहम् एत्य मातुलास् तदा गृहीताः कर-चोरका इव । दध्य्-आदि-पङ्केषु मुहुर् विकर्षणात् पितृव्य-वर्गेण विहस्य दण्डिताः ॥३२॥

[२६] श्रीमान् नन्दश् च—

महोदार-चित्तश् चितानेक-वित्तं समाहूय सर्वं गुणाजीवि-खर्वम् । विना तद्-विचारं वपुः-शक्ति-सारं समुत्क्षिप्य रत्नं ददे सातियत्नम् ॥३३॥

किं च—

ग्रहीता याचितान्य् अत्र प्रदाताङ्गीक्रिया-युतः श्रीमन्-नन्देन दाने तु तत्र जातो विपर्ययः ॥३४॥

अतएव—

विना याच्ञां ददाने तु सर्वं व्रज-पतौ तदा । कल्पद्रु-चिन्तामण्य्-आद्यास् तेऽप्य् आसन् कृपणा इव ॥३५॥

तत्र च—

अनेन प्रीयतां विष्णुस् तेन स्तान् मे सुते शिवम् । एवं प्रसभम् उद्भूता दाने नन्दस्य भावना ॥३६॥

[२७] अथ सर्वा जनता जनित-स्नान-कामा समम् अमुना यमुनाम् अयामास ।

[२८] तत्र चानन्देन श्री-नन्देन सह गलद्-व्रीडां जल-क्रीडां सन्तत्य निर्मल-परिमल-परिमिलन-पूर्वकं स्नानम् आतत्य दिव्य-वस्त्र-संवस्त्रणं वितत्य चन्द्र-चन्दन-समालम्भं प्रतत्य तत्रोटज-मध्यम् अध्यासीनां सिद्ध-प्रतन-प्रयतनतया पूर्ण-मानसां पौर्णमासीम् अनु नमनम् अवतत्य वन्दि-जन-जनित-विश्राव-पूरित-श्रवसा श्रवसा वलिता सा पुनस् तद् एव सदनम् आससाद ।

[२९] ततः श्रीमान् व्रजस्य राजा रुचि-दानानि रचयन् बन्धु-वृन्द-सिन्धुं पूरयामास ।

[३०] अथ तस्मिन्न् आनन्द-पीव्नि प्रतिदीव्नि श्री-राम-जनन्या श्रद्धा-यन्त्रिततया निमन्त्रिताः कृत-घृत-पक्व-जेमनाः सर्व एव पर्व-लक्ष्म्या पूरिताश् चन्द्रा इव स्व-स्व-मन्दिरम् अविन्दनन्त । विदित्वा च तद्-आनन्दं प्रति कृत-प्रतिजागरां जागराम् एव नृत्य-गीतादि-धन्यायां रजन्याम् अभजन्त ।

श्री-रोहिण्या हरि-जनि-सुखं शक्यते केन वक्तुं यस्माद् वेषं विविधम् अदधाद् भर्तृतः प्रोषितापि । चित्रं चित्रं सुकृत-वरिमा दृश्यतां विश्व-वन्द्यः श्रीमन्-नन्दोऽप्य् अमनुत निजं भाग्यम् आयातिम् अस्याः ॥३७॥

[३१] अथ सोऽयं रत्नाकरोऽपि व्रजस् तं हरेर् आविर्भावम् आरभ्याहरहर् विरह-रहित-तद्-विहरणाद् वर्धिष्णु-समृद्धिः काम् अपि चमत्कारितां वितेने । गोप-समवायात् क्रमाद् आविर्भूतानां प्रभूतानां परमाणां रमाणां रमण-धामतया तु किम् उत?

[३२] अथ मधुकण्ठेन चिन्तन्याञ्चक्रे—आं श्रीमद्-भागवत-संवादश् चात्र सम्भवति—

तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् । हरेर् निवासात्म-गुणै रमा-क्रीडम् अभून् नृप ॥ [भा।पु। १०.५.१८] इति ।

[३३] स्निग्धकण्ठस् तु विभाव्य पुनर् आह स्म—अहो महोत्साह-स्वभावतादिभिर् विराजमानता श्रीमद्-व्रजराजस्य । यतः—

तावन् मानं वितरणम् अहो सम्पदस् ताः कियत्यस् तावत् सङ्ख्यं महसि रचनं भृत्य-वर्गाः कियन्तः । तावत् प्रान्तं जन-सम-वनं कत्य् अमुष्यावधानान्य् एवं सर्वं व्रज-नरपतेः को नु शक्तो विवेक्तुम् ॥३८॥ इति ।

[३४] समापयंश् चोवाच—

ईदृशस् तनयो जातस् तव गोष्ठ-क्षितीश यः । लक्ष्मी-लक्षान्वितं कुर्वन् गोष्ठं निन्ये विलक्षताम् ॥३९॥

[३५] तद् एतद् वृत्ते च वृत्ते पूर्व-दिनवद् अखिला एव निज-निजालयम् आसादितवन्तः श्री-गोकुल-युवराजश् च गवां कुलम् इति ।

इति श्री-गोपाल-चम्पूम् अनु

श्रीमन्-नन्द-नन्दन-पर्व नाम

चतुर्थं पूरणम्

॥४॥

(५)

४। अथ पञ्चमं पूरणम्

५। पूतना-वधावधारणं [१] अथोत्तरेद्युस् तथा द्योतमानायां सभायां कण्ठ-ध्वनि-कृत-सर्वोत्कण्ठः शुभंयुर् मधुकण्ठः समाचष्ट, अये स्निग्धकण्ठ, श्रूयताम्—

[२] अथ तस्मिन्न् एवापदोषे प्रदोषे समस्त-देव-रूप-श्री-वसुदेव-सदेशतः सन्देश-हरः कोऽपि गोपितात्मा श्री-व्रजराज-चरण-राजीव-पीठ-पर्यन्त-धाम समाजगाम । स च श्रीमता तेन तदीय-प्रत्न-सेवक-रत्नतया परिचिति-युक्तः पर्यनुयुक्त-कुशल-ततिर् नमः समाचरन्न् उवाच—“रक्षांसि सर्वं भक्षयितुं जीवति भृशं नृशंसे कंसे किम् इव निरङ्कुशं कुशलम्? तच् च मम वेशेनैव वितर्क्यताम् । यद् अस्माकं तरण्या तरणं, तरणौ च सति कुत्रापि प्रस्थानं न सम्भवतीति बाहुभ्याम् एव सन्तरणात् तीर्ण-तरणिजः सार्द्र-वस्त्रः प्रदोषे समागतोऽस्मि ।”

[३] व्रजराजस् तु रुक्षं हसन्न् आह, “विशेषश् चेत् कथ्यताम् ।”

[४] दूत उवाच—“किम् अधिकया वैवधिकतया साम्प्रतम् अस्माकम् अजीवनिर् एव जीवातु-वल्ली, यया निजाधीशं तादृश-तद्-अधीनं न पश्यामः ।”

[५] व्रजराज उवाच—“सम्प्रति तं प्रति किम् अपि विशेष-वृत्तं वृत्तम् अस्ति?”

[६] दूत उवाच—“अथ किं? यत एव तदीय-चरण-हितः प्रहितस् तेनाहम् अयम् अस्मि ।”

[७] व्रजराज उवाच—“किं तत्?”

[८] दूत उवाच—“आनन्तर्येण पर्यवसिताया निशाया निशीथे श्रीमद्-ईशस्य तस्मिन् कारागार एव श्री-देवकी-देवीतः काचित् कन्या जाता ।”

[९] व्रजराज उवाच—“ततस् ततः?”

[१०] दूत उवाच—“ततः सा नव-सुता सुतरां गुप्तापि रुदती रक्षिभिर् अक्षिभिर् अलक्षितापि विदिता, वेदिता चान्तः-पुरीशय-सानुशय-दुराशय-दुरीशाय । स च श्री-देवकी-देवी-विवाह-गताहम् आरभ्य नभः-सभ्य-जन-वाणीतः सुष्ठु भीतः सततं व्यग्रतया जाग्रद् एव तिष्ठति । ततस् तद्-वचन-वर्णाकर्णन-मात्रेण समग्र-व्यग्र-मनाः विक्षिप्त-केशः स भोजेशः स-करवालः करालः स्खलद्-गतिः कुमतिः सूतिकागारम् आससार ।”

[११] व्रजराज स-भयम् उवाच—“ततस् ततः?”

[१२] दूत उवाच—“ततश् च निरवग्रह-ग्रह-वन् निरनुग्रहः सहसा रंहसा सूतिका-शय्याम् एव सज्जन् स निर्लज्जः प्रजाताया जात-परिवेदनाया देव्याः क्रोडतः समाच्छिद्य, तद् विद्यमानम् एव विक्षिप्तताम् एव विक्षिप्त-चित्तः क्षिप्रम् एव तां प्रस्तराय प्रक्षिप्तवान्, यतः सर्वतः स एव प्रतिक्षिप्तताम् आप ।”

[१३] अथ व्रजराज सास्रम् उवाच—“आः कथम् एतद् दुरक्षर-म्रक्षितम् अनक्षरम् अस्मासु श्रावितम्? भवत्व्, अद्याप्य् अवद्यम् इदं मदीय-संस्त्याये न प्रस्ताव्यम् । सा तु तद्-दुःख-दुःखिता श्री-देवकी-सखी तथा तद्-विरहिणी श्री-रोहिनी च मोहम् आप्स्यति ।”

[१४] दूत उवाच—“देव, श्रूयताम् अव्यग्रम् अग्रिमम् आश्चर्यम् ।”

[१५] व्रजराजः स-हर्षम् इवोवाच, “आयुष्मन्, कथ्यतां तथ्यम् ।”

[१६] दूत उवाच—“सा तु कन्या तस्यान्याय-भाजो भोजेशस्य हस्ताद् अस्तापि प्रस्तरम् अप्राप्ता, प्रत्युत तन्-मस्तक-न्यस्त-चरणम् ऊर्ध्व-गत्या समुत्पत्याशु दिव्य् अन्यद् एव दिव्यं रूपं स्मितवती प्रकाशितवती ।”

[१७] व्रजराज उवाच—“कीदृशम्?”

[१८] दूत उवाच,

“श्यामाष्टपाणि-परिवेष्टित-पार्श्व-युग्मा चक्रादि-शस्त्र-वलिता खग-सिंह-वाहा । देवादिभिः परिणुत-प्रसरत्-प्रभावा सर्वैः समुन्नत-मुखैः परितो व्यलोकि ॥१॥ [वसन्त] इति यादृशम् ।”

[१९] व्रजराजः साश्चर्यम् उवाच—“किं वदसि?”

[२०] दूत उवाच—“देव, नात्रान्यथा किम् अप्य् अन्यद् अपि कल्यम् आकल्यताम् । सा खल्व् इदं साच्छूरितम् अच्छम् उवाच,

‘रे पाप कंस किम् इति त्वम् अहन् मुधा मां त्वत्-पूर्व-शत्रुर् अजनि क्वचन प्रदेशे । यस्माद् उपेत्य निधनं तव जातु कर्ता तन् नान्यम् अप्य् अतिशिशुं क्वचिद् इच्छ हस्तम् ॥२॥ऽ” [वसन्ततिलका]

[२१] व्रजराजः साश्चर्य-स्मितम् उवाच—“नूनं श्री-वसुदेव-भक्ति-प्रणाली-पुत्री-कृता भद्रकाली । सा भद्रम् इदं वदति स्म यद् अद्यावधि नाधीरम् अवधीरितः सोऽयं वचसापि केनचनापि” इति ।

[२२] दूत उवाच—“आर्य-क्षितीश, पुनश् चेदम् आश्चर्यम् अवधार्यताम् । स खलु भ्रातृ-व्यपदेश-भ्रातृव्यः स्वस्य भगिन्य्-अष्टम-गर्भम् अनिष्टतया निष्टङ्कितं कुर्वतीं सुर-वर्त्म-वाणीम् अपि देव्यादिष्टः स्व-द्विष्ट-सुर-कॢप्तां मत्वा, तौ कारागाराद् आहूय भूयः, पाद-ग्रह-चर्या-पर्यन्ताग्रहतः पुत्र-षट्क-हत्यागस्-त्यागं भूरि-विसूरित इव विधित्सन् निगडान् मोचितवान् ।”

[२३] व्रजराज उवाच—“ततस् ततः?”

[२४] दूत उवाच—“ततश् च मदीय-श्रीमद्-ईश्वरी पुत्र-घातिन्य् अपि तस्मिन् सारल्य-दोषाद् एव रोषान् निविवृते । श्रीमन्-मद्-ईशिता तु विचारितवान्, ‘पूर्वं शुष्क-पेषं पिष्टवान्, सम्प्रति तु सर्पिः-पेषं पिनष्टि सोऽयम् अस्मान्ऽ इति । तद् एवं तत्-कौटिल्य-कोटिं परिकल्प्यापि सौजौन्य-प्राबल्याद् इह सारल्यम् एवावलम्बितवान् । तेन पितरि-शूरेण दुर्मतिनानुमतः शूर-नन्दनः सह-धर्मिण्या सह स्व-गृहम् आगतवांश् च, न पुनर् विश्वासम् आश्वासं च लब्धवान् । यतः,

जात्य्-अन्य-जनितः कंसः सदा दुन्वन् समाश्रितान् । मातरं च दुनोत्य् उच्चैः शिला-पुत्रः शिलाम् इव” ॥३॥ [अनुष्टुभ्]

[२५] व्रजराजः सहासम् उवाच—“तद्-अनन्तरं प्रातर् आरभ्य स पुनर् असभ्यः कां कारिम् अकार्षीत्?”

[२६] दूत उवाच—“स्वभाव-जां कारिम् एव । तथा हि, प्रातर् असौ दुष्टस् त्व् अन्यद् दुश्चेष्टितम् अनु चेष्टितवान् ।”

[२७] व्रजराज उवाच—“हन्त, कथय तत् किम्?”

[२८] दूत उवाच—“प्रातः स तु मलिनी-कृत-निज-कुलः खलिनी-पतिः स्वदयितान् दैतेयान् आनयामास निशामयामास च निशीथिनी-वृत्तम् । ते च भिन्न-सेतवः केतव इव राहु-निभम् एतं मिलिता व्यघ्र-वर्ग-निर्घोष-प्रभ-घर्घरायमाणां गोष्ठीम् अनुष्ठितवन्तः, किं बहुना, तत्र महेन्द्रादि-निर्जय-गर्जन-पर्य-वसानतस् तात्पर्यम् इदम् एव जातम्, यद् विश्वद्रीचां विष्णुम् अनुचरिष्णूनां देव-देवद्र्यग्-भूदेव-गवादीनां पीडनेनैव तत्-पीडनम् ईडितं, तथा तत्-सध्रीचीन-तया निर्दशा-निर्दशानां बालानां निर्दयतया निर्दलनम् इति खल्याम् एव बल्याम् अवलम्ब्य तत्र स च संवलते स्म । तया च तदानीं बहु सम्प्रयच्छते स्म ।”

[२९] व्रजराजस् तु तद् इदं रुषद्-वचनम् अवकलय्य सरुषस् ततः सत्रासम् उवाच—“तत्र श्रीमद्-भ्राता किम् अप्य् अक्लिष्टं मय्य् उपदिष्टम् अस्ति?”

[३०] दूत उवाच—“अथ किं? यत् खलु शीघ्रम् एवास्मै राज-व्याज-राक्षसाय सङ्गम्य बलिर् वलयितव्यो मिलितव्यश् चाहम्” इति । किं चेदम् अपि सन्दिष्टम्, “भवन्-नन्दनोत्पत्ति-समयं समया वयम् अत्युत्कण्ठितास् तन्-मङ्गलेन सङ्गम-नीयाः, तथा भवत्-पुत्र-निर्विशेषस्य तस्य बाल-विशेषस्य वृत्तिर् वर्तयितव्या” इति ।

[३१] अथ तद् एतद् अवकलय्य संशय्य च तं भोजनादिना योजयित्वा, निजाग्रजा-नुजान् आकार्य तद् अग्रे पुनस् तं तद् अनु रहसम् अनुव्याहारितवान् ।

[३२] तत उपनन्द उवाच—“युक्तम् एवानकदुन्दुभिना सन्दिष्टम् । साम्प्रतं करेणैव करेण राज-विष-धरस्य तस्य मुख-मुद्रणम् एव साम्प्रतम् ।”

[३३] अथ व्रजेशस् तं सन्देशम् उरसिकृत्य प्रातः-प्रायम् अधिगम्य दूतं निदिदेश, “सौम्य, भवान् व्यग्रम् अग्रतः प्रयातु, तद्-बालकस्य साङ्ग-मङ्गल-सङ्गितां तथा तस्य वाञ्छितम् अन्यम् उदयन्-मुदम् उदन्तम् अपि स्व-मुख-स्वस्ति-मुखत एव प्रथयतु । वयं तु भ्रातुर् आज्ञया राज्ञे करम् आचित्य प्राभृतं च परितः प्रचित्य दिन-पञ्चकानन्तरम् आगच्छन्त एव स्म ।”

[३४] तद् एवं गते दूते दिनान्तरे तु जातक-मातुः स्नान-विधाने कृत-सन्धाने सर्व-मङ्गल-सङ्गतम् अहः सङ्गत्य महन् महः सन्तत्य पुरोहित-सहित-हित-महित-पञ्चजन-जन-प्रपञ्चं यथा पुरःसरम् अन्तः-पुरम् आनायम् आनायं नव-बालकं गोपाल-भूपालः समालोकयामास । तथा हि,

तस्मिन् पुण्याहवर्ये व्रज-नृपति-शिशोर् आदि-वीक्षा-सुधाभिः सत्रं जज्ञे तथा तच्-छ्रवण-परिमलाद् एव शक्ता यथा ते । आजन्म-प्राप्त-सम्पन्-मृदुतर-तनवोऽप्य् आत्मना प्रीति-दानान्य् ऊहुर् भारायमाणान्य् उत दधुर् अमितान् स्वेद-रोमाञ्च-बाष्पान् ॥४॥

[स्रग्धरा]

श्रीमद्-गोप-नृपेण नूतन-तनूजातस्य वीक्षा-कृते प्राग्र्या एव निमन्त्रिता व्रज-जनाः सर्वे तु तत्राययुः । यर्ह्य् अम्भोज-वनाकरः स्व-कुसुम-व्रात-प्रकाश-प्रथा- व्याप्तः स्यात् किम् उ तर्हि षट्पद-गणान् आकारयत्य् आत्मना ॥५॥ [शार्दूल] पर्यग् द्वारिणि राङ्कवास्त-रचिते विस्तीर्ण-गेहे यशो- दाद्य्-अग्रे स्थविरोपनन्द-गृहिणी-क्रोडे विचित्रं शिशुम् । दर्शं दर्शम् अमी न यद्यपि गतास् तृप्तिं तथाप्य् उच्चकैर् नास्थुः पृष्ठ्य्-अजनावकाश-विधये शीलं हि मर्यादिता ॥६॥ [शार्दूल] “अङ्क-भ्राजि-शिशूपनन्द-गृहिणीम् आज्ञा मदीयेदृशी यन् मा मादृश-दृष्टि-सम्भ्रम-वशाद् उत्थात यूयं मुहुः ।” इत्य् एवं विनिगद्य याजक-गुरुः सम्मोद-सम्पन्-मिलत्- कम्पः साक्षत-पाणि साश्रु-नयनं स्वस्ति-श्रुतीर् ऊचिवान् ॥७॥ [शार्दूल] आगच्छन्तः स्व-गेहाद् अभिमुख-मिलिता बाल-वैशिष्ठ्य-पृच्छा- वन्तस् तद्-बाल-दृष्ट्या प्रमुदित-हृदयैर् ऊचिरे कैश्चिद् एवम् । “शोभा सा दृष्टि-गम्या न तु पर-वचन-श्रेणि-गम्ये”ति हर्षात् कुण्ठत्-कण्ठैर् अभावि प्रतिवचसि परैस् तत् तु नाश्रावि चान्यैः ॥८॥ [स्रग्धरा] आकैशोरं यत् परिष्कार-वस्त्रं यावद् धार्यं मास-मासं सुतेन । तस्मै तावत् तद्-विचारेण सर्वैः प्रत्तं पित्रा कोऽपि कोषो ह्य् अनन्तः ॥९॥ [शालिनी] शोभां विन्दन् नन्दजालोक-लोकः सद्मायासीत् कृत्रिमाकृत्रिमा या । वस्त्रादीनां चित्रता यत्र पूर्वा नेत्रादीनां चित्रतासीद् अपूर्वा ॥१०॥ [शालिनी] आगता निज-गृहं यदाप्य् अमूर् नन्द-बालम् अवलोक्य लोभनम् । हन्त तर्ह्य् अपि दिनानि कानिचित् मेनिरे दृशि-गतं व्रज-प्रजाः ॥११॥ [रथोद्धता]

[३५] अथ मथुरा-पथिकतां प्रथयिष्यमाणः श्री-गोकुल-कुल-राजस् त्व् अग्रजादीन् निज-प्रतिनिधितादि-कर्मणि निर्माय चलन्न् अन्तश् चिन्तितवान्, “हन्त, सुहृदि दुर्हृदि च मम मानसं समान-सम्बन्ध-हार्द-बन्धम् अपि प्रसभं भृशम् एव तत्र प्रसज्जति नव-जातके, येनासौ पीबिता जीविताशापि न परिच्छिन्नताम् इच्छति । सम्प्रति दुष्टस्याविप्रकृष्टम् अटन्न् अस्मि, नानुभवन्न् अस्मि किं भविता । तस्माद् विकलताविकलनाय विलोकं विलोकम् एव तं बालकं यदु-निलयं चलानि” इति ।

[३६] अथ गमन-समये च,

उत्सङ्गे निहितस्य तस्य तु शिशोर् वक्त्रं मुहुर् दृष्टवान् नामोदं चिरम् आददे निटिलकाद् गण्डाव् अचुम्बीद् भृशम् । आशिश्लेषतरां वपुर् न तु तदा तृप्तिं व्रजेशो ययौ यां पाथेयतया विवेद मथुरा-प्रस्थानम् आस्थाय सः ॥१२॥ [शार्दूल] वत्से श्याम पिता तवायम् अयितुं राज्ञः पुरं त्वत्-कृता- नुज्ञां प्रार्थयते ततो वितरताद्” इत्य् एष धात्रीरितः । आश्चर्यातुल-बाल-भाव-बलाद् बभ्रे स्मितं तेन च

श्रीमान् गोप-जनाधिपः प्रचित-धीः प्रस्थानम् आसेदिवान् ॥१३॥ [शार्दूल]

स्मारं स्मारं तन्-मुखं सुस्मिताक्तं व्यक्तं व्यक्तं गोपयन् प्रेम-धाम । आनन्देनानल्प-जल्पेषु गोपेष्व् आत्माराम-प्रायतां प्राप नन्दः ॥१४॥ [शालिनी]

[३७] अथ मथुराम् आसाद्य सद्य एव कराधिकारिषु करम् उपसाद्य तद्-द्वारा दूरत एव राजानम् अनुजानन्तं प्रसाद्य शकट-घटावमोचनम् एवानञ्च, न तु श्री-वसुदेव-सद्म, कंसे तेन साकं निजानासञ्जन-व्यञ्जनाय ।

[३८] स्निग्धकण्ठ उवाच—शिष्ट-द्विष्टि-विशिष्टोऽपि सञ्जात-जातक-द्वेष-पातकोऽपि पर-धनायया धनानुसन्धान-निर्बन्ध-सन्धोऽपि स कथम् अस्मिन् निगम-शिष्टि-संस्लिष्टे विचित्रेण पुत्रेक्षणेन पुत्र-क्षणेन च विस्मायित-सकले जगद्-वित्त-वित्ता-शकले सरलायते स्म ।

[३९] मधुकण्ठ उवाच—उक्तम् एव पुरा यत् प्रगुणतयाखिलसमञ्जसयशसः श्री-व्रजेशचन्द्रमसः खल्व् अस्य गुणेन गुणेनेव को वा बद्धो न भवेत्? इत् ।

[४०] स्निग्धकण्ठ उवाच—ततस् ततः?

[४१] मधुकण्ठ उवाच—ततो व्रज-त्रातरि तं भ्रातरम् अनु निर्जन-मिलनाय मन्त्रं वलयति पर्यकलितावसरः स श्री-शूर-तनूज-वरः स्वयं केवल-सेवक-विशेष-सङ्गितया संवलते स्म ।

[४२] अथ तेनाव्रजित-सदेशः श्रीमान् व्रज-महेशः सहसा महसावृततया साभ्युत्थानम् उत्थाय न्याय-परमः, कृत-तद्-अभिगमः स्वम् अनुजम् अनुरक्तः परिष्वक्तवान् परिष्वक्तश् चानेन न तु कञ्चित् कश्चिन् नतवान्, जाताव् एकस्य ज्यायस्त्वम् अन्यस्य तु जाताव् इति । न च केवलम् एतद् एव कारणताम् अवलम्बते, अपि तु परस्पर-प्रणयातिशयश् च, येनान्यन् नानुसन्धातुं शक्यते ।

[४३] एतद् एव च दृष्टान्तेन स्पष्टीकृतं श्री-बादरायणिना—देहः प्राणम् इवागतम् [भा।पु। १०.५.२१] इति । अत्र च देह-स्थानीयस्य गो-स्थान-पतेर् अस्मद्-ईशितुर् एवासक्तिर् अतिरिक्ता दर्शिता । प्राणः खल्व् अन्यं देहं सञ्चरति, देहस् तु तं विना न भवत्य् एवेति । स तु चतुर-शिरोमणिः स्वयम् एव रागतस् तच्-छिविरागतस् तेनातिथिवद् एव पूजितस् तद्-व्यवहारेण जितः । सम्प्रति जातयोः स्व-तनुजातयोः प्रसक्त-धीर् इदम् उक्तवान्—

“दिष्ट्या भ्रातः प्रवयस इदानीम् अप्रजस्य ते । प्रजाशाया निवृत्तस्य प्रजा यत् समजायत ॥” [भा।पु। १०.५.२३]

[४४] उपाधि-कृत-हानि-वृद्धिं विना कृत-स्नेह-समृद्धि-मय-देहतया गम्भीर-स्वरतया च पयः-पयोधिर् इवायं व्रजाधीश्वरस् तु तस्य सर्व-स्तुतस्य वंशान् कंस-कृत-ध्वंसान् अनुशोचन्, कर्म-वाद-रोचनया धैर्यं संवर्मयन्न् आत्मनश् च तस्य च शर्म सूनृतामृत-भृत-सन्तर्पणं कृतवान् ।

[४५] ततः श्रीमान् आनकदुन्दुभिस् तं कृत-कार्यम् अवधार्य भाव्य् उत्पातं विचार्य स्व-भवनम् एव गन्तुम् अनुमतवान् । श्री-व्रजराजस् तु वस्तुतश् चेतसा चेतः प्रचलित एव, सम्प्रति तु गेहं प्रति देहम् एवेहयामास ।

[४६] अथ व्रज-वृत्तम् अनुवृत्त्यताम् । यथा पूर्व-देवानां पूर्व-मन्त्रणायाम् आमन्त्रिता राक्षस-पक्षिणी निर्दशान-निर्दशांश् च देश-देशतः शावकान् बकान् इव श्येनी विनिघ्नती, कंसस्य निघ्नती वैरोचनि-कन्या रजन्याम् अस्यां व्रज-प्रदेश-सदेशम् आजगाम; या खलु जटा-घटा-विघटित-प्रकट-मुण्डा,

विशङ्कट-दंष्ट्रा-संसृष्ट-दष्ट-डिम्भ-कोटि-विकट-तुण्डा नेत्र-गर्त-वर्तमान-वर्त्म-लोम-समुद्दण्ड-कुण्डलि-खण्डित-ब्रह्माण्ड-वर्ति-धैर्या पक्षति-द्वय-मध्य-स्थित-वक्षः-स्थल-लम्बमान-वक्षोज-युगलोद्गीर्ण-दुग्ध-मिष-विष-विषम-ज्वाला-सह्य-बल-दह्यमान-पर्यन्ततया यन्त्रित-जन्तु-स्थैर्या चेत्यादि-महा-घोरतावहा, किं बहुना, प्रतीक-मात्र-प्राणि-प्रतीका पृथुकान् एव च पृथुकान् इव कुर्वती वर्तते ।

[४७] अथ सा श्री-व्रज-क्षितीश-रक्षित-गीर्वाण-वाण-ज्ञ-धानुष्क-भिया दुष्कर-स्वरूपं विहाय हारि-रूपान्तरं प्रातिहारिकतया धृतवती, येन खलु सम्पद्-अधिदेवीयम् अधिभूमि सम्पतन्ती निजाश्रय-विशेषम् अन्विच्छन्ती च सर्व-सल्-लक्षणतया कृत-लक्षणं सम्प्रति जातं श्री-व्रजराज-जातम् एव समाश्रयिष्यतीति मत्वा तस्या नूतन-वपुः पूतनायाश् चाकूतम् अमत्वा हारित-हृद्भी रक्षिभिर् न निवारिता रक्षिणीभिश् च नावधारिता; येयं पक्ष-पातिनी कंस-पक्ष-पातिनी सात्वत-भर्तुः श्रवण-कीर्तनादि-प्रदेशम् अनुवर्तितुम् असमर्था, तद्-बहिर्मुखानाम् अर्भकान् निघ्नती तत्-पक्ष-पातिन्य् एव लक्षिता । एवम् अप्य् अस्याः श्रीमद्-व्रजागमनादिकं तु कौतुक-विशेषाय साधयितुं योगमाया खलु योगम् आयान्ती बभूव, यस्याश् च हेतोर् अन्यत्र कुत्रचिन् नेत्रम् अनादधती सर्वम् अत्यादधती श्रीमन्-नन्द-मन्दिर-स्थं तम् एव बालकम् आलोकयामास । अङ्गार-धानी-सङ्गत-स्फुलिङ्ग-वद् अङ्गार-सङ्घम् इव तमसि पतङ्गी तं च योगमाया-कृत-प्राकृत-बालक-कल्पताकल्पनया यथावन् नानुबभूव, उज्ज्वल-गुञ्जा-पुञ्ज-तुलनया प्रज्वलद् इङ्गलम् इव ।

[४८] अयं तु श्रीमान् नन्द-नन्दनः स्व-तात-शुभानुध्यान-मय-योगमायया सेविततया जन्मत एव समस्त-ज्ञानादि-सम्पन्-मयतायां शस्तः स्वजन-स्नेह-वशंवद-बाल्यादि-लीला-सुखावेशेन तत्रानादृत्यातुल-तद्-व्यक्ति-व्यतिरिक्तीकृतस् तथाप्य् अवसरम् अवाप्य मध्यं मध्यं सा स्व-सेवाम् अध्यवस्यन्ती तत्र प्रादुर्भवति । ततः सम्प्रति च ताम् अन्तर्विकृताकृतिम् उपलभ्य भव्य-स्वभाव-रोचने लोचने निमीलितवान् ।

[४९] ततश् च सहसा पराभाव्य-धिया भिया विना भूता तम् अङ्कम् एव निःशङ्कम् आनीतवती, मूषिक-धिया सर्पन्ती सर्पी नकुलम् इव ।

[५०] स्निग्धकण्ठ उवाच—अग्रजन्मंस् तन्-मातरौ कथम् इव ताम् अपरिचितां न निवारितवत्यौ, न च विचारितवत्यौ?

[५१] मधुकण्ठ उवाच—पुरस्ताद् योगमायाख्यं कारणम् उपन्यस्तं, प्रक्रियान्तरं च तत्र तया क्रियते स्म । यथा, सा हि तत्रान्तर्-गूढाङ्ग-भुजङ्गी-सङ्गतायाः कूट-कनक-मय-पयः-कनकालुकायाः साम्यावगम्यं रूपं दधती, परितः स्रवद्-अस्र-धारा-वाराजस्र-स्तन्य-प्रवाहान् वहन्ती, स्नेहानुकारक-देहत एव ते मोहितवती ।

[५२] पुनश् चेदं सगद्गदं जगाद, “अयि यशोदे, त्वम् अपि हठोत्तरतया कठोरासि, सुतरां तु स्व-सुत-स्थित-चित्ताद्रोहिणी रोहिणी, यतः शयनतल एवेदृश-सुकुमारं कुमारं निधाय चिन्ताम् अविधाय नातिकृत-निष्ठं तिष्ठथः, न तु हृदये । प्राणा अपि हृदय एव रक्षणीयाः, किम् उत प्राणाधिकोऽयं सुतः? तस्माद् धिग् वो राक्षसीतोऽपि रूक्ष-मानसा मानुषीः । अहं तु सम्पद्-अधिष्ठातृ-देवी त्वया प्रसूतं सुतं विश्व-विलक्षण-लक्षणं श्रुत्वा तत्-क्षणम् एवागतानेन वसन्तेन वासन्तीम् इव दृष्टिं हृष्टां कृतवत्य् अस्मि । मम च स्तनौ सर्व-श्रेयस्तननौ नित्यम् अमृतं क्षरतः, येन पीतेन सोऽयं निःसन्देह-सिद्ध-देहः स्यात् । तस्माद् अहम् अस्य सर्व-सुख-विधात्री धात्री च भविष्यामि” इति ।

[५३] स्निग्धकण्ठ उवाच—ततो ग्रहणाद् अनन्तरं किं जातम्?

[५४] मधुकण्ठ उवाच—तद् एवं मिषतः सा विषयोषा तं गृहीत्वा विलम्बं हित्वा चूचुकोपर्य् एव तन्-मुख-वार्य्-उद्भवं निदधे ।

[५५] स्निग्धकण्ठ सभयम् उवाच—ततस् ततः?

[५६] मधुकण्ठ सहासम् उवाच—ततः स तु स्वमातुः साक्षात् तस्यास् तादृश-भृश-दुर्नय-दर्शनाद् उपजातेन तत्-प्राणान् पिबता रोष-तेजः-सङ्घातेन तत्-स्तन्यस्य च दोषं शोषयन् मातृ-भावाभास-स्फुरद्-उल्लास-स्व-स्पर्श-स्वाभाव्येन तु तद्-देहे सुगन्धिता-सुगन्धिताम् इव तत्-स्तन्ये पीयूषतां रूषयंस् चूषणं चकार ।

कृष्णेन पूतना-स्तन्य-पानम् इत्थं विरोचते । यथा गङ्गा-प्रवाहेण कर्मनाशा-जलाहृतिः ॥१५॥ [अनुष्टुभ्]

[५७] सा तु राक्षस-पक्षिणी “मुञ्च मुञ्च” इति पुष्ट-क्रुष्टतया व्यथित-सनीडां पीडां प्रपञ्चयन्ती प्राणान् अपि मुञ्चन्ती संस्कार-वशात् तं वक्षस्य् एव निक्षिप्य पक्ष-विक्षेपाद् व्रजाद् बहिः ससार ममार च । यत्र ह्रादिनी सा ह्रादिनीत्य् एव तर्क्यते स्म, यत्र च स्वरूपावस्थितिम् एव चाससार ।

उड्डिड्ये सपदि यदा तु पक्षिणी सा तं बालं हृदि परिगृह्य लम्बमानं । उड्डीना द्रुततरम् एव मातृ-युग्म- प्राणाश् च स्फुटित-हृदम्बुजाद् इवासन् ॥१६॥ [प्रहर्षिणी] तस्मिन् हृते पूतनया तु बाले मात्रोर् यदि प्राण-गणो न मूर्च्छेत् । भोक्तुं तद् आभील-कुलं तदा ते किं शक्नुयाताम्? अपि किन्तु नैव ॥१७॥ [इन्द्रवज्रा] आक्रन्दाद् भिदुराणि पक्ष-पवनात् कल्पं भुवि भ्रंशनाद् भू-भ्रंशं शव-रूपता-शवलनाद् गोत्राङ्ग-पङ्क्तीर् अपि । आशाङ्क्याभिगता दिविष्ठ-पटली तत्-तद्-विजातीयतां निर्णीयाथ विसिस्मिये कतिपयं कालं बकी-संस्थितौ ॥१८॥ [शार्दूल]

[५८] ततश् च पूतनां निश्चित्य,

तस्याः सुरा वक्षसि लग्नम् एनं स्मेरं गृहीताकृश-चूचुकाग्रम् । अस्य प्रभावावलि-विज्ञ-चित्ताः सर्वे समन्ताज् जहसुर् विलोक्य ॥”१९॥ [इन्द्रवज्रा]

ऊचुश् च,

“अभजद् इह यद् एषा पर्वताकार-वर्ष्मा, क्षयम् अतितनु-मूर्तिं प्राप्य बालं तम् एतम् । न हि तद् अतिविचित्रं प्रेक्ष्यताम् एव साक्षाद् विधुर् अयम् अमृताङ्गः पूतनेयं विषाङ्गी ॥”२०॥ [मालिनी]

तथा च,

“विषं स्याद् विषम् अन्यस्मिन्न् अमृतं तु विषे विषम् । पूतना-कृष्ण-सङ्घर्षे दृश्यताम् एतद् एव हि ॥”२१॥ [अनुष्टुभ्]

अथवा,

“नव-नव-रस-पाकाद् उत्पलाभोग-धात्री स्थलज-जलज-पद्मे सर्वदा दुःख-दात्री । रजनिचर-गणानां शश्वद् आमोद-पात्री प्रति हरि-लयम् आगात् पूतना व्याज-रात्री ॥”२२॥ [मालिनी]

[५९] किन्तु, स्व-चरित-चातुरीभिर् इदम् इवायं सूचयति,

“स्तनन्धयस्य स्तन एव जीविका दत्तस् त्वया स्वयम् आनने मम । मया च पीतो म्रियते यदि त्वया, किं वा ममागः? स्वयम् एव कथ्यताम् ॥”२३॥ [उपजाति १२]

[६०] स्निग्धकण्ठ उवाच—हन्त, श्री-व्रजेश्वर्य्-आदीनां दीनानां का मर्यादा धैर्याय जाता? किं वा तत्-परिजनैः समाधानम् अधायि?

[६१] मधुकण्ठ उवाच—अथ व्रजे तु महा-कोलाहल-व्रजे जाते व्रजेश्वर-गृहिणीं रोहिणीं च विहायं विहायम् उपर्य् उपरि परिद्रुतासु वृद्धा-मध्या-वधूषु तासु तदैव दैव-निश्चित-दिशः काश्चित् पृथु-नग-पृतनाम् पतितां पूतनां दृष्ट्वापि विघटित-भया निकटम् अटिता विधि-घटित-स्खलित-बाहु-घट्टम् आरूढा बाल-भावाद् अकुतोभयतया खेलन्तम् इव तं बाल-गोपालम् अविलम्बितं गृहीत्वा तां संवेग-जात-वेगतया सर्वं चातिहाय गृहाय दुद्रुवुः ।

[६२] ततश् च तद्-अवलोकेनासङ्ख्य-लोकेन सुख-मग्नेन पश्चाल्-लग्नेन परिप्लव-तया समुत्प्लवमानेन सह समहं महान्तः-पुरम् आगता नारी-जना जनन्योर् निश्चेष्टितां दृष्ट्वा कर्तव्य-मूढताम् ऊढा बभूवुः ।

[६३] अथ तथा-लक्षणतया क्षण-कतिपये लब्ध-व्यत्यये यत्नान्तर-पथे च वितथे, काचिद् बुद्धिमती स-कश्मलयोस् तयोर् अप्य् अङ्के तं बालकम् एवावलम्बयामास । अवलम्बिते च बाले तेनैवामृतेनेव कृत-त्राणेषु प्राणेषु, तं बालकम् अवलोकमाने ते पुनर् अन्यां मूर्च्छाम् आनर्च्छतुः । ततः पुनः पुनर् एवं-विधानाच् चिद्-आधानेन प्रकृतिम् आसेदतुः, मुहुर् एव जल-संवलनेन निदाघ-दग्ध-भूमिवत् ।

[६४] अथ बालकम् अप्य् अवलोकयन्त्याव् आलोकन-वचनयोः काराभिर् इवाश्रु-धाराभिर् अतीव व्यग्रताम् अग्रतः प्रापतुः । ततश् चान्याभिर् एव स्तन्याभिमुखीकृतेन तेन सुकुमारेण कुमारेण क्रमानुसारेण धीरतां धारयामासतुः । ततश् च,

आश्लिष्टः प्रतिदृष्टि-चुम्बित-मुखः सुघ्रात-मूर्धा दृगर्- णः-सिक्तः सुहृदां पुरो भुवि धृतः स्वेनापि निर्मञ्छितः । सत्यं सत्यम् इदं न चान्यद् इति स व्यक्तं विविक्तीकृतो मातृभ्यां न तथापि संहृत-भयं दृष्टो बकी-मर्दनः ॥२४॥ [शार्दूल]

[६५] अथ श्री-व्रजेश्वरी स-चमत्कारम् उवाच—“हन्त, विलोक्यताम् असौ द्वितीयो बालः” इति । तद् एतद् उक्त्वा च तां स्वयं धावितुम् उद्यतां विबुध्य प्रतिरुध्य श्रील-रोहिणी बहुल-महिलाभिः सह गृहान्तरम् अवगाहमाना, तं मङ्गल-सङ्गतं विलोकयन्ती, सङ्गिनीभिर् अङ्गीकृत-पालनं विधाय च, तद्-आगमन-स्पृहिनीं व्रज-महेन्द्र-गृहिणीं संहाय सान्त्वितवती ।

[६६] पूतना-हन्तुस् तु,

गो-मूत्राद्यैः स्नानम् आचार्य तस्य प्रेम्णा चक्रुर् मन्त्र-रक्षां जनन्यः । श्रुत्वा यस्मिन् शास्त्र-विज्ञत्वम् आसां सर्वेऽप्य् उच्चैः कोविदा विस्मयन्ते ॥२५॥ [शालिनी]

[६७] अथ तादृश-महोत्पात-दृश्वरी श्रीमती व्रजेश्वरी सर्वानर्वाचीनाः प्रति स-गद्गदं जगाद,

“पुत्रो भवेद् एवम् अतिस्पृहा नौ नासीद् अभूद् एष तु वः स्पृहातः । प्रत्यर्पि सोऽयं बत युष्मकाभिर् अस्मासु युष्मासु तथास्मकाभिः ॥”२६॥ [इन्द्रवज्रा]

इति तासां चरण-परिसरणम् अनु बालं नमयन्ती बाष्पं मुमोच ।

[६८] ताश् च धैर्यं हित्वा स-सम्भ्रमं बालकं गृहीत्वा प्रोचुः,

“अस्माकं यद् अखिलम् अस्ति पुण्य-जातं यद् वास्मत्-पितृ-जननी-कुलानुजातम् । तेनासौ बत भवताद् अहो यशोदे पुत्रस् ते निरवधि-मङ्गल-प्रमोदे ॥”२७॥ [प्रहर्षिणी]

इति सास्रम् आत्मना तं निर्मञ्छयञ्चक्रुः ।

[६९] तस्याः सान्त्वनार्थं समुदिता मुदितास् तत्रैव तस्थुश् च । तत्र च पुतनया कृतम् अजन्यं जनन्याव् अन्याश् च स्व-स्वदृष्टम् अन्योऽन्यं निर्दिष्टवत्यः । तथा हि,

यथागता सा यद् उवाच यच् च वा चकार तद्-ग्रस्तम् अमू समूचतुः । अमूः समूचुः यथा स्वयं गता यथान्वपश्यंश् च तथा स-गद्गदम् ॥२८॥ [वंशस्थविला]

[७०] श्री-व्रजराजादयस् तु दूरतः किञ्चित् किञ्चिद् ईक्षित्वा मिथः-कथया कथन्तया तद् एतद् उच्चावच-वचनं रचयामासुः । तथा हि, [७१] “समुड्डीयमानामान-वायसातायि-समुदायाविविक्त-महा-घोर-रूपं चण्ड-रश्मि-भस्मीकृत-सन्तम् असाव् अशिष्ट-महिष्ठ-ग्रन्थि-सन्ततितयोपहसितं झटिति निविडित-वड्रीभूताटवी-खण्ड-मण्डित-प्रदेशतया निर्दिष्टं भूरि-दूरतया भू-लग्नवत् प्रतीयमानोऽयं तोयद-सम्भार इति सम्भावितं श्री-वसुदेव-सूचितोत्पातोचितं किञ्चिन् निचितम् इदम्” इति चिन्तितम् । पुनर्, “लब्ध-पक्षतयोत्पातम् आचरन्न् उत्पत्य पतितोऽयम् अखर्व-पर्वत-विशेष” इति वितर्कितम् । [७२] राक्षसाकार-साक्षात्-कार-विकल्प-कल्पना-जनित-जन-चय-भय-हास-कौतुक-विसंवाद-नादं क्षणतो राक्षस-ताल-क्षणालक्षण-विनिश्चित-व्रजापचिति-प्रचयं स्वाभिमुखम् आगताया जनताया मुखान् नैकभेद-वेदन-विच्छेद-कारणावधारणाद् अवधारित-वेदनं नैकट्य-घट्यमान-वैकट्यतया वित्रस्त-समस्त-चित्तं परि व्रजात् पतितं पूतना-पुद्गलम् उद्भावयामासुः ।

श्रुत्वा पूतनया सुतस्य नयनं तस्यास् तु तस्मान् मृतिं मूर्च्छन्न् एव तदा व्रज-क्षिति-पतिः सम्यक् प्रबोधं ययौ । लब्ध्वा दुर्धर-काल-नाग-दशन-त्रोटं यथा तत्-क्षणाद् दिव्यं मन्त्रम् अपि श्रयेत मनुजः कश्चिद् द्रुतं जीवितुम् ॥२९॥ [शार्दूल]

[७३] अथ व्रजराजस् तत्राश्चर्य-पारम्पर्यम् इदम् अशृणोद् अदर्शयद् अन्वभूद् अपि। [७४] तत्राशृणोद् यथा प्रथमं तावत् पूतना-तनुर् आयामतस् त्रि-गव्यूतिं व्याप्य पतितवती, विस्तारतस् तु गव्युतिम्, उच्छ्रायतश् च प्रायः क्रोशम् इति । [७५] सा च याम-द्वय-गम्यायाम-तद्-अर्ध-विस्तार-व्रजागार-व्रजाद् बहिर् एव पपात, तत्र च न प्राणिनः पीडितवती, किन्तु द्रुमान् एवेति ।

[७६] अथादर्शयद् यथा, तत्र हि कुलिश-तुल्य-निष्ठुर-महिष्ठ-कुल्य-कुलाकुला-घनास् तद्-अपघनाः स्वीय-समाज्ञया व्रज-जन-पृथक्-पृथग्-जन-व्रजेन झटित्य् एव कठिन-कुठारैर् विपाटिताः, प्रचुरतर-स्थान-स्थापितास् ततोऽप्य् अतिविततानि निर्बन्धेनेन्धनानि सन्धाय सन्दग्धाश् चेति ।

[७७] तद् एवं तद्-व्रज-बहिर्-धाम-पामर-चर्मकारादि-कर्माकार-गणानाम् अपि गणना शक्ति-समतिरिक्तता च न व्यक्तीकर्तुं शक्यते, किम् उत गोपादीनाम् इति ।

[७८] अथान्वभूद् यथा—

कंसारेः सुमधुरिमा प्रमाण-चर्यां न प्राप्स्यत्य् अधियुग-कोटि-कूटितोऽपि । सा राक्षस्य् अपि रुधिराशनापि यस्य स्पर्शांशाद् वर-सुरभित्वम् आससाद ॥३०॥ [प्रहर्षिणी]

यतः,

तदा च दूता इव पूतनाङ्गतो दग्धाद् गता धूम-गणाः सुगन्धयः । ग्रामान्तरं यातवतां दिनान्तरे केषाञ्चिद् आह्वान-कृतिं विनिर्ममुः ॥३१ इति ॥। [उपजाति १२] अथात्मजं कलयितुम् आशु गोकुल- क्षितीशिता व्रज-पुर-मध्यम् आययौ । गतोऽन्तिके पथि पतद्-अश्रु-विग्रहः क्षणं स्थितः स्वजन-गृहीत-दोर्-युगः ॥३२॥ [रुचिरा]

[७९] अथ धीरताम् एव धारयन् परम-धीर-धीर् असौ द्वि-त्र-मित्र-परिवृततया बृहद्-गृहालिन्द-वेदीं विन्दमानः कनकासन-कृतासनः स्वकुल-गोकुल-कुल-पुरन्ध्रीभिः सार्धम् अर्धाङ्गेन सानन्दम् उपनन्द-वधू-हस्त-विन्यस्तं बालं पुरस्कुर्वता पुरतः पतिर् अभिजग्मे । बालश् च तस्योत्सङ्ग-सङ्गी कारयाञ्चक्रे । तत्र च—

“किं ग्रहार्दिततया स बालको दूनताम् अगमद् एक-रात्रतः ।” इत्य् अचिन्तयद् अमुं तदेन्दुवत् स्फीतम् ऐक्षत पुनर् व्रजाधिपः ॥३३॥ [रथोद्धत]

किं च,

लीढं रूप-मधु प्रकृष्य रसितं वक्त्र-प्रसादामृतं सम्यक् स्वादित एव तुल्य-रहित-स्पर्शोत्सवः कोऽप्य् असौ । तस्य श्यामल-बाल-कोमल-तनोर् मूर्ध्नस् तु तातेन तां सौरभ्य-स्वदनानुभूतिम् अभितो विश्वं मदाद् विस्मृतम् ॥३४॥ [शार्दूल]

[८०] निभाल्य च श्रीमन् मुखं सुखम् ऊचे,

“यदि नारायणेन त्वं दत्तोऽसि कृपणाय मे । तेनैव सर्वं निर्वोढा सोढा च मम दुर्नयः ॥”३५॥ [अनुष्टुभ्]

[८१] अथ “निर्वोढा निर्वोढा” इत्य् अनुवदन्त्य् अत्यन्ताभिनिवेशाद् एकेनाप्य् अकृत-निर्देशा पृष्ठ-देशाद् इत-प्रवेशा जटिलित-कचा सत्य-वचाः पौर्णमासी सर्वैर् एव तूर्णम् उत्थाय समनस्कारेण नमस्कारेण पुरश्चक्रे, अर्चयाञ्चक्रे चासनादिभिः ।

[८२] ततश् च, स्वप्रश्नोत्तर-विषयीकृत-तद्-विष-योषा-वृत्ति-शेषा राज्ञानुज्ञापयाम् बभूवे पूर्ववद् अपूर्व-दानाद्य्-अपूर्वाय । तच् च ताम् एव प्रधानं विधाय विधीयते स्म इति ।

[८३] तद् एवं पूतनां घातयित्वा समापनाय पुनर् अपीदं मधुकण्ठः परमर्षि-सम्मतता-व्यञ्जनया समुट्टङ्कितवान्—

ईदृशस् तनयो जातस् तव गोप-पते यतः । सा बाल-राक्षसी जज्ञे निज-संसार-राक्षसी ॥३६॥ [अनुष्टुभ्]

[८४] चेतसि चेदं विविक्तवान्,

अर्भासृग्-भुग् अजनि यत् पुरा यद् अर्वाग्- धात्री चाभवद् इयम् अत्र नन्द-सूनोः । तत् क्वाधस्पदम् अथ तच्-छिरस्पदं वा क्वेत्य् अन्तर्-हृदि विमृशन् भृशं भ्रमामि ॥३७॥ [प्रहर्षिणी]

[८५] तद् एवं वृत्ते तद्-दिनेऽपि पूर्ववद् एव कथा रक्षिता यथायथम् अपि स्वावसथादि-पथानुगतिर् आचरिता ।

इति श्री-श्री-गोपाल-चम्पूम् अनु

पूतना-वधावधारणं नाम

पञ्चमं पूरणम् ।

॥५॥

(६)

३। अथ षष्ठं पूरणम्

६। विशङ्कट-शकट-विघट्ट-नादि-विचित्र-बाल्य-चरित्रम् [१] अथ तथैवाधरे-द्युः सुभासमानायां सभायां अनुमोदन-निदिग्धः स्निग्धकण्ठः सोत्कण्ठ उवाच—मधु-मधुर-कण्ठ श्री-मधुकण्ठ, श्रूयताम्—

[२] ततः समन्ताद् अहरहर् अन्यद् अन्यल् लावण्यम् उत्फुल्लयन् विधुः स्व-जन्म-पक्षम् उल्लासयामास । तत्र दिग्-दर्शनं यथा—

एका द्वित्राश् चतस्रो युत-वियुततया पञ्च-षाः सप्त चाष्टौ पङ्क्तिर् वा पङ्क्ति-बद्धाः शिशु-युवति-जरत्य्-अर्ध-वृद्धाः समन्तात् । आयान्ति द्राग् विशन्ति व्रज-नृपति-गृहं तं च पश्यन्ति बालं कृत्वा चुच्कार-मिश्रं बहुल-विलसितं स्माययन्त्यो हसन्ति ॥१। [स्रग्धरा]

यथा च—

मात्रा पित्राथ माता-पितर-कुल-भवैर् आकुलैश् चित्र-मित्रैर् नेत्राणाम् अञ्जनाभं शिशुम् अनुभवितुं सन्ततं कञ्जनाभम् । आगम्यागम्य रम्याकृति-परिवृतिम् उद्वास्य हास्यादि-पूर्वं स्पर्शं स्पर्शं तम् उच्चैर् अहरहर् अहहो दृङ्-महो लभ्यते स्म ॥२॥ [स्रग्धर]

ततश् च—

विगलद्-अलक-जालालोल-दृक्-खञ्जरीटः प्रकटित-तिलक-श्री-रोचना-कुङ्कुमाभ्याम् । स्मित-विलसित-वक्त्रः श्याम-धामाचलाङ्घ्रिः शिशुर् अतिशुशुभे स प्राप्य मासं तृतीयम् ॥३॥ [मालिनी]

तत्र च—

स्निग्धाः पश्यति सेष्मयीति भुजयोर् युग्मं मुहुश् चालयन्न् अत्यल्पं मधुरं च कूजति परिष्वङ्गाय चाकाङ्क्षति । लाभालाभ-वशाद् अमुष्य लसति क्रन्दत्य् अपि क्वाप्य् असौ पीत-स्तन्यतया स्वपित्य् अपि पुनर् जाग्रन् मुदं यच्छति ॥४॥

[शार्दुलविक्रीडिता]

[३] अथ कदाचिन् नाक्षत्र-मास-त्रयान्ते नक्षत्रेश-कान्ते तज्-जन्म-नक्षत्रे श्रीमन्-मात्रा पुत्राभिषेक-कौतुक-यात्रा प्रवर्तिता । तदा च,

भवनम् अनु सुयत्ने रत्न-पर्यङ्क-वर्ये

सुरभि-मृदुल-तुली-शुभ्र-वस्त्र-प्रशस्ते । हरि-मणि-रुचि-बालः शोभते स्मासिताम्भो- रुहम् इव सुर-सिन्धौ क्षीर-सिन्धौ हरिर् वा ॥५॥ [मालिनी] अथोत्तान-शायी स सर्वातिशायी निजाम्बा-यशोदः स्व-तात-प्रमोदः । स्व-नक्षत्र-भाते बभूव प्रभाते बलेनातिसाङ्गः परावर्तिताङ्गः ॥६॥ [भूजङ्गप्रयाता]

[४] ततश् च, शयनं पार्श्वेनोपपीडं शयानम् अमुं सुकुमार-कुमारापीडम् अकस्माद् विलोक्य तद्-वृत्ते धात्रीभिर् मात्रे निवेदित-मात्रे सति सातिमात्रानन्द-कन्दलिता निज-नन्दन-मङ्गलातिशय-स्पृहिणी श्रीमन्-नन्द-क्षितीश-गृहिणी भर्तुर् आज्ञां सुज्ञातां सम्भूय भूयः सर्वाः समाहूय तम् एव महोत्सवम् अहो महोत्सवं चकार ।

[५] तत्र कासाञ्चिद् अपि गृह-पालनाय स्थितानाम् आहूतिर् एवम् अनुसन्धेया;

लाल्यस्याद्य तु जन्मभं विजयते तत्रापि चौत्थानिकं

सर्वा एव गतास् त्वम् एव किल किं सद्मावितुं वर्तसे । आगृह्णाति मुहुर् व्रजेश-गृहिणी किं वा व्रजे मोषकः कोऽप्य् अस्ति स्फुटम् अस्ति वा स तु शिशुर् मुष्णाति चेतः परम् ॥७॥ [शार्दुलविक्रीडितम्]

[६] अथ तत्र चित्र-वादित्र-शुभ-रीति-गीति-प्रशस्त-विप्र-कुल-शस्त-स्वस्ति-वाचन-पूर्वक-विधिम् अतिरिच्याभिषिच्य, पीत-वाससा परिकृत्यालङ्कृत्य, मन्त्रादिभिर् अभिरक्ष्याभिलक्ष्य, तद्-उद्धर्ष-हर्षमय-बहुतर-कार्य-चर्या-मर्यादां पर्यापयितुम् इतस् ततश् चलन्ती, परिजनान् अपि नियोजनया स-प्रयोजनान् जनयन्ती, जननी गेहायमान-विसङ्कट-घटन-महा-शकटाधः कल्य एव पल्यङ्के बालम् आलोकाजिर एवाजिरे शायितवती । तत्र कुमारयतः कुमारांश् च स्थापितवती । तत्रावष्टम्भ-स्तम्भ-चतुष्टय-मध्यग-दोलाकारः स पल्यङ्को यथा—

प्रवालाङ्घ्रिर् गारुत्मत-घटित-पट्टी-पटु-रुचिर् वहन् मध्ये पट्टारुण-चिपिट-डोरी-पट-वृतिम् । दुकूलान्तस् तुल-स्फुरित-वर-तुली-वलयितो दरान्दोलो दोलो यद् उपरि विरेजे शिशु-हरिः ॥८॥ [सिखरिणी]

तत्र च—

स्थविष्ठ-पट्ट-स्तवकं विचित्रं निबद्धम् ऊर्ध्वाद् अभिलम्बमानम् । स्पृशन् कराभ्याम् असितः स कूजन्न् उत्तान-शायी मुहुर् उज्जहास ॥९॥ [उपजाति ११]

[७] ततश् च, ब्राह्मणादि-पूजायां पूर्यमाणायां कृत-समाहरणेन हरणेन सार्धं सार्ध-प्रहरणेऽप्य् अतियाते न कस्यचिद् अन्यत् किञ्चिद् अपि छिद्र-मात्रम् आसीत् ।

[८] तदा च पूतनावन् नूतनार्भकाय कंस-प्रहितः कश्चिद् दिविषद्-अहितः समागम्य दिवि स्थित एवं चिन्तयामास- “स पूतना-पोथकोऽयं पोतो विसङ्कट-शकटाधस्ताद् आस्ते । साक्षान् मन्तुं विधातुं न कोऽपि जन्तुर् अमुष्य शक्ष्यतीति लक्ष्यते । छद्म-रूप-सद्मतया च पूतना संस्थिता, तस्माद् अमूर्त एव सन्न् अत्र पूर्तये भवानि” इति । ततश् चासौ शकटम् अप्रकटम् आविष्टवान् ।

[९] तद्-आवेशेन चासौ भूम्यां प्रविशच् चक्रतया वक्रीभवद्-अक्षतया चोपरि-पात-परीपाक-प्रक्रमं यदा चक्रे, तदैव तद्-दैव-वशतः किल तस्य पोतस्य स्तन-निदिग्ध-दुग्ध-जग्धीच्छा जाता । तदा च मातरम् अनुपलभ्य कातर इव नव-कमल-दल-कोमल-चरणास्फालनाद् उद्घटितं निज-शकटं पक्ष-विहीनम् अपि कुतुकाद् इव राक्षस-पक्षिणीवद् उड्डीनं विधाय विवृत्त-पतनत्वम् आसादयामास स शावकः ।

[१०] इदम् एव साश्चर्यतयानुदितं श्रीमद्-अर्जुनेन विष्णु-धर्मे-

तालोच्छ्रिताग्रं गुरु-भार-सारम् आयाम-विस्तारवद् अद्य जातः । पादाग्र-विक्षेप-विभिन्न-भाण्डं चिक्षेप कोऽन्यः शकटं यथा त्वम्? ॥ इति ।

[११] स चासुरः स्वयम् एवामूर्तताम् उरीकृतवान् इतीव तम् अप्य् असाव् आकाश-नीकाशतया नाशयामास । तद् इदम् अहो काकतालीयम् एव जातम् । सोऽयम् असुरावेश एव ब्रह्माण्ड-पुराणे श्री-कृष्णाष्टोत्तर-शत-नाम-स्तोत्रे शकटासुर-भञ्जन इति नाम्ना व्यञ्जितः ।

[१२] अत्र देवाः श्रील-गोपाल-भावम् उत्प्रेक्षाञ्चक्रिरे, यथा—

“शकटम् इदम् इहास्ति मद्-गृहस्य स्वयम् अविशस्तद् अनेन चोत्प्लुतोऽसि । रुदितम् अनुपदं मया विकीर्णं तद् अपि यदि म्रियसे न तन् ममागः ॥“१०॥ इति । [पुष्पिताग्रा] आविर्भवत्-कटकटे शकटेऽथ सर्वे किं किं किम् इत्य् अभित एव भियाभियाताः । तस्यातिपातम् अवलोक्य विलोक्य तोकं क्रन्दद्-विमूढ-मतिताततिमूढवन्तः ॥११॥ [वसन्ततिलक] माता च तं विवशितावयवापि देवा विष्टेव पश्यति जने जगृहे द्रवेण । पश्चात् तु कम्प-मुख-भाव-निपीडिताङ्गीं तां विद्रुताः परपराः परितोऽप्य् अगृह्णन् ॥१२॥ [वसन्ततिलका]

[१३] तस्मिन्न् अनस्य् अब्दवच्-छब्दे जाते तु,

किं तत्? किं तन् ननाद? श्रुति-कटु-शकटस् तत् कथं स व्यलोठीत् कस्मात् कस्माद्? अकस्मात् कुशल-कुशलम्? ओं वासुदेव-प्रसादात् । इत्थं प्रश्नोत्तराभ्यां व्रज-कुल-पतयः प्रापुर् अन्तः-पुरान्तर् दृष्ट्वा तत्-पातम् आसन् दशन-तति-शिखाद् अष्ट-जिह्वाश् चिराय ॥१३॥ [स्रग्धरा]

[१४] ततश् च सहसा बहिः-पुराद् अन्तः-पुर-पुर-स्थल-भाजं श्रीमद्-व्रज-राजं निर्वर्ण्य सर्वे पर्यायागता द्विधाभूताः पूरतो दूरतोऽवकाशं ददुः । [१५] ततोऽसौ जनकस् तु जन-कलकलतस् तद्-वृत्तम् अवकलयन्न् अम्बाला-गलावलम्बं बालकम् एव स्व-पाणि-तलम् अवलम्बयामास, विलोकयामास च तस्य सर्वावयवान् ।

[१६] तद् अनु च सर्व एव शान्ततामायान्तस् तद्-अन्तं समन्ततः शकट-निकट-संवलकान् बालकान् एव पप्रच्छुः । ते च तद्-एक-निर्देशिन्या दर्शयन्तस् तम् एव निर्दिदिशुः । तत्रैको लोहलोऽप्य् अग्र-वादी निवारित-कोलाहलः प्रललाप, “म म मम पा पा पा पार्श्वतः श्रूयताम्, य य य यदा च च चरण मु मुत्थापितवान् अयम्, त त त तदा ते तेन स्पृष्ट-मात्रो डि डि डि डि डीन इवोद्वृत्तः सोऽयं श श श शकटः” इति ।

[१७] ततश् च, तद्-विडम्ब-वादिषु बालादिषु हसत्सु बीभत्सित-बालिश-भाषिताः परम-वत्सला विचिकित्सां न धित्सां चक्रुः । पूतना-वधावधारितानुवादितया कर्कश-तर्क-चक्र-निरुद्ध-बुद्धयस् तु चक्रुः । [१८] पिता तु पुनः स्वस्ति-वाचनाभिषेचनादिना विप्र-कुल-प्रतोषणादिना सर्वाशी-राशिना च तं लङ्गिम-बालं मङ्गलेन सङ्गमयामास मातुर् उत्सङ्गेन च । तया च स्व-बाल-लालना-कलाप-मय्या गृहान्तः-शय्यायाम् एवायं शाय्यते स्म । गोप-महेन्द्रादिभिर् महित-महा-शकटश् च यथा-स्थानं घटयामासे ।

[१९] अथ मधुकण्ठ उवाच—वत्स, बालकेन महा-शकट-समुच्चाटनम् असम्भाव्यम् इति सम्भाव्य भण्यताम्, अन्यथा हि कवेर् एवान्यथात्वम् आपद्येत।

[२०] स्निग्धकण्ठ उवाच—आर्य, पूर्वम् एवात्रापूर्वता निवारितास्ति, यतो योगमाया खल्व् अस्य सम्भावित-योगं निर्मापयतीति पुनर् मा प्राक्षीः ।

[२१] मधुकण्ठः स-स्मितम् उवाच—तद्-अनन्तरम् उदन्तः कः?

[२२] स्निग्धकण्ठ उवाच—अथाग्रजानुजान् अनु व्रजस्य राजा विविवेच, “बालक-युगलम् इदम् अपृथग्-आलयालम्बनताम् एव नितराम् अर्हति, यतस् तदीय-जनन्योः स्वयम् एव तल्-लालनाय लालसा-धन्ययोस्, तत्र च परस्पर-तद्-आसक्तयोर् नाना-स्पृह-गृह-कार्य-पर्यापण-व्यसनयोर् युगपत् तद्-युगलस्य पृथग्-अवकलनं दुर्बलम् इति केवलं सुदिनागमन-विलम्बताम् अवलम्बे । यथा वा भवताम् इच्छा भवति” इति श्रुत्वा श्रुतज्ञाः श्रोत्रियान् आश्राव्य तदैव दैवानुकूल्यं निभाल्य समम् उद्यद्-वाद्य-परीत-गीत-स्वस्ति-वाचनादि-प्रशस्ति-पूर्वकं द्वयोर् अपूर्व-मिलनम् आशु कलयामासुः । तच् च यथा—

मिथो लग्ना दृष्टिः समजनि चिरं मूर्तिर् अचला द्रवच्-चित्तं नेत्रोदक-मिषतयागाद् अभिमुखम् । इति भ्रात्रोर् बाल्येऽप्य् असित-सितयोः सा प्रसितता नवे व्यत्यालोके कुतुकम् इह किं वा न तनुते? ॥१४॥ [शिखरिणी] बाल्ये प्रथमम् अन्योऽन्यं मिलतो राम-कृष्णयोः । सितासितांशवः पृक्ता जज्ञिरे मृग-लाञ्छनाः ॥१५॥ [अनुष्टुभ्]

[२३] तद् एवम् एव सर्व एव पर्व विधाय निज-निज-नूतन-तनूजान् गणक-गणित-गुण-गणेऽहनि स्नेहं तेषां तेनेह सहेहमानाः स-मङ्गलं सङ्गमयामासुः।

[२४] अथ युक्ति-मत्या सद्-उक्ति-सम्मत्या श्रीमद्-भागवत-कथन-व्युत्क्रमेणाप्य् उपक्रम्यते, यतः,

सर्वैः कविभिर् अनुक्रम-शालि प्रोच्यते कृष्ण-लीलाद्यम् ।

शुक-मुख-वचसि प्रेम प्रमद-मये तद् विना तु चित्राय ॥१६॥ [गीति]

[२५] तद् एवं दिन-शत-पूरणम् अदूरताम् अनुजस्याग्रजस्य तु तस्माद् अप्य् अदूरतां लब्धम् ।

सम्यङ् मातुः परिचितिर् अभूद् यत्र किञ्चित् पितुश् च प्राप्तः सोऽयं स्वसदन-जनः किं न वेत्थं मतिश् च । तस्मिन् बाल्ये वलयति तयोः कापि शोभा सुधाब्धि प्रख्या गोष्ठं भूवनम् अपि सा वीचिभिः सिञ्चति स्म ॥१७॥ [मन्दाक्रान्ता]

[२६] तद् एतद् अधिगत्य शीघ्रम् एव नाम-करणं कर्तव्यम् इति सम्मत्य श्रीमन्तं वसुदेवं प्रति यदा श्री-व्रज-नरदेवस् तन् निजम् इष्टं सन्दिष्टवान्, तदा परमार्थ-विचारेण मित्र-पुत्रतार्ह-समधिक-बहिर्-व्यवहारेण चानुजस्य शततमं वासरम् एव तद्-अवसरं निश्चिन्वन्, श्री-वसुदेवः श्री-व्रजराजं प्रति यथावसरं तन् निवेदयिष्याम इत्य् अनिश्चिन्वन्न् इव सन्दिदेश । अथ तपो-धामानं गर्ग-नामानम् आत्मनः परम-हितं कुल-पुरोहितं मनसि सम्मत्य रहसि सङ्गत्य निज-तनय-विनिमय-मयं वृत्तं वितत्य निवेदयामास । स च सहासम् आह स्म, “तद् एतद् अपरम् अप्य् अहं नाना-वृत्तं जानाम्य् एव । सम्प्रत्य् अत्र मत्-कृत्यं त्व् आज्ञाप्यताम् ।”

[२७] वसुदेव उवाच—“ततस् तत्र-भवता नन्द-व्रज-भूवं व्राजं व्राजं मिथः संयुतौ नव्यौ निज-यजमान-सुतौ द्विजाति-जाति-समुचित-प्रकारेण संस्कारेण पुरस्कर्तव्यौ, किन्तूपनयनोपयमने यथा तस्यां न स्यातां, तथा प्रयतनीयम् ।”

[२८] मुनिर् उवाच—“युक्तम् उक्तम्, यतः स्व-पक्ष एवास्माभिर् अपेक्षणीयः ।”

[२९] अथ तस्मिन्न् अनुजस्य शततम एव वासरे, व्रजं प्रति प्रस्थिते च मुनि-वरे, व्रज-राजस् तु ज्यायसस् तद्-दिनातिक्रमात् पुण्यतरं दिनान्तरम् एव द्वयोर् अपि नाम-करणस्याधिकरणं भविष्यतीति निश्चित्य, प्रातर् एव तर्णकानां कोटिभिर् नृत्य-परिपाटीभिर् आटीकमानाभिर् विचित्रं स्थानं गो-गोपानां वन-प्रस्थानान् निर्जनावस्थानं गोस्थानम् अनुसंस्कारालङ्कार-सम्भालनार्थम् एक-सेवक-मात्र-कृतानुव्रजनतया कृत-व्रजनः स-कृपतया तान् पश्यन्न् आसीत् । तत्रैव च सर्वतोऽप्य् अतिरिक्ते विविक्ते बाल्यत एव कृत-सेवं निज-देवं सर्व-सल्-लक्षण-नन्दित-निखिलायां श्रीमल्-लक्ष्मी-नारायणाख्य-शालग्राम-शिलायाम् अष्टाक्षरेणोपतिष्ठमानश् चिराद् विराजते स्म । कृत-समापने च सभाजने सर्व-सर्वज्ञ-गुरुर् मुनि-परिषदाम् उरुर्वाणी-वासित-सामा श्री-गर्ग-नामा वारं वारं निष्क्रम-द्वारं विलोकमानेन गोप-लोक-प्रधानेन तस्माद् अकस्मात् तर्णकानाम् उत्कर्णता-निर्वर्णनया कस्यचिद् आगमनं वितर्कयता तुर्णम् अभ्यर्णत एव निरवर्णि । तदा च—

उन्मीलद्-विधु-वर्णम् अर्ध-पलितं वक्त्रादिर् उपान्वितं किञ्चित् स्थूलम् अखर्वम् आयात-भूजं विष्वक्-प्रसादाकरम् । शुभ्र-श्री-वसन-द्वयं श्रुति-करालङ्कार-दीव्यत्-प्रभं पुत्र-प्रेम-विलक्षिताखिलम् ऋषिः श्री-नन्दम् अत्रैक्षत ॥१८॥ [शार्दुल]

[३०] अस्य च मुनेर् अनेन चिराद् वीप्सयाभीप्सितम् आगमनम् आसीत्, यतः प्रतीक्ष्य एव सर्वत्रायं प्रतीक्ष्यतां वा कथं न लभेत?

[३१] तद् एवं, “प्रतीततया प्रतीतः सोऽयम्” इति तं व्रजपतिर् अपि निपीतामृतवत् परम-प्रीतः शीघ्रम् आसन-प्रदेशम् अतीतः समतिरिक्त-भक्ति-परीतः कृताञ्जलितयातिविनीतः साक्षाद् अधोक्षज-धीतः प्रणनाम । ब्रह्म-वर्चसेन चर्चितम् एनम् आनर्चा-शेषेण देवार्चन-द्रव्य-शेषेण, प्रोवाच च—

“अलम् इह कुशलं पृष्ट्वा कुशलं कुशलं भवेद् यस्मात् । किन्तु स्वक-कुशलार्थं कुशलं तत्र च विपृच्छ्यते सद्भिः ॥१९॥ [उद्गीति] स्वागत-पृच्छा धार्ष्ट्यं भवति महिष्ठे सदेति गीर्-युक्ता । तद् अपि सुरार्चाम् अनु सा यद्वन् निर्मीयते तद्वत् ॥२०॥ [आर्या] केवल-वचसा तोषो वैभव-सत्त्वे न युज्यते नुनम् । किन्त्व् इदम् अपूर्ण-विषयं पूर्णे किञ्चिन् न मात्य् एव ॥२१॥ [आर्या] न सतः स्वार्थापेक्षा किन्तु सदा सा परार्थैव । तस्माद् विहरति तस्मिन् पर-पर-विज्ञापनं सुखदम् ॥२२॥ [उपगीति] ज्योतिः-शास्त्रं भवता कृतम् अथ वेदेऽपि निष्णातम् । तत् तत् पर-सुख-मात्रापेक्षं तद् इदं निवेद्यं मे ॥२३॥ [उपगीति] बालो यो मम जातस् तस्माद् अधिकश् च वासुदेवो यः । निज-दृक्-सुधया तं तं शीकितुम् आस्तां भवान् करुणः ॥“२४॥ [उपगीति]

[३२] तद् एतद् आश्रुत्य गर्गः स-गद्गदं जगाद—

“यन्-मना भिक्षुर् आयातस् तद् दाता दित्सति स्वयम् । तदा भाग्यं कियद् वर्ण्यं भिक्षोर् दातुश् च कौशलम्? ॥“२५॥ [अनुष्टुभ्]

[३३] तद् एवम् आत्मने श्लाघमाने मुनि-राजे श्री-व्रजराजः स्व-नियोज्यस्य कर्णे वर्णितवान्, “एवम् एवं कुरु,” इति, प्रवर्तयामास च मुनिना कंस-दुर्वृत्त-विवर्तित-वसुदेव-वृत्त-संवादम् । [३४] सम्प्रवदमानयोश् च तयोः सोऽपि तत्-प्रयोजनं परामृश्य शुद्धान्तं प्रविश्य निज-निजोत्सङ्ग-सङ्गतीकृत-बाले अम्बाले पुरो विधाय गन्ध-पुष्पादि-लसित-चामीकर-भाजन-करः परम-किङ्करः सहसा रहसाससाद ।

वीक्ष्याथ मात्रोर् उरसि प्रसञ्जिताव् अत्यर्भकौ दूरत एव ताव् ऋषिः । जवाद् उदस्थान् मणि-मन्त्रवत् प्रभोः प्रभाव एवादृतये न विस्तृतिः ॥२६॥ [उपजाति १२]

ततश् च,

मातृ-युग्म-ललिताङ्ग-लालितौ वीक्ष्य कृष्ण-धवलौ स बालकौ । निर्निमेष-दशया दृशोर् जलं रोद्धुम् ऐष्ट नितरां न तापसः ॥२७॥ [रथोद्धता]

[३५] अथ सङ्कोचं विधाय सन्निधाय मातृभ्याम् आत्मनात्मजाभ्यां च मौनेनैवानामि मुनि-वरः । सोऽयम् उच्चकैर् आशीशिषच् च, यथा,

“पित्रोः प्रतिस्वं कुलयोस् तदीययोः सम्बन्धि-बन्धु-प्रकरे जगत्य् अपि । आनन्द-दाता भव नन्द-नन्दन, त्वं तद्वद् अप्य् आनकदुन्दुभेः सुत! ॥२८॥ [इन्द्रवंशा]

[३६] ततश् च, तद्-एक-सर्गे गर्गे व्रजेश्वर-याचनतः स्वासनम् आगते पुरतः किञ्चिद् दूरतः-

सितासितैकैक-पुष्प विष्णुक्रान्ताद्वय-प्रभे । ते रोहिणी-यशोदाख्ये तनयाभ्यां विरेजतुः ॥२९॥ [अनुष्टुभ्]

[३७] ततो मुनेर् आदेशतस् तेऽप्य् उपविविशितुश् च । श्री-गर्गे च तयोर् आवेशित-धीन्द्रिय-वर्गे, व्रज-क्षिति-पतिः क्षणं प्रतीक्ष्य साञ्जलि-गिराभिलषितं व्यञ्जितवान्—

“योग्य एव पर-योग्यताकरस् तादृशत्वम् अपि वेद-वेदजम् । त्वं तु वेद-विदुषां वरस् ततः संस्कुरु द्विज-जनुस् तनू अमू ॥“३०॥ [रथोद्धता]

[३८] गर्ग उवाच—“भवन्तो यदु-बीज्यत्वेऽपि वैश्यततीज्य-मातृ-वंशान्वयितया तद्-गुरु-पदव्यागतैर् एव कर्म कारयितव्याः न तु मया ।”

[३९] व्रजराज उवाच—“भवेद् एवं, किन्तु क्वचिद् उत्सर्गेऽप्य् अपवाद-वर्गं बाधतेऽधिकारि-विशेष-श्लेषम् आसाद्य, यथैवाहिंसा-निवृत्त-कर्मणि बद्ध-श्रद्धं प्रति यज्ञेऽपि पशु-हिंसां । तस्माद् भवतां ब्राह्मण-भावाद् उत्सर्ग-सिद्धा गुरुता श्रद्धा-विशेषवताम् अस्माकं कुले कथं लघुताम् आप्नोतु? तत्रापि भवतः सर्व-प्रमाणतः समधिकता समधिगता, तस्माद् अन्यथा मा स्म मन्यथाः । एतद् उपरि निज-पुरोहितानाम् अपि हितम् अपिहित-महसा करिष्यामः ।”

[४०] गर्गः पुनर् अतिगोपनाय स-विचारम् उवाच—“तत्रापि खलः स खलु देवकी-तोक-हन्ता दुर्मन्ता देव्याः शंसनेन नृशंसः कंसः पुनर् आगताशङ्कः स्यात्। यस्माद् यादव-गुरुतया पुरु-प्रसिद्धः सोऽयम् अन्य-वर्गजम् अमुं समस्कुरुत, तस्माद् एव वसुदेव-कृतोपासनया नूनम् अनया देव्या स्वेन विनिमितः स बालस् तत्र वर्तते, गीर्वाण-वाणीनाम् अमृषाभावाद् इति । तदा निःषमम् इदम् अतिदुःषमं स्यात् ।”

[४१] अथ व्रजराजस् तु मनाग् विमनायमान इवासीत् । पुनर्, अनेन स्वस्ति-वाचनादिके कृते सर्वं शस्तं भवेद् इति विभाव्य प्रोवाच—“यस्मात् तव सङ्ग एव स-मङ्गलस् तस्मात्,

अलक्षितोऽस्मिन् रहसि मामकैर् अपि गो-व्रजे । कुरु द्विजाति-संस्कारं स्वस्ति-वाचन-पूर्वकम् ॥ [भा।पु। १०.८.१०] इति ।

[४२] गर्ग उवाच—“भवतु, भवद्-इच्छया यदृच्छया मङ्गलं सङ्गमयिष्यते । ततः समय-सम्मतत्वाद् आपाततस् तु नाम-करणम् एव करवाणि” इति स्वस्ति-वाचनाद्य् आचर्य प्रोवाच तत्राग्रजम् उद्दिश्य, यथा-

“ईर्येत प्रणयादि-सद्-गुण-गणैर् एतं तथा बन्धुता मुख्यं लोकम् अशेषम् एष रमयन् रामो, बलित्वाद् बलः । किं चायं भवद्-आदि-शूर-तनयादीनां यदूनां गणं सङ्क्रक्ष्यत्य् उभयत्र भाव-तुलया स्वं तेन सङ्कर्षणः ॥“३१। [शार्दुल]

[४३] अथानुजम् उद्दिश्य,

“शुक्लो रक्तः पीत इत्य् आदि-वर्णास् तत्-तद्-भावाद् अस्य तत्-तद्-युगेषु । तत्-तन्-मूल-श्यामतैकात्म्य-योगाज् जन्मन्य् अस्मिन् कृष्ण-नामायम् अस्ति ॥३२॥ [शालिनी]

“युष्मत्तो जन्मतः पूर्वं वसुदेवात् तवात्मजः । जातो यस्मात् ततो वासुदेव इत्य् अपि गीयते ॥३३॥ [अनुष्टुभ्] “नामानि यानि गुण-कर्म-निबन्धनानि रूपाणि च प्रतिदिशं निखिल-स्तुतानि । साकल्यतो नहि वयं यदि तानि विद्मो, जानन्ति तर्हि न परे त्व् इति पौनरुक्त्यम् ॥“३४॥ [वसन्ततिलका] सानन्दं नन्द-राजेन तदा मुनिर् अगद्यत- । “लग्नं हृदि न लग्नं नः, सर्वज्ञस् तद् भवान् गतिः ॥“३५॥ [अनुष्टुभ्]

पुनश् च—

“ईक्षतां भगवन्न् अस्मै भवान्,” इति निवेदितः । गर्गस् तस्मै राध्यति स्म प्रहसन् महसान्वितः ॥३६॥ [अनुष्टुभ्]

[४४] “तद् एतद् अस्माकं खमाणिक्यनाम्नि ज्योतिर्ग्रन्थे प्राग् एव निरुपितमस्ति ।

उच्चस्थाः शशिभौमचान्द्रिशनयो लग्नं वृषो लाभगो जीवः सिंहतुलालिषु क्रमवशात् पुषोशनोराहवः । नैशीथः समयोऽष्टमी बुधदिनं ब्रह्मर्क्षमत्र क्षणे श्रीकृष्णाभिधमम्बुजेक्षणमभूद् आविः परं ब्रह्म तत् ॥ इति । “वृषकन्यातुलामीनराजेषु स्फुटमुच्चगाः । सोमसौम्यशनिक्षौणीसुतास्तज्जन्मनि स्थिताः ॥३७॥ [अनुष्टुभ्] यस्माद् विश्वावसौ वर्षे जन्म त्वज्जन्मनः शिशोः । विश्वमेव वसु श्रीमद् भवितामुष्य तुष्यतः ॥३८॥ [अनुष्टुभ्] रोहिण्यां जन्मना रोहिण्ययुतानामसौ पतिः । वृषलग्नं च तत्रासीद् वृषकोटीशिता ततः ॥३९॥ [अनुष्टुभ्] आयतिश्चास्य भविता सदैवायतिमत्य् अतः । आयत्यां मुनयोऽप्य् अस्मिन् कुर्युर्मनस आयतिम् ॥४०॥ [अनुष्टुभ्] एष वक्ष्यति शास्त्राणि शस्त्राण्य् अप्य् आत्मतेजसा; अनिष्टहृद् अमित्राणां मित्राणां च व्रजाधिप ॥४१॥ [अनुष्टुभ्] भवतोर्भविता भव्यमस्माद् इति वृथा कथा । भावत्कानां च तद् भव्यं भवस्य च भवस्य च ॥४२॥ [अनुष्टुभ्] अस्याश्चर्या चर्या वहति बहुनां कुतुहलं बहुलम् । ससुरान् असुरान् दुन्वन् भवति सुराणां पुराप्य् असाव् अविता ॥४३॥ [उद्गीति] सहजप्रेम्णां भवताम् अमुना किं तारणं चित्रम्? तान् अपि कृत्रिमहार्दान् सर्वान् निस्तारयेद् एषः ॥४४॥ [आर्या]

“तस्मान् नन्दात्मजस् ते यद् अपि हरि-समः सर्व-साद्गुण्य-वृत्त्या सर्वत्रेमं तथापि स्व-महिम-विभव-ख्यातिभिः पालय त्वम् । वश्यं कुर्वन् स्व-देवं हरिम् अमुम् अपि तं स्वाङ्गजं निर्मिमीषे तद् वीर त्वां विना न स्वयम् अयम् अयते स्वैरतां स्वावनाय ॥“४५॥ [शार्दुलविक्रीडितम्]

[४५] “तद् एवं भवद्भिः स्व-देवेन तुल्य-गुणिन्य् अस्मिंस् तन्-नामान्य् एव कामं गणनीयानीति सङ्क्षेपेणार्थ-निक्षेपः ।”

[४६] तद् एवम् आकर्ण्य जोषं जुषमाणे तु व्रज-राजे, मुनिः पुनर् उवाच—“व्रज-राज, भवद्-इच्छया वयम् एवागम्य चागम्य चानयोर् द्विजाति-संस्कारान् करिष्यामः, किन्तु कर्ण-वेध-चुडा-करणे न सम्भवतः । पश्य चाभ्यर्णतः सुक्ष्मतया कर्ण-च्छिद्रम् अस्ति, केश-लवस्यापि लवः स्फुटं न सम्भवतीति, ततश् चान्न-प्राशन-मात्रं भवद्भिर् आचर्यम् । सावित्र-समावर्तन-विवाह-वृत्तं तु न स्वयम् उद्यम-पात्रं कार्यं, किन्तु समय-ज्ञैर् असमय-ज्ञैर् अस्माभिर् एव” इति ।

[४७] ततश् च क्षणं मुनिताम् एव व्यवस्यन् मुनिस् तौ पश्यन् वश्य-मना बभूव । ततश् च,

यद्यपि पित्रोः स्नेहान्वय-मय-बाल्यैक-तानौ तौ । तद् अपि मुनिस् तज् ज्ञानं शङ्कितवान् सङ्कुचन्न् आसीत् ॥४६॥ [उपगीति] सङ्कोचाद् इव गोप प्रभुम् अनु स मुनिर् विधापयन्न् आज्ञाम् । चलितोऽप्य् अलभत तस्मिन् स्थित इव तत्-तत्-परिस्फूर्तिम् ॥४७॥ [आर्या]

[४८] चलन-समये तु श्रीमान् व्रजेशः स्वयम् अनुव्रज्य बालकाभ्याम् अभ्यवादयत । स च, “स-गवे सह-पुत्राय स्वस्ति तेऽस्तु व्रजाम्य् अहम्” इति व्यक्तम् उक्तवान् ।

[४९] ततश् चात्मनो महता सुप्रजस्त्वेन व्रज-राजः स्वान्तर् एवम् आत्मानम् आमन्त्र्य वदन् ननन्द,

“पुत्रो लब्धः सुचिराद् इष्टः स महद्भिर् एवम् आदिष्टः । अस्मात् पूर्णानन्दान् मनुष्व ननु नन्द-पूर्णोऽस्मि ॥“४८॥ [आर्या]

[५०] अथ मुनये स दाक्षिण्याय स-दक्षिणानां गवाम् अयुतं प्रयुतं च गोपैर् इन्द्रगोप-वर्णानां स्वर्णानां परोक्षं विहापयामास, “यथेच्छं स्वीय-परकीय-यज्ञ-योग्यं क्रियताम् इदम्” इति ।

[५१] अथ निज-द्विज-स्वजन-वर्गान् आहूय च भूयः प्रकटम् एव विशङ्कट-तत्-तन्-नाम-करण-पर्वणा सर्वान् आनन्दितवान् इति ।

[५२] तद् एवम् अवधारयन् मधुकण्ठः सह-विस्मय-गद्गद-कण्ठम् आह स्म,

नाम्ना प्रसिद्धिम् अन्यस्य प्रसाधयति नाम-कृत् । अहो कृष्णस्य तत्-कर्ता गर्गस् तेन प्रसिध्यति ॥४९॥ [अनुष्टुभ्]

[५३] अथ मधुकण्ठश् चिन्तयामास, “तस्मान् नन्दात्मजस् ते यद् अपि हरि-समः” इति यद् उक्तम्, तत् तु युक्तम् एव, नारायण-समो गुणैः [भा।पु। १०.८.१९] इति हि श्रीमद्-भागवत-स्थं तद् वाक्यम् अपीदृशं दृश्यते, तत्-पुरुष-बहुव्रीहिभ्यां श्लिष्टत्वाद् अस्याधिकत्वं च लक्ष्यते इति । [५४] प्रकटं चोवाच—ननु नाम-करणं विशिष्य न प्रोक्तम् अन्न-प्राशनं तु न किञ्चिद् अपीति । तच् च तच् च स्तूयमानतया प्रस्तूयताम् ।

[५५] स्निग्धकण्ठः सहासम् आह स्म—

तन् नाम-करणं चान्न-प्राशनं च व्रजे महः । यातम् अस्मन्-मनो-राज्यं न पृथक् स्तोतुम् ईश्महे ॥५०॥ इति । [अनुष्टुभ्]

[५६] तद् इदं प्रोच्य पुनः सानन्दम् उवाच—ततः श्रूयताम् उत्तर-वृत्तान्तः-

यदवधि गर्गः प्रययौ व्रज-सदनान् नाम निर्माय । क्रमतस् तदवधि पृथुकाव् अभिमान्येते स्म तेन स्वैः ॥५१ [उपगीति]

यथा—

उत्कर्णता-निशमनं नयनाभिमुख्यं स्व-भ्रातृ-नाम्नि च निजाह्वय-भाण-रीतिः । तत्-तद्-विविक्तिम् अभि झङ्कृति-माधुरी च स्वान् अत्र कृष्ण-बलयोर् बलवत् पुपोष ॥५२॥ [वसन्ततिलका] उदीक्ष्य मधुरं मुखं सुख-चरिष्णु कृष्णाख्यया तदा जनक-दिष्टया तनयम् इष्टम् आहूय तम् । तदीय-कल-हुङ्कृतीर् अपि निशम्य रम्याकृतीः प्रसूर् अमृत-भृत्-प्रभा जगति शर्म सा निर्ममे ॥५३॥ [पृथ्वी] अथाव्रजद् द्रुतम् इव रिङ्ग-रङ्गतां तयोर् व्रजेश्वर-सदनाङ्गन-क्षितिः । समेत्य तौ चरण-चरार्भका मुहुर् विलेभिरे सुखम् अभिलेभिरे ततः ॥५४॥ [रुचिरा]

[५७] अत्र गायन्ति चाद्यापि-

“रिङ्गन-केलि-कुले जननी-सुख-कारी । व्रज-दृशि सुकृत-स्फुरद्-अवतारी । वलयित-बाल्य-विलास जय बल-वलित हरे! ॥ध्रु ॥ किङ्किणि-गण-रणने हृदये रुचि-धारी । पद-युग-चालन-कुतुक-विहारी ॥ गोरस-कीर्णि-भवे पङ्के लघु-चारी । वारण-कारण-वाग् अतिचारी ॥ अकलित-जन-मिलने तस्माद् अपसारी । जननीं प्रति गति-चापल-भारी ॥ जननी-स्तन-वसने भय-भाग्-अनुहारी । तत्र पयो-रस-विसराहारी ॥ वपुषि मृदा मलिने मृदुताम् अपहारी । जननी-कर-कृत-मृजया हारी ॥ अपि तन्द्रावलने स्तनपाम् अनुकारी । जननी-स्मित-पतद्-अमृतासारी ॥“५५ इति

> [मात्रासमक]

ततश् च,

वर्ष-पञ्चकम् अनु स्खलेद् वयस् तत् तु तत् त्रयम् अनु द्वयोस् तयोः । किन्तु न स्खलति तत्-किशोरता या गतागमि-दशा-तिरस्करी ॥५६॥ [रथोद्धता]

[५८] यथानन्तरम् आह—

कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले । अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् ओजसा ॥ [भा।पु। १०.८.२६] इति ।

[५९] यथा च शम्बर-गृहात् प्रथम-वयसः प्रद्युम्नस्यागमन-समये प्राह—कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस् तत्र तत्र ह [भा।पु। १०.५५.२८] इति । तत्र च—

न नव्याद् यौवनाद् अन्यावस्था तस्येति यन् मतम् । वर्जयत्य् अङ्ग-वृद्धिं तन्, न माधुर्य-समर्जनम् ॥५७॥ [अनुष्टुभ्]

[६०] यतः प्रियजनभावभावित एव तस्याविर्भाव इत्य् अवादि स्म । तत्र तद्-भावो यथा-

उत्कण्ठा वष्टि तृप्तिं स्थवयितुम् अभितः सा तु शश्वत् कृशन्ती ताम् एवोच्चैर् बकारेः स्थवयति झटिति प्रेम-भाजां जनानाम् । यद्यप्य् एवं तथापि प्रथमज-वयसस् तूर्ध्वगां तत्-तद्-ईहां नोष्टस् ते सुष्ठु किन्तु प्रसृमर-मधुरिम्ण्य् एव तां निर्मिमाते ॥५८॥

> [स्रग्धरा]

[६१] अथ कालेनाल्पेन इत्य् आदौ लीलायाः साधु-रीति-मधुरतास्वाद्यताम् । [६२] तत्र गति-शिक्षा यथा—

हस्त-त्याग-मये नव्ये संस्तव्ये गति-शिक्षणे । पुत्रे स्खलति सा जीयान् मातुः पुत्रस्य च त्वरा ॥५९॥ [अनुष्टुभ्] द्वित्र-क्रमं गतः कृष्णश् चलितः स्खलने रुदन् । पुत्र पुत्रेति चुम्बन्तीम् अम्बाम् आलोलयन् मुहुः ॥६०॥ [अनुष्टुभ्] किञ्चिद् दूरं यद् आनञ्च स्वक-तेजः-प्रपञ्चकः । स्थिरीभूय प्रसू-वक्त्रं स-स्मितं स व्यलोकत ॥६१॥ [अनुष्टुभ्] दूरं मातुर् यदा याति तदासौ मन्थरायते । समीपं तु यदा तर्हि स्मयमानो द्रुतायते ॥६२॥ [अनुष्टुभ्]

[६३] गीः-शिक्षा यथा—

प्रथमम् अग्रजस्य तुण्ड-पुण्डरीके ।

क्षरद्-अक्षर-मधु-मधुरे जाते ॥६३॥3

[६४] तद्-अनुजातम् अपि धात्र्या लापयामास । यत्र च—

“मा मा ता ता” इति वचः पठन् नन्द-तनूजनुः । आनन्दार्थम् अभूत् पित्रोर् व्रजस्य निखिलस्य च ॥६४॥ [अनुष्टुभ्] अर्धोदितानां दन्तानाम् अक्षराणां तथा ततिः । चित्रीयामास कृष्णस्य यत्राचित्रीयत प्रसूः ॥६५॥ [अनुष्टुभ्] “ईशीथाः किं जगत्याम्?” “ओम्” “बन्धून् पास्यसि नः किम्?” “ओम्” इत्य् आदि मातृ-सुतयोः संवादवद् अभूद् इह ॥६६॥ [अनुष्टुभ्] अज्ञात-वाचं शुकवत् पठन्तं विशेष-पृच्छा-कृति-तर्जनीकम् । धात्री-जनाध्यापित-वाक्-प्रचारं व्रजस्य भाग्यं परितः स्मरामि ॥६७॥ [उपजाति ११] नाम-ग्राहं तदा प्राह रामः कृष्णं शनैः शनैः । कृष्णो रामम् अथार्येति मातॄणां परिशिक्षया ॥६८॥ [अनुष्टुभ्]

तदा च—

पृच्छन्त्या वृद्धयाङ्गानि यदा किम् अपि पृच्छ्यते । तदाम्बा-शिक्षया बालः स तां मुहुर् अताडयत् ॥६९॥ [अनुष्टुभ्]

[६५] अथ भ्रातृ-द्वयम् अपि मिथः किञ्चिद् वदति स्म, यथा—

“आगच्छ खेलां गच्छाव ।” “माता कोपं करिष्यति” । “न कुर्याद्,” इति तौ बालौ कृष्ण-रामौ समूचतुः ॥७०॥ [अनुष्टुभ्]

[६६] अथ बाल्यचापल्यं चावकल्यताम्-

दंष्ट्रां धित्सति दंष्ट्रिणः फणि-पतेर् उद्यत्-फणां शृङ्गिणः शृङ्गं प्रज्वलद्-अर्चिषं हुत-भुजः कोटिं च खड्गादिनः । इत्थं भ्रातृ-युगं निवर्तितम् अपि प्रागल्भ्यम् एवासदन् मात्रोस् तेन समस्त-विस्मृतिर् अभूद् गेहेऽपि देहेऽपि च ॥७१। [शार्दुल] “दूरम् अञ्च न हि चञ्चल स्फुटं तत्र कोऽपि वरिवर्ति भीषणः ।” एवम् एष जननी-गिरा पुनस् तत्-कृते कुतुकितां दधे शिशुः ॥७२॥ [रथोद्धता] शिशुना भीष्म-ग्रहणे स्थाने मातुर् भयं यतो माता । कवयस् त्व् इदम् अनुमिमते तेजस्वित्वस्य बीजं तत् ॥७३॥ [आर्या] यं यं पदार्थम् अतितीव्रम् इयं प्रयाति भ्रातृ-द्वयी, स च स च प्रतिभाति सौम्यः । अत्रानुमान-विदुरा निरनैषुर् एतद् युग्मं भविष्यति सदा कलि-नाशनाय ॥७४॥ [वसन्ततिलक]

[६७] अथ क्रमेण मातृ-वञ्चनी बुद्धिर् अप्य् उद्बुद्धा । यत्र यत्र स च स च,

“नैव नैव चल चञ्चल रे रे,” वाक्यम् एतद् अवकर्ण्य जनन्याः । मायया स्म परिवृत्य हसित्वा तां निवर्त्य लषिते वरिवर्ति ॥७५॥ [स्वागता]

[६८] अल्प-हीन-हायन-वयस्त्वे तु जाते यत्र कुत्रचित् क्रीडनाय निर्गच्छन्तौ न सम्भालयितुं शक्येते । सम्भालितौ च तौ कुतो लीयेत इति नावधारयितुं पार्येते। [६९] अथ जननी-द्वयम् उभयतो वर्त्मावृत्य परितश् च धात्रीर् अवधान-विधात्रीर् वितत्य द्रवन्तौ तत्र-भवन्तौ गृह्णाति । [७०] ततो रुदन्तौ हसन्तौ च तौ गृहान्तरानीताव् उद्वर्तनादिना वेष-परिवर्तनादिना च स्तन-पायनादिना शायनादिना च रोचयति ।

[७१] तद् एवं वर्णनम् आकर्णयत्सु सभासत्सु प्रहसत्सु श्रीमद्-व्रज-पुरन्दर-कुल-धुरन्धर-किशोर-वरे चानवरजेन सह दर-स्मित-सुन्दरतर-वदनतया नेत्रादरणीये सति समापनाय पुनर् उवाच स्निग्धकण्ठः—

ईदृशस् तनयो जातस् तव गोपाधिनायक । बाल्यावलित-चापल्याद् अपि यो मुनि-मोहनः ॥७६॥ [अनुष्टुभ्]

[७२] अथ कृत-सुख-प्रथायां कथायां वृत्तायाम्, अन्य-दिनवत् कथकान् स प्रसाधनं सेधयामास शुभ-चरित्री-व्रज-धरित्रीशः ।

इति श्री-श्री-गोपाल-चम्पूम् अनु

विशङ्कट-शकट-विघट्टनादि-विचित्र-बाल्य-चरित्रं नाम

षष्टं पूरणम्

॥६ ॥

(७)

७। अथ सप्तमं पूरणम्

८। बाल्य-लीला-चौर्य-शौर्यं [१] अथ दिनान्तरवत् प्रभातान्तः प्रभातायां सभायां मधुकण्ठ उवाच—स्निग्धकण्ठ, लीलान्तरेण निदिग्ध-चित्तो भव ।

[२] अथ वर्ष-जाते जाते नभस्ये मासि सर्व-सम्पन्-मयं जन्म-दिनम् आयातम् । तत्र च गर्गोपदेश-वर्गोपाश्रया कृष्णस्य जन्म-तिथि-पूजा पूर्यते स्म । यत्र च व्रज-क्षिति-पतिना प्रशस्त-वाचनादि-पूर्वकापूर्व-पर्व प्रवर्तयामास । यथा—

वेदैर् वाद्यैः प्रगीतैर् नटन-पटिमभिः मन्त्र-पूर्वाभिषेकैः स-प्रीत्य्-आदान-दानैः प्रमद-कल-कलैर् यज्ञ-विज्ञ-प्रयोगैः । षट्-तिल्यादि-प्रकारैर् मृद्-अगुरु-रस-धान्यादि-भव्याभिमर्शैर् मत्स्यादीनां प्रमोकैर् अजनि जनि-तिथिर् गोप-राजाङ्गजस्य ॥१॥ [स्रग्धरा]

किन्तु,

क्रमेण वृद्धिर् वर्षाणां यथा नन्दात्म-जन्मनः । तथा तत्-पर्वणोऽप्य् आसीत् स्फुटं यद्-अभिदा द्वयोः ॥२॥ [अनुष्टुभ्] कृष्ण-भोजनम् अन्नं यत् कृष्णाच्छादनम् अंशुकम् । तत्-तन्-नाम्ना प्रचारोऽभूत् तस्य तस्य व्रजे ततः ॥३॥ [अनुष्टुभ्]

[३] तद् एवं हर्षेण वर्षे गणिते, कदाचिद् वर्षियः-प्रभृतिषु स्त्री-पुंसेषु तत्-तत्-कृति-व्यापृतेषु निजोत्सङ्गेन बाल-गोपालः स्व-मन्दिरालिन्दे जनन्या लाल्यते स्म, यथा—

मुखे मुखं लगयति चुम्बति स्म तद् वृथा कथाः कथयति तेन दुर्गमाः । हसत्य् अथो हसति च तत्र बालके व्रजेश्वरी सुख-शत-सिक्तताम् अगात् ॥४॥ [रुचिरा]

[४] ततश् च पूर्व-पूर्व-निहिंसनात् प्रजात-मति-भ्रंशेन धैर्य-रहिततया कंसेन प्रहितः सुमनसाम् अहितः सुर-वर्त्मनि दूरतः स्थितस् तृणावर्तस् तं तथा वर्तमानं ददर्श विममर्श च । सोऽयम् एव तोयद-वर्णः पृथुकः पृथु-गृहालिन्दं विन्दमानाया मातुर् अङ्के वर्तत इति शङ्के ।

[५] तद् एवम् अधुना सर्वं धुनानः साम्बालम् एव बालं सुर-वर्त्मनि वर्तयाणि । किन्तु पूतना नूतन-तनु-कलनया, शकटश् च शकटाविष्टामूर्तता-वलनया छलयितुम् इष्टेनाप्य् अनेन दिष्टान्तम् आप्यते स्म । तस्माद् अहं तद्-उभयेतर-वात-रूपेण प्रविशामि इति ।

[६] तदा च सदा तद्-अवसरम् अनुसरन्ती तु योग-माया तद्-वपुर्-योगम् आयाता, मातुः पृथग्-भावाय स्व-वैभवम् आविर्भावयामास । येन च तद्-अम्बा कोमल-नील-कमलायमान-कलेवरस्यापि तस्य भारम् असहमाना विस्मयमाना चान्यस्य तद्-भारासहतया सहसा भूमाव् एव तं धृतवती, ध्यातवती च जगताम् अन्तर्यामि-पुरुषम् । अतिभीता च तद्-उपद्रव-बाधनाय तद्-आराधनाय व्यग्र-चित्ता बभूव ।

[७] तृणावर्तस् तु वातावर्तेन वर्तमानः सुर-वर्त्मनि तं च वर्तयन् गल-ग्रह-पाशम् इव सञ्जग्राह । गोष्ठम् अपि कष्टद-कर्करादि-वृष्टिभिर् नष्ट-प्रायतया घट्टयामास । यत्र च त्रसम् अत्रसम् अपि सर्वं वित्रस्तम् अस्ति स्म । ततश् च,

तमोभिर् आवृतं सर्वं बहिर् एव न केवलम् । जनानाम् अन्तरं चासीत् तृणावर्त-प्रवर्तने ॥५॥ [अनुष्टुभ्]

[८] तेन तु दुर्जनेन तदैवम् अन्यूनानां जन्यूनाम् अजन्ये जन्यमाने तत्र वित्रस्ताः प्रजाः प्रजजल्पुः, यथा—

उत्सर्पत्-कर्परांश-व्रण-जनक-जवः श्रोत्र-दृक्-तर्ज-गर्ज- ध्वानस् त्रुट्य्-उत्कुठेषु प्रकट-कट-कटेष्व् अर्धयन् वायुर् आयुः । गोष्ठं कोष्ठं च भिन्दन्न् नटति बत हहा हन्त किं तत्र वृत्तं यत्रास्ते नील-पङ्केरुह-दल-तुलना लालिताङ्गः स बालः ॥६॥ [स्रग्धरा]

श्रीमन्-नन्द-देव-मन्दिरे तु—

उपद्रवेऽस्मिन्न् अधि यद् दधे सुतं तं तत्र नापश्यद् असौ व्रजेश्वरी । गवाधिक-स्निग्धतरापि या तदा विचार-लोपाद् वलते स्म गो-तुलाम् ॥७॥ [उपजाति ११] उपप्लव-मरुत्-प्लवेऽभजति तत्र पुत्रास्तिताम् अवीक्ष्य पशुपेश्वरी बत जगाम यां व्यग्रताम् । हहा विगत-तर्णका बुधित-लोक-भाषादिका यदि स्फुरति नैचिकी क्वचन काचिद् ऊहते ताम् ॥८॥ [पृथ्वी]

[९] तदा च ताम् आरभ्य जन-रोदन-परम्परया परितः प्रसर्पणाद् अमन्देन तद्-आक्रन्देन सर्व-गोकुलम् आकुलं बभूव । [१०] अविगणय्य च तादृशं विसदृशम् उपद्रवं सद्रवम् एवागम्यागम्यापार-दुःख-वार-वारां निधौ सर्वे ममज्जुः । तत्र च—

तृणावर्त-हृते कृष्णे मातुर् भारायिता तनुः । तदीयानां यथा सासीद् उभयेषां यथा त्रुटिः ॥९॥ [अनुष्टुभ्]

[११] ततश् च, सर्वासु निर्विशेषं रोदन-वशतां विशन्तीषु, हा रोहिणि, द्रोहिणि, किं करिष्यामि? कथं तम् अनवलोक्य मरिष्यामि? कथं वा व्रज-राज-दिशि मुखं वितरिष्यामि इति पर्यन्तं पर्यन्त-दशावसानम् अनु यः खल्व् अशेष-विलापनः प्रसू-विलापः । स पुनर् अवकलितः सहसा घृतम् इव विलालयति हृदयम् । कथं कथयितुम् ईश्यते? इत्य् अलम् अतिप्रसङ्गेन इति मधुकण्ठः स्वस्य सर्वस्य च वैवश्य-वश्यताम् आशङ्क्य मङ्क्षु सङ्कथयामास,

[१२] नभसा हृतस्य सुजातस्य श्रीमन्-नन्द-जातस्य तस्य बन्धूनाम् अवगाढ-दुःसह-साद-सिन्धूनां सहसानुकूलं कूलम् आसन्नम् । तथा हि,

बाल्य-स्वभावेन बलानुजन्मा
बलान् निजग्राह गलं तदीयम् । तदातिगाढं स च पीडितस् तौ
मेने भुजौ पाशि-भुजङ्ग-पाशौ ॥१०॥ [उपजाति ११] भुजापीडनवत् तस्य भारश् च ववृधे शिशोः । वोढुं त्यक्तुं च रोद्धुं च नाशकद् दानवाधमः ॥११॥ [अनुष्टुभ्] तदा च माल्य-हरतानर्हावस्थेन चामुना । स भार-हारतां प्राप्तः स्व-प्राण-हरतां गतः ॥१२॥ [अनुष्टुभ्]

यथा,

माल्य-बुद्ध्याहिवल् लोम-पटल-भ्रान्त्या तम् ऋक्षवत् । कृष्णोऽववेष्टद् आत्माङ्गं वातूलः कथम् उज्झतु? ॥१३॥ [अनुष्टुभ्]

यथा च,

तृणावर्ते रुद्ध-कण्ठे तच्-छ्वासा रुद्धतां गताः । तदैव च बहिर् वातास् तत् किं तस्य त एव ते? ॥१४॥ [अनुष्टुभ्]

[१३] अथाकाशावकाशात् प्रस्तर-कृतास्तरणायाम् अङ्गण-स्थल्याम् अतिविस्तीर्णं महा-घोष-बधिरी-कृत-घोषं तद्-वपुर् निपपात । निपत्य च मूर्तिमन् मूर्तिकम् अपि श्लथ-सन्धि-बन्धी-भूतम् अदृश्यत । ततश् च, तत् तु,

किम् इदम् अहहहा पपात कस्माद् इति परिवव्रुर् उपेत्य गोप-रामाः । भयम् अधुर् अथ कं निरीक्ष्य रक्षस् तद्-उपरि बाल-हरिं च मृग्यमाणम् ॥१५॥ [पुष्पिताग्रा] दनु-सुतम् अलम् उद्विवर्तिताक्षं शिशुम् अथ वीक्ष्य निरीक्षमाण-नेत्रम् । तद्-उपरि सहसा निधाय लत्ताम् अमुम् उपजह्रुर् अमूर् मुदा जनन्याम् ॥१६॥ [पुष्पिताग्रा]

[१४] अथ मन्त्रवत् किञ्चिद् वचनात् पुनर् अमूर् अमुष्याश् चेतनाम् आचिन्वते स्म, यथा,

मृत्युर् मृतो, मृत्यु-हृतस् तु जीवितस् तद् एतम् आदत्स्व तनूज-वत्सले । इत्य् उक्ति-मन्त्रान्वित-बालकौषधं विन्यस्य तां प्रत्युदजीजिवन्न् अमूह् ॥१७॥ [उपजाति १२] शिशुम् उपसद्य यशोदा दनुज-हृतं द्राक् चिचेत लीनापि । वर्षाजलम् उपलभ्य प्राणिति जातिर् यथेन्द्र-गोपानाम् ॥१८॥ [गीति] अथागमन् व्रज-पति-सङ्गता जनाः स-विस्मयं स-भयम् अदभ्र-सम्भ्रमम् । गृहान्तर-व्रजन-विचारणाऽन्यदा न तर्ह्य् अभूद् यद् अभवद् एक-भावता ॥१९॥ [रुचिरा] पश्यन्न् अपि तृणावर्तम् अपश्यन्न् इव तं जनः । कृष्णम् एवागमद् द्रष्टुं तत्-प्रेमा ह्य् अद्भुतादिजित् ॥२०॥ [अनुष्टुभ्] स्पृष्टः कम्प्रेण हस्तेन दृष्टः सास्रेण चक्षुषा । पित्राथ मातुर् उत्सङ्गाद् अवित्रा शिशुर् आददे ॥२१॥ [अनुष्टुभ्]

[१५] ततश् च राक्षस-स्पर्शज-क्षतजादि-शङ्कया,

निरीक्षितावयव-गणोऽपि मातृभिर् विलोकितः स तु जनकेन कृत्स्नशः । ममेति-धी-पृथु-ममतास्पदं दृशा स्वया परं न तु परया परीक्ष्यते ॥२२॥ [रुचिरा]

[१६] अथ व्यग्रेहिता वृषभान्व्-अग्रेसराः परम-हिताः परस्परम् अपरस्परं कथयाञ्चक्रुः—

क्वायं हतस् तीव्र-बलः पलाशनः, क्व तीर्णवान् सोऽयम् अतीव बालकः । किं वा स्व-पापेन विहिंस्यते खलः साधुः समत्वेन भयात् प्रमुच्यते ॥२३॥ [उपजाति १२]

[१७] अथवास्माकम् एव भाग्यम् इदम् इति योग्यम् । तथा हि—

किं नस् तपः पूर्तम् अशेष-सौहृदम् दत्तं तथेष्टं हरि-तुष्टयेऽजनि । रक्षो-गृहीतः पुनर् एष बालकः स्वयं स्व-बन्धून् सुखयन् यद् आगतः ॥२४॥ [उपजाति १२] समस्तार्थ-करी विष्णु-भक्तिः साक्षाद् व्रजेश्वरे । दृश्यतां मृश्यताम् अन्यत् किं वा बालक-मङ्गलम् ॥२५॥ [अनुष्टुभ्]

यतः—

सर्वदा क्रमते यस्य बुद्धिः सद्-भक्तये हरेः । स सदा क्रमते तस्य लक्ष्मीश् च क्रमतेतराम् ॥२६॥ [अनुष्टुभ्] इति ।

[१८] देवाश् च स-कौतुकम् इमं श्री-कृष्णाभिप्रायम् उत्प्रेक्षां चक्रिरे ।

बालोऽहं न परिचिनोम्य् अभद्र-भद्रं यः क्रोडे कलयति तद्-गलं दधामि । तेन त्वं यदि मरणं प्रयासि कः स्विद् दोषः स्यान् मम तम् अथ त्वम् एव जल्प ॥२७॥ [प्रहर्षिणी] इति ।

[१९] ततश् च सर्वानर्वाचीनाभीर-वीराणां सेयं मन्त्रणा जाता, गोष्ठम् इदं दुष्टानाम् अधिष्ठानं वृत्तम्, तस्माद् गृह एव गोपनीयम् इदं बाल-युगलम् इति ।

[२०] ततः शङ्कातिशय-मयं दिन-कतिपयं नाना-क्रीडनकेन क्रीडयमाना मातृ-समाना गोपिका गोपिका बभूवुः । यत्र च बाल-बालिका-कुल-पालिकादयः सदयं समागम्य रम्यं तत्-केलि-कुतूहलं कलयन्ति, यथा—

क्रीडनानि विविधानि तं सदा दर्शयन्ति च मुदा हसन्ति च । खेलयन्ति च बलेन ता इति स्वान्तरे परम् अमू अरक्षिषुः ॥२८॥ [रथोद्धता]

ततश् च—

बालेन समम् अन्योऽन्यं प्राबल्यं दर्शयन्न् इव । ऊर्ध्वाधो-भावम् आसाद्य सर्वा हासयति स्म सः ॥२९॥ [अनुष्टुभ्] मातॄणाम् अग्रतो बाहू विक्षिपन् धावति स्म सः । दर्शयन्न् इव तेजः स्वं हसन् पाते रुरोद च ॥३०॥ [अनुष्टुभ्]

बलं वा ज्ञानं वा कियद् अभवद् अस्येति विमृशन् यदा गोपी-सङ्घः किम् अपि मुहुर् आनेतुम् अदिशत् । तदा शक्तिं व्यञ्जन् क्व च पुनर् अशक्तिं क्व च शिशुः स पश्यंस् तद्-वक्त्रं हसति च पुरो हासयति च ॥३१॥ [शिखरिणी] नामादेशं यदा माता दिशते नयनादिकम् । कृष्णश् च कुरुते बाढं चक्रे तस्या न किं तदा? ॥३२॥ [अनुष्टुभ्] रुदन्तम् इन्दवे मन्थ-गर्गर्यां प्रतिरूपिणे । पिण्डेन नावनीतेन वृद्धागर्धयतार्भकम् ॥३३॥ [अनुष्टुभ्] स्वस्य स्वल्पापहारेऽपि चक्रन्द मणि-हानिवत् । कृत्वान्य-मणि-हानिं च प्राहसीद् बाल-कृष्णकः ॥३४॥ [अनुष्टुभ्] निर्मञ्छनं तव भजाम कुलेशलाल्य बाल्यातिमोहन बलानुज नृत्य नृत्य । इत्य् अङ्गनाभिर् उदितस् थि थि थित्थि थीति कॢप्तेन ताल-वलयेन हरिर् ननर्त ॥३५॥ [वसन्ततिलका] मां नर्तयत भो वृद्धाः, इति तासां पुरो गतः । भद्रं नृत्यसि भद्रस् त्वम्, इति स्तोत्रान् ननर्त सः ॥३६॥ [अनुष्टुभ्] विहसन्तीषु सर्वासु सौष्ठवात् प्रच्यवाद् अपि । नृत्यन् व्रीडितवत् कृष्णो मातुर् अङ्केऽपलायत ॥३७॥ [अनुष्टुभ्]

[२१] क्षणं विरम्य च रम्याननः स्तन-धयनम् अपि तत्रारब्धवान्, यद् दर्शनम् अनु सङ्कर्षणः सेर्ष्यम् इव निजम् उत्कर्षं वाञ्छन् निज-जननी-स्तन-पानम् आरब्धवान् । [२२] तदैव च तौ लीलाभिः प्रमीलाम् आगतौ यातृभ्यां मातृभ्यां शनैः शनैः शय्याम् अधिशाय्येते स्म ।

[२३] तद् एवं सरामस्य तस्य निरोधे विधीयमाने बहिर् विजिहीर्षिते चातीव तद्-उपजीवन-पीवताम् आसन्न् एव योगमाया तद्-अनुकुल्याय किञ्चित् प्रपञ्चितवती, यथा—

एकदार्भकम् आदाय स्वाङ्कम् आरोप्य भाविनी । प्रस्नुतं पाययामास स्तनं स्नेह-परिप्लुता ॥ पीत-प्रायस्य जननी सुतस्य रुचिर-स्मितम् । लालयन्ती मुखं विश्वं जृम्भतो ददृशे इदम् ॥ [भा।पु। १०.७.३४-५] इति ।

[२४] तेन च सन्ततं विस्मयमानायां निजजायायां तस्यां कदाचित् श्रीमान् व्रजराजः पप्रच्छ, मया यद् अनिष्ट-भयाद् बाल-रोधनम् उपदिष्टम्, तत् किं निर्वहति?

[२५] सा प्राह—निर्वहत्य् एव, किन्तु वृथेति लक्ष्यते ।

[२६] व्रजराज उवाच—हन्त, कथम् इव?

[२७] सा प्राह—व्रज-मात्र-व्रजनं वर्ज्यते । दृष्टं तु मृष्ट-स्मितं जृम्भमानस्य बालकस्य वदन-द्वारा जगद् एव इति ।

[२८] अथ व्रजराजः स-वैलक्ष्यम् आलक्ष्य लक्ष्मी-जानि-लक्ष्यतया मौनम् आलम्ब्य विलम्ब्य चोवाच—यद्य् एवम्, तदा स्वजन-परायणस्य श्री-नारायणस्य विधित्सितम् एव सर्वं विचिकित्सितम् अपि चिकित्सितं करिष्यति । तस्यैव खल्व् इदं वैभवम् इति।

[२९] एवं तद्-अवधि तद्-विधिना नातिनिरोधे विधीयमाने क्वचिद् अपि समये संयमनं समया सरामः स रामानुजः श्रीदाम-सुदाम-वसुदामादिभिः समं रमते स्म । [३०] तत्र विनोदेन मृददनं चक्राणे चक्राङ्कित-चरणे सङ्कर्षणा-दयः खेलायां कलित-कलहा रहस् तन्-मातरं निवेदयामासुः, ये खलु तया तद्-विध-विधानेऽवधापिता विधीयन्ते स्म । [३१] माता च प्रच्छन्नम् आगच्छन्ती बाहुं गृहीत्वा पप्रच्छ, चपल, किम् इदं दुश्चरितम् आचरितम्?

[३२] स तु सहसा सङ्कलितानन-कमलः कातर-मतिर् मातरम् उवाच—मातर्, न किम् अपि ।

[३३] माता प्राह—मृत्तिकाम् अत्ति स्म भवान् ।

[३४] सुत उवाच—क इदं वदति?

[३५] माता प्राह—सर्व एव तव सवयसः ।

[३६] सुत उवाच—एते खलु निज-निज-वस्त्यान् मधुर-वस्तूनि मुष्णन्तः स-तृष्णम् अत्रपम् अत्र परस्परम् अश्नन्ति, तद् अनङ्गी-कृतवतः कपाटित-रदने मम वदने प्रथमं समं बलाच् छलाद् अपि समर्पयन्ति, तच् च त्वयि स-निर्वेदं निवेदयितुम् इच्छोर् मम तुच्छं स-विवादं दुर्वादम् एतम् अवादिषुः।

[३७] माता सुविस्मितम् ऊर्ध्वम् अधो मूर्धानम् आधूय सस्मितम् उवाच—सव्याज-राज! तवाप्य् अग्रजः सोऽयं व्यञ्जयति, तत्र किं वदिष्यति?

[३८] सुत उवाच—एते सर्व एव वीथ्यां वीथ्यां मिथ्याभिशंसिनः ।

[३९] माता प्राह—स-च्छल-प्रलपित! भो मत्-पितः, बलभद्रः किम् इति प्रमिति-रहितम् अभद्रं वदतु?

[४०] सुत उवाच—अयम् अप्य् एतद्-गण-पातीति तथान्येद्युर् मृत्तिकाम् अत्ति स्म, तद् अवद्यं निवेदयितुम् उद्यतं मद्-वचनं मृषोद्यताम् आसादयितुम् इति ।

[४१] माता तन्-मुखं धृत्वा सहासम् आह स्म, किम् इदं चिरं निगिरन्न् असि?

[४२] सुत उवाच—उक्तम् एव मम लपने बलाद् गलान्तः प्रवेशाय किम् अपि न्यस्तं समस्तैः इति ।

[४३] माता प्राह—धूर्त, कथं जानीयाम्?

[४४] सुत उवाच—साम्प्रतं मम मुखम् एव निरीक्ष्यताम् ।

[४५] माता स-संरम्भ-स्मितम् उवाच—व्यादेहि, पश्यामः ।

[४६] ततश् च भयेन स एष मृच्-चिह्नितम् अप्य् अह्नाय वदनं व्याददौ । [४७] ततस् तद्-भयम् अवदधाना समादधाना च रसान्तरेण मातुः कोप-शान्तये तद्-अन्तर्-योगम् आयाता सा योगमाया पुनर् विश्वं दर्शितवती ।

[४८] तत्र चेदं व्रजेश्वरी पराममर्शे—

अहो बहिर् इवेक्ष्यते जगद् इदं मुखाभ्यन्तरे शिशोस् तद् अनु भूर् इयं भुवि च माथुरं मण्डलम् । इह व्रज-कुलं यद् अन्व् अपि मया धृतो बालकः स एव तद् अहो कथं किम् इव हन्त किं सिध्यति ॥३८॥ [पृथ्वी]

[४९] अथ पुनः स्वप्नादिकम् अनल्पं कल्पयित्वा पश्चिमम् इदं निश्चिकाय,

अहं यशोदास्मि पतिर् व्रजाधिपः सुतः स एष स्वम् इदं च गोकुलम् । प्रतीयतेऽथापि शिशोर् मुखे जगद् यन्-माययेत्थं कुमतिः स मे गतिः ॥३९॥ [उपजाति १२]

[५०] तद् एवं स च नारायणस् तद्-भाव-परायणतां ताम् अनु नितान्तां विचारयन्न् आत्मनः परमाभिरुचि-परिचिताविर्भावे तस्मिन्न् एव विस्मिति-निचितं जनन्य्-उचित-स्नेहम् एव देहयामास, यं खलु नेमं विरिञ्चि [भा।पु। १०.९.२०] वक्ष्यमाणानुसारेण समस्तानि शास्त्राणि सदा प्रशस्ततया गायन्ति ।

[५१] अथ कौतुकान्तरं चान्तरम् आनीयताम् । तद् एवं सर्वानन्दनः श्रीमन्-नन्द-नन्दनः क्रीणीहि भोः फलानि इति [भा।पु। १०.११.१०] गीति-रीति-रोचन-वचनं कर्णयोर् आरचयन्न् एव चपल-लोचनः किञ्चनाप्य् आलोचयन्न् एव च लघुनापि पाणि-युगलेन लघुतया पुरः पतित-धान्य-पुञ्जतः पूर्णम् अञ्जलिम् आदाय तद्-अभिमुखं जगाम । किन्तु द्रव-वशाद् अल्पकाञ्जलितः स्खलितम् इदम् इति भिदां न विदाञ्चकार, केवलम् एव कर-युगलं क्रय्य-फल-पूरित-तत्-पत्र-पात्रोपरि परिवृत्त्या च चालयामास ।

[५२] ततश् च सा स्मितवती स्मित-दिग्ध-तन्-मुख-माधुरी-साधु-रीतिभिः स्निग्ध-हृदया व्यञ्जित-स्पृहावलीं तद्-अञ्जलिं फल-वलयेन भिक्षयन्ती दूरत एव सङ्कलन-मुद्राम् अपि शिक्षयन्ती सकलेन तु पूरयितुं शशाक । [५३] निज-भाजनं फल-रिक्तं बभूव वा न वा किम् इति तु न विविक्तुं चकार । गृहाभ्यन्तरेणान्तरिते तु तस्मिन् निजं पत्रजम् अमत्रम् अयत्नतया रत्न-पूरितम् अप्य् अनिभाल्य भारम् अप्य् असम्भाल्य तन्-माधुर्यावेशाभिनिवेशवती स्वजनानाम् अपि शर्म-जननाय बहुल-फलावलि-बलि-समानयनाय च निज-निलयम् एव जगाम । किन्तु गृहं गत्वा ज्ञात-मणि-तत्त्वाप्य् अकुण्ठासकृद्-उत्कण्ठावहेन तन्-मुख-शोभाभर-विरहेण सा धन्या हारित-महा-धनं-मन्या बभूव, यत एव सा कृष्ण-दृश्वरी विश्वम् अपि विसस्मार ।

[५४] स तु विविध-दुर्विध-शर्म-विधान-सन्निधानः स्वयं लब्ध-निधानवद् अतिसावधान-पाणिर् नृत्यन्न् इव मातुः समीपम् अञ्चन् मधुर-चञ्चलेहितस् तस्या निचोलाञ्चले निर्बन्धतः सकलानि फलानि बबन्ध ।

[५५] माता चोवाच—पुत्र कुत्र लब्धानि तानीमानि?

[५६] सुतस् तु बाल्य-भावाद् अर्धार्ध-वर्णं वर्णयामास, कदाचिद् आचित-फला धान्यानि मूल्यम् आदाय धन्या मयि चानुकूल्यम् आधाय समर्पितवती ।

[५७] मातोवाच—वत्स, गृहजनवत् सर्वतः प्रतीतिं मा कृथाः इति ।

[५८] सुतस् तु का खल्व् अप्रतीतिर् इति च न विदाञ्चकार । [५९] क्षणतश् च तां गतां निरीक्ष्य पुनर् आगतः सक्षणतया जनाय तत्-फल-विभजनाय जननीं नियोजयामास । [६०] माता चामन्देनानन्देन कृत-स्पन्देन कर-द्वन्द्वेन तानि विभजन्ती तदन्तीकृतिं नाससाद । दिन-कतिपयं विस्मय-वशा स्मयमाना वसति स्म । तद्-आस्वाद-कराश् च लब्ध-चमत्कारा न विस्मरन्ति स्म ।

[६१] अथ लीलान्तरम् उद्भावयितुम् एवं विभाव्यते—

गोकुलेषु किल शीलम् ईदृशं यद् दिवा वनम् अयन्ति गोनराः । योषितः प्रचुर-गव्य-संस्क्रियां क्रीडनं रहसि बाल-तर्णकाः ॥४०॥ [रथोद्धता] इति ।

[६२] तदा चैकदा गृह-व्यय-पयः-कृते समीपकृते वत्स-सद्मनि रुद्ध-द्वारान् शकृत्-करि-सारान् बाल-हरिः परितः-स्थित-बालक-जालः कलयामास । तत्र च,

वत्सीर् मत्वा तदा धेनूश् छाग-तोकानि वत्सकान् । आत्मानं गो-दुहं बाला गो-दोहम् अनुनिर्ममुः ॥४१॥ [अनुष्टुभ्] वत्सीषु यर्हि गव्यन्तो गोदुहन्ति स्म तेऽर्भकाः । तेषां प्रहासजा भासः पयस्यन्ते स्म तास् तदा ॥४२॥ [अनुष्टुभ्] इयेष च यदा धेनु-चारणानुकृतिं प्रति । मन्त्रयित्वा तदा कृष्णः प्रामुञ्चन् नव-वत्सकान् ॥४३॥ [अनुष्टुभ्] रक्षाम् इच्छू वत्स-पुच्छं गृह्णानौ राम-केशवौ । तद्-आकृष्टतया गोष्ठे बालैर् बभ्रमतुस्तराम् ॥४४॥ [अनुष्टुभ्]

[६३] तच् च तर्णकानुगतया तयोः प्रथमम् अभ्यर्णागमनम् आकर्ण्य निर्वर्ण्य च वर-वर्णिन्यः स्खलद्-वर्णं वर्णयामासुः । तथा हि गीतम्—

बल-कृष्णौ बलवलितविलासौ । खेलत इह सखि सखि-कृत-हासौ ॥ध्रु॥ तर्णक-पुच्छ-धृति-व्यापृतिनौ । प्रणय-कलित-कलि-कलने कृतिनौ ॥ गृह-गृह-वीक्षण-सक्षण-नेत्रौ । धेनु-पाल-तुलया धृत-वेत्रौ ॥ द्रुत-तर्णकम् अनुविद्रुतवन्तौ । श्रेणीयित-चल-वेणीमन्तौ ॥ शारद-वार्षिक-वारिद-वपुषौ । चल-लोचन-रुचि-चपलांशु-जुषौ ॥ स्खलद्-अलक-द्युति-वलयित-लपनौ । अलि-ललितामल-कमल-ग्लपनौ ॥ नील-कनक-रुचि-शुचि-लघु-वसनौ । चञ्चल-चरण-स्फुट-रट-रसनौ ॥४५ इति । [मात्रासमक] [६४] तद् एवम् अङ्गनाद् अङ्गनाद् व्रजाङ्गनाभिर् अहम्-पूर्विकयानुगम्यमानौ, विहिताकस्मिक-पर्व-सुख-दोहन-सर्व-मोहनतयाधिगम्यमानौ, संवाद-विवाद-परीवाद-बन्धुर-बन्धूनाम् अभ्यर्णतया निर्वर्ण्यमानौ, तादृशाकर्णन-निवर्णनम् अनु परस्परं वर्ण्यमानौ, तासु च काभिश्चिद् अमृतम् अनृतं कुर्वता प्रतिचर्वणं सरसेन रस-विसरेण भोज्यमानौ, तद्वद् एकाभिर् निज-गृहाजीव्य-दिव्य-मणि-हारम् उपहारम् उपहारं हारितयोपयोज्यमानौ तद्वद् वर्ण्यमानौ, तासु च काभिर् अपि प्रेमानुगम्य-रम्य-वचन-प्रचय-रचनया कञ्चन कालं वरिवस्यमानौ, किं चान्याभिः समुत्तम्भित-कर्ण-तर्णक-कृत-कृष्टि-दृष्टितः शस्यमानवत् परिहस्यमानौ, तद्वद् अन्यतराभिस् तन्-मधुर-चकुर-चिकुर-चञ्चुरता-प्रचुर-चञ्चलतां निचाय्य चातुर्यतश् चरितम् इदं भवन्-मातृ-चरणेषु गोचरयामः, इति सूचनया तस्माद् वर्ज्यमानौ, ताभिर् एव मातर-पितराव् आरभ्य गणनालभ्य-कुलालि-गालि-पालिम् उपलभ्य कलित-व्यलीकम् इव स-कोलाहल-प्रणय-कलित-कलितया तर्ज्यमानौ बल-गोपाल-नामानौ वल्गु-बाल्यवयसा समानौ खेलां कलयामासतुः ।

[६५] अथ मातराव् अपि जाताव् अमू कुत्र याताव् इति कातरायमाण-नयने निर्जनता-जनित-स्वैरता-भाग्-अयने व्रज-नीवृद्-अयने रुषा निन्दिताभिर् उपमातृभिर् मुदा वन्दिताभिर् अपि तद्-अभिधातृ-यातृभिः समम् एव गृहतः कृत-निर्याणे स्वयम् एव सम्यग् मृगयमाणे दर-सरसि-जनिज-चिह्न-विगत-निह्नव-चरण-लक्षण-विलक्षण-वर्त्म-वलनेन महिलानां कुतूहल-कोलाह-लाव-कलनेन च समया समयाञ्चक्राते । तदा च निजागमन-वर्जनीं तर्जनीम् अभिचाल्य प्रच्छन्नतया निभाल्य तस्माद् अकस्माद् अनयोर् बाहू जगृहतुः । बालकास् तु सर्वतः सर्व एव दुद्रुवुः, महिलाश् च काश्चनानुकूल्यतः काश्चन प्रातिकूल्यत इव च तयोश् चापल्यं लपन्त्यः समम् एव मातृभ्याम् अभ्याययुः । धात्र्यस् तु बालयोर् अतीव स्नेह-पात्र्यस् तर्णकान् आदाय तद्-अभ्यर्णम् आजग्मुः ।

[६६] अथ तद् आरभ्य वीथीं वीथीम् उपलभ्य कुतुककर्मा बलानुजन्मा सह- सहचरः कोलाहलं कलयामास । तदा च कदाचिन् निजतनूजलभ्यप्रागल्भ्य-स्पृहिणी व्रजेशगृहिणी तदानन्दबृंहिणीभिर् विवदमानाभिर् इव दीयमान-तदीयमानसमानाभिर् उपालम्भसमाधानलम्भनवाकोवाक्यव्यङ्गम् अव्यङ्गम् अभ्यधायि ।

[६७] तत्र सभायां सा यथा—

आसीना कनकासने सुतयुता श्रीमद्-व्रजाधीश्वरी पीठ-श्रेणिम् उपाश्रिता व्रज-वधूर् नानात्म-भाव-श्रियः । कृष्ण-प्रेम-सुधा-महोमय-गिराम् आस्वादनाद् धिन्वती ताभिश् च प्रतिधिन्विताखिल-सभा शोभाङ्ग-यष्टिर् बभौ ॥४६॥ [शार्दूलविक्रीडितम्]

[६८] वाकोवाक्यं यथा—

तव सूनुर् मुहुर् अनयं कुरुते ।

अकुरुत किं वा व्यञ्जित-कुरुते ॥ध्रु॥

मुञ्चति वत्सान् भ्रामं भ्रामम् ।

साचिव्यं वः कुरुते कामम् ॥

असमय-मोचनम् असुख-निधानम् ।

कः किं कुरुते न यदि निदानम् ॥

विना निदानं कुरुते स्वामिनि ।

क्रोशं न किम् इव कुरुषे भामिनि ॥

क्रोशे हसति प्रत्युत सोऽयम् ।

दत्त्वा वशय स्फुटम् अपि तोयम् ॥

अत्ति स्तेयं परम् इह रुचितम् ।

अज्ञे भानं कथम् इदम् उचितम् ॥

स्तेयोपाये गुरुर् अयम् अखिले ।

नार्हति सर्वं मिथ्या निखिले ॥

रचयति पीठादिकम् आरोहम् ।

तद् अगम्यं कुरु सर्वं दोहम् ॥

दूराच् छिद्रं कलयति पात्रे ।

अस्य कथं धीः सति तन्-मात्रे ॥

अन्तर्-धियम् अनु स इह विशालः ।

वक्षि यथासौ न तथा बालः ॥

वेत्ति स कृत्स्नं गोपन-रीतिम् ।

गेह-गुहा नहि दवयति भीतिम् ॥

गेह-गुहात्र वृथा तनु-दीपे ।

तनुर् अनुलिप्ता कलय समीपे ॥

मणि-गण-महसा गणयति न तमः ।

भूषण-रहितस् तिष्ठेत् कतमः ॥

अपि चाशयति बलाद् अपि कीशम् ।

मनुषे कियद् अमुम् अत्तुम् अधीशम् ॥

तद् अशक्तौ पात्रं भेदयते ।

तस्याशौचं वा वेदयते ॥

गम-समये रोदयति च बालाम् ।

प्रक्ष्यामो वर-महिलामालाम् ॥

अपि बालान् मेहयते गेहे ।

नहि नहि चूर्णं पतितं स्नेहे ॥

तव पुरतोऽयं स्थिरवन्-मूर्तिः ।

आश्चर्येयं तव वाक्-पूर्तिः ॥४७ इति । [मात्रासमक]

[६९] पुनश् च प्रतीतिम् आसादयन्त्य इवेदं वदन्ति स्म, नाश्चर्यम् अत्राचर्यताम् । यतः,

इन्द्रिय-कुलम् अतिगूढं नेत्राद्य्-अन्त-निगूढम् एवास्ति । तन्-मध्याद् अपि चित्तं हरतो नृ-हरेर् न हार्यं किम्? ॥४८॥ [आर्या]

[७०] तद् एवम् अभीषङ्ग-भङ्गीभिर् वर-वर्णिनीभिर् वर्ण्यमानम् आकर्ण्य चपल-दृष्टि-परामृष्टि-कर्णं झटिति जात-विलक्षण-वर्णं श्री-कृष्ण-मुख-श्री-पर्णं निर्वर्ण्य विहसन्तीं ताम् अनु विहसन्तीभिस् ताभिः शपन्तीभिर् इव भणितम्—यदि च वयं साधु-चरिताचरितार्थतां गतास्, तदा भवत्या भवनेऽपि शीघ्रम् एतत् पतिष्यति ।

[७१] हसन्ती सा चोवाच—भद्रं भद्रम्, तदैव वो भद्रत्वम् अनुभविष्यामः इति । [७२] वस्तुतस् तु तस्याः कोमलतायाम् अवकलितायां, मुहुर् अयम् अस्मद्-आलयं वलिष्यते इति विचार्यैव चर्येयम् अमूभिर् आचर्यते स्म ।

[७३] अथ समापनम् इदं मधुकण्ठ-वचनम्,

अद्भुतं बाल्यचरितं तव सूनोर् व्रजेश्वर । क्व तृणावर्त-दलनं क्व मातुर् भय-भावनम्? ॥४९॥ [अनुष्टुभ्]

[७४] तद् एवं तद्-दिवावृत्ते पूर्ववद् एव तल्-लीला-पर्वणि साक्षाद् इव वृत्ते सर्वे पुरस्कृत-व्रजेशाः सम्भृत-तत्-तद्-आवेशा यथायथम् आत्म-पथं प्रतस्थिरे ।

इति श्री-श्री-गोपाल-चम्पूम् अनु

बाल्य-लीला-चौर्य-शौर्यं नाम

सप्तमं पूरणम्

॥७॥

(८)

४। अथाष्टमं पूरणम्

९। दामोदरानुमोदः [१] अथेतर-द्युर् अपि प्रभात एव सभाम् उपविश्य विभातेषु वैश्य-जातेषु स्निग्धकण्ठ उवाच—कदाचिद् दामोदर-मासि दरान्ववसाने, सामोदा यशोदा प्रातर् बाल-गोपालं शयानम् उन्मीलन्-निभ-नेत्र-नील-नलिन-युगलं निभाल्य शनैर् एव कर-किशलयेन पल्यङ्काद् उपरि तल्प एव परिलाल्य पुनर् असूषुपत्-कल्पम् । तस्माद् अल्पम् अल्पं निष्क्रामन्ती चालिन्दं विन्दमाना प्राह्णेतराम् अह्नाय निजालय-व्यय-सम्बन्धि दधि कतिपयं निचित-निचय-ग्रन्थिर् मन्थितुम् आरेभे । यस्मिन्न् अहनि सह-नन्दनामन्द-स्यन्दनारोहिणी रोहिणी प्रणय-मय-यन्त्रणया निमन्त्रणया श्रीमद्-उपनन्द-मन्दिरं विन्दमानासीत्। परिजन-नार्यश् च स्वस्व-कार्यातिशय-पर्याय-पर्यापणाय गताः । कार्यातिशयश् चायं हायन-शीर्षायमाण-मार्गशीर्षागमे जन-वर्ग-महित-महेन्द्र-महा-महः कुल-परम्परा-विहितः सन्निहित आसीद् इति ।

[२] तद् एवं स्वयम् एव सयत्नी-भूय व्रज-राज-पत्नी दधि-चयम् असकृद् अधिमथ्नती तस्य निद्राया द्राघीयस्त्वाय गायन्ती तदेक-तानतया तद्-आननम् एव निचायन्ती परितस् तदीय-चरितम् एव जगौ । यद् उक्तं श्री-बादरायणिना—

यानि यानीह गीतानि तद्-बाल-चरितानि च । दधि-निर्मन्थने काले स्मरन्ती तान्य् अगायत ॥ इति । [भा।पु। १०.९.२]

[३] अत्र मन्थनं यथा,

श्यामा लोल-दुकूल-रत्न-विलसत्-काञ्ची-चयेनाञ्चिता तज्-झङ्कार-करम्बित-ध्वनि-धर-श्री-कङ्कणालङ्कृता । पश्यन्ती तनयाननं लघु-लघून्मीलन्-निभाक्षि-द्वयं श्रीमद्-गोप-महेश्वरी चल-भुजामथ्नाद् अभीक्ष्णं दधि ॥१॥ [शार्दूलविक्रीडित]

[४] गानं यथा—

गोकुल-पति-कुल-तिलक त्वम् असीह । कृत-सुकृत-व्रज-रचित-सुख-व्रज, नयनानन्दि-समीह ॥ध्रु॥ आनन्दोद्भव-जन्म-महोत्सव-नन्दित-गोप-समाज । पूत-निकामृति-नव-मङ्गल-कृति-वलयित-गोकुल-राज ॥अ॥ धैर्य-निवर्तन-शकट-विवर्तनम् अनु भव्येन परीत । सतृणावर्तक-वायु-निवर्तक-परमेशेनानीत ॥ब्॥ मधुर-प्राङ्गण-विरचित-रिङ्गन जलज-नयन सुपुण्य । नाना-केलिषु नृत्य-कलालिषु दर्शित-वर-नैपुण्य ॥च्॥ तर्णक-वालधि-शबलित-तन्वधि-वलयित-मञ्जुल-शोभ । जरती-निवहे कौतुक-कलहे प्रबलित-मिथ्या-लोभ ॥द्॥ मां मातरम् अनु सुखम् उद्वितनु प्रततं सततं कृष्ण । द्रुतम् उररीकुरु तनु-वृद्धिं पुरु-खेलावलि-कृत-तृष्ण ॥ए॥ त्रिभुवन-दर्शन-विस्मय-मर्शन-निश्चित-वैष्णव-माय । हरि-वरिवस्या-सुखदतमः स्या विगत-जरामर-काय ॥फ़्॥ इति । [८ x ८ x ११]

[५] अथ लब्ध-जागरः स नित्यता-शालि-लालित्य-सागरः सपदि रुदन्न् इव समुत्थितवान्, मातरम् इतवांश् च, यथा,

दीर्घ-श्वासं गात्र-मोट-प्रयुक्तं नेत्रे मार्जन् जाग्रद् अम्बेति जल्पन् । क्रन्दन् मन्थ-ध्वानम् आकर्ण्य बालः श्री-गोपालः प्रस्खलंस् तां जगाम ॥३॥ [रुचिरा]

[६] ततश् च माता बाल्यता-घटित-लाल्यता-जटित-प्रणयाकुल-काकु-लव-सङ्कुलतया तेन सुभगाखण्डलेन विघटिते क्षुब्ध-दण्डस्य गति-मण्डले स्वयं पयस्-तननयोः स्तनयोः प्रस्नवं नवकं तं शावकं पाययामास ।

पयो वर्षति धाराभिर् वर्षावन् मेदुर-श्रियः । तस्याः पयोधरे सुष्ठु कृष्णश् चातकतां गतः ॥४॥ [अनुष्टुभ्]

[७] सा तत्र गर्धेनार्धे तेन पीते धन्ये स्तन्ये नेत्रानन्तर-गृहान्तर-सन्ताप्यमान-पयः-सन्तानानाम् उत्सेकं प्रति निर्विवेकतां प्रतिपद्य सद्य एव तं विहाय यद्-द्रुतवती, द्रव-गमने तस्य पतन-भीत्या च न तं गृहीत्वा गतवती ।

[८] मधुकण्ठ उवाच—किम् इत्थम् आत्थ? तावन्-मात्राय तस्याः कथं क्षुत्-क्षाम-गात्राद् बाल-पुत्राद् अन्यत्र यात्रा युक्ति-पात्रायताम्? सा हि वत्स-वत्सलानाम् अच्छता-भाग्-उपमा ।

[९] स्निग्धकण्ठः सहासम् आह स्म, गुरो, पुरोऽवधीयतां यद् वात्सल्यविलास एव खल्व् अयम् अस्याः ।

[१०] मधुकण्ठ उवाच—कथम् इव?

[११] स्निग्धकण्ठ उवाच—तथा हि, ये गेह-देहादयस् तं विनास्तमित-प्राया मन्यन्ते स्म, ते तु तज्-जन्मारभ्य तन्-ममता-मय-ममता एव ताभ्यां पितृभ्याम् अभ्यमन्यन्त । यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयस् त्वत्-कृते [भा।पु। १०.१४.३५] इति ब्रह्म-वाक्ये व्रज-मात्रस्यापि तथा श्रूयते, किम् उत तयोर् इति । इदं च मुग्धं दुग्धं दधि च तद्-अधिक-तत्-प्रधानतावधिकम् एवेति स-विशेषतयावगम्यते ।

[१२] तद् एवं सति तस्याः सेयं भावना—क्लेशम् अपि विषह्य स्पृह्यमाणां नाना-निज-गृह्य-क्रियां साम्प्रतं न जानाति सोऽयं बालक इति दयनीयतयास्मदीयम् एव खल्व् एतदीय-कृत्यं कृत्यम् इति । सोऽयम् एवं-विध-स्नेह-विविध-विधिस् तैर् एव बोद्धुम् अध्यवस्यते यैः कृतं तर्जन-ताडनादिकम् अपि लालना-मयतां कलयति, किम् उतान्यत्? यतः,

स्नेहतः क्वचन रुट् प्रजायते तस्य वर्धन-करी च दृश्यते । मेदुरेऽपि मुदिरे तथा तथा विद्युद्-अग्निर् असकृद् विवर्तते ॥५॥ [रथोद्धता]

[१३] तथा हि, तयोर् मिथो हितयोर् उभयोर् अपि चरितम् । दुग्धाय गमन-समये सा खलु तन्-मुदितता-निबन्धनम् इदम् उदितवती, वत्स, निर्मञ्छनं भजामि, क्षणं तावन् मन्थन-गर्गरी रक्षताम्, त्वदीयं पयो वीक्ष्य यावद् द्रुतम् अहम् आयामि इति । ततश् च—

यावद् विहाय पृथुकं बत मन्थनान्ताद् अम्बा ययौ द्रुतम् असौ तत आययौ च । तावत् पयोधर-युगं हृदय-स्थ-वस्त्र- क्नोपं ववर्ष पथि पिच्छिलता यथासीत् ॥६॥ [वसन्ततिलका]

[१४] तद् एवम् अपि स तु निजार्थिते प्रत्यर्थिते भृशम् आविजते स्म, यथा—

तेनाथ कोप-स्फुरितारुणाधरं सन्दश्य दद्भ्याम् उदसर्जि रोदनम् । दण्डाहतामत्रम् अखण्डि चाश्मना नालम्भि तस्मिन् नवनीतम् अण्व् अपि ॥७॥ [वंशस्थ]

[१५] अत्र तु वर्णयन्ति,

दन्तेन्दु-लेखाविशद् आधरारुणं चक्षुश्-चकोर-द्वयम् अश्रु चादधे । तदा शिशोर् अस्य कराम्बु-जन्मनाप्य् अरिष्टम् उद्धूय बलाद् विजृम्भितम् ॥८॥ [उपजाति १२]

[१६] तद् एवं कलशान्तरीणे कालशेये सर्वतो रीणे पर्वान्तरम् अपि जातम्, यथा—

ततो गृहाभ्यन्तर-शिक्य-लक्षितं हैयङ्गवीनं परिगृह्य यत्नतः । जघास तत्रोर्वरितं तु पक्षक- द्वारेण निह्नुत्य जहार केशवः ॥९॥ [उपजाति १२]

[१७] स च यत्नो, यथा—

कुञ्चीक्षेपाद् अर्गलाम् अन्तरङ्गाम् अल्पां मुञ्चन् सद्म गत्वा युयोज । कृत्वा खट्टां तत्र निःश्रेणिकाभां कृत्वा सर्पिर् गुप्तम् अञ्चन्न् अपागात् ॥१०॥ [शालिनी] ततः क्षणाद् दुग्धम् इतं तु मुग्धताम् आधाय माता सुतम् आगमद् द्रुतम् । अप्राप्य तं तस्य तु कर्म तद्-विधं बुद्ध्वा स-कोपं स-सुखं जहास सा ॥११॥ [उपजाति १२]

[१८] तत्र प्रथमं शङ्का-सङ्कसुकायां तस्यां योगमाया-प्रकाशिताकाश-वाग् एव हास-प्रकाशनस्य बोधस्य कारणं जातम् । [१९] सा यथा—

शिशु-मधु-कृद् अतक्षन् मध्व् असिद्धं पिपासन् सरसिज-मुकुलाधश् छेदम् आचर्य पश्यन् । द्रव-विगलन-मात्रं तत्र निर्विद्य मध्ये कमलम् अपरम् अञ्चन् प्राप तस्मिन् मधूनि ॥१२॥ [मालिनी]

किं च,

शमयाञ्चकृषे दुग्धं

क्षुभितं तत् तव सुदक्षता कलिता ।

शमयसि यदि शिशु-कोपं

तादृशम् उच्चैस् तदा प्रशस्येथाः ॥१३॥ [उद्गीति]

[२०] तद् एवं श्रुत्वा हसित्वा कालशेय-लेशाध्यवसेयतानपह्नव-चरण-चिह्नम् ईक्षित्वा साधकतमान्तरेण द्वार-यन्त्रं मोचयित्वा च सा पुनर् एवम् आचचार—

गत्वा गृहाभ्यन्तरम् अन्यद् अप्य् असौ दृष्ट्वा सुतस्यातुल-चापलं प्रसूः । तदीय-वर्त्मानुगमेन च क्रमाद् आलोकयल् लोल-विलोचनं च तम् ॥१४॥ [उपजाति १२]

[२१] तत्र लोल-विलोचनत्वम्, यथा—

हविर् अभिहृतवान् इहास्मि दृश्यः कथम् अथ मातरम् ईक्षणं नयानि । इति नयन-युगं श्रुति-द्वयान्तर् मुहुर् इव वेशयति स्म बाल-कृष्णः ॥१५॥ [पुष्पिताग्रा] अधो-मुखी-कृत्य बलाद् उदूखलं निविश्य तस्योपरि चञ्चलेक्षणम् । कीशाय सर्पिर् ददतं प्रसूः सुतं वीक्ष्य स्मितं प्राप तथा च विस्मितम् ॥१६॥ [उपजाति १२] गूढं प्रतस्थे कृत-मोषम् आत्मजं धर्तुं प्रसूर् एष निरीक्ष्य चाद्रवत् । प्रसिद्धिर् एषा खलु लोकतः शतं दृशोर् मतं हर्तरि भर्तरि द्वयम् ॥१७॥ [उपजाति १२]

[२२] स खलु दृप्तः शाखा-मृगस् तु नवनीतानां तृप्तः पट-वेष्टित-यष्टिम् एतां दृष्ट्वा द्रुतम् एव शाखाम् आरूढः ।

अथ द्रवन्तं सुतम् अन्वगात् प्रसूः प्रसून-वृष्टि-प्रथ-केश-बन्धना । क्व यासि रे चोरवरेति जल्पिता नातिस्फुट-क्रन्दन-हास-सुन्दरम् ॥१८॥ [उपजाति १२] तोकं धर्तुं सा समीपेऽपि शीघ्रं धावन्ती तत् प्राप धावन् न माता । प्रागञ्चन्तं वायु-वेगात् प्रतीची स्तोकाम्भोदं यद्वद् अम्भोद-वीथी ॥१९॥ [शालिनी]

[२३] अथ पुर-द्वारं न मातुर् गमन-द्वारम् इति मत्वा पलायन-ग्रहिलस् तद्-दिशम् एव जग्राह । जननी तु तदानीं तत्राजनतां जानती तम् एवानुयातवती । ततश् च,

यदाद्रवत् पृष्ठम् अनीक्षमाणस् तदा न लेभे पृथुको जनन्या । यदा भयाद् वीक्षितवान् स पश्चात् तदा तयासौ जगृहे करेण ॥२०॥ [उपेन्द्रवज्रा]

[२४] स च तथापि—

अक्षिणी द्रव-गमाय साक्षिणी रोदनं क्रुद्-उदय-प्रणोदनम् । चालनं वपुषि धार्ष्ट्य-पालनं सृष्टवान् अविनयं न मृष्टवान् ॥२१॥ [स्वागता] निर्ममे प्रसभम् अम्बया मुखं सम्मुखं निजशिशोर् यदा यदा । सर्पिर्-अर्पित-विलेपनं तदा रूक्षणाय तद् अघुक्षद् एष च ॥२२॥ [स्वागता]

ततश् च—

वष्टि चेद् बत भवान् गृह-मुष्टिं यष्टिम् आकलय मत्-कर-मृष्टाम् । इत्थम् उच्चकितिते कमलाक्षे तां जहौ निजजहौ व्रज-राज्ञी ॥२३॥ [स्वागता] मा मेति वदता तेन, चोर चोरेति गीः-कलिम् । रहसा सह सा राज्ञी सहसा सहसातनोत् ॥२४॥ [अनुष्टुभ्] अहो राजासि चोराणां, चोरास् त्वत्-पितृ-गोत्रजाः । इत्य् आद्य् अचकलन् माता शिशुना गव्य-चोरिणा ॥२५॥ [अनुष्टुभ्]

किं च—

दधि-मण्डः कथं खण्डो? दण्डोऽयं परमेशितुः । घृतं कीशाय कः प्रादाद्? असौ येन विनिर्मितः ॥२६॥ [अनुष्टुभ्] इति । शङ्के स्वादुङ्कारम् इत्थं सदा त्वं यज्ञाङ्गीयं लेक्षि हैयङ्गवीनम् । एवं चोरङ्कारम् अम्बा शिशुं तं प्रत्य् आक्रोशन्त्य् आर्द्र-चित्ता बभूव ॥२७॥ [शालिनी]

[२५] ततः स-संरम्भं विहस्य, सरहस्यम् उच्यताम्, दम्भश् च मुच्यताम् इति मात्रा पृष्टः सृष्ट-रोदन-नेत्रः पुत्र उवाच—

त्वय्य् उद्भटं प्रद्रवन्त्याम् अङ्घ्र्याः कटक-घट्टनात् । अस्फुटद् दधि-मण्डस्य घटः, का मम धृष्टता? ॥२८॥ [अनुष्टुभ्] कीशोऽयम् ईश-निर्दिष्टः प्रविष्टः सद्म मुष्टये । कृष्टः सर्पिः-परामृष्टो मया, का मम दुष्टता? ॥२९॥ [अनुष्टुभ्] तथापि त्वाम् आत्त-यष्टिं दृष्ट्वा दुद्रव चोरवत् । त्वं पुनर् मां वृथा भीतम् अपि दुद्रोथ निर्दयम् ॥३०॥ [अनुष्टुभ्]

[२६] अथ सानुतापम् इव माता प्राह—रे वाचो-युक्तिमत्तम चोरोत्तम! त्वं नरोत्तम-जातोऽपि वानर-प्रियो वानर-प्रकृतिर् एवासि ।

[२७] सुतस् तु स-भयं सभय-प्रदानम् अप्य् उवाच—ततो वनम् एव प्रविश्य स्थास्यामि ।

[२८] अथ माता सभयं चिन्तितवती, को जानीयात्, कुर्याद् अपीदं मानी । तर्हि तन्-निबन्धनं बन्धनम् एव सन्धेयम्, यद् एकया मयालय-बालयोर् अवधानं दुर्धानं भविता । [२९] स्पष्टं त्व् इदम् उक्तवती—

रे चौर चञ्चल-विलोल-विलोचन-श्री- निक्षिप्त-मोह मनुषे विनिवारणं न । बद्ध्वा भवन्तम् अहम् आशु चलामि गेहं, शक्तिर् यदि प्रथयतां कुरु चौर्यम् अन्यत् ॥३१॥ [वसन्ततिलका]

[३०] बन्धोद्यमे रुषितता-रुषितः पुत्रः फुत्-कुर्वन्न् इव सास्रम् उच्चैर् उवाच—अम्ब, रोहिणि, सह सहजेन क्व गतासि? त्वया रहितं माम् इयं बध्नाति, तद् द्रुतम् इह समेहि ।

[३१] तद् एतद् दूरगतया तया नावधार्यते स्म, किन्तु पराः पारम्पर्येणावधार्य कृतोपालम्भ-चर्याः काश्चिन् निकट-निकाय्या नार्यः परिवार्य मिलिताः । स्व-वाचम् इह स्मारयितुम् ऐकागारिकः सोऽयं भवद्-अगारेऽपि कां कारिम् अकार्षीत् इति सूचयन्त्य इव सह जहसुश् च ।

[३२] ततस् तद् अनवदधती कुन्तल-सन्तान-बन्धाद् विघटितां पट्ट-डोरीम् एकाम् उपसाद्य, सद्यः सद्म-द्वारान्तर् उपसद्यमानम् उदूखलम् अनु वत्स-गल-बन्धवद् अलग्नम् एवावलग्ने स-निर्बन्धं बन्धुम् उद्यतवती, स्तनन्धयं शिक्षा-जननी जननी । सा तु द्व्य्-अङ्गुलाङ्ग-न्यूनाजनि ।

[३३] ततश् च तस्या धम्मिल्लाद् उद्वास्यान्यस्या विन्यस्तत्वेऽपि तद्-अवस्थतायां दृश्यमानायां साश्चर्यम् इव नार्य्-अर्पितैर् मन्थन-नेत्रैर् बहुभिर् अपि पारं न वव्राज व्रजेश्वरी । ततश् च—

तद्-अङ्गे द्व्य्-अङ्गुलाभासे सर्वे लब्धावकाशकाः । दृश्यन्ते स्म वटास् तत्र विदूराद्रौ घना इव ॥३२॥ [अनुष्टुभ्]

[३४] तद् एतत् पश्यन्तीभिः परिहसन्तीभिर् उक्तम्, व्रज-देवि, निवेदितम् एवास्माभिः; स एष समुन्नतया मोहनतया कफल्लकम् अपि वेल्लयन् लोप्त्र-मात्र-सुकलतानन्दी परास्कन्दी सन्दीप्यते इति ।

[३५] सा प्राह—किं जानात्य् असाव् अद्य-जातः, किन्तु भवतीनाम् एव कापीयम् अवद्याविद्या यद् अन्तर् अस्य पक्ष-पातिन्यः समीक्ष्यध्वे, बहिर् एवान्यथा व्यवहारतया विहरन्त्यः स्थ ।

[३६] सर्वाः सहासम् ऊचुः, तत्रभवति, भवच्-चरणेभ्यः शपथम् आचरामः, नास्माकं विस्मापिकेयं विद्या विद्यते इति ।

[३७] सा च चेतसि विचारम् आचचार, तर्हि गर्ग-वचन-वर्गवत् सकृत् कापि भागवती शक्तिर् एवामुम् अवरुणद्धि, न चायं किञ्चिद् अपि जानाति ।

[३८] अथेयम् अस्याश्चर्यस्य पर्यन्तं पर्यालोचितुं ताभिर् एव गृहाद् अन्यान्य् अपि मन्थन-दामानि मुहुर् मुहुर् आनाय्य सनिर्बन्धं बन्धम् आदधत्य् अपि गत्य्-अन्तरं न प्राप । ततश् च—

बध्नती न तु सुतं व्रजेश्वरी पारम् आप तद् अपार-कर्मणः । घर्म-वारि-वरिमाणम् आव्रजद् वार-वारम् अलकावृतीर् अपि ॥३३॥ [रथोद्धता]

[३९] ततो यावद् एव यादव-देव-कुलजस्य तस्य हठवत्तायां प्रयत्नाधीर् आसीत्, तावत् तद्-आग्रहोऽपि ग्रह-निगृहीत इवाभूत् । मातृ-वैकल्येन कल्यमान-मनस्त्वे तु प्रथम-डोरिका-द्वय-मात्र-सम्बद्ध-गात्रतया बद्ध एव सोऽयम् अबुध्यत । अन्यानि तु सर्वाणि दामानि तस्मिन्न् उर्वरितान्य् एवादृश्यन्त । [४०] योगमाया-नामिनी तत्-कर्म-कारिणी हि तन्-मनोऽनुसारिणी, यया तन् निष्पाद्य मातरं प्रत्य्, अपि भ्रम एवायम् इति प्रत्ययः प्रत्यहम् आसाद्यत । [४१] अथ लब्ध-सन्धं तं बन्धं दीर्घतमयान्यया रज्ज्वाबध्य च तया तद्-उदूखल-मध्यं बबन्ध । [४२] बद्ध्वा च माता शिक्षां घटयन्ती निज-कठिनताम् एव तस्मिन् हठिनि प्रकटयन्ती ताभिर् विहसन्तीभिः सह स-नर्म-गेह-कर्मणे गच्छन्ती, तत्-परिपालनाय बालकान् परितः स्थापितवती ।

[४३] ततश् च गतासु तासु क्षणं कृत-रोदन-विनोदः, पश्चाद् बहल-खलं प्रत्य् उदूखल-नोदनाय लब्ध-मोदः स तु बद्ध एव केवल-बाल-वलिततया प्रबलित-चापल-श्रद्धस् तैः सह प्रहसन् खेलन्न् उलूखलम् एतं लघु लघु चालयाम् आस, हारयामास च तैर् एवोल्बण-हासतया शुल्व-हारिणीनां लब्ध-शून्य-साधर्म्य-हर्म्य-श्रेण्या हारि-शिक्यित-नव-नव-नीतादिकम् आहारयामास च । किन्तु, तत्-कर्षण-मय-हर्ष-प्रद-लीलया न च करेण न चापरेण तद्-उद्दान-मोचन-रोचनताम् अवाप ।

[४४] तत्र तु पुर-द्वार-पुरस्ताद्-वर्ति वातावर्त-वर्तित-नर्तनम् इव यमलम् अर्जुन-द्वयम् अस्य नेत्र-वर्त्मनि वर्तते स्म । क्रमेण चासौ तयोर् अन्तर एव विक्रमते स्म इति ।

[४५] एतावन् मुक्त-कण्ठम् उट्टङ्कयन् स्निग्धकण्ठस् तद्-भञ्जने कारणं हरेर् ऐश्वर्य-प्रचारणम् इति तत् प्रतारयन् कारणान्तरम् एव व्याजहार—[४६] ततः स्फुटं झटिति परतः पर्यटितुम् उत्कण्ठया तन्-मध्य-सम्बद्धेनैवाध्वना निश्चक्राम, तद्-अध्वनस् तु सङ्क्षिप्ततयाधः-क्षिप्ततया तद् उदूखलं प्रतितष्टम्भे ।

[४७] अथ स्फुटम् असौ वटीत्रोटनेच्छया तत् कृष्टवान् । हठाद् आकृष्टे च तस्मिन्—

कुठ-द्वयं कटकट-शब्द-मुग्ज- विघट्टितं स्फुटम् अलुठद् द्वयोर् दिशोः । न धी-धृतिं वधिर-विमुग्धताम् अधि व्रजन्न् अधि व्रजम् अदधात् प्रजा-व्रजः ॥३४॥ [रुचिरा] चित्रं तुत्रोट तत् तत्र वज्र-मज्जार्जुन-द्वयम् । न पुनर् मातृ-वात्सल्य-निर्बन्ध-मय-बन्धनम् ॥३५॥ [अनुष्टुभ्]

[४८] श्लोकयन्ति चात्र—

श्यामाङ्ग-द्युति किङ्किणि-ध्वनि-धरं रिङ्गातिरङ्ग-प्रदं कर्षच् छश्वद् उदूखलं खर-खरत्-कार-प्रकार-प्रथम् । विस्फूर्ज-प्रतिमार्जुन-द्वय-कटत्-कारार्जितात् कौतुकात् पर्यावृत्त-निरीक्षणं व्रज-वधू-लाल्यस्य बाल्यं स्तुवे ॥३६॥ [शार्दूल]

[४९] अथ तयोर् अत्यूर्जितेन विस्फूर्जितेन मुहूर्तार्धम् आर्ततया गोष्ठाधिष्ठाना मूर्च्छाम् ऋच्छन्तः स्थिताः, तन्-निकट-सङ्घट्टिनीम् अर्भक-घटां विना । सा तु तल्-लीला-माधुरी-धुरीणतया चित्राकृतिर् इव मित्रावली न वित्रासम् आससाद । [५०] दूराद् अपि तद्-ऊर्जितं विस्फूर्जितं सम्भ्रम-कार्य् अवधार्य तु व्रज-पति-मुखास् तर्कित-मुखास् तद् एवाभिप्रतस्थिरे । सत्रा स-त्रासम् अत्राभिदधिरे च—

विना वातं विना वर्षं विद्युत्-प्रपतनं विना । विना हस्ति-कृतं दोषं केनेमौ पातितौ द्रुमौ? ॥३७॥4 [अनुष्टुभ्]

अजन्य-जन्यम् एतावज् जाता निर्जनता कुतः? । तस्मात् तस्मान् महा-गर्जान् मूर्च्छाम् आर्च्छन् व्रजे जनाः ॥३८॥ इति । [अनुष्टुभ्]

[५१] अवदधिरे च तन्-निकट-तटस्थं भासमान-हास-विलास-मुखम् उलूखलं कर्षन्तं लीला-सुखं वर्षन्तं बाल-गोपालम् । तेन च, कथं, कथं? इति कथयन्तस् तम् आवृन्वन्त एवावतस्थिरे ।

[५२] स तु पितरम् अनुविन्दमानम् अनुचक्रन्द । [५३] पिता चान्तः-सम्भ्रान्तः सन्न् अपि तस्य सान्त्वनाय मुख-मात्रं हसित-पात्रम् आचरन्न् अचिराद् एव तं विपाशयामास । [५४] स-रोदन-वदनं वदनं चुम्बन् विदन्न् अपि मुहुः पप्रच्छ च, पुत्र, कुत्रत्यः स खलु खल-बुद्धिर् येन चोलूखले निर्बन्ध-जनित-बद्धस् त्वम् असि? इति ।

[५५] स तु पितरि रतश् चिरतः श्लिष्ट-कण्ठतयाभ्यर्णम् आगतः कर्णे वर्णयामास, तात, मातैव इति ।

[५६] पिता तु तां पूर्वं विगत-संवेदतया अनन्तरं तु स्वत एव जात-निर्वेदतया दूनां वेद स्म । तत एव न सहसा रहसापि परिभाषितुम् इयेष । अज्ञतयावज्ञया न च पप्रच्छ बालकान्, किम् इदं वृत्तम्? इति ।

[५७] ते तु स्वयम् एवोचुः, स्फुटम् अनेन कृत-मध्य-गमनेन विस्तीर्ण-खले पुर-स्थले क्रीडितुं निष्क्रम्य, विकृष्ट-तले तिर्यग्-भावाद् अचले चास्मिन्न् उलूखले खटत्-खटिति त्रुटितताम् ऋच्छत् कुठ-द्वयं झटिति लुठद्-भावम् आनर्च्छ ।

[५८] ततश् च खण्डिताभ्याम् आभ्यां निर्गत्य कटक-मुकुट-कुण्डलादि-मण्डितौ रोचिष्मद्-वपुष्मन्तौ शुष्माणौ प्रणमन्तौ समन्ताद् एतं किम् अपि सन्तोषयामासतुः । तद्-उत्तरम् उत्तरस्यां दिशि प्रास्थिषाताम् ।

[५९] तद् एतद् आकल्य, बालानां प्रलापोऽयम् इति वत्सलाः कलयाम्बभूवुः । अन्ये तु सांशयिकतानपेत-चेतसः प्रजाताः ।

[६०] ततश् च क्रमाद् एक-द्व्य्-आदि-प्रक्रमान् मिलितेन व्रज-जनेन समं व्रज-भूपालः स्व-बालकेनाङ्कं सद् अलङ्कृत्य नित्य-कृत्य-कृते कालिन्दीम् अनुविन्दमानस् तेनानुषज्य निमज्य तत्रैव विप्रैः स्वस्ति-वाचनादिकम् आचर्य, महा-दानादिकं विसर्ज्य, निकाय्यम् आसज्य च, पूर्वाह्न-भोजनाय ससज्ज ।

[६१] तज्-जाया तु तज्-जाभ्यां दुःख-लज्जाभ्यां सज्जती गृहाद् आग्रहाच् च न निष्क्रान्तवती, न च गृहागताः सम्भाषितवती । सर्वास्व् अर्वाग् एव निवृत्तासु, समाधानोहिनी रोहिणी गौरव-पात्रीभिः पौरोगवीभिः परिवेषयामास ।

[६२] श्री-व्रज-राजस् त्व् अवरात्मजं रामम् अपि समानीय तेन सुतेन च सार्धं तयोः स्निग्ध-कल-कोलाहल-निदिग्धः सग्धिम् आचरितवान् । ताभ्यां मूर्त-परमानन्द-पूर्ताभ्यां मुहूर्तम् एकं विश्रम्य च सम्यग्-ईदृग्-औशीर-सुख-धीर-चेता गवागमन-रम्य-समये गोस्थानम् आगम्य गो-दोहनादि-कार्यं च कारयति स्म । [६३] उदवसिताद् अतिसितां सिताम् आनाय्य तया सहितं सुहितं सह स-वयोभिस् तनयौ स्तन-पान-प्रतिनिधितया धारोष्णं पयः पाययामास च । शिक्षयामास च तत्र पत्र-पुटी-घटनाम् ।

[६४] अथ पुनर् अपि हर्म्यम् आगम्य ताभ्याम् आचरित-सायम्-भोजन-सुख-समाजे व्रज-राजे, सह-रोहिणीकास् तदीय-सन्तत-सुखाभीकाः स्वकुल-माणिक्य-लक्ष्म्यः सर्वाः प्रामाणिक्यः समासाद्य निवेदवत्यः—

[६५] राजन्, कृष्ण-जनन्य् अद्य न भुक्तवती, न केनचिद् उक्तवती च वर्तते । ताम् अनु सर्वाश् च तथा वर्तन्ते ।

[६६] व्रजराजस् सह-दुःख-हासम् उवाच—वयं किं कुर्मः? रोषम् अनुवर्तमाना स्वयम् एव स्व-दोषं पश्यतु ।

[६७] सर्वाः सास्रम् ऊचुः, हन्त, सा खल्व् अन्तर् बहिर् अप्य् अतिकोमला तवेदृशा-लापेन तापेनातिम्लास्यति ।

[६८] व्रजराजस् तु स-स्मितः सुतम् अपृच्छत्, स्व-मातरं यास्यसि?

[६९] कृष्ण उवाच—नहि नहि, किन्तु त्वाम् एव समया समयान् गमयिष्यामि ।

[७०] अथ राज-ज्यायः-प्रजावत्यः सहासम् ऊचुः—स्तनं कस्य पास्यसि?

[७१] कृष्ण उवाच—सितासम्भविष्णु धारोष्णं पयः पास्यामि ।

[७२] सर्वा ऊचुः—केन क्रीडिष्यसि?

[७३] कृष्ण उवाच—तातेनैव समम् । तथा भ्रातरम् अपि सङ्गं गमयिष्यामि ।

[७४] व्रजराज उवाच—भ्रातुर् मातरं कथं नानुगच्छसि?

[७५] कृष्णः स-रोषास्रम् उवाच—मां विहायेयम् अपीयाय इति ।

[७६] तद् एतद् आकर्ण्य सास्रा रोहिणी नीचैर् उवाच—पुत्र, कथं कठोरायसे? माता तव दुःखायते ।

[७७] कृष्णस् तद् एतद् अश्र्ण्वन्न् इव सास्रं पितृ-मुखम् ईक्षते स्म । रोहिणी तु सङ्कर्षणं तस्य सङ्कर्षणाय सञ्ज्ञया ज्ञापयामास । तेन गृहीत-हस्तः पुनर् असौ निरस्त-तद्-धस्ततया विद्रुत्य पितुर् उत्सङ्ग-सङ्गी बभूव । तथाभवंश् च भुजाभ्याम् अवगुण्ठित-तत्-कण्ठः कृत-बाष्प-वृष्टिं तद्-दृष्टिम् एव पश्यंस् तम् अतीव वश्यम् आचरन्न् आसीत् ।

[७८] व्रज-राजस् तु मातर्य् अन्तः-स्नेहम् अस्य पर्यालोच्य तद् अभिव्यक्तये हस्तं किञ्चिद् उदस्तं विधायाभिदधे—पुत्र, यदि वक्षि, तर्हि बाढं तां ताडयामि ।

कृष्णस् तु तद् असहमानस् तस्य हस्तं स्तम्भयामास । [७९] ततो व्रज-राजः पुनर् विहस्य निज-वत्सलतयातीव सदयं तदीय-मातुर् अपि हृदयम् अधियन्—पुत्र, तव माता यद्य् एवं भविष्यति, तदा किं करिष्यसि? इत्य् अनधातोर् विरुद्धार्थं प्रयुज्य स-परिहासम् आह स्म ।

[८०] कृष्णस् तु बालक-भावेनाजस्रं मातरि स-तृष्णः सास्रं, कुत्र मे माता? तत्र गम्यताम् इति स-शङ्कं रोहिण्य्-अङ्कं गतवान् । [८१] ततश् च, प्रहसित-कलकलेषु सकलेषु परम-सुखारोहिण्या रोहिण्यानीतः सोऽपि वेश्म प्रविश्य स-रोदन-मोदम् अम्बाला-गलं लग्नवान् । ततश् च—

वत्स-मूर्ध्नि चिबुकं दधती सा धेनुवद् वलित-घर्घर-शब्दा । रोदन-प्रथनया द्रवद्-आत्मा रोदयत् परिकरान् अपि सर्वान् ॥३९॥ [स्वागता]

[८२] अथ तासां त्व् अनेक-सान्त्वनया लब्ध-शान्तिः किञ्चिद् व्यञ्जित-मुख-कान्तिः श्री-सुमुख-कन्येयं स्तन्येन तनयं प्रीणयामास । बुभुजे च सहाग्रजातेन तेन परम-हिताभिः सहिता ।

[८३] तद् आरभ्य तु सङ्कोचं उपलभ्य व्रजराज-लोचन-गोचरतां वासर-त्रयं नासादितवती । दिनान्तरे तु पितृ-निदेश-पाल-बाल-गोपालेनैव चेलाञ्चले गृहीत्वा नीता । तद्-दिनश् च स-नर्मामोदं दामोदरः इति व्रज-वधूभिर् आहूयते स्म, सोऽयं श्याम-मनोहरः इति ।

व्रजेश्वरीं स्तोतुम् अपीह कोविदः

को वा भवेल् लोकग-लोक-सङ्ग्रहे । ब्रह्मापि सर्वोऽपि रमापि यत्-कला- कलां च नाञ्चीद् इति बादरायणिः ॥४०॥ [उपजाति]

[८४] सोऽयम् अस्या बादरायणिना घटित-सम्यग्-उद्घट्टनः श्रीमान् यशः-पटह-शब्दस् त्रैलोक्यम् एव श्लोक्यतया पर्यटन्न् अस्ति । तथा हि, नेमं विरिञ्चिः [भा।पु। १०.९.२०] इत्यादि ।

[८५] श्री-रामस् तु निजानुजं स-तृष्णम् आह स्म, स्मरसि, भ्रातर्, बृहद्-वने वत्स्यावः ।

[८६] अनुजोऽपि स-स्मितम् आह स्म, आं आं, तत्र क्रीडाम् अपि करिष्यावः इति ।

[८७] अथ कथकः समापनम् आह—

ईदृशस् तनयो जातस् तव गोप-महेश्वर । यौ वृक्षाव् अपि तौ स्वस्य दिव्य-भक्तौ विनिर्ममे ॥४१॥ [अनुष्टुभ्]

[८८] तद् एवं वृत्ते वृत्ते सर्वे तत्-तत्-कथां अपि तत्-तत्-पर्वैवानुभूय स्वं स्वम् आवासम् आसन्नवन्तः ।

इति श्री-श्री-गोपाल-चम्पूम् अनु

दामोदरानुमोदो नाम

अष्टमं पूरणम्

॥८ ॥

(९)

५। अथ नवमं पूरणम्

१०। श्री-वृन्दावन-देशे प्रवेशः [१] अथ दिनान्तरे भासमानायां सभायां श्री-व्रजराजः पर्यनुयुक्तवान्, वत्स स्निग्धकण्ठ, तौ खलु वृक्षौ व्रजे सङ्कल्प-प्रदतया देवता-सदृक्षौ । ततः प्राग्-जन्मनि कीदृशाव्, अत्र वा कस्माद् आगतौ, सम्प्रति च कीदृशतया क्व गतौ?

[२] स्निग्धकण्ठ उवाच—पूर्वं धूर्जटि-मित्राद् उत्पन्नवन्तौ श्री-देवर्षि-वर्ये धार्ष्ट्यम् अनुष्ठितवन्तौ सन्तौ, परिणामतः परमानुग्रहेण श्री-देवर्षि-वर्य-कृत-निग्रहेण वृक्षतायाम् अपि भवगद्-भक्तताम् आगतवन्तौ । प्रतिभवद्-अवतारम् उद्भवतस् तस्य बृहद्वन-स्थ-भवद्-गृहस्य तु सदेशे देशे यमलार्जुन-वेशेन स्थितवन्तौ । एतद्-अनन्तरं च निज-गतिम् आगतवन्तौ परम-भगवद्-भक्तिमन्तौ च जातवन्तौ । सम्प्रति तु तद्-भक्ति-फल-व्यक्तिम् अप्य् आकलयन्तौ वर्तेते ।

[३] व्रजराजः सकौतुकम् उवाच—कथ्यतां तथ्यं, सम्प्रति कुत्र प्रतियातौ?

[४] अथ स्निग्धकण्ठः स्व-मुख-कमलं नमयित्वा तुष्णीम् इव स्थित्वा च मधुकण्ठं कटाक्षेणेक्षाञ्चक्रे ।

[५] व्रजराज उवाच—सङ्कुचन्न् इव कथं नोचितवान् असि?

[६] स्निग्धकण्ठः स-सम्भ्रमम् उवाच—देव, वयं किं ब्रूमहे? श्री-चरणाः स्वयम् एव वेत्स्यन्ति ।

[७] व्रजराजः सस्मितम् उवाच—सत्यं भवद्-उक्तं पुनर्-उक्तम् एव भवेत्, यतो भवतो मौनम् एवात्र ब्रवीतीति रीति-वशाज् ज्ञातवन्त एव च वयम् । तथापि, स्व-मुखेन सुखेन योजयतु भवान् अस्मान् ।

[८] स्निग्धकण्ठ उवाच—सर्व-सुख-वर्षि-श्री-देवर्षि-चरणानां कृपण-विषय-कृपा-कॢप्त-तद्-एतद्-गती लब्धमती ताव् एव स्फुटम् आवाम् इति ।

[९] तद् एतद् आकर्ण्य निर्वर्णित-तन्-मुखाः श्री-व्रजराज-प्रमुखाः समाहूय भूयः स-कौतुकं स-सुखं तौ मिलितवन्तः । मध्ये समुपवेश्य निरीक्षितवन्तश् चेति । [१०] पुनस् तु तत्-प्रश्नानन्तरं मधुकण्ठः क्रम-प्राप्तां कथां प्राह, [११] तद् एवं विचित्रात् पूर्व-चरित्राद् दिवस-पञ्चकानन्तरं श्रीमान् उपनन्दः स्व-मन्दिरं विन्दमानः स्व-पत्नीं पप्रच्छ, अद्य स्व-देवर-नर-देव-गृहे किं गमन-मङ्गलं जगृहे भवत्या?

[१२] पत्नी प्राह—अथ किम्, को वा तद् गमनं विना मनो मानयितुं शक्नोति, किम् उत भवद्-विध-सविध-सम्बन्धिनस् ते वयम्?

[१३] पतिर् आह—विशेषश् चेत् कथ्यताम् ।

[१४] पत्नी प्राह—

यस्मिन् प्रेम-प्रचुरं भयम् अपि तस्मिन् विभाव्यते प्रचुरम् । यद्वन् नेत्रं शङ्का-विषयस् तद्वन् न कर्णादि ॥१॥ [गीति]

[१५] तथा हि, यद्यपि निरवद्याधान-विधातृ-मातृ-प्रभृतिभी रक्ष्येते सभीभिर् एव तौ, तथापि खेल-वेलायां सम्भालयितुम् अपारणीयतया सुकलम् एव विकलयतः । तत्र चाद्यतनं वृत्तं प्रतिपद्यताम्—

[१६] तौ भवद्-भ्रातृजौ स-निज-व्रज-व्रजेश्वर-भोज्य-सज्जनाय जनितामोदायां यशोदायां तदीय-साहायका-रोहिण्याम् अपि रोहिण्याम् आशङ्का-पात्रीर् धात्रीर् वञ्चयित्वा विदूरं चञ्चितवन्तौ । यथा,

धात्रीणाम् अपरत्र कर्मणि मनाग् दत्तात्मनाम् अग्रतः सव्यासव्य-दृशोर् दृशोर् अविषये सान्तर्द्धि-देशे च तौ । क्रीडा-दम्भ-वशात् क्रमाद् अपगतौ विद्रुत्य दूर-स्थितौ तत्राथ स्व-सुहृद्भिर् उद्धत-गणैः कोलाहलं चक्रतुः ॥२॥ [शार्दूल]

[१७] अथ तथा निकृतस् तत्-पालनाधिकृत-धात्री-वर्गः क्षणात् कृतावधान-सर्गः शीघ्रम् एव कृतानुमार्गः क्रमेण स्वस्याकारणम् अकारणताम् आसादितम् अवधार्य निजेश्वर्योर् आवेदयामास ।

[१८] तावच् च ततोऽप्य् अतिदूरं गम्भीर-सरित्-तीरं गताव् आकर्ण्य पूतना-सूदन-प्रसू रामाम्बालाम् एव तयोः सङ्कलनाय चालयामास । ‘हन्त, न जाने खल्व् अर्जुन-युगलवद् दुर्जन-प्रेर्यमाणतया कश्चिद् अनोकहो वा नद्यवरोहो वा स्खलतीति मयि पाक-कर्म-विपाकावरुद्धायां सत्वरं त्वम् एव स्वयं याहिऽ इति।

सा च तत्र गता शीघ्रं व्यग्री-भूताङ्ग-मानसा । सरित्-तीर-गतं कृष्णं भग्नार्जुनम् अथाह्वयत् ॥३॥ [अनुष्टुभ्]

[१९] ततश् च क्रीडा-रङ्गाकुलतया तद् अनङ्गीकर्तरि सङ्गीशितरि कृष्णे कृष्णाग्रजे च तद्-अनुग-तृष्णे, सा परिवृत्य सद्मागत्य तस्य किञ्चिद् भय-स्थानं प्रभव-स्थानम् एव प्रस्थापयामास ।

[२०] ततश् च तन्-माता च गत्वा—

क्रीडन्तं तनयं बालैर् अतिवेलं सहाग्रजम् । वीक्ष्य स्तन-मिषात् स्नेहं वर्षन्ती हूतिम् आतनोत् ॥४॥ [अनुष्टुभ्]

[२१] न तु सहसा समीपम् आप तत्-पलायन-शङ्कया । आहूति-माधुरी चेयम् आस्वाद-धुरीणतां नीयताम्—

कृष्ण कृष्णारविन्दाक्ष

तात एहि स्तनं पिब ।

अलं विहारैः क्षुच्-छ्रान्तस्

तद् भवान् भोक्तुम् अर्हति ॥ [भा।पु। १०.११.१५] इति ।

[२२] तथापि मिथः सङ्घर्षयतः क्रीडा-तर्षवन्तं तम् अनागच्छन्तं धर्षयन्ती, विच्छिदुरता-विधुर् असजातीय-स्नेहस्य द्वितीय-पात्रम् आदृत-स्व-वचन-मात्रतयावश्यम् एव वश्यं श्री-बल-भद्रम् एव सानुक्रोशं चुक्रोश—

हे रामागच्छ ताताशु सानुजः कुलनन्दन ।

प्रातर् एव कृताहारः क्रीडाश्रान्तोऽपि पुत्रक ॥ प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः । एह्य् आवयोः प्रियं धेहि, स्वगृहं यात बालकाः ॥ [भा।पु। १०.११.१६-७]

[२३] ततो मातृ-हर्षणाय निवर्तयितुं कृष्णं कर्षति सङ्कर्षणे, सच्छल-प्रोत्साहनं तम् एव भणति स्म—

धूलि-धूसरिताङ्गस् त्वं तात मज्जनम् आवह । जन्मर्क्षं तेऽद्य भवति विप्रेभ्यो देहि गाः शुचिः ॥ [भा।पु। १०.११.१८]

[२४] पुनस् तदानीम् एव गृहाद् आगतान् बालान् आकलय्य स्पृहां बृंहयन्ती बभाषे,

पश्य पश्य वयस्यांस् ते मातृ-मृष्ट-स्वलङ्कृतान् ।

त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः ॥ [भा।पु। १०.११.१९]

[२५] तद् एवं बाल्यम् एवारभ्य विप्र-पोषणाद् आत्मनस् तोष इति तद् आरम्भाय स्तम्भमानम् आह्वानादि-लक्ष्येण लघु लघु समीपम् आसन्ना स-रामं रामानुजं भुजयोर् गृहीत्वा गृहम् आनिनाय ।

[२६] ततश् च, जन्मर्क्षं ते इति मिथ्या-कथ्यमानम् अपि तेन गृहीतं नितराम् एव गृहीतवती व्रजराज-गृहिणी तत् पर्व, यत्र दुष्ट-दृष्टि-निवारणाय स-यन्त्रा मन्त्रा मुहुर् विन्यासम् ऊहुः ।

[२७] तद् एवम् अवधाय स सर्व-दर्शः श्रीमान् उपनन्दः पराममर्श, सत्यम् आशङ्कितं प्रजां प्रति प्रजावत्योर् अनयोः प्रजावत्योः, यद् इदं गोष्ठ-प्रकोष्ठम् अवदुष्टम् इव दृश्यते । भवतु, व्रजराज-समाजम् अनु विचारयिष्यामः ।

[२८] तत्पत्नी प्राह—विचारः पुनस् तत्रभवत्य् एव स्थास्यते ।

[२९] अथ प्रातर् एव गो-व्रज-व्रजान्त-स्थायां सर्वास्थास्पद-व्रजराज-समाज-राजमानायाम् आस्थान्यां मिलिता गोपाला गोपाल-नादि-सौकर्यं नात्रेति पर्यालोचयामासुः—

[३०] चिरवासेनोत्सन्नतासन्न-वनतया बृहद्वनस्य । तत्र तु वयो-ज्ञानाभ्यां वृद्धः श्री-राम-कृष्ण-प्रेम्णा समृद्धः स्वाङ्क-पल्यङ्कं सद्-अलङ्करिष्णुना मध्ये मध्ये च चिबुकं गृहीत्वा वितथ-प्रश्नम् आचरिष्णुना तत् तदा क्रीडनक-याच्ञा-सतृष्णेन कृष्णेन लभ्यमानानन्दः श्रीमान् उपनन्दः प्रावोचद् अखिल-रोचनम् । इह च व्रजराजस्य सङ्कोचम् अवलोचयन् बाल-प्रजा-मात्रस्य हित-पक्षम् उपलक्षयामास । यथा—

‘इह न स्थेयम्ऽ इतीत्थं व्रज-हितम् उक्तं भवद्भिर् यत् । तत् पुनर् अतिबालानां हित-प्रधानं मम स्फुरति ॥५॥ [उपगीति] सहजनि-जनिते यन् मम पर-पर-यत्नेन रक्षितेऽप्य् अत्र । जातं विप्लव-जातं, तस्मात् किं स्याद् इहोर्वरितम्? ॥६॥ [आर्या] तत्-तद्-उपद्रव-जाते केवल-परमेशितू रक्षा । तस्मिन् भारं दद्याद् इति च न खलु तत्-परैर् इष्टम् ॥७॥ [उद्गीति] चलता द्वयम् अनुचिन्त्यं- त्याज्यं गम्यं च यद् धाम । त्याज्यं दुःख-निदानं, गम्यं सुखिता-निधानं तु ॥८॥ [उपगीति] स्थानं तद् अपदेयं, यद् इह परत्र च घटेत दुःखाय । बृहद्-आख्यं वनम् अनुपदम् ऐहिक-दुःखाय साम्प्रतं जातम् ॥९ गीति] स्थानं तद् उपदेयं, यद् इह परत्र च घटेत सौख्याय । वृन्दावनारण्यं चादः समस्त-सुखतमम् अतीव पुण्यं च ॥१०॥ [गीति] गोवर्धन इति नामा यत्रारण्ये गिरिः स्फुरति । तत् खलु गो-जातीनां गोपानां चास्ति सर्वस्वम् ॥११॥ [उपगीति] गोपाः कानन-करदा ग्रामादीनां विनिश्चयाभावात् । तद् अपर-कानन-गमने राज्ञां चाज्ञा स्वतः-सिद्धा ॥१२॥ [आर्या] सुखतो भयतो वा यत् कृत्यं कर्तव्यतां याति । शीघ्रं यत् खलु कार्यं वलयति शङ्काम् अलं विलम्बस् तु ॥१३॥ [उद्गीति] उत्थातव्यं तस्माद् अस्मात् सद्यो न कार्यम् आलस्यम् । तुलिता ह्य् उद्यम-कलना कृत्यं यद् यद् यदा क्रियते ॥१४॥ [आर्या] इयम् अस्माकम् उदीक्षा युष्मभ्यं यदि तु रोचमाना स्यात् । पर-वीक्षितेऽपि वस्तुनि बहु-सम्मतिर् उत्सवं दुग्धे ॥१५॥ [आर्या] भवति तु चेद् इह भवतां समर्थना तर्हि गावः प्राक् । सम्यक् पायित-वत्साश् चरन्तु वृन्दाटवी-वर्त्म ॥१६॥ [उपगीति] पश्चात् पट-गृह-शकटान्य् अटन्तु गृह्यं समस्तम् आदाय । विधि-विधि-सिद्धा सेयं व्रजनाद् व्रजता हि गोदुहां सदने ॥१७॥ [गीति]

ततश् च,

तद् वाक्यं पशुप-समूहम् ऊह-शून्यं स्वार्थाय स्वयम् अनुगम्य कल्पते स्म । साधर्म्य-स्पृशि मृदि पश्य बीज-भेदः स्फीतः स्यात् फलति च तत्र नापरत्र ॥१८॥ [प्रहर्षिणी]

[३१] तद् एवं पौर्णमासीम् अपि विज्ञाप्य समनुज्ञाप्य पुरतः प्रस्थाप्य च शीघ्रम् उत्थाप्यतां व्रजः इति दुन्दुभि-निर्घोषणया कृत-पोषः सोऽयं घोषः स्व-निरुक्तिम् एवातिरिक्ततया व्यक्तवान् । गव्यानां मानुष्यकानाम् अपि कोलाहलान् महा-घोषास्पदता हि घोषता निर्दिष्टा । यथा,

तदा व्रजे कलकल-कोटिर् उत्थिता हिही-हिही-जिहि-जिहि-कार-मिश्रिता । घडद् घडद् घडद् इति शाकटा-रवः स-वाद्यकः पुनर् अखिलं-गिलः स्थितः ॥१९॥ [*जभजसग] आरोप्यानसि वृद्धादीन् स्वयम् ऊढ-शरासनाः । गौरवेण गवां गोपा ययुर् विक्रममाणताम् ॥२०॥ [अनुष्टुभ्]

[३२] ततश् च सङ्क्रीडति शकट-वर्गे सङ्क्रीडमाने सति,

शकट-गृहाटन-चर्यां पर्याकलयन् विदूर-गो लोकः । व्यतिषज्यावदद् एतद् ग्रामः कश्चिच् चरिष्णुर् अस्तीति ॥२१॥ [गीति]

पथि तु,

एको धावति कश्चनाह्वयति कोऽप्य् अत्रोत्तरं भाषते कश्चित् तत्र निवृत्य गच्छति निजं सम्भालयत्य् अन्यकः । सर्वो गायति कृष्ण-बाल्य-चरितं बाष्पायते स्तम्भते स्विद्यत्य् एजति रोमहर्षम् अयते वैवर्ण्यम् आसीदति ॥२२॥ [शार्दूल] आरूढ-शकटा गोप्यो व्यूढ-नव्य-परिष्क्रियाः । अमन्दं जगुर् आनन्दाद् आनन्दान् नन्द-नन्दनम् ॥२३॥ [अनुष्टुभ्]

यथा,

नन्द-मही-पति-जात नन्द यशोदा-मात । जन्म-महा-मह-दिग्ध रमित-समस्त-स्निग्ध ॥ध्रु । स्पर्शादित-विष-योष अपरिचितापद-दोष । शकट-विघट्टन-शेष गोकुल-पुण्य-विशेष ॥ कृत-नामभिर् अभिराम सन्तत-रामा-राम । रिङ्ग-भृताङ्ग-नरङ्ग अङ्गीकृत-सखि-सङ्ग ॥ लङ्घित-मारुत-चक्र नन्दित-गोकुल-शक्र । वत्स-विमोचन-मोद व्रज-जन-शर्म-यशोद ॥ सर्वानन्दन-चौर्य तस्मिन् दर्शित-शौर्य । अयि दामोदर-लील अखिल-सुख-प्रद-शील ॥२४॥ [२ x ३ गणस्] इति ।

[३३] तद् एवं गायन्त्यस् तद्-दर्शनस्य नाथमाना व्यत्यतिक्रामन्ति स्म—

तदा यशोदा-रोहिण्याव् एकं शकटम् आस्थिते । रेजतुः कृष्ण-रामाभ्यां तत्-कथा-श्रवणोत्सुके ॥ [भा।पु। १०.११.३४]

[३४] तत्र स्थितिर्, यथा-

मणि-खचित-सुवर्ण-चित्र-वर्णे
शुचि-मृदु-तुलिकयानुकूल-मध्ये । गृह-निभ-शकटे विरेजतुस् ते सुत-रुचि-रोचिषि रोहिणी-यशोदे ॥२५॥ [पुष्पिताग्रा]

[३५] तत्-कथा तु द्वि-विधा, तत्-सम्बन्धिनी, तत्-कर्तृका च । पूर्वा यथा,

स्निग्धा नार्यः शकटम् अभितो मातरौ पुत्रयोस् तैर् ज्ञाताज्ञातैर् अखिल-चरितैर् धिन्वते स्माविशेषात् । प्रेम्णः सेयं प्रकृतिर् अखिलाश्चर्य-रूपा यद् उच्चैः सर्वं स्वीयं विषयम् अमनः-स्पृष्ट-तुल्यं करोति ॥२६॥ [मन्दाक्रान्ता]

[३६] उत्तरा यथा—

कृष्ण उवाच—मातः, क्व नु खलु गच्छन्तः स्म?

[३७] माता प्राह—पुत्र, वृन्दावन-नामनि वन-धामनि ।

[३८] कृष्ण उवाच—कदा सदनम् आयास्यामः?

[३९] माता सस्मितम् आह—वत्सास्मद्-अनुषङ्गत एव सङ्गच्छमानं तद् आस्ते ।

[४०] कृष्ण उवाच—क्व नु निरूप्यताम्?

[४१] रामः प्रहसन्न् आह—कृष्ण, पाकादि-नित्य-कृत्य-सन्निवेश-देशाधः-प्रदेशान् महा-शकट-वेशान् गृहान् निकटत एवाटतः पश्य ।

[४२] कृष्णः साश्चर्यं दृष्ट्वा श्री-रामं स्पृष्ट्वा जहास, पुनर् उवाच च, तथ्यम् इदं कथ्यते स्म । यस्माद् विदूर-क्षितिगा अपि क्षिति-रुहास् तथा लक्ष्यन्ते ।

[४३] माता तु रोहिण्या सह स-हासम् आह स्म, पुत्र, त एते तु न कुत्रचन च गच्छन्ति, किन्तु सम्प्रति तथा प्रतीयन्ते मात्रम् ।

[४४] कृष्णः स-तृष्णम् उवाच—भवतु, तद् वृन्दावनं कुत्र?

[४५] रोहिण्य् आह—पुत्र, यमुनायाः पारे ।

[४६] राम उवाच—एका यमुना दूरतः पश्चान् न्यस्ता, पुरतः किम् अन्याप्य् अस्ति?

[४७] माता सहासम् आह—पुत्र, कुत्रचिद् अपि मनाग् अपि न विच्छिन्न-गमना सा ।

[४८] रामस् तु मातृ-मुखं साश्चर्यतया स-सुख-चर्यं पश्यति स्म । [४९] कृष्ण उवाच—तत्र-भवता किल न तर्कितं, यत् खल्व् इत इव तत्राच्छ गच्छन्ती सा दृश्यते स्म ।

[५०] तद् एवं तयोः सोल्लासं हासं बिभ्रतोः पुनः कृष्णः स-तृष्णम् उवाच—लघु-मातः, का तत्र शात-सम्पद् अस्ति यद् एतावता प्रयासेन प्रयास्यामः?

[५१] रोहिण्य् आह—पुत्र, क्रीडा-स्थानानि क्रीडनकानि च बहूनि सन्ति ।

[५२] कृष्णः सहर्षं सङ्कर्षण-निष्कलङ्क-विधोर् अङ्कं निज-श्याम-धाम्नालङ्कुर्वन्न् एव साङ्ग-प्रणयतया समुत्तानिताङ्गस् तन्-मुखम् उन्मुखं पश्यन् विहसन् विलसन् मुहुर् लुठति स्म । [५३] सङ्कर्षणस् तु तन्-मुखम् अनु मुखं निधाय मुहुर् विहसित-लीलां विधाय चिराय तं हासयति स्म ।

[५४] अथ यमुना-तरङ्ग-सङ्घ-सङ्गत-मारुत-दिग्ध-स्निग्ध-वन-लेखेयम् आसन्ना इति मातृ-युगल-संलापं निशम्य सम्यग् उत्थितः कृष्णः सङ्कर्षण-सङ्करः प्राग् अज्ञातान् ज्ञातान् अपि नग-मृग-खगान् हसन्तीभिः स्खलित-दन्तीभिर् विवादतः सर्वान् अपूर्वान् इव पृच्छन्न् उत्तरम् आयच्छंश् च तत्-कूलानुकूल-वनम् आससाद ।

[५५] तत्र प्रश्नोत्तरे यथा—

कोऽसौ वृक्षः समन्ताद् अनिश-चल-दलः? पिप्पलः । कोऽण्ड-कोटिं सूते? सोडुम्बराख्यः क इह घन-जटा-व्याप्त-मूर्तिर्? बटः सः । इत्थं नव्यां वनान्तर्-गतिम् अनु जननी-डिम्ब-संवाद-जातं लोकं पीयूष-वर्षैर् असुखयद् अखिलं तत्र तत्रातिचित्रम् ॥२७। [स्रग्धरा]

किं च—

गौराः कृष्ण-प्रधानाप्लुत-गति-पशवः के रमन्ते? हरिण्यः के वामी सैरिभाश्व-प्रतिम-तनुधरा? रोहिषाख्याः प्रसिद्धाः । के शृङ्गानेकशाखा-शवलित-वपुषः? शम्बराख्यास् तद् एवं मातुर् गीर्-ज्ञात-नामा स जयति स-बलो नन्द-गोपाल-बालः ॥२८॥ [स्रग्धरा]

अपि च—

चित्रः कोऽपि? मयूरः क इह मृदुकुहूगायकः? कोकिलाख्यः को वक्तुं वष्टि वाणीं नरवद् अपि? शुकः पुष्पगः कश् च? भृङ्गः । इत्थं मातृ-द्वयेन प्रथम-वन-गमे संलपन्तौ हसन्तौ, बालौ गोपाल-रामौ व्रज-कुल-महिलाः शर्मभिः सिञ्चतः स्म ॥२९॥ [स्रग्धरा] अथागतास् तरणि-सुता-तटं व्रज- प्रजा-व्रजाः स-शकट-धेनु-सङ्कटम् । स-सम्भ्रमं तरितु-मनस्तया च ते परस्परं कलकल-कीर्णम् अभ्रमन् ॥३०॥ [जभसजग]

[५६] ततश् च द्वाव् अपि भ्रातरौ मातरौ विहाय, परमम् उन्नततमं व्रजेशितुः पितुः शकटम् आगताव्, ऊर्ध्व-स्थित्या दलद्-इन्दीवर-सुन्दरता-शालि-कालिन्दीं प्राणि-वृन्द-प्रीणि वृन्दावनम् अपि फुल्ल-दृशा ददृशतुः ।

[५७] श्री-व्रजेश्वरादयस् तु परस्परम् ऊचुः—अहो, रूपम् इह पारीण-वन्या-सम्बन्धिन्या भास्वत्-कन्यायाः, या खलु प्रतिबिम्ब-संवलनया वृन्दावनान्तम् अन्तर्-वहन्ती विचित्र-चित्र-पट्ट-पटवद् आचरति । [५८] अहो मधुरीणां साधु-रीतिर् अस्य च वृन्दावनस्य, यत् खलु नीलाभं सित-पीत-लोहित-प्रसूनालिभिर् निःसरद्-आसार-विद्योतमान-विद्युत्-कान्ति-रोहित-रोहित-नीरद-वद् आभासमानं दूरतोऽप्य् अमृत-पूरम् अर्पयति । यस्य चाकृष्ट-त्रिपिष्टप-पद-षट्पद-पदतया व्यक्त-दौर्लभ्यं समाकर्षि-सौरभ्यं घ्राणाभ्यागतानां दूरम् आरभ्य प्रत्युद्गमि सभाजक-सभ्य-वृन्दम् इव लभ्यते । [५९] यस्य च विचित्र-पत्रि-कृत्रिम-कल-कलिल-काकली-सङ्कुल-कोलाहल-कुलम् आकर्षण-मन्त्र इवार्थ-ग्रहणं विनापि स-कर्णकं जन्युं निजाश्रयाभ्यर्णम् आकर्षति ।

[६०] तद् एवं पश्यतोः शृण्वतोर् अपि स-तृष्णयो राम-कृष्णयोर् गोपाः गाः पारयितुं व्यापारं कारयामासुः,

नीरं तरणि-कन्यायास् तीरं च तरणे तदा । गो-मयं गोमय-मयं क्षणाद् अजनि सर्वतः ॥३१॥ [अनुष्टुभ्]

[६१] तीर्णासु गोषु तथा कर्णीरथाद् अवतीर्णासु परिजन-परिच्छद-सहितासु गोप-वनितासु, काश-कुश-शर-वंश-वरैर् अलङ्कर्मीण-निर्मित-परस्पर-नद्ध-प्लव-राजी राज-पद्धतिर् इवासम्बाधतया साधिता । [६२] ततश् च पारावारीण-भूम्योर् एकतायां कृतायाम् अवारीणम् इव पारीणम् मधुपुरी-कालीय-ह्रदयोर् अन्तरालं तद् वन-भागं सर्व एव गायन्तः प्रहसन्तः क्रीडन्तश् च शकट-घटयापि प्रविविशुः । तद् एवम् एवोक्तम्,

वृन्दावनं सम्प्रविश्य सर्व-काल-सुखावहम् । तत्र चक्रुर् व्रजावासं शकटैर् अर्ध-चन्द्रवत् ॥ [भा।पु। १०.११.३५] इति।

[६३] राम-कृष्णाउ च बद्ध-तृष्णाव् आसादित-तीरोपकण्ठाव् उत्कण्ठया भुवि शकटाद् उत्प्लुतौ प्लुत-सम्प्लुताह्वानतः सुख-समन्वितं सखीन् अन्वग् विधाय प्रत्यग्रम् अपि प्रत्यग्रायमाण-वैचित्री-गहणं गहनम् अवगाहमानौ सव्यापसव्ययोः पश्यन्तौ चरण-चारिताम् एवाचरितवन्तौ । तदा च किम् अन्यद् वर्णनीयम्, समस्तं वृन्दावनम् अपि कृष्णेन स्पृष्टं हृष्टम् एव निर्णीय परामृष्टम् । यतः,

यद् गानं विपिनस्य कोकिल-कले नृत्यं लता-विभ्रमे रोम्णाम् उत्थितम् अङ्कुरे च कवितं योग्यान् निदानादृते । तन् मिथ्या यदि कृष्ण-सङ्गति-वशात् तस्मिंस् तथा वर्ण्यते सत्यं तर्हि सदापि तत् तद् अखिलं यस्माद् दरीदृश्यते ॥३२॥ [शार्दूल]

[६४] ततश् च तौ क्वचिद् विक्रमणेन क्वचित् तु स्निग्ध-जन-स्कन्धाद्य्-आक्रमणेन बन्धुभिर् आस्वाद्यमानानवद्य-लालित्यामृतौ शुभ-शकुन-सम्भृतौ वत्स-क्रीडनाभिध-यमुना-घट्टतः सट्टीकराख्यं प्रदेशम् आसेदतुः ।

[६५] अथावतरण-तुर्य-घोष-जाते राज्ञा समनुज्ञाते, तं पश्चान् निधाय दक्षिण-पश्चिमाम् अग्रे विधाय सर्वे समाकीर्ण-विस्तीर्ण-देशतयावतीर्णाः ।

लोक-हूति-व्यक्त-चेष्टं तदा नन्दादि-वेष्टितम् ।

वृन्दावनम् इदं रेजे सुप्त-जागरित-प्रभम् ॥३३॥ [अनुष्टुभ्] तत्र चक्रुर् व्रजावासं शकटैर् अर्ध-चन्द्रवत् । यद्-अन्तः-पूरितं गोभिः क्रमेण घन-रीतिभिः ॥३४॥ [अनुष्टुभ्]

श्री-हरि-वंशे च,

निवेशं विपुलं चक्रे गवां चैव हिताय च । शकटावर्त-पर्यन्तं चन्द्रार्धाकार-संस्थितम् ॥ इति । [२.९.२०-१]

[६६] एवं तद्दिने शकटैर् एव चक्रुः, दिनान्तरे तु,

कण्टकीभिः प्रवृद्धाभिस् तथा कण्टकिभिर् द्रुमैः । निखातोच्छ्रित-शाखाभिर् अभिगुप्तं समन्ततः ॥ इति । [२.९.२२] गो-पुरस्य पुरः कृत्वा गोवर्धन-धराधरम् । गोप-वासः स तत्रासीन् नगोप-वसतिर् यतः ॥३५॥ [अनुष्टुभ्] पौरस्त्य-वस्त्य-त्यागेऽपि तत्-तन्-मर्यादयाचितः । व्रजाकारस् तथैवासीत् कृष्णापारे यथा स्थितः ॥३६॥ [अनुष्टुभ्] अष्ट-क्रोशीम् आयतं गोष्ठम् एतन् मध्ये तस्मिन् विस्तृतं चार्धम् अस्याः । एतन् मानं चात्र लोकस्य दृष्ट्या शक्त्यानन्ताचिन्त्य-धामत्वम् एव ॥३७॥ [शालिनी] मध्ये राज्ञः सद्म तत्-पार्श्वतस् तद्- भ्रातॄणां तद्-बाह्यतस् तत् परेषाम् । यद्वत् प्रेमण्य् अन्तरङ्गादि-रीतिर् वासेऽपि स्याद् औचिती तद्वद् एव ॥३८॥ [शालिनी]

[६७] अथ तत्र परम-शर्मणा गम्यमान-समय-व्रजे पूर्ववद् व्रजे क्रीडा-रतयोर् अपि तयोर् वन-दिदृक्षा पुनर् अतीव विलक्षणा जाता । ततश् च प्रतिदिनम् अपि गवावनाय वनाय प्रयातेन तातेन समं समन्तत एव व्रजतः स्म । यत्र—

वृन्दावनं गोवर्धनं यमुना-पुलिनानि च । वीक्ष्यासीद् उत्तमा प्रीती राम-रामानुजातयोः ॥३९॥ [भा।पु। १०.११.३६]

यथा,

प्राधान्याद् अतिदिव्य-वृक्ष-विततेर् वृन्दावनं रत्न-भू- पल्यङ्कान्वित-पीठ-जेतृ-दृशदां वृन्दस्य गोवर्धनः । ग्लौ-चूर्णोद्भव-रङ्ग-भूमि-विजयि-स्थल्यावलेर् अंशुमत्- कन्यायाः पुलिनालिर् उत्सव-शतं दुग्धे स्म मुग्धं तयोः ॥४०॥ [शार्दूलविक्रीडितम्]

[६८] अथ मधुकण्ठः समापनम् इदं साञ्जलितया व्यानञ्ज,

ईदृशस् तनयो जातस् तव गोपाधिनायक । पाल्यं करोति यो विश्वं बाल्यस्य चरिताद् अपि ॥४१॥

[६९] तद् एवं तल्-लीलानां साक्षात्-प्रथायां कथायां वृत्तायां पूर्व-वृत्तवत् तद्-दिनेऽपि सर्वेऽप्य् आनन्दानाम् अखर्वाणां खर्वेण कर्बुरिता निज-निजालयं कलयामासुः ।

इति श्री-श्री-गोपाल-चम्पूम् अनु

श्री-वृन्दावन-देशे प्रवेशो नाम

नवमं पूरणम्

॥९॥

(१०)

६। अथ दशमं पूरणम्

११। वत्सासुराद्य्-उत्सादनम् [१] अथ प्रातर् अपि पूर्ववत् कथा प्रथते स्म ।

[२] यथा स्निग्धकण्ठ उवाच—अथानयोर् अतिबाल्याद् ऊर्ध्व-विलासम् आरभमाणं सुकुमारं कुमारता-शेषं वर्णयिष्यामः । यथा—

मुक्त-स्तन्यम् उदञ्चद् अङ्गवलयं चाञ्चल्य-पर्याकुलं खेला-चञ्चद्-अखर्व-नेत्र-युगलं शश्वत्-प्रहासाननम् । नाना-कौतुक-भावितं सखिजनक्रीडाविलासास्पदं वत्सेक्षा-स्पृहि राम-कृष्ण-कलितं कौमारम् अन्तर् भजे ॥१॥ [शार्दूल]

अपि च,

शुभ्रश्यामौ नील-पीताभ-वस्त्रौ शृङ्गी-पारीध्वान-शिक्षासु दक्षौ । क्रीडा-लोलौ मित्र-वर्गे विचित्रं चित्रीयेते राम-कृष्णौ कुमारौ ॥२॥ [शालिनी]

[३] एतद्-अवधि च वस्त्र-परिधानं क्रमेण निश्चितं जातं, यथा—

वस्त्रं दधाति जननी-निहितं प्रयत्नात् क्षिप्रं च बन्धन-धिया स्वयम् उज्जहाति । भूयस् तद् अर्दति बिभर्ति च यस्य चार्धं व्रीडां विकल्प्य लघु नित्ययति स्म कृष्णः ॥३॥ [वसन्ततिलका]

[४] तत्र नित्यम् एव गोजातम् अनुयातेन तातेन सह यातवन्तौ समन्ताद् अलं तौ भ्रमतः । यथा,

अगच्छतां तत्र वने जनानां स्नेहार्थिनां क्रोड-गतौ पितुश् च । अपृच्छतां तत्-प्रति-वस्तु बालाव् अयच्छतां शर्म च राम-कृष्णौ ॥४॥ [उपजाति ११]

[५] तत्र च निवार्यमाणाव् अपि विस्फार्य्-अहम्-पूर्विकया गो-गोयुगं गोगोयुग-युगं गो-षड्-गवम् अपि युगपद् वशयन्ताव् अक्रीडताम् । अनन्तरम् अपि परस्परम् अपरस्परं सद्रवम् एव द्रवन्तौ विघटित-धेन्व्-अनडुह-सङ्घट्टाव् उद्धता धेनुर् वृषभान् अपि शृङ्ग-ग्राहं निवर्तयतः स्म । किं च, पञ्चकेनापि पशून् गृह्णीतः स्म ।

[६] दिन-कतिपये पुनर् एवं गत-समये तद् एतद् उपधार्य व्रजेश्वर्या पतिं प्रति प्रणय-स्फुरद्-उपालम्भं भणितं, किम् इदम् अपूर्वम् इव कुर्वन्ति तत्र-भवन्तः? इति । तेन च लज्जातङ्कौ सज्जता तौ वञ्चयता वनं चञ्चतामुनानुमता तं च तं च सा च सा च तन्-माता वन-गमनतस् तनयम् अतिप्रणयान् निरुद्धवती । [७] निरुद्धौ च ताव् उत्कण्ठाविष्ठाव् अरोदिष्टाम् । तत्र च कदाचिद् अह्नाय निह्नवम् आरभ्य पितुर् अभ्यर्णं गच्छन्तौ, सवयोभ्यः सुखं यच्छन्तौ वर्त्मापरिकल्य व्रजबहिर् उपशल्य-स्थैर् वत्स-पाल्यैर् बालैः कृत-मेलन्तौ खेलन्तौ तत्-पालायमानौ मुमुदाते ।

[८] तद् एवं तयोर् असकृत्कृतिम् अनुभूय भूयः श्री-व्रज-भूपती दम्पती सुख-सम्भूयमानतायाम् अपि भव्य-दूयमान-मनस्तया मन्त्रयामासतुः- यदि गो-सङ्गावस्थानं विना न स्थातुं पारयतस्, तर्हि व्रज-सदेश-देशे वत्सान् एव तावत् सञ्चारयताम् इति ।

[९] तद् एतद् एव व्रजराजः सहजादिभिर् मन्त्र-विद्भिः सह मन्त्र-सहतया विचार्य, तन्त्र-विद्भिः पुण्य-दिनम् अवधार्य, पुण्याह-वाचनादिकम् अपि सञ्चार्य ताभ्यां गो-बाल-पालनारम्भम् आचारयाम्बभूव । [१०] ताभ्याम् एव सह महा-गोपाला महं विधाय मनसि च सुखं निधाय निज-निज-बालान् वत्स-पालान् कलयामासुः । यस्य चादौ जननी-जनितेन मज्जन-सज्जनेन भोजन-भजनेन वसन-वसनेन सद्-अलङ्करण-धरणेन वेत्र-नेत्र-मुरली-गवलानां वलनेन च बल-कृष्णौ शोभां लेभाते ।

[११] कृष्णस् त्व् आनीते उपानहौ नहि-नहि-कारेण बहिश् चकार, कुल-परम्परा-गत-धन-गोधन्-समाराधन-धर्म-मर्म-बाधनं हि तत्-प्रसाधन-वशाद् भवति इति । ततः कृष्ण-भावम् अनुभवता रामेणापि तथानुमतम् । [१२] दुष्कर-गणनानि गोधनानि तु नूनं कृत-तद्-अवधानानि तद्-आनुकूल्याय प्रखर-खर-खुर-खनन-खुरलीभिर् मृन्-मय-रेणून् अपि पुष्प-रेणून् इव विधाय कर्कराकण्टकादिकम् अपि खण्डशस् तथा सन्धाय तदीय-चरण-प्रचार-भूमिं सुख-सञ्चारतया कारयामासुः । वसुधा च सुधा-सेकम् एव तदीय-चरण-सञ्चारेण मन्वाना वृन्दया सह च योगं तन्वाना तद्-आनुकूल्यावशेषं निरवशेषं चकार । यथा च खदिर-वनादिकम् अपि सुख-सञ्चाराय सम्यग् अधिकं भवति । [१३] यथा च सर्वत्र तदीय-चरण-किशलयालय-सूक्ष्म-रेखा-लेखानाम् उदयः सर्व-मुद्-अयनं भवतीति प्रकृतम् अनुसरामः ।

[१४] तद् एवं महा-मङ्गल-सङ्गततया वत्स-चारणोत्सवम् अनुक्रियमाणे प्रयाणे समुद्गत-शोभ-समुद्गक-विचित्रच्-छत्र-चामर-पट्ट-पटादि-नाना-सामग्री-सङ्ग्रह-व्यग्रीभूत-करा भुवन-शुभङ्करा जित-वृन्दाकराः किङ्कर-दारकास् ताव् अनुसरन्तः किम् अप्य् अन्तः-सुखम् अनुबभूवुः । [१५] तत्र च मातर-पितराव् आरभ्य प्रत्यागार-द्वारं सर्वाभिर् अनर्वाचीनाभिर् वर-वर्णिनीभिर् महा-धनैर् निर्मञ्छ्यमानौ दीपायमान-मणिभिर् नीराज्यमानौ प्रफुल्ल-सुरभि-प्रसूनैर् अभिवृष्यमाणौ मङ्गल-सङ्घ-सङ्गत-गीतैः सङ्गीयमानौ यथार्हं तद्-अन्तिक-वचन-कान्ति-सन्ततिभिः सन्तोष्यमाणौ, पुरस्ताद् विकीर्ण-विस्तीर्ण-नयनैर् निर्वर्ण्यमानौ गुरून् अभिवाद्य निरवद्य-वाद्य-प्रसाद्यमान-कौतुक-प्रततं प्रतस्थाते । [१६] यत्र दिव्य-गणाश् च तद्वद् एव दीव्यन्ति स्म । ततश् च—

वेणु-वेत्र-दल-शृङ्गवटीभिः

कन्दुक-भ्रमर-दारु-नटीभिः ।

क्रीडिनौ स-शिशु-गो-सुत-जाते

नील-पीत-वसनौ रुरुचाते ॥५॥ [स्वागता]

[१७] तद् अनु, दूरतः सूरततया पुरतः पश्यदृशः पितृतत्सदृशस् ते कांश्चित् प्रौढान् ऊढावधानान् विधाय, चारप्रदेशविचारम् अभिधाय च, क्रमत एव व्युत्क्रमतः क्रममाणाः सुकृतिनः कृतिनः पराववृतिरे । [१८] राम-रामानुजादयश् च किञ्चिद् अञ्चित्वा—

विसार्य वत्सान् आवार्य परितः शाद्वले स्थले । खेलां चक्रुर् मिथो मेलाद् आवेलां भोजनागतेः ॥६॥ [अनुष्टुभ्]

यथा,

वेणुं वादयतोः फलादि किरतोः शिञ्जत्-तुलाकोटि-भाग्- अङ्घ्रिभ्यां क्षिपतोर् वृषानुकरणैः संयुध्यतोर् एतयोः । भ्रात्रोर् निर्जयिनोर् मिथो द्रव-वशाद् उच्चैः सखायश् च ते पार्ष्णि-ग्राहतया युधं विदधतः कोलाहलं चक्रिरे ॥७॥ [शार्दूल]

[१९] ततश् च तौ वत्सांस् तृणैर् आप्याय्य जलम् आपाय्य सर्वान् विलोकितवन्तौ । श्री-कृष्णस् तु तेषु कस्यचिद् गण्डादि-कण्डूति-खण्डनेन बाहु-दण्ड-कृत-कण्ठावगुण्ठनेन, मातरं मिलितुम् इच्छसि? मेलयिष्यामि इति तत्-कर्णे मिथः कपोल-मेलन-पूर्वक-वृथा-वर्णनेन च तम् उपचर्य सुखम् उपलब्धवान् ।

[२०] अथ भ्रातरौ सखिभिर् जलाप्लवन-केलिम् आचर्य वन्य-वेश-विशेषम् अप्य् आसज्ज्य चरण-चर्यया चरन्ताव् अपूर्व-मृग-पक्षिणः समन्ताल् लक्षयन्तौ वैलक्ष्यम् आसेदतुः । तत्र च,

रुतम् अनुकुरुतस् तौ लीलया यस्य जन्तोः समुदयति तदीयं जाति-मात्रं तदाशु । भणितम् अथ विधत्तस् तद्-विरुद्धस्य तस्मिन् यदि भयम् अनु तस्माल् लीयते तज् जवेन ॥८॥ [मालिनी]

[२१] ततश् चाह्नाय मध्याह्नाशनम् आदाय स्व-स्व-धामतः समागताभिस् तद्-उचिताभिर् वनिताभिर् जनितानन्दनः श्रीमान् नन्द-नन्दनः सखि-वृन्दम् आनन्दयन् वाणीय-मान-वेणु-रणितेनाकारणया मङ्क्षु सङ्कलयामास । सङ्कलितांश् च सखीन् एणीदृशः श्रेणीकृत्य चादृत्य च समुपवेशितान् सुवेशितान् मध्यम् अध्यासित-श्याम-रामान् भोजन-कामान् क्रम-निशामनया याम् अनया जेमयामासुः । [२२] यत्र नर्मणा शर्म-दानाय किञ्चित् कश्चित् किञ्चित् कश्चिद् विशिश्लाघे शश्लाघे च । यत्र च तैर् विवदमानानां संवदमानानां चान्यासां वचन-प्रतिवचन-श्रवण-कौतुकानन्तरं धात्री-गण-पात्री काचित् तु दासेर-बालकान् प्रति फेला-विसर्जन-रञ्जनाय पूर्ति-व्यञ्जनया भोजन-वितृष्णताम् अनुचरिष्णुं कृष्णं प्रति स-काकु जगाद—

मया यत्नाद् एतद् द्रव-मधुरम् आराद् उपहृतम् जनन्या रामस्य प्रयतन-युजा साधितम् इदम् । भवन्-मात्रा चास्य स्वदन-विधये दत्त-शपथं मुहुः सन्दिष्टं तन् निखिलम् उपयुङ्क्ष्व त्रयम् अपि ॥९॥ [शिखरिणी]

[२३] तद् एवं कौतुक-विशेषेण जाते भोजन-शेषे रचिताचमनं तम् अनन्त-गुण-कमनं राम-दामादिभिः सहितं सहितं सा पुनः कर्पूर-रस-पूर-पूर्ण-खपुर-पूरित-सचूर्ण-स्वर्ण-वर्ण-पर्ण-पुट-दान-पुरः-सरम् एवम् अवादीत्, लाल्य-पाल्यमान-मातृ-सन्देशतया बाल्यम् अपहाय तूर्णम् एव व्रज-सदनं पूर्णम् आचरणीयम् ।

[२४] अथ किञ्चिद् दूरं गत्वा तस्य तेषां च खेला-मेलाभिनिवेशं मत्वा ग्रीवां परावर्त्य नर्त्यमान-नयनतया समर्थांस् तत्-पालकान् बालकान् प्रत्य् उवाच—अरे रे, शीघ्रम् एवायं प्राणयनीयो व्रज-धरणीश-प्रणयिन्याः प्राणस्य प्राणः इति ।

[२५] तद् एवं गतासु तासु साग्रजः स तु दुष्परिहर-बाष्प-च्छेद्य-स-पुष्प- तृण-मुखान् वत्सान् व्रजाभिमुखान् विधाय शनैश् चारयन् गायन् नृत्यन् हसन् क्रीडन् दिवि-चरैर् ब्राह्मणैर् ब्राह्मणैः स्तूयमानः सुमनोभिश् च सुमनोभिर् वृष्यमाणः स्वगृहाय वर्त्म जगृहे ।

[२६] ततश् च वत्सावासं यावत् साग्रज-मित्र-व्रजतया यथाक्रमं विक्रममानस् तत्र च वत्सान् सङ्कृत्य कृत-कृत्यतया रममाणस् तल्-लावण्य-दर्शनेन हर्षमानस् तत् प्राग् एव सर्वैर् व्रज-वासिभिर् उपव्रज्यमानः स्नानादि-पूर्वकं दिव्यम् अम्बरं वलयमानः शीघ्रम् एव भोजनं भजमानः पुनर् अपि गो-दोहन-भूमि-गमनेन सुखं यजमानस् तत्-तन्-मातृ-नामभिर् वत्सान् ह्वयमानः सम्भ्रमतस् तद्-गमन-व्यतिक्रमात् प्रहास-मय-मानः प्रदुग्धानि दुग्धानि च तानि किङ्कर-निकरेण गृहं हारयमाणः पुनर् आलयम् आगम्य क्षण-कतिपयं मातरम् आनन्द्य ताम् अनु विन्दमानश् चन्द्र-शालिकां विश्रमाय श्रयमाणः पुनर् सर्वेषाम् अतिहर्षं ववर्ष । प्रस्वाप्य च तं च तं च सा च सा च माता परितः परिजन-कुमारान् सन्निधाप्य गृह-व्यवहाराय बृहद्-धाम जगाम ।

[२७] तद् एवं दिन-कतिपये परम-रमणेन गमित-समये स तु नृशंसः कंस-नामा यथार्ह-वर्ण-कृत-वर्णनतः समाकीर्ण-तत्-तद्-वृन्दावनागमनादि-वृत्तान्तः स्वान्तश् चिन्तयामास—

[२८] हन्त, सत्यता-सारेण देव्या वचनानुसारेण नन्द-गोप-डिम्भता-दम्भ एव स कोऽपि गोपितः सम्भाव्यते, येन नूतनावयवेनापि दुःसह-महसः पूतनादयः सहसा गाम्भीर्यावृत्तेन वीर्यातिशयेनालम्भनीयतां लम्भिताः । त्रस्यति च तस्य नाम-धाम-वशान् मम हृदयम् । तस्माद् असौ छलत एवोत्कलनीयः । हन्त, छलान् अप्य् उत्तरम् उत्तरम् अतिरिक्तं युक्तम् एव ते प्रयुक्तवन्तः । तथापि कदर्थिती-भूय व्यर्थी-भूताः इति विचार्य, पुनर् अपि तं प्रणिधिं सन्निधिं निकाय्यतः समानाय्य पप्रच्छ, अये, त्वयेदम् अप्य् अवकलितं, जातौ कस्यां तस्यादरः स्नेह-भरश् च परमः परामृश्यते?

[२९] स चोवाच—देव, गो-वत्सेषु तद्-उत्सेकः प्रतीयते ।

[३०] कंस उवाच—सम्यग् गम्यतां निजम् एव हर्म्यम् । पुनश् चान्यम् उवाच—आकार्यतां पुरतः स वत्सासुरः । स च शची-पतेर् अपि क्लमनः । स-सम्भ्रम-विक्रम-क्रमतया तेनानीय समर्पितः पानीय-लववद् द्रव-प्रवणतावस्थ एव तस्थौ । तेन च सम्बन्धताम् आशंसन् पांशु-सङ्घवल् लब्ध-ध्वंसः कंसस् तूपांशु तं सुतम् इव शशंस, वत्स वत्सासुर, गच्छ नन्दस्य व्रजम् । गत्वा च वत्सांश् चारयतः कुमारयतस् तत्-कुमारस्य सदेशम् आसाद्य निजं वत्स-वेशम् उत्पाद्य तस्यापकारम् आरभस्व ।

[३१] ततः स च, यथाज्ञापयन्ति राज्ञाम् आज्ञापकाः इति तद्-वचनानुपथात्मा तत् प्रतिशासनाद् अत्रासम् एव तत्राजगाम । यत्र स्वच्छे वत्स-क्रीडन-नामनि यामुन-कच्छे तद्-विध-मारक-कर्मा व्रज-राज-जन्मा वत्सान् मानयन् नयन-विषयं विष-धरम् इव तं चकार ।

[३२] अथ मत्सरतस् तत इतः सरतस् तस्य गन्धानुसन्धानतः कृत्स्नान् खट-देशम् अटतः शकृत्करीन् व्यग्रं पश्यतः पश्यन्न् अग्रजं व्रजराज-तनूजनू रहः स-व्याजं व्यजहार, बृहद्-भ्रातः, प्रातर् अनायातः परिचीयते वा कोऽयम् उपतोयं प्रतीयते वत्सः?

[३३] राम उवाच—भ्रातर्, नहि नहि ।

[३४] कृष्ण उवाच—निरूप्यताम् ।

[३५] राम उवाच—भीषण-प्रकृतिर् इव प्रतीयते ।

[३६] कृष्ण उवाच—पूर्वज, पूर्व-देवोऽयम् ।

[३७] राम उवाच—सत्यम्, यस्माद् अस्मासु वत्सेषु चाकस्माद् अदृष्टिजादृष्टिर् अस्य दृश्यते ।

[३८] कृष्ण उवाच—यदि भवद्-आदिष्टं स्यात् तर्ह्य् एतं दिष्टान्तम् आसादयामि ।

[३९] राम उवाच—लोकतः कलङ्कतः शङ्के ।

[४०] कृष्ण उवाच—मरणे दित्य-पत्यता परम् आगत्य प्रत्यक्षी-भविष्यत्य् अस्य । ततः कोऽपि नापवदेत ।

[४१] रामः सहर्षम् उवाच—द्विषन्तप, सच्छलम् एतं सच्छलम् एव मन्दं मन्दम् अभ्यवस्कन्द ।

[४२] अथ श्रीवत्स-वक्षाश् च वत्सान् अन्यांश् चुचुकारेण सन्निधानः कण्ठ-गण्ड-पिचिण्डादौ कण्डूम् अपनयमानः, सर्वतः क्रीडन् गायन् पर्व तन्वन्न् इवासीत् ।

[४३] ततस् तस्यापि लब्ध-छिद्रं-मन्यस्य, कूट-मय्या स्व-कण्डूति-विघटनेच्छया निकटम् अटतस्, तद् अकर्कश-मुद्रया सहसा तान् हित्वा तं स-पुच्छ-पादं गृहीत्वा भ्रमयामास ।

यावच्छः परिवर्तनं भ्रमयता वत्सस्य चक्रेऽमुना तावच्छः प्रतिपत् क्रमान् निरगमद् रूपान्तरं चागमत् । क्रीडायाः फल-पातनार्थम् इव च क्षिप्ते कपित्थोपरि ज्ञातृत्वं नटवत् कलां च पृथुकास् ते तस्य शश्लाघिरे ॥१०॥ [शार्दूल] अथ देवैः प्रसूनानि वृष्टानि हसितानि च । न नासया न च दृशा भिन्नतां नेतुम् ईशिरे ॥११॥ [अनुष्टुभ्]

[४४] तद् अनु च परिहास-भासमान-हासं दिव्य-सभासदस् तद् इदम् अवदंश् च, नूनम् एतद् एव देव-वैरि-वैरिणस् तात्पर्यं पर्यवस्यति ।

वयं गां गोपालाः परिचिनुमहे तद्-द्विषम् अपि प्रतिच्छन्ने रूपेऽप्य् अनुमिति-निदान-व्यतिकरात् । अतो रे रे वत्साकृति-सुररिपो मद्-विध-करात् कथं ते मोक्षः स्याद् इह लषसि चेत् प्रेत्य भवतु ॥१२॥ इति । [शिखरिणी]

तद् एवं—

तौ वत्साद् अपि रक्षन्तौ सर्वं लोकं ररक्षतुः । यद्-अर्थं प्रातराशादि यस्मिन् दैत्य-वधादि च ॥१३॥ [अनुष्टुभ्]

[४५] ततश् च तद्-दिनेऽपि श्री-कृष्ण-रामयोः स्वधाम-समागमनं जातम्, किन्तु तद्-वृत्तम् अनिष्टम् इति तद्-इष्ट-गणः सर्व एवावरिष्ट । तच् च, न जाने किं-वदन्ती किंवदन्ती स्याद्, इति सचिन्तीभूय ।

कंसस् तु तस्माद् वत्सपाद् अपि वत्सासुर-निर्वासनम् अपसर्प-मुखाद् विषम् इव कर्ण-रन्ध्र-स्पर्श-मात्रेणान्तः सम्भूय भृशं दृशौ निमीलयामास । तेन दशमीम् इव दशां प्रापितः । स तु मन्त्रिभिः कथञ्चिद् बहिर् अवधापितः सार्धम् एव तैर् इदम् अचारु विचारयामास, हन्त सम्भाविता दम्भान्विता बहवः प्रस्थापिताः, न तु तैर् भद्रं किञ्चिद् अपि सञ्चितम् । तेषां धीप्सा-वीप्सा हि न हीप्सां त्रातवती, प्रत्युत तान् एव प्सातवती । ततः किं कुर्मः?

[४६] मन्त्रिण ऊचुः, देव, केवलं बकम् अत्र बलम् अवलम्बामहे, यतस् तज्जाताव् एव दम्भ-सम्भारा गम्भीरायन्ते ।

[४७] कंस उवाच—आं आं, मम सुहृत्तमः स एव केवलस् तत्र प्रस्थापनाय स्थाप्यताम् इत्य् आनाय्य तथादिष्टः सद्-अनिष्टः स दुष्टः कंस-पुष्टः सम्प्रति बक-स्थल-नामानं नान्दीश्वर-गिरि-समीप-धामानम् उपसरसं प्रदेशं भावि-कृष्ण-प्रवेशम् अधिगम्याभिगम्य गिरि-शृङ्ग-भ्रमारम्भं दम्भं दधमानस् तस्थौ । यत्र तुल्य-पर्यायतया दम्भ एव गह्वरायते स्म ।

[४८] तदा च श्री-गोपाल-वलिता गोपाल-बाला गो-बालान् पालयन्तः पानीयं पाययन्तः कूलम् अनुस्थापयन्तः स्वयम् अपि पयः-पानम् अयन्तः परस्परं स्नपयन्तः समुत्थाय च कलापयन्तश् चिक्रीडुः । कलापयन्तश् च पुष्पाहरणाय परतः प्रचारम् आचेरुः, तम् आचरन्तश् च तं बकम् ईक्षामासुर् उत्प्रेक्षामासुश् च- अहो, गिरिर् अयं दूरत एव कुतः? पुरस् तस्य शृङ्गम् । ततः सद्य एवादः शत-मन्युना मन्युना शत-कोटि-त्रोटितम् इति घटते । पुनर् निचाय्य च प्रोचुः, नेदं गिरि-शृङ्गं सङ्गच्छते, किन्तु जन्तु-विशेषः सोऽयं मन्तुम् इव चिकीर्षन्न् अमितशीर्षं वर्तते, यत उग्रम्-पश्यतया खरता-चञ्चु-चुञ्चुतया च बक इव परामृश्यते ।

[४९] श्री-कृष्ण उवाच—

आकारात् पक्षितुल्यः स्याद् व्यापारान् न च पक्षिवत् । बकः किं नवकः साक्षात् कूटवत् स्थितिर् ईक्ष्यते? ॥१४॥ [अनुष्टुभ्]

[५०] अत्र तत्र जिगमिषन्न् एव समिष-श्लिष्टताविशिष्टं कूट-शब्दं पठितवान् । [५१] अथ समुद्दण्ड-दण्ड-वरण्ड-सखि-मण्डल-मण्डितः पुण्डरीक-लोचनस् तं जानन्न् अप्य् अजानन्न् इव तस्य तुण्ड-सन्निधिम् एव गमनेऽवधिञ्चकार । स्पर्श-विष-विषधर-विशेष-कुमारः कौतुकातिरेक-वशाद् भेकस्येव ।

[५२] ततश् च गण्डूपदं मन्यमानः स च मण्डूक इव कुण्डलि-पोगण्डं तं निजगार, न तु किञ्चित् कुञ्चयितुम् अपि शशाक । किन्तु हन्त, हन्त, स्फूर्तिं प्रति सन्तम-सधर्मणा तेन कर्मणा श्री-राम-दामादीन् प्राणैर् विकलितां कलयामास ।

स्व-भ्रातृ-वीर्यं जनुषा विदन्न् अपि प्रलम्ब-कारिर् बक-चेष्टितेऽर्दितः । भैष्मीकृते तस्य गतौ यथैव स प्रेमा हि सर्वङ्गिल-भावम् ऋच्छति ॥१५॥ [उपजाति १२]

[५३] अथ बकः स्व-कण्ठावटे कृपीट-योनिवत् कपट-तेजस्कं तं झटित्य् उज्जगार। ततश् च, सोऽयं मम हृदयम् अभ्राक्षीद् इति विभाव्य पुनस् तन् निगरण-योग्यं नाद्राक्षीत्, किन्तु ततः पराङ्-मुखः स पुनर् बक इव मूर्खः सुर-शात्रव-बकस् तेजो-मात्र-गात्रतयावगतम् अपि तं त्रोटि-कोटिभ्यां त्रोटयितुम् उदयुङ्क्त । [५४] स तु शौटीर्य-कोटीश्वरस् तत्-त्रोटी कराभ्यां विघटयंस् तं स-पाटवं पाटयामास, भीमो जरासन्धम् इव, बालो वीरणम् इव वा ।

यदा मुरारिं निजगार कह्वस्

तदा सखायः सबला मुमूर्च्छुः ।

उद्गीर्णवान् यर्हि तदान्वचेतन्

स्वभाव-जं प्रेम परान् अपेक्षि ॥१६॥ [उपजाति ११]

[५५] यत्र वृन्दारका दारकाश् च क्रमान् मुमुदिरे । यथा—

बकासुरे वत्ससुरारि-घातिना

हते सुरा नर्तन-वाद्य-वर्तनाः ।

ते नन्दनाद् अप्य् अतिसेतुतां गता

मल्ल्याद्यम् उल्लूय मुदा वरीवृषुः ॥१७॥ [उपजाति १२]

[५६] श्री-कृष्णाभिप्रायम् उत्प्रेक्षमाणाः साद्भुतं प्रेक्षमाणा बकम् उपजहसुश् च । यथा—

प्रसारयंस् त्वं ग्रसनाय चञ्चुं

साहायकं तत्र मयाप्य् अकारि ।

विदीर्णम् आसीद् यदि सर्वम् अङ्गं

ममास्ति दोषः क्व नु मूढ कह्व? ॥१८॥ [उपजाति ११]

तत्र च—

यस्मिन् बकास्याद् उदितेऽपि तेऽर्भका जिजीवुर् अस्मिन् मिलिते बकान्तके । तेष्व् अश्रु-कम्प-स्वर-भङ्ग-सङ्गतं वैवर्ण्यम् ऋच्छेत् किम् उ वर्णनीयताम् ॥१९॥ [उपजाति १२]

[५७] अथ सर्वे समय-व्यग्रतया शीघ्रम् एव तस्मिन् सरसि मिलित्वा स्नात्वा तं प्रदेशं हित्वा कृष्णं गृहीत्वा गृहाय प्रतस्थिरे ।

कृत-गृहागमना व्रज-बालकास्

तद् अखिलं खलु वृत्तम् अवर्णयन् ।

बक-खगस्य तथाकृतिता

तथा शिशु-कृता मृतिर् एवम् अभूद् इति ॥२०॥ [द्रुतविलम्बिता]

तद्-वार्ता-युगलेन गोकुल-भुवां दग्धं च सिक्तं च यत् प्रत्यङ्गं तद् इदं लयाय भवितेत्य् एवं जनैः शङ्कितम् । पश्चात् प्रत्युत रोमहर्षम् अदधाद् यत् तत् तु युक्तं परा वार्ता तत्र वरामृताद् अपि परा तैर् एवम् आस्वाद्यत ॥२१॥ [शार्दूल]

[५८] ततश् च ते सर्वे समुद्विग्नम् उदिताः समुदिता वित्रासानन्द-निस्पन्दं श्रीमन्-नन्द-मन्दिर-जन-वृन्दम् अनुविन्दमानाः श्री-गोविन्द-वदनारविन्दम् अस्र-सन्दिताः सन्दरीदृश्य परामृश्य च बकान्तानाम् अशान्तानां मरणे कारणं परस्परम् ऊचुः—

अस्य बालस्य किं पूर्वं किम् अपूर्वं व्रजेशितुः । किम् अर्थं वा पूर्वम् आगस् ते चक्रुस् ते हता यतः ॥२२॥ [अनुष्टुभ्]

[५९] तद् एवं प्रपञ्चेऽवतीर्णानाम् अपि श्रीमन्-नन्दादीनां तद्-वर्णनानन्दाद् अदीनानां प्रपञ्च-धर्मेण सङ्कीर्णतां न वर्णयामासुः । ऊचुश् च श्री-बादरायणि-चरणाः—

इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा । कुर्वन्तो रममानाश् च नाविन्दन् भव-वेदनाम् ॥ [भा।पु। १०.११.५८] इति ।

[६०] तद् एतद् बक-निर्ग्रन्थनम् उग्रम् उग्रसेन-दुष्पुत्रः श्रोत्रेणापीय व्यग्र-चेता बभूव, भावयामास च—हन्त, सर्व एव मायातिरिक्तता-प्रयोक्तारस् तत्र रिक्ती-कृताः । सर्वं लुम्पन्तस् ते चुलुम्पामासिरे च । तर्हि व्योमाभिधान-दानव-मात्रम् अत्र पात्रं पश्यामः । [६१] सर्व-माया-मय-मय-तनयः प्रख्यात-बल-वलयः स हि महीयान् इति पद्मावती-जरठ-जठर-जन्मा सम्माननया तम् आनाय्य तत्-कार्याय पर्यापयामास ।

[६२] स चागम्य व्योम-नामा कृत-व्योमावलम्बतया न्यक्षेण वीक्षमाणः काम्यकारण्य-धरणी-धर-सन्निधानतः समम् अत्यर्भक-वृन्देनात्यर्भकतया निर्व्रीड-क्रीडा-सन्दर्भं श्री-यशोदा-गर्भ-जातं श्री-रोहिण्य्-अर्भकं विना समायातं ददर्श विममर्श च—

[६३] एते खलु भोः दास्याः-पुत्र ! चौरस्य-कुल ! पश्यतो-हर ! देवानां प्रिय! इति परस्परं सम्बोधयन्तः क्रीडन्ति । ते चैते मेष-तत्-पोषक-तन्-मोषकायमाणा रममाणा लक्ष्यन्ते । यत्र च मेषा मोष्यमाणा अपि न भाषन्ते । पोषकाश् च तेषां बहलानां सम्भालनाय दुर्बलायन्ते, मोषकास् तु निर्घोषतया प्रच्छन्नम् एवागच्छन्ति । अयं तु तत्-पोषकायमाणः श्याम-धामा कुमारः प्रभाकर-सहस्र-प्रभाव-भाविततया नास्मद्-विध-सन्निधेय-सन्निधानस् तर्क्यते । तथाप्य् अस्माकम् अयम् एवावसरो वरो नावरो वरणीयताम् अनुसरति । अत्र हि तस्य निरवधानस्य बहिश्-चर-प्राण-तुलां वलमाना बालका विनैवार्तिं हर्तव्या भवेयुः । ततो व्यग्रीभूतः सोऽयम् अग्रीयश् च विना विग्रहं ग्रहीतव्यताम् ऋच्छेत्, सामिकृतं तु न स्वामिने रोचिष्यते । तद् एतद् विचारयंश् चोर-वद्-आचार-गोप-दारक-प्रकारस् तदीय-निविड-क्रीडायां प्रविवेश । प्रविश्य च, निविड-कानन-कृत-प्रवेशतया पोषकाभिनिवेशम् अतिक्रामतस् तान् मोषायमानान् क्रमशश् चतुः-पञ्चावशेषम् अपक्रमयामास । अपक्रम्यापक्रम्य च गिरि-गुहायां निगूहयमानः पुनः पुनर् अयमानः पेशस्करितानुसारी प्रस्तरास्तरणतस् तद्-द्वारम् आववार ।

[६४] एतज् ज्ञात्वा निर्जरारि-प्रहारी शिष्टान् कष्टन्तं हरन्तं कुमारान् व्यग्री-भूतः सिंहवद् ग्राम-सिंहं विद्रुत्याराद् अग्रहीन् न्यग्रहीच् च ।

स्वाङ्ग-व्यङ्गात् स्पष्ट-भूमिष्ठमानं कृष्टा डिम्भांस् तं ततः क्षौणी-पृष्ठे । आपात्याथ प्राण-वर्त्मणि रुन्धन् व्यग्री-कृत्यालम्भ्य-कल्पं चकार ॥२३॥ [शालिनी]

[६५] तद् एवं संहत-संहननम् अप्य् एतं निःसन्धि-बन्धनं विसृज्य तत्-पद-पद्धतिं संसृज्य तद्-गुप्ति-द्वारम् अनुससार । ततश् च,

सद्यो निर्भिद्यापिधानं गुहायास् तत्राविश्य द्योतम् आविश्चकार । तस्यास् तेषां चार्भकाणां समन्ताद् आत्मालाभाद् यत् तमस् तज् जहार ॥२४॥ [शालिनी] येषां दुःखं तद्-गुहा-गर्त-रोधे तद्वन् नासीद् यद्वद् एतद्-वियोगे । दृष्ट्वाकस्माद् एनम् एते बकारिं प्राणान् प्रान्ताकर्षणेनैव जग्मुः ॥२५॥ [शालिनी] सर्वे तस्माद् उत्थिता रोदनार्तास् तद्वद् आर्तं कृष्णम् अह्नाय चक्रुः । सोऽपि क्ष्माभृत् तत्-प्रतिध्वान-दम्भात् क्रन्दन्न् आसीद् इत्य् अमीभिर् व्यभावि ॥२६॥ [शालिनी] तस्मात् कृष्टास् तेन तं वेष्टयन्तः शश्वत् तस्य स्पृष्टितो नष्ट-दुःखाः । दृष्ट्वा द्विष्ट-प्राणम् अत्यन्त-भीष्मं व्योमं हृष्टा मित्र-गोष्ठीम् उपेयुः ॥२७॥ [शालिनी] अथ परिमिलितैर् विचित्र-मित्रैर् भुवि दिवि देव-गणैस् तदोपलम्भ्यः । अपहृति-चरितं निज-क्रमात् तैः कथितम् असौ कलयन् व्रजे विवेश ॥२८॥ [पुष्पिताग्रा]

[६६] अत्र व्योमं दिष्टान्त-दष्टं दृष्ट्वा कुसुम-वृष्टि-कृद्भिर् दानव-द्वेष्टृभिर् अयं श्री-कृष्णाभिप्रायः स्पष्टं परामृष्टः—

क्रीडायाम् अत्र चोराणां श्वास-रोधो विधीयते । व्योमस् त्वं व्योमतां प्राप्तस् तस्माच् चेत् करवाणि किम्? ॥२९॥ [अनुष्टुभ्]

[६७] अथ कथकः कथा-समापनम् उवाच,

ईदृक् कौतुकवान् पुत्रस् तव गोप-नराधिप । वत्सादि-त्रयम् आनिन्ये लीलया यस् तु पञ्चताम् ॥३०॥ [अनुष्टुभ्]

[६८] तद् एवम् अमी साक्षाद् इव व्योम-वधम् अनुभूय भूयसा सुखेन विलसन्-मुखेन ललिता गृहाय चलिता बभूवुः ।

इति श्री-श्री-गोपाल-चम्पूम् अनु

वत्सासुराद्य्-उत्सादनं नाम

दशमं पूरणम्

॥१०॥

(११)

७। अथैकादशं पूरणम्

१२। अघ-ब्रह्माघ-मोचनम् [१] अथ पूर्ववत् प्रभाततः प्रभातायां सभायां मधुकण्ठः सोत्कण्ठम् उवाच—

[२] तद् एवं पूर्ववद् एव देवन-कुतुकतः पूर्वदेव-मारयोः कुमारयोर् अनयोः कौमारम् अतिवृत्त-कल्पम् आसीत् । [३] यौ खलु,

शुभ्र-श्याम-रुची रुचीम् अकुरुतां पौगण्ड-लक्ष्मी-कृते चापल्येन मुनेर् अपि स्म कुरुतश् चित्तं मिलच्-चापलम् । नाना-क्रीडित-माधुरी-वर-कला शिक्षा-कलापं गतौ वेणूद्गान-सुधां सुधांशु-वदनाव् आतत्य चिक्रीडतुः ॥१॥ [शार्दूल]

[४] अथ कदाचिद् अतिप्रातर् अग्रतो जाग्रतो निज-विहारतो जगद् एव पातुः श्री-राम-भ्रातुर् यादृच्छिकीयम् इच्छा जाता । प्रातर्-भोजनम् अप्य् अद्य निर्जन-वन एव योजनीयम् इति । ततश् च कृत-प्रातः-क्रियस् तत्-प्रार्थनाय रचित-मातृ-प्रियस् तद्-अनुज्ञया गच्छन् शृङ्ग-रव-सञ्ज्ञया साग्रजं सखि-व्रजं जागरयामास । झटिति चाटित्वा शृङ्गाटक-मध्यम् अध्यास्य क्षण-कतिपयं तत् प्रतीक्षणं प्रतीक्षणं व्यापारयामास । [५] शय्योत्थायां विद्रुत्य मिलितेषु सवयः-सम-वायेषु रामम् आगमयितुम् ऊर्ध्वं वर्तमानस् तन्-मानवेन वार्तानुवर्तयामासे ।

[६] यथा च प्रोवाच तद् वाचिकम् असौ—हन्त भोः, कृष्ण, त्वया सह क्रीडा-तृष्णग् अप्य् अहं विरुद्ध-विधिना निरुद्ध एवास्मि, यद् अकस्मात् कस्माद् अपि पुरु-कुलजन्मा मन्-मातुलः परमातुल-निर्बन्धान् माम् अवलोकयितुम् आगम्य हर्म्य एव स्थावर-साधर्म्यम् आसादितवान् अस्ति । अद्य च तवातीव प्रातर् आत्त-जागरतया समीहित-विशेषम् ऊहितवान् अस्मि । तस्माद् भवता या लीला भावयितुं भाविता, सावश्यं भावयितव्या । नव्यारम्भे विष्कम्भः खल्व् अप्रतिबद्ध-सिद्धि-सम्भावनां स्तम्भयति इति ।

[७] अथ वर्ण्यमाणं तद् आकर्ण्य स च कमल-सवर्णता-विलसद्-आकर्ण-लोचनः प्रतिपन्न-क्रीडा-रोचनः सखीन् उवाच—भवतु । भवन्त एव स्व-स्व-भवनाद् विहङ्गिकायां काचम् आयोज्य भोज्य-भक्त-भक्त-नियोज्यजनं प्रयोज्य तत् तद् उपयोज्यम् आनाय्य वनाय गमनाय त्वरयन्तु । अस्मज्-जननी च भव्यानां भाजन-भृत-भोजन-द्रव्याणां द्रुतम् एव सज्जन-वर्गेणास्मभ्यं विसर्जनम् अर्जयिष्यति इति निजेहिते तथा विहिते, हितेप्सु-बालक-समुदाय-मुदाम् उदार-चेष्टः पुरस्कृत-वत्स-चयेष्टः काननं प्रविष्टवान् । यत्र च वत्स-पाल-बालकाः प्रतिघस्रं सहस्रश एव तेन मिश्रतया विश्रूयन्ते । तेषां वत्साश् चायुत-प्रयुत-नियुतादि-सङ्ख्या-युता वर्ण्यन्ते । कृष्ण-वत्सानां सङ्ख्या पुनर् असङ्ख्य-सञ्ज्ञा सङ्गीयते । ततश् च—

आपूर्ण-शृङ्ग-मुरली-नियुतं सवत्स- यूथायुतारवम् उदीरित-हूति-मिश्रम् । कृष्णश् चलन्न् अथ वनाय बलस्य चित्तं लोलं चकार जगता सह कौतुकाय ॥२॥ [वसन्ततिलक]

[८] अथ गहनं गाहमाना मणि-जात-रूपाभ्यां सुष्ठु जात-रूपा अपि बालाः फल-प्रवालादिभिर् अलङ्कृतम् आत्मानं कृतवन्तः, यथा निकाय्ये दुर्याच-काच-गुञ्जा-पुञ्जम् अप्य् उपयुञ्जते स्म । नहि विलास-बहुलताकुलानाम् इदं न तत् तुलम् इति विचारः सञ्चरति । कार्पण्यम् एव खलु पण्यं गण्यतां नयति, विलासिता पुनर् दृश्यताम् एव परामृश्य हृष्यतीति ।

[९] अथ ते शिक्यितान्न-पात्राणि वृक्ष-शाखास्व् अवलम्बित-गात्राणि विधाय कृष्ण-भ्रू-भङ्ग-तरङ्ग-सङ्गत-रङ्गतया चापल्य-विशेषं श्लेषयामासुः ।

मुष्णन्तोऽन्योऽन्य-शिक्यादीन् ज्ञातान् आराच् च चिक्षिपुः । तत्रत्याश् च पुनर् दूराद् हसन्तश् च पुनर् ददुः ॥ [भा।पु। १०.१२ ।५] इति ।

[१०] तत्र चौर्यादिकं, यथा-

यष्ट्य्-आदेर् नर्मणासन्न् अपहरण-करा ये हृत-स्वास् तथा ये दूरे ये क्षेपका ये प्रतिहरण-कृतस् ते च ते चाशु सर्वे । श्री-कृष्ण-भ्रू-विधूति-प्रतिलव-लघुता-शालि-तत्-तद्-विलासैः प्रत्येकं स्वीय-योग्यं निगमनम् अविदुस् तत्र नैवान्यद् अन्यत् ॥३॥ [स्रग्धरा]

[११] तद् एवम् एव संयोगाद् यथा तद्-एक-सुख-योग एव तेषां भोगस् तथा वियोगाद् अपि, यथा-

यदि दूरं गतः कृष्णो वन-शोभेक्षणाय तम् । अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे ॥[भा।पु। १०.१२ ।६] इति ।

[१२] अस्य चार्थः समस्य दर्श्यते । तत्र स्पर्शनं, यथा—

वत्सेभ्यः प्रेष्य सर्वां सखिततिम् अघजिद् वीक्षितुं वन्य-लक्ष्मीं दूरेऽगाद् कृष्ट-दृष्टिः क्रमश इह तदा सा निवृत्ता विदूरात् । सौरभ्याघ्राण-नेत्रा मधुप-कुल-तुला सङ्घशस् तं द्रवन्ती स्पृष्ट्वाहम्-पूर्विकायाम् अहम्-अहमिकया पृच्छती चाननन्द ॥ [स्रग्धरा]

[१३] रमणं यथा—

मिथोऽपि स्निग्ध-भावानां कृष्ण-कौतुक-दत्तये । आहोपुरुषिका तेषाम् आलोकि स्पर्धनाम् इव ॥५॥ [अनुष्टुभ्] जगुर् एके वेणुना तत्-प्रच्छादन-पराः परे । वादयन्तो विषाणानि हासयामासुर् अच्युतम् ॥६॥ [अनुष्टुभ्] व्यञ्जयन्तस् तत्र केचित् पूर्वेषां ग्राम्य-रीतिताम् । तान् निवार्य स्वयं भृङ्गैर् जगुस् तद्वत् पिकैः परे ॥७॥ [अनुष्टुभ्] गोपालानां जवः श्लाघ्यो गानाद्यं भिक्षुता-परम् । इत्थं केचिद् व्यञ्जयन्तः पक्षि-च्छायेन दुद्रुवुः ॥८॥ [अनुष्टुभ्] केऽपि सर्वानुकर्तृत्व-स्व-गुणाधिक्य-सूचकाः । हंस-कह्व-मयूराणां गोष्ठी-मध्यं प्रपेदिरे ॥९॥ [अनुष्टुभ्] केचिद् वांश-नटीं विद्याम् आत्मनो व्यञ्जितुं मुदा । विडम्बितैः कीश-डिम्बैः सह शाखासु बभ्रमुः ॥१०॥ [अनुष्टुभ्] तत्र सर्व-कनिष्ठास् तु स्व-निष्ठा-मात्र-तत्-पराः । साकं भेकैर् विलङ्घन्तः सरितः स्रव-सम्प्लुताः ॥११॥ [अनुष्टुभ्] विहसन्तः प्रतिच्छायां शपन्तश् च प्रतिस्वनान् । [भा।पु। १०.१२.१०] हसन्तः कृष्ण-सन्तोषं लसन्तः सन्ततं ददुः ॥१२॥ [अनुष्टुभ्] कर्तुं प्रतिध्वनौ शापं प्रतिबिम्बे विडम्बनम् । नुदन् बालान् मुदं लेभे प्रतिशापादितो हरिः ॥१३॥ [अनुष्टुभ्] एषा गतिर् मायिक-दृग्-विमोहनी ज्ञातात्मनां भक्तिमतां च दूरगा । यासादितो कृष्णम् अनुव्रजार्भकैर् इति स्फुटं श्री-शुक-देव-निश्चितिः ॥१४॥ [उपजाति १२]

[१४] तद् एवं लीलाम् अन्याम् अपि तितंसति कंस-द्विषि दीव्यत्सु च सर्व-कला-विद्वत्सु विसरज्-जालेषु वत्स-पालेषु बकी-बकयोर् अनुजः कश्चिद् अघ-नामा दनुजस् तद्-वर्त्मनि वर्तते स्म, ज्योतिर्-मण्डलेषु प्रचण्ड-काल-जलद इव । यं खलु कंसः शशंस—अये, मदीय-महा-सहाय! विस्मयम् अपहाय श्रूयताम् । त्वम् अजगर-भावेन सदा जागर-रहित एव शाशय्यमानता-निष्ठं तिष्ठन् न जानासीति हि त्वं जागरयामासिषे ।

[१५] अघ उवाच—जगदीश, कामम् आदिश्यताम् ।

[१६] अथ देवकी-विवाह-गताह-नभः-सभ्य-वाणीम् आरभ्य सर्व-कथा-शंसन-पूर्वकं कंस उवाच—तद् एवं प्रत्येकं नूतन-नूतनारब्ध-मिष-विष-मय-पूतनादिषु धूत-फल-प्रयासालिषु सर्वङ्गिल-लीलतया भवान् अद्यानवद्य-गतिः । इह च रावणस्य कुम्भ इत्य् अर्धोक्तम् अशकुन-भियाच्छाद्य, पूर्वेषां पूर्व-देवानां वृत्र इव इत्य् अपि प्रत्याख्यायेदम् आख्यत्—ध्रुवं ध्रुवस्येव तव चात्र भ्रात्र-मित्र-निर्यातनम् अवश्य-वश्यताम् अर्हति इति ।

[१७] तद् एवं भव्य-प्रसव्यम् अप्य् उपलभ्य स्फुटम् असभ्यतया शीघ्रम् असौ बक-भ्रातृकः कृष्ण-भ्रातृकाणां तेषां पुरतः प्रचरन् प्रचुर-तराङ्गम् उरङ्गम् अरूपम् आस्थाय स्थितः । किन्त्व् अथासौ तथासीद् यथात्म-पथाधिकृत-प्रथा-चलतया प्रथयामासे । नर्मणा नाग-धर्मताम् उपदिशद्भिर् अमीभिर् ऊचे च—

उद्यद्-गरतया जाग्रद् वर्त्मन्य् अजगरः पुरः । समग्रं ग्रसिता तस्माद् अस्मान् यदि बकिष्यति ॥१५॥ [अनुष्टुभ्]

[१८] तद् एतद् अभिधाय श्री-कृष्ण-मुख-कमलं निध्याय, बाढं कर-ताडनाल् लसन्तो हसन्तो महा-गिरि-गुहान्तर्वत् तद्-वक्त्रान्तरं प्रविविशुर्, ज्योतिर्-वलयः पश्चिमाचलम् इव, यतो मयूखवत् समग्रा वत्साश् च तद्-वर्त्मायच्छन्ति स्म; यत्र निषिषित्सन्न् अपि श्रीवत्स-लक्ष्मा नावसरम् अवाप, किन्तु भावि-निज-लीला-निश्चलतया विस्मयम् आप, पश्चात्-तापम् आपद् अप्य् असौ येन हि तेषां वर्त्माप्य् अनुवर्तमानस् तत्र प्रविवेश, नीहार-कुज्झटिका-घटित-तमश्-चक्रवाले प्रचण्ड-मर्तण्ड-मण्डलम् इव; [१९] यत्र मुरारि-प्रभावाचतुराः सुराः सुरारयश् च मुहुर् आराद् आराद् अपि हन्त-हन्त-कारं चक्रुः; यत्र च तेषाम् उभयेषां तत्-तद्-वर्णतः समानम् आनन-कुल-युगलं तत्-तद्-वर्णतः क्रमाद् भयं विजयम् उद्भावयामास ।

[२०] बक-चेष्टाम् अनुतिष्ठतस् तस्य तु पापिष्ठस्य कण्ठे सोऽयम् अकुण्ठ-धामा कृष्ण-नामा व्रज-नृप-तपः-प्रताप-मय-योगमाया-सहायतया केशि-प्रवेशि-स्व-भुज-दिव्य-भुजङ्गमवद् ववृधे । [२१] स तु जात-श्वास-रोधः परित्यक्त-बोधश् च क्षण-कतिपयम् आसीत् । तद्-ऊर्ध्वं पाटित-मूर्धानं प्राणम् अपहाय पूतना-शमयितुः सङ्गतः पूतः पूतना-भ्रातुर् आत्मा नित्य-नूतनां सद्-गतिम् अवाप्तुम् अस्य बहिर् आगमनं प्रतीक्षते स्म ।

[२२] स श्रीवत्स-वत्सस् तु तम् अन्तर् हत्य वत्स-वत्सपान् मूर्च्छितान् अमृत-वृष्टि-मय-दृष्टि-प्रचारेण सञ्चरित-चेतनान् आचरन्न् अमीभिः समं गमन-वर्त्मना तस्मान् निर्जगाम स्वर्-भानु-मुखाद् अमृत-भानुर् इव ।

[२३] ततश् च हिमाचलाद् गाङ्ग-प्रवाहानाम् इव तेषां प्रवहे जाते तस्यात्म-ज्योतिर् अजितस्याङ्ग-सङ्घान् निःसज्जद् एव जगज्-जनेन दृदशे चण्ड-ज्योतिर्-ज्योतिषि ज्योतिर् इव ।

[२४] यत्र ब्रह्म-पुरःसराः सुराः सुर-वर्त्मनि पुरतः स्थिताः सुर-तरु-पुष्प-स्तवक-वृष्टिभिः स्तव-कृत-संस्तव-तौर्यत्रिकादि-प्रस्ताव-सृष्टिभिः स्तव-नीयं व्रजराज-तनूजं पूजयामासुर्, उपजहसुर् अप्य् अघासुरम् ।

मम स्पर्श-मात्राद् भवज्-ज्ञाति-मात्रं विनश्यत्य् अकस्मात् तमस् तेजसो वा । इदं ज्ञातवान् अप्य् अघाख्यासुर त्वं कथं माम् अयासीर् इतीवाह कृष्णः ॥१६॥ [भुजङ्गप्रयाता]

अथवा,

सर्वांस् त्वं खर्व-कोटीः पशु-पशुप-शिशून् ग्रस्तवान् माम् तथापि ग्रस्तं निर्मातुम् ऐषीर् इति सुखदतया प्रापम् अन्तस् त्वदीयम् । सङ्कोचाद् गन्तुम् इच्छन् बहिर् अथ भुजग प्राण-वर्गस् तवाद्धा मन्-निर्बन्धोऽपि मूर्ध्नः स्फुटन-कृतितया धिग् गतः किं विदध्याम्? ॥१७॥ [स्रग्धरा] इत्य् एवम् ।

[२५] ततश् च तस्मात् कलित-गणतया तरुनि-चयाद् आचित-काचित-दिव्य-दीदिवितया चातिचपलं चलितस्य तस्य काचनातिदूरा भूर् आयत-वन-कलाप-विमलापसरो-वरान्तरतया वराप्य् अवरताम् आससाद । [२६] याम् उपसाद्य च सद्यः सुख-विकसित-मुख-पङ्कजः पद्म-लोचनः स्वं रोचनं वचन-गोचरम् आचचार । यथा—

भास्वन्-महो योग-विकास-हृद्-गत- प्रभाम्बुजातं मधुसूदन-प्रभम् । पश्यन्तु मित्राणि सुजीवनालयं महन्-मनस्-तुल्यतरं सरोवरम् ॥१८॥ [उपजाति १२] एषा वनाली सरसी तथा मिथो गुणेन पुष्टा गुणितेन सर्वदा । आद्या रसेन द्वय-पूरणी यतः प्रसून-सौरभ्य-शतेन पुष्पते ॥१९॥ [उपजाति १२] स्फुरति पुलिनम् अच्छं कोमलं बालुकाभिः कुसुम-फल-वन-क्ष्मा-प्रावृतं सूक्ष्म-दूर्वम् । यद् इह मृग-जनानां वृक्ष-लक्षालयानाम् उप विमल-जलान्तं भाति शय्यायमानम् ॥२०॥ [मालिनी] अत्र भोक्तव्यम् अस्माभिर् दिवारूढं क्षुधार्दिताः । वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस् तृणम् ॥[भा।पु। १०.१३ ।६]

[२७] अथ समं भूमिस्थितं संयुज्य भोजन-जननार्थं रचित-मज्जनेषु कृत-मिथः-सज्जनेषु तेषु सुहृज्-जनेषु प्रथमतस् तावद् एवं जातम् ।

कृष्णं मध्ये लब्धवन्तः सखायः

सर्वं तत् तद् विस्मरन्तः स्व-दुःखम् । तत्-कान्तीनां सन्ततं पातु-कामास् तस्थुर् यद्वत् पूर्ण-चन्द्रं चकोराः ॥२१॥ [शालिनी]

[२८] ततश् च तत्-पालन-तृष्णेन कृष्णेन यत्नेन योजितभोजनेषु सवयोजनेषु काचिद् अन्या शोभा धन्यां तां वन्यां शोभयामास, यथा-

अन्तरान्तर-मिलद्-वलयानां वल्गु बाल्य-वयसाम् अधिमध्यम् । सर्वतोऽभिमुखतां हरिर् आगाल् लीलयाभ्रमद् अपूर्व-नटाभः ॥२२॥ [स्वागता] विभ्रद्-वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे वामे पाणौ मसृण-कवलं व्यञ्जनान्य् अङ्गलीषु । तिष्ठन् मध्ये प्रिय-सवयसां हासयन् हासितस् तैर् दिव्ये लोके कलयति मुदा भुक्तवान् बाल-कृष्णः ॥२३॥ [मन्दाक्रान्ता]

[२९] तद् एवं परमोत्स्व-रतेषु तेषु वत्साः कच्छ-देशाद् अनच्छ-तार्ण-प्रदेशं प्रविश्य प्रच्छन्ना बभूवुः । [३०] प्रच्छन्नेषु च तेषु विच्छिन्न-भोजन-रतीर् मित्र-ततीः स्वस्थयन् तद्-अवस्थ एव स्वयं नीरन्ध्र-वनावनीध्र-मध्यम् अध्यासितान् अवीध्र-दुर्ग-मार्गान् विचित्य कृतकृत्यता-राहित्यं प्रतीत्य च निवृत्य तत्र च मित्र-वर्गान् अपरिचित्य वैचित्त्य-वशाद् उभयान् अपि सभयान् मत्वा विचिकित्सन् विचिकाय । काय-क्लेशतः केशवः सोऽयं किन्तया चिन्तयामास च,

अहो, मातॄणां यच् छिशु-कुलम् असुभ्योऽपि दयितं स्थितिं वत्सत्वेन प्रसजति तथा वत्सपतया । तद् एतन् मत्-प्राण-प्रतिकृति-शरीरं क्व नु गतं यद् अर्थं दुष्टाहेर् जठरम् अविशं हा विषमयम् ॥२४॥ [शिखरिणी]

[३१] तद् एतद् अगुण-गुण-गुणगण-निधानस्य तस्य निरवधानम् अपि न चित्रम् अध्यस्यति । [३२] एष हि प्रेम-मय-लीलावेश-वश्यताम् आपन्नः कदाचिद् अवश्यं पश्यन्न् अपश्यन्न् इव भवति । तदा हि सद्य एवेदं प्रत्यपद्यत । आं ब्रह्मणः खल्व् इदं कर्म । मम पुनर् एतावन्तं कालं सञ्जङ्घन्य-मान-सखि-सङ्घ-प्रणयासङ्ग-वशाल् लङ्घित-ज्ञानतया न तद्-अनुसन्धानं जातम् । न च तेन विरोधितयेदम् आचरितम्, किन्तु मयि प्रेम-स्थेम-संहितस्य तस्य व्रज-हितस्य सम्प्रति मद्-वैभवं प्रति विशेष-वीक्षा-प्रतीक्षा जातेत्य् एवम् एवाचरितम् । यत एव खलु माया-वैभवतस् तद् अनन्य-स्थान-स्थितं-मन्यम् एवान्यत्र वन्य-भूमाव् आकृष्य पुनस् तत्रैव पुलिने प्रतिकृष्य तत्-तद्-वृन्दम् अनेनागोपायि, ततो न विरोधि-बुद्धिर् असौ । विरोधिषु मद्-बुद्धि-वीर्ययोर् निद्रागमेऽपि जागरुकता कलिता । ततो वयं भक्ते तस्मिन् नर्म-कर्मठताम् एव घटयिष्यामः । तत्र च प्रायः श्रीमत्-पितृ-चरणाभिप्राय-मयतया या मम योगमाया साहायकम् आयाति । यदि ताम् एव सम्प्रति चावलम्बेय, तदा स्वयम् एव तत्-तद्-रूपतां लभेय । नान्यद् धि मद्-धितानां तेषां साम्यं भजेद् इति—[३३] येन च शतानन्दस्य व्रजानन्दस्य च मन्दता-मन्दतां विन्देत, तद् एवं चिन्तयन्न् एव, सह-सुहृल्-लोक-शोकं चिन्तयामास, हन्त, हन्त, कथं तान् मां विना तान्तान् विना समयं गमयिष्यामि? इति । ततश् च,

यस्य यस्य च शुचा गुण-रूपं चिन्तयन्न् अभजत स्वतयाथ । तस्य सुष्ठु धुत-भेदतयाऽसौ जज्ञिवान् प्रयतनं व्यतिरिच्य ॥२५॥ [स्वागता]

[३४] इति तथानुसन्धाय स्वतस् तत्-तद्-बालवत्सादि-रूपाणि सन्धाय सर्व-समाधान-निर्बन्धाय दिनान्तरवद् एव व्रजागमन-देवनेन गेहं गेहं प्रवेशम् आसीनस् तां सन्ध्याम् अबन्ध्यां चकार । [३५] तन्-मातरस् तु दिनान्तराद् अप्य् अन्तरङ्गतरम् आनन्दं विन्दन्ति स्म । तथा हि,

सुते गोपेश्वर्या निज-निज-सुत-प्रत्यय-मुदा तथा तन्-मित्रत्व-स्फुरण-सुख-लक्ष्म्या द्वि-गुणितम् । पुरावद् वात्सल्यं व्रज-पुर-पुरन्ध्रीर् विदधतीस् तदीया संसिद्धिर् यद् अधिनुत तद् भाति तद् इव ॥२६॥ [शिखरिणी] यद्यप्य् एक-स्वरूपा व्रज-नृपति-सुतस्यापरे बाल-वत्सा जातास् तर्ह्य् अप्य् अमी तत्-प्रतिम-पदम् अधुस् तत्र नेत्य् एव युक्तम् । तद्-रूपं तद्-गुणालिस् तद्-अमित-विहृतिश् चाश्रयः खल्व् अमीषां तस्यापि स्वस्य चित्र-स्थिति-कृद् इति यतस् तत्र तत्राभ्यधायि ॥२७॥ [स्रग्धरा]

[३६] तद् एवं हान-प्रायस्य तस्य हायनस्य पूरणाय पञ्चषाण्य् अहानि यदा हीनानि, तदा तु कृष्ण-विषयक-स्नेह-जातीय-स्नेहम् अनु स्व-पर-तत्-परतायास् तेषु बालादिषु सम्यग् अवगम्यमानतया रामोऽपि विस्मित्य तेन सह प्रश्नोत्तरे विनिमित्य विनिश्चित्य च स्थितवान्, किन्तु तेषां सखीनाम् अखिलानां विप्रलम्भ-लम्भित-कष्टेन निजानुजे रुष्टतया पञ्चषाण्य् अहानि तेन सह वनं नाजिघाय ।

ब्रह्मा तु तत्र गुप्तम् आगतः श्री-कृष्णेन तर्क्यते स्म, यथा—

यस्माद् एति परैति पश्यति पुरः पश्चात् तथा पार्श्वतः स्वात्मानं परितः स्तृणोत्य् अनुपदं सम्भ्राम्यति भ्राम्यति । लोप्त्रा लोप्त्रस-वत्स-वत्सप-गणं सन्दिग्धम् आलोकते तस्मान् मे प्रतिभात्य् असाव् अनुदिशं वक्त्रं दधत् स्तेनकः ॥२८॥ [शार्दूल]

[३७] अथ ब्रह्मा तेषाम् अर्वाचीनानां प्राचीनानां च बालादीनां रूपादिभिः परस्परम् अभेदम् आकलय्य चेतसाश्चर्यम् आचर्य चार्वाचः परिविन्दन्, सर्वतोऽप्य् अतिदृष्ट-महिष्ठता-भूयिष्ठान् दृष्टवान् । [३८] ब्रह्माणं पश्यति श्रीदामादि-मित्रे तु स्व-मित्राणाम् एवानयनेच्छा जातेति यदृच्छया तद्-अन्वेषणावस्था प्रादुर्भूता, साम्प्रतिकाश् चान्तर्भूताः ।

[३९] तद् एवं नाना-वैभवम् अनुभवतः कमल-भवस्य त्रप्ततयानुतप्ततया च या रचितावाचीनता, सा स्वयं प्रणामाय परिणमति स्म । तत्र च,

एकम् एकम् अधः कृत्वा मुखं तत्र चतुर्मुखः । नमन्न् अन्य-मुखस्योर्ध्वी-भावात् पूर्तिं जगाम न ॥२९॥ [अनुष्टुभ्] यद्यपि न नमन् मुमुदे विधिर् एकास्यानवाग्-भावात् । तदपि हरेर् मुखचन्द्रा-लोकालोपान् मुदं लेभे ॥३०॥ [उपगीति]

[४०] अथापकृष्टं-मन्यः सन्न् अनन्य-गतितया सुमेधा वेधाः स्तवकेनेव स्तवकेनेष्टवांश् च कृष्णम् । यत्र च चतुर्भिर् वक्त्रैर् आनुवान इव नुवन्न् असौ सर्व-महान् अपि यत् किञ्चिद् गोकुलानुगतानुगतिम् एव प्रति निजानुमतिम् आततान । यथा चाह स्म—

तद् भूरि भाग्यम् इह जन्म किमप्य् अटव्यां यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् । यज्-जीवितं तु निखिलं भगवान् मुकुन्दस् त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव ॥ [भा।पु। १०.१४.३४] इति ।

[४१] तद् एवं व्रज-महि-महिम-कर-कर-निकर-जडी-भूता वयं नोपपत्ति-प्रत्यासत्तिं लभामह इत्य् अलम् अतिविस्तरेण ।

[४२] अथ स्निग्धकण्ठ उवाच—श्रीमद्-व्रज-युवराजेन तत्र किम् उक्तम्?

[४३] मधुकण्ठः स-स्मितम् उवाच—न किम् अपि, किन्तु तत्र स्तुति-समये तावत् ।

गोविन्दः स्मितम् अतनोत् स्तुवानम् एनम् दृष्ट्वा यत् किम् अपि ददर्श तत्र चित्रम् । एकस्मिन् वदति चतुर्मुखे हि तस्मिंश् चत्वारो दधति रुतीर् इति भ्रमः स्यात् ॥३१॥ [प्रहर्षिणी]

[४४] स्तुत्य्-उत्तर-कालतस् तु,

वयं गोपाश् चार्थवन्तो ब्रह्मा च त्वम् अनर्थवान् । ब्रूमस् त्वां किम् इतीवायम् अवदन् स्मितम् आतनोत् ॥३२॥ [अनुष्टुभ्]

[४५] स्निग्धकण्ठ उवाच—परिसेधत्य् अपि वेधसि किं किञ्चिद् अप्य् उक्तम्?

[४६] मधुकण्ठ उवाच—स्तव-पर्यावसाने खलु निज-रूप-रूपतया सर्व-पर्याप्तिमद्भिर् अपि पश्चाद् आविर्भूतवद्भिर् बालादिभिः परितोष-पोषम् अमन्यमानः स धन्यः स्वजन-प्रेम-जितः श्रीमान् अजितस् तान् व्रज-बालादीन् एवानेतुं यदा वाञ्छाम् आनञ्च, तदाञ्जलि-बन्ध-व्यञ्जितां सञ्ज्ञाम् अनु समनुज्ञां याचमानं विरिञ्चिं खल्व् एवं लम्भित-तद्-उपालम्भ-नर्म-स्मितम् अनुज्ञापयामास—यदि तत्र-भवताम् आज्ञा विज्ञायते, तदा तान् पूर्वम् एवानुसंहितान् सन्निहितान् आनयामि इति ।

[४७] ततश् च विरिञ्चिः किञ्चिन् नम्र-निटिलता-घटित-मुनि-व्रत-सुनिरूपित-निज-दुर्नीतितयानुज्ञायाः कर्म-कर्तृत्वं व्यक्तीकुर्वन्, भक्ति-भरासक्ति-पृक्तीकृत-पुलक-सङ्कुलतया स्वापराध-मय-बाधा-व्यकुलतया च त्रिः परिक्रम्य बहुशः प्रणम्य च निज-हर्म्यम् एव जगाम ।

[४८] श्री-कृष्णश् च मनसि तस्यापराधं मनाग् अप्य् अनागमयन्न् आगमयमानः प्राग्-दिष्ट-सदिष्ट-द्वेष-वेश-क्रियानतिक्रमि-क्रमतयावस्थितांस् तान् वत्सांस् तत्-सदृग्-अवस्थैर् वत्स-पालैर् मेलयामास । [४९] तथैव हि तेषां काल-देश-विपर्यया पर्यालोचनाय द्रुहिण-देवेन स्नेह-देहन्य् अनवद्य-विद्येयम् उद्भाविता । एतद् एवोक्तम्—

ततोऽनुज्ञाप्य भगवान् स्व-भुवं प्राग्-अवस्थितान् । वत्सान् पुलिनम् आनिन्ये यथा पूर्व-सखं स्वकम् ॥ [भा।पु। १०.१४.४२] इति ।

[५०] अथ ते,

ऊचुश् च सुहृदं कृष्णं, स्वागतं तेऽतिरंहसा । नैकोऽप्य् अभोजि कवल, एहीतः साधु भुज्यताम् ॥ ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः । दर्शयंश् चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥ [भा।पु। १०.१४.४५-४६] इति ।

[५१] चर्म चेदम् एतावन्तं समयं यथावद् एव योगमाययान्तर्धापितम् इति गम्यम् ।

[५२] ततश् च संवत्सर-प्रसर-वत्स-वत्सपाल-बाल-विरह-विरहान् महतानन्देन महितस् तैर् एव सहितः संहित-सम्पद्-व्रजं व्रजं प्रविशन्, तत्-तद्-उन्मर्याद-वत्स-परावर्तनाय निदिशन्, पूर्व-पूर्वतोऽप्य् अपूर्वं पर्व पर्वति स्म । तथा ह्य् उक्तम्—

बर्ह-प्रसून-वन-धातु-विचित्रिताङ्गः प्रोद्दाम-वेणु-दल-शृङ्ग-रवोत्सवाढ्यः । वत्सान् गृणन्न् अनुग-गीत-पवित्र-कीर्तिर् गोपी-दृग्-उत्सव-दृशिः प्रविवेश गोष्ठम् ॥ [भा।पु। १०.१४.४७] इति ।

[५३] ततश् च पितृ-सम्बन्धिभिर् नन्द-सूनुर् इति मातृ-सम्बन्धिभिर् यशोदा-सूनुर् इति तस्य नामानूद्य, सद्य एव सिद्धम् इति चिरन्तनम् अपि तच्-चरितं जगे । तद् यथा—

नन्द-तनूजनुर् अद्य व्यालम् । हतवान् हृतवान् अस्मत्-कालम् ॥ इति ध्रु ॥ अद्य यशोदा-सूनुर् व्यालम् । हतवान् हृतवान् अस्मत्-कालम् ॥ इति वा ॥ ओष्ठाधरम् इह जलद-तटालिः । दम्भावलिर् अपि दन्तक-पालिः ॥ श्वास-भरः खरदावज-वातः । जिह्वा-युगम् अपि वर्त्म-निपातः ॥ इत्य् उत्प्रेक्षिततम-विविधाङ्गान् । व्यतिहासान् आचरतः साङ्गान् ॥ अहिम् अन्व् अहितां कल्पयमानान् । गिरिर् इति तं विशतः कृत-मानान् ॥ तद्-उदर-मध्य-कृताभ्यनुवेशान् । निज-विरहादि-विमूर्च्छित-वेशान् ॥ स्नेह-भराद् अथ स्वेन समेतान् । स्वक-नेत्रामृत-वृष्टि-सचेतान् ॥ तस्माद् बहिर् अथ निष्कासितवान् । पुनर् इह निखिलं बत दर्शितवान् ॥ प्राणाद् अधिकः सोऽयं प्राणान् । रक्षन्न् अस्मान् कुरुते त्राणान् ॥३३॥ [मात्रा-समक]

[५४] इति श्रुत्वा च ते व्रजस्थाश् चिन्तयामासुः, साधु-घातुकानां पातुकानाम् आमीषां कथम् इव जातु कामाः सिध्येयुः? इति ।

[५५] तद् एवं सिद्धे, सुखानुबिद्धे तेषां समे समागमे प्रातस् तु बृहद्-भ्रातरम् अनुगम्य प्रणय-मय-रम्य-रोषम् अनुनीय दीयमान-विस्मयतया तान् आनीय तेन चैकत्र प्रणीय श्रीवत्स-वत्सः पूर्ववद् एव वत्स-पालनम् आरेभे ।

[५६] अथ पुनर् मधुकण्ठः समापनाय स-विस्मयम् इवाह स्म—

ईदृशस् तनयो जातस् तव गोष्ठाधिनायक । ब्रह्माण्ड-ग्रामणीर् यस्य ब्रह्मापि ग्रामणीर् इव ॥३४॥ [अनुष्टुभ्]

[५७] तद् एवं कथकयोः कथां प्रथयित्वा सभ्येषु साक्षाद् इव कलित-तत्-तत्-केलि-सन्धयोः कृताञ्जलि-बन्धयोस् तद्-दिनेऽपि पूर्ववद् एव सर्वे गृह-वर्त्मनि वर्तमाना निज-निज-स्पृहणीयं कर्म निर्मिमाणा अपि ताम् एव लीलां बृंहितां हृदि जगृहिरे ।

इति श्री-श्री-गोपाल-चम्पूम् अन्व्

अघ-ब्रह्माघ-मोचनम् नाम

एकादशं पूरणम्

॥११॥

(१२)

८। अथ द्वादशं पूरणम्

१३। गोचारण-प्रचारणं [१] अथ परेद्यवि च कथा प्रथते स्म, [२] यथा स्निग्धकण्ठ उवाच—यद्यपि कालेनाल्पेन [भा।पु। १०.८.२६] इत्यादि-रीत्या वर्ष-त्रय-त्रय-पर्यायेण तयोर् वयो-गणना निर्णीता, तथापि कौमारं तु वर्षम् एकम् अधिकम् अधिरूढम्, बाल-वत्सानां श्रीवत्स-वत्सस्य च मिथो वत्सर-विरह-मयानुल्लासेन व्यतीत-क्षण-मय-संवत्सर-काल-बाल-वत्सानुरोधेन वा तस्य स्तब्धीभावात् । [३] ततस् तद्-भावानुगामितया रामस्य च तथा वृत्तं सुतराम् एव वृत्तम् । तद्-अनन्तरम् अखण्डं पौगण्डं तु वर्ष-द्वयेनैवापूर्यत, चिराल् लब्ध-बन्धु-संवासेन सम्यग् उल्लासेन झटिति कैशोर-घटनात् । तथा च प्रथां करवाम धेनुक-वधावम-धाम-गमनान्ते । तद् एवम् एव सङ्गच्छते कालेनाल्पेन इत्यादि ।

तावद् एवात्मभूर् आत्म-मानेन त्रुट्य्-अनेहसा । पुरोवद् आब्दं क्रीडन्तं ददृशे सकलं हरिम् ॥[भा।पु। १०.१३.४०] इति ।

ततश् च पौगण्ड-वयः-श्रितौ [भा।पु। १०.१५.१] इत्यादि च ।

[४] अथ प्रकृतम् अनुसरामः । तद् एवं विहरतोः सर्वेषां मनो हरतोर् अनयोः पञ्चमं वर्षम् अञ्चत् कौमारतः पार-भूतं वयः समयाञ्चक्रे । यथा—

ऐषमोऽभवद् असौ परुत् परार्य् एवम् आदि निखिलैर् यदागणि । हन्त तर्हि सहसा बकान्तकः प्राप्त-कान्ति विजहौ कुमारताम् ॥१॥ [रथोद्धता] उद्गच्छद्-बुद्धि-शक्ति-प्रथम-रुचि-जयि-श्यामता-शुभ्रता-युक् किञ्चिद्-विस्तीर्ण-वक्षः-प्रभृति वलयितायाम-नेत्रादि-गात्रम् । केशं वेशं च पूर्वाद् अधिक-मितिम् अयत् केलि-शिक्षा-प्रवीणं पौगण्डं प्राग् अचण्डं स्फुरद् अलम् अनयोर् मां दिदृक्षुं करोति ॥२॥ [स्रग्धरा]

[५] तदा च कदाचिच् छ्री-व्रज-राज्ञी सभान्तः प्रातर् आयाता श्रीमद्-अभिनन्द-पत्नी सयत्नी-भवन्ती तां पप्रच्छ—यातः कृष्ण-मातर्, अद्य सद्यः प्रातर् एव कुत्र वा भवज्-जातः प्रयातः?

[६] व्रज-राज्ञी तु स-हासम् आह स्म—हन्त, तद् एतद् वर्तमान-समय-पर्यन्तं तस्योद्वर्तन-स्नान-परिधान-मयानि कर्माणि मया निर्मीयन्ते स्म । सम्प्रति मद् अपि लज्जाम् आसज्जन् स्वक-सवयः-सेवक-प्रियः पृथग् एव कृत-तत्-क्रियः स मा समया समायाति । आगत्य च प्रत्यहं मां पितरं यथा-यथम् इतरं च गुरु-जनं पुरु-गौरवेण नमस्कारेण पुरस्करोति । [७] किं च, तद्-अवधि यदा सन्ध्यायां मया ध्यायमानागमनं सह-वत्सः समागच्छति, तदा तद्-उपरि वारि वार-त्रयं भ्रमयित्वा पिबन्ती भवामि स्म । सम्प्रति तु, स-शपथम् एधमान-यत्नवता तत्-प्रतिषेधता तेन मम हस्तौ विहस्तौ क्रियेते । एवम् एव रौहिणेयश् च इति । तद् एतद् अर्वाचीनं तद्-वर्णनम् अपूर्वतयाकर्ण्य तन्-मुखं निर्वर्ण्य सर्वा हसन्ति स्म । [८] सा पुनर् उवाच—तद् एतद् अबाल्यम् इव च तस्यासमय-मयत्वाद् बाल्यम् एव मत्वा सुखम् उपलभामहे, अनेन तु दुःखाक्रियामहे ।

[९] सर्वाः साशङ्कम् ऊचुः—हन्त, किं तत्?

[१०] सा प्राह—स्वयम् अचिराद् एव गवां विचारम् अन्तरा चिचारयिषितं यत् ।

[११] सर्वा ऊचुः—नात्राप्य् अन्यथा मन्यस्व । गोप-कुल-तिलकायमान-बालकानां स एष एव स्वभावः सर्वत्र नाभावम् आसीदति । किम् उत तेष्व् अपि परम-चित्र-चरित्रस्य तस्य इति ।

[१२] अथ व्रज-राजस्य सदस्य् अपि तस्य वृत्तम् इदं वृत्तम् आसीत् । यथाह स्म स-स्मितं समासन्नौ सन्नन्द-नन्दनौ नन्दित-समाजः श्रीमन्-नन्द-राजः—भोः आयुष्मन्ताव्, अद्य-जात इव युष्मद्-भ्रातृ-जातः स यथा सम्प्रति युवां प्रति वर्तते, न तथा माम् इति लक्ष्यते । यतः किञ्चित् सङ्कुचित-विलोचनेन माम् अवलोचयन्न् आलोच्यते । युवाभ्यां सह तु मधुर-वार्तां वर्तयन्न् एव दृश्यते ।

[१३] सन्नन्द उवाच—साम्प्रतम् एवेदं, यतः साम्प्रतं तत्र-भवता तत्र शिक्षा-मय-वीक्षा गाम्भीर्यम् आचर्यते । आवाभ्यां तु कौमार-कालीनेऽपि तस्मिन्न् अतिशालीने विधेयतया पर्यालोचितुं न पार्यते । [१४] पाश्य पश्य

प्रथमं नमम् इह मातरम् अथ पितरं त्वां तथैवास्मान् । प्रत्यूषः प्रतिसुहृदं सत्-कुरुतेऽसाव् अतीव बाल्येऽपि ॥३॥ [उद्गीति]

[१५] अथ क्रमागतेषु वत्सलतया समान-मतेषु तद्-आकर्णनार्थम् अकिञ्चिद्वादिषु श्रीमद्-उपनन्दाभिनन्दादिषु तद्-वर्ण्यमानम् अन्य-मुखाद् आकर्ण्य सानन्द-विकसित-मन्द-हसित-भ्राजिषु पुनः सन्नन्द-नन्दनौ प्रति श्री-व्रज-राज उवाच—भवन्ताव् एकान्तम् अनुभवन्ताव् अनुगम्य तौ रम्य-कातराक्षि-प्रान्ताव् असकृत् प्रातर् आरभ्य प्रार्थितवन्ताव् इव ह्यः पूर्वेऽह्नि समन्ताद् भ्रातराव् अतिदूराद् अदृक्षाताम् । तत् किम् उच्यताम्?

[१६] नन्दन उवाच—तदानीम् एवेति किं वक्तव्यम्? किन्तु चिराद् एव तयोस् तद् अभिरुचितम् उपचितम् अस्ति । सङ्कुचित-भावाभ्याम् आवाभ्यां तु भवत्सु न श्रावितम् ।

[१७] व्रजराज उवाच—किं तत्?

[१८] सन्नन्दः सस्मितम् उवाच—स्वयम् एव गवां सेवनम् इति यत् ।

[१९] उपनन्द उवाच—किम् ऊचतुस् तौ?

[२०] सन्नन्द उवाच—आवयोः प्रथम-वयोऽतीतयोस् तात-चरणानां स्वयं गोचारणम् अनाचारताम् आचरति इति ।

[२१] तद् एतद् वर्ण्यमानम् आकर्ण्य तयोर् मुखं निर्वर्ण्य स-विस्मयं तूष्णीम्भूष्णुतया विराजमाने व्रजेशाने सर्वेऽपि तम् ऊचुः—यद्यप्य् अद्य-जाताव् इव सुजाताव् अमू, तथापि क्रमं विना बुद्धि-निष्क्रमस्य बल-संवलनस्य च सद्-भावाद् अस्माकं विस्मायकाव् एव भवतः । इतस् तु न विस्मायकौ भवतस् तपः-प्रभाव एव खल्व् एवं भावम् आवहतीति । न खलु तत्-तत्-खलानां यत् परिमलनं जातम्, तत्र सहायतानां सहायता काचिद् अपि परिचिता । तस्मान् मङ्गलम् एव सङ्गतं भविष्यति इति ।

[२२] अथ तदा कदाचिन् निज-गृहिण्यापि सह रहसि श्री-व्रज-राजस्य स एष प्रस्ताव-विशेष आसीत्—यत्र च तौ पुत्र-प्रेम-यन्त्रिततया तद् एतन् मन्त्रितवन्तौ, पश्यामः समय-विशेषम् इति ।

[२३] तदा च दिन-कतिपयानन्तरं सभायां भासमानायां श्री-व्रज-राजस्य वैलक्ष्यम् आलक्ष्य सर्वेऽनर्वाचीन-गोपा मिथो निरीक्ष्य हसन्ति स्म । [२४] तत्र च श्री-व्रज-राजे कथं कथम्? इति स-स्मितम् उक्तवति वदन्ति स्म, यद् अस्माभिर् अकस्माद् विस्मायनम् अनुभूतम्, तद् एव भवद्भिर् अपीति सम्भाव्यते ।

[२५] व्रज-राज उवाच—कथ्यतां तावत् तथ्यं भवद्भिः ।

[२६] सर्व ऊचुः—यद्यपि चिरत एवेदं चरितम्, तथापि भवतापि गोचरितेन गोचरितेनातीव रचितम्, यत् खलु सर्वं गो-जातम् न तु भवज्-जातम् अन्तरा पदम् अपि पदः प्रददाति । कथञ्चित् तेनैवाग्रावस्थितेनाद्य ताः प्रस्थापिताः सन्ति ।

[२७] व्रजराज उवाच—तद् इदम् अकस्मात् कथं जातम्?

[२८] सर्व ऊचुः—भवत्-पुत्रः कुत्रचिद् यत्र स्नेहं व्यञ्जयति, तत्र सर्वत्र चैवं दृश्यते।

[२९] व्रज-राज उवाच—तर्हि किम् अगर्हितम् अर्हितं स्यात्?

[३०] सर्व ऊचुः—यत्र गत्य्-अन्तरं नास्ति, तत् खल्व् अनन्तरम् एव विधातुं युक्तम् । यत् तु तत्र-भवन्तस् तत्र भीतायन्ते, तत् पुनर् वत्स-पालनेऽपि न तुच्छायते । किन्तु भवत्-तप एव प्रतपति प्रतीपान् इति प्रतीयते । तस्माद् भवताद् भवताम् अनुज्ञा, या परम्परयापि परं परम् अप्य् अमङ्गलं तार-यिष्यति ।

[३१] अथेदम् आकर्ण्य निर्वर्णनत एव ज्ञापितानुज्ञा-निज-समाजे श्रीमन्-नन्द-राजे सर्वानुमति-लब्धानन्दः श्रीमान् उपनन्दः प्रथित-समज्ञान् समय-ज्ञान् जिज्ञासयामास । तैर् अपि बुध-श्रवण-सुख-प्रद-मङ्गल-श्रवण-सङ्गत-बुध-श्रवण-विशिष्ठायाम् अबहुल-बाहुलाष्टम्यां बहुला-पालनं बहुलम् एतद् इष्टम् इत्य् आदिष्टम् । [३२] श्रीमन्-नन्दादयश् च सर्वे दुन्दुभि-निर्घोषेण घोषे तस्मिन् निर्विशेषम् अहस्-त्रितयम् अहमहमिकया महः प्रचारयन्तस्, तद्-वत्स-चारण-बृहद्-उत्सवम् अप्य् अतिचरन्तस् तत् समाचरन्ति स्म ।

एकस्यैकस्य चेद् वक्तुर् वक्त्राणि स्युः सदायुतम् । तदा तद् वक्तुम् इच्छन्तु यद्य् आयुः सर्वदायुतम् ॥४॥ [अनुष्टुभ्]

[३३] दिग्-दर्शनं तु यथा,

गोपालोचित-नव्य-वेष-वलनै रक्षा-विधानैर् द्विजाद्य्- आशीभिः सुदिनाह-लभ्य-रचनैर् व्रज्यार्ह-नीराजनैः । सङ्गानान्वित-वाद्य-नृत्य-निकरैः शश्वज्-जयाद्य्-आरवैः श्रीमान् गोप-महेन्द्र-सूनुर् अगमद् रामेण धेनूर् अनु ॥५॥ [शार्दूलविक्रीडित]

[३४] तद् अनु गति-रीतिर् इतीव च गन्तव्या—वाद्य-गीत-मङ्गल-परीतं पुरोधसः पुरोधाय धेनूः सन्निधाय ताश् च पाद्यादिभिर् अर्चिता विधाय मधुर-ग्रासैस् तासां समग्राणां तृप्तिम् आधाय तासु नति-प्रभृतिभिर् मानम् उपधाय पुनश् च प्रदान-दक्षिणाभिः पुरोहितादीन् अक्षीणानन्दान् सन्धाय, श्रीमत्-पितृ-चरणादीन् मञ्जुलाञ्जलि-वलितम् अग्रतो निधाय स्थितवति साग्रजे तस्मिन्न् अवरजे, श्रीमांस् तत्-पिता व्रजराजस् तावन् मणि-मय-लकुटिं तत्-करे घटयामास । श्रीमती तन्-माता च व्रज-राज्ञी भाले तिलकं निदधे, निधाय च सा—

राम प्राग् अस्य पश्चाद् भव सुबल युवां श्रील दामन् सुदामन् दोः पार्श्व-स्थौ भवेतं दिशि विदिशि परे सन्तु चात्मीय-बन्धोः । इत्थं हस्ते विधृत्य प्रतिशिशु दिशती तत्र कृष्णस्य माता तत्-तत्-कर्माधिकार-श्रियम् अपि ददती नेत्र-नीरैर् असिक्त ॥६॥ [स्रग्धरा]

[३५] अथ रोहिणी-बृंहित-शुचि-सम्पद्-उपनन्द-गृहिणी-संहित-महित-महिलाभिः सहितं यथायथं सङ्गमिते नाना-मङ्गले, भुवि दिवि च महा-मह-बहल-कुशल-कुतूहलम् अनु, मातरं पितरं कांश्चिद् अन्यांश् च नमस्कृत्य, कृत-कृत्यतया जिहि-जिहि-कारेणेरिताश् च गावः स्वाभिमुखम् एव स्थिता न प्रस्थितवत्य इत्य् अनुपपत्त्या प्रत्यासन्नान् गुरून् परावर्त्य, तासाम् पुरत एव स-बल-सखः स प्रस्थितवान् । प्रस्थितवति च तत्र श्याम-वर्णे तर्णकाग्रिमता-निर्वर्णनेनेव मन्दं मन्दं गच्छन्तं गावस् तम् अन्वगच्छन् ।

[३६] तद् एवं श्री-कृष्ण-रामाव् एताव् अथ स्वानुगमन-कमन-मनस्कान् जनान् कथं कथम् अपि ततः पथः श्लथयित्वा, स्वात्मानम् अपि तल्-लोचन-शृङ्खला-मोचनान् मोचयित्वा, सखिभिर् अप्य् अखिल-विलम्बि-ललितैर् नव-गोप-महसोपवलितैः सह सहसा हसन्तौ लसन्तौ चाराय मध्ये मध्ये स्तब्ध-निखिल-गवीकौ लब्ध-मनो-गवीकौ सुवलित-चलितं गोवर्धन-दिशम् उद्दिश्य चलतः स्म ।

[३७] यत्र गावः सङ्केतित-स्वरादि-विशेषेणैव मिथः सङ्कीर्णा विकीर्णाश् च भवन्ति स्म, न तु दण्डेनोपघातं विशीर्णाः क्रियन्ते स्म । यत्र च सखिषु ताभ्यां सह परस्परं मण्डयन्तेषु नन्दयन्तेषु क्रीडा-जनयन्तेषु च परम-कौतुकम् आविर्भवति स्म ।

[३८] तद् एतन् निर्वर्ण्य देवैर् वर्णितं यथा—

प्रत्येकं गाव एता बहिर् अपि च हरेः प्राण-रूपा यद् आसां शश्वत् तृप्तौ च तृप्तिं क्षुधि च कलयति क्षुद्-विकारं स एषः । आनीयानीय चैता निजहृदि विदधद् घ्राण-सौख्यं दधानः श्लिष्यन्न् उच्चैर् विचिन्वन्न् अशनम् उपददत् पालयन् स्वेन भाति ॥७॥ [स्रग्धरा] उस्राणां प्राण-साम्यं वहति हरिर् अमूस् तं विना रिक्त-चित्ताश् चित्र-प्रायाः समन्ताद् यद् इह वन-तति-श्री-निभा विस्फुरन्ति । तल्-लाभाद् घ्राण-दृष्टि-श्रवण-सरसन-स्पर्श-योगाद् वलन्ते किन्तु स्याच् चित्रम् एतद् बहिर् उपवलितं तेषु तं स्वादयन्ति ॥८॥ [स्रग्धरा] आहूतं कुरुते हरिः सखि-जनं, सोऽप्य् एनम् एवं तथा वक्ति श्लिष्यति जिघ्रति प्रहसति स्कन्धं स्पृशन् कर्षति । आस्तां तच् च महाद्भुतं शृणुत भो यद्य् अन्तरं तर्क्यते नैवात्मा पृथग् अस्य तस्य च भवेद् इत्य् एव विज्ञायते ॥९॥ [शार्दूलविक्रीडितम्] वदति सखि-समूहः कृष्ण-रामाव् इतीदं क्वचिद् अपि विनिमाय प्राह तत् तच् च युक्तम् । कलयत यद् इमाव् अप्य् आत्मनः स्थान एव स्फुटम् इह विदधाते यन् मिथस् तत्र तत्र ॥१०॥ [मालिनी]

[३९] अथ तद् एवं च स्थिते, पूर्वत एव तदीय-विमल-परिमल-माधुरी-धारा-नन्दित-विदूरग-वृन्दावन-स्थिर-चर-जीवावलीभिर् जीवातुतयाजीव्यमानौ, सम्प्रति तु सर्वा एव ता देवता-पूर्वाः परमापूर्व-दर्शन-स्पर्शनादिभिर् लब्ध-पर्वणः कुर्वाते स्म । [४०] याः खलु सर्वातियायि-सुख-दायितयान्येषाम् अपि पुण्याय पुण्य-फलाय नैपुण्यम् आसेदुः । [४१] तत्रैव च सर्व-सुख-शंसिनी वंशी सर्वम् आत्मानं च कृतार्थतां प्रापितवती । यतः—

न तद् वनं यन् न विहार-मङ्गलं नायं विहारः शुभ-गीत-भृन् न यः । गीतं न तद् यन् न हि वंशीकाकृतं वंशी न सा कृष्ण-मुखानुगा न या ॥११॥ [उपजाति १२]

[४२] तद्-दिने तु कान्तः सोऽयं वृत्तान्तः कर्णान्तः क्रियताम्—

उदीर्ण-मुरलीकलः स्व-गुण-गातृ-गोपावृतिर् बलेन सहितः स्फुरद्-विविध-माधुरी-विस्तृतिः । रसार्द्रम् अनिश-स्मितं तद्-अतिहार्द-भाजां गवां हितं स्वजन-चित्तवद् वनम् अथाविशन् माधवः ॥१२॥ [पृथ्वी]

[४३] स च नितान्त-प्रिय-जन-भानः काननान्तः-सार-सरस-गन्ध-सरस-सुगन्ध-गन्ध-वाह-वाहित-नव-पल्लव-पाणिभिः स्फुरन्-मधुर-सखि-ततिं मधुपतिम् आलिङ्गन्न् उतसङ्ग-सङ्गिनं विधाय, स्वानुव्रत-मधुव्रत-खग-मृग-मञ्जु-गुञ्जितादि-व्यञ्जनया खेलितुम् इव प्रोत्साहयामास ।

[४४] ततश् च कौतुक-विशेष-लम्भनाय व्रज-राज-तनूजः स-स्मितम् ईक्षमाणः स-विस्मयवद् उत्प्रेक्षमाणश् च निजाग्रजं प्रति सादर-नर्म-गन्ध-प्रबन्धि-वन-वर्णनं निर्ममे, यथा—

नूनं भवान् विश्व-पतिर् नमन्ति यद् बलिं गृहीत्वा तरवः पदं तव । पश्य प्रसूनादि-शतेन तन् नत- प्रवाल-शाखा-शिखया स्पृशन्ति ते ॥१३॥ [उपजाति १२] त्वं राजसे देव वनेऽत्र साम्प्रतं वयं न पश्याम तथापि तामसाः । इतीव चक्षुष्मति जन्म-लम्भनं वृक्षा वृणानाश् चरणं तवाश्रिताः ॥१४॥ [उपजाति १२]

गायन्ति त्वां षट्पदाश् चानुयान्तः

श्री-रोहिण्याः पुत्रम् अन्तर्हितं च । इत्थं मित्राण्य् आहुर् ऊहेऽहम् एवं सर्वेशस् त्वं न त्व् अमी सन्-मुनीशाः ॥१५॥ [शालिनी] सुरम्यं नृत्यन्ति प्रमद-शिखिनः स्नेह-वलितं हरिण्यः पश्यन्ति स्फुट-मृदु-कलं बिभ्रति पिकाः । नटा रामाः सूक्त-प्रपठन-विदः कानन-सदाम् अमी धन्या यस्माद् विदधति तवाराद् अतिथिताम् ॥१६॥ [शिखरिणी] अङ्घ्रिस्पर्शैर् धरित्रीगिरितृणसरितस् ते नखश्रेणिलेख- श्रीमच्-चित्रैर् विचित्र-द्रुम-समुदयग-द्योत-वीरुद्-विभेदाः । स्निग्धेक्षाभिश् च धन्या मृग-विहग-गणा वक्षसः सङ्ग-लाभाद् एषा तत्रापि गोपी-व्रततिर् अतितरां यत्-स्पृहा सापि लक्ष्मीः ॥१७॥ [स्रग्धरा] पितृव्यान् मे क्षत्राद् अवतरणम् आप्तः स तु भवान् पितुर् गोपेशस्यात्मज-पदम् अगाद् धर्म-विधिना । अतस् त्वं गोपीनां परिणयनम् आप्तासि तद् इयं लता गोपी-नाम्नी तव हृदय-लग्ना प्रथयति ॥१८॥ [शिखरिणी]

[४५] अथाग्रजश् चानुज-वाचम् अमृतम् इवाचम्य स्मितम् आचरन्न् उवाच—भवादृश एव तादृश-गुण-गण-भाग् ईश्वरः कथम् अन्यं तत्र गण्यं करोति? इति ।

[४६] तद् एवम् अखिल-सखिभिः सह हसन् नर्मणा तेषां शर्म स्फुटम् उत्तम्भयन्, श्रीमद्-वृन्दावन-वन-शोभाम् अपि स्वम् इव तान् उपलम्भयन्, पशून् अपि मानस-गङ्गा-रोधांसि लम्भयन् स्वयम् अप्य् अयम् अतितरां रेमे । तच् च प्रात्यहिक-प्रायम् एवं प्रथयिष्यामः । यथा—

रमते रामं परितः कृष्णः । सखि-गण-गीत-गुणेषु स-तृष्णः ॥ अनुगायति पिक-षट्पद-गानम् । परिजल्पति शुक-हंस-समानम् ॥ एवं चक्र-चकोर-बकादि । अनुरौति स्फुट-हास-विवादि ॥ द्वीपि-मुखार्पित-भीति पशूनाम् । रुतिम् इव सृजति भयाय शिशूनाम् ॥ पक्षि-मृगादिकम् अहरहर् अचलम् । विरचित-नामभिर् आह च सकलम् ॥ भ्रमति सखा यदि तस्मिन् कोऽपि । कर्षति विहसन् पणम् अमुतोऽपि ॥ दूरग-पशुम् आह्वयति च नाम्ना । कृत-गो-गोप-मनोरम-साम्ना ॥ गव्याहूतौ शिखिनां हूतिः । जाता यद् असौ घन-रुति-भूतिः ॥ व्यतियुञ्जानो भ्रात्रा स्व-करम् । शंसति हसति सखी-हित-निकरम् ॥ सखिभिर् विश्रमयन्न् अयम् आर्यम् । प्रणयति तत्-पद-लालन-कार्यम् ॥ सुललित-पल्लव-तल्प-विधानः । सुहृद्-ऊरु-स्थिर-मूर्ध-निधानः ॥ केलि-श्रमम् अनु कृत-शयनेहः । पुण्यतमैर् उपवीजित-देःअः ॥ अत्र च कैर् अपि लालित-चरणः । अस्मत्-तृण्-मात्रद-परिचरणः ॥ यः स्निग्धानां गान-विनोदैः । निद्राम् इतवान् स्वर-कृत-मोदैः ॥ स्मरतां तन् नः किम् अपि मनः-स्थम् । समयं सहते नान्यावस्थम् ॥ वयम् इह के वा लुब्धं-मन्याः । लुब्धा यस्मिन् शुक-मुख-धन्याः ॥१९॥

> [मात्रा-समक]

[४७] तद् एवम् एव वल्गु वलयिते लीला-वलये पूर्ववन् निलयाद् आकलितम् इष्ट-मिष्टान्नादिकं रसनया श्लिष्टं विधाय, गवां जालं चालयन् पालयन् साग्रज-व्रज-राज-तनूजः सवयोभिर् आयतीगवम् अवसरम् अवगत्य गोत्रा-मात्राणां ततिं शनैर् उपव्रजम् अनैषीत् । नीत्वा च तार्णक-वात्सक-भेदानां तथा स्त्री-गवीनां तास्व् अप्य् उपसार्यासन्धिनी-प्रष्ठौही-धेनु-बष्कयिणी-गृष्टि-समांसमीना-नैचिकी-कपिला-वशा-गोपति-प्रभृतीनां तत्र च गङ्गादि-नाम्नां तथा पुङ्गवानां तेषु चार्षभ्य-दम्य-जात-ककुत्पूर्ण-ककुज्-जातोक्ष-महोक्ष-वृद्धोक्ष-युग्य-प्रासङ्ग्य-शाकट-प्रष्ठवाट्-प्रमुखानां तत्र च हंसादि-नाम्नां परः-कोटीनां कूटान् पृथक् पृथग् अवीवसत् । तत्र तत्र च नस्तितान् अपि शिवक-बद्धान् अचीकरत् ।

[४८] ततश् च पूर्व-पूर्वस्माद् अप्य् अपूर्वतया मङ्गल-वस्तु-निकर-करैः पुरस्कृत-क्षिति-देव-नर-देव-पुरःसरैर् व्रजवासि-वरैर् उपव्रज्य नीराज्य च सपशु-पाल-बलः स गोपालः सदनं सादरम् आसादयामासे । प्रसादयामासे च सुललित-लालनया जनित-सुख-जननी-मुख-पुरन्ध्री-जनेन ।

[४९] अथ क्षण-मात्रं तत्र विश्रम्य गो-दोहनाय निर्गम्य रम्य-दोह-पात्र-सन्दोहं किङ्कर-निकर-कराहृतं विधाय, गवास्-थानीम् अभिनिधाय, महा-महिम-गोप-समूहम् अनुकृतोपवेशं श्री-व्रज-नरेशम् अनुज्ञाप्य वत्स-मोचनम् आज्ञाप्य धेनुक-मध्य-स्थितः स्वस्ति-वाचनादि-प्रशस्तं समस्त-चित्त-मोहनं गो-दोहनं नाम कर्म प्रथमं निर्ममे ।

[५०] तत्र च गृहान् निर्गमनं यथा,

हाटक-लकुटि-पाणिर् मणि-चित-निर्योग-राजद्-उष्णीषः । जित-गजराज-विलासः सबलः कृष्णो ययौ गोष्ठम् ॥२०॥ [आर्या]

[५१] दोहनं यथा,

श्रीमत्-पट्ट-वटान्त-मौक्तिक-लसन्-निर्योग-राजत्-कचौ गाढा-नद्ध-वरान्तरीय-रुचिभिश् चित्राधराङ्ग-श्रियौ । ऊर्ध्वज्ञू क्षिति-संहिताग्र-चरणौ जानु-द्वयान्तः-स्थित- स्वर्णामत्र-धरौ सितासित-तनू धेनूर् दुहाते स्म तौ ॥२१॥ [शार्दूलविक्रीडित]

[५२] ततश् च घटोध्नीनां तासां नातिदुग्धानाम् अपि दुग्धानि तु प्रचुरं दुग्धानि विधाय गवादि-सम्भालनम् अनु गोपान् संविधाय तानि च पितुः पुरस्तान् निधाय कराभ्याम् अञ्जलिं सन्धाय स्थितवन्तौ सन्तौ, तेन दूरतस् तदीय-तुरीय-कक्षा-पूरित-चातुरी-निरीक्षण-सुख-स्थगितेन भूयो भूयश् चाहूय सव्यापसव्ययोर् उपवेशितौ । यत्र च—

अक्ष्णा तस्यापसव्येन सव्यं तच् चकृषे बलात् । अपि सव्येनापसव्यं रामं कृष्णं दिदृक्षुणा ॥२२॥ [अनुष्टुभ्]

किं च—

एक-हेतु-मयम् एव लोचने द्वे च बाष्पम् अपरत्र विन्दतः । राम-कृष्ण-युगपद्-विलोकने ते तु गोप-नृपतेर् यथायथम् ॥२३॥ [रथोद्धता]

तथा हि—

सव्यम् अक्षि तनुजाद् व्रजेशितुर् भ्रातृजात् पुनर् असव्यम् अस्रवत् । यत्र मानसम् अपि स्वयं द्विधा- भिद्यताश्रु-मिषम् इत्य् अबुध्यत ॥२४॥ [रथोद्धता]

ततश् च—

अग्रिमान् अग्रिमान् कुर्वन्न् अन्त्यान् अन्त्यान् समैः समम् । सोऽभितो राम-कृष्णाभ्यां शोभितो गृहम् आययौ ॥२५॥ [अनुष्टुभ्]

[५३] तौर्यात्रिक-चर्य-पर्याकुलतयेति शेषः ।

गृहम् आगत्य च सर्वाम् आत्म-गोष्ठीं मिष्टान्नादिभिः सुष्ठु तुष्टाम् अकार्षीत् । [५४] ततश् चानन्द-विशिष्टेषु विसृष्टेषु शिष्टेषु राम-कृष्णौ निज-निज-धाम समागम्य रम्यतम-शय्याम् अधिशय्य मातृभ्याम् उपचर्यमाणौ परिचारकैः परिचर्यमाणौ सुखं निदद्रतुः ।

[५५] अथ स्निग्धकण्ठः समापन-दिग्धं तद् इदं वाक्यं साञ्जलि व्यानञ्ज—

ईदृशस् तनयो जातस् तव गोप-धरा-पते । आत्मारामाश् च यत्-कीर्त्या यान्ति द्राग् आत्म-विस्मृतिम् ॥२६॥ [अनुष्टुभ्]

[५६] अथ श्रीदामादि-चमत्कार-सार-प्रद-प्रथनस्य तद्-एतत्-कथनस्य श्रवणान्ते, सैवेयं लीलेति भ्रान्ते, तत एव बहिर् वृत्तित उपशान्ते गोलोक-धरित्री-कान्ते जने च श्रेणी-प्रान्ते, तौ सूत-सुतौ यथावद् बद्धाञ्जलितयावस्थितौ चिरत एव पूर्व-पूर्ववत् प्रीति-दानेन वासं प्रस्थापितौ विधाय ते सर्वे यथास्वम् आवासादिकम् आसादितवन्तः ।

इति श्री-श्री-गोपाल-चम्पूम् अनु

गोचारण-प्रचारणं नाम

द्वादशं पूरणम्

॥१२ ॥

(१३)

९। अथ त्रयोदशं पूरणम्

१४। कालिय-दव-चण्डता-दण्डनम् [१] अथ प्रतिप्रातर् इव श्रीमद्-व्रजराज-समाजे विराजमाने कथां कथयितुं समुत्कण्ठो मधुकण्ठो निजान्तश् चिन्तयामास—

[२] धेनु-चारणारम्भ-लम्भक-दिने धेनुकालम्भः खलु श्री-बादरायणिना तदीय-चारणावसर-साम्यानुसारिणा पूर्वम् एव वर्णितः । वस्तुतस् तु पौगण्ड-प्रान्त एव पण्डया निर्णीतः, तद्-दिवसावसाने वेश्म-प्रवेशे कैशोरांशावेश-वर्णनात् । अतः श्री-पराशरेणापि कालिय-दमनानन्तर्-आवसर एव सोऽयं सावसरः कृतः । श्री-हरि-वंशे च स्पष्टम् एव, दमिते सर्पराजे तु कृष्णेन यमुना-ह्रदे [२.१३.१] इत्य् उक्त्वा धेनुक-वधः समारब्धः । तद् एव युक्त्यापि व्यक्ती-भवति । कार्तिक-वर्तमान-शुक्लाष्टम्यां गोचारणारम्भ-सम्भव-दिनतया पाद्मे स्पष्टतयोक्तिर् दृष्टा । पक्व-ताल-फल-कालो भाद्र एव, तत्र च धेनुक-निर्धूनन-प्रसिद्धिः । तस्मात् कालिय-दमनम् एव प्रथमं प्रथयिष्यामः इति ।

[३] स्पष्टं त्व् इदम् अभ्याचष्ट—

कवयो ये भुवि ख्यातास् त एवाकवयो मताः । सुखम् आयास्यतीत्य् एवं सुदुःखं वर्णयन्त्य् अमी ॥१॥ [अनुष्टुभ्]

इति तूष्णीकाम् आसज्य पुनर् आह स्म- अथवा—

सुखं वा वीर्यं वा तद् इह परमं यत् प्रतिमुखं प्रतीपं निर्जित्यानवरतम् अतुल्यं विजयते । कविश् च श्रेयान् स स्फुरति खलु यस् तद्-विधतया सदा तत् तद् गायन्न् अपि न परितस् तृप्यतितराम् ॥२॥ [शिखरिणी]

[४] अतः कालिय-निर्यापन-फलं तद् इदं वृत्तम् आपाततः सुदुःसहम् अप्य् आयत्यां प्रत्याप्त-बहुल-सुख-सहचरतया वर्णनम् एवास्माभिर् आकर्णनीयम् एव च युष्माभिर् इति याचित्वा स-कम्पम् उवाच—

[५] तद् एवम् अर्जुनीषु पर्याग् एव चिराय चार्यमाणासु परि कालियालय-जलाशयाशयम् एव चलितुं खलु श्री-बलरामः समनुज्ञां कलयाञ्चक्रे, श्री-व्रजेश्वर्याः शिक्षित-चर्यानुगमात् । श्री-बलावरजस्य तु तस्य चिरत एवाविरतं तद् दिदृक्षा न क्षीणासीत् । [६] बहलेन कुतूहलेन, जन्मत एव दुर्जन-तेजसाम् असहनतायाम् अविकलेन तेजस्विता-बलेन च ।

[७] तद् एवं स्थिते सदावद् एव कदापि कृष्णाग्र-जन्मनः श्रवणाख्यं मासिकं

जन्मर्क्षम् अतिथिवत् प्रथितिं व्रज-सदसि समाससाद । तदा च सङ्कर्षणः स खलु हर्षण-मङ्गल-स्नपनाद्य्-आसङ्गतः स्व-गृह एव सङ्गत आसीत् । [८] तदा च कासाञ्चनाभिनवानां गवाम् अतिप्रत्यासन्न-प्रसवानाम् अवश्यम् एव स्वावनीयतया विनापि तं वनीम् अनुगत-सखः श्रीदाम-सखः प्रस्थितवान् । किन्तु सम्भोजन-समय-समयने समयं विधाय तदा च लब्धे विप्रलब्धेर् अवसरे तद्-इतरं प्रति यः काल-कूट-तुल्यः काल-कूटस् तन्-मय-कालिन्दीय-कालिय-ह्रद-हरितम् एव त्वरितं हरि-सुधा-वारिधिर् अवजगाहे ।

[९] तत्र गवाम् अग्रेसरा ये गोप-कुमार-वरास्, तेषु चानाशितङ्गवीन-नवीन-वन-विभागावकलन-कलित-बहल-कुतूहल-जात-रभसतः किञ्चिद् विलम्बम् आलम्बमानेषु निदाघ-द्राघीयस् तृष्णा-व्याकुलम् अग्रिम-गोकुलं कालिय-विषाकुलं कृष्णा-जलं पिबति स्म । पान-मात्राच् च विचेतनतया निपपात, क्षणतस् ते चाग्रे-सरास् तद्-अवलोक-शोक-धरा देह-जिहासया सहसा स्वयम् अपि धयन्तः पतन्ति स्म । [१०] इयं पुनर् योगमायाया एवानपाया गतिः, या खलु खलानाम् उत्कलनायासम्भवम् अपि सम्भावयति ।

[११] अथ मुहूर्त-पूर्ताव् आगतोऽयं तोयद-श्यामल-मूर्तिर् मूर्तान् एव तान् पश्यन्न् अन्यादृश-श्यामलताम् आजगाम, विललाप च—

या गावः खलु देवता व्रजसदाम् अस्माकम् उच्चैस्तरां ये बालाश् च सदैव जीव-तुलितास् तेऽमी विपन्नाः पुरः । हा हन्त स्वयम् अस्मि तत्-सहचरः किं भ्रातरं मातरं तातं सर्व-जनं च वच्मि मम धिक् चापल्यतः साहसम् ॥३॥ [शार्दूलविक्रीडितम्]

[१२] ततश् च विप्रतीसार-सारानुसाराद्रुत-विद्रुततर-चेतसः श्री-व्रज-कुल-चन्द्रमसः क्रमशः सर्वेषां मुखम् अभिदत्त-दृशः स्तिमिती-कृत-निजाधरा नेत्राम्भु-धारा निपेतुः, या एवाङ्कुरी-कृत-वसुधाः सुधायमाना यथा-क्रमं सर्वं चेतयामासुः । किन्तु मुर-शत्रुः पुरः पुरः-स्थ-गमनावेशाद् अपुरः-स्थ-देशाश्रितानां चेतनां तदा न चिचेत, चिराद् एव त्व् अचेतीत् ।

[१३] ते च चेतिताः सर्वे चिराय विचार-प्रचारं नानुचरन्ति स्म, यस्माद् आत्मानम् अघ-नाम-धर-विषधर-विषम-विष-मोहाद् रक्षितवन्तम् अघ-द्विषम् एव तत्र तत्र भ्रमन्तम् अनुभूय, भूयः स एव चेतना-मूलम् इति निश्चितवन्तः ।

[१४] कृष्णस् तु तान् विलुलितवेशान् लब्धोपवेशान् दृष्ट्वा युगपद् एव सर्वान् कृष्ट्वा पृथक् पृथग् एवाश्लिष्टवान् । [१५] तद् उक्तम् एव यद् अस्य खल्व् औत्पत्तिक एवायम् उपपत्तिम् अतीतवान् गुणः, यद्-भाव-भावनः स्यात् तत्रानुरूप-रूपाविर्भावनम् असौ यौगपद्यम् उपसद्य, बहुत्रापि सद्य एवापद्यते इति ।

[१६] तत्र बालैर् मिलनं, यथा,

दृष्टिर् बाष्पम् इता तनुः स्तिमितताम् अन्तर्मतिर् लीनताम् इत्थं सङ्गति-साधने तु निखिलेऽभीक्ष्णं गते व्यर्थताम् । किं सौख्यं किम् असौख्यम् एतद् इति च स्फूर्तिं विनावस्थितौ कञ्चित् कोऽपि न किञ्चिद् उज्झितुम् अभूच् छक्ति-प्रयुक्तश् चिरम् ॥४॥ [शार्दूलविक्रीडितम्]

[१७] गोभिर् यथा—

गावो हुङ्कृति-घोषणा वलयिताः कृष्णं लिहन्त्यश् चिरात् तद्-बाहु-द्वय-वेष्टनेन विलसत्-कण्ठ्यः समुत्कण्ठिताः । यत्नात् त्याजित-तद्-ग्रहाश् च पशुपैः क्षिप्ताश् च तस्थुश् चिरम् तास् तद्-वक्त्र-सुधाकर-द्युति-सुधा-पीतावतृप्तेक्षणाः ॥५॥ [शार्दूलविक्रीडितम्]

[१८] तद् एवं सति तस्य भाव-विशेषोद्भवः समुद्भाव्यते । पूर्वम् एवायं श्री-युत-कृष्णः पारावार-भविष्णु-स्थास्नु-चरिष्णु-दुःख-दान-धृष्णोः कृष्णाधिष्ण्यस्य कालियस्य निराकरिष्णु-तृष्णोऽपि, तत्-पत्नीभ्योऽपत्रपिष्णुतया चिराय तूष्णीं बभूव । सम्प्रति तु गो-गोपाल-काल-धर्मापात-जातासहिष्णुतया वर्धिष्णु-क्रोधः सुष्ठु जातः ।

[१९] ततश् च सावहित्थम् इत्थम् उवाच—अहो, वयस्याः! पश्यथ अत्रोदक-स्तम्भ-विद्या-कृतावकाश-प्रकाशमान-ह्रदिनी-ह्रद-स्थित-स्व-सदने कालियाख्य-मन्द-दन्दशूकस् तिष्ठति। तेन च दुष्ट-निष्ठ्यूतया सर्व एवाखर्व-विष-ज्वालया ज्वलिताः पर्यग्-देशा दृश्यन्ते । उपर्य् अप्य् उत्पातिताः पतत्रिणश् चात्र पतिता इत्य् आत्म-नेत्राभ्यां प्रतीयताम्, येभ्यस् तु प्राणा जगत्-प्राणाशन-भयतः सद्य एव विप्रतिपद्येव स्वयम् उत्पतन्तः कदापि न न्यवर्तन्त । सोऽयं पुनर् गरुत्मत्-कृतामृत-सेक एक एव काल-कुट-ज्वालयापि कृतालम्बः कदम्बः सुललित-दलादितया लालसीति । तस्माद् अस्योपरिग-कोटर-पिठरे स्फुटं तद् अनवद्यम् अमृतम् अद्यापि विद्यत इति प्रसह्याहम् आरुह्य पश्यानि । भवन्तस् तु गाः किञ्चिद् दूरचरतया चारयन्तश् चरन्तु ।

[२०] तद् एतद् वदन् विगत-कदनः कञ्ज-वदनः कदम्बम् अधिरुह्य परिकरं समूह्य, स्वयं किरण-गणामृत-घनाघनः सान्निध्य-मात्र-निर्मित-साधर्म्ये तस्मिन् कालिय-हर्म्ये निर्मल-जल-क्रीडा-कुतुकाय पपात—

[२१] यत्र च तत्र सर्प-ह्रद-गत-जलं धनुः-शतम् उदसर्पत् । तच् च श्री-व्रजराज-तपः-प्रताप-फलस्य सङ्ख्यातीत-बलस्य तस्य न चित्रम् इत्य् एव मन्तव्यम्, येन हि पौगण्डतया नातिप्रचण्डम् अपि तद् एव तद्-वपुश् चण्डांशु-कोटिवद् अतीवोद्दण्डतया तत्र कुण्डलीनां भाति स्म । ततश् च तस्यामर-वारण वारण-विक्रम-क्रमतया घूर्णद्-भुजापूर्ण-वार्-घोषण-सङ्घर्षणया घर्षितस् तद्-उत्कर्षासहन-समाजः सहसा तनूनपान्-महसाहि-राजः स्वीय-लीलान्तरीपान्तः स्वयं क्रीडा-हर्षतः स्मितं वर्षन्तं पीतांशुक-विद्युद्भरं कर-चरणाधर-रोहिताकरं वनमाला-शचीपति-चाप-धरं सुललित-नील-घन-वरं तम् एवाससाद ।

[२२] सम्प्रति तु कृत-यव-क्षार-सार-सन्ध-गन्धकेन्धन-वह्नीयमानम् एतम् आत्मना चछाद ननाद च । केवल-बलि-मानितामयासहिष्णुतया धृष्णग् असौ नाग-जिष्णुर् आर्तोऽपि न निवर्तते स्म ।

[२३] अथ कालियस्य वरुण-पाशपाशीयमानाभोगाशय-नीयमानाशी-राशीभ्यां याहङ्कृतिस् तस्याश् चूर्णी-कृति-कौतुकाय योगमाया-मय-कङ्कट-सङ्घटिताङ्गताङ्गतस् तृणावर्त-वर्तन-समुद्वर्तनः स मुहूर्तं तथैव वर्तते स्म, यत्र हि तस्य सद्-अहितस्य भोगिनः शतम् एकातिरेकाभोगा मर्कटिका-जालवद् विघटित-शक्तयः सन्ति स्म । आशिषश् च तूल-वर्ति-तुलां कलयामासुः ।

[२४] किन्तु यदा कदम्बाद् असौ कदम्ब-माली कालियालय-कालिन्दी-शम्बरम् अपप्तत् तदातितप्त-हृदयतया हाहा-कार-कृत-मिथः-क्रेङ्कारः स खिन्नः सखि-वारः स्खलच्-चरण-चारः सहसा तस्मिन्न् एव ससार । [२५] गावश् च शाव-सहिताः सहितास् तम् एवानुद्रावकताम् अवापुः ।

[२६] ततश् च स्वेषु विश्वेषु तम् एव ह्रदं सावेग-गदं प्राविशत्सु प्रतिदिशं गावश् च प्रविशन्तीत्य् एवं दृष्ट्वा परम-कष्टं स्पृष्ट्वानुपायाः पशुपाः नष्ट-प्राया भ्रष्ट-काया, यमुनायाः प्रह्वा इव कह्वासुर-जठराद् इव तत्-प्रत्यागत्य्-आशया परं प्राणन्ति स्म । तत्र च—

किं ज्ञप्तिः स्वपनं सुषुप्तिर् अथवा मूर्च्छा मृतिर् जीवनं भात्य् एवं नहि निश्चिकाय निखिलः सोऽयं सखीनां गणः । उस्राणां ततिर् अस्र-वृष्टि-कलितैः सा च प्रवाहैः पुनस् तर्ह्य् एषां हृदयं ह्रदं च तम् अथ क्ष्वेडैर् इवापूपुरत् ॥६॥ [स्रग्धरा]

[२७] तेषु च बहिर् ईदृग्-अवस्थेषु तथान्तर् अनवस्थेषु न कोऽपि प्रकोपि तद्-वृत्तं व्रजे वृत्तं कुर्याद् इति विचार्य दिविषद्-वर्य-व्रजेन मुहुर् उत्पात-व्रातं प्रत्यापय्य तम् अनुसञ्चार्यते स्म ।

[२८] तत्र व्रज-प्रजा-वचनं यथा—

दिवि भुवि खे चोत्पाताः कथम् इव तत्-कालम् उद्भूताः । आं नः सर्वेषां यः प्राणेष्व् अधि तत्-कृते त इमे ॥७॥ [उपगीति]

[२९] इति व्यग्री-भूय समग्राः प्रजाः स-ग्रामण्यस् तं व्रजाग्र-गण्य-समाजं कृष्णाग्र-जन्म-जन्मर्क्ष-महसि सम्भोजनाय जनायतनताम् आप्तवत्यः, किं बहुना, व्रज-मही-पति-पत्नी च व्रज-महिलाभिर् अपत्रपाम् अपहाय तत्राजिघाय । सन्दिदेश दूर-देशतः—

दुर्निमित्तम् उदभूद् बलं विना हा ययौ विष-दिशं बलानुजः । हन्त पूर्ण-समयः स नाययौ गोष्ठ-राट् कथम् इहास्ति निर्वृतः? ॥८॥ [स्वागता] इति ।

ततश् च—

देहं गेहं तत् तद् अर्थं च सर्वं धिक्-कुर्वन्तस् त्यक्त-तत्-पर्व-भोगाः । ते गच्छन्तः कालियानच्छ-कच्छं वात-व्रात-क्षिप्त-चित्ता इवास्थुः ॥९॥ [शालिनी]

[३०] भ्रातृ-प्रभाव-ज्ञानारामः श्री-रामस् तु तेषां शङ्कायाम् अनिशाम् अयन्न् अपि न तदानीं तद्-भावम् अवाप, किन्तु रिरक्षिषाम् एव । अन्यथा ह्य् अन्यथापत्तिर् एव स्याद् इति समुचित एव भावः स्वयम् एव योगमाययाचितः ।

[३१] अथ स्व-मनस्य् एवं स विविवेच, वयम् इदं मुहुर् उन्नीय नियमत एव जानीमः, यत् खलु तस्य खल-वंशदवहुत-वहस्य निरस्यमानता न केनाप्य् अकेनापि कर्तुं शक्यते । तथाप्य् एते केवल-स्नेह-बल-देहा विद्युत्-पातायमान-दुर्निमित्त-लब्ध-जीवन-सन्देहा निज-जीवन-मूलं पीत-दुकूलं प्रति गमनाय दुर्मदेहा वर्तन्ते । तस्माद् अरण्यारण्यङ्गज-दहन-सन्दहन-सहनतामन्द-समुद्दिष्ट-हिम-द्रव-सन्द्रव-समुत्कटता-गलत्-कट-वारण-दुर्गण-गणवद् आपाततस् तु मम वारणम् अपि न मंस्यते । यत् खल्व् एतेषां तद्-विश्लेषातिशय-शङ्किता-दुःखम् अनु मय्य् अपि दुःखं दुःखनन-मूलं जातम् अस्ति, तद् अपि न व्यञ्जनाय प्राञ्जलताम् अर्हति, प्रज्वलित-ज्वलन-वनम् अनु ज्वलनान्तर-सन्ताननवत् । तस्मात् केवल-मङ्गल-व्यङ्ग-व्यङ्ग-सङ्गमि-सद्-इङ्गित-विशेष-सङ्गितया त एते सम्भावित-तद्-भव्या भावनीया, न तु निराकरिष्णुतया । आवयोर् आवयो ह्य् एक-प्राणतां खल्व् एते मन्यन्ते इति ।

[३२] अथ स एवं विविच्य सहसा जहास । तद् अनु किञ्चिल्-लब्धाश्वासतया चलन्तश् च ते—

दुःखाघ्रात-प्राध्वता-मन्द-नेत्राः कृष्णाङ्घ्रि-श्री-लक्ष्म-लब्धावलोकाः । वर्त्मन्य् अस्मिन् पिच्छिलेऽप्य् अश्रुभिस् ते राम-प्राप्त-न्यस्त-हस्ता विचेलुः ॥१०॥ [शालिनी] यथा यथा विदधुर् अतीव शीघ्रतां तथा तथाप्य् अदधुर् अलं विलम्बिताम् । कथं कथञ्चन बत तं ह्रदं गता दशां तु कां समधुर् अमी न वेद्मि ताम् ॥११॥ [रुचिरा]

तत्र तु—

दृष्ट्वा कालिय-भोग-सङ्घ-वलितं गोपालकं गोपका नन्दाद्या बत गोपिकाश् च विदलच्-चित्ता यशोदा-मुखाः । हा शुष्काङ्ग-दशां महा-मलिनताम् अप्य् ऊहुर् इत्थं यथा तेषाम् आन्तर-वह्निनैषि बहिर् अप्य् उद्यातुम् इत्य् ऊह्यते ॥१२॥ [शार्दूल] मानुषान् बुद्धि-राहित्यात् पशून् इव निरीक्ष्य ते । पशूंश् च क्रन्दनान् मानुषान् इव क्लेशम् ऐयरुः ॥१३॥ [अनुष्टुभ्]

ततश् च—

तेषां सदा स्नेहमयात्मनां तदा त्रासात् तु शुष्की-भवतां हिमाद् इव । मिथः-समीक्षा-भवतापसङ्गमाद् भूयो बभूव द्रवता रवेर् इव ॥१४॥ [उपजाति ११]

स्नेहात् प्रवाहावलि-तुल्यतां यतां व्रजौकसां द्राग् विशतां विष-ह्रदम् । बालोऽप्य् अथावेश-वलद्-बलो बलो द्रुतं महा-सेतु-दशां ससाद सः ॥१५॥ [उपजाति १२]

[३३] उवाच च—

प्रीतिः किं न्व् अनुजे न मे? व्रज-पते तात व्रजाधीश्वरि श्री-रोहिण्य् अपि मातर्, अस्य तु सदा तत्त्वं परं वेद्म्य् अहम् । सत्यं वः पद-पङ्कजाश्रय-रुचां कुर्याम् अमुष्य क्वचिन् नैकस्मिन्न् अपि मूर्धजे क्षति-लवो भावी यथा गर्ग-गीः ॥१६॥ [शार्दूल]

[३४] तद् एवं प्रशस्तेन स्व-हस्तेन श्री-रामेण हस्त-वारणे कृते—

विष-ह्रदान्ताद् विनिवर्तिताश् च ते प्रतीयुर् एवाधि तद्-आत्मनः स्थितिम् । यत् काल-कूट-ज्वलनान्तरङ्गतं स्वं मेनिरे वीक्ष्य तद्-अन्तरे हरिम् ॥१७॥ [उपजाति १२] कालिय-ह्रदम् इते बक-शत्रौ गोकुलस्य रुदतः प्रतिशब्दात् । रोदसी च रुदती स्व-निरुक्तिं बाढम् अज्ञपयतां रुदसिज्भ्याम् ॥१८॥ [स्वागता] गोप्यो मिथः कण्ठ-विलग्न-कण्ठास् ता रोरुदामासुर् अलं विलप्य । स्मृतिं नयत् पूतनिकादि-नाशं यन् मातृ-सन्त्वाय मुहुर् बभूव ॥१९॥ [इन्द्रवज्रा] एवं स्व-गोष्ठम् अहिवेष्ट-विविक्षु वीक्ष्य सस्त्री-कुमारम् अतिदुःखितम् आत्म-हेतोः । कृष्णः सरोष-वितताङ्गतया तद् अङ्गं छिन्दन् श्लथं विदधद् आशु बलाद् उदस्थात् ॥२०॥ [वसन्ततिलक]

[३५] तद् एवं कृष्णस्योत्थानम् एव कालियस्य व्युत्थानं जातम् इति सर्वोऽपि जहर्ष । यथा—

तदा मुदा कलकल-गर्जितैर् जितं व्रजौकसां शिशु-सवयो-जरा-जुषाम् । दिवौकसां कुसुमज-वृष्टि-सृष्टि-युग्- जय-ध्वनि-ध्वनि-युत-तूर्य-लङ्घिभिः ॥२१॥ [रुचिरा]

[३६] ततश् च समुत्तेजित-तत्-तेजोभिर् उद्वेजित-चित्तः कुण्ठतावगुण्ठितोत्कण्ठतया दूरत एवोत्कण्ठतयातिष्ठन् मूढ-धीर् असौ गूढ-पात् प्ररूढ-क्रोधः स्वबोध-रोधतस् तं प्रतिद्रोग्धुम् उद्यतः सन्न्, उद्धत-बुद्धिस् थूत्कार-फुत्कार-दृष्टि-वार-कृत-कूटं कालकूटं प्रकटी-कुर्वन् गिरिकूटायमानः कर्तव्य-विह्वलतया जिह्वा-द्वय-समुदयेन मुहुः क्ष्वेड-बाडव-पक्वं सृक्वणी-द्वय-समुदय-लेहनाद् द्विजिह्व-लेलिहानाद्य्-आह्वयोऽस्मीत्य् उट्टङ्कनेन घटयितु-कामः सर्वतो दृष्ट-वपुर् बभूव ।

[३७] ततश् चाखण्डाहि-तुण्डिक-विद्या-पण्डितवद् उच्चण्डतया सकण्ठ-तुण्डावगुण्ठनाय स-दर्पम् अभितः सर्पति सर्पाशन-वाहने, सर्पोऽयम् अपि शिरोभिः कृत-परिसर्पः सर्पवद् एवापसर्पन्न् उपसर्पंश् च जिह्मगवद् एव जिह्मं गच्छंश् च परितो बभ्राम शश्राम च ।

[३८] तद् एवम् अहीनम् अहिनं प्रति सांयुगीनतारतोऽपि चिरतो लब्ध-च्छिद्रतयाभिद्रवन्न् एव तदीय-समग्र-ग्रीवाग्र-गण्य-मूल-नालम् एव बलानुजन्मा बलाद् अवजग्राह निजग्राह च ।

[३९] ततश् च विवशाङ्ग-सङ्घे तस्मिन्न् उरङ्गमे तु,

उद्यद्-रत्न-चितेषु पुष्ट-निटिल-प्रस्थेषु रङ्ग-श्रिया शस्तेषु स्फुट-नृत्य-कृत्य-कलना-लोभेन शोभेक्षणः । द्यो-विद्योतन-वाद्य-गीत-कलया संहाय साहायकं श्री-कृष्णस् तद् उपर्य् उदप्लुत मुदाम् उच्चैर् उदार-च्छविः ॥२२॥ [शार्दूलविक्रीडितम्]

ततश् च—

पुनर् व्रजः स्फुट-सुख-विस्मयारव- प्लव-श्रियास्पृशद् अमर-व्रजं दिवि । असौ च तं भुवि बत यत्र चोभयोः प्रतिध्वनि-ध्वनि-विभिदा न तर्किता ॥२३॥ [रुचिरा]

ततश् च—

शश्वद् गर्वद-पर्व-शर्व-डमरु-स्वर्-वाद्य-सर्वाद्यतां विन्दन् कुण्डलि-दण्डनाय रभसाद् उद्दण्ड-सत्-ताण्डवः । आराद् ऊर्ध्वितम् ऊर्ध्वितं भुजग-राड्-मूर्धानम् उन्मर्दयन् क्रोधाद् रोध-कुतुहलाद् धरिर् इहानर्ते ननर्त स्फुटम् ॥२४॥ [शार्दूलविक्रीडितम्]

अथ—

जयज्-जय-जयारवाः कुसुम-वृष्टि-सृष्टि-प्रथाः स्फुरत्-पुलक-पालयः प्रथित-शर्म-घर्माश्रवः । भुजङ्ग-शिरसी-शितुस् तद्-अनुकृत्य-नृत्यं सुरा भवाम्बुज-भवादयः प्रमद-गर्जम् आर्जन् मुहुः ॥२५॥ [पृथ्वी] सर्पस्यानन-जाल-कूट-घटनाद् उत्थानम् आत्मायुषा, निर्मञ्छ्याग्र-नखस्य तस्य नटनं तन्-मूर्ध्नि चात्यद्भुतम् । दृष्ट्वा श्री-व्रज-राज-तत्-प्रणयिनी-मुख्या व्रज-प्राणिनो नेत्रं गात्रम् अपि प्रफुल्लम् अभजन् मन्ये जगद्-व्याप्तये ॥२६॥ [शार्दूलविक्रीडितम्] मूर्ध-श्रेण्यां तस्य शून्ये च कृष्णे नृत्यं कुर्वाणे तु चित्रं तदासीत् । तेन क्रोधान् मस्तकं यद्य् उदस्तं तत्रानेन प्रापिता ताल-लत्ता ॥२७॥ [शालिनी] मुखै रुदिरम् उद्वमन् गरलम् उद्गिरन्न् अक्षिभिः स्खलन्-मणिक-मस्तक-स्थित-तद्-अङ्घ्रि-चिह्न-व्रणः । श्लथाङ्गकतयाजहद् अनुज-सङ्घजिद्-रङ्गतां व्यालोक्यत निजाङ्गनावलिभिर् एष कालीयकः ॥२८॥ [पृथ्वी]

[४०] ततश् चासाव् उपस्कीर्ण-विकीर्ण-मूर्त्या स्व-पौरुषापूर्त्यानन्य-गतितास्फूर्त्या तत्-कारण-ककारणा-निवारणाय तं नारायणम् एव मत्वा शरणम् अमन्यत ।

[४१] तद्-अङ्गनानां च—

न तावद् आर्द्रत्वम् अभूद् अमूषां बहिर्मुखत्वं यद् अबोध्य् अमुष्य । दृष्टे तु भक्त्य्-अङ्कुर-जन्मनि स्फुटं कृष्णं गतिं जग्मुर् अमूस् तद्-अर्थम् ॥२९॥ [उपजाति ११] काश्चित् कुमारान् अत्यर्थ-बालान् काश्चन ताश् तदा । काश्चिद् अण्डानि पुरतस् तस्य न्यस्य व्यनंसिषुः ॥३०॥ [अनुष्टुभ्]

[४२] हसति च भक्त-सान्त्वन-तृष्णे कृष्णे, तास् तु बहुधा स्तव-बुधा मृदाकुलाः पृदाकु-पत्न्यः सकाकु विज्ञापयामास । तत्र सङ्क्षेप-निक्षेपश् चायम्—

अस्त्य् एष स्फुरद-मतिः सदर्प-सर्पस् त्वं विष्वग्-विद् असि तथा कृपाम्बुराशिः । अस्मासु त्वद्-अनुगतास्व् अमुष्य पत्नी- भावश् चेद् अजनि यथा-यथं विधेहि ॥३१॥ [प्रहर्षिणी] दण्डं ते विदधतु ये स्व-सङ्ग-मात्राद् दुष्टत्वं प्रशमयितुं न शक्नुवन्ति । त्वत्-स्पर्शाज् झटिति ह्रदोऽपि सोऽयम् औज्झत् क्ष्वेडत्वं बलवद् अतीह नः समक्षम् ॥३२॥ [प्रहर्षिणी] मूर्खत्वं न इदम् अनुग्रहेऽपि यस्मात् त्वत्-स्पृष्टे स्फुटम् इह भाति दण्ड-बुद्धिः । दण्डश् चेद् अमुम् अपरैर् अदण्डयिष्यस् तं कर्तुं कथम् अदधाः पदारविन्दम्? ॥३३॥ [प्रहर्षिणी] सत्-पुण्यैर् इह खलु कैस् त्वद्-अङ्घ्रि-पद्म- स्पर्शोऽयं परिवलते भुजङ्ग-राजे । दुष्पापैर् अपि बत कैर् अमुष्य देहस् तद्-भावं द्रुत-मृति-लम्भाय वेत्ति ॥३४॥ [प्रहर्षिणी]

तस्मात्—

शीर्ष-च्छेद्यस्य यः कृष्णः शीर्ष्णि कालिय-भोगिनः । अन्वगृह्णात् पद-न्यासाच् चिह्न-श्रेण्या गतिः स नः ॥३५॥ [अनुष्टुभ्]

[४३] अथ हीने तस्मिन् अहीने सदयं तद्-अनुमोद-मानः क्रोधं विनयमानः कृत-यशोदा-यशो-दानः स्वाङ्घ्रि-सङ्घट्टन-त्रुटितात् कालिय-निटिलाद् अवतीर्य नातिप्रकटित-वीर्यस् तस्यावग्-वक्त्रतया स्थितस्याग्रे क्षण-कतिपयं करुणा-व्यग्रेक्षणतयावतस्थे । अथ वनमाली कालिन्दीय-ह्रदम् इव कालिय-ह्रदं दायति स्म ।

[४४] तदा सोऽपि लीयमान-दोषतया तदीय-रोषं प्रोषितम् अकरोत्, वलिताञ्जलि-करो दर्वीकरो विज्ञापयामास च—

[४५] यद्यपि वृजिन-गामिनो मम वृजिनम् एव स्वभावस् तथापि तु,

गुणो वा दोषो वा भवति मयि यः कृष्ण स भवद्- वशस्थायी नित्यं मम तु कृति-साध्यं किम् अपरम्? । त्वद्-अङ्घ्रि-द्वन्द्वस्याश्रयणम् इति चेत् तच् च शिरसि त्वया मे विन्यस्तं मम तु कृति-साध्यं किम् अपरम्? ॥३६॥ [शिखरिणी]

[४६] तस्मात् काम् अपि दिशं स्वयं एव माम् आदिश ।

[४७] अथ स च सदेश-रूपम् इदम् आदिदेश, अहिपते, त्यक्त-दौर्जन्यतया धन्यस्यापि तव यस्माद् अहिता स्वयं जगद्-अहिता, तस्मात्—

नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् । त्वं ज्ञात्य्-अपत्य-दाराढ्यो गो-नृभिर् भुज्यते नदी ॥ [भा।पु। १०.१६.६१] द्वीपं रमणकं हित्वा ह्रदम् एतम् उपाश्रितः । यद्-भयात् स सुपर्णस् त्वां नाद्यान् मत्-पाद-लाञ्छितम् ॥ [भा।पु। १०.१६ ।६४]

रेफं विसृष्टं निर्मायाद् अवसाने पदान्तगम् ।

इति शासन-विज्ञानां मतम् एव मतं मम ॥३७॥ [अनुष्टुभ्] अधुना कालिय यस्मान् मत्-पद-कृत-लक्षणस् त्वम् असि । तद् अमुत्र च सम्भविता मत्-पद-कृत-लक्षणः स भवान् ॥३८॥ [उपगीति]

[४८] अथ दण्डवद् एव पतितः कुण्डलि-पतिस् तेन नखर-सुधाकराकर-कर-सरसिरुहं शिरसि निधाय सुधा-सिक्त-तनुतया नीरुग् निरमायि ।

[४९] एतद्-अनन्तर-लीला तं पूजयामास [भा।पु। १०.१६.६५] इत्य्-आदिकं श्री-शुक-वचनम् अनूद्य, महत्त्वं च इत्य् आदिना विशद्यते ।

तं पूजयामास मुदा नागः पत्न्यश् च सादरम् । दिव्याम्बर-स्रङ्-मणिभिः परार्ध्यैर् अपि भूषणैः । दिव्य-गन्धानुलेपैश् च महत्योत्पल-मालया ॥ पूजयित्वा जगन्नाथं प्रसाद्य गरुड-ध्वजम् । ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥ सकलत्र-सुहृत्-पुत्रो द्वीपम् अब्धेर् जगाम ह । तदैव सामृत-जला यमुना निर्विषाभवत् ॥ [भा।पु। १०.१६.६५-६८] कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्य-स्रग्-गन्ध-वाससम् । महा-मणि-गणाकीर्णं जाम्बूनद-परिष्कृतम् । उपलभ्योत्थिताः सर्वे लब्ध-प्राणा इवासवः ॥ [भा।पु। १०.१७.१३-४] इति । महत्त्वं च परार्ध्यत्वं चात्र दिव्यत्वम् उच्यते । दिव्यत्वं तेषु कृष्णस्याप्य् अङ्गे देदीप्यमानता ॥३९॥ [अनुष्टुभ्] अतोऽस्यामूनि नित्यानि स्थितान्य् अरुणजा-ह्रदे । तेषु कौस्तुभ-नामा तु मणिः कृष्णे विराजते । नक्षत्रेषु सदा पूर्ण-चन्द्रवत् पूर्व-पर्वते ॥४०॥ [अनुष्टुभ्] जगन्नाथं च यत् प्राह तथा तं गरुड-ध्वजम् । तत्राश्चर्यं न चाचर्यं द्वारकायां हि विश्रुतम् ॥४१॥ [अनुष्टुभ्] काद्रवेयस्य देवाभ-नाना-शक्ति-विधारिणः । वर्त्मास्य सुर-वर्त्म स्याद् इति युक्त्यावगम्यते । अन्यत् तु जीव-पीडाय तत् कथं कृष्ण-सम्मतम्? ॥४२॥ [अनुष्टुभ्] वारि-लीला-परामर्शः स्पर्शश् चाघरिपोर् यदा । तदैषामृत-तुल्यासीद् यमुनेत्य् अवगम्यते ॥४३॥ [अनुष्टुभ्] कृष्णस्याक्लिन्न-वेशत्वं कालियेनोपवाहतः । अकस्माद् दर्शनं यत् तन् नागालि-परिवारितः । तस्मात् कृष्णं ह्रदाद् इत्य् आद्य् उक्तं युक्तं प्रकाशते ॥४४ इति । [अनुष्टुभ्]

[५०] तन्-निर्वऋनने विशेषस् तु वर्ण्यते,

कोलाहलस् त्वरितता विवशाङ्ग-चर्या कम्पः स्खलद्-वचनता स्रवद्-अस्रता च । वीक्ष्यादि-तृप्ति-परिहानिर् इति व्रजस्थाः सौख्येऽपि दुःखम् अगमन् प्रतिलभ्य कृष्णम् ॥४५॥ [वसन्ततिलका] आगतोऽयम् इति केवलं मुदा स्फूर्ति-पूर्तिर् अभवद् व्रजौकसाम् । हन्त येन न वपुर् न वा मनः किञ्चिद् अञ्चितुम् अवाप शक्तताम् ॥४६॥ [रथोद्धता]

ततश् च—

स्तम्भः सन्धिषु बन्धनं पुलकितासान्द्र-व्रणाभ-स्थितिर् बाष्पः स्रस्त-विलोकनः स्वर-भिदा कण्ठान्तर-स्तम्भिनी । कम्पः पातवद्-अन्त-दन्त-वलयः स्वेदस् तनु-द्रावणः स्याद् एवं कृत-वीक्षणं स्व-सुहृदां व्यग्री-बभूव प्रभुः ॥४७॥ [शार्दूल]

[५१] अथ प्रथमत एव प्रथमतः स्थिताः समान-वयसः सवयसस् तस्मात् तम् उत्तीर्णं निर्वर्ण्य विस्तीर्ण-तद्-वर्णामृत-भृत-नयनतया स्थिताः क्रमतस् तद्-अङ्ग-सङ्ग-रङ्ग-भूमिताम् इतास् तद्-आलिङ्गन-रिङ्गत्-सुख-तरङ्गतां गता न तावत् प्रतिस्वम् अयम् अहम् अस्मीति तस्मिन् न्यवेदिषुः ।

[५२] यद्वद् एतांस् तद्वद् एव श्रीमन्-नन्द-जन्मा क्रम-भजन-सम्माननया जननीं जनकं सुहृज्-जनताम् अपि जनितानन्दान् जनयामास, यतस् तत एव ते सर्वे स्तब्ध-देहा लब्ध-सुख-देहा बभूवुः । [५३] अहो, यदि सत्य-वचसस् ते नावदिष्यंस् तदा तद् इदं वा कः प्रतीयात्? यत् खलु गावश् च मृगाश् च तद्-आगमनं मृगयमाणा व्रज-जने चाभेदम् आययुः, यच् च नगा अपि तद्-दुःखतः शुष्क-चराः सम्प्रति पुष्कल-सुखास् तत्-काल-कलित-पल्लवादिभिः प्रफुल्ला बभूवुर् इति । तत्र च—

सुहृल्-लोका ये ये सुर-रिपु-जिता यर्हि मिलितास् तदा सत्यं सर्वे समयुर् अभितः प्रीतिम् अतुलाम् । यदा तु श्रीमाता सपदि मिलिता प्रेम-विवशा तद् आस्तां तद्-वार्ता, सकल-जनतागाद् द्रव-दशाम् ॥४८॥ [शिखरिणी]

[५४] अथ रामं स्वीय-प्रभाव-भावनारामतायाम् अप्य् अन्तर् व्रज-जन-दुःखतः शुष्कं, तादृशतायाम् अपि बहिर् लम्भित-गम्भीरता-भृद्-उपालम्भ-सम्भवद्-विकाश-हासं हसन्न् एव नमस्कुर्वन्न्, आत्मन्य् आलिङ्गनं लम्भयंश् च चिरं तद्-उत्सङ्ग-सङ्गी बभूव ।

[५५] अथ तत्र जनानां विमर्शः,

हरेर् एषा प्राप्तिर् यदि भवति निद्रावकलिता तदा शोकोऽप्य् एष स्वयम् अयति तत्रैव तुलनाम् । असौ जाग्रद्-भूता स्फुरति यदि वा तर्हि नितराम् अभीष्टं सम्पन्नं कथम् अपि न शर्म-प्रतिहतिः ॥४९॥ [शिखरिणी]

[५६] अथ सर्वत एव निध्यानाय नष्ट-निध्य्-आप्तिवत् कृष्णं मध्ये निधाय परितश् चरित-निवेशेषु परिधि-वेशेषु खर्वित-व्रीडेषु व्योम-चारिणां लोचन-क्रीडेषु सर्वेषु स्त्री-पुंसानां खर्वेषु प्रथम-प्रथित-भावि-भविका ब्रह्म-विदः सम्प्रत्य् अपि तं प्रत्य् आशिषां कृत-दाना व्रज-पतिं प्रत्य् उपालम्भमानाः प्रत्याययामासुः । यथा—

श्री-नन्द-राज तनयस् तव सर्व-शत्रु- मर्दीत्य् अभासि मुहुर् अप्य् अलम् अस्मकाभिः । प्रेम्णा तथापि निखिलं बत हन्तुम् ऐच्छः पुण्येन केवलम् असौ द्रुतम् आजगाम ॥५०॥ [वसन्ततिलका] इति ।

[५७] तद् एवं शोकेन हर्षेण कालम् अजानति व्रज-लोके रजनिर् अजनीति तत्रैव क्षुत्-तृष्णाति-क्रमि-कृष्णातिक्रम-खेदेन कृशतां गताः प्रत्यूषं यावद् ऊषुः । तत्र च सर्वाम् एव शर्वरीं व्रजोर्वीश-पत्नी सपत्न-शङ्कया सुतम् अङ्कत एव निवेशयन्ती परमावेशेन मुहुर् अपि तन्-मुख-निरीक्षण-सुख-सक्षणापि तद्-वृत्त-स्मरणेन तस्माद् विलक्षणा प्रभातम् आससाद । हन्त हन्त क्षुद्वन्तं तम् अपि गवां दुग्धम् अपि दुग्धं विधाय न पाययामास, सत्यं सर्वम् अत्रत्यं विष-सकलङ्कम् इति शङ्कया ।

[५८] रात्रौ पुनर् अन्यद् अपि चरित्रं धन्यं जातम् । यदा कालियस्य कालिन्दी-जलान् निष्कलनम्, तत्-कालत एव गूढ-पुरुष-मुखात् परुषतया कलितवांस् तदा स दुर्जन-वतंसः कंसश् चिन्ता-सन्तत-स्वान्तया निरीह इवासीत् । [५९] चिन्ता यथा, हन्त, हन्त! सन्ततम् अस्माकम् एव वीरास् तस्माद् उन्मन्थम् आगच्छन्तः सन्तीति दुष्कीर्ति-वह्नि-मुख-पिशाचि-मूर्तिर् अतीव हसन्ती हसन्तीव मदीयान् ज्वलयन्ती त्रिभुवनम् अयन्ती च नरीनर्ति । [६०] हंहो बलीयान् अपि कालियः सपदि विलीयमान-बलतां वलते स्म । तस्य तद् इदं निर्वासनं निर्वासनम् एव च मन्यामहे, यतो वयम् अपि निर्वासनतां गताः । तस्माद् अधुना तथा विधेयं, यथास्मदीयानां नापचारस् तस्य चापकारः स्यात् इति ।

[६१] तदानीम् एव चान्यतः स व्रज-राजात्मज-व्रज-वासिनां तरणिजा-तीर एव वासम् आकर्णयन्न् अभ्यर्ण-गतान् आज्ञापयामास, भवन्तस् तत्र प्रविशन्तः समन्ततः प्रवलतया ज्वलनं प्रज्वलनम् आचरन्तः स्वयम् अन्तर्धानम् आचरन्तु ।

[६२] ततश् च तेषु तथा-कृत-चरितेषु विपोलति तु दवानले शीघ्रं पलायितेषु तेषु च सर्व एव व्रज-भवनाः स्नेह-वृत्त-लब्ध-सम्भावनाः साग्रजं व्रज-राज-तनूजम् एवाव्रज्य विज्ञापयामासुः—

शङ्कामहे न मृत्योश् च न च कृच्छ्र-प्रवाहतः । किन्तु त्वन्-मुख-चन्द्रांशु-दर्शनाभाव-वैशसात् ॥५१॥ [अनुष्टुभ्]

ततश् च—

हरेः फुत्कार-मात्रेण निर्ववौ दव-दीपकः । उत्प्रेक्षन्ते तु मुनयस् तस्य तत्-पान-कर्तृताम् ॥५२॥ [अनुष्टुभ्]

[६३] तद् एवम् अहितेन य उपाहित उपाहितस् तस्मिन्न् अपवाहिते सर्व एव त्राण-प्राणाः प्रभाते च प्रभाते, तत्-प्रभावत एव यथावस्थितं व्रजं व्रज-वासिनः सानन्दं तम् अन्व् अविन्दन्त । किन्तु तस्मिन्न् एव मधुरता-कलिले कालिन्दी-ह्रद-सलिले सङ्कर्षणेन कृत-कृष्णाकर्षणेन विहरता सखिभिर्, अखिलं सह-धवला-व्रजं व्रजम् अपि समाहरता यदा बहलं कुतूहलं जातम्, तदा तेन गृहाय गमनम् अनुज्ञातम् ।

[६४] तथा च गमनं यथा—

वाद्यैर् नृत्यैः प्रगीतैः श्रुति-शिव-पठनैर् दिव्य-भौम-प्रसून- प्रवृट्-कल्पाभिवर्षैर् जय-जय-निनदैः शर्म-कोलाहलैश् च । कृष्णं मध्ये विधाय प्रकटतर-महानन्द-निर्व्रीड-भावान् नृत्यन्तस् ते व्रज-स्था व्रजम् अभिविविशुः खं यथा ज्योतिरोघाः ॥५३॥ [स्रग्धरा]

[६५] तद्-अनन्तरं च धवलाः परतश् चालयित्वा तत्-पूर्व-काल-पालकासद्भावेऽपि श्रीमतां तत्र-भवताम् एषां प्रभावेण तत्रोदपात्र-मात्रं न विकल्पम् आगाद् इति स्वल्प-परिभवायाप्य् अकल्पमाने समस्त-व्रजे यातयामम् अपि यातयामतां नागतं तद्-घृत-पक्व-प्रचुरान्नम् इति सद्यस्तनम् इव राम-पर्वणि पूर्वाह्नेतनं गृहान्तः-सङ्गृहीत-जेमन-सामग्री-समुदयं सर्व एव ताव् अग्रजानुजाव् अग्रतो विधायाव्यग्रं सम्यग् रसयामासुः ।

[६६] तद् एवम् उद्घटित-गीः-कण्ठः स मधुकण्ठः समापयामास—

ईदृशस् तनयो जातस् तव व्रज-नराधिप । कंसादीन् दमयामास कालिय-दमनेन यः ॥५४॥ [अनुष्टुभ्]

[६७] तद् एवं, तरीयमाणेन हरिणा वरीयसा व्रज-परीवारेण सरिताव् इवातरीषातां ते आपदाव् इति सुखद-वृत्ते सभ्यानां तल्-लीला-समाधेर् अभ्यवकर्षणाय स्तवनामृत-वर्षणाय च साञ्जलि-स्थितयोस् तयोश् चिराद् बहिर् अवहित-तद्-उपसेवाः पूर्ववद् एव स-व्रज-देवाः सर्वे स्वं स्वं कार्यम् आसेदुः ।

इति श्री-श्री-गोपाल-चम्पूम् अनु

कालिय-दव-चण्डता-दण्डनं नाम

त्रयोदश-पूरणम्

॥१३ ॥

(१४)

श्री-श्री-गोपीजन-वल्लभाय नमः

१५। अथ कैशोर-लीला

१०। अथ चतुर्दशं पूरणम्

१६। गदर्भासुर-मर्दनम् श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।

गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥१॥

[१] तद् एवं गोलोक-विलासे श्री-गोपाल-पाल्यमान-गोपालानां नित्य-लोकः श्री-गोलोकः कथितः । तत्र च श्री-गोपराज-सभायाम् अपूर्व-वीक्षित-कवि-क्षितिपति-कुमार-सुकुमार-कुमार-युगलावकलनम् उद्भावितम् ।[२] तद्-अनन्तरम् अपि बाल्य-विलासे तद्-युगलेन कृष्ण-बाल्य-चरित-वर्णनं कालिय-दलन-लीलावसानम् आचरितम् । सम्प्रति तु तत् प्रथितं कैशोरचरितम् आख्यायते । [३] तद् यथा—

अथ दिनान्तरे च पूर्ववद् एव व्रज-नरदेव-सभान्तरे तयोर् एकतरः समुत्कण्ठतया स्निग्धकण्ठः स्वगतम् इदम् उवाच—[४] अथ कैशोरं वर्णनीयम् । किन्तु रहस्य-रस-हारि-प्रसभायां सभायाम् अस्यां यथा लज्जा न सज्जा स्यात् तथा युज्यते । [५] यदि च जातु निज-माधुरी-बुभुक्षित-कुक्षिम्-भरिणा हरिणा स्वक-सुखावहम् इति रहस् तद् अनुयुज्येवहि, तदा तद् उचितम् एव तद्-उपचितम् आचरिष्यावः इति ।

[६] अथ स्पष्टं तु व्याचष्ट—ततश् च स्पष्टं कृत-गमायां षष्ठ-समायां समुल्लसित-सम्मति-मये जन्म-तिथि-समये हर्ष-समृद्धि-प्रद-वर्ष-वृद्धि-पर्वणि सर्व-निःश्रेयसम् आविस्तरां विस्तारयतः समस्तं विनिस्तारयतस् तस्य श्रीमद्-व्रजराज-सुतस्य विश्वेषाम् एव मनश् चोरं कैशोरम् उदयाञ्चक्रे । तथा हि—

राज्यं सम्यग् उपेत्य कृष्ण-वपुषि त्रैलोक्य-लक्ष्मी-मये क्रीडाभिर् लघु निर्गमय्य समयान् औदार्य-पर्याकुलम् । पात्राय स्वयम् आगताय गुणितावासाय सद्-वेदिने कैशोराय निजं प्रदाय विषयं पौगण्डम् अन्तर्दधे ॥२॥ [शार्दूलविक्रीडितम्]

ततश् च—

दृष्टि-प्रसाद-कृत-सामभिर् अंशुदानैः शश्वन् मनोहरण-निर्मित-बुद्धि-भेदैः । अर्थान्तराभिविनिवेशज-भाव-दण्डैः कैशोरकं वशयति स्म हरेः समस्तम् ॥३॥ [वसन्ततिलका]

तत्र च,

मुखे पूर्तिः कान्तिर् नयन-युगले दैर्घ्यम् अरुण- प्रभा हृद्य् उच्छ्रायः प्रततिर् अपि मध्ये तु कृशता । इतीदं सौन्दर्यं यद्-अवधि मनाग् अप्य् अधिजगे जगन्-नेत्र-श्रेणी तद्-अवधि हरौ तेन चकृषे ॥४॥ [शिखरिणी]

[७] तद् इत्थं तज्-ज्येष्ठश् च निर्दिष्टः ।

[८] तदा च ताल-फल-पाकावसरे वर्षा-प्रसरे कदाचिन् निखिल-सुख-वर्धनस्य गोवर्धनस्य गिरेर् आग्नेय्यां हरिति हरि-रामादयः सामोदा गाश् चारयन्तः सन्ति स्म । [९] ततश् च पूर्वानुभव-सम्पातातीतं पूर्व-वातानीतम् अतिदूरतः सजातीय-पूर-धरं पक्त्रिम-ताल-फल-जाल-सौरभ्य-भरम् उपलभ्य, पूर्वत एव तत्-कीर्ति-विवर्तित-चित्ता व्रज-वर्तिषु वित्तास् ते सर्वं-सहायाः स्पृहणीयाः सर्व एव तयोः सहाया हृदि स्पृहयाम्बभूवुः—राम-कृष्णाभ्यां वलिता वयम् इतश् चलिता रास-भासुर-राज-भवनं ताल-वनं तत्-पाल-गणम् अपि तथा-विधं निभालयितुं नूतन-कुतुकाः स्म । ततः स्व-बुभुक्षा-सुक्षामता-लक्ष्य-विनोदाद् इमौ विनुदाम इति ।

[१०] ते च श्रीदाम-सुबल-स्तोककृष्ण-शवला बल-कृष्णयोः सम-बला लब्ध-मर्माणः सधर्माण इत्य् अतएव शश्वद् अखिलतया सखितया विराजन्ते । ययोर् एव समं वीर्यम् इत्य् आदिकम् ईर्यते इति । ततः सततम् एव क्रमते तत्-पराक्रमे तेषां बुद्धि-क्रम इत्य् अकृत-शङ्काशेषेण प्रणय-विशेषेण जिघत्सा-मिषेण च तद्-अर्थं भ्रातृ-बलं बलभद्रं प्रार्थयामासुः, यथा—

तालानां वनम् अत्र पक्त्रिम-फलं निर्हारि पूरं यतः सौरभ्यं बत दूरम् एति तद् इदं भोगं विना निष्फलम् । श्रूयन्ते हि खरा नराशन-करास् तस्याधिपा इत्य् अदः श्री-रामायत-दोर्-युगार्पय तथा श्री-कृष्ण दुष्टापह ॥५॥ [शार्दूलविक्रीडितम्]

[११] आयत-दोर्-युग इत्य् अनेन च ध्वनितम् इदम्—

महाबाहुतया राम तर्क्यसे त्वं च विक्रमी । न तथा लक्ष्यथाः क्वापि लक्षणीयस् तु सम्प्रति ॥६॥ [अनुष्टुभ्] इति ।

[१२] श्री-रामस् तु स-स्मितम् उवाच—भो भवन्तो लोभवन्तो भवन्तोऽप्य् अस्मत्तः प्रति प्रतीयध्वे, यतो मुग्धाः! नियुद्धाभिमुखैर् भ्रू-भङ्ग-सूचित-शौटीर्य-सुखैः प्रभवद्भिर् भवद्भिः कदाचिद् आवाम् अपि पराभवम् आसाद्यावहे । तत् कथम् आवाम् एव याच्यावहे ?

[१३] ते च प्रोचुः—सर्वतोऽप्य् अतिगुणवन्तौ भवन्तौ खल्व् अस्माकं सारौ राज-कुमारौ । राज-नीति-रीतिश् चैवम् एव यद् राज-कुलम् एव व्रियते पुरस्क्रियते च । मृगयायां मृग-ताडनवन् न पुनर् अन्येन स्वयम् अग्र-गण्येन भूयते । यदि तत् कुलं परम-वीर्याकुलं भवति, तदा तु किम् उत? तत्र चाग्रजतया भवतः सदापाग्र्यतो नाग्र्यायते । तस्माद् यद्य् अस्मद्-इच्छा-पूरणाय भवतोर् इच्छा सङ्गच्छते, तदा नान्यद् अनुमन्यताम् ।

[१४] तद् एवं सह-प्रहसिते शुभ्रांशु-सिते कृष्णाग्रजे स्वयम् अग्रतो व्रजे सिंह-नादम् आददाना दामोदरादयः सामोदं तद्-अनुप्लवाः प्लवमानतया तद्-वनाय तद्-अवस्था एव प्रतस्थिरे । गास् तु स्व-स्थान एव स्थापयामासुः । प्रस्थाय च रामम्,

सोपालम्भम् इवावदंस् तम् अनु तद् बाहू च मित्राणि यत् तेन द्राक् स च सेर्ष्या-चित्तम् इव तां गत्वा तु तालावलिम् । सर्वाम् एव भुजायुगेन युगपद् विक्षिप्य सङ्घट्टयन् विभ्रष्टानि मिथः फलानि विदधे घृष्टानि दिग्दन्तिवत् ॥७॥ [शार्दूलविक्रीडितम्] तज् ज्ञात्वास्र-परासभाश् च परितः साक्रन्दम् अभ्याययुर् यान् दृष्ट्वा पशुपाः स-माधव-बलाः शश्वद्द् हसन्तः स्थिताः । हासावेश-वशात् कृतानवहितिं प्रत्यक् पदाभ्यां बलं वज्राभ्याम् इव धेनुकस् तम् अनुदत् तच् चैष नाबुध्यत ॥८॥ [शार्दूलविक्रीडितम्] न ज्ञातवान् अपि यतः स तु तं प्रहारं तेनातिरोष-भर-नास्ति-विवेक-चर्यः । भूयः पराक्-स्थिति विनर्द्य विकीर्ण-लत्तस् तेनाथ वत्सक इवारचि धेनुकाख्यः ॥९॥ [वसन्ततिलका]

[१५] अथ ब्रह्माण्डम् अपि खण्डयितुं प्रचण्डता-मण्डिताच् चण्ड-चण्डीश-शूलाद् अप्य् उद्दण्ड-प्रहारेण बल-भुज-दण्डेन ताल-मण्डल-मण्डलेश्वर-शिरसि चक्रीवच्-छक्रारिर् विचकरे । तेन च ताल-परावर-परस्परासु यः खलु निहित आवेग-संस्कारः प्रलय-जात-दुर्वार-प्रभञ्जनाकारः, स तु हिन्दोलयंस् तत् तद् उपरिगम् अर्धम् अर्धम् अग्नि-यन्त्र-प्रक्षिप्तम् इव विक्षिप्तं विधाय प्रायः सर्वम् एवाखर्व-ताल-खर्व-मयं तद् वनं निमेष-मात्रेण वित्रोटयामास । यत्र स्वयं तु भवन्तु तृण-राजाः खल्व् इमे, तथापि तृणान्य् एव इति बलभद्रश् चिन्तयामास च ।

[१६] अथ तद्-अनुगता देव-विस्पर्धिनः परेऽप्य् अस्वरतया गर्दभा गर्दन्तः प्रतिघात् प्रतिघातम् आचरन्तः सहसा रुद्धाध्वानः सह युध्वानः पर्यागतास् तृणवन्-मताः परमानन्दाराम-राम-कृष्णाभ्यां हसद्भ्यां विलसद्भ्याम् एवाखव इव धृतासव एव तुच्छीकृत्य गृहीत-पुच्छ-चरणास् तेषां ताल-भक्षण-सौकर्यार्थम् इवाधिमध्याम् अध्यवस्थित-तृण-क्ष्मापत्य्-उपरि क्षिप्रम् एव परिक्षिप्ताः क्षपित-जीविताः क्षिति-निपतिताः सह निस्तल-ताल-फलैः केतव इव राहुभिर् दिनानि कानिचित् कंस-पक्षीयान् अभीषयन्त ।

रासभान् शमयितुः कियद् भवेत् पौरुषं तद् इति नावमन्यताम् । यद् दिविष्ठ-पटली तदापि तौ वाद्य-गीत-कुसुमैर् असेवत ॥१०॥ [स्वागता]

[१७] अथ हास-सहितम् उपजहास च, सा मघवत्-प्रधाना धेनुकम् अघजिद्-अभिप्रायम् अभिप्रयती । यथा,

अघासुरः कालिय-कद्रु-जन्माप्य्

असोढ वीर्यं यदि नास्मदीयम् । पुत्री-प्रमर्दिन्, बत गर्दभ त्वं कर्तुं कथं धार्ष्ट्यम् इयज् जगन्थ? ॥११॥ [उपजाति ११]

[१८] अथ सद्यः पितृ-वन-विलास-ताल-वन-वास-रासभ-शव-स्पृष्टानि तानि तालानि न तु तैः परामृष्टानि, न च तदीय-तृणानि गावस् तर्णाविताः, किन्तु तद्-विसृष्टानि तानि केचिद् इतर एव मानवा गावश् च विगत-साध्वसाध्वतया चिरं साध्व् आस्वादितवन्तः ।

[१९] तद् एवं नृ-जग्धं तं स-गणं क्रोध-दग्ध-सूक्ष्म-देह-पर्यन्तम् आचर्य श्रीमान् कृष्णस् तु साग्रजः सह-सखि-व्रजः पुरस्कृत-धेनुर् वादित-वेणुर् व्रजन् व्रजम् आजगाम । यथा,

कमल-दल-विशाल-लोल-नेत्रः सखि-जन-गीत-पवित्र-चित्र-कीर्तिः सह-बलम् अविशद् व्रजं स-वेणुं क्वणित-कलं कलयन् व्रजेश-सूनुः ॥१२॥ [पुष्पिताग्रा] तं गोरजश् छुरित-कुन्तल-बद्ध-माल्य- सम्बद्ध-पिञ्छम् अमलेक्षण-चारु-हासम् । आनन्दित-वेणुम् अनुगेडित-पुण्य-कीर्तिं गोप्यः स-तृष्ण-नयनाः परितः समीयुः ॥१२अ॥ [वसन्ततिलका]5

[२०] तद् एतत् पर्यन्तम् उदन्तं समुदन्तः कथयित्वा तत्र च कृष्ण-मनश्-चोरीणां नव-किशोरीणां तन्-मुख-विधु-दर्शन-शात-जात-भ्रू-भङ्ग-तरङ्ग-सङ्गतानुराग-सागर-गरिमाणम् अनुस्मृत्य विस्मृत-सर्वेन्द्रिय-कृत्यः स-बाष्प-कण्ठः स्निग्धकण्ठस् तस्यां सभायां मुहूर्त-द्वयं मूर्त-भावम् एवाससाद । [२१] श्रीमद्-व्रजराजादयस् तु तद्-अभिप्राय-जानानाः सदयतया तदीय-सान्त्व-विधये सावधाना नाना-विध-विधानम् आचरन्तः सर्व एव चिन्तातुरा बभूवुः ।

[२२] तत्-तद्-विधानस्य चाकिञ्चित्-करतायाम् अविरतायां मधुकण्ठ एव तान् स्फुरद्-उत्कण्ठः सान्त्वितान् विधाय भ्रातुः सर्वेन्द्रिय-कुण्ठता-शान्तये तदानीन्तन-व्रज-राज्ञी-सन्तत-तल्-लालन-सङ्गानम् आततान । यथा—

हरिणा हलिना सह रिपु-दलिना । रजनी-मुखम् अनु जननी-लालनम् इति कलितं जित-कलिना ॥ ध्रु ॥ निर्मञ्छन-नीराजन-मार्जन-वदनालोकन-रचनम् । मर्दन-मज्जन-संवस्त्रणतः पश्चात् पुण्ड्रक-सचनम् ॥ रस-चय-योजन-भोजन-पूरण-सुरभित-नीरास्वदनम् । अगुरु-द्रव-युतिर् अथ ताम्बूल-स्वदनं सुख-संवदनम् ॥ सुकृति-जनं प्रति शय्या-संस्कृति-समनुज्ञाम् अनुशयनम् । प्रिय-सख-सङ्गतिम् अनु सेव्य्-अनुगतिम् अनु च मुदाम् अतिचयनम् ॥१३॥ इति । [७ x ४]

[२३] तद् एवम् अतिपरिचरितम् । हरि-चरित-वर्णनं मधुर-राग-नीरन्ध्रं कर्ण-रन्ध्रं प्रविशद् एव तं मूर्च्छाम् ऋच्छन्तम् अपि जागरयामास, नाम-धेयम् इव निद्रा-लब्ध-चिद्-राहित्यम् ।

[२४] अथ स्वस्थावस्थतया कुण्ठता-रहितस् तादृश-गुण-महितः स्निग्धकण्ठः स-बाष्प-कण्ठम् उवाच—

सोऽयं गोपाल-भूपाल तनयस् तव निर्दयः । मुग्धं च मद्-विधं मुग्धं करोति स्वैर-लीलया ॥१४॥ [अनुष्टुभ्]

[२५] तद् एवं वृत्ते निवृत्ते सर्वत्र च व्रज-जने गृह-वर्त्मानुवृत्ते नित्यवद् एव व्रज-महेन्द्र-तनूजस् तौ सूत-राज-तनूजौ सङ्गत एव निनाय । नीत्वा च तयोर् आत्मना तृतीयः सन् प्रसङ्गतः प्रच्छन्नतया पप्रच्छ—कथयतं, कथम् एतावान् कस्मान् मूर्च्छावेशः क्लेश इव परामृष्टः? इति ।

[२६] उभौ तु स-गद्गदं जगदतुः—किं ब्रूवहे, भवन्त इव सर्वम् अनुभवन्ति इति ।

[२७] कृष्णश् च स-तृष्णम् उवाच—जानीम एव केवलं न, किन्तु तदानीं स्वयम् अपि नितराम् आचरामस्, तथापि तद् वर्णनम् आकर्णयितुम् इच्छामः । तथा हि—

स्वयम् अपि यत् पुरु रचितं तद् यदि हृदयं तदा सदा श्राव्यम् । काव्यं निज-सचितं यत् तद् इदं युवकां परस्परं शृणुथः ॥१५॥ [गीति]

[२८] तस्मात् प्रथमं तावत् प्रेयसी-गणाधिकाया राधिकाया बिम्बोष्ठी-गोष्ठी-मध्यम् अध्यास्य व्यस्यताम् एषा पटीयसी रस-परिपाटी ।

[२९] उभौ स-बाष्पतया परस्परं निरूपयन्ताव् ऊचतुः—

यद् अन्तर् यस्य सर्वं तत् तस्य जानात्य् अभीप्सितः । स एव चेद् वसत्य् अन्तस् तं तु जानीत कः परः ॥१६॥ [अनुष्टुभ्]

[३०] कृष्णश् च सानन्दम् उवाच—तद् अद्य नक्तम् एवानवद्या सेयं विद्या निवेद्यताम् इति बाहु-युगं गृहीत्वा सखि-गोष्ठीम् अनु ताव् अमू नीत्वा बहल-कुतूहल-वेष्टितेन चेष्टितेन यावद् विरोचन-निम्लोचनावसरं वासरं गमयामास ।

इति श्री-श्री-गोपाल-चम्पूम् अनु

गर्दभासुर-मर्दनं नाम

चतुर्दशं पूरणम्

॥१४ ॥

(१५)

११। अथ पञ्चदशं पूरणम्

१७। अपूर्वानुराग-चर्या-जागर्या [१] अथ गोलोक-युव-राजः सखिभिः सह राजमानः, सायं प्रत्यवसाय, मातुर् आज्ञाम् आदाय, वलित-प्रभायां गोप-राज-सभायां प्रति-रजनी-जनित-सर्वायत-पर्वाकृताभिप्राये प्रहर-प्राये गुरून् अनुज्ञाप्य, तद् अन्यान् प्रस्थाप्य, महान्तः-पुरं प्राप्य, प्रसू-निदेशम् अवाप्य, सुबल-मधु-मङ्गलादिभिर् अन्तरङ्ग-सङ्गिभिः सङ्गतः सूताङ्ग-जाताभ्यां च ताभ्याम् अनुगतः प्राग्-वर्णित-गोकुल-कमल-पत्र-स्थितं परम-सुख-सत्रतया प्रमितं श्री-राधाराम-धाम जगाम ।

[२] अकस्माद् आगते च तस्मिन् सस्मित-क्रीडा-नर्म-जुषाम् अमूषां सम्भ्रम-भ्रम-विस्मय-स्मय-त्रपा-पत्रपादरादर-हर्ष-तर्षादयस् ते भावा युगपद् एव समुत्पन्नाश् चित्रीयमाणतां चित्रायमाणताम् अप्य् आचेरुः । अत्र च,

अकस्माद् आयान्तं हरिम् अनुभवन्ती किल ह्रिया दशाम् अक्ष्णोर् नाना-द्रुतम् अपिदधे सा नत-मुखी । मुदा स्मेरा भुग्ना विकसितवती कुञ्चितवती स-बाष्पा स्तब्धाभाभवद् इति समं या न घटते ॥१ ॥ [मन्दाक्रान्ता]

[३] अथ प्रगुण-गुणालङ्कृता किङ्करी-ततिर् वितस्ति-दघ्न-राङ्कवास् तरणेन तम् अतिविस्तीर्णं मणि-कीर्णम् अलिन्दम् आस्तीर्णं चक्रे । आस्तीर्णस्य च तस्य प्रतीची-प्रचित-सुललित-तुलिकायां प्राची-मुखतया स्वयं निविशमानः शुभ्रताराम-चामरादि-कराभिः किङ्करीभिः सेव्यमानः श्री-राधाया बहिर् अपि विराजमान-प्राणः पाणिना ताम् आदाय स्व-रस-मिलित-तदीय-रस-वेणी-समाप्लवन-जीवनानां श्रेणी-कृतानाम् एणीदृशां गणाग्र-देश-गततया वाम-देशे निवेशयामास ।

[४] दक्षिणतस् तु केवल-तदीय-नव-तरुणिमावतार-समुचित-सेवा-प्रकार-कामनाराम-प्रथम-वयसः सुबलादि-सवयसः । [५] यत्-पङ्क्ति-द्वयान्तिम-सीम-मध्य-गतौ तन्-मिथुनाभिमुखताभिरतौ तादृश-प्रणय-सुकुमारौ सूत-कुमारौ तस्थतुः, ययो राग-तालादि-साहायकाः सखाय एव केचन सचन्ते स्म ।

[६] यौ खलु द्वयोर् अपि तयोः सवयसाम् आवल्योर् अर्ध-मणिसर-वल्ल्योर् इवाग्रिम-सीम-मध्यम् अधिकृत्य मिथः शोभा-विनिमय-शीलतया नील-पीतता-विवेक-व्यतिरेक-मय-महा-नायकायमानं सर्वत्र प्रथित-दृष्टि-प्रसादम् अपि मिथः समर्पित-नेत्र-त्रिभाग-रागं तन्-मिथुनम् अवलोकयन्तौ द्वि-त्र-क्षणं चित्रवद् इवास्थिषाताम् ।

[७] ततश् च प्रहस्य नव-घन-श्यामेनादि-श्यमानतया सावधानतां दधानाव् आनन्दाद् उभाव् एव संहिताञ्जलि-करौ नान्दी-करौ बभूवतुः ।

[८] तत्र वस्तु-निर्देशः—

इमौ गौरी-श्यामौ मनसि विपरीतौ बहिर् अपि स्फुरत् तत्-तद्-वस्त्राव् इति बुध-जनैर् निश्चितम् इदम् । स कोऽप्य् अच्छ-प्रेमा विलसद्-उभय-स्फूर्तिकतया दधन् मूर्ति-भावं पृथग् अपृथग् अप्य् आविरुदभूत् ॥२॥ [शिखरिणी]

[९] अथ नमस्क्रिया,

श्रीर् आसां न तुलां बिभर्ति नितराम् इत्य् उद्धवः कीर्तयन् यासाम् अङ्घ्रि-रजो ननाम हरिणा यः स्वेन तुल्यो मतः । तासां तत्-प्रियता-सुधाकर-तनुं विष्वक् चकोरायिते- नानेनानुगतां समस्त-महितां वन्दावहे राधिकाम् ॥३॥ [शार्दूलविक्रीडिता]

[१०] अथाशीः,

प्रेमा योऽसौ राधिका-कृष्ण-युग्मं स्वानन्देन प्लावयित्वा सखीश् च । शश्वद् विश्वं प्लावयन् सुप्रसिद्धः सोऽयं बुद्धिं नः समिद्धां करोतु ॥४॥ [शालिणी]

इति परस्परं स-वैलक्ष्य-स्मितम् ईक्षित्वा स्थितयोस् तयोः स्निग्धकण्ठ एव सोत्कण्ठम् उवाच—

[११] अथ श्री-कृष्ण-जन्मादि-माधुर्यवद् एव श्री-राधिकायास् तत्-तन्-माधुरी वर्णनीयेति निर्णयेऽप्य् अतिविस्तीर्णता-सङ्कोचनाय किञ्चिद् एव सूचयिष्यामः ।

[१२] तत्र श्रीमद्—भागवते खल्व् एतद् उद्भावितम्—

तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् । हरेर् निवासात्म-गुणै रमा-क्रीडम् अभून् नृप ॥ इति॥ [भा।पु। १०.५.१८]

[१३] तच् चैवं विशदयन्ति—

जन्मारभ्य हरेर् व्रज-स्थलम् अभूद् विश्व-र्द्धि-युक्तं पुनर् लक्ष्मीणां रमणास्पदं च तद्-अधिष्ठानाद् विशिष्याजनि । राधा यासु ललास पूर्ण-शशभृन्-मूर्तीव तारासु सा कान्तिः किन्त्व् इह चित्र-भाव-वलिता या कृष्ण-पक्षाधिका ॥५॥ [शार्दूल]

[१४] बृहद्-गौतमीयेऽप्य् एषा सर्वतो लब्ध-विशेषा प्रस्तूयते—

देवी कृष्णमयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति ।

[१५] अलं-लक्ष्मीणाम् एतद्-आदीनां लक्ष्मीणां जन्म च श्रीमत्-पर्जन्यम् आरभ्य धन्यतया लभ्यस्य पुरुष-त्रयस्य परमातुल-स्तोत्राणां मातुल-गोत्राणां ये खल्व् आमुष्यायण-कुलता-निर्बन्धिनः सम्बन्धिनस् तेभ्य एवेति मागधानाम् अनुसन्धानं स-यत्नी-भूय यज्ञ-पत्नीस् त्यक्तवतस् तस्य तथाव्यक्त-मर्यादतान्यथा न पर्याप्तताम् आपद्यते ।

[१६] तद् एवं स्थितेषु च श्री-राधिकायास् तु सर्वतोऽप्य् आढ्य-कुलीनाश् छ्रीमद्-वृषभानुतया लब्ध-ख्यातिकान् महा-गोप-पयोनिधेर् जन्म सम्मतम् ।

[१७] अत्र चोपगायन्ति—

सत्यं बहु-सुत-रत्ना- करतां न प्राप गोप-दुग्धाब्धिः । किन्त्व् अमृत-द्युति-राधा- लक्ष्मी-जननाद् अगात् पूर्तिम् ॥६॥ [आर्या]

[१८] सा खलु श्री-कृष्ण-जन्म-वर्षानन्तर-वर्षे सर्व-सुख-सत्रे राधा-नाम्नि नक्षत्रे जातेति राधाभिधीयते ।

[१९] जन्मानन्तरं तस्याः सन्-माधुरी चेयं कृतावलोकेन लोकेन कीदृग् इति पृच्छतः प्रति निरूपिता—

नवेन्दुर् मूर्तिर् वा कनक-कमलं वक्त्रम् अथवा चकोरौ नेत्रे वा विसरद्-अमृतं दृष्टिर् अथवा । अपीत्थं राधायां यदि जित-तुलायां न वलते विकल्पः किं तर्हि प्रसजतितरां तत्-तद्-उपमा ॥७॥ [शिखरिणी]

[२०] आस्तां तावद् असौ व्रज-लक्ष्मीणां परम-लक्ष्मीर् अखिलाश् च तास् तथा वर्ण्यन्ते । यथा—

हरिम् अनु विन्दति शश्वल् लक्ष्मीर् इति या तु सर्वतः ख्याता । ताम् अपि किल गोपायितुं गोपी-सञ्ज्ञा जयन्ति ता लक्ष्म्यः ॥८॥ [आर्या*]

किं च—

कृष्णानुरूपम् अप्य् आसां वयो-वृद्धिः समृद्ध्यते । यथा चन्द्रमसः पुष्टिस् तथा तस्य रुचाम् अपि ॥९॥ [अनुष्टुभ्]

[२१] तत्र कौमार-मध्यम् अध्यासीनायां श्री-राधिकायां तदानीतनानां केषाञ्चिन् नारी-जनानाम् उत्प्रेक्षा यथा—पश्य पश्य,

अरुणित-लघु-शाटी-खण्ड-कम्राधराङ्गी श्रवण-गलव-रन्ध्र-प्रोत-सुस्पर्श-सूत्रा । रजसि निज-सखीभिः क्रीडया लोल-नेत्रा मधुरि-पुरति-बीज-श्री-निभा भाति राधा ॥१०॥ [मालिनी]

[२२] तद् एवम् ईदृग्-वयसि पर्यवसिते तदादीनां तासां सौन्दर्य-सारस्य प्रचारः सर्वत एव प्रसर्पन् मातर-पितरादिभिर् नापसर्पयितुम् ईशाञ्चक्रे चिन्तयामासे च, न जानीमहे, दुर्जनः कंसः किं सम्प्रति सम्प्रतिपत्स्यते इति ।

[२३] अथ प्रत्यहम् एव प्रत्येकम् अन्तः परस्पर-मिलिताः सन्तश् च ते सर्वे विचारितवन्तः, साम्प्रतम् एव पात्रसात्कर्तुम् एताः साम्प्रतं । तत्राप्य् आसां श्रीमन्-नन्द-नन्दनाद् अवरस् तु न वरताम् अर्हति । अवर एव हि सर्वः । तथा हि—

कन्या धन्यतमा रमाम् अपि जितां कुर्वन्त्य् अमूर् नन्दजः स्वस्माद् ऊनदशां रमा-रमणम् अप्य् आसादयन् दृश्यते । तस्मात् तुल्यतया स एव वरताम् अर्हत्य् अमूषां तदप्य् आस्तां धाम-सुहृत्-प्रियात्म-तनय-प्राणा हि नस् तत्कृते ॥११॥ [शार्दूल]

[२४] अथ, यद्यप्य् अधुना यज्ञ-सूत्रम् अलब्धवतस् तस्य न विवाहावसरः सम्भवति, तथापि सज्जन-समाज्ञाम् आचार्य भाषा-बन्धश् च सन्धातव्य इति ।

[२५] तद् एतद् विचार्य स्थितानां तेषां निश्चयावधारण-पूर्वकं तन् निवारणं प्रति पूर्ववद् एव वसुदेव-मन्त्रणया यन्त्रित-विचार-वर्गतयापि गर्गः सर्व-दर्शितया तद् इदं पराममर्श—

[२६] तल्-लीला-क्रमः खल्व् अयं दुरत्ययतया मयासुगमस् तल्-लीला-शक्ति-प्रयुतानाम् अस्माकं च तत्र प्रत्यग्-वदाचरणेऽपि नारदवन् न प्रत्यवायस्, तथापि तथा प्रथनीयम् यथा तासां न प्रत्यवायः स्याद्, आयत्याम् इष्टापत्तिः स्याद्, अखिलायत्यां पूर्न-तद्-आपत्तिश् च स्यात् इति ।

[२७] तद् एवं विमृशन् स किल विलम्बम् अनवलम्बमानः श्री-व्रजम् आजगाम । आगम्य च निजम् उटज-तटं स-ध्यानम् अध्यासीनां पौर्णमासीं प्रति जगाम । गत्वा च सर्वम् एवेदं निवेद्य पुनर् निवेदयामास, मयेदं तावत् कर्तव्यम्, भवत्या तु तासां यथान्यत्र पत्यादि-व्यवहारः सत्याय न कल्पते, किन्तु लोक-प्रत्यायन-मात्राय तथा व्यवहर्तव्यम् इति ।

[२८] तद् एवं तां सम्भाष्य श्रीमद्-व्रजराज-सम्भाषणं निर्वाह्य, बाह्यावरण-वासिनाम् आवासेषु बभ्राम । ते च तम् आगतम् अकस्मान् निशाम्य शाम्यच्-चिन्ता-तमसः स्व-स्व-मनोरथ-लब्धये लुब्ध-मनसः प्रणामादिभिः परिपूज्य कुशलम् अनुयुज्य प्रच्छन्नतया तम् एवार्थं पप्रच्छुः, इदं तावच् छङ्कितं; तत्र किं कर्तव्यम्? इति ।

[२९] स तूवाच—वयम् इदं सर्वम् अपूर्वं पूर्वम् अपि जानीमहे । इदं च भवद्भिः सम्बद्ध्यम् अध्यवसितम्, किन्त्व् एका शङ्का शङ्कुर् इव मङ्क्षु हृदि परिवर्तते । यदा भवद्-अङ्ग-जाताङ्गनानां व्रज-राजाङ्गज-वर-कुमारेण सह सङ्गमः स्यात्, तदा नातिविलमबतः सर्वस्यापि व्रजस्य तदीय-चिर-विप्रलम्भ-लम्भनं भविता, किम् उतामूषाम्? किं च, प्रौढताम् ऊढवतीनां तु सहज-तद्-अनुराग-स्वाभाव्येनादर्शनेऽप्य् उद्भवत्-तत्-स्फूर्तीनां न कोऽपि तस्माद् विनिवर्तनं कर्तुं समर्थः स्याद् इत्य् अपि कदर्थनान्तरं भविष्यति । तस्मान् नन्द-कुलावतंसात् कंसाच् च वञ्चयितुं चञ्चलम् एवान्येभ्यः सम्प्रदातव्या नव्याः कन्यकाः ।

[३०] तद् एवम् आदिश्य प्रस्थिते यदु-पुरोहिते तत्-कृतोपदेशोपजातादरो निज-निज-कन्या-गोपन-परो गोप-निकरोऽपि तासां सम्प्रदानाय सम्प्रदानम् अन्वेष्टुं सुष्ठु चिन्ताम् अवाप, किन्तु सन्ततम् अस्य सा लालसा तु नालसा जाता ।

[३१] तद् एवम् एतासां स्व-तनयेन परिणयनं प्रति व्रजपति-जम्पती च पूर्वम् अतीव तीव्र-स्पृहा-गृहीत-चित्ताव् आस्ताम् । विशेषतस् तु राधाया माधुर्य-विशेषावधारणतः । किन्तु गर्गेण तद्वद् एव निरस्ताव् इत्य् अस्तमित-प्रयत्नाव् अभूताम् ।

[३२] अनुतापस् तु तयोर् नापजगाम, तद्-भ्रातृ-पर्यायाश् च तद् एकानुगति-मर्यादया पर्याकुलास् तासां कन्यानाम् स्व-पुत्राय न्यासम् अन्यायं मन्यमानास् ततः पराङ्-मुखा बभूवुः । किं बहुना? सर्व एव केवल-स्नेहतस् तत्र कृष्ण-वरतायाम् एव जातेहतां संहितवन्तः समदृश्यन्त । यतः—

योग्येन योग्यस्य तु नित्य-सङ्गमः कस्मै न रोचेत भृशं स-चेतसे । रत्नेन हेम्नः शरदा सरोऽम्भसः सिताख्य-पक्षेण यथा सुधा-रुचेः ॥१२॥ [उपजाति १२]

[३३] वरता-सम्भावना-विषयाणां पितृ-वर्गश् च तादृग् अप्य् अनर्गल-कर्णे-जप-लब्ध-संसर्ग-गर्ग-वचन-सर्गत एव भिन्न-चित्तताम् आप । [३४] पुत्रान् अप्य् अतिक्रम्य तत्र स्थितानां कृष्ण एव हि सुखसत्रायते ।

[३५] तद् एवं ज्ञात-रहस्योऽपि निर्णीत-नीति-प्रणीतये रहसि व्रज-राजम् उपव्रज्य स च तत्-पितृ-वर्गः प्रतिस्वम् एव तम् अर्थम् अर्थयामास, [३६] आमुष्यकुलिका कलिता धन्याः खलु ताः कन्याः कृष्णन्यासत एव स-न्यायताम् अर्हन्ति । स यदि भवद्भिः स्वयम् अङ्गीक्रियते, तदा भङ्गीभिः प्रसङ्गम् अङ्गीक्रियताम् अस्माभिर् इति ।

[३७] व्रजराजस् तु तद् आकर्ण्यम् आकर्ण्य स-निश्वासम् इदं विवर्णतया वर्णितवान्, अस्माभिः स्व-पुत्राय सर्वथा न ते सम्बन्धाः सन्धातव्याः, किन्तु यूयम् अपीदं विदाङ्कुरुते । यत् खलु युष्माकम् अपत्यानि युष्माकम् इवास्माकं स्नेह-सातत्य-वहानि समुद्वाहयितव्यानि च, तस्माद् अस्माभिर् एव तत्र तत्र सत्रा-कुर्वद्भिः प्रयतनीयम् ।

[३८] तद् एवं स्थगित-समुल्लासे निखिले च व्रजावासे व्रजपत्य्-अनुमत्य्-अनुसारतस् तासां पितरस् तद्-वितरम् आचरितुं रुचिं विनापि बहिर् उद्यमम् आचरितवन्तः । [३९] तत् कुमार्यस् त्व् अतिबाल्य-चर्या-पर्याकुलतया न किञ्चिद् अपि चिद्-अमत्रतां निन्यिरे ।

[४०] अथ या काचिद् वृन्दावन-गह्वरतः साक्षात् किल योगमायाया व्याजतस् तापस्यास् तत्र चाह्वयतः पौर्णमास्याः समभ्यर्णं अहर्-दिवं प्रायः किमपि मन्त्रायितुं आगन्त्री दृश्यते; या च मानुष्य् अपि देवीयमानेति वा देव्य् अपि मानुषीयमाणेति वा लक्षयितुं न शक्यते किन्तु सद्-आनुकूलतया तद्-वन-पालितासिषा-धयिषित-कृष्ण-लीलता राधादिषु च परम-स्नेह-लता यस्याम् अनुमीयते, सा वृन्दारिकेति निजाख्यां प्रख्यापयन्त्य् अपि जन-वृन्देन लाघवाद् वृन्देति स्वेनैव नाम्ना समाम्नायते । सा च सम्प्रति सर्व-शोच्यता-मय-तद्-वार्ता-श्रवणाद् अतीवार्ता तद्-अभ्यासम् एवाभ्यजगाम ।

[४१] अभ्यागताम् अथ तां जपार्थम् आसीनापि, पौर्णमासी तूर्णम् उपव्रज्य नमस्कुर्वतीं परिष्वज्य शुभाशिषा च संयुज्य स्वच्छमनाः पप्रच्छुः, कथ्यतां कथम् असमयम् इदं तव समागमनम्? इति ।

[४२] वृन्दाह—भगवति, परम् आपदां पदम् एकम् उत्पन्नम् अस्ति, कथं तव निश्चिन्तता दृश्यते?

[४३] पौर्णमासी उवाच—किं तावच् चिन्ता-कारणं तत्-पदम्?

[४४] वृन्दाह—हन्त, याः खलु नित्यतया कृष्णस्य प्रेयस्य इति श्रूयन्ते, तासाम् अप्य् अन्य-सम्बन्धः सनिर्बन्ध इव दृश्यते ।

[४५] पौर्णमासी उवाच—कथम् इवायं परामृश्यते?

[४६] वृन्दाह—तस्यानुबन्धश् चक्षुषा स्पृश्यते ।

[४७] पौर्णमासी उवाच—न भविष्यति तासाम् अन्येनान्येन संयोग-सम्बन्धः, यतो मया हि मायया परा निर्माय निर्मास्यते तत्र प्रतिबन्धः ।

[४८] वृन्दाह—अथ तथापि लोकतः कलङ्कः शङ्कनीयः ।

[४९] पौर्णमासी उवाच—न स्याद् अपि तस्यापि स्थितिः, यतो मुनयः पुनर् इदं गास्यन्ति—

नासूयन् खलु कृष्णाय

मोहितास् तस्य मायया ।

मन्यमानाः स्व-पार्श्व-स्थान्

स्वान् स्वान् दारान् व्रजौकसः ॥ [भा।पु। १०.३३.३९] इति ।

[५०] अतएव पुत्रोत्पत्त्य्-अभावात् पाययन्त्यः शिशून् पयः इत्य् अत्र शिशून् इत्य् एव पयः इत्य् एव च वक्ष्यन्ति, न तु सुतान् स्तनम् इति । एतद् अपेक्षयैव क्वचित् पुत्रत्व-व्यपदेशश् च श्री-कृष्ण-परिहास-निर्देशश् च सङ्गंस्यते ।

[५१] वृन्दाह—यद्य् एवं तर्ह्य् अन्येन तासां पाणिपीडनं पुनर् अतीव पीडनम् । यत्र प्रायश्चित्तान्तरम् अपि न चिन्तयन्ति तन्त्र-विदः, तत् कथं साम्प्रतं स्व-व्रतम् उपेक्षसे?

[५२] पौर्णमासी सस्मितम् उवाच—भाविन्य्, एतद् अपि न भावि, त्वया तु रम्याननतया गम्यताम् ।

[५३] वृन्दा सानन्दं पदारविन्दयोः पतन्ती सानुमोदं रुरोद । सा तु तां निरवहित्थम् उत्थाप्य सान्त्वयित्वा गहनाय प्रस्थापयामास ।

[५४] अथ वृन्दापि तथा विश्वसती निश्वसती च वित्रास-रहिता द्वित्राहो-रात्रान् गमयामास । दिनान्तरे तु तासाम् उद्वाह-निर्वाहम् आकर्ण्य विवर्ण-वदना पौर्णमास्य्-अभ्यर्णं पुनर् अपि तूर्णम् उपस्थाना मृतक-प्रतीका तस्थौ ।

[५५] पौर्णमासी उवाच—किम् इव वृत्तं वृत्तम् यस्माद् भवत्य् उद्वृत्त-चित्ता दृश्यते?

[५६] वृन्दाह—मम मुखतः काचिद् अप्य् उक्तिर् न व्यक्तीभवति, किम् इव वक्तव्यम्?

[५७] पौर्णमासी उवाच—पङ्कजाक्षि, न काचिद् अपि शङ्का मनसि शङ्कनीया ।

[५८] वृन्दा स-रूक्ष-हासम् आह—भगवति, कथम् इव?

[५९] पौर्णमासी उवाच—यद् अद्याप्य् असिद्ध-निर्वाह एव तासां विवाहः ।

[६०] वृन्दाह—विचक्षणे, तम् एतं चाक्षुषम् एव विधाय सर्वेऽप्य् आचक्षते ।

[६१] पौर्णमासी उवाच—सम्प्रति ता बालिकाः कुत्र?

[६२] वृन्दाह—तद् इदम् अपि श्रुतम्, यद् अतिबालकतयावगताः पितृ-गेह एव ता निधाय ते गता इति ।

[६३] पौर्णमासी स-प्रणय-रोषम् उवाच—अथ कथं मत्-कथनं न प्रत्येषि यत् किंवदन्तीम् एव मुहुर् वदन्ती वर्तसे?

[६४] वृन्दा सानन्दम् उवाच—भगवति, तद् एतद् ऋतम् अनृतम् एव भवतु, किन्तु मया नायं सन्धिर् अनुसन्धीयते ।

[६५] पौर्णमासी सहासम् उवाच—न लोकेनातथ्यं कथ्यते, न च ग्रथ्यते स्म तासाम् उद्वाह-बन्धह् ।

[६६] वृन्दाह—नेदं च बुध्ये ।

[६७] पौर्णमासी उवाच—युक्तम् एवेदम्, यतः—

त्वय्य् अपि लीला-शक्त्याम्, अवसर-नाम्नी भवेद् विभोः शक्तिः । त्वाम् अपि या भ्रमयन्ती, तस्मिंस् तस्मिन् प्रवर्तयति ॥१३॥ [उद्गीति]

[६८] वृन्दा स-काकु प्राह—तर्हि स्वयम् एवेदं रहस्यं प्रकाश्यताम्?

[६९] पौर्णमासी क्षणं हसित्वा नीचैर् उवाच—युगपद् एव, देवि, सर्वेषु तादृग्-दुःस्वप्न एव केवलं जागर-कल्पतया मया कल्पितः ।

[७०] वृन्दा विश्वस्य निश्वस्य च पुनर् उवाच—तथापि तासां तथा ख्यातिर् अपि न युक्ता।

[७१] पौर्णमासी उवाच—सापि न भविष्यति, यतो मुनय एव पुनः पुनर् इदं गास्यन्ति, तत्र तपन्यां ताः पृच्छतीः प्रति दुर्वासाः, स वो हि स्वामी [Gतु २.२७] इति; रासप्रसङ्गे च भगवान् बादरायणिः, कृष्णवध्वः [भा।पु। १०.३३.७] इति; उद्धव-सन्देशे स्वयं श्री-कृष्ण एव च, बल्लव्यो मे मदात्मिकाः [भा।पु। १०.४६ ।३] इति । तद् इदं गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवह इति वल्लभाभिमानिताम् आत्मनि व्यज्य श्री-कृष्णस्य वचनं ब्राह्मणादीनां मम ब्राह्मणीत्य् आदिवत् । तथा, माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः [भा।पु। १०.४६ ।४] इति प्रचुरं प्रचुरतार्ध-पद्येन च ताभिर् अपि बहिर्-दृष्ट्या परं तत्र क्वचिद् उपपतित्वं प्रतीयते, शश्वद् अन्तर्-दृष्ट्या तु पतित्वम् एवानुभूयत इति सूच्यते, यथा च, अपि बत मधु-पुर्यां आर्य-पुत्रोऽधुनास्ते? इति ।

अथागमे च मन्त्र-द्रष्टारो गोपी-पदानन्तरं जनेत्य् अस्यान्ते वल्लभेति । [७२] तद् इदं त्रिधा निरुक्तम् अप्य् आगमस्य रहस्य-रीतितया क्रमात् पूर्व-पूर्व-पक्षस्य तूत्तर-पक्षत्वं व्यञ्जितम् । यथा गौतमीय-तन्त्रे,

गोपीति प्रकृतिं विद्याज् जनस् तत्त्व-समूहकः । अनयोर् आश्रयो व्याप्त्या कारणत्वेन चेश्वरः । सान्द्रानन्दं परं ज्योतिर् वल्लभत्वेन कथ्यते ॥ अथवा गोपी प्रकृतिर् जनस् तद्-अंश-मण्डलम् । अनयोर् वल्लभः प्रोक्तः स्वामी कृष्णाख्य ईश्वरः ॥ कार्य-कारणयोर् ईशः श्रुतिभिस् तेन गीयते ॥ अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा । नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥ इति ।

[७३] अत्र प्रथमा प्रकृतिः प्रधानम्, द्वितीया स्वरूप-शक्तिः । तत्त्वानि महद्-आदीनि अंशाः,

ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः । भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥

इति विष्णु-पुराणोक्ताः [वि।पु। ६.५.७९] । अनेक-जन्म-सिद्धानां इति, बहूनि मे व्यतीतानि जन्मानि तव चार्जुन [गीता ४.५] इति श्री-भगवद्-गीतावद् अनादित्वम् एव बोधयति, पतिर् एव इति कदाचिद् उपपतित्व-व्यवहारस् तु मायिक एवेत्य् अर्थः । वा-शब्दस् त्व् अस्यैवोत्तर-पक्षता-बोधनाय ।

[७४] अत एवाप्रकट-लीलायां प्रकटम् एव ब्रह्म-संहिता तथानुसंहितवती यत्र ब्रह्मा प्राह—

आनन्द-चिन्-मय-रस-प्रतिभाविताभिस् ताभिर् य एव निज-रूपतया कलाभिः । गोलोक एव निवसत्य् अखिलात्म-भूतो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ॥ [५.४८] ।

[७५] अत्र कलात्वान् निज-रूपत्वे स्वतः-सिद्धेऽपि निज-रूपतयेति पुनर् उपादानम्, न तु प्रकट-लीला-मध्यवत् परकीयाभासतयोपलक्षिताभिस् ताभिर् इत्य् अर्थ-ज्ञापनार्थम् ।

[७६] तथा च तत्रैव श्रियः कान्ताः कान्तः परम-पुरुषः इत्य् अत्र युक्तिं च दर्शितवान् । श्री-परम-पुरुषयोर् औपपत्यं नास्तीति । काशी-खण्डे च धर्म-राजः, गोपी-पते यदु-पते वसुदेव-सूनो इति । सङ्गीत-शास्त्रे च, गोपी-पतिर् अनन्तोऽपि वंश-ध्वनि-वशं गतः इति । भविष्यत्-काव्येषु श्री-गीत-गोविन्दे पत्युर् मनः कीलितम् इति ।

[७७] एतद् अभिप्रायेणैव लक्ष्य-भेदेनोक्तम्—

त्वाम् अप्राप्य मयि स्वयं-वर-परां क्षीरोद-तीरोदरे शङ्के सुन्दरि काल-कूटम् अपिबन् मूढो मृडानीपतिः । इत्थं पूर्व-कथाभिर् अन्य-मनसो विक्षिप्य वक्षोऽञ्चलं राधायाः स्तन-कोरकोपरि मिलन्-नेत्रो हरिः पातु वः ॥ इति ।

अन्यत्र च, गोपी-भर्तुः पद-कमलयोर् दास-दासानुदासः इति । भगवच्-छङ्कराचार्य-कृते यमुना-स्तोत्रे च, विधेहि तस्य राधिका-धवाङ्घ्रि-पङ्कजे रतिम् इति ।

[७८] ललित-माधवे श्री-राधिकादीनां तथा-वर्णनं तु स्फुटम् एव निर्वर्णितम् । उज्ज्वल-नीलमणौ साक्षात्-कथनया कुमारिकाणां साक्षाद् अन्य-सम्बन्धाभाव-प्रथनया च परासाम् अपि यद् एव समृद्धिमद्-आख्य-सम्भोगे ललित-माधवानुसारेण स्फुटम् अङ्गीकृतम् अस्ति ।

भावार्थ-दीपिकायां च, ऋषभस्य जगुः कृत्यानि [भा।पु। १०.३३.२१] इत्य् अत्र ऋषभस्य पत्युः इति कृष्णवध्वः इति स्वयम् उक्तम् । इदम् एव पतित्वं श्री-परीक्षित्-प्रश्नोत्तरे पत्य्-अन्तराभ्युपगम-वादेनैव हि बहिर्-अङ्गानाम् बोधाय परमात्मतया श्री-बादरायणिना बोधितम्—

गोपीनां तत्-पतीनां च सर्वेषाम् अपि च देहिनाम् । योऽन्तश् चरति सोऽध्यक्षः एष क्रीडन-देह-भाक् ॥ [भा।पु। १०.३३.३५]

इत्य् अत्रानतरङ्गान् प्रति त्व् अयम् अर्थः- गोपीनां काश्चिद् व्यूढाः काश्चिद् अव्यूढा इति द्विधात्र लोक-मात्र-प्रसिद्धानां वस्तुतस् तु नित्य-सिद्धानां सर्वतः श्रेयसीनां तत्-प्रेयसीनाम् अन्यासाम् अपि नाना-भाव-समृद्धानां कुमारीतरुणी-वृद्धानां, तथा यथा-सम्भवं तासां पतीनां तद्-उपलक्षिततया कुमार-ततीनां, किं बहुना? सर्वेषाम् अपि तद्-एक-जीवानां व्रज-जीवानां यानि तत्-तद्-उपचितताचित-तदीय-क्रीडा-साधन-देहानि, तद्-आसक्तः सन्न् अन्तः-शब्दाभिहिते महिते जगन्-नेत्राद् अन्तर्-हिते सदाभवे स्व-वैभवे यश् चरति क्रीडति । स एष एवाध्यक्षः कदाचिज् जगत्-प्रत्यक्षः सन् क्रीडति । तस्मान् निज-प्रेयसीभिः समम् अनादित एव मिथुनतेति कथनाद् औपपत्यम् अस्य नोपपत्त्य्-अर्हम्, किन्तु परम-व्योमाधिप-लक्ष्मी-नारायणवद् दाम्पत्यम् एव तद्-अर्हं भवतीति ।

तद् इदं, जयति जननिवासः [भा।पु। १०.९०.४८] इत्य् आदौ व्रज-पुर-वनितानां वर्धयन् काम-देवम् इति पुर-वनिताभिः सह तासां सह-पाठाद् द्रष्टव्यम् । श्रीमान् उद्धवस् तु, एताः परं तनु-भृतो भुवि गोप-वध्वः [भा।पु। १०.४७.५८] इत्य् आदाव् आसाम् अनुगतिं मुमुक्षु-मुक्त-मद्-विध-भक्ता अपि वाञ्छन्ति इत्य् उक्त्वा कृष्णे परमात्मनि वृन्दावन-चर्य इमाः क्व, तद्-ईदृश-भाव-व्यभिचार-दृष्टास् त्व् अन्ये क्वेति वदन् कृष्णे परमात्मनि ह्य् एष रूढ-भाव इति प्रत्यक्षतो दर्शयन्न् आसु माहात्म्य-विशेषं दर्शयति, नायं श्रियोऽङ्गे [भा।पु। १०.४७.६०] इत्य् आदौ श्री-प्रभृतिभ्यः पुनर् अपि विशेषयति च ।ऽ

[७९] अथ सानन्दापि वृन्दा पुनः पप्रच्छ—कथम् ईदृशी प्रक्रिया नातिप्रिया, नान्यथा क्रियते स्म भवत्या? भवत्याः खलु नाशक्यं तर्क्यते ।

[८०] पौर्णमासी उवाच—रस-विशेष-सम्पादयित्री लीलावश्यकतावसर-वैचित्रीयं सीताया रावण-गृह-गतिवन् नास्माभिर् अप्य् अन्यथा कर्तुं शक्यते । रस-विशेषश् चैवम् एव सङ्गच्छते । भ्रम-जनितत्वाद् अश्लीलता-विश्लिष्टे पर-सम्बन्धस्याभास-मात्रे दृष्टे सति तासां पर-निवारण-कुण्ठितानाम् उत्कण्ठा-वर्धनतः स्फुरद्-अखर्व-सुख-गत्यां सर्वायत्यां विश्रान्त-भ्रम-नितान्त-स्थिरता-निरत-कान्त-प्राप्तितस् तस्यातीव दीप्तता-प्राप्तिर् इति । तथा च भविष्यत्-काव्येषु श्रीमद्-उज्ज्वल-नीलमणौ प्रमाणी-कृतं प्राचां मतम् । तत्र मूलं यथा—

लघुत्वम् अत्र यत् प्रोक्तं तत् तु प्राकृतनायके । न कृष्णे रसनिर्यासस्वादार्थम् अवतारिणि ॥ [१.२१] इति ।

प्रमाणं यथा,

नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा तद् गोकुलाम्बुजदृशां कुलम् अन्तरेन । आशांसया रसविधेर् अवतारितानां कंसारिणा रसिकमण्डलशेखरेण ॥ [५.३] इति ।

[८१] अत्र रसोत्कर्षस्य तर्षत एव कंसारिणावतारितानाम् इति तासां नित्यं तन्-निज-प्रेयसीतया विहारस्, तद्-अवतार-समय एव तु रस-मय-महोत्कर्षाय मायया परोढ-व्यवहार इत्य् अतो न दोषः, प्रत्युत परम-गुण एवेति भावः । इह चावतारितानाम् इति देवी-चरतां साधारण-लक्ष्मी-चरतां च न प्रचारयति, नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः? [भा।पु। १०.४७.६०] इत्य् अनेन विरोधात् । तेनैवान्यतमतान्यथा-कारितया तदीय-परम-लक्ष्मीत्वम् एव तासां लक्ष्यत इति ।

तद् एवं च निरूप्य पुनर् अप्य् आह स्म—तादृशं परम-रहस्यम् आकाशाय च न प्रकाशनीयम् । किन्तु—

राधादीनां केवलानां केवलो नन्द-नन्दनः । वरः स्यात् केवलं तस्मात् के बलात् कुर्युर् अन्यथा? ॥१४॥ [अनुष्टुभ्]

यतः,

व्रज-लक्ष्मी-जनताया हरिर् इह रमणः परं न परः । कथम् अथ चकोर-जातेर् वृत्तिश् चन्द्राद् भवेद् अन्यः? ॥१५॥ [उपगीति]

[८२] अथ वृन्दा तु, भवतु याथाकथाचं । यद् इदम् आचितम्, तद् आचितम् एव । किन्त्व् आयत्यां सर्व-सुख-समुत्थापनं भवद्-अभ्युत्थानम् एव गत्य्-अन्तराय भविता इति प्रार्थ्य नमस्कृत्य च चलिता ।

[८३] पौर्णमासी तु प्राह—

अवचम् अवोचम् उवाच च, वच्मि हि वक्तास्मि वक्ष्यामि । उच्यासम् इदं वच्यां वचानि नो चेद् अवक्ष्यं न ॥१६॥ [अनुष्टुभ्]

[८४] तद् एवं तासां खेला-मात्र-विलासिनीनां स्व-वासिनीनां मातर-पितरादिभिर् अन्तः-पुर्याम् असूर्यम्पश्यतया धूताकर्णन-कृष्ण-वर्णनतया च परितः परीतं वारितानाम् अपि दीप्यमान-कैशोर-सामीप्य-समिद्धः स्व-भाव-सिद्धः कृष्ण-भावः स्वयम् उद्भूतवान् वारिदा-गमन-समयं समया कासाञ्चिद् वल्ली-जातीनां पल्लव इव । यतः—

हृदयम् अनङ्गस् तासाम् अविशद् वयसः क्रमाद् एव । श्यामाङ्गः स तु साङ्गं विवेश सहसा ततः पूर्वम् ॥१७॥ [अनुष्टुभ्]

[८५] दृष्टान्तयन्ति चेदम्—

आसीद् आसु हरेः स्फूर्तिर् दर्शन-श्रवणे विना । यथान्तःपुर-रुद्धासु कन्यासु मदनोद्गमः ॥१८॥ [अनुष्टुभ्]

[८६] अतएवोक्तम्—

नव्य-यौवनतः पूर्वं कृष्णे तासां तु या रतिः । तस्यां नातिशयोक्तिः सा स्व-भावोक्तिस् तु मन्यताम् ॥१९॥ [अनुष्टुभ्]

[८७] तदा च, यदा प्रसङ्ग-सङ्गत्या कृष्णेति वर्ण-द्वयं कर्णाभ्यर्णम् आपद्यते, वंशी-वाद्यं वा, तदा तम् एव पश्यन्त्य इव हृष्यन्त्यः पुनर् अप्य् अपश्यन्त्यस् तापम् आप्नुवन्ति स्म, किन्तु कञ्चित् प्रति न किञ्चित् प्रकाशयाम् आसुः । चेतसि तु भावयाम् बभूवुः, यथा—

यः कृष्ण-नामाक्षर-माधुरी-झरैर् आस्वाद्यते वेणु-कली-रसैर् अपि । स एव एकाम्बुद-रोचिर् एष मे कः स्वान्तम् उच्चैः कुरुते पुरु-व्यथाम्? ॥२०॥ [उपजाति १२]

[८८] तत्र च श्री-राधाया भावना, यथा—

याते कृष्णेति शब्दे श्रुति-पथम् अमृताद् अप्य् अतिस्वाद-युक्ते, वंशी-वाद्ये च शश्वन् मनसि सपदि यः स्फूर्तिम् आप्नोति सोऽयम् । आजन्माभ्यास-हीनोऽप्य् अतिसुपरिचित-प्राय एवेति भाति प्राप्ति-व्यावृत्तितस् तु प्रसभम् अचिरतो नेष्यति प्राणवर्गम् ॥२१॥ [स्रग्धरा]

[८९] पुनश् च सम्प्रति स्वयम् एव परस्परम् इवाह—राधे, किम् उदग्रं व्यग्रचित्तासि? राधिके, तद् एतन् नावदधासि चेद् अवधानं विधेहि ।

श्रव्याणां स्वाद-सारं श्रुतिर् अनुमनुते यत् तु यद् वा सुधाब्धेर् मन्थाल् लब्धं, रसज्ञा सुख-हृदिज-सुखं चित्त-वृत्तिर् यद् एव । किं तत् कृष्णेति वर्ण-द्वयम् अयम् अथवा कृष्ण-वर्ण-द्युतीनाम् आजीव्यः कोऽपि शश्वत् स्फुरति नव-युवेत्य् ऊहया मोहितास्मि ॥२२॥ [स्रग्धरा]

[९०] एवं श्री-कृष्णस्य च तदीय-प्रचरिष्णु-तत्-तद्-गुण-भविष्णु-तृष्णस्य भाव-रम्यता गम्यताम्—

नाम्नि श्रोत्रं सदन-सरणौ नेत्रम् आमोद-पूरे घ्राणं पृष्ठे वपुर् अपि गुणे सूक्तम् आसां मदीयम् । मां प्रोज्झ्यासीद् द्रुतम् इति हरिः स्वीय-दोषं विचारात् प्रत्याख्याय स्फुटम् अनुसरं तत्र चित्रायते स्म ॥२३॥ [मन्दाक्रान्ता] राधाऋक्षे क्वचन गणके नान्तिकाद् वर्ण्यमाने दृष्ट्वा राधां घटयति जने सञ्जनं स्वस्य दूरात् । राधा-गेहान् मृदुल-पवने वाति नास्मारि तत् तत् कृष्णेनास्मिन् पुनर् अलम् असौ सस्मरे सैव राधा ॥२४॥ [मन्दाक्रान्ता]

[९१] तद् एवम् अपूर्व-कृष्ण-दर्शन-पर्वण्य् अजात-पूर्वे यदा तु कालिय-दन्दशूक-सन्दलनम् आसीत् तदा विध्वस्त-निरोधा राधादयोऽपि व्रजवासि-साधारणतया तत्र गच्छन्ति स्म । [९२] एतद् अर्थम् एव कालिय-दमनार्थे तावान् विलम्बारम्भ-सम्भारस् तेन लम्भितः ।

[९३] तद् एवं तत्र गतवतीनाम् अपि बाल्याम् ओकतः शोकतश् च न लोकतस् तासां भावः स्वस्य विशेषं भावयामास, किन्तु प्रेमातिशय-मात्रम् । तथा हि—

यदा दूरे नृत्यं फणि-शिरसि चक्रे मुररिपुस् तदा ताभिः साक्षाद् अरचि स इतीदं नहि मृषा । तथाप्य् आसां बाल्याद् बहुजन-समाजाद् अपि शुचा- वृतेर् भावो नैव स्व-रस-मयताम् अण्व् अपि ययौ ॥२५॥ [शिखरिणी] यदा कालीयस्य ह्रद-वलयतः सोऽयम् उदितस् तदा राधा-मुख्याः प्रथम-कलनाद् एव पतिताः । बहिर्-ज्ञानं नासीद् यदपि तदपि स्फूर्ति-वलिता न मूर्च्छां नामूर्च्छां ययुर् अहह रात्रिन्दिवम् अनु ॥२६॥ [शिखरिणी] यद्यपि कृष्णस् तासां कलनाद् अन्तर्-विकारमासन्नः । तदपि च समयान्तरजां चकार गम्भीरतां शरणम् ॥२७॥ [आर्या]

[९४] ततश् च, प्रभाते ताः शकट-समारोहिततया व्रजम् आनीताः कथम् अपि स्वस्थतां याताः, यथा—

मुहुर् बन्धु-स्तोमे तद्-उपचरणाद् उत्थित-मतौ जन-द्वारा तासां हरिर् अपि विमूर्च्छां कलितवान् । अथ व्यग्रीभूयामृतम् इव मुरल्या मृदु-कलं जगौ ताश् च प्रापुर् बहिर्-अवहितिं सत्वरतया ॥२८॥ [शिखरिणी]

[९५] किन्तु तस्य वंशी-शंसन-माधुर्यम् एव तास्व् अभिषज्यद् अवबुध्य तद्-अवधि तासां प्रतिबन्धाय बन्धवस् तेनातिनिर्बन्धं ययुर् इति कदाचिच् चिरतो दर्शनम् अपि तस्य तासु पर्यवस्यति स्म ।

[९६] अथ श्री-कृष्णस्य षष्ठे वर्षे गते तासां च ततः किञ्चिद् ऊनतया मते समारब्ध-प्रपञ्चाद् भावाद् अक्षीणानां नव-कैशोर-लक्ष्मीणां मुद्-अञ्चनं तस्य च तासां च तथा जातं यथा परस्परं स्पर्धयेव सञ्चयम् अञ्चद् आसीत् ।

[९७] तत्र तस्य श्री-कृष्णस्य, यथा—

वक्त्रं पूर्ण-कपोल-कान्ति-वलितं केशा भृश-श्यामला नेत्रे लोल-विशाल-पाटल-तटे वक्षः स्फूरद्-विस्तृति । बाहु-द्वन्द्वम् अखर्व-पुष्ट-घटनं मध्यः कृशस् तत्-परः स्फीतस् तद्वद् उरू पृथू भवितुम् उद्यातौ स्म तस्मिन् हरेः ॥२९॥ [शार्दूल]

[९८] तत्र च कस्यचिन् मर्मज्ञ-जनस्य नर्म-वचनम्—

तनौ श्यामा लक्ष्मीर् अभजद् अयम् अन्तर्-हृदि पुनः सदा गौरीर् इत्थं कपटम् अभिपश्यन् मुररिपोः । स्फुरन्-नेत्र-द्वन्द्वं भजद् अरुणताम् ईषद् अभितो मुहुः कर्णाभ्यर्णं व्रजति किल किञ्चित् कथयितुम् ॥३०॥ [शिखरिणी]

[९९] अथ तासां, यथा—

कटाक्षे कृष्णाभा स्फुटम् अधरयो राग-गरिमा कपोल-द्वन्द्वान्तः शुचिर् उरसि चारून्नति-रुचिः । अमी चेतो-धर्मा बहिर् अहह यद्य् एवम् उदिता भवेत् किंवा तर्हि व्रज-मृगदृशां गोपन-पदम् ॥३१॥ [शिखरिणी]

[१००] तत्र श्री-राधां प्रति कस्याश्चिद् उक्तिः—

भद्रा पद्मा धनिष्ठा शिवि-पशुप-सुता पालिका श्यामला सा चन्द्रावल्य् अप्य् अभीक्ष्णं वयसि निज-निज-श्री-समुत्कर्षि दृष्टा । श्री-राधे त्वं पुनः स्वं जित-कनक-गुणं द्योतम् उद्योतयन्ती तद् दिव्यं श्यामधाम प्रथयसि परितः केन वा तन् न वेद्मि ॥३२॥ शार्दूल]

[१०१] तत्रान्यस्या वचनम्—

विलसति कृष्ण-नवाब्दः स्फुटम् अधि हृदयं प्रविश्य राधायाः । न भवति तद् यदि कथम् इव पुलकैः सह लोचने स्रवतः ॥३३॥ [आर्या] इति ।

[१०२] तत्-प्रभृति तासां भावना चेयम्—

तद् एव यमुनारण्यं त एव च तमालकाः । तद् एव चित्तम् अस्माकं साम्प्रतं किम् इवान्यथा? ॥३४॥ [अनुष्टुभ्]

ततश् च—

शारद-प्रथम-शुभ्र-पञ्चमी भावि-रात्रि-निकराब्ज-सप्रभम् । सुभ्रुवां मुखम् उरोज-युग्मम् अप्य् आयत प्रतिदिनं महोदयम् ॥३५ ॥ [रथोद्धता] यदा राधा तासु प्रथम-वयसाकीर्ण-किरणा तदा ताः सर्वाश् च प्रतिहत-समज्ञाः समभवन् । परं नाना-पुष्पावलिषु लतिकासु प्रथमतः प्रफुल्लन्ती ख्यातिं सदसि सुरवल्ली वलयते ॥३६॥ [शिखरिणी]

[१०३] तत्र चेयं किंवदन्ती वदन्ती-बभूव—

इन्दुर् मन्दति खञ्जरीट-तरुणः खञ्जन्न् इवालोक्यते दूनं भाति तिल-प्रसूनम् अरुणाद् बिम्बं गुणाल् लम्बते । स्वर्ण-श्री-जयि-वर्ण-जाल-विलसद्-वल्ली न लीनायते राधाया मधुरिम्णि यद् विधुरताम् आप्नोति तन्-माधुरी ॥३७॥ [शार्दूल]

[१०४] तद् एवं लब्ध-दर-स्फोरे कैशोरे तासां स एव कृष्ण-प्रेमा तृष्णा-विशेषम् आसादितवान् । [१०५] व्रतति-ततीनां कृत-व्रततित्वे लब्ध-सत्त्वे स्वाश्रयं प्रत्यभिमुख-प्रसारस् तद्-वलयन-लालसम् इव । तत्र तासां भावना, यथा—

जन्मन्य् एतद् अहो किम् अत्र भविता यत् तस्य वक्षः-स्थलं विस्तीर्णातुल-नील-रत्न-मसृणं स्पृश्येत मद्-वक्षसा । ताम्बूलं बत चर्वितं च मुखतः कृष्येत किं मन्-मुखे- नैवं केयम् अहो ममाद्य विमतिर् धर्म-ध्रुग् अभ्यागता ॥३८॥ [शार्दूल]

[१०६] अथ प्रेमापि परम-वरिमाणमाससाद, यथा—

पूर्वं यत् परितो हरेर् अनुभवात् कैशोरम् अत्युद्गतं तत् तासु स्फुरितं तम् एव विदधल् लीलाभिर् उच्चैः स्थितम् । अप्य् आकर्णनदर्शनादिरहितास् ता देवताविष्टवच् चेष्टन्ते स्म यतः शशाक नहि यद् बोद्धुं जनश् चाण्व् अपि ॥३९॥ [शार्दूल]

तत्र तु—

शून्यं पश्यति बाष्प-पूरम् अनिशं मोमुच्यते कम्पते स्विद्यत्य् उद्गत-कण्टकत्वम् अयते स्तम्भं पुनः प्रार्च्छति । ग्लानिं गच्छति वाचितापि वचनं नाभाषते सेति तां पश्यन्ती सुहृदां ततिर् मुहुर् अहो राधाम् अशोचन् मुहुः ॥४०॥ [शार्दूल]

[१०७] तस्या भावना चेयम्—

रूपेणामृत-सिन्धुः कीर्तिभिर् अमृत-द्युतिर् यद् अपि । तद् अपि हरिर् मम हृदयं विदहति हा धिग् विधिर् वामः ॥४१॥ [उपगीति] तस्य च पूर्वं हृदयम् अलिप्तं भावः कः पुनर् अलिप्त मे सहसा? । स्मरद् अपि यस्य तु विषयान् स्वयम् अथ चित्तं स्वतोऽपि जिह्रेति ॥४२॥ [उद्गीति]

[१०८] पुनश् च कालिय-दमनम् अन्व् अनुभूतं तासां भावं विभावयन्न् आह—

पिता मे साधूनां कुल-तिलकता-विश्रुत-गतिस् तथा माता साध्वी-समुदय-विवेकाग्रिम-लिपिः । कथं राधादीनां पर-मृगदृशां भावम् अभितो भजत्य् अन्तः किंवा मम मृदुलता मां क्लमयति ॥४३॥ [शिखरिणी]

किं च—

हन्त ज्ञानं मम विलुलितं क्वापि न स्यात् परन्तु प्रेमार्द्रं तद् भवति सुतरां तासु तु प्रेयसीषु । यस्मात् तासु स्फुरति न धिया प्रेममय्या परा त्वं नापि ख्यातिं बहिर् अनुगया तां पराकर्तुम् ईशे ॥४४॥ [मन्दाक्रान्ता]

[१०९] तच्-चेष्टा च, यथा—

मौनार्हे प्रतिभाषते स्म वचनौचित्ये मुनित्वं दधे शोच्यत्वे हसति स्म हास-कथने रूक्षत्वम् एवाददे । प्रस्तावे व्रज-सुभ्रुवां सखि-जनैर् निर्मीयमाणे हरेर् यद्यप्य् एवम् अथापि-वर्ण-विकृतेर् व्यत्यस्तिर् आलक्ष्यते ॥४५॥ [शार्दूलविक्रीडिता]

[११०] तासां विवाह-श्रवणे तु—

बहिः सुरसतां व्यञ्जन्न् अपि तर्हि बलानुजः । अन्तस् तु विरसः प्रैक्षि मर्मज्ञैः पक्व-पीलुवत् ॥४६॥ [अनुष्टुभ्]

[१११] तद् एवं स्थिते तासां जन्यं-मन्य-जनेन निज-निज-वधूनां नयनाय याच्यमानं तत्-पितृ-कुलं तासु न तद्-वाच्यम् अकार्षीत्, केवलं तु कर्णे कर्णे मिथ एव वर्णयामास ।

[११२] तासु गर्गादि-हित-वर्गाद् अपि क्रमाद् अधिगत-कृष्णैक-तृष्णासु प्राण-पर्यन्त-सङ्क्षयाशङ्कया तम् उद्वाहम् अपि न सहसा न च साक्षाद् उद्भावयामास, किम् उत तादृग्-अवस्थानां प्रस्थापनम्?

[११३] अथ यथा दुर्वहश् च विवाह-निशमन-सङ्क्लमः प्रथम-लभ्य-बाल्यम् आरभ्य पूर्व-पूर्व-क्रम-लब्ध-विसरतया परम्परयावधारित इति क्रम-विषयतया विष-भक्षणवद् अभ्यासव्यासत एव सोढस् तथेदम् अपि बाढं सोढव्यम् इति तथैव श्रावयामास ।

[११४] तास् तु तद्-वार्ता-मात्रतः परमार्ता जाताः । यत्र च कष्टम् भोः कष्टम्, जीवनम् अपि निष्ठीवनम् आपयितुं व्यवसितिम् आयाताः । [११५] तथा हि प्रथमं तावत् प्रत्येकं पूर्वाह्नतः पूर्वम् एव गृहाद् आत्मानं निह्नुवानाः सम्भृत-गम्भीर-नीरम् उच्छलत्-तरङ्ग-सङ्घ-निह्राद-विलीयमान-कर्णं काल-वर्णं कालिय-ह्रदम् एव निर्व्यतिरेक-विवेकम् अन्तरेण भावान्तरेण भावयाम् बभूवुः ।

[११६] अथ ताः समस्ता एवाबलाः केवलतया गता अपि समस्ता बभूवुः । परस्परम् अपरिचित-प्रायतया निचायन्ति स्म । पप्रच्छुश् च—का भवत्यः? इति । [११७] प्रचिते च परिचये तत्राव्रजन-प्रयोजनम् अप्य् अन्वयुञ्जत ।

[११८] ततश् च समान-वासनावासित-मानस-व्यसन-शंसक-दशन-वसनादि-रुचि-विलोकन-वलित-मिथः-स्नेहाद् आलिङ्गित-कण्ठा मुक्त-कण्ठम् उत्कण्ठया स्फुटम् एव रुरुदुर्, विविदुश् च परस्परं हृदयम् ।

[११९] तद् एवं कुलाङ्गनानाम् अपि तासां स्वयम् एव निष्कुलाकृत-मनसाम् उत्कृष्ट-गुणतयाकृष्ट-सर्व-नयना श्री-राधा तु स्वत एव मध्यम् आधारताम् आपन्नातिकष्टतः प्रकटम् एव निज-निश्चयम् आविश्चकार, यथा—

यद्य् एतद्-वपुर् अन्य-सात्कृतम् अभूत् पित्रादिभिस् तर्ह्य् अदः प्रेत-ग्रस्तम् इवापि जीवद् अधिकं धिक्-कार-योग्यं भवेत् । धिक् चात्मानम् अहो यद् एष सहतेऽप्य् एतस्य सङ्गापदं तत्-तीर्थाय बलाद् बलानुजकृते कर्तव्यम् अस्यार्पणम् ॥४७॥ [शार्दूल]

[१२०] विस्तरम् अत्र चालं कृत्वा, यतः श्रेयांसि बहु-विघ्नानि इति नीति-निघ्नतया नातिविलम्बनम् आलम्बनीयम् इत्य् उत्थाय ताभिः सह मिथो बद्ध-पाणितया पानीय-समीपं प्रस्थाय यमुनां प्रत्य् अञ्जलिं वलयन्ती साश्रु-गद्गदम् अर्धोद्गत-वर्णम् उद्गदति स्म—

गोष्ठ-क्ष्मापति-दम्पती श्वशुरतां रामानुजः स्वामितां वृन्दारण्यम् इदं सदापि भजताम् आरामतां नः परि । याः स्नेहाद् व्यतिबद्ध-हस्तम् अभितः कालिन्दि मग्ना भवत्- पानीयान्तर् अमूर् भजन्तु सखितां त्वाम् आश्रितास् तद् वयम् ॥४८॥ [शार्दूल]

[१२१] अथ सहायान्तराण्य् अपि ताभिस् तद् अन्तराप्तानि यथा ।

[१२२] तद् एवम् अमूम् अनु पुनर् अमूर् असाधारण-बाधानाम् आधारतया प्राण-धारणायां तु धुत-कारणा ह्रदम् अगाध-जलं वलमानाः प्रति प्रथिताकाश-वाणी प्रत्यावर्तयितुं प्रत्याशां वर्धयामास ।

अहह गोप-सुताः सह-साहसं न सहसा कुरुतापुरु-बुद्धयः । शृणुत वः प्रतिकूल-कुसङ्गतिर् न भविता न भवेन् न भविष्यति ॥४९॥ [द्रुतविलम्बिता]

[१२३] तद् एवं—

विरहावग्रह-क्लिष्टा गोपी-भूमि-सरोजिनीः । कृत्वा गीः-सुधया सिक्ता देवाब्दास् त्रि-दिवं ययुः ॥५०॥ [अनुष्टुभ्}

[१२४] ततश् च विस्मय-फुल्ल-विलोचनतया व्यतिविलोकमानासु तासु सूरजा-पूरतः काप्य् अदूरतः समेत्य श्री-राधाम् उपेत्य सर्वाश् चाहूय स्वयं विभूय तत्-तद्-गात्रं गृहीत्वा पात्रं मोचयितुम् ईहित्वा तीरं प्रतीरयामास । [१२५] सा हि फुल्लेन्दीवर-सुन्दरी स्वयम् एव कालिन्दी । तया च तीरम् आनीतासु तासु वृन्दया कथित-तत्-तद्-वृत्त-वृन्दया मधुमङ्गलेन च वाञ्छित-तद्-वृत्त-मङ्गलेन सहिता परम-हिता महिता पूर्णिमा च तूर्णम् एवागता ।

[१२६] ततः प्रतिस्वं तरु-मात्रावलम्बन-गात्रतया निश्चेतनवत् कृत-केतना व्रज-निकेतनाङ्गनाः सालिङ्गन-सम्बोधन-पूर्वं गीर्वाण-वर्णित-वाणीवद् एव वदमाना तत्रानुवदमानाभ्यां वृन्दा-कालिन्दीभ्यां सार्धं बोधयामास ।

[१२७] बोधयित्वा च पुनर् भणति स्म, परम-मसृण-मतीनां भवतीनां कथम् एतावती कर्कशता जाता? । [१२८] वस्तुतस् तु—

चन्द्रो न हत-कलङ्कः क्वचिद् अपि न कलङ्कि वक्त्रं वः । चन्द्रो मुहुर् अपि नश्यति नश्यति नहि वर्ष्म युष्मदीयं तु ॥५१॥ [उपगीति]

[१२९] किं च, तिसृभिर् अप्य् अस्माभिर् अपरोक्षं परोक्षम् अपि तथा साहाय्यं कार्यम्, यथा कृष्ण-मात्र-पति-गतीनां भवतीनां नानभीप्सित-पुरुष-शय्या-योगः स्यात् ।

[१३०] अथवा तद्-विषयकस्य भाव-मात्रस्य स एष प्रभावः, किम् उत भवद्-विधानां महा-भावस्य? यं खलु गोप-वर्ग-नृपतिं प्रति गर्गः प्रतिज्ञातवान् ।

य एतस्मिन् महा-भागे प्रीतिं कुर्वन्ति मानवाः । नारयो भिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥ [भा।पु। १०.८.१८] इति ।

[१३१] तस्मात् परम-शुभवत्यः स्वयं भवत्यः पुनर् अत्र चिन्तां न कुर्वन्तु, किन्तु गुरु-वशंवदतया वदमानाः शम् आसीदन्तु इति ।

एवं तस्यां सान्त्वयन्त्यां तमालस्य्- आधः स्थात्री हेम-गात्री-ततिः सा । न्यञ्चद्-वक्त्रा बाष्प-नेत्रा तदीयां पत्र-श्रेणीं मार्जयन्त्य् एव तस्थौ ॥५२॥ [शालिनी]

[१३२] तद् एवं सानुव्रजनम् आत्मानः परिरभ्य ताः कृत-प्रस्थितीर् उपलभ्य तद्-उपदेशं विश्रभ्य सद्यः समुद्यन्तीं कृष्णावलोक-तृष्णां प्रतिलभ्य हस्त-ग्रह-ग्रहिल-महिलाभिः साहचर्यम् आचर्य प्रच्छन्न-वर्त्मना निष्प्रत्यूह-निगूह-मानाङ्गं निज-निजाङ्गन-समीप-वनं श्री-राधादयः समाजग्मुः । तद्-दिनतश् च—

विशाखा-ललिता-मुख्याः श्री-राधा-सख्यम् ऐयरुः । पद्मा-शैव्यादयश् चन्द्रावलेर् इत्य् आदि गम्यताम् ॥५३॥ [अनुष्टुभ्]

[१३३] तद् एतद्-अवधिका मुहुर् अधिका सहायतायाः सहायता तासु कृष्ण-तृष्णा-निरतासु नाश्चर्या । [१३४] यतः साधारणस्यापि—

साहायकं सुविधिर् इच्छति यस्य कर्तुं तस्यानुकूल-निचितिं युगपच् चिनोति । नाना-ग्रहर्क्ष-शकुनामर-मानवास् तद्- राज्यादि-लब्धि-समये ह्य् उदयन्ति भव्याः ॥५४॥ [वसन्त] इति ।

[१३५] प्रस्तूयमानं च श्रूयताम् । अथ मधुमङ्गलं सङ्गिनं विधाय पूर्ण-मनाः पूर्णिमा वृन्दया सह सहसा हरि-समीपम् आससाद । [१३६] भानु-तनूजानुभावित-भावि-भाव-विशेष-श्लेषा समीपतः स्वागमनम् अपह्नुतवती । पथि पुनर् इदं प्रच्छन्नं पप्रच्छ—वृन्दे, व्रजेन्द्र-नन्दनस्य प्रेम किम् आसु वर्तते?

[१३७] वृन्दाह—अथ किं? किन्तु निगूढम् ।

[१३८] यमुनाह—एतासां तु स्पष्टम् अद्य दृष्टम् ।

[१३९] वृन्दाह—तच् च दशम-दशा-वशाद् एव ।

[१४०] यमुनाह—तर्हि किं पारस्परिकं तत् परस्परं न जानते?

[१४१] वृन्दाह—यदपि तथा निगूढम्, तथापि विक्रियां विना प्रेम कथं ध्रियताम्? सत्यां च विक्रियागत्यां परस्परं दुरपह्नव एव नव-नवानुरागः कथम् आव्रीयताम्? यतः—

तमाला वक्षोज-प्रभ-घुसृण-मुद्रा-निवलिता नखाङ्क-श्रेणीभिः शवलित-दलाश् चम्पक-लताः । सरोजानि श्यामान्य् उत कनक-वर्णान्य् अधरज- द्रव्याण्य् एवं वन्याप्य् उभय-रतिम् अत्र प्रथयति ॥५५॥ [शिखरिणी]

[१४२] तद् एवं सम्पृच्छ्य प्रच्छन्नायां यमुनायां वृन्दा-मधुमङ्गल-पूर्ण-पार्श्वा पूर्णिमा हरेर् अभ्यर्णम् आजगाम । आगम्य च विरहताप-निर्वापणाय क्वचिद् एकान्ते नितान्त-कान्त-चन्द्रकान्त-शिला-मध्यम् अध्यासीनं परम-ध्यानवन्तं तम् अन्तर्-मनसं सन्तं निध्यातवती । तस्मात् प्रच्छन्ना चेदं स-गद्गदम् आकलितवती—

दोषाकरः स दोषा-

कर एव न चात्र सन्देहः ।

कमलं खल्व् अपि कमलं

राधा-वदनं तु शर्मणां सदनम् ॥५६॥ [उद्गीति]

[१४३] तद् एवं मुहुर् मोहम् ऊहमाना शनैर् उपसृत्य तद् आदृत्य ताः कृत-कृत्यं-मन्या सास्रम् आशीः-सहस्रेणेदं श्रावितवती—

विद्यते दुर्लभं किं ते विन्ते तद् यद् भवान् अपि । अवश्य-वश्यतां यस्य पश्य लब्धास् तु मद्-विधाः ॥५७॥ [अनुष्टुभ्}

[१४४] कृष्णस् तु प्रेम-पुषितेन घुषितेन तेन वाक्येन स्पष्टम् अपि तेषाम् अपि निज-भावम् अस्तरिष्ट । सज्-जातानां लज्जा केवलं बलाय सज्जतीति ।

[१४५] अथ कमल-लोचने सादर-दर-सङ्कोच-लोचन-निकोचतया कृत-रोचने सा स-प्ररोचनम् अवोचत—

[१४६] अयं मधुमङ्गल-नामा स्वयं स्व-सङ्गम-मङ्गल-सङ्घेन सङ्गमनीयः इति तत्-पाणी समानीय हरि-पाणी प्रति समर्पणीयतया प्रणीतवती ।

[१४७] हरिर् अपि, स्व-विहार-सुख-सार-समुपहार एवायम् इति तम् अनुसन्धाय प्रेम-बन्धाय स्फुरद्-इङ्गितम् आलिङ्गितवान् । [१४८] सोऽपि तं किल विलक्षणम् आश्लिक्षद् यत्र चाश्लिषन् मिथः पुलक-कुलम् ।

[१४९] तद् एवम् उपतिष्ठमानतया द्वयोर् अप्य् एक-निष्ठतायां जातायां पुनर् वृन्दावन-चन्द्रमा वृन्दां निर्वर्ण्य पूर्णिमां प्रति वर्णयामास, केयं भवतीम् अनुवर्तमाना वर्तते?

[१५०] पौर्णमासी स-स्मितम् उवाच—किम् इयं न परिचीयते भवता?

[१५१] श्री-कृष्ण उवाच—नूनं यन्-नाम्ना वनम् इदं धाम्ना समाम्नातम् अस्ति, सैवेयम् अनुमेया ।

[१५२] पूर्णिमा तु स्मित-पूर्ण-वदनं ताम् अवादीत्, नाद्यावधिकम् अस्य विद्यमाना बभूविथ?

[१५३] श्री-कृष्ण स-स्मितम् उवाच—अपरिचिता न स्वयं मिलनाय समुचितायते ।

[१५४] पूर्णिमाथ वृन्दाम् ऊचे—भवतु चेतः परं भवती सचेतः सर्वदास्य दास्यम् इवाचरन्ती चरिष्यति ।

[१५५] अथ साश्रु-वृन्दां वृन्दां प्रणमन्तीम् एव रमा-रमणस् तु वनमालया पुरस्कुर्वन् वन-मालया पुरश्चकारेति गमयामास ।

[१५६] तद् अनु च व्यञ्जित-निज-सुखासञ्जनया पूर्णिमा-वृन्दयोः वाचा रञ्जनया चिराद् विराजमानः पुनर् गतयोस् तयोर् लब्ध-महा-सहायता-महसा बृंहित-मना महामनाः स तु पुरुष-सिंहः सह गच्छतस् तद् एव मधुमङ्गलतः कालिय-ह्रद-सङ्गतं प्रेयसी-प्रसङ्गं श्रवसि सङ्गमयन् सखि-सङ्घं सङ्घति स्म । स तु प्रसङ्गः सङ्गम्यते—

कस्माद् आगान् मुनीशा फणि-ह्रद-वलयात् तत्र किं राधिकाद्या हेतौ कस्मिङ्स् तद् एतन् मम तु कथयतो रुध्यते हन्त कण्ठः । हा धिक् किं किं विधाता कुशलितम् अकरोद् एव किं यावद् एवं सिध्येद् इत्थं स तेन व्यतिकथितया व्यश्वसीन् न्यश्वसीच् च ॥५८॥ [स्रग्धरा]

[१५७] पुनश् च श्री-कृष्ण उवाच—भगवत्याः पुरतः किम् अपि ताभिर् उक्तम्?

[१५८] मदुमङ्गल उवाच—नहि नहि, किन्तु सा सुमुखी-ततिर् अधोमुखी-भवन्ती सन्तीव्र-लोचन-जल-स्खलनतः स्तनं सिञ्चन्ती तमालम् अपि तं म्लापयामास ।

[१५९] श्री-कृष्ण उवाच—अथ तासां मनोरथ-पथः किम् अवगतः?

[१६०] मदुमङ्गल उवाच—अथ किं ।

[१६१] श्री-कृष्ण उवाच—कथम् इव?

[१६२] मदुमङ्गल उवाच—ताभिर् मुहुर् अपि भवतः सवर्णस्य तमालस्यावलोचन-रचनेन ।

[१६३] श्रीकृष्ण उवाच—विशेषेण चेत् कथ्यताम् ।

[१६४] मदुमङ्गल उवाच—कालिन्दी-वचनेन च, यतस् तां प्रविशन्तीनां तासाम् इमां काकुम् आकुली-भवन्ती पश्चाद् अस्मासु सानुकृतवती । यथा—गोष्ठ-क्ष्मा-पति-दम्पती [GCP १५.१२०] इत्य् आदि ।

[१६५] श्री-कृष्ण स-गद्गदम् उवाच—आगच्छ गच्छाव तावत् सखि-सङ्घम् इति ।

[१६६] अथ मधुकण्ठः सोत्कण्ठं पप्रच्छ—ततस् तासां का मतिर् जाता?

[१६७] स्निग्धकण्ठ उवाच—ततश् च व्रज-सुन्दरीणाम् उन्मनस्तया धर्म-त्रस्ततया च महती मनः-कथा जाता । यथा—[१६८] ननु यद्य् एवम् उन्मनस्ता-ग्रस्ता धर्म-रक्षणार्थम् अक्षमासि, तर्हि प्रत्यासन्न एव धर्म-त्यागः? तत्राह—

धर्मस् त्याज्यः कथम् अतितरां लोक-युग्माभिनन्दी?

[१६९] तर्हि लोक एव त्याज्याः? तत्राह—

लोकस् त्याज्यः कथम् अतितुल-प्रार्थितार्थस्य धारी? ।

[१७०] ननु तर्हि तेन चार्थेन किम्? तत्राह—

अर्थस् त्याज्यः कथम् अयम् अथ प्राण-रक्षाधिकारी?

[१७१] नन्व् एतावति सङ्कटे प्रान-त्याग एव त्राणदः? तत्राह—

प्राणस् त्याज्यः कथम् इव न सा लालसा मां जहाति ॥५९॥ [मन्दाक्रान्ता]

[१७२] क्षणं शून्यम् इव स्थित्वा प्रतिस्वं पुनः स्वगतम् ऊचुः—

हन्त तात-जननी-कुलं कुलं चान्यद् आक्षिपतु मां यथा तथा । कृष्ण-राग-रुचिरा मतिः कथं जातु यातु रुचिम् अन्यभाविताम् ॥६०॥ [रथोद्धता]

[१७३] पुनश् चिन्तायाम् अपि सोद्वेगम् ऊचुः—

निद्रा मम सुखदालिर् या तस्य स्फूर्ति-विस्मृती दत्ते । ताम् अपि चिन्ता क्रव्याद्-वृद्धा शश्वद् बलाद् ग्रसते ॥६१॥ [आर्या]

[१७४] तस्य च तथा वचनम्, यथा—

रे रे चित्त, प्रणय-मयतापारतन्त्र्यं किम् एषि त्वं तत्रापि व्यसनि यदि वा धर्मतस् तत् प्रयाहि । हंहो किंवा पर-गृह-जुषां भाविनीनां च भावे लग्नं मग्नं भवसि बहुधा प्रोज्झ्य तत्-तद्-विचारम् ॥६२। [मन्दाक्रान्ता]

[१७५] तद् एवम् अभिध्याभ्रमाभिध्यानतः कथं कथम् अपि क्षपितेषु तेषु दिनेषु व्रज-वासिनां सम्भ्रमेण जात-व्युत्क्रमे धेनुक-वध-विक्रमेडित-वासरे प्रेयसा सह चमूरु-दृशाम् अमूषां परस्परम् अतिरम्यं सम्यग्-दर्शनम् आसीत् । तत्र तु—

तासां नित्य-प्रेयसीनां मुरारेर् जन्मन्य् अस्मिन् विस्मृतात्म-स्थितीनाम् । शोभा तस्य स्मारयन्तीव तत्त्वं धर्मत्रासं द्राङ् मुहुर् लुम्पति स्म ॥६३॥ [शालिनी]

[१७६] तथा च वर्णितं श्री-बादरायणिना—

पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैस् तापं जुहुर् विरहजं व्रज-योषितोऽह्नि । तत्-सात्कृतिं समधिगम्य विवेश गोष्ठं सव्रीड-हास-विनयं यद् अपाङ्ग-मोक्षम् ॥ [भा।पु। १०.१५.४३] इति । [वसन्ततिलका]

तथा हि—

पीतं हरेर् वदनम् अब्ज-रसं प्रसह्याप्य् आसां दृशा रचित-भृङ्ग-चकोर-भङ्गि । तेनापि सत्कृतिम् अमन्यत स प्रशस्ताम् आजीव्यतां गतवतीषु तद् आसु युक्तम् ॥६४॥ [वसन्ततिलका] तस्मिन्न् अपाङ्ग-शर-मोक्षम् अमूर् अकुर्वन् व्रीडा-स्मिताञ्चि-नयनैर् अनुनिन्यिरे च । तेनापि सत्-कृतिम् अमन्यत स-प्रशस्ताम् आजीवि लोक-चरितं किल तादृग् एव ॥६५॥ [वसन्ततिलका]

किं च—

कृष्णं लक्ष्यं विधायामूर् अभ्यास्थन् नेत्र-पत्रिणः । तच् च भक्तिर् इतीवाहुः शराभ्यास उपासनम् ॥६६॥

[१७७] तदा च, तास् तन्-मुख-सुधा-रुचि-रुचिपा-नाना-पूर्ण-रुचयोऽपि वलतस् तत्-कुल-पालिकाभिर् निलयम् एव नीताश् चकोर-वध्व इव पञ्जर-मध्यम् । तद् अनु च—

आयाताः प्रतिबिम्बतां यदपि ताश् चित्त-ह्रदे श्री-हरेश् चित्रं तत्र तथापि बिम्ब-पदवीं स्थित्या विकर्षेऽप्य् अयुः । यत्र प्रस्फुट-तारका इव तदा सर्वा बभुः सर्वतः श्री-राधा पुनर् अन्तरिन्दु-वलय-द्योत-श्रिया दिद्युते ॥६७॥ [शार्दूलविक्रीडिता]

तत्र च—

पूर्वं तासां व्यवसितिर् अभूद् एवम् ईषत् कदाचित् कृष्णं पश्यन्त्य् उपशमम् असौ लप्स्यते चित्त-वृत्तिः । दृष्टे दृष्टे पुनर् अथ मुहुस् तत्र चिन्तेयम् आसीत् किं भूयश् च क्वचिद् अहह तद्-वक्त्र-लक्ष्मीं पिबामः ॥६८॥ [मन्दाक्रान्ता]

[१७८] तत्र च सखीष्व् अपि गोपन-प्रक्रियेयम्—

नहि पर-पुरुषे वाञ्छा मम सखी काचित् कथञ्चिद् अप्य् अस्ति । प्रकृतिः सेयं यद् असित-वस्तुनि दृष्टे भवेत् कम्पः ॥६९॥ [आर्या]

तत्र तु,

राधा बाधा-प्रतिहत-तनुः सर्वदा धारणाभिश् चित्ते शान्तीर् अपि निदधती व्याकुलासीद् अतीव । हा हा तस्याः प्रिय-सवयसो प्य् आशु तद्-भाव-भावात् ताम् एवापुः कटुतर-दशां हन्त केऽमूम् अवन्तु ॥७०॥ [मन्दाक्रान्ता]

[१७९] तद् एव पर-च्छन्दता-मन्दतायाम् अपि—

सङ्कल्पः क्वचनान्वजीगमद् इतः साक्षात्-कृतिं श्री-हरेः स्वप्नः कुत्र च लोचनं क्व च वियोगार्तौ च राधादिषु । यैर् एतैः सुधया लतास्व् इव तया तास्व् इन्दु-बिम्बैर् जवाद् उल्लासावलि-लम्भनात् तरुणिमारम्भोऽपि सम्भावितः ॥७१॥ [शार्दूलविक्रीडिता]

[१८०] अथ स्निग्धकण्ठः समापन-दिग्धम् आह—

स एष राधिके सर्व-दुर्लभस् तव वल्लभः । त्वद्-अर्थं पीडयाप्य् आर्तो दिनानि क्रीडयानयत् ॥७२॥ [अनुष्टुभ्] तद् एवं सूताङ्ग-प्रभव-शिशु-युग्मे कथयति स्फुरत्-प्रेमावेशात् प्रतिपद-विविक्तेर् निघटनात् । कथा किं नाट्यं किं किम् उत निज-लीलेति विविधं समज्यासौ सार्धं स्फुरणम् अजितेनाप्य् अनुययौ ॥७३॥ [शिखरिणी]

[१८१] अथ कथायां वृत्तायां चिराद् एव च धीरतायां प्रवृत्तायां यथास्वं सूत-सुत-द्वयाय वितीर्ण-सर्वेहिताः सर्वे शयनाय सदनं विविशुः ।

इति श्री-श्री-गोपाल-चम्पूम् अन्व्

अपूर्वानुराग-चर्या-जागर्या नाम

पञ्चदशं पूरणम् ।

॥१५ ॥

(१६)

१२। अथ षोडशं पूरणम्

१८। प्रलम्ब-दव-संवर्त-निवर्तनं [१] अथ प्रभाते सभातेजसा प्रभाते परम-प्रभाववतां गोमतां प्रभाव् उपविष्टे कृष्ण-विशिष्टे तस्मिन् सदसि पूर्ववन् मधुकण्ठश् च कथायां यथावद् उपक्रमते स्म—स्निग्धकण्ठ! मदुपकण्ठतया राम-विक्रमान्तरम् आकर्ण्यताम्, यथा—

एवं गोचारण-मिष-मयं क्रीडति भ्रातृ-युग्मे वृन्दारण्यं तप-ऋतुर् अगात् प्राणिनां नातिरुच्यः । धत्ते यद् द्राक् स च मधु-गुणं तच् च नाश्चर्य-चर्यं तद्-युग्मं यद् वसति सततं तत्र नित्यानुरागि ॥१॥ [मन्दाक्रान्ता] निर्झर-स्वन-वशाम्बुदागम- भ्रान्ति-झिल्लि-कुलम् आप मूकताम् । अङ्घ्रिपाश् च झर-शीकर-प्लुताः पुष्पिताः परम् अमी मधुं दधुः ॥२॥ [रथोद्धता] वनस्य च्छायाभिर् जडित-जल-वृन्दे विकसतः शुचाव् अप्य् अब्जादेः पवन-विततिर् माधव इव । तद् एवार्द्रं कृत्वा कुसुमितम् अकार्षीद् अविरतं मिथो योग्यानां यद् व्यतिवहति मैत्री-सुख-शतम् ॥३॥ [शिखरिणी] तत्रासीन् नर-जातीनां ग्रीष्मेऽपि ऋतु-राण्-मतिः । पिक-भ्रमर-मुख्यानां तिरश्चां तर्हि का कथा? ॥४॥ [अनुष्टुभ्]

माधवस् तु यदा मित्रैः प्रविशन् वेणुना जगौ । तदा द्वि-गुणितो रेजे माधवस् तत्र सोऽपरः ॥५॥ [अनुष्टुभ्] ते गृहे मणिभिर् अप्य् अलङ्कृताश् चारु-कान्ति-विधये यद् उद्भवैः । पुष्प-पल्लव-मुखैर् अलङ्क्रियां शश्वद् आदिषत तस्य किं ब्रुवे ॥६॥ [रथोद्धता]

[२] अथ श्रीदाम-प्रधानतया सुदाम-वसुदामादिषु सभासद्वद् गोजाल-सम्भालनाय नातिदूरतः पृथग् उपविशत्सु लसत्सु बलानुज-बल-सुबलार्जुनादयस् तत्रागत्य नृत्य-रङ्गाजीवि-भङ्गितया सङ्गत्य शुभाशिषा विशेषितवन्तः । तैश् च कुत्रत्या विचित्र-नर्तक-प्रायाः प्रयाता भवन्तः? इति पृष्टा हृष्टात्मानः स्फुटम् उद्दिष्टवन्तः—भोः परम-दानशूराः ! दूराद् आगता वयम् यतः प्रथमं तावद् भवत्-कीर्ति-नर्तित-मनस्का जाताः, ततश् च शरीरेणापि भवद्-अग्रे नर्तितुम् इच्छावः । कुत्रापि चिराय वर्तितुं न समर्थाः । श्रोत्रयोर् इव नेत्रयोर् अपि सुखं बिभ्रतः सम्प्रति वर्तामहे ।

[३] तत्र श्री-कृष्णः स्वान् उवाच—अहो, प्रत्येकम् एवास्माकं लब्ध-वर्णाव् इमौ कर्णाव् एव पुरु-गुरू अभूताम् याभ्याम् एषां महाशयानां गुणानुभवम् आसाद्यामहे स्म । कियद् वा मनः सम्प्रशंसया मानयामः, येन तत्रैव सामोदं प्रोदसाहयिष्महि? चरणाभ्यां परितः किं नाचरितम्, याभ्यां मनोरथ-पथम् अलम्भयिष्महि? लोचन-युगलाय रोचनं किम् अन्यद् वितरामः, येन गुरूपदिष्टं तन्-मिष्टम् अनुभाव्यामहे? नासाद्वयात् किं नासादयाम, येनानेनामोदेन सामोदीक्रियामहे? त्वचः किं वचः कथयामः, यया तम् इदम् अदः-सम्बन्धि-गन्धवाहम् अवगाह्यामहे? आत्मनि तु सुभग-नाम-धेयं भाग-धेयं कियद् आधेयतां विन्देत, यस्य तत्-तत्-फल-वलयेनान्तर् बहिर् अप्य् आव्रियामहे?

अहो ! अस्तु तावन् नाम्नैव श्रियं दातुर् अस्य महाराजस्य विराजमानता, पारिषदानाम् अप्य् अमीषां महीमानम् उपनिषदोऽपि वर्णयितुं न शक्नुवन्ति, येनात्मानम् अपि विस्मार्य नृत्यम् अनुवर्त्यामहे । किम् असङ्कीर्णम् अस्मासु न वितीर्णम् अमीभिर् महा-महिम-चरणैः, यत् खल्व् अतीत-लोकेन निजालोकेन निर्निमेषतया सुपर्वाणः क्रियामहे? कतिशः स्वयं न प्रतिपालिता वयं, यन् निज-च्छायाम् आपाय्य पर्याप्यामहे? कतरद् वा मनः-सन्तोषणं पोषणं न विहितं यन् निज-दृष्टि-सुधा-वृष्टिभिर् अभितर्प्यामहे । पश्यत पश्यत, नेत्र-गति-विचित्रताम् अमीषाम्, यया खलु नृत्यम् उपादिशद्भिर् आमीभिर् अनुगृह्यामहे । तस्मान् नृत्य-चर्या-परिचर्या-पर्युत्सुका वयं तद्-अर्थम् एव योग्यम् अवसरं मृग्यन्तो वर्तामहे ।

[४] सभासद ऊचुः, भो भोः सुशील-वासनाः! कुशीलवा इव स्तुवाना यदि सर्व-पर्वणि वर्तका नर्तकाः स्थ, तर्हि भवद्भिः समर्हिता निज-कला-कलापाः कल्प्यन्ताम्, विशेषाद् अनेन श्याम-धाम-निकाम-राम-राम-विग्रहेण । यः खलु चित्राङ्गो न तु चित्राङ्गः, चन्द्रकी न तु चन्द्रकी, पीतांशुको न तु पीतांशुकः, श्याम-घनो न तु श्याम-घनः, वंश-प्रवीणाधरो न तु वंश-प्रवीणाधरः, गुण-रूपी न तु गुण-रूपी, विद्याधरो न तु विद्याधर इति वैचित्रीभिर् नेत्राणि विचित्रयति ।

ततश् च,

अर्जुन-सुबलादिभिर् उपगाने पाणि-शृङ्ग-दल-ताल-निधाने । नृत्यन्तं तं व्रज-शिशु-सभ्याः प्रशशंसुर् ये श्रुति-नुति-लभ्याः ॥७॥ [पादाकुलक] श्री-कान्तेऽप्य् अथ निष्क्रान्ते विवेशावेशतो बलः । तद्-आलोकः सभ्य-लोकः श्लोकयामास तद् द्वयम् ॥८॥ [अनुष्टुभ्] यद्य् एतयोर् वर्ण-भेदः स्यान् नैव श्याम-गौरयोः । तदा न परिचीयेताम् एतावङ्ग-गुणादिभिः ॥९॥ इति । [अनुष्टुभ्] अङ्ग-हारे तडिल्-लीलाम् अङ्गे मेघेन्दुतां क्रमात् । व्यञ्जं व्यञ्जं विविशतुः सङ्गि-गातृ-कुलाचले ॥१०॥ [अनुष्टुभ्]

[५] अथ सभासदः स्व-स्व-हृदय-विहारि मणिमय-हारि हारादिकं ददतस् ते तु प्रत्याचख्युः—न वयं द्रव्य-वनीयका नर्तक-नायकाः, किन्तु नियुद्ध-याचनका एव, शुभवन्तो भवन्तो मल्ल-तल्लजा इति वर्णनां कर्णयोः सञ्चित्य निश्चित्य च समन्ताद् विचित्य सर्वोर्ध्वं भवतां भवतां समितिं समागताः । अतस् तद् एवास्मदीयाय तोषाय पोषाय च दीयताम्, न तु मोषाय नीयताम् ।

[६] तद् एवम् अवधारयद्भिर् एव हसद्भिस् तैः सभासद्भिर् उपसर्पद्भिः सह सहजातौ कृत-शातौ तत्र-भवन्तौ तदारब्धवन्तौ । यत्र—

भ्रामणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः । [भा।पु। १०.१८.१२] उरःपेषम् इवामीभिर् न्ययुध्येतां बलाजितौ ॥११॥ [अनुष्टुभ्]

[७] ततश् चानवद्यया विद्यया तोषितेषु तेषु निखिल-गुणि-जन-गर्व-निवर्तकेषु कृष्णादि-नर्तकेषु सर्व-दुरासद-श्रीदामादि-सभासदः स्वक-सर्व-कला-वेदिता निवेदिताचरणाय नृत्य-विद्याम् उद्भावयामासुः ।

[८] यत्रानन्द-कन्दलिततया स्वयम् अपि लब्ध-तृष्णाः कृष्णादयस् तदीय-शिक्षा-परीक्षणाय सुदुर्गम-तालादि-धरास् तत्-परिकरा एव बभूवुः ।

[९] अतएवोक्तम् ऋषिणा—

क्वचिन् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् । शशंसतुर् महाराज साधु साध्व् इति वादिनौ ॥ [भा।पु। १०.१८.१३] इति ।

[१०] अथ गोषु गोचरताम् अतीतासु ततश् चलितवन्तस् ते—

बिल्वैः कुम्भैः कर-स्थामलक-समुदयैस् ताडयन्तो मिथस् ते हासं हासं मृगेहाविकिर-भणितिभिर् दर्दुरादि-प्लुताद्यैः । अस्पर्शि-स्पर्शनार्थं नयन-परिवृतेर् मोचनैः कृष्ण-राज्य- स्यन्दोली-सिंह-पीठाद्य्-अधिकृतिज-सुखैर् निन्यिरे याम-वर्गम् ॥१३॥

[शार्दूलविक्रीडित]

तत्र च—

नृपतिर् अजनि कृष्णः स्तोककृष्णः प्रधानं सुबल-सचिव-रामस्यापि तद्वन् नृपत्वम् । उभय-बल-पती श्रीदाम-भद्राव् इतीदं विध-विविधतया तौ राष्ट्र-लक्ष्मीम् अकार्ष्टाम् ॥१४॥ [मालिनी] क्वचित् स्थानं क्वचिद् यानं क्वाप्य् अर्थे सन्धि-विग्रहौ । पराजय-जयौ क्वापि क्रीडायाम् अनुचक्रतुः ॥१५॥ [अनुष्टुभ्] एवं तौ लोक-सिद्धाभिः क्रीडाभिश् चेरतुर् वने । नद्य्-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च ॥ [भा।पु। १०.१८.१६]

[११] तद् एवं स्थिते दिन-कतिपये च प्रस्थिते कदाचिद् अहर्-मुख एव पूर्व-पूर्व-पूर्वदेव-निर्वापण-भृत-निभृत-चिन्ता-कृत-मति-भ्रंशस्य कंसस्य स्वयम् अभ्यासं प्रलम्ब-नामा देव-ध्रुग् अभ्याजगाम । अभ्यागम्य च प्रणम्य व्यक्तम् एव तम् अनुयुक्तवान्—देव, तव केयं परिदेवना बलवद् आवर्तमाना दृश्यते?

[१२] कंस उवाच—न जानासि? ममान्वग्-भूय स्थितं विशिष्टं किं वावशिष्टम्?

[१३] प्रलम्ब उवाच—भवतु, माम् अपि यामम् एकं व्यापारय । कंसस् तु तुष्णीम्-भूय दूयमान-वदनः क्षणम् आसीत् ।

[१४] प्रलम्ब उवाच—देव, कथम् इव ।

[१५] कंसः स-वैरस्यं विहस्य तस्य तत्र पतङ्गतां विभावयन्न् उवाच—त्वम् अप्य् अतमसि प्रज्वलज्-ज्वलन-वर्त्मनि वर्तनीयः ।

[१६] प्रलम्बः स-क्रोधम् उवाच—अहो, सर्वङ्कष-ज्वालस्य कालस्य महिमा हिमाचलम् अपि ज्वलयति, यदाश्रितांस् तडागांश् च ताडयति ।

[१७] कंस उवाच—भवतु यथा भवद्-इच्छा ।

[१८] इति निशम्य तम् आनम्य तद्-अवमानितश् च तदैव दैव-सन्दानिततया कृताविलम्बः प्रलम्बस् तादृश-क्रीडा-परेषु श्री-कृष्ण-वरेषु बाल-निकरेषु प्राप्त-दूर-भूर् विचारितवान्—

ताव् इमौ सुकुमारौ च सर्व-मारौ कुमारौ यौ । सहसा रहसा येन येन कंसाद् अगंसाताम् ॥१६॥ [अनुष्टुभ्]

[१९] सर्वोऽप्य् असौ सर्व-चालेन कालेन घटित-कठिनताभ्याम् आभ्यां चर्वित-गर्वः संवृत्तः, तद् अद्य समस्त-वासर-विसृमर-विहार-विसरज-विश्वास-प्रपञ्चनया वञ्चयन् बन्धुवद् एव स्कन्ध-द्वये हस्त-द्वय-कृत-बन्धं द्वयम् अपि प्रक्षिप्य क्षिप्रम् एव भोजराज-परिसरं परिसमुपहरिष्यामि इति ।

[२०] अथ स तु कल्की वल्कीकृत-कच्चरतादि-प्रच्छन्न-स्पर्श-वेशतया पूर्वं गोष्ठम् आगत्य परितो दृष्टिं वितत्य वेश्म-स्थित-गोप-बाल-विशेष-वेषं समूह्य तम् एव च व्यूह्य मिश्री-भवितुं शिश्रीषन् हसन्न् एव तत्र प्रविष्टः परिदृष्टश् च कृष्णेन ।

[२१] दृष्ट्वा च तच्-छलम् एवास्वच्छ-स्वच्छलायावलम्ब्य—भद्र, कथं विलम्बम् आलम्बथास्, तथापि भद्रं दुद्यूषा-समय एव समयितस् त्वम् असि इति विहस्य तद्-अनुकृत-गोप-बाल-सम्बन्ध-विशेष-सम्बन्धं परिहस्य च बहु-परितोषितेन तेन सह सहचरत्वं बलस्य बल-निर्जयार्थम् एव कलयाञ्चक्रे । ऊचे च—अद्यारभ्य, सभ्य, मम परम-सुहृद् भवान् एव । त्वाम् अहम् अक्षि-गततया स्थापयिष्यामि । श्रीदामा रामम् एवान्वेतु, स किल ह्य् अन्तर्-वर्धन-स्पर्धः स्पर्धन-गणम् एवार्हति इति ।

[२२] स तु क्रतुभुक्-शत्रुस् तत्र निर्विस्मयम् एव कुस्मयम् आनतया तथा स्थितः, यतः—

विश्वचिकीर् अपि स विधिः पिपठीर् यस्माद् भवेत् तस्मिन् । को वा चतुरं-मन्यः प्रथयतु निज-चातुरीं कृष्णे ॥१७॥ [उपगीति]

[२३] अथार्भक-समुदयं विभाग-द्वयम् अयं विधाय तं च प्रलम्बं स्व-बल-परिवृढतया दृढं निधाय तत्र च स-मत्सरम् इव बल-प्रलम्बौ श्रीदामात्मानौ मिथः प्रतिसङ्घट्टिनौ सङ्घटय्य परान् अपि सजूः-कुर्वाणतया तथा प्रघटया पराजितानां च शताय परिक्रीतानाम् अपि वाहकत्वं प्रकटय्य सङ्गराय कृत-सङ्गरः स माधवो विविध-क्रीडा-निविडमना बभूव । ततश् च—

अव्रीड-क्रीडतायां जयवद् इतरयोर् वाहयन्तो वहन्तस् तस्मिन् वाहानुकर्तॄंस् तुरग-तुलनया हासयन्तो हसन्तः । मर्यादा-निर्णये तु प्रथित-कलि-कुलं वादयन्तो वदन्तः

प्रापुर् भाण्डीरम् एते वनवन-भुवि गाश् चालयन्तश् चलन्तः ॥१८॥

[स्रग्धरा]

[२४] तद् एवं कुतूहले तु प्रबले बलं प्रलम्ब-स्कन्धारूढं सन्धातुं जित-भुजग-भुजः श्री-बलानुजः पराभवम् अगणयन् दुर्बलम् अदुर्बलम् अविचित्य स्वीकृतं स्वगणम् एव पराभावयामास ।

[२५] तस्यापाततस् तु वहनायमानानां मनो-ग्लानिः स्याद् इति स्वम् अपि तथा चकार, ततश् च—

ऊहे कृष्णः श्रीदामानं दैत्यः स श्री-रामाख्यानम् । अन्योऽप्य् अन्यं शूरं-मन्यः सर्वः प्रोचे धन्यो धन्यः ॥१९॥

[विद्युन्माला]

पूर्वं कृष्णः कौतुके येन दृष्टः सौम्यः पश्चाद् रामकर्षे तु भीष्मः इत्य् एवायं स प्रलम्बस् तु पर्यङ्- मर्यादातः पर्यगात् तं प्रगृह्य ॥२०॥ [शालिनी] रामः क्रीडाविष्टताश्लिष्ट-बोधस् तं नाज्ञासीद् दृष्ट-मात्रं च कृष्णः । पूर्वः प्रायेणार्जुता-भित्त-चित्तः पश्चाद्-भावी चातुरी-सन्धुरीणः ॥२१॥ [शालिनी]

[२६] अथ तथापि गिरि-निवह-निभ-वहल-सारता-वह-दुर्वह-स्वभावता-भावित-सङ्कर्षण-वपुः-कर्षण-जात-धर्षण-वशान् निविड-पीडिततया व्रीडित-चित्ततया च स पुनः पुनर् ईडितं-मन्यः स्वम् अखर्वं पूर्व-सिद्धं पूर्वदेव-वपुर् आविर्भावयामास ।

यर्हि रामम् अवहद् दनोः सुतः शुभ्र-धाम-वपुषं तमः-प्रभः । इन्दु-हारि तम इत्य् अमुं तदा दिव्य-लोक-निकरस् त्व् अमन्यत ॥२२॥ [रथोद्धता] तस्मिन् किञ्चित् त्रासम् आपन्नवान् स ज्येष्ठः पश्यन् द्राक् कनिष्ठस्य वक्त्रम् । तद् भ्राम्यद्-भ्रू-लीलया लब्ध-दृष्टिर् दुष्टं मुष्ट्या ताडयत् सुष्ठु मूर्ध्नि ॥२३॥ [शालिनी] ततः प्रहत-मस्तकं रुधिर-रूषितं तद् वपुः पतत् तुलितम् उज्जहत् प्रतिहरि द्रुतं पुप्लुवे । यथाञ्जन-मही-धरं दलितम् अक्त-रक्त-द्रवं त्यजन् द्रवति वज्रकः सपदि वज्र-पाणिं प्रति ॥२४॥ [पृथ्वी] प्रलम्ब-पतनं दूरे प्रलम्बार्याप्तिर् अन्तिके । उभे ते युगपद् दृष्टे जज्ञाते स्मित-विस्मिती ॥२५॥ [अनुष्टुभ्] बाष्प-श्लिष्टतया तस्मिन्न् आश्लिष्टौ भ्रातरौ मिथः । या वाश्लिष्यार्द्रतां याता बन्धुता बहिर् अन्तरम् ॥२६॥ [अनुष्टुभ्] महा-रवं कृतवति च प्रलम्बके तदा द्रुतं मृतवति च द्यवि स्थिताः । सुनिर्वृता ववृषुर् अलं कुलं व्यतर्कयन्न् उपहसितिं हरेर् अपि ॥२७॥ [रुचिरा] वाहक-शिरसि प्रहरणम् अत्रादिष्टं सदा विहृतौ । मर्यादातिक्रान्ता प्रलम्ब भवता तथा तु नास्माभिः ॥२८॥ [उद्गीति]

[२७] तद् एवं प्रलम्बालम्भन-सम्भ्रमेऽप्य् अनुद्भ्रान्त-चित्तास् ते शृङ्गिनी-वित्ताः कुणपताम् इतस्य प्रमीतस्य तस्य पितृ-वन-वेशं प्रदेश-लेशं परित्यज्य योजन-व्यज्य-विस्तार-प्रशस्त-भाण्डीर-तल-मण्डलम् एवाधिष्ठाय विहार-निष्ठाः क्रीडापणस्य स्पृहयाय्या जयाय्या गृहयाय्यास् तृणलोभाविष्ट-तया वृक्ष-षण्डाद् विप्रकृष्टाम् अपि यमुनाच्छानच्छ-मुञ्जाटवीं प्रविष्टानाम् अन्धी-भूतानां पाद-बन्धनानाम् अन्वेषणाद् विश्लेषम् आजग्मुः । ततः कथम् अप्य् अवधानतः प्रनष्ट-चित्ततया स्पष्ट-कष्ट-चित्ता रंहसा सङ्घशः सभयं ह्वयन्ते स्म । [२८] नूनं देशाधिपति-निदेशतः सदेशम् आगता एव केचित् क्रूरा गा दूरगा विदधुर् इति च ध्यायन्ति स्म ।

[२९] ततश् च गवां खुरादि-चिह्नैर् अह्नाय तासाम् अध्वानं लब्ध्वा समस्ता एव ता हरिर् अह्वास्त, यथा—

कृष्णे तटाग्रम् अधिरुह्य सुवर्ण-वर्ण- वल्गूत्तरीयम् अनुघूर्ण्य वितीर्णहुतौ । गावः प्रतिस्वम् अभिनेदुर् उदीर्ण-तापा गर्जत्-तडिद्-घन-घनाघन-तृष्णयेव ॥२९॥ [वसन्ततिलका]

[३०] तद् एवं यदालम्भि चास्तम्भि च नैचिकीनिचयस् तदानीम् एव च दृष्ट-निर्विलम्ब-प्रलम्ब-प्रलय-चराः कंस-चरा लब्धावसरा मुञ्जाटवीम् उद्भट-चेष्टतया वेष्टयित्वा निर्निवारण-कृपीट-कारण-वृष्टिं झटिति तादृश-दुष्ट-वौषट्-कारास्पद-तद्-विलक्षण-तेजसि तस्मिन् प्रतिपक्षता-कल्पनया निसृष्टवन्तः ।

[३१] या खलु ज्वाल-कलयापि सर्वं रोषाद् ओषामास कल्पम् इति प्रज्वलति महा-ज्वलने पट-पटायमानायां च महा-मुञ्जाटव्यां भीततयास्त-व्यस्त-चालास् ते गोपालाः सखि-वलयारामतया कलित-केलि-जालाव् इह राम-गोपालाव् एव भूरि-दूरतः शरणतया समुपाजग्मुः । तत्र च—

दावाग्निं दृष्ट्वा ते यदपि हरिर् अक्षापरतया समीयुर् वैयग्र्यं तदपि निज-रक्षाम् अवृणुत । प्रसक्तिस् तस्येत्थं किल भवति सा चेद् उयते तदा शक्तिश् चास्य प्रभवति यथेच्छं मुहुर् इति ॥३०॥ [शिखरिणी]

यथा—

कृष्ण कृष्ण महा-वीर्य हे रामामित-विक्रम । दावाग्निना दह्यमानान् प्रपन्नांस् त्रातुम् अर्हथः ॥ [भा।पु। १०.१९.९] इत्यादि

[३२] तद् एवं दूरागतानां कार्पण्य-पण्य-भणित-श्रवणम् आरभ्य तस्माद् अभ्यास-गतानाम् अपि भयम् उपलभ्य श्रीमान् कृष्णस् त्व् इदं ससंरम्भं भावयामास—

आत्मनोऽप्य् अलम् अमी मम प्रिया हा दवं प्रति दवं समिय्रति । गीर्णम् एव करवाण्य् अमुं ततः को यमः क इह वा भवेद् हरः ॥३१॥ [रथोद्धता]

[३३] किन्तु मया वैश्वानर-निगरणं न सोढुं परिवृढा भवेयुर् एते इति विचिन्त्य प्रोवाच—मा भैष्ट नेत्र-पुटं त्व् अनुद्घटितं घटयत इति ।

[३४] निमीलद्-विलोचनेषु च तेषु तद्-आवेश-वशया कृत-प्रवेशया योगमायया तत्-काल-कल्पित-महा-जलधर-कल्पापर-शरीरस् तत्रत्येनानल्पेनाननेन तम् अदुःखत एव सर्वं विभ्रक्षन्तं भक्षितवान् ।

[३५] तथा तद्-इच्छया सुधा-चुलुकायमानम् इत्य् एके । तयैवं चान्यद् अपि चकार । यद् उक्तं—

ततश् च तेऽक्षीण्य् उन्मील्य पुनर् भाण्डीरम् आपिताः । निशाम्य विस्मिता आसन्न् आत्मानं गाश् च मोचिताः ॥ इति । [भा।पु। १०.१९.१३] अथ धेनु-ततिं विनिवर्त्य हरिर् बल-युक्ततया मुरलीं कलयन् । सहचारि-गण-प्रथितात्म-यशा व्रजम् आगतवान् अहनि ग्लपिते ॥३२॥ [तोटक] गवां धूलिर् नादः खुर-घटित-घट्ट-ध्वनि-घटा हरेस् तासां हूतिः श्रवण-गण-भिद्-वेणु-रणितम् । अमीभिस् ते कृष्टास् तरतमतया गोकुल-जना न पृष्ठ्यं नाग्रीयं न समम् अविदुर् न स्वम् अपि ॥३३॥ [शिखरिणी] यद्यपि बहु-सङ्घट्टन-धूलि-ध्वान्तं च सर्वत्र । तदपि हरेर् मुख-चन्द्रः प्रतिजनम् आनन्दितं चक्रे ॥३४॥ [उपगीति]

[३६] अथ पूर्ववन् मातर-पितरादि-रचित-सुख-वितरौ भ्रातरौ निज-निलयं प्रविविशतुः । [३७] सखायश् च प्रलम्ब-दवानल-कथा-प्रथनया सर्वं विस्माययामासुः ।

[३७] तद् एतत् प्रोच्य समापनम् आह स्म—

ईदृशस् तव गोपेन्द्र पुत्रः पुण्य-कृत-स्तवः । प्रेमार्द्रः सुहृदां यस् तु दावाग्निम् अपि पीतवान् ॥३५॥ [अनुष्टुभ्]

इति श्री-श्री-गोपाल-चम्पूम् अनु

प्रलम्ब-दव-संवर्त-निवर्तनं नाम

षोडशं पूरणम्

॥१६ ॥

(१७)

१३। अथ सप्तदशं पूरणम्

१९। वेणु-शिक्षा-च्छलेन प्रेयसी-भिक्षा [१] अथ पूर्ववद् विलक्षणायां क्षणदा-सभायां समुत्कण्ठः स मधुकण्ठः कथयामास—

[२] पूर्व-पूर्वानुसारेण धेनुक-वधानन्तर-व्यवहारेण प्रेयसीनां प्रत्यहम् एव वर्धमानाः कमल-कलिकावद् उत्कलिका मधुसूदनस्य बहिर् ईहितैर् दुरूहां स्पृहां बृंहयामासुः ।

[३] तत्रापि सर्वाधिकायाः श्री-राधिकायास् तु नितरां, तत्र तूपलक्षणतया श्री-राधा-माधवयोर् वर्ण्यते—

प्रसङ्गेच्छा वीक्षा-स्पृहितम् अनुषङ्गाभिलषितं पृथग् लोक-द्वेषः प्रतिसमयम् उद्वेग-कलना । इमे भावा युग्मे युगपद् उदितास् तत्-क्रम-वशाद् अहो दूर-स्थित्योर् अपि दयितयोर् एक-रुचिता ॥१॥ [शिखरिणी] आदर्शाव् इव तौ स्वच्छौ सदाभिमुखतां गतौ । राधा-माधवयोर् भावौ मिथो भावान् उपेयतुः ॥२॥ [अनुष्टुभ्] भूयो भूयो दृश्यते यर्हि मूर्च्छा राधायां वा श्रीहरौ वा रहस् तु । अन्योऽन्यस्य स्फूर्तिर् एवाप्ति-तुल्या कल्याणाय प्रायशः कल्पते स्म ॥३॥ [शालिनी]

[४] तद् एवं ताभिस् तस्यातिदुर्लभस्य स्पृहातिशय-वाहितया नातिहितायां शरद्य् अतिवाहितायां मार्गशीर्षस् तु तासां पतिं-मन्य-गृह-गमनाय मार्ग-शीर्षताम् अवाप।

[५] यत्र च कन्यानां मातर-पितरेषु तद्-दानाय पूर्वम् एव स्वयम् अनभिरुचिती-कृत-मुरजिद्-इतरेषु, स्वप्न-दोषाद् एवान्यत्रावगत-तद्-वितरेषु, तत एव दुःखिततयानभिनन्दित-तत्-सम्बन्धि-निकरेषु, सम्प्रति तासाम् अतिदुःख-शुष्कता-दृष्ट्या भीति-परेषु, तत एव तत्-प्रस्थापनायां स्थगितान्तरेषु लोक-धर्म-विगान-लब्ध-दरेषु च, घूर्णित-चित्ता पूर्णिमा तद् इदं निर्दिदेश—

[६] भवन्तस् तावत् तटस्थी-भवन्तस् तिष्ठन्तु, वयम् एवामूर् अनुनीय तत्-तद्-गृहम् उपनीय तत्-तत्-प्रक्रियां क्रिया-विषयी-करिष्यामः इति ।

[७] अथ जन्यं-मन्यांस् तेषाम् अनादरम् अवधाय मन्युं मन्यमानान् स्वयम् एव सा देवतादि-मान्या साम्ना सम्मान्य यथा स्व-मनीषितम् एवाङ्गीकारयाञ् चकार ।

[८] कन्यास् तु ता धन्या वरं-मन्यालयान्तः-प्रयाणं तत्र च लब्ध-तद्-अञ्चल-न्यास-निजाञ्चलताद्य्-अन्यायम् असम्मन्यमाना बभूवुः ।

[९] अथ ताः सा शपथ-प्रथनया तद्-आलयेष्व् असम्भवम् अपीष्ट-लम्भनम् अनिष्ट-विप्रलम्भनं च विश्रम्भविषयं विधाय दुःसह-नानाध्यवसायाद् विष्कम्भ्य गमन-कर्मणि लम्भ्यमानाः पथि तु स्वमायया गोपयन्ती तत्र तत्-सदृग्-अन्याश् चारोपयन्ती तत् तन् निर्वाहयामास । पश्चाद् एव च तास् तत्र वासयामास । तास् तु तत्र च परम-त्रस्ता बभूवुः, यतः—

यासां देहोऽप्य् एष बन्दी-गृहाभः कृष्णालाभाद् गोपिकानां बभूव । तासां गेहं पैतृकं शर्मणे किं यद्य् एवं धिक् श्वाशुरं वह्निर् एव ॥४॥ [शालिनी] अप्य् अनुकूलं यासां प्रतिकूलं स्याद् विदूरगे कृष्णे । तासां प्रतिकूलं तु स्फुटम् एवासीत् कुकूल-तल्पाभम् ॥५॥ [गीति]

[१०] तथापि पौर्णमासी तास् तत्-तद्-गेह-मध्यम् अध्यासीना विधाय यदा चलितुम् उद्यतासीत् तदामूः पुनर् विच-प्रचाम् आप्ता निश्च-प्रचा-कृते तद् इदम् आदिष्टवती, यदा भवतीभिः स्व-मर्यादा-लोपस् तर्क्यते, तदा प्रपलाय्य स्थीयताम् । समाधानं पुनः कयाचिद् विद्ययास्माभिर् एव विधातव्यम्, सहसा पलायन-धाम च तत्र तत्र विधातव्यम् इति ।

[११] तद् एवं राज-कारागृहाद् वैरि-कारागृह इव पितृ-गृहात् तत्र गत्वा वसन्तीषु,

यावान् अजनि निरोधस् तावत्य् उत्कापि संववृधे । कृष्ण-प्रेमवतीषु श्वासानिल-लीनतां याता ॥६॥ [उपगीति] यद्यपि मनसि समिद्धा हरि-परिरिप्सा तथापि ताभिः सा । आव्रियते स्म विचारैस् ततिर् इव वह्नेः सद्-इन्धन-प्रकरैः ॥७॥ [गीति]

[१२] तच् च श्री-राधा-प्रधानतया वर्ण्यते, यथा—

पीयूष-च्छवि-धारि-हारि-किरणः सर्वत्र शश्वज्-जडी- भाव-प्राप्ति-गुणः सदार्द्र-हृदयः सद्-भ्रू-चकोरी-गतिः । सोऽयं हन्त मया कथं हरिर् अहो तत्-प्राणया त्यज्यतां धर्मो गच्छति किन्त्व् अधर्म-पदवीं रुद्ध्वा च मान-क्षयाम् ॥८॥ [शार्दूलविक्रीडित]

[१३] श्री-कृष्णस्य च भावना, यथा—

मद्-एक-चेतो मत्-प्राणा राधान्य-वशतां गता । यां स्मरन् मम हा चेतश् चेतनाम् आवरिष्यति ॥९॥ [अनुष्टुभ्]

ततश् च—

राधां तथा स्मरन् कृष्णः स्निग्धं रागि विलोचनम् । कियन्त्य् अहानि मार्ष्टि स्म हन्त हारिद्र-वाससा ॥१०॥ [अनुष्टुभ्]

[१४] मिलनायाति-वैयग्र्यं च—

धर्मातिक्रमि चित्तं कथम् अधिमित्रं च तत् प्रकाशते? । इति हरिर् उपचित-युक्तिर् युयोज दूत्याय केवलां दृष्टिम् ॥११॥ [गीति]

[१५] इदम् एव वक्ष्यते ताभिः—

शरद्-उदाशये साधु-जात-सत्- सरसिजोदर-श्री-मुषा दृशा । सुरत-नाथ तेऽशुल्क-दासिका वरद निघ्नतो नेह किं वधः? ॥ [भा।पु। १०.३१.२] इति ।

यतः—

कृष्णस्यान्यत्र दृक्-प्रान्तः सद्भिः शास्त्र-फलं स्मृतम् । हन्त तासु पुनः सोऽयम् एभिः शस्त्र-फलं मतम् ॥१२॥ [अनुष्टुभ्]

ततश् च—

रात्रिन्दिवं वसति चेतसि हन्त भाव- ज्वाला हरेर् उत तदीय-रमा-गणानाम् । सन्ध्या-द्वये व्यतिविलोक-सुखाज्य-सिक्ता साग्नि-द्विजालय इवाग्निततिः समिद्धा ॥१३॥ [वसन्ततिलका]

तत्र च—

गोष्ठाद् वनं प्रविशतो वनतश् च गोष्ठं लोकेन लोकन-कृते सह माधवेन्दोः । सम्भूय सङ्गतवतीषु च तत्-प्रियासु राधा जयत्य् उडुषु पौर्णिम-राधिकेव ॥१४॥ [वसन्ततिलका]

[१६] तत्र च प्रगेतन-वन-प्रस्थाने—

मिथ्याहासान् अकुरुत हरिः स्पृष्ट-पार्श्वस्थ-हस्तं वीक्षां वक्र-प्रणय-वलिताम् अर्धम् अर्धं वितेने । आश्लेषाद्यं विहरण-गणं मित्र-वर्गेषु चक्रे दूरे गत्वाप्य् अहह मुरली-संविदः संव्यधत्त ॥१५॥ [मन्दाक्रान्ता]

[१७] इदम् एव च ताभिर् वक्ष्यते,

प्रहसितं प्रिय प्रेम-वीक्षितं विहरणं च ते ध्यान-मङ्गलम् । रहसि संविदो या हृदि-स्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ [भा।पु। १०.३१.१०] इति ।

[१८] अथ सायन्तनागमने तु—

यदा वा गोष्ठं सम्प्रविशति तदा च भ्रमरकैर् वृतं वक्त्राम्भोजं धन-खुर-परागैर् वलयितम् । अमूषां नेत्रालिष्व् अभिमुखतया दर्शयति तन्- मिलत्-पाशं यन्त्रं मदन-रचितं बन्धुम् इव तान् ॥१६॥ [शिखरिणी]

[१९] एवम् एव च ताभिर् वक्ष्यते—

दिन-परिक्षये नील-कुन्तलैर् वन-रुहाननं बिभ्रद् आवृतम् । धन-रजस्वलं दर्शयन् मुहुर् मनसि नः स्मरं वीर यच्छसि ॥ [भा।पु। १०.३१.१२] इति ।

[२०] एवम् अहरहर् अपि परस्परं स्पर्धयेव वर्धमानतया तासाम् उत्कलिकाः कलित-मधु-माधवाधिकला-व्याकुलताकुलतां कलयामासुः ।

[२१] यथा वर्णितं प्रलम्ब-वध-वासर-सम्बन्धि-सन्ध्याम् अनुसन्धाय,

गोपीनां परमानन्द आसीद् गोविन्द-दर्शने । क्षणं युग-शतम् इव यासां येन विनाभवत् ॥ [भा।पु। १०.१९.१६] इति ।

[२२] अस्य चाभिधेयम् इदम्,

तासां कृष्णावलोके प्रमद-समुदितिर् न स्वरूपेण वक्तुं शक्या किन्तु स्व-कार्य-स्फुरण-पदतया किञ्चिद् उद्देशम् आप्ता । तद्-विश्लेषे यथासां युग-शतक-दशां याति कालः कलाख्यस् तद्वत् तस्यानुषङ्गे युग-शतम् अपि तद् भाति शश्वत् कलाभम् ॥१७॥ [स्रग्धरा] कलापि यदि विश्लेषे युगानां शततां गता । रात्रिन्दिवीय-सङ्ख्यायां तदा शङ्कामहे वयम् ॥१८॥ [अनुष्टुभ्]

[२३] एवं सायम्-प्रातिकावलोकन-वलतः कथम् अपि निदाघेऽपि क्षपिते मयूरान् मदयित्नूनां गदयित्नूनां च स्तनयित्नूनां समागमः संवृत्तः । यथा—

अकुण्ठाम् उत्कण्ठां निरवधि वितर्क्यालि-विततिर् यदा तासाम् अग्रे हरि-परिचितं वृत्तम् अरुणत् । तदा वर्षा जातास् तडिद्-अनुगताम्भोद-वलिताः प्रतीपाभाः कृष्ण-स्फुरणम् अधिकं हा विदधिरे ॥१९॥ [शिखरिणी] नूनं निदाघेन विभूय जज्ञे सन्तप्तिर् आसां हरि-रागिनीनाम् । वर्षासु शाम्येद् इति सङ्गिनीनां निर्णीतिर् आसीद् विपरीत-रीतिः ॥२०॥ [इन्द्रवज्रा] वर्षा द्वितीया दधिरेऽक्षि-नीरैर् अन्तः स्फुरत्-कृष्ण-घनाभिर् आभिः । इत्थं निनिन्दुः किल ते रुवन्तः स्वाजीव्य-वर्षानुगताः प्लवाद्याः ॥२१॥ [इन्द्रवज्रा] कलापाम् आसुर् एतासु कलापाश् च कलापिनां । स्मरार्ध-चन्द्र-बाणाभा यत्रैके भान्ति चोन्मुखाः ॥२२॥ [अनुष्टुभ्] वर्षाः शीतलताकरैर् निज-गुणैर् आसां मनः-शान्तताम् आनेतुं किल यद् यद् अत्र विदधुः सर्वं च तत् प्रत्युत । द्वेषं ता बत मेनिरे यद् अनु च प्राणालिभिः शङ्कितं हन्त द्विष्ट-सुहृद्-दशेयम् उदिता हा हा विधेः का गतिः? ॥२३॥ [शार्दूल]

[२४] तत्र च गृह-निगृहीतानां तासां मनः-कथा, यथा—

खर्जरादि-फलैः सुकन्द-वलितैर् मित्रैः समं प्रावृषि प्राञ्चद्-वृष्टिज-वारि-वारिणि तरु-क्रोडेऽशन-क्रीडनम् । नीर-प्रान्त-शिलासु तासु दधि-युग्-भिप्सादि सम्भोजनं दूराद् धेन्व्-अनुहूतिर् अप्य् अघजिता नश् चित्तम् उल्लुञ्चति ॥२४॥ [शार्दूल]

यत्र च,

घनागम-घनागमे विरमिताजितोन्मीलने समस्त-जन-शर्मदाः सपदि खञ्जरीटेक्षणाः । अमूः शुचि-रुचि-श्रिया स्व-हृदि कृष्ण-भावं गता हरि-व्रज-नव-प्रियास् तमसि लीनताम् आगताः ॥२५॥ [पृथ्वी]

[२५] अत्र तासां त्रास-वचनम्—

इरम्मद-रदास् तेऽमी नीरदा अपि सर्वदा । चर्वन्ति क्षौणि-पृष्ठ-स्थान् गर्जन्ति किल गर्वतः ॥२६॥ [उद्गीति]

[२६] अहो, चित्रीयते सेयं प्रेम-गति-वैचित्री यतस् तादृशि च तद्-वृत्ते कदाचिद् आनुकूल्य-स्पृशीव श्री-राधा-स्तुतीनाम् आधारता दृश्यते । [२७] यथा तस्यास् तत् पश्यन्त्या भावनेयम्—

अयि तडित् त्वम् असौ क्व नु किं तपः कियद् अहो कृतवत्य् असि तद् वद । यद् इमम् अम्बु-धरं हरि-वक्षसस् तुलितम् आलि गता रमसे सदा ॥२७॥ [द्रुतविलम्बिता]

[२८] यत्र च प्रमादतः सा किञ्चन प्रोच्यापि सख्याम् अपि सङ्कोचाद् अन्यथा प्रखापयामास—

अहह पश्यत- कृष्ण-घनाघनं प्रसजती चपला खलु खेलति । स्मरसि किं नु हरेः स्मर-कौतुकं? नहि नहीदम् ऋतोर् गुण-वर्णनम्! ॥ २८ इति । [द्रुतविलम्बित?]

कदाचिच् च—

मेघागम-समयेऽस्मिन्न् अधिगत-हरिता दृशां सम्पत् । हरये स्पृहयसि राधे नहि नहि शाद्वल-विभूतये द्विषति ॥२९ इति । [उद्गीति]

[२९] अथ श्री-कृष्णस्य दिग्-दर्शनं, यथा—

शिखण्डिनां या कल-नृत्य-माधुरी शिखण्ड-चूडस्य सदातिशर्मदा । न सानुसन्धानम् इता तद् अस्तु यन् मूर्ध्नः शिखण्डं च जगाम विस्मृतिम् ॥३०॥ [उपजाति १२]

[३०] तद् एवं सुष्ठु चापष्ठुताम् अनुष्ठाय गतायां प्रावृषि शरद् अपि, यथा—

आगमिष्यति शरद् भुवि द्यवि स्वच्छतां विदधतीति चिन्तितम् । हन्त ताभिर् उदये तदीयके स्वं दधे द्वि-गुण-भावनाविलम् ॥३१॥ [रथोद्धता] स-तडिद्-वारिद-वृन्दं निरीक्ष्य पूर्वं यद् एव या तप्ता । तद् अपश्यन्त्य् अपि सेयं सम्प्रति राधा भृशं दूना ॥३२॥ [आर्या]

[३१] तत्र च राधा-कृष्णयोर् नख-लिपि-वलयित-किसलय-दल-द्वय-गतं पद्य-द्वयं वायुना परस्परं नीतम् । तद्, यथा—

तडितः पुण्य-शालिन्यः सदा या घन-जीवनाः । तेन सार्धम् अदृश्यन्त, नादृश्यन्त च तं विना ॥३३॥ [अनुष्टुभ्] आवृतिम् अजहाद् इन्दुर् विलसति हंसश् च नील-कञ्जं च । वृन्दावनम् अनु हा धिग् दैवं तत् तन् न दृश्यते तस्याः ॥३४इति॥ [गीति] राधा-कृष्णाव् इत्थम् अन्योऽन्यम् आप्तं दैवात् पत्रं शश्वद् आश्लिष्य साश्रु । अन्तः-शून्य-स्वर्ण-बिम्बान्तर् उप्तं मध्ये हारं नायकं निर्मिमाते ॥३५॥ [शालिनी]

[३२] अत्र सखीनाम् अपि स्विन्नता, यथा—

जलं कुमुदम् अम्बुजं विधु-रुचिश् च यस्यां शरद्य् अहो विकसद्-आत्मताम् अगमद् आशु तस्याम् अपि । मनो नयनम् आननं दशन-कान्तिर् आसां पुनः सदा मलिनताम् अगाद् इति किम् आलिभिः सह्यताम्? ॥३६॥ [पृथ्वी]

[३३] अत्र च वर्णितं लब्ध-वर्णैर् अपि,

आश्लिष्य सम-शीतोष्णं प्रसून-वन-मारुतम् । जनास् तापं जुहुर् गोप्यो न कृष्ण-हृत-चेतसः ॥ [भा।पु। १०.२०.४५]

यतः—

सौन्दर्यं तन्-नीलिमासौ द्युतिः सा लावण्यं तत् ते च लीला-विलासाः । पीयूष-श्रीण्य् अङ्ग-सङ्गे प्रियाणां विश्लेषे तान्य् एव हालाहलानि ॥३७॥ [शालिनी]

ततश् च—

हरेर् गन्धवहान् सर्वे जगत्-प्राणतया विदुः । तद्-वियोगेन तु क्षामा रामास् तान् आशुगाख्यया ॥३८॥ [अनुष्टुभ्]

[३४] तद् एवं यद्यप्य् उत्कण्ठायाः परम-काष्ठा जाता, तथापि काचिद् अपि काञ्चित् प्रति न प्रकाशयामास । अधर्मेणापि तं भजानि, इति यथा तास् तथा कृष्णोऽपि तत्र ता निर्विद्या निर्विद्य खिद्यते स्म ।

[३५] कृष्णस् तूपयान्तरम् अपश्यन् नेत्र-विक्षेप-वेत्र-विक्षेप-वित्रस्तानाम् अपि तासां वश्यताम् अयातानाम् आवश्यक-तद्-भावनाय वंशी-शंसन-विशेषम् अभ्यस्यति स्म । [३६] यथैव वक्ष्यते तत्र तत्र तद् एवालक्ष्य ताभिः वेणु-वाद्य उरुधा निज-शिक्षाः इति । [भा।पु। १०.३५.१४]

[३७] अथ प्रथमतस् तन्-मना निजाग्र-जन्मना युगली-भूय मुरली-कलीम् आवर्तयति स्म । [३८] तत्र तु यदा समुद्दीपित-भावान्तरे वनान्तरे गो-चारणे सर्व-मनसोऽप्य् अगोचरान् सहचरान् विस्मापयन्न् अतिकान्त-गुण-व्रजेन निजाग्रजेन सह स्वयम् अहरहः सहर्ष उत्कर्षं प्रवीणयन् वेणु-शिक्षाम् ईक्षयाम् आस,॥ [३९] तदा तासां तद्-रूप-स्फूर्तिर् अतीव पूर्तिम् आयाता ।

[४०] सा च यथावद् एव, यतस् तस्य भाव-वैभवस्य स्वभाव एवायम्, यद् दूरतश् च स्व-विषयं विषयीकरोति । तथा हि—

अनुमान-गता तासाम् अर्थापत्तिः प्रतीयते । यतः कृष्णस्य दयितास् ता एव न्याय-पण्डिताः ॥३९॥ [अनुष्टुभ्]

[४१] तत्र याः पुनर् अतीव स्निग्धता-दिग्ध-हृदयास् तद् दुःखतः शुष्कताम् अवापुर् न तु पुनः स्वक-दुःखं पुष्कलं मेनिरे ।

[४२] यथा राधाया विशाखा ललिता पर्यायानुराधा च, चन्द्रावल्याः शैव्या पद्मा चेत्य्-आदयः । तासु तु ताः स्व-मात्र-निष्ठतां निष्टङ्क्य स्वयम् एव स-सौहार्दं निज-हार्दम् आवेदयाञ्चक्रुः । तथापि तत्र प्रथमं राम-सहितता-पिहितम् एव तं लुप्त-वर्ण-पदं वर्णयामासुः ।

[४३] तत्र गीतं, यथा—

रामो रामानुज इति युगलम् । कृत-नट-वेषतया पटु राजति गायति सखि-गण-युगलम् । [ध्रुव] सरस-रसालज-पल्लव-तल्लज-पल्लवितामल-शीर्षम् । नव-यौवन-वन-बीजाङ्कुरम् इव धावयद्-अतनु-चिकीर्षम् ॥ब्॥ वाञ्छित-पिञ्छावलि-परिलाञ्छित-मणि-निचयाञ्चित-केशम् । दधद् इव हरि-धनुर्-अनुगत-तारा-वलि-वलिताम्बुद-लेशम् ॥च्॥ वलयित-नव-दलद्-उत्पल-कर्णिक-कर्ण-युगाद्भुत-शोभम् । लतिका कासाव् इति विस्मयकृति मधुकृति विनिहित-लोभम् ॥द्॥ हस्त-कमलम् अभि कमल-विघूर्णन-रमण-कला-रमणीयम् । मधुप-गणं प्रति मधु-कण-वर्षणम् अकृत यतः कमनीयम् ॥ए॥ मालामाला-परिमल-बलि-बलि-वपुर् अलि-वलित-सदेशम् । अलि-झङ्कृति-नुति-कोलाहल-वह-बहुल-कुतूहल-वेशम् ॥फ़्॥ सितम् असितं वपुर् असितं पीतं वसनं यस्य च गीतम् । तद् इदं यदि गोकुलम् अनु गोकुलम् अयति तदाघम् अतीतम् ॥ग्॥४०॥ इति ।

[४४] अपि तु तस्य गोकुल-सदेश-प्रदेश-प्रवेश एव सर्वेषाम् अभिनिवेश-हेतुः, यतः—

चक्षुर्-भाजां फलम् इदम् अहो यद् व्रजस्य प्रवेशे गोभिः साकं सखि-वलयितं दृश्यते भ्रातृ-युग्मम् । युग्मे तस्मिन् लघुर् इह मुखाम्भोजम् अस्मिन् मुरल्या दीप्तिः किञ्चिन् निगमन-कलाशालि नेत्रं च तत्र ॥४१॥ [मन्दाक्रान्ता]

[४५] अत्र चैव ध्वनितम्—

धामागतस्य समये सखि-धेनु-सङ्गि सङ्गायतो विहरतो हरतश् च तस्य । किञ्चिद् विमृग्यद् इव चञ्चलताञ्चि-तारं हाराणि-नेत्रम् अनु विध्यति मानसं नः ॥४२॥ [वसन्ततिलका]

तस्मात्—

सा किल कुलजा कुलजा नयने तस्याः परं नयने । वेणु-विनोदी मदनः स भवति यस्याः स्वयं मदनः ॥४३॥ [उपगीति]

[४६] तद् एवम् अघदमनेन तासां क्रम-परम्परातः परस्परं स्व-विषयाभिलाष-व्यञ्जना-सञ्जनं किञ्चिल् लज्जा-पर्ययम् आचर्य तादृश-रम्य-स्व-विद्या-बल-तारतम्य-विदुरतया विदूरतोऽपि तम् अवधार्य पर-परतः परार्ध्यं समर्ध्यमानां पुनर् वेणु-शिक्षां विलक्षणी-कुर्वता सङ्कर्षणः केवलं लक्ष्याय कल्पयाञ्चक्रे । यत्र हि सर्वम् एव युगपन् मुग्धता-दिग्धं बभूव ।

[४७] यत्र श्री-व्रज-देवीभिर् अपि निज-भाव-व्यक्तिं शङ्कमानाभिः सङ्कर्षणं लक्ष्यं विधाय तद् वर्णयामासे, यथा—

वेणोः शिक्षाम् अथ रचयतोर् धेनु-रक्षादि-लक्ष्यान् नानारण्यं प्रति विहरतोर् बिभ्रतोर् यष्टि-रज्जू । स्तम्भं लोले चलनम् अचले कुर्वतोर् अत्यपूर्वं भ्रात्रोर् आसीद् बत तनु-भृतां धर्मतो वैपरीत्यम् ॥४४॥ [मन्दाक्रान्ता]

[४८] अत्र चैवं ध्वनितम्—

नूनम् एवं विदधतोः सर्वेषां धर्म-पर्ययम् । कृष्णोऽमूलम् असौ चास्मद्-धर्मम् उन्मूलयिष्यति ॥४५॥ [अनुष्टुभ्]

[४९] तद् एवं भ्रातृभ्यां सङ्गाने युगपद् एव सर्वेषां मोहनम् ऊहमानेनानुजेन विचारितम्—[५०] हन्त तासाम् एव मोहनाकर्षणे सुष्ठु ममाभीष्टे, तत्रापि राधाभिधायाः । तस्मात् पृथग् भवन् पृथग् एव यथा जीवानां जातिर् यथा-युक्तं तयोर् द्वयम् एकं वा वहति, क्रमशो व्यक्तिर् अपि, तथा शिक्षार्थं प्रयतिष्ये । तच् च तत्-तन्-मात्रातिशयिताभीप्सित-स्वरादि-मर्म-समुद्भावनया सम्भविष्यति इति ।

[५१] तद् एवं विचारयता तेन परीक्षा-पर्यालोचनार्थम् उत्तरम् उत्तरां वश्यताम् अतीततराण्य् अवराणि सत्त्वानि क्रमशः स्व-वशताम् आनीतानि, तथापि तत्-प्रेयसीभिश् चित्त-क्षोभ-मात्रं तु लेभ एव ।

[५२] तत्र यथा प्रथमतो गाः प्रति तद्-गानम् अवकर्णितम्, तथा वर्णितम्, यथा—

हरेर् वक्त्रं वेणु-ध्वनि-मिषतया वर्षति सुधां पिबत्य् एतां गव्या यद् अनु रसना-कर्ण-युगलम् । अहासीत् प्रस्तब्धा निज-विषयम् अन्या तु रसना किम् एतत् किं नैतद् भवति किम् इवैतत् किम् इति वा ॥४६॥ [शिखरिणी]

[५३] अत्रापि ध्वनितम् इदम्—

गवाम् अस्माकं च श्रवणम् अनु वेणोः समदशा यदप्य् एषा जाता तदपि किल भेदो विलसति । अमूस् तद्-वक्तेन्दुं सपदि कलयन्ति प्रतिपदं वयं नैतद् विद्मः क्व भवति युगे तस्य कलनम् ॥४७॥ [शिखरिणी]

[५४] अथापरे-द्युश् चापरां शिक्षाम् अधिकृत्य वन्यान्य् अपि सत्त्वानि समाहृत्य मोहितानि, यथा—

वंशः सोऽयं तु वीतंसः कंस-शत्रोर् इतीयते । तेन शंसनतो यान्ति विध्वंसं मृग-पक्षिणः ॥४८॥ [अनुष्टुभ्]

[५५] तद् अपि ताभिर् उद्भावितम्, यथा—

वृन्दारण्यं प्रथयति भुवः कीर्तिम् अत्र स्वयं हि श्रीमान् कृष्णो विहरति पदाम्भोज-लक्ष्मीं वितन्वन् । वेणोर् वाद्ये नटन-घटनं बर्हिणः सभ्य-भावं वन्याः सर्वे ययुर् इति सदा रङ्गतां यज् जगाम ॥४९॥ [मन्दाक्रान्ता]

[५६] अत्र चेदं ध्वनितम्—

वृन्दारण्यस्य पुण्यं व्रजितुम् इह न नः शक्तिर् अस्तीति चास्तां यद् बर्ह्याद्याश् च भान्ति प्रतिपद-सुकृत-प्रोदयाद् अस्मद्-अर्ह्याः । गृह्याणां गृह्यकाः स्मः स्फुटम् इह तद् अलं गृह्यकेभ्यश् च गर्ह्यास् ते तस्य स्वैरम् ईक्षां विदधति न तद्-आभासम् अण्व् अप्य् अयाम ॥५०॥ [स्रग्धरा]

[५७] अथ दिनान्तरेऽपि तेभ्यो विच्छिद्य हरिण्यस् तथा कृताः । तच् च पूर्ववत् ताभिर् वर्णितम्—

आश्चर्यं सखि कृष्णसार-दयिता-वृन्दं मिलद्-भर्तृकं जात्या मूढम् अपि व्यतीत्य भवतीर् अप्य् एवम् ईहां दधे । श्रुत्वा वेणु-कलं हरिं प्रति गतिस् तद्-रूपतश् चित्रता तस्याप्य् अर्चनम् उल्लसत्-प्रणयतस् तत्रापि नेत्राञ्चलैः ॥५१॥ [शार्दूल]

[५८] ध्वनितम् अपीदम्—

वयं जात्या नार्यः पुरु-गुणवताम् आदृततमास् तथा भर्तारस् तत्-प्रणय-नय-सिद्ध-व्रज-भुवः । हरिण्यो नेदृश्यस् तदपि पतिभिस् तं ययुर् अहो धिग् अस्मान् दुष्पुण्या दधिम नहि तासाम् अपि तुलाम् ॥५२॥ [शिखरिणी]

[५९] दिनान्तरे तु विशिष्य विहङ्गमास् तथा-भावं गमिताः, तत्र च ताभिर् अभिहितं,

अस्मिन् वने तु विहगा मुनयः प्रदिष्टाः कृष्णस् तु तद्-गुरुर् इति प्रततं प्रतीमः । नैवान्यथा तद् अमुना किमपि प्रगीतं मौन-व्रतेन शृणुयुः परितो निविष्टाः ॥५३॥ [वसन्ततिलका]

[६०] अत्र तु स-निर्वेदं ध्वनितम्—

यस्माद् असौ मुनिस् ते च मुनयः सर्वतः स्थिताः । तस्मात् काञ्चित् स्पृहाम् अत्र नाञ्चितां कर्तुम् अर्हथ ॥५४॥ [अनुष्टुभ्]

[६१] अथ दिनान्तरे देव्योऽपि तथा कृताः, तत्र ताभिर् वर्णनं, यथा—

वेणूद्गान-गुणेन तस्य परितः कृष्टे विमानोत्करे देव्यो रूप-विलास-मोहन-कलाम् आसाद्य मोहं गताः । यत्रेदं न विदुः किम् एतद् अभितः पूर्वं श्रुतं वीक्षितं वेति स्रस्तम् अभूत् कचादि किम् उ वा नैवेत्य् अपि प्रायशः ॥५५॥ [शार्दूल]

[६२] अत्र च ध्वनितम्—

हन्त देव्योऽपि यत्रैताम् अवस्थाम् आपुर् अञ्जसा । तदीय-व्रज-भू-बाला वराक्यस् तत्र का वयम्? ॥५६॥ [अनुष्टुभ्]

[६३] तद् एवं चेतनांस् तथा वितथ-चेतनान् विधायाचेतनान् अपि चेतनान् इवाचरितुम् आरभते स्म । अचल-मर्यादया पर्याप्ताः स्फुटम् अमूर् आक्रष्टुम् अचेतनताम् अतिक्रम्यापि दुःशका इति ।

[६४] तत्र नदी-चरितं ताभिर् एवं विचारितम्—

द्वीपिन्यः श्रवणेन वेणु-रणितेः स्तम्भं गताः सभ्रमाः फुल्लत्-पूरतया स्फुरद्-घन-रसा हंसादि-गीः-शिञ्जिताः । उन्मर्याद-दशाम् इता मुररिपुं दूरेऽभिसृत्यागता भङ्गालोल-भुजैः सरोज-वलयस् तस्याङ्घ्रि-युग्मं दधुः ॥५७॥ [शार्दूल]

[६५] अत्र चेदं ध्वनितम्—

नद्यः सिन्धु-पति-व्रता हरि हरि प्रत्यक्त-मर्यादिकास् तं विद्रुत्य मिलन्ति चेद् अहह का दीनास् तदानीं वयम्? । किन्तु स्वैरम् अमूर् उदूढ-सुकृता नास्मासु तत्-तुल्यता स्वल्पापीति निवृत्तिर् एव सुखतो युक्ताथवा दुःखतः ॥५८॥ [शार्दूलविक्रीडितम्]

[६६] दिनान्तरे चाम्भोद-वर्णनं, यथा—

मुरारेर् अम्भोदः सुहृद् इति न वा केवल-रुचा स्वसादृश्यात् किन्तु व्यतिकृत-हितत्वाद् अपि सदा । असौ मल्लारेण प्रबलयति तं वेणु-जनुषा स चायं छायाभिः प्रशमयति तापं तद्-उपरि ॥५९॥ [शिखरिणी]

[६७] अत्र च ध्वनिः—

हंहो पश्य जडोऽपि वारिद-चयः सर्वोपरि स्थाय्य् अपि च्छायाभिः स्वरसैश् च तं परिचरत्य् अन्तश्चर-प्रेमतः । कष्टं सुष्ठु वयं तद्-एक-शरण-प्राण-स्थितिं-मन्यता- गण्यास् तस्य विना तु सेवनम् अमूर् जीवाम धिग् जीवितम् ॥६०॥ [स्रग्धरा]

[६८] अहो, शिलामय्य् अपि शैलजातिः सुखम् एवं भजते, यथा—

श्रीमान् गोवर्धनाद्रिः स्फुटम् अयम् अभितः श्री-हरेर् दास-वर्यः कृष्णे रमेण यस्मात् तम् अनु मुरलिका-वादनायाधिरूढे । लब्धैर् यः सात्त्विकाभैश् चरण-सरसिज-स्पर्शजैर् अङ्कुराद्यैः सर्वाङ्गीन-द्रवैर् अप्य् अनुग-सखि-धनं सेवते तं चिराय ॥६१॥ [स्रग्धरा] आस्तां गोवर्धनाद्रेः पुलक-मुख-दशा श्रूयताम् अन्यद् एतत् चित्रं चेन् न प्रतीतिर् भवति किल गिरौ दृश्यतां चापरत्र । यः स्निग्धत्वं समन्ताद् दधद् इह मुरली-गानतश् चिक्वणाख्याम् आगाद् यत्रास्ति साक्षि प्रतिपदम् उदितं कृष्ण-मुख्याङ्घ्रि-चिह्नम् ॥६२॥

[स्रग्धरा]

[६९] अत्र चेदं ध्वनितम्—

महतां पदवीम् आप्तुं वाञ्छा यद्यपि धृष्टता तथाप्य् अनुगतिस् तेषां भाति चेद् अस्ति दृष्टता ॥६३॥ [अनुष्टुभ्]

[७०] तद् एवं तासाम् अतस्मिंस् तद्-भावनां भावयन्न् उन्माद-दशा-वशतां परिकलय्य विह्वल-हृदयः सदयतया स मधुकण्ठः क्षणं गद्गद-कण्ठः संवस्त्रित-मुखः समस्त-मन्यु-न्यस्त-निजासुखः पुरु रुरोद, अनूदितवांश् च श्री-राधा-निबद्धम् अबद्धं पद्यम् एकम्—

वेणोः पुण्यम् अतीव हन्त यद् असाव् अस्त्री च तस्याधरं गोपीनां स्वम् अपि ह्रियं परिहरन् शश्वत् पिबन्न् अर्दति । तृप्त्या छर्दि-निभाद् अमुष्य रणितान् नद्योऽपि फुल्लन्त्य् अमूर् यद्-वंश्या नग-जातयोऽपि मधुभिर् बाष्पं मदाद् बिभ्रति ॥६४॥ [शार्दूल]

[७१] ध्वनितं चेदं—

याचेऽहं वंश-देहं न तु कुलज-वधू-देहम् आद्ये हि कृष्णस् तृष्णग्-भावेन सज्जन् बहु-रुचि विहरन् दुर्लभः स्यात् परत्र । वंशी-भावे चिद्-अंश-प्रशमन-वशता-विस्मृतात्मा यदि स्यात् तेन ज्ञायेय सेयं मम विरह-दुता दारुताम् आगतेति ॥६५॥ [स्रग्धरा]

[७२] ततश् चेतसि चेदं विचारितं—

गण्डं चुम्बसि कुण्डल-स्थम् अकरि त्वं तस्य वंसि त्वम् अप्य् आस्यं प्रेक्षि तथाङ्गम् अङ्गम् असकृन् माले त्वम् आलिङ्गसि । तद् युक्तं यद् अतीत-सर्व-विधिका यूयं, वयं तु स्फुटं हा तत्-तद्-विधि-भाग्-विचार-हतकेनाभीप्सिताद् वञ्चिताः ॥६६॥ [शार्दूल] अहो सुमनसो मुक्ता वज्राण्य् अपि हरेर् उरः । न त्यजन्ति वयं तत्र का वा स्मर-वशाः स्त्रियः? ॥६७॥ [अनुष्टुभ्] चेन् न सङ्गम् अपरस्य विधत्ते श्याम एष न तु तर्हि दुनोमि । अङ्कपालयति हा गत-शङ्कः सङ्गिनः कथम् इदं कलयामि ॥६८ इति । [स्वागता]

[७३] तद् एतत्-पर्यन्तम् अन्तर-स्पर्शि-राग-परीते तस्य वेणु-गीते कोऽपि सम्भ्रमः सर्वम् एव व्रजं निघ्नं कुर्वन् विघ्नम् आचरति स्म । [७४] स तु प्रातः प्रस्तोष्यते । इत्य् अञ्जलिं बद्ध्वा पुनर् उवाच—

अस्य त्वदीय-कान्तस्य राधे जानाति कोऽपि न । प्रयासाभ्यन्तर-स्थायि-त्वन्-निमित्त-प्रयासताम् ॥६९॥ [अनुष्टुभ्]

[७५] तद् एवं कथायां समाप्त-प्रथायां सर्वे यथा स्व-स्वावासम् आसन्नाः ।

इति श्री-श्री-गोपाल-चम्पूम् अनु

वेणु-शिक्षा-मिष-प्रेयसी-भिक्षा नाम

सप्तदशं पूरणम्

॥१७ ॥

(१८)

१४। अथ अष्टदशं पूरणम्

२०। गोत्रभिद्-गर्व-खण्डन-

२१। गोवर्धन-गोत्र-मान-वर्धनम्

अथ प्रभाते सदसि व्रजेशितुर् महा-प्रभावेषु विभात-पङ्क्तिषु । आनर्च्छ सामोदम् उदश्रु-कण्ठतां स स्निग्धकण्ठः कथयाम्बभूव च ॥१॥ [उपजाति १२]

[१] अथ तस्मिन्न् आश्विनावशेषे लब्ध-विशेषे यज्ञ-योग्य-वेशे व्रजाद् बहिः प्रदेशे सर्व एव पर्वणा सान्द्रानन्द-व्रजा इव स-प्रजाः व्रजेन्द्रादयः सम्भ्रान्ताशय-प्रायतया चरन्तः सुरेन्द्र-याग-योगम् आचरन्तः स्थानादि-सञ्चेष्क्रियमाणान् आदिशन्तः स्व-स्व-वसतिं विहाय वसतिं बहिर् वसन्ति स्म ।

[२] तदा च कदाचिद् एकस्यां सन्ध्यायां गोचारण-भू-भागतः समागतः सङ्कर्षण-सहचारितया लब्ध-हर्षः स-कुतुक-तृष्णः श्री-कृष्णस् तदीय-चरितम् आलोचितवान् । तत्रैव च प्रभूत-कुतुकाकुत-सम्भूततया वसति स्म ।

[३] तद् अपि च यद् अपि पूर्व-पूर्व-संवत्सरेषु दृष्टम् इत्य् अपूर्व-दृष्टं न भवति, तथापि सम्प्रति प्रौढताप्रकाशतः शतमन्युं प्रति मन्युं जनयन् जनकादिषु प्रणय-कोपं ज्ञापयन्न् अज्ञानत इव जिज्ञासाञ्चक्रे । यद्यपि शतपर्व-पाणिर् एवं गर्वायते, एते गोपालन-कारकाः के वराकाः? निखिल-लोक-लोकपाल-पालकस्य मम दक्ष-मुख्याः प्रजापतयः स्वीय-मन्वन्तर-पति-प्रभृतयः पृथिवी-पतयः कमलजन्म-जन्म-प्रधाना मुनीशाना यजमाना विराजन्तेतराम् इति, तथाप्य् एते मत्-पितृ-पुरः-सरास् तत्र भक्तिम् अतिरिक्तीकुर्वन्ति इति ।

[४] अथ स्पष्टीकृत-गौरव-सौष्ठवम् अन्तः-कष्ट-परामृष्टं पृष्टवान्—

कथ्यतां वः पितः कोऽयं सम्भ्रमः समुपागतः? । यज्ञार्थो यदि देवः कः? प्रमाणं किं, फलं च किम्? ॥२॥ [अनुष्टुभ्]

[५] व्रजेश्वरे तु ज्ञान-पूर्वक-प्रश्न-विज्ञानतस् तद्-अभिप्रायं प्रायः प्रतिपद्य सद्यः प्रतिवचनम् अदत्तवति, पुनर् लाल्यतोचित-बाल्यतो दीनता-धीनम् इवोवाच—

यथा विधातुं भवतां तथा श्रोतुं च नः स्पृहा । उभयेषां यतस् तत्र विशेषाश्रयता-स्थितिः ॥३॥ [अनुष्टुभ्]

[६] अथ, किम् अस्माभिर् व्यक्तं वक्तव्यं गोत्रभित्-सत्रं प्रति, किं वायं वत्सः प्रतिपत्स्येते इति विचिकित्सति तात-पादे तद् एव किञ्चिद् अतिरिक्तं व्यक्तम् इव कर्तुम् इच्छति स्म । [७] यथा च, तात, सर्वत्र निपुणानां वैज्ञानिकानां भवतां पुत्रा वयं न तावद् गोचारकता-मात्र-पर्यवसित-पर्यालोचनाः, किन्तु किञ्चित् किञ्चिज् ज्ञान-नीतिं धर्म-रीतिम् अपि प्रतिपद्यामहे इति व्यञ्जनया मञ्जु वदति स्म—

सर्व-क्षेत्र-प्राज्ञ एकः परात्मा तस्मिन् जीवाः सन्ति नैवातिभिन्नाः । एतद्-विज्ञाः साधवो विद्वद्-इज्यास् तस्माद् एषां गोपनं नैव युक्तम् ॥४॥ [शालिनी] योगिनां मतम् एतच् चेन् नीतिर् अप्य् अवधार्यताम् । उदासीनोऽरिवद् वर्ज्यः सुहृद् आत्मैव सम्मतः ॥५॥ यद्य् एष पन्था धर्मस्य सोऽपि नास्त्य् अविचारतः । तत्र यद् विदुषः सिद्धिर् भवेन् नाविदुषः क्वचित् ॥६॥ धर्मो वैदिक एवेष्टौ लौकिकः क्वापि दृश्यते । भवद्भिः कस् तयोर् एष विशेषत्वेन सम्मतः? ॥७॥ [अनुष्टुभ्]

[८] तद् एवं स्व-सुतस्य सुपर्व-पति-मान-चर्वणायाविर्भवन्तं सर्व-मत-ज्ञता-गर्वम् अखर्वम् आलोचयन्न्, अपूर्वतया भावनां कुर्वाणस् तेन च निज-पक्षस्यापेक्षणीयतां लक्षयन्न्, इदं व्रज-पतिर् उपक्षिप्तवान्—

धर्मोऽयं लौकिकस् तात यद्यपि स्याद् अथाप्य् असौ । युक्तत्वाद् अपि चाम्नायाद् आम्नायज इवेष्यते ॥८॥ य इन्द्रो देवतात्र स्यात् पर्जन्यः स तु सर्ववित् । तस्यार्चनं कुलायातम् अस्माकं केतनं मतम् ॥९॥ [अनुष्टुभ्]

[९] कृष्णस् तद् एतत् कर्म कर्म-प्रधानतया वर्ण्यमानं तद् उत्तरम् आकर्ण्य वासव-ह्रास-वासनया कर्म-काण्ड-पण्डितं-मन्यानां मतम् अनुसृत्य देवता-खण्डनम् आह—

स्वतः कर्म-वशाद् एवादातुं कर्मानुसारिणः । ईशश् चेद् अस्ति कर्मानुगाम्य् असौ का नु देवता ॥१०॥ सर्वं तद् भस्मनि हुतं पर-तन्त्रे यद् अर्पणम् । गार्हपत्ये हुतं तत् तु यद् आत्मात्मीय-पोषणम् ॥११॥ तस्माद् आभीर-वैश्यत्वाद् अघ्न्यासेवा तु नः कृतिः । देवता यदि मन्येत मन्तव्या सा तद्-आश्रया ॥१२॥ [अनुष्टुभ्]

[१०] अथ शतमन्योर् अपि पर्जन्यतया तद्-आश्रयत्वम् आशङ्क्य साङ्ख्य-सङ्ख्यावतां मतात् प्रत्याचचक्षे—

रजो-भूर् यवसाद्य्-अर्थस् तस्मान् नेन्द्रो गवाश्रयः । किन्तु गोवर्धनाख्यान-क्षौणी-भृद् यः स एव सः ॥१३॥ निजाजीव्यतया गावः कुलागत्या च भू-सुराः । आश्रयत्वे समक्षत्वं यान्त्य् एते न दिवौकसः ॥१४॥ [अनुष्टुभ्]

[११] तत्र मतान्तरं वितण्डा-पण्डितानां मतेन खण्डयति—

आप्तवाग् अनुमानं च प्रत्यक्षाद् एव गम्यते । तस्मात् प्रत्यक्षम् एव स्यात् प्रमाणं सर्व-मर्दकम् ॥१५॥ तस्माद् गवां ब्राह्मणानाम् अद्रेश् चारभ्यताम् महः । ऐन्द्रैर् निर्मीयतां सेयं त्रि-कर्मी हविषां कुलैः ॥१६॥ होमो यदि विधातव्यो वह्निम् उद्दिश्य हूयताम् । आश्रयः स हि सर्वेषां प्रत्यक्षश् चानुभूयते ॥१७॥ अथ विप्राः प्रीणनीया दत्त्वा धेनूः सदक्षिणाः । स्वभाव एष भवतां विधि-किङ्करता नहि ॥१८॥ [अनुष्टुभ्] अन्नं दत्त्वा ब्राह्मणादिश्वपाकान्त्- एभ्यः श्वभ्योऽप्य् अत्र गोभ्यस् तृणानि । क्षौणी-भर्त्रे दीयताम् अन्नकूटो यस्माद् एषोऽप्य् अन्न-कूटाभिधः स्यात् ॥१९॥ [शालिनी]

[१२] तद् एवं श्वपाक-श्व-पर्यन्तेभ्यः प्रदातव्यं, न तु पाकशासनायेत्य् अभिप्रेत्य सर्वान् निर्वचनेकृत्य प्रत्येकं प्रवर्तयन् प्राह—

भुक्त्वा वस्त्रालेप-वेशान् गृहीत्वा विप्रं वह्निं गां परिक्रामताद्रिम् । नात्राप्य् अङ्घ्रि-क्रामितावश्यकत्वं स्वच्छन्दत्वाद् यानम् अप्य् अत्र दिष्टम् ॥२०॥ [शालिनी] ये वा क्रतुभुजोऽप्य् अत्र जनास् ते स्युर् जनाव् इह । सुपर्वाणः सुमनसो निर्जराश् च सुरा इव ॥२१॥ [अनुष्टुभ्]

किं च—

आढ्यङ्-करणी सुभगङ्-करणी तद्वत् प्रियङ्-करणी । श्री-गोवर्धन-पूजा-नाम्नी विद्या परिस्फुरति ॥२२॥ [उपगीति] गोवर्धन-गिरि-यज्ञावज्ञा तु गोत्रभित्-पूजा । अन्धङ्-करणी पलितङ्-करणी नग्नङ्-करण्य् अपि च ॥२३॥ [उपगीति]

[१३] तद् एवम् अग्रजमुखं निरीक्ष्य मृदु हसित्वा पुनः सादरम् आह स्म—

इत्य् एतन् मे बाल-भावेन बुद्धं गो-विप्रादि-प्रेप्सितं मद्-धितं च । युष्मभ्यं चेद् रोचते तर्हि शीघ्रं कार्यं विघ्नः स्याद् विभिन्न-प्रवेशे ॥२४॥ [शालिनी] सर्वं यन्-मानसं वाचिकं वा युष्मदृग्भिः साध्यते कायिकं वा । नित्यं तत् तद् दृश्यते मन्-निमित्तं तस्माद् एतन् मद्-धितत्वाद् विधेयम् ॥२५॥ [शालिनी] अनुन्मत्तः स्वतः सर्वं वेत्ति स्वीयं हितं पितः । नो चेद् वेत्ति न च ब्रूते ब्रूते चेद् वेत्ति निश्चितम् ॥२६॥ [अनुष्टुभ्]

[१४] तद् एतद् विप्रलम्भ-लम्भनम् अप्य् अक्लिष्ट-वर्णन-विशिष्टम् आकर्ण्य तन्-मुखं च निर्वर्ण्य, तद् एव सवर्णैर् असवर्णैर् अप्य् अधि पर्वम् आगतैः सर्वकैर् निर्णिन्ये । तथा हि—

प्रेष्ठः किञ्चिद् यद् ब्रवीति प्रतीतिं सर्वेषां तद् याति नूनं रुचिं च । तच् चेद् अण्व् अप्य् अर्हितं तर्हि किं वा वाच्यं तस्मात् तेऽप्य् अमन्यन्त तद्द् हि ॥२७॥ [शालिनी]

[१५] तद् एतद् अवधार्य मधुकण्ठस् त्व् अमुक्त-कण्ठं परामृशति स्म, चेद् अप्य् अतिवेदः सुविचारता-नश्वरः सोऽयम् अनीश्वर-वादः कृत-वक्र-भाव-चक्र-शक्र-पराभव-कौतुक-तात्पर्य-मात्र-पात्रतया तेन प्रयुक्तः, किन्तु न प्रवृत्ति-विरोधि-पात्रतया; तथापि तत्र मित्रतातिचित्रतया लब्ध-निगम-विस्रब्ध-सर्व-पुरुषार्थ-सार्थ-शिरोमणि-रूप-स्वरूपेषु तेषु व्रज-भूपेषु नायुक्तः । ईश्वर-ज्ञान-गुरुभिर् अपि तद्-भावम् एव परि सर्वोपरि-पुरुता-परामर्शात् । यथोक्तम्—

अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् । यन्-मित्रं परमानन्दं पूर्ण-ब्रह्म सनातनम् ॥ [भा।पु। १०.१४.३२] इत्यादि ।

[१६] ततः कौतुक-चारितयापि तेन यद् विचारितम् इव सम्पद्यते, तद् अपि पारमार्थ्य-वर्यतया पर्यवस्यतीत्य् एवम् अहो परम-महो-वर-कर-स्वभाव-धारः सोऽयं व्रज-धरा-पति-वंश-जन्मा शशधरः इति ।

[१७] अथ स्पष्टं चाचष्ट—ततस् ततः?

[१८] स्निग्धकण्ठ उवाच—ततश् च दीपावलीनामानम् अमावास्याम् अनु दीपावलि-बलि-कौतुकं प्रतिपद्य प्रतिपत्-प्रातस् तु विश्रम्भतः परमाश्रयताम् आश्रयमाणैर् अमीभिर् यथा तेन विहितं तथा विहितम् ।

[१९] तत्र च मुख्य-कल्प-कल्पनाय विचित्र-चित्र-वितान-पताकादिभिः सर्व-सुख-संवर्धनस्य श्री-गोवर्धनस्य कूट-मण्डलं मण्डयित्वा, यथाविधि निर्बन्ध-साधित-साधु-गन्ध-बन्धुर-पाद्यादि-प्राग्र्य-सामग्रीभिर् अभिसभाज्य, तम् अभि प्राज्य-चरणाचलवद् आज्य-प्राघार-निर्झराश् चित्र-वर्ण-व्यञ्जन-व्यञ्जित-धातु-रञ्जनाः, दुग्ध-तटिनी-सङ्कटिता दधि-तडाग-सङ्घटिताः सम्पन्नम् अन्न-कूटाः सङ्घट्टय्य निकटाद् उपढौकयामासिरे । येषां प्राग्-भावेनापूपिकं शाष्कुलिकम् इत्यादि भूयिष्ठ-निष्ठान-कूट-नाम्ना स्थानान्य् अपि चिरम् आम्नातानि ।

नाना-वाद्यं लोक-कोलाहलाढ्यं स्वर्गं बाढं व्यानशे तत्र सत्रे । यत् तद् देव-क्ष्मापतेर् आश्विनेयौ निर्णिन्याते कर्ण-शूले निदानम् ॥२८॥ [शालिनी] सृष्टेष्व् अद्रेर् अन्न-कूटेष्व् अनल्पः कृष्णाकारः कश्चिद् आविर्बभूव । अल्पीयस्त्वं केवलं भेद-बुद्धेर् यस्मात् कृष्णे कारणत्वं जगाम ॥२९॥ [शालिनी]

[२०] तं च प्रथमं वसुन्धराधर-शिला-सन्धितः समेधमान-स्फुरद्-उत्सेधं प्रेक्षाकारिणः समुत्प्रेक्षामासुः—

पीत-श्यामा किं प्रभा? किं तडित्वान्? किं वा धातु-द्योति-भूभृद् विभाति? । सुष्ठूत्तिष्ठन् किं स्विद् एतद् बकीजिन्- मूर्ति-व्यूहः स्फूर्तिम् अत्रातनोति? ॥३०॥ [शालिनी] काय-प्रायत-भाजिताञ्जन-गिरिर् वस्त्राणि सन्ध्याभ्रजिद् विस्तार-द्युतिमन्ति वेषमणयः सूर्यादि-जेतृ-प्रभाः । उत्तंसा वर-पुष्प-भार-बलवच्-छाखा-सहस्राण्य् अहो यस्य क्ष्माधर-देव एष कुरुते नेत्राणि चित्राणि नः ॥३१॥ [शार्दूल]

[२१] ततः स तु चतुरानन-चातुरी-चालन-चतुरः कृष्ण-नाम्ना मधुरः स-प्रश्रयं पप्रच्छ—भगवन्, को भवान्? इति ।

[२२] देवस् तु निर्घोष-निभ-घर्घरित-स्वरेणाभ्र-भ्रमं प्रथयन्न्, अर्थेन तु तम् अन्यथयन् वचः प्रचारयाम् आस, पूर्विताखर्ववत्-पर्वन्! पर्वतः सोऽयम् अहम् अस्मि इति ।

[२३] तद् एतद् अवधार्य देवार्य्-अमित्रः श्रीदामादि-मित्रः स्व-भुजौ प्रसार्य विस्फूर्यमाण-कोलाहलानर्गलं गोप-वर्गं निवार्य, नमस्कार्यः खल्व् असौ यस्मात् करुणा-व्यग्रता-जाग्रन्-महा-विग्रह-समग्र-विग्रह-प्रकाश-ग्रहिलतया प्रत्यक्ष-प्रत्ययम् एव स एव देवः प्रत्यवरुद्धवान् इति सर्वान् प्रत्य् अखर्वां वाचम् उवाच ।

[२४] उक्त्वा चाखण्ड-दण्डवन्-नतिं कुर्वति सहस-स्मित-पूर्वजे तस्मिन् विस्मित-मनसः सर्व एव प्रति पर्वतं तथाकुर्वत । कृत्वा च श्रद्धया बद्धाञ्जलिषु तदावलिषु सर्व-सुख-वर्धनः स गोवर्धनः पुनर् उवाच—

नान्य-देववद् अस्माकं

भेदं युष्मद् विचक्ष्महे ।

तत् पश्यत भवेद् दत्तं

प्रत्यक्षं भुङ्क्ष्महे वयम् ॥३२॥ [अनुष्टुभ्]

[२५] तद् एतद् उक्त्वा च—

अन्नान्य् आढक-कोटि-तण्डुल-कृतान्य् आदाय तद्-व्यञ्जनान्य् अप्य् एष प्रतिकूटम् एक-कवल-प्राप्तान्नम् आदत् तथा । मध्यं मध्यम् अनुप्रकृष्य तु यथा नीरं पिबन् पल्वलान् कुण्डान्य् आशु सरांसि किं च सरितो निन्ये क्षयं सर्वतः ॥३३॥ [शार्दूल] यदा ग्रासाय स करं प्रसारयति चाग्रतः । तदा सर्वे द्रवन्ति स्म सर्वतश् चटका इव ॥३४॥ [अनुष्टुभ्] मध्ये-कृत्य व्यञ्जनान्य् अन्न-कूटं
ग्रासं ग्रासं पाणिना दक्षिणेन । तर्जन्यासाव् उद्दिशन् वामया तं
शक्रं लोलत्-प्रान्त-गत्या जहास ॥३५॥ [शालिनी] दोष्णस् तस्याश्व् अतिपरिमिति-ग्रास-हेतोः प्रसारे चाकुञ्चे च स्थगित-हरितः प्राप्त-तत्-तद्-गतीनाम् । अक्ष्णाम् आसीद् व्रज-कुल-भुवां चित्र-वृन्देऽपि चित्रं यत् क्वाप्य् एकं न किल गणितं सिक्थम् एकं स्थितं न ॥३६॥ [मन्दाक्रान्ता] अतरीतृण्यत ग्रासान् भूभृद्-भूभृद् यथा यथा । अचलीक्ल्प्यताप्य् उच्चैर् मांसलाय तथा तथा ॥३७॥ [अनुष्टुभ्]

तत्र च—

बाला भीतिं यौवनोन्मत्त-चित्ता हासं वृद्धाश् चित्रम् अर्हास् तु भक्तिम् । याता ये ये तेषु सर्वेषु देवः शुद्धां तुष्टिं कौतुकित्वाद् बभाज ॥३८॥ [शालिनी] दूराद् दूरात् पूरम् आदाय वारां वक्त्रं शश्वत् क्षालयन्न् अद्रिदेवः । ष्ठीवन्न् उच्चैः पृष्ठ-देशे समन्ताद् वृष्टिं कुर्वन् शम्प-सृष्टिं चकार ॥३९॥ [शालिनी] गण्डूषाणाम् अन्तरे वंश-दण्डैर् दन्तान्तर्गान्य् अन्न-पिण्डानि कुञ्चन् । उद्यन्-मूर्तिस् तत्र शैलाधिदेवः पूर्तिं कुर्वन् प्राण-भाजां ससर्ज ॥४०॥ [शालिनी] ताम्बूलानां वीटिकाः कोटि-खर्वं कूटी-कुर्वंश् चर्वयन् गर्व-फुल्लः । प्रान्त-च्छाया-मण्डलश् चण्ड-रश्मिः प्रातर् यद्वत् तद्वद् आस्यं चकार ॥४१॥ [शालिनी] जातं नीराजनस्य क्षणम् अनु निखिला मोहम् आपुर् यद् एतत् तस्मिन् द्राघीयसि स्यात् कथम् इति विविधाद् ध्वस्त-चित्ता विचारात् । कृष्णस् त्व् अल्पं विहस्य प्रतिविधिम् अकरोत् कल्पिताद् यन्त्र-भेदाद् यस्मिन् दीपाः सहस्रं तलम् उपरि च ते चाल्यमाना विरेजुः ॥४२॥ [शार्दूल]

[२६] अथ सर्वम् इच्छन् अन्विच्छन् प्रतीच्छन्न् अपि गिरिर् अयम् अहो गिरिं करोतीति निध्याय, मूर्धनि बद्धाञ्जलितया सर्वस्मिन्न् अप्य् ऊर्ध्वं स्थितवति, सर्वतोऽपि वरान् वरान् विरचय्यातर्कितम् अन्तर्हिते परम-हिते तस्मिन्न्, अखण्ड-दण्डवत्-प्रणाम-पूर्वम् अत्र द्वित्र-क्षणं चित्रम् इव सर्व एवासीत् ।

[२७] अवहिते च बहिर्-अर्थे श्री-हरिर् असौ सर्वान् पर्वत-पर्वागतान् प्रत्य् उवाच—

अहो कलयताचलः करुणयात्म-रूपं महद् वहत्-प्रकटतां भजन्न् अखिलम् एव भुङ्क्ते स्म सः । अनादर-कृतामयं दलयितेति सम्भाव्यते पुरन्दर-बलि-ग्रहाद् अतिबली तथा तर्क्यते ॥४३॥ [शिखरिणी]

[२८] ततश् च सर्वोऽपि विस्रब्धः परम-प्रेम-भाजन-गो-सभाजनम् आरब्धवान् । यत् खलु—

गोभिर् गोपा मिथः स्युः प्रतिपद-दयितास् तत्र नन्द-व्रजस्थास् तत्र श्री-नन्द-राजः स्वयम् अयम् उपमा तत्र तत्रास्य पुत्रः । यद्य् एवं तर्हि गोवर्धन-महसि तद्-अभ्यर्चने ते गवाद्याः किं वर्ण्याः किन्तु निर्वर्णनम् अनु परमं ज्ञेय-भावं प्रयान्ति ॥४४॥ [स्रग्धरा]

तथा च,

लब्धार्चाश् चारु-वेशैः शवलित-वपुषः प्राप्त-भोगावलीका वत्सैः पृक्ताः प्रमोदं पृथुतरम् अभजन् धेनवः सत्यम् एव । किन्तु श्री-कृष्ण-दृष्टि-प्रमद-वलयिता यर्हि तर्ह्य् एव नो चेत्

केचिद् यद्वद् भजन्ते मधुर-विधुरतः संस्कृतं षाडवादि ॥४५॥

[स्रग्धरा]

[२९] तद्-दृष्टि-पुष्टीकृतास् तु—

स्वर्ण-निर्मित-विषाण-सुरूपा रूप्य-संवृत-खुरा धृत-हाराः । किङ्किणि-प्रकर-झङ्कृति-युक्ता नैचिकी-निचितयो रुचिम् आञ्चन् ॥४६॥ [स्वागता]

[३०] तत्र गोपाः श्री-गोपालादि-गोपाल-सत्कृति-चमत्कृतिम् अधिगम्य, विधिम् अनुगम्य, चित्रकाङ्ग-निभ-चित्रातिरम्य-वस्त्रावृताङ्गतया तर्णकम् आक्रम्य, कौतुकतो गाः सम्भ्रम्य, तज्-जात-हास-कोलाहलाद् विरम्य, ग्रास-विश्राणनेन ता विश्रम्य, परिक्रम्य, प्रणम्य, चाचर्यं वार्यम् आचर्य, वितान-वितानेनाग्निं परिचर्य, प्रदक्षिणावर्ततया वर्तमानं च तं प्रदक्षिणं विरचय्य, भूषण-निवह-महितानां पुरोहितादीनां पूजनम् अपि पूरयामासुः ।

[३१] तत्र श्री-गोपाल-पूजा, यथा—

स्नानीयांशुक-चित्रकादि-सुरभि-स्रक्-कुण्डलाद्यं यदा- श्चर्यं तत्र मुहुश् च तोष-रहितास् तत्-तत्-परीवर्ततः । तद् गोवर्धन-पूजनाङ्ग-पशुपाभ्यर्चानु कृष्णार्चने ताताम्बादि-तदीय-बान्धव-जना नान्तं चिराद् ऐयरुः ॥४७॥ [शार्दूल] यथा कृष्णस् तथा रामो रामो यद्वत् तथा स च । व्रजेशयोर् नात्र भेदस् तन्-मित्रेष्व् अपि तद्-दृशोः ॥४८॥ [अनुष्टुभ्]

[३२] गो-सम्भ्रमणं, यथा—

यदा मुदा याति हरिः परोक्षतां गवां, तदा ता निज-वत्स-कृष्टितः । व्यग्रीभवन्ति स्म यदा समक्षतां यात्य् एष यान्ति स्म तदा तद्-आत्मताम् ॥४९॥ [उपजाति १२]

[३३] हास-कोलाहलो, यथा—

आकृष्टे वत्स-वृन्दे किल-किलित-रवैर् मातरो रम्भमाणा दन्तैर् आकर्षकांस् तान् व्यथयितुम् अभितो धावनार्ता यदा स्युः । हासं कोलाहलाढ्यं कलयति निखिले तर्हि कृष्णाननाब्जं जीयाद् उद्भास-हास-द्रव-मधु परितो मादनं यद् ववर्ष ॥५०॥ [शार्दूल]

[३४] गो-ग्रास-विश्राणनं, यथा—

गोपा ऊचुः कृष्ण गो-ग्रासम् एतं हस्ताम्भोज-स्पृष्टम् ईषत् कुरुष्व । तत् सौगन्ध्य-प्राप्त-सन्धानम् एनं गावः सुष्ठु प्रीतितः स्वादयन्ते ॥५१॥ [शालिनी]

[३५] गो-विश्रमणं, यथा—

गोवर्धनाचल-महस्य् अयुतादि-यूथ गो-रोधनाय पशुपा नहि तत्र शेकुः । फुत्कार-केलि-कलया मुरली मुरारेर् आसीद् अलं यद् असकौ गुण-कोटि-कल्पा ॥५२॥ [वसन्ततिलका]

[३६] गो-परिक्रमणस् तु श्री-कृष्णेनेत्थम् आदिष्टम्—

न भवति बत बहुलानाम् अतिबहुलानां परिक्रमः सद्यः । इत्य् एकस्या व्यक्तेः क्रियतां यस्माद् अशेषगा जातिः ॥५३॥ [गीति] तत्र प्रदक्षिणी-कार्यम् एकं वृद्धं गवौरसम् । मूलाराधनतः सर्वाराधनं विबुधैर् मतम् ॥५४॥ [अनुष्टुभ्]

[३७] गोषु प्रणामात्मिका भक्तिस् तु तेषां वर्णनाय नाभ्यर्णताम् अन्वेति, यतः—

भक्तः स्वभावात् किल गोप-लोकः श्री-नन्द-लोकस् तु ततोऽपि गोषु । अस्याथ गोवर्धन-यज्ञ-योगे योगेश-दुर्गा-नमनाख्य-भक्तिः ॥५५॥ [इन्द्रवज्रा]

[३८] आचार्य-वरण-लक्षणम् अपि विलक्षणम् एव तत्र । यतः—

स्वयम् आव्रियताचार्यस् तत्र नाद्यवद् अर्थितः । यत्र सुष्ठु सितं यष्टुश् चित्तं तत्रैव तस्य च ॥५६॥ [अनुष्टुभ्]

[३९] होमे च—

गोवर्धन-महा-यज्ञे हुतभुग्-व्याजतस् तदा । हरेः प्रताप एवेन्धाञ्चक्रे शक्र-प्रतापनः ॥५७॥ यदाग्निर् दक्षिणावर्तो यज्ञे जज्ञे तदा जनः । सर्वश् च दक्षिणावर्त-परीवर्तम् अवर्तत ॥५८॥ [अनुष्टुभ्] कृते सत्रे वस्त्रं तिलकम् अथ चर्चाम् अवयव- प्रकारालङ्कारं सकलम् इदम् अप्य् उत्तमतमम् । द्विजेभ्यः प्रायच्छल् लषित-लषितं शश्वद् अनुगान् मुदावादीद् यस्मिन् दद दद दमात्रं व्रजपतिः ॥५९॥ [शिखरिणी] दिव्य-दातव्य-सम्भारे व्रज-राजेन योजिते । परीक्षकास् तत्र परं तत्-परीक्षकतां ययुः ॥६०॥ [अनुष्टुभ्]

[४०] यद् अनु सर्वेऽपि प्राणिनः प्रीणते स्म । तथा हि वन्दि-जन-वन्दनम्,

अर्थेन गोदुहान् नन्दाद् अर्थेन च सदार्थिनाम् । वदान्यश् च वदान्यश् च वदान्यः को भवेद् अतः? ॥६१॥ [अनुष्टुभ्]

[४१] किन्त्व् अयम् अत्रातिशयः—

अन्नात् पूर्तिर् अभूद् गलावधि नृणां गोवर्धनाद्रेर् मखे सर्व-प्राण-भृतां तथापि हृदयं नापूरि तत्राण्व् अपि । यस्मिन् स्निग्धम् अभूद् अशेष-दिविषद्-वृन्दं यदप्य् अत्र भोः पश्याश्चर्यम् अथापि हन्त गतवान् सङ्क्रन्दनः शुष्कताम् ॥६२॥ [शार्दूल]

[४२] अथ तद् एवं विप्रत्राकृत-सत्रादिकः पुरोहित-हित-सहितः श्री-व्रज-युव-राज-महितः स खलु विज्ञानां समाजः पुरस्कृत-व्रज-राजस् तद्-यज्ञावशिष्टं परम् अविशिष्टम् अन्नम् उपभुज्य, वेश-विशेषं संयुज्य, गीत-निबद्धं स-श्रद्धतया हरि-चरितं प्रति रसन् हसन्, विश्वसन्, लसन्, परितो गोवर्धनं परिचक्राम ।

[४३] यथा च प्रथा श्री-विष्णु-पुराणे [५.१०.४५]—

द्विजांश् च भोजयामासुः शतशोऽथ सहस्रशः । गावः शैलं ततश् चक्रुर् अर्चितास् ताः प्रदक्षिणम् ॥

[४४] तत्र पूर्वापरीभावो, यथा—

धेनवो हरि-बलादयो द्विजाः स्वामिनः परिजना गुरु-स्त्रियः । नूत्न-यौवत-शतानि दासिकाः श्रेणि-मुख्य-जनताश् च चक्रमुः ॥६३॥ [रथोद्धता]

आक्रष्टुं प्रतिदिशम् अत्र नेत्र-मीनान् वाद्यादि-प्रकटन-धीवरा नटाद्याः । कृष्णस्य प्रथित-गुणालि-गीत-जालं तन्वानाः पुनर् इह धीवरत्वम् आपुः ॥६४॥ [प्रहर्षिणी]

[४५] तत्र गोपाङ्गनानां गानं च, यथा— यत्र प्रश्नमयम् अर्धम् एकस्यास् तदुत्तरम् अयं तु बहूनाम्—

गिरि-पूजेयं विहितं केन? अरचि शक्र-पदम् अभयं येन । गिरि-पूजेयं विहितं केन? पूतनिका सा निहता येन ॥ गिरि-पूजेयं विहितं केन? तृणावर्त-तनु-दलनं येन । गिरि-पूजेयं विहितं केन? यमलार्जुन-तरुम् उदकलि येन ॥ गिरि-पूजेयं विहितं केन? वत्स-बकासुर-हननं येन । गिरि-पूजेयं विहितं केन? व्योमाघासुर-मरणं येन ॥ गिरि-पूजेयं विहितं केन? कालिय-दमनं कलितं येन । गिरि-पूजेयं विहितं केन? खर-प्रलम्बक-शमनं येन ॥ गिरि-पूजेयं विहितं केन? दव-युग्मं परिपीतं येन । गिरि-पूजेयं विहितं केन? त्रस्यति कंसः सततं येन ॥इति॥ [६५]

[मात्रासमक x१५]

किन्तु—

तदैव गुणिनां गुणा विविध-कौतुकान्य् अप्य् अहो, मनो-हरणम् आवहन् व्रज-निवासिनां सर्वतः । यदाघरिपु-वंशिकाकल-तुषार-कान्ति-त्विषा जडीकृत-शरीरता भवति तं तु कालं विना ॥[६६]॥ [शिखरिणी] अग्रे काञ्चन-रत्न-शृङ्ग-वलिता धेन्व्-आदिकाः सर्वतस् तासां गोप-ततीर् विधाय सखिभिः सार्धं हरिः साग्रजः । दीव्यद्-दिव्य-सुवर्ण-वर्ण-वसनाद् उद्गच्छद्-अङ्ग-प्रभः कन्या-कुङ्कुम-युक्-कराङ्क-विलसत्-पृष्ठः स्फुरद्-वेषवान् ॥६७॥ [शार्दूल] सद्-गन्धारुण-चूर्ण-रोचन-तनुर् यष्टिं नभस्य् उत्क्षिपन् गृह्णंश् च प्रतिकूल-गामि-धवला विद्रुत्य सङ्कोचयन् । हासं क्रीडनकं मिथः करयुतिं संवादितां वादितां कुर्वन् वादित-वल्गु-वेणु-परितश् चक्राम गोवर्धनम् ॥६८॥ [शार्दूल]

[युग्मकम्]

यदा हरिर् यत्र गतिं विलासतश् चकार मन्दं लघु वा यदृच्छया । तदा दृशः सर्व-जनस्य तां दशां तत्राययुः सूत्र-नियन्त्रिता इव ॥६९॥ [उपजाति १२]

[४६] तद् एवं बहुल-कुतूहलतश् चालं चालम् अमी गोप-ग्रामण्यस् तद् एव रम्यं यज्ञ-धाम समागम्य परमानन्दाद् वाणिनी-प्रभृति-कृत-नृत्य-वाद्य-गीत-ग्रामिणीं यामिनीं विश्राम्यन्ति स्म । प्रातश् च द्वितीयायाम् अहिमकर-कन्याया महिम-श्रवणतः प्रणततया तस्यां स्नानम् आचर्य निकाय्यम् एवागच्छन्ति स्म ।

[४७] तस्यां च भ्रातृ-द्वितीयायां भ्रातृभिः प्रशस्तेन भगिनी-हस्तेन भोक्तव्यम् इति परम-धन्याभिर् उपनन्दादि-कन्याभिर् मिथो मिलन्तीभिर् निमन्त्रितौ प्रणय-यन्त्रितौ तत्र स-तृष्णौ च राम-कृष्णौ सहचर-निकरेण सह भोजन-करेण सह महम् अरोचयताम् ।

[४८] तद् एवं वृत्ते वृत्ते, कृष्णस्य समुन्नद्धता-बन्धया कुहनया मद्-यज्ञ-प्रत्यूहनम् इदम् इत्य् ऊहमानः शक्रस् तु वक्र-भाव-चक्रतया चुक्रोध । [४९] कृष्णेन तस्य या गूढापि खट्वारूढता तर्किता, सा कथम् अन्यथा सम्पर्कितया वर्तेतेति व्यक्तीकर्तुम् इव मत्सरतस् तत्-सहित-विश्व-महित-श्रीमन्-नन्दादि-निन्दा-पूर्वकं संवर्तक-मेघान् व्रज-विघाताय प्रवर्तयामास । ततश् च—

कौवेर्यां पूर्वम् आसीत् किम् अपि हिम-मरुत् कालिमा मेघलेशः शम्पा-निर्घोष-वीप्सा-स्पृग् इति पशु-कुले गोष्ठम् एवाशु नीते । गोपाद्या दुर्निमित्त-प्रकर-कलनया कृष्णम् आवृत्य वृत्तास् तन्-निर्देशात् तम् आद्रिं सपदि परिगतास् तस्थुर् ऊर्ध्वं निरीक्ष्य ॥७०॥

[स्रग्धरा]

[५०] निर्देशा, यथा—

इन्द्रो यदि महा-वृष्टिं नष्ट-सृष्टिं तनिष्यति । तद्-अङ्गीकारि-गिरिराट् कृपां साङ्गीकरिष्यति ॥७१॥ [अनुष्टुभ्]

[५१] उपत्यकाम् उपेत्य, तं विघ्नं निघ्नं कर्तुम् आद्रिम् उपघ्नं कृत्वा कृताधिष्ठाने तु गोष्ठे गोष्ठेन्द्र-तनये च समयं प्रतिपालयति—

घडद्-घडद् इति ध्वन-दघन-घटाभिसङ्घट्टनैः कठोर-कुठ-कुट्टकैः कुटिल-वायुभिः कुण्ठिते । प्रकोष्ठ-कुट-कुट्टिमा-वट-तटादि-मत्य् उज्झिते जने प्रकटम् आट सा प्रथित-धृष्टि-वृष्टि-प्रथा ॥७२॥ [पृथ्वी] धाराः शक्र-धनुर् विमुक्त-शरतां तन्वन्ति वर्षोपला वज्रत्वं बत वज्र-पात-निचयाः सूर्य-प्रपात-भ्रमम् । इत्थं दुःखितया हरिं गतिम् इते गोष्ठे स गोवर्धनं हस्तेऽधत्त यथा न केन च तदा शक्तं दराप्य् ऊहितुम् ॥७३॥ [शार्दूल]

[५२] तद् एवं मेघङ्करे पुरन्दरे निविडीष-वर्षादिना भयङ्करे चार्तिङ्करे च जाते क्षेमङ्करः स मुरारिः पुरा ह्य् एवं पराममर्श—

इन्द्रः स्वैराभिमानी मयि मद्-अनुगते चावमानी ततश् च स्वान्तान् मेदूर-मानी तद् अमुम् अनु मया मान-भङ्ग-प्रसक्तः । गोष्ठं मद्-गत्य्-अशेषं मम मद्-अनुगतस्यापि मुद्-भृद्-विशेषं मच्-चित्ते सावशेषं तद् इदम् अथ मया प्राण-साम्येन धार्यम् ॥७४॥ इति ।

[स्रग्धरा]

समजनि हलिना न हरेर् गिरि-धृति-सम्भ्रम-वशेन संवादः । तद् अपि परस्पर-हार्दा- ज्ञानं तस्मिन्न् अजीजनत् तम् इव ॥७५॥ [गीति]

[५३] तं नगम् उन्नयमानश् चासौ रोमाञ्चतः सूचि-निचय-निचित-सर्वावयवान् इव निचायन्न्, अमूल-भीरु-माथुराभीर-जाति-जातीय-गम्भीर-मधुर-स्वर-विकस्वर-दूर-भू-विभूति-हूतिभिर् ऊर्जित-गर्जितादि-गर्वं सर्वं खर्वं विधाय प्रियङ्करतया व्यक्तम् उक्तवान्—

[५४] यत्र खलु मुहुर् अपि हे-शब्दः प्लुतताप्लुत एवासीत् । तथा हि—अम्ब हे, मा विलम्बस्व । तात हे, अत्रैव यूयम् आयात । आर्य हे, सर्वान् आदायागच्छ इति प्रभृति ।

[५५] तद् एवं बलरामेण बलेनान्तिकम् आनीतेषु तेषु पुनर् ऊचिवान्—

पितर् न कुरु सम्भ्रमं जननि नार्तिम् आवर्तय, प्रशाम्य सुहृदां तते मम तु कोऽपि नात्र श्रमः । यतो गिरि-वरः स्वयं करुणया करे मामके समुत्पतन-लीलया स वरिवर्ति तूल-प्रभः ॥७६॥ [पृथ्वी]

किं च,

भूभृद्-गर्तेऽप्य् अत्र निश्रेणि-युक्ते स्थानं पश्यन्न् अस्मि पाताल-कल्पम् । विस्तीर्णोऽभूद् अद्रिर् इत्य् अन्तर्-अम्भः- सङ्गातीते नो निपत्यादि चात्र ॥७७॥ [शालिनी]

[५६] पुनश् च तेषां भावान्तरं विभाव्य स्व-कर्तृक-धारणम् अप्य् अर्धम् अङ्गीकृत्य भणति स्म—

मातर् मन्त्रणया मा मां निवर्तयत सत्तमाः । उदस्तो येन तद्-धस्ताद् ध्वस्तः स्याद् गिरिराट् कथम्? ॥७८॥ [अनुष्टुभ्]

किं च—

मा विलम्बध्वम् अत्यर्थं युष्मद्-दुःखेन कम्प्रताम् । मयि गच्छत्य् अद्रिपतिः पतिता विशत द्रुतम् ॥७९॥ [अनुष्टुभ्] अथ पशुप-जनस् तदीय-हार्दाद् द्रुतम् अविशन् निखिलस् तदाद्रि-गर्ते । नहि शरणतया कदाचिद् एनं स भजति किन्तु तद्-एक-तर्षि-बुद्ध्या ॥८०॥ [पुष्पिताग्रा]

ततश् च—

सुविन्यस्त-निःश्रेणि-लब्ध-प्रवेशं मणि-श्रेणि-विद्योतमान-प्रदेशम् । गृहस्येव रत्नाङ्ग-भित्ति-प्रकारं तद्-ऊर्ध्वं च तत्-तूल्य-शोभा-प्रचारम् ॥८१॥ [भुजङ्गप्रयाता] सुख-स्पर्श-मण्य्-आचित-क्षौणि-भागं समस्तावकाशार्ह-सन्धा-विभागम् । यथापेक्ष-विभ्राजित-स्वच्छ-नीरं सुखाकारि-धर्माञ्चि-नीचैः समीरम् ॥८२॥ [भुजङ्गप्रयाता] करे स्वस्य वामे तु वामे वसन्तं गिरिं लीलयास्पृश्य सन्तं हसन्तम् । तदीयान्तर्-उद्यन्-महा-कुट्टिम-स्थं हरिं हारि-रूपादिभिः प्राग्-अवस्थम् ॥८३॥ [भुजङ्गप्रयाता] दधद्-वेणुम् आनम्र-हस्त-प्रधानं कदाचिन् मुदा सख्युर् अंसे दधानम् । ददर्श प्रहर्षं सतर्षं सभीतिं व्रजावासि-लोको ययौ चातिरीतिम् ॥८४॥ [भुजङ्गप्रयाता] गोवर्धनाद्रिस् तत्रासीद् रत्न-चित्रं महा-गृहम् । हरिर् यत्र हरिद्-रत्न-स्तम्भतारम्भि-विभ्रमः ॥८५॥ [अनुष्टुभ्]

अपि च—

विलसति मणि-दण्ड-श्रीर् मुकुन्दस्य बाहुस् तद्-उपरि परितोऽपि च्छत्र-तुल्यो गिरीन्द्रः । प्रतिदिशम् इह मुक्ता-दामवद् वारि-धारा व्रज-सदन-जनानां प्रत्युताभूद् विभूतिः ॥८६॥ [मालिनी]

[५७] ततश् च सहसा रोहिणी-सहिता व्रजेश-गृहिणी तं पार्श्वयोर् गृहीतवती । तद् इदं वर्णिभिर् निर्वर्ण्य वर्ण्यते स्म, यथा—

मातृभ्यां पार्श्व-युग्मे धृत-तनुर् असकृन् मृज्यमानाननाब्जः पित्राद्य्-आत्मीय-वर्गैः स-पुलकम् अभितो वीक्षितोऽतर्क्य-कर्मा । सोऽयं स्मेराब्ज-नेत्रं कलित-तट-कला-हस्तकः सव्य-हस्त- न्यस्त-क्षौणी-भृद् उच्चैर् जय-जय-निनदान्वीडितः क्रीडतीव ॥८७॥ [स्रग्धरा] गोवर्धन-धरस्याग्रे विलासान् व्यञ्जतो बलः । कृत्स्नान् उत्साहयत्य् एष नाट्ये वा नट-नायकः ॥८८॥ [अनुष्टुभ्]

[५८] तद् एवं सति—

महा-वृष्टिर् गर्जः खर-हिम-पवनः स्फूर्जथुर् ध्वान्तम् अब्दस् तथा वज्रीत्य् एवंविध-विविध-गति-क्लेश-हेतुर् बहिर् यः । तम् अन्तर् निर्वर्षं मधुर-निगदितं चारु-वायुः प्रगीतं मरीचिश् चित्रश्रीर् अजितगिरिभृद् इत्य् आप्तशर्म व्यकारीत् ॥८९॥ [शोभा] नृत्य-स्तोत्र-प्रगीतान्य् अतिचटुल-नटाद्य्-अर्थिनां दान-चर्या वर्याणां स्वस्ति-पाठः श्रुति-समय-विदां क्रीडितं बालकानाम् । गर्वात् खर्वाखिलानाम् इति सकलम् अभूद् यस्य तु प्रेम-जातं स श्री-गोवर्धनाद्रि-प्रवर-धर-करः कं न तोषं पुपोष? ॥९०॥

[स्रग्धरा]

गुरौ नम्रा तुल्ये स्मित-युग् अनुपाल्ये धृत-जला क्वचिल् लीलालोला मघवति तु वक्रा बत सती । धृताद्रेर् दृष्टिस् तत् तद् अनु गुणम् अर्थं विदधती क्रियाम् अन्यां तस्य स्वम् अनु पुनर्-उक्ताम् अकुरुत ॥९१॥ [शिखरिणी] गिरिधर-वदनेन्दो रश्मि-पीयूष-धारां पिबद् इह पशु-जातं सप्त-रात्रिन्-दिवानि । क्षुधम् अपि स-तृषं तन् नाययौ तर्हि तस्य प्रणयि-जन-गणानां किं ब्रुवे न ब्रुवे किम्? ॥९२॥ [मालिनी] श्री-मुखेन जनता सुधा-रसैर् अस्य भूधर-धरस्य पूर्यते । एवम् अप्य् अवयती तदा प्रसूस् तन् मुहुर् बहु-रसैर् अपूरयत् ॥९३॥ [रथोद्धता] सप्ताहर्-निश-निर्मिता गिरिभृता ये ये विलासास् तदा तान् कल्पैर् अपि सप्तभिः कथयिता शेषोऽपि नाशेषतः । एवं चेद् वचनैर् अमूंस् त्रि-चतुरैः सच्-चातुरी-वर्जितैस् तूर्णं वर्णितवान् कविः स्वयम् असौ दुर्भूय दोदूयते ॥९४॥ [शार्दूल]

[५९] तद् एवम् अत्र प्रस्तावे लब्धावस्थाने, तत्र शक्रस् तु दुष्ट-क्रमम् अनुष्ठितवान्—

[६०] प्रथमं तावत् प्रथमानेन वातेन वातेन ते प्रलयं गता इति सन्दिह्य, तदैव तद्-दैवत-शतम् एव तत्र प्रभूत-दूततया प्रस्थापितवान् । तत् तु तस्माद् अतिसत्वरम् आगत्वरतया तद् अभीष्टं प्रत्याचष्ट । ततश् च बलारातिर् बलात् प्रवर्तित-प्रसारेण जलासारेण तद्-विलापनं प्रतीत्य च सत्यता-प्रतिपत्तये जलद-देवान् एव तद्-वार्तायां वर्तयामास । वर्तिताश् च ते तद्-वीक्षितेन पथा प्रत्यागत्य यथा-पूर्वं तत् प्रत्याशा-पदं प्रत्याख्याय स्थितवन्तः । ततश् च परमम् अपूर्वं मत्वा, मनस्य् अतीव धूर्वणं गत्वा, घनाघन-बृंहणः स घनाघनः स्व-वाहनं घनाघनं क्रोधाद् अङ्कुशेन मङ्क्षु जघान । हत्वा च किञ्चिद् अग्रतो गत्वा सत्वरम् ऐरावतीय-वह्निम् अह्नि चापह्नुत-नेत्र-वीर्यं विकीर्य दूत्याय तद्-देवताम् अवतारयामास । सा च ततो निवृत्य प्रवृत्त्य्-अन्तरं निवेदयामास—देव, परमाश्चर्य-चर्येयम् अवधार्यताम्, यत् खलु स एव बलि-भोजन-वलित-बलः सन्न् अचलः सम्यग् उत्पतन्न् इवावलोक्यते ।

[६१] इन्द्र उवाच—दृश्यतां कीदृशम् अनन्तरम् अन्तरं जातम्? लब्ध-शोकश् च व्रज-लोकः कुत्र वा स-पुत्रः प्रयातः?

[६२] अथ सर्वे यथाज्ञापयन्तीति विद्रुत्य पुनः सङ्गत्य संहत्य प्रत्यभाषन्त—सर्वदैव सर्व-दैवत-मान्य! शतमन्यो! मन्यामहे ते सर्वे शत-पर्व-सगर्भ-विद्युद्-वह्निना प्रलीनताम् एव नीताः, यद् बहिर् न हि विलोक्यन्ते ।

[६३] इन्द्र स-हर्षम् उवाच—आयुष्मद्भिर् युष्माभिर् पुनर् अपि निरूप्यताम् ।

[६४] अथ तथा पुनः सङ्गत्य गत्य्-अन्तरं प्रथयामासुः—दिवीश्वर, नाद्यापि ते नश्वरतां प्राप्ताः, प्रत्युत पातालतल इव गिरि-गर्त-तले प्रविश्य तद् दिशन्तीवानन्द-कोलाहलं कुर्वन्तः प्रतीयन्ते । अचलश् च स्वयं बलानुज-हस्त-न्यस्त-प्राय-ग्राव-निकाय-मय-कायतया प्रतीयते ।

[६५] इन्द्र उवाच—लक्षयामि । मया पूर्वं छिन्न-पक्षतिर् अप्य् असौ पुनः किं स-पक्षः सम्पन्नः, यत एव गर्ववान् स पर्वतः सर्वतस् तेषाम् अक्षयाय पक्षपातम् आचचार? भवतु नाम, तम् एनं पुनर् निह्रादि-ह्रादिनी-वह्नि-प्रहारेण संहारे योजयामि, येन तदीय-तले वलमानतया लब्धावलेपास् तेऽपि तूर्णम् एव चूर्णताम् आसादयन्ति इति ।

[६६] तथा च, तद्-वज्रेण बिद्धं विधाय प्रणिधान-द्वारा तद् अन्यथा प्रणिधाय, मनसि कोप-प्रकोपम् आधाय, मुहुर् अपि तद् एव सन्धाय, व्यर्थता-कदर्थित-पुरुषार्थः पुनर् नूतन-दूत-गणं प्रहापयन्न् आह स्म—अरे, निरूप्यतां तिरोभूय, भूयः किं तत्र चित्रम् इव वर्तते, येनाशनेर् अपि प्रचारः स्व-व्यवहाराद् व्यभिचारं सञ्चचार ।

[६७] अथामी च तथागत्य स्व-प्रत्यक्षं प्रत्यायामासुः—सुत्रामन्, न तत्र कुत्रचिद् अपि द्वि-त्राण्य् अपि पत्राणि स्रस्तानि दृश्यन्ते, न च काचित् पिपीडिकापि पीडिता । तद् एवं यद्य् उपरितनं वृत्तं परितो वृत्तं, तदा विलसित-रङ्ग-तरङ्गाणाम् अन्तरङ्गानां वार्ता तु दूरे वर्तताम् ।

[६८] अथ तं निखिलोच्चं शिलोच्चयं प्रति प्रतिहत-निज-टङ्कतया स-शङ्कः स वज्रपाणिर् विस्मय-लज्जा-भयानि सज्जंश् चिरम् एव तुष्णीम्भूष्णुतया चिन्तयामास—

आं, कृष्णाकारम् अनु विष्णुर् एव तत्राविर्भविष्णुताम् आससाद । कथं वा स च परात् पराजिष्णुताम् आसीदतु, यः खल्व् अहार्यम् अपि हार्यताम् आसादयामास ।

[६९] अथ तदानीम् एव मूढः, सञ्ज्ञया शङ्खचूडः, कंस-सपक्षः कश्चिद् यक्षः प्रतिकृष्टम् अतितयातिहृष्टः सङ्गम्य प्रणम्य च प्रोवाच—महेन्द्रदेव, द्रुमिल-दानव-नन्दन-महीन्द्र-सदनाद् भवत्-पदारविन्दं विन्दमानः सोऽयम् अस्मि । स हि परम-हित-सहिततया दुन्दुभि-सन्दोह-निर्घोषं प्रतिदिशं जोषयित्वा भवन्तं प्रति प्रीति-परिणामं प्रणामं निर्दिदेश सन्दिदेश च । तद् इदं भवद्भिर् यद् एतद् अनुष्ठितम्, तेन परम-तुष्टिम् आपन्ना वयम् । यतः क्षुद्रतम-निर्मित-गर्व-किर्मीरित-महद्-अतिक्रमः समस्तस्य च दुःसहः सम्पद्यते । बलाद् उत्पतन-लील-पिपीलिकावद् अमूदृशां तद्-दिष्टतः प्राप्त-दिष्टान्तता च दृष्टा । किं च, कियद् वाभीर-जातीनां यजमानतया भवत्-प्रयोजनं जनिता? वयम् एव हि नाना-यज्ञान् अनुज्ञाप्य भवत्सु सन्तर्पणम् अर्पयिष्यामः ।

[७०] अथ तद् एतद् अवधार्य स देव-कुल-निर्धार्यश् चमत्कारम् आससाद, [७१] यत्रैवं चिन्ताम् आप—अहो, शक्राशन-व्यसनतया मम बुद्धिर् न सदा शुद्धिम् अवरुणद्धि, यतो मित्रामित्रता वैपरीत्यं परीत्य रीत्य्-अतिक्रमम् आपन्नवान् अस्मि । तद् एतच् च, गोत्रभिद् इति स्व-नाम-स्फुरद्-उपश्रुति-फलम् इव मम प्रतिभाति । किं च,

गर्विणः सुष्ठु मे युक्ताप्य् एषाभिभव-भावना । आत्त-गर्वोऽभिभूतः स्याद् इति पर्यायता यतः ॥९५॥ [अनुष्टुभ्]

[७२] प्रकाशस् तु स्व-दासान् उवाच—भवतु, निवर्तन्तां संवर्त-वर्तना मेघ-वार्ताः । अवरजन्मायम् इति व्रजराज-तनूजं प्रति तितिक्षा-भाज एव वयं शिक्षा-मात्र-पात्रताम् आसादितवन्तः, न तु कथम् अप्य् अन्यथा-भाव-भावन-व्यथाम् इति ।

[७३] अथ यक्षम् अप्य् आदिदेस, निजं राजानम् इदं सन्दिश—[७४] मुहुः कोपितोऽपि सोऽपि भवांस् तस्माद् भयम् इव भावयन् वर्तत इत्य् अवधारयत एव ममाधिकः क्रोधस् तत्र वर्धते स्म । यदि तद् अपि तथ्यं स्यात् तदा वयं याथातथ्यम् एव प्रथयिष्यामः- शतमन्योः सहस्राक्षस्य शतकोटि-हस्तस्य ममापि कः खलु खलतयानभीप्सितं कुर्वीत? अपि च—

त्वं पुण्य-जनसेव्य-श्रीर् देवानां प्रियतां गतः । सोऽप्य् अग्रे त्वद्-विधानां स्याद् भोजानां गोप-दारकः ॥९६॥ [अनुष्टुभ्]

[७५] तद् एतद् अनुभूय कुपूयः खल्व् असौ दूयमान-हृदयतया यक्षः प्रतस्थे, स्वेन चानीतं सन्देशं प्रवाहे मूत्रितम् इवातस्थे ।

[७६] तद् एवम् अपध्वस्तं-मन्यः शतमन्युश् च शत-मन्युतया विमान-गतिं प्रति विमान-गतिम् आसाद्य सद्यः सानुशयं संशयानतया शयानतया च निजान्तर्-निलयम् अयाञ्चक्रे । शाब्दिकाष्टकम् अनु विशिष्टतया रलयोर् व्यत्ययम् इवावेत्य, निरयम् एव च तं मन्यते स्म । तथा हि—

विक्षेप्तुं व्रजम् ऐच्छद् एष पवनैर् विक्षेपम् आप स्वयं वर्षैर् धर्षयितुं च धर्षम् अगमद् बाढं विडौजा हृदि । वज्रैस् ताडयितुं तथाप शिरसि स्वे वज्र-ताड्यात्मतां साधूत्पात-करत्वम् अर्जति विपर्यस्ता गतिर् युज्यते ॥९७ ॥ [शार्दूलविक्रीडितम्]

[७७] तद् एवं गेह-गुहाम् अवगाहमाने कौशिके—

अथ द्यवि दिवाकरः प्रकट-भावम् आट द्रुतं दिशः स्फुरणम् आगमन् धरणिर् आप वर्त्म-प्रथाम् । तदा च नयन-श्रवश्-चरण-संहतिः प्राणिनाम् इदं निज-निजाश्रय-त्रयम् अनु स्ववृत्तिं ययौ ॥९८॥ [पृथ्वी] निर्याते मेघ-जाते हरिर् अथ पशुपानाख्यद् उच्चैर् अमुष्मान् निर्यात प्रात्त-गृह्या दर च दर-मतिं मा कुरुध्वं त्वरध्वम् । यस्मिन् गाम्भीर्य-भाजि स्फुट-वचसि घनाः पूर्वम् अप्य् अस्य कान्त्या भूभृद्-भूत्या च धूताः पुनर् अहह ययुर् गर्ज-गर्वाद् विधूतिम् ॥९९॥ [स्रग्धरा]

[७८] अथ तदाम्रेडित-प्रेरिततया वादित-बहुल-काहलादि-हलहलायमान-कोलाहलम् आचर्य हरिदास-वर्य-गिरि-हृदयायमान-कुहरात् तत्-पुरत एव निर्व्रजन् स-गो-समज-व्रजजन-समाजः स-यशः-स्नेह-प्रसर-देह इव तस्य विरराज ।

गावस् तावत् पुरस्ताद् गिरि-वर-विवराच् चाल्यमानाः समन्ताद् आराद् अप्य् अन्तरन्तर् गिरिधर-वदनं द्रष्टुम् आसन् निवृत्तः । यासां निर्यापणायां मुहुर् अपि तद् अलं लोकमानः स लोकः स्तब्धी-भावं प्रपन्नः, पर-वश-दशया तत्र वैयग्र्यम् आप ॥१००॥

[स्रग्धरा]

[७९] अथ कथम् अपि निर्गिरि-वर-विवरः सर्वः परस्परम् अनुयानं परीक्ष्य निर्निमेषतया श्री-कृष्ण-निष्क्रमणं प्रतीक्ष्य क्षणतस् तद् अपि निरीक्ष्य जीव इव जीवन-निभं तम् आसीदन् पुनर् अतीव मुदम् अवाप । यतः—

स्वभावः सौन्दर्यं गुण-गरिम-भूमा मृदुलता- खिल-व्यापि-प्रेमा गिरि-धृतिर् अपि स्वावन-कृते । क्रमाद् एते धर्माः प्रणयम् अनु सान्द्रीकृति-परा यदीयाः सोऽभ्यागान् निजदृशि गिरेस् तस्य तलतः ॥१०१॥ [शिखरिणी]

किन्तु—

यद्वद् उत्थापितस् तद्वत् कृष्णेनाद्रिः स रोपितः । दृष्टश् च सर्व-लोकेन प्रकारस् तु न लक्षितः ॥१०२॥ [अनुष्टुभ्]

[८०] दर्शनाद् अनन्तरं तु,

अतिशयितम् अवेग-प्रेम-धारा-निमग्ना विवश-पशुप-लोका गोत्र-गर्तान् मिलन्तम् । हरिम् अभि परिरम्भाद्य्-आत्म-योग्यं दधाना दधुर् अनु निज-लाभं व्युत्क्रमं च क्रमं च ॥१०३॥ [मालिनी] गोप्यस् तत्र तु मान्य-भाव-वलिता दध्य्-अक्षतादि-स्फुरद् भव्य-द्रव्य-सभाजितं विरचयामासुर् जित-स्वर्पतिम् । यद्यप्य् एवम् अथापि मूर्ध्नि च करं धृत्वा तम् आशीशिषन् संवित्ते तद् इदं स एव य इदं हृद्य् अन्वभूत् कर्ह्य् अपि ॥१०४॥ [शार्दूल]

[८१] श्री-व्रजेश्वरादीनां मिलनं तु श्रीमन्-मुनि-वर्येणैवं वर्ण्यते स्म, यत्र चेदं सुष्ठुतरम् अनुष्टुप्-छन्दसा स्वल्प-वद्यम् अपि पद्यम् अमृत-सम्भृत-कुम्भवद् अक्षय-रसं प्रसूते—

यशोदा रोहिणी नन्दो रामश् च बलिनां वरः । कृष्णम् आलिङ्ग्य युयुजुर् आशिषः स्नेह-कातराः ॥ [भा।पु। १०.२५.३०] इति ।

[८२] तथा हि, अहह, नव-नवनीत-नीति-सुकुमारा कुमार-तनुर् इयम् अखर्व-पर्वत-भारतः कीदृग् अभवद् भवति भविष्यति च इति स्नेह-मय-सन्देह-रीति-भीतिमन्तस् ते, तद् एतत् क्लेश-कुलम् अस्मद्-वपुर् आवेशं सन्देशतया प्रयास्यति इत्य् अभिप्रयन्त इव, तम् आश्लिष्यन्तस् तत्राप्य् अविश्वासा इव, विशेषाद् अशेषाशिषः प्रयुञ्जाना, निज-वंशं यशस्वतादि-युक्तं कुर्वाणा इव, ते तत्-तन्-नाम्ना समाम्नाताश् चिरं बाष्प-निष्पत्ति-भित्त-नेत्र-वृत्तयः संवृत्ताः ।

[८३] तत्र यद्यपि यौगपद्यतस् तूर्णम् एव चतुर्णां मिलनं समपद्यत, तथापि प्रेम-तारतम्यम् अनुक्रम्य कृष्णावधान-क्रमः क्रमते स्म यस्मात् तस्माद् एव तथा श्री-शुक-देवः प्रचक्रमे यशोदा इत्य्-आदिना ।

[८४] यत्र ज्ञान-क्रिया-शक्तिभ्यां बलं वलमानस्यापि बलदेवस्य तादृशी स्नेह-कातरता निरता, तत्र किमुतापरस्य । स खल्व् अपर एवेति । तत्र च—

माता साश्रु ममार्ज वक्त्रम् अभितस् तातः शिखाम् अस्पृशद् द्वाव् अप्य् अङ्गकुलं निभाल्य परितः पप्रच्छतुः शन्तमम् । मित्राद्याः समवाहयन्न् अवयवान् एवं व्रजस्थाः परे प्रेत्येकान्वितम् एव सेवनम् अधुः प्राणा हि सर्वस्य सः ॥१०५॥ [शार्दूल]

[८५] अत्रापरापि कौतुक-परम्परावधार्यताम् । [८६] गते च कंस-पक्षे यक्षे यदा स खलु वृद्धश्रवा वृद्धश्रवस्त्वम् एवात्मानं प्रतिमन्यते स्म, तदा सावहित्थम् इदम् उत्थापितवान्—भो मदीय-गणाः, समवधीयताम् । स खलु दानवारिर् वारित-मद्-उद्यमतया विपक्षवद् आचरन्न् अपि वैरि-शमनतया मया सहायतया निश्चितस् तत्-परीक्षार्थम् एव च तथा विभीषित इत्य् अभिनन्दनीय एव भवद्भिः इति ।

[८७] ततश् च स-व्रज-व्रजराज-नन्दन-निष्क्रमाद्य्-अनन्तरम्—

दिवि देव-गणाः साध्याः सिद्ध-गन्धर्व-चारणाः । तुष्टुवुर् मुमुचुस् तुष्टाः पुष्प-वर्षाणि सर्वतः ॥१०६॥ शङ्ख-दुन्दुभयो नेदुर् दिवि देवादि-वादिताः । जगुर् गन्धर्व-पतयो येषां तुम्बुरुर् आदितः ॥१०७॥ [भा।पु। १०.२५.३१-३२] तदा दिवि भुवि स्थितैर् विविध-वाद्य-गीतादिभिः कृत-स्तवतया चलन्-मुदित-गोप-वृन्दैर् वृतः । दिविष्ठ-महिला-जयि-प्रकट-गीत-गोपी-तति- स्फुरत्-परम-सम्पदं व्रजम् अगाद् व्रजेशात्मजः ॥१०८॥ [पृथ्वी] गर्तं प्रविष्टाः शकटादि-दध्य- क्षतान्तिमार्थ-प्रचिता यथा ते । तथा निवासं पुनर् आप्तवन्तः किञ्चिच् च नाज्ञासिषुर् अर्थ-नाशम् ॥१०९॥ [उपजाति ११]

[८८] गिरि-गर्तान् निष्क्रमणे यथोक्तं श्री-बादरायणिना गोप्यश् च स-स्नेहम् अपूजयन् मुदा दध्य्-अक्षतादिभिः [भा।पु। १०.२५.२९] इति ।

गोप-राज तव सूनुर् ईदृशः शैलम् अप्य् अधृतः यः स्वकान् अवन् । यश् च शक्रम् अपि घातम् अन्तराप्य् उद्धूतं व्यधित दूर-देशतः ॥११०॥ [इन्द्रवज्रा] धृत्वा गिरिम् असौ नैकधुरताम् आगतः परम् । भवतां जगतां चागाद् अपि सर्व-धुरीणताम् ॥१११॥ [अनुष्टुभ्]

[८९] तद् एवं कथा-प्रथन-पूर्वकं पूर्ववन् निज-निज-प्रयोजनाय कृत-व्रजनायां जनतायाम् अनुकृष्णं रवेः समस्तम् अस्तं यावत् कृत-विहारौ सूत-कुमारौ पुनर् अपि रजनी-सभायां सभाजितौ नन्दिताजितौ बभूवतुः ।

[९०] तत्र प्रथमतः परम-श्रेयसीं तत्-प्रेयसीं प्रति स्निग्धकण्ठ उवाच—

स्वल्पापि लीला भवदीयतां गता विस्तारम् आयाति तथा बकीरिपोः । राधे विवेक्तुं नहि शक्यते यथा प्रथीयसी का बत का तनीयसी? ॥११२॥ [उपजाति १२]

[९१] ताम् अप्य् अस्माकं ग्रन्थ-लाघवाय सङ्कोचयतां कविषु लाघवम् एव पर्यवस्यति । तथाप्य् अकुण्ठ-बुद्ध्या स्वयम् एव सा बहुधा बुध्यताम् । इत्य् उक्त्वा भ्रातरम् आह स्म, आर्य कथकाचार्य भूयः श्रूयताम्—

परं गिरेर् एव सत्रं हरिणा न प्रकाशितम् । किन्तु श्री-राधिकादीनाम् आननेन्दु-रुचेर् अपि ॥११३॥ यदा तु मख-सम्भारः कृष्णेन विपुलीकृतः । तदालङ्कार-सम्भारस् ताभिर् अप्य् उररीकृतः ॥११४॥ यदा दीपालिर् अज्वालि शिखरं शिखरं प्रति । स चामूश् च मिथस् तर्हि व्यदृश्यन्तावृत-स्थलात् ॥११५॥ यदा प्रवर्तितस् तस्मिन् बकहन्त्रा गिरेर् महः । प्रावर्ति च तदा ताभिस् तद्-दिदृक्षा-महा-महः ॥११६॥ यदा समुदिता जाता महिला भूमि-भृन् मखे । तदा ता मुदिता जाता हरि-दर्शन-निश्चितेः ॥११७॥ कृष्णे संलापम् आचेरुर् यदा विविध-सुभ्रुवः । तदार्ह-बोध-सदृशं दृशं ताश् च न्ययूयुजन् ॥११८॥ यदाद्रिर् जनता-दृष्टिं कृष्टवान् प्रकटी-भवन् । आशाधाम ययुः स्वैरं तदासाम् अक्षि-पक्षिणः ॥११९॥ यदा गो-पूजनं कर्तुम् आरब्धं सर्वकैस् तदा । ताभिः प्रतिस्व-धेन्व्-अर्चा-प्रश्नास्पदम् अकारि सः ॥१२०॥ यदा गोपाल-पूजाया महो व्यक्तम् अभूद् बहिः । तदा मनो-महस् तासां वक्त्रे वक्त्रे व्यलोक्यत ॥१२१॥ गोप-पृष्ठं यदा दृष्टं कन्यापाण्यङ्कितं पुरु । तदासां पाणयः कृष्णं स्प्रष्टुम् उत्कण्ठितां गताः ॥१२२॥ होम-काले यदा कृष्णः प्राविशद् ब्रह्म-संसदि । हुतं बत तदा ताभिर् मानसं विरहानले ॥१२३॥ गिरेः परिक्रमे यर्हि व्यवधानं ययौ हरिः । तदा तां व्यवधाम् एव गिरीयन्ति स्म तत्-प्रियाः ॥१२४॥ यष्टिं यर्ह्य् उत्क्षिपन् गृह्णन् कृष्णश् चक्राम तर्हि ताम् । दृष्ट्वा दूराद् अञ्जनास्रैर् भानुजा भानुजायते ॥१२५॥ यदा यदा मिथो रूपं द्रष्टुम् आसीद् असम्भवः । गवानुद्रव-लक्ष्येण स तासां मध्यम् अद्रवत् ॥१२६॥ धेन्व्-अनुद्रवण-व्याजात् स्पृशन् वव्राज यां हरिः । चिल्ली-वल्ली-ताड्यमानस् तया स स्तम्भम् ईयिवान् ॥१२७॥ यदा राधाम् अनु स्पृष्टिं दृष्टिर् अस्य गता तदा । अयं सर्वं विसस्मार किन्तु सस्मार तन्-मुखम् ॥१२८॥ यदा रात्राव् अभूद् वासः सर्वेषाम् एक-धामनि । तच्-छब्द-मात्र-तात्-पर्याः श्रुतितां तर्हि ताः ययुः ॥१२९॥ कृष्णायास् तु यदा कृष्णश् चिक्रीड स्रोतसि स्वयम् । तदामोदिन्य् अमूस् तस्मिन्न् अक्रीडन्न् अतिदूरतः ॥१३०॥ भगिनीनां गृहे यर्हि भोक्तुम् अभ्याययौ हरिः । सख्य-लक्ष्यात् तदा तासां सर्वास् तत्राप्य् अमूर् गताः ॥१३१॥ यथा-पूर्वं यदा सर्वे प्रतिस्वं वासम् अव्रजन् । तदा कारा-गृहे हन्त मेनिरे ताः पुनर् गतिम् ॥१३२॥ यदा संवर्त-मेघास् ते प्रावर्तन्त तदा तु ताः । अकामयन्त कृष्णाय स्व-स्वच्छ-त्रायमाणताम् ॥१३३॥ यदा सुहृद्भिश् छत्राद्यैर् लालितं तम् अलोकयन् । स्वाङ्ग-भेत्रीम् अमूर् वृष्टिं तदा सौधीम् अमंसत ॥१३४॥ विछिन्न-प्रखरासार-च्छत्रे तत्रेह दीव्यति । कृष्णे स्वैरं गता दृष्टिं मेनिरे वृष्टिम् आमृतीम् ॥१३५॥ अभि कृष्णं यदा सर्वः शैल-गर्तेऽन्ववर्तत । गृह-प्राप्त-निधीनां वा तदा तासां स्थितिर् मता ॥१३६॥ [अनुष्टुभ्]

निमेष-रहितास् तदा प्रतिनिमेषम् आसेदिरे हरेर् मुख-सुधा-रसं रसनया दृग्-आकारया । अहो रजनि-सप्तकं व्रज-चकोर-नेत्राः कियत् कुतः सुकृतम् उद्गतं न इति विस्मृतीर् अव्रजन् ॥१३७॥ [पृथ्वी] राधा तत्र सुखातिसीम-दृशया युक्तापि मुक्तावली स्वच्छे नेत्र-जले तद्-ईक्षण-भवे कोष्णत्वम् इत्थं गता । हा धिग् दैव सदैव नास्ति तव कोऽप्य् उच्चैर् विवेको यतः कान्तस्यानिश-दर्शितस्य च चिराद् अद्रिः करे दृश्यते ॥१३८॥ [शार्दूलविक्रीडितम्] यदा गिरि-वरं दधे मुरहरस् तदा लोचनं निजार्थित-विनाकृताम् अपि दिशं स निन्ये मुहुः । कदाचिद् इह चेत् प्रथां भजति राधिकाया मुखं तदा फल-मयं मम श्रमतमः प्रसज्जेद् इति ॥१३९॥ [पृथ्वी] अयं गिरिवरं दधे करुणयेति कारुण्यवान् समस्तम् अभितर्क्यते तद् इह चित्त-धैर्यं भज । निरन्तरित-लोचन-प्रभव-वृष्टि-भीतीभवद्- वपुश् च तव रक्षितेत्य् अकृत भावम् एषा तदा ॥१४०॥ [पृथ्वी] गिरेर् गर्तान् निष्क्राम-वचनम् आकर्ण्य दयिता मुरारेस् तं प्राण-प्रतिमम् अपहायापि निरयुः । स एवं तं भावं बत विसृजतीत्थं स तु परं तद् आसां विश्लिष्टेर् भरम् असहमानो निरगमत् ॥१४१॥ [शिखरिणी] किं गिरेर् विवरतो बहिर् गतः किं स वा स्व-हृदयाद् इति स्फुटम् । नातिबोद्धुम् अशकन् हरि-प्रियास् तर्हि यर्हि निरगाद् असौ प्रियः ॥१४२॥ [रथोद्धता] यद् दृगम्बु ववृषुः स्तन-भूभृद् भूरि-भूमि-वलयेषु मृगाक्ष्यः । उद्धृत-प्रथित-भूभृति तस्मिंस् तत् किम् अप्य् अकथयन् निज-हार्दम् ॥१४३॥ [स्वागता]

[९२] अथ समापनम् आह—

राधे परितो यासीद् गोवर्धन-धारिणस् तदा करुणा । सास्रान् नयन-प्रान्तात् प्रान्तात् त्वय्य् एव सा सुविश्रान्ता ॥१४४॥ [अनुष्टुभ्]

[९३] तद् एतद् अपि कथन-शेषं समाप्य पूर्ववद् एव सूत-सुतयोर् गतयोः सर्वेऽपि यथास्वं प्रस्थिताः ।

इति श्री-श्री-गोपाल-चम्पूम् अनु

गोत्रभिद्-गर्व-खण्डन-

गोवर्धन-गोत्र-मान-वर्धनम्

नामाष्टादशं पूरणम्

॥१८ ॥

(१९)

१५। अथैकोनविंशपूरणम्

२२। जम्भ-भेदि-सुरेन्द्रता-स्तम्भन-

२३। नगेन्द्र-धर-गवेन्द्रतालम्भनम् [१] अथ प्रभाते सभा-तेजसा विभातयोः सूत-जातयोर् मधुकण्ठ-नामा कथयामास—

[२] तद् एवं तादृक्-सम्पदि प्रतिपदि गोवर्धन-समर्धनं सिद्धम् । तृतीयाम् आरभ्य नवम्य्-अवधिकं रम्यं तद्-धारणम् अद्धावधार्यताम् ।

[३] अथ तादृश-दशा-रम्यायां दशम्यां श्री-व्रज-राज-समाजम् अनु निमन्त्रणया प्रामाणि-कमाणिक्य-व्रज-जनाः सुख-योजनं भोजनं संयुज्य मुख-वासनं मुख-वासम् उपज्युज्य वार्तां वर्तयामासुः । [४] यत्र क्षितिधर-धारण-निध्यानान् निर्धारयन्तः पूतनावधादिकम् एतद् अवधिकम् असम्भावितं सम्भावितं चाविशेषतया तत्-कर्म-विशेषतया गणयामासुः ।

[५] पुनश् चैवम् आहुः—

वावहिः पर्वतं बालः सासहिर् न तु चाचलिः । बहिर् एव यथा वृष्टिः पापतिर् न तद्-अन्तरे ॥१॥ [अनुष्टुभ्]

[६] तद् एवं परम-प्रभावता तावद् विस्मय-जननी जननीतिम् अतिक्रामति । तस्याम् अपि सत्यामत्यासक्ति-मय-स्नेह-चय-स्वभावता मादृशाम् अन्यादृशाम् अपि तस्मिन् निश्चिता विस्मितिम् आतनोति । [७] तस्य च मादृक्षु विसदृक्षु च यासौ लक्ष्यते, सा तु परम-विलक्षणतयातीव वैलक्ष्यं लक्षयति । किं च—

प्रत्येकं स्वे तनूजे प्रवलयति जनः स्वैरम् एवानुरागं सर्वेषां नस् तदीये स कथम् अथ कथं शक्यते नापि मोक्तुं । सर्वेष्व् अप्य् अस्य सोऽयं स्फुरति सहभवस् तादृग् एव व्रजेश स्मारं स्मारं तद् एतत् न कथम् अपि मनाग् उक्तियुक्ती व्रजामः ॥२॥ [स्रग्धरा]

[८] तद् एवं प्रवणतया श्रवणतः श्रीमान् नन्दः प्रजातानन्दः प्रणय-मयतया सम्मत-समयतया च गर्ग-सिद्धान्त-वर्गम् एवानुगद्य निरवद्य-सौहृद्यतस् तेषाम् अमन्देहोद्भव-सन्देहोद्यमं संयमनम् अनैषीत्, श्रूयतां मे वचो गोपो व्येतु शङ्का च वोऽर्भके [भा।पु। १०.२६.१५] इत्य् आदिना । अन्ते चोक्तवान्—

यद्-अवधि माम् उपदिश्य

प्रास्थित गर्गस् तद्-अवधि जानामि ।

शिशुर् अयम् अद्भुत-चर्यां

वलयति नारायणी यया शक्त्या ॥३॥ [गीति]

[९] तद् एवं श्रीमन्-नन्द-राज-वाक्यतस् तद्-अवकलनानन्द-भाजस् तं यदा समस्त-जनाः समस्त-जनानन्दन-तन्-नन्दन-वार्तया नन्दयन्तः सन्ति स्म, तदा निज-वृन्दैर् वृन्दारकैश् च वन्द्यमानतया नन्द्यमानतया नन्द्यमानतया च वृन्दावन-चन्द्रः सहसा सह-रामः समाजगाम ।

[१०] समाजश् चायं समम् एव तं परिवेष इव परितश् छादयामास, चकोर-वार इव तत्-कान्तिम् आस्वादयामास, वारां निधिर् इव चात्मानम् उल्लोलतया सम्पादयामास ।

[११] तद् एवं स्थिते सर्वस्मिन्न् अपि स्वस्थतया चावस्थिते क्षण-कतिपये च प्रस्थिते सर्व एव ते सामाजिकाः प्रतिस्वम् अमनेन्दिराद् आत्म-मन्दिराद् आनीत-प्रीत-सितासित-प्रशस्त-वस्त्र-सङ्करं सद्-अलङ्करणादिकं तं च तद्-भ्रातरं तत्-पितरं च पृथक् पृथग् अलङ्कारं स्वीकारयाञ्चक्रुः ।

[१२] यथैवं बहिर् एभिर् आचरितं, तथान्तः-पुरे स-राम-मातृकां गिरिधरस्य मातरम् अभि चैषां महिलाभिर् विरचितम् इति निर्विशेषम् एव तद् उभयत्र पर्वासीत् ।

[१३] अथ सुर-पुरे सुरेशस्य वृत्तम् अनुवृत्यताम् । [१४] इतो गत्वा दैन्यं मत्वा स्खलद्-ओजा विडौजाः क्षयं गच्छन्न् अप्य् असौ क्षयम् ऋच्छन्न् इव स्थितवान् न तु शचीम् अचीकमत, न च निर्जर-सदसि निर्जगाम ।

[१५] तद् एवं वर्ण्यमानम् अवकर्ण्य वाचस्पतिर् वास्तोष्पतिम् अनुरहसं भर्त्सयामास, यतः स खलु विबुधानाम् अपि विबुधः । [१६] भर्त्सनं, यथा—

यस्माद् अभजसि विष्णुं जिष्णो तस्माद् अनेधितासे त्वम् । न विना चन्द्रं विन्दति जीवन-वृत्तिं वनस्पतिः कोऽपि ॥४॥ [गीति]

[१७] अथवा सहस्रदृशम् अप्य् अहो भवादृशम् अभिभूय भृशी-भवन्ती तादृशी मदान्धता नासदृशी, यतः सुरेशोऽसि । किन्त्व् अमृतपता तव कथं म्र्तपता जाता? यतस् त्यक्त-प्राण-प्रायण-काय-प्रायतः प्रमादः सोऽयम् आपतितः ।

[१८] तथा च स्मरति—

अपस्नात इव स्नातोऽप्य् अलम् अस्पृश्य एव सः । मृतकं वपुर् आसज्जन् यः सद्भ्यो भय-दायकः ॥५॥ [अनुष्टुभ्]

[१९] किं च—वृषाह्वय, तव चेदम् अत्यविचारत एव । तथा हि—

यद्-आलम्बाज् जनः प्राणं यस्माद् रक्षितुम् इच्छति । वैपरीत्यं तयोः कुर्वन्न् अनुन्मत्तो न कथ्यते ॥६॥ [अनुष्टुभ्]

[२०] इन्द्र उवाच—अविचारितम् एवाचरितम् इदं मया, भवद्भिश् च साम्प्रतं साम्प्रतम् उपदिश्यताम् ।

[२१] वाचस्पतिर् उवाच—शतमन्यो, तादृश-विसदृशतायां शतधृतिर् एव धृतिम् आसादयिता, तस्मात् तद्-अनुसरणम् एव शरणम् ।

[२२] तद् एवं जम्भभेदी सखेदी-भवन्न् अवधाय धातारम् एव गत्वा सङ्कोचम् अमत्वा स्वापराधम् अवधारयामास ।

[२३] स तूवाच—हन्त, विबुधाधिपेनाप्य् अबुधेन भवता भवता दुःसाध-राधः सोऽयं महान् एवापराधः कृतः, यं खलु साधवः सकृद् अप्य् अवधारयन्तस् त्वाम् अवधीरयन्तः सावधानाः श्रोत्रम् अपिदधते । तथापि सृष्टि-विधित्सा-दुर्विधिना विधिना मया तद् इदम् उपदिश्यते । पूर्वं तन्-महिम-जिज्ञासया धार्ष्ट्यम् अनुष्ठितम् अस्तीति तन्-मात्र-किल्बिष-विषम-विषम-विषह-मानेन मया दुर्माण-मयागाध-भवद्-अपराध-क्षमापणाय क्षमता न लभ्यते ।

[२४] किन्तु—

गवां कण्डूयनं कुर्याद् गो-ग्रासं गो-प्रदक्षिणाम् । नित्यं गोषु प्रसन्नासु गोपालोऽपि प्रसीदति ॥

इति गौतमादि-सम्मत्या गोजातिषु प्रीति-रीति-परीतस्य तस्य क्षमापणाय कातरस् त्वं तज्-जाति-मातरं सुरभीम् एव भजस्व, न चेद् असुरतः सुरभी-सङ्गतिर् भविष्यति ।

[२५] अथ सुनासीरस् त्व् असुरभीतः सुरभी-लोकम् आसाद्य सद्यस् तद् अवद्य-चरित-प्रचाराद् विमनसम् अपि तां मातुः स्वसारं मुहुः प्रसाद्य वेधसः सविधम् एवानिनाय ।

[२६] ततश् च विधातेदम् अभिदधे—अयि, सुरभि, सुरपति-भी-सान्त्वनार्थम् असुरान्तकस्यान्तिकं गच्छ । गत्वा च त्वम् अस्य नूनम् एवम् एव लब्ध-दुश्च्यवन-नाम्नः परिकिल्बिष-कीर्तन-भिया किल कवि-परिषद्-उपेक्षणीय-तन्-नाम-धेयस्य कृष्णतश् च्यवनं विच्यावय । तच् च स्व-सम्पद्-उपकण्ठ-कुण्ठी-कृतापर-वैकुण्ठ-लोक-गोलोक-महेन्द्रता-मर्त्य-लोकेऽप्य् अस्य व्यक्तीभवताद् इति तद्-अभिषेक-सेवातिरेकतः सम्भाविता इति ।

[२७] अथ हरि-वासर-दिवसे सुरभिः सुर-राजम् अनु वृन्दावन-भूपरि-भुवर्-लोक-भागम् आगम्य तद्-अवसरं प्रतीक्षामास । तत्र च दूरतः सुर-पतिं सुरभिर् अभिहितवती—

नासौ मेघः पश्य गोवर्धनाद्रिर्

नायं नव्यस् तस्य भागः स कृष्णः । नेयं विद्युल्-लोल-पीतांशुक-श्रीर् नैतन् मन्दं गर्जितं नर्मवार्ता ॥७॥ [शालिनी]

[२८] पश्य पश्य, सम्यग् उत्पतिष्णुः पतग-जिष्णुर् विष्णु-वाहनः सोऽयम् अस्मद् अप्य् उपरि-भागम् आरूढः सन् विद्युद्-गूढ-वारिद-वार इव यस्य च्छायाम् इच्छन् किल यत्र च्छायां प्रसारयति । [२९] सोऽयं तु—

श्री-गोवर्धन-शैल-रत्न-दृशदि प्रक्षिप्त-शुभ्रास्तरे वामोरु-स्थित-कञ्ज-चारु-चरणे सव्यं करं दक्षिणे । न्यस्यन्न् अन्यम् अपूर्व-रूप-मुरली-नाले मनाग् अत्र नः स्मेरेणाक्षि-तटेन सन्दधद् अहो मन्ये कृपां वर्षति ॥८॥ [शार्दूल]

[३०] अत्र चायम् अस्मन्-मिलनम् अङ्गीकुर्वन्न् एव सङ्गिनः प्रसङ्गान्तराय प्रस्थापितवान् । बलदेवश् च नाद्य वनम् आगतवान् इति चास्थीयते । तस्माद् अतिस्वच्छतर-चेतसम् अमुं भवांस् तावन् निभृततया निभृतम् अव्यग्रतया चाभ्यग्रं गत्वा दण्डवन् नत्वा प्रसादयितुम् अर्हति । यतः,

स्वयम् अपराध्यति कुरुते प्रभुम् अभि तन्-मार्जने सहायं यः । तस्येदं पर-शक्तेर् दर्शनम् अथ नैव दैन्यस्य ॥९॥ [आर्या] यस्मिन् स्वयम् अपराधी नमति रहस् तं सहाय-निर्विण्णः । कृपयति सा जन-मात्रं दैन्यावस्था महाजनं किम् उत? ॥१०॥ [गीति]

[३१] ततश् च पश्चाद् एव विशेष-निवेदनायाम् अहम् आयास्यामि ।

[३२] अथ पाक-शासनस् तद्-अनुशासनम् उररीकृत्य प्रच्छन्नतया मुरली-धर-समीपम् आगत्य प्रत्यग्रं चरण-खर-दण्डयोर् दण्डवत् पपात ।

इन्द्रो ननाम च यथाङ्घ्रि-नखा मुरारेर् अग्र्याम् अमुष्य मुकुटे मणिताम् अवापुः । चक्रन्द चाथ स यथाम्बक-कैरवाम्बु- माध्वीक-विद्रव-विधौ विधुताम् अगच्छन् ॥११॥ [वसन्ततिलका]

[३३] अथ क्रन्दति सङ्क्रन्दने पङ्कज-लोचनः सङ्कोचितः किरीटाग्रम् अग्र-हस्तेन साग्रहम् उदस्तम् आचरन्न् उवाच—[३४] भगवन्न्, एवम् अयुक्तं मा कार्षीर्, आर्षीणां वाणीनां त्वम् एक एवातिरेकतः परायणम् असि ।

[३५] वज्रपाणिस् तु मूर्ध्नि प्रसज्जिताञ्जलि-पाणितया सलज्जं स्वयं स्ववज्र-हत इव मौनम् एवाससज्ज । यतः—

परस्य कायं बध्नाति तेजसा वचसा मनः । शक्तः शक्तश् च सोऽयं यस् तस्य भक्तः कथं न कः? ॥१२॥ [अनुष्टुभ्]

[३६] तद् एवं तस्य तेजसा कृपया च सुपर्वाधिपस्य विविधा गतिर् जाता, यथा—

अन्यत्र चन्द्रति हरिः शक्रे तर्हि स्म सूर्यति । शक्रोऽपि सूर्यत्य् अन्यस्मिन् खद्योतति हरौ स्म सः ॥१३॥ [अनुष्टुभ्] यदा मौनं ससज्जासौ तदा मूक इवाभवत् । यदा तु स्तोतुम् आरब्धस् तदागाद् वावदूकताम् ॥१४॥ [अनुष्टुभ्] यथामूं स्तुतवान् इन्द्रस् तथा वक्तुं न शक्यते । श्री-व्रजेन्द्र यतः सोऽयं त्वत्तः सङ्कुचति स्फुटम् ॥१५॥ [अनुष्टुभ्]

[३७] अवमानम् अनालोच्य कवमानः स पुनर् एवम् अञ्जसा तद् उपसञ्जहार—

मयेदं भगवन् गोष्ठ-नाशायासार-वायुभिः । चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना ॥ [भा।पु। १०.२७.१२] इति ।

[३८] अयं च प्रहस्य प्रोवाच—

मया तेऽकारि मघवन् मख-भङ्गोऽनुगृह्णता । [भा।पु। १०.२७.२८] यन् मत्-पित्रादि-सच्-छ्रेष्ठान् नातिक्रामेर् मम स्मरन् ॥१६॥ [अनुष्टुभ्] सुरश् चेद् विषयाभोग-गर्वाद् रोचेत वासव । तदा विप्रश् च शोभेत शौष्कलं-मन्यता-मदात् ॥१७॥ [अनुष्टुभ्] अहम् उन्मूलयिष्यामि शक्र त्वद्-वैरि-पक्षगान् । कथं मन् मन्यसे भीतिं नीतिम् एव प्रवर्तय ॥१८॥ [अनुष्टुभ्]

[३९] अथ दूरतः सुरभिर् अभीतम् इव तम् अभीक्ष्य, हुङ्कारतः स्व-सन्तान-सन्तानम् आकार्य, कार्य-विदुषी स-तृष्ण-नयना कृष्णम् अभिजगाम । [४०] कृष्णश् च स्वजाति-रीतिकावस्थितित एवावनमन्तीम् इव ताम् इमां सहसा सहसाम् अससम्भ्रमम् अञ्जलि-सञ्जित-करः सञ्जगाद—माता कथं समायाता?

[४१] ततश् चाशिषः सिषासन्ती ताः सम्भ्रमाद् अनुद्भाव्य सुरभ्य् उवाच—

एते मद्-अन्वया धन्या गोत्वं त्वां सेवितुं गताः । अहं तु नेदृक्-पुण्या यद् गोचरत्वं च नागता ॥१९॥ [अनुष्टुभ्]

अथवा—

दैत्य-घाती भवान् नित्यं सर्व-लोकैक-पालकः । वयं च लोक-मध्ये स्मस् त्वन्-नाथाः स्वत एव तत् ॥२०॥ [अनुष्टुभ्]

[४२] ततस् तद् इदं किञ्चित् प्रार्थये—

गो-सूक्तं भाषते गावः पदं सर्व-सुपर्वणाम् । तद् ब्रह्मादौ सुपर्वत्वम् अवन् विन्द गवेन्द्रताम् ॥२१॥ [अनुष्टुभ्] तवेदं कियद् ऐश्वर्यं यद् ब्रह्मावधि-पालनं । वैकुण्ठ-कुण्ठता-कारि यस्य गोलोक-वैभवम् ॥२२॥ [अनुष्टुभ्] सर्वस्य पालकात् क्वापि खण्ड-पालनम् इष्यते । जगत्-प्रकाशकाद् भानोर् निज-धाम-प्रकाशवत् ॥२३॥ [अनुष्टुभ्] नास्माकं केवलम् इदं मतं किन्तु विधेर् अपि । यद् भवेद् अस्य चेन्द्रस्य दुर्बुद्धेः शुद्धि-भावनम् ॥२४॥ [अनुष्टुभ्] त्वत्-कृपायाः परं स्थानं वयम् इत्य् एष वासवः । आशिश्रिये यद् अस्मांस् तद् द्वार-मात्राय कल्पते ॥२५॥ [अनुष्टुभ्] यस्मान् मृग्यति ताम् एव मद्-विधाद् भवतः कृपाम् । कूपाद् इव रसान्तः-स्थां तर्षी घन-रस-स्थितिम् ॥२६॥ [अनुष्टुभ्] तद् एव देव पश्येन्द्रः पश्यंस् तव पद-द्वयम् । सूचयत्य् अभिषेकं ते नेत्र-धारा-सहस्रतः ॥२७॥ [अनुष्टुभ्]

[४३] अथ तत्र सचित-सङ्कोचनेन विलोचनेन गोचरितानुमतेः श्री-गोकुल-पतेः प्रसादम् आसादयन्ती सुरर्षि-सुर-मातृ-सुरपति-सुरततिभिर् उपसुर-प्रभृतिभिश् च साकं सुरभी सरभसम् असुर-मर्दनं पुरस्कर्तुं पुरः-सरताम् अवाप ।

[४४] ते हि द्रुहिणेन ताव् अनु समनुज्ञाता द्रुतम् एव विद्रुत्य निह्नुत्य च राजीव-लोचनं राजीयन्तः परितः स्थिता बभूवुः, यत्र रुद्र-द्रुहिणाव् अपि तेषाम् अग्रेसरताम् अवापतुः ।

[४५] ततश् च सुरभिर् अभिहितवती—श्रीमद्-व्रजेन्द्र-कुल-चन्द्र! भवद्-भवदीय-स्वीय-चरणानाम् अनुचरणतस् तावद् अत्रत्यानि तीर्थानि सार्थकान्य् एव जातानि । धेनवश् च युष्मद्-विहित-दुग्ध-धयनाद् धन्यताम् अधुः । [४६] ततश् च स्वर्ग-स्थित-तीर्थ-वरस्य गङ्गा-निर्झरस्य तथात्मीयस्याप्य् ऊधो-भरस्य त्वद्-आराधनया व्यर्थतावधाय पयः समाहर्तुं भवन्तं विधिम् अर्थयामहे । अथवा, यथादिश्यते तथावश्यं प्रथयामः ।

[४७] कृष्णः स-स्मितम् उवाच—यथेष्ठम् अनुष्ठीयताम् ।

[४८] अथाभ्रवाहन-भ्रू-भ्रमणतः स-सम्भ्रमम् अभ्र-मातङ्गः स्वः-सङ्गत-गङ्गातः समुद्दण्डित-शुण्डा-दण्डेनाम्भः-सम्भृतान् निधि-कुम्भान् निर्विलम्बम् एव मुहुर् अपि लम्भयामास । सुरभिर् अपि सुरभि-पयसा सुर-पति-सरसीम् उपगिरिं विभराञ्चकार । ततश् च—

वाद्य-स्पृग्-गीत-नृत्यैर् उपसुर-सदसां स्तोत्र-मन्त्रैर् ऋषीणां हर्षान्दोलातिकोलाहल-जय-निनदैर् ब्रह्म-रुद्रादिकानाम् । उत्सर्पद्-भक्तिर् इन्द्रः सह हरिद्-अधिपैस् तद्-गणैश् चाभ्यषिञ्चत् कृष्णं येनैव सर्वेऽप्य् अहह सुख-सुधासिक्त-रूपा बभूवुः ॥२८॥ [स्रग्धरा] अदितिर् मातृ-कृत्यानि स्वसृ-कृत्यानि पार्वती । गरुत्मान् भृत्य-कृत्यानि चाहृत्यात्र मुदं ययौ ॥२९॥ [अनुष्टुभ्]

[४९] तद् एवं यदा निर्णिक्ततया देवगणस् तम् असिक्त, तदा—

कीर्तिर् याता दिगन्तं परिमल-वलनाप्य् अभ्रमीद् भूमि-गोलं मङ्गल्य-ध्वान-धारा दिग्-अनुग-करिणां प्राविशत् कर्ण-गर्तम् । इत्थं सर्वत्र हर्ष-प्रसर-भर-वर-प्रावृषा प्राणि-जातेः शाते जातेऽपि कंसः सरट-पटल-राट्-चेष्टया वेष्ट्यते स्म ॥३०॥ [स्रग्धरा]

[५०] तद् एवं स व्रजेन्द्र-नन्दनः सर्व-दिग्-गतान् यदा दिग्ये, तदा तु—-

यावद् विष्णुपदं विभाति परम-व्योमादि तावत्य् अपि श्री-गोलोक-पदं प्रशस्तिम् अयते लक्ष्मी-परार्धास्पदम् । तत्रापीन्द्रतया विभासि नितरां गोविन्द-नाम्ना यथा तेन त्वं जगद् अङ्ग तद्वद् अवताद् इत्य् उचिरे ते समम् ॥३१॥ [शार्दूल] आकाश-कुसुमैः सार्धम् आकाश-वचनं तदा । गोविन्द इति यद् वित्तं ततः किम् इव साद्भुतम्? ॥३२॥ [अनुष्टुभ्] इन्द्रश् छत्रं विवस्वान् बहु-विध-मधुरालङ्कृतीनां कदम्बं ब्रह्मा लीलाब्जम् ईशः स्वरचित-मुरलीं माधवाय व्यतानीत् । अन्यं च स्वस्वम् अर्थं त्रिदश-पति-ततिर् यत् पुनः सर्वम् एषां पूर्वं चापूर्वम् आसीद् अभवद् अथ तद्-अङ्गावृतीज्यासु पूज्यम् ॥३३॥ [स्रग्धरा]

[५१] तद् एवं स्थिते—

राजद्-राजासनम् उपरि-गच्छत्र-चित्रं सुरम्य- भ्राम्यद्-वालव्य-जन-युगलं प्रस्फुरद्-दिव्य-वेशम् । कृष्णं दृष्ट्वा सुर-परिवृतं स्तब्ध-नेत्राणि दूराच् चित्राणीव क्षण-कतिपयं तत्र मित्राणि तस्थुः ॥३४॥ [मन्दाक्रान्ता]

[५२] ततश् च कृपया स्नपित-नयनारविन्देन गोविन्देन कृतम् आनन्दनम् अनु फुल्लतया पूर्वतः पुरुषु महेन्द्रादि-देव-गुरुषु छत्रादिकं तरुषु सन्धाय, निज-हित-निबन्धाय तत्-पद-द्वन्द्वम् एव वन्दं वन्दम् अमन्द-बाष्प-निस्यन्दं निजाम् अवज्ञास्पदतां विज्ञाप्य तम् अनुज्ञाप्य दूरं विन्दमानेषु लब्ध-विगत-निन्दमानेषु वृन्दारकेषु, सखि-सन्दोहः शन्दोहम् अनुविन्दन् मन्दं मन्दम् आससाद । आसाद्य च—

अद्राक्षीद् अमहीद् अवोचद् अलगीद् आजिघ्रद् अप्य् अच्युतं छत्राद्यं च चचाय मित्रपटली पप्रच्छ भूयश् च तम् । सोऽपि व्याजम् इहाचचार बहुधा सा न प्रतीयाय तं किन्तु प्रीतिभरं मिथः प्रवलयं हासस् तद् आवर्धत ॥३५॥ [शार्दूल]

ततश् च—

इह स्थितैः पृथग् अपरैस् तु भूषणैर् विभुः परस्परम् अपि ताम् अभूषयत् । अमी तदा स-कनक-दण्ड-चामरैः परिच्छेदैः स्वयम् अपि तं सिषेविरे ॥३६॥ [रुचिरा]

[५३] तस्मिन्न् अथ राजन्य् अति सखि-वृन्दे—

दृष्ट्वा देवततिर् विदूरतरतस् तं सेव्यमानं सुहृद्- वर्गैस् तद्-गुण-रूप-शील-तुलितैः स्व-प्रत्त-तत्-तच्-छ्रिया । तान् स्वज्ञान-विलास-सञ्चित-फलं मेने तथा ताम् अपि स्व-प्रेमार्जित-कर्म-सम्पदम् अमंस्तान्यन् न मान्यं ततः ॥३७ [शार्दूल]

[५४] तद् एवम् आरब्धेऽपि गमने स्तब्धे सति सतीपति-प्रभृतयस् तस्मिन्न् अभिषेक-प्रभवं प्रभावान्तरं पश्यन्तः परस्परं साद्भूतम् इदम् उद्भावयामासुः, यथा—

कृष्णार्चारचि दैवतैः सुखम् अयुर् लोकाश् च गावस् तथा पृथ्वीं दुग्ध-भृतां व्यधुर् बहु-विधान् नद्यो रसान् सुस्रुवुः । वृक्षा मध्व् अधुर् उद्दधुश् च गिरयो रत्नानि निर्वैरतां जीवाः प्रापुर् अहो महत्य् अपचितिः पुष्यत्य् अकर्तॄन् अपि ॥३८॥ [शार्दूलविक्रीडित]

किं च—

इन्द्रः क्रूर-चरित्रम् आचरितवान् यत् तेन चिन्तागमे चित्तं कम्पम् इयर्ति चेद् गिरि कथं चित्तेन तद् व्यज्यताम् । कृष्णस् तत्र च यां कृपां बत तया चित्तं द्रवी-भूतताम् आयाति स्वयम् एव चेद् गिरि कथं चित्तेन सा व्यज्यताम्? ॥३९॥ [शार्दूल]

[५५] अथ चरमाचलं चुचुम्बिषति भानु-बिम्बे विलम्बः संवृत्त इत्य् अविलम्बम् एव गो-निकुरम्ब-संवलनया सखिभिः समं व्रजं व्रजन् व्रज-राज-जन्मा सन्-मानयद्भिर् निर्जर-व्रजैर् उपर्य् अतुल-पुष्प-वर्षैर् उपचर्य व्रजद्भिर् अनुवव्रजे, यथा—

दिव्यातपत्र-सित-चामर-शस्त-हस्तैः संसेव्यमान-सविधः सखिभिः प्रगीतः । पुष्प-व्रजेन विविधैर् विबुधैश् च सिक्तः श्री-पृक्त-कान्तिर् अजितः सदनं ससाद ॥४०॥ [वसन्ततिलका] निशमितम् अकरोन् निशामितं च द्युजनि-विभूषण-भूषणाङ्गम् एतम् । व्रज-नृपति-मुख-व्रजः समन्ताद् अजनि च सात्त्विक-राजिराजि-मूर्तिः ॥४१॥ [पुष्पिताग्रा]

[५६] यत् तु निशम्य रम्यचेता रामः सानुक्रोशं क्रोशमात्रम् उपव्रज्य निजावरजविजयं पश्यन् सुख-वश्यमनास् तम् आलिङ्ग्य मूर्धानम् आशिङ्घ्य क्षण-कतिपयम् उपविश्य, वचन-चातुरीभिस् तत्-प्रसङ्गं सङ्गतवान् । ततश् च निजानुजेन पूर्वम् एव स्वकृते निर्दिश्य रक्षितैर् दिव्येष्व् अपि दिव्यता-लक्षितैर् अनल्पैर् आकल्पैः सोऽयम् अग्रजः स्व-करेण विराजयामास । ततश् च स्वानुजं गुरु-जनानाम् अग्रतस् तादृशतया प्रयातुं सङ्कोचम् अरोचयन् सोऽयम् अग्रजः शनैः सनैर् अनैषीत् ।

[५७] अथ तस्मिन् दिने तु गो-सन्दोह-दोह-निबन्धनं तद्-अनुबन्धि-जनान् सन्धाय स्वयं तु तत्-तद्-उदन्तानुसन्धानाय धेनु-सन्निधान एव सानन्दं नन्द-राजः सन्निधाय, वन्दमानं स-राम-सखि-वृन्दं गोविन्दं पुरस्ताद् विधाय समम् एव बन्धुभिः समम् आसनम् आसज्जन्न् आसामास ।

[५८] तत्र चानन्तरम् आचरितागतिभिः सम्यग् उरीकृत-श्री-रामानुजानुमतिभिः सूनृत-वादिभिः श्रीदामादिभिः स-समाजाय व्रज-राजाय दिव्यच्-छत्राद्य्-अर्चामत्रादिषु समर्पितेषु सन्तर्पितेषु च सर्वेषु तद् अप्रच्छन्नम् एव स पप्रच्छ—कथ्यतां तथ्यं किम् इदं वृत्तं वृत्तम्? इति ।

[५९] श्रीदामा प्राह—वयम् अपि गो-सङ्कलनाय कलित-भूरि-दूरतया चिरं विरम्य स्थिता न सम्यग् अवगम्यं तद् आचराम, किन्तु सामग्रीयम् एव निज-सम्यग्-रीतिम् आवेदयति इति ।

[६०] ततो नम्रतां विन्दति श्री-गोविन्दे परस्परम् अवधाय साधु, श्रीदामन्, साध्व् इदम् उक्तम् इत्य् अभिधाय सर्व एवानर्वाचीन-गोपाश् चित्र-प्रतिकृतय इव द्वित्र-क्षणं निर्निमेषताम् अवापुः ।

[६१] मधुमङ्गलस् तूच्चैः सहासम् आह स्म—श्रीमन् व्रजराज ! श्रूयताम्—

गौर् एका गिरम् आतनोद् अथ पुमान् अन्यः सहस्रेक्षणोऽ नंसीत् कोऽपि करी सितः स्वर्-उदकान्य् आहृत्य शश्वद् ददौ । कौचित् पञ्च-चतुर्मुखाङ्ग-वलितौ स्तोत्र-प्रथां चक्रतुस् ते चान्ये च महामहेन सिषिचुर् गोपेश पुत्रं तव ॥४२॥ [शार्दूलविक्रीडित]

[६२] अथ स्वयं चात्र सर्वतश् चित्रं माङ्गलिकं कर्म निर्मातुं युक्तम् इति विचार्य चित्रायमाने कृष्ण-प्राणे ससमाजे व्रजराजे विष्णु-पद-चरिष्णु-वाणीयम् आविर्बभूव—

यथाभ्यषिञ्चाम वयं व्रजेशितः संसज्य गोविन्दतया सुतं तव । समं समस्तैः कृत-मङ्गलं तथा तं यौवराज्येन जवाद् विराजय ॥४३॥ [उपजाति १२]

[६३] अथ तद् एतद् अमृत-वर्ष-धर्षिता व्रज-वर्षीयांसः परस्परं विचार्य कार्य-माण-मङ्गल्य-तौर्यत्रिक-वादनापौर्वापर्यतः स्वस्ति-वाचनादिकम् आचार्य-द्वारा समाचार्य, प्रतिस्वम् अपि विविध-विधान-दान-पूर्वकं पर्व पूरयित्वा पूर-राजतया तं सभाजयामासुः ।

आगम्याथ शतं शतं व्रज-महेन्द्राणी-प्रधानाङ्गनाः प्रत्येकं मणि-दीप-सन्तति-करा मङ्गल-कोलाहलाः । नीराज्याभिसभाज्य रत्न-निकरैर् निर्मञ्छ्य गेहं प्रति स्नेहं मूर्तम् इवातियत्न-वलिता गोविन्दम् आनिन्यिरे ॥४४॥ [शार्दूलविक्रीडित] ईदृशस् ते व्रजाधीश सुतः सूत-मुखोत्सवः । यो गवेन्द्रतया गां च गां च गां च सुखाकरोत् ॥४५॥ [अनुष्टुभ्] सुभगम्भविष्णु जातं जगद् अपि कृष्णाभिषेकतः पश्चात् । अन्धम्भावुकम् आसीद् भावुक-शून्यं कुलं तु दनुजानाम् ॥४६॥ [गीति]

[६४] तद् एवं दिवा-कथायां वृत्तायां नक्तम् अपि सा पूर्ववद् वृत्ता । यथा मधुकण्ठ उवाच—

भवेद् अनल्पं कुत्रापि स्वल्पं कुत्रापि पोषकम् । यथान्न-व्यञ्जनं लोके यथा रस-रसायनम् ॥४७॥ [अनुष्टुभ्]

[६५] तस्मात् सङ्क्षिप्तम् अप्य् एतद् विस्तरवद् एव मन्तव्यम् । [६६] तथा हि—तस्मिन् महसि नीरन्ध्रं पुरन्ध्रीभिः समम् आसाम् अपि समागनं वृत्तं, यत्रोपकण्ठ-गतानाम् अप्य् अमूषां वस्त्रावगुण्ठितानि नेत्राण्य् अतीवोत्कण्ठितानि जातानि ।

[६७] तस्मिंश् च तस्य विवाह-समतावहे महा-महे मनसीदम् असीमम् आभिर् विभावितम्—

केयं जगत्य् अहह राजति गोप-कन्या धन्या यया तु करपीडनम् अस्य गन्ता? । हा योग्यताम् अपि विधाय विधिः समस्ताम् अस्तं निनाय बत नस् तम् अमूं धिग् अस्तु ॥४८॥ [वसन्ततिलका]

[६८] भवतु, तद् अपि किन्त्व् इदम् अतीवान्याय्यम्—

कुलीना रूपिण्यः परम-गुण-शीलाः प्रणयिता- भृद्-उत्कण्ठाकण्ठागत-तुलित-जीवा बत वयम् । न तावद् वंशी तत्-तद्-अनुगुणताम् अञ्चति जडा तथाप्य् एषा हा धिक् कलित-हरि-सङ्गा न तु वयम् ॥४९॥ [शिखरिणी]

[६९] केवलेयं वराकी केवल-मुख-चूषण-सुखा, यतः—

आलिङ्ग्य कण्ठम् उरसि प्रतिपद्य कान्तिं माले कटं प्रकटम् एव सदा दधासि । न श्री-हरिर् न भवती तु वा जनोऽयं सङ्कोच-लेशम् अयते त्वम् अतोऽसि धन्या ॥५०॥ [वसन्ततिलका]

[७०] तद् एवं मनसि वदन्तीषु—

पूर्णां दृष्टिं विधि-वशतया काचिद् आञ्चीन् मुरारेर् अर्धं काचिद् व्रज-जन-गता काचिद् अस्यास् त्रिभागम् । काचित् किञ्चिन् न च तद् अखिलं तुल्यताम् एव दध्रे सर्वासां यन् मनसि चक्ल्पे हन्त तापाय तद्वत् ॥५१॥ [मन्दाक्रान्ता]

[७१] अथ तस्याम् एव निशायां चन्द्रशालिकायां कृत-शयनेन कञ्ज-नयनेन तासाम् अपराह्नेतनापाङ्ग-साङ्ग-शर-निकर-सङ्ग-लब्ध-भङ्गे हृदि समुत्थित-व्यथतया जात-निशीथ-जागरतायाम् अविरतायां तासु निजानिर्वृतिं विवृतीकर्तुं ताम् इव च तर्तुं पुरहर-कृत-वितर-नव-मुरलीकलः खुरलीभिः कलयामासे ।

तदा केदार-रागस् तु प्राप केदारतां निशि । गोपीभिर् वासना-बीजम् उप्तं यत्राङ्कुरायितम् ॥५२॥ [अनुष्टुभ्]

तत्र च—

तूकारः खलु माथुरेषु परितस् त्वङ्कार-भाषा मता सोऽयं वैणव-गानतः प्रतिपदं प्रायः परामृश्यते । प्रत्येकं युगपत् प्रियां निशमयन् कृष्णो यदा तं जगौ मत्वा स्वं प्रति तत् प्रतिस्वम् अपि ताः सर्वा विमूर्च्छां ययुः ॥५३॥ [शार्दूल]

किं च—

आनुषङ्गिकतयापि सगानाद् आस्व् अधाद् यद् अविदुस् तद् अमूश् च । उद्दिदेश पुरु यां बत सा तु स्वं च सम्प्रति विवेद न राधा ॥५४॥ [स्वागता]

[७२] तद् एवम् अल्प-समयम् अयम् अपि कल्प-चयम् अयम् इव कल्पयित्वा कथकः समापयन् कथनं श्लथयामास—

सोऽयं ते रमणो राधे लब्धः कृच्छ्रेण यस् त्वया । त्वद्-विना-भावतः सौख्यं यश् च कुत्रापि नाप्तवान् ॥५५॥ [अनुष्टुभ्]

[७३] तद् एवं सङ्क्षेपेनापि कथिते प्रथिते मुहूर्त-द्वयं मुहूर्तवद् एव ताश् च ते च तुष्णीम्भावम् आसेदुः, पुनश् च यथायथम् आवासं समासेदुः ।

इति श्री-श्री-गोपाल-चम्पूम् अनु

जम्भ-भेदि-सुरेन्द्रता-स्तम्भन-नगेन्द्र-धर-

गवेन्द्रतालम्भनं नाम

एकोनविंशं पूरणम्

॥१९ ॥

(२०)

१६। अथ विंशं पूरणम्

२४। वरुण-लोकालोक-चमत्कार-तिरस्कारक-गोलोकावलोकनम् [१] अथ प्रभात-कथायां स्निग्धकण्ठ उवाच—तद् एवम् एकादशी-कथा कथिता । तां च तिथिम् अशिथिलितया प्रथित-मनोरथां प्रतीत्य नित्यवद् एव व्रज-देवः सम्यग् उल्लासम् उपोवास । \


[२] किन्तु पारण-कारणम् अवशीर्णम् एव द्वादशीम् अवशिष्टाम् अवधाय बह्व्-अवशिष्टायाम् अपि रजन्यां विशिष्ट-विधि-बलतः स्नानादि-कलनाय कलिन्दीं प्रविष्टवान्। प्रविश्य च यथा-यथम् अत्रस्नुः सस्नौ । स्नात्वा चान्तर् एव वारिणः श्री-नारायणम् एकायनतया सागम-निष्ठम् उपतिष्ठमानः सुष्ठु ध्यातुम् आरब्धवान्। तत्र चायं जन्मत एव तन्-मयतया सन्-मतिर् आसीत् । तादृश-नन्दन-लाभानन्दतस् तु तत्राप्य् अतिशयं विन्दति स्म । ततश् च तद्-विध-ध्यानावधानतः समाधिम् अनवधिम् आपन्नवन्तं तं सर्वतः प्रचरन्तः प्रचेतसश् चराः सहसा समासद्य सद्यः स्वीय-स्वामि-निवासं प्रत्य् एव प्रवासयामासुः । एष निवास-विशेषश् च तस्य जल-स्तम्भ-विद्यालम्भितार-भवान् स्वत एव भास्वान् भास्वत्-कन्या-ह्रद-स्थ-विवरस्याधः-प्रदेशे सदेश एव रसा-विवर-देशे निवेशम् आसीदति । न च कृष्ण-प्रभावता विदित-महितानुभावस्य तस्य तथानयनं नयवतां न सम्भावनीयम् । स हि निरन्तरम् इदं चिन्तयति—यद् अस्य मद्-भाग्य-जाततः सञ्जातस्य सुतस्य यथोत्तर-प्रथमान-मानतया परम-प्रेम-हर्षदम् उत्कर्षं शश्वद् एव पश्याम इति । ततस् तद् एवासकृद् एव योगम् आपयितुं तल्-लीलायाम् उपयोग-मायाताया योगमायाया एव समयास् त एते पूतना-गमनादिवत् ।

[३] अथ तथावेशिनम् एव व्रजेशानं यदा पाशिनः पुरतस् तद्-आदेशाभिनिवेशिनस् ते सञ्चारितवन्तस्, तदा तद्-आकारत एव तं निर्धारयन् पुनश् च नारायण-धारणावन्तम् अवधारयन्न् अयम् अतिदरादराभ्यां कृत-दिव्य-वस्त्रादि-प्रशस्तितया वरशय्याम् एवाधिशाययामास ।

[४] स्वयं च पितृ-हरणासहिष्णु-कृष्णागमनम् अनन्तरम् एव मन्वानः सुदूर-दृष्टि-हेतुं पूर्-द्वारम् अधितिष्ठन्न् ऊर्ध्वम् एव तिष्ठति स्म ।

[५] अथात्रत्यं वृत्तम् अनुवृत्त्यताम् ।

[६] यदा खलु कृष्णस्य तातः कृष्णा-पाथसि तन्-नाथवत्ता-मात्र-धनानां जनानाम् अदृश्यताम् अवाप, तदा दिशि दिशि कान्दिशीकास् ते जलम् अवगाह्य तद्-अप्राप्तितस् तद्-बाह्यं प्रदेशम् आगताः । आगम्य च विक्रोशन्त एव व्रजम् अभिगच्छन्तः, कृष्ण-रामाग्रण्यस् तान् व्रज-ग्रामण्यः कलितासुखान् स्वाभिमुखान् एव लेभिरे ।

[७] तत्र च वृत्ते श्रुत-मात्रे परम-दुःख-पात्रे सर्वतः कृत-मनो-विरामौ कृष्ण-रामौ विक्रम्य सर्वम् अतिक्रम्य, परमोत्कण्ठित-मत्या झटिति-गत्या पृथिवीम् अपि घट्टयन्तौ, तम् एव घट्टम् आटतुः । तत्र च कृष्णः समग्र-व्यग्रम् अग्रजम् आलिङ्गन् रिङ्गद्-अस्रम् एवेदम् अश्रावयत्—भ्रातर्, मातरम् अकातरतयाभिरक्ष्य सर्व एव रक्षणीयाः, यावद् अहं पितरम् आनीय सुख-वितरं करवाणि । मातर्य् अत्रागतायां तु न कथञ्चिद् अपि पर्याप्तिं पर्यापयितुं शक्ष्यामीति।

[८] तद् एवं कृत-संवाद-मात्रः पितरम् आनेतुं निर्मित-यात्रः संहनन-बृंहित-सिंह-लज्जः संहित-परिकर-सज्जः पाताल-विवर-द्वार-पात्रं सरित्-पात्रम् अनु ममज्ज ।

[९] अनन्तरं च, व्रजेश्वरी-प्रधानाः सर्व एव तत्र चरण-मात्रम् आदधाना रामम् एकम् अवधानाः कृष्णम् अनुसन्दधानाः पप्रच्छुः—क्व नु यातस् तवानुजातः? इति ।

[१०] स तु तां व्रजेन्द्रसुदृशं विसदृशदृशं परामृशन्न् उवाच—मातर्, न कातरताम् आयाहि । स तु सम्प्रत्य् एव जनकम् आदाय स्वजनसुखं जनयि-ष्यति इति ।

[११] अथ स्वमातरम् उवाच—हन्त, त्वम् अपि कथं मां हन्तासि? मयि विश्वासतः श्वासमात्रविशिष्टाम् एतां पाहि ।

[१२] ततश् च सर्व एवानर्वाञ्चः कालियदमनप्रक्रमतस् तद्वचनम् अक्लमप्रमम् एव मन्वानास् तां विश्रमयामासुः । किन्तु,

_किं स्वप्नः किम् उ जागरः? किम् अथवा मूर्च्छा किम् उन्मादिता? _

_वेत्य् एतत् परिचेतुम् आपुर् असकृद्-बुद्धिं न तस्मिन् जनाः । किन्तूत्कण्ठिततावगुण्ठित-हृदां तेषाम् अभूद् वाग् इयं _

_हा हा श्री-व्रजराज हा बत हहा श्री-कृष्ण कुत्रासि भोः? ॥१॥ [शार्दूल] _

_जनी-चतुष्टय-धृता प्लुष्ट-चित्ता व्रजेश्वरी । _

_श्वासास्तिता-तर्क-पात्रं हा हा मात्रं जगाद सा ॥२॥ [अनुष्टुभ्]
_

[१३] अथ तुङ्गाचल-जल-चित-सुरङ्गा-प्रवेशतः प्रचेतः-सदन-गतस्य तस्य व्रज-लक्ष्मी-दयितस्य चरितम् अनुपचरितम् अवधार्यताम् ।


[१४] यद तु ते यादसाम्पति-भवनं जवतः श्री-व्रज-राजम् अभाजयंस् तदा स च तत्र सचते स्म । यथा च,

_स्निग्ध-श्यामल-रुच्य् अपि क्रुद्-अरुण-द्योताद् अदृश्यं वपुर् _

ध्वान्त-ध्वांस्य् अपि तीव्रता-शवलनाद् दृग्-रोधनं दृग्-द्वयम् ।

_कौमल्यादि-गुणापि रोष-रभसाद् उग्रा तथा तस्य गीः _

_कल्पान्ताभ्र-तडिद्-ध्वनि-भ्रम-धरान् विस्मापयन्ते स्म तान् ॥३॥ _

_[शार्दूलविक्रीडित]
_

[१५] ततश् च—बिलं वलमानः स खलु जम्बुकः क्व नु वर्तते? इति जल्प-कलनया तस्मिन्न् अवज्ञा-वर्धनस्य श्रीमन्-नन्द-कुल-समर्धनस्य भृशम् अर्दिधिषति दृशम् अर्दिदिषति च तेजसि बहुल-कोलाहल-प्रवाहम् अवलम्बमानः स्व-गल-वलयित-चेलतया क्ष्मामेलित-भालः सर्व-जल-पालः शङ्कित-कलिः कलिताञ्जलिर् विदूर-भू-गत एवाखण्ड-दण्डवत् प्रणनाम । \


[१६] तस्य चेदृशात् खर्व-गर्वतावलोकनात् सर्व एव तन्-नाथास् तथा प्रथाञ्चक्रुः ।

[१७] ततश् च तरुणारुण-कमल-लोचनः सर्व-रोचनः करुणया पुरः-सरताम् आसाद्य सद्यस् तं वरुणं पप्रच्छ—ते तु कुत्र परम-धर्माचरणा मदीय-पितृ-चरणाः? इति ।

[१८] वरुणस् तु गलित-धैर्य-सञ्जनः साञ्जलितया सान्त्वं वचो व्यानञ्ज—पुरुषोत्तम! यत्र खलु तत्र-भवांस्, तत्र परम् असाव् असमः परम-महान् सम्भवति, नान्यत्र । किन्तु तेषाम् एषां किङ्कराणां किं करवाणि शासनम् आत्मनश् चेति तद् अनुशासनम् आशासे ।
[१९] कृष्णः स-शान्त-स्वान्तम् आह—वराकाणाम् एषां दण्डः केवलं दण्डयितुं पौरुषं खण्डयति । अविलम्ब-स्पर्शम् एव तु दर्शयतात् तात-चरण-सरोजातम् ।

[२०] अथ यथादिशन्ति दीर्ण-दीनादीनवास् तत्र-भवन्तः इति ।

[२१] वारि-राजः श्री-व्रज-राज-विराजमान-सदन-पर्यन्तं पन्थानं तच्-चरण-मूलतः परम-दुकूलानुकूलं चकार, तत्र निनाय च गोप-कुल-नायक-कुल-नायकम् । उवाच च—गोविन्द नीयताम् एष पिता ते पितृ-वत्सल [भा।पु। १०.२८.९] इति ।

[२२] इदम् अहं जानाम्य् एव, तत् कथम् अन्यथा चरामि? कथं वा पराद् अस्य पराभवः स्यात्? इति भावः ।

[२३] तद् एवं वरुणस्य पाशाद् यद् भय-पात्रायमाणत्वम्, तस्माद् अपि स्व-प्रभावेण मोचकस्य तस्य—

_उपलभ्य च सौरभ्यम् अलभ्यस्य सुतस्य सः । _

_अभ्याययौ बहिर्-वृत्तिं सभ्यानां विस्मयं वहन् ॥४॥ [अनुष्टुभ्] _

_उन्मीलयामास विलोचने स _

_श्रीमन् मुखं तस्य च सन्ददर्श । _

_सन्दर्शनाद् एव बभूव सास्रः _

_स्वप्नायितं चास्रवृतेर् अमंस्त ॥५॥ [इन्द्रवज्रा]
_

[२४] कृष्णस् तु तच्-चरण-युगल-तल-स्पर्श-पूर्वकं तम् आलिङ्गन् उन्नमितवान्—तात, सोऽहम् आगतोऽस्मि, इत्य् अधिगतवांश् च । २५] तत्र द्वयोर् अपि समग्र-व्यग्रताम् आगच्छतोर् अथ हरिस् तु परितः परीत-पर-परीवार-परीहास-शङ्कया सङ्कुचित-चित्तस् तत्र चात्मनि च बाष्पादि-विकार-व्यतिरिक्ताकारताम् आसादयितुं व्याजहार—तात, परितः समवधीयताम् । \


[२६] अथ व्रज-सूत्रामा परितः समीक्ष्य च कुत्रावाम् आगतौ? इति स-वैलक्ष्यं पुत्राननम् ईक्षते स्म ।

[२७] स चोवाच—तात, मा तन्यताम् अन्यथा-भावः । यथाव्रजनम् एव स्व-व्रजं व्रजिष्यावः । ततः पुरतश् चरण-कमलम् अवधीयमानम् आधीयताम् ।

[२८] तत्र तु तथा कुर्वति व्याकुलताकुल-काकु-पूर्वं वरुण उवाच— कृपालुस् त्वम् अहो कृष्ण द्वयोर् एकतरं कुरु । दण्डं वाथ प्रसादं वा नापराधं तु शेषय ॥६॥ [अनुष्टुभ्] \

[२९] तद् एवं कृत-यात्रतया स्थितयोर् अपि क्षण-मात्रम् अवस्थितयोस् तयोर् महोपचारांश् चरणाग्रतः समर्पितान् आचरन् प्रणामम् आचचार, चचाल च स ताभ्यां सह यावद्-विवराभ्यासम् । आगम्य च तद्-अभ्यासं तद्-वर्त्म-भाग-स्थित-नीरं विभागम् आगमय्य ताभ्यां सह व्रजं प्रति प्रहित-जन-प्रहित-महितालङ्कृति-मुख-परिबर्ह-सम्भृति-मुहूर्त-सुख-पूर्तितः कृत-कृत्यं-मन्यतया नृत्यन्न् इव निववृते ।

तदा तीर-स्थाना व्रज-जनि-जनाः प्राण-रहित- प्रभास् तद्-वर्त्मेक्षा-स्थित-शिथिल-जीव-स्थिति-दशाः । पिता-पुत्रौ वाराम्पति-चर-युतौ निर्व्यथतया गतौ दृष्ट्वा भूयोऽप्य् अहह सुख-तन्द्रीम् अभिययुः ॥७॥ [शिखरिणी] \

[३०] केवलस् तु बलदेवस् ताव् अभिजगाम, प्रणनाम च व्रज-राजम् । दत्त-सुख-समाजे व्रज-राजे तु, तम् उपगूह्य विस्मृत-बाह्यतया किञ्चन चासमूह्य क्षण-कतिपयं विरमति । पुनश् च रामे पुनः पुनर् नमति, रामानुजः सहसा सहसा परिक्रम्य परम-रम्य-निज-स्पर्शामृत-स्पर्शनतः प्रथमं मातरम् एव कातरः पुनर् जीव-लोकम् आलोकयामास, क्रमशस् त्व् अन्यम् अन्यम् अपि ।

_समागते पितरि हरेर् उभाव् अमू _

_मिलन्त्य् अपि व्रज-जनतामिलन् मिथः । _

_तदा न सा परिबुबुधे परं परं _

_परन्तु ताव् अखिलम् अवैत् परापरम् ॥८॥ [रुचिरा] _

_हम्बा-रावैर् जन-कलकलैः स्वर्गतः पुष्प-पातैर् _

_वाद्यैर् नृत्यैः स्तव-रव-शतैर् उत्थितेऽन्योऽन्य-मर्दे । _

_श्रीमान् रामः पशु-समुदयं वारयन् लोक-वृन्दं _

_श्लक्ष्णालापैर् अपि समुचित-स्थान-निष्ठं चकार ॥९॥ [शार्दूल] _

तत्र च—

_स्वयं दत्त्वा शुभ्रासनम् इह महा-गोप-पतये _

_यथा-योग्यं चान्यान् विदधद् उपविष्टान् अथ बलः । _

_उपान्त-प्रक्रान्त-स्थितिम् अनुजम् आपृच्छ्य परितः _

कथाम् एतां शृण्वन् पशुप-कुलम् अश्रावयद् अपि ॥१०॥ [शिखरिणी]


[३१] तत्राथ दत्त-स्वातन्त्र्यतया विप्रान् आमन्त्र्य परमान्नादिभिः सन्तर्प्य तद्-अभीप्सितानि वीप्सया समर्प्य, द्वादश्यतिक्रम-भिया तत्-प्रवण-धिया व्रतम् इदम् अच्छिद्र-प्रथम् अस्त्व् इति प्रार्थ्य, गीर्भिस् तद्-आशीर्भिस् तत्र सामर्थ्यं समर्थ-कृतार्थं-मन्यास् ते धन्या बहुल-कुतूहलतः सर्व एव व्रजम् आव्रजन्ति स्म ।

[३२] यत्र व्रजाध्यक्षः स्वयम् अध्वानं व्रजन्, मध्ये-सुत-द्वयम् अभ्राजिष्ट ।

[३३] अथ कथकस् ताम् एतां कथां समापयन् श्री-व्रजेश्वरं प्रत्य् आह— पाशि-पाशेन सम्बन्धस् त्वय्य् आसीन् नेति का कथा । तद्-भयेनापि नासीत् त्वत्-पुत्रस्यास्य प्रभावतः ॥११॥ तद् उक्तं वरुणेनास्य करुणां वीर्य-भीरुणा । गोविन्द नीयताम् एष पिता ते पितृ-वत्सलः ॥१२॥ इति । [अनुष्टुभ्] \

[३४] अथ दिनान्तरे कृष्णम् अन्तरेण सभान्तरे निविष्टा गोप-कुल-शिष्टा व्रज-पतिं प्रति तत्रत्यं चित्रं पप्रच्छुः । \


[३५] स च लोक-पालस्य तस्य तं महोदयम् ऐहिक-लोकानाम् आलोक-पथातीतम् अस्तोकं श्लोकयामास । तत्र च—मित्राणि, चित्रं श्रूयताम् इति तद्-वासिनां कृष्णे भक्तिम् अतिरिक्तां वर्णयामास ।

[३६] तद्-वर्णनान्तरं तु निज-निजम् अन्तरम् अनु विस्मितानां तस्मिन्न् ईश्वरतालम्भक-सम्भावनया सर्वेषाम् एव सेयं भावना—यदि चानश्वर-प्रतिपत्ति-वशाद् अयम् ईश्वरस्, तथाप्य् औत्पत्तिक-स्नेह-सम्पत्ति-विषयाश्रयता-मय-निरामय-सुख-दायीति तु सदा मुख्य-व्यतीत-सर्व-तर्षं समुत्कर्षं द्रष्टुं सुष्ठु मुहुर् उल्लसत्य् एव नश् चेतो-वृत्तिः । तच् च किम् अनेन निर्बाधं साधयिष्यते? इति ।

[३७] एष चाशेषाणाम् एषां स्वापर-पर्याय-ज्ञातितया स्वाभेदेन विज्ञायमानानाम् एतद् अभिज्ञाय, कारुण्य-जात-यन्त्रणया शीघ्रता-परतन्त्रतया चिन्तितवान्—

[३८] अहो, एते च ते ते मम परम-स्वजना, मयि पारमैश्वर्यं पर्यालोच्य सर्वतोऽप्य् असम्भवं मद्-वैभवम् अनुभवितुम् इच्छन्ति, किन्तु नानुभवन्ति यत एव लोक-पाल-वैभव-मात्रं चमत्कार-पात्रं कुर्वन्ति । तादृशं तद् वैभवं पुनर् एषां स्वगति-मयम् एव । तत् तु तन्-मयम् अपि यन् नानुभवन्ति, तत् खल्व् अविद्या-काम-कर्म-निर्मितोच्चावच-गतिमति जगति विरचितम् अवतारम् अनु सर्व-साधारणं-मन्यतया बुद्धि-बाधात एव । सा चैषाम्, इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा । कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ [भा।पु। १०.११.५८] कृष्णेऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामाः [भा।पु। १०.१६.१०] इति ।

कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसः [भा।पु। १०.६५.६] इति । \

[३९] तथा च—

_एषां घोष-निवासिनाम् उत भवान् किं देवरातेति नश् _

_चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति । _

_सद्-वेषाद् इव पूतनापि स-कुला त्वाम् एव देवापिता _

_यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥ [१०.१४.३५] _

इत्य् आदिभिः प्रमित-सर्वोपरि-मद्-वशीकारि-प्रेम-महिम्नां यद्यपि नाविद्यादि-मयी, तथाप्य् एषाम् अन्य-साधारणं-मन्यताम् असहमानोऽहं मदीय-प्रेम-सन्दोह-मय-मोहाभिलाष-लालना-जालतः सञ्जायमानाम् अप्य् एतां तन्-मयीम् एव मन्ये । \


[४०] वस्तुतस् तु तादृश-प्रेमर्णेनानादि-कल्पत एवान्येभ्यः प्रत्तानवकाशाम् उत्तमर्णतां गतानाम् अप्य् एषां मय्य् अर्पित-सर्वार्थानां गतिर् एव मम गतिस्, तद्-अनुगतम् एव च मम परमं वैभवम्, न पुनर् अतः परम् अपि परं सम्भवति ।

[४१] तद् एवं जलावितुर् वैभवाद् अपि पितुर् मम यश् चमत्कारः, स तु मां दुःखाकरोति । तस्माद् एतेषां यथा मयि प्रेमावेशस् तथा नैतेषु ममेति तद्-अनुसन्धानवता मया तद् एतद् एषाम् एव वैभवम् एतेषाम् एव शुभानुध्यान-मय-योगमायानुभवतः साम्प्रतम् एनान् अनुभावयानि इति ।

[४२] तद् एतद् विचिन्तनानन्तरं दिनानन्तरे पुनर् आदि-वराह-पुराण-वाचक-याचक-विप्र-द्वारा-पुर-द्वारास्थानी-स्थितिक-विचित्र-पित्राद्य्-आभीर-वीर-परिषदं प्रति-कार्तिक-वर्ति-पूर्णिमा-स्नानम् अक्रूराभीष्ट-प्रदे ब्रह्म-ह्रदे तूर्णम् एव पूर्ण-तत्-फलतां साधयति इत्य् अवधारयन्, सारतया धारयंस् तत्-प्रातः सर्वांस् तान् दायादादीन् आदाय सत्रा तत्रागतवान् ।

[४३] आगत्य च सर्वेण सह तत्र निमज्ज्य, तम् उत्सृज्य, तीरम् आसज्य, प्रकृतितः परतया सच्-चिद्-आनन्द-घनं परम-स्वरूप-रूप-रस-गन्ध-स्पर्श-शब्दतयात्मारामाणाम् अप्य् अलभ्य-घनं गोपानां स्व-निकेतम् एतं गोलोकम् आवरक-शक्तिम् अपाकृत्य व्यक्तीकृतवान् ।
[४४] तिरस्करिणीं निराकृत्य विचित्रं दिव्य-चित्रम् इव यं खल्व् अस्य नराकृति-पर-ब्रह्मणः स्व-लोकतया ब्रह्मणो लोक इत्य् आचक्षते ।

[४५] यत्र किल स्वेषाम् एव मध्यम् अध्यासितं निज-कुल-तिलक-कृष्णाकारतया परिचितं कृत-जन्मादि-गोकुल-लीला-स्तुति-श्रुति-साक्षिकतयातिनिश्चितं तम् एतं स-लोकम् आलोकयन् व्रज-लोकः सर्व-शोकं व्यतीत्य, विस्मयानन्द-सन्दोहतः प्रतिक्षणम् एव सुख-संरोहम् अवाप ।

[४६] तद् एवं व्यज्य रज्यन्-मनसस् तान् व्रज-लोकान् गोलोकतः स दैतेयारिर् दैतेयपीडनादि-क्रीडां पूरयितुं पुनर् व्यवधापितवांश् च ।

[४७] अथ कथकः समापनम् आह—

_ईदृग् व्रजेश पुत्रस् ते जित-लोकेश-लोककः । _

_यस् त्वां च तव लोकं च लोकम् एतम् अलोकयत् ॥१३॥ [अनुष्टुभ्] _

_अधि गोलोके गोपाः स्वयम् अधि गोपेषु गोलोकः । _

_इति कलयन् वनमाली यस् तं व्यानञ्ज तं नौमि ॥१४॥ [उपगीति]॥
_

[४८] तद् एवं प्रातः-कथायां प्रयातायां विभावरी-कथा विभाति स्म । यथा स्निग्धकण्ठ उवाच—

_यदा यातः पित्रा सह वरुण-लोकं हरिर् असौ _

_तदा राधादीनां स्थितिर् इह मृषा का प्रथयिता । _

_जडानां जाड्यं स्याद् असुख-सुख-बुद्धिस् तु सुधियां _

_न शून्यस्य प्राप्तिं भजति परितः कापि च दशा ॥१५॥ [शिखरिणी] _

_यदायासीत् कृष्णः किल वरुण-लोकं पितृ-कृते _

_तदा श्री-राधायाः श्वसितम् अमुना सार्धम् अगमत् । _

_यदायासीत् तस्माद् अयम् अथ तदा तत्र सहसा _

_समागाद् इत्य् एषा परम् इह कवीनां सुकविता ॥१६॥ [शिखरिणी] _

किं च—

_आयाते तु व्रज-पति-सुते पाशि-लोकात् तदा काप्य् _

_एका राधाम् अनु तम् अनु च स्निग्ध-भावा विदग्धा । _

_औत्सुक्यं तद् द्वयम् अनु निशि श्रावयन्ती द्वि-निष्ठं _

_चेतो-वृत्तेर् मुखम् इव तयोर् अञ्जसा जायते स्म ॥१७॥ [शार्दूल]
_

[४९] तत्र श्री-राधा-निष्ठम्, तद् यथा—

_यदि मां नयसि विधातर् _

_लोकान्तरम् अन्तरा सेवाम् । _

_नय मां तन्-मुख-सुषमा- _

_स-सुखां विरहान् न दुःखितां तस्य ॥१८॥ [उद्गीति]
_

[५०] श्री-कृष्ण-निष्ठं यथा—

_आनीताः पितृ-चरणा वारुण-लोकात् प्रनन्दिता लोकाः । _

_हा राधा मम शोकाद् बाधा-गीर्णा न जीर्णास्ति ॥१९॥ [आर्या] _


[५१] अत्र काक्वा जीर्णास्त्य् एवेति सम्भाव्यते ।

[५२] तद् एवं सा तस्यां तस्मिन्न् अपि रहसि निवेद्य विशेषतः श्रीकृष्णम् अप्य् उपालब्धवती, यथा—

_रागं विनास्ति हृदयं माधव तव रोचते च तत् तुभ्यम् । _

_इति नियतं कनकाङ्गी पाण्डू-भवति स्फुटं राधा ॥२०॥ [आर्या]
_

[५३] ततश् च तस्य स्नेह-वशाद् देह-द्रवी-भावं व्यवस्य पुनः प्रहस्य प्रोवाच—

_भवान् गुणी माधव राधिकापि सा _

_येनातिदूराद् अपि सुष्ठु कृष्यते । _

_राधापि बाढं सरसा निजालयाद् अप्य् _

_एवम् आर्द्रीक्रियते यया भवान् ॥२१॥ [उपजाति १२]
_

[५४] मधुकण्ठ उवाच—केयं वृद्धा? यतस् तत्र नान्य-जनस्य प्रवेशः सम्भवतीति पूर्वं निर्णीतम् । \


[५५] स्निग्धकण्ठः सहासम् आह—पौर्णमास्य् एव नाना-वेशेन तत्र प्रवेशतीति ।

[५६] अथ तदारभ्य—

_निशीथं निशीथं तदासौ प्रकर्षाद् _

_अगासीन् मुरल्येति तथ्यं मृषा न । _

_अमूस् तु प्रतीयुः स्फुटं मर्म-भेदी _

_स वा कः शरैर् यश् छिनत्त्य् आशु सर्वम् ॥२२॥ [भुजङ्गप्रयाता] _

_निवेशे संवेशे मथि पथि जने पाथसि वने _

_हरिर् यद्य् अप्य् उद्यन् प्रतिहरितम् एव स्फुरितवान् । _

_स्फुटं द्रष्टुं स्प्रष्टुं तदपि तद्-अलब्धेर् विधुरजाद् _

_दधे राधा-बाधा तद्-अनधिगमाद् अप्य् अधिकताम् ॥२३॥ [शिखरिणी]॥
_

[५७] अथ समापनम्—

ईदृशस् ते पतिः श्यामे यत्-कान्तेस् त्वं परा गतिः । अत्राभिलाषः शोभा वा कान्तिर् इत्य् अधिगम्यताम् ॥२४॥ [अनुष्टुभ्]

इति श्री-श्री-गोपाल-चम्पूम् अनु

वरुणलोकालोक-चमत्कार-तिरस्कारक-गोलोकावलोकनं नाम

विंशं पूरणम्

॥२०॥

(२१)

१७। अथैकविंशं पूरणम्

२५। कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणम्
[१] तदानीं पुनः स्निग्धकण्ठ उवाच—

[२] अथ गर्ग-कृत-व्रज-वर्ग-भेद-मय-समयतः पश्चाद् उद्भूताः काश्चिद् अन्याश् च धन्याः प्रभूता नाना-कुल-प्रसूता या व्रज-कुमारिकाः स्वभावतः कृष्ण-भावानुसारिकास् तासां कौमार-पारम् आरभ्य वासना वर्णनीया यथा,

कुमारीणां तासां अघजिति पतिः स्याद् इति रुचिर् यदा जाता तर्हि प्रतिपदम् उपायाकृत-धियाम् । विधु-श्रीणां शश्वद् बत बहुल-पक्ष-स्थिति-जुषां तमस्कृद्-विश्वस्मिन्न् अहह कृशता नित्यम् अजनि ॥१॥ [शिखरिणी]

[३] ततश् च तद्-अर्थम् अनुरहसं नाना-देवताम् अर्थयमाना व्यर्थम् इव भ्रमन्ति स्म ।

[४] प्रार्थना चेयं—

_व्रजेशित्रोः सद्म वासः परं श्वसुरतानयोः । _

_कृष्ण एव पतिर् भूयान् मम जन्मनि जन्मनि ॥२॥ [अनुष्टुभ्] _

[५] ततश् च कदाचित् कालिन्दीम् अनु परस्परं विन्दमाना बभूवुः ।

[६] युक्तं च तत्, यतः—

_एकं पदम् उद्देश्यं _

_भवति समन्ताद् बहूनां चेत् । _

_विविध-भुवाम् अपि तेषां _

_मिलनं घटते यथा स-तीर्थानाम् ॥३॥ [उद्गीति] _

[७] मिलितानां तासां परस्परं हार्दम् अपि जातम् । तथा हि—

_दिशि दिशि जाताः स्निग्धा व्यतिमिलिताः सुष्ठु बिभ्रति स्नेहम् । _

_मेदुर-मुदिर-समूहे मुहुर् अपि यस्मात् तथा दृष्टम् ॥४॥ [आर्या] _

[८] तत्र जाते चासौहार्दे हार्दम् अपि परस्परं व्यक्तम् । यतः—

_ह्नुतम् अप्य् एकाश्रयिणां _

_हृदयं व्यक्तिं मिथो याति । _

_तत् तु व्यतिमिलितं चेद् _

_वद तर्हि स्यात् पिधानं किम्? ॥५॥ [उपगीति] _

[९] ततश् च परस्परं हृद्-बाष्पम् उद्गीर्णवतीनां दृग्-बाष्पम् अपि विकीर्णवतीनां तासां दशान्त-दशावशाङ्गतया सम्भाव्यमानानाम् अनुक्षणं सुखा-काङ्क्षिणी पारिकाङ्क्षिणी-वेश-विशेषं विन्दमाना तत्र वृन्दा गता ।

[१०] सा ह्य् एवं पुरा चिन्तितवती—राग एव खल्व् आसां व्रजनागरस्य तस्य समागमाय वागगोचरशक्तिभाग् अवसीयते ।

[११] रागश् च लोक-रीति-मय-प्रणयत एव जागरूकतया गरीयान् वरीवर्तीति देवतान्तराराधनम् एव साधयितव्यम्, न तु तद्-आराधनम् इति ।

[१२] अथागम्य च तत्-कृताभिवादन-स्व-कृताभिवदन-विधौ लब्ध-विधौ साभिदधाति स्म—[१३] अहम् अत्रैव वने वसन्ती भवतीनां भाववतीनाम् अवस्थाः पश्यन्ती दया-विदीर्ण-हृदया समायातास्मि । तद् इयं मम सिद्धा विद्या स्व-कर्णानुबिद्धा विधीयताम् । नातिप्रयास-भावितता च भवतीनां भविता, किन्तु मास-मात्रम् अत्र श्रमाभासः । [१४] सा खलु मन्त्र-मयी योगमाया मया दयावती साधितास्तीति ।

[१५] तद् एवं तासां कर्ण-विवरम् अनु मन्त्र-वर्णान् निधिवन् निधाय तद्-विधिम् अपि स-विधिम् अभिधाय मुदान्तर्-हितवती सान्तर्हितवती । ततश् च तास् तद्-उपदेश-लग्नाः परम-सुख-मग्ना बभूवुः । यतः—

नित्यं तावद् अनल्प-राग-महिमा सर्वं सहायीयति प्राप्नोत्य् एष तु योग्य-कल्पम् अथ चेद् धत्ते सद्-उल्लासिताम् । तस्मिंस् तादृग् अभूद् गुरुः स्वयम् असौ शक्तिः परा वैष्णवी पूज्या मन्त्र-वरश् च वाञ्छित-धरस् तासाम् इतः किं सुखम्? ॥६॥ [शार्दूल]

[१६] अत एवामूर् विश्रम्य मार्गशीर्षीय-शिर्षायामाणता-लभ्य-प्रतिपदम् आरभ्य सङ्गत्य व्रतम् आरब्धवत्यः । यत्रारुण-कृतारुण-गुण-प्रसरम् अवसरम् अनु परस्परं गृह-विसरतः समाकारणापरा व्यतिबद्ध-करा यमुना-गमन-तत्-परा गान-परायणा बभूवुः; यत्र परस्पर-परीहास-प्रायतया निजाभिप्रायं व्यञ्जयामासुः । यथा—

त्वाम् उपयन्ता सखि वनमाली । सकल-शुभाकर-वर-गुण-शाली ॥ध्रु ॥ यत्र व्रज-पतिर् इत-रुचिर् उचिताम् वार्तां चालयिता सुख-सचिताम् ॥अ॥ श्रुत्वा तत् तव मातर-पितरौ सुखम् अयितारौ कृत-धन-वितरौ । हरिर् अपि मुदम् इह हृदि गोपयिता सखिभिर् नर्मणि यः कोपयिता ॥ब्॥ गणक-निदिष्ट-तरे सुदिनाहे वेशं धास्यति स निजविवाहे । नील-रुची-चित-गौर-दुकूलम्
घन-चपलाभिरुचाम् इव मूलम् ॥च्॥ अन्तर-वसनग-कञ्चुक-पीतं चित्र-प्रच्छद-रुचि-परिवीतम् । मुकुट-किरीट-तिरीट-विराजम् अलकावलि-मणि-चित्रक-भाजम् ॥द्॥

कुण्डल-मण्डित-गण्ड-विभागम् ताम्बूल-च्छवि-जिद्-अधर-सुरागम् । अधरावृतये कर-धृत-चेलम् ग्रैवेयकम् अनुकृत-मणि-मेलम् ॥ए॥ साङ्गद-कङ्कण-मुद्रिक-हस्तम् आवापक-धृति-वलयित-शस्तम् । हारवलित-हृदि धृत-मणि-राजम्
वनमालादिक-माल्य-समाजम् ॥फ़्॥ मणिमय-शृङ्खल-लसद्-अवलग्नम् चरण-विभूषण-गण-रुचि-मग्नम् । वेषे चास्मिन्न् एतद् अपूर्वम्
यत् तु न दृष्टं क्वचन च पूर्वम् ॥ग्॥

अङ्गं भूषणम् अपि किल सर्वम् सर्वाभरणं स्वयम् इति गर्वम् । अथ मणि-शकटाधिष्ठितम् एतम्
कलयिष्यन्ति सुहृद्भिर् उपेतम् ॥ह्॥ तं जन्यानां शकट-परीतम्
कुसुमैर् वर्षिष्यन्ति सगीतम् । शकट-ध्वनि-युत-वाद्य-शतेन
मुदम् आप्स्यति स स्वयम् अपि तेन ॥इ॥ तद्-ध्वनि-कलनात् तव सखि चित्तम् धृतम् अपि यत्नाद् भविता भित्तम् । स यदा गन्ता द्वार-सदेशम् सखि विसृजेः सुख-मूर्च्छा-वेशम् ॥ज्॥ तम् उपव्रजिता सा तव गोष्ठी स्त्री ततिर् अपि गास्यति बिम्बोष्ठी । उपयानं तद्-वाद्य-वितानम्
गालि-प्रायं तद् अपि च गानम् ॥क्॥ सारात्रिक-निर्मञ्छन-दृष्टिं कर्तारस् ते स-कुसुम-वृष्टिम् । मण्डप-वरम् उपनीते श्यामे
सुख-सम्मर्दो भविता रामे ॥ल्॥ गोपेन्द्रादिक-गण-पूजाम् अनु
नर्म-कुतूहलम् उदयेद् वरतनु । पूर्वं विधिम् अपि कृत्वा सद्विधि
आनेष्यन्ति त्वाम् इह सहनिधि ॥म्॥ वरपुरतस् त्वां शिथिलितगात्रीम्
स्थापयितारः प्रियरतिपात्रीम् । तातस् तव करम् अथ दधद् अबलम्
ग्राहयिता वरकरम् अनु सजलम् ॥न्॥ तत्र च भवती सुमुखि सुखेन
किम् भवितेति ज्ञाता केन? । किं बहुना, तव करसंयमनम्
कृतम् इव पश्याम्य् अमुना कमनम् ॥ओ॥७॥ इति । [मात्रासमका]

[१७] तद् एवं यमुनां प्राप्य द्रुतम् एव गानं समाप्य वेलायां बाल्य-चापल्येन कल्ये प्रोज्झित-चेला एव मिथः कृत-मेला वेलायां निमज्जन्ति स्म । निमज्ज्य च—कौषेयतया क्षालनां विनापि न परिहेयम् इति तद् एव चेलं परिधाय सेव्याया देव्याः सैकताम् अर्चाम् अर्चितां विधाय मन्त्रम् अनुसन्धाय धाम समायान्ति स्म ।

[१८] तद् एवं तावन् मासं यावद् विधाय तत्-पूरक-दिनं व्रतस्यापि पूरकं जातम् इति परमानन्द-पूरणतः सूरजा-पूरम् अनु दूरनिर्जनता-जात-निर्व्रीडतया क्षणम् अक्रीडन् ।

[१९] तद् एवं पूर्व-पूर्वं जानन् व्रज-राज-नन्दनस् तुष्ट-मनाः कुमार-चतुष्टयम् अनुविधं विधाय तत्र प्रस्थाय गुप्तम् उप्त-चित्ततया ताः पश्यति स्म ।

[२०] ये खलु दाम-सुदाम-वसुदाम-किङ्किणि-सञ्ज्ञास् तस्य प्रज्ञाहङ्कार-चित्त-मनसां बहिः-प्रकाशतया लब्ध-समज्ञास् तन्त्र-विज्ञातृभिर् विज्ञायन्ते, त एते हि कुमारा जात-चतुः-पञ्च-वर्षाः परस्पर-सवयस्कता-धृत-हर्षाः कृष्णाद् अनुदिनम् आसादित-प्रेम-वर्षाश् चलनारम्भत एव—कुत्र यामः? इति पृच्छन्त एव गच्छन्तः कृत-तत्-सङ्गम् आगच्छन्ति स्म । तद् एवं—

सङ्गे विधाय चतुरश् चतुरः कुमारान्
आगम्य तत्र कर-वारित-तत्-प्रहासः । नम्रीभवन्न् अलम् अलक्षिततां प्रपद्य सद्यस् तद्-अंशुक-चयं स हरिर् जहार ॥८॥ [वसन्ततिलका]

_हृत्वा स सत्वर-कदम्ब-नगाधिरोह- _

_पूर्वं स-डिम्भ-निकरः स्फुटम् उज्जहास । _

_श्रुत्वा प्रहासम् अथ गोप-कुमारिकाणां _

_वर्गः समं सभयम् ऊर्ध्वित-दृष्टिर् आसीत् ॥९॥ [वसन्त] _

_गम्भीर-स्वर-सङ्गतं तद्-इतरानुद्भाव्य-भव्य-श्रियं _

_हासं तं परिचित्य बाल्य-वलितास् ताः प्रेक्ष्य चान्योऽन्यतः । _

_वस्त्राण्य् अप्य् अनभीक्ष्य तत्र विधृतान्य् उच्चं तु वक्षः-स्थलं _

कृत्वा नीचम् उदक्त-वक्त्रम् उदके न्यक्-चक्रिरे पद्मिनीः ।१०॥

_ [शार्दूल-विक्रीडितम्] _

_अतलिन-नलिन-वनानां भ्रमम् इह चक्रुर् मुखानि तासां न । _

_हेमन्ते तद्-अयोगात् किन्तु न्यक्-कारम् एवात्र ॥११॥ [आर्या] _

ततश् च,

_क्षणम् अधि जल-मध्यं तस्थुर् आनम्र-नेत्राः _

_पुनर् उदयति शीतेऽद्राक्षुर् एताः कदम्बम् । _

_अपि हरिर् अधिशाखं गुप्त-मूर्तिः पुरासीत् _

_पुनर् अवृतिम् अयासीच् चात्म-लक्षाय ताभिः ॥१२॥ [मालिनी] _

_तासां जलस्थ-वपुषां वदनेषु कृष्ण- _

_स्यारूढ-नीपक-तरोः सहसा दृग्-अन्तः । _

_पद्मेषु पद्मप-कलाम् अदधाद् अमुष्मिन् _

_यासां च नीरभृति चातकरीतिम् आप ॥१३॥ [वसन्ततिलका] _

ततश् च—

_उच्चकैर् जहसुर् बालाश् चुक्रुशुस् तत्र बालिकाः । _

_ऊचुश् चेदं तु वः कृत्यं व्रजादृत्यं भविष्यति ॥१४॥ [अनु] _

[२१] अथ कृष्णेन मुहुर् अपि शिक्षिता बालाः प्रोचुः ।

[२२] तत्र प्रथमं, यथा—

_कृत्यं वा किम् अकृत्यं वा न विद्मो वयम् अण्व् अपि । _

_शिक्षार्थं किन्तु वः प्राप्ता वीक्ष्याज्ञासिष्म तत् पुनः ॥१५॥ [अनुष्टुभ्] _

[२३] अथ सर्वाः सलज्जं परस्परम् ईक्षित्वा पुनर् ऊचुः—

_यः कश्चिच् छिक्षकस् तस्माद् भवद्भिः सुष्ठु शिक्षितम् । _

_अभ्यस्यथ व्रजे तच् च स्व-गुरोर् मान-वृद्धये ॥१६॥ [अनुष्टुभ्] _

[२४] पुनस् तच्-छिक्षिता डिम्भाः प्रोचुः—

_किमर्थोऽयम् उपालम्भस् तन् न विद्मस् तु किञ्चन । _

_भवत्यो जल-चारिण्यो वयं वृक्षाग्र-गामिनः ॥१७॥ [अनु] _

[२५] ता ऊचुः—

_विक्रान्तिर् लुण्ठतां योग्या यद् वः शाखाग्रगामिता । _

_दीनता लुण्ठितानां स्याद् यन् नः सलिलगाहिता ॥१८॥ [अनु] _

[२६] अथ श्री-कृष्णः स्वयम् एव स-कोप-विस्मयम् इव वक्ति स्म—किं लुण्ठितं भवतीनाम्?

[२७] ता ऊचुः—अहो बत! कथम् अस्माकम् असङ्ख्यतया दुःसंवरम् अम्बरं संवरणम् आपद्यते?

[२८] श्री-कृष्ण उवाच—भवतीनाम् अम्बरावरणता विद्यत एव, तद् अम्बरं वा कथम् अपहारेण संवलनम् अवलम्बताम्?

[२९] ता ऊचुः—

_अम्बरम् अप्य् अम्बरताम् आसादयितुं तवास्ति सामर्थ्यम् । _

_इह दामोदर चौर्यं कियद् इव शौर्यं समर्पयतु? ॥१९॥ [आर्या] _

[३०] अथ कृष्णः स-स्मयम् आह स्म—न नग्ना एताः पाथसि मग्नाः । तद् इदं तु मया परिहसितम् एव । दृष्टं भवद्भिर् दुष्ठु-प्रकृतीनाम् आकृति-मात्र-सुष्ठुता-युतानाम् आसाम् अनुष्ठितम्; यन् मदीयान्य् एव शस्तानि वस्त्राणि विहारतः समस्त-व्यस्ततया यत्र तत्र विस्रस्तानि । तान्य् एता दरिद्राणां कन्याः स्फुटम् अन्यायतया परिचित्य च विचित्य परिदधाना, मादृशस् तु दृशः सकाशाद् गोपनं कामयमाना बाढं जलम् एवावगाढाः । यानि खल्व् अतिस्वच्छानां तिग्म-च्छवि-कन्या-जलानाम् अन्तर् अप्रच्छन्नान्य् एव लक्ष्यन्ते, यान्य् एव चासां जल-मग्न-प्रत्यङ्ग-लग्नानि स्वर्ण-सवर्ण-वर्णानि वर्णा इव निर्वर्ण्यन्ते । तस्मात् प्लवन्त एव भवन्तः प्रत्येकम् एताः कर-गृहीत-कराः समानयन्ताम् ।

[३१] तद् एतद् अवधार्य तीर-पर्यन्तम् अवतीर्य सम्भ्रम-प्रतीक्षिताल्प-कालान् कृष्णाज्ञा-पालान् बालान् अमूः प्रत्यूचुः—[३२] कथं स्तम्भम् अवलम्बध्वे? निःशङ्कम् एव सङ्क्रामत ।

[३३] सखीः प्रति च प्रावोचन्—अत्रैवानीय पानीय-वास-सुखं लुण्ठाकान् एतान् आकुण्ठम् आसादयत ।

[३४] अथ तान् प्रति च—

आहर-वसनाम् आहर- वनितां यस्मात् क्रियां सदाधीध्वे । कात्यायनी-प्रसादात् तम् अपि विकर्षाम तोयान्तः ॥२०॥ [आर्या]

[३५] अथ तद् एतच् छ्रुतवन्त एव द्रुतवन्तः स्खलन्त इव नीप-तर्व्-अन्तम् आसद्य सद्यस् तम् एव तरुम् आरुरुहुः ।

[३६] कृष्णस् तु स-हासं स्पष्टम् इदम् अभ्यचष्टे—अहो, शुभंयूयमानानाम् आसाम् अहंयुता भवतीनां भवतु, पश्यामस् तत्र-भवतीषु देवता-प्रभावम् । यावद् एव तद् एतम् उदवासम् उरीकृत्य भवत्यस् तिष्ठन्ति, तावद् वयम् अपि धृत-निष्ठास् तरोर् उपरिष्टाद् एव नभो-वासम् उररीकृत्य तिष्ठाम ।

[३७] अथ तत्र तद्-उत्तरम् उररी-कुर्वत्यः सर्वाः सश्लेषम् आत्म-हृद्-गतम् उद्गमयामासुः—

न नादेय-भयं तस्य तरौ यस्य भवेत् स्थितिः । पात्र-सात्कृत-गात्राणां पृच्छ्या नादेयता पुनः ॥२१॥ [अनुष्टुभ्]

[३८] ततश् च तन्-मुख-तुषार-करतस् तुषार-कर-तरङ्ग-निकरतश् च कम्पमानाः स-नर्मानुकम्पम् अमूर् अयम् उवाच—

[३९] अहो, हिम-श्रथ-श्लथाङ्ग-सन्धयः परम-दुर्बलाः ! सर्वाभिर् एवार्वाग् आगम्यताम् ।

[४०] तास् तु भ्रू-भङ्ग-सङ्गतम् ऊचुः—पुनः किम् अर्थम् आगमयितुम् अर्थयसे?

[४१] कृष्ण उवाच—वनदेवतया हृतं मया तु प्रसह्य तस्याः समाहृतं वासः समासाद्यताम् ।

[४२] ता ऊचुः—किम् अतः शेषम् अन्वेषामः?

[४३] तद् एतद् उक्त्वान्तर्-वारिण एव प्रसारित-कराः किञ्चिद् अभ्यानञ्चुः । कृष्णस् तु साङ्गुलि-व्यङ्गम् उवाच—अये शत-पत्र-पत्र-नेत्राः ! सविधेऽत्रागम्यताम् ।

[४४] ता ऊचुः—तवैतद् एहीहं कर्म कथम् इव?

[४५] कृष्ण उवाच—मम दृष्टिर् विसृष्टिश् च विशिष्टताम् आप्नोतिऽ इति ।

[४६] ता ऊचुः—तर्हि किम् अर्हितं भवेत्?

[४७] कृष्ण उवाच—ग्रहणातिवृत्तिर् वस्त्र-परिवृत्तिश् च न स्यात् ।

[४८] ताश् च परस्परम् ऊचुः—अहो मुग्धाः! वञ्चयितुम् एवेयं प्रपञ्चना ।

[४९] कृष्णस् तु ताः सन्दर्श्य जिह्वां सन्दश्य बभाषे—सत्यम् एवेदं ब्रवीमि, नासत्यम् ।

[५०] ताः पुनः प्रत्यूहम् ऊहमाना व्यत्यूचुः—अहो, मूढ-बुद्धयः ! सुव्यक्तान्तर्-निगूढ-हासः परीहास एवायम् अस्य ।

[५१] कृष्णस् तु गूढम् अपि स्मितम् अगूढ । समूढ-प्रिय-वद्यतयाप्य् अवादीत्—हन्त, नहि नहि, यस्माद् व्रत-कृशतया भृश-दया-विषया एव यूयम्, न तु दूयमानताम् अर्हथ ।

[५२] ता ऊचुः—

स्पृहयालुश् चान्य-वस्त्रं गृहयालुश् च यः स तु । शीतलुषु दयालुश् चेद् आश्चर्यातिशयालुता ॥२२॥ [अनुष्टुभ्]

[५३] भवतु । विस्रब्धं वदत, कदा सत्यं वक्तुम् आरब्धं तत्र-भवद्भिः?

[५४] कृष्ण उवाच—कदापि नानृतं वचसि कृतवान् अस्मि ।

[५५] ता ऊचुः—कः कथयति?

[५६] कृष्ण स-हासम् उवाच—अहो, कूटकूटं घटयमानाः! यद्य् अन्यथा मन्यध्वे, परम-धर्म-परान् एतान् एव समेतान् पृच्छत?

[५७] ता सहासम् ऊचुः—सत्यम् एते भवतः प्राप्त-मर्माणः स-धर्माणश् च दृश्यन्ते ।

[५८] कृष्ण उवाच—हन्त, मुष्टि-सम्बध्य-मध्यमाः, प्रतीतिम् अतीथ चेत् प्रत्यक्षत एव लक्ष्यताम् । सर्वाभिर् एवागम्य न वा सर्वान् अतिरेकया कयाचिद् एकयापि।

ततश् च—

तस्य तत् क्ष्वेलितं श्रुत्वा बालाः प्रेम-परिप्लुताः । व्रीडिताः प्रेक्ष्य चान्योऽन्यं जात-हासा न निर्ययुः ॥२३॥ [भा।पु। १०.२२.१२] इति । तीरे गन्तुं लज्जा स्थातुं नीरे च शीतम् इत्य् उभयम् । समजनि जाड्यं युगपत् तद् इमास् तत्रैव किञ्चिद् अब्रुवत ॥२४॥ [अनु] व्रज-नृप-कुल-रत्न त्वं व्रज-प्रीति-शाली व्रज-जन-महनीयश् चासि याचामहे तत् । वयम् अतितर-शीत-व्यग्रता-ग्रस्त-चित्ता वितर वितर वासश् चानयं मा च कार्षीः ॥२५॥ [मालिनी]

[५९] कृष्ण उवाच—ममानयं को वा नयन-विषयः कृतः? प्रत्युत सत्-कुल-प्रभवतीनां भवतीनां वन-देवताहृत-वस्त्राणां साहाय्यम् एव कार्यम् इति तथा मयारब्धम् अस्ति । न तु भवतीनां चेल-चेल-प्रचये मादृशाम् अभिलाष-मेलः सम्भवति । तस्माद् अस्मत्-परितोष-पोषणाय यदि किञ्चिद् अपि दत्थ, तदा तन्-मदाद् एव देवता-विरोधम् अप्य् अनुरोध-विषयी-कुर्मः ।

[६०] अथ तद् एतद् एवम् अवधारितवत्यः कात्यायनी-व्रतवत्यस् तद् एतन् मनसि विचारितव्यः—हन्त, यद् अस्माभिर् मनसि रञ्जितं, तद् एवायं व्यञ्जितं कर्तुं प्रयतते । तस्माद् अस्माकम् अयम् एव समयः । किन्तु किम् अपि लक्ष्यम् एवात्र लक्ष्यम्, तद् अपि स्वत एव लब्धम् यत् पृथु-शीत-भीततादिकम् अत्र प्रकटम् एव घटते ।

[६१] अथ तं प्राहुः—हा, हा, द्रुतम् अनेन हैमनेन पवनेन शीत-परीततया जीवन-विपरीततां वयम् आयाताः, तस्मान् मर्म-भेदकं नर्म वृथा मा कृथाः, किन्तु वस्त्रम् एव सेवय । यद् वा वाञ्छसि, तत् तु लाञ्छनम् अङ्गीकृत्यापि करिष्यामः ।

[६२] कृष्णः स-स्मितम् उवाच—हन्त, यदि मदिष्टं दास्यथ, तर्हि दास्यम् एव स्वीकुरुत ।

[६३] अथ ताश् चिन्तयामासुः—हन्त, सहसा मर्म-स्पर्शे कर्मठताम् एव लब्धवान् असौ । भवतु, वयम् अपि नर्माश्रित्य तद् एव शर्माङ्गी-कुर्मः ।

[६४] स्पष्टं च प्रोचुः—श्याम्सुन्दर ते दास्यः [भा।पु। १०.२२.१५]

[६५] कृष्णश् च स-स्मितम् आह स्म—तत्र च यन् ममोदितम्, तद् अनुमोदितं पुरतः कुरुत ।

[६६] अथ ताः परस्परम् आलोचन-पूर्वं निकोचित-लोचनम् ऊचुः—भवतु, करवाम तवोदितम् इति ।

[६७] तद् एवम् अपि कृष्णे स-तृष्णेऽपि तुष्णीम् एव स्थिते पुनर् ऊचुः—देहि वासांसि धर्मज्ञ इति ।

[६८] अत्र चान्यथा निजाङ्गीकार-सभङ्गी-भावाद् धर्म एव मर्म-बाधायां नात्मानं संवर्मयेद् इति भावः ।

[६९] तथापि तथा स्थिते तस्मिन् कौतुक-निगूढ-स्मिते पुनर् ऊचुः—नो चेद् राज्ञे ब्रुवामहेऽ इति ।

[७०] अत्र च भय-निर्मुक्तम् इमं तद्-युक्त-मात्रम् आचरितुम् उक्तम् इदं न तु वस्तुतः ।

[७१] तद् एष व्याज-पदेन राज-पदेन यं विशेषम् अबुध्यते, तम् एव बुध्यतां नाम निकामम् इत्य् अभिप्रायः ।

[७२] कृष्णश् च तद्-उपयुक्तम् उक्तवान्—अहो, कदा दास्यो भविष्यथ? कदा वा मयोदितं करिष्यथ? तत् तु नोपलभामहे । यदि वेत्थम् सत्यम् एव, तदा गत्य्-अन्तरम् अन्तरा, जलाद् उत्थाय सर्व-सम्पद् उत्थाय स्मितेन समेतम् एव समेत, न तु सूक्ष्मयापि रुक्षतया । न चेन्, मिथ्या-सङ्कल्प-जल्पानां तत एवाधर्म-मर्म-कल्पानां साहाय्यम् अस्माभिः कथं वा प्रथनीयम्?

[७३] तथापि तासाम् अनुत्थानम् उट्टङ्क्य कठिनता-घटितम् आचष्टे—न वयं वृथा कृताशानां कन्या-पाशानां वः सम्बन्धम् अनुरुन्ध्महे । किन्तु—

इदं च मे दयालुत्वम् एव बुध्यध्वम् अञ्जसा । नो चेन् नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति? ॥२६॥ [अनुष्टुभ्]

[७४] अत्र च राज-पदं व्याजाय व्याजहार । ततश् च मौनं प्रतिलभ्य तासां भयम् उपलभ्य, तेन करुण-सभ्य-शिरोमणिना प्रत्ययम् आचर्य, कथञ्चित् प्रत्यये चाचरिते शीतार्तता-निर्वर्ति-वार्तताम् आहर्तुं व्रीडा-निविड-जड-वपुषोऽपि जडाद् उत्तेरुर् इति वार्तयन्ति । तद् यदि तथा स्यात् तदा वस्तुतस् तु तत्-कारणम् इदम् अस्तु—

प्रार्थ्यं चेत् फलति तदा भजेम देहं नो चेन् नोऽति समयस्य यैव सीमा । तासां सा यदि विफला क्व तर्हि लज्जा निर्वस्त्रा गति-विधये हिमं तु लक्ष्यम् ॥२८॥ [प्रहर्षिणी]

[७५] तद् एवं कथञ्चिद् उदकाद् उक्ताश् च ता न व्यक्तावयवा जाताः । किन्तु—

हस्त-पल्लव-कृताग्र-वस्त्रिकाः केश-विस्तृति-धृतापराम्बराः । आदि-निष्ठित-कनिष्ठ-दारिकाः कुब्जिकावद् अमिलन् कुमारिकाः ॥२९॥ [रथोद्धता]

[७६] ततश् च—पश्य कृष्ण, पश्य सर्वतस् त्रस्ता एता लोप्त्राणि वस्त्राणि पाथस्य् एव स्रस्तानि विधायागता इति संलप्य प्रबल-हासं वल्गति बाल-वर्गे, हरिस् त्व् इदं भावितवान् अतीव दयाम् अयामास । यथा—

शशधर-तन्वा तुलनाम् आहत-लक्षणतया ययुर् यद् अपि । तद् अपि च तां सहसामूर् आहत-लक्षणतया जिग्युः ॥२९॥ [आर्या] एताः सत्-कुल-सम्भवा वरम् अहो वाञ्छन्ति देहव्ययम् न व्रीडाक्षयम् एवम् अप्य् अथ दशाम् एतां गता मत्-पुरः । बीजं चात्र परन्तु मद्-विमुखताशङ्का ततः कुण्ठताम् उत्कण्ठा किरती विलोठयति माम् आसां निजाशर्मणि ॥३०॥ [शार्दूल]

[७७] तथाप्य् आसां सुष्ठु तन्-निष्ठां निष्टङ्कयितुं पङ्क-दर्शिनं मनो-रथ-स्पर्शिनं परिहासम् अप्य् अतीव स्पष्टयितुं चित्तम् इदम् उत्कण्ठते । यदा गता अपि सङ्कोचावगाहतः परस्परम् आहत-प्रकाशावयवा एव तिष्ठन्ति इति ।

[७८] प्रकाशयन्न् उवाच—अरे रे, चपलाः, कथं भवन्तो हसन्ति? एताः खलु नग्निका एव कथं नग्निका-भावे दोषम् अर्हन्ति?इति ।

[७९] अथ पुनर् वस्त्र-कदम्बं कदम्ब-स्कन्ध-सन्धि-विशेषे स-प्रत्याहारं तत्-प्रत्यक्ष-संवलिततया सन्धाय प्रेम-बन्धाय स-स्मितं ताः प्रत्य् एवम् आह स्म—[८०] दास्याङ्गीकार-कारणात् प्रदास्याम्य् एव तान्य् एतानि वस्त्राणि । किन्तु पूर्वम् अशक्य-निर्णयः, सम्प्रति तु निर्वर्ण्य निर्णीतः, सोऽयं सद्-गुरुतो यजत-नमतां प्राप्तवतीनां भवतीनां दुर्नयः सपदि मां विवर्णयन् वर्तते । तद् एतद् अवधार्यतां भवतीभिः—

शम्बरं प्रविविशे बिम्बाधरं यत् तद् एव जलदेवहेलनम् । छिद्रम् आवरितुम् अत्र तद्व्रते शीर्षभाक्करयुगं स नम्यताम् ॥३१॥ [रथोद्धता]

[८१] तास् तु तत्र सापत्रप-चित्ताश् च परम-भीति-भित्तास् तथाकार्यतयावधार्य पश्यत केऽपि शब्दायन्ते इति बालानां दृष्टीः प्रतार्य पतिर् एव देवता इति विचार्य स-परिहास-विलास-व्याजतस् तम् एव नमश्चक्रुः—स्वामिन्, नमस् तुभ्यम् इति ।

[८२] ततश् च कृष्णः स-कौतुक-तृष्णया तासां प्रति प्रतीकं सन्दृश्य, स्निग्धतां विदग्धताम् अपि परामृश्य, लब्ध-प्रसाद-मेलः खेला-वलितं चेलानि यथास्वम् अर्पयामास । यत्र च—दृष्टि-पथ-सेवनाद् एव भवतीनां पुष्टि-दीर्घतादिकं मम मुष्टि-गतं जातं, कथम् अन्यथा समर्पणं कुर्याम्? इत्य् एवं तुष्टिं ददानः स्व-विचक्षणतां लक्षयामास । किन्तु—

प्रातिकूल्य-वचनं च सौहृदाद् आनुकूल्यम् अभिगम्य शर्मदम् । पश्य वस्त्र-हरणादिना हरिः प्रत्युत प्रमदयाम् बभूव ताः ॥३२॥ [रथोद्धता]

[८३] ततश् च वृक्षाद् अवतीर्णवति तस्मिन्,

लज्जा-संवरणार्थम् असंवर-मधुर् बाला भृशं लज्जितास् तर्हि स्वाङ्ग-वृतिं दधुर् मुहुर् अहो व्यक्तान्तरङ्गारति । कृष्णाद् अल्प-विवृत्त-वक्त्र-कमलास् तस्थुर् दृगन्तः पुनस् तत्रागाद् व्रज-सुभ्रुवाम् अहह भोः कामस्य वामा गतिः ॥३३॥ [शार्दूल]

ततश् च—

भृङ्ग-श्रेण्य इवाम्भोजं रस-पूर्णं कुमारिकाः । भर्तृ-कामास् तदा कृष्णं वरीतुं परितः स्थिताः ॥३५॥ [अनुष्टुभ्]

[८४] अथ तेषु चाकरालेषु बालेषु—चल चल किंवा करणीयम् अत्र? इति कर-द्वयं वसनादि-परिकर-चयं चाकृष्य हृष्यत्सु वितरणीयं वरम् अम्बर-हारिताहारी हरिः स्वम् अनुसंहितवान् । ततश् च—

तासां विज्ञाय गोपालः स्व-कर-स्पर्श-काम्यया । धृत-व्रतानां सङ्कल्पं कल्पयामास सिद्धिदम् ॥३६॥ [अनुष्टुभ्]

यथा—

स्वस्यार्थः स तु यद् विभाति परतः स्वीयं समाराधनं मय्य् आविष्ट-मनास् त्व् अनादरम् अथाचर्यात्र मा बाधयति । तत्राद्ये स्वयम् अस्मि शश्वद् उपमा यूयं द्वितीये ततः सङ्कल्पो निरुपधिर् एष भवतीष्व् एवातिसत्यो मतः ॥३७॥ [शार्दूल] सर्पिर्-भृष्टम् आगुड-क्वथितताम् आप्ताश् च धाना यथा वस्यन्ते स्वयम् एव बीजवद् अमूस् तन्वन्ति नान्य-स्पृहाम् । मन्-मात्र-स्पृहिणां मदीय-भजनं नो तद्वद् अन्य-स्पृहं किन्तु स्याद् रसनीयरूपम् इति चेद् युष्माकम् आस्तां कथा ॥३८॥ [शार्दूल]

[८५] तद् एवम् आकर्णिनीर् वर-वर्णिनी सद्य एव गान्धर्व-पर्व सम्पद्यताम् इत्य् अभिप्रायतया सापत्रप-नयनाः स्वीकृत-मय-समयम् अपेक्षमाणाः प्रति समर्धकतया समर्धकतां गच्छन् पुनर् अच्छम् उवाच, यथा—

मिथः स्वीकारः स्यात् परिणय-विधिस् तत्-परिकारः परे ते ते धर्माः स पुनर् उदबोधि स्वयम् इह । अतो यूयं सिद्धा व्रज-गमनम् एवाद्य कुरुत क्षपायां कस्याञ्चित् किल मिलनम् अप्य् आशु भविता ॥३९॥ [शिखरिणी]

[८६] तद् एवं ताभ्यः प्रतिश्रुतवति तस्मिन्न् अधिकम् एव तासाम् आवेशो जातः । यथाह श्री-शुकः—

इत्य् आदिष्टा भगवता लब्ध-कामाः कुमारिकाः । ध्यायत्यस् तत्-पदाम्भोजं कृच्छ्रान् निर्विविशुर् व्रजम् ॥ [भा।पु। १०.२२.२८] इति ।

तथा हि—

अक्षिभ्यां वक्त्र-बिम्बाद् भुज-युग-रुचिभाङ् मध्य-भागान् नितम्बाद् ऊरुभ्यां जानु-युग्मात् पद-सरसि-रुह-द्वन्द्वम् आपुर् मुरारेः । व्रीडा-नम्राः स्व-दृग्भ्याम् अहह मृग-दृशस् तद्-वियुक्तौ तु तत् तत् पश्चाद् दृष्टं पदं तु प्रतिपदम् उदभूद् अन्तरे लग्नम् आसाम् ॥४०॥ [स्रग्धरा]
द्वे चित्तवाससी नीत्वा कुमारीणां परं ददे । न पूर्वं तु निराकारं गोपनीयम् अतीव सः ॥४१॥ [अनुष्टुभ्] यत् तर्ह्य् अन्तिम-घस्र-पूर्यम् अपि ता देव्य्-अर्चनं सन्-मदाद् विस्मृत्य व्रजम् एव जग्मुर् अभवंस् तेनैव पूर्ण-क्रियाः । प्रेम्णा यस्य तु तच् च तच् च लषितं तस्याथ साक्षात्-फलं कृष्णाङ्गी-कृति-शर्म चेद् ववलिरे किं शिष्टम् इष्टं परम्? ॥४२॥ [शार्दूल]

[८७] मधुकण्ठ उवाच—मासिकम् इष्टम् अनु मिष्टं मिष्टं भुक्तवती देवी कथम् इष्ट-दानार्थम् आगमनं मुक्तवती?

[८८] स्निग्धकण्ठ उवाच—

राग एव किल सिद्धि-कृद् आसां
नास्मद् अर्चनम् इति प्रतिपद्य । नागमद् वर-विधाव् इह दुर्गा
किन्तु राग-विषयः स्वयम् एव ॥४३॥ [स्वागता]

[८९] मधुकण्ठ उवाच—नूनम् एताश् च गर्गेणैव गोविन्दाद् अपेताः कृताः ।

[९०] स्निग्धकण्ठ उवाच—कृताः, किन्तु न साक्षात् ।

[९१] मधुकण्ठ उवाच—कथम् इव?

[९२] स्निग्धकण्ठ उवाच—यद्यपि साध्वी-शिरोमणि-रमणीनां राधादीनां दीनायमानानाम् आलोचन-सङ्कोचतस् तस्य पुनर् व्रजागमनम् अनु मनो न जातं, तथापि तद्-अनुसन्धानं विना व्रत-बन्धादि-द्वयं न सन्धातव्यम् इति श्री-व्रज-पति-जम्पत्योः कृत-निबन्धतया, राधादीनां वधूनाम् आभाद् उत्पन्न-मनस्कार-प्रतिबन्धतया च ताः परस्परया पराकृताः ।

[९३] मधुकण्ठ उवाच—तर्हि ताः कुमारिकाः कथम् आसन्?

[९४] स्निग्धकण्ठ उवाच—बहिः कौमारेण रहस् तु श्री-हरि-परिणीतता-व्यवहारेण।

[९५] मधुकण्ठ उवाच—सत्यं, बाल्यम् एव खलु पूर्वासां बोधस्य विरोधं कुर्वाणम् आसीद् इति विपरीत-रीतिर् जाता । कथम् इव ज्ञानोत्तराणाम् आसां सा भवेत्? इति ।

[९६] तद् एतत् कथां प्रथयित्वा कथकः श्री-राधां बोधयति स्म—

एवं बलानुजातेन यद् विलम्बावलम्बनम् । तद् बलं बलवज् जातं तव संवलनं विना ॥४४॥ [अनुष्टुभ्]

[९७] यत एव पूर्वं स्तब्धा वेणु-शिक्षा एन पुनर् आरब्धा । यत्र कथा-विशेष-प्रथनं पद्य-द्वयं साम्प्रत-लीला-मयम् अपि, शरदु-दाशये साधुजात [भा।पु। १०.३१.२] इत्यादिवत् तासां वचसा रसावहं स्याद् इति तद्-द्वारा श्री-परीक्षिच्-छिक्षा-गुरुणा निक्षिप्तं, तद् यथा—

यर्ह्य् अम्बुजाक्ष तव पाद-तलं रमाया दत्त-क्षणं क्वचिद् अरण्य-जन-प्रियस्य । अस्प्राक्ष्म तत्-प्रभृति नान्य-समक्षम् अञ्जः स्थातुं त्वयाभिरमिता बत पारयामः ॥ [भा।पु। १०.२९.३६]

इति तासां रास-रजन्य्-आरम्भे दैन्य-संवेदनं निवेदनम् ।

पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग- श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन । तद्-दर्शन-स्मर-रुजस् तृण-रूषितेन लिम्पन्त्य आनन-कुचेषु जुहुस् तद्-आधिम् ॥ [भा।पु। १०.२१.१७]

इति पूर्व-वर्णित-वेणु-वर्णन-मयम् ।

[९८] तद् इदं स्पर्श-द्वितयं कान्त-योगज-भोग-विशेषम् अयं न स्यात्, रास-रजन्यां वक्ष्यमाण-कृष्ण-प्रत्याख्यानायुक्तेः । रासारम्भ एव भगवान् अपि रन्तुं मनश् चक्रे [भा।पु। १०.२९.१] इत्य् उक्तेश् च ।

[९९] तद् एवं त्वयाभिरमिता [भा।पु। १०.२९.३६] इत्य् अस्य तु तत्-स्पर्शानन्तरं त्वया सर्वतो-भावेन प्रयुक्त-रत्य्-आख्य-भावा इत्य् एवार्थः सङ्गच्छते ।

[१००] तस्माद् अथेदं विव्रियते । तद् एवं दीर्घ-रात्रतया मन्दता-पात्रं हेमन्तार्धेन सार्धं शिशिरं निशि निशि वंशी-शंसितम् अभ्यस्यति तस्मिन् वसन्त आयातः ।

[१०१] स च सार्वत्रिक-चार्व्-अनुभवोऽपि वृन्दावने वृन्दारकताम् अविन्दत, यथा—

वसन्तति निदाघोऽपि वसन्तस्यात्र किं ब्रुवे । वसन्तं यत्र गोविन्दं सर्व-सन्तः सदा विदुः ॥४५॥ [अनुष्टुभ्]

[१०२] तथापि हेमन्त-शिशिराव् अपि तापद्-आपद्-आयतनतया यस्य यासां च प्रतिभासते स्म । तथा च तासां कृष्ण-कृष्ण-प्रेयसीनां प्रत्येकं भावना,

समागन्ता यर्हि प्रथमम् ऋतु-राजः सखि तदा ऋतूनाम् अन्यायं बत कथयितास्मीति लषितम् । तद् आस्ताम् एष प्राक् पर-भृत-शिलीवक्त्र-ततिभिर् वितर्जन्न् एवास्मान् अकृत-वृजिना धिक् प्रविशति ॥४६॥ [शिखरिणी] द्विरेफो बर्बरः प्रोक्तः पर-पुष्टश् च चेटकः । तौ चाग्रण्यौ मधोर् दृष्टौ याप्यता काप्य् अतः किम् उ? ॥४७॥ [अनुष्टुभ्]

किं च—

प्रसून-निकराः स्मितं सरसिजानि नेत्र-प्रथां पिकाः परम-पञ्चमं मधु-लिहां गनाश् चुम्बनम् । हरेर् निगमयन्ति चेत् क्व नु कुतः कथं वा गतिर् भवेद् अहह नः समं सपदि माधवीयैर् वृतम् ॥४८॥ [पृथ्वी] ऋतुराजः प्रणाय्योऽयं न्याय्यम् अत्र न विद्यति । प्रपलाय्य क्व वा यामः श्यामं नः स तु कर्षति ॥४९॥ [अनुष्टुभ्] धूमाः षट्-चरणा विसर्पि-खरता-स्पर्शा मृदु-स्पर्शनाज् ज्वालाः किंशुक-सञ्चया दिशि विदिश्य् अङ्गार-साराः पिकाः । भस्मान्य् अत्र पराग-पुष्प-पटलान्य् अग्निर् मधुश् छद्मना हा हा कृष्ण-घनं विना कथय को निस्तार-विस्तारकः? ॥५०॥ [शार्दूल]

[१०४] अत्र श्री-कृष्णस्यापि भावनेयं—

यदि न भवति गोप-सुन्दरीणाम् अयम् अथ मेलयितेति सम्प्रतीतिः । कुसुम-शर-शर-प्रणेतुर् अस्य स्फुटम् अनयत्वम् ऋतोः सहते को वा? ॥५१॥ [पुष्पिताग्रा]

[१०५] राधा-माधवयोश् च यथा—

राधा राधा-पदं मासि माधवे विधुतां विधुः । प्रिया-सङ्ग-कृते लब्धुं पौर्णमासीम् अवैक्षत ॥५२॥ [अनु]

[१०६] पुनः सर्वासाम् उद्वेगो यथा—

द्विजानां काकली तत्र वियोगे याग-सम्मिते । अजनि व्रजतन्वीनां धाय्येवाग्नि-समिन्धनी ॥५३॥ [अनु]

[१०७] अत्र वृन्दया शिक्षितः शुकः कश्चिच् छ्री-कृष्ण-पुरतः प्रजजल्प—

सहन्ते शशिनो ज्वालां वायोः क्ष्वेडं पिबन्ति च । राधादयो महाबाधा वैयग्र्याद् व्रजनायक ॥५४॥ [अनु]

[१०८] अत्र च कस्याम् अपि चम्पकलतायां श्री-राधया स्व-हस्तेन लिखितं पद्यम् इदं वृन्दा श्री-गोविन्दं दर्शयामास, यथा—

वृन्दावने तमालस् त्वम् अहं चम्पकवल्लिका । अगयोर् नौ मिथः सङ्गो वृन्दयैव न चान्यथा ॥५५॥ [अनु]

[१०९] तच् च दृष्ट्वा मुहुर् अपि नयनाभ्यां स्पृष्ट्वा कृष्णः स-तृष्णम् इदम् अचिन्तयत्—[११०] हन्त, भद्रां पद्मां नित्यम् आगच्छन्न् अपि भद्रां पद्माम् अद्यापि नागच्छन्न् अस्मि । श्यामलाभा-मधुरताम् अञ्चन्न् अपि श्यामलाभिलाष-विधुरताम् अञ्चन्न् अस्मि । नखर-विजित-चन्द्रावलीकताम् आप्नुवन्न् अपि चन्द्रावलीं प्रति लब्ध-तृष्णताम् आप्नुवन्न् अस्मि ।

[१११] हन्त हन्त, यद्यप्य् एवम् एवम्, तथापि क्रम-प्राप्त-सुललित-विशाखान्वित-राधतां आव्रजन्न् अप्य् अलब्ध-सुललित-विशाखान्वित-राधतां यदाव्रजामि, तद् इदं माम् अतिदुःखाकरोति । तस्या राधाया एव नूनम् इयं विदग्धता-निदग्ध-बुद्धेः पटीयसी परिपाटी इति ।

[११२] अथ माधव-पूर्णिमाम् आसाज्य, सर्वतो विरज्य च, पूर्ण-शिक्षा-विलक्षणं-मन्यमना माधवः किञ्चन दुर्गमं गहनम् अवगाहमानः परम-मुरली-धमन-लीलया धैर्यम् ऊनयन्न्, अमूः प्रधूयनति स्म; मुहुः प्रधर्षयन्न् आकर्षति स्म च, साधारणतया राधापि समागमिष्यतीति ।

[११३] राधा तु तत्र द्वित्र-प्रहरं चित्रवद् एवासीन् न पुनर् आकृष्टताम् अवलिष्ट पूर्वम् अन्येषाम् आकर्षणे ता इव ।

[११४] अथ श्री-वनमालि-शालि वृन्दावनम् इन्द्रनील-कान्तिभिर् वलितम् इव दृशा, यमुना-जल-परमाणुभिः परिचितम् इव त्वचा, मृगमद-परागैः स-रागम् इव नसा विचार्य, ताभिर् विवेश । ततश् च—

एका द्वित्राश् चतस्रो युत-वियुततया पञ्चषाः सप्त चाष्टौ पङ्क्तिस् तद्-वृद्धि-सङ्ख्या-मिति-रहिततमास् तत्र याताः समन्तात् । यस्माद् व्यक्तिः प्रपन्ना कलित-मुरलिकात् कर्षणी नाम विद्या तच्-छ्री-वक्त्रं निरीक्ष्य प्रतिहत-मतयः शर्मलीना बभूवुः ॥५६॥

[स्रग्धरा]

[११५] ततः स-मर्यादाश् च ताः सहसा हरेः समर्यादं सज्जमाना लज्जया तत्रावहित्थाम् अप्य् अवलम्बमानास् तस्य चरण-स्पृष्टि-प्रथमकं दृष्टि-पथम् अधितिष्ठन्ति स्म । तत्र च—

यद्यपि मुरहर-पुरतः किञ्चन न व्यञ्जितं ताभिः । तद् अपि विलक्षणम् एवाप्रथयद् अमूषां विलक्षणं भावम् ॥५७॥ [उद्गीति]

[११६] तद् एवं स च समात्मने तिष्ठमाना गोष्ठ-रमणीर् निरीक्ष्य क्षण-कतिपयं तल्-लक्ष्मी-निष्ठ-मना आसीत् ।

[११७] पश्चात् तु राधिका-सामानाधिकरण्यं विना निर्जनारण्यम् अपि सङ्गतास् ता भङ्गी-विशेषाद् अनङ्गी-कुर्वंश् चार्वङ्गीर् आयत्याम् अङ्गीकार-कारणावधारणाञ्चि किञ्चिद् व्यञ्जनया रञ्जयन्न् इव कञ्ज-नयनः पुनर् अकृत-स्पृहाय च गृहाय प्रहापयामास ।

[११८] तत्र भङ्गी-विशेषो यथा—

मया स्वभावान् मुरली निनादिता तस्माद् भवत्यः किल सङ्गता इह । अतः परीयुर् बत चेत् परे जनाः शङ्के ततः सुष्ठ्व् इति नात्र तिष्ठत ॥५८॥ [उपजाति १२] इति ।

[११९] रञ्जना यथा—

व्रजत बत निवृत्य द्राग्-व्रजं नाप्रतीतं कुरुत मयि न किं वः प्रीतिम् अप्य् अस्मि वेद्मि । अहह यदि न वेद्मि प्राण-सख्यस् तदा सा भवद्-अभिमत-सिद्धिं स्वेन शीघ्रं दधीत ॥५९॥ [मालिनी] इति ।

[१२०] यत्र तु तासां—

नातृपत् करुणा-दृष्टिर् नात्राप्सीत् प्रापिता श्रुतिः । नातार्प्सीत् प्रार्च्छिता नासा नातर्पीद् अर्पितं मनः ॥६०॥ [अनु]

[१२१] तद् एवं गीतं, यर्ह्य् अम्बुजाक्ष [भा।पु। १०.२९.३६] इत्यादि ।

[१२२] राधायां तु तत्र याम-द्वयं चेतना-विरामतः प्राप्त-बाधायां बन्धु-समवाये च निवृत्त-सर्वोपाये, तूर्णम् एव तद्-अभ्यर्णं पूर्णिमा वृन्दया सह विन्दमाना बभूव । विन्दमाना च कष्ट-भाग् अतिस्पष्टम् आचष्ट—

[१२३] यदि मद्-उटज-कुटजम् एताम् एकाकिनीं याम-मात्रायामम् अवसरं वासयथ, तदा मया नातिविरामया प्रतिकर्तव्यम् इति ।

[१२४] ततश् च सर्व-सम्मत्या कथम् अपि जातया तस्यास् तत्र सङ्गत्या स्फुरद्-अत्यावेश-मङ्गला मधुमङ्गलेन शार्ङ्गिणम् आनायितवती । आनाय्य चासनादिना सभाज्य स्मित-स्फुरद्-उपालम्भं सम्भाषते स्म—भवतु, भवता यत् कृतं तत् कृतम् एव । सम्प्रति तत्र सम्प्रतिपत्तिं विधेहि ।

[१२५] कृष्णः स-मन्दाक्षमम् उवाच—हन्त, कीदृशं कथम् इव?

[१२६] पौर्णमासी उवाच—आर्तानाम् अस्माकं बहु-वार्ता न वार्तत्वाय वर्तते, किन्तु निज-मूर्ति-स्पर्शतस् तस्या मूर्तिम् अपसारय ।

[१२७] कृष्ण उवाच—का सा?

[१२८] मधुमङ्गलः स-प्रणय-रोषम् उवाच—

अन्तरे वसति यस्य चञ्चला ज्ञायते न जलदेन तेन चेत् । व्यक्तिम् ईषद् अपि तर्हि सङ्गता गोप्यते किम् इति सा मुहुर् मुहुः? ॥६१॥ [रथोद्धता]

[१२९] पौर्णमासी तु स्मित्वा तस्य मुखं पश्यन्ती कृष्ण-मुखं पश्यति स्म ।

[१३०] श्री-कृष्ण उवाच—स एष वातुलतया तरलः कामं जल्पतु नाम, यद् असभ्यानाम् अभ्याख्यानम् एव च लभ्यम् । भवतीनाम् आज्ञा तु नावज्ञातुं शक्यते, किन्तु युक्तम् एव नियुज्यताम् ।

[१३१] वृन्दाह—गोकुल-कुल-पालक सर्व-गोकुल-कुल-विलक्षणा लक्ष्मी-लक्षणा सा भवत्-स्पर्श-परामर्शत एव बहिर् दर्शं प्राप्नोति चेत्, का तव हानिः?

[१३२] हन्त, हन्त—

कृष्ण चेद् बत राधायाम् उदासीनो भवान् अपि । उदास्स्व, किम् अहं तत्र कठोर-हृदया ब्रुवे? ॥६२॥ [अनु]

[१३३] क्षणं विभाव्य पुनर् उवाच—

सातिश्रीर् भवतात्याजि श्रीवक्षा न भवांस् तया । वयं तु सरला युग्मे युग्मं रोद्धुं न शक्नुमः ॥६३॥ [अनुष्टुभ्]

[१३४] कृष्णस् तुष्णीं स्थितवान् ।

[१३५] पौर्णमासी उवाच—व्रज-जन-व्रज-जीवन! वाचं-यमताम् आचरन् कथम् इव गिरं मम न सङ्गिरसे?

[१३६] श्री-कृष्ण उवाच—अधर्म एवात्र मर्म-भेदी भवतीति ।

[१३७] पौर्णमासी उवाच—अधर्मः खलु मया स्वीकृत एव, धर्मस् तु तव वर्धताम् ।

[१३८] श्री-कृष्ण उवाच—स्पर्शनं विनान्यद् अनुमन्यताम् ।

[१३९] वृन्दाह—दर्शनं तावत् क्रियताम् । तन्-मात्रेण सिद्ध-यात्रे सति परम-गुण-पात्रे भवति कथम् अन्यद् अथ प्रार्थयितास्महे?

[१४०] अथ—

देहेन्द्रिय-मनो-बुद्धि प्राणादीनां प्रियं प्रिये । त्वद्-अनादर-भाजो मे जातं सर्वम् अनादृतम् ॥

इति राधां प्रति चेतसि चिन्तयन्तं कृष्णम् अन्तः स-तृष्णम् अपि बहिस् तूष्णीकताम् एव पुष्णन्तं, मधुमङ्गलः कर-सरसिजे गृहीत्वा कुटज-कुञ्ज-गृहम् एव नीतवान् । नीत्वा च तत्-पर्यन्त-भुवि वृन्दां रक्षित्वा बाह्यम् अवगाह्य, पूर्णिमां संवाह्य तस्मिन्न् अन्ते-गुरुतया तत्रकीयं वृत्तं चित्रवद् ईक्षितवान् ।

[१४१] तत्र श्री-वृन्दा-वचनं यथा—

इन्दुर् इन्दु-भ्रमं याति दर्पणः प्रतिबिम्बताम् । मोहं पद्मालया यत्र कृष्ण तन्-मुखम् ईक्ष्यताम् ॥६४॥ [अनुष्टुभ्]

[१४२] ततश् च समावृताजस्र-पुलकास्रतया स च तद् आलुलोके, यथा चाद्यापि सख्यो गायन्ति—

तां रहसि गतां किसलय-शयन-शयानाम् । हरिर् आलोकत निज-मुरली-कलकलया चित्रित-भानाम् ॥ध्रुव॥ या निज-वदनामृत-रुचिना तन्-मुख-रत्नम् अजस्रम् । बहलम् असिस्रवद् इह यद् भातं प्रतिपद-सम्पतद् अस्रम् ॥ब्॥ यस्या हृदयं स्वान्तरम् अनु तत् कायं भज दव-कलितम् । बहिर् अपि तं प्रतिबिम्ब-व्याजाद् व्यानञ्जात्मनि वलितम् ॥च्॥ यस्यां दोष-त्रयम् इति मतिभिः प्रत्तं कुङ्कुम-रागम् । मेने मुररिपुर् अथ साक्षाद् इव यातं हृद्-गत-रागम् ॥द्॥ यां पश्यन् स तु सात्त्विक-भावं दधद् अपि चित्त-विकारम् । भेजे यत्र प्रतिकृति-कृद् अपि प्रतिकृतिर् इति च विचारम् ॥ए॥ स यया प्रतिकृतिताभ्रमम् आगाद् एवं भावन-शाली । भाव-परीक्षण-कृन् मे कृतकोऽप्य् एताम् इन्द्रक-जाली ॥फ़्॥ तद् अपि च यत्र स्पृहयन्न् अथ याम् एनां मेने राधाम् । वृन्दा याच्ञां प्रत्याचष्ट च दधद् अपि दुःखाद् बाधाम् ॥ग्॥ स पुनर् यस्या हेतोः शोचन् व्याजित-वृन्दा-वननम् । विदधे यद्द् हृदि निज-पद-पल्लवम् अभितो जीवन-जननम् ॥ह्॥६५॥ इति ।

[१४३] क्रमस् तु यथा, तत्र तस्य च दुर्निवारं विकारं निशाम्य काम्यमानम् अर्थम् एव वृन्दा प्रार्थयामास—श्री-व्रज-युवराज ! परम-प्रेमवती खल्व् असौ, यतः—

हन्त कृष्ण तव यौवन-स्थितौ भोग-तर्षम् अनुमाय तन्-मयम् । दुःखम् आत्मनि विकृष्य सन्ततं स्वीय-शर्म विजहाव् इयं रमा ॥६६॥ [रथोद्धता]

[१४४] तद् एतद् अवधाय भवान् अप्य् एतद्-अर्थं वेणु-वादनादिकं कुर्वन्न् एवास्ते, तस्माद् अवधानं सन्धाय समाधीयताम् ।

[१४५] श्री-कृष्णः स-गद्गदम् उवाच—किं कर्तव्यम्?

[१४६] वृन्दाह—हस्तम् एव हृदि विन्यस्तं कुरु ।

[१४७] श्री-कृष्ण उवाच—तद् एतद् अत्यनुचितम् ।

[१४८] वृन्दाह—तर्हि चरणम् एव तथाचर ।

[१४९] श्री-कृष्णस् तुष्णीं तस्थौ ।

[१५०] वृन्दा पादयोः पतन्ती—हन्त, मा विलम्बम् अवलम्बस्व इति काकु-व्याकुला तयोर् एकं बलद् इव तस्या हृदि संवलयामास ।

[१५१] कृष्णश् च कम्प-सम्पदा पदारविन्दं सन्दधद् एव वैवश्य-वश्यतां विन्दति स्म ।

[१५२] ततश् च सञ्जीवनी-पल्लव-विन्यासवत् तल्-लव-स्पर्शत एव चक्षुः-पुट-युगम् उद्घटय्य तया स एव दृष्टः ।

[१५३] तदैव च—

सुभ्रुवो मुररिपोश् च दृग्-द्वयं बिम्ब-दम्भम् अविशत् परस्परम् । शोभया व्यतिविलोभतः स्फुटं ताव् अमुष्य परिवृत्तिम् ऐच्छताम् ॥६७॥ [रथोद्धता]

[१५४] तदैव स चात्रकीयापत्रपातः शिरसि वसनावरणः सहसा निर्गम्य पूर्णिमां प्रणम्य च चलित एवासीत् । किन्तु स्खलन्न् इव चलन्, कर्मणा नर्मणा च मधुमङ्गल-दत्तावलम्बः सखि-कुलं संवलते स्म ।

[१५५] सा च स्वप्नम् इव पश्यन्ती वैवश्यत एव समुत्तिष्ठन्ती, निरक्षर-सूक्ष्म-रोदनं चानुतिष्ठन्ती यदा वृन्दया सादरं कृतसान्त्वा, तदा दरसान्त्वा पूर्णिमां नत्वा वृन्दया सह सुहृत्तमेक्षित-तद्-आगमे तस्मिन्न् अपराह्नेतमे व्रजं गत्वा, कथम् अपि समय-कतिपयान् गमयामास ।

[१५६] तद् आरभ्य तु स खलु परस्परं स्पर्शोऽयं स्पर्शायैव परं सञ्चकॢपे,

[१५७] यतः सकृत् तादृशं सुखम् उपलभ्य क्षणात् तद्-वियुक्तया तया कथम् इव प्रथमानं दुःखं स्तभ्यताम्? तत् तु सुखं स्व-संवेद्यम् एव, न तु निवेद्यम् । तथा हि—

तयोर् यावस्थासीद् व्यतिमिलन-शर्म प्रसजति कविः को वा तां स्यात् कवयितुम् इह स्वल्पकम् अपि । ययोः काश्मीरं तत् पतितम् अपि पारस्परिकम् अप्य् अहो पौलिन्दीनाम् अपि तद् इव शश्वद् व्यतनुत ॥६८॥ [शिखरिणी]

[१५८] तद् एवं यदा हरेः पदारविन्दं विन्दमानानि कुङ्कुम-पङ्कानि कृत-तद्-अङ्कानि पुलिन्दी-जातालङ्कारतया जातानि, तदानीम् अन्यासां धन्यानां पूर्ववद् पूर्वानुभव-रचन-पूर्वकं वचनम् इदम्, पूर्णाः पुलिन्द्यः इत्यादि । [भा।पु। १०.२१.१७]

[१५९] अत्र चेदं व्यञ्जितम्—

आस्तां सा दयिता यदीय-कुच-युक् श्री-कुङ्कुमं तत्-पदं प्राप्तं तत्-तृणम् अप्य् अहो विजयतां साक्षात् तु तत्-सङ्गि यत् । अस्मत्तस् तु पुलिन्द-जाति-सुदृशां भाग्यं च दूरे स्थितं यास् तत् प्राप्य निजाङ्ग-लेपन-सुखाद् आसेदिरे पूर्णताम् ॥६९॥ [शार्दूल]

[१६०] अथ कथकः समापनम् आह स्म—

स ईदृक्-प्रणयी लब्धस् त्वया राधे पुरा तु यः । नाना-मनोरथं चक्रे रथवद् भवद्-आप्तये ॥७०॥ [अनु]

इति श्री-श्री-गोपाल-चम्पूम् अनु

कुमारी-वस्त्र-हरण-सुकुमारी-समस्त-कर्षणं नाम

एकविंशं पूरणम्

॥२१॥

(२२)

१८। अथ द्वाविंशं पूरणम्

२६। यज्ञ-भार्या-सद्-उपचर्या-पर्याप्तिः [१] अथ प्रभात-कथायां प्रभात-प्रथायां मधुकण्ठः स्फुरद्-उत्कण्ठस् तल्-लीलान्तरं शंसन् शंसद्-उपलब्धं कर्तुम् आरब्धवान् ।

[२] तत्र श्री-दशम-स्कन्ध-प्रबन्ध-सङ्गमन-मङ्गलाचरण-पूर्वकं तत्-कथनम्, यथा—

गत्वा काम्यकम् अद्रि-धातु-रुचिमुक् कुर्वन् व्रजं दक्षिणं घर्मर्तौ धवलानिखव्रशततृड्-निर्जिष्णु-कृष्णां व्रजन्। वृक्षान् सुष्ठु पथि स्तुवन् धवलया पीतां च कृष्णां पिबन् क्षुद्-व्याजाद् अधियज्ञ-पत्नि-करुणा-कारी हरिः पातु वः ॥१॥

तथा हि—

अथ गोपैः परिवृतो यशोदानन्द-नन्दनः । वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः ॥२॥ निदाघार्कातपे तिग्मे च्छायाभिः स्वाभिरात्मनः । आतपत्रायितान् वीक्ष्य द्रुमान् मित्राण्य् अभाषत ॥३॥ [भा।पु। १०.२२.२९-३०]

[३] तत्र च मेघ-निर्घोष-निभ-गम्भीरता-सम्भृत-मधुर-स्वरत एव हर्षम् उत्कर्षयन् मित्र-मुख्यान् प्रत्येकं रचिताभिमुख्यांश् चकार । यथा—

हे स्तोक-कृष्ण हे अंशो श्रीदामन् सुबलार्जुन । विशाल र्षभ तेजस्विन् देवप्रस्थ वरूथप ॥ [भा।पु। १०.२२.३१]

[४] तत एव च तान् अमृत-कृताभिषेकान् इव कृत्वा स-कौतुकम् उवाच—मां सुखयन्तु एवाभिमुखतस् एते तरवो विराजन्ते, तस्माद् भवद्भिर् विलोक्य पृथक् पृथग् उपश्लोक्यन्ताम् ।

[५] सर्वे विहस्य प्रोचुः—भवान् एवास्मासु विस्मायकतया कवि-मण्डलाखण्डल-गण्ड-मण्डनम् अस्ति । तस्माद् आत्मनैव वर्णयतु ।

[६] कृष्णः स-स्मितम् उवाच—श्रूयतां नाम—

एतेनाङ्गत एव किन्तु गुणतोऽप्य् अद्धा महान्तो मता यत् तापादि-निवारणैः स्व-वपुषो जीवानवन्तः स्थिताः । एषाम् एव च जन्म यत् तु फलवद् दृश्येत तच् चेत्थम् अप्य् ऊहध्वं यद् अशेष-जीवनतया राजन्त्य् अमी सर्वतः ॥४॥

किं च—

फलैः पुष्पैश् छाया-च्छदन-समिद्-आद्यैश् च तरवः स्वभावाद् विश्वेषाम् उपकृति-विधा धन्य-तनवः । नराः कर्ह्य् अप्य् एके विधि-वशतया तत्-कृति-कृतस् ततो भक्ताः पूर्वे सुकृतम् अनु भाक्ताः किल परे ॥५॥

[७] अत्र वृन्दावन-वास्तव्यता पुनर् एषां स्तव्यताम् अप्य् अतिक्रामति इति गूढम् अभिमतम् ।

[८] सर्वे स-स्मितम् ऊचुः—कवि-चक्र-चक्रवर्तिना भवता न किं वा सुप्रशस्तङ्करं भविता, ततो यद् एव योजयिष्यते, तद् एव विजेष्यते । तथा हि—

वाचो-युक्ति-पटुर् यत्र त्वं वदावदतां गतः । वाचस्पतिश् च तत्र स्यान् न वाचः-पतिर् अण्व् अपि ॥६॥

[९] कृष्णोऽपि स-स्मितम् उवाच—भवतु, कदाचिद् एतद् अप्य् अनुभविष्यथ इति नाना-सुख-वितरकर-पुरुह-भूरुहाणां वन्यया मिहिर-कन्या-तीरम् उदन्यया मुदा जगाम । तत्र च—

व्यज्जन्न् अङ्घ्रिप-शंसन-स्ववचनं यज्ञाङ्गनानुग्रहं चात्मीयागमि भोज्य-वर्त्म स यदा सन्त्यज्य कृष्णां गतः । तर्हि स्वच्छतरा हिमाः शुभ-कराः स्वादूर् अपः पीतवान् अघ्न्यानां निकरस् ततः स्वयम् अपुर् गोपालकास् तन्-मुखाः ॥७॥

[१०] ततश् च विदूरं समुज्झितातलिन-फलिनतर-तरु-व्रजस्य व्रज-राज्ञी-प्रहित-माध्याह्निक-भोज्य-सम्पत्ति-वियोज्यता-भाग्-उपसत्तिकस्य कृष्णस्य तत्-तृष्णतां वितर्क्य तद्-भाव-भाविततया स्वयम् अप्य् अतीव तत्-तृष्णा-भाजः स्तोककृष्णादयस् तद्-अभाव-भावना अपि प्रणय-मय-पर्युत्सुकतया व्यञ्जित-तत्-कृत-भोजन-वर्त्म-वञ्चनाः कराञ्चल-चालन-पूर्वकं तद्-याच्ञाम् अकुर्वत—

राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण । इतोऽविदूरे सु-महद् वनं तालालि-सङ्कुलम् ॥ [भा।पु। १०.२३.१]

[११] कृष्णस् तु स-स्मितम् उवाच—अत्रालोक-पथाशोक-वनिकायाम् अनशनीय-प्रसवायाम् अशनायन्तस् ते भवन्तः कुत्र वा प्सातव्यं लप्स्यन्ते ?

[१२] आर्तिश् चेद् वरिवर्ति, तर्हि निकटाम् अपि कुटिलया सूरतनया-घटनया दूरायमाणाम् इतस् तु दक्षिणाहि या शूरसेन-पुरी, ताम् उत्तरेण निरवज्ञं यज्ञ-शाला-मालाम् आलोकयन्त एवानेन सम्यग् उपतिष्ठमानेन पथा प्रतिष्ठध्वम् । गत्वा च तान् कार्मान् कर्मठाचार्यतमस्य मम च नाम्ना याचध्वम् । किन्तु भिक्षाकाणां तितिक्षा-मात्रम् उचितम् इति शिक्षा मनसि कार्या ।

[१३] अथ तेऽपि केऽपि संवलिताश् चलिताः । स्वयम् अयं तु तदीय-गत्यागति-दृष्ट्य्-अर्थम् उपनदं महा-कुट्टिमम् अधितष्ठौ । ततश् च—

सौरभ्यं धूम-धारा यजुर्-अनुपठनं शुभ्र-शाला द्विजानां गत्यागत्यादि-चेष्टाः शुभ-युत-हुतभुग्-वेदि-भाग्-ऋत्विजश् च । गत्वा नत्वाप्य् अभीक्ष्णं पुटित-करतया नादरेऽप्य् अस्थुर् एते यस्माद् ब्रह्मण्य-देव-स्वतुलित-सुहृदः किन्त्व् इदं मां दुनोति ॥८॥

[१४] ततश् च तान् प्रकृति-श्लेषेण केनाप्य् आकृति-विश्लेषेण वेषेण च गोपान् ज्ञात्वा विप्रता-गर्व-पर्वतम् आरूढास् ते तु व्यूढ-बहुल-स्थल-दृष्टयस् तिष्ठन्ति स्म । तथापि सखायस् ते कृष्णस्य बुभुक्षा-सुक्षामतां साक्षाद् इवानुभूय दूयमान-मनसः स्वयम् एव निवेदयामासुः । यतः—

हुं फट् श्रौषड्-वौषड् इत्य् एवम् आद्याः शब्दाः यस्मिन् न क्वचित् कृष्ण-मुख्याः । तस्मिंस् तेषां किं रुचिः स्यात् परन्तु श्री-कृष्णार्थं किं न ते मानयन्ति ॥९॥

[१५] अथ निवेदनं चेदम्—भो भो भूमि-देवाः ! किञ्चिद् एवावधानं विधीयताम्। राम-रामानुजौ खलु परम-प्रभाव-युजौ श्रुतवद्भिर् भवद्भिर् अवधारिताव् एव स्तः । तौ चात्र भवद्-विधानां सन्निधानम् एव धेनु-सेवनानुरोधाद् आगतवन्तौ । किन्त्व् अद्य सद्य एवानवद्य-क्रीडा-मय-शूरता-कौतुक-पुरतस् तत इतः सङ्गत्यासन्नापि प्रत्यासन्नापि श्री-गोपाधिभू-सदन-भूर् विदूरायमाणास्माकं भाति स्म। गृह-लोकेन च न तथालोचयाम्बभूविमहे । तत एव साक्षाल्-लक्ष्मी-पति-गृहायमाण-गृहाद् भोजन-संयोजनं विना क्रीडा-युधि च क्षुधिताव् अभूताम् । ततश् च कुल-परम्परा-प्राप्त-व्यवहारं पर्यायतया पितृ-पर्यायतया भवत्सु सङ्कोचम् अपर्यालोचमानौ पितृ-भवनाद् इव भवदीय-सवनाद् अन्नं याचितम् अकुर्वाताम् इति ।

[१६] अथ तथापि मनस्य् अभक्ति-रसिकता-वशिकतया तद् असत्-कृत्य तुष्णीम्-भुष्णुषु तेष्व् अन्तर्-वाणिं-मन्येषु तादृग्-अधन्येषु पुनर् अमी मनसि मीमांसयामासुः—[१७] नूनम् अस्मान् एते मूढान् मत्वा गूढानुभासणा बभूवुस् तस्माद् गत्य्-अन्तर-रचन-निषिद्ध-भावाय सिद्धान्ततश् चामीषां सुष्ठु मौन-बिद्धान्तस्तां कुर्म इति । [१८] अथ स्पष्टं पुनर् ऊचुः—

दीक्षाद्य्-अग्नीषोम-पश्वङ्ग-होम- प्रान्तं विज्ञैर् याज्ञिकान्नं न भोज्यम् । सौत्रामण्यां सर्वदा नेति विप्रास् ताभ्याम् अन्यत्रास्ति तद् ग्राह्यम् एव ॥१०॥ इति ।

[१९] तत्र-भवद्-भवद्-अनुष्ठान-दृष्टित एवास्माभिस् तद्-अवसरः स्फुटं निष्टङ्कित इति भावः ।

[२०] तद् एवं भिक्षा-निष्ठानाम् इव तस्मिन्न् उपतिष्ठमानानाम् अपि शास्त्रार्थं नयमानानां तद् अवधार्य ते वार्याचार्या मनसि पर्यालोचयामासुः—हन्त ! ब्राह्मणा एवास्माकम् एतान् ब्रह्म-विचारम् अपि विशिष्टतया लोभाद् अनुशिष्टवन्तः सन्ति । येन तत्रापि कृत-मुखतया मुखरताम् आपन्नाः । भवतु, तथाप्य् एते परमेभ्ययोपलभ्यमानाः किञ्चिद् दान-रूपम् अवदानं विना प्रत्युतादानाय परम् अत्रागताः । अहो ! कलि-प्रवेश-देशस्य देश-रूपम् इदम् ।

[२१] किं च, केचिच् च विपश्चितस् तयोर् ईश्वरताम् आरोपयन्ति । तर्हि बत गर्हितं क्षुधादिकं कथम् एतावर्हतः ?

[२२] तद् एतद् विभाव्य दुर्भाव-भावतया तथा स्थितेषु बहु-पचनतायाम् अपि मितम्पचेषु द्विर्जाततायाम् अपि यथा-जातेषु याज्ञिक-कितवतां यातेषु तेषु याच्ञायां वदनानता-कदनतः परस्परम् ईक्षित्वा मन्दं मन्दं मन्दाक्ष-मन्दतया श्री-गोविन्दम् एव ते विन्दते स्म ।

[२३] गोविन्दश् च तांस् तथाविधान् नेत्र-पथान् विधाय मनोहतान् विज्ञाय च हसति स्म—एहि मन्यामहे, याज्ञिकेभ्यः स्व-लभ्यम् अभ्याददिध्वे यथा वृक्षेभ्यः इति।

[२४] तेऽपि स-स्मितम् ऊचुः—तत् तु भवन्त एव जानन्ति, वयम् अपि यत्-प्रेरण-समीरण-विकीर्ण-मनसो जाताः ।

[२५] कृष्णस् त्व् अन्तर् यज्ञ-पत्नीनां स्वावलोक-प्रयत्नानां सञ्जानंस् तत्र चावश्य-लाभं प्रतिजानानः प्रहस्य प्रोवाच—आ एवं मन्यध्वे तर्हि भद्रम् । मया तु पत्रिणाम् एषां सत्रिणां च तेषां तारतम्यावधारणार्थम् एव तत्र-भवन्तः प्रस्थापिताः । ततश् च—

अमानिनां यथा धर्मः स्थितस् तद्वन् न मानिनाम् । अद्यापि चेन् न प्रतीथ द्राक् तत्-पत्नीः प्रतीत च ॥११॥

[२६] भवन्ति च भवन्त इव यज्ञ-पत्नी-जना मत्-प्रेम-मात्र-सयत्न-धनाः । ये खलु धृत-मद-नव-लोक-धर्मं द्व्यह-तर्षं जलं पिबन्ति, त्र्य्-अहात्यासं द्वित्र-ग्रासं भुञ्जते ।

[२७] सर्वे स-वैलक्ष्यम् आचक्षत—हन्त सत्यम् एवेदम् ।

[२८] कृष्ण उवाच—बाढम् ।

[२९] सर्वे साश्चर्यम् ऊचुः—तर्हि कुतुकम् इदं विदाङ्कर्वाम ।

[३०] इति कृष्णोद्यम् अनु सोद्यमतया तत्र तन्-निमेषत एव जिगमिषत्सु तेषु स-प्रणयवत्सु कृष्णः स-तृष्णम् उवाच—अन्नं च तत्र श्रीमद्-आर्यादि-सहित-मद्-अर्थम् अर्थयध्वम् ।

[३१] अथ पुनर् अतीव कौतुक-द्रवतः परस्परम् अतीत्य द्रवनः पत्नी-शालायां द्विज-पत्नीर् विलोकयामासुस् ताभिर् विलोकयामासिरे च, कृष्णात् प्रति च इति च निश्च्क्यिरे ।

[३२] विलोकनात् पूर्व-क्रमस् तु यथा—

सा कापि ध्वनि-माधुरी-स्वर-कला-राग-वल्ल-वल्गुता वर्ण-न्यास-शुभंयुता कवि-जन-स्तव्यार्थ-चित्र-प्रथा । कंसारेर् गुण-रूप-केलि-कलना बाष्पादिभिः सार्द्रता यज्ञ-स्त्री-कलिता क्रमाद् इह सखीन् आर्द्रान् अकार्षीन् मुहुः ॥१२॥

[३३] ततश् च ताः—

गवाध्व-सम्बन्ध-निबन्ध-वस्त्रवान् प्रशस्त-वेत्रान् मुरली-पुरस्कृतान् । पिञ्छावतंसान् अवतंस-सुन्दरान् विलोक्य कृष्णागम् अप्य् अमंसत ॥१३॥ ततश् च यत् कृष्ण-समागमं ते व्यजिज्ञपन् विज्ञ-वराः प्रणम्य । तास् तद् द्विरुक्तायितम् अप्य् अपूर्वं पूर्वं च मत्वा न विदुः स्म कृत्यम् ॥१४॥ यस्याजस्र-दिदृक्षया विदलित-प्रायाः सदामूः स्थितास् तस्य प्राण-सुहृद्-वराः स्वयम् अमी तत्-प्रेरणाद् आगताः । तत्-सम्प्राप्तिम् अवादिषुः पुनर् अदः प्रार्थ्यं च किञ्चित् तद् अप्य् अन्नं तत्र कथं कथं कथय ताः प्राप्स्यन्ति धैर्य-स्थितिम् ॥१५॥

ततश् च—

योग्यम् अत्र किम् अयोग्यम् इत्य् अमू- नेयभोज्य-विवृताव् अनिर्णयाः । तत्-तदीयम् अखिलं च भाजनं क्षिप्रम् आददत विप्र-सुभ्रुवः ॥१६॥ अथ पुरस्कृत-गोप-सुतायुता विविध-भोजन-भाजन-मस्तकाः । प्रतिपद-क्रमणं कियद् अग्रतः स इति तर्षि-गिरः परिचक्रमुः ॥१७॥ आमोदः कान्ति-पूरः सुखददपदता गर्जद् ऊर्जस्वि-भाषा विद्युद् विद्युद्-घन-श्रीः स्मित-वदन-विधु-द्योत-लक्ष्मी-प्रचारः । आयान्त्व् इत्य् उक्ति-हस्त-प्रथन-मधुरिमा यत्-क्रमाद् आविरासीत् कंसारातेस् तद् आसां प्रतिपदम् उदभूद् बाढम् आकर्षणाय ॥१८॥ यामुने समम् अशोक-कानने गोपकैः स विहरन् मुदान्वितः । ऐक्षि भूसुर-वधूभिर् ईक्ष्यतां ध्यानम् एव गतम् इत्य् अमानि च ॥१९॥ यत्र भूसुर-भार्यास् तं सुर-भाव्य-पदं ययुः । अशोक-काननं तत् तु बभूवाशोक-काननम् ॥२०॥

[३४] ततश् च ताः सपुलक-पुलकतया तम् अवलोकयामासुः ।

[३५] तथा हि लोकानां गीतम्—

कृष्णम् अपश्यन् पीत-दुकूलम् । बिभ्रतम् अर्चिततमम् अर्चिर् नव-घन-चपलारुचि-मूलम् ॥ध्रुवम्॥अ॥ शिरसि शिखण्डावलिम् उरसि स्रजम् अपि दधतं गिरि-धातुम् । इन्द्रधनुर् युग-मध्य-मधुरतर-सन्ध्यां धुर्वम् अतियातुम् ॥ब्॥ उदयद्-अरुण-दर-किरणं तम इव विरचित-चिरतर-शोभम् । नव-किसलय-दल-वलितं कच-कुलम् अनु कलिताखिल-लोभम् ॥च्॥ भालोपरि-मिलद्-अलक-ततिं श्रुति-कुमुदम् उदञ्चि कपोलम् । स्मित-मुखम् उपमित-लक्षण-तारा-युग-धर-शशदर-गोलम् ॥द्॥ कृत-नट-वेष-विशेष-विलक्षण-लक्षण-क्षणम् उपचित-रूपम् । कर्तुम् इवामृत-वृष्टिम् उदितम् इह कञ्चन जलधर-भूपम् ॥ए॥ चित्रं तत्र च मित्र-स्कन्धार्पित-बन्धावर-हस्तम् । निर्मल-कमल-विधूनन-दक्षिण-दक्षिण-कर-रुचि-शस्तम् ॥फ़्॥२२॥ इति । श्रुत्वा शश्वत् स्फुटम् अहह यं द्रष्टुम् आशा निबद्धा स द्राग् ऐक्षि स्वयम् इति गतस् तत्-कृतस् ताप-वर्गः । यः कश्चिद् वा व्यवहिततया तस्य लेशस् तु शिष्टः सोऽप्य् आवेशान् मिलन-तुलितात् तासु न स्फूर्तिम् आप ॥२२॥

[३६] अथ भोजन-भाजनानि शिरस्तः-कृत्य स्थितासु तासु सकल-भाव-विचक्सणः स्मितावलोक-लक्षण-स्वमुख-माधुर्य-धुर्यः सुविचार्य यस्य कृते प्रयस्यन्ति स्म, तास् तद् एतद् अवधार्य तासां वाञ्छितं किञ्चिद् अञ्चयन् वञ्चयंश् च काञ्चन-वसनः काञ्चन वाचम् उवाच—स्वागतं वो महाभागाः [भा।पु। १०.२३.२५] इति प्रायश् चायम्म् अस्याभिप्रायः—

अहो बत महाभागा युष्माकं भूरि-भारता । जाता सङ्कोचयत्य् अस्मान् पृच्छध्वे स्वागतं ततः ॥२३॥ इति ।

[३७] तद् एवम् एहि-स्वागतां क्रियाम् आचर्य तत्-प्रत्युत्तर-सङ्कथने तासां सङ्कोचं विचार्य पुनर् उवाच आस्यताम् इति ।

[३८] अस्य चायम् अभिप्रायः—

स्वागत-पृच्छादिकम् अपि विश्रम-कार्यं विलम्बितं तनुते । तस्मात् तत्-परिपाटीम् अजहां भवतीभिर् आस्यताम् एव ॥२४॥ इति ।

[३९] ततश् च प्रणय-प्रणेयतया विख्यातः सोऽयम् आसाम् असङ्कोचाय स्वयं भारम् अवतारयन्न् एव समुपविशन्न् एव च ताः सदेश एव समुपवेशयामास ।

[४०] पुनर् उवाच च—करवाम किं इति ।

[४१] अत्र चेदं निवेदनम् इव विभावितवान्—

अस्मान् यम् उपकर्तुं वाञ्छति तद्-ऋते स तु सङ्कुचन्न् आस्ते । इति सङ्कुचितात्मानः स्वयम् अनुजानन्तु तत् तु भू-देव्यः ॥२५॥

[४२] अथ तासाम् आत्म-दर्शन-मात्र-वाञ्छा-विमर्शन-पूर्वम् उवाच—यन् नो दिदृक्षया प्राप्ता उपपन्नम् इदं हि वः [भा।पु। १०.२३.२५] इति ।

[४३] अत्र चायम् अर्थः—

अस्मद्-दर्शन-मात्रं यद् वोऽभीष्टं तद् एव युक्तं च । तत्र हि हेतुर् यूयं तादृश-सुष्ठु-स्वभावाः स्थ ॥२६॥

[४४] अथ तस्य स्वभावस्य सुष्ठु-भावत्वं विभावयन् पुनर् उवाच—

मद्-विषया वः प्रीतिः कौशल्याद् एव नान्यतः सचते । यन् मयि कुशलाः सर्वे वीक्ष्यन्ते प्रीति-कर्तारः ॥२७॥

[४५] तत्र कुशलानां कैमुत्यं प्रत्यायन्न् उवाच—

पश्याम्य् अहम् इह सर्वं मत्-प्रेमांशाद् अशेषग-प्रीतिम् । निरुपधि यन् मयि जन्तुः प्रीणात्य् अन्यत्र सोपाधि ॥२८॥

[४६] तद् एवं साधारणतावधारणं तथा सन्निधान-स्थिति-विधानम् उपसीदत् प्रत्याचक्षाणः प्राह स्म—

सर्वत्र तु मत्-स्फूर्तिर् न भवति बत सर्वदेति पूर्तिर् नः । भवतीर् अनु सा नित्या यैव च मत्-सन्निधान-रूपैव ॥२९॥ तस्मात् पति-सुत-वलितं निलयं त्वरया प्रयात ता यूयम् । मम च ततः सुखम् उच्चैः सामञ्जस्यं हि सर्वतो वश्मि ॥३०॥

[४७] तद् एवं व्रजदेव-कुमारतः श्रुतं सुकुमारम् अपीदं वचनम् आपात-सम्पात-हीनतया दुःसह-रचनं मन्यमानाः प्रतिवचनम् आचेरुः—

एतत्-प्रकारम् अपि नार्हसि वक्तुम् ईश प्राहुर् भवान् इव भवान् इति तत् प्रसीद । सत्यं कुरुष्व करवाम किम् एवम् अङ्गी- कारं निजाङ्घ्रि-परिवार-दशां दिशस्व ॥३१॥ विहाय सुहृदः परान् व्रज-नरेश-गेहेश्वरी- पदाम्बुजम् उपाश्रिताः परिचरेम तं त्वा सदा । इमां वचन-चातुरीं बत तुरीय-पूर्तिं गताम् उरीकुरु पुरु-श्रवः श्रवण-मङ्गल श्रीपते ॥३२॥

[४८] अथ विकचमान-कमल-समान-लोचनः सङ्कोचम् अनयं चालोचमानः सवैनयम् उवाच—

यथा वो बान्धवा नाभ्यसूयेरन् न च मज्जनाः । सुरेशाश् चानुमोदेरंस् तथा कुरुत नान्यथा ॥३३॥ युष्माकं विप्र-भार्याणां परिचर्यार्थम् आहृतिः । केनापि नानुमोद्येत प्रतीक्ष्य समयस् ततः ॥३४॥

[४९] तद् एवं लोचन-तृष्णास्पदाय च कृष्णाय ताश् चिर-स्थिरतां प्रत्यरोचमानास् तस्य सङ्कोचम् आलोचमानास् तत्र नातिविलम्बमानास् तद्-आज्ञाम् आलम्बमानाः पत्रामत्रादिषु भोज्यं संयोज्य निज-कुप्य-पात्राण्य् आददमानास् तेन सादरं विसर्जमानाः सखिभिर् अनुव्रज्यमाना मुहुः परावृत्य तम् एव विलोकमाना भृशं संवर्धि-कृच्छ्रं कलयमानाः कथं कथम् अपि गृह-गतिं प्रति सचमानाः स्व-वंश-प्रथमानां यशः-प्रथां प्रथयमाना वेश्मान्तः प्रविशन्ति स्म । किन्तु—

यां याम् आशाम् अहह वनितास् ता द्विजानाम् अपश्यन्न् आशा-पूर्तिं प्रतिपद असाव् आचरत् तासु शीघ्रम् । सा हि श्यामं कनक-वसनं वीक्षिताकारम् आसां वारं वारं दृशि विदधती चित्र-भावं चकार ॥३५॥

[५०] एवं चिरेण गृहं गृहीतवतीषु तु तासु—

अन्न-पात्राणि पात्राणि रत्नानां वीक्ष्य सक्षणाः । गृहाणि च गृहाधीशा न हीशामासुर् ऊहितुम् ॥३६॥

[५१] अनन्तरं तु—

बाल्य-क्रीडा-कृईत-फलेनानेन मणि-पूरितान् । स्व-गृहान् वीक्ष्य ते विप्राः स्व-पत्नी-मतिम् अन्वयुः ॥३७॥

[५२] ऊचिरे च—

तस्मै विश्व-जनीनाय यास् तद्-भोगीनम् आहरन् । ता एवासन्न् आत्मनीना दीनास् तु बत मादृशाः ॥३८॥ मा जीवन् यस्य कृष्णाय क्रमते चक्षुर् आदि न । म्रियमाणश् च मा यस्य तस्मै तन् न प्रवर्तते ॥३९॥ स किञ्जीवः स कुब्रह्मः सुपर्व-हतकश् च सः । राजीव-नयनं यस् तु नाजीवनतया भजेत् ॥४०॥ अथ कृष्णाय तृष्णां ते दधुर् वृष्णि-पुर-द्विजाः । किन्तु धृष्णक् कंस-भिया नाजग्मुः कृष्णम् ईक्षितुम् ॥४१॥ एकेन केनचित् पूर्वं भार्यामार्यातिगम् इव । निवार्य वार्यतालब्धा वार्यतायाम् इति श्रुतम् ॥४२॥

[५३] ततश् च तेषाम् उचितम् एव, यतः—

क्षणाद् उच्चैः क्षणान् नीचैर् गति-भाजां कनीयसाम् । रेणूनाम् इव कार्माणां विषमा रीतिर् ईक्ष्यते ॥४३॥ पूर्वी कृष्णस्य सेवायाम् इष्टी वा तत्र यः सदा । अधीती वा भागवते भक्त-पूर्वी स तं भजेत् ॥४४॥

[५४] तत्र च तैर् भोज्य-मधुरादिभिर् उपयोज्यमानः श्री-कृष्णं मधुमङ्गल उवाच—सुष्ठु मिष्टम् इदं पाकिमतापन्नम् अन्न-जातं याचित कम् अप्य् अमृतायते । नेदृशम् आपम् इत्य् अकम् अमृतं वा । यत् खलु भूमि-स्खलितं सरजसं कणम् अप्य् अभ्यवहर्तुम् ईहामहे । तस्माद् अस्माकम् एव पर्णशालाभ्यर्णे ताः कुटीर् विधाय तिष्ठन्तु, तत्-कृत-मधुर-परिपाक-पाक-शाक-सूप-पूप-पूटीस् तु सवयसो वयम् एव युष्मभ्यम् उष्णाः कोष्णा एव समर्पयिष्यामः । तत्राप्य् आह प्राग्रहरतया प्राग्रहर एव भविष्यामीति स्थिते को वायं दोषः । किन्तु रोष-भिया न वक्तुं शक्ताः स्म ।

[५५] कृष्ण उवाच—आद्यून नूनम् उन्मदिष्णुतयापत्र-पिष्णुताम् अप्य् अतिचरिष्णुर् जातोऽसि ।

[५६] अथ सर्वेऽपि हसन्तः प्रोचुः—प्रिय-वयस्य ! यद्य् अप्य् असौ परान्नतारोचनम् आपन्नस् तर्हि स एष एव तुन्दपरिमृज इव विप्र-सुन्दरीणां तासाम् उपासनां घटयमानस् तद्-बाट-तटगम् उटजम् अधितिष्ठन् सम्भवद् आशितम्भवान् मिष्टम् इष्ट-विघस-भोजनान् निजम् इष्टं रचयतु ।

[५७] कृष्ण उवाच—साधूक्तं व्यक्तम् इदं भगवती-विदितं विधास्यामः ।

[५८] मधुमङ्गलस् तु स-क्रोधम् इवोवाच—युवराज! गर्धनतया कुक्षिम्-भरयस् ते एत एव मुहुर् अशनायां स्मरयन्तः सर्वत्र च घस्मरा एव भण्यन्ते, भिक्षायाम् अक्षाम-समुद्यमतया सर्वान्नीनाश् च लक्ष्यन्ते, न तु वयम् ।

[५९] सर्वेऽप्य् ऊचुः—वावदूक ! विप्रतया भवान् एव यायजूकतायां जञ्जपूकताम् आसीदन् पुरोभाशानां दन्दशूकस् तद्-आस्वादाय जागरूकताम् आसादयति । अस्माभिस् तु भवज्-जातेर् द्विजातेः परीक्षैवाचरिता इति ।

[६०] तद् एवं हसत्सु सखि-सभासत्सु स्वयम् आशितम्भवेनोदन-सम्भारेण भुक्त्वा सुहितः सर्व-हितः श्रावित-वेणुर् धेनुः प्राप्य तत्-तत्-कथा-कौतुकतस् तद्-अर्थम् अनुगवम् आसादित-दृष्टि-व्रजं श्रीमद्-व्रजम् अवाप्य निज-विरह-दहनं निर्वाप्य स्वक-रूपामृतेनाप्याययामास ।

[६१] सखायस् तु याज्ञिकेषु जग्मिवांसो जक्षिवांसश् च वयम् इति सङ्कोचेन न कञ्चिद् अप्य् ऊचिवांसश् च ।

[६२] अथ कथकः कथा-समापनम् आह स्म—

सोऽयं श्री-गोकुलाधीश कुलाधीशस् तवोदितः । आकर्षणाद् गुणा यस्य सर्वान् अनुगुणान् व्यधुः ॥४६॥

इति श्री-श्री-गोपाल-चम्पूम् अन्व्

यज्ञ-भार्या-सद्-उपचर्या-पर्याप्तिर् नाम

द्वाविंशं पूरणम्

॥२२ ॥

(२३)

१९। अथ त्रयोविंशं पूरणम्

२७। प्रथम-सङ्ग-रङ्गज-

२८। वाकोवाक्य-भङ्गी-सङ्गीतम् [१] अथ रासारम्भे निज-शपथ-सम्भेदं वेदयंष्तदीदं याचनम् आचिनोमि ।

निजे काव्ये सर्वं रस-वलनम् अस्तिति लिखता मया धार्स्त्यात् स्पष्टी-कृत-मति-रहस्यं तु यदीह । तद् एतद् गोविन्द-व्रज-विजन-कान्तानुचरणं दधद्भिर् योग्यस्य श्रवसि परम् अर्प्यं न सदसि ॥१॥ इति । [शिखरिणी]

[२] अथ रात्रि-कथायाम् ग्रथ्यमान-प्रथायां मधुकण्ठः स्निग्धकण्ठं स्निग्धकण्ठम् अप्य् आलम्बमानः सम्बभाषे, यत्र प्रथममीदं प्राञ्जलि व्यञ्जयामास—

रास-केलिर् अजनिष्ट जागरं स स्फुटं भवतु तत्-कथा तथा । कारणं भवति यस्य यद्-विधं तस्य तद्-विधतया मता स्थितिः ॥२॥ [रथोद्धता]

[३] तद् एतद् आकर्ण्य सानन्दं निर्वर्ण्य च सर्वेऽपि प्रोचुः—युक्ति-युक्तम् एव चेदम् उक्तम्, यतः—

परमा या रस-धारा सा यदि मध्ये वियुक्तिम् आयाति । पूर्वापर-संवलना- भावान् नैव स्वरूपम् आयाति ॥३॥ [गीति]

तस्माद् यथेच्छम् अविच्छेदम् एवेदं प्रस्तूयताम् ।

[४]मधुकण्ठ उवाच—

मुखं शशिमुखी-गण-प्रचुर-मोह-संरोहणं दृशोर् युगम् अमूदृशां मृग-दृशां घूर्णनम् । तनुः सुतनु-मण्डली-धृति-विखण्डनी श्री-हरेस् तदाजनि यदा जनिं मृगयते स्म रासोत्सवः ॥४॥ [पृथ्वी] मुखं विधु-विमोहनं नयनम् अब्ज-दृग्-लोभनं रुचिर् घन-रुची-हित-प्रथम-सङ्ग-रङ्ग-प्रदा । रमा-रमण-रामणीयक-विभूषि-रामावलेस् तदाजनि यदा जनिं मृगयते स्म रासोत्सवः ॥५॥ [पृथ्वी]

[५] अथ पूर्व-क्रमेण पूर्णिमाश्रमे पूर्णाः पुलिन्द्यः [भा।पु। १०.२१.१७] इत्य् आदि‚ वृत्ते निर्वृत्ते सत्य-पूर्नं-मन्यतया राधिका-मात्र-कर्षाय हरिस् तर्षं धृतवान्—कथम् अहो, निभृतमीदं सम्भृतं स्यात्?इति ।

[६] तत्र काचित् तत्-कुङ्कुम-लिप्त-चरी वन-चरी श्री-राधाम् अनु करुणया तरुणारुण-कमल-लोचनम् उवाच—

तव मुरलीम् इव नितरां विषम-शरः स विजितो भवता । अहह न जाने कथम् इव शुष्कां बिद्धां च ताम् कुरुते ॥६॥ [उपगीति]

[७] तदा च वन-गीर्वाणिभिर् आकाश-वाणीयम् उद्भाविता—

शुष्का तप्त-शलाकया च परितो बिद्धा सुवंशोद्भवा सेयं ते मुरली प्रियेति नियतं विज्ञातवान् मन्मथः। तां शुष्यद्-वपुषं विधाय कुलजां बाणैर् निजैः पञ्चभिर् बिद्धाङ्गीं विदधाति हा बकरिपो त्वत्-प्रीतये सम्प्रति ॥७॥ [शार्दूल-विक्रीडीतम्]

[८] तर्ह्य् एव चाधीरतया भ्रमन् वनमाली क्वचन तमाले कुङ्कुमालेखम् इमम् आलोकयामास—

आनङ्गार्चिर् भिन्ना त्वद्-अतिशुभगाङ्गावृत-मना मुरल्यां राग-श्री-परिमल-कुलं सम्भृतवती । सदा श्यामां कान्तिं दिशी विदिशि चाभावयमतो मयाप्तं कृष्णत्वं तद् अपि न हि कृष्ण त्वम् अभितः ॥८॥ [शिखरिणी]

[९] तद् एतन् निशमन-पूर्वकान् निशामनान् मुरशमनेन तद् इदं विचारितम्—हन्त हन्त! राधाया एवेयम् असाधारण-वाग्-अर्थवती लिपिः । सेयं सम्भवेत् । एवम् अपि कुल-जन्मतया तया मन्मथ-विकारम् आच्छादयन्त्या स्थीयते । तस्मान् निखिलावृति-ध्वंसनं वंशी-शंसनं परं मम शरणम् इति ।

[१०] तद् एवं राधा-सुधा-दुर्भिक्षादितस् तितिक्षाम् अभजन् स पुनर् वेणु-शिक्षा-भिक्षम् एव केवलां सेवते स्म, यत्र वर्षा अपि तर्षाकरतया व्यतीयुः, समृद्ध-गर्धनतया शरद् अप्य् अर्धं वर्धते स्म ।

[११] तत्राह, रहः-शिक्षा तु यथा—

यर्ह्य् आकर्ष-विधिं हरिर् मुरलिका-शिक्षासु तस्याह् क्रमाच् चक्रे तर्हि गताश् चिरात् पर-पर-क्षोभास् त एते तया । कम्पो घूर्णनम् आसनाद् विचलनं द्वित्र-क्रमा वास्तुतो निष्क्रान्तिर् वन-वर्त्म-वर्तनम् उपव्रज्या च दूराध्वनि ॥९॥ [शार्दूल]

किं च—

राधाकर्ष-कृते कृता मुरलिका-शिक्षाथ या या तदा सा सा तेन सदाशया वलयिताप्य् आसीद् अलं निष्कला । ताम् एतां नत-कन्धरः स-पुलकं वन्देऽहम् उच्चैः सदा या कृष्णस्य मनोरथावलिम् अहो पूर्णम् अकार्सीन् मुहुः ॥१०॥ [शार्दूल-विक्रीडीतम्]

[१२] तथा हि, तद् एवं प्रावृषि वेणु-शिक्षा-परीक्षा-तृष्णग् असौ कृष्णः समयं प्रतीक्षमाणः शरल्-लक्ष्मीम् आगतां लक्षितवान् । लक्षयन्न् एव च विचारितवान्—

[१३] इयं खलु स्वभावतः स्वच्छा मल्-लीला-परिच्छदतां यदि गच्छति, तदा प्रमदावलिम् ऋच्छामः । किन्तु, समय-मयतया सर्ववश्य-कारिणम् अपि भावं वश्यं कुर्वतीम् एनां पश्यामि, यथा माम् अपि राधा ।

[१४] ततो यद्य् अस्यां अपि वश्यताम् व्यस्यन् भावान्तर-भावितत्वं भावयितुं प्रभवामि, तद्-आराधायाम् अपि तद्-आधानाय निर्बाधतां गतवान् अस्मीत्य् अवदधामि ।

[१५] तद् एवं विचारयन्न् अग्रेचरं मङ्गलं विलोचयन्न् उवाच—आहो ! श्वो-वसीयसम् एवाध्यवसीयते । यतः—

खञ्जन-खेला-रञ्जित-कञ्ज-नयनं नयन् विधिः स मम । राधा-मञ्जुल-नेत्र-स्फुरद्-आननम् आसु सञ्जयिता ॥११॥ [उपगीति]

[१६] तद् एतच्-छुभ-शकुनम् अनुभवता, यावत् पौर्णमासंंआ समेव सर्वत एव वेणु-धरेण वेणु-स्वन-चर्या सञ्चार्यते स्म । ततश् च—

वंशी-कलाद् उदयतः शरदि प्रभावान् मल्लीभिर् अप्य् अतुल-फुल्ल-दशां गताभिः । रात्रीर् निभाल्य मुहुर् उल्लसिताह् स ऋआम- भ्राता रतिं रति-कृतेऽकृत वल्लवीभिः ॥१२॥ [वसन्ततिलका]

[१७] ततश् च तूर्णम् एव पूर्ण-चन्द्रा बहु-तिथी तिथिर् अतिथिर् इव तस्य प्रसन्नतां विधातुम् आसन्नवती । तत्र चाज्ञायाह्नि वन-विहार-शाली वन-माली धेनूर् आदाय व्रजागमनं विधाय सायं प्रत्यवसाय निज-चन्द्र-शालिकालिन्दं विन्दमानः स्फुटम् आदित्येऽस्तङ्गत्य स्थिते स-तारा-समुदयं तं सान्द्र-चन्द्रिकं चन्द्रम् उदयन्तं पश्यंस् तद्-वश्य-भाव-विशेष-श्लेषतस् तद् इदं चिन्तयामास—

जागुड-पिण्ड-सपिण्डं किं विधु-बिम्बं तद् एतद् उन्नमति । किं वा रोषारुण-रुचि मुखम् इदम् उद्भाति कामस्य? ॥१३॥ [आर्या]

पुनश् च,

कुङ्कुम-रस-सङ्कुलम् इव किं विधु-बिम्बं पुरः स्फुरति ।

अथवा राधा-मुखम् इदम् उदयति यमुना-वनात् पुरतः ? ॥१४॥ [उपगीति]

[१८] तत्र यदि विधु-बिम्बम् एवेदं, तदा तद् इदं विभाव्यते—

पूर्ण-चन्द्रोऽयम् ऐन्द्रीं हरितम् अनुगतः प्रेयसीं दूरदेशाद् अस्यावक्त्रं विलिम्पन् घुसृण-शवलितेनेव शश्वत् करेण । तद्-व्याजान् माम् अमूदृक्-कृतिम् उपदिशतीवाद्य सद्यः किशोरं शुभ्रात्मा यस् तदीयं भवति विरचनं सर्वतो-भद्रम् एव ॥१५॥ [शार्दूल]

[१९] किं चायम् इदम् अप्य् उपदिशन्न् इव सम्भाव्यते—

विधुर् अहं हरितः प्रतिदिक्-पति- प्रणयिणि रमयन् जन-शर्मदः । त्वम् इह किं नु विधो स्थगितायसे पर-रमा-रमणं प्रति सम्प्रति? ॥१६॥ [द्रुतविलम्बित]

[२०] तद् एवं सर्वथैव दैवानुकूल्यतश् चन्द्र-चन्द्रिका-सान्द्रित शुभं तस्य ककुभम् एव गन्तुं शन्तुर् अस्मि, यतः—

निखिलम् एव वनं विधुनामुना दिशि दिशि प्रतिरञ्जितम् ईक्ष्यते । मद्-अनुकूलम् इदं शकुनं भवेद् इति गतिर् मम तत्र शुभावहा ॥१७॥ [द्रुतविलम्बित]

[२१] अथ यदि कामाभिधानस्य कोप-धामाननम् इदम्, तदा विषम-बाणस्य तस्यानुयानम् एव भय-निर्वाणं विश्राणयति । यदि च तस्या एव कान्ति-सदनं वनम् इदं विद्यते, तदा तु सुतराम् एव तद्-दिशं प्रविशतस् तन् मम शर्म-मर्म प्रविशतिति । किं च—

रयाणे वर्तते चित्तण्ण्र्त्यत्य् अक्षीच दक्षिणम् । तस्माद् वृत्तं चण्र्त्यं च कान्त् अभिर्भवितामम ॥१८॥ [अनुष्टुभ्]

[२२] तद् एतद् उट्टङ्क्य निष्टङ्क्य च प्रणय-पण-सन्तुष्टं दामादि-कुमार-चतुष्टयं सङ्गतः प्रसज्य, तद्-द्वारा निद्रा-व्याजाद् अन्यान् द्वार-पालकतया तत्रैव संवलय्य, निभृत-कृत-प्रतीहारतश् चरण-विहारतस् ताम् एव हरितं हरिर् मुरली-धर-करतयानुसरन् दिन-कर-तनया-तीरम् अन्वतीर्णवान् । आवतीर्य च विचारितवान्—

न क्रुद्ध-कामाननम् एतद् अस्ति प्रयाति यच् छुब्र-दशाम् उदञ्चत् । वियोगि-राधास्यम् इदं च न स्याद् यतः कलङ्कादि भवेद् विभेदि ॥१९॥ [उपजाति ११]

[२३] ततश् च म्र्ग-लाञ्छन एवायम् इति निश्चित्य पुनर् विचारितवान्—

शार्वरं षर्वरीशानः संहर्तुं सिंहतां गतः । पूर्व-पर्वतम् आरोहन् सर्वं पर्वति पर्वण ॥२०॥ [अनुष्टुभ्]

किन्तु,

चन्द्रमा राधिका-वक्त्रम् अनुकुर्वन् विराजते ।

तदाकारम् इदं चेतः कथं मम विदूयते? ॥२१॥ [अनुष्टुभ्]

[२४] पुनर् विभाव्य चन्द्रं प्रति प्राह स्म—

अनुपम-रुचिर् अस्मि सर्व-लोकेष्व् इति भगवन्न् अमृत-द्युते न दृप्य । न तु भवद्-उपमा दशापि तस्याश् चरण-नखा विलसन्ति राधिकायाह् ॥२२॥ [पुष्पिताग्रा]

[२५] तद् एवं विचिन्त्य समुचित-स्थानं विचित्य दूरतश् चतुरांश् चतुरः कुमारन् वर्त्मनि वर्तमानतया विधाय, स्वयम् उपसरितम् उच्चतर-चत्वरम् आत्मना रूढं सन्धाय, व्रज-दिशम् अवधाय, वेणुं मुखे निधाय, वादयिष्यमानश् चिन्तयामास—प्रथमं राधा-

गमनम् एव साधयामः । ताम् विना फलस्य च विफलताम् कलयामि । तद्-आगमन-कमनीयतया तु रमणीनां अन्यासाम् अप्य् आगतिर् मम मनसि रमणीयताम् आयामम् आनयति । किन्तु तद् एव भव्यं कथं भव्यम् इत्य् एव प्रतिपत्तव्यम् । आम् आम्, बाण-विद्या-प्रवीणेनैव वैणविकेन मया तथा योक्तव्यम्, यथा तेन सैवाविष्टाकृष्टा च भवति नापरा इति।

[२६] तद् एवं सम्प्रधार्यावधार्य च तेन, वेणुम् एवं वादयिष्यामीति यदा विचार्यते स्म, तदा च ताभिः सान्द्र-चन्द्रिक-चन्द्रमसः सन्दृष्ट्-वशतया सान्दृष्टिकम् इदं परामृष्टम्—

हन्त ! स खल्व् अयम् ओषधीशोऽप्य् आधि-व्याधित-जनान् अस्मान् अद्य सद्यः प्रतिरित्सेद् एव, न तु चिकित्सेत् इति ।

[२७] ततश् च तत्-क्षणं किञ्चिद् विलक्षणं शश-लक्ष्माणम् आलक्ष्य वृन्दा चेदं चिन्तितवती—

हन्त हन्त !

तासां कृष्ण-वियोगाग्नि-बाष्पैर् विष्वग्-विनिःश्र्तैः । आदर्श इव पश्यान्धश् चन्द्रमा मन्दतां गतह् ॥२३॥ [अनुष्टुभ्]

[२८] अथ चमूरु-दृशाम् अमूषां मुहुर् अपि सम्मुखतया वशीकृतिम् इवापन्नः शशी स्वदिशि तदा मदाद् उन्नतेन कृष्णस्य गभस्ति-शतेन तस्य स्फूर्तिं समानिनायेति ।

[२९] तद्-अवलोकनाय व्याकुलताकुलायमनासु तासु—

शारदेन शशिना हरिं प्रति

प्रस्थितिः समम् अयोजि सुभ्रुवाम् ।

प्रत्ययोजि किल तेन सा तदा

मङ्क्षु तस्य मुरली-कलेन तु ॥२४॥ [रथोद्धता]

[३०] यतस् तदैव च—

अनुरागेण रागेण वर्ण-भागेन माधुरीः । कलयन्तं कलं वेणोः कलयामास केशवः ॥२५॥ [अनुष्टुभ्]

[३१] तत्रानुरागो यथा,

साश्रु-कण्ठ-नयनं सकण्टकं

कम्प-सम्पद्-अयनं स-माधवः ।

राधिका-विरहजाधिबाधितः

श्रव्य-वेणु-कलभव्यम् आजगौ ॥२६॥ [रथोद्धता]

[३२] रागो यथा—

रागम् ईदृशम् असाव् अचीकॢपत् प्राप रागईव यः प्रिया-हृदि । यः स्फुटं न रसितः पुरा भुवि क्वापि नामृतवद् अङ्ग-विश्रुतः ॥२७॥ [रथोद्धता]

[३३] तत्-प्रणाद-मय-वर्ण-विभागो, यथा—

अयि सुधांशु-सुधा-मुखि राधिके मधुर-भाव-धुरा मधु-माधवि । मयि सदा दयिते दयिते चिरं तव गुणैर् हृदयं मम दीर्यति ॥२८॥ [द्रुतविलम्बित]

[३४] अथ बाणईव वेणु-नादे प्रवीणः स्वयमषव् अनेन तस्याह् सिद्धां बिद्धताम् अवबुध्य सुध्य्-अग्रणीर् अन्याश् च तन्-न्यायम् आजुहाव । [३५] तत्र वर्ण-विभागस् त्व् एवम्—

अहह गोप-सुता मम गीः-सिता धरथ हन्त मनोरथ-दुर्धराः । इति भवामि भवज्-जित-लज्जितस् तद्-उदयं सुदयं कुरुत प्रियाह् ॥२९॥ [द्रुतविलम्बित]

[३६] अथ यदा पीत-वसनेन गीतम् एवम् उद्गीतम्, तदा तासम् एव कर्णाभ्यर्णताम् आगतं तत्र च यथायथम् अभिरुचितम् एव चित्ती-कृतं रागादिकम् अवधार्य निवार्त्यतातिक्रम-निरतास्थिरताह् प्रतस्थिरे । तत्र च कृष्णाभिमुखताम् एवातस्थिरे, नान्यत् किम् अपि । तथा हि,

या यत्र कर्मणि गतास् तद्-अनुस्थितिं ता विस्मृत्य तस्य मुरली-श्रुति-दिव्य-नेत्राह् । दृश्य-प्रभं तम् अभिवव्रजुर् अश्रु-नीर- स्रोतस्वती-मयतया निज-जीवनेशम् ॥३०॥ [वसन्ततिलका]

तदा च—

गोकुल-कुमुदाक्षीणां कुमुद्वतीनां तदा तथा कुमुदाम् । अकुरुत कुमद्-आधीशः स तदा शतधा पराम् सुमुदाम् ॥३१॥ [आर्या]

तदा च—

शुश्रूषन्त्यः पतीन् काश्चिन् निरुद्धाह् प्रस्थितिं प्रति । कृष्णं तत्रैव ताह् प्रपुर् इत्य् एवं मुनि-जल्प्तम् ॥३२॥ [अनुष्टुभ्]

[३७] आत्र च ष्निग्धकण्ठेनान्तश् चिन्तितम्, ता एताह् खलु पाद्मोत्तरखण्ड-दृष्ट-दण्डकारण्य-गत-मुनि-वर्यतया साधक-चर्यस् तदानिम् अपि लक्ष्मी-वर्याणां राधिकादि-नित्य-तद्-भार्याणां स्व-काम्यं सुकाम्यं साम्यम् अनवाप्ता यथा तद् अवाप्य श्री-कृष्णम् अवाप्तास् तथा वर्ण्यम् इति स्थिते—

तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताह्। जहुर् गुण-मयं देहं सद्यः प्रक्षीण-बन्धनाह् ॥ [भा।पु। १०.२९.११]

इत्य् एव प्रतिपत्तये कल्पते ।

[३८] उक्तं च पाद्मोत्तर-खण्ड [२७२.१६७] एव—

ते सर्वे स्त्रीत्वम् आपन्नाह् समुद्भूताश् च गोकुले । हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ इति ।

[३९] किन्तु, नासूयन् खलु कृष्णय [भा।पु। १०.३३.३७] इत्य् उक्त-दिशा तदीयास् तु न तद् ऊहितुम् ईशामासुर् इति ज्ञेयम् । यच् च जिघाम्सयापि हरये स्तनं दत्त्वापि सद्-गतिम् [भा।पु। १०.६.३५] इत्य् अस्य सदृशेन तम् एव परमात्मानं जार-बुद्ध्यापि इत्य् आदिना साधनस्य निकर्ष-रूपम् अपेर् अभिधेयं फलस्य तु सर्वोत्तम-रूपत्वं प्रतिपद्यते ।

[४०] तच् च युक्तं, यतः—

तासां कृष्णः परात्मा न तु परैति न प्राप्नुयाज् जारतां तत्

प्रान्ते प्राप्तः पतित्वं ददद् उचित-मतिं जारम् अत्यापि वित्तः।

यद्वद् बक्यां जिघांसाव् अपि समुचितम् अत्यर्पणाल् लाल्य-भावं

लेभे धात्री-निभायां स्थिरतमम् इह यद् युक्तितस् तत् फलं हि ॥३३॥ [स्रग्धरा]

[४१] तथापि—

उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथागतः । द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाह् ॥ [भा।पु। १०.२९.१३]

इत्य् अनुसारात्â प्रेमाम्षेन तु तासां महद् एव वैलक्षण्यम् अनुगतम् ।

[४२] ण च नित्य-कान्तास्व् अपि प्रकट-लीलायां जार-बुद्धिर् दृश्यत इति तस्याह् श्लाघैव वाच्या । यतः—

या नित्या एव कान्ता दनुज-कुल-रिपो राधिकाद्या न तासाम् श्लाघां सा जारता-धी-सचिव-जनिर् इयात् किन्तु रागः स नित्यः । तां भित्त्वा विघ्न-कर्त्रीं द्रुत-मुदितवता तेन तं नित्य-कान्तं प्रापुस् ता नापरासाम् इव वपुर् अपरं स प्रतीक्षेत तासाम् ॥३४॥ [स्रग्धरा] इति ।

[४३] तद् एतद् विचिन्त्य स्फुटं प्रोचे, ततस् ततः ?

[४४] मधुकण्ठ उवाच—अभिष्र्तवतीनां विशेषो यथा—

श्रुते मुरलि-काकले निज-निजाह्वय-प्रापके समं व्रज-नत-भ्रुवः सपदि फुल्ल-देहा बभुः । अनङ्गम् अपि वर्धितं विहितवान् अहो यस् तदा कथं न किल वर्धयेन् निज-कला-बलेनाङ्गनाह् ? ॥३५॥ [पृथ्वी]

[४५] किं च,

सत्वर-प्रसारवत्त्व-सत्त्व-धाम-हायिनी सर्व-गुर्व्-अहार्य-कूट-वारणतियायिनी । नाथम् एकम् अन्व् अनेक-दार-सम्पद्-अर्पिणी ओघ-मोघम् अन्व् अनन्त-भक्त-लोक-तर्पिणी ॥अ॥ लोल-केश-शैवलाञ्चि-कर्ण-पूर-चक्रिणी पुष्प-जात-निष्प्रपात-शुभ्र-फेण-चक्रिणी । उच्छलन्-नवीन-मीन-नेत्र-नीर-गात्रिणी अग्रिमाध्व-मात्र-पात्र-सम्मुखानुयात्रिणी ॥ब्॥ मन्द-चाल-बाहु-नाल-पाणि-पद्म-सालिनी अच्छ-बाल-कच्छपाङ्ग-वत्स-जन्म-जालिनी । जूति-धूति-कृत्-कुटीर-तीर-धीर-गामिनी ऊरु-भूरुहालि-पात-सम्प्रपात-कामिनी ॥च्॥ काञ्चि-काञ्चि-कङ्कणादि-शिञ्जद्-अम्भ-सञ्जिनी प्रायशस् तु हंस-सङ्घ-श्षब्दितानुरञ्जिनी । तूर्ण-तूर्ण-घूर्णनादि-सङ्कुलाङ्ग-नर्तिनी पूर्ण-पूर्ण-भाव-गूर्ण-जाड्य-जात-वर्तिनी ॥द्॥ वेश-वस्त्र-सन्निवेश-चञ्चलत्व-भङ्गिनी तत्-तद्-अर्थ-वैपरीत्य-कारि-वेग-सङ्गिनी । यन्-निमित्तम् आत्म-सर्व-सङ्ग-भङ्ग-भाविनी यत्र सर्व-नाम-रूप-विस्म्र्तिश् च भाविनी ॥ए॥ श्याम-धाम-सुष्ठु-रामम् एतम् अत्र सद्-धवम् सिन्धु-तुल्यम् उत्तरङ्गद्-अङ्गम् आशु माधवम् । पूर्व-पूर्व-भिन्नयातिर् उत्तराप्त-सङ्गतिः आपगालि-सम्मिताप सेयम् आलि-संहतिः ॥फ़्॥३६॥ [तूणक]

[४५] तास् तत्र च—

शुभंयु-वन-मञ्जुले सवितृजा-रुचा सङ्कुले प्रसून-गण-राजिते भ्रमर-कोकिल-भ्राजिते । सुगन्ध-मरुद्-अञ्चिते कुमुद-बन्धु शोभाचिते समस्त-गुण-निश्चिते निधितया चिरं सञ्चिते ॥३७॥ [पृथ्वी] स्थले मणिज-चत्वरं समधिरुह्य तं सत्वरं विचित्र-मुरली-कलं विरचयन्तम् उद्यत्-कलम् । घनाघन-घन-श्रियं तडीद्-अभीषु-वस्त्र-प्रियं मणि-द्युति-विकस्वरं ददृशुर् अङ्गि दिव्य-स्मरम् ॥३८॥ [पृथ्वी]

(युग्मकम्)

निर्माय कृष्णम् अभितः स्थितिम् अत्र गौरी- पङ्क्तिस् तदा तम् अवलम्बितुम् उत्क-चित्ता । मध्ये तमालम् उपलभ्य सुवर्ण-वर्ण- वल्ली-ततिर् विलसतीति किल व्यलोकि ॥३९॥ [वसन्ततिलका]

अथ—

वंशी-दूतिकया निमन्त्र्य कलिताह् सौरभ्य-धारा-सखी सङ्घैः साद्र्ति भूरि दूर-सरणेर् आनायिताह् सुभ्रुवः । प्राप्ताह् स्वान्तिकम् आत्म-रोचिर् अमृतान्य् अप्य् आशिताह् प्रेयसा ट्र्प्तिं नैव ययुर् न वा विरमितं तद्-दान-कर्मामुना ॥४०॥ [शार्दूल]

प्रत्युत—

नव्याह् कलाधराह् शुभ्रा भ्राजि-नक्षत्र-मालिकाह् । अराल-लोचनाह् कृष्ण-चकोरं ट्र्स्ण-जं व्यधुः ॥४१॥ [अनुष्टुभ्]

[४६] अथ कृष्णस् तत्र स-तृष्णम् अचिन्तयत्—अहो ! नव-तारुण्यस्य पुण्य-सम्पद एता, वर-लावण्यस्य मत्-क्रेतव्य-नव्य-पण्य-श्रेण्यस् त्रिलोकी-लक्ष्म्याश् चूडामणयः, स्फुरन्-मन्मथस्य जीवनौषधयः कुमुदायमान-मदीय-लोचनयोर् नवीनाश् चन्द्र-कलाह् सहावतीर्य रुचिं वितीर्य विराजन्ते ।

[४७] तद् एवं स्थिते—

कृष्णापाङ्ग-शरः साङ्गं भित्त्वापाङ्ग-शरं मम । मनोरथिनम् उद्भेत्तुं किल प्राविशद् अन्तरम् ॥४२॥ [अनुष्टुभ्]

इति ताह् प्रत्येकं प्रत्येतव्यं चक्रुः ।

[४८] वस्तुतस् तु हरेस् तासु सर्वासु लतास्व् इव द्वित्र-लव-सेवन-पूर्वकम् अपूर्वतयाभ्रमन्-नेत्र-भ्रमर-युगलं कमलिन्याम् इव राधायाम् निर्बाधाम् स्थितिम् आतस्थे ।

[४९] आस्थितवतीति च तत्रेदं स तु विचारयामास—

शोभायाह् शुभदा शोभा रमायाह् परमा रमा । सेयं मल्-लोचनस्यापि राधिका-चारु-लोचनम् ॥४३॥ [अनुष्टुभ्]

[५०] तद् एवं सति सा च तदीय-तादृश-दृशः स्पर्षतः कम्प-सम्पद्-उन्मीलन-रस-प्रसर-वशतया क्षोभं लभमानापि तं प्रति प्रहित-लोभां शोभाम् उवाह ।

[५१] आत्र च प्रश्नोत्तर-मयं पद्यम्-

स्मेरयोः प्रति विधूद्यद्-अस्रयो राधिका-नयनयोस् तुलांवद । शारदं विकच-मेचकोत्पलं यन् मरन्द-झर-मोचि तत् किम् उ? ॥४४॥ [रथोद्धता]

[५२] तद् एवं स्थिते ताः पुरः-स्थिता यद्यप्य् अनवद्य-संवनन-प्रवीण-वेणु-विद्या-मदिता लज्जाम् उज्जहति स्म, तथाप्य् अवितथाभिजात्यतया नम्रता-कम्रा मुनि-व्रतम् एवानुववृतिरे ।

[५३] श्री-कृष्णस् तु यदा विशीष्ट-ललना-मध्यम् अध्यावसन्न् एवम् अद्योतिष्ठ, तदा

तासां परम-दुर्लभ-परिमल-मात्राणाम् अपि वैणव-मधुर-गीत-मधु-मदिततया स्वयम् एव कृताभियात्राणाम् आगतिं दृशोः पथि निर्माय, स-नर्म-स्मितस् तद्-विधाम् बुद्धिम् उपधया लब्ध-शुद्धिम् अवधारयन्न् इव तन्-मुखाद् उन्मुखानुराग-जागरूक-वाग्-अमृतम् आस्वादयितुम्, तासु च समुत्सुकताम् आसादयितुं, निजान्तिक-स्थिति-याच्ञा-गर्भेण स्फुरद्-उपेक्षा-सन्दर्भेण वचसा ताह् क्षोभयामास । यथा—

महाभागा युष्मन्-मिलनम् अभवन् नः शुभ-कृते ततः पृच्छाम्य् अत्रागमनम् इदम् अव्याहतम् इति । तद् एतावत्-क्लेशाद् अभिगमनतः सङ्कुचित-धीः स भूयः सम्पृच्छे भवद्-अभिमतं किं नु करवै? ॥४५॥ [शिखरिणी]

[५४] तद् एवम् अत्रादर-ज्ञापनया ज्ञात्वाप्य् अज्ञान-विज्ञापनया च स्वेषूपेक्षापेक्षयोर् एकतरतया तद्-अभिप्रायं प्रायशो बोद्धुम् असमर्थासु तासु तत एवानभिव्यक्त-किञ्चिद्-अर्थासु पुनः स-नर्म च तथा वाचं प्राह—

पृच्छतोऽपि पुरतो मम भव्यं मौनम् एव कुरुथ प्रतिगीर् यत् । तद्-भवद्-व्रज-गृहे गृह-भाजां किं निरामयम् अथ प्रतिभाति? ॥४६॥ [स्वागता]

[५५] ततश् च मिथः स-स्मित-निरीक्षितासु तासु पुनर् उवाच—

तद् इदं दुरभिप्रायं बोद्धुं बह्वदीयम् अस्मि न समर्थः । स्वयम् इह यूयं तस्मात् कथयत सङ्कोचम् उद्धूय ॥४७॥

[५६] पुनर् अतीव सङ्कचतीर् निरीक्ष्य योजनाविशेष-श्लेषमयतयापि तथा प्रथयामास—

अथ न भवति कार्यं ब्रूथ तन् नेति बुद्धं व्रजम् अनु चल-चित्ता यात नाध्वं मयात्र । वनम् इदम् ऐत्घोरं रात्रिर् अत्रातिघोरा स्वयम् अतिशयि-घोर-प्राणि-वृन्दैः परीताः ॥४८॥

[५७] अत्र नाध्वम् इति न यातेति वा योजना । पुनस् तद् एव श्लेषयितुं सोपान-विशेषं चकार—न चेदृशी स्वैरता भवादृशीनां सदृशी भवति यतः मातापितर-प्रमुखाः सहजाः पतयश् च वः सन्ति इति ।

[५८] पुनः स-हासम् आह स्म—श्रूयन्तेऽपि तनूजाः इति ।

[५९] अत्र कथकश् चिन्तयामास—वृन्दा-पौर्णमासी-संवाद-गत-सिद्धान्तानुसारि-धिया—

सिषेव आत्मन्य् अवरुद्ध-सौरतः सर्वाः शरत्-काव्य-कथा-रसाश्रयाः [भा।पु। १०.३३.२५]

इत्य् अनेन प्रतिपन्नस्य तत्रकीय-रसस्यालम्बन-वैरूप्याद् वैरस्यापन्नता-भिया च तद् इदं परिहसितम् एवेति विद्वन्-मततया व्यक्तीकरिष्यामि इति ।

[६०] अथ तद् एव स्पष्टम् आचष्ट—[६१] तद् एवं ताभिः सह रन्तुं कृत-वंशी-ध्वनिः स तु सरसानां शिरोमणिर् यद्यप्î तासाम् उत्पत्तित एव स्व-मात्र-सात्कृत-पति-भावानाम् अन्यत्र पतिर् इति प्रतीतिर् लोक-संवदन-वशंवदता-मात्र-मयी केवल-स्व-सङ्गम-कामना-व्रतश् चापराङ्ग-सङ्गम-रूप-विरूपता-निर्जयीति विशदम् अर्थं तासु स्वीय-कान्ता-भाव-समुत्पत्त्य्-अन्यथानुपपत्त्या सम्भावितवान् ।

[६२] यद्यपि च तासाम् अजात-पुत्राणाम् अपि देवरं-मन्य-पुत्रादिषु पुत्रता-व्यवहारः केवलं सन्निहित-बालक-विषयक-वत्सलता-स्वभावाकारस् तत्-सम्बन्धाभिमानस् तु बहिर् एवाचार इत्य् आप्त-वचनान् निर्धारितवांस् तथापि तत्-तद्-उल्लेखन-कर्मणा नर्म-मात्रम् आचरितवान् । तद् आचर्य च तद्-बन्धूनाम् अन्धायमानानाम् अपि तद्-अन्वेषण-निर्बन्धाद् भयं विचार्य सामर्षम् इव विवक्षितम् उवाच—कथम् इह तत्-तद्-भयं कुरुथ इति । अत्र च षष्ठी पञ्चमी वा समस्यते ।

[६३] किं चात्र खण्डम् अखण्डं च पद्यं यथायथम् अनूढा ऊढाभासाश् च ता दृष्ट्वाचष्टेति गम्यते । तत्रानूढाः प्रति सहजा इत्य् अन्तम् । ऊढाभासाः प्रतिश्रूयन्तेऽपि तनूजा इत्य् अन्तम् । अखण्डं तु सर्वाः प्रतीति ज्ञेयम् ।

[६४] पुनश् चार्थ-ध्वनि-संवलनया चित्तम् आन्दोलयामास—

दृष्टं यद्-वनम् अत्य् अपूर्व-कुसुमैर् दिव्यर्तुना पूजितं द्योतैश् चर्चितम् इन्दुना यमुनया चात्मानिलैर् नर्तितम् । सामग्रीयम् उदेति देव-निचितास्माकं विहार-क्रमे तस्माद् एतद् अभावतस् तु व इह स्तव्या न वास्तव्यता ॥४९॥

किन्तु—

दिष्टेनाप्ते तत्र गत्वा स्व-गोष्ठे कष्टेनापि स्वीय-धर्मं कुरुध्वम् । पत्युर् भक्तिर् बाल-वत्सादि-पाल्य- व्यक्तीनां यः पालनादिश् च दिष्टः ॥५०॥

[६५] ततः कष्ट-साध्यं तं धर्मं बाध्यमानं विधायात्राविकल-सर्व-धर्म-फले मम सुख-विहार-स्थले प्रविशत । [६६] अन्यथा पुनर् उद्यद्-विधु-वनम् इदं भवतीनां विधुवनाय सम्पत्स्यत इति याच्ञा-पक्षाभिप्रायः ।

[६७] पुनः स विमर्शम् इव प्रोवाच—

अहम् अहह न बुध्ये स्मेति पूर्वं प्रलापं चकर तद् इह यूयं तद् विचार्य क्षमध्वम् । रति-विसर-विलासैर् यन्त्रणाद् आगता यस् तद्-उचितम् अखिलं यत् स्निग्धता मय्य् उपैति ॥५१॥ तद् अपि न यद्वद् विरहे प्रीतिस् तद्वन् न सान्निध्ये भवति ततो गृह-यानं भवतीनाम् औचितीं चिनुते ॥५२॥

[६८] अत्र च प्रीति-विषयाद् दूरे स्थितिर् न युक्तेति विरोधि-लक्षणया याच्ञापक्षः सङ्गम्यते । ततश् च—

पूर्वं यच् चिरतः स्पृहावलनया सङ्कॢप्तम् आसीत् पुनर् वंश्याकारणया बलाद् उपचितं तद् भग्नम् उच्चैर् यतः । तच् छ्रुत्वा दयिताद् व्यलीक-वचनं बाढं न निश्चिक्यिरे किं न स्मः किम् उ वा स्म इत्य् अî तदा गोपाल-वाम-भ्रुवः ॥५३॥ तद् आसां निश्चलाङ्गीनां काञ्चीनाम् अपि राजयः । समं समन्ततः क्लेशात् तूष्णीकाम् एव सङ्गताः ॥५४॥

ततश् च—

बाष्प-व्याजाद् आसां प्रिय-कृत-परिहृति-समूढ-सन्तापः । मन्ये हृदयाम्भोरुह-निवहः स्वरसान् मुहुश् च सुस्राव ॥५५॥

[६९] अत्र चैवं विचारयामासुः—

प्राणांस् त्यजाम दयितस्य पदे लुठाम कुप्याम तत्र विनिवृत्य गृहं व्रजाम । कृष्णां विशाम च न वा कठिनायमानम् एतं स्वभालम् अभिहत्य निचाययाम ॥५६॥

[७०] तत्र तु—

शिरः-पीडा बाष्प-व्यथित-गलता हृद्-गत-महा- प्रकम्पः प्रत्यङ्ग-स्खलनम् इति नाना-विकृतयः । प्रिये रूक्षे जाता दलयितुम् अमूर् आववृतिरे परं तद्-वक्त्रान्तः-प्रसदनम् अगात् पालयितृताम् ॥५७॥ मसी-वलित-दृग्-जल-स्रव-तमोभिर् आराद् उरः- स्थलं वलित-कुङ्कुम-प्रचिति-सन्ध्यम् आवृण्वतीः । अवाङ्-मुख-विधुर् वधूः सपदि पौर्णमासी-शशि- स्फुरन् निशि च तामसीर् इव चचाय तस्मिन् हरिः ॥५८॥

[७१] ततश् च किञ्चिद् अमर्षे सति—

श्वास-दीर्ण-मधुराधर-श्रियः कोमलाङ्घ्रिअ-दल-कीर्ण-भूमयः । हन्त कान्तम् अपि तं नत-भ्रुवो विव्यधुर् नयन-सायकास्रिभिः ॥५९॥

[७२] तद् एवं क्षोभे सति दाडिमाद् अन्तः-सक्त-रक्त-बीजानाम् इव निजानां भावानां हृदयान् निष्कुलाकृतिः स्वयम् एव जाता, तथापि वैदग्धी-दिग्धतया प्रिय-गीर्वद् एव सन्दिग्धम् ऊचुः । यद् अद्यापि गायन्ति—

इयम् इव मा कुरु पुनर् अतिवादम् । भक्त-जनान् भज मुहुर् इतरांस् त्यज विभुर् इव रहित-विवादम् ॥ध्रुवम्॥ पति-पुत्रादिक-भजनम् इहाधिकम् इति यं वदसि विचारम् । स त्वय्य् एव हि तिष्ठतु न तु बहिर् इति विमृशामः सारम् ॥६०॥

अनयोर् अर्थ-श्लेषोऽयम् उभयम् एव पक्षं विशेषयति ।

अथ धव-सुत-मुख-गणतस् तव सुखम् अस्ति सतां हृदि यातम् । तद् अपि च न हि भवद्-अनुसरणं भवद्-इच्छति युवती-जातम् ॥६१॥

अत्र सन्दिग्ध-काकु-पदं नहीति पदं तद्-इच्छा-निर्धारणे, यद् वा निषेधे—

स्वाम् आशाम् अनुवर्धय वर-तनु-ततिर् इह लभतां शातम् । सततानश्वर-वर वरदेश्वर न वितनु वितनूत्पातम् ॥६२॥

अत्रानुवर्धयेति समेधने छेदने वा—

गृह-कर्माण्य् अनुचित्तं सुख-तनु भवता नह्य् अपिनद्धम् । चरणौ प्रचलत इह न च वलतः प्रतिगमनं किल बद्धम् ॥६३॥

अत्र सुख-तन्व् इति भवतेत्य् अस्य चित्तम् इत्य् अस्य वा विशेषणम् । अपिनद्धम् इति बन्धनाभावे बन्धने वा न चेति पूर्व-नहि-वत् । किलेति निश्चयेऽनृते वा ।

स्वभव-ताप-भरम् अमृत-धराधर-रस-झरतः स्वत एव । नाशय यदि न हि मादृशम् अपि स हि सङ्क्रमिता सखिदेव ॥६४॥

अत्र स्वभवेति कामे स्वजाते वा । मादृशम् इत्य् अस्मत्-सदृशे वा जनेऽस्मद्-अर्थे वा ।

लक्ष्मी-सुख-ददम् अपि भवतः पदम् अहह पुलिन्दी-भव्यम् । स्पृष्टं यद्-अवधि दृष्टं तद्-अवधि सर्वं जगद्-अपसव्यम् ॥६५॥

अत्रापसव्यं प्रतिकूलम् इत्य् उभय-पक्षेऽपि समञ्जसम् । आक्षेप-पक्षे पुन्लिन्दी-भव्यम् इति नीच-गामित्वं व्यज्यते—

लक्षीर् व्रजम् अनु तुलसी-वनम् अनु भवद्-उदय-स्फुरद्-उदया । दृश्यत इति तव पद-धूल्याप्लवम् इच्छत्य् अपि पति-हृदया ॥६६॥ यस्या वीक्षणम् अपि वलित-क्षण-पार्षद-वृन्द-निधानम् । तद्वद् वयम् अपि हृदि वाञ्छाम् अपि नह्यामः सवितानम् ॥६७॥

अत्रापि-शब्दः समुच्चये पूर्ववत् काक्वा निषेधे वा ।

तत्त्वं सुकृपय कृत-वृजिनात्यय तव याश् चरणे रक्ताः । ता भवतः स्मित-वीक्षण-विस्मित-चित्ताः कुरु निज-भक्ताः ॥६८॥

इदम् उभयत्र च योग्यम् ।

अलकावृत-मुख कुण्डल-धृत-सुख हसित-विभूषित-नेत्र । दत्ताभय-भुज-वक्षः-श्री-युज दास्यो वयम् अपि तेऽत्र ॥६९॥

अत्र चापिः पूर्ववत् ।

तव मुरली-कलम् अपि च रूप-बलम् अनुभूयाभवद् एव । द्रुम-कुलम् अपि पुलकाङ्कुर-सङ्कुलम् इह का नारी देव ॥७०॥

अत्र केति कौमुत्ये निषेधे वा—

व्यक्तं व्रज-भय-हर-लीला-चय देवस् त्वम् असि स कोऽपि । तन् नो निज-करम् अपि शिरसि च धर दासीनां भ्रमतोऽपि ॥७१॥

[७३] तद् एवं स्थिते—

तथा विलाप-तापेन न तासां विव्यथे हरिः । यथा राधा प्रेङ्खित-भ्रू-धनुर् इङ्खि-दृग्-आशुगैः ॥७२॥ अथ व्यथित-मानसः प्रथित-भाव-कारुण्यतः प्रहस्य मुदिताननः स्वक-रहस्यम् उल्लासयन् । प्रतिस्वम् अनयत् प्रिया द्रुत-मतिः स्व-पार्श्वं बली बलाद् अपि बलानुजो वलयति स्म लीलां प्रति ॥७३॥ आमृशन्न् अङ्गुलीः पाणिं प्रकोष्ठं बाहुम् अप्य् अथ । तासां हरि-करस् तृप्तिं नागान्धनम् इवाधनः ॥७४॥ यद् अपि च राधा तासु स्वम् अभिजुगोपायुतादि-सङ्ख्यासु । तद् अपि च हरिणा स्पष्टं दृष्टा तारासु चन्द्रलेखेव ॥७५॥ राधा यर्हि स्वकर-स्पृष्टा जाता मुरारातेः । अतिविस्मितये जज्ञे तर्हि च सा तत्र चन्द्रलेखेव ॥७६॥ गोप्यः कृष्णं तत्र कृष्णश् च राधाम् आश्लिषोच्चैर् आव्रजन् नर्म-शर्म । भाव-श्रेण्यः स्थायि-भावं स्वभावो यद्वत् पुण्याद् वासनां पूर्व-लब्धाम् ॥७७॥

[७४] तत्र काश्चिद् भूरुर् इव निभाल्य वन-माल्यः परीहासतः परस्परम् ऊचुः—

जलदे विलसति विद्युद् बिभ्यति हृदयानि भीरूणाम् । किं परिहससि सखि त्वं किं न हि पश्यसि पुरश् चित्रम् ॥७८॥ आत्मारामा अप्य् अहो यस्य गन्धाद् ब्रह्मानन्दं बाढम् आच्चादयन्ति । पूर्णानन्दः स स्वयं हन्त ताभिः स्वानन्दाय क्रीडनाय प्रयेते ॥७९॥

[७५] अथ समापनम्—

ईदृग् अप्ययि राधे यस् तासां मुख-निरीक्षकः । त्वद्-उत्कर्ष-रसायासीद् इव तासु परीक्षकः ॥८०॥

इति श्री-श्री-गोपाल-चम्पूम् अनु

प्रथम-सङ्ग-रङ्गज-वाको-वाक्य-भङ्गी-सङ्गीतं नाम

त्रयोविंशं पूरणम्

॥२३॥

(२४)

२०। अथ चतुर्विंशं पूरणम्

२९। श्री-राधा-सौभाग्य-श्रवण-सुभाग्यं नाम [१] ततः स्निग्धकण्ठ उवाच—

[२] अथ सङ्क्षेपेण वर्णितं, यथा—

ताभिः समेताभिर् उदारचेष्टितः प्रियेक्षणोत्फुल्ल-मुखीभिर् अच्युतः । उदार-हास-द्विज-कुन्द-दीधितिर् व्योरोचतैणाङ्क इवोडुभिर् वृतः ॥ [भा।पु। १०.२९.४३] इति ।

[३] तत्र प्रथम-चरणः श्लोक-सात्क्रिययालङ्क्रियया परिचर्यते—

कान्तस्य ताभिः स्व-करं स्पृशन् करः सर्पन् परं चावयवं वितर्कितः । कीर्णश् च तस्यान्तरम् अन्तरं भजन्6

दृष्टः पुनस् तज् जितकाशितां गतः ॥१॥ [इन्द्रवंशा]

[४] अथ द्वितीय-चरणः—

प्रियं नियुतशोऽप्य् अमूर् न हि विलोकमानाः समं निमेषम् उपसेदिरे यद् इयम् एव दिव्या स्थितिः । प्रियेण निजम् अर्पितं यद् अवलोक-शुद्धामृतं समं बुभुजिरे पृथक् तद् अधिकं तु किं वर्ण्यताम्? ॥२॥ [पृथ्वी]

[५] अथ सिंहावलोक-न्यायाद् द्वितीय-तृतीय-चरणौ च, यथा—

यथा दृशां दिशि दिशि ता दधुर् मुहुस् तथा हरिस् तद्-अभिमुखं दधे दृशम् । यदान्वभूद् अरहित-चातुरक्ष्यता तदाहसीत् स्फुटम् असकृत् कृत-क्रमम् ॥३॥ [रुचिरा*]

[६] तद्वद् उत्तरार्धं च—

कविभिः कृष्णे शशिता तासु च नक्षत्रता कविता । किन्तु स्मित-मुख-दीव्यद्-विलसित-वृन्दैर् अमी वरिताः ॥४॥ [अनुष्टुभ्]

[७] ततश् च नाना-नर्म-कर्मठतया हठवत्तया च कृष्णेन किञ्चिद् असङ्कोचे विरचिते, प्रायशः सर्वावयवे चावलोचिते, निचोलादि-विपर्यये च परिचिते सास्रं बहु विहस्य तद् इह सर्वम् एव यथावत् पर्याचितम् आचेरे ।

[८] तद् एवम् आचार्य ससुखम् उदङ्-मुख-गति-चर्यया यमुना-तीर-वन-श्रेणीं शोभयन्न् एणीदृशस् ताः स्व-कान्तिभिर् आचकर्ष, [९] यत्र लब्ध-हर्षश् चन्द्रमसम् अपि निज-दक्षिणतः समाकर्षन्न् इव सङ्गितयाङ्गीचकार । [१०] तद् अनु च सर्वाभिर् अर्वाचीन-यौवनाभिस् तम् एकम् अनुसरन्तीभिर् अत एव परस्परं सङ्गम् अपरिहरन्तीभिर्, अत एव सहसानुपलब्धानुरहस-कणिकाभिर्, अत एव तन्-मिलन-विशेषाय कलित-पुरूत्कलिकाभिः सह, स हरिस् तादृशताम् एव परामृशति स्म—

[११] अथान्यथानुपपत्त्या सङ्गानसुखम् एवावलम्बमानः केवलं चञ्चच्-चञ्चरीक-लुलित-ललित-सुकुमार-कुसुमाञ्चितं वनम् एवायं सर्व-गुण-शाली वनमाली चञ्चति स्म । किन्तु,

सङ्गानं तद् इदं परस्पर-गुण-ग्रामानुभूतिः स्वतः शर्माप्य् अत्र मनोरथान्तर-कृतेः शश्वद् बभूवास्पदम् । यत्रालिङ्गन-चुम्बनादि-विधये तासां हरेर् अप्य् अदः सौख्यं लक्ष्यम् अभूत् परावृति-विधां चावेशिता निर्ममे ॥५॥ [शार्दूल]

[१२] तद् एतद् वर्णितं यथा श्री-बादरायणिना—

उपगीयमान उद्गायन् वनिता-शत-यूथपः । मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥ [भा।पु। १०.२९.४४] इति ।

[१३] गाने विशेषश् च श्री-पराशरेण—

कृष्णः शरच्-चन्द्रमसं कौमुदीं कुमुदाकरम् । जगौ गोपी-जनस् त्व् एकं कृष्ण-नाम पुनः पुनः ॥ [वि।पु। ५.१३.५२] विधुर् अयम् आगतवान् शरदं प्रति सम्प्रति । इतवान् विधुर् अथ नहि भवतीः प्रति । माधव जय गोकुल-वीर जय जय कृष्ण हरे ॥अ॥ कुमुदाकर-चलनं न भवेद् इति सेयं । कौमुदिकागाद् इदम् उन्नेयम् । केशव जय हार्द-शरीर जय जय कृष्ण हरे ॥ब्॥ कुसुम-वनी मधुपैर् इयम् अञ्चति कान्तिम् । मम भवतीषु प्रथयतु कान्तिम् । श्यामल जय हार्द-समीर जय जय कृष्ण हरे ॥च्॥ पुष्पित-कुञ्ज-चये वृन्दाचित-शोभा । भवद्-अनुगतये किल कृत-लोभा । मोहन जय संविदि धीर जय जय कृष्ण हरे ॥द्॥६॥ [दशावतारस्तोत्र]

[१४] तद् एवं गायते प्रियाय प्रतिगृणतीषु तासु नव-युवतीषु पुनः श्री-शुक-वचनाति-रहस्यं, यथा—

नद्याः पुलिनम् आविश्य गोपीभिर् हिम-वालुकम् । जुष्टं7 तत्-तरलानन्दि-कुमुदामोद-वायुना ॥

बाहु-प्रसार-परिरम्भ-करालकोरु- नीवी-स्तनालभन-नर्म-नखाग्र-पातैः । क्ष्वेल्यावलोक-हसितैर् व्रज-सुन्दरीणाम् उत्तम्भयन् रति-पतिं रमयाञ्चकार ॥ [भा।पु। १०.२९.४५-६] इति ।

[१५] तद् एतद्, यथा—तद् एवं भ्रामं भ्रामं जात-प्रसरेऽप्य् अलब्धावसरे स-तृष्ण-कृष्ण-सहित-महित-महिलाविसरेऽभिलषित-विलसिताय विरलता न जाता ।

[१६] अजातायां च तस्यां कृष्णया तरङ्ग-कर-निकर-चितम् अहरहर् अवकलितं पुलिन-विशेषम् एव तद्-उचितं प्रबलम् अवकलयामास ।

[१७] बलानुजन्मा यः खलु हिम-बालुकेव बालुका यस्मिंस् तादृश इति परम-शुभ्र-शुभ्र-गुणतया विभ्राजते स्म ।

[१८] यत्रैव च तादृश-सर्व-गुण-पूर्ण-पूर्णिमा-निज-द्विज-राज-विराजमान-सुषमासुषम-प्रतिसङ्क्रम-पर-भाग-जागरूक-महा-महसा सहसा नयनानि नाभ्युदय-दयनानि भवन्ति स्म ।

[१९] यत्रैव च तूलिकावद् अनुकूलिका बालुका वस्त्र-मात्रम् आस्तरणम् अपेक्षते स्म; यत्रैव च कलिन्द-तनया स्वयं वलित-सखीनया सौगन्धिक-सुगन्ध-गन्धवाह-वहनादिना सेवां वहति स्म ।

[२०] तत्र चात्र श्री-केशवः प्रवेशम् अनुभूय प्रतिप्रेयस्य् अपि युग्मीभूय बाहु-प्रसारादि-लीलां शीलयामास ।

[२१] सा चेयं परमरहस्येति रहस्य् एव किञ्चिद् व्यस्यते ।

[२२] यथा मिथस् तत् तन् मिथुनम्—

बाहु-प्रसारम् अकरोत् परिरम्भणाय बाहू तु तत्-करणतां चिरम् ईयतुर् न । यो यस्य नैति वशतां स कथं नु तस्य प्राप्नोतु साधकतम-स्थितिम् अञ्जसैव? ॥७॥ [वसन्ततिलका] कृतं च परिरम्भनं न परिहर्तुम् ईशाव् अमू बभूवतुर् अघारि-तत्-प्रिय-वधू-जनाव् आत्मना । कथञ्चिद् अपि वीरुधा भवति चेत् तरोः सङ्गमस् तयोः कथम् अपृक्तता स्वयम् अनीहयोर् जायताम्? ॥८॥ [पृथ्वी] सखीनाम् अप्य् आस्या-रहित-समये यत् प्रणयिनोः परीरम्भारम्भात् प्रबल-सुख-मूर्च्छा समजनि । तयोस् तां विच्छेतुं परम् अहह नाना-विलसित- प्रतीक्षा सुप्तेव स्वयम् अथ जजागार परितः ॥९॥ [शिखरिणी]

ततश् च—

रहसि सङ्कुचती पुनर् अप्य् असौ निज-करेण हरेर् अकिरत् करम् । व्यथितताम् इव तां तु विवृण्वतीं तद् अनुमृष्टि-मिषाद् अयम् अस्पृशत् ॥१०॥ [द्रुतविलम्बिता]

वदनं तव वृण्वते बत भ्रमरा नानुगतास्ति काचन । इति लालयति स्म स च्छलाद् अलकानां ततिम् अप्य् अमूम् अनु ॥११॥ [वियोगिनी]

उरु-स्पर्शे निरस्तेऽपि नीवीम् अस्पृक्षद् अच्युतः । निःशङ्कयाचकानां हि तथाचरितम् ईक्ष्यते ॥१२॥ [अनुष्टुभ्]

कलयति संवस्त्रयति संहस्तयते स्म तस्य या रामा । प्रणयी स हरिस् तस्याः स्पृशति च चोलीं वितूस्तनव्याजात् ॥१३॥ [गीति] वक्षस् ते किम् अपि निरीक्ष्यते प्रफुल्लं स्पर्शं चाण्व् अपि सहते चलाक्षि यन् न । तस्मान् मन्-नख-नखरञ्जनी-स्पृग् एव स्यान् नीरुक् तद् इति हरिर् जहास चात्र ॥१४॥ [प्रहर्षिणी]8

मधुसूदनतां मुखाम्बुजे हरितां हृद्-भव-कुम्भि-कुम्भयोः । गतवान् बत नन्दजः कथं रति-नाथ-प्रभवाय नार्हति ॥१५॥ [वियोगिनी] अथ यत् कथनीयतोचितं कथितं तत् प्रथितं च किञ्चन । यद् अथाकथितं द्वि-कर्मकं स्मृति-रीत्या तद् अवेहि पाणिनेः ॥१६॥ [वियोगिनी]

[२३] इत्य् एवं स्थिते—

गोप्यस् ताः प्रतिपद्य सर्व-विषय-श्रेयांसम् आत्म-प्रियं स्वाधीनं सपदि प्रतिस्वम् असकृत् तत्रातिगर्वं दधुः । लोकश् चेद् बहु-राज-राष्ट्र-वसतिर् जङ्गन्ति भङ्गं तदा तस्यान्तर्-हितता हितेति किल सोऽप्य् अन्तर्दधे माधवः ॥१७ ॥ [शार्दूल]

[२४] तेन च विचारितं खल्व् इदं—अहह, मम परमम् उद्देश्यम् एव विस्मृत-देश्यम् अभूत्, यतः सर्वाभिर् एव निर्विशेषं रममाणे मयि रमा-शिरोमणीयमाना राधापि साधारणतां गता ।

[२५] किं च, स्व-मनोरथ-प्रथनायां राधायाः प्रथमा प्रथमाना-गमनता सम्प्रति प्रतिपन्ना, तस्मान् महा-मह एव मम हिताय महीयते । स च शारदता-विशारदतायाम् अस्यां पौर्णमास्यां रास-रस एव तूर्णं पूर्णताम् अर्हति । एष तु सर्वासाम् ऐकमत्य-प्रतिपत्त्य्-अनुसारत एव सारताम् प्रसारयति । ऐक्यमतं च प्रत्येकं साभिमानान्तरासु परासु किञ्चिन् मद्-उदासीनता-परं दासी-कर्तुम् आसीदति। तस्माद् अशेष-गुणाधिकां राधिकाम् आदाय तिरोधाय स्थास्यामि इति ।

[२६] तद् एतद् विभाव्य भाव्यम् अर्थं साधयन्, माधवस् तत्र तत्रालस-कर-चरणादि-क्रियां प्रियां प्रियां प्रत्य् उवाच—नूनं वञ्चित-काञ्ची-ध्वनितया कयाचिद् अप्य् अत्र स्थीयत इति नास्थीयते । तच् च मम भवद्-एकानुचारि-विहारितया विचारितीक्रियते । तस्माद् अत्यायासवत्या भवत्या स्थीयताम् । मया तु समया मृगयमाणतां निर्माय नातिसमय-विरामम् आगमनीयम् ।

[२७] तद् एतद् अभिधाय, ततस् ततः सर्वतश् चान्तर्धाय राधया सह सहसा जगाम ।

[२८] अथ समय-कतिपय-व्यत्ययम् असहमाना सा सा च ततस् तत उत्थाय प्रस्थाय च तम् अन्विच्छन्तीति भ्रमणात् क्रमशः एक-द्वादितया परम्परं मिलिताः । मिलिताश् च ताः परम्परम् अप्रतीतितः शपथं प्रथमानाः कृष्ण-पथम् एवान्वेषयामासुः । किन्तु—

अन्वेष्टुं कृष्णम् इष्टं निकटम् अभिगतं चिन्तयित्वा प्रदूनाः कर्तुं तन् नैव शेकुः परम् अहह गताः क्लान्तिम् एता निपेतुः । स्थित्वा तद्वच् चिराय स्फुरण-मयम् अमुं प्राप्य सर्वाः समन्तान् मत्वान्योऽन्यं तम् एव प्रतिहत-मतयश् चक्रुर् आलिङ्गनादि ॥१८॥ [स्रग्धरा]

ततश् च—

यास् तु तृष्णाकुलतया कृष्ण-भाव-वशं गताः । कृष्णायन्ते स्म ता एव सर्व-पालकताम् इताः ॥१९॥ [अनुष्टुभ्]

[२९] अथ कथञ्चिद् अनुसंहित-बहिरर्थाः समयं गमयितुम् असमर्थाः पूर्वाभ्यास-वशान् निज-रक्षाया वशान् निखिल-सुखद-शीलां बाल्यादि-कतल्-लीलां गातुम् आरब्धास् तद्-आवेश-परिरब्धा बभूवुः ।

[३०] तत्र च कृष्णम् अन्विच्छन्त्यस् तत इतो गच्छन्त्यस् तरु-वल्ली-पल्लीम् अपि मुहुर् अपि पृच्छन्ति स्म, उन्माद-वृत्तेर् अनुवृत्तेः, यथा—

लीला गायंस् तत्-तद्-आवेश-वश्यस् तत्-तद्-भावं प्राप गोपी-निकायः । चित्रं कृष्णावेशिताम् आप या या गौराङ्गी सा कृष्ण-वर्णा प्रतीता ॥२०॥ [शालिनी] अद्यापि स्मृतम् उत्तपत्य् अहह मच्-चित्तं यद् एता मुहुः पृच्छन्ति स्म हरिं वियोग-विधुरा हा हा तरून् अप्य् अहो । आस्तां तन् मम हृद्य् अरुन्तुदम् इदं गीताभिर् एतत्-कृते घोराद् भीतिभिर् उन्मदिष्णु-हृदया घोरानुकारं दधुः ॥२१॥ [शार्दूल]

[३१] तदीदृशलीलावेशः परपरगच्छपृच्छाभिनिवेशतः क्रमशः प्रचित-निष्क्रमीकृतिम् अवाप, यत् पृच्छाभिनिवेशश् चैवम् अपगच्छति स्म, यथा—

कांश्चित् विकासि-कुसुमैर् उपहास-भावान् कांश्चिन् नताग्र-वलनैर् विमुखी-कृतास्यान् । कांश्चिन् मदालि-विरुतै रूषितोक्ति-युक्तान् मत्वा तरूंस् तद् अनुयोग-रसाद् विरेमुः ॥२२॥ [वसन्ततिलका]

[३२] ततश् च क्षितिम् एव प्रश्न-लक्षिती-कृतवत्यः, यथा—

अहो किम् अकरोस् तपः कियद् इहोर्वि यच् छ्री-हरेः पद-स्पृग् अनु विन्दसे पुलक-रूप-नानाङ्कुरान् । त्रिविक्रमज-विक्रमात् किम् इव तत् त्वया सम्भृतं वराह-परिरम्भतः किम् अथवा क्वचित् किन्तु न ॥२३॥ [पृथ्वी] पृथ्वी क्षमा च नाम्ना त्वं तत्-पदाङ्कम् उदङ्किता । तस्मात् त्वाम् एव तं प्रष्टुं ता वयं गतिम् आगताः ॥२४॥ [अनुष्टुभ्]

[३३] तद् एवं सर्वासु तर्व्-आदिकं पृच्छन्तीषु तत इतश् च गच्छन्तीषु तदीयं सौरभ्यं परिरभ्य, जगत्-प्राणेषु सन्निधानं प्रति प्रणीत-प्रयाणेषु, तद्-वैदग्धी-दिग्ध-स्निग्ध-हृदया राधा-सखी-समुदया हरिणीं प्रति कृत-प्रणयाः सानुमोदतया हारि व्याहरन्ति स्म—

अप्य् एणपत्न्य् उपगतः प्रिययेह गात्रैस् तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः । कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः कुन्द-स्रजः कुल-पतेर् इह वाति गन्धः ॥ [भा।पु। १०.३०.११] [वसन्ततिलक] बाहुं प्रियांस उपधाय गृहीत-पद्मो रामानुजस् तुलसिकालि-कुलैर् मदान्धैः । अन्वीयमान इह वस् तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः? ॥ [भा।पु। १०.३०.१२] [वसन्ततिलक]

[३४] अत्र खलु एणेति पत्नीति सखीति पद-त्रयेण—हे प्रशस्त-नेत्रे ! मादृश-मानुषी-सदृश-विचार-सञ्चरित-वृन्दावन-क्षेत्रे ! तत्-तद्-अस्मदीय-सुख-प्रख्येण सुखेन लब्ध-मद्-विध-सख्ये ! इति व्यज्य सुख-रज्य-मान-हृदयाः प्राह—

[३५] प्रियया समम् अच्युतः श्री-कृष्णः श्लिष्टतया तस्याः सकाशाद् अविश्लिष्टः सन्न् अदसीय-शोभा-कृतासङ्गैर् अङ्गैर् युष्माकं तादृशां दृशां केवल-स्व-दर्शनजानन्दाद् अप्य् अतिशयितम् आनन्दम् उत्कर्षयन् किं युष्मत्-समीपम् आप? तत्र तन्-मिथुन-श्लाघा-गर्भ-वचनेन हेतुं रचयन्ति कान्त इति । गोकुल-राज-कुल-तिलकस्य या कुन्द-माला, तस्याः कुत्राप्य् अलभ्य-सौरभ्यम् इह तद्-भार-मिलज्-जव-भङ्ग-निभ-वायु-सङ्गतः प्रसरति । कीदृश्याः? मालायाः कान्ता-परम-पुण्येन परम-सर्व-साद्गुण्येन तस्यापि लालसस्य या परमास्पद-रूपा, तस्या अङ्ग-सङ्गे कुच-कुङ्कुम-पङ्क-कुल-सङ्कुलायाः । अतः सन्तत-परिचय-विशेषेण तत्-सौरभ्य-विशेषं परिरभ्य स्फुटम् आभिस् तथा समुपलभ्यत इत्य् अर्थः ।

[३६] अथ तां तद्-दर्शन-जातेन हर्षेण सम्प्रति तद्-वियोग-जातेन तर्षेण स्थगित-वचनाम् आशङ्क्य, तेन च तयोः सङ्गमम् एव निष्टङ्क्य, परमानन्दतस् तदीय-विलास-विशेषं वन्दमानास्, तत्र पल्लवादि-भर-नम्राणां कम्राणां पुरूणां तरूणाम् अपि तदीय-सौविदल्लादि-भृत्य-विशेष-भावेन तद्-वन्दनम् उत्प्रेक्ष्य, प्रियया सह विहार-रतेन तेन तेषाम् अभिनन्दनं सन्दिहानास्, तयोस् तादृश-विलासावेशातिशयम् आह—बाहुम् इति ।

[३७] अथ तस्याम् उदासीना वदन्ति स्म—

लता इमाः पृच्छत या न लोकिताः पुरा तरु-श्लिष्टतयापि पुष्पिताः । सम्प्रत्य् अमूः स्पर्श-वशाद् बकी-रिपोः पुष्पान्वितास् तन्-नख-चित्रम् अत्र हि ॥२५॥ [उपजाति १२]

[३८] अथ तस्माल् लब्धविस्मये, पुनर् अकस्माद् अखिलशुभपद्यानि तदीय-पदनलिनयोर् अमलिनानि पदानि दधाना, वसुधा सुधाम् इव सुधामावलिं तासाम् अन्यासाम् अपि तदप्रतीतिस्पृशि दृशि किरति स्म, यानि प्रेक्ष्य चामूभिर् उत्प्रेक्ष्यते स्म—

इयं क्षितिर् मुनि-चरिता तद्-उत्तरं ददे न हीत्य् अवमृशती पुनर् ददे । ध्वजाम्भ्जाद्य्-उपवलिताङ्घ्रि-लाञ्छन- प्रदर्शनाद् इव लिखती तद्-आगमम् ॥२६॥ [रुचिरा*] ॥

[३९] कियद्-दूरे तु ताभिस् तत्-पदान्तराण्य् एव पदान्तराणि प्रतिपन्नानि । तथा हि—

तद् अनु तस्य पदं पदम् अन्तरा पदम् अनीदृशम् आददृशे परम् । अनतम् अल्पम् अमध्य-कृशं ध्वजाद्य्- उपचितिं विपरीतदिशि श्रितम् ॥२७॥ [द्रुतविलम्बिता*]

[४०] तत्र चेदम् अनुमीयते स्म—

मृगाक्ष्या लक्ष्यं स्याद् इह चरण-चिह्नं हरि-पद- प्रसक्तं वैशिष्ट्याद् अपि तु नहि पूर्वत्र किम् अपि । स्फुटं तस्मात् काञ्चिद्द् हृदि विदधद् अत्रार्पयद् असौ प्रसिद्धा स्तेनानां जगति हि हताङ्क-प्रशमिता ॥२८॥ [शार्दूल] असव्य-सव्यौ यूनोर् यत् पदाङ्कौ व्यतिमर्दिनौ । तत् तर्क्यते मिथः स्पष्टम् अंस-न्यस्त-प्रकोष्ठता ॥२९॥ [अनुष्टुभ्]

[४१] तद् एवं साधारणीनां वर्णनम् आकर्ण्य राधा-सख्यः पुनर् आलपन्ति स्म—

परस्पर-करग्र-स्फुरद्-अमन्द-खेलास्पदं प्रमत्त-करि-दम्पति-स्थिति तयोस् तु यूनोर् युगम् । यद् अत्र विजने वने विगत-शृङ्खलं लीलया विधास्यति परं महस् तद् अतिसुष्ठु पुष्णाति नः ॥३०॥ [पृथ्वी]

[४२] अथ तत्र सुहृदां वचनम्—

अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । यन् नो विहाय गोविन्दः प्रीतो याम् अनयद् रहः ॥ [भा।पु। १०.३०.२८] इति ।

[४३] अयम् अर्थः- नूनम् अनया परम् अनयया कोऽप्य् अनश्वर-शक्तिर् अङ्गीकृत-भक्त-भक्तिर् ईश्वर एव निर्बाधितम् आराधितः, न तु देवता-मात्रम् । स च सकल-हरित्-पति-पतिः श्री-हरिर् एव, न च हरः सृष्टि-करश् च । हरितायाम् अपि सर्वावतार-विस्तारवान् स्वयं भगवान् इति सम्भाविती-भवति न चान्यस् तद्-अंशतयापि लब्ध-प्रशंसः ।

[४४] तादृश-चमत्कार-कारणम् अप्य् अवतारयन्ति, यन् नः इति । यां खलु गुण-रूप-महसा सहसा निखिल-हृदयं विन्दमानः श्री-गोविन्दः स्वयम् अयं निनाय, न तु न इव न निनाय । तत्-परिपाटी च प्रत्य्-उरसं विधाय प्रीति-रीति-परीततया कृता, न तु तद्-विपरीततया । प्रीतिर् अपि स्मर-महः-प्रवह-रहः-संहततया, न तु सामान्यता-मान्यतया । रहः-संहननम् अपि शर्म-सम्पद्-अंहति-बृंहित-गुण-बंहिततया, न तु तद्-असंहिततया । तच् च सर्व-गुण-विस्मायिकानाम् अप्य् अस्माकं त्याग-जागरूक-समयत एव, न तु तद्-विनिमयत इति स्वयं यन् गच्छन्न् एव निनाय इति ।

[४५] तद् एवम् एव मन्यामहे—या खलु धन्या राधाभिधा विधात्रा निःसाधारण-नाम-गुण-रूपतया निर्मिता, सैव दैव-कृतानुकुल्या भवितुम् अर्हति । तत्र यद्यपि तादृश-भगवद्-आराधन-साधनतया तन्-नाम-निर्वचनं सचित-रचनं भवेद्, अथापि फल-सम्बन्ध-निर्बन्ध एव श्रेयान् इति राधयति गोविन्दं, गोविन्देन वा राध्यत इति निरुक्तिर् एव युक्ति-मतीति मति-गम्यम् इति ।

[४६] अथ पुनस् तस्याम् उदासीनाः प्रोचुः—

अयि कलयत एते रेणवोऽप्य् अत्र धन्या यद् अजित-पद-पद्म-स्पर्श-भाजः स्फुरन्ति । ध्रुवम् अघम् अपहर्तुं ब्रह्म-भर्गाब्धि-कन्या दधति शिरसि यांस् तद्-दर्श-भाग्यं स्तवाम ॥३१॥ [मालिनी]

[४७] अथ काचित् तस्यां प्रतिस्पर्धिनी वर्धमान-मत्सराग्निर् धूम-शिखायमानं वचनम् उज्जगार—

भवति सुखदम् अस्मिन् श्री-हरेर् अङ्घ्रि-चिह्नं यदि न सजति तस्या हन्त दुर्नीति-मत्याः । कलयत बत धार्ष्ट्यं सुष्ठु भावत्क-भोग्यं तद्-अधर-मधु जुष्टं कुर्वती सा निलिल्ये ॥३२॥ [मालिनी]

[४८] अथ तस्याः सख्यः पुनर् ऊचुः—

कथम् अहह पदानि तानि तस्याः सुभगतराङ्क-पदानि न स्फुरन्ति । अपि हृदि दधद् एव तां निनिन्ये सखि दयितां दयितः सुजात-गात्रीम् ॥३३॥ [पुष्पिताग्रा]

[४९] अथ पुनः प्रतिस्पर्धिनीनां वचनम्—

पश्योत्सङ्ग-कृताङ्गना-वलयिनः कामातुरस्यासकृत् तद्-वस्त्रादिक-संवृति-प्रथनया व्यग्रस्य लक्ष्माण्य् अतः । निम्न-व्यस्त-पदानि माल्य-घुसृणास्तीर्णानि घर्माम्भसा भूयः सिक्ततमानि वेल्लि-तलता-क्षेपान्त-वर्त्मानि च ॥३४॥ [शार्दूल]

[५०] तस्याः सखीनां वचनम्—

न्यग्-जानु-द्वय-लक्षणस्य पुरतः सूक्ष्मं पदाङ्क-द्वयं वैमुख्येन धृतं व्यनक्ति सुदृशस् तस्यास् तद्-ऊर्वोः स्थितिम् । इति ।

[५१] अथ स्पर्धिनीनाम्—

तस्मिन् गर्भक-माल्य-खण्ड-पतनाद् उद्दण्डम् आलक्ष्यते कामिन्याः किल कामुकेन रचिता केशस्य वेशक्रिया ॥३५॥ [शार्दूल]

किं च—

अत्राप्रगुणताबद्धा मिथः पद्धति-पद्धतिः । राधा-माधवयोः क्रीडां निर्व्रीडां वेदयत्य् असौ ॥३६॥ [अनुष्टुभ्]

[५२] अथ ताः सनिजवृन्दया वृन्दया परिष्कृतस्य लतामन्दिरवृन्दस्य द्वारं तयोः प्रवेशद्वारं विविक्षन्ति स्म ।

[५३] तत्र तया समधुतया मधुरं पुष्पवृन्दं तथा प्रवेशदेशे निवेशितम्, यथा तल्लोलुभ-शुभंयुमधुकरनिकरा एव दौवारिका इव निवारका जाताः । \


[५४] ते हि प्रवेशारम्भत एव धृतसंरम्भाः प्रविशताम् अभिमुखं धावन्तः स्वकशिलीमुखताम् अर्थान्तरेणापि प्रथयन्ति स्म ।

[५५] अथ कथञ्चन श्लथतां चिरतः प्रथयमानेषु तेषु क्रमशः सर्वास् तर्वादिपल्लववेल्लनपूर्वकम् आविद्धपद्धतितया प्रविश्य परम् अपूर्वं तद् धाम निशामयामासुः, यथा— पिक-प्रथित-पञ्चमं भ्रमर-पूर्ण-मन्द्र-स्वरं मरुच्-चलित-पल्लव-प्रकट-वाद्यम् उद्यत्-प्रभम् । भुजङ्ग-रिपु-नर्तन-ज्ञपित-चञ्चलावारि-भृद्- विभा-वलित-तद्-द्वयातुल-सभासद्-अङ्गीकृतम् ॥३७॥ [पृथ्वी]
विचित्र-कुसुमैश् चित-स्थलम् अनल्प-तल्पाकुलं बहु-व्यजन-चामरं सुरभि-वीटिका-सम्पुटम् । स-चन्द्र-वर-चन्दनागुरु-गुरूरु-पात्रान्वितं लता-गृह-रहः-पुरं ध्वनयति स्म ताः प्रत्य् अदः ॥३८॥ [पृथ्वी] (युग्मकम्) अयं कुसुम-सञ्चयश् चरण-पात-जात-श्लथस् तद् एतद् अपि तल्पकं विघटिताङ्ग-भङ्गी-स्थिति । इदं व्यजन-चामरं गलित-यन्त्रजान्दोलनं तथा सुरभि-वीटिकाद्य् अपि विभुक्त-मुक्ती-कृतम् ॥३९॥ [पृथ्वी]

ततः किम् इव पृच्छथ स्व-वदवेत माम् उज्झितं परं द्रुतम् इतः परं व्रजत तत्र तं प्राप्नुत । अमी पिक-मुखा मम स्फुटम् उपेयुर् उत्पित्सुतां स्वयं भवति दुःखिते भवति कस्य वाङ्गीकृतिः? ॥४०॥ [पृथ्वी] (युग्मकम्)

किं च—

इदं मृग-मदावृतं घुसृण-बिन्दु-मन्दोक्षितं क्षितं शयनकं ततः स-परिवृत्ति-लक्ष्माप्य् अदः । परस्पर-विपर्यय-प्रथिति-शालि यद् बान्धवं कुलं कथम् अमुष्य न स्फुरतु पारिभावी दशा ॥४१॥ [पृथ्वी] \

[५६] अथ तयोर् वृत्तम् अनुवृत्त्यताम् । \


[५७] यदा तु निकुञ्ज-पुर-द्वारि प्रवेश-कृतावेशानां तासां कोलाहल-विकलतावकलिता, तदा सम्भ्रम-वलितेन राधा-ललितेन तेन ततः प्रचलन-कलनाय तस्याः स्वस्य च चेल-सम्भालनादिकम् आरब्धम्, न तु लब्धम् । किन्तु— उत्कर्णता-समवकर्णन-वस्त्र-वेषा- धानानि या विवशता निजगार तां च । तूर्णिर् यदा निगिरति स्म तदा मुरारिर् लब्ध-क्षणः प्रणयिनी-वलितं निलिल्ये ॥४२॥ [वसन्ततिलका] ॥ \

[५८] अथाग्रिम-कथा-प्रथनाय परामृश्यते ।


[५९] न चैवम् अपि तासां तस्य च कामुकता-सामान्यं मन्यताम् । तन्-निकाम-कता-निवारणस्य करणस्य कारणं स्वरूपं तावन् निरूप्यते— प्रेत-प्राय-शरीराः सर्वे ते कामुकाः कलिताः । कृष्णः सान्द्रानन्दस् तस्य च राधा-मुखाः शोभाः ॥४३॥ [उपगीति] ॥
[६०] यथोक्तम्— त्वक्श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर् मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् । जीवच्-छवं भजति कान्तम् अतिविमूढा या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥ [भा।पु। १०.६०.४५] कृषि भूर्-वाचकः शब्दो णश् च निर्वृति-वाचकः । तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥ नराकृति परं ब्रह्म । त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते । [भा।पु। १०.१४.२२], ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो वृतः । व्यारोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥ [भा।पु। १०.३२.१०] इति च ।
[६१] भावश् च न कामतां भावयते, किन्तु तन्-निभ-प्रेम-विशेषताम् एव, यतः— उत्कण्ठा प्राप्ति-योगः प्रतिपद-मिलनाश्लेष-चुम्बादि-केलिः श्री-गोपी-कृष्णयोर् अप्य् अवर-तरुणयोर् अप्य् अमी तुल्य-रूपाः । किन्तु प्राचोर् मिथः स्युर् निरुपाधि-हिततामात्र-शर्म-प्रधानास् तेऽर्वाचोर् आत्म-तृप्ति-प्रवलन-परतामात्र-कॢप्ताः प्रथन्ते ॥४४॥ [स्रग्धरा] \

[६२] यथैव स्वयम् एव तास् तत्-प्रेम-देवता वदिष्यन्ति—

यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु । [भा।पु। १०.३१.१९] इत्य् आदिना । \

[६३] तस्माल् लक्षणविशेषात् तत्प्रेमविशेष एवासौ कामवेशायत इति कामतयो-पचर्यते न तु वस्तुतस् तत्तया स्मर्यते । अतस् तत्केलिश्रुतिफलश्रुतिर् अपि तथा विश्रुतिः—

विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः श्रद्धान्वितोऽनुशृणुयाद् अथ वर्णयेद् यः । भक्तिं परां भगवति परिलभ्य कामं हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ [भा।पु। १०.३३.३९] इति ।

[६४] तासाम् एष च भाव-विशेषतः खलु सर्वेषाम् अपि महतां महत्तराणां महत्तमानाम् अप्य् अन्वेषण-पदवीम् अनवच्छिन्नतया नवीकरोति । यथा च प्रथयिष्यते श्रीमद्-उद्धवेन—

एताः परं तनु-भृतो भुवि गोप-वध्वो गोविन्द एवम् अखिलात्मनि रूढ-भावाः । वाञ्छन्ति यद् भव-भियो मुनयो वयं च
किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥ [भा।पु। १०.४७.५८]

[६५] अतएव तादृश-तत्-प्रेम-तृष्णः श्री-कृष्णश् च तेन स्वस्य वशताम् उरीकरिष्यति—

न पारयेऽहं निरवद्य-संयुजां

स्व-साधु-कृत्यं विबुधायुषापि वः । [भा।पु। १०.३२.२२] इत्य् आदिना ।

[६६] तद् एवं सति तासु सर्व एवान्येऽपि गुणाः स्वत एवानुगुणा भवन्ति—

यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः । [भा।पु। ५.१८.१२] इतिवत् ।
[६७] ततश् चैवं वर्ण्यते— यद्-अमित-रस-शास्त्रे व्यञ्जि वैदग्ध्य-वृन्दं तद्-अणुम् अपि न वेत्तुं कल्पते कामि-लोकः । तद् अखिलम् अपि यस्य प्रेम-सिन्धौ न किञ्चिन् मिथुनम् अजित-गोपी-रूपम् एतद् विभाति ॥9 [मालिनी]


[६८] तद् एवं सति च सर्वासु तासु श्री-राधा पुनर् असाधारणतां धारयति । यथोक्तं, अनयाराधितो नूनम् इत्य् आदिना ।

[६९] तद् एवम् आकलिते निर्गलिते फलितम् अवकलितं क्रियते । एवं राधा-प्रेम-धामा ययाऽसाव् आत्मारामोऽप्य् आप्त-कामोऽप्य् अदभ्रम् । रेमे यस्मात् कामिनां कामिनीनां न्यक्कारोऽभूद् आत्मनैवेति मन्ये ॥४५॥ [शालिनी]

[७०] आत्मारामता ह्य् अत्र परमानन्द-रूपतया आप्त-कामता च परम-लक्ष्मी-लक्षण-गोपी-लक्ष-वल्लभता-विलक्षणतया, [७१] अदभ्रता च ताः परित्यज्यापि तस्याम् अखण्डितताया व्यज्यमानतयेति प्रसज्यते । \


[७२] तत्र च सति— अन्योऽन्यानुगतिं यदप्य् अनुसृतौ प्रेम्णः प्रवाहौ तयो राधा-माधवयोस् तदप्य् अनुपदं कौटिल्यम् आसीदतः । यो गाम्भीर्यम् अपां जवं च दधते पूरः स हि प्रेक्ष्यते

सावर्त-प्रचयस् ततः परतरः सारल्य-कैवल्यवान् ॥४६॥ [शार्दूल] \


[७३] यथोक्तम्—

_अहेर् इव गतिः प्रेम्णः स्वभाव-कुटिलो भवेत् ।
अतो हेतोर् अहेतोश् च यूनोर् मान उदञ्चति ॥ [UN १५.१०२] ॥ _


[७४] तद् एवं स्थिते तन्-मय-विलास-विशेषो वर्ण्यते— दर-मुकुलित-नेत्रा तिर्यग्-आलम्बि-कण्ठी शिथिलित-भुज-युग्मा स्तब्ध-सक्थीयम् आसीत् । तद् अपि च मधु-हन्त्रा जानता स्वं कृतार्थं मुहुर् अपि हसिता किं भ्रू-कुटिं नापि कुर्यात्? ॥४७॥ [मालिनी] ॥ \

[७५] तद् एवं वृत्ते वृत्ते नेतरि चानुनेतरि मान्वत् तस्याः किञ्चिद् अहं-मान-स्पर्शोऽपि सदर्शो बभूव । यथा च तया पूर्वं नात्यूहापोह-सामर्थ्यम् आसीद् इत्य् अधुना खल्व् इदं भावितम्—

एतावन्तं दिष्टम् अज्ञासिषं न प्रेयः-सङ्गात् किन्त्व् इदानीं तद् ऊहे । प्रेयान् सर्वाः प्रोज्झ्य माम् एव रम्यां सङ्गम्यान्तः-काननं यन् निनाय ॥ऽ४८॥ [शालिनी]

[७६] ततश् चाग्रिम-गमनाय व्यग्रेण नाथेन प्रार्थितापि सा लालित्येन किञ्चिद् आलस्यम् अपि व्यञ्जयामास, यथा—

त्वद्-गात्र-स्पृष्टता-मात्र- श्लथाङ्ग-गतितां गताम् । स्पन्दाय चातिमन्दां मां यत्र तत्र स्वयं नय ॥४९॥ [अनुष्टुभ्] ॥ \

[७७] तद् अनु च तद्-उदासीनताधीन-भाव-समूहम् ऊहमानः प्रणयवान् अपि प्रणय-मानवान् इदं सोपलम्भ-परीहास-लम्भम् उवाच—कथं भवत्या मुह्यते? मम स्कन्ध एव स-निर्बन्धम् आरुह्यताम् इति । \


[७८] तदा च तज्जया सेर्ष्यालज्जयाधःसज्जदाननम् अस्याः पश्यन्न्, अन्तर्हितवान् अपि सकौतुकम् अन्तर्हितवान् । सहसान्तर्हिते च तस्मिन् विस्मिता विस्मिता च सा विधुरहिता कुमुदिनीव विधुरिता बभूव । तत्र किल सानुलापं विललाप च—

_हा नाथ ह रमण हा प्रियतातिकान्त _

_हा हा क्व गच्छसि महाभुज हा क्व वासि? । _

_दास्यां सदा कृपणताजुषि नन्व् अमुष्याम् _

_आत्मोपकण्ठम् अपि सूचय जीवितेश ॥५०॥ [वसन्ततिलका] _


[७९] अत्रास्तु तावत् तव रूप-निरूपणं त्वन्-निकट-भूमिम् इवोधघटनयापि धीरतां धारयामीति ध्वनितम् । \

[८०] ततश् च, यद्यप्य् एवम् अपि चतुर-शिरोमणिना तेन विचारितम् अस्ति स्म, यथा—यद्य् एतस्याश् च मया परित्यागः परित्यक्ताभिः सम्प्रति प्रतीयते, मया पृथग् एनया च सङ्गम्यते, तदा परस्परम् आसत्त्यां सत्यां महा-रास-महः सम्पद्यते इति, तथापि स्नेह-वशान् मूर्च्छन्तीं ताम् आगच्छति तस्मिन्न् अच्छ-हृदये मृगयमाणा मृगलोचना द्रुतम् आगच्छन्ति स्म ।

[८१] ततश् च सम्भ्रमतः प्रच्छन्नतां गच्छति श्री-कृष्णः—

एषा चम्पक-मालिकात्र पतिता किं चन्द्रलेखाथवा कान्तीनाम् अधिदेवता भवति वा वृन्दावन-श्रीर् उत? । हा कष्टं नहि चेष्टते किम् इयम् इत्य् उद्विग्न-धी-वृत्तयस् ताम् आवव्रुर् अमूश् चमूरु-नयना भृङ्गी-निभाः पद्मिनीम् ॥५१॥ [शार्दूल] तत्रान्यास् तु सखी-निभाः समभवंस् तस्यां द्रवन्-मानसाः प्राण-प्राण-समाः स-मान-मनसः सख्यश् चितं तत्यजुः । यस्मिन् नास्त्य् अवलम्बनं किल किम् अप्य् अस्मिन् विधिः सद्-विधिस् तादृक्षेषु विलक्षणेषु वलयत्य् अन्यच् च धन्यं बहु ॥५२॥ [शार्दूल]

_कृष्ण-प्रसङ्ग-परिवासितम् अङ्गनानाम् _

_अङ्गं यदा तु नसि सङ्गतिम् अङ्गति स्म । _

_सारङ्ग-लङ्गिम-दृशः परम् अङ्ग-सङ्घाश् _

चाचेतिषुः सवयसोऽपि तदाङ्ग-तुल्याः ॥५३॥ [वसन्ततिलका]


[८२] तदा तु— काश्मीरार्द्रं क्वापि सिन्दूर-लिप्तं क्वापि च्छिन्नं क्वापि भिन्नं क्व चापि । अन्तः-पीताच्छादनं तन्-निचोलं पश्यन् सङ्घः सङ्गिनीनां ननन्द ॥५४॥ [शालिनी] स्वयम् अपि यदपि तदा सा हरि-परिमल-भाग् अथापि तासां तु । आगन्तुक-सुबहूनां गात्रात् तद्-भाग् उवाह वैलक्ष्यम् ॥५५॥ [आर्या] \

[८३] तद् एवं सर्वा एव हृद्य-सौहृद्य-विस्रब्धास् ताम् आत्मैकध्यम् आगतां मध्यम् अध्यास्य तया सह परस्पर-परीरम्भ-बद्धाः सुदुस्तर-दुःख-नद्धाः पुरु रुरुदुः ।

[८४] सुदुस्तरं रुदित्वा च ताम् अमूस् तु पप्रच्छुः—अस्माकं खलु न दुःखं पञ्चभिः सहेति कल्पेनानल्पम् अपि दुःखं कल्पत्वाय नाकल्पत कल्पम् । ततस् तन् नातिप्रष्टव्यं भवतीत्य् अनन्य-गत्या भवत्यास् तु तत् त्यागः कथम् इति कथ्यताम्, कथं वा विकलता-हेतुः केवलता जाता, तद् अपि च ।


[८५] सा पुनर् अनुताप-विपद्-उत्तरम् उत्तरम् उवाच— कुतः कथं कुत्र च तेन नीता चकार किं वाहम् इदं न जाने । अनेन हीना तु विचारयामि स्वीयं तु दौरात्म्यम् अनर्थ-हेतुः ॥५६॥ [उपजाति ११] \

[८६] ततश् च धैर्य-पर्ययतः पुनः क्रन्दनम् अनुविन्दमाना खिन्नता-नति-भिन्न-सखीकाभिः काभिश्चित् कृत-सान्त्वना मार्जितानना वेश-निवेश-कृत-मानना सा समम् उन्नमयामासे ।

[८७] तया च समम् उन्नयनम् आयामसे—सम्प्रति च कुत्र स प्रतिलभ्यते? इति । \


[८८] सा चोवाच—नातिदूरम् अक्रूर-चेताः स तु कुतुकितया विलसति, न तु कितवतया— यतः गोकुल-राज-कुमारः शुचि-रति-गम्भीर-धीर् ह्रीमान् । तद् अपि च मर्यादां नः स्वीकारायात्यजत् करुणः ॥५७॥ इति [उपगीति]

[८९] तस्मात् तदीय-चरण-चरित-वर्त्मानुचरणम् एव नः श्रेयः । तद् एतद् वचनं रचयमाना वन-प्रचयं पुष्पावचय-परा इव विचिन्वन्ति स्म । ततो ध्वजादि-पदानि पद-पद्म-चिह्नानि क्रमतस् तावद् अमूर् अन्वक्रामन् यावत् तानि स्पष्टानि दृष्टानि । परतस् तु परिवीरुन्-महीरुह-निविडतम् आरण्य-धरण्य्-अन्ध-तम-प्रविष्टानि दृष्ट्वा न्यवर्तन्त, न च तत्रावर्तन्त ।


[९०] तत्र चेदं विचारयामासुः—नूनम् अस्मज्जया लज्जया सज्जन्न् असाव् इह सहसा न साक्षाद्-भवितुम् अध्यवस्यति, तस्मात् तद् अबोध-निधाय-भूर् इयं दूरतः परिहरणीया परिहृत्य च सा पुलिन-धरणिर् एवानुसरणीया ।

[९१] यत्राहम् अत्रास्मि—तत्र-भवत्यस् तु कुत्रत्यताम् इता इत्य् अपदेशाद् अपत्रपाम् अपनयन्न् अयम् अपरोक्षतां प्रपनीपद्यते ।

[९२] तद् एतद् विचार्य समाचार्य च पर्यन्वेषणास् तम् उद्दिश्य दिश्यं दिश्यं वनं प्रविश्य, स्वयम् अन्विच्छन्तम् इव सञ्चरन्तं दैन्य-सैन्य-मयम् अतिगान-वितानम् आचरन्ति स्म इति ।

[९३] तद् एवं तेषां सभासदां कथा-समाधेर् अवधाय कथकः समापनम् आह—

ईदृग् एष वरः कृष्णस् तव वृन्दावनेश्वरि । त्वां विना तु परः-कोटीर् अपि नाङ्गीचकार यः ॥५८॥ [अनुष्टुभ्]

इति श्री-श्री-गोपाल-चम्पूम् अनु

श्री-राधा-सौभाग्य-श्रवण-सुभाग्यं नाम

चतुर्विंशं पूरणम्

॥२४ ॥

(२५)

२१। अथ पञ्चविंशं पूरणम्

३०। विप्रलम्भन-स्तम्भन-श्री-कृष्ण-लम्भनम्
[१] अथ मधुकण्ठ उवाच—तच् च गानम् अवधीयताम् । यथा—

व्रजविधो दशास्माकम् ईक्ष्यताम् व्रजविधो दशास्माकम् ईक्ष्यताम् ॥१॥ जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिराप्य् अस्य भूरजः ।
तद् अपि हाऽजहा नस् त्वम् अत्र भो
वयम् इमः कथं वान्यतां प्रभो ॥२॥ परम-जाति-भाग् उत्तमं स्वतः
शरदिजं च यत् पङ्कजं ततः ।
दल-कुलावृतेः कान्ति-देवतां
हरसि यद् दृशा शश्वद् एव ताम् ॥३॥ कथम् अहो वयं स्वच्छताम् इता भवितुम् ईश्महे तद्-बहिः-स्थिताः । अपि किल त्वया याच्ञया सिताः
स्वयम् अमूर् वरेणापि सन्दिताः ॥४॥ इति गतास् तव प्रेष्यतां पुनः किम् उ तया दृशा हंसि तास् तु नः? । यद् इह शस्त्रतः केवलं वधः स्फुरति नाक्षितस् तन्-मतं त्व् अधः ॥५॥ बहु-विधाद् भयाद् यत् त्वयावितं सकल-गोकुलं काननान्वितम् । तद् अपि मन्महे स्वावनं यतस् त्वद्-अनुरागतः सोऽपि किं हतः? ॥६॥ कृपण-पालक श्री-व्रजेश्वरी- तनुज योग्य-धीर् अस्ति नश्वरी । इति तवात्मवल् लिप्ति-रिक्तता परग-पीडया भाति तिक्तता ॥७॥ त्वम् असि नान्यवत् कोऽपि कोपनः स्फुरसि यत् प्रभो विश्व-गोपनः । तद् इह पद्मजाभ्यर्थितः स्व-भूः परम-सात्वताद् अन्वयाद् अभूः ॥८॥ इति तवेशितुः सुष्ठु यः करः प्रथित-संसृतेर् भीति-भीकरः । शिरसि नः कुरु श्री-कर-ग्रहं
तम् इह नान्यथा भावयाग्रहम् ॥९॥ व्रजग-भी-हृतौ वीर योषितां शमयसि स्मितेनैव रोषिताम् ।
तद् इह नान्यथा दण्डनं कुरु
प्रकटयानन-श्री-महः पुरु ॥१०॥ यद् अपि ते पदं श्री-निकेतनम्
वृजिनजिन् महा-पुण्य-केतनम् । तद् अपि गो-गणस्यानुवर्तनं विष-भृतः शिरो-वर्ति-नर्तनम् ॥११॥ यद् अधि तत् तद् अप्य् आत्त-दुःस्थिति स्वयम् अभूत् ततः शान्तताक्षितिः । अहह तन् मनाग् नस् तु वक्षसि स्व-विरह-ज्वले किं न रक्षसि? ॥१२॥ मधुर-लीलया कर्ण-रम्यया
विशद-वाक्यया व्यक्त-गम्यया । मुख-सुगन्धितासात्म्यया चिरात् तृषम् इता वयं हन्त ते गिरा ॥१३॥ तव कथामृतं तप्त-जीवनं
कविभिर् ईडितं कल्मषार्दनम् ।
प्रवितरन्ति ये तेषु दुर्जनाः
सपदि नः कृते ज्ञप्त-वर्जनाः ॥१४॥ प्रहसितं तव प्रेङ्खि-लोचनं विहरण-क्रमाद् भाव-रोचनम् । मुरलिका-रुतं सर्व-शोचनं
विपिनतस् तु नः प्राण-मोचनम् ॥१५॥ चलसि यर्हि वा धेनु-चारणे दलति धीस् तु नस् तत्र कारणे । शिल-तृणाङ्कुरैर् याव-सन्नता
किल भवत्-पदोः सास्मकान् गता ॥१६॥ अहह जाज्वलत्य् अन्तराणि नः स्मर निजान् जनान् दीन-मानिनः । चरण-पङ्कजं हृद्य् अमूदृशां रमण हे त्वया धीयतां भृशम् ॥१७॥ अहह यर्हि यास्य् अह्नि काननं
कुटिल-कुन्तलं श्रीमद्-आननम् ।
मुहुर् अपश्यतां तर्हि स क्षणः स्फुरति सर्वदा कल्प-लक्षणः ॥१८॥ किम् इह तच् च वा वाच्यतां व्रजेन् निमिर् अपीह यच् छप्यते व्रजे? । कथम् अहो वयं तास् तु गोपिका
न हि भवाम वा तत्र कोपिकाः? ॥१९॥ वितत-गीतिका-जाल-सन्दिताः
स्वक-जनान् अतिक्रम्य चार्दिताः । करम् इता महारण्य-भृद् दिशि च्छलमयः स्त्रियः कस् त्यजेन् निशि? ॥२०॥ प्रहसितं प्रिय प्रेम-वीक्षणं विहसितादिकं वल्गु-लक्षणम् । बृहद् उरः श्रियो धाम वीक्ष्यते निज-विमूढतास्माभिर् ईक्ष्यते ॥२१॥ दिन-लयेऽलक-ध्वान्तम् एकतः प्रसृत-गोरजः सन्ध्यम् अन्यतः । मुखतया मतं यामिनीश्वरं दर्शयन् मुहुर् यच्छसि स्मरम् ॥२२॥ स्व-रति-वृद्धितोऽनन्य-काङ्क्षिणी भवति वंशिका यत्र साक्षिणी । तम् अधर-द्रवं शोक-नाशनं वितर वीर भोः प्राणदाशनम् ॥२३॥ इति तु यत् त्वया काम-कल्पनं
किल कलाबलात् तच् च कल्पनम् ।
वयम् अनारतं स्नेह-भावनाः
कथम् अयामहे जातु कामनाः? ॥२४॥ प्रकटता तु ते गोष्ठ-वासिनां वृजिन-नाशिनी प्राण-भासिनाम् ।
वितर नः सकृत् त्वत्-स्पृहा-युजां यद् इह सूदनं स्निग्ध-हृद्-रुजाम् ॥२५॥ [राजहंसी]

[२] तद् एतद् उद्गाय तद् अप्य् एतद् इत्य् आहुः—यत् ते सुजात-चरणाम्बुरुहं [भा।पु। १०.३१.१९] इत्य् आदि ।

[३] अत्र चेदं गद्यम्—यत् किल कमलतः कोमलता-युगलं तव चरण-युगलं स्तनाव् अनु स्नेहतः संहननायेहमानाश् च वयं ताव् अतिकर्कशाव् इति तर्कतश् च स्तम्भमानाः, शनैर् एव तयोस् तद् दधीमहीति वाञ्छामः । तद् अहो, कठिन-मनस्तया दुरटाम् अटवीम् अनुघटयति त्वयि कूर्पादिभिस् तत् किं न व्यथते? किन्तु व्यथत एव, यतस् तद्-भावना-जुषां भवद्-एकायुषाम् अस्माकं मनसि तन् मङ्क्षु सङ्क्रामति । तस्मात् तद् अटनम् एवास्माकं हृत्-पीडा, तल्-लालनम् एव तच्-छमनम् इति तल्-लालनम् एव देहीति भावः ।

[४] तद् एवं सति—

गीतेर् आसीद् विपरिणमनं तर्हि तासां विलापस् तस्याप्य् उच्चै रुदितम् इति यन् नाद्भुतं तत् तु तासु ।
कृष्णं द्रष्टुं प्रभवति बलाद् यस्य तृष्णातिधृष्णक् तस्यान्यस्याप्य् अहह शतधा दृश्यते तत् तद् अत्र ॥२६॥ [मन्दाक्रान्ता]

[५] अथ तथा मसृणम् असृणिकम् अश्रु नुदतीषु रुदतीषु सुदतीषु, तद्-अनुषङ्गत एव तमसः सङ्गतः क्रमशस् तन् निशमयन् निशामयन् मुर-शमनः स्वक-नयन-सलिल-कलिलतया नयन-लक्षेणाप्य् अलक्षितः सहसा महसावृतः सर्वासां मध्यम् अध्यासितवान्, अम्बरावृततया स्व-प्रथाम् आवृतवांश् च ।

[६] एका तु तत्र तस्य मनाग् आगमनाधिगम-कमन-नयनापि पूर्ववद् इदम् अपूर्व-स्फुरण-पुरस्कृतम् इति केवलं कृष्ण कृष्णेत्य् अलं कल-कलतया कलं कलयामास ।

[७] आकर्णित-तद्-वर्ण-कर्णाश् च वर-वर्णिन्यस् तन्-निर्णायक-स्वाभ्यर्ण-तन्-निर्वर्णनास् तूर्णम् एव पूर्णताम् अवापुः ।

[८] महाघन-घनाघन-घन-सङ्गमान् निदाघ-द्राघीयस्तयातिह्रस्व-दोघा ह्रदिन्य इव । उभयत्र हि गत-प्राय-जीवनताभिप्रायम् आगता ।

[९] तन्-निर्वर्णनं च, यथा—

आविस् तासु बभूव नर्म तद् इति व्यञ्जन् वियुज्यापि स
स्मेरः सङ्कुचद् अनन्तरं स्वम् अधियन् पीताम्बर-प्रावृतः ।
कर्तुं सद् विनयं स्रग्-अंशु-युगलं हस्त-द्वयेनामृशन्
स्रग्वी मन्मथ-मन्मथ-स्थितिर् अतिश्रीणाम् गतिः श्रीपतिः ॥२७॥ [शार्दूल]

ततश् च—

प्रियस् त्याग-व्रीडाद् विदधद् इव ताटस्थ्यम् अभितः स ताभिः कान्ताभिस् त्वरिततरम् आसादि परितः । समुद्रः सङ्कोचं समय-कलितं चेद् वलयते तदा नद्यः सद्यश् चपल-गतितां सन्निदधति ॥२८॥ [शिखरिणी]

[१०] तत्राहं-प्रथमिकया समुपेतासु तासु प्रथमतः श्री-पराशरेण कथिता काचित्, यथा—

काचिद् आलोक्य गोविन्दम् आयान्तं अतिहर्षिता ।
कृष्ण कृष्णेति कृष्णेति प्राह नान्यद् उदैरयत् ॥२९॥ [वि।पु। ५.१३.४३] इयं भद्रा-नाम्नी ।

[११] अथ श्री-बादरायणिना वर्णिता वर्ण्यते—

_काचित् करं मुरारातेर् _

_आचचार निजाञ्जलौ । _

_नव-पल्लव-पात्रान्तर् _

_यथा कमल-तल्लजम् ॥३०॥ [अनुष्टुभ्] एषा चन्द्रावली । _

तथा,

काचित् तद्-अङ्घ्रि-कमलं व्याजतो कुचयोर् दधे ।
लब्ध-वाञ्छित-निष्पत्तिः कुर्वतीव शिवार्चनम् ॥३१॥ [अनुष्टुभ्] एषा पद्मा ।

तथा,

काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बुल-चर्वितम् ।
यदा तदीय-रागस्य पात्रीवाचरति स्म सा ॥३२॥ [अनुष्टुभ्] इयं शैव्या ।

तथा,

काचिद् दधार तद्-बाहुं अंसे चन्दन-रूषितम् ।
या देहतः स्नेहतश् च व्यानञ्ज स्व-समर्थताम् ॥३३॥ [अनुष्टुभ्] सेयं श्यामला वामतः ।

तथा,

अपगमित-निमेषा या तु तस्यास्यम् अब्जं
नयन-युगम् अलीन्द्र-द्वन्द्वम् उच्चैर् अपीप्यत् ।
अवकलितम् अकार्षीद् रूपकं तत् तद् एषा
रस-रसन-विभूतेर् जिग्यतुस् ते तु यद् यत् ॥३४॥ [मालिनी] असौ ललिता ।

तथा,

तस्मिन् काप्य् अवलोक-मात्र-बलवल् लज्जा-प्रसज्जन्-मना मीलन्-नेत्रतया विचित्र-पुलका चित्रायमाणा स्थिता ।
ताम् अन्तर्-वलित-प्रियां प्रति ममाश्चर्यं वियोग-स्थितेर् मध्ये योगम् इहापि भोगम् इतवत्य् एषेति या चिन्त्यते ॥३५॥ [शार्दूल] एषा खलु विशाखा ।

तथा,

प्रेमा कोपं प्रसवति वृथाप्य् अस्त्रम् अत्रास्ति नेत्रं तच् च स्थानाद् अचलम् अपि सद् विध्यद् उद्भाति दूरम् । वेधश् चासौ व्रणम् अपि विना श्रीहरेः क्लेशदः स्याद् एवं यस्याः किम् अपि चरितं ताम् इमां वर्णयेत् कः? ॥३६॥ [मन्दाक्रान्ता]

असौ तु श्री-राधा, ता एताः सम्मुखतः ।

तथा,

कृष्ण-मेघागमोल्लास- पल्लवद्-वदन-श्रियः ।
सर्वाश् च लब्ध-पर्वाणः सद्यः सिद्धाः पुनर् नवाः ॥३७॥ [अनुष्टुभ्] एताः सर्वतः ।

_अतिपरिमिति-शोभा-भाजनं कृष्ण-रूपं _

_नयद् अनुपम-कान्तिं यौवतं तद् विरेजे । _

_इदम् उपमिति-शून्यं यत् तु काव्यं समाप्तं _

_स इह न मम दोषस् तद्द् हि तत्त्वं तथैव ॥३८॥ [मालिनी] _

[१२] तद् एवं तासां तस्य च परस्परं परम-मदन-मद-प्रद-वदन-नयन-निलय-लीलया चन्द्र-चकोर-शीलता लतावद् उत्फुल्लतां गता ।

[१३] तथा च क्षण-कतिपये लब्ध-क्षण-प्रचये ताः सादरम् आदाय, जल-जात-जात-समीरण-समीर-सरणि-तरणिजा-तरलतर-तरङ्ग-रङ्ग-निभ-नीर-सनीड-तीर-सरसैक-सैकत-पुलिनान्तरं निर्व्रीडं क्रीडन्न् एव वृन्दावन-देवः सेवयामास ।

[१४] तद् एव खलु प्रशस्त-भङ्ग-सङ्घ-लक्षेण हस्त-लक्षेण परम-धन्यया स्वयम् एव रवि-देव-कन्यया कञ्ज-किञ्जल्क-पिञ्ज-लता-मञ्जुल-गन्ध-गन्धवाह-परिरब्ध-कोमल-सिताभ्र-शुभ्र-बालुकाभिर् अतिनिश्चित-चित्त-याचितम्, तत्र च शारद-सुधाकर-कर-निकर-सुधा-लिप्ततया दूरतोऽपि तमस्तोम-शमनं, जल-स्थल-कुसुम-समुदयामोदा-मोद-मदित-मुखर-मधुकर-मधुरी-कृतम् उरीकृतवान् ।

[१५] उरीकृते च तस्मिन् परमादेये नादेये पुलिने, स्मित-विलसित-नेत्रः स्व-नाम्ना सित-शत-पत्र-नेत्रः सर्वासाम् अर्वाचीन-वयसां सवयसां स्व-हस्त-विन्यस्त-प्रशस्त-कुङ्कुम-ग्रस्त-नव-स्तन-वस्त्र-विस्तृती-कृत-स्वस्तिकासनस् तत्र स्तोत्र-भङ्गी-सङ्गीत-कला-रङ्ग-भूमिताम् अवाप स ताप-नोदनः । यथा,

ऊर्ध्वं ग्लौर् आतपत्रं तलम् अनु पुलिनं हीर-चूर्णाचिताङ्गं
श्रीमत्-पीठं समन्तात् कुसुम-वन-शतं तोरणानीव यस्य ।
तं दिव्य-स्वर्ण-वर्ण-व्रज-कुलज-रमा-राजि-विभ्राजि-देहं
स्नेह-श्री-काम्य-गेहं हरि-मणि-रुचिरं प्राण-नाथं स्मरामि ॥३९॥ [स्रग्धरा]

[१६] ततश् च वृन्दावन-सेविकाभिर् वृन्दा-प्रधान-कानन-देविकाभिः परम-प्रयत्न-पाल्य-माल्य-दिव्य-गन्ध-सन्ध-चन्द्र-चन्दन-मधुर-मधु-मदानुकूल-ताम्बूलाद्यं ददानाभिर्, मुहूर्तार्धं वर्धमान-परिहास-विलासं प्रेयसी-सहितः प्रेयान् महित-महत्तया शुशुभे ।

[१७] शोभमानश् च निगूढ-मानाभिर् अमूभिर् व्रज-चमूरु-दृग्भिः संवादम् अकॢप्त ।

[१८] ततश् च तासां वृथा-परित्याग-दोष-लब्ध-पोष-रोष-मयाभिप्रायकतया जातं चित्त-शोषं मोषं नयन्तीनां तोष-प्रायं व्यञ्जयन्तीनाम् अनुनय-गर्भ-नाना-विनोद-सन्दर्भ-वार्तां वर्तयति तस्मिन्,

काचित् करं चरणम् अस्य परा तथोरुम्
अन्यावलग्नम् अपरा मृदु मर्दयन्ती ।
अन्तर् निगूढ-कुपिता बहिर् अच्छ-भावा
भ्रू-लोचन-प्रसृमर-स्मितम् अभ्युवाच ॥४०॥ [वसन्ततिलका]

[१९] केचिद् एवं च वर्णयन्ति—

नयन-वलनैश् चिल्ली-चालैर् निगूढ-मृदु-स्मितैर्
ललित-लपितैर् अन्तर्-भङ्गैर् बहिर् वलितार्जवैः ।
चतुर-मनसस् तस्मिन् कृष्णं प्रियं वश-वर्तिनं
प्रणय-नयतः प्राहुः पृक्त-प्रहेलिकम् अङ्गनाः ॥४१॥ [हरिणी]

[२०] अयि चतुर-पुर-पुरन्दर! प्रहेलिका-कलिकाम् एकां विकाशय । यथा,

भजन्ति भजतः केचिन् नान्येऽन्यान् एव केचन ।
उभयांश् चापरे केऽपि नोभयान् अगतीन् परे ॥४२॥ [अनुष्टुभ्]

[२१] श्री-कृष्णस् तु चित्ते तद् अवबुध्याभिधत्ते स्म—

अर्थज्ञाः कृत-हन्तारो धार्मिका धर्म-गाथिनः ।
विमूढ-पूर्ण-मुक्ताश् च दयावन्तश् च ते क्रमात् ॥४३॥ [अनुष्टुभ्]

[२२] तच् छ्रुत्वा च परस्परम् असरण-चिल्लिभिर् अमूभिश् चिल्ली-वल्ली-वेल्लनेनेदं ज्ञापितम्—

चातुरीभिर् इह नस् तु कर्षतो धर्म-धाम दिशतः समुज्झतः ।
निर्दयं पुनर् अमुष्य शिष्यते येन नास्मद्-अतिदुःखम् ईक्ष्यते ॥४४॥ [रथोद्धता]

[२३] अत्र चातुरीभिः इति तस्यानर्थज्ञता, धर्म-धाम दिशतः इत्य् अधार्मिकता, तद्-उभयाभ्यां तद्-उभय-रहितता, पुनः चातुरीभिः इति विमूढता, ताभिर् नस् तु कर्षतः इति पूर्णता मुक्तता च । तत्र स्वकृतानुद्देशेन कृत-हन्तृता च निषिद्धा । त्यागे चास्मद्-दुःख-वीक्षणाभावेन निर्दयता तु शेषितेति श्लिष्यति ।

[२४] स तु तद् एवम् अवबुध्य स्व-शुद्ध्य्-अवगमनाय पुनर् उवाच—

नाहं तेषां सदृग् अपि तु मां लुब्धम् ऊहध्वम् ऋद्धौ

_प्रेम्णस् तां तद्-विषय-विरहं हन्त कृत्वापि वश्मि । _

_युष्मान् वाच्यं किम् इह मयका मायितावत्-प्रतीतेर् _

_एतद् यन् मे व्यसनम् असकृन् मां च दुःखाकरोति ॥४५॥ _

यूयं हित्वा निखिलम् अनिशं कामयध्वे परं मां मत्-काम्यास् तु प्रयुत-नियुतं प्रेम-भेदेन सन्ति ।
तस्मान् न प्रत्युपकृति-कलालेश-कल्पं विधातुं
शक्नोमीति प्रथयत निजैः सद्-गुणैर् एव तुष्टिम् ॥४६॥ [मन्दाक्रान्ता]

[२५] तद् एवम् अनवद्यं कृष्ण-वद्यम् अवधार्य—

मनोज्ञत्वेन न परं सुरूपत्वम् इहान्वभूत् ।
बुधत्वेनापि कृष्णस्य स-तृष्णोऽयं प्रिया-गणः ॥ ४७॥ [अनुष्टुभ्] ॥

[२६] तत्र गीर्वाणीनाम् आकाशतः परिहासवाणीयम्—

रुचिम् अनु कुटिलाक्षीणां स्तुतिम् अनु जिह्मं ब्रुवाणानाम् । माधव गोप-वधूनां गुणतः कस्मान् मुदं तनुषे ॥४८॥ [उपगीति]
स एको जयतान् मान-मातङ्गो व्रज-सुभ्रुवाम् ।
हरिणा निर्जितस्यापि यस्य वीर्याद् बिभीयते ॥४९॥ [अनुष्टुभ्] ॥

[२७] अथ समापनम्—

वैदग्धी-दिग्ध-बुद्धीद्धः सोऽयं राधे सखा तव ।

अलम्भूष्णुं तत्र मेने यस् त्वां तुष्णीं स्थिताम् अपि ॥५०॥ [अनुष्टुभ्]

इति श्री-श्री-गोपाल-चम्पूम् अनु

विप्रलम्भन-स्तम्भन-श्री-कृष्ण-लम्भनम् नाम

पञ्चविंशं पूरणम्

॥२५॥

(२६)

२२। अथ षड्विंशं पूरणम्
२३। रास-विलास-प्रसारणम् \

[१] अथ स्निग्धकण्ठ उवाच—

सुवचनम् अघशत्रोः शृण्वती श्रेणिर् आसां
विरहजनितदुःखं पूर्वसिद्धं व्यधावीत् ।
परम् इह न तद् एव व्याधुनोत् किन्तु शङ्का-
न्तरम् अपि यद् अमंस्त स्पष्टम् आयत्तम् एतम् ॥१॥ [मालिनी]


[२] तद् एवम् अमूर् उत्फुल्लवदनकञ्जसदन-मञ्जुनयनखञ्जरीटाः स पुनर् मञ्जुलम् आभाषते स्म—
युष्मत्कृते स्म सुचिरान् मनसास्मि दूय-
मानेन यूयम् अपि तस्थ मदर्थम् एव ।
तस्याथ दुर्लभतमस्य मनोरथस्य
प्राप्ताव् इहानुरहसं महम् आचराम ॥२॥ [वसन्ततिलका]
[३] स च रासरूप एव निरूप्यते । तथा हि—

दीपः शारदभूरिपूरितशशी यत्रास्ति वृन्दावनं
रङ्गः श्रीव्रजनायिकाः स्वयम् इमा यूयं कलाकोविदाः ।
तं चेमं समयं समेत्य मुदितः सोऽहं हरिः किं परं
कर्तास्मि क्षणम् अन्तरा तम् अपि किं रासं विना भोः प्रियाः ॥३॥ [शार्दूल]


[४] इति क्षीणतमा व्रजजलधिसम्भवाक्षीणचन्द्रमाः सर्वा अपि ताश् चकोराक्षीर् अषडक्षीणयुगपद् लिङ्गनादिना सुखलक्षलक्षितीकृत्य, बलवद् आदृत्य, रासनृत्य-विधये निर्जम्बालम् अस्तम्बजालम् अबन्धुरं बन्धुरं कमलबन्धुजापुलिनम् आवृत्य, परस्परकरसंवलनया वलयाकाराश् चकार ।

[५] कृते च वलये—


कृष्णायाः पुलिनं गतेन रमणेनापूरि कामस् तदा
तेनामुष्य मनस् तथा प्रतिपदं तेन द्वयं चक्षुषोः ।
तेनाङ्गस्फुरदङ्गनासमुदयस् तेनाथ पूर्वं परं
सर्वं पर्व च तद् ब्रुवे किम् अपरं नाद्यापि विश्राम्यति ॥४ ॥ [शार्दूलविक्रीडितम्]॥

[६] तद् एवं स्व-कलित-चये वलये वनमाली शोभानिचयम् उपलभमानश् चिन्तयामास— \

उपरि यथोज्ज्वलम् इन्दोर्
वलयं पुलिनं तथा भुवि च ।
किन्तु कलङ्कस् तस्मिन्
निर्मल-रमणी-कुलान्य् अत्र ॥५॥ [उपगीति]


[७] तद् अहो ! चामीकर-मणिसराकारोऽयं रमणीय-रमणी-वलयः प्रति-युग्म-मध्यं यदि महामर-कतायमान-नायक-सम्बध्यमानताम् आबध्नाति, तदा हृद्यताम् आपद्यते ।

[८] तच् च तथावेशेन मत्-प्रवेशेन परं सिध्यतीति निधाय स्थितः सन्न्, अकस्माद् यथा-मनोरथाकारम् एवावस्थितवान्, यथा स्वयम् अपि कथम् इति तु न तत्-प्रथनम् अवाप । ततश् च—


हरि-हरिणाक्षी-वलितं
पुलिनं तद् वल्गु भाति स्म ।
स्व-प्रतिबिम्बेनादाद् यद् विधु-बिम्बाय सारूप्यम् ॥६॥ [उपगीति]
सुहृद् इन्दोः पुलिनं तत्-
पुलिनस्याभून् नत-भ्रुवां प्रचयः ।
तत्-प्रचयस्य च वलनं
श्रीयुत-गोपाल-मूर्तीनाम् ॥७॥ [आर्या] \

यत्र च,

परस्पर-करावलि-ग्रथित-मण्डली-मण्डनीर्
अनुस्वम् अबला मिलन्न् उभयतस् तदा माधवः ।
तदीय-भुजपाश्यया कलित-मृष्ट-पृष्ठस् तथा
तद्-अंस-निहितात्म-दोर् अभवद् एष रासोद्यमे ॥८॥ [पृथ्वी]

_
गौरी-कृष्णौ गौरी-कृष्णाव् इत्थं लक्षे लक्षे युग्मे ।
वृत्ताकारे वंशी-शंशी राधा-सङ्गी तस्थौ मध्ये ॥९॥ [विद्युन्माला]_

_
रासं प्रारभत स्वयं हरिर् असौ कैशोरकं मानयन्न्
इत्य् एवं स पराशरोऽपि भगवान् प्रावोचद् उच्चैर् यतः ।
तस्माद् गोप-वधूभिर् एव सफलं तज्-जातम् इत्थं तु मे
हंहो पश्यत वच्मि वा किम् अपरं रोम्णां च जातं महः ॥१०॥ _

[शार्दूलविक्रीडितम्]

_
स विविध-वनिता-वृन्दैर् यदपि बहु-प्रेयसी तदा जज्ञे ।
तदपि च राधा ज्ञप्तिर् मन्ये तस्यापराः कृतयः ॥११॥ [आर्या]
_

तद् एवम्—

_
अनङ्गम् अङ्गेन निजेन साङ्गं _

_कृत्वाधि-रङ्ग-क्षिति सङ्गमय्य ।
अङ्गीचकाराङ्ग तम् अङ्ग-हारैर् _

_नव्याङ्गना-सङ्गम-मङ्गलाय ॥१२॥ [उपजाति ११]
_

कलित-कनक-भासः स्मेर-नेत्रा विधूति-

क्षुभित-वलय-वीथी-शिञ्जित-व्यक्त-तालाः ।
विविध-गति-विहारानङ्ग-साराङ्ग-हारा
हरि-हरि-मणि-मूर्तीर् अन्तरा ता विरेजुः ॥१३॥ [मालिनी]


ततश् च—

_नवीन-विनत-भ्रुवां निज-नवीन-कान्त-च्छवी-
जुषां नटन-चातुरी-कुल-धुरीण-लीला-युजाम् ।
चलद्-वलय-शृङ्खलावलित-नूपुराणां ध्वनिर्
नटाध्व-निधि-तालतां ध्वनयति स्म यावद् दिवम् ॥१४॥ [पृथ्वी]
_

_रासे शिञ्जित-ताल-जालम् उदभूत् तद्वद् यथा खेचरान्
अप्य् आकृक्षद् अहो विदूरतरतः कृत्वेव पूर्व-स्थितान् ।
द्यो-यानाभिध-मञ्च-सञ्चय-गता वाद्यं च गीतं च ये
सभ्यत्वं च समं मदाद् विदधतः स्वं नात्र निश्चिक्यिरे ॥१५ ॥ _

[शार्दूलविक्रीडितम्]


[९] तत्र देवीनां सञ्जल्पः—पश्य, पश्य—

_
हरिणा गानम् आसादि गानेन रमणी-कुलम् ।
रमणीभिर् अथो गानं गानेन स हरिः पुनः ॥१६॥ [अनुष्टुभ्]
पुलिनं विलसत्-कृष्णं कृष्णं सालिङ्गनाङ्गनं कलय ।
आङ्गनम् अभिनव-गीतं गीतं सङ्गीत-सङ्गि-सङ्गीतम् ॥१७॥ [गीति]
_

[१०] तत्र स्वयम् आरम्भे लास्य-सम्भेद एव जातः । [११] तद् यथाभिनयं यथा—


अङ्ग-हार-चलद्-अङ्ग-हारिषु
स्वान्तहारि विलसद्विहारिषु ।
लास्य-कारिषु च लास्यम् आचरन्
भ्रू-नटी-घटित-नेत्रा नर्तकाः ॥१८॥ [रथोद्धता]
[१२] तौर्यत्रिक-शौर्य-वराणां खेचराणां वाद्ये तूद्भूते ताण्डव-मण्डलं च साभिनयम्, यथा—
उद्यद्-दुन्दुभि-मड्डु-डिण्डिम-डमर्-वाद्ये मृदङ्गं गते
वाद्येऽद्योपद-विद्य-वेद्य-नदने सद्योऽथ विद्योतिते ।
ते तर्ह्य् उद्भट-नाट्य-नीति-घटना-सङ्घट्ट-निष्कुण्ठता-
सूत्कण्ठाः पद-पाणि-कण्ठ-कटि-सम्मोटालि-कोटिं दधुः ॥१९॥ [शार्दूल]

[१३] तत्र च शस्त्र-प्रशस्तानाम् इव तेषां कृत-हस्तकानां पुनर् लक्ष्याद् अच्यव एव लक्षितः । तथा हि—


हित्वा हित्वाप्य् अत्र हस्तालि-बन्धं
तालालम्बा हस्तकानि प्रदर्श्य ।
गौरी-श्यामा लाघवात् पूर्णमाना
रासोल्लासे तद्वद् आसन् पुनश् च ॥२०॥ [शालिनी]
पुष्प-वृन्दम् अपतन् मुहुर् मुहुः
कृष्ण-गौर-तनु-मण्डलीम् अनु ।
वृष्टिर् ऊर्ध्वम् अधरत्र नीर-भृद्
विद्युद्-आलिर् इति यत्र चित्रता ॥२१॥ [रथोद्धता]
[१४] अत्र देवा देव्यश् च भव्य-भाव-भवान् नव्य-परिभवात् कमलाक्षं साक्षाद् इव सम्बोधयन्तस् तथा योग-मायाया योगतः परं स्व-स्व-योग्यम् अन्तः समधिगम्य रम्यम् इदं वाद्य-कोलाहलावृतम् उज्जगुः ।

[१५] तद् एतद् एकीकृत्यानुगीयते—


जय जय सद्-गुण-सार ।
जगति विशिष्टं कलयितुम् इष्टं गोकुल-लसद्-अवतार ॥अ॥ध्रुवम् ॥
कमल-भवेश्वर-वैकुण्ठेश्वर-पत्नी-चिन्तित-सेव ।
राजसि रासे वलित-विलासे निज-रमणीभिर् देव ॥ब्॥
नटवत्-परिकर निखिल-कलाधर रचित-परस्पर-मोद ।
आलिङ्गन-मुख-वितत-महा-सुख वल्लव-वधु-हृत-तोद ॥च्॥
व्यतिवीक्षण-कृत-सात्त्विक-परिवृत-मण्डलम् अनु बहु-मूर्ते ।
व्रज-तरुणी-गण-रचित-नयन-पण-सचित-वशीकृति-पूर्ते ॥द्॥
चरण-कञ्ज-धृति-कर-पल्लव-कृति-चिल्ली-वलित-विहारान् ।
मध्य-भङ्ग-तति-मणि-कुण्डल-गति-पुलक-स्वेद-विकारान् ॥ए॥
कलयति भवता घन-साम्यवता तडिद् इव सर्वा ललना ।
अपि वः परिमिति-तरतमताम् इति सेयं ज्ञपयति तुलना ॥फ़्॥
सुमधुर-कण्ठे नृत्योत्कण्ठे तव रति-मात्र-प्रीते ।
त्वत्-स्पर्शामृत-मद-चय-संवृत-चित्ते भाव-क्रीते ॥ग्॥ युवती-जाते गीतज-शातेनावृत-विश्व-प्रभवे ।
यस् त्वं राजसि तत्-सुख-भाग् असि नम एतस्मै प्रभवे ॥ह्॥
या सह भवता विस्मयम् अवता स्वर-जातीर् अतिशुद्धम् ।
गायति सेयं निखिलैर् गेयं कलयति निज-गुण-रुद्धम् ॥इ॥
तत उत्कर्षं वलयित-हर्षं वलयति येयं गाने ।
सा श्री-राधा वलिताराधा भवता कलिता माने ॥ज्॥
येयं रासे श्रमज-विलासे विगलन्-मल्ली-वलया ।
सा भवद्-अंसे लसद्-अवतंसे धरति करं वर-कलया ॥क्॥
या चांसं परि भुज-परिघं परिचुम्बति तव स-विनोदम् ।
हृष्यति सेयं तन् न गणेयं यद् रोम च सामोदम् ॥ल्॥ चल-कुण्डल-धर गण्ड-मुकुर-वर समिष-स्पर्श-विधाने ।
ताम्बूल-द्रव-परिवर्ताद् द्रवम् अयसे चुम्बन-दाने ॥म्॥
एषा नर्तन-कीर्तन-वर्तन-शिञ्जित-जात-सुताला ।
तव रामानुज करम् अतुलाम्बुजम् इषम् आधाद्द् हृदि बाला ॥न्॥ अथ रास-क्रम-परिवलित-श्रम-वनितालम्बित-देह ।
परितो-भ्रमणक-गण-विश्रमणक समुदित-परम-स्नेह ॥ओ॥
कवि-कृत-निश्चय-शुभ्र-यशश्-चय-माला-समुदय-हारिन् ।
जयजयजयजय जयजयजयजय जयजय रास-विहारिन् ॥प्॥२२॥ इति । [८ x ८ x १२]
[१६] राजसि रासे वलित-विलासे इत्य् उक्तं रूपम् एवं निरूपयन्ति—

_
रूपं यन् निजनित्यसौभगशिरोरत्नं नराकृत्य् असाव्
आनीयात्र यदीयशक्तिविभवस्याग्र्यां स्थितिं प्रैक्षयत् ।
चित्रं विस्मयते यतः स्वयम् अपि स्वाशेषसंवेदिता
तस्मिन् भूषणभूषणेऽप्य् अधुर् अमूः शोभां स्वया शोभया ॥२३॥ _

_[शार्दूलविक्रीडितम्]
_

[१७] तद् उक्तम्, यन् मर्त्य-लीलौपायिकम् [भा।पु। ३.२.१२] इत्य् आदि, तत्रातिशुशुभे [भा।पु। १०.३३.६] इत्य् आदि च ।


[१८] तद् एवं सति श्री-राधिकायां तु कैमुत्यम् एव स्तुत्यं जातम् । [१९] युवती-जात इत्य् आदाव् एवं वर्णयन्ति—

_तासां व्रज-किशोरीणां नित्यम् अप्रसवात्मनाम् ।
गुणैः स-प्रसवैः पूर्णं विश्वम् अप्य् अन्वयैर् इव ॥२४॥ [अनुष्टुभ्]
_

[२०] या सह भवता इत्य् आदाव् उपश्लोकयन्ति च—

_
शर्व-ब्रह्म-सुरेश-मुख्य-दिविषद्-वृन्दानि यद्-गानतः
शश्वन् मोहम् अयुस् तम् एव दयितं कृत्वानुगं या जगौ ।
सार्धं तेन पराश् चमत्-कृति-परास् तां निर्मिमाणाम् अपि
व्यर्थीकृत्य विविक्त-राग-वलनां वन्दामहे राधिकाम् ॥२५॥ [शार्दूल]_


[२१] ताम् एवोद्दिश्य चल-कुण्डल इत्य् आदाव् च कवयन्ति—

_
तद्-अधर-रसम् आचान्तं
प्राग् अकृत द्विर् यद् एष तद् युक्तम् ।
द्विज-संस्कृत-ताम्बूलं
कथम् अद्याद् अन्यथा तस्याः ॥२६॥ [आर्या]
_

किं च—

_कृष्णः स्नेहस्य मूलं किल लसति वपू-रूपम् इत्य् एवम् अस्मिंस्
तादृग् नन्द-व्रजान्तर्-जन-सदसि सदैवानु-भूति-प्रचारः ।
सोऽयं यासाम् अमंस्त प्रणय-मय-ऋणान्य् आत्मनि प्रेयसीनां
तासाम् अप्य् ऊर्ध्वम् ऊर्ध्व-प्रथित-निधि-मणिं राधिकाम् एव नौमि _

_॥२७॥ [स्रग्धरा] _

राधा स्व-कान्तं वशितं विधाय
निःशेषम् आक्रीडति तेन सार्धम् ।
नाहं तथेतीव शिवा शिवान्तस्-
तनौ निलीनार्ध-तनु-च्छलेन ॥२८॥ [उपजाति ११]


अथवा— अर्धेनार्धेन तन्वा व्यतिमिलनवतो रुद्रयोर् एष भावः
काव्य-ज्ञैस् तर्क्यते यः स पुनर् इह मया मन्यतां भण्यमानः ।
प्रेम्णा यौ पूर्ण-रूपौ त्रिजगति विदितौ राधिका-माधवाख्यौ
पूर्णाङ्गत्वं तयोर् अप्य् अति-तद्-असमयोर् नाव् अपीत्य् औचिती न ॥२९ ॥ [स्रग्धरा] \

[२२] तद् एवं सति—

_
वाद्ये गीते च दिव्ये प्रमद-शिथिलिते भूषणानाम् अलीनाम्
अप्य् आसीद् ध्वान-वर्गः प्रतिनिधि-समये तस्य तस्यापि तत्र ।
खेदे जाते तथागात् प्रबल-नट-कला लास्यतां येन केश-
कर्णोत्तंसावतंस-प्रमुख-वर-सभा तद्वद् उल्लास्यते स्म ॥३०॥ _

[स्रग्धरा]

एवं परिष्वङ्ग-कराभिमर्श-
स्निग्धेक्षणोद्दाम-विलास-हासान् ।
समं प्रियाभिर् व्यतिकृत्य नृत्यन्
व्याञ्जीद् असौ स-प्रतिबिम्ब-बिम्बम् ॥३१॥ [उपजाति ११]


ततश् च—

_मालाः केशालि-वेशान् कुच-युगल-पटीर् मण्डनान्य् अन्य-वासांस्य्
अप्य् एता नैव शेकुः कलयितुम् असकृद् रास-पर्वावसाने ।
ध्याते यत्रापि सम्प्रत्य् अपि मुनि-विततिर् विस्मरत्य् एव सर्वम्
चित्रं तत्-प्रेयसीनां तद् इह भवति किं तादृशे तत्-प्रसङ्गे ॥३२॥ _

_[स्रग्धरा]
_

तं दृष्ट्वाप्य् अथ रासम् अम्बर-गता रामाश् च कामार्दिता
मोहं प्रापुर्, अदश् च तावद् अभितोऽप्य् आस्तां परं श्रूयताम् ।
चन्द्राद्यैर् उपलक्षितं नभसि यद् बम्भ्रम्यते सर्वदा
ज्योतिश्-चक्रम् इदं च विस्मय-करी चस्कम्भ यन् माधुरी ॥३३ ॥

[शार्दूलविक्रीडितम्]


[२३] तद् एवं लीला-लुब्धासु परमावेशतः स-प्रियासु तासु विलुभित-क्रियासु रास-विलासः समुपरराम । [२४] उपरमति च तस्मिंस्, तत्-तद्-अननुसन्धान-सन्धिम् अनु तानि मिथुनानि यथावत् कुञ्जाय कुञ्जाय पृथक् पृथग् अन्तर्दधिरे ।
अन्तर्धाय च, तत् तन् मिथुनं परस्पर-परिकर-परिष्कार-परायणताम् आससाद । [२५] तत्र च प्रत्येकं तेषाम् आलिङ्गनादि-सचिवं वचनादि-रचनम् एवासीत् ।
यथा— हन्त माम् अन्तरा कान्तम् अन्तर् आप्तं तमस् त्वया ।
इति ब्रुवन्तं श्लिष्यन्तं तं सासिञ्चन् निजाश्रुभिः ॥३४॥ [अनुष्टुभ्]
ततश् च— हन्त क्लमः समजनि स्फुट-मद्-विहाराद्
अस्या नवीन-तरु-पल्लव-कोमलायाः ।
ज्ञातश् च हन्त न मयेऽति पृथक् स तासां
साश्रुर् ममार्ज मुहुर् आनन-घर्म-बिन्दून् ॥३५॥ [वसन्ततिलका]
बाष्पे मृज्ये हरिर् बाष्पं स्वेदे स्वेदं तदा दधे ।
गोपाल-कुल-सुभ्रूणां श्रमे रास-विलासजे ॥३६॥ [अनुष्टुभ्]
[२६] तत्र बहुल-सामग्री-वाहिनीनां वृन्दा-सखी-वाहिनीनां कृत-प्रश्न-वृन्दायां वृन्दायां श्री-कृष्ण-वर्णनम्, यथा—

सास्रालोकनम् अञ्चलानिल-कृतिर् वक्त्रालकाद्य्-उन्मृजा-
गण्डान्तः-परिचुम्बनं पट-युगाधानं तनू-चर्चणम् ।
ताम्बूलार्पणम् अत्यपूर्व-मधुरालापः स्तव-प्रक्रिया
सेयं रास-परिश्रम-प्रशमनी कान्तासु कृष्ण-क्रिया ॥३७॥ [शार्दूल]


[२७] अथ कान्ता-वर्णनं, यथा—

_
वक्र-स्मेर-विलोकनं नव-दलैः संवीजनं मार्दवाद्
अङ्गानाम् अभिमर्दनं विघटित-स्रग्-वस्त्र-संयोजनम् ।
सम्यङ् मर्मग-नर्म-शर्म-रचनं ताम्बूल-चन्द्रार्पणं _

_सेयं रास-परिश्रम-प्रशमनी कृष्णे प्रियाणां क्रिया ॥३८ ॥ [शार्दूल]
_

[२८] ततः स्वयम् आगत्य प्रत्यक्षीकृत्य चान्यथा मन्यमानायां तस्यां स-स्मितं पुनर् अमूर् ऊचुः— \

_दृष्टं देवि मिथो हरि-व्रज-वधू-द्वन्द्व-व्रजेनामुना
स्वीकृत्य प्रमदात् प्रयत्न-विधिना नेपथ्यम् अङ्गे धृतं ।
एतद् यत्र सखि क्षणाद् अपगतं किं ब्रूमहे तद् वरं
गीर्णं सद्-भवतान् मृषा न तु रहस् तद् व्यक्तिम् आपद्यताम् ॥३९॥ _

[शार्दूलविक्रीडितम्]


[२९] अथ वृन्दा स-स्मितं चेतसि चिन्तयामास—सत्यम् आहुर् इमा, यत् पुनः पुनः श्रमापनोदनं सर्वेन्द्रियामोदनं शुभ-वेशं गान-विनोद-विशेषम् आरभमाणानि तानीमानि मिथुनानि मृश्यन्ते ।

[३०] अथ स्निग्धकण्ठः समापनम् आह स्म—


राधे त्वद्-वल्लभः सोऽयं सर्वेषाम् अपि दुर्लभः ।
वरीतुं त्वाम् अन्तरङ्गाम् अन्या गोपीर् वृतीयति ॥४०॥ [अनुष्टुभ्] \

इति श्री-श्री-गोपाल-चम्पूम् अनु

रास-विलास-प्रसारणं नाम

षड्-विंशं पूरणम्

॥२६ ॥

(२७)

२४। अथ सप्तविंशं पूरणम् \

३१। रास-प्रपञ्च-पञ्च-पूरणी-पूरणम् [१] मधुकण्ठ उवाच—

अथ विलसित-खेद-स्वेद-कुल्यायमानाः
सह हरि-वर-गौर्यः सूर्य-पुत्रीं समीयुः ।

यद् अमित-शतम् एताः सा भजन्ती स्रवन्ती
सरभ-सरस-पूर्तिं तत्-क्षणाद् एव भेजे ॥१॥ [मालिनी]
अतिक्रम्य स्व-मर्यादां श्यामः श्यामाश् च मां ययुः ।
इतीव यमुना श्यामा द्राग् अतिक्रामति स्म ताम् ॥२॥ [अनुष्टुभ्]
[२] अथाङ्ग-रुचा घन-चपला घनायमाना, वाचा च चाटक-भणित-स्तनितायमाना घनागम-लक्ष्मीर् इव लक्ष्मी-लक्ष्मी-पतीनां सभा सा मिहिरजा-प्रवाहे नभसि हस्त-ग्राहम् अवगाहमाना भासते स्म ।

_
मिथः प्रहसित-प्रथा-कल-कलः समाकर्षणं
मुहुः स्तिमित-गात्रता पृथुल-वेपथु-प्रक्रमः ।
तद् एतद् अथ यत् स्थितं बत जलावगाहात् पुरा
तद् एवम् अनुमीयते समुदियाय तस्य च्छविः ॥३॥ [पृथ्वी] \


यदा जलं न हि विविशुर् नत-भ्रुवस्
तदामुना प्रसिषिचिरे समं तथा ।
अमुं यथा लघु-गतिम् अत्र मेनिरे
विभूभवन्न् उदक-भृद् अञ्चतीति ताः ॥४॥ [वसन्ततिलका]

जलाद् एवं सिषेचामुर् घनं घन-रस-प्रदः ।
विविशुर् जलम् एवामूर् यथासार-शरार्दिताः ॥५॥ [अनुष्टुभ्]

तदावलग्न-दघ्नं वार्मग्नाश् चपल-लोचनाः ।
कृष्णसार-वधू-रूपाः पुरस्ताद् गतिम् अद्विषन् ॥६॥ [अनुष्टुभ्]

यदा तासां नेत्र-प्रतिफलन-मिश्रा झष-गणा
मुहुर् नैवागच्छन् परिचिति-विधानं कथम् अपि ।
तदा स्पर्धाबद्धा इव मृदुलं क्षणगं भृशम् अमी
स्पृशन्तो भीरूणां मुरहर-दृशोः कौतुकम् अधुः ॥७॥ [शिखरिणी]

हंसा गतीश् चक्र-खगाः पयोधरान् _

_मीना दृशः सारसनानि सारसाः ।
तासाम् उपेत्यापगता यतस् तदा
तेषां तु साम्राज्यम् अपूरि सर्वतः ॥८॥ [इन्द्रवंशा] \


मुख-वृन्दं खलु तासां _

_कमलान्य् अभिभूय बभ्राजे ।
तज्-जातिषु तद्-अधिकता _

विधुता वा किं निदानम् अस्ति स्म? ॥९॥ [उद्गीति] ॥


[३] ततश् च लोचन-निकोचं हसन्तीषु तासु स्वयं तेन नागर-चन्द्रेण प्रवर्तिता व्यात्युक्षी, यथा—
मेघं विद्युद् विद्युतं चात्र मेघः
सिञ्चत्य् उच्चैर् मेघ-तुल्ये प्रवाहे ।
चित्रं चित्रं चित्रम् एतत् किम् एतत्
नाट्यं पश्येत्य् ऊचिरे व्योम-रामाः ॥१०॥ [शालिनी]

ततश् चाकण्ठ-निर्मग्ना महिलाः कमलाननाः ।
मधुसूदन-संसक्ताः कमलिन्य इव स्थिताः ॥११॥ [अनुष्टुभ्]

गणे गौराङ्गीनां हरिर् अचित-धर्षात् परिभवं
गते तत्र स्वर्णाम्बुज-घन-वनी निह्नुतिम् अदात् ।
विपर्यासो यर्ह्य् अस्फुरद् इह च नीलाम्बुजवनी
तदा तस्यापह्नुत्य्-उचित-चिति-कृतेऽभूद् अनुपमम् ॥१२॥ [शिखरिणी]

अम्बुज-गन्धि तथाम्बुज- रूपं मधु-युग् यथाम्बुजं तद् इव ।
तासां तस्य च वदनं
किं जल-केलाव् अदाद् भ्रमं न मिथः ॥१३॥ [गीति]

कथञ्चिद् अपि या लब्धा हरिणाम्भोज-कानने ।
किम् अपि व्यञ्जयामास तस्या हाहा-कृतिं परम् ॥१४॥ [अनुष्टुभ्]

स्मित-विलसित-नीलाम्भोजम् आसीदद् एका
मुखम् अनु हरि-वक्त्र-स्फूर्ति-सन्दिग्ध-चित्ता ।
इह च वर-मरन्द-स्वादम् आसाद्य सद्यं
समरुचि-युवतीभ्यः शङ्किनी स्वं जुगोप ॥१५॥ [मालिनी]

दुर्लभं यद् अजनि स्वयङ्ग्रहा-
लिङ्गनं तद् इह जातम् अञ्जसा ।
यर्हि मग्नम् अनया गभीर-वार्
उज्जहार हरिर् अप्य् अमूम् अथ ॥१६॥ [रथोद्धता]

द्रुतम् अथ वर-रामा वारि वक्षोज-दघ्नं
युगपद् अयि भवत्यः प्राण-नाथं विजेतुम् ।
स्थगित-कृति-कराभ्याम् इच्छवः सेक्तुम् उच्चैः
कथम् अथ बत जिग्युर् जिग्यिरे वा कथं न ॥१७॥ [मालिनी]

पद्मिन्या मुख-पद्मं मुद्रितम् अपि स मधुसूदनः पिबति ।
इति मिष-कलया सुदृशश् छलित-दृशस् तद्वद् आचरत् कृष्णः ॥१८॥ [गीति]

हरिणा हृदये तासां वितीर्णा नखर-व्रणाः ।
अद्भुतं सहसा श्लिष्टा मदनेषु-कृत-व्रणाः ॥१९॥ [अनुष्टुभ्]

औपजानुक-भुजस् तु यदासौ
पार्श्वतीय-मुखतीयतयासीत् ।
औपकर्णिक-दृशां स तद् आसाम्
औपनीविक-करोऽप्य् अजनिष्ट ॥२०॥ [स्वागता]

यदा राधा वारि-केलौ सखीनां पुरतो गता ।
विनापि सेकं स तदा जडताम् अभजत् प्रियः ॥२१॥ [अनुष्टुभ्]

राधा-पुरः-सरतया जल-केलि-युद्धे
कृष्णं चकार जडम् उद्यमम् अन्तरापि ।
नैतद् विवेद वनिता-निचितिर् मिथस् तु
स्वीयाम् अजिज्ञपद् असौ जित-काशितां च ॥२२॥ [वसन्ततिलका]
अलक-वलयि-नेत्रं कञ्ज-नेत्रेण कीर्णं स्वम् अनु मधुप-तीक्ष्णं कञ्जम् उन्नीय तस्याम् ।
सभयम् अपगतायां तत्र सेनाधिपायां
स तु तद्-अनुग-सैन्यं प्राविशच् चाविशच् च ॥२३॥ [मालिनी] \

ततश् च—

_नीर-केलि-भृत-राग-चक्षुषाम्
अट्ट-हास-निभ-हास-रोचिषाम् ।
मार-युद्ध-लसद्-उद्धत-श्रियां
रौद्रवद् व्यजनि सोऽप्य् असौ रसः ॥२४॥ [रथोद्धता] \


ततः क्रीडा-युद्धं दधद् अघ-रिपुर् नीर-विहृति-
प्रथायाम् एकाकी व्रज-युवति-कोटीभिर् अभितः ।
तथा कृत्वा तीरं प्रसभम् इतवान् सम्प्रति यथा
पुरा कात्यायन्या भजन-कृति-कन्यास्व् अकुरुत ॥२५॥ [शिखरिणी]
_

ततश् च—

_
मराल-कूजिता नीर-वसना नीर-जाननाः ।
चञ्चद्-भ्रमरका नीरजानां नाल्य इव स्थिताः ॥२६॥ [अनुष्टुभ्]
_

अथ हा हा हास-शब्दाः प्रवृत्ता नीर-तीरयोः ।
एके चातक-गीस्-तुल्याः परेऽल्प-स्तनित-प्रभाः ॥२७॥ [अनुष्टुभ्]&ल्त्;

[४] ततश् च बहुधा परिहस्य विनोद-विशेषणाय सख्यातिरेक-विवेकाय च द्वाभ्यां द्वाभ्याम् एकम् एकम् अंशुकं दत्तवान्, हरिस् ताः सर्वा वस्त्रैकैक-वेष्टित-द्वि-द्वि-काय-यष्टीर् उत्थिता निरीक्ष्य प्रतिमुखं परीक्ष्य च बहु जहास । हसित्वा च तासाम् उत्तम् उत्तमं वासस् तथा धारयन्तीनां चञ्चलता-सम्भृतं तिर्यग् अञ्चलता-संवृतं सम्भवद् अरुण-गुणं, मध्ये मध्ये स्तम्भ-निपुणं क्वचन क्वचन चाकस्मिक-स्मित-लम्भनं विनापि दृग्-अम्भः क्रन्दितेन विलोकित-दम्भं विलोचन-संरम्भं लम्भं लम्भं त्रिलोकी-मोहने चिकीर्षित-तदीय-रुचि-दोहने कुसुमासार-कारिणी विमान-चारिणी-संहतिः प्रशस्त-वस्त्रालङ्कार-माल्यादीनां पुटीः पेटकाश् च तत्-पुरतः शनैः पातनम् अनैषीत् ।


[५] कृष्णस् तु ताः सर्व-स्तुताः समुन्न-वस्त्राः पश्यन्न् अति-समुन्नतानन्द-वश्यः स्वयम् अनुरज्य समुपयुज्य विभज्य च तानि वस्त्रादीनि प्रत्तवान् ।
[६] तत्र प्रथमतः स्वल्पेनैव तेन तेन विच्छित्तिर् जाता, यथा— मज्जनेन तनु-रोचिर् आचितं
सूक्ष्म-शुभ्र-वसनं सत-च्छवि ।
चित्रकं द्युति-विचित्रम् इत्य् अदः
प्रायवेशम् अरुचन् हरि-प्रियाः ॥२८॥ [रथोद्धता] ॥

[७] बहुभिर् भूषणैस् तु तत्र तत्र मिथुने परम-शोभा नेत्र-लोभाय जायते स्म। तथा हि—


यदा यदा नूतन-वेश-यौवनं
तथाविधाभिः समम् ईक्षते हरिम् ।
मत्वा तदा नव्य-वधू-वरान् अमून्
दिव्यो जनः पुष्प-कुलानि वर्षति ॥२९॥ [उपजाति १२]

[८] अथ वन-विहाराय हरिणाक्षीणां ततिर् एवम् आदि-व्याजं व्याजहार—

अनङ्गो नाम सेनानीः कृष्ण कस् तव विद्यते ।
हन्त दर्शय तं नित्यं सखीयं मां ब्रवीति यम् ॥३०॥ [अनुष्टुभ्]

[९] श्री-कृष्णस् तु गूढ-स्मितम् ऊचिवान् तत्र श्री-राधां प्रति, यथा—

राधे, मैषीर् द्रष्टुम् अनङ्गम् ।
तस्य तु पश्य गणं कृत-सत्-कृत-सुकृत-सुलम्भित-सङ्गम् ॥ध्रुवम् ॥ तरु-वल्ली-तति-दम्पति-पल्ली भवतीम् अतिथीयन्ती ।
आकारयति चलन्-नव-पल्लव-पाणिभिर् आत्मीयन्ती ॥अ॥
सा पुनर् इह कुसुमानि किरति पथि रचयितुम् आस्तर-चर्याम् ।
कोकिल-कुलम् अपि तव हूतिं किल कलम् अनु कलयति वर्याम् ॥ब्॥
भ्रूङ्कारेण च भेरी-शब्दं भ्रमरा विदधति स-सुखम् ।
शिखि-शतम् अपि बत तनुते नर्तनम् अभितश् चाली-प्रमुखम् ॥च्॥
निज-रुचि-दीपं परितः प्रथयति सोऽयं रजनी-स्वामी ।
एष च पन्थाः स्वं विस्तृतवांस् त्वत्-पद-रजसां कामी ॥द्॥३१॥ इति । अथ सवितृ-सुताया धन्य-वन्या-प्रदेशे
विरचित-बहु-वेशे ता विरेजुः स-कान्तम् ।
तम् अनु परपरस्मिन् वासरे कार्यम् अन्यद्
विलसितम् अनुकान्तं सूचयामास कान्तः ॥३२॥ [मालिनी]

अथ भ्रमर-दम्पति-व्रज-जनः प्रतिस्वं निजा-
लयाद् अनुगतिं दधद् भविक-गीतवद् गीतवान् ।
अहो किम् इव सोऽपि तं निज-रमा-युतं तद्-वन-
प्रभुं प्रमितवान् अनुव्रजति तत्र सर्वत्र च ॥३३॥ [पृथ्वी]
[१०] अथ स्निग्धकण्ठः पप्रच्छ—
रात्रीः किञ्चिन् मात्र-शेषत्वम् आगाद्
बम्भ्रम्यन्ते स्मापि तस्मिन् सपत्न्यः ।
क्रीडा-तृष्णा धृष्णग् एवाङ्ग जाता
हा किं चक्रे तत्र कृष्णाङ्गनाभिः? ॥३४॥ [शालिनी] \

[११] तत्र मधुकण्ठ उवाच—ततश् च तद्-वनस्य निर्वर्णन-पूर्वकं वर्णनं विधाय, केलि-कलापे विधीयमाने—


अन्योऽन्यं निह्नुतान्वेषण-कृति-विहृतिं प्रेयसीभिर् मुरारिर्
यां चक्रे सा रहस् तन्-मिथुन-मिथुनता-कारणं जायते स्म ।
यत्रान्विष्यानुयाता विविध-गति-वपुः-स्फूर्तिना तेन या या
कुञ्जान्तस् तं गृहीत्वा पृथग् अपर-दृशां दूरतां साञ्चति स्म ॥३५॥ [स्रग्द्]

कथञ्चन ददर्श या क्वचिद् अपीह कृष्णान्वितां
वधूं रहसि काम् अपि स्वयम् इदं-विधा काचन ।
प्रतीतिम् अगमन् न हि स्फुटम् अमूं तमालान्वितां
स्फुटत्-पुरट-यूथिकां सपदि मन्यमाना हृदि ॥३६॥ [पृथ्वी]

शिञ्जितं विहग-काकली-कुलैर्
गानम् अन्य-भृत-सम्भृत-स्वरैः ।
रूपम् अप्य् अथ तमाल-चम्पक-
श्रेणिभिर् मुहुर् अवारि तादृशाम् ॥३७॥ [रथोद्धता]

यत्र सन्तमसम् अस्ति सन्ततं
तद् वनं न पर-दुर्गमं परम् ।
कुञ्ज-मध्य-लसद्-ओषधी-श्रिया
तत्र तत्र मिथुन-र्द्धि-वर्धि च ॥३८॥ [रथोद्धता]

अथ रहसि गिरां विलास-कम्रं
चलद्-अमलाङ्ग-विकासि-रोमहर्षम् ।
स्मर-वलयि-कला-स्पृहातिलोलं
दिदिवुर् अलं युगलानि तत्र तत्र ॥३९॥ [पुष्पिताग्रा]
[१२] अथ क्रम-वशाद् अद्भुत-भयानक-रौद्र-बीभत्स-वत्सल-करुण-वीर-हास्य-शान्त-शृङ्गार-रसाः शृङ्गारानुकूलतया यथायोगं रसयितुम् आसादिताः । [१३] यथा— क्वचिद् अहीन-तुहिन-मरीचि-मरीचि-वीचि-रोचमान-कानने परिचितापरिचित-नाना-विध-मृग-पक्षि-वृक्ष-वल्ली-विलक्षणता-विलोकनाय कृत-परिभ्रमणम्; क्वचिद् अपि मदाकुल-भ्रमर-कुल-सङ्कुल-गूढ-कुडुङ्ग-कुसुम-चय-चयनाय कम्पमान-प्राण-प्रणयिनी-जनस्य प्रकटं चाटुता-घटनाय तत्र बलाद् इव विरचित-प्रवेशनाभिनिवेशम्; क्वचिद् अपि धृष्ट-षट्पद-दष्टता-लब्ध-कष्ट-स्पष्ट-दुष्परिहर-बाष्प-ललनावकलनाद् उद्दण्डितेन सनाल-केलि-खरनाल-दण्डेन तद्-दण्डनाय मकर-कुण्डल-तुण्ड-पर्यन्त-स्पर्शि-रोक-कोक-नदायमान-नेत्र-पुण्डरीकम्; क्वचिद् अपि ललितविलास-वलितानन-ललना-वपुर् अनुभूय जुगुप्सिती-कृत-स्थल-कमल-स्थलावलोकनम्; क्वचिद् अपि शुक-निकराधिगमनीय-रमणीय-वाणी-विलास-कलनाय सलालन-कलित-कलकला-कलापम्; क्वचिद् अपि निज-लीला-मिलद्-उल्लल-भाव-विलुलित-सुललित-मुकुल-कुल-लता-वकलनेन विकलतया विगलित-नयन-जल-लेशम्; क्वचिद् अपि प्रौढता-समूढ-गूढ-गर्व-पर्व-खर्वणाय सदम्भरम्भोरु-वरूथम् अनु निर्व्यूढ-प्ररूढमार-सम्प्रहारम्; क्वचिद् अपि मिथुन-मिथः-केलि-कलानुकृति-नियति-वलित-प्रतिच्छायावलोक-कौतुक-वाहितया विहित-बहु-हासम्; क्वचिद् अपि परस्परम् अपरस्पर-स्पर्श-सुख-परामर्शजात-निवृत्ति-चित्त-वृत्तितया निमीलद्-विलोचन-रोचमानम्;

क्वचिद् अपि निर्यन्त्रण-रमण-श्रम-परतन्त्र-तन्द्रायाम् अपि तद् एव रमणं भूयः समनुभूय राग-सागरायमाण-जागरम्—

[१४] स एष केशवः प्रेयसीभिः सह विललास ।
भ्रमरम् इह निभाल्य दत्त-चुम्बं
व्रततिषु कीरम् अपीह दाडिमीषु ।
पुनर् अपि रमणो मनोजवश्य-
स्थिति-रमणाय बभूव वल्लवीषु ॥४०॥ [पुष्पिताग्रा]

अलिर् इह वदनोपदंशम् आसीन्
मधुरसपानकरः सरोजिनीनाम् ।
यद् अजितरमणीततिर् निरीक्ष्य
स्फुटम् अभजन् मदनं विदूरतोऽपि ॥४१॥ [पुष्पिताग्रा] ॥ \

[१५] तच् च तच् च न वर्णयितुम् आत्मशक्तिं निर्वर्णये, यतः—

तां ज्यौत्स्नीं तच् च वृन्दा-विपिनम् अपि च तत् कुञ्ज-वृन्दं तथा ताः
शय्या द्वे द्वे च ते ते हरि-हरिण-दृशौ ताश् च स-प्रेम-लीलाः ।
पश्यत् पश्यन् मनो मे सपदि विषयिताम् उज्झद् अत्रानुमुह्यत्
पश्यद् द्राग् याति तत्-तद्-विषय-वलयतां हन्त पश्यानि केन? ॥४२॥ [स्रग्धरा]

[१६] तद् एतद् इह सामान्यतया वर्णितम्, विशेषतः पुनर् एवम्—


अन्या वर्णाः सन्ति यत्र स्फुरेन् न
श्रीराधायाः कापि सौभाग्यलक्ष्मीः ।
तस्याः स्फूर्तौ वर्णनायां न शक्या
साप्य् एवं चेद् अन्यवार्ता तु दूरे ॥४३॥ [शालिनी] ॥ \

[१७] ततश् च परस्परं पर-परागमनातङ्कया मङ्क्षु सङ्कुचित-लीला-विलासाः स-विश्लेषं वेषं संश्लेष-वलितं विधाय वल्ली-गृह-पल्लीनां बहिर्-वर्ति-सन्निवेश-वेषं स्थली-विशेषं क्रमतः क्रामन्ति स्म, यत्र कृष्णस्याप्य् ऐकध्यम् उद्बुध्यते स्म । \


[१८] तथा च तं क्रान्त्वा च दारुणता-पदारुणता-प्रकाश-सान्निध्यं निध्यायन्ति स्म । ततः—

_
पूर्वस्यां दिशि काचनारुण-रुचि-च्छायावृणोच् चन्द्रिकां
चन्द्रोऽप्य् आशु तदा पतन्न् इव करैर् आलम्बतास्ताचलम् ।
इत्थं कैरविणी-कुलं किल दर-ग्लानिं ययाव् इत्य् अमूस्
तद्-रासाङ्कित-रात्रि-शान्ति-विबुधा मम्लुश् च कृष्ण-प्रियाः ॥४४। [शार्दूल]
_

[१९] तत्र खेचर-स्त्रीणां वचनम्

नीच-भाव-वलयी बलाद् व्रजन्न्
ऊर्ध्वतां निपततीति निश्चितम् ।
पश्य गोप-सुमुखी-मुखातिगः
पुष्करात् स्खलितवान् असौ विधुः ॥४५॥ [रथोद्धता]


किं च— अह्रियत कुवलय-माला- लीला गोपाङ्गनापाङ्गैः ।
इति किल दूनित-बन्धुः कुवलय-बन्धुः पपात हा सिन्धुम् ॥४६॥ [उपगीति]
[२०] श्री-व्रज-देवीनाम् अपि— ताराणां वृन्दम् आमृद्नन्न् अस्माकम् अपि सर्वतः । अयम् आक्रमतेऽनूरुर् व्योम चाक्रमति द्रुतम् ॥४७॥ [अनुष्टुभ्]
[२१] ततश् च तासां तथा-भावं विभाव्य भव्य-स्वभावः स श्रीमान् नव्य-किशोरता-नव्य-सद्-भावः प्रतिस्वम् आलिङ्गितानां दर्शित-प्रणय-सम्पद्-इङ्गितानां वक्त्र-कमलं स्रवद्-अस्रं ममार्ज ।
[२२] सान्त्वयन्न् एव चेदं सान्त्वम् उवाच—

_अच्छिन्नं समयं वहामि भुजयोर् अन्तः सखि त्वाम् इति
प्रत्याशा यदि सिध्यतीह तद् अपि स्वान्तं न मे तृप्यति ।
सिद्धौ तत्र तु विघ्न-जातम् अतुलं बन्ध्वादि-सम्भालनं
तस्माद् गेह-गतेर् अवश्य-वलने मा म्लानिर् आसाद्यताम् ॥४८॥ [शार्दूल]
_

[२३] इति पूर्ववद् एव प्रत्येकं हस्तेन व्यतिषज्य सज्यमान-विहारतया व्रज-वर्त्मानुवर्तते स्म ।

यद्यपि वनिता-वशताम् अन्तर् यातस् तथाप्य् असौ कृष्णः ।
भजति स्निग्धान् अन्यान् सत्-पुरुषाणाम् इयं शैली ॥४९॥ [आर्या] ॥ \

[२४] अथ लब्ध-परस्पर-विच्छेदेषु च तत्-तत्-पल्ली-वर्त्म-भेदेषु प्रायेण प्राप्त-गण-सङ्गम-त्रोटताम् अधिक-कोटतया भाविनी-समुदयः स्वयं न भावयितुम् ईशाम्बभूव ।


[२५] क्रमेण चात्यन्त-रङ्ग-तत्-तद्-अङ्गना-गणे गणेयतयावशिष्टे तेन सह निज-निजोपवनान्तर्-वर्ति-गेहाङ्गण-वर्त्म-भेदम् आसाद्य, क्षणं गमनाद् विरराम रेमे च । तत्र च—

_
गाढोपगूढ-चिरतां पटु-चुम्बितं तद्-
विश्रम्भ-भाग्-अभिहितं बहु-मानितं च ।
तासां गतौ रचयता व्रज-राज-पुत्रे-
णाकारि किं न किम् इतो गणनां न वेद्मि ॥५०॥ [वसन्ततिलक]_


[२६] ततश् च ताः स-गद्गदं जगदुः—

_सम्भावितं न वलते स्म यद् अस्मकाभिस्
त्वत्-प्राप्तिर् अत्र भवितेति तया च जातम् ।
विज्ञापनं तु न इदं शृणु कृष्ण तस्मिन्
अङ्गीकृतं परिहरन्ति न जातु सन्तः ॥५१॥ [वसन्ततिलका] _

ततश् च—

मिथो मिथुनम् उत्तरं विरहम् ऊहमानं मिथः पतन्-नयन-वारिभिः समभिषिक्तम् आश्लिष्यत । तद् एवम् अखिलं वपुर् नियतम् आर्द्रम् आसीद् बहिस् तद् अस्य हृदयं पुनर् व्यजनि तादृग् अन्तर् बहिः ॥५२॥ [पृथ्वि]
[२७] ततश् च, सह-कान्तः कान्ता-समुदयः शकुन्त-कुल-कल-कोलाहलात् प्रातर् इति —कलित-चमत्कारः कम्प-सम्पत्-सम्पतद्-अस्रम् अजस्र-भावना-निदानं कथञ्चिद् एव विश्लेषम् इयेष ।
[२८] तथा विश्लिष्य च—

_
तिर्यक् पश्यन् मुहुर् अपि मिथस् तत्र तत्रापि सास्री-
भावाद् व्यस्रं मिथुनम् अथ तत् कृष्ण-राधादि नाम ।
गेहं गच्छद् यद् इह गमनायाशकन् तन् न चित्रं
धन्यानां स्याद् उचितम् अखिलं यत् प्रयत्नं विनापि ॥५३॥ [मन्दा]
_

अजनि बहु-व्यथतान्तर् बहु-दयितानां वियोगतस् तस्य ।
सर्वावरक-रुग्-अन्तरम् इव जज्ञे सा तु राधिका-वियुतिः ॥५४॥ [गीति]

_
ज्यौत्स्नीं शारदिकां विहृत्य विविधं तस्मिन् बलाद् आगतं
वीक्ष्य ब्राह्म-मुहूर्तम् उल्लल-धियश् छन्नाध्व-मूर्ति-क्रियाः ।
तत्-तत्-केलि-कला-विलास-वलित-स्वान्ताः स्व-कान्त-प्रियाः
सान्तस् तर्षम् अनन्तर् ईषद् उदित-श्रान्ति व्रजं प्राविशन् ॥५५॥ [शार्दूल] _

[२९] स एष रासोत्सव-विशेषश् च निवृत्त इति बहिर् एव वृत्तं नान्तः, यतः—


रासोत्सवं किल समाप्य गृहादि-कृत्य-
व्यग्राश् च तन्-मयतया व्रज-वाम-नेत्राः ।
नाना-विलास-मय-नर्तन-गीत-वाद्यं
साक्षाद् इव व्यदधतात्र च तत् तद् एव ॥५६॥ [वसन्ततिलका]
नेता येषु तु रास-केलिषु भवेत् कृष्णः स्वयं नायिकाः
श्री-जैत्र-व्रज-सुभ्रुवो, रस-कथास् तत्रैव निर्लाञ्छनाः ।
तत्-तद्-वर्णनम् एव काव्य-विबुधाः कार्त्स्न्येन कुर्युः परं
किन्तु श्री-शुक-सम्मतं न यद् इदं पूर्येत तैः सर्वकैः ॥५७॥ [शार्दूल] \

[३०] स्निग्धकण्ठ उवाच—हन्त, चत्वारस् ते कुमारकाः क्व गताः? ।


[३१] मधुकण्ठ उवाच—पूर्वम् आरूढ-महा-तरवः पश्चान् निज-प्रभोः स्व-गृह-वर्त्मानुवर्तनम् अवधाय, दूर-चरिष्णुतया तूष्णीम् एवानुवर्तिष्णुताम् अवापुः इति । \

[३२] तद् एवं मधुकण्ठः प्रथितम् अपि रास-लीला-वर्णनं त्रियामानियमतः सङ्क्षिप्य तदीय-समाधेर् विक्षिप्यमाणता-सञ्जनाय साञ्जलिर् व्यञ्जयामास—


स ईदृग् वल्लभो लब्धस् त्वया श्रीमति राधिके ।
यं भेजे रास-रभसात् त्रिलोकी नायिका-निभा ॥५८॥ [अनुष्टुभ्]
[३३] अथ कञ्ज-नेत्रः कृताञ्जलितया प्रतीक्षितानुज्ञा-सारौ सूत-कुमारौ स्वान्तिकम् आहूय भूयः परिचस्कार निजानाम् अङ्गानाम् अङ्गनानाम् अपि परिष्कार-द्रव्येण ।
[३४] यद् अनु दान-पर्वणा सर्व एव भासमानः सभा-सज्जनः प्रत्येकम् एक-व्यक्तिर् अपि क्रिया-लाघवाद् बहु-विध-निभां व्यक्तिम् अवाप । \

[३५] ततो ब्राह्म-मुहूर्ते मुहूर्त-विश्रमाय सर्व एव स्व-स्व-धाम जगाम ।


इति श्री-श्री-गोपाल-चम्पूम् अनु

रास-प्रपञ्च-पञ्च-पूरणी-पूरणम् नाम

सप्तविंशं पूरणम्

॥२७ ॥

(२८)

२५। अथाष्टविंशं पूरणम्

३२। अम्बिका-वन-गमन-संविधानं [१] अथ प्रत्यहवत् प्रभात-भासमानायां सभायां स्वावसर-जात-प्रसरः स्निग्धकण्ठः सोत्कण्ठम् आह स्म—मधुकण्ठ श्रूयताम् अनन्तरं हरि-चरितम् ।

[२] ततः सर्वानन्द-वर्षे हरेर् नवमे वर्षे परुत्नाद् अप्य् अधिकतया यत्नाद् ऐषमस्त्ये सामस्त्येन कृत-विस्तारे गिरि-यज्ञ-सारे निर्वृत्ते मास-कतिपये च वृत्ते विलक्षण-लक्षणा शिव-क्षणदातिप्रचुरं जन-समाजम् आजहार । किन्तु प्रायशो यशोधनादिकाम् अनया सामानाधिकरण्याद् अम्बिकारण्याय समम् अम्बिका-पति-पूजनार्थं जना वर्षं वर्षं प्रति सहर्षं गच्छन्ति । यच्छन्ति च विविधानि धनानि किमुत तस्यां योगविशेषाद् असमायां समायाम् । यत्र कुतूहलावकलनादि-लीला-कल्लोलिनी-कल्लोल-लोल-श्री-गोपाल-चालित-चित्ता गोपालाः । किं बहुना, गोपाल-क्षिति-पाल-चरणाश् च तद्-यात्रा-स्पृहा-पात्रताम् अवापुः ।

[३] सञ्चेरिरे च ते चिरेण महारम्भ-सम्भार-भार-हार-विशङ्कट-वार-निःसारणया । तत्र जनैर् नाना-सामग्रीर् अगर्ह्य-वह्यानडुहश् चानांसि वाहयन्तः कोलाहल-कुतूहलम् अन्वभुवंश् च ।

[४] यत्र पुत्रानुराग-परिमल-निर्मल-पात्री व्रज-धरित्री क्षिति-पालयित्री नाना-गोप-कलत्राणां सुख-सत्रायमाणतया तैः सह सत्र-यात्रां चकार । किं बहुना, गो-गोकुल-पालन-कृते कृतेहानुपनन्दाभिनन्दादीन् ऋते सर्व एव पर्व-पूर्वं चलन्ति स्म । यत्र लाल्य-भावतः सन्नन्द-नन्दनाव् अग्रजम् अनुव्रजतः स्म लालक-भावात् तज्-जन्मानम् अनु च ।


[५] तत्र विशेषतस् तु— मुख-कमल-विराजन्-नाट्य-दृक्-खञ्जरीता स्तन-कनकज-कुम्भ-भ्राजि-पत्रावलीका ।
चरण-सरसिजाणां हंसक-स्वान-रम्या व्रज-निज-महिलाली तत्र भव्यं बभार ॥१॥

ततश् च—

न परं चाक्षुषम् आसीत् तद्-व्रज-जन-चलनं विदूरतः किन्तु ।
शकट-घटाटननाद् वादाद् अप्य् अन्ध-वेद्यं च ॥२॥
सुराणां नॄणां च प्रतिपद-बहूभाव-मयतां स-वाद्यैर् गीताद्यैः सह कुसुम-वर्षैर् जय-रवैः ।
मुकुन्दालोकाय प्रथित-पथिकाली-शवलनैः समन्तात् सङ्घट्टैर् अभिययुर् अमी आम्बिक-वनम् ॥३॥ \

तत्र च—

भ्रात्रा सत्रा हरिस् तत्रारुह्य कम्बलि-वाह्यकम् ।
विचित्र-मित्र-गन्त्रीणां वृतं पृतनयाययौ ॥४॥
कदाचिद् उन्नतं तत्र शकटं घटयन् पृथक् ।
अभीष्टं द्रष्टुम् उत्कण्ठी स स्म सुष्ठु प्रतिष्ठते ॥५॥

सखि-बल-बलवान् विहार-चर्यां पथि विदधत्-कुतुकं च लोकमानः ।
मुहुर् उपचरितः स्वयं जनन्या

बकरिपुर् आम्बिक-काननं विवेश ॥६॥


तत्र च— जङ्घालास् ते लक्षशो लोक-सङ्घास् तीर्थं याताः कृष्णम् आपुश् च दैवात् ।
तृष्णा-दीनाः पाथसस् तत्-प्रयाताः

सौधीं यद्वद् वृष्टिम् अन्ते लभन्ते ॥७॥


[६] तस्मिन्न् इदम् अद्भुतम् उद्भूतम् अभूत्—

_उत्फुल्ल-नेत्र-कमलं पुलक-प्रसार- _

_शैवालम् अश्रु-मिलद्-ऊर्मि-जन-प्रवाहः ।
आक्रम्य सेतुम् अधिगम्य सुरम्य-कृष्ण- _

शोभा-महाम्बुधिम् अगाज् जलताम् अपीह ॥८॥


[७] ततश् चाभिख्या-मात्रतः कृत-सर्व-वशीभावस्य तस्य तद्-आसेचनक-रूप-निरूपणात् पश्य पश्येत्य् एवास्मिन् पश्यति लोके कथञ्चित् कृत-निवारणे च तस्मिन् कोलाहल-कारणे व्रज-वासि-जनः सर्व एव यथायथम् आवासम् आससाद ।
[८] आसाद्य च पुरोहित-हित-सहिततया कृत-स्नान-दान-व्यापारे श्री-व्रजराज-विराजमान-समाज-वारे कुतुकतस् तैर्थिक-सार्थ-दर्शनार्थं स्नातानुलिप्तता-दीप्तः सखि-रामाराम-रमणः कमन-कमल-लोचनस् तत्र तत्र भ्रमण-क्रमम् आचचार । यत्र नाना-देश-जनानां वेश-निवेश-निर्वेश-संवेश-भाषाभिनिवेश-क्रिया-विनिवेश-विशेषान् अनुभूय बहुल-कुतूहलम् आकलयां बभूव ।

[९] यत्र च कृष्णं पश्य रामं पश्य श्रीदामानं पश्येत्य् अमी पश्यन्तः कोलाहलं बंहयाम् आसुः ।


[१०] यत्र च तदीय-वृन्दानि गोविन्दीय-सुन्दरता-मरन्द-विनिस्यन्दम् अमन्दं नयन-रसनया रसयन्ति । मोहातिशयवन्ति विहित-हित-सर्वस्वात्म-निवेदनं सास्र-नम्र-कम्र-वदनं सदन-सदनाद् असीदन्ति च सञ्जिताञ्जलितया तस्थुः ।
[११] श्री-कृष्णस् तु तद् अङ्गीकृत्यापि शील-वृत्त्या तदीय-स्नेहं साङ्गीकुर्वन् मदीया एव भवद्-भवदीयार्था मत्-प्रत्यर्पणतः प्रतिस्वं यथा-निष्ठम् अवतिष्ठन्ताम् इति सन्तोषयन् क्रमशो निजाश्रमम् एवाश्रमम् आजगाम ।
[१२] आगम्य च सायन्तनम् अशनं सङ्गत्य मातुर् मानसम् आनन्देन वितत्य प्रशस्त-वस्त्र-मालालङ्कार-सारं परिकृत्य सखिभिर् आत्मानं परिवृत्य सर्व-भागवत-शिव-प्रदस्य भागवत-परम्परा-परम-गुरोः शिवस्य वरिवस्यायां शिव-रात्रि-यात्रिभिः पित्रादिभिर् एकाग्रतया स्व-मङ्गल-कृते कृत-जागरं स्वीय-परकीय-राजकीय-जनकीय-बहल-कोलाहल-प्रकारं शिवागारम् अनु नाना-विद्या-विस्मायकतया विद्यमानान् सम्पश्यति स्म ।

सर्वे व्रजजनास् तत्र कल्प-वृक्ष-समा बभुः ।
अधिदेव इवादीप्यद् धन्यः पर्जन्य-नन्दनः ॥९॥


[१३] प्रभाते च प्रभाते वदान्यता-प्रचाराहृत-विप्रादीनाम् अगणेय-गणाय गुण-गुणितान्नादि-दानतः सम्मानतश् च वितानित-यशसि श्री-व्रजराज-सदसि तेषु तत्-तीर्थ-यात्रि-शतेषु च चिर-परिचित-चरवत् परम-प्रीति-स्फीतीभावन-नीतितः कथम् अपि प्रस्थापितेषु तस्याम् अमावस्यायां तास्मिन्न् एव व्रज-वसतिभिः सह पितृभ्यां लालितः स हरिर् वासतेयीम् उवास ।
[१४] ततः सा च रात्रिर् यात्रिक-जन-प्राचुर्य-पूर्यमाणा नासीद् इति कोलाहलापगमेन ह्यस्तन-जागर-क्लमेन च सुप्तिः सर्वतश् च निर्भरम् एवाविर्भवति स्म ।

[१५] यत्र दनुजामित्रस् तु व्रीडातः क्रीडातश् च किञ्चिद् दूरगतः सखि-जन-जनित-सुखं निद्रायते स्म ।

[१६] अथ तस्यां निशि दिशि दिश्य् अपि दर्शित-तमसि रहित-दन्तगरः कश्चिज् जरद-जगरः सर्पः सर्पन् व्रजराज-चरण-राजीवं निजगार । \

[१७] तेन च वीर्यवत्तया निगीर्यमाणे चरणे शरणेच्छुर् व्रज-धरणीशः सन्तत-कृष्ण-स्फूर्ति-पूर्ति-प्रचित-चित्ततया जाग्रद् एव कृष्णम् उद्दिश्य चुक्रोश । यथा—

कृष्ण कृष्ण बत कृष्ण कृष्ण हे तात माम् अजगरो ग्रसेत किम् ।
इत्य् असौ स्मरणतस् तनूजनेस् तस्य मोह-मय-भावम् अययौ ॥१०॥
[१८] अथ तत्-पार्श्व-वर्तिनः शूर-चक्र-वर्तिनश् चन्द्र-हासम् आदाय समुत्थिताश् चन्द्रमसं ग्रसमानं राहुम् इव बाहु-शालिनस् तं पश्यन्तः प्रव्यथिता व्यर्थी-भूत-तत्-प्रहार-प्रयासास् तद्-उपायान्तरम् अपश्यन्तश् च व्यग्रता-क्वथिताः शरारुभिर् ज्वलद्-अग्रोदग्र-दारुभिर् जघ्नुः ।
[१९] तथाप्य् अत्यजति तत्राजगरे प्रथम-शब्दाद् एव जाग्रद्-व्रजराज-तनूजः सुर-गज-राज इव धावंस् तर्ह्य् एवाजगाम ।

[२०] आगच्छतश् च तस्य स दीर्घतर-दीर्घ-पृष्ठः पुच्छम् अनु वाट-घटित-न्यायेन चरण-पल्लव-स्पृष्टतां प्राप ।


[२१] तत्-स्पृष्टश् चायं विसृष्ट-तच्-चरणः स्वयम् अकस्मात् सर्पाकाराद् उत्सर्पन् वपुर् अन्तरम् अन्तरेण विद्याधराकारं धारयति स्म । \

[२२] तत्-कर-पल्लव-स्पृष्ट-चरणाः श्री-व्रज-राज-चरणाश् च यथावद् विराजमानताम् आपुः । \

[२३] ततः साश्चर्यं कृतावलोकेषु सर्व-लोकेषु सुदर्शन-नाम-धरः स तु विद्याधर-चरः पुनर्-लब्ध-स्वरूप-वरस् तं प्रशंसन् स्व-शाप-वृत्तान्तं शंसंस् तदीयां क्षमाम् आशंसंस् तद्-अनुज्ञातः स्वाधिष्ठानम् एव प्रतिष्ठते स्म ।


[२४] ये पूर्वं तत्रापत्रपाम् अपहाय श्री-व्रज-पतिपत्नी-प्रभृतयः कुल-स्त्री-जनाः किम् उतान्ये संसृज्यमानतयानुसृत्य कृत्य-मूढताम् अनुबभूवुः ।
[२५] सम्प्रति तु ते यथायथं मिथः समुपगूढाह् केवल-मूढ-रोदना बभूवुः ।
यथा तातं कृष्णश् च रामश् च कृष्णं रामं च मातरः ।
मातॄश् चान्यास्तथान्योऽन्यम् अन्ये शिश्लिषुर् उन्मदाः ॥११॥
[२६] तद् एवं कृत-क्षपणायां क्षपायां तत्-क्षणम् एव तूर्ण-गमन-मनसः समम् अनः-समूहम् आरोहयन्तश् चिर-गन्तव्यं पन्थानम् अन्तिकम् इवातिक्रान्तवन्तः प्राप्तवन्तश् च निज-व्रजम् ।
[२७] यत्रोपनन्दादयः स-नन्दनं सहज-मात्रं श्रीमन्-नन्द-राजम् अनवद्य-वाद्य-गीत-परीत-वेद-घोषानुगत-सर्व-घोषा यथायथं संसज्य नीराज्य च व्रजोपवनम् आवास्य स्नपनादिभिर् उपास्य च तत्रैव निज-गृह-जनं प्रापय्य पाकं समापय्य च सर्वान् एव सम्भोज्य सुखेन संयोज्य च वर्त्म-वार्तां सम्पृच्छ्य हर्ष-धर्षादिकं समृच्छ्य च स्व-स्व-वसतिम् अनु वसतीं वासयाम् आसुः ।
[२८] अथ समापनम् आह—

_
ईदृशस् ते व्रजाधीश पुत्रश् चित्रयशाः शशी ।
यद्-अङ्घ्रि-नखर-ज्योत्स्ना तमः सर्वम् अनीनशत् ॥१२॥_

इति श्री-गोपाल-चम्पूम् अन्व्

अम्बिका-वन-गमन-संविधानं नाम

अष्टविंशं पूरणम्

॥२८॥

(२९)

२६। अथैकोनत्रिंशं पूरणम्

३३। रहः-कुतूहल-वह-बहल-रहः क्रीडाख्यम्
[१] अथ रात्रि-कथां पुनः स्निग्धकण्ठः प्रथयामास—

यदा रासाद् वासं रहसि ययुर् आभीर-वनितास् तदा शङ्कां जग्मुः स्वयम् अपि तु नासां गृह-जनाः ।
यद् अन्यास् तद्-रूपा व्यधित हरि-माया प्रति-गृहं यथामीभिर् ज्ञातं निववृतिर एताः पथ इति ॥१॥
[२] अथ तद्-अनन्तर-रात्रि-सन्ततीर् नाना-रस-रास-विलासादिभिर् अतिवाहयति श्री-गोविन्दे वृन्दा तु विविध-साहायकं समाहरति स्म, यथा— उपव्रजं न्यस्यति सा तमालान् दीप्रौषधीश् च व्रज-दूर-देशे ।
इत्य् आदि तत्राभिसृतौ स-वृन्दा वृन्दा हरेः सेवनम् आचचार ॥२॥ \

तदा च—

अचीचकासद् विपिनान्य् आजीहयद् इह प्रियाः ।
रासायत-त्वरद्-रात्रीर् अत्रामूर् अजजागरत् ॥३॥
आररम्भत रम्भोरूर् लम्भं लम्भं ततो हरिः ।
हारान् इव विहारांस् तान् कारं कारं दधे हृदि ॥४॥
[३] कदाचन चौर्य-चर्यया तासां गृहम् आयाति । तत्रेयं दिक्—
साहाय्ये ललितायाः कलयन् वेशं विशाखायाः ।
विपरीते विपरीतं हरिर् अविशत् तमसि वेश्म राधायाः ॥५॥
[४] तत्रान्धे तमसि काम्यमान-वाम्याम् आलिं प्रत्यालि-च्छल-वचनम्— सुसखीयति ते सुभ्रूर् असौ गोप-मतल्लिका ।
शपे तुभ्यं लपेयं च स्वयं सख्यम् उरीकुरु ॥६॥
[५] तत्र कथञ्चिद् अपि तद्-आगमने वृद्धाभिः किञ्चिद् इवावगते कुञ्जानेव स्व-लीलया कञ्ज-लोचनस् ताभिः समं रञ्जयति ।
[६] तत्र तत्-प्रेयस्या वृद्धाभिवञ्चना-चञ्चुता, यथा—

_यस् त्वां रात्रिषु वृद्धे माम् अपि देवो विभीषयते ।
स तु मन्त्रिभिर् उत्कलितो गोष्ठात् कुञ्जान् विमर्दयति ॥७॥
_

[७] तस्माद् अत्रान्यथा मावगास् तत्र च मागा इति ध्वनितम् ।

[८] अथ सख्याः—


सत्यं जरति मद्-आल्या वर-युजि गण्डे मकर-वतंसाङ्कः ।
न मया लिखितः कुतुकान् न मृषा-मुष्याः सपत्न्या च ॥८॥ \

[९] अत्र मम सखीत्वेन तस्याश् च सपत्नीत्वेन विरोध-लक्षणा-प्राप्तेर् मयैव लिखित इति तया ध्वनितम् । [१०] तद्-अनुवादिना कविना तु तस्य म्र्षात्वम् इति ।

[११] अथ व्रज एव विघ्न-निघ्नतया प्रोषित-भर्तृका वर्ण्यते । [१२] तत्र श्री-कृष्णस्य भावना—

_
राधां पश्यसि जल्पसि स्पृशसि च स्वात्मन्न् अथालिङ्गसि _

स्वस्मिंस् तत् तद् अनुक्रियाम् अपि तयारब्धां भजन् नन्दसि ।
विश्रम्भं न हि मन्यसे तदपि चेद् अन्यां दशां यामितस्

तत्-प्राप्तिं मनुषे तया कथय भो किं ते सुखं सेत्स्यति ॥९॥


[१२] श्री-कृष्णं प्रति सखी-वचनम्—

_भूषणम् अग्नि-प्रायं भूषण-निभम् अग्निम् अप्य् असौ राधा ।
त्वद्-विरहे या कलयति सा कथम् अन्यैः समाधेया ॥१०॥
तस्याः प्राणा भवान् सा च भवत्-प्राणा इति स्फुटम् ।
एतद्-वाचा लघूकर्तुं प्राणन्तीं मां तु धिक् प्रभो ॥११॥
_

[१३] अथोत्कण्ठिता । तत्र च तं प्रति सखी-वचनम्—

_
ताम् एव प्रेरयत्य् उच्चैर् उत्कण्ठा त्वां तु नैति सा ।
इति तस्याम् असौ कृष्ण वितृष्णा-शर्म नाञ्चति ॥१२॥_

_अस्रैः कम्पैर् विवर्ण-च्छवि-कुल-वलनैर् गद्गदै रोमहर्षैः _

स्वेदैः स्तम्भैर् विमोहैर् मुरहर दलित-प्राय-देहां विधाय ।
न त्यक्तुं न ग्रहीतुं कथम् अपि सुशका प्राण-घातावरोधाद्

_उत्कण्ठा कण्ठ-लग्नाशन-कवल-निभां तां तु दुःखाकरोति ॥१३॥ \


परम-गुणस् त्वं माधव _

_दोषापूर्ण-प्रभावोऽसि ।
कथम् इव तां गुण-रूपा- _

कृतिम् अधिचित्तं समदध्याः ॥१४॥

[१५] अथाभिसारिका । तत्र तां प्रति कस्याश्चिद् उत्प्रास-वचनम्—


सन्ध्यायां क्व नु यासि लोल-नयनाप्य् अग्रायनैकाग्रहा तत्राप्य् अग्रतमं स्थलं किम् अपि तच् चेतस्य् अलम् बिभ्रती ।
सा चैषा न हि बुध्यते तव गतिर् दृष्ट्वा तमालं मुहुर् विष्टब्धा धृत-भङ्गि-सङ्गि-सवयो-मध्ये मुहुर् लीयसे ॥१५॥ अम्बर-मणि-संवलितं चरमाचलम् अधिजगन्थ पूर्वाद्रिम् ।
शङ्के यन् निज-कृत्यं कर्तुं कृष्णान्तिकं यासि ॥१६॥

[१६] तत्राभिसारो, यथा—


अन्याश् चाभिसरन्ति भाव-वलिताः शुभ्र-क्षपायां कृतैः शुभ्रैर् वेष-वरैर् विधाय पिहितं स्वं सत्यम् एतद्-वचः ।
तस्मिन् गोप-वराङ्गनाः पुनर् अमूः कान्ताङ्ग-सङ्ग-स्मृतेर् जातानन्दतया स्मित-द्युति-वृतास् तेषां व्यधुर् व्यर्थताम् ॥१७॥
सामानाधिकरण्यं तेजस्-तमसो रहो कलितम् ।
कवयन्त्य् अपि यत् कृष्ण-भ्रान्तिं तमसि व्रज-स्त्रीणाम् ॥१८॥

आरम्भाद् अपि कम्पते हृदयकं प्रस्थानतः स्तम्भते पाद-द्वन्द्वम् अहो मनस्य् अनुमिलन् देहं निरुद्धे प्रियः ।
यासां गोप-नत-भ्रूवाम् अभिसृतौ तासां परं कारणं दैवं यन् नयते तद्-अन्तिकम् अमूस् तं वा बलात् कर्षति ॥१९॥

[१७] कदाचित् काचित् काञ्चिद् दिवापि कृष्ण-समीपं छलतः संवलयति, यथा—


आलि पश्य परितः शिखि-वृन्दं भीति-रीति-रहितं नटद् अस्ति ।
बाढम् अस्य विहरन्न् अधिगम्यं नव्य-नीरद-वरः प्रतिभाति ॥२०॥ \

[१८] अत्र निर्जनत्वं मध्य-स्थित-कृष्णत्वं च ध्वनितम् । अथ वासकसज्जा—


पुष्पाण्य् आचिनुते विचित्य चिनुते तल्पं व्रजस्याङ्गना यन् नास्ति त्रिजगत्य् अपि स्फुटम् अहो वैकुण्ठ-वीथिष्व् अपि ।
एवं वासक-सज्जिका लसति सा छाया-द्वितीया यदा सङ्गिन्य्-आचित-सङ्गतिः पुनर् असौ वेत्तीव किञ्चिन् न हि ॥२१॥
तत्र चोत्कण्ठावश्यायां तस्यां तं प्रति सखी-वचनम्—
तल्पं कृत्वा भवद्-अभिगमं चिन्तयन्ती समन्तात् तत्रादृष्टे भवति समय-क्षेप-लेशाक्षमा सा ।
चक्रे चक्राङ्कित-कर महा-कम्प-सम्पद्-विहस्ता शस्त-कल्पं कृतम् अपि च तत् कल्पयन्ती विशीर्णम् ॥२२॥

[२०] अथ विप्रलब्धा । तत्र च तं प्रति सखी-वचनम्—


भुक्तिं मुक्तिं च तनुते न परं भवद्-आगमः ।
भक्तिं व्यनक्ति च व्यक्तं सुहृत्सु परमेश्वर ॥२३॥

[२१] अथ खण्डिता । तत्र च तं प्रति सखी-वचनम्—


कुर्यास् त्वं खण्डितां काञ्चिन् नखराद्य्-अङ्ग-सङ्गतः ।
तं विना यां तथाकार्षीस् तत्र ते महती कला ॥२४॥ \

[२२] खण्डितां प्रति तस्याः सुहृद्-उपालम्भ-रचनं तद्-दूती-वचनम्—


मानिनि वच्मि त्वाम् अहम् इह सुहृदां तव शृणोतु वृन्दं च ।
सहजा या निज-वृत्तिर् गोविन्दे स्वयम् उपास्व ताम् एव ॥२५॥
[२३] तत्र कठोरायमानां प्रति च—

मानाग्नि-मय-दृग्-वाणं मुञ्च त्वं किं नु गर्वसि ।
राधे कृष्णश् च दृक्-पर्यक्-पर्जन्यास्त्रं विमोक्ष्यति ॥२६॥

[२४] अथ सम्भ्रमाद् आगतस्य नखरादि-स्पर्शात् क्षतायमान-रक्तिम्ना समक्तस्य कान्तस्य वचनं तस्याः प्रतिवचनं च । \

दयिते दयित कथं त्वं मलिन-मुखी धिग् न वेत्सि हा किम् इदम् ।
नख-रदन-क्षतम् ऊहेत् त्वयि सुप्ते सुप्ति-राक्षसी चक्रे ॥२७॥ \

[२५] अथ तस्याः सख्या संवादः—


जलदे विलसति विद्युद् बिभ्यति हृदयाणि भीरूणाम् ।
हससि हरिं किमु मुग्धे न हि हृदि चित्रं स्तुवेऽहम् एतस्य ॥२८॥ \

[२६] अथ तस्याः कृष्णं प्रति—

_आवृणुतामरुणांशुर् नख-पद-सिन्दूर-चिह्नानि ।
अञ्जनम् अपि कृष्णाभं तत् तु तवौष्ठः स्फुटं कुरुते ॥२९॥ \


पूर्वां हरितम् आक्रम्य निष्क्रामन् कृष्ण-नीरदः ।
निह्नुते शशभृल्-लेखां हरिद्-अन्तर-लज्जया ॥३०॥

स्त्री-भावम् आकलयितुं कमठानुकारं _

_गच्छन्-महाद्रि-तलम् आश्रितवान् भवान् यत् ।
तच् चाजितस्य न तवानुचितं यतस् त्वं _

_स्वां देवतां रमयितुं सुधयोद्यतोऽसि ॥३१॥ \


मामपि हित्वा क्रीडसि तामपि हित्वेति नानृतं वचनम् ।
एकं तत्र जहातेरन्यद्रूपं दधातेर् हि ॥३२॥

नीरसा सरसा वेति विविक्तिर् नातिकामिनाम् ।
पश्य वंश्या मुखं नायं पिबन्न् उज्झति माधवः ॥३३॥
_

[२७] तत्र श्री-कृष्णस्य वचनम्—


राधे वपुषा तन्वी कोमल-हृदयातिसूक्ष्माधीर् असि च ।
मानः कथम् एतावान् माति त्वयि तत् तु पृच्छामि ॥३४॥
मुखम् अब्जं तव रसना पल्लव-पत्री कथं वचः क्रूरम् ।
आं ज्ञातं किल यस्मात् तन्-मूलं भाति हृद्-वज्रम् ॥३५॥ \

[२८] भवतु च—

_
यथा मे रोचते मानो न प्रसादस् तथा तव ।
यत्र स्वाधीनता-व्यक्तिं कुरुषे ताडनेन च ॥३६॥
अर्दितोऽपि रुषा राधे लीलाब्जेनास्मि नार्दितः ।
हन्त मत्-कण्टकैर् एतत् त्वद्-अङ्घ्रि-सुहृद् अर्द्यते ॥३७॥
_

[२९] तद् एवम् उपवदमाने तस्मिन् पुनस् तस्या वचनम्—

निर्वृत्य्-अम्बुधि-कुम्भजः स्थिति-महा-मेघावली-मारुतः प्राणानां पवनाशनस् तनुवनी-नैदाघ-दावानलः ।
सोऽयं ते विरहो यया बत मया सोढस्तया वा कथं सोढुं हन्त न शक्यते नव-नवः पद्मापते दुर्नयः ॥३८॥
[३०] एवं रुदतीं सखीम् आलक्ष्य सखी तं प्राह—
अनुरागवती सन्ध्या स्वच्छोऽयं वासरस्ततः ।
स्थाने तया तस्य सङ्गो न रात्र्या मलिनात्मना ॥३९॥ \

[३१] त्वयि तु तद्-एतद्-विपरीतं प्रतीयते ततो न स्वच्छतेति व्यञ्जना ।
ततः सा मानिनी पुनस् ताम् आह—


दीप-ज्वाला मम हृदि गता स्नेहम् उद्धूय वक्रे चक्रे येन प्रतिहति-मिता तं कथं निन्दसि त्वम् ।
निर्द्वन्द्वाहं सपदि भवितास्म्य् एव सोऽप्य् एष नाना- गोपी-सङ्घात् प्रमदम् अयिता हन्त किं कस्य दुःखम् ॥४०॥
[३२] अथ तस्य तद्-बाष्पापसारणाय व्याज-रचनं वचनम्—
मीनाद् अपि तन्-मुक्ता- फलम् उद्भवतीति रत्न-शास्त्रार्थम् ।
पश्यन्न् इव मम हस्तस् तव मुखम् अभियाति मानिनि प्रसभम् ॥४१॥
[३३] ततश् च सा विमुखी-भवन्ती मनसीदं वदन्ती कलहान्तरिता-भावम् आससाद ।
ऐषीस्त्वं यदि मानस मानेनामुं वशीकर्तुम् ।
वशगेऽप्य् अस्मिन् कृष्णे त्यजसि न किं तं वृथा-भूतम् ॥४२॥ \

[३४] तदा च सखी तम् उवाच—


या तव हृदय-विदारं नखरैर् अकरोन् मुराराते ।
तां मनुषे प्रिय-दयितां ज्वलति तु तस्माद् दृग् अस्माकम् ॥४३॥
या खलु मानम् अमानं दधिरे त्वन्-मान-जीवना दयिता ।
घटते गोपी-वल्लभ तस्याः स्फुटम् असुगमः सुगमः ॥४४॥ \

[३५] इति सखीषु पराङ्-मुखीषु बहु तटस्थतां घटयन् दूर-देशीय-देशम् अटति स्म यदासौ, तदा तु—


राधाया दृष्ट-मानायाः सृष्ट-रोमाञ्च-सञ्चयाः ।
वैणव-ध्वनि-जातीया जीयासुः कीचक-स्वनाः ॥४५॥
[३६] तद् अवगम्य वामाया वचनम्—
न वदसि परुषं रुषं न धत्से मनसि च तत्र कथं कृतापराधे ।
हरि हरि सततं विमानिताहं त्वयि बत शर्म कदापि नापराधे ॥४६॥ \

[३७] तत्र तस्या मनः-कथा—

मानं कुर्विति वक्ति सा प्रिय-सखी मानं न वेद्मि स्फुटं कौटिल्येन यदि प्रसिध्यति स तत् कौटिल्यम् एवात्र किम् ।
हा तस्य स्मित-कञ्ज-चारु-नयनं श्यामस्य मन्-मानसं द्रष्टुं वाञ्छति हन्त कष्टम् अपरां स्फूर्तिं कथं गच्छतु ॥४७॥

आगस्-कृतेऽपि तस्मै रज्यति हृदयं खलं तद् एतन् मे ।
त्यक्तुं तद् अपि न शक्यं कथम् इव स हरिः परित्याज्यः ॥४८॥ \

ततश् च—

बलान् मानं शिक्षयन्तीर् अपि तत्र सखी-ततीः ।
राधया सार्धम् आकर्षन् जीयाद् वेणु-कल-स्वनः ॥४९॥ \

[३८] तस्या मुखम् अवकलय्य तत्-तद्-उपमा-जातियतया संशय्य स्थितवन्तं कान्तं प्रति सखी-वचनम्—


तस्मिन्न् अपि विधु-बुद्धिं कर्तुं मा कृष्ण साहसं कार्षीः ।
सर्वं जेतृ तद् एतद् भ्रू-धनुर् अनु नेत्र-वाणम् उत्क्षिपति ॥५०॥ \

ततश् च—

भ्रमरीवाम्बुजारण्यं शफरीव जलाशयम् ।
कृष्णं लब्ध्वा पूर्वमेव दृष्टा साभून्न तूत्तरम् ॥५१॥ \

अथ स्वाधीनभर्तृका ।


नित्यं या याचितापि प्रियतम-हरिणा नेच्छति स्पर्श-मात्रं वाचा सेयं मुहुस् तं निदिशति रसनाम् अप्य् अहो संवरीतुम् ।
तन् मन्ये नूनम् अस्यावयव-समुदितिर् दिव्य-सीधु-प्रकारः सङ्गाद् अप्य् अङ्ग यस्य प्रभवति मुहुर् उन्माद-लक्ष्मीर् अमूदृक् ॥५२॥
तत्र च वक्ति रूपं यदा कृष्णस् तदा सा राधिकाधिकम् ।
शृणोति नैव तत् तस्य पश्यन्ती रूपम् अद्भुतम् ॥५३॥
[३९] एतद्-अनन्तरं सखीनां निभृतालापः—
अपि लीलायितम् अनया चम्पकलतया तमालाधः ।
प्रागल्भ्यात् पुनर् एतां तद् उपरि रमण-स्पृहां वेद्मि ॥५४॥
[४०] अथ श्रीमत्-परम-रूप-गुरूपदेश-मय-स्वप्न-कलितं प्रातस्तन-ललित-राग-संवलितं ललिता-गीतम्—
जागरणाद् अथ कुञ्ज-वरे ।
वीक्षित-भास्कर-रुचि-निकरे ॥
कान्ता-निद्रा-भङ्ग-करे ।
अपि सङ्कलित-स्व-परिकरे ॥
मम धीर् मज्जति कंस-हरे ।
मौलि-शिखोपरि-पिञ्छ-धरे ॥ [ध्रुवम्] मुहुर् उल्लासित-युवति-करे ।
सममन्या बहिर् अनय-चरे ॥
घन-गहनाध्वनि गमन-परे ।
तत्र च बहु कृत-सुख-वितरे ॥
आशास्तम्भित-विरह-गरे ।
धाम्नि सनातन-शर्म-हरे ॥ इति ॥५५॥ \

[४१] दिनान्तरे सखी-सौभाग्यम्—


किञ्चिद् विलोक्य कुञ्जे सख्याः प्रागल्भ्यम् एकान्तात् ।
स्मेरा करम् अनु मुरलीं प्रागाद् बर्हावलिं शिरसि ॥५६॥
[४२] तां प्रति श्री-राधा किम् अपीदम् आचार्य प्रोवाच— शेते मञ्जु-निकुञ्ज-तल्पम् अनु स प्रेयान् इति प्रेयसि त्वां वेणुं किल हर्तुम् अस्य कुतुकात् प्राहैषम् अस्मि द्रुतम् ।
तं तु त्वं परिहृत्य चागतवती श्रान्तेव च प्रेक्ष्यसे तद्-वर्त्मान्य् अदुरी-चकर्थ रभसा यन् मादृशां दुर्गमम् ॥५७॥

[४३] तद् एवं तासां तस्य च प्रावृषिज-कृषिवद् दैव-वशत एव वशे वशंवदे तद्-अनन्तरं वसन्त-पञ्चमीम् अनु वसन्त-रागं जनयन् गोपाल-जनीभिर् मिलित्वा श्रीमान् गोपालः खलु खेलति स्म । [४४] तथा हि—तस्यां पञ्चम्याम् उत्कण्ठित-षट्-पद-खण्डित-तुण्ड-मुद्राकुल-मुकुल-मण्डलतया प्रथमम् उन्मीलितेषु केषुचित् पुण्ड्रकेषु श्रीमन्-माधव-राधादीनाम् अबाधम् आगमनम् असम्भाव्य भृशम् उन्मनायमानायां वृन्दायां सुमनायमाना काचिद् आलि-पालिर् आगम्य ताम् उल्लासितवती—[४५] सखि वृन्दे ! कथम् इव मन्दतां विन्दसे ? आगम्य रम्यम् इदम् अवगम्यताम् ।


[४६] वृन्दाह—कीदृशम् ? \

[४७] सा प्राह—यादृशं भवद्-अभिरुचितम् ।


[४८] वृन्दाह—कथ्यतां तथ्यम् ।
[४८] सा प्राह—काचिद् आली माधवी-मण्डलम् अनु माधवं माधव-प्रकाश-दर्शनतः समुज्जृम्भित-राधा-विप्रलम्भ-बाधं निभाल्य ताम् उल्लोलयामास ।
उल्लोल्य च सङ्गतश् चलन्ती सखीभिर् इदं वसन्त-रागेण गायन्ती वल्लभम् अपि लम्भयामास ।
[४९] गानं यथा—

_
कृष्ण-वनं सखि भाति सरङ्गम् ।
भवतीम् इव लघु नेतुम् अधीशं ।
सेवित-मधुर-स-सङ्घम् ॥ [ध्रुवम्]_

_जागरम् इतम् इव माधविकाशतम् अनुकृत-जृम्भा-भङ्गम् ।
चुम्बति मधुप-गणे कृत-भङ्गि स्मारयति प्रिय-सङ्गम् ॥
सरस-रसालज-मुकुल-कुलं परिपुलकयद् इव समम् अङ्गम् ।
आकारितम् इव तव कुरुते पिक-कलम् अनुकलयद् अनङ्गम् ॥
त्वां चेला-कलि-चन्दन-मरुता वासयतानुलवङ्गम् ।
कर्षति मधुरिपु-मधु-पर्वोदित-वीणा-वेणु-मृदङ्गम् ॥
नीतायां त्वयि माधवि माधव-माधव-गान-तरङ्गम् ।
किरति पराग-चयं लोचनम् इव नटयति चारु-कुरङ्गम् ॥
इति सा लब्ध्वा वल्लभम् अनिशं मनसा वलितासङ्गम् ।
जयति निरुपम-रूपिणि मध्ये यमुना-मानस-गङ्गम् ॥५८॥
_

[५१] अत्र च पद्यम् एकं गद्यते—


वन-रुचि-रुचिरः श्रीमान् मदन-विनोदाय नुन्न-गोपीकः ।
अभितः सुरभित-देशः सहचरि पश्य माधवः स्फुरति ॥५९॥

[५२] तद् एवं निशम्य तत्र विन्दमानां वृन्दाम् अनु पुनर् एवं दर्शयामास,
यथा—

राधा हरिर् अपि पुलकि-वसन्तम् ।
गायति निज-नुदम् अनु विकसन्तम् ॥ध्रुवम्॥
उपदिशते दिशि दिशि गुणयन्तम् ।
पिकम् अनु पञ्चमम् अतिचिरयन्तम् ॥
वासन्ती-मधु रहसि धयन्तम् ।
शंसति मधुलिहम् अनुगायन्तम् ॥
मधु-रसमनु गानं रमयन्तम् ।
रसयति विनिमितम् अधरम् अयन्तम् ॥
मलयज-सुरभि-धुरं खञ्जन्तम् ।
कवयति गन्धवहं प्रसजन्तम् ॥
वाद्य-गणं गुण-वलित-दिग्-अन्तम् ।
अनुनृत्यति मद्-अलोल-दृग्-अन्तम् ॥
चपलाघन-सम-रुचिम् अनु तं तम् ।
नटयति शिखि-गणम् अपि निपतन्तम् ॥
किरति चूर्णम् अनु पूर्णद्-अनन्तम् ।
समम् आलील-ललनाभिर् अनन्तम् ॥
श्रम-जल-कण-गणम् अनु विलसन्तम् ।
वहति पराग-भरं रुचिम् अनन्तम् ॥६०॥ इति ।


[५३] अथ तावतीं गतिम् अप्य् असहमानाः सहमाना गुरवः कुरवम् आचर्य पर्यवस्थया तासां स्वतन्त्रताम् आवार्य सर्वतो निरोधम् उद्बोधयामासुः ।

[५४] यत्र खलु रक्षिणी-वर्गस् ताह् सर्वतः समचक्षिष्ट । येन स्वत एव कृष्णस्य च तद्-वश्यता जाता । तद् एवं विधुरेण सर्वत्र च तत्र विधुरे सति—

_
पद्यां पश्यति वेणुम् आकलयति प्रेष्यादिकं प्रेषयत्य्_

_अन्यं कृत्स्नम् उपायम् आचरति यत् कान्तः स-कान्तः पुरा ।
तद् गुर्वादि-निरोध-बन्ध-विधिषु प्रौढेषु हाकर्षणं _

जज्ञे निष्फलनम् एव येन च तयोर् मर्माणि भेदं ययुः ॥६१॥


[५५] तत्र चोभयोर् मनः-कथा, यथा—

_
न प्राग् दृष्टिर् अमुष्य यत् प्रिय-जनस्यासीत् तद् उच्चैः सुखं _

_मन्ये सा बत साम्प्रतं समभवद् यत् तस्य तद् दुःखम् ।
तस्य स्वस्य च या क्रमेण ममता जाताधुना सा द्वयं _

_चूर्णीकर्तुम् अथेच्छतीह किम् अहं कर्तास्मि कर्ता स किम् ॥६२॥ \


रात्राव् अद्यातिमात्रं प्रणयि-जनम् अहं तं ददर्शाप्य् असौ मां _

_नैतावन्-मात्रम् अत्र प्रतिनव-मदनं हन्त पस्पर्श च द्राक् ।
यद्य् एष स्वप्न एव स्फुरति न हि तदाप्य् आत्मनः प्राण-रक्षां _

_मन्ये जाग्रद्-दशा वा तद् अपि न हि हहा कृष्ण-कान्ते क्व नु त्वम् ॥६३॥ \


श्यामाङ्गम् अन्तरा देहः सुहृदः सर्व एव च ।
अन्तर्-मनो-भिदस् तापं दधते वह्नि-जालवत् ॥६४॥ इति ।_

_
एवं सञ्चक्रुधुस् ते ते रुरुधुश् च वधुर् यदा ।
तदा कृष्णस् तीर्थ-यात्रां तृष्णया च्छद्म निर्ममे ॥६५॥_

_
यदा कृष्णानुरक्ताभिः सा यात्रा ताभिर् आकलि ।
मनो-राज्यं तदा प्राज्यम् अचायि निरचायि च ॥६६॥ \


यदा प्रतस्थे गोविन्दो विन्दन् शकटम् उन्नतम् ।
तदा दृक्-पक्षिणां ताभिर् लक्षिता बन्धु-विच्युतिः ॥६७॥

रात्रिं रात्रिं वसन्ति स्म यत्र ते तत्र निश्चितम् ।
अभूद् अमूषु सम्प्राप्तिर् विधोर् दाक्षायणीष्व् इव ॥६८॥_
तथा हि—

_
ताभिः स्वस्य विदूरकाभिर् अभिसारोऽद्यन्-मदाभिस् तदा _

_गत्य्-अर्थं कृत-वासकाभिर् उदित-प्रोल्लासि-तत्-केलिभिः ।
काभिश्चित् परिवञ्चिताभिर् अतिव्याप्ताभिर् उद्वासित- _

_द्वन्द्वाभिर् विविध-स्व-केलिम् अभजत् तस्मिन् स कृष्णः पथि ॥६९॥ \


यर्हि च तीर्थं याता गोकुललोकास्तदा हरिर्विदधे ।
गुणजीविस्त्रीवेशं तासामासत्तिसौख्याय ॥७०॥_
[५६] तत्र ज्योतिर्-मन्त्र-योग-तन्त्र-विदुषी-वेषो, यथा—
सर्वज्ञे किं त्रिलोक्यां सुख-कर-सदनं कृष्ण-गोष्ठं किम् अस्मिन्न् आजीव्यं कृष्ण-गानं किम् अतुल-भविक-प्रापणं कृष्ण-लिप्सा ।
किं भोग्यं कृष्ण-रूपं परिणतिर् इह का कृष्ण-लब्धिः समन्ताद् इत्य् एवं राधिकायां प्रतिवचन-कृती पातु नः कृष्ण-दम्भः ॥७१॥
[५७] दूती-वेशो यथा—
कासि प्रेश्या किमीया तव तम् अनुगता किङ्गुणा तस्य तुल्या तत्र स्यात् किं प्रमाणं विजन-गृह-गता पश्य मे सर्वम् अङ्गम् ।
इत्य् एवं दिग्-वितान-प्रणिहिति-वलितं स-स्मितं तन्-निदिष्टा राधा-गीर्-भङ्गि-मात्रात् परिचितिम् अकरोद् अस्तु तत् काम्य-वस्तु ॥७२॥
[५८] तद् एवं श्री-राधया तद्-विरह-चिन्ता-सम्बाधयापि गत-तद्-बाधया क्वचिद् अन्यथान्यथा च रजन्य् अन्तरे पुनः पुनर् अन्य-बहु-विध-वेशं केशवं निशाम्य भणितम्, यथा—

_सेयं भिषग्-असिताङ्गी मम हृद्-दाहं चिकित्सितुं लब्धा ।
स्पृशती सखि कर-नाडीम् अन्याङ्गं धिक् कुतः स्पृशति ॥७३॥ \


श्यामा वैणविकीयं _

_विदूर-वासा निशार्धम् उद्भूतम् ।
सख्य-स्थलम् इदम् अल्पं _

_तन् मम तल्पं तु सङ्कुचद् भवतु ॥७४॥ \


कविर् इयम् अतुला भवतु श्याम-व्यक्तिः स्वधीत-तद्-विद्या ।
अस्माकं रह एषा कथम् इव जानाति तन् न जानामि ॥७५॥

श्यामा चित्र-करीयं चित्रं विजने प्रकाशयति ।
माम् इव काम् अपि यत्र स्व-तुलित-पुंसान्वितां सखि व्यधित ॥७६॥

रहसि तद् एतद् वद्मि त्वयि सखि न परत्र कुत्रापि ।
ताम्बूलिकीयम् असिता मोहन-मन्त्रं विजानाति ॥७७॥

सेयं माला-कारी-मूर्तिर् मालाः प्रसारयति ।
तस्य श्यामल-मूर्तेः कस्मात् पुष्पेषु वासनां तनुते ॥७८॥

फल-विक्रयिणी श्यामा फलम् इह विविधं प्रसारयति ।
बिल्वं केवलम् अथ किं गृह्णत्य् अस्मान् विलोकयति ॥७९॥

सेयं श्यामा न सती हार-व्यतिहार-सम्भवद्-द्रव्या ।
अपरिचितापि स्वयम् अथ मणिसर-परिधापनं वष्टि ॥८०॥

यद्-अवधि तद्-अगुरु-सत्त्वं तस्या गृह्णामि गन्ध-जीविन्याः ।
तद्-अवधि गुरवो मयि सखि कृष्णम् अकृष्णं च ब्रुवते ॥८१॥
_

[५९] अथ श्रीवत्स-लक्षणस्याप्य् एतद्-उपलक्षणं बहु-रचनं वचनं लक्षणीयम्, यथा—

_
सीवन-विज्ञा स्वयम् अपि पर-शिल्पानां विलोकनात् कर्त्री ।
साहं प्रणयि-व्यक्तिर् लोकय गोपि स्व-हृद्-गतां चोलीम् ॥८२॥ \


अहम् इह रञ्जन-कारी श्यामाभिख्या जगद्-गत-ख्यातिः ।
या मम वस्त्रं वस्ते विकसति हृत्-कञ्ज-रञ्जनाप्य् अस्याः ॥८३॥

दर्पण-कार्मुक-विद्रुम-मुक्ता विक्रेतुम् ईहसे स्पष्टम् ।
गूढं सम्पुट-युगलं क्रेतुम् अहं तु व्रजस्त्रि पृच्छामि ॥८४॥

संवाहन-निपुणात्मा सुतनुर् अहं तव निषेवणं लिप्सुः ।
मत्-स्पर्शांशज-सौख्यं सुभगे ब्राह्मं सुखं जयति ॥८५॥_
[६०] तत्र च सति—
कङ्कण-कारि-स्त्रीवद्-वेशं केशवम् उपेत्य याः काश्चित् ।
दक्षिण-वाम-चरित्रं तेनुस् तन् न हि करवामहे सदसि ॥८६॥

अन्धकार-मय-पक्ष-लक्षिताम् अम्बिका-वन-गतिं विधाय ताम् ।
यद्य् अदिष्टम् अभवन् मुरारिणा मिष्टम् इष्टम् अतनिष्ट तद् बहु ॥८७॥ \

[६१] तद् एवं सति—


कंसारेर् हृदयाब्ज-सम्भवद्-अली-वीथीयमाना व्रज- प्रेयस्यः स्फुटम् अन्तरान्तर-पदं याताः क्रमाद् अन्ततः ।
एवं चेद् भवतान् न तत्र च वयं सन्दिह्य विब्रूमहे राधा यत् किल कर्णिका-स्थितिम् अगाद् अस्माकम् अत्राग्रहः ॥८८॥

[६२] अथ समापनम्—


सुदर्शनस्य शापान्तकारी राधे सुदर्शनः ।
अतिकान्तस् तवावाति-कान्तः सोऽयं बकान्तकः ॥८९॥

इति श्री-श्री-गोपाल-चम्पूम् अनु

रहः-कुतूहल-वह-बहल-रहः क्रीडाख्यम्

एकोनत्रिंशं पूरणम्

॥२९॥

(३०)

२७। अथ त्रिंशं पूरणम्

३४। निर्व्रीड-होरिका-विक्रीडनं [१] अथ मधुकण्ठः प्रभातकथां क्रमतः प्रक्रमते स्म—

अम्बिका-वन-गतिर् बभूव सा केलि-कर्मणि हरेः समर्धनी । आगतावपि तदा पुनर् व्रजे होरिका-प्रमद-पर्व-पद्धतिः ॥१॥

[२] तत्र च पर्वणि सर्व एव स्त्री-पुंस-जनः प्रमत्त-गण इव गायन् नृत्यन् युध्यन् क्रिडतीति मध्य-देशतः समुदाचारः प्रचरति भविष्योत्तर-पुराण-प्रामाण्यस्य पुराणानां मान्यतया ।

[३] अथ तत्र यदा पूर्ण-गुण-फाल्गुन-पूर्णिमा-निशायां कुतुक-तृष्णक् कृष्णश् च रामश् च ढुण्ढा-परपर्याय-होरिका-गृह-गृह्यायां भुवि रमते स्म । तदाकस्माद् उत्तरस्माद् आगतः कश्चिद् यद्यपि गुह्यकाधिप-सङ्ग्राह्यस् तथापि गुह्यक-गर्ह्यतया कंस-शुभाशंसनस् तत्र क्रीडन्तीर् व्रज-युवतीः प्रति दुर्दृष्टिं विधाय तद्-आकृष्टिं चिन्तितवान् ।

[४] चिन्तयन्न् एव च सहसा तत्र प्रविष्टः स खलु दुर्ध्यानाविष्टस् तस्माद् अकस्माद् अङ्गनानां गणम् उदजवज् जवतः कालयामास ।

[५] अथ साग्रजः सोऽयं गदाग्रजस्तमसभ्यस्वभावमुपलभ्य पूर्वं तत्पर्वरसिकवैहासिकवेशविशेषं दधृषं मन्वानः स्थगित इवासीत् । ततश् च—

प्रतिहरि-गति-चेष्टा शङ्खचूडेन रुद्धा दृग् अपि रुतिर् अपि द्राक् कृष्ण-रामेति तासाम् । यद् अयम् अतुल-वेग-द्रोहि-रूपाति-शब्दैः प्रतिपदम् अनुवर्ती वृत्ति-लोपं चकार ॥२॥

[६] अथ तत्र श्री-कृष्ण-वाक्यम्—

प्रत्ययन्त्योऽप्य् अतिजव-भराद् अस्य घोरान् निवृत्ताः पश्यन्त्यो नाव् अपि धिग् अमुतस् त्रास-विध्वस्त-नेत्राः । क्रोशन्त्योऽपि प्रतिरुतिकृतानेन नीरुद्ध-शब्दाः भ्रातस् तर्ह्य् अप्य् अहह किम् अमू रक्षितुं न द्रवाव ॥३॥

[७] तद् एवं निश्चिन्वानौ तं भीषणारम्भतया स्तम्भयितुं विचिन्वानौ सहसा शाल-द्वयं सहसा त्रोटयन्तौ पुनस् तद्-विटपादिकम् अपि प्रमोटयन्तौ सुदृढ-भुजाग्र-जाग्रत्-तद्-युगलतया प्रबलतया च ताव् अनुदद्रुवतुः । तद् अनु विद्रव-वशाद् अन्येऽपि संविद्रते स्म । तदा च—

इत्थं न तर्कितं लौकैर् अनयोः शाल-हस्तयोः । शालौ किं लघुतां यातौ विग्रहौ गुरुताम् उत ॥४॥

ततश् च—

अग्रे शुभ्रं रौहिणेयं विधाय श्री-गोविन्दः प्रद्रवच् छङ्खचूडम् । कीर्ति-स्तोम-प्रायतां तस्य तन्वन्न् एष प्रायस् तं पुरस्तात् करोति ॥५॥ विलोक्य स-बलं हरिं परम-विक्रमं स-क्रमं विसृज्य वनिता-जनं त्वरितम् अद्रवद् गुह्यकः । बलस्य किल कालताम् अमत मृत्युतां यद् धरेर् मृगं तद् उचितं यतः स स जगाम तत् तत् कृतिम् ॥६॥

[८] तेन विसृष्टायां चावलावलावयं बलाभिधस् तत्-संवलनाय तत्र स्थितः ।

[९] अथ श्रीमान् दनुज-गजसिंहस् तद्-अनुजस् तु स-विक्रमं विक्रममाणः प्रहस्य स्फुटम् औत्तराह्वस्य च तस्य दाक्षिणात्यं पलायनम् अवेत्य दूरेत्यं तं प्रत्यवज्ञया तरु-यष्टिं हस्ताद् विभ्रष्टां चकार ।

[१०] विद्रुत्य लब्ध-सनीडं पुनर् असौ विक्रीडन-चतुर-चित्तस् तत इतस् तं विद्राव्य चेष्टितेन वेवेष्टि स्म । नृसिंह इव हिरण्यकशिपुं रिपुं स-निग्रहम् एव जग्राह च ।

[११] ततस् तं हस्त-रोधं गृह्णन्न् अह्नाय मणि-गृहीतये स्फुरन्न् उरसिलः कर-सरसिजेन तच्-छिरसि कक्खटी-भाव-विघटित-तद्-अधीचि-मुन्य्-अस्थिजेन गृहीत-सङ्ग्राह-सारं प्रहारम् आजहार उत्तरस्मिन्न् अनेहसि मृत-देह-प्रतीकादानम् अनुत्तरम् इतीव भ्रंशयामास च तस्य तम् उत्तंसम् ।

[१२] स पुनर् आततायी दुर्मायी मणिम् अनु प्राणान् अपि व्यक्तम् एव त्यक्तवान् । तद्-धन-मात्र-जीवन-यात्रः खल्व् असौ । ततश् च—

जीवो रत्नं वेति भेदाक्षमं तज्- ज्योतिर्-मात्रं वस्तु यक्षाद् गृहीत्वा । पश्यन्तीनां योषितां कंस-वैरी निन्ये कामं राम-सायुज्यम् एव ॥७॥

[१३] तं चाभिपन्नं मुखं व्यादाय विन्नपातं पन्न-मणिं व्यापन्नं दृष्ट्वा श्री-कृष्णाभिप्रायम् अभिप्रयद्भिर् दिविषद्भिर् उपहसितम्, यथा—

स्त्री-रत्नं पुरु परकीयम् आदिथस् त्वं स्वं चूडामणिम् अपि हारयां चकर्थ । अत्याक्षीर् बत निज-जीवनं च धिक् त्वां व्यादाः किं मुखम् अथ वक्त्रम् अत्र यक्ष ॥८॥

[१४] तद् एवं कर्ण-रसनया रस्यमानम् आचर्य रहस्यं विहस्य च स्निग्धकण्ठः पुनः स-बाष्प-कण्ठम् उवाच—

तत्-क्षोभणं तद् द्रवणं तथा तद्- विक्रीडनं तद्-धननं स्व-शत्रोः । तद्-रक्त-रज्यन्-मणि-पाणि-रोचिर् मय्य् अद्य सद्यः प्रभम् अस्य भाति ॥९॥

[१५] पुनर् मधुकण्ठ उवाच—तद् एवं दलित-चूडे शङ्खचूडे निष्पीडिते क्रीडिते च व्रीडितेन निवृत्ते कोलाहल-परम्परातः कातरता-विरत-प्रकृतयः सर्व एव व्रजोर्वीपति-प्रभृतयः समागत्य विस्मित्य च तादृश-दुष्ट-नष्टीभावतः पुनर् भय-सन्देहेनास्पृष्टाः स्पष्टानन्द-सन्दोह-दोहास् तत्-पर्व-क्रीडां निर्व्रीडा इव विवव्रुः ।

[१६] विवृत्य च शास्त्र-विप्रतिपत्ति-विप्रयोजयितृ-विप्रेभ्यः सूत-सर्वानन्द-गुण-प्रभूत-सूत-मागध-वन्दिभ्यश् च परमावदानानि दानानि बहूनि चक्रुः । ताभ्यश् च शस्त-वस्त्रादीनि प्रस्थापयामासुः । स्वस्थायमानाः समाजग्मुश् च कृष्ण-कृष्णाग्रजौ पुरस्कृत्य निजं व्रजम् इति ।

एवं विचित्र-विक्रीडः पुत्रस् ते गोष्ठ-नायक । तं क्रोध-वह्नौ ढुण्ढाग्रे यक्षोर् अभ्रं जहाव यः ॥१०॥

[१७] अथात्र रात्रि-कथायां मधुकण्ठस् तां होरिका-कथाम् एव विशेषतः सेवयामास ।

शिव-क्षपायाम् अथ यापितायां वल्गूत्सवा फाल्गुन-पूर्णिमागात् । पक्ष-द्वयस्यास्य यथैव कान्तिः पर्व-द्वयस्यास्य च तद्वद् अस्ति ॥११॥ हिमे गते हिम-रुचिर् उज्ज्वलं बभाव् अफल्गुनि स्व-महसि फल्गु-पर्व च । न वाभवन् कथम् अथ तत्र गोपिका मदोत्कराद् अपि परिभूत-गोपिका ॥१२॥

[१८] अथ बलक्ष-पक्ष-सपक्षकैर् अवप्रकर-शोभाकर-करनि-कर-करम्बितां स्व-मनोरथ-प्रथनावलम्बितां क्षपम् अन्वीक्ष्य सर्वास् तत्-पर्वानर्वाचीन-समुदाचार-गर्वान् मुदा बहिर् आविर्भवन्ति स्म, यथा—

मुहुर् अगणित-गौरवाः समन्तात् प्रणय-मदात् परिधाय दिव्य-वेशम् । अपि बत जनतासु होरिकायां हरिम् अभिसस्रुर् अहो व्रजस्य नार्यः ॥१३॥

[१९] तद् एवं सद्म-सद्मनां सखी-पद्म-वरूथिनीभिः सह यूथ-नाथ-कवच-स्थिति-रचन-कञ्चुलिकादि-वस्त्रैः सुरभि-कषाय-मोचन-यन्त्र-प्रभृति-शस्त्रैर् बहुल-काहलादि-वादित्र-विचित्र-कुतूहलैः स-केलि-गालि-रीति-मय-गीति-कोलाहलैः सार्वत्रिक-तत्-पार्वण-रीत्या निर्लज्जतया सज्जतया च व्रज-पुर-द्वार-पुरः-स्थित-होरिकायतनाग्रीय-समग्रायत-प्राङ्गण-विहार-सङ्गर-रङ्ग-भुवि सङ्गता बभूवुः ।

[२०] याः खलु बल-बलानुजयोर् यथास्वं पृथक् पृथग् अनुराग-धरणाद् विभागम् आगतास् तत्-तन्-निष्ठ-दृष्टितया तिष्ठन्ति स्म ।

[२१] तत्र ताभिर् ईर्यमाणं वर्धित-शौटीर्य-परिमाणं कल-कलम् आकलय्य जय्यतामय्यस् ता इति भावनां पर्यवसाय-साहाय्याय सखि-घटया कटकं सङ्घटय्य तद्वद् एव सज्जतया बल-बलानुजाव् अपि वल्गु वल्गन्तौ तत्रैव गच्छतः स्म ।

[२२] गतौ चानवद्य-वाद्य-घोषेण घोषं वधिरयन्तौ प्रतिसेनाम् अवधीरयामासतुः । येन समुद्दीपित-मानाः प्रतिसेनायमानाश् च तास् तथा वाद्यतः सम्मुखताम् आसाद्य परितस् तान् अपि सर्वान् अतिचित्रयामासुः ।

[२३] यत्र प्रतिस्पर्धया वर्धमानयोस् तयोर् यूथ-वरूथिनी-प्रमाणयोर् एकत्र माधवः परत्र तु राधा राजायते स्म । जायते स्म च तेन जनानाम् अतिविस्मयः । तथा हि—

यद्वच् छुभ्रतर-प्रकीर्णक-मणि-च्छत्रादिकं श्री-हरेर् आसीत् तद्वद् अमूभिर् अप्रथि तदा श्री-राधिकायाम् अपि । किं चाभ्यां न परस्परं नयनयोः प्रान्तश् च सेहे यथा जेतृत्वं क्व नु जेयता च भविता कुत्रेति नात्रोहितम् ॥१४॥

[२४] तद् एवं परस्परम् उत्साहमानताम् असहमानताम् अप्य् अधिकृत्य कृत-कृत्यता-समाहारयोर् मनोहरणायाभिहार-विहारयोस् तयोर् अनीकिनी-सहितयोः सर्व-महितयोः समञ्जसताम् इव सञ्जयन्ती व्रजराज-सवयः-पुरोहित-श्वशुरावरज-दारतया गन्तव्य-पक्षं नर्म-शर्मणा रञ्जयन्ती काचिद् अर्ध-वृद्धा तत्-प्रेम-समृद्धा मध्यस्थ-पदवीम् अध्यास्य प्रगल्भतया गत्या वात्यायमाना राधा-वर्ग-मध्यात् तत्-प्रतिपक्षस्य क्ष्माधवं श्रीमन्-माधवं सन्निहितवती । सन्निधाय च यथा-यथं प्रथमान-स्मिततया कृतेऽभिवादनेऽभिवदने च तेषां सर्वेषां शृण्वताम् अब्रवीत्—

[२५] अहं किल प्रज्ञा प्राज्ञा च महा-धराधीश-गण-कृताराधाया श्री-राधाया दूत-कर्मणि प्रभूतताम् आसन्नास्मि । तद् एतद् अवधार्यताम्—

[२६] इत्य् उक्त-मात्राम् एतां मधुमङ्गलः सहासम् आह स्म—किम् उक्तम् अवधार्यताम् इति ।

[२७] तच् छ्रुत्वा सर्वस्मिन् प्रहसति सोवाच—वधिरोऽयं भवतां सभासद् इति ।

[२८] मधुमङ्गल उवाच—युक्तं तवेदं निरर्गलत्वम् । यतस् तस्या धराधिशाया वशा भवती कस्य वान्यस्य वशा भविष्यति ।

[२९] श्री-कृष्णस् तु स-गाम्भीर्यम् उवाच—निकामम् एव निवेद्यताम् ।

[३०] दूती तु तया शिष्टाचार-प्रतिपालयित्र्या विशिष्टम् इदम् आदिष्टम् इत्य् अर्धोक्ते विष्णु विष्ण्व् इत्य् उक्त्वा प्रोवाच—शची-जयि-तदीय-सचिव-वराभिर् इदम् आदिष्टम् । सर्वत्र प्रसृमर-समज्ञाम् अस्मदीय-राज्ञीम् अवज्ञाय दूरतश् च किम् उत पूरतश् छत्रादिक-धारणं भवताम् असाधारणम् ।

[३१] अथ कृष्णः सभाभिः सह हसित्वा प्रोवाच—सत्यं तद्-आदेशतस् तद्-अभिनिवेशं त्यजामः । किन्तु युद्धं विना राज्ञां वेद-बुद्धं स्याद् इति युद्धाय सन्नद्धया भवत्या भाव्यम् इत्य् एव वक्तव्यम् ।

[३२] अत्र मधुमङ्गलः सम्मुखं गतस् तद् इदम् आह स्म—देव तद् इदम् एव समाकर्ण्यताम् । जातितः स्त्री चास्त्री यो जनस्तस्मिन् वामतारामे नाममात्रेण रामास्पदमागते नार्जवचर्यया कार्यमर्यते । तस्मादार्जववर्जनादूर्जस्विनस्ते वयम् एवदूत्याय स्थापनीयाः प्रस्थापनीयाश्च । अस्मासु चाहम् एवप्रहापणीयः । यतः कोविदोऽस्मि ।

[३३] दूती सहासमाह स्म—लालाटिक भवान् यदि कोविदस् तर्ह्य् अन्यः कोऽविदः ।

[३४] मधुमङ्गलः सोत्प्रासम् उवाच—जल्पाकि कलयामि भवती तस्याः सभाया विन्दुर् अस्ति । तथापि त्रयीतनोर् ममाग्रतः स्थितिर् अपि तव न स्थिरतां लभेत ।

[३५] दूती सावज्ञम् उवाच—विशारदाया मम पुरतः शारदस् त्वं कियद् वा वदितासि । तस्मान् नीवाकवलितम् आकलय ।

[३६] मधुमङ्गलः स-रोषं श्री-कृष्णम् अवलोच्य वक्ति स्म—पर-वक्तव्या खल्व् इयं वक्तव्या भवतीति नास्माकं वक्तव्या भवितुम् अर्हति । किन्तु सेयं तावद् अत्र निरुध्यताम् यावद् अहं तद् वृत्तम् अवबुध्य सुध्य्-अग्रणीर् भवन्तम् अवरुणध्मि ।

[३७] दूती स-हासम् उवाच—नूनं भवतां दूतः सोऽयम् अग्रत एव व्यग्रताम् अवाप। यन् मामत्र रुद्धन्न् एव तत्र जिगमिषति । तस्मान् न मादृग् इव निःशङ्कं सोऽयम् इति भवतां कलङ्काय परं प्रतिपत्स्यते । युक्तम् एव च तत्-तद्-आवयोः । स्वामि-गुणा हि परिजनम् अनुयन्ति ।

[३८] कृष्ण उवाच—भामिनि स्वामि-गुणत्वं पुनः प्रकारान्तरेण मन्तव्यम् । सा खलु वामा वयं तु दक्षिणा इति ।

[३९] दूत्य् उवाच—यूयं खल्व् अपसव्या इति सत्यम् एव यतः स्वेषां दक्षिणतावाचित्वेऽपि प्रतिकूलतां न जहीथ ।

[४०] मधुमङ्गलस् तु तद् अशृण्वन्न् इव प्रोवाच—महाराज वामात्वम् एव खलु तासां बलाय कल्पते यस्माद् अबलाः ।

[४१] दूत्य् उवाच—दोष-ज्ञाः खलु भवन्तः कथम् इव गुणानुसन्धानं कुर्वन्तु।

[४२] मधुमङ्गल उवाच—दोषैक-दृक् पुरोभागीत्य् एवं यच्-छाब्दिकैर् मतम् तस्मात् त्वम् एव पुरतः सुधीभिस् ताभिर् आहिता ।

[४३] दूत्य् उवाच—असङ्ख्यावतां भवतां पुरतः कथम् एक-सङ्ख्यावती प्रत्युत्तरं दद्याम् । भवांस् तु तत्रानुबन्ध एव । तथापि सर्वे शृण्वन्तु । तासाम् अबलात्वं खलु विरोधि-लक्षणया यतः शस्त्र-शरीरत्वम् एव दृश्यते । तद् एतच् च तन्-मुख्याम् उपलक्ष्य लक्ष्यताम् ।

केशाः पाशाश् चल-नयन-युगं वाण-युग्मं नमद्-भ्रूश् चापः कर्णावरि-परिदधतौ नासिका दिव्य-शस्त्री । दन्ता वज्राण्य् अपर-तद्-अपरं तर्क्यम् एवं तद् एतच्- छस्त्रै राधा स्वयम् उदयति को वा बलीयान् अतोऽन्यः ॥१५॥

[४४] अत्र को वा बलीयान् अतोऽन्य इति कृष्णम् एव कटाक्षेण पश्यन्ती प्राह स्म—[४५] एवं विवदमानयोर् अनयोः कृष्णस् तु तया प्रस्तुतं तस्याः सौन्दर्यम् अवधार्य क्षणं धीरतां सन्धार्य प्रोवाच—दूति जातित एव प्रतीपदर्शिन्य् असि । किं ब्रुवे । किन्तु मदीय-दूत-निर्मिता राज-नीतिर् इयं न तु भीतिः ।

[४६] ततो भवती तावद् अत्र स्थितिम् अनुभवतु । मम दूतस् तत्र गच्छतु । ततः सञ्चारकाणाम् आचारेण समाचारेण साचारे लब्ध-प्रचारे यथायथम् आचरितव्यम् ।

[४७] पुनर् मधुमङ्गलं प्रत्य् उवाच—भद्रं स्वयम् एव तत्र गम्यताम् इति ।

[४८] दूत्य् उवाच—

न्याये युक्तौ प्रमाणे च स्थितो मध्यस्थ उच्यते । परं मध्ये स्थितो यः स्यात् स मध्य-स्थावरः स्मृतः ॥१६॥

[४९] सोऽयं पुनश् छेक एव । ततः शिक्षाम् अपि नार्हतीति स्वैरम् एव गच्छतु ।

[५०] मधुमङ्गलस् तु विशस्ता खल्व् इयं कथं शस्तं वदतु नामेति निवेद्य यथादिशन्ति महाराज-महाशया इति प्रस्थितवान् । प्रस्थाय च तासां स्थानम् आसीदन्न् आशी-राशिभिः प्रसादम् आसादयामास ।

[५१] सर्वाश् च नमस्कृत्य स-स्मितं कृत्यं पृच्छन्ति स्म ।

[५२] मधुमङ्गलस् तु भवतीनाम् एतन्-नृत्य-दर्शनम् एव कृत्यम् इति प्रोच्य प्रत्युवाच—किं च भवतीनां दूती तत्र गता वर्तते ब्रूते च । अस्माकं राज्ञी सार्वभौमं भवन्तं मिलितुम् इच्छतीति । तद् अवधार्य विस्मयाद् अस्माकं राज्ञा चाज्ञापितम् । सा खलु परानुगता जातास्तीति श्रूयते । तस्माद् एतन् न श्रद्दध्याम । अतः स्वस्य स्वसा काचिद् अस्मासु कस्मैचन विवहनाय दीयताम् । तदा तस्याः श्वोवसीयसाय स्याद् इति ।

[५३] सर्वाः स-भ्रू-विजृम्भम् आहुः स्म—वाचाट-तापाटवमय-धूर्तताया मूर्तिर् एवायं स्फुटम् अन्यथाकारं वदन्न् अस्मान् वञ्चयितुम् एवानञ्चितवान् अस्ति । स कदाचिद् एवं न कद्वदायते । सा पुनर् अस्माकं सञ्चारिका नेमां कुचरताम् आचरेत्। किन्तु बद्धेति सम्बध्यते ।

[५४] विशाखोवाच—यथाकारं तथाकारं वा वदतु । सोऽयं कथङ्कारं यूयम् इदं विचारयथ । यतो विप्रस्यास्य कृतं खलु विप्रकृतम् एव भण्यते । कथम् इव प्रकृतं स्यात् ।

[५५] मधुमङ्गल उवाच—को वात्र मम लाभः ।

[५६] विशाखोवाच—अये भद्र विप्र लब्धमपि तथैवानुसन्धेयम् ।

[५७] तद् एवं प्रत्यादिष्टस् तु मधुमङ्गल उवाच—सर्व-क्लमथ-मथनानां शमथ-दमथ-सत्पथ-प्रथन-पराणाम् अथ कथं न भवत्य् अस्माकम् एवायं दोषः । यत् खलु सन्ध्य्-अनुसन्धानम् एताभिस् तु युद्धम् एवानुबद्धम् अस्ति ।

[५८] अथ श्री-राधिकाभिदधाति स्म—किं बलः संवलते भवदीयः स राजा । यस्माद् एतावद् गर्वायसे ।

[५९] मधुमङ्गल उवाच—

उच्चाटनं गुण-गण-प्रथनाद् विकृष्टिर् वंशी-कलाद् विकलनं वर-रूप-वृन्दात् । स्तम्भो विलास-वलयाद् वशता च वाणी माधुर्यतः सुमुखि यस्य बली ततः कः ॥१७॥

किं च—

द्राघिष्ट-क्षेपिष्ठ-प्रेष्ठ-वरिष्ठ-स्थविष्ठ-बंहिष्ठाः । अस्मन्-नृपतेः पुरतः सर्वे गर्वेण रिच्यन्ते ॥१८॥

अपि च—

वृन्दिष्ठ-क्षोदिष्ठ-ज्येष्ठ-गरिष्ठ-ह्रसिष्ठ-साधिष्ठाः । अस्मन्-नृपतेर् अग्रे विपरीताभा-परीताः स्युः ॥१९॥

[६०] अथ श्री-राधा तु तद्-अवधारणाद् अन्तः-प्रेम-बाधां कथम् अपि समाधाय ललिता-मुखम् ईक्षितवती । ललिता तु स-विप्रलापम् आललाप—

स वेणुर् मूक-वधिरो यत्रागाद् वावदूकताम् । तत्रायं किं न वाग्मी स्याद् ब्रह्म-वंश-समुद्भवः ॥२०॥

[६१] किन्तु यथास्माकं दूती निरुद्धा तथा तम् एतम् अपि निरुध्य युद्धाय सन्नह्यामः । अनन्तरं तु परम-प्रचण्डाः स्व-पितृ-पुरोहित-पौगण्डाः समादिश्यन्ताम् । ते च स्त्री-वेशम् एवास्य बलात् कुर्वन्तु । कृते च तद्-वेशे श्री-व्रजराज-पुरोहित-भागिनेयः सोऽयं न चार्भकस् तत्र गच्छन्न् अस्मदीय-सन्देश-वर्णांस् तत्-कर्णाभ्यर्णान् करोतु । अस्माकम् अन्या कन्या न विद्यते । किन्तु सिंहल-द्वीपाद् दीपाभा पद्मिनीयम् एका जित-सर्वातिरेका नीतास्ति । सा तु स्वयं राज्ञा परिणीयताम् ।

[६२] तत्र पद्मिनी-प्रायेण दुष्कुल-सद्मजेति नावज्ञातव्या ।

विषाद् अप्य् अमृतं ग्राह्यम् अमेध्याद् अपि काञ्चनम् । नीचाद् अप्य् उत्तमां विद्यां स्त्री-रत्नं दुष्कुलाद् अपि ॥ [Gअर्P १.११०] इति हि स्मर्यते ।

[६३] मधुमङ्गल उवाच—ननु भवत्यश् च पद्मिन्यस् तर्हि ता एव कथं कुले नानर्हिताः ।

[६४] ललिता स-रोषम् उवाच—

आवृता जगति पद्मिनी यया पद्मया जितवती सदापि ताम् । राधिकादिर् अपि पद्मिनीतया भण्यतां ततिर् अहो मृगी-दृशाम् ॥२१॥

[६५] अथ श्री-राधिका हसित्वा चिल्ली-चालनया लसित्वा च स्व-पितृ-पुरोहित-बालकानां पञ्चाशतं तद्-वेशायादिश्य राज-पुरोहित-स्वस्रीयेण च तथा सन्दिश्य युद्ध-कौतुकायाभिनिविश्य तस्य स्त्री-वेशस्य पुरतः स्थितिं निदिश्य चामूभिश् चमूरु-चक्षुश्-चमूभिर् अभिक्रन्तवती युद्धाभिमुखतया च स्थितवती कृष्णं च मनस्याहितवती । तत्र च—

अबीभषद् अयं होरीम् अबभाषद् इयं तथा । अदीदिपद् असौ भावम् असौ च तम् अदीदिपत् ॥२२॥

[६६] ततश् च राजायमान-गोकुल-युवराजस् तं निकार-प्रकारं बटु-मुखतः कटु-निभं कर्ण-पुटम् आनीय तां दूतीं स्व-पक्ष-रक्षिताभिः काभिश्चित् प्रगल्भता-लक्षिताभिस् तादृश-स्त्रीभिः पुरुष-वेशां विधाय तेन बटुना सन्दिदेश । तस्याः कन्यायाः सोऽयम् एवधन्यो वर इति ।

[६७] सन्दिश्य च ताम् अपि मधुमङ्गलवत् पुरः प्रःईयाभिषेणयामास ।

[६८] तद् एवं मिथः कृते नियते नेत्रोः काभिश्चिद् अन्याभिः कुतुक-कृते तटस्थतया तत्र सङ्घटमानाभिः प्रकट-हठतया द्वयोस् तत्-तद्-वेश-विशेषिणोः कृत-सन्धे पटाञ्चल-बन्धे जाते चोभयतश् च नाना-हास-प्रबन्धे श्री-राधा-पक्ष-लक्षिताभिर् मृगाक्षीभिर् इदम् आख्यायि ।

[६९] वर्षीयसानेन वरेणास्मत्-पद्मिनीयं धर्षिता । तस्माद् युद्धार्थम् उद्यमः सम्बध्यताम् ।

[७०] ततः सम्बद्धेषु शुषिरादिभिः सार्धं युद्ध-वाद्यार्थम् आनद्धेषु ।

नर्माङ्ग-गालिर् उदक-क्षिप-यन्त्र-युक्तिर् दण्डी-प्रपातन-निवर्तन-केलि-रीतिः । कान्ताकृति-व्यति-कृत-ग्रहणं सखीनां साहायकं युधि बभौ हरि-होरिकायाः ॥२३॥

[७१] चिरतश् च कृष्ण-केलि-कलावकलन-केवलतया विकलित-स्व-स्व-केलि-कलह-प्रलापेषु राम-श्रीदाम-सुदामादि-कलापेषु तल्-लीला-तृष्णक्-कृष्ण एव स्व-प्रेयसीभिः सह सहसाहव-निभं विहरति स्म ।

[७२] प्रथमं तावद् असाव् अमूश् च परस्परं स्निग्धा व्यतिषज्य व्यतिबिद्धा बभूवुः, यतः—

भ्रू-कार्मुका नेत्र-बाणा ये तेषां मार-संयति । अङ्गास्त्राणां हन्त किं स्याद् अपराद्ध-पृषत्कता ॥२४॥

[७३] अथ पुनर् दण्डादण्डिदण्डनपूर्वकं बाहाबाहविबहलमेवायं हरिराहवमुवाह । तथा हि—

दोरान्दोलनम् अङ्गुली-परिमलं केश-ग्रहं वेशनुत् पाण्योश् चञ्चलतां तथा पर-परं वाच्यां विचारात् परम् । कुर्वंस् तत्-पर-दार-सैन्यम् अविशत् कृष्णस् तथा स्वं यथा कुत्रागाद् इति वेद न स्म जनता साप्य् अस्तु नापि स्वयम् ॥२५॥

[७४] ततश् च क्रमशः पर-परातिक्रम-पूर्वकम् अपूर्वोत्साह-वृतयोः सखीभिर् आवृतयोर् असाधारण-क्रीडा-रण-जवयो राधा-माधवयोर् एव व्यतिषङ्गः प्रसङ्ग-मायातः । तत्र च । यथा-यथं तत्-कौतुकावकलनतः स्व-स्व-व्यापारं परित्यज्य रज्यमान-चित्रतया चित्रायमाणा वर-वर्णिन्यः सौवर्ण-वर्णाकारतया वृण्वाना मिथस् तद् वर्णयामासुः ।

[७६] तथ हि गीतम्—

पश्य पश्य सखि होरीयुद्धम् । राधा-माधव-कृतम् अनुरहसं सुचिरं भवद्-अनुरुद्धम् ॥ध्रु॥ दण्डादण्डि-गते परिखण्डित-तरतमतो व्यतिरोधम् । व्यतिषञ्जनम् इह भाति तडिद्-घन-रुचि-जय-लसद्-उद्बोधम् ॥ मस्तक-वस्त्र-स्खलनारम्भात् पिहिते तन्-मुख-युगले । भ्रमर-वरायितम् एकेनास्मिन्न् अन्यस्मिन् बहु कमले ॥ भुज-भुजगेन हरेर् बहुधारचि हृदि तस्याः फण-लीला । चक्रवाक-युग-गीर्णिर् अवाकलि यत्र मुहुः कृति-शीला ॥ अपि पुनर् अस्मिन्न् अवकलयत किल निरवनिरुह-तति-देशम् । अभिनव-कनक-लता-परिवलयित-तरुण-तमाल-कुलेशम् ॥ तं युवती-कुल-साहायक-कृत-बल-राधा-वश-बलिनम् । रचयति नयति च निज-विषये दिशि रभसरसाद् अपि वलिनम् ॥ नीतं तं नव-पीत-पटं मृग-नाभि-जलैर् अभिषिक्तम् । तनुते सुतनू-ततिर् इह वितनु-प्रमद-मदाद् अतिरिक्तम् ॥ सेयं राधा स्वयम् इह मुरलीं यद् बत हरति स-यत्नम् । न तद् अद्भुतम् इव यद् अहरद् अस्य प्रथमं हृन्-मणि-रत्नम् ॥ अथ रामादिः सखि-जनता तं पश्यन्ती विनिरुद्धम् । सन्धिम् अधित्सत विसृजन्ती ताः प्रति दूतं गुण-शुद्धम् ॥ रामः स यदा फाल्गुन-पर्वणि देयं मेने दातुम् । प्रतिभुवम् आदायाथ तदा हरिर् आभिर् अमन्यत रातुम् ॥ जाते सन्धाव् अखिलेनापि च शंसति दिव्ये लोके । निज-निज-कान्ता-मोह-विरोहण-गीतिः स स विलुलोके ॥ इति ॥२६॥

[७७] एवं स्थिते परस्परं चर्चरिका-रचन-निचायने विस्मायके जाते समाज-द्वये च मिथः किञ्चिद् दूरं याते कस्माद् अप्य् अकस्मान् मूढ-धीः शङ्खचूडः समागतः । स तु विगीत एवेत्य् अलम् अति-तद्-विस्तरेण ।

[७८] अथ समापनम्—

शङ्खचूडं निहतवान् यन् मणिं दत्तवान् अपि । राधे कान्तस् तवायं तत् कृतवांस् त्वत्-कृते द्वयम् ॥२७॥

इति श्री-श्री-गोपाल-चम्पूम् अनु

निर्व्रीड-होरिका-विक्रीडनं नाम

त्रिंशं पूरणम्

॥३०॥

(३१)

२८। अथैकत्रिंशं पूरणम्

३५। नाना-राग-विचित्र-चरित्र-चित्रम् [१] अथ स्निग्धकण्ठः प्रभात-कथां प्रथयामास—[२] तद् एवं प्रतिक्षणम् एव परम-प्रेम-लक्षण-लीलां फुल्लद्-उल्लासतः स गोकुल-बन्धुर् दशमं संवत्सरं संवलते स्म ।


[३] स तु नृशंसः कंसः क्रमशः सर्वेषु निर्मित-निज-गर्वेषु तर्हि निस्तर्हितेषु वैर-शुद्धिं प्रति प्रतिगत-बुद्धिः सर्वतः श्रेष्ठतया रक्षितावरिष्ट-केशिनाव् आहूय संरभ-माणतया सभयतया चाभिहितवान् । मयावज्ञया नातियोग्या एव तत्र विनियोग्याः कृताः । स तु दारक इति बुद्ध्या । किन्तु स्फुटम् असौ सर्वेषां दारक एव जातः । ततः कौसीद्य-खिद्यमानतया भवन्ताव् अनुयुज्येते । किम् इह युज्यत इति ।

[४] ताव् ऊचतुः—देव तद् एतद् एव प्रतीक्ष्य स्थिरतयाभीक्ष्णं वर्तावहे । साम्प्रतं तु साम्प्रतम् आज्ञाप्यताम् । अथवा किम् आज्ञापनया । विनापि तां विनियुक्ता एव युक्त-सेवकतया वयम् इत्य् उत्थाय साभ्युत्थान-प्रणामं प्रस्थितयोस् तयोः कंसः शशंस । \

[५] अरिष्टस् तावत् प्रतिष्ठताम् । इष्टापत्ति-विपत्तितस् तु केशी च तत्-प्रतिवेश-वेशी भविता । तद् एतद् अवधाय तौ च गृहम् आगत्य सातत्यत एव तद्-अर्थम् आजगृहतुः ।

[६] अथ कदाचिल् लोहितायमाने सायं मार्तण्ड-रश्मि-मण्डले नाम्नारिष्टः सर्व-दिविष-दरिष्टः सर्वत्र च रंहसा जङ्घन्यमानः सर्वांश् चाघ्ना जेघ्नीयमानः श्रीमन्तं गोष्ठ-द्वारान्तम् आजगाम ।

[८] यदा हि चित्रायुत-पूर्ण-चन्द्रां पूर्णिमाम् अनु तुर्णित-चेताः स्व-सुख-वर्धन-गोवर्धन-विलोकन-कामनया श्री-राम-कनिष्ठः किञ्चिद् दूरं प्रविष्ट आसीत् । ततश् च—

_
भू-कम्प-क्रमणान् महीध्र-चलनं तस्यागतेर् वारि-भृद्-_

_विक्षोभं नदनान् निशाचर-वरं वैकृत्यभाग्-आकृतेः ।
तद्-रूपाद्रि-विनिश्चयं ककुदि वार्-मुग्-वृन्द-सङ्घट्टनाद्
उन्नीय व्रजग-प्रजा दिशि दिशि द्राक् कान्दिशीक्यं गताः ॥१॥ \


किञ्चित् किञ्चिन् मूत्रणाद् आपगानां _

_गूथ-त्यागाद् गण्ड-शैलावलीनाम् ।
सृष्टिं कर्ता पश्यतारिष्ट-नामा _

_देवारिष्टः पर्वतात्मा प्रतीतः ॥२॥ \


वृष-दम्भी स-संरम्भं रम्भणं यद्-व्यधाद् असौ ।
तेनासीद् व्यक्त-सन्दर्भः स्वयं गो-गर्भ-पातिना ॥३॥

वप्रं यदापस्किरते स्म शृङ्गा-_

_दिभिर् विकुर्वाणता वृषः सः ।
तदाखिलं गोकुलम् आशु मृद्भिः _

_प्रच्छन्नम् आसीद् वन-मण्डलं च ॥४॥ \


यत्र तत्र खुरम् आदधाति _

_स क्ष्मापि तत्र वलते विदीर्णताम् ।
नेत्र-तुल्य-विलतः समुच्छ्रितं _

वारि रोदन-निभं बिभर्ति च ॥५॥


[९] तत्र लोकानां वचनं—

_जातु मातु गिरिरेष समन्ताद्-
उच्चलन्न् अपि तथाविध-मूर्तेः ।
किं तु शृङ्ग-तलगं रवि-युग्मं _

हा व्यसिस्मयत गोकुल-लोकम् ॥६॥ इति ।


[१०] एवम् उद्घ्नता गवाम् उद्घ्नान् निघ्नता च सर्वं वस्तु प्रस्तुभ्यता चारिष्टेन कृताद् आक्रुष्टात् कष्टम् अनुस्पृष्टवन्तस् ते गोष्ठ-निष्ठा गो-नर-प्रकृष्टाः कृष्णाय मुहुर् विकृष्टवन्तः ।
[११] सूरतः स तु दूरतस् तेषाम् अवगत-विक्रोशन-लेश-मात्रं कुत्राप्य् अकृत-यात्र इव सम्मुखत एवावतस्थे । अवस्थाय च मा भैष्टेत्य् अभयम् उद्दिष्टं विधाय क्रोधाविष्टस् तम् अरिष्टम् आजुहाव बलीवर्द-क्रोध-वर्धन-नर्द-विशेषेण । तद् इदं तु तं प्रति सम्प्रति सुकरार्दनस् त्वम् असीति ज्ञापनाय ।

[१२] अथ चोवाच, यथा— \

सपालैः पशुभिर् मन्द त्रासितैः किम् असत्तम ।
मयि शास्तरि दुष्टानां त्वद्-विधानां दुरात्मनाम् ॥ [भा।पु। १०.३६.७] इति ।


पुनश् च—
पिण्डीशूर विदूरः सन् क्रूरतां त्वं किम् ऋच्छसि ।
सामुद्र-पूर इव मां कुम्भ-जातं प्रपूरयेति ॥७॥ \

[१३] तद् इदं च तस्य गां-मन्यस्य जिघांसया लोकानां गोत्व-भ्रमापगमनया चोक्तवान् इति गम्यते । किं च—

_
आस्फोटनं कृतम् अनेन तदा यद् अस्माद्-
आस्फोटनं समभवद् दनुज-श्रुतीनाम् ।
कोऽयं चकार स तु यद् वृसभस् तद्_

_उच्चैः कोपं च वर्ष-शिशुवन् नहि जाहसीति ॥८॥ \


कृष्णः सख्युः स्कन्ध-देशे स्व-बाहुं _

_निक्षिप्यासाव् उद्धसन्न् एव तस्थौ ।
येन क्रोधं वर्धयामास तस्य _

_प्रेयो-वर्गाणां च सन्देह-सर्गम् ॥९॥ \


वृषस् त्व् असौ रज इव पुच्छ-मार्जनी-
परिभ्रमैर् घन-गण-लक्षम् उत्क्षिपन् ।
क्षितिं क्षताम् अथ खुर-वज्र-विज्वलत्-
खनित्रकैर् विदधद् अगाद् धरिं प्रति ॥१०॥

स वज्रति स्म न परम् आशु विद्रवं _

_प्रति द्विषत्-प्रतिरुतती-व्रतां प्रति ।
न केवलं हरिर् इह हा समाययौ _

_सखापि यः परिकृत-तद्-भुजांसकः ॥११॥
_

[१४] तादृशतया स्पष्टम् अविप्रकृष्टे च तस्मिन् श्रीमान् कृष्णस् तु शृङ्ग-द्वयम् एवाभिजग्राह, यथा—


शृङ्गे ये पूर्वतां नीते जयाय वृष-रक्षसा ।
स्व-सन्दानाय ते सृष्टे कृष्ण-दोष्णोर् वशं गते ॥१२॥ बाहु-पाश-सित-तीव्र-शृङ्गकः स स्फुटं प्रतिमुखं सरन्न् अपि ।
प्रत्यग् अष्टादश च क्रमान् बलाद्
दित्य्-अपत्य-रिपुणापयापितः ॥१३॥

अयम् उद्धुतस् तद् इह नास्ति भारता न फलं विनोदन-कला-विनोदतः ।
इति माधवः स्फुटम् अरिष्टम् उत्क्षिपन् नति-रीढया बत विवृत्तिम् आटिटत् ॥१४॥

व्यवर्तत हरि-क्षिप्तः परं नोक्षासुरः क्षितौ ।
हासावेश-वशे क्षिप्तः स्वर्गेऽपि स्वर्गिणां गणः ॥१५॥

पपात पुच्छं भुवि शृङ्गयोर् बलाच् छृङ्गे तु पुच्छस्य निपेततुर् भुवि ।
पृष्ठाङ्घ्रि चैवं वृष-रक्षसस् तदा युक्तं तद् अस्मिन् विपरीत-कारिणि ॥१६॥

तज्जा लज्जाप्य् उत्थिता तस्य सोऽपि प्रत्युत्तस्थाव् अभ्ययुङ्क्तापि भूयः ।
कृष्णस् त्व् एनं पातयन् वाम-शृङ्गे-
णोत्कृत्तेनामुष्य वक्त्रं चुकुट्ट ॥१७॥ \

[१४] शृङ्गोत्पाटणं घटयंस् त्व् इदम् आचष्ट—


अभद्रस्यापि भवतो भद्राकृति-विध-सरिणः ।
विषाण-मुण्डनाद् भद्राकृतिर् एव प्रशस्यते ॥१८॥
अथार्द्र-वसनं यथा परिनिपीडयन् जीवनं विकर्षति जनस् तथा तम् अकरोद् अरिष्टं हरिः ।
मलानि च यदाकिरच् छमल-मूत्र-रक्तादिकान्य् अस्यौ परम-शुद्धताम् अपि जगाम कैवल्यतः ॥१९॥
लयं परमम् आगतस् तद् अपि यत् पदं नैरृतं ययावयम् इति स्मृतं मुनिभिर् एतद् उच्चै रुषा ।
प्रसूनम् अथ यन् मुदा ववृषुर् आदितेयास् तद् अप्य् अमित्र-विलयाद् भवेद् उचितम् ईदृशात् किं पुनः ॥२०॥

[१५] अत्र च श्री-गोकुल-प्राणाभिप्रायम् अभिप्रयद्भिस् तद् एव चानुवदद्भिर् दिविषद्भिर् उपहसितम्—

_
वत्सं लघुं दैत्यतयावगच्छन् _

जघान बालेऽप्य् अहम् उक्ष दैत्य ।
प्रौढः कथं त्वाम् अतिभीष्म-वर्ष्म-
प्रष्ठं न जानानि न घातयानीति ॥२१॥

[१६] अत्र गोकुल-जनस्य गोकुल-जीवनस्य च भावम् आविशन्न् एव श्री-शुकदेवस् तद् इदं वदति स्म—


एवं कुकुद्मिनं हत्वा स्तूयमानं स्वजातिभिः ।
विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥ [भा।पु। १०.३६.१५] इति ।

_आयाते व्रजम् अच्युते रिपु-जय-स्वस्ति-प्रशस्तीडिते _

_सर्वेऽप्य् उन्मदतां गता बहु-विधं संवादम् उन्निर्ममुः ।
किं तु द्राक् पितराव् अमुष्य वदनं तद् वीक्ष्यमाणाव् अमू _

स्वैर् बाष्पाम्बुभिर् आप्लुतं ममृजतुर् विक्रुश्य मूकाव् इव ॥२२॥


[१७] अथ समापनम्—
अयं स स्तव-भाक् सूनुस् तव गोप-नराधिप ।
पूषितास् त्रिदशा येन मूषितास् त्रिदशारयः ॥२३॥

[१८] अथ रात्रि-कथायाम् अपि स्निग्धकण्ठ एवाभिदधे—[१९] एवं होरिका-प्रान्त-कान्त-क्रीडान्तरानुसारेणाभिर-वीर-सरसिजाक्षीणाम् अक्षीणानङ्गानां वृत्त-कृष्ण-सङ्गानां बहुधा निवृत्तं रात्रि-वृत्तं स्वयम् एव सखीभिर् अनुसन्धीयताम् ।

[२०] वासरावसरश् चायं मद्-उक्ति-निदिग्ध-दिग्-दर्शनतः परामर्शम् आनीयताम् ।
यथा चाह श्री-पराशरः—


स तथा सह गोपीभी रराम मधुसूदनः ।
यथाब्द-कोटि-प्रतिमः क्षणस् तेन विनाभवत् ॥ [वि।पु। ५.१३.५७]
यथा च श्री-शुकः—
गोप्यः कृष्णे वनं याते तम् अनुद्रुत-चेतसः ।
कृष्ण-लीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान् ॥ [भा।पु। १०.३५.१] इति ।

[२२] तथा हि—यदा खल्व् अहरहः क्षयम् आसाद्य वाद्य-गीत-नृत्यं विवृत्य सहचर-सङ्गिनीभिः शृङ्गिणीभिः सह स हरिर् व्रज-जन-स्नेह-धनः स्व-वेश्म प्रविशति तदा विगत-परिमाणा विमानानुचारिणः सर्व एव समम् उपर्य्-उपरि-चरिणः सह गणेन कणेहत्य स्पष्टं द्रष्टुम् इच्छन्तस् तद्-अभाव-लब्ध-कदनाः सदनान्त-पर्यन्तम् आयान्ति । कृत-वेश्म-प्रवेशे तु तस्मिन् विस्मय-स्थगिततया स-लालसतया च तत्र तत्र चित्रायमाणा रात्रिं गमयन्ति स्म ।

[२३] शरणान्तरात् पुनर् यावन् निःसरति स एष शरणागतायागतानुसरणः । तद् एवं यदा निःसरति निःसृत्य च गोप-गोगण-सञ्चरणाय वेणुं रणयति । तदातनं चरितं गोचरताम् अतिचरद् अपि निज-भाव-प्रभाव-सम्पदा चक्षुषीव रचितं विधाय श्रीमद्-आभीर-भीरुभिर् अभिगीतम्, यथा—

अवधारय सखि तव सखि-वृत्तम् ।
विरहि-जनानां जनयति हृदयम् विदयतया बत कृत्तम् । [ध्रुवम् इदं परपरत्रापि ।] वाम-भुजाकृत-वाम-कपोलकम् उल्लल-चिल्लि-भासम् ।
सुकुमाराङ्गुलि-विलसितम् उज्ज्वल-वेणु-मुखं मृदु-हासम् ॥
राग-कला-कुलिताखिल-भूचर-गान-कलैर् अनुविद्धम् ।
व्योमग-यान-जनीजन-मोहनम् अनुगमिताखिल-सिद्धम् ॥२४॥
[२४] ततश् च मुहुर् अपि तावन् मात्रे तासां गान-पात्रे सति वन-व्रजयोर् मध्यम् अध्यास्य हर्षं तर्षं च धास्यन् वंशं शंसयति स्म । [२५] तत्र च ताभिर् गीतं, यथा—
चित्रं लक्ष्मी-रेखासौ हृदि चपला न भवति चपला ।
मणिम् अम्बर-मणिम् अनु तारावलिर् अपि सा राजाति तरला ॥
यस्य स चायं वेणु-कलामृत-वर्षी कलयति गव्याम् ।
स-तृणक-दशनाम् उन्नत-कर्णामत्राम् अर्थिषु भव्याम् ॥२५॥ \

[२५] ततश्चातुच्छ-पिच्छ-गुलुच्छ-पुष्प-गुच्छ-धातु-च्छविभिर् मल्ल-परिच्छदं गच्छति स्म श्री-गोपिकानां प्रच्छन्न-रमणः ।

[२७] तं गत्वा च सत्वर-प्रथम-पयः-पायनाय गङ्गा-यमुनादि-नाम्ना गाः सु-विकस्वर-सरसिजं सरः प्रति क्रमाद् वेणु-गानतः समाकारयति तस्मिन् व्रज-रमानाथे बुद्ध-निजाकारण इव रुद्ध-प्रवाह-प्रसरतयास्थिरताम् उत्कलिकाम् अप्य् अनुसरति । विदूर-चर-सरिद्-विसरे च पुनर् आसां गीतं, यथा— \

चन्द्रक-धातु-दल-स्तवकादिक-कृत-मल्लोत्तम-वेशम् ।
आकारयति स गाः सरिद्-आली लभते तत्र विशेषम् ॥
कमित-भङ्ग-भुजा किल तत्-पद-रज आशुग-तति-नीतम् ।
लघु सुकृतास्माद् दृग् इव स्पृहयति विदती स्वम् अनभिनीतम् ॥२६॥ \

[२८] अथ तदा तदाहूति-कृताम् आनन्द-विभूतिम् आरभ्य तच्-चरितम् उपलभ्य कदाचिद् व्रज-धरित्रीशित्री-सदसि गतभिः काभिश्चन ताभिर् उत्कण्ठया सुष्ठु प्रतुष्टुषमाणाभिर् अपि निज-भावं पिधाय भावान्तर-साधारण्यं विधाय तद् इदं वर्णनं तन्-निर्वर्णनम् इवासीत् । \

[२९] तत्र गानान्तरं, यथा— \


आदि-पुरुष इव वैभव-शाली ।
अनुचर-वर्णित-वीर्य-समुन्नतिर् अयम् उदयति वनमाली ॥ध्रु॥

स गवाकारण-मुरली-कलम् अनु तनुते यत्र वनं च ।
तद्-रूपान्तर्यामि-स्फुरणज-भावान् कलयति पञ्च ॥
पुष्प-हसित-मधु-बष्प-नवाङ्कुर-पुलक-ततीर् अनुयातम् ।
एजन्-नमद् अपि शाखा-ततिभिर् यत् किल कलयति शातम् ॥२७॥ \

[३०] तद् एवम् अनिङ्गानाम् अपीङ्गानाम् इव शश्वद् इङ्ग-व्यङ्गं विहितवान् ।

[३१] अथ समासन्ने विनोदेनाह्नायवन् मध्याह्ने क्वचिन् महा-सरसि सरसिज-सौरभ-सरसेन घन-रसेन स्नान-लीलाम् अभिनिविश्य केवल-तिलक-वनमाला-वलित-वेश-भङ्गि-सङ्गिता-पूर्वकम् अपूर्वे तस्मिन्न् एकान्ते कुसुमित-वनान्ते कान्ते महा-शैल-प्रान्ते पल्लव-लसद्-उरुतर-तरु-तल-विलसित-शिलायाम् उपविश्य विराजन्नुस्रावार-चारं प्रति भूरि-दूरी-भावम् इतेषु मित्रेषु निज-सौरभ-रभस-समुदित-मधुर-मधु-कर-निकर-गान-कृतावधानस् तद्-धूङ्कार-कारण-स्वर-सारम् अनु कुतुक-कृतानुसन्धानस् तद्-अनुसारि-वेणु-चारि-रणितेन सुरचित-सारसादि-रसाधानः सोऽयं रमते स्म ।

[३२] तच् च, यथा— \

_रम्य-तिलक-नव-तुलसी-दल-भव-वन-मालातिविकासी ।
निज-सौरभ-वश-मधुप-गीतम् अनुगायति वेणु-विलासी ॥
अथ सारस-युत-हंसायुत-ततिर् अलम् अनुगम्य परीता ।
परितो न्यविशत ताम् आविशती रुतिम् इह या हरि-गीता ॥२८॥
_

[३३] ततश् च ततस् ततः समागते साग्रजे समग्रे सखि-वर्गे तदानीन्तन-बर्हि-प्रबर्ह-बर्हादि-नाना-वन्य-नेपथ्य-प्रथ्यमान-शोभ-लोभनीय-रूप-वरीयस्तया प्रशस्त-स्रजीयस्तया च विस्तृत-शातस्य तस्य गोचारण-चरितं प्रचारणीयम् ।

[३४] तथा हि—क्वचिद् अपि क्षिति-भृति वृक्ष-शून्य-क्षिति-गत-पुण्य-तृणं धेनुषु चरन्तीषु वह्नीयमान-माध्याह्निक-ललाटं-तप-तपन-तापापनोदाय वेणुं वादितवान् । यत्र बलाहकास् तत्-प्रतिमल्ल-निभ-मल्लार-राग-बलाद् आहृतास् तेषां शीतलता-वलनाय बभूवुः ।

[३५] यच् च वाद्यम् उद्भवत्-पुरु-गुरु-गरिम-गिरि-द्रोणीः प्रतिधवन् यत् तत् परम्परया च सर्वम् अपि तथ रणयत्-त्रिलोकी-लोकम् अपि तत्-कौतुकालोकनायाकर्षति स्म ।

[३६] तथ च सति तत् तद् अनुभूय भूयश् च ताभिर् इदं तस्याम् एव सभायां वर्णितम्—

_
धृत-वन-माल्य-वतंस-लसद्-वन-वेश-ततिर् बल-सङ्गी ।
गिरि-तटम् अनु गोचारण-कारण-वेणु-विनोदन-रङ्गी ॥
विश्वं भ्रमयति कर्षति वर्षति मुदम् अपि घन-गण-हारी ।
सान्द्र-च्छायाम् अनु शीतल-तनुर् अनु सखि-सुख-सञ्चारी ॥
कुसुमं वर्षन् निज-रुचि-वितरण-सौहृदम् एनम् उपास्ते ।
अम्बु-धरः स्फुटम् उपगन्ता न च किं तु छत्रम् इवास्ते ॥२९॥
_

[३७] ततश् च तत्रातिघने घन-च्छाये विहारं विच्छायति स्म ।

[३८] तद् एतच् च व्रजराज-जाया-समाजम् अनु साधारण-सम्प्रधारणतया ताभिर् वर्णितम्, यथा—


स्व-सुतं कलयत केलि-कला-बुधम् आत्मोपक्रम-वेणुम् ।
विधि-शिव-मोहन-विविध-स्व-रमय-राग-निवर्तित-धेनुम् ॥३०॥ इति ।
[३९] तद्-अनन्तरं च प्रायशः काश्चिद् व्रज-देवीर् व्रजाद् अह्नि चापह्नुत्य् व्याजं व्यज्य वा तद्-आगमन-वर्त्मनि तद्-अनुवर्तनाय वर्तमानास् तं पश्यन्तीः पुनर् अपश्यन्तीर् इव दूरात् परिहरन्तीर् इत्थं काश्चिद् दूतिकाः परिहसन्ति—
मदान्धे राजते पिञ्छी न सपिञ्छी पुरस् तव ।
वेणु-ध्वानी जगत्-प्राणः स जगत्-प्राण एष नेति ॥३१॥ \

[४०] श्री-कृष्णं च छलेन विज्ञापयन्ति, यथा—

_
ज्योत्स्नां तनोति ललितां दधते विचित्रां _

_शाखां दधाति निखिलं जयतीति-भाङ्ग्या ।
चन्द्रावलीं च ललितां च विशाखिकां च _

_राधां च ताः सखि-सदस्य् अपि सूचयन्ति ॥३२॥
_

[४१] तत्र काश्चिद् देव-पूजा-व्व्याजेन दुष्प्राप-पुष्पादिकम् अवचिन्वाना बहल-कलह-मूलतां प्रयान्ति ।

[४२] काश्चित् तु नव्य-भव्य-गव्यादिकं तद्-अर्थम् एवानयन्ति तथापि नात्मना तस्मिन्न् अर्पयन्ति । तत एव कृत्रिम-दान-चत्वर-देशम् अपदेशम् अवरुध्य वर्त्म विनिरुध्य पृच्छन्तं तं प्रति क्रय-विक्रयिक-रीत्यान्यथा ख्यापयन्ति । दिव्याद् अपि दिव्यम् एतद् विज्ञाय यज्ञ-पत्नीर् अनु कृत-यत्नासु क्रयिकताम् आश्रयमाणासु यज्ञ-भुक्-पति-व्रतासु सत्याकृति-कृतिनीवाक-परीपाकम् आकलय्य कृत्स्नं वस्नं च सङ्कलय्य विक्रेतव्यम् इति ।

[४३] तत्र पुष्पावचये प्रणयिना सह वाकोवाक्यम्, यथा—


का यूयं वन-देवताः कुरुथ किं पुष्पाणि सञ्चिन्महे किं निर्मास्यथ देवतार्चनम् अतो यूयं कथं देवताः ।
तच् च क्रीडनम् एव नः स्फुटम् अभूद् अस्माभिर् ईदृग्-विधैर् ऐकात्म्यं व इति प्रसह्य विहरन् हारी हरिः पातु वः ॥३३॥ \

[४४] कदाचिच् च—


का यूयं वन-देवताः कुरुथ किं पुष्पाणि गृह्णीमहे राज्यं नस् त्रिदशैर् विहापितम् इदं देव्यो वनस्यात्र काः ।
अस्मज्-जातिभिर् अर्पितं यदि तदाप्य् अस्माकम् उच्चैः स्थितिः स्याद् एवं स-विवादम् अङ्गज-रणः कृष्णस्य ताभिर् बभौ ॥३४॥
[४५] कदाचिच् च कस्याश्चिद् दूत्या सह कृष्णस्य वाकोवाक्यम्— इयं का स्त्री स्त्रीत्वं भवति कथम् ईषत्-पदम् इदं किम् अस्थाने सिद्धं तव वचनम् अस्थानकम् इदम् ।
न काकोर् उद्भूतं भवति तद् अहो काकूर् इह का तद् एवं दूती-वाग् जयति हरिणाक्ष्या हरिम् अनु ॥३५॥
[४६] अथ गव्य-विक्रय-व्याजतः क्रीडा-विवादो, यथ—
का यूयं किल गव्य-विक्रयिकिका लक्ष्मीम् अतीत्य स्थितिं प्राप्तानां न तद् अस्ति सम्भव-पदं युष्माकम् आसां क्वचित् ।
मूल्यं ताम् अतिपत्य तस्य विदितं तस्मान् न तद्-दूषणं दानं तर्हि ममापि तद्वदम् इदं दत्ताथ घट्टेशितुः ॥३६॥
[४७] अथ सखीन् प्रति श्री-कृष्णस्यादेशः—
गृह्णीध्वं पूर्वम् आसां फलम् अतुल-बलाद् घट्ट-चर्या-विघट्टं कर्त्रीणां तस्य चास्ते वितनुत परितो रोदनं बोधनं च ।
बुध्येरन् यद्य् अमूर् न स्फुटतरम् अटवीकारया धारयिष्याम्य् एताः किं वा हरिष्ये स्वयम् अथ पिहिताः सम्यग् अन्विष्य नीवीः ॥३७॥ \

[४८] तद् एवम् उदित्वा मुदित्वा च तत् तद् आचरितवति तस्मिन् कथञ्चिद् गृहम् आगत्य गत्य्-अन्तरेण सखीषु तत्-प्रख्यापयन्तीभिर् इदम् अपि गीतम्—

_
तं शृणु सद्-विध-मोहन-करणम् ।
ध्वज-वज्राङ्कुश-लप-दार्पण-भूरुह-पुनर्-अङ्कुरणम् ॥ध्रुवम्॥
गजगति विहरति गायति नृत्यति वादयते च स वंशम् ।
अस्मत्-पद्धतिम् आवृणुतेऽपि च नाथति घट्टगम् अंशम् ॥३८॥
_

[४९] तद् एवं नौकया रमणम् अप्य् अवगमनीयम् ।

[५०] यदा हि क्वचिद् अमूश् चमूरु-दृशस् तदीय-सौन्दर्य-सारावलोकन-कुतुकि-दृशः समूह-व्यूहम् आचर्य विहार-चर्यया तम् उपसद्य च परिहासतः परतश् चरण-चर्याम् आचरन्ति । तदा चतुरानन-विमोहनः स च खलु सहचर-सहस्र-विस्रम्भ-महकरः सहचरतया सर्वतः पर्वत-निर्झरानेकी-भावेनावर्ज्य स्फुटम् अर्ज्यमान-सुखतया मध्ये तासां वामता-युजां मोहनाय कूल-मुद्-रुजां दुर्ध्यान-कारणां दुर्निवारणां सरिद्-वरां प्रवर्तयति । प्रवर्त्य च पुरुष-द्वयद्वयसीयम् इति व्यवसीय-मानतया तस्यां नाव्यतया भाव्यायां बहुल-पलाश-दल-मयीं महा-तरणिं सरणिम् अनु सखिभिर् अखिल-मणिः प्रणीय कर्ण-धारायमाणस् ताभिर् आतर-वितर-विस्तारादि-कातराभिः प्रणय-मय-नयतया प्रणीत-कलहं बहुल-विलासं निचुलितालङ्कार-कलनाय कलयति । \

[५०] तद् अपि गीतं, यथा—


सरितं नावं रचयति च द्रुतमस्माकं पथि तस्याम् ।
आरोहयते पारयितुं नः स्पृशति मिषादपि यस्याम् ॥३९॥
[५०] ताभिर् एवात्र श्लोकितं, यथा— आरोहाय विधाय संस्तरमिलत्पर्यक्स्तवं तद्वचः-
साहाय्यं विरचय्य नः सखि नदीमध्यं यदा जग्मिवान् ।
वृण्वन् दुर्वितरं तदातरपणं विष्कभ्य नौकां न कां चक्रे वक्रकलाकलापकलनां चक्राङ्कपाणिः स तु ॥४०॥ \

[५३] तद् एवं साक्षात्-कृत-मनोरथ-ततिः समभीप्सित-गृह-गतिः सखिभिश् चरित-जल्पः पुनः स्नानादि-रचिताकल्पस् तत्रैव च कुत्रचन तटिनी-तटे कदापि यमुना-निकटे पयः-पायनाय सङ्कटितां गो-घटां घटयन् क्रमशश् च गणनया गणशः प्रकटयंस् तन्-मनन-चरितार्थतया जगौ ।

[५४] तच् च ताभिर् अनुपठितं, यथा— \

मणि-माला-कृत-गो-गण-गणना-पूरणम् अनु सानन्दम् ।
प्रणयितरांसग-भुजम् उद्गान-हृत-हरिणीकम् अमन्दम् ॥
कृष्णं कलयत मोहन-मन्त्रगम् एणीम् एणी-नयनाम् ।
न यदि तदा कथम् उभय-व्यक्तिं वीक्षे तद् अपृथग्-अयनाम् ॥४१॥ इति । \

[५५] ततश् चेतस् ततः सखिभिर् अखिलैः प्रणीतानीतामन्द-मकरन्द-सुन्दर-कुन्द-दामभिर् मुकुन्दः कृतालङ्कृतिर् यथा निजहार । श्रेणीकृत-गो-समाहृतिर् यथा चाससार । तथा वर्णितम् । किन्तु तद्-विलम्बतः कातर्य-पर्याकुलायाः श्री-व्रजेश्वर्याः सभागततया स्वभाव-गोपनया । तथा हि—


आगतम् इव हरिम् अचिरम् ।
कलयत सुहृदां दयया यद् असौ नगम् अपि दध्रे सुचिरम् ॥ध्रुवम्॥
कुन्द-स्रग्-अवित-कौतुक-वेशं गो-गोपैर् विहरन्तम् ।
मृदु-मृदु-मरुद्-अनुवीजितम् अनु लवम् अखिल-मनांसि हरन्तम् ॥
सुर-वन्दिभिर् अभिवन्दितम् अवहित-तत्-कृत-नर्तन-वाद्यम् ।
मुनि-समुदय-नुति-गुणितं गुणिता-निपुणं जगद् अभिवाद्यम् ॥
अथ गो-धन-गणम् अनु समम् अनुगैस् तद्-वर्णित-गरिमाणम् ।
श्रम-कान्तिभिर् अपि सुख-कारिणम् इत-वेणु-कला-वरिमाणम् ॥
खुर-रेणु-प्लुत-माल्य-मनो-हरम् ईषद्-घूर्णित-नयनम् ।
एतं पश्यत निज-जन-मानदम् ईप्सित-गव्यानयनम् ॥
कुण्डल-लक्ष्मी-भृत-पाण्डु-द्युति-गण्डं गज-पति-खेलम् ।
क्षणदा-पतिवत् प्रमुदितम् उदितं प्रागधि-सन्ध्या-वेलम् ॥४२॥ इति ।
[५६] अथ वैष्णवं वाराहम् अपि पुराणम् अनुसृत्य गत्य्-अन्तरं प्रत्याययिष्यामः ।

[५७] एवं समयन-समयानवलोकतः समयाकरणाय तद्-वर्णनावगाह-रोचनासु कर्णजाह-विलोचनासु चेतसि रचित-तदीय-शोचनः श्री-कमल-लोचनः समागम्य यथा-यथम् अवितथ-रम्य-सुख-धारया सर्वं सुखाकुर्वन्न् अपि तासां विरह-दहन-ज्वाला-विशेषावशेष-सन्तप्त-भङ्गुरापाङ्ग-पात्र-सपत्र-कृतस् तद् अपसारणाय मुरली-कली-कलया गो-धनालय-गोवर्धनाचलयोर् अन्तराले ता एवानन्य-गतितया सङ्कलय्य निर्वृतिं परिकलय्य च वसन्त-सन्तत-रासाय युक्ति-मुक्ति-विषयां संवलय्य तासाम् आशासानानाम् आशां ददमानः स्व-व्रजतः प्रगर्जद्-अरिष्ट-कृतारिष्ट-कष्टतः प्रकटम् आक्रुष्टं श्रुतवान् । श्रुत-मात्रे च तत्र निज-निज-वर्त्मना ताभिः सह सहसा व्रजम् आवव्राज । तद्-अनन्तरं तु वृत्तं पूर्वम् एव वृत्तम् अस्ति । तत्रेमां गाथां प्रथयन्ति—


गतस्य रास-विक्रीडाम् आगतस्य वृषासुरम् ।
देवैर् न दृष्टः कृष्णस्य सम्भ्रमः किम् उत श्रमः ॥४३॥
[५८] यदा खलु रिष्टः सोऽयम् अरिष्टस् तदापि तद्-अरिणा हरिणा निजाविष्टता नापकृष्ता ।
वीर्यस्य बहु-विकीर्यमाणताम् अवाप्तास्य पर्याप्त-विषयतां सोऽयम् अनासीदन् दिति-सूनुर् आसीदिति । \

[५९] अनपकृष्टायां च तस्यां सरङ्ग-भूतागस् तत्-सङ्गमतः सागस्क इव पार्ष्णि-प्रहाराल् लम्भित-विदरतया विभागम् आगमितः । य एव विभागस् तीर्थतां समर्थयन् निखिल-पुरुषार्थं प्रत्यव्यर्थताम् आससाद ।

[६०] यत्र च श्री-हरिर् इयं स्वयम् अखिलैः सखिभिर् मज्जन् सज्जनानाम् आचारं प्रचारयामास । पातालान् महा-तीर्थम् इदं समुत्थितम् इतीत्थं व्यज्य निमज्ज्य समुन्मज्ज्य बहु विसर्ज्य च सर्व-व्रज-जनतया जनित-शर्मा गीति-रिपु-विजय-कर्मा व्रजम् एवावव्राज ।


[६१] आव्रज्य च श्री-व्रज-राजादीन् प्रणय-विनयाभ्यां सुसभाज्य विश्रमण-व्याजतः शय्या-गृहम् आसज्य सङ्केतित-वेणु-सङ्क्वणितेन परमानुराग-सागरः सर्वतः श्रेयसीर् अमूः प्रेयसीः पूर्व-कृत-व्रज-व्रज-बाह्य-विभाग-मय्यां मह्यां सङ्कलय्य केनाप्य् अवयज्यतया पुनर् अपि रासायासादितवान् । तत्र च—
राधयास्वादिता यासीन् माधुरी माधवाधरे ।
सैवानुभूता मुरली-कली-खुरलिकाम् अनु ॥४४॥ \

तत्रैव च—

अभिसारे चल-चेला व्रज-तन्वीनां तती रुरुचे ।
अपि किं विजय-पताका दधिरेऽनङ्गस्य सङ्गतिः ॥४५॥

[६२] यत्र च पथि प्रथम-लब्ध-निर्गमया परम-रमया निखिल-कलिताराधया राधया समम् एकान्ततः कान्तस्य नर्म महदेव शर्म पुपोष ।

[६३] यदा हि चिन्ता-सन्ताप-तान्त-स्वान्ता सा कान्ता तादृश-विपत्तिम् उत्तीर्णं तं कान्तं रहः संहितवती तदा लज्जा-मर्यादाम् अप्य् असज्जन्ती परिष्वज्य व्यज्यमान-स्तम्भ-मुख-सात्त्विक-सम्भवा चिरं विचार-रहितताम् आचरति स्म ।

[६४] स च तथैव ताम् अनुचरति स्म ।


[६५] ततश् च सखीभिः कथञ्चन सान्त्वितयोः कान्तयोः कान्तस् तु स्व-निर्मितं तत्-कुण्डं तासां दृष्टि-किर्मीरितं निर्मिमाणः सनर्म कान्तां व्याजहार ।
[६६] पश्य पश्य मम कमलाकरोऽयं सागर इव गिरिराजम् आसज्य कमलोद्भवं भावयिता । सुधाकर इवैक-देश-स्थित्यापि निज-रुचिभिः कुमुद-वनं विकासयिता ।
दम्भोलि-पाणिर् इव स-दम्भोलितया विलासी । अम्भोज-जनिर् इव भुवन-विसर्जनेन प्रभासी । त्रिपुर-जिष्णुर् इव सह-सागर-मान-शमनः । श्रीमान् विष्णुर् इव परमहंस-चक्राश्रयता-कमनः । श्री-राम इव रोहिणी-सुख-सञ्चारी । किं बहुना, श्री-रामानुज इव च शिष्ट-कष्ट-प्रद-पापारिष्ट-हारी । तद् एतन् मया खलु कृत-सुकृत-प्रसरं सर इदम् अचिरं विरचय्य चरितार्थता लब्धा । भवत्या तु नेदृश-नैपुण्यं पुण्यं कृतम् इति गुण्य्-अनुगुणता कथम् आप्स्यते ?
[६७] अथ तस्याः सवयसस् त्व् इदं परिहसन्ति स्म—[६८] न वयं वृषघ्नता-निघ्नतया विघ्नम् आप्ताः । येन प्रायश्चित्तत इव लोकस्य प्रायश्चित्तम् आराधयामः । \

[६९] कृष्णः सहासम् आह स्म—न खल्व् असौ वृषः । किं तु वृष-विरोधी वृषता-मिषवान् असुरः । तस्मात् तत्-पक्षपातितया भवतीनाम् एव वृषघ्नता पर्यवस्यतीति भवतीनाम् एव निष्कृतिः कृतिर् विषयताम् अर्हति ।

[७०] तत्र च प्रजाकृतं राजनीति राजनीति-न्यायेन भवदीय-राजायमानायाम् अस्याम् एव सा जायमाना स्याद् इत्य् असाव् एव तत्र प्रधानतयावधीयते ।


[७१] सख्य ऊचुः—भवतु, तथापि यथा-कथम् अपि भवत्-प्रसङ्गत एव सङ्गतः खल्व् अयं दोष इति तन्-मोष-कृते भवत्-कृतम् एवानुकर्तव्यम् ।

[७२] या खलु भवन्-मङ्गलतः सरसी-भूतायाः सवयसः सरसी भविता सा पुनर् अमर-तरङ्गिनीव कृष्णाङ्ग-राग-विलासिनी । अमृत-निधि-प्रियावलिर् इव बहुल-ताराङ्गता-भासिनी । सूत्राम-गृह-नेत्रीवोपेन्द्र-देव-रतामोदातिरेकिणी । सावित्री-मुख-विचित्र-श्रुतिर् इव नालीकिनी । उमा-मूर्तिर् इव गिरि-राजाद् उद्भव-धात्री । मामूर्तिर् इव हरि-हृदि विलास-पात्री । राम-शक्तिर् इव गाम्भीर्यतः प्रलम्बमान-मद-मज्जनी । किं बहुना, राधेव राधान्तिक-पूर्ण-विधोर् वशता-सज्जनीति ।

[७३] अथ स-तृष्णः श्री-कृष्णस् तु राधा-चिबुकं करेणादरेण दराप्य् उन्नम्य स्मित-रम्यम् इदम् आह स्म—


तद्-वक्त्रं यदि को विधुः स्मित-कला सा चेत् प्रभा निष्प्रभास् ते दम्भा यदि भानि धिग् यदि च ते नेत्रे चकोरैर् अलम् ।
इत्थं सर्वजनाद् असौ सह-गणं स्वं प्रत्य् अवज्ञा-वचस् त्वत्-प्राशस्त्य-मयं निशम्य हृदये राधे मुहुर् म्लायति ॥४६॥ \

[७४] अथ पुरतश् चलित्वा क्रमतः सर्व-पथीनाभिः सर्वाध्वनीनाभिः सर्वाङ्गीन-कम्प्राभिः सर्वाभिर् मिलित्वा विधु-विधूत-तमसि यमिन्यां स-पर्वतः पर्वत-राजम् अनु ऋतु-राज-विराजमान-कानन-गतं सर्वतोऽप्य् अधिक-विलास-विततं रासम् उल्लासयामास ।

[७५] तत्र देवीनां वाणी—


इयं विद्युद् इदं शक्र-धनुः सोऽयं नवाम्बुदः ।
शश्वद्-घन-रसं वषन्-नमूः कर्षति चातकीः ॥४७॥ \

[७६] तत्र वयः-सौभाग्यं, यथा—


कान्तिः कान्ति-समूह-जात-घन-जिल्लावण्यम् ईदृग्-घन-
प्रोद्यन्-मौक्तिक-जेतृ-रूप-वरिमा विश्वादि-कृन्-मोहनः ।
एवं चेद् अजितस्य सार्वदिकता कैशोरके वा तदा पूर्णे कः कविताम् इयान् नव-नवास् तत्रापि यत्र श्रियः ॥४८॥
[७७] यथा च पुर-स्त्री-जनोदितम् अनुमोदितं श्री-बादरायणिना—
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् । दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥ [भा।पु। १०.४४.१४] इति । कान्तीनां मथनाद् भवन्तु जलदाः केचित् कदाचित् क्वचित् तेऽप्य् उच्चैर् विलसन्ति तर्हि तडितः क्रिडन्ति चेत् तादृशाः ।
इत्थं कृष्ण-घने तडित्-तुलनया ता वर्णयन् श्री-शुकस् तासाम् अव्यभिचारि-शोभयितृतां व्यानञ्ज पश्य स्फुटम् ॥४९॥
[७८] तथा च तेन तद्-वर्णनम्—
पाद-न्यासैर् भुज-विधुतिभिः सस्मितैर् भ्रू-विलासैर् भज्यन् मध्यैश् चल-कुच-पटैः कुण्डलैर् गण्डलोलैः ।
स्विद्यन्-मुख्यः कवर-रसना-ग्रन्थयः कृष्ण-वध्वो गायन्त्यस् तं तडित इव ता मेघ-चक्रे विरेजुः ॥
[भा।पु। १०.३३.७] इति ।
[७९] तत्र च सम्प्रति, यथा—
प्रतिक्षणम् अमी गुणा हरि-रमासु वृद्धिं गता दिनं दिनम् इति ब्रुवे किम् इह सर्वदैवं स्थिते ।
नवे वयसि किन्तराम् इह च तत्र वा किन्तमाम् अरिष्ट-शमनान्त-निश्य् अजनि यत्र सा चर्चरी ॥५१॥
[८०] रासोत्सवोऽयम् अपि, यथा— \

यदा पूर्वं वृत्तः शरदम् अनु रासः किल तदा

बभूवाद्यारम्भद् दिविजम् अपि वाद्यादि-सचिवम् ।
यदान्ये तत्-पश्चाद् व्यरचिषत ते तर्ह्य् अखिलजिन्-
महा-सङ्गीतार्हं व्यरचि हरि-राधादिभिर् अदः ॥५१॥ उपर्य्-उड-गणः क्षितौ सुरभि-चित्र-पुष्पावलिस्
तथा तद् अनु चन्द्रिका विविध-रत्न-लक्ष्मीर् इह ।
स तत्र शश-लाञ्छनी विमल-वक्त्र-सङ्घा इतस्
तद् एवम् उभयोः स्थितिर् गगन-रास-रङ्ग-श्रियोः ॥५२॥

दिव्याः कानन-वीथयः क्षिति-धनं गोवर्धन-क्षौणि-भृन्
नाना-रत्न-विलासि-रास-वलयं शुभ्रांशु-शुभ्रा निशा ।
लक्ष्मी-वन्दित-लक्ष्म-योषिद्-उपमा-चारूपमा-पुं-लसल्-
लास्यं राधिकयाधिकं निखिलकं तत् केन किं वर्ण्यताम् ॥५३॥ \

यतः—

ज्योत्स्नी स दिद्युते सेव स रङ्गः स्व-तुलाधृतः ।
सुदृशोऽमूर् अमूदृश्यः कृष्णः स्वोपम एव सः ॥५४॥ सौन्दर्यम् इव साद्-गुण्यं सर्वोर्ध्वं यत्र दीव्यति ।
साद्गुण्यम् इव सौन्दर्यं राधिका साखिलाधिका ॥५५॥
[८१] स एष एव महा-रास-रसः किञ्चिद् आगम-कृता चावगमितः ।
वसन्त-कुसुमामोद-सुरभी-कृत-दिङ्-मुखे ।
गोवर्धन-गिरौ रम्ये स्थितं रास-रसोत्सुकम् ॥५६॥ इति ।
[८२] अथ तद्-वसन्त-रास-विलास-रजन्याः प्रातर् एव सखीभिर् अगण्याभिः कृताराधया तदीय-साहायक-सम्बाधया श्री-राधया स्व-कर-कमल-कलिते ललिते सर्व-सुखं वलयितुम् उल्लले तस्मिन् पल्लले तयोः कान्तयोर् अलम् एव सुख-परिमलः समुल्ललास । तथा हि—
कदाचित् कुण्डस्याम्भसि विहरते कर्ह्य् अपि बहिः कदाप्य् अन्तः-कुञ्जे क्वचन-समये रास-वलये ।
समं राधा-देव्या हरिर् अखिल-सख्यालि-सुखदः पुरा तत् तन् नित्यं स्मरयति मनो नः स्वम् अभितः ॥५७॥
[८३] किं बहुना ? तत्रेयम् अपि पुराणानां गाथा—
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति ।

[८४] पुनः स्मृतिम् अभिनीय समापनं पद्यं निजगाद—

अन्योऽन्यं मिलन-स्पृहा-मिलनम् अप्य् अस्याहतिर् दानवाद्
यस्मात् तद्-धितरात्त-नर्म-मिलनं कुण्ड-द्वयस्य क्रिया ।
सर्वासाम् अधि मध्यम् उज्ज्वलतया रासान्तराल-स्थितिः श्री-राधा-जितयोर् मनो मम मनाग् अद्यापि नैवोज्झति ॥५८॥ \

[८५] इति वैवश्य-पारवश्यम् आसीदन् सीदन्न् इव मूर्च्छम् ऋच्छन् स्निग्धकण्ठः सर्वान् एव च तत्-तद्-भव-भवनान् भावयामास ।

[८६] तच् च युक्तं, यथा— \

_अतिपूर्वं यद् अपूर्वं निज-मतिर् _

_दुर्लभम् अतीव हृद्यं च ।
वृत्तं तत् प्रतिनवतां प्रयाति _

_भूयोऽनुभूयमानं च ॥५९॥
_

[८७] तद् एतद् वर्णयित्वा स्निग्धकण्ठः समापनम् आह स्म—

_
राधे त्वद्-वल्लभः सत्यं सर्वैर् अपि सुदुर्लभः ।
सुलभोऽप्य् अधुना योऽयं भवत्या मन्यतेऽन्यथा ॥६०॥
_

[८८] अथ कथञ्चिद् अपि जात-सान्त्वने तन्-मनसां त्व् अनेक-विकारे पारे मनोरथ-पथम् अखिल-शोभा-शुभ-पथ्य-नेपथ्य-सारतन्य-मान-दानतस् तौ सूत-कुमाराव् आराधयामासुर् आशु राधा-रमण-प्रभृतयः कृत-साधारणातिक्रम-प्रकृतयः सदः-सदः-सदयतया शुभाशीर्भिर् अभ्युदयम् आसादयामासुश् च ।
ततश् च पूर्व-पूर्ववद् एव सर्वे स्वधाम समासन्नाः स्वप्नतश् च तत्-तद्-अनुभवन्तश् चरित-जागरा इव वासरादिम् आसादितवन्तः ।

इति श्री-श्री-गोपाल-चम्पूम् अनु

नाना-राग-विचित्र-चरित्र-चित्रम्

एकविंशं पूरणम्

॥३१॥

(३२)

२९। अथ द्वात्रिंशं पूरणम्

३६।


केशि-ध्वंसन-शंसनं
[१] अथ पुनः प्रातः-कथां यथावत् प्रथयिष्यामः, यथा—

[२] मधुकण्ठः प्रथमतः कण्ठ-रवम् अकृत्वा मनसि निर्णिक्तम् इदं विविक्तवान्—

[३] एतद्-अनन्तरं यद्यपि ये खल्व् अस्मासु बाल्याद् एव स्तुहि-कृष्णतां गतास् तेषां भगवल्-लीला-सुख-वर्षि-देवर्षि-वर-चरणानां कंसं प्रति शंसनं शंसनीयताम् आसन्नम् ।

[४] तथापि भगवल्-लीलाधिकृतिम् अनुवर्तमानानां सर्वदोपाकुर्वाणानां न तूदाकुर्वाणानां तेषां तत्रौचितीम् अप्य् अनौचितीं चिती-कुर्वन्त्य् अविपश्चित इति तथैवैषां परम-विपश्चिताम् अपि व्रज-वासिनां विनिश्चित-निज-प्रेम-जातीय-लसद्-अद्वितीय-सुख-प्रकर्षाणां नातिहर्षाय स्याद् इति चानिर्णेय-वक्त्र-नाम्ना तद्-आम्नातव्यम् इति । \


[५] अथ सापलापं स्पष्टम् अभ्याचष्ट—
[६] श्री-हरिणारिष्टे विद्विष्टे क्लिष्टेन च कंसेन वर्षं यावन् न कश्चित् प्रस्थापितः ।
केशी च गच्छन् पुनः स्व-वेश्म प्रवेशितः । वृथा वैरं मा कृथा इति ।

[७] अथ मुख्य-माघ-कृष्णैकादश्यां कश्चिद् दिविष्ठः सार्वदिक-ज्ञान-महिष्ठस् तं प्रति प्रतिकूल एव सन्न् अनुकूल इव श्री-वसुदेवस्य रहस्यं वृत्तम् अनुवृत्तं चकार येन खलु राम-कृष्णाव् अपि वसुदेव-सुततयोदाय-साताम् ।

[८] ततश् च तत्-कृत-प्रतिरोधाद् धन्तुम् अशक्यतया वसुदेव-देवक्यौ पुनर् मङ्क्षु लोह-शृङ्खलया कारागारे क्रुद्धेन सता सतां विरुद्धेन तेन निरुद्धे । \

[९] निरुध्य चार्व-मतिनार्व-दानवः समाहूय भूयश् च नियुक्तः । नियुक्त-मात्रश् चायं व्रजाय कृत-यात्रः प्रातर् एव तत्रायातः । व्रजश् चारिष्ट-वधाद् अधस्तान् नन्दिश्वर-गिरिम् आरभ्य पर-परस्तात् कृत-वास इति दूरत एव तं लब्धवान् । \


[१०] यत्र च स प्रखरतर-खर-खुर-घृष्टि-च्छिन्न-क्षोणि-पृष्ठतया गोष्ठम् आगच्छन् सटाघटामुदस्य नभस्य् अभिभ्रमयन् भ्रेष-वशाद् अदभ्र-भयादभ्र-प्रच्छन्नतया तत्-तद्-वृत्त-माष-च्छतां विमान-परिच्छदानां विमानान् उच्छादयामास पूर्व-पूर्वमानान् इव । यत एव निर्जराश् च ते स्फूर्जद्-ऊर्जस्वलता-वर्जनतः स-जरा इव जाताः ।

[११] ततश् च जङ्घालगतिलङ्घिताङ्घ्रिपः स पुनरखर्वगर्वतः सर्वमेव धुन्वन्नर्वदानवः सिंहसंहतिरिव घर्घरितनिर्घोषमाततान । \

[१२] आतते च निर्घोषे सम्यग्-अर्गलित-महार्गलावर्ग-दुर्घट्ट-विकट-कण्टक-कवाट-दुर्घट-निर्गम-मत्य्-उदग्र-दुर्गायमाण-गरिष्ठ-गोष्ठ-विशङ्कट-कुठ-शाखावृति-सङ्घं सङ्घशः समुल्लङ्घितवत्यः सास्नावत्यः प्लुत-गत्या सोद्भ्रमं सपद्य् अटवीं प्रत्य् एव च द्रुतं परिद्रुतवत्यः । \


[१३] तद् अगणयन्न् एव गोष्ठस्योपशल्यं प्रविष्टः परितश् च घोटमानः स देव-द्विड्-घोटकस् तु तमरिष्ट-मोटकम् एव धोरित-रीति-गत्य्-अन्विष्टवान् ।

[१४] अथ गवां द्रवाच्छोकाविष्टाः प्रष्ठगोष्ठपतिविशिष्टाः सर्व एव गोमिनो लोका निजान्योकांसि झगिति समुज्झन्तस्तदभिमुखमेव परमुन्मुखतया चक्रुमुः ।

[१५] यान् समग्रान् अप्य् अतिक्रम्य सम्यग्-रभसम् अग्रत एव गच्छंस् छातासच्छात-कर्मा रामावर-जन्मा रामम् अप्य् अतिक्रम्याभ्यमित्रीयतया चित्रीयते स्म । \


[१६] ततः समग्र-व्यग्रतां गता व्रज-जनाग्रण्यस् तम् अभिक्रममाणं प्रत्याचक्षाणास् तद् एतद् आचक्षत । \

_अयं वाजी वज्रत्-तनुरुह-ततिर् वज्रि-विजयी _

निज-ध्वान-स्फूर्जाद्-विजित-दिविज-प्रोज्झित-पथः ।
भवांश् छाया-प्राय-प्रभव-नव-तापिञ्छ-तुलितस्

_ततस् त्वं मा यासीः सपदि पुरतस् तस्य पुरतः ॥१॥
_

[१७] तद् एवम् अत्याहिते प्रत्यासन्ने मातर-पुत्रयोर् अपीदं विवदनम् आसीत्—

_
पुत्र क्व गच्छसि हयं कलयामि मातः _

_प्रोद्दाम-दुर्व्यवसितः खलु हन्त सोऽयम् ।
किं नः करिष्यति स वा विगत-स्वसादी _

त्वं याहि गेहम् अहम् अस्मि विचेतनः किम् ॥२॥


[१८] ततश् च क्षोभात् प्रोद्भावित-धार्ष्ट्या गोष्ठाधीशम् अपि सेदं निर्दिष्टवती—

_
मया बाल्यान् नैव त्वयि गृह-पताव् उद्धुर-वचः _

_प्रयुक्तं किं त्व् अद्य प्रकटयितुम् इष्टं निशामय ।
कथं न त्वं सर्वैः सह सपदि गृह्णासि पृथुकं _

_कथं वा नान्येऽपि प्रतिहयम् अयन्ति व्रज-पते ॥३॥
_

[१९] अनादित एव दितीकृत-दिति-तनुजः श्री-रामानुनजस् तु तद् एवं वर्ण्यमानम् अवकर्ण्य विहस्य मातरं विश्वास्य विश्व-विश्वासास्पद-सुखदस् तं सासूक्षणं क्षणं निरीक्ष्य स्वम् उपह्वरम् आनेतुम् आह्वयत । \


[२०] स च पूतनारिणाहूतस् तत्-तेजसाप्य् अन्तः परिभूतः शूरं-मन्यतया तस्मिन्न् अधूतः प्रथमतस् तावन् निज-पराक्रम-क्रमणाय क्रमशः प्रत्यग्-गत्य्-अनुक्रम-मन्थरतया विक्रममाणस् तं प्रति सम्प्रति यमुनां यावद् अवकाश-क्षोणीं विश्राणितवान् । दूरतस् तु निजाभिद्रवस्य तेजस्विता भवेद् इति क्षोणीं विश्राण्य च कृष्णं निधार्यतया निर्धार्य देवार्य्-अर्वा गर्वाद् धर्यक्ष-लक्षस्येव गर्जितम् अर्जन्न् अरि-पक्षं तर्जति स्म ।

[२१] ततश् च सर्वं युगपद् अरिरिषतीव चिकरिषतीव जिगरिषतीव च तस्मिंस् तद्-असहमानः सहसा सिंह-नादं बृंहयन् सिंह-संहननः स च कृष्णस् तं धृष्णजम् अभिसाग्रहम् अभिग्रहम् एव जग्राह । समग्र एव व्रजश् च व्यग्रतया तद्-अनुगतिम् इति स्थिते स तु तत् पश्यन्न् उत्तेरिताख्यया गत्या तम् एव रोषाद-मन्दम् अभ्यवचस्कन्द, यत्र—

_
व्योम सोऽयम् अतियन् निराप्लवत् _

तत् पिबन्निव मुखं व्यदीदरत् ।
एवम् अङ्घ्रि-युगलेन यद् व्यहंस्

तच् च तत्-प्रतिगतं हरिर् व्यधात् ॥४॥


ततश् च—

द्राग्-उच्छलच्-चरण-पुच्छम् अतुच्छम् एतम्

_उच्छून-रोम-तति-गुच्छवद् उन्नमय्य ।
चिक्षेप चापशतक-क्षिति-लक्षिताग्रे _

_डिण्डीर-पिण्डम् इव वारिधि-भङ्ग-सङ्घः ॥५॥ \


स लब्ध-सञ्ज्ञः पुनर् उत्थितस् तदा _

_व्यादाय वक्त्रं तरसापतद् धरिम् ।
सोऽप्य् अस्य वक्त्रे भुजम् उत्तरं हसन् _

_प्रादान् महा-दर्दूरकस्य नागवत् ॥६॥ \


दिव्याहिवत् कृष्ण-भुजश् च तद्-गला- _

वटे स्फुटं वीर-रसाद् अवर्धत ।
महा-विष-ज्वाल-हता इवापि तद्-

_रदास् तदा पेतुर् अमुष्य तेजसा ॥७॥ \


दन्ता निपेतुः समैन्द्रियाण्य् अप्य्_

_उद्धूतिम् आपुर् वपुर् आप कम्पम् ।
जरात्र तत् कालम् उदित्य मृत्युं _

_प्रतीक्षमाणा किल वर्तते स्म ॥८॥ \


यदास्य कण्ठं रुरुधे स तद्-भुजस्_

_तदाखिलाङ्गानि विदीर्णतं ययुः ।
तस्यैव शोकाद् इव तानि यत् परं _

_तदाश्रयाण्य् एव भवन्ति सर्वशः ॥९॥ \


विशन्तं केशिनः कण्ठं कृष्ण-दोर्-दण्डम् एव किम् ।
जगत्-प्राणाशनं मत्वा तस्य प्राणा विदुद्रुवुः ॥१०॥_

_
एकं द्वारं रुद्धम् एतद् गलाख्यं _

मन्-निष्क्रान्तौ तानि भूयांसि कुर्याम् ।
इत्थं किं तत्-प्राण-वर्गः समन्ताच्

छिद्राण्य् आचर्याथ तस्मात् प्रतस्थे ॥११॥

_
तस्य प्राणे निर्गते देह-गेहात् _

_कार्ष्णो बाहुर् निर्गतः प्राघुणाभः ।
गेहं तच् च स्वामिनं तं विनाभूत् _

_खण्डं खण्डं दिष्टतः किं च नष्टम् ॥१२॥
_

केशिकण्ठा-वटात् तेन निरकोषि यदा भुजः ।
तदा स्वभावम् एवाप्तः संहारे दिव्य-बाणवत् ॥१३॥

_अन्ते मुक्तं तेन गूथम् इत्य् उक्तं युक्तम् इष्यते ।
तादृशां मुक्ति-कृत्-कृष्ण-कृपा या सातियुक्तिका ॥१४॥ \


द्विधाकृतं केशि-देहं वर्णयन्ति द्विधाकृतम् ।
जरासन्ध-निभं केचित् केचित् कर्कटिका-निभम् ॥१५॥
_

[२२] तद् एवम् अश्व-दैतेये वपुषा लब्ध-द्वैते स्वरूपेण तु लब्धाद्वैते प्रमनसां विकीर्ण-सुमनसां सुमनसां कृष्णाभिप्रायम् अभिप्रयताम् उक्तिर् यथा—

_
आस्यं व्यादाः सपदि निखिलं मद्-वपुस् त्वं _

गरीतुं तत्राहं तत् परिकलयितुं तद्-गले बाहुम् आधाम् ।
तेनैवासीर् यदि विगलित-प्राणकस् तर्हि तावद्

_गर्विन्न् अर्वन्न् अहह सहसा साहसं किं न्व् अकार्षीः ॥१६॥ इति । _

_अथ व्रजः कल-कल-शब्दम् अब्दवत् _

सृजन् मुहुर् हरिम् अचलं मुदावृणोत् ।
स वृष्टिवत् प्रमदजम् अस्रम् अस्रवज्

झर-प्रभं स च तद् असूत भूतले ॥१७॥


[२३] अथ सर्वे स-तृष्णा मध्यम् अध्यासित-कृष्णाः प्रेमतारतम्य-रम्यतया यथास्वम् अन्तर्-अन्तर्-लब्धान्तरास् तद्-अन्त-व्यन्तरितत्वेऽपि तद्-अनन्तरं-मन्यास् ते धन्यास् तद्-अपरम् अप्य् आलिङ्गनतस् तम् एव मन्वाना विकार-वृन्दम् अविन्दत ।
[२३] ततश् च क्षण-कतिपयात् प्रतिगत-बहिर्-मतितया सह-कृष्णाः कृष्णाघट्टम् अटित्वा सस्नुः । यत् खल्व् अद्यापि केशि-तीर्थतया तीर्थ-वर्याः पर्यवयन्ति । यस्य च भास्वत्-पुत्र्याः प्रतिलोम-गतिं प्रति किञ्चिन् निकटत एव कुठ-कूट-घटित-तट-घट्टान्तरम् अधिष्ठाय तत्-परिश्रम-शमनाय विशश्रमुः । द्वितीय-घट्टश् चायं चेनघट्ट इति वृद्धैश् चीर-घट्ट इति चाधुनिकैर् उद्घट्यते । चेनेति विश्रम-सुखस्य हि माथुर-भाषा ।

[२५] अथ विश्रम्य च कंस-भ्रंशन-शंसनम् इदं केशि-ध्वंसनम् इति रम्य-सुखं सम्यग् अवगम्य द्वि-गुण-फुल्लम् उल्लसन्तस् तं तन्यमान-कीर्ति-नर्तित-मुखैर् वन्दि-मुखैर् वन्दितम् अन्तर्-विन्दमानं श्री-गोविन्दम् आवृण्वन्तः श्रीमन्तं व्रज-देवम् अनु व्रजन्तस् ते व्रज-जनाः प्रथमं गो-व्रजम् अयोजयन् । \

ही-ही-जाते गो-दुहां तत्र जाते

कार्ष्णं तत् तु प्रस्फुटं पर्यचायि ।
आसाराणां नर्दिते यद्वद् उच्चैर्

अम्भोदस्य स्निग्ध-गम्भीर-शब्दः ॥१८॥


[२६] अथ शक्रं जितवन्तस् ते व्रज-युवराजादि-गोमन्तः प्रतिस्वं गो-वृन्दम् अन्वितवन्तः परं व्रज-राजादय एव व्रजम् आव्रजितवन्तः ।

[२७] कंसस् तु केशि-ध्वंसनम् अपि शृण्वन् व्यग्र-मना विग्र इव गृहान् न निःससार। \


[२८] अथ समापनम् । \

_सोऽयं तव व्रजाधीश सुतः सूतमनोरथः । _

_केशिनं चात्र यश्चक्रे यमस्य प्रतिवेशिनम् ॥
_

इति श्री-श्री-गोपाल-चम्पूम् अनु
केशि-ध्वंसन-शंसनं नाम
द्वात्रिंशं पूरणम्
॥३२॥

(३३)

३०। अथ त्रयस्त्रिंशं पूरणम्

३७। सर्व-मनोरथ-पूरणं [१] अथ निशीथिनी-कथायां कुण्ठः समुत्कण्ठश् च मधुकण्ठः स-गद्गदं जगाद—[२] तद् एवं रामानुजस्य रमणिनाम् अप्य् अमूषां दिनं दिनम् अप्य् अनुपरमणं रमणम् अतीव जीवन-समताम् अवाप । [३] यत्र समुत्कण्ठआप्य् अकुण्ठा जाता । यतः—

यदपि परस्पर-मिलनं हरि-गोपीनां चिरान् न विच्छिन्नम् । तदपि न तृष्णा शान्ता स्वाप्निक-पाने यथा पिपासूनाम् ॥१॥

[४] तत्र तु रमणं, यथा—

अन्योऽन्यं रहसि प्रयाति मिलति श्लिष्यत्य् अलं चुम्बति क्रीडत्य् उल्लसति ब्रवीति निदिशत्य् उद्भूषयत्य् अन्वहम् । गोपी-कृष्ण-युगं मुहुर् बहुविधं किन्तु स्वयं नोहते शश्वत् किं नु करोमि किं न्व् अकरवं कुर्वीय किं वेत्य् अपि ॥२॥

[५] उत्कण्ठायां तु तद् एव पद्यं बहु-विधम् इत्य् अनन्तरम् एवं पठनीयम्—

गोपी-कृष्ण-युगं मुहुर् बहु-विधं किन्त्व् एतद् एवोहते तच् चैतन्ब् न हि जागरस्थम् अपि तु स्वप्नादि-चित्त-भ्रमः ॥२ब्॥

[६] किं बहुना तद्-अनुभवे च तासां भावनेयम्—

उत्पत्तिर् अक्ष्णोर् अभितो न सत्-फला याभ्यां न तस्यद्भुत-रूपम् ईक्षितम् । हा कर्णयोर् अप्य् अलम् अर्थदा न सा याभ्यां श्रुतं नैव हरेः सुभाषितम् ॥३॥ हा चक्षुर्-आदीनि हरेः समागमे यद्य् आगमिष्यन् श्रवणादि कर्म च । तद् आव्रजिष्यन् विषयीणि नाप्य् अमून्य् अषूयया धिग् व्यतिदूयमानताम् ॥४॥ इति ।

[७] कदाचिच् च—

साङ्गालिङ्गन-लङ्गिमेऽङ्ग-वलया-सङ्गेऽपि शार्ङ्गी तदा गोपीनां स्फुरति स्म दूर-गतया प्रेमापगा-पूरतः । यस्माद् उत्कलिका-कलाप-वलना-वृत्तिं बहिर् लुम्पती स्वप्नाभां दिशती शतीम् अपि दृशि स्फूर्तिं मुहुर् लुम्पति ॥५॥

[८] श्री-राधायां तु सुतराम् अनिर्वचनीयम् एव सर्वं तत्-प्रथमतया मिथस् तन्-मिथुनस्यापि । तथा हि—

राधाऽजानाद् असङ्गे दनुज-विजयिनः सङ्गम् आराद् असङ्गं सङ्गे चैवं समन्ताद् गृह-समय-सुख-स्वप्न-शीतादिकानि । एतस्या वृत्तिर् एषाजनि सपदि यदान्यद् विचित्रं तदासीत् कान्ताकान्त-स्वभावोऽप्य् अहह यद् अनयोर् वैपरीत्याय जज्ञे ॥६॥

[९] तद् एवम् अतिभूमिताम् इते भाव-भूमनि तेन च सर्वाभ्यर्णताम् इव जाते वृत्त-जाते स्व-स्व-वधू-निरोधाय नियुक्त-पुर-जनी-जनेषु च गुरुषु तद्-उट्टङ्कनतः कृष्णस् तु तृष्णा-लज्जाभ्यां सज्जन्-मनाः स्व-मानसम् अन्व् एवं भावयामास—[१०] हन्त किम् इदम् अन्तरा जातम् ? कौलीनं खलु कौलीनं जनं कौ लीनम् इव करोतीति मन्-मनः कञ्चन विचारम् आचारं च न सञ्चरति । लोकश् च शोकं प्रयास्यतीति निज-वर्ग्यम् अनु दुःखं पाणि-सर्ग्यं स्वयम् एवाकरवम् । तत्ः किं करवाणि ?

[११] पुनः स-प्रणिधानम् इदं विविनक्ति स्म—नेदम् अनाचारम् इव प्रतिभाति । भाति हि मम चित्तम् अनेन । न तु म्लानिं याति ।

[१२] पुनर् अपि च पराममर्श—ताः पुनर् मम पराङ्गना एवानुभूयन्ते, न तु पराङ्गनाः । तस्माद् भवेद् अत्र विशेषः सन्दर्भ-विशेषः । यम् एव खल्व् अहम् इव लोकोऽप्य् अयम् अनिर्णीय नूनं गर्ग-दुर्वर्णनयास्मद्-अपयानं निर्णीय च शीर्णीभवन् शङ्कया सङ्क-सुकताम् उरीचक्रे येन चामूर् अपि नूनं स्वं धिक्-कुर्वन्ति । यथा—

व्रजे जातेर् जाता व्रज-जन-समान-प्रकृतिता ततः कृष्णे प्रेमा तम् अनु सहसा तं प्रति गतिः । ततस् तत्रासङ्गस् तम् अनु विपरीतं किम् अपि तत् ततो व्यक्तं तच् च प्रणय सखि धिक् किं नु करवै ॥७॥ इति ।

[१३] अथ तं पराङ्गना-पाराङ्गन-विचार-गर्भं सन्दर्भं पुनर् अस्मिन् निज-निजाभिलषित-कल्लोल-लोल-मत्-प्रेम-कल्लोलिनी-वल्लभे मद्-अङ्ग-सङ्गत-मरुल्-लवेनापि वेलति वल्लवावलये न सम्यग् अनुसन्धातुं सन्धां लभमहे ।

[१४] किं च यदि च वास्तवतया न विद्यते दोषस् तथापि तत्-कथापि प्रथयति मम सङ्कोचम् इति व्रजाद् व्यवधातुम् इवावदधाति मे चित्त-वृत्तिः । [१५] तद् एतद् व्यवधानम् एव चायताम् आयति-शुद्धिं विधास्यति । [१६] ऋण-व्रण-कलङ्कानां काले लोपो भविष्यतीति न्यायेन मम सम्यग्-अनुसन्धानेन तेषाम् लोकानां पश्चात्-तापम् अनु सद्-उपदेश-ग्रहणेन च ।

[१७] अथ तद् एतद् विभाव्य पुनः सोद्वेगं विभावयाम्बभूव—

हा गोष्ठं विपिनं पशून् व्रज-जनं दासान् सखीन् प्रेयसीस् तातं मातरम् अप्य् अहो कथम् अमूं हास्यामि राधाम् अपि । मां यान्य् अङ्ग विना क्षणं कथम् अपि प्राप्स्यन्ति नात्म-स्थितिं यान्य् अन्तर्-ज्वलन-प्रभानि विदधत् प्राप्स्यामि दाह-प्रथाम् ॥८॥

[१८] पुनर् विभाव्यात्मानम् उद्दिश्याह—

अन्तःपुरीयसि वनेषु सखीयसि त्वं वन्यान् मृगान् निज-तनूयसि गोप-रामाः । दृष्टश् चकोर-नयनाभिर् अमूभिर् इन्दु- दर्शं कथं वहसि कृष्ण परत्र तृष्णाम् ॥९॥

[१९] पुनः प्रेयसीर् अनुसन्धाय—

यस्मिन्न् आरोपिता हारास् तासां हन्त मया हृदि । साम्राज्यं हा करिष्यन्ति तस्मिन्न् अप्य् अस्र-बिन्दवः ॥१०॥

[२०] तत्र च श्री-राधाम् अनुसन्धाय हन्त हन्तेति प्रोच्य पुनर् आह—

हा चन्द्र-द्रव-युत-चन्दनेन सिक्ता राधायां तनु-लतिका मया सहार्दम् । सैषा मद्-विरहज-लोचनोदगाहा म्लास्यन्ती प्रतपति सम्प्रतीह मां च ॥११॥ या पूर्वम् उपलब्धासीन् नव-चन्द्र-कलोपमा । वह्नेः शिखेव सा जाता राधा दन्दग्धि हृन् मम ॥१२॥ राधा प्रेम-प्राध्वम् अत्रागतोऽहं हा प्राध्वः श्यामाशु सोऽहं कथं वा । तस्मात् प्राध्वं कृत्य धी-वृत्तयोऽस्मिन्न् एव प्राध्वं कुत्रचिन् नापरत्र ॥१३॥

[२१] इति क्षणं बाष्पायमाणेक्षणतया तूष्णीम् आसीत् । पुनश् च तथा तथा भावन-व्राते जाते—हन्त हन्त कथम् अहम् अहो क्लीबमानः पुनः शोक-प्रपञ्चम् अञ्चामि यतः सम्प्रति भिदुरं चित्तं न विदूरतां विन्देत इति विचिन्तयति स्म ।

[२२] तद् एवं सावधानं सहसा रहस् तद् विमुञ्चन् सहचर-सहचारिताम् आपन्नः, किन्तु नातिप्रसन्नतया एतद् अनन्तरम् उदन्तस् तु प्रातर् एव प्रथयिष्यामि इति स-गद्गदं गदित्वा स्निग्धकण्ठः स-मधुकण्ठः स्व-वाससा वदनं वसानः स-शब्दं रुदन्न् अलब्ध-तद्-अवसानश् चिरम् आसीत् । चिरत एव तु तस्माद् विरम्य श्री-राधा-माधवादीन् अपि स्व-साधारणान् अधिगम्य तद् इदम् अवादीत्—

सुक्याकुर्वन्त एवाध्वं तद् इदं सुखम् आत्मनः । कथागतं तु तद् दुःखं कथकानेन बाधताम् ॥१४॥ इति ।

[२३] तद् एवं तयोः सदनम् आसन्नयोः श्री-राधा-माधवादयश् च पुनः स्वप्न-लब्धम् इव तद् दुःखं सुख-पर्यवसानम् उपलब्धं विधाय यथास्वम् आवासम् आसादयामासुः ।

[२४] अथ प्रातःकथायां स्निग्धकण्ठ उवाच—तद् एवं कंस-गृह्यानन्यानन्याय-भाजो निगृह्यार्ववेशि-केशि-वधात् पूर्वम् अहर्-मुखे चालित-चक्षुर्-अरविन्दः श्रीमान् गोविन्दश् चेतसि चिन्तितवान्—प्रायः सर्व एव हिंसिताः कंस-पक्षीयाः केशी चाद्य श्वो वा पतिष्यति । केवलं कुवलयापीडः करी वरीवर्ति ।

[२५] अन्ये लब्धान्तरे तत्-प्रधानतास्व् अव्यपेक्षतया न तत्र मम गन्तव्यम् अस्ति । यतः पितृ-मुखावृतकः खल्व् अहम्, न तु स्वतन्त्र-मन्त्रः । किन्तु योग्यं व्याजन्तरं मृग्यते । भवतु, यथाप्राप्तं तत् समाप्तव्यम् । तद् अलं तच्-चिन्तनम् अनेन ।

[२७] तद् एतद् विचार्य च—हन्त हन्त तत्र प्रयाने च जाते न जाने कियान् कार्य-पर्यायावरोधः स्यात् इति । कथं व्रजं विना समयं गमयिष्यामि इति । [२८] पुनः सास्रं चिन्तयाञ्चकार—

विना मां तातः प्राग् न पिबति जलं सा च जननी विना माम् उच्छ्वासान् विसृजति बतासून् इव मुहुः । यथा तौ हा तद्वद् व्रजम् अनुगता विश्व-जनता तद् आस्तां तिर्यञ्चोऽप्य् अहह हृदि शल्यं विदधति ॥१५॥

[२९] तद् इदं चाग्रजम् अपि वेदयितुम् उत्सहे । यतः—

दुःखायते पुमान् कश्चित् कश्चिद् वा यः सुखायते । पूर्वस्मिन् न दयालुत्वं परस्मिंस् तु दयालुता ॥१६॥

[३०] तद् एवं प्रातर् विचारम् आचार्य तदैव दैवत आपतितं केशिनं च मृत्युं प्रापय्य गोचारणाय चरण-चर्यया वनं सञ्चरन्तं श्रीकान्तं क्वचिद् एकन्त-गतया हर्षितः श्रीमान् देवर्षिः सपदि साक्षाद् आसेदिवान् । स चासन्नम् आगच्चन्तम् अच्छ-परिच्छदं श्री-नारदं ददर्श ।

[३१] दृष्ट्वा च गीर्देवता-देहम् इवाक्षर-रूपतां धरन्तं

गङ्गा-प्रवाहम् इव विष्णुपदाद् अवतरन्तम्,

कैलासम् इव वैष्णव-लक्ष-शिव-मूर्तिं,

निज-यशः-स्तोमम् इव विविध-गान-कृत-कर्ण-पूर्तिम्,

क्षीर-नीर-निधि-म् इवान्तर्वासित-नारायणआदि-नामानम्,

अमन्द-कला-सान्द्र-चन्द्रमसम् इवान्तरङ्गतया धृत-कृष्ण-धामानम्,

शारद-नीरद-समुदायम् इव शर्म-नेत्राप्य् अधारा वर्षन्तम्,

भक्ति-विशेषासक्ति-व्यक्त-निज-भक्त-प्रहासम् इव कृत-हर्षन्तं पराममर्श ।

[३२] स च तम् एवं ददर्श—

सदाचरण-सुष्ठुतायां साधु-पद्मवत्, सदाशेष-सुखद-पद-पृष्ठतायां कृत-तद्-विध-तनु-श्री-कमठवत्, जङ्घाल-सत्०कटक-शोभितायां विजय-ध्वजवत्, सहजानूरु-नाम-शस्ततायां गरुत्मत-स्तम्भवत्, काकुद्मतवितततायां निज-व्रज-तटवत्, शुभ-शोभावलग्न-प्रह्लादकतायां नरसिंहवत्, भुवन-कमल-रमणीय-नाभितायां सरोवरवत्, नारायणवद् वा, वर-गुण-रसनापीताम्बरतायां नव्य-रव्य्-अंशुवत्, सन्ततम् उदर-श्वसन-चलतायां पिप्पल-दलवत्, हृदयङ्गम-स्वर्ण-रेखा-श्री-कटायां नीलमणि-निकष-पट्टवत्, सद्-गुण-रत्नालय-हृदयतायां रत्नाकरवत्, मर्यादा-पर्यापण-भुजतायां जिष्णु-रत्नार्गलवत्, अङ्गदादि-लब्ध-प्रवेष्टतायां कौशल्या-गर्भ-मङ्गलवत्, रोचमान-मुद्राकरतायां कल्प-वल्ली-पल्लववत्, समुत्कण्ठ-स्वर-रूपतायां पाञ्चजन्यवत्, द्विजताराधिराज-दास्यतायां द्विज-राजवत्, नासया शुक-मुख-सक्ति-जेतृ-शोभितायां स्वयम् एव यद्वत्, निज-सत्य-व्रत-भक्त-रोचन-विलोचनतायां नवीन-दिव्य-मीनवत्, चन्द्रक-शोभ-केश-निर्माणतायां सनीरदागम-समय-नीरदवत्, मकराङ्कालङ्कृत-श्रवणतायां मकरध्वजवत्, सर्वदा सर्वत्रामृत-वर्षि-शिति-मूर्ति-कृत-पूर्तितायां पुनर् अमृत-रश्मिवत्, रोहिणी-यशोदा-नन्द-नन्दनतायां रौहिणेयवत्, नरसिंहता-संहित-संहननतायां प्नुअर् नरसिंहवत्, मुहुर् अपूर्व-मान-रूपतायां पुनर् मीन-महीनवत्, पटिष्ठता-विघटित-बलि-गरिष्ठ-भावतायां वामन-देववत्, उत्पथ-वृषलाञ्छित-वृष-निन्दकतायां जिन-नन्दनवत्, पयोराशि-निमज्जद्-उद्धर-गोत्र-समुद्धरण-धूर्यतायां पुनः श्री-कमठवत्, धरणी-धर-हारि-विहारितायां वाराहावतारवत्, कृतवीर्य-जात-दुर्जन-क्षत्र-क्षपणतायां भार्गव-रामवत्, भावि-कालयवन-संयमनतायां विष्णुयशस्-तनयवत्, लक्ष्मण-चरित-रचित-प्रचुर-सुखतायां पुनः श्री-रामचन्द्रवद् इति ।

[३३] तद् एवम् ऐकरूप्य-श्लेषेण शब्द-श्लेषेण च मिथश् चिन्तित-सद्-उपमानयोर् अनयोः श्री-देवर्षिर् अमुं श्री-हर्षि-श्री-निधानं वेद-पारायणतः स्तूयमानं विधाय वीकाशं निवेदयामास—

शमितः शमितो येन दानवोऽसौ सदानवः । स परोऽपरतां यातः सोदयोऽनुदयो भवान् ॥१७॥ अविलम्बेन ये डिम्बे हसताहसत त्वया । ते सर्वे पूतनापूर्वाः पूनाः पूताश् च सर्वतः ॥१८॥ गुणैर् अगुणतां यातस् त्वम् असौ नन्दनन्दन । बिभर्षि वसुधां चित्रं स्थित्वापि वसुधोपरि ॥१९॥ शशधर-मूर्तिः शुक्ला गङ्गा-विशदा सरस्वती श्येनी । कीर्तिस् तव तु बकान्तक शुभ्रा सर्वं करोति शुभ्राभम् ॥२०॥ त्वत्-कीर्त्या श्वेतितः कंसोऽप्य् एतत् कृष्ण मृषोदितम् । तत्-स्पर्शस् तस्य नास्त्य् एव किन्तु तद्-भीति-वैकृतम् ॥२१॥

[३४] तद् एवं स्थिते तु किञ्चिन् मम निवेदनम् अस्ति, तथा हि—

प्रेमा वशयति सर्वं खल्व् इति न मृषा प्रसिद्धिर् उद्भाति । कृष्ण त्वम् अपि स यस्मान् न भजसि पूर्वापरानुसन्धानम् ॥२२॥ तस्माद् विमन-सम-धियंस् त्वाम् अहम् आगच्छमाच्छन्नम् । तां स्मारयितुम् अवश्यं या सम्भविता भवल्-लीला ॥२३॥ लोकेऽस्मिंस् तव भक्ता बहवः क्रमशश् च ते पाल्याः । तस्माद् अवश्यम् उदियुः पौर्वापर्येण ता लीलाः ॥२४॥ केशिनं दितिजम् अश्व-वेशिनं यो जघान स भवान् अथाभवान् । तान् विधातुम् अपरान् सतां परान् उच्चकैः प्रभविताखिलाविता ॥२५॥

तथा हि—

केलि-मात्रेण ते दैत्या यद्-भिदेलिमतां गताः । पचेलिमस् तेन तापात् कंसः प्रध्वंसम् एष्यति ॥२६॥ क्रूरः स नेतुं सद्यस् त्वाम् अक्रूरस् तु प्रहास्यति । त्वं च मात्रादिकं हित्वा यात्रां तं हन्तुम् आप्स्यसि ॥२७॥

[३५] अथ स-वैवर्ण्यं निर्वर्ण्य तथावस्थितवति तस्मिन् भावान्तरम् ऋषिर् उद्भावयन्न् उवाच—ततश् च सुजन-रोष्टारं कंसं क्रोष्टारम् इव रोषितासि, यतः—

कूप-मण्डूकवत् कंसः कण्डूतिं खण्डयन् निजाम् । त्वत्-कर्कश-भुजाभोगि-सङ्घर्षं लब्धुम् इच्छति ॥२८॥

[३६] यं खलु मातरि-पुरुषं पुरुषोत्तर्मस् त्वम् इह जीव-ग्राहं ग्र्हीष्यसि । समूल-घातं हनिष्यस्य् अकृत-कारं करिष्यसि, कर-ग्राहं गृह्णंश् च विश्रान्ति-पर्यन्तम् अश्रान्ति-विक्रमतया विर्कक्ष्यसि ।

हर्षद्भिः पाणि-कर्षं निष्कर्षंस् तम अनेकपम् ।

द्रक्ष्यसे पुण्डरीकाक्ष त्वं व्यक्तं हरितां गतः ॥२९॥

[३७] तत्र सङ्क्षेपार्थ-निक्षेपश् चायम्—

अक्रूरं द्वार-मात्रं विदधद् अथ भवान् वृष्णि-धिष्ण्यानि गत्वा

भुङ्क्त्वा त्रैयक्ष-चापं सपदि कुवलयापीडकं पीडयित्वा ।

मल्लान् हत्वा परश्वो दनुज-जनि-तनुं कंसकं ध्वंसयित्वा

राज्यं दत्त्वोग्रसेनं प्रति निज-जनकौ मोचयिष्यत्य् अवश्यम् ॥३०॥

[३८] अत्र पौराः पौराणिकीम् इव गाथां गातारः—

उन्मीलन् नील-शुभ्रारुण-कमल-जिती खञ्जन-ध्वंसि-लीला- चाञ्चल्ये सिंह-सङ्घ-प्रमथन-मदता-व्यञ्जिनी यस्य नेत्रे । चेष्टा दुर्दुष्ट-वृन्द-प्रशम-पटु-कला-कल्पिनी मज्जयन्ती पीयूषे सज्जनालीर् नव-वयसि वरा श्यामलः कः समेति ॥३१॥

[३९] कृष्णः स्वगतम् उवाच—उग्रसेनाय राज्यं दास्यामीति युक्तम् एव खलूक्तम् । यतो मम व्रजागमनम् एव रमणीयम् । [४०] प्रकाशं चाह स्म—ततस् ततः ?

[४१] ऋषिर् उवाच—

ग्राम्याः पौरा नृपालाः सदसि नभसि तु स्वर्ग-सङ्गीत-विज्ञा देवा देवादि-नाथा विधि-शिव-विधिजास् ते वयं च स्तुवानाः । रक्त-त्यग्-दन्ति-दन्त-च्छविर् अविकर-भागंसकौ लून-मल्लौ द्रक्ष्यामो भ्रातरौ वां कवलित-बलवत् कंसकं त्वाम् अपीह ॥३२॥

[४२] तत्र मल्ल-सभा-गतानाम् इदं कोलाहल-कुतूहलं भविता—

किम् इदं श्यामलं रूपं मधुरं रौद्रम् एव वा । स्त्री चास्त्री च न यद् दिव्यं वस्त्रम् अस्त्रं यथायथम् ॥३३॥

[४३] पाप-कंसे चापवर्गम् इते—

वधार्हस्यापि कंसस्य स्त्रीणां दृग्-वारि-बिन्दवः ।

धरण्यां निपतिष्यन्ति द्रावयिष्यन्ति हृत् तव ॥३४॥

[४४] कृष्ण उवाच—हन्त तौ मम निज-जनकाव् इति भवता काव् उक्तौ ?

[४५] ऋषिः स-हासम् उवाच—

प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः । वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ [भा।पु। १०.८.१४]

[४६] कृष्णः साश्चर्य-स्मितम् उवाच—ततस् ततः ?

[४७] ऋषिर् उवाच—वसुदेवादयस् तु नष्टं चिन्तामणिम् इव स्पष्टं विन्दमानास् त्वां हातुं न हि सहिष्यन्ते । [४८] तव च तद्-अनुरोधाय यदूनाम् इतस् ततः पलायन-समवाय-दूनानाम् अवरोधाय च निश्चित-चित्तस्य कतिचिद् वासराणि भविष्यन्ति । [४९] त्वद्-अनुषङ्गतस् तत्र सङ्गता तद्-अपेक्षिती-कृत्य व्रज-क्षिति-पति-प्रभृति-व्रज-जनतापि शाकट-वाट-पट-निवासम् असत्स्यति ।

[५०] तथापि चिरतः कंस-प्रथित-व्यथतया प्राप्त-वितथतायायदु-राज-राजधान्याः स्फुरद्-उग्रसेनेनाप्य् उग्रसेनेन दुःसमाधानं समाधानम् । स्वयं बहु-प्रणिधानत एव स्याद् इति क्षणम् अपि क्षणम् अलभमाश् चिरायमाणे निज-व्रज-प्रयाणे विचार्य रामेण सम ऐकचर्य-चर्यया स्वजन-व्रजे व्रजे विराजमानं व्रजेशम् उपव्रज्य स्वस्य व्रजागमनम् अवश्य-कार्यतया निर्धार्य व्रजम् एव व्राजिष्यसि ।

[५१] कृष्ण उवाच—हन्त ! ते किं त्यजन्त एव माम् आव्राजिष्यन्ति ?

[५२] ऋषिर् उवाच—

नन्दादयस् तव परं महताग्रहेण प्राप्स्यन्ति गोष्ठम् अथ तद्-वपुषात्मना न । दृश्यं भवेद् वपुर् इति स्फुटम् अस्य तस्मिन् सङ्कोचिता समुचिता न तु तद्वद् आत्मा ॥३५॥

[५३] कृष्ण उवाच—हन्त किम् अहं वक्ष्यामि ?

[५४] ऋषिर् उवाच—तत्रभवता तद् इदं सङ्गीर्णं गीर्णम् आचरिष्यते—

यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भा।पु। १०.४५.२३] इति ।

[५५] तद् इदम् एव भवद्-आश्वासनं तेषां विश्वास्य शश्वायमानताम् आचरिष्यति ।

[५६] कृष्ण उवाच—कदाहम् आगमिष्यामि ?

[५७] ऋषिर् उवाच—यदा सुहृदां हृदयङ्गमं सुखम् उत्पत्स्यते ।

[५८] कृष्ण उवाच—तच् च कदा ?

[५९] ऋषिर् उवाच—तेषां सुखस्योत्पत्तये तु दूरं व्याप्तुम् उन्मुखं भविता ।

[६०] कृष्ण उवाच—अहो बत ! वियतीव कियती व्याप्तिस् तत्र ?

[६१] ऋषिर् उवाच—तत्-तत्-कार्य-जालतः काल-क्षेपअं क्षेपयत्य् अपि भवति यावत् कंस-पक्ष-लक्ष-विध्वंसनं, यावद्-भवत्-पुत्रादि-विचित्र-सम्पद्-गणश् च सम्पत्स्यते ।

[६२] कृष्ण उवाच—अहो महात्मन्! महद् व्यसनं खलु मयि न्यसनम् आयास्यति । यथो दीर्घसूत्रता मम बन्धनाय निर्बन्धम् आपत्स्यते ।

[६३] ऋषिर् उवाच—मा तापम् आपद्यथ, भवतः स्वभाव एवायम्, यत् कदाचिद् अन्त्रङ्गाणां परिवार-सङ्घानां सुख-भङ्गं स्वाङ्गानाम् इव विषह्य बहिरङ्गाणां दुःख-भङ्गं करोमि ।

[६४] कृष्ण उवाच—भवतु, भावि-कथा प्रथ्यताम् । तत्र मदीय-दुर्वृत्तताम् अयं व्रज-दुःख-वृत्तं तावद् आस्ताम्, पुर-वृत्तं पुरस्ताद् अनुवर्त्यताम्, येनाहम् उपरक्तस् तत्र निष्प्रतिभतां व्यक्तम् आप्स्यामि ।

[६५] ऋषिर् उवाच—साम्प्रतं तव गायत्र-व्रतम् एव स-गर्गेण वसुदेवादि-यदु-वर्गेण प्रथयिष्यते । यत्र च व्रजतः कर्णी-रथारोहिणी रोहिणी च तत्र नेष्यते, न तु व्रज-जनः कश्चित् । क्षात्र-विधान-पात्रतया तन्-निर्माणे तस्य निर्माण-दुःखं दुःखनन-मूलं भविता इति ।

[६६] कृष्णः स्वगतम् इदम् अधिगतवान्—हन्त प्रसङ्गतस् तद्-दुःखम् एवासङ्गं लभते । मन्-मातृ-सङ्गिनी हि सा रोहिणी कथं तद्-भङ्गिनी भविष्यति इति ।

[६७] ततः कथान्तरं पृच्छाम इति स्पष्टं पप्रच्छ—ततस् तद्-व्रताचारानन्तरं किन्तराम् आचरिष्यामि ?

[६८] ऋषिर् उवाच—ततः सान्दीपनि-सन्दीपित-विद्या-सभाम् अवन्तीम् आसाद्यानवद्य-विद्या-समुदायाय भ्रातरौ युवाम् अकातरौ स-ब्रह्मचारितया गौरव-सङ्कुलतया गौरवं कुलम् एष्यथ । यत्र सकृन्-निगद-मात्रेण सर्वां विद्याम् अधीयन्तौ धारयन्तौ च सर्वतश् चमत्कारम् अर्पयिष्यथः । यत्रेदं सखेदम् उपश्लोकयन् महांल् लोक-सङ्घः परस्परं सविस्मयम् आलोकयिष्यति । यथा—

अङ्गं पल्लव-कोमलं प्रभवनं लक्ष्मी-परार्धाश्रितं सेव्यत्वं सम-सेवकायुत-मनो-राज्याभम् उद्भ्राजते । यस्य श्री-रमणस्य सोऽपि नितरां वागीश्वरी-लोभनोऽप्य् आचार्याण्य् उपदिष्ट-काष्ठ-घटनं शर्म-श्रिया निर्ममे ॥३६॥

[६९] तद् एवं चतुःषष्ठि-मात्रैक्र् अहो-रात्रैः सर्वास्व् अपि कलास्वधीतिना भवता गुरु-पत्नी-भिक्षित-पञ्च-जन-भक्षित-तत्-पुत्रानयन-मय-दक्षिणा-निवेदने चेदं लोका व्यतिवेदयिष्यन्ते । यथा—

वस्त्व् अस्ति यत् तद् गुरवे प्रदीयताम् अदुर्लभं चेद् अथवा सुदुर्लभम् । नष्टं वपुर् यद् गुरुजस्य तद् वपुष्- मन्तं यमात् पश्यतम् आनिनाय सः ॥३७॥

ततश् च—

यमाद् अपि समानेता गुर्व्-अपत्यं त्वया यदा । विवदेरन् मुखे तर्हि मिर्येरन् नरयो हृदि ॥३८॥

[७०] कृष्णः स्वगतम्—न जाने, जनेन तद् वर्ण्यमानम् आकर्ण्य निरवलम्बतां संवलमानानां मय्य् अनुकम्पा-सम्पातवताम् अम्बादीनां का दशा भवता या सम्प्रति च मम हृत्-कम्पाय सम्पद्यते । [७१] भवतु, प्रस्तावान्तरं विस्तारयामः इति स्पष्टम् आचष्ट—भगवन् ! कोऽसौ पञ्चजनः ?

[७२] ऋषिर् उवाच—जय-विजयवत् कस्माच्चित् कारणाच्-छङ्खासुरतां प्राप्तोऽसौ प्रसिद्धः शङ्ख-विशेष एव । त्वं च तद्-अङ्गम् आदास्यसे । किन्तु—

यदा यदा ध्मापयिता भवान् दरं नेत्रे तद्-आर्द्रे इव ते भविष्यतः । लब्धं यशोदा-स्तन-पानजं सुखं कृपा-भरेण स्मरण-प्रथावतः ॥३९॥

[७३] कृष्णः सोद्वेगम् उवाच—एतद् वस्तूद्देशं विना कथान्तरं प्रस्तूयताम् ।

[७४] ऋषिर् उवाच—किञ्चिद् अन्यद् अल्पं श्रूयताम् । वित्त-विद्यस् त्वं मथुरायाम् आगत-मात्रः श्रीमद्-व्रजाय कृत-यात्रस् तत्रत्य-पित्रादिभिः कृत-सङ्कोचनस् तद्-आज्ञा-लङ्घनं नायत्यां मङ्गलम् इति रचित-विचारतया चरित-शोचनः स्वानुकूल्य-कैवल्य-लसद्-उद्धवम् अतिविनीतम् उद्धवम् एवाभिनीतं मत्वा व्रज-जनानाम् आविजमानता-जननाय नियोजयिष्यसि । तेषां सङ्कोचत एव न च व्रज-जनम् आत्मोपहृतम् आहरिष्यसि ।

[७५] ते ह्य् एवं रहस्यं मंस्यन्ते, कृष्णस्य व्रज-मात्र-तृष्णस्य व्रज-देशे प्रवेशे पुनर् लम्भनं विप्रलम्भतः स्तम्भनम् एव लप्स्यते । व्रज-जनस्यात्र प्रवेशश् च तथावेश एवेति । अथ व्रज-जनः स च स्वयम् अपि नयास्यति । ज्ञातीन् वो द्रष्टुम् एष्यामः [भा।पु। १०.४५.१३] इति रहस्य-त्वद्-वचनस्य भवद्भिस् तु नागम्यताम् इति स्वारस्य-भङ्ग-प्रसङ्गः स्याद् इति ।

[७६] तथा स्वारस्यम् अपि तादृश-तन्-मन्त्रणायन्त्रणया, न तु स्वतन्त्रतया । किं च, तव चेतसि यः कोऽप्य् अन्यः सङ्कोचः सम्प्रति सम्प्रतीतिं विनारोचमानतां प्रतिपन्नवान् अस्ति । सोऽपि व्रज-भूमाव् आव्रजनादि-वर्जने साहायकं मुहुर् निर्वाहयिता ।

[७७] व्रज-जनं प्रति तद् इदं तु वेदवद् अपरतन्त्रं मन्त्रं निवेदयिष्यसि । सम्प्रति च भवतां सम्बन्धे जरासन्धादिभिः कृतानुसन्धे तत्रापि निर्ब् अन्धात् कटकेन धाटी घटयिष्यते इति ।

[७८] तथास्मिन्न् उद्धव-द्वारा पित्रादिषु वाचिक-पत्रिका, यथा—

सम्बन्धाद् वः समन्ताद् अहम् अपि स तथा यामि तं वृष्णि-वृन्दे युष्माकं प्राण-योग्य-प्रणय-भुवि तथैवावनं संविधित्से । किन्त्व् एषा मूर्तिर् अत्र स्वयम् अपि तु भवत्-पार्श्व-वर्ती ममात्मा किं वा मूर्तिश् च तस्मिन् भवति हि भवतां स्फूर्तिर् एव प्रमाणम् ॥४०॥

किं च—

आयास्यामीति किं जल्पेद् बद्धः प्रणय-रज्जूभिः । येन बद्धस् तु तस्येच्छाम् अनिच्छां चानुयाति सः ॥४१॥

[७९] श्री-वसुदेवादीनां देव-द्विड्-उपद्रवस्य विद्रवः खलु भवद्-अभिमत एवेति तु मया मतम् एव ।

[८०] अथ पुरस्ताद् उद्धव-दर्शन-मात्रेण च ते परम-सुखं प्राप्स्यन्ति । यतः—

अपरिचयेऽप्य् अवलोकाद् भक्तं भक्तः पिपर्ति कृष्णस्य । स्वरमात्रात् तद्-गानारम्भः सुजनं प्रमोदयति ॥४२॥

[८१] ततश् च तव विश्लेषान् नव-नवार्तास् ते त्वद्-वार्ताम् एव वार्ताम् अनुवर्तमानाः शीघ्रम् इव वियन्ति कियन्ति मासा वासराणीव तं कतिचिन् मासान् वासयित्वा पर्यवसाने तद्-द्वारा सम्भावनाम् एवापेक्ष्य मुद्रित-मुखेन स्वस्ति-मुखेन सन्देक्ष्यन्ति, यथा—

ईश्वरस् त्वम् इति सोऽयम् अस्माकं उद्धवः समुपदिश्य गच्छति । पुत्र तत् तु न वयं स्म मन्-महे श्रीश ता किम् उ सुते न रोचते ॥४३॥

किं च—

यद्य् अहो सुत भवान् अधीश्वरस् तर्ह्य् अपि स्फुरतु ते पदाब्जयोः । प्रीतिर् अत्र च परत्र नः सदा कृष्णताम् अनु यतः सतृष्णता ॥४४॥

[८२] कृष्ण उवाच—उद्धवस् तु किं मां वक्ष्यते ?

[८३] ऋषिर् उवाच—

विना चन्द्रं शरल्-लक्ष्मीर् विना पुष्पं मधून्नतिः । विना पयोदं वर्षा-श्रीर् विना त्वां का व्रज-स्थितिः ॥ इति ।

[८४] कृष्णः सास्रम् उवाच—यद् व्रजे मम विलम्ब-संवलन-कारणं विशेषेण च वर्णय ।

[८५] ऋषिर् उवाच—तत्र भक्तं भजमानस्य कवचं बिभ्राणस्य शत्रून् निघ्नानस्य तव व्यासङ्गान्तरम् अपि लब्धान्तरताम् आप्स्यति ।

[८६] कृष्णः सोद्वेगम् उवाच—हन्त किं तत् ?

[८७] ऋषिर् उवाच—यत् खलु वसुदेव-स्वस्रीयाणां युधिष्ठिरादीनां धृतराष्ट्रेण दुष्ट-भ्रष्ट-राष्ट्री-कृतानां पक्षस्य पुष्टीकरणाय भविता । ते च त्वाम् एव परमातिष्ठमाना भक्त-वश्यतां वावश्यमानस्य तव कैतव-रहित-भक्ति-भाज इति । यद्-अर्थं प्रथमतस् तावद् अभिजातम् अभिजातं चाक्रूरं दूततया दूरम् आपयिष्यसि ।

[८८] प्रकृत-व्यासङ्गः पुनर् अङ्गीभूतः प्रभूत एव । यतः कंस-पक्ष-निर्हरणं तदापि त्वया कृताकृतम् एव वर्त्स्यति ।

[८९] तथा हि—वराकेषु कंस-पक्षीयेषु चान्येषु तीर्थ-काकतां गतेषु यत् खल्व् अस्तिः प्राप्तिश् चेति तस्य तत्र कलत्र-द्वयम् अस्ति ।

[९०] तत् पुनर् वैधव्येनान्धीभूतम् इव स्व-बन्धु-जन-दत्तानुसन्धीभवत्-पितृतया धृताश्वास-निर्बन्धं जरासन्धं गमिष्यति । यत्र च—

विस्रस्त-केशवेशाद्योस् तयोः कंसस्य भार्ययोः । द्रक्ष्यन्ति विहसिष्यन्ति चाङ्गानि पथिका अपि ॥४६॥

[९१] ततस् तत्-प्रेरणया जरासन्धः प्राप्त-जरासन्ध इव काल-रूप्तावन्तः भवन्तम् एव त्रयोविंशति-सङ्ख्याभिर् अक्षौहिणीभिर् अभियास्यति ।

तादृशतां भृशम् अविद्वान् कीटक इव कृपीट-योनिम् । अभियाय चाभिया मथुरां मथ्नन्न् इवावरिष्यति ॥४७॥

ततश् च—

इन्द्व्-अर्क-द्योत-केलिं कुतुक-कलनया निर्मिमाणाव् अधृष्यौ जारासन्धं तद्-अन्धं तम इव कटकं त्रोटयन्तौ भवन्तौ । एकं तं मागधेशं तम इव घृणया बाढम् उत्सृज्य पर्व- प्राप्तं सर्वं स्व-भक्तं स्व-महसि दधतौ भास्यतः शश्वद् एव ॥४८॥

[९२] एवं सप्तदश-स्वप्यति-सम्पातेष्व् अपयातेषु कूटीकृत-म्लेच्छ-कोटि-त्रय-प्रकट-कटकः समहायवनः काल-यवनः प्रातर् एवातिदूरतः सामुद्र-पूर इवालोकिष्यते, येन नीवृद् एव निवृतो भविता ।

[९३] कृष्ण उवाच—भूरि-दूरतया शात्रव-पात्रता-रहितः स कस्माद् अस्माकम् अहितताम् आप्स्यति ?

[९४] ऋषिर् उवाच—यदु-वर्ग-वादित-गार्ग्याराधित-भर्ग-वर-स्फुरद्-उपसर्ग-जनि-सर्गत एव यादव-दवं प्रति भय-दव-विसर्ग-निरर्गले तस्मिन् जरासन्धानुसन्धानाद् एव । स चात्रावश्य-मरण-वशत्याम् आप्स्यतीति मत्-प्रेरणाच् च?

[९५] कृष्ण उवाच—कथं तर्हि तस्य गर्हितस्य मरणं भविता ?

[९६] ऋषिर् उवाच—गर्हितत्वम् एव तत्त्वतः खल्व् अहितं कारणम् । प्रकारं चामुं सहास्यम् उद्गास्यन्ति—

शीतं महस् तद् अनुसृत्य मुकुन्द-मूर्तेर् म्लेच्छाधिराड् अधि तमः-कटु-कीट-तुल्यः । एष ज्वलज्-जलनवन् मुचुकुन्द-तेजः सङ्गाद् अलं वलित-विस्मिति भस्मति स्म ॥४९॥

[९७] अथ कृष्णः स्वगतम् अधिगतवान्—न जाने योजन-शतकम् अर्दति तस्मिन् दुर्दम-दुर्जन-सम्मर्दे मत्-प्रमद-सत्र-व्रज-तुल्य-व्रजः परिक्षिप्ततया विक्षिप्त-चित्तः कुत्र वा व्रजिष्यति ?

[९८] ऋषिस् तु तद्-अभिप्रयन् प्रथयति स्म—काम्यकतः पश्चिमायां दिशि गिरि-तट-गत-गरिष्ठाटवीम् अटिष्यति । किन्तु भवता यादवानाम् इव व्रज-भवनानाम् अरितस् तनिष्यमाण-सन्ताप-सन्तानाभावाय तद् इदं चिन्तयिष्यते ।

[९९] सम्प्रति शरणागततया कृत-मद्-अनुसरणानां यादवानाम् अवनाय युक्ततया नियुक्त इवास्मि ।

[१००] ततस् तत्र गरिष्ठं प्रकोष्ठान्तरं विधेयम् । तन्त यदि गोवर्धन-धरणतः—

तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् । गोपाये स्वात्म-योगेन सो ‘यं मे व्रत आहितः ॥ [भा।पु। १०.२५.१८]

इत्य् अनुसृत्य कृत-रक्षाणां मत्-प्राणावलि-लक्षाणाम् इव व्रजाध्यक्षाणां यद्य् अरयस् ते च रयाद् विघ्न-निघ्नतां करिष्यन्ति । तदा सर्वम् एव खर्वं स्यात् । तेषाम् अटवीषु गो-कोटि-लक्ष-रक्षकाणां रक्षा च प्रकोष्ठ-घटनया दुर्घटा ।

[१०१] तथा—

रही-भूत-मरू-भूतं चक्षू-भूतं मनी-कृतम् । यस्य यत् तत् कथं तेन त्यज्यतां व्यज्यताम् अपि ॥

इति न्यायेन तत्र सम्प्रति गमनम् अपि तत्रकीय-सङ्कोच-विशेषत एव विशेषतः प्रसह्य मह्यं न रोचते । सङ्कोचान्तरं तु तस्य् अनान्तरीयकम् एव मन्ये । ततः सम्प्रति साक्षान् मम तत्र स्थितिम् अपि न लक्षयामि, तस्मात् तेषु बहिः-शश्वद्-उदासीनता-विन्यसनम् एव मयि तद्-उपासीनतायां प्रवीणताम् आचरति ।

[१०२] तत एव शत्रवस् तत्र मद्-बहिरङ्गताया जानाना गृह्णीरन् इति ।

[१०३] तद् एवं व्रजत उदासीनायमानस्य तव तादृश-चिन्ता-मात्रेणाचिन्त्य-शक्त्या द्राग् एव दूरतः समुद्रान्तः-पुरी-विशेषस्य व्यक्त्या तत्र च यदूनां झटिति प्रसक्त्या तम् उरीकरिष्यसि । तद्-अनन्तरम् एव काल-यवने कालवद् आचरिष्यसि । मुचुकुन्दं च प्रति मुकुन्दत्वं कुन्द-सुन्दर-दन्त-कन्दलित-मन्द-हास-मय-समय-रचन-वचन-विलासतः कृपाम् उल्लासयिष्यसि ।

[१०४] अथ मथुराम् एव रामेण सह सहचर-यदु-कुमार-वृतः प्रतिगत्य पत्यभाववतः पुरुषा म्लेच्चतस् तान् म्लेच्छ-योधान् निधनम् एव रोधयमानस् तद्-अमान-धनानि निज-राजधानीति द्वारकां हारयन्न् अपि म्लेच्छ-परिच्छदतया मनसि नाच्छतां मंस्यसे ।

[१०५] अथ पुनः पुनर् जात इव स राजा जरा-जातः पूर्व-पूर्ववद् एव मधुपुरीम् अवरुद्धानस् तद्-धन-हर्तॄणां भर्तॄन् युष्मान् एव प्रतभिगमिष्यति ।

[१०६] ततश् च तद्-धनानाम् अवरक्षणाय निज-जनानां रक्षणाय चाक्षाम-श्याम-शुभ्र-वपुषौ परम-पुरुषौ कुतुक-विशेषाद् अव्यञ्जित-रुषौ शुभवन्तौ भवन्तौ स-द्रवम् अपद्रवन्तौ तद्-धर्षत इव वस्तुतस् तु तद्-धर्षतः प्रवर्षणाख्यं गिरिम् आरोक्ष्यथः ।

[१०७] आरुह्य च तं तु द्रुहद्भिः प्रसह्य दह्यमानम् उज्झन्ताव् एकादश-योजन-समुत्तुङ्ग-शृङ्गाद् उत्प्लुत्य भूरि-दूरं युवां पतिष्यथः । पतित्वा च द्वारका-पतिताम् आगमिष्यथः ।

[१०८] स तु वां प्रतापम् अविदन् निज-पश्चात्-ताप-पाप-पादप-बीजायमानम् अभिशापं हृदि वापं वापं गृहम् अवाप्स्यति । गीर्वाण-श्रेण्याकाश-वाण्या तु हसिष्यते—

मृधे तु विजितं पुरा त्वम् असि यद्-द्वयेनामुना स सप्तदश-बारकं विजित एव किं तद्-गिरा । अहो सकुतुक-द्रवे प्रकटम् अद्य चाजी यथा जरा-सुत न यद्-ध्रुवं तम् अदसीयमानर्च्छिथ ॥५०॥

[१०९] कृष्ण उवाच—लब्ध-दुर्गाणां यदु-वर्गाणां बलं वा तेषां बलम् एव वावलम्बनं विधाय तदापि किं व्रजं नाव्रजिष्यामि ।

[११०] ऋषिर् स्वगतम् आह स्म—अहो तादृशि सङ्कोचेऽप्य् एतादृग्-अस्योत्कण्ठा मादृग्-अन्तबुद्धिं कुण्ठयति इति ।

[१११] स्पष्टं तु स्पष्टं कारणम् आचष्ट—एकस्मिन् कंसे ध्वंसिते बहवस् तत्-सम्बन्धि-बान्धवा जरासन्धवत् कंसायिष्यन्ते, कथम् आगमनं स्यात् ?

[११२] कृष्ण उवाच—दर्शन-मात्रार्थम् अपि न स्यात् ।

[११३] ऋषिः सरूक्ष-हासम् उवाच—नहि नहि ।

[११४] कृष्ण उवाच—कथम् इव ?

[११५] ऋषिर् उवाच—वसुदेवाद्य्-अनुज्ञां विनेति विज्ञापितम् एव ।

[११६] कृष्ण उवाच—तर्ह्य् आगमनम् एव न भविता ।

[११७] ऋषिर् उवाच—भविता, किन्तु काल-विलम्बितया । भवांस् तु व्रजागमनं मनसि-कृत्य विवाह-कृत्य-विमुखतया स्थास्यति, किन्तु तद् अपि व्यभिचरिष्यति ।

[११८] कृष्ण उवाच—हन्त किं तत्र कारणम् ?

[११९] ऋषिर् उवाच—रैवत-नामा कश्चित् प्राचीनः सुराजा द्रुहिण-विहिततया रौहिणेयाय यदा दुहितरं वितरिष्यति, तदा वसुदेव-देवक्य्-आदिभिर् ईड्इतैर् विवाहाय बहुधा विहिताम्रेडितैः कृतः स च प्रयत्नस् त्वया सपत्न इव नानुमोदिष्यते ।

[१२०] तद् एवम् एव वासर-शते गते कदाचित् कश्चिद् उद्विजमान इव द्विजन्मा विजने सन्तं भवन्तम् आव्रजिष्यति । आव्रज्य च स धन्यात्मा पितृ-परवत्याश् च पर-सात्कृति-मय-स्वभयावृततयापावृतायमानाया भीष्मक-कन्यायाः सन्यायां पत्रिकां सापत्रपम् इव त्वय्य् अर्पयिष्यति । तस्याः सङ्क्षेपतस् त्व् अयम् अर्थ-विक्षेपः—

तव स्वभावेनाकृष्टा स्वस्य वा त्वयि केशव । कृष्येय चेद् बलाद् अन्येनासून् मध्ये जहाम्य् अहम् ॥५१॥ इति ।

[१२१] ततश् च मर्म-स्पृशा धर्म-दृशा विधर्माद् भयं भावयमानस् त्वम् अन्यथा-मन्यमानतां न लप्स्यसे । किं बहुना, विवाहम् अपि निर्वाहयिष्यसे ।

[१२२] यथा च लोके कथा प्रथाम् आप्स्यति ।

भीष्माद्रि-स्थित-रुक्मिणी-मणि-मय-श्रेणी-विलोक-स्पृहां शार्दूल-स्थितिम् आश्रिता नृप-सुतास् तावन् मदान् निर्ममुः । यावच्-छङ्ख-निनाद-गर्ज-दलित-प्रागल्भ्य-तत्-तत्-सभा- मध्य-ध्वंसि-नृसिंह-नव्य-तरुणश् चक्रे मनाङ् नोद्यमम् ॥५२॥

[१२३] तद् एवं पर्ययम् आगतायां मर्यादायां तादृश-पर्यायतां काश्च्द् अन्याश् च धन्याः कन्यास् ताम् आधिविन्नां प्रणयन् परिणेतासि । ताश् च भवन्तम् अन्तरेण न शरीर-स्थितिम् अनुसरेयुः इति ।

[१२४] तत्र सत्यभामां तावत्-पाणौ प्रणेष्यसि, यत्र जाम्बवतीम् अपि संवलयिष्यसि, यत्र च जाम्बवान् कुकुद-मुदं लप्स्यते । तथा हि समासेन कथयिष्यन्ति ।

प्रसेने निःसेने निज-सहजनौ दिव्य-मणि-भाग्- गले सिंह-ध्वस्ते रचयद् अभिशस्तं हरिम् असौ । यदा सत्राजित्-तर्ह्य् अनुमृतयमाणो मणिम् अमुं स कन्यामृक्षेन्द्राद् अलभत स तस्माद् अपि पुनः ॥५३॥

[१२५] मणिम् अन्वेष्टुं चिर-रात्राय कान्तारं गते तु त्वयि परम-कान्ते पुनर् निर्दरतया भल्लूक-दरं प्रविष्टे द्वारकायां सुष्ठु कष्टम् आपतिष्यति । यतः—

यर्हीतिर् भवतः कृष्ण तर्हीतिर् न तु दुर्लभा । अक्ष्णो रीतिस्तु लोकानां रीतिर् एव तदा मता ॥५४॥

[१२६] प्राप्तायां सरत्नायां सत्यभामायां रत्नं पुनः स्वस्मिन्न् अर्पिते नारगीतेन सत्रा सत्राजितेय् एव प्रत्यर्पयिष्यसि ।

[१२७] यदा च पाण्डवानाम् उद्दण्डं दाह-वृत्तम् अतथ्यं कथ्यमानम् आकर्ण्य तूर्णम् एव हस्तिनापुरं प्रस्थितौ भविष्यथः ।

[१२८] तदा गर्भे सुहितस् त्वद्-अहितः शतधन्वा तु वां दूरगौ मन्वानः प्राप्त-रत्नं सत्राजितं सयत्नं सपत्नवन् निहत्य रत्नम् अपहृत्य तच् च कर्णटिरिटिराकारिणम् अक्रूरं प्रत्यपह्नुत्य ज्ञाति-हत्या-भीत्या कुशस्थलाद् अवगत्य विद्रोष्यति ।

[१२९] अथ स्वपुरम् आगत्य तद् अधिगत्य तम् एवानुपदितयानुसृत्य निहत्य च मणिम् असङ्गत्य पश्चाद् अक्रूरात् प्रतिपत्य स्वम् अभि दुर्जनाभिशापम् आर्जवान् मार्जयिष्यसि ।

[१३०] कृष्णः स्वगत्म् उवाच—

सङ्गः क्वायं व्रजस्थानां मद्-एक-प्राणता-जुषाम् । क्व वा यदूनां सत्राजिच्-छतधन्वादि-शालिनाम् ॥५५॥

अथवा—

भवेद् यः प्रोष्य-पापीयांस् तस्य किं कर्म शर्मदम् । यद् यत् करोति तत्रैव स्नात्वा कालक एव सः ॥५६॥

[१३१] स्पष्टं चाचष्ट—कथान्तरं प्रथ्यताम् । यद्-अनन्तरं गोष्ठस्था ममानन्तरस्था भविष्यन्ति ।

[१३२] ऋषिर् उवाच—तद् अप्य् आयास्यति श्रूयताम् । अथ भवता तास् तत्-तद्-उपायम् उपायंसतेति वर्ण्यमानम् आकर्ण्य मृगयायां परीता रवि-दुहिता च त्वां वरीता । एतन् निर्वर्ण्य च जना वर्णयिष्यन्ति । यथा—

सूर्ये जीवति तत्-कन्या तम् अनापृच्छ्य पश्यत । स्वयं वृतवती कृष्णं वराकी कान्यकन्यका ॥५७॥

[१३३] अथ राजाधिदेव्या नन्दिनीं मित्रविन्दां स्वयंवरणेन भवन्तम् अनुविन्दमानां तत्र भ्रातृभ्यां विन्दानुविन्दाभ्यां निन्द्यमानां युद्धेन विन्दमानः परिणेतासि ।

[१३४] कृष्ण उवाच—राजाधिदेवी खल्व् आनकदुन्दुभेर् भागिनीति भण्यते, सत्राजिद् अपि गोत्रजतया तर्हि कथम् इदं लोक-गर्हितम् अर्हिष्यति ?

[१३५] ऋषिः स-हासम् उवाच—राजाधिदेव्या इव श्रुतकीर्तेर् अपि सुतां भद्राम् उपयंस्यसे ।

[१३६] कृष्णः ससङ्कोच-लोचनम् उवाच—तद् अपि कथम्?

[१३७] ऋषिर् उवाच—यादव-प्रभवाणाम् अयम् एव कुल-क्रम-समाचारः ।

[१३८] कृष्णः स्वगतम् उवाच—न खल्व् इदं ज्ञातेयं, किन्तु कापेयम् एव । तथापि भद्रम् एवेदम् ‘ यस्माद् अनेन सम्बन्धेन व्रज-बन्धवस् तद् इदं मंस्यन्ते । नासौ तेषां गोत्रतया स्तोत्र-विषयताम् आत्मनि मन्यते, किन्तु गोत्रान्त-रमितानाम् अस्माकम् एव इति ।

[१३९] ऋषिर् उवाच—मित्रविन्दाम् अनु चेदं वन्दिष्यन्ते—

यथार्थ-नाम्ना साम्नाता मित्रविन्दा स्व-बन्धुभिः । स्व-मित्रं विन्दमाना या तद्-अमित्रान् निराकरोत् ॥५८॥

[१४०] भद्राम् अनु वर्णयिष्यन्ति—

श्रुतकीर्तिः सुता-व्याजात् कीर्तिम् एव व्यजायत । कृष्ण-सात्कृतितः सा तु भद्राप्य् अजनि विश्रुता ॥५९॥

[१४१] अथ नाग्नजितीम् अप्य् उद्वक्ष्यसि । यत्र सप्तानां वृषभाणां युगपद् बन्धः खलु तत्-पित्रा पण-बन्धतया स्थापयिष्यते । तत्र च—

यदा त्वं सप्त-वृषभान् उद्दितान् आचरिष्यसि । तदा त्वद्-गोपतां स्मृत्वा बाष्पं मोक्ष्यामहे वयम् ॥६०॥

[१४२] कृष्ण उवाच—हन्त युष्मभ्यम् अपि रोचते खल्व् इयं मल्-लीला ?

[१४३] ऋषिर् उवाच—आस्ताम् अस्मद्-वार्ता । बाढम् अस्मत्-पित्रेऽपि । यथा प्रार्थितं तद् भूरि-भाग्यम् [भा।पु। १०.१४.३४] इत्य् आदिना । तत्र च या कापि तव प्रेयसी लीला, सा तु परम-श्रेयसी । यत्-सम्बन्धेन भवन्-मन्त्र-द्वयं मन्त्र-राजतया प्रचारितम् आवाभ्याम् । तथा हि—

नृपो न हरि-सेविता व्यय-कृती न हर्य्-अर्पकः कविर् न हरि-वर्णकः श्रित-गुरुर् न हर्य्-आश्रितः । गुणी न हरि-तत्परः सरस-धीर् नः कृष्णाश्रयः स न व्रज-रमानुगः स्व-हृदि सप्त शल्यानि मे ॥६१॥

[१४४] कृष्णः स्वगतम् उवाच—साधीयान् ममानुभवः । स तु न सवाधीभवितुम् अर्हति । यतश् च न स्वानुभव एवायम् अनुभावश् च । तन्-मनो नान्यथा मन्यस्व इति ।

[१४५] स्पष्टं च पृष्टवान्—ततस् ततः ?

[१४६] ऋषिर् उवाच—तद् एवं काव्य-श्रेणीर् इव नाना-देश-वेश-भाषा-रसैर् एणीदृशः पाणौकृत्य पूर्व-पूर्ववद् रागिनीं मद्राधिपतेर् अपि कन्यां सन्यायतया वर्यां भार्या-वर्यां करिष्यसि । न केवला सा, तासाम् अधराः षोडश-सहस्र-परिमाणाश् चापराः ।

[१४७] तत्र मद्र-कन्यायाः परिणय-न्यायं भद्रम् एवं वर्णयिष्यन्ति—

अत्युच्चैर् बन्ध –वेध्याप्रकट-झष-तनोश् छेदम् आकर्ण्य पण्यं कन्याया मद्रपातुः क्षितिपति-नियुतासाध्यम् एकस् तु पश्चात् । दूराद् आगम्य पश्चाद् अपि च विलुलुवे तां हरिर् यः स पश्चाद् भूत्वा तान् युक्तम् आर्दद् युधि तद् अपि मताग्रीयता तस्य चित्रा ॥६२॥

[१४८] कन्यानां षोडश-सहस्राण्य् उद्दिश्य च सहस्र-वक्त्रताम् एव देवताः प्राप्स्यन्ति ।

[१४९] तत्र दिग्-दर्शनम्, यथा—

अथ नरक-निकाय्यं नारकं मेनिरे तास् तद्-अधिकम् अपि तं तु श्री-हरिर् मन्यते स्म । नरक-हरण-नामाप्य् अत्र यत्नातियत्नं यद् अकृत यद् इहासीद् व्यग्रता-बिद्ध-बुद्धिः ॥६३॥

[१५०] नरक-वध-प्रक्रियां चैवं वर्णयिष्यन्ति ।

भित्त्वा दुर्गाणि कृष्णः ससुत-मुर-युतं भौमम् उन्मुख्य राज्ये तत्-पुत्रं स्थापयित्वा सुर-नर-दुहितुर् बन्धनाद् उज्जहार । देवाम्बा-कुण्डलाद्यो मणि-गिरि-वरुण-च्छत्रम् उद्धृत्य तच् च प्रत्यर्प्य क्षुद्र-वृष्णः सह मणि-गिरिणाप्य् अग्रहीत् पारिजातम् ॥६४॥

[१५१] तद् एवं तव स्वर्गस्थ-विघ्न-हन्तृतां तत्र च वृत्रघ्नः कृतघ्नताम् अवधाय वयम् एवं मन्यामहे ।

त्वाम् अर्चन्ति यदा स्वर्ग्यास् तदा स्वर्गः सुरालयः । त्वां नार्चन्ति यदा स्वर्ग्यास् तदा स्वर्गः सुरालयः ॥६५॥

[१५२] युक्तम् एव तत्—

अजनाशम् असौ नष्टो जीवनाशं ननाश च । ऊर्ध्व-शोषं स चाशुष्यत् कृष्ण यस् त्वत्-पराङ्मुखः ॥६६॥

[१५३] कृष्ण उवाच—ततस् ततः ?

[१५४] ऋषिर् उवाच—तद् एवं तत्र सर्व-स्वास्थ्य-मय-गार्हस्थ्य-चये प्रतिश्वस्तनं स्फुरद्-उपचये सति सुत-सम्पत्तिर् अपि मतिम् अतीत्य प्रत्यहं प्रतोष्यते । किं बहुना, भवद्वद्-वर्ष-षट्कान् अनन्तरम् एव यौवन-प्रपञ्चतस् तेषाम् अपि प्रजाताः प्रजास् तावत्य् एव दिष्टे दृष्ट-यौवना भविष्यन्ति । भवान् पुनर् ईदृशतया परं नव-वयाः स्थास्यति ।

[१५५] तथा च पौराणी वाणी—नातिदीर्घेण कालेन स कार्ष्णी रूढ-यौवनः [भा।पु। १०.५५.९] इति । तच् च कृष्णं मत्वा स्त्रियो ह्रीताः [भा।पु। १०.५५.२८]इति च ।

[१५६] तत्र च कैमुत्यम् इदम् अवधिर-मात्रआणाम् अनवधिकम् अवधान-निधान-पात्रायते । यथा—

तत्र प्रवयसोऽप्य् आसन् युवानोऽतिबलौजसः । पिबन्तोऽक्षैर् मुकुन्दस्य मुखाम्भोज-सुधां मुहुः॥ [भा।पु। १०.४५.१९] इति

[१५७] एतेन श्रीमद्-व्रजे तु तद्-अतिशयात् स्फुटम् एव तद्-अतिशयः सङ्गमितः ।

[१५८] कृष्ण उवाच—अहो महात्मन्! महान् अयम् अत्ययः सम्प्रत्य् अपि दुरत्ययं दुःखम् अर्पयति । यत् तावद् विलम्बं तत्रावलम्बितास्मि । भवतु, प्रकृतं प्रक्रियताम् ।

[१५९] ऋषिर् उवाच—शम्बरेण जन्मत एव द्युम्नवत् तव गृहाद् अपहृतस्य प्रद्युम्न-नाम्नस् त्वत्-पुत्रस्य सम्पराये सम्बन्धं तद्-धनन-चरित्रं विचित्रतया गास्यन्ति, यथा—

कृष्णेऽपि धृष्णग्-भवितात्र कः पुमान् यस् तु स्वयं योद्धुम् अमुं व्रजिष्यति । यद् अद्य जातं खलु तस्य जातकं हृत्वा ततो मृत्युम् अवाप शम्बरः ॥६७॥

[१६०] अथ प्राद्युम्निम् अनु चाम्नास्यन्ति—

ऊषां बाणस्य कन्यां रहसि गतम् अननानिरुद्धं निरुद्धं युद्धे बुद्धा तम् एतं द्रुतम् अभिगतवान् युध्यतोऽग्र्यान् निहत्य । ब्रह्माण्ड-ध्वंसद्-अक्ष-ज्वलन-वह-महा-शूल-भृच्-छूलपाणिं तत्-पक्षं निर्जयंस् तद्-भुज-बलम् अलूनाद् यस् तु तत्रान्यकः कः ॥६८॥

[१६१] कृष्ण उवाच—विस्मयः खल्व् अयम् । यद् विस्मरिष्याम्य् एव व्रज-वार्ताम् ।

[१६२] ऋषिर् उवाच—न हि न हि । सा हि तवाहिते मनसि राग-मयी जागरूकताम् एव पराम् आगमिष्यति ।

[१६३] हन्त! यत् खलु निरन्तरम् अन्तर्गतम्, तत् कथम् अन्तर्गतम् इव जायेत । किन्तु पूर्व-निर्दिष्टं गुर्व्-अनादिष्टता-परं तस्मिन् निर्दिष्टि-विशिष्टिम् आचरिष्यति ।

[१६४] तदा च कदाचन रामेण सह रहस्य-वार्ता तव वर्तिष्यते । यत्र स्व-गमनम् अनालोच्य रामं शश्वद् अनुशोच्य व्रजस्थानां स्मृतितः प्रच्यवमान-बाष्पस् त्वया च तथानुशोचता प्रोच्यमानस् तव सन्देशं प्रवेशयन् माथुर-व्रज-देश-प्रवेशं गोप-वेशम् आवेश्य प्राप्स्यति । प्राप्य च स यथा कथा-विषयस् तथा समस्य वर्णयिष्यति—

व्रजस्थानां रामः स्व-सहज-वियोगार्चिषि हरेः पुरा सत्यं जज्ञे पुनर् इह तु जातः सुख-कृती । यतस् तेषां ज्वालां स्फुरद् अमृत-वाचा प्रशमयंस् तदीयां स्फूर्तिं दृग्-विषयम् इव चक्रे स्व-बलतः ॥६९॥

[१६५] किम् अन्यद् वा विन्यसितव्यम् । तेन तथा ते नन्दिता यथा सर्वेऽपि स्वयं सपर्व-प्रायतया तं प्रार्थयामासुः ।

[१६६] तद्-उपभोग-तृष्णया चिर-पालित-सुकुमार-कौमार-कुसुमानां सुर-वल्ली-समता-सुषमाणाम् इव लब्ध-चर-तदीय-संश्लेषाणाम् आभीर-कुमारी-विशेषाणाम् अङ्गीकाराय ।

[१६७] श्रीमान् बलदेवश् च यथावद् एव तथा वलयामास । वलयित्वा च व्रजं प्रति प्रवलितानुजागमन-विश्वासः स्व-प्रेयसीर् इहैव विहाय द्वारकाम् अपि निश्चिन्त इव चलिष्यति । आगत्य च द्वारकां त्वाम् अपि सान्त्वयिष्यति । यथा-कर्तव्यावशेषं विधाय व्रज-श्लेषम् अवाप्स्यति ।

[१६८] कृष्ण उवाच—कियान् अवशेषस् तावांश् च विशेषः कथ्यताम् ।

[१६९] ऋषिर् उवाच—क्रमश एव प्रकरमणीयः । तथा हि—व्रजं प्रति चलितवति सकल-गुण-तन्त्रे बलभद्रे पुण्ड्रक-मण्डल-पतिः कृत्रिम-वासुदेवतया चित्रित-रूपस् त्वां स्पर्धया वर्धमान-गर्वं साधु-क्रोध-समुद्बोधनम् एवं सन्देक्ष्यति—

वासुदेवोऽवतीर्णोऽहम् एक एव न चापरः । भूतानाम् अनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज ॥ [भा।पु। १०.६६.५] इति ।

[१७०] प्रतिसन्देक्ष्यन्ति तु तं यदवः, यथा—

पुण्ड्र-केश स भवान् अभूद् धरिः काशि-राड् न किम् इहाभवच् छिरः । मित्रताम् अशिवतां तथासजन्न् अन्यथा प्रथितवान् स तु त्वयि ॥७०॥ वृत्तान्तेनामुना तु त्वद्-वृत्तान्तः सोऽयम् ईक्षते । कृतान्तेनाचिरेण त्वं कृतान्त इव वर्तसे ॥७१॥ इति ।

[१७१] कृष्ण उवाच—ततस् ततः ?

[१७२] ऋषिर् उवाच—ततस् तद्-वधानन्तरं त्वं तु तं तन्-मित्रं काशीराजम् अपि प्राप्तनाशी-करिष्यसि । तयोः शिवाद्य-पचितिर् अप्य् अपचितिम् एव करिष्यति । ततश् च—

यदा सत्रायिता तत्र काशीश-तनयस् तदा । तस्मात् कष्टायमानः सन्न् अष्टिम् उच्चिअर् अटिष्यति ॥७२॥

[१७३] अथ रामस् तु द्विविदं राम-सेनाग्राम् अग्रामण्यं विदन्न् अपि हनिष्यति । यथा च कथयिष्यन्ति—

आश्रित्य रामं द्विविदः स्वेच्छया नरकं श्रितः । इति तन्-निष्कृतिं कुर्वन् रामोऽन्यस् तम् अदण्डयत् ॥७३॥

[१७४] श्री-राम उद्दिश्य च वन्दि-वृन्दानि वन्दिष्यन्ते—

हालालोहित-लोचने हल-भृति व्याकोष-शोणाब्ज-युग्- गङ्गा-भ्रान्ति-भराकरा मधुकराः कोटिर् गताः कूटताम् । किं च क्षौणि-शठा हटाद् अघरिपोस् तेजः प्रसुप्तं यशस्य् उद्बुद्धं किल वर्धितुं तद् इति ते वार्धिं गतिं सङ्गताः ॥७४॥

[१७५] कृष्ण उवाच—हन्त महर्षे! बाट-घटित-न्यायेनापि मम व्रज-सम्बन्धिभिः समं समन्वयः किं न भविता?

[१७६] ऋषिर् उवाच—भविता । यतस् तद् एव वृत्तं क्रमतः क्रमते स्म ।

[१७७] तथा हि—यदा रामस् तीर्थ-यात्रां करिष्यति, यस्याश् चान्ते भीष्मादि-शान्तता-प्रान्ते दुर्योधन-वधः सम्पत्स्यते, तस्याः प्राग् यदा कदापि सूर्योपरागः सागरवत् पर्व-गरिमाणम् आगन्ता । यश् चैवं वर्णयिष्यते—

ग्रस्त-सूर्येण तमसा तमसा व्यापि तद् दिनम् । उदिते हरि-वक्त्रेन्दौ स्मेराजनि कुमुद्वती ॥७५॥ इति ।

तदा तु—

कंस-प्रतापिताः सर्वे वयं याता दिशं दिशम् । एतर्ह्य् एव पुनः स्थानं दैवेनासादिताः स्वसः ॥७६॥ इति । [भा।पु। १०.८२.२१]

[१७८] श्री-वसुदेव-वचनात् कंस-वधान् नातिव्यवधान-काले कुरु-भुवि सुविमल-जातीया भारतीयाः प्रजाः प्रायः प्रयास्यन्ति । यत्र युधिष्ठिरोग्रसेनादि-संसक्तानां भवदीय-महिष्ठ-भक्तानां समागमः परमेष्ठि-गोष्ठीम् अपि कनिष्ठां करिष्यति ।

[१७९] किं बहुना, भवान् अपि तत्र भविता । व्रज-वासि-ततिर् अपि व्रजिता । यतः परिमिलनाय परस्परम् अधिकम् अभिकतां गतानां लक्ष्य-मात्रं त्वद्-आदिकं लक्ष्यते ।

[१८०] कृष्णः सास्रम् उवाच—ततस् ततः ?

[१८१] ऋषिर् उवाच—ततश् च—

यथार्क-तप्तो जल-बिन्दुर् इन्दुना निदाघ-दग्धं विपिन्ं पयोमुचा । विषार्दितं वार्भवता विलोक्यते सङ्गात् तथा त्वद्-विरही त्वया व्रजः ॥७७॥

[१८२] कृष्णः स-गद्गदम् उवाच—ततस् ततः ?

[१८३] ऋषिर् उवाच—ततश् च—

माता तातः पितृ-सहचरा भ्रातरो बन्धु-वर्गा दासा हृद्यास् तव निज-जनाः केचिद् अन्ये च तत्र । प्राप्स्यन्ति त्वां भवति च भविष्यन्ति तेऽनन्य-चित्तास् तेष्व् आवेशाद् बहुषु भविता नैक-चेता भवांस् तु ॥७८॥

ततश् च—

त्वं व्रजेति निज-प्रेम गोपयन्न् इव वत्स्यसि । व्रजस् तु स्व-गुणैस् तत्र सर्व-प्रेयान् भविष्यति ॥७९॥

तत्र च—

यदा यदा द्रक्ष्यति तां भवांस् तदा पूर्णं समूर्णो लविता दृशोर् जलम् । भवन्तम् अप्य् एवम् अमी यथामुना कण्ठान्तम् अन्तर् हृदयं निरोत्स्यते ॥८०॥

[१८४] तद् एवं वैशाखम् आरभ्य वर्षा यावद् अतिहर्षात् त्वां निर्णिमेषम् एव निर्वर्णयन्तस् ते व्रज-वासिनः संवत्स्यन्ति । तद्-अन्ते सद्-अनूकटया लब्ध-मूक-स्थितिषु श्रीमन्-नन्दादिषु तेषाम् आनकदुन्दुभि-प्रभृतीनां परम-स्निग्धान्तः-करणतां विलोच्य जात-पुत्र-पौत्रावलोकनेन क्षिति-विपक्ष-पक्ष-प्रायतावकलनेन च स्वस्मिन्न् अविश्वस्ति-स्रस्तितः समाश्वस्तिम् अपि विलोक्य सर्व-श्लोक्य-चरितः सहायीकृत-बलरामोद्धव-रोहिणीकतया तैः सह निज-वृन्दावन-व्रज-दर्शनम् एकान्ते मन्त्रणा-पूर्वकं विचिन्त्य निश्चिन्त्य च श्रीमन्-नन्दादीन् स-सान्त्वं माथुरान् एव प्रस्थापयिष्यसि ।

[१८५] इदम् एव बादरायणिर् अप्य् आह ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः [भा।पु। १०.८४.६७] इत्य् आदिना कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसः [भा।पु। १०.६५.६] इति पूर्वोक्तेस् त्वद्-आगमन-तात्पर्या एव तेषां कामा इति । प्रस्थापन-समयतस् तेषां विशेषावस्था-वर्णनं तु तत् तद् अस्माकं बुद्धिम् आस्तृणोतीत्य् अलम् अतिविस्तरेण ।

[१८६] कृष्ण उवाच—अस्मद्-अवस्थां तु वर्णय ।

[१८७] ऋषिर् उवाच—कुरु-स्थलात् कुशस्थलम् आगत्य स्थितः स भवान् पाण्डव-राजेन राजसूय-मन्त्रणायास्मद्-द्वारा निमन्त्रितं सन्न् इन्द्रप्रस्थं प्रस्थास्यते ।

[१८८] ततश् च सत्वरं गत्वा भीअ-प्रभृतये दिक्-सीम-विजय-यशांसि दत्त्वा भीम-द्वारा जरासन्धं हत्वा तत्-कृत-बन्धानि नृप-वृन्दानि मोचयित्वा विजितेन राज-व्रजेन युधिष्ठिरं रोचयित्वा राजसूयेन याजयिष्यसि । तत्र जरासन्ध-घातनं, यथा—

बन्धं बन्धं यम् अनु मुमुचे तं जरासन्धम् एनं हन्याम् अद्धा स्वयम् अथ यदि श्रव्यम् एतन् न तर्हि । इत्थं कृष्ण त्वम् इह कलयन् भीमसेनेन युद्धाद् धर्याद् दैत्य-प्रकृतिम् अमुकं घातयिष्यस्य् अस्य् उपेत्य ॥८१॥

[१८९] मिलद्-अर्तन-गिरि-गर्त-वर्तमान-नृपाणां कृपया मोचनम्, यथा—

कारागारान्ध-तामिस्र-बन्धाद् अन्धायितान् नृपान् । स्वरूप-दृष्टिभिः सृष्ट-दृष्टीन् परिकरिष्यति ॥८२॥

[१९०] राजसूयम्, यथा—

निर्जित्य क्षितिपति-मण्डलानि पाण्डोः पुत्रैस् तान्य् अनुगमितानि सङ्घटय्य । चेदीशं सदसि निहत्य तद्-विरुद्धं तेषां तद्-विरचयितासि राजसूयम् ॥८३॥ यज्ञे तस्मिन् नृलोको नृपति-तद्-अधिपा विप्र-विप्रर्षि-वर्याः स्वर्गस्थाः स्वर्ग-पालास् त्रिदश-मुनिवराः किं च वेधाः शिवाश् च । दृष्ट्या श्रुत्यापि तत् तद् बहुविध-भगवद्-रूप-वृन्दस्य विज्ञाः पश्यन्तो रूपम् एतत् तव किम् अपि मुहुर् विस्मरिष्यन्ति सर्वम् ॥८४॥

[१९१] तद् एवं राजसूयं सन्तान्य कुन्त्याः सन्तानान् सम्मान्य यदा द्वारकायां गन्तासि, तदा साधूनां शल्यं शाल्वं लोहमय-व्योम-चारि-पूर्या पराग् एव ताम् आवार्य दृष्ट्वा पूर्यमाण-पाञ्चजन्यः सन्नाति-प्रयत्नतस् तं देव-सपत्नं हनिष्यसि ।

ततश् च—

क्रुध्यन् क्रुध्यत्-सौभ-पुरं व्योमाध्व द्वारकारुधम् । ध्वंसयिष्यसि तद् यद्वत् त्रिपुरं त्रिपुरान्तकृत् ॥८५॥

[१९२] अत्र च गायन्ति—

ऊडुम्बरे कृमिस् तावन् निजाडम्बर-गर्वितः ।

यावन् न दन्ति-दन्तानाम् अन्तः पतति तत्-फलम् ॥८६॥

[१९३] कृष्ण उवाच—अद्यापि कति-विलम्बा व्रज-भू-गतिः?

[१९४] ऋषिर् उवाच—आयताव् एवायाता श्रूयताम् ।

[१९५] तद् एतत् प्रोच्य महर्षिणा मनसि प्रोच्यते स्म—एषा च कलिलोकैर् विरलैर् एवावकलयिष्यते । अस्या हि बहिर्मुखान् प्रतवगुण्ठयितुम् अन्तर्मुखांस् तूत्कण्ठयितुं महर्षिभिः परोक्ष-प्रायी-कृतायाः खल्व् अस्मद्-आदि-संवादमय्याः श्री-भागवत-भारत-पाद्मादीनाम् एक-वाक्यता-करणत एव शक्या प्रतीतिर् इति । तद् इदं च किञ्चन मद्-उपदेश-निदिग्धं मधुकण्ठ-स्निग्धकण्ठाभ्यां प्राप्त-कृष्णोपकण्ठाभ्यां क्षीर-कण्ठाभ्याम् अपि स्व-कण्ठाद् एव चम्पू-द्वयम् अपूर्व-रचनया सम्पूर्णं कुर्वद्भ्याम् उत्तर-चम्पूत्तर-भागम् अञ्चद्भ्यां तत्-तच्-छास्त्र-मत-विस्तारणया प्रस्तोष्यते, तद् एव समस्य विचार्यते ।

[१९६] यदा शाल्व-युद्धम् उद्बुद्धम्, तदा पाण्डवानां दुरोदर-दण्ड इति वन-पर्व-कथा । शाल्वस्य तु प्राणान् दण्डयित्वा मधु-पुर-द्वारि वक्रता-चण्डं सविदूरथ-दन्तवक्रः खण्ड-खण्डशः खण्डितश् च, तेनानेन भवितेति पाद्मोत्तर-खण्ड-प्रथा । तद्-अनन्तरं च पुनर् व्रजागमनम् अस्य महादेव-देव्याः संवाद-रहस्य-मये तत्रैव स्पष्टं निष्टङ्क्यते । यत् खलु सत्य-सङ्कल्पतयानल्प-समज्ञा-विज्ञातानां आयास्ये इति द्योतकैः [भा।पु। १०.४१.१७], आगमिष्यत्य् अतिदीर्घेण [भा।पु। १०.४६.३४] इत्य् आदि-बहुतराद् भगवद्-भागवतानां प्रतिज्ञानुसारात् श्रीमद्-भागवतेनाप्य् उद्भावितम् । न केवलं प्रतिज्ञा-मात्रं तत्र प्रतीति-पात्रीकृतम्, किन्तु तद्-आगतिर् अप्य् अधिगतीकृतम् ।

[१९७] तथा हि प्रथमे द्वारका-प्रजा-वचने—यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-दिदृक्षया [भा।पु। १.११.९] इति प्रत्यक्षं लक्ष्यते । न च तत् तु कालान्तर-गतम् । कुरुक्षेत्र-यात्रायां हि स्फुटम् अस्य वचनं तस्य तत्-कालताम् एव रचयति । तथा हि—

अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया । गतांश् चिरायिताञ् छत्रु-पक्ष-क्षपण-चेतसः ॥ [भा।पु। १०.८२.४१] इति ।

[१९८] विदूरथान्तशत्रुवधम् एवाववधिम् अत्र करोति नान्यद् इति । तद् एवं स्थिते तद्-अनन्तरं च लब्धान्तरतया तेनानेन तेषां प्रकृति-जागोचर-प्रकृति-स्वपदाविर्भावनं च तत्र पाद्म एवोद्भावैतम् । तद् अपि ब्रह्म-ह्रद-मज्जन-तद्-उन्मज्जनाद् अनन्तरं तद्-दर्शितवत एतस्य चैतदीयानां चाभिप्रायेण श्रीमद्-भागवतेनाभिप्रेतम् । अपि नः स्वगतिं सूक्ष्माम् [भा।पु। १०.२८.१२] इति, न वेद स्वां गतिं भ्रमन् [भा।पु। १०.२८.१४] इति, गोपानां स्वं लोकं [भा।पु। १०.२८.१५] इति, कृष्णं च तत्र छन्दोभिः स्तूयमानम् [भा।पु। १०.२८.१८] इत्य् अनेन । अतएव स्कान्दे—

वत्सैर् वत्सतरीभिश् च सरामो बालकैर् वृतः । वृन्दावनान्तरगतः सदा क्रीडति माधवः ॥

सदा स्थिति-प्रयोगश् चात्र वैकुण्ठ-नाथस्य ध्रुव-गजेन्द्राद्य्-अर्थम् अन्यत्र गमनेन वैकुण्ठ इव श्री-व्रजेन्द्र-नन्दनस्य मथुरादि-गमनेन सदा वृन्दावन-रमणम् अपि न बाध्यते ।

[१९९] अत्रेदं विचारयामः—

जननी-वेश-सम्बन्धाभासात् पूतनिकापि सा । जनई-गतिम् अव्राजीद् इति कैमुत्य-योगतः ॥८७॥ उपकृष्णं कृष्ण-घोषः सुगो-गोपं तद् आप्स्यति । अतिदुःखं दुष्प्रतीपं तद् गोलोकं स-शर्म च ॥८८॥

किं च—

साङ्गं यावद् वैभवं च व्रजः कृष्णं व्रजिष्यति । स-कृष्णम् अनुकृष्णं यो धास्यते च स-रामकम् ॥८९॥ सद्वादश-स्कन्धम् एवं श्री-भागवतम् ईक्षते । यथा-शक्ति-बुधोऽन्यस्य शक्ति-प्रति न विद्यते ॥९०॥

[२००] तद् एवं विमृष्य तु श्री-देवर्षिः स्पष्टम् आचष्ट—[२०१] यदा त्वं राजसूयतः सुखं सम्भूय स्वालय-चलनारम्भं सम्भावयिष्यसि, तदा वक्रभाव-चक्रतः शक्रम् अपि जिगीषुर् दन्तवक्रस् त्वां केवलं सर्व-चङ्क्रमण-चक्रवलं वितर्कयन् बलेन बलेन च विनाभूतेन त्वया केवलेन गदायुद्धम् अध्वन्य् अनिविच्छन् मधुपुरीम् आगन्तुम् उरीकरिष्यति । ताम् आगत्य च गत्यन्तरं चिन्तयन् मन्-मुखतस् तव द्वारका-सम्मुख-प्रस्थानं शाल्व-संस्थापनं चास्थाय सद्यस् त्वां प्रत्य् एव दुःस्थात्मतया प्रस्थास्यते ।

[२०२] तदैव च मनो-जुति-विभूति-मयेन मया कथनया निज-व्रज-गमनाय तद् एवास्पदम् आस्पदं कुर्वल्-लब्ध-मनोरथस् तादृश-दिव्य-रथश् च त्वं तत्-क्षणम् एव मथुरा-पुर-द्वारि प्राप्त-गति-प्रथस् तं गदावन्तं निष्क्रामन्तं द्रक्ष्यसि, स्रक्ष्यसि च त्वां प्रति क्रामन्तं तं प्रति गदां स्रक्ष्यन्ते च, प्रत्यस्त्राणीव त्वद्-आभिमुख्येन करूष-मुख्येन तेन चैद्येनैव सात्म-ज्योतिष्का निष्कास्य प्राणाः ।

[२०३] तत्र च श्लोकः खल्व् अयम्—

भीमस्याहं तुल्य-संविद्-गदाया द्वन्द्वाघाते माधवं मागधाभम् । जित्वा राज्यं माथुरं साधयिष्याम्य् एवं नङ्क्षत्य् एष को दन्तवक्रः ॥९१॥

ततश् च—

दन्तवक्र-चिता-वह्नि-प्राये क्रोधे तव स्वयम् । विदूरथश् च भविता दूरतः क्रूर-कीटवत् ॥९२॥

[२०४] तद् एवं दन्तवक्रं विदूरथम् अपि विदूरतस् तदा गदा-चक्र-घातं घातयित्वा स्व-वचन-सत्यङ्कारः स्वजन-हृद्-रुजाम् अगदङ्कारः स्वीय-मुखानाम् अस्तुङ्कारः श्रीमद्-व्रज-विराजमान-राज-कुमारः स्वक-व्रज-कुलम् एव भवान् मथुरा-भवान् अनुयोक्ष्यते । तत् तु सर्वं प्रगाढ-भावम् अवगाढं कुरुक्षेत्राद् आगतेर् अर्वाग्-भवद्-आगमन-मर्यादाभ्यन्तरीण-कालं कालम् इव चालयितुं पुनर् अपि सुदिनायमानतां प्रतिपालयितुं सम्प्रति यमुना-पारीणं जातम् इत्य् अवकलय्यानुकामीनेन निज-दिव्य-विमानेन समुत्तीर्य दिविषद्भिः कुसुमैर् अवकीर्यमाणः सहसा तद्-वासं चासत् तु मुद् योक्ष्यते ।

[२०५] उत्तीर्णे च त्वयि सर्वतः कीर्णेन निनिताशेषेण रथ-घर्घरित-विशेषेण त्वद्-आगमनम् एव मन्वानास् त्वत्-परिमल-वलनेन तु निश्चिन्वानाः सर्व-विधा एव त्वद्-एकाध्वानतः प्रधावनम् एव तन्वानाः श्रीमन्-नन्दाद्य्-अभिधानाः सन्निधानं विनापि शिखण्डि-मण्डलवद् अमी मार्तण्ड-मण्डल-स्थ-मेघ-खण्डम् इव दिव्य-रथारूढं त्वाम् अगूढं निशाम्य सम्य-गूढ-प्रमद-बहल-कोलाहलं कलयिष्यन्ति ।

[२०६] कलयन्तश् च स्तम्भ-स्वेद-रोमोद्भेद-स्वर-भेद-रोदन-विभेद-प्रलय-मयतया स्पन्दनम् अप्य् अविन्दमानाः स्यन्दनाद् दूरतस् तद्-अवस्था एव स्थास्यन्ति ।

[२०७] त्वं पुनः सहसा रथाद् अवतीर्य तेषां पथा यथा-वीर्यं धावन् सकल-गीर्वाण-विकीर्यमाण-कुसुमादि-वादित्रादि-कृतमानः सर्वथाप्य् असम्भावित-समानः परम् आसक्त्या सर्वान् अपि तान् अनर्वाचीन-शक्त्या च पृथक् पृथग् एव च युगपद् एव च सङ्गच्छन् समालिङ्गंस् तत् तद् अङ्ग-सङ्गतं स्वाङ्गम् अपिइ न ततो भिन्नम् अङ्गीकरिष्यसि ।

[२०८] ते च तथा शोकापनुदं दत्त-मुदं त्वां लभमानाः सर्वे जन्यवस् त्वद्-अनन्यं-मन्या भविष्यति । [२०९] तथा च गास्यते—

यदा यातः कृष्णः पुनर् अपि यदूनां नगरतस् तदा गोपाः सोऽपि प्रति-निजम् अधुर् मोद-निवहम् । व्यतिश्लिष्टा यर्हि प्रतिजनम् इदं नाजनि मनाग् अयं कृष्णः कृष्णः किम् अहम् इति तर्हि स्फुटतरम् ॥९३॥

यतः—

यद्वत् कल्यन्तिमानां सुकृत-विरहिणां सत्य-धर्मावतारः पृथ्वी-स्थानां महावग्रह-हत-वपुषां वर्षुकाब्द-प्रचारः । आकूपार-ह्रदानां मुनि-हृत-पयसां नव्य-गङ्गा-प्रसारस् तद्वद् गोष्ठ-स्थितानां तव विरह-रुजां हन्त ते सङ्ग-सारः ॥९४॥

[२१०] अथ चिराय प्रतिमावत् लब्ध-त्वत्-परिष्वक्तिषु व्रज-जन-व्यक्तिषु पूर्वम् अव्यक्तीभावम् आपन्ना मधुमङ्गल-पूर्णाभ्यर्णा पौर्णमासी स-वृन्दा वृन्दा च समम् अप्रच्छन्नतां गच्छन्ती तु सुख-सम्मूर्च्छनान् मूर्च्छाम् इव गताभ्यस् ताभ्यः साभ्यसूयम् इव क्रमाद् बहिर् वृत्तिं यच्छन्ती तद्-वनिकायां तन्-निकायम् उपवेशयिष्यति ।

[२११] तथा च कथयिष्यन्ति—

कृष्णं मध्य-गतं विधाय पितरौ तद्-भ्रातरः स्त्री-गणास् तन्-मित्राणि कुटुम्ब-संवलनया चान्ये चिरात् प्राप्तितः । मुञ्चन्तः स्फुटम् अश्रु तस्य सुखदं चारूप-चारं चिरं विस्मृत्य स्थगित-क्रियाः समभवन् मूकाश् च वैस्वर्यतः ॥९५॥

[२१२] त्वं तु तत्र स्त्री-कुमारं पुत्र-पौत्रं कुब्ज-वामनं दासी-दासम् अपि सर्वं यथायथं तोषयिष्यसि । [२१३] दारुकस् तु दारुवद् एव दूरस्थितस् तत्-प्रेम-वश्यतया कौतुकम् इव द्रक्ष्यति ।

[२१४] ततश् च तत्रासीना पौर्णमासी कुपितेवालपिष्यति—अहह किम् इदम् अविदन्त इव कुर्वन्तः स्थ? पथि परिश्रान्तम् इमं कथम् इव न विश्रान्तं कुरुथ ।

[२१५] तद् एवं जात-चमत्काराभ्यां तत्-परिश्रम-कातराभ्यां मातर-पितराभ्याम् उभयतः स्व-स्व-भजनाकृतालिङ्गनमय-प्रणय-चेष्टितः सर्वैर् एव च परितो वेष्टितः स्व-गोष्ठ-प्रकोष्ठ-मध्यग-शकट-घटा-घटित-वाटम् अवाप्स्यसि ।

[२१६] ततश् च ते सर्वे भवत्-परिचर्या-मय-परिसर्याकृतः सम्भरमम् एवाचरिष्यन्ति, न तु कार्य-क्रमम् । तथा हि—

यर्ह्य् आगन्तास्य् अघहर चिराद् द्वारकातस् तदा ते सर्वेऽप्य् एते व्रज-जनि-जना श्रेष्ठ-मध्यस्थ-निघ्नाः । धावन्तोऽपि प्रतिदिशम् अहो तत्-तद्-एकैक-कार्यं कुर्वन्तोऽपि स्थगित-कृतिताम् एव यास्यन्ति हन्त ॥९७॥ यद्यपि गोपाः सम्यक् परिचरितुं त्वां न तर्हि शक्ष्यन्ति । तद् अपि न तत्-प्रमदामृत-भोगास् त्वामी सदैव पोक्ष्यन्ति ॥९८॥

[२१७] तद् आरभ्य च—

किं भोक्तव्यं क्वासितव्यं स्वपनीयं क्व वामुना । इति मात्रादि-धी-यात्रा नात्रायास्यति तृप्तताम् ॥९८॥ सखायन्ते सुखाधीना विस्मरिष्यन्ति सर्वकम् । स्मरिष्यन्ति तु तां त्वत्-कां पुनः संश्लेष-नव्यताम् ॥९९॥ दासाश् च तव दाशार्ह पुनर् आशां स्व-मूर्तिषु । धास्यन्ति सेवा-सुधया विधास्यन्ति यद् आप्लवम् ॥१००॥ गावः प्राग्वद् भवत्-स्फूर्ति-प्रभाव-स्थित-तद्-दशाः । तद्वद् एव सदैवामूर् धास्यन्ति प्रमदं त्वयि ॥१०१॥ शिशवः पशवश् चैव वयांसि च पयांसि च । येऽन्ये हृद्या जना हृद्यास् तव तेषां तु का कथा ॥१०२॥

[२१८] कूर्मस्येव स्मरणानुभावेन तव तेन त्वदीयाः पूर्ववद् एव हि ते स्थातारः । तथैव व्रजाद् बलदेवः कुशस्थलीम् आसाद्य त्वयि निवेदयिष्यति । यथा श्री-हरि-वंशे—

तथैवाध्वग-वेशेन सोपश्लिष्टे जनार्दनम् । प्रत्यग्र-वन-मालेन वक्षसाभिविराजता ॥ उपविष्टं तदा रामं पप्रच्छ कुशलं व्रजे । बान्धवेषु च सर्वेषु गोषु चैव जनार्दनः ॥ प्रत्युवाच तदा रामो भ्रातरं साधु-भाषितम् । सर्वेषां कुशलं कृष्ण येषां कुशलम् इच्छसि ॥ [HV ८३.५३,५५-६] इति ।

[२१९] तद् एवं स्थितेऽपि तदा तव सदा व्रजावस्थिति-प्रतीतिस् तु तेषां नातिजनिष्यते । स्यन्दनं तद् अत्र तद्-अवस्थम् एव स्थापितम् अस्तीत्य् अनास्था-भावनया ।

[२२०] किं च, तव सवयसः प्रवयसः प्रतीदं प्रतीपम् आवेदयिष्यन्ति । प्रिय-वयस्यस्य नातिअसौमनस्यं मनस्य् अभ्यस्यते । यतो जनितानुराग-जनतासु तासु प्राग् इव नानुरागं जागरम् आगमयति । ताश् च तथा दृष्ट्वा लगित-दुःख-स्थगिततया शुष्का इव तिष्ठन्ति ।

[२२१] तद् एतद् आकर्णयन्तः प्राप्त-कदनान्तरतया विवर्णवदनान्ते त्वन्-मातर-पितरादयः कातरताम् अवाप्स्यन्ति ।

[२२२] त्वं तु जन्तु-मात्र-चित्त-ज्ञस् तद् विज्ञाय स्वयम् एव तान् विज्ञापयिष्यसि—कथं भवन्तो नाद्याप्य् आनन्दाद् उद्भवन्तो दृश्यन्ते । [२२३] सर्वे तु सगद्गदं गदिष्यन्ति—अस्माकम् आनन्द-कारणं त्वद्-अवधारण-पदवीं विन्दत एव ।

[२२४] अथ त्वं वक्ष्यसि—बाढं किन्तु येन भवद्भिः सन्दिह्यते, सोऽयं शताङ्गः साङ्ग-भवत्-कार्य-सङ्गमनाय सङ्गे रक्षिततया लक्ष्यते । यथा वान्यथा ज्ञापयथ, तथा प्रथयिष्यामि । एतद् एव प्राग् एव निवेदितं मया—

यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भा।पु। १०.४५.२३] इति ।

[२२५] ज्ञातीन् इति युष्मन्-मध्यत एवासौ वासः सम्भविष्यति, द्रष्टुम् इति तत्र च युष्मद्-दर्शनम् एवास्माकं पुरुषार्थ इत्य् अर्थः । यद् वा द्रष्टुम् इति दर्शन-विषयी-भवितुम् इत्य् अर्थः । अथापि भूमन् महिमा गुणस्य ते विबोद्धुम् अर्हत्य् अमलान्तरात्मभिः [भा।पु। १०.१४.६] इत्य् अत्र बोध-विषयी-भवितुम् इतिवद् एतद् उद्धवेन च भवत्सु समुद्बुद्धं चक्रे—

आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः । प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥ हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् । यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥ [भा।पु। १०.४६.३४-५] इति ।

[२२६] सात्वतां पतिर् अपि पूर्ण-षडैश्वर्य-सम्पत्तिर् अपि पित्रोर् युवयोर् व्रजेशित्रोः परम-सुख-श्रियं सदा स्वलालना-रूपं प्रियं विधास्यते । तत्राप्य् अच्युत एवावस्थास्यते, यतस् तत् ततो हेतोर् अद्यापि सत्यं शपथं करोति, कुर्वन्न् एव वर्तत इत्य् अर्थः । तद् अनेनैव नयेन भवतां प्रणयर्णं विनयेय, न तु मनाग् अपि गमनागस्त्वेन । तथा हि—

पित्रादि-प्रतिरूप-रूप-वसुदेवादि-प्रतीघातजाद्- दुःखात् कंस-विनाशनार्थम् अगमं शीघ्रां निवृत्तिं विदन् । तत्रासीत् सुहृदां मनोरथ-ततिर् युद्धायतिर् दुर्हृदां चैवं तद्-व्यसनं समाप्य यदि च प्रागां क्व वा याम्य् अहम् ॥१०३॥ इति ।

[२२७] ततः श्री-व्रजेश्वरानुमत्या प्रत्यासन्नाः सर्वेऽपि प्रार्थयिष्यन्ते । एवं चेद् इह च तव द्वारका-वद् एव बहल-गृह-बृंहणाय स्पृहयामः । अन्यथा-करणं तु यद् अस्माकम् अधन्यतां वहतीति ।

[२२८] तद् एतद् आकर्ण्य भूमिं निर्वर्ण्य त्वं तु तस्मिन्न् असन्तुष्ट इव चेतसि चिन्तयितासि—गृह-शब्दः खल्व् एभिर् गृहिणी-पर्यायतया पर्यवसायितः । तत्र च हन्त मम स्वान्तं कीदृशं वामी विधास्यन्तीति ।

[२२९] अथ पुनर् विभावयितासि—भवतु, पूर्ण-ज्ञान-तूर्ण-विधाना च पौर्णमास्य् अत्र सर्वं शर्म निर्मास्यति, न त्व् अन्यथाकर्मतां धास्यतीति । वक्तव्यं तु वक्ष्यसि । तर्हि रोहिणी-माता रौहिणेय-भ्राता च द्वारकागाराद् आकारणीयौ । ताव् एव सर्वम् अर्वाग्-भाव्यं निवेदयिष्यतः ।

[२३०] अथ पुनर् दारुक-सारथिं प्रति प्रथयिष्यसि—भो सारथे ! सरथः प्रथमानयात्यन्तीनतया भवान् यदु-भवनम् आसाद्य सद्यः श्रीमद्-भ्रातरं तन्-मातरं च प्रापयेति । पुनर् विचार्य वक्ष्यसि—हन्त ! तम् उद्धवम् अप्य् आनयेति।

[२३१] ततस् तद्-वन्दनारुके दारुके पवनम् अनुहरमाणेन यानेन मुहूर्त-मात्रार्धतैस् तैः सार्धम् आगते तस्मिन् विस्मित-मनसः श्रीमन्-नन्दादयः परमानन्दाशयतया सहसा भवद्-आगमनवद् एव सहसा महसा तोद्यमानातोद्य-व्रजं तन्-निजालयम् आनेष्यन्ति ।

[२३२] गतेषु च दिनेषु त्रि-चतुरेषु रामादयस् ते व्रजस्थाभिर् उचितम् एव तुभ्यं रोचयिष्यन्ति—

येषां प्रेम-गुणैर् यस् त्वं बद्धः सुष्ठुतया हरिः । तस्य तैर् विनिरुद्धा ये कुर्युस् ते कथम् अन्यथा ॥१०४॥

[२३३] सर्वे च मिलित्वा निर्णेष्यन्ति मान्याः कन्या-विचारम् । कात्यायन्याराधिकास् ताः कन्या धन्यादयः सन्यायताम् अर्हन्तीति ।

[२३४] रामोद्धवौ तु परम-निष्णातौ कृष्णवज् ज्ञात्वा तूष्णीम् एवावस्थास्यतः ।

[२३५] ततस् तद्-अर्थम् आरम्भे लब्ध-सम्भेदे व्रज-पति-जम्पती पूर्ण-मनो-गती पूर्णिमाभ्यर्णम् आसाद्य सद्यस् तस्यां वरिवस्या-पूर्वकं सर्वं निवेदयिष्यतः ।

[२३६] सापि वक्ष्यति—तद् अपि भद्रम् एव, किन्तु वर्याः परम-वर्या राधादयः कथं वा न स्वीकार्याः ?

[२३७] तौ तु स-वैलक्ष्यं वक्ष्यतः—काः खलु राधिकाद्य्-अभिधाः ?

सा वक्ष्यति—धन्यानां वृषभान्व्-आदीनां कन्या एव ।

पुनस् तौ वक्ष्यतः—सुध्य्-आदि-गुरो ! न बुध्यामहे । निःशोध्यं तु बोध्यताम् ।

सा तु स-हासं वक्ष्यति—यथा कात्यायन्य्-आराधिकानां कन्यात्वम् एवम् अन्यासां राधिकादिकानाम् अपि ।

तौ पुनर् उत्फुल्ल-नयनं वक्ष्यतः—विस्पष्टं कथ्यताम् । यदि विषय-मयेऽप्य् अस्मादृशि कृपा-विषयताचर्यते ।

सा वक्ष्यति—भवन्तः खल्व् इदं नानुभवन्त इव सन्ति । यत् पुनर् अद्यापि कन्या एव ता धन्याः । माया-कल्पित-च्छाया-प्राया एवान्यत्र परिणायिताः । तच् च स्वप्नवद् एव । यस्मान् मर्यादालङ्घन-पर्यायतया ता एव च शय्यादौ पर्यवसायन्ते इति । किं तद् इदं किञ्चन भवन्ताव् अनु स-वेदनं निवेदयामि । तास् तद् एकानुरक्ता मादृश-सान्त्वनया परम् अद्यावधि धैर्य-सम्पृक्ताः । सम्प्रति तु त्यक्त-मात्रातिरिक्त-प्राण-गात्रा भविष्यन्ति । तासां तद् इदं न केवलम् अहम् एव विदत्य् अस्मि, किन्तु सर्वापि व्रज-जनता । तच् च पूर्वम् अपि किञ्चित् किञ्चिद् विशेष्तस् तु कृष्ण-कृत-वृष्णि-स्थान-प्रस्थान-गत-तद्-अनवस्थावस्थायाम् । यत इदं मुनयोऽपि वर्णयिष्यन्ति ।

[२३८] तत्र पूर्वं यथा—कुज-गतिं गमिता न विदामः; कश्मलेन कवरं वसनं वा [भा।पु। १०.३५.१७] इत्य् आदिना । उत्तरं तु, निवारयामः समुपेत्य माधवं; किं नो ‘करिष्यन् कुल-वृद्ध-बान्धवाः [भा।पु। १०.३९.२८] इत्य् उक्त्वा, विसृज्य लज्जां रुरुदुः स्म सु-स्वरं; गोविन्द दामोदर माधवेति [भा।पु। १०.३९.३१] इत्य् आदिना, कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः [भा।पु। १०.४७.९] इत्य् आदिना, गत-ह्रियः [भा।पु। १०.४७.१०] इत्य् आदिना,

मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि । यद्-अर्थे जहिम दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो ॥** **[भा।पु। १०.६५.११] इत्य् आदिना,

या दुस्त्यजं स्वजनम् आर्य-पथं च हित्वा इत्य् आदिना च ।

[२३९] अत्र पतीन् पुत्रान् इति यद् उक्तं, तत् खलु गौणीम् एव वृत्तिम् अनुक्रम्य, न तु मुख्याम् इति भवत्-प्रश्नानुक्रमेण प्रख्यासामि । तत्र यद्य् अन्यथा मन्यध्वे, तर्य् एवम् आचक्ष्महे—नरकादानीत-गुरु-कुमारतया जित-धर्मराज-धामा राजद्-अघजिन्-नामा सोऽयम् एतद् अनुरक्त-जनोऽप्य् अधर्मस्य कलयापि स्प्रष्टुं द्रष्टुं च न शक्यत एव । किन्तु लज्जा-मात्रं तस्य तस्य च मर्यादा-पर्यापकम् इति वस्तुतस् तु न केवलं रागत एव तास् तादृशीं गति-मार्गताः किन्त्व् अनादि-सिद्ध-स्वभावतया तद्-वधू-भावतश् चेति मन्त्र-द्रष्टारोऽपि निष्टङ्कयन्ति । तद् एतद् बलरामोद्धवौ च सुष्ठु जानीत इति ताव् अपि प्रष्टव्यौ, अन्यथा तासु तत्-सन्देश-हरता तयोर् न देश-रूपताम् आसीदेत् ।

[२४०] पुनस् तौ वक्ष्यतः—वत्सः किम् इदम् अनुसन्दधाति ?

सा वक्ष्यति—स च पूर्वं किञ्चिद् अनुसंहितवान् आसीत् । उत्तरं तु सम्यग् विदन्न् एवास्ते । किन्तु सम्प्रति लज्जया नावधानं सज्जयति ।

तौ वक्ष्यतः—तासां तद्-अर्थ-प्राण-जिहासां किम् असौ जानाति?

सा वक्ष्यति—उक्तम् एव सम्यग् विदन्न् आस्त इति ।

[२४१] यतः पूर्वम् अप्य् उद्धवे तथा समुद्बुद्धं कृतवान्, यथा च तद्-वचनं सत्य-वचसश् च गास्यन्ति—

गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह । गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय ॥ ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः । माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः । ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहम् ॥ मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः । स्मरन्त्यो ‘ङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥ धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥ [भा।पु। १०.४६.३-६]

[२४२] अत्र मत्-सन्देशैः इति मय्य् आवेश्य मनः कृष्णे विमुक्ताशेष-वृत्ति यत् अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ [भा।पु। १०.४७.३६] इति पर्यवसानैर् इत्य् अर्थः । माम् एव दयितम् इति, मे वल्लव्यः इत्य् अत्र तु विशेषोऽप्य् अस्ति, तस्मात् तद् एक-व्रत-जीवन-व्रतानां तद्-भार्याणां नान्या गतिर् न्याय्या ।

[२४३] कृष्ण उवाच—ततस् ततः?

[२४४] ऋषिर् उवाच—ततस् तौ भावयिष्यतः । सत्यम् अस्माकं प्रकटतरेऽपि लोक-धर्म-घटनानर्ह-प्रतिकारेऽपि तासां विघटन-दुःखे यद् अद्यापि स्नुषाकरण-स्पृहा नापयाति, प्रत्युत सातत्यत एव तासु स्नुषाभानं विभाति । धर्मान्यथा-भावे लक्ष्यते । यद् अवश्यम् आयत्यां विदित-रहस्यताम् आयातीति । तद् अपि प्राप्त-कालतां कलयति स्म ।

[२४५] अथ तौ स्पष्टं वक्ष्यतः—रहस्यम् इदं लोकाः कथं मंस्यन्ते ।

सा वक्ष्यति—मायायाः स्वभाव-व्यापितिर् इयम् अव्यभिचारितया लक्ष्यते, यद् अवश्यम् आयत्यां विदित-रहस्यताम् आयातीति । तद् अपि प्राप्त-कालतां कलयति स्म ।

[२४६] यतः सर्वेषाम् अपि सत्-सङ्कल्पानाम् उपरि प्रभवतोर् भवतोर् निगूढा या तद्-अर्थम् उत्कण्ठा, सा ह्य् अधुना परां कोटिम् आरूढा झटिति रूढ-कार्या भवेद् एव । तौ वक्ष्यतः—स्वीयाम् अनन्य-सम्बन्धितां ताः कथं विदन्ति ।

[२४७] सा वक्ष्यति—पूर्वं स वो हि स्वामी भवति इति दुर्वाससो वचनेनापि सम्यङ् नाविदुः किन्तु पश्चाद् विदुः ।

[२४८] तौ वक्ष्यतः—कथम् इव?

[२४९] सा वक्ष्यति—उद्धवेन श्री-कृष्णाभिप्रायम् अनुव्यक्तीकरणात् । अतएवोक्तम्—अपि बत मधु-पुर्याम् आर्य-पुत्रो ‘धुनास्ते [भा।पु। १०.४७.२१] इति ।

[२५०] तौ वक्ष्यतः—तासां श्वशुरं-मन्यादीनां येऽनुगतास् ते प्रायेणानुतापं प्राप्स्यन्ति ।

[२५१] अथ सा तु पुरुषम् इव वक्ष्यति—तत् किम् आसां परम-साध्वीनां माध्वीकवन् मधुर-स्निग्धतावलितानां दुष्कर-तरण-दुःख-भास्कर-पुष्कलताप-शुष्कता सोढव्या । तथा सर्व-धुरीणता-प्रवीणस्य निज-कुल-धुरन्धरस्य गोवर्धन-धरस्य दुर्धर-लज्जा-भार-सज्जनम् अनुमोदनीयम् । वस्तुतस् तु तेषाम् अपि न सुख-भङ्ग-प्रसङ्गः यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भा।पु। १०.१४.३५] इति श्री-शुक-वचनाद् अपि । तथा च न वचन-मर्माभिर् आचरणीयम्, यथा सर्व-सुख-सचनम् एव स्यात् ।

[२५२] तद् एतन् निरूप्य सा पुनः सहासं वक्ष्यति—साम्प्रतं प्रततं कुतुकान्तरं भवद्व्यां किल नावकलितम् । यत् खलु युष्मन्-नन्दन आनन्द-द्यूते तासां पतिम्मन्यांस्त् तत्-पित्रादि-पर्यन्तं सर्वं जितवान् । लज्जाम् एव सज्जन् न तद्-गृहम् आनीतवान् इति ।

[२५३] तद् इदं गुप्तम् अपि कृतम् आदि-वराह-नामा भगवान् अपि स्व-पुराणे साक्षितया लक्षयतीति सर्वथात्र नान्यथा मन्तव्यम् । यथा—

द्यूत-क्रीडा भगवता कृता गोप-जनैः सह । पणावहार-रूपेण जिता गोप्यो धनानि च । गोपैर् आनीय तत्रैव कृष्णाय विनिवेदिताः ॥ इति ।

[२५४] तौ वक्ष्यतः—तत्-पित्रादीनां तन्-मित्रादीनां वा को व्यवसायः ?

[२५५] सा वक्ष्यति—तेऽपि मयोपदिष्टं तत्त्वीकृत्य पृष्ट-कृत्यास् तद् इदम् उद्दिष्टवन्तः—

अहो पर-स्पर्श-सुभीरु यद् वपुर् यत् कृष्णसार-प्रणयैक-शर्म च । तासां मृगीणाम् इव तत्-परं प्रति प्रदित्सवो व्याध-मनांसि बिभ्रति ॥१०५॥

[२५६] तौ वक्ष्यतः—राधिकाद्य्-आराधिकानां का वार्ता ?

[२५७] सा वक्ष्यति—मत्-पृष्टाभिस् ताभिर् अप्य् एवम् आदिष्टम्—

यथा सीता-देव्या दश-मुख-कृतार्तिर् विपद् अभूद् यथा वा रुक्मिण्या विवहन-विधिश् चेदिप-कृते । तथा राधादीनां पर-गृह-गतिर् या बत विपत् कथं तस्या नित्या स्थितिर् अभिमता हन्त सुहृदाम् ॥१०६॥10

[२५८] तौ वक्ष्यतः—अथ राधिकादीनाम् आर्तानां का वार्ता ?

[२५९] सा वक्ष्यति—

देयम् अधीनं कार्त्स्न्येनाभिव्याप्त्या च तत्र कृष्णे स्वम् । तद्-रूपं रचयित्वा सातिप्रत्यय-पदानि ता दधिरे ॥१०७॥

[२६०] तौ वक्ष्यतः—ताः किं साक्षाद् अनुयुक्ताः ?

[२६१] सा वक्ष्यति—अथ किम् ? यतस् तासां मर्म-प्रकटन-कर्मठतया मया पृष्टम्—भो विपश्चितः काश्चिद् एवं वदन्ति । ताः खलु कृष्णे प्रेम-मात्राखर्व-सर्वस्वाः । प्रेमा च बलवद् विरोधि-सद्-भाव-मिलद्-भय-प्रयास-प्रच्छादन-परिच्छदतया यथा वर्धते, न तथान्यथा ।

[२६२] तर्हि कथं तासाम् अप्य् अन्यासाम् इव पतितया तत्-सम्पत्ति-कामना-निकामम् अन्तरनुवर्तत इति ?

[२६३] तद् एतद् आकर्ण्य पाटल-पटल-सवर्ण-वर्णिन्यस् ता वर-वर्णिन्यस् तद् इदम् अवर्णयन्त ।

[२६४] हन्त ! तासाम् एव सविरोधस् तद्-अवरोधः सम्भवता-दृतीयमाना द्वितीय-पति-भावना च, न पुनर् अन्यस्याः कस्याश्चिद् अपि । या खलु तद्-अवरोध-विरोध-वाञ्छा । सा वा कथं प्रेम-प्रथन-मयी स्याद् इति न बुध्यामहे ।

[२६५] अस्माकम् यद्यप्य् असौ पार्श्व-गतो रहो-गतस् तथापि तस्याङ्घ्रि-युगं नवं नवम् [भा।पु। १.११.३४] इत्य् एव बोध-विषयो भवति । किन्तु—

बुधिताः पैतृक-जनता बुद्धाः श्वशुराभिमानिनो लोकाः । मानिताः सर्वेऽप्य् अस्माभिर् न मतो धर्मस् तु केनापि ॥१०८॥

[२६६] यद् अस्माकं बाल्याद् एव तस्मिन् निज-र्मणता-भावनां दूरीकर्तुम् आग्रहम् उरीकुर्वन्ति, तस्माद् अस्मान् मा स्नेह-पेषं पिण्ढि, किन्तु स्वाभीष्टम् एव विशण्ढि ।

[२६७] अथ तौ वक्ष्यतः—भवत्या किम् उद्भावितम् ?

[२६८] सा वक्ष्यति—ततो मया हसित्वा शवसित्वा च ताभ्यः प्रत्याशा-मात्रं प्रत्यासादितम् अस्ति । यदि भवतोर् इच्छा समृच्छते, तास् तु दैवतस् तावन्-निज-प्राण-वलल्भस्य वलल्भत्व्नेआलाभाल् लब्ध-महा-दुःखास् तत्र च स्वस्यान्य-हस्त-पतिततया जुगुप्सितं-मन्यता शुष्कास् तत्र च प्रियाप्रिय-विप्रकर्ष-सन्निकर्षतः प्राप्त-मनो-धर्षास् तत्र च निरन्तरं शङ्कमानैः पतिं-मन्यादिभिर् मङ्क्षु मङ्क्षु-कृत-निवारण-भर्त्सनादि-निकर्षास् ततस् तत एव च दुःसह-प्रेष्ठ-विरह-तीव्र-ताप [भा।पु। १०.२९.१०] इत्य् आद्य्-उक्ततादृग्-अवस्थाभ्योऽपि महानुरागतः पीडनाद् बहुल-दहनाकार-कारागार-वसतिं-मन्यतया निगीर्ण-सर्व-क्षणं क्षणम् अपि कल्पं मन्वानाः सम्प्रति तदीय-महा-विरह-वह-समयम् अतीत्य चात्मानं तद्-उपेक्ष्यताम् अप्य् उत्प्रेक्ष्य लज्जा-मात्र-पर्यवसानम् आसज्य च धिक्-कृतं-मन्या दशमीम् अपि दशां तन्वानाः । किं बहुना, बहिर्-अन्तः-सुकुमारतायाम् अपि कौमारत एव व्याधानुबिद्ध-स्निग्ध-कानन-प्रत्यासत्त्य्-अपरित्यागि-मृगीवत् प्रखर-दरापार-पर-पारवश्य-लब्ध-विचित्र-दुर्गति-सम्प्लुततया पश्यतां शृण्वताम् अपि हृदयं धुन्वाना रसोऽयम् इति मन्यमानेन निष्करुण-कौतुकेन केनचिद् एवोपेक्षितुं शक्यन्ते, न पुनर् अन्येन ।

[२६९] तौ सास्रं वक्ष्यतः—सम्प्रति ताः कां गतिं मतिं चासादयन्ति ?

[२७०] सा वक्ष्यति—

कुर्वन्ति मौनं क्रन्दं वा शून्यं पश्यति वर्त्म वा । कृष्णं वाञ्छन्ति मृत्युं वा तासाम् एवंविधा गतिः ॥१०९॥

[२७१] पुनस् तौ सास्रं वक्ष्यतः—सम्प्रति ताः प्रति वत्सस्य का विधित्सा ?

[२७२] सा वक्ष्यति—तद् एतत् पश्चाद् अपि निश्चीयताम् । यत् खलु प्रेयसां प्रेमाक्षेमं तद्-भावनामय-प्रेमानुरूपम् एव स्व-स्थेमानं लभते । न तु स्वाग्रह-ग्रहिलताम् इति ।

[२७३] तौ वक्ष्यतः—मन्यामहे तथाप्य् अस्मत्तः सङ्कोचं रोचयिष्यति ।

[२७४] सा वक्ष्यति—भवतां हृदि सदा विद्योतमानः सोऽयं तद् अपि वेत्ति, तस्मान् नितान्तं नान्यथा करिष्यति । किं बहुना, भवद्-आश्रवम् अनु सर्वेषाम् एव संश्रवः प्रतिभाति । किम् उत तस्य ?

[२७५] तौ वक्ष्यतः—तर्हि गर्ग-निषेध-वेधस्य का चिकित्सा ?

[२७६] सा स-हासं वक्ष्यति—स खलु लीला-नैयत्यम् एव तत्रत्य-दोषतयाध्यस्तवान् । स्व-यजमान-हित-समीहित-सहिततया, न तु परम-शुभ-निवेश-वेश-रूपाणाम् आसां क्लेश-लेश-प्रवेशदा सदेशता सम्भवति ।

[२७७] तौ वक्ष्यतः—सम्प्रत्य् अस्माभिः किम् इव सोपानम् उपेयम् ?

[२७८] सा वक्ष्यति—सोपानं मया चोपेयम्, भवद्भिस् तु सर्व एव व्रज-जना भोजनाय प्रणयेन निमन्त्र्य निमन्त्र्यन्ताम् । तर्ह्य् अन्तः-पटी-क्षेपान् नटीनाम् आकार इव तत् प्रकटीभविष्यति ।

[२७९] तौ वक्ष्यतः—यथाज्ञापयन्ति विज्ञानाचार्य-वर्याः ।

[२८०] कृष्ण उवाच—ततस् ततः ?

[२८१] ऋषिर् उवाच—ततः सा प्रत्यक्षत एव ताव् अभि बहुलम् अभिवदन्ती गृहाय प्रहापयिष्यति ।

[२८२] अथ कथकस्य मनः-कथा—ततश् च पूर्णिमा मनसि विविवेच—श्री-कृष्ण-लीलायाम् अनादि-सिद्धं श्रीमद्-भागवतम् एव मुख्यं प्रमाणम् ।

[२८३] तत्र या खलु रास-योगे योग-मायाम् उपाश्रितः [भा।पु। १०.२९.१] इत्य् अनेन नित्य-व्यक्ति-स्वरूप-शक्ति-वृत्ति-विशेषका या योगमाया तन्-निर्वाहकतया बादरायणिना समुदीरिता, सा पुनर् अहम् एव । तत्र तेन रासं प्रकाशं परीक्षित्-परिषदि वर्णयित्वा तत्र प्राप्तम् अवर्ण-त्रितयं निरस्य रस्यतया समाहितम् । तथा सम्प्रति व्रजेऽपि तत्-प्रसक्तम् इति ज्ञात्वा मयापि समाधेयम् । तत्र तेजीयसां न दोषाय [भा।पु। १०.३३.२९] इतिवद् अत्रापि यद्यपि नरकाद् आनीता इत्य् आदिना तल्-लेप-सम्भावनापयापितैव।

[२८४] अथ पर-दार-वार-समाहार-कारणान् आचारश् च यथा गोपीनां तत्-पतीनां च [भा।पु। १०.३३.२५] इत्य् अनेन यं परिहारम् आपितस् तथात्रापि ताश् च न केवलं रागत एव तादृशीं गतिम् आगताः इत्य् आदिना तासु तदीय-नित्याङ्गना-भाव-व्यङ्गतः स च साङ्गी-कृतः ।

[२८५] तथापि नासूयन् खलु कृष्णाय [भा।पु। १०.३३.३७] इतिवद् असूयाभासवत्तया सम्भावितास् तत्-पतिं-मन्याः समाधातव्याः । तच् च तद्-रहस्यं पूर्वं गुप्तम् आसीद् इति माया-द्वारा यथा-गुप्तं समाहितम् । साम्प्रतं तु व्यक्तम् अभूद् इति तथा तद्-द्वारा व्यक्तम् एव समाधेयम् । येन च सर्वेषाम् अपि सर्व-समाधानम् आधेयं भविता, अन्यथा तत्-तत्-करणं वृथा-परं स्यात् इति ।

[२८६] अथ स्पष्टम् आचष्ट—[२८७] ऋषिर् उवाच—दिनान्तरे तु सर्व-निमन्त्रणायां यथा-वृत्तान्ते वर्तिते सर्वाः साधारण-महोदयाः श्री-राधादयश् च तत्रागमिष्यन्ति । किन्तु पूर्वत एव जन-सङ्गीत-व्रजेश-निर्मितानङ्गीकारताम् आत्मनो दुःख-भङ्गी-सङ्गितां मंस्यन्त एव । तव च रूक्षता-वीक्षणेन ताः सूक्ष्माङ्गतां गमिष्यन्ति । तत्र साम्प्रतम् अन्यासां स्वसमान-कन्यानाम् अङ्गीकारेण हृत्-कमलेऽपि भङ्गिताम् आपत्स्यन्ते ।

[२८८] तथा च भावी श्लोकः—

दाव-त्रस्ता मृग-दुहितरश् चन्द्रहीनाश् चकोर्यः स्रस्ता वृक्षान् नव-कलतिका नीर-रिक्ताः शफर्यः । ऊर्ज-प्रान्ताद् बहिर् अपगता हन्त नव्याब्ज-नाल्यो यद्वद् दृष्टा हरि-विरहिता राधिकाद्याश् च तद्वत् ॥११०॥

[२८९] तद् एवं तासां कृच्छ्रायमाणानाम् अमिताभ्यमित-तादृश्वरी श्री-व्रजेश्वरी तु बाष्प-पूर्ण-नयना पौर्णमासीं निर्वर्णयिष्यति । सा तु वदिष्यति—सर्वे सर्वतोऽप्य् अन्विच्छन्तु । यथाद्यतन-निमन्त्रणतः कश्चिद् अपि न पश्चिमताम् अञ्चति ।

[२९०] कृष्ण उवाच—ततस् ततः ?

[२९१] ऋषिर् उवाच—ततस् तद्-आकर्णन-मात्रतः सर्वे सर्वतो निर्वर्णनाय सङ्गत्य सत्वरम् एव चागत्य यथावत् कथयिष्यन्ति । तेषु काश्चिन् महिलास् तु किञ्चिद् अप्य् अप्रस्तुत्य श्री-राधिकादिकाः प्रत्यपूर्वतापूर्वं द्रक्ष्यन्ति । ततः पौर्णमासी वक्ष्यति—किम् इव पश्यथ? किम् इव च किञ्चिन् न कथयथ ?

[२९२] ता वक्ष्यन्ति—किम् इव वक्ष्यामः, यतः सर्वैर् आहतं मन्येत ।

[२९३] पौर्णमासी वक्ष्यति—तथ्यं चेत् कथ्यताम्, मयि कृष्ण-मातरि च ।

तास् तु नीचैर् वक्ष्यन्ति—तत्राप्य् एतासां राधिकादिकानां धृत-तुल्यता-पूर्तिईर् अपश्यामः ।

पौर्णमासी स्पष्टं वक्ष्यति—अन्याश् च पुनर् अच्छं गच्छन्तु ।

[२९४] कृष्ण उवाच—ततस् ततः ?

[२९५] ऋषिर् उवाच—ततो बहल-कुतूहल-वहा बहुला महिलास् तत्र तत्र गत्वा ज्ञात-तादृश-तत्त्वाः पुनः पौर्णमास्य्-अन्ते लब्ध-सत्त्वास् तद्वद् एवावर्तयिष्यन्ति । वार्ता चैषा व्रज-राज-सभा-पर्यन्तं पर्यवसिष्यति । व्रज-राजश् च पौर्णमासीम् अनु तूर्णम् आसाद्य प्रसाद्य च वक्ष्यति—भगवति परम-विस्मापनम् इदम् अस्मान् बोधय ।

[२९६] पौर्णमासी वक्ष्यति—भवत्-कन्या-भावाभिमानिन्याम् आर्यायाम् इदम् आश्चर्यं पर्यवस्यति । भवांस् तु सर्व-व्रजस्थं स्त्री-पुंस-व्रजम् एक-सभानुगतं करोतु ।

[२९७] श्री-कृष्ण उवाच—ततस् ततः ?

[२९८] ऋषिर् उवाच—तद् एतद् अवधार्य ज्ञात-कार्य-गतिना व्रज-भूपतिना तद्-अभिहिते तथा-विहिते तव हितवती पौर्णमासी महितायां तस्याम् एव सभायाम् आहित-ब्रह्मासनम् आसीना किम् अपि प्रणिहितवती भविता । तद्-अव्यवहितम् एव च सिंह-पृष्ठाहितम् अहित-विग्रहा महायुधाष्टक-वेष्टिता देवी-गण-सेविता देवी नभसः सरभसम् अवतरिष्यति । अवतीर्ण-मात्रा च पौर्णमास्या व्रजेश्वरयोः कृष्ण-कृष्णाग्रजयोर् अन्येषाम् अपि भूमि-स्पृशाम् अभूमि-स्पृग्-मानिनी यथा-न्यायम् अभिवादनादिकम् आकाशत एव प्रकाशयिष्यति ।

[२९९] ततः साश्चर्यं पर्यवोलोकमानेषु तेषु देवी वक्ष्यति—कथं वेह सन्देहः क्रियते ? पूर्वत एव तावद् उभय-विधा एता नापूर्वतया मन्तव्याः । पूर्वासां सजातीया द्वितीया हि योगमायाज्ञया गर्ग-विघ्नं निघ्नत्या मायया मया निर्मिताः । सञ्ज्ञायाश् छाया-वत् रत्यास् तन्-माया-कल्पितावच् च ।

[३००] ताश् चेमा गृह-गृहात् सङ्गृह्णामि इति तथाह्नाय सापह्नवं कुल-वधू-मध्ये विधाय पुनर् वक्ष्यति—लक्ष्यतां कुल-पालिकाभिर् उभय-विलक्षणता । यत् परम-लक्ष्मी-लक्ष्माणि प्राग्-आगतानाम् एव लक्ष्यन्ते नार्वाग्-आगतानाम् । तथा मणि-तत्त्व-दृशाम् इव तादृशां दृष्टिभिर् एव नेत्रानन्दक-सौन्दर्य-विशेष-वृष्टिस् ताभ्य एव लभ्या, न त्व् अन्यासां, न च पुनर् आभ्यश् चाक्चिक्य-चिक्वण-काच-तुल्याभ्यः ।

[३०१] कृष्ण उवाच—ततस् ततः ?

[३०२] ऋषिर् उवाच—अथ सर्वाभिस् तथा तद् आश्चर्यं साक्षात्कार्यमाणम् अवधार्य तद्-आर्याणां समज्यायां निवेदयिष्यते—हन्त यथावद् एव देवी वदतीति । ततः श्री-व्रज-राज-वचनं—तर्ह्य् अधुना किं विधेयम् ?

[३०३] देवी वक्ष्यति—भोजने निर्वृत्ते मन्-निर्वर्तिताः स्व-स्व-पति-गृहम् अनुवर्तन्ताम् । परास् तु कृष्ण-मात्र-पति-सम्मति-परायणाः स्व-स्व-पितृ-गृहम् । मया तु यमुना-तटेष्ट-प्रशस्तालये स्थास्यते, यथा यदा मातृ-चरणैर् आज्ञाप्यते, तथा तदा व्यवहर्तव्यम् ।

[३०४] कृष्ण उवाच—ततस् ततः ?

[३०५] ऋषिर् उवाच—तद् एवम् आप्रच्छन-पूर्वकम् आपृच्छ्य प्रच्छन्नायां देव्यां सर्वेषु बल्लव-वलयेषु प्रच्छन्नेषु वर्णानां वर-वर्णिनीभिर् वर्ण्यमानं तद् आकर्ण्य भवत-पतिव्रतास् तु तत्-क्षणाद् एव जूरित्-परित्यक्त-मूर्तिका व्यक्त-निज-कान्ति-स्फूर्तिकाश् च भविष्यन्ति । तथा हि—

राहु-ग्रासाद् इव शशि-कला वारिदाद् ऋक्ष-माला वर्षाधर्षात् पुलिन-रुचयः स्पर्शनाद् दीप-लक्ष्म्याः । निष्क्रम्यामूः पर-परिभवात् तत्-क्षणं विन्दमानाः कान्तिं स्वीयां नयन-कदनं मोचयेयुर् जनानाम् ॥१११॥

तत्र च—

तारासु चन्द्र-वलयस्य कलाः कलासु तस्यातिचारु दधते स्फुरणं यथा श्रीः । गोपाङ्गनाह्वय-रमासु विशाखिकादि- सख्यः सखीषु च तथा वृषभानु-पुत्रीः ॥११२॥

[३०६] कृष्ण उवाच—ततस् ततः ?

[३०७] ऋषिर् उवाच—ततो देव्यादेश-वेश-वशा यथायथं ते विहितवन्त एव । तथापि विधिं विना न सङ्ग्राह्यास् ता इतिइ श्री-व्रज-राजादिभिर् विहिते च तस्मिन् विवाह-विचारे भवांस् त्व् अग्रजस्य विवाहार्थम् आगृह्य तं तद्-अर्थ-रक्षित-कौमारा द्वारकात आगत्य कदाचित् तेन प्रसादी-कृत-स्व-विहाराः । काश्चिन् नित्य-किशोरिका विधिना च विवाह्य नैरपेक्ष्यम् इवावगाह्य विगत-पूर्वाशङ्कः परम-ललित-माधव-समयम् आलम्ब्यालङ्कृत-पूर्ण-मनोरथाङ्कः श्री-व्रज-राज-गृहिणी-मुहुर् आग्रह-गृहीततया शनैर् एव स्व-विवाहम् अङ्गीकार-सङ्गिनं करिष्यति ।

[३०८] तत्र बहु-महसा श्री-राम-विवहने जाते तं जातं समासतः समासां समम् एव त्वत्-कृत-विवाहम् एव वर्णयिष्यन्ति—

गो-धुङ्न्यर्बुद-गेह-गेह-बलवद्-वाद्यानवद्य-ध्वनि- प्रोल्लासित-व्रज-मण्डले दिविषदां वादित्र-चित्रे महे । आदान-प्रतिदान-दान-वचनोदारैः सदारैर् नरैर् निर्व्यूढा मुरजिद्-विवाह-पटली ज्ञाता न तत्-तद्-भिदा ॥११३॥

[३०९] तद् एवम् अङ्गीकारेण च—ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इति भवतः समाधिः समाधीयेत ।

[३१०] अत्र ये यथा इति ये यद्-इच्छयेतेत्य् एवम् एव विविक्षितम् । यतश् च साधारण-जनम् अन्वनुराग-लङ्घित-लोक-धर्म-मर्यादा-सङ्घानाम् अङ्गनान्तराणाम् अप्य् अन्तर्-वृत्तिस् तत्-तद्-गृहिणी-पद-स्पृहिणी दृश्यते । किम् उत भवन्तम् अनु सन्तत-प्रियाणां माया-मयात्ययाद् एव लब्धान्यथा-भाव-प्रायाणाम् ? [भा।पु। १०.२१.९] इति तद्-वाक्य-व्यक्त-तादृशाभिप्रायाणां स्वतस् तादृशाभिप्रायत्वे सत्य् अपि भ्रमर-गीतायाम् अपि बत मधु-पुर्याम् आर्य-पुत्रो ‘धुनास्ते [भा।पु। १०.४७.२१] इत्य् आदौ, भुजम् अगुरु-सुगन्धं मूर्ध्न्यधास्यत् कदा नु इत्य् अनेन तदीयं प्रकटं तथा स्वीकारं प्रार्थयमानानां भवद्-गृहिणी-भाव-स्पृहा-बृंहणम् इति स्थिते तथैव तद् योजयितुं शक्यत इति । सर्वेषाम् अस्माकं धैर्य-पर्यापणम् एवम् एव भवताचरिष्यते । यतः—

गतानाम् उत्पत्त्या त्वयि रतिम् अपि त्वद्-विवहनान् निरस्तानां त्वत्-प्राप्त्य्-अभिलषित-सन्न्यस्त-जगताम् । अमूषाम् उत्कण्ठा यदि हत-फला तर्हि वलतां कथं वा विश्वासस् त्वयि मुरहरास्माकम् अभितः ॥११४॥

[३११] तद् एतद् अवधाय मधुकण्ठेनामुक्त-कण्ठम् अनुसन्धीयते स्म—अहो ! तद् एतत्-पर्यन्तं फलम् आगताया भगवल्-लीलताया माधुर्य-प्रसविता । तथा हि—

प्राग्-दूर-प्रियता ततो गुरु-जन-ध्वस्त-प्रयत्नात्मता तत् पश्चाच् छ्रुति-लोक-लङ्घि-रभसाद् गुप्ता प्रियाङ्गीकृतिः । तस्माद् दूर-महा-वियोग-चिरता तत्-प्रान्तम् उद्वाहतः प्राप्तं चेन् मिथुनं मिथो हरि-रमा-रूपं सुखं किं परम् ॥११५॥ इति ।

[३१२] अथ प्रकृत-तत्-कर्तृक-कथा ।

[३१३] कृष्ण उवाच—ततस् ततः ?

[३१४] ऋषिर् उवाच—ततश् च सर्वेषां गतये दुहितुः पतये तुभ्यं कौतुकावहानि बहूनि यौतुकानि परम-धन्यां निज-निज-कन्यां च प्रस्थाप्यते । गोपाः सोपाध्यायाः सदा तदा ध्यायं ध्यायं दिवस्-पृथिव्याव् अपि स्वानन्द-समुद्र-मुद्रिते करिष्यन्ति ।

[३१५] कृष्ण उवाच—ततस् ततः ?

[३१६] ऋषिर् उवाच—तत्र च कवि-लोकानां श्लोकाव् एताव् उदेष्यतः—

यर्ह्य् आयाता व्रज-नृप-गृहं राधिकाद्यास् तदासां स्व-ज्योत्स्नाभिस् तद् अलम् अभवद् धेम-धाम-प्रकारम् । गोलोकाख्यं पदम् उदयिता यत् तु तस्य प्रकाशस् तासां श्रीणाम् अनुगत इति द्योतनं यत्र जातम् ॥११६॥ असङ्ख्य-गणन-स्नुषा-गण-निवासम् आकस्मिकं कथं व्रज-पती तदा विअदधतुस् तथा तच् छृणु । गृही इव तरुण-व्रजा यद् इह भान्ति यावत्-स्पृहं वनान्य् उपवन-प्रभाण्य् अति-सहस्र-संस्थान्य् अपि ॥११७॥

[३१७] तद् एतद् अवधाय मधुकण्ठेनामुक्त-कण्ठं पुनर् अनुसन्धीयते स्म—

[३१८] बाढंविवाहादिभिर् असङ्कोचे विरोचमान एव गोप-जातिभिर् नारीभिः सह गोपजाति-योग्य-वेश-धारिणस् तस्य लीला-नैरन्तर्यम् अपि तदोचिततया पर्यालोचितं पाद्मोत्तर-खण्डे दन्तवक्र-वधानन्तर-तद्-व्रजागमने यथा—

कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समावृते । गोप-नारीभिर् अनिशं क्रीडयामास केशवः ॥ रम्य-केलि-सुखेनैव गोप-वेष-धरो हरिः । बद्ध-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥ [Pअद्मP ६.२५२.१९-२७]

किं च—

यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपाः इत्य् आद्य् अप्य् अधियन् कयाचिद् उदितं गोपालिका-गीर् इति । भावोन्मादज-गान-नृत्य-विवशः श्री-गुण्डिचा-पर्वसु श्री-चैतन्य-तनुर् मतं स भगवान् अङ्गीकरिष्यत्य् अदः ॥११८॥

[३१९] तद् ईदृग् एव भाविनि विदग्ध-माधव-ललित-माधवाह्वये पूर्वोत्तर-नाटक-द्वये सर्व-रचनायाः परम-फलतया सर्वान्ते प्रकारान्तरेणावकल्पते—

तवात्र परिमृग्यता किम् अपि लक्ष्म साक्षाद् इयं मया त्वम् उपसादिता निखिल-लोक-लक्ष्मीर् असि । यथा जगति चञ्चता चणक-मुष्टि-सम्पत्तये जनेन पतिता पुरः कनक-वृष्टिर् आसाद्यते ॥ [Lअल्M १०.१०]

इति श्री-कृष्ण-वाक्यादिना,

सख्यस् ता मिलिता निसर्ग-मधुर-प्रेमाभिरामीकृता यामी मे समगंस् तु संस्तववती श्वश्रूश् च गोष्ठेश्वरी । वृन्दारण्य-निकुञ्ज-धाम्नि भवता सङ्गोऽयं रङ्गवान् संवृत्तः किम् अतः परं प्रियतरं कर्तव्यम् अत्रास्मि मे ॥ [Lअल्M १०.३६]

इति पूर्ण-मनोरथाङ्क-पूरक-श्री-राधा-वाक्य-पर्यन्तेन ग्रन्थेन ।

[३२०] तद् इदम् एव श्रीमद्-भगवद्-भक्ति-रसामृत-सिन्धु-निधि-रूप-श्रीमद्-उज्ज्वल-नीलमणाव् अपि सर्व-रस-परिपाटी-पूर्ति-सार-मूर्ति-समृद्धिमद्-आख्य-सम्भोगतया दर्शितम् ।

[३२१] तेषाम् उपासना-वासना चेदृश्य् एव तदीय-श्लोकेनावलोक्यते—

गोपेशौ पितरौ तवाचल-धर श्री-राधिका प्रेयसी श्रीदामा सुबलादयश् च सुहृदो नीलाम्बरः पूर्वजः । वेणुर् वाद्यम् अलङ्कृतिः शिखि-दलं नन्दीश्वरो मन्दिरं वृन्दाटव्य् अपि निष्कुटः परम् अतो जानामि नान्यत् प्रभो ॥ इति ।

[३२२] अथ पुनः श्री-कृष्ण-नारद-संवादं मधुकण्ठः कण्ठतः प्रकटयामास—

[३२३] ऋषिर् उवाच—तद् एवं मास-द्वितये सर्वेषाम् एव परमानन्देन लब्ध-व्यत्यये दत्त-व्रजोद्धवः कदाचिद् भवान् रामोद्धवाभ्यां समं सम्मन्त्र्य श्री-व्रजमहेन्द्रादीन् परम-गौरवाद् आमन्त्र्य निवेदयिष्यति—अधुना यद्य् आज्ञा राज्ञाम् आज्ञायेत । तदा स्यन्दनोऽयं सदारुको द्वारकां विन्देत ।

[३२४] अथ परम-हृदयालुतामय-दयालुर् असौ श्री-व्रज-राजस् तु वक्ष्यति—यथा तत्र श्रीमद्-भ्रातृ-प्रभृतीनां भृति-भुक्-पर्यन्तानां दुःखं न स्यात् तथा च प्रथनीयम् ।

[३२५] भवान् वक्ष्यति—सर्वथा सर्वेषाम् आदृत्यास् तत्र-भवतां भृत्यास् तत्र प्रद्युम्नादयः प्रद्योतन्त एव । तथापि भवताम् अपूर्तिश् चेत् तदा भवद्-आराधन-शतयास्मन्-मूर्ति-व्यूहम् अपि तत्र नारायणः पारयिष्यति ।

[३२६] पुनर् व्रज-राजो वक्ष्यति—रोहिणी-रामवद् अयम् उद्धवश् चास्मद्-एक-सम्पद्-उद्धवस् तस्माद् अयम् अपि तथाचरणीयः ।

[३२७] भवान् वक्ष्यति—यत्र भवद्-इच्छा, तद् वा किं न सेत्स्यति ? किन्त्व् आज्ञान्तरं ज्ञापय ।

[३२८] व्रजराजो वक्ष्यति—जैवातृक ! भवताम् अक्रूरादि-रचितेनातिचिरं भवता विरहेण चिराय तर्व्-अन्तिमः सर्व एव जीवः सुष्ठु दुर्जीवनम् अवापि । ततो न किम् अपि प्रत्येति । ततस् त्वद्-विरह-परिहाराय नान्य-जन-लोचन-गोचरः स्याम् इति प्रार्थयते । ततो निःशलाकम् आलय-विशेषं संश्लेषय ।

[३२९] भवान् वक्ष्यति—हन्त ! वृन्दावन एव तादृशं प्रकाश-वृन्दं वर्तते । यत् खलु ब्रह्म-ह्रदे निमज्ज्य पुनस् तस्माद् उन्मज्ज्य च भवद्भिः पूर्वम् अप्य् अपूर्वं दृष्टम् अस्ति । शताङ्गस्यास्य कामङ्गामितया तत्-प्रवेशितापि प्रतिवेशीयते । ततो यथाज्ञाप्यते प्राज्ञानां राज्ञा ।

[३३०] व्रज-राजो वक्ष्यति—वत्स! तद् एव प्रच्छन्नं वनं गच्छामः ।

[३३१] ततः स-प्रतिश्रव-श्रवणं भवान् वक्ष्यति—यथा महेच्छानाम् इच्छा तथैव सेत्स्यति । पुनश् च तिर्यग् अवेक्ष्य पार्श्व-लक्ष्यं दारुकम् आदेक्ष्यसि—सारथे! तथा रथं प्रथय, यथा सर्व एव व्रजस् तत्रान्तर्-भवंस् तद्-धाम प्रविशंश् च धाम-ग्रामतः स्वर्-वासिनाम् अपि दृग्-आरामतां नासीदति ।

[३३२] अथ तेन सूतेन तु तथाकृत-प्रथे रथे सर्व एव व्रज-प्राणि-व्रजः स्वैरं निव्शमानस् तं देशं प्रविवेश ।

[३३३] तद् एवं सति—

उत्सर्पज्-ज्योतिर्-आली-विभव-वशतया तं रथं तूर्ध्व-भाजं चर्माक्षा मेनिरे तर्ह्य् उपरिगततया तत्-पदोपासकाश् च । कृष्ट्वा ब्रह्म-ह्रदात् प्राग् अपि मुरजयिना लम्भिता गोमिनो या तां वृन्दारण्य-मध्ये गतिम् इह सुगतास् तद्विदश् चार्व् अपश्यन् ॥११९॥ तत्र पर्जन्य-वर्याश् च ये गताः प्राग्-अदृश्यताम् । द्रक्ष्यन्ते तेऽपि तत्रैव तद् आश्चर्यं भविष्यति ॥१२०॥

ततश् च—

वृन्दारण्ये स-कल्प-द्रुम-विविध-लता-मञ्जु-कुञ्जादि-धन्ये घोषे चिन्तामणीन्द्र-प्रथित-निलयता-चित्त-वृत्ति-प्रमोषे । रामाद्यैः काम-धुग्-गव्य्-अनुगति-कुतुकी लक्ष-लक्ष्मी-प्रकार- श्री-गोपी-प्राण-सारः स जयति नितरां गोप-गोप्तुः कुमारः ॥१२१॥

[३३४] अथ स्निग्धकण्ठ उवाच—ततस् ततः ?

[३३५] मधुकण्ठ उवाच—तद् एवम् अन्यं च वृत्तान्तं वर्णितवान् । श्रीमान् व्रज-सुख-वर्षी देवर्षिश् च परस्परं हर्षितां प्रपन्नः स-बाष्प-रोमहर्षाधिभिः सम्पन्नः स्निग्ध-संवाद-विच्छेदतः परिखिद्य शनैर् एव च विच्छिद्य स्व-स्व-वर्मानुवर्तते स्म । श्रीमद्-व्रजेन्द्र-नन्दनस् तु तत्-कथा-पर्यन्तानन्देन पर्याप्तः सर्वं तद्-दुःख-जातम् आच्छन्नताम् आपन्नम् एव चकार । तत्र भगवन्तः श्री-देवर्षि-चरणा यद्-यद्-भावितया समुद्भावितवन्तस् तत् सर्वम् अभूद् एव ।

[३३६] तद्-अनन्तरम् अपि यथा व्रजस्य राज्ञानुज्ञापितम् । तथा वासुदेव-प्रसादाद् वसुदेव-प्रवीणानां तद्-वर्त्म-वीक्षादीनानां दारुक-कथित-तत्-तद्-वृत्ताभोग-भोग-पीनानां स्वल्प-कालताम् आपकम् आयाधीनानां तद्-आगमनाशया बहिर् एवासीनानां तद्-इष्ट-सिद्धिर् इन्धाम्बभूवेति ।

[३३७] तद् एवम् आकर्ण्य सर्वेऽपि सभासदः प्रोचुः—ततस् ततः ?

[३३८] मधुकण्ठ उवाच—ततश् च सर्व-सुखारामाभ्यां श्री-रोहिणीम् आभ्यां गोपोचित-वेषाद्य्-अभिनिवेश-लब्ध-सखि-गण-प्रवेशोद्धवेनोद्धवेन च सार्धम् अस्मिन्न् एव गोलोक-नामके परम-दुरवलोके लोके परम-विभववतां भवतां मध्ये विभवन्न् एव सोऽयं विराजते ।

[३३९] पुनः सर्वेऽप्य् ऊचुः—ततस् ततः ?

[३४०] मधुकण्ठ उवाच—ततश् च सर्वतः प्रसरद्-अमन्द-भवद्-आनन्द-कल्लोल-लोलन्-मनस्तया वयम् अप्य् आगम्य भवद्-भवदीय-कृपा-मात्र-गम्यं रम्यं वास-वर्यम् अजर्य-सङ्गमम् आसादयाम ।

[३४१] श्री-व्रजराज उवाच—कथं कथम् इति कथ्यताम् ।

[३४२] मधुकण्ठ उवाच—पूर्वं तावद् अस्मदीयानां दुष्प्रारब्ध-वशाद् अद्य श्वश् चिचलिष-यात्रासु यात्रायां विलम्बनम् आसीत् । तत्र च सति श्रीमद्-व्रज-प्राणस्य यदुषु सङ्क्रमणम् अवकर्ण्य प्राण-वियोजनम् इवासीत् । चिराय तु व्रजे तत्-प्रति-सङ्क्रमणं चाकर्ण्य सद्यश् चलितुम् उद्यमे कृत-प्रक्रमे तद्-अनुगत-व्रज-जनस्य तस्य मर्त्य-लोक-पथाद् अन्तर्धानम् अवधार्य वारिधि-प्रवेशम् उद्यच्छतां दया-वर्षि-देवर्षि-चरणाचरित-निदेशम् उपनिषत्-कृत्य जीविकाकृत्य च श्री-वृन्दावनागमनं जातम् । जाते चागमने तत्-तत्-पदं कृष्ण-रूप्य-क्रीडास्पदतया निरूप्य मूर्च्छानन्तरं जागरम् ऋच्छताम् अस्माकम् अकस्माद् अत्रानुप्रवेशः कथं जात इति न यथातथ्यं प्रथयितुं शक्यते स्म ।

[३४३] सर्वे साश्चर्यम् ऊचुः—ततस् ततः ?

[३४४] मधुकण्ठ उवाच—ततो भगवच्-चरण-राजीव-लोकनतः पुनर्-जीवन-लाभोपक्रमेण क्रमेण च भवद्-उपसेवनाय श्री-गोपाल-पूर्व-चम्पूं सम्पूर्णयन्तस् तद् इदं सुदिनाहम् आसीदामेति किंवान्यत् कथनीयम् ?

[३४५] तद् एतद् उक्त्वा समापनम् इदं पद्यं निगद्य पणायति स्म—

सोऽयं गोपेन्द्र पुत्रस् तव महित-महीयःसु शश्वन्-महीय्यस् त्वन्-नाना-बन्धुतानाम् अपि विविधतया बन्धुता-बद्ध-बुद्धिः । यस्माल् लब्धा भवन्तः शिव-कमल-भवाद्यन्तर-ध्येय-वर्गाद् दूरं धाम प्रभावं विभवम् अपि महा-प्रेम-माधुर्यम् अत्र ॥१२२॥

[३४६] तद् एतद् उक्त्वा भ्रातरं प्रत्य् उवाच—

गोपाल-यशसा स्पृष्टं यन् मृष्टं सूत-जन्म च ।

तत् तु स्पर्श-मणेर् जातं जात-रूप-मयोऽपि नः ॥१२३॥

तथा हि—

अत्र श्री-व्रज-राज-राजित-सभा-मध्ये क्रम-ध्येयता- साध्ये श्री-हरिर् एष राम-सहितः प्रत्यक्षताम् आगतः । तत्रापि स्व-कथा-प्रथां कथयितुं नः सम्यग् आदिष्टवान् कारुण्यं किम् अथास्य वर्ण्यम् असकृत् पुण्यं च किं नः सखे ॥१२४॥

[३४७] तद् एवं श्री-व्रजदेव-कुमार-सुकुमार-मुखम् अभिपश्यन्न् अङ्कुरवत्-पुलक-कुल-सङ्कुल-कलेवरता-बलेन पुनर् अर्जुनताम् अर्जयन्न् इव ततश् च स्तम्भ-सम्भ-जनम् अतिगम्भीर-कम्प-सम्पत्-सम्पतन-साम्प्रततया लुम्पन् पतन्न् इव पुनश् च निर्निमिषता-निर्मित-सुपर्वताम् आत्मनि पर्वन् पूर्वावस्थाम् अवस्थापयन्न् इव समनन्तरं च लब्ध-प्रपञ्च-नव-नव-दल-वलय-वलित-वल्गु-पुट-शोभालोभाकर-कर-सम्पुटम् अनून-बाष्प-नव्य-दिव्य-प्रसून-पूर्णंअ कुर्वन्न् उपसंहरन्न् इव स-स्निग्धकण्ठः स मधुकण्ठः पूर्ववद् एव पूर्व-देव-मात्रा-रुचि-करंवरं वरयामास—

वाणी कंसरिपो तवानुकथनं कर्णौ कथा-कर्णनं हस्तौ सन्तत-सेवनं हृदयम् अप्य् उत्कण्ठया धारणम् । शीर्षं गोकुल-वस्तु-मात्र-नमनं दृष्टी समस्त-व्रज- प्रेष्ठानां स्थिति-वीक्षणं च भजतां नौ नैव तत्-तद्-बहिः ॥१२५॥

[३४८] तद् एवं लब्ध-भक्ति-प्रपञ्चं तं च तं च कुञ्चन्-मनसं भूयो भूय आहूय प्रमद-व्रज-विराजमानः श्रीमान् व्रजराजः सभाजन-भाजनतया निज-समीपम् आपयामास, समुपवेशयामास च । तेन च सर्वम् अपि समाजं शर्मणा भ्राजयामास ।

ततश् च—

पुण्ड्रं पूर्वाङ्ग-चर्चा निज-मणि-वलितालङ्कृतिर् दिव्यताम्बू- लाग्र्यं प्राग्य-स्व-वस्त्र-व्रततिर् इति बहु स्वात्मनैवोपयुज्य । गन्त्र्यो वाहाः समन्तात् परिजन-जनताः स्पृह्य-गृह्यादिवस्तून्य् एतान्य् अन्यैः समर्प्य द्वयम् अभिहितवान् श्रील-गोलोक-राजः ॥१२६॥ अद्यारभ्यानुपाल्येत लाल्येन भवतोर् द्वयम् । अस्य मात्रा तथा माता तद्वत् पित्रा मया पिता ॥१२७॥ जय-ध्वनि-युतास् तदा ववृषुर् उद्धताः सद्-धनं यथा बत सदः-सदस्तद् अवगाह्य बाह्यं गृहम् । तथान्तर-गता यतश् चपलम् एव तत्-पूरितं स्थलं किल कृत-क्रियं व्यसृजद् आत्म-लब्धान् जनान् ॥१२८॥

[३४९] तद् एवं कथा-सातौ दत्त-सातौ मधुकण्ठ-स्निग्धकण्ठौ सदैव लब्ध-कृष्णोपकण्ठौ च तद्-विलास-विलोकनोत्कण्ठौ प्रतिक्षणम् अमन्द-परमानन्दम् अनुविन्दमानाव् एव विराजेते ।

[३५०] अत्र पूर्वम् आपाततः सुदुर्बोधताशङ्कया यद्यपि न वर्णितास् तथाप्य् अस्यां श्री-गोलोक-कृत-प्रभायां सभायां शान्त-वेशतया पुरोधसां मध्य-सम्बध्यमानासनः सुखाकृत-सर्व-स्वजनः सर्वेषाम् अग्रण्यः श्रीमान् पर्जन्यः पर्जन्य इव सर्व-सुखं वर्षन्न् आसीत् । वरीयसी वरीयसी चान्तः-सभायां तथा लब्ध-प्रभा समवर्तत । श्रीमान् उद्धवश् च सर्वेषाम् उद्धव एवाजनीति सर्व-जनीनं सुखं कियद् वर्णनीयम् ?

[३५१] रहस्यं पुनर् इदं रस्यमानं विधीयताम्—

वृन्दारण्याभिधाने सरसि सरसिज-श्रेणि-लक्ष्मीषु गोपीष्व् एका राधाभिधा सा विभवति सततः दिव्य-सौगन्धिक-श्रीः । भ्राम्यन् याम् एव लब्धुं व्रजपति-तनयश् चावर्मूर् वर्तम-वृत्तीः सर्वा निर्माय यस्याम् अलिर् इव कलया केलिम् उच्चैस् तनोति ॥१२९॥

—ओ)०(ओ—

श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥१॥ संवत्-पञ्चक-वेद-षोडश-युतं शाकं दशेष्व् एक-भाग्- जातं यर्हि तदाखिलं विलिखिता गोपाल-चम्पूर् इयम् । वृन्दा-काननम् आश्रितेन लघुना जीवेन केनापि तद् वृन्दा-काननम् एव सम्भृति-कलां धत्तां समन्ताद् इह ॥२॥ प्रायः सर्वा हरेर् लीलाः क्रमशः सूचिता मया । यथा-स्वं लब्ध-रुचिभिर् उपास्यन्तां महात्मभिः ॥३॥

इति श्री-श्री-गोपाल-चम्पूम् अनु

सर्व-मनोरथ-पूरणं नाम

त्रयस्त्रिंशं पूरणम्

॥३३॥

कैशोर-विलासः सम्पूर्णः ।

सम्पूरिता चेयं श्री-श्री-गोपाल-पूर्व-चम्पूर् इति ।


  1. Tहिस् तेxत् इस् द्रwन् प्रिमरिल्य् फ़्रोम् Pउरि Dअस्ऽ एदितिओन् (१९४७)। ↩︎

  2. Tहे त्wओ लत्तेर् लिनेस् अरे अल्सो फ़ोउन्द् अत् थे एन्द् ओफ़् GC (उत्तर-चम्पू ३७व्५५)। ↩︎

  3. Tहिस् इस् नोत् इन् अन्य् रेचोग्निज़ब्ले मेत्रे। Pरोबब्ल्य् एदितोर्ऽस् मिस्तके। ↩︎

  4. अयं श्लोकः हरिवंशे प्राप्यते (२.७.२९) । ↩︎

  5. Cओम्परे भा।पु। १०.१५.४२, wहिछ् इस् फ़ोउन्द् इन् थिस् वेर्सेऽस् प्लचे इन् सोमे एदितिओन्स्। ↩︎

  6. व्रजन् (घ) ↩︎

  7. रेमे, वल्लभ, गीता प्रेस्स् ↩︎

  8. Tहिस् वेर्से दोएस् नोत् अप्पेअर् इन् च, घ। ↩︎

  9. Tहिस् वेर्से इस् मर्केद् अस् अ क़ुओते इन् Pउरि Dअस्ऽ एदितिओन्, बुत् I हवे नो एविदेन्चे थत् इत् इस् इन्देएद् सो। ↩︎

  10. Tहिस् वेर्से इस् रेपेअतेद् इन् Uत्तर-चम्पू, ३१.४३। ↩︎