द्वादशः स्तवकः
अथ यदहरेवारभ्य तादृशसङ्कल्पलतासङ्कल्पलताकुसुमसुमनोहराणामासामासादितसामञ्जस्योऽव्यापारोऽपारोत्कण्ठया समजनि, तदहरेव विशिष्ट-पतिलाभेन हृदयशङ्कुलबालानां शङ्कुलबालानां समुचितमिति विचारयन्तौ तासां प्रत्येकं मातापितरौ मा तापितरौ बभूवतुः । प्रत्युत तदनुकूलव्यापार-पारणाये कुशलिनावास्ताम् ॥१॥
द्वादशे यस्य सङ्गायानचु रार्यां कुमारिका ।
स तासां परिधानीय-वासांस्यप्य् अहरद्धरिः ॥
तादृशः सङ्कल्पः गोपनाथतनयः पतिर्नो भूयात् इत्य् उक्त-लक्षणः, स एव लता, श्लोएषात् परम्परित-रूपेण सङ्कल्पलतैव सम्यक् कल्पलता वाञ्छितार्थ-सढक्त्वात्, तस्याः कुसुमैर् भाविफलद्योतकैर् लक्षण-विशेष्यैः सुष्ठु मनोहराणां प्राप्ताश्वासतया स्तिमित-चित्तत्वेन लोकैर् लक्ष्यमाणानाम् इत्य् अर्थः । कुसुम-सुमन इति पुनर् उक्तवदाभासालङ्कारोऽयम् । तद् अहरेविति काल-कर्मणि द्वितीया । विशिष्ट-पतिलाभेन कुल-बालानां कुल-कन्यकानां समुचितं शं सुखम् इति विचारयन्तौ सत्नौ हृदये शङ्कुला औत्कण्ठ्य-लक्षण-कील-ग्राहिण्यश् च ता बालाः प्राप्त-प्रप्थम-कैशोरावस्थाश् चेति तासां माता-पितरौ जननी-जनकौ मा तापितरौ नातिशयेन तापवन्तौ वभूवतुर् इत्य् अन्वयः । मत्वर्थकेणि-प्रत्ययान्तात् तरप् प्रत्ययः । पारणायै पार-प्राप्तये, पारतीर कर्म-समाप्तौ इति धातोः ॥१॥
तथा सति तासां मात्रा मात्राधिकेन स्नेहेन “परमरमणीया ते तनुव्रतती व्रततीक्ष्नतां सोढुमसाम्प्रतं साम्प्रतं कथमेतादृशमुत्साहमुत्साहमुत्साहसेन दधत्या दुष्करं कर्म कर्मठताशून्यतयानन्यतयानधिकारिण्या त्वया करिष्यते” इति प्रत्येकं प्रतिसिद्धानामद्धा नाम श्रद्धा शुद्धाशु वरीवृद्ध्यत एव स्म ॥२॥
किं च, तासां प्रत्येकं मात्रा जनन्या मात्राधिकेन परिमाणाधिकेन स्नेहेन प्रति-सिद्धानाम् अप्य् अद्धा नाम श्रद्धा वरी वृध्यते स्मैव, अतिशयेनावर्धत एव । मात्रा कर्ण-विभूषायां वित्ते माने परिच्छदे इति मेदिनी । तत्-प्रतिषेध-वाक्यम् आह—परमेत्यादि । ते तव तनुव्रतती देहलता व्रतस्य तीक्ष्णतां तज् जनितं दुःखं सोढुम् असाम्प्रतम् अयोग्या, अतएव साम्प्रतम् इदानीम् एतादृशीं निज-तत्-प्रौढि-लक्षणां मुदं हर्षं सहते इति कर्मण्यण्, तादृशम् उत्साहम् अध्यवसायम्, उत्साहसेन उच्चैः साहसेन दधत्या धारयन्त्या त्वया दुष्करं कर्म कथं करिष्यते ? दुष्करते हेतुः—कर्मठता-शून्यतया व्रते तव कर्मठता न लक्ष्यते इत्य् अर्थः । तत्राप्य् अनन्यतया पूर्व-पूर्वाभिर् ईडृश-व्रतस्यानाचरणाद् इति भावः । अतएवानधिकारिण्या ॥२॥
ततश्च तासां मातरः पप्रच्छुः—“पुत्र्यः! किमुमा, किमुमाधवः, किमु माधवः, किं कमला कमलासनो वा, का देवता वताराधनीया भवतीभिः, कीदृशं वाराधनम्, धनं वा कियदुपयोगि, कोऽत्र वाचार्यो वाचार्यो विहित इत्यखिलं विचार्य नः कथयत” इति ॥३॥
ततश् च तासां तन् निश्चय-दार्ढ्य-ज्ञानानन्तरम्, उमा गौरी उमाया धवः शङ्करो माधवो लक्ष्मी-कान्तः, कमला लक्ष्मीः कमलासनो ब्रह्मा, बत अनुकम्पायाम्, उपयोगिनैवेद्यादावित्य् अर्थः । आचार्य उपदेष्टा । कीदृशः ? वाचा वेदादि-मन्त्र-वाक्येन1 आर्यो विज्ञः ॥३॥
तासां निगदिते विदिते वितर्कनिराशाय स्व-तात्पर्यपर्यवसानस्य ता अपि सविनयमूचुः—“जननि! जननियमोऽयमेव—यत्र यावद्यस्य श्रद्धा बद्धा बहुतरा भवति, सा तस्य तावदेव देवता, तेनेह तेनेऽहमुमामेव देवतां मन एवाचार्यं चार्यं तदुपदिष्टं दिष्टं नस्तथाविधं जनयिष्यते, नयिष्यते च पारमध्वनः, तेन गुरुणा स्वप्नेनास्वप्नेनादिष्टो मन्त्र एव नोऽर्थसाधकः” इति ॥४॥
इति तासां मातॄणां निगदिते भाषिते विदिते ज्ञाते सति ताः पुत्र्योऽपि ऊचुः । कथम् ? स्वेषां यात्पर्यस्य यत् पर्यवसानां पतिभावेन श्री-कृष्ण-सङ्ग-प्राप्ति-रूपं तस्य यो वितर्कस् तन् निरासाय प्रत्युत्तर-प्रदानं विना सशङ्काभिर् मातृभिः सदा दृढानुसन्धान-पराभिस् तद् अपि कदाचिद् वितर्क्येतैव वेत्य् अर्थः । ता ऊचुर् इति—तासु एकस्या मुख्यायाः, एक-वचनेऽपि बहु-वचनं सर्वासामैकमत्यात् । अतएवाग्रे तेन इत्य् एक-वचनम् अपि । यद् वा, स्व-स्व-मातरं प्रति ता एकैकश ऊचुर् इति । अतएव हे जननि इत्य् एक-वचनम् । तेन हेतुना इह उमाम् एव देवताम्, अहं तेने सकामार्चने विस्तृतवत्य् अस्मि, लिडादीनां भूतसामान्ये एव भूरि-प्रयोग-दर्शनान्नात्र परोक्षापरोक्ष-विवेकः । आचार्यं च आचार्यम् अपि मन एव आर्यं श्रेष्ठं तद् उपदिष्टं तसोपदेश एव नोऽस्माकं तथा-विधं दिष्टम् अदृष्टं जनयिष्यते, तच् चाध्वनो व्रत-रूपवर्त्ऽमनः पारं फल-स्थानं नयिष्यते नेष्यति, नय प्रापणे इत्यात्मनेपदिनो रूपम् । तेन मनो-रूपेण गुरुणा मन्त्रः स्वप्नेन आदिष्टः । ननु स्वप्नः स्वप्नोपम एवाप्रामाण्यात् ? मैवम्, अस्वप्नेन जागरण-निर्विशेषेणेत्य् अर्थः । यद् वा, अस्वप्नेन जागरणेन चाकस्माद् एव हृदि स्फुरणाद् इति भावः ॥४॥
ततश्च ताभिरनिवर्त्यानां तासां तदेव निर्धार्य धार्यमाणोत्कलिकयालिकया कृतानुकूल्यानां शुभेऽहनि हनिष्यमाणान्तराये हृत्प्रमोदरससन्दोहविष्यं हविष्यं समारभ्य कृतव्रतोद्यमानां बभूवुस्ताम्बूलाभावेन स्वभावभाबहुलतया वर्षाजलधौतानि नवाशोकदलानीव दशनवसनानि, प्रत्यहमभ्यङ्गमभ्यङ्गराहित्येन परुषतया केतकीदलपाण्डुराण्यङ्गकानि, तथा निःस्नेहतयाहतया निर्विण्णजनमनांसीव रूक्षाणि चिकुर-निकुरम्बाणि तथा सकृददनतयानतया तनवोऽपि तनवोऽपिहितरुचोऽद्वितीयाया द्वितीयायाः शशिकलायाः सौभाग्यहारिण्यो हारिण्योऽपि यदि पुनरजनि रजनिविरामस्तदा भूशयनाः शयनादुत्थिताः सत्यः कृष्णाशया शयालुता-विरहेण विकषाकषायवदरुणनयना नयनादिधावनं विधाय रागानक्तं नक्तन्तनवसनं निरस्य रस्यतमं वसनान्तरं परिधाय विगतवैकल्यं प्रतिकल्यं प्रतिपत्स्यमानयमुनाप्लवप्लवमानमानसाः समनन्तरमनन्तरहसा पूर्वसंवादेनाकारणकारणाभावेऽपि मिलित्वा “आलि! त्वामपेक्ष्य वर्तामहे महेच्छे त्वरितमेहि” इति विलम्बमानां प्रति प्रतिपद्यमानमाननागिरः, तदनु परस्परपरमप्रेम्णेव विषक्तविसलतावलिवलितललित-लक्ष्मणा धरणितलसञ्चारिचारिमभरप्रगाढाः कमलिन्य इव, इतरेतरतरलशाखाशाखाकमनं किञ्चन काञ्चनकान्तलतोद्यानमिव जङ्गमं, निजनिज-चपलतावलेपलेपनाय परस्पर-गुम्फनक्षणप्रभाः क्षणप्रभावितभूतलावताराः क्षणप्रभा इव गृहीतभुजवलया, वलयावलिनिनद-निर्जितमदकलकलविङ्कझङ्करणमान्दोलितकराः करालतरतरणिकिरणैर्यथा कमलिनीमलिनीभावो न भवति, तथाहरहरतिजरीजृम्भ्यमाणकृष्णतृष्णापरिभवेनापि विलसन्मुख्यो, मुख्योत्तमकल्पकल्पनासम्भृतदेवीपूजासम्भारभारमणीयपाणिभिरनुचरीभिरनुगम्यमानाः, चतुर्मुखमुखलेखलेखामुख-मुखरित-हरिगुणगुणनझङ्कारकारण-दरविवृतमुखकमलामोदप्रमोद-प्रपतदलिकुलातिरेकरेकणकणत्कूणनकमनीयनयनाञ्चलं भविकविकस्वरस्वरसौभाग्यं परिवादिनीपरिवादि नीरन्ध्रमृदुलतरं गायन्त्यो लघुतरम्, तमोनुद्यनुद्यति तिमिरनुदोऽपत्यतायामपि तिमिरधाराधारायमाणायाः सकलतापोपशमनानुजातायाः शमनानुजातायाः रोधो रोधोपशमपूर्वमेव समाजग्मुः ॥५॥
ताभिर् मातृभिर् अनिवर्त्यानां व्रतान् निवर्तयितुम् अशक्यानां तासां कुमारीणाम् उत्कलिकयोत्कण्ठयालिकया सानुकम्प-सख्या हनिष्यमाना नष्टीकरिष्यमाणा अन्तराया विघ्ना येन, तथा-भूतेऽहनि हृत्-प्रमोद-रसानां सन्दोहस्य सन्दोहे वा या विड् व्याप्तिः, विषॢ व्याप्तौ तस्यां साधुः, साध्वर्थे य-प्रत्ययः । स्व-भावेनैव भा-बहुलतया कान्ति-बाहुल्येन ताम्बूल-रसानावृतत्वाद् अत्य् अरुणिमोद्गमाद् इति भावः । अभ्यङ्गम् अङ्गं लक्ष्य्मी-कृत्या भ्यङ्ग-राहित्येन तैलाभ्यञ्जनाभावेन । निःस्नेहतया निष्म्प्रेमतया निस् तैलत्वेन च । कीदृश्या ? वैराग्य-सिद्ध्यर्थम् व्रतस्य साङ्गता-सिद्ध्य् अर्थं चाहतया भ्रमाद् अप्य् अनष्टया । अत्र यद्य् अपि तासाम् अङ्गानि केशाश् च तैलाभ्यङ्गाभावेऽपि स्वभावाद् एवातिस्निग्धानि, तद् अपि प्रेमवतां द्रष्टृजनानां रूक्षतासम्भावनयैव रूक्षाण्युक्तानि, यथा पुत्र-देहं पुष्टम् अपि पश्यन्त्या मात्रा मत्-पुत्र-देहोऽयं क्षुधा क्षाम इति सम्भाव्यते । सकृद् अदनतयेति कर्तरि ल्यु-प्रत्ययान्ताद्-भाव-प्रत्ययः पुंवत्त्वम् । कीदृश्याः ? अनतया पूर्ववद्-दृढ-तयेत्य् अर्थः । तनवोऽपि देहा अपि तनवः कृशाः, अपिहित-रुचश् छन्नकान्तयः, यद् वा, भागुरिमतेनाकारलोपे नञा अनाच्छन्न-कान्तयः श्री-कृष्ण-सङ्ग-प्रप्त्याशावलाद् इति भावः, किंवा, तनवोऽपि कृशा अपि तनवो हितरुचः कृष्णाङ्ग-सङ्गमोपयोगि-कान्तय इत्य् अर्थः अद्वितीयाया एकस्या एव द्वितीयायास् तिथेः सम्बन्धिन्याः शशिकलायाः सौभाग्य-हारिण्यः, सर्व-जन-कारुण्य-जनक-कार्श्याद् इति भावः । अद्वितीयाया इति तस्या द्वीतीयातिथि-साहित्ये किञ्चित्-कला-पुष्टिः सम्भवेद् इति हारिण्योऽपि हारवत्योऽपि हारकान्त्या सद् वितीयापि अद्वितीया-शशि-कलायाः सौभाग्य-हारिण्य इति विरोधः ॥
एवं व्रतिनीर्वर्णयित्वा तच् चेष्टा विवृण्वन् आह—यदीति । रजनि-विरामो यद्य् अजनि जातस् तदा शमनानुजाताया यमुनाया रोधः पुलिनं समा-जग्मुर् इत्य् अन्वयः2 । शयालुता स्वाभाविकी निद्रा, तद् विरहेण विकसा मञ्जिष्ठा, मञ्जिष्ठा विकसा जिङ्गी इत्य् अमरः, तस्या रागेण रक्तिम्ना अनक्तं न म्रक्षितम्, श्वेतम् इत्य् अर्थः । रस्यतमं साधव्य-सौभाग्य-व्यञ्जकम्, अरुणादि-वर्णम् इत्य् अर्थः । प्रतिकल्यं प्रति-प्रातः प्रति-पत्स्यमानेन भाविना यमुनायाम् आप्लवेन स्नानेन प्लवमानम् आर्द्रीभवन् मानसं यासां ताः, अनन्तर-हसातिगोप्येन रहोऽतिगुह्ये सुरते इति विश्वः । पूर्व-संवादेन पूर्वदिन-सायं-समये संहत्य श्वः प्रातर् एवं करिष्यामहे इति सङ्केतेनैव हेतुना आकारण-कारणाभावेऽपि आह्वानहेत्वभावेऽपि सति, हूतिर् आकारणाह्वानम् इत्य् अमरः । मिलित्वा सम्मील्य, हे आलि ! हे सखि ! परस्परं गृहीत-भुज-वलयाश् चलन्तीस् ता उत्प्रेक्षते । परस्परं यः परमः प्रेमा तेनैव विषक्ताः परस्परं मिलिता विसलतावलयो मृणाल-लता-श्रेणयस् ताभिर् एव वलितं यल् ललितं लक्ष्म चिह्नं तेन कमलिन्य इव । किं च, धरणि-तले सञ्चारिण्यश् च ताश्चारिमभरेण चारुत्वातिशयेन प्रगाढाश् चेति तथा-भूता इत्याश्चर्यम् । अत्र सावर्णानुपलम्भ इति पुनर् उत्प्रेक्षते—इतरेतरं तरल-शाखानां यः शाखो व्याप्तिः, शाखृ व्याप्तौ घ्ञन्तः, तेनाकमनं सम्यक् शोभनं किञ्चनाद्बुतं काञ्चनस्य कनकस्य लतोद्यानम्, अत्रापि जगत् तमो-हरण-परम-चमत्कारि-प्रभा-निवहालाभ इति पुनर् अप्य् उत्प्रेक्षते—निज-निज-चपलतायाः प्रति-स्व-चापल्यस्यावलेपेनाहङ्कारेण लेपनाय प्रलेपार्थं परस्परं प्रसञ्जनार्थम् इति यावत्, परस्परं गुम्फिन्यः परस्पर-ग्रन्थन-पराः क्षण-रूपा उत्सवमय्यः प्रभा यासां ताः, क्षणाद् एव प्रकर्षेण भावितः कृतो भूतलेऽवतार आविर्भावो याभिस् तथा-भूताः, क्षण-प्रभा इव विद्युत इव । वलयावलिनिनदेन निर्जितं मद-कलस्य मत्तस्य कल-विङ्कस्य चटकस्य झङ्करणं झङ्कारो यत्र तद् यथा स्यात् तथान्दोलितकराः । कृष्णस्य तृष्णा-रूपेण परिभवेनेतिसोऽपि कृष्णेनैव प्रयुक्तः कटुतर-स्वतेजो-विशेष एवेति दृष्टान्त-सङ्गतिः । मुख्या या उत्तम-कल्पस्य कल्पना, तथा सम्भृता ये देवी-पूजा-सम्भाराः पुष्प-धूप-दीप-नैवेद्यादयः, तेषां भा कान्तिस् तया रमनीयाः पाणयो यासां ताभिः । चतुर्-मुखो ब्रह्मा, तन् मुखास् तदादयो लेखा देवास् तेषां लेखाः श्रेण्यस् तासां मुखैर् मुखरिता ये हरिगुणास् तेषां गुणनं कीर्तनामन्त्रणं तस्य झङ्कार-कारणाज् झङ्कार-हेतोर् दरमीषद्-विवृतं यन् मुख-कमलं तस्यामोदान् निर्गच्छतः सुगन्धाद् धेतोः प्रमोदेन प्रपतताम् अलिकूलानाम् अतिरेकात् रेकणं शङ्का तेन हेतुना कणत् प्रकाशमानं कूणनं सङ्कोचस् तेन कमनीयं नयनाञ्चलं यत्र तद् यथा स्यात् तथा, रेकृ शङ्कायाम्, कणी दीप्तौ, कूण सङ्कोचे इति धातवः । भविकं मङ्गलमयं विकस्वरस्य स्वरस्यापि सौभाग्यं यत्र तद् यथा स्यात् तथा । परिवादिनी वीणा, ताम् अपि परिवदितुं तिरस्कर्तुं शीलं यस्य तद् यथा स्यात् तथा, नीरन्ध्रं निविडं च तत् मृदुलं कोमलं चेति तत्, गान-क्रिया-विशेषण-पञ्चकम् । तमोनुदे सूर्ये अनुद्यति न उदयति सत् शमनानुजाताया यमुनाया रोधः पुलिनं समाजग्मुः । रोधः स्नेहात् पित्रादिकृत-वारणं तद् उपशम-पूर्वकम् । शमनानुजातायाः कीदृश्याः ? तिमिरं नुदति दूरीकरोतीति तिमिरनुत् सूर्यः, तस्यापत्यतायां सत्याम् अपि तिमिर-धाराया आधारोऽधिकरणं तद् वदाचरन्त्याः, सकलानां तापानाम् उपचमनम् अनु पश्चाज् जातं स्नानाद्यनन्तरोत्पन्नं भवति यतस् तस्याः ॥५॥
सा च तरङ्गिणी रङ्गिणीव तासां श्रीनन्दनन्दनं पतित्वेन लब्धुमिच्छूनां मिच्छूनां श्रद्धामद्धा महतीमालोक्य सबहुमानमागच्छतागच्छतेति तरलतरतरङ्गकरैरालिलिङ्गिषुरिव तत्तत्चरणसञ्चरणरणत्कलहंसक-शङ्करणकोलाहलैर्झटिति झटिति कृत्वा समुड्डीयमानानां जलशकुनानामालापेन यथाभिमतसिद्धिमिव सूचयन्तीरयन्ती रमणीयमादरमिव विहगमिथुनस्य निशाविरहस्य रहस्यमुत्पादयितुमुद्यदरुणकिरणाहतहतनिद्रविसिनीकुसुमनयनाञ्चलैः सस्नेहमालोकयामास ॥६॥
तरङ्गिणी यमुना, मिदा स्नेहेन, क्रिमिदा स्नेहने, प्रेम-परिणाम-विशेषेण शूनां वृद्धाम्, टुओश्वि गति-वृद्ध्योः । अद्धा साक्षाद् एव । तासां तासां चरणानां सञ्चरणै रणतां शब्दायमानानां कल-हंसकानां शोभन-पादकटकानां संहतानां झाङ्कार-कोलाहलैर् जल-शकुनानां जलचर-पक्षिणाम् आदरम् इवदरमयं वाक्यम् इव ईरयन्तीव । विहग-मिथुनस्य चक्रवाक-द्वयस्य निशायां विरहो यस्य तस्य रहस्यं सुरतमय-सङ्गम्, रहोऽतिगुह्ये सुरते इति विश्वः । उत्पादयितुम् उद्यतोऽरुणस्य सूर्यस्य किरणानाम् आहतम् आघातस् तेन हता निद्रा यस्य तत्म् विसिनी-कुसुमं कमल-पुष्पम् एव नयनं तस्याञ्चलैः ॥६॥
ताश्च तदा विलम्बं सोढुमनीशा नीशारमपहाय सुमहिमहिमकणासारमपि सारमपिहितं हितं तन्वानं तन्वानन्दपरयैव सहमाना मानातीतोत्कलिकयालिकया सममेव दरकम्प्रकं प्रचलदधरकिशलय-लय-विकसित-सित-दशन-सञ्चारिचारिम-शीत्कारसत्कृत-मधुरतर-हासमितरेतरेक्षण-क्षणकौतुकमाकुञ्चित-कलेवरं चितकले वरं व्रतरसे तरसेह समादरं वहन्त्यो भगवतीं कालिन्दीमभिवन्द्य तदम्भसि स्नातुमवतेरुः, अवतीर्य चागणित-शीतभीति यथाविधि विधीयमानस्नानाः समुत्साहसाहसमुदिताः समुदितास्तीरं समुत्तेरुः ॥७॥
नीशारं शित-प्रावरण-वस्त्रम्, शोभनो महिमा तपः-प्रापकत्व-लक्षणो येषां तेषां हिमकणानाम् आसारमप्यानन्दपरयैव तन्वा सहमानाः । कीदृशम् ? सारं श्रेष्ठं हितम् अपिहितम् अनावृतं प्रकटम् एव सत् तन्वानं विस्तारयन्तम्, यद् वा, अपिहितम् आच्छन्नं प्राप्यमाणस्य श्री-कृष्ण-सङ्ग-रूपहितस्य जनैर् अज्ञेयत्वात् । मानं परिमाणं तद् अतिक्रान्तयोत्कलिकया स्नानोत्कण्ठया हेतुना आलिकया सख्या समम् । दर ईषत् कम्प्रं कम्प-युक्तं कं शिरो यत्र तद् यथा स्यात् तथा प्रचलतः प्रकर्षेण कम्पमानस्याधर-किसलयस्य लयान्नाट्याद्-विकसितेषु सित-दशणेषु सञ्चारी, चारिम्णा चारुतया यः शित्कारस् तेन सत्कृते मधुरो हासो यत्र तत् । हासे हेतुः—इतरेतरेति । परस्पर-स्व-साधर्म्य-दर्शनम् एव हास्योद्गमकम् इति भावः । ननु किमेतावता शित-सहनेन ? इह व्रत-रसे वरं श्रेष्ठं समादर वहन्त्यः । कथम्-भूते ? चिता सञ्चिता कला शिल्पं स्नानादि-समस्त-व्रताङ्ग-कौशलं यत्र तस्मिन् । सम्यग् उत्साहाद् एव शीतादि-दुःख-सहिष्णुतायां साहसं तेन मुदिताः समुदिताः सम्मिलिता एव ॥७॥
स्नानसमुत्तीर्णानां मुत्तीर्णा नाञ्जसा जायते स्म यदि तासां तदा यमुनाङ्गसङ्गसम्बाधेन चारुदतीनां रुदतीनां तनुरुचामश्रबिन्दव इव सेसिच्यमान-सिचयनिचया गात्रसलिलपृषताः पृषताक्षीणामक्षीणा महीतलं पेतुः, ये खलु लावण्यामृतसारबिन्दवोऽरविन्दबोधकर-कन्याकन्यायवासगमित-वयसां वयसां गणेन सुचिरमन्वमीयन्त ॥८॥
स्नान-समुत्तीर्णानां स्नानात् सम्यग् उत्थितानां तासां मुत् मनः-प्रसादमयी प्रीतिर् अञ्जसा शिघ्रं यदि तीर्णा न जायते स्म, अपारत्वात् ताभिर् एवेत्य् अर्थः, तदा चारुदतीनां तासां पृषताक्षीणां हरिण-नयनानां गात्रतः सलिल-पृषताः स्नान-जल-विन्दवोऽक्षीणा वहुतरा महीतलं पेतुः—पृषतैणर्यरोहिताश् चमरो मृगाः, पृषन्ति-विन्दु-पृषताः इत्य् अमरः । कथम्-भूताः ? सेसिच्यमानः पुनः पुनः सिच्यमानः सिचय-निचयो वस्त्र-समूहो यैस् ते । तानेवोत्प्रेक्षते—तनुरुचाम् अङ्ग-कान्तीनाम् अश्रु-विन्दव इव केन हेतुना यमुनाया अङ्ग-सङ्गेन जलान्तः-प्रवेशेन यः सम्यग्-वाधस् तेन । यमुनायाः श्यामत्वात् प्रति-कूल-कान्तिभ्यः प्राप्ताघातत्वेनेत्य् अर्थः । अरविन्दस्य कमलस्य वोधकरः सूर्यस् तस्य कन्या युमुना, तस्याः के जले यो न्यायवासो न्याय-प्राप्ता वसतिस् तेनैव गमितानि यापितानि वयांसि बाल्यादीनि यैस् तेषां वयसां पक्षिणां गणेन वृन्देन एतानालोकयद्भिः पक्षिभिर् अपि तथा माधुर्यानुभवस् तत् पूर्वजन्म-मध्ये कदापि न लव्ध इति भावः ॥८॥
तदा च सहजवैरवैरस्यमपहाय दयोदयोत्तरलाभिः कौमुदीभिरिव मुदीभिरिव मूर्ताभिः प्रतिभयाप्रतिभया रुदतीरिव तिमिरतती रततीव्रसलिलनिःस्यन्दाः कवरीर्वरीयसीर्मार्जनेन मार्जनेन सलिलनिःसारेण सारेण लालयन्तीभिरिव शोभाभरेण पुनराभिराभिराम्यकाम्यकार्तस्वरकान्तकान्तिभिरासेदे कापि माधुर्यस्य परा काष्ठा ॥९॥
अथ स्व-स्व-कवरीर् मार्जयन्तीस् ता उत्प्रेक्षते—सहजम् औत्पत्तिकम् अपि वैरजनित-वैरस्यम् अपहाय त्यक्त्वा, प्रत्युत दयाया उदय उद्गमस् तेनैवोत्तरलाभिः कौमुदीभिर् ज्योत्स्नाभिर् इव । एवं कायनिष्ठं गुणं वर्णयित्वा मनो-निष्ठम् अपि गुणं वर्णयन्न् एव वैरत्यागेऽपि कारणम् आह—मुदीभिर् इवेति । मुदा मानन्दानाम् ईभिर् लक्ष्मीभिर् इव मूर्ताभिर् मुर्तिमतीभिः । प्रतिभयं भीतिस् तेन याप्रतिभा कर्तव्यास्फुरणं तया रुदतीर् इव तिमिराणां ततीः श्रेणीः, रतोऽभिरतस् तीव्रः सलिल-निःस्यन्दोऽश्रुपात-रूपो यासु ताः कवरीः, सलिलानां निःसारो निःसारणं तद् रूपेण मार्जनेन वात्सल्याल् लालयन्तीभिर् इव । अतएव वस्त्र-खण्ठेन कृताश्रु-जलापसारणानाम् आश्वासितानां तासां रोदन-निवृत्तिर् अभूद् इति भावः । मार्जनेन कथम्-भूतेन ? मा शोभा तस्या अर्जनं लाभो यतस् तेनेति, प्रत्युत तासां हर्ष एवाभूद् इति भावः । तथा-भूताभिराभिः कुमारीभिः । आभिराम्यम् अभिरामता तेनापि काम्या कार्तस्वरात् कनकाद् अपि रम्या कान्तिर् यासां ताभिः, कापि परा काष्ठा कोऽपि परम उत्कर्ष आसेदे प्राप्ता ॥९॥
तदनु च विनिवारितवारितनुलताः कृष्णगानगानन्दमाधुरीधुरीणमुखकमलाः कमलातोऽपि सौभगवत्यो भगवत्योतप्रोतरागाः प्रत्युद्गमनीयमुद्गमनीयमुत् परिदधुः ॥१०॥
विशेषेण निवारितानि वारीणि याभ्यस् तथा-भूतास् तनुलता यासां ताः, कृष्णस्य गान-गतो य आनन्दस् तेनैव माधुरी-धुरीणानि माधुर्य-भारवाहकानि मुख-कमलानि यासां ताः, प्रत्य् उद्गमनीयं धौत-वस्त्र-युग्मम्, तत् स्याद् उद्गमनीयं यद्-धौतयोर् वस्त्रयोर् युगम् इत्य् अमरः, उद्गमनीया व्रतोपयोगिपावित्र्य-दृष्ट्या उद्गमवती मुत् प्रीतिर् यस्मिं तत् ॥१०॥
तथा च सति परिगृहीतांशुकान्तांशुकान्तां मार्जितकेशकलापां कलापाण्डित्यवतीं सैकतं कतमदुपेयुषीं सम्पादित-सामग्र्यसामग्रयवधानपरां दरशीतशीतलताजनित-शीत्कारचारुवदनकमलपरिसरसरदलिपक्षवातवातूलतातूलतान्तभ्रुवं कुमारिकाश्रेणीं यमुनातातोऽपि सुतातोऽपि सुतरां वात्सल्यपात्रीं कदुष्णेन मृदुना शीतोपशमकरेण करेण लालयन्नुदियाय ॥११॥
परिगृहीतानाम् अंशुकानाम् अन्ता अञ्चलानि, तेषां येऽंशवः कनक-रस-सम्बन्धि-किरणास् तैः कान्ताम्, सैकत सिकतामयम्, कतमत् पुलिनम् उपेयुषीं प्राप्तवतीम्, सम्पादितं सामग्र्यं समग्रताखण्डत्वं यस्यास् तथा-भूता या सामग्री पूजोपयोगि-द्रव्याणि तत्रावधान-पराम्, कदाचित् पतद्भिः पक्षिभिर् उपहन्येत वेति शङ्कया । दरशितस्याल्पशीतस्यैव या शीतलता वपुषां सौकुमार्यात् प्रातः-स्नानान् अभ्यासाच् च यत् शीतदायित्वं तज् जनितेन शीत्कारेण चारूणां वदन-कमलानां परिसरे सरतां सौरभं प्राप्य गच्छताम् अलीनां यः पक्ष-सम्बन्धी वातस् तस्य वातुलतया वाता-सहिष्णुतया तूलवत्तान्ता भीति-चपला भ्रुवो यस्यास् ताम्, वातुलः पूंसि वात्यायाम् अपि वातासहे त्रिषु इत्य् अमरः । यमुनातातोऽपि सूर्योऽपि सुतातोऽपि सुताभ्योऽपि ॥११॥
ततश्च जलचरचरणचिह्नानुपहतेऽहते च जनान्तरेणान्तरेणानिलं कुत्रचन कर्पूरधवलेऽवलेपरहिते हिते पुलिने पुनरपि निजनिजकरकमल-परिशोधिते पूजनसामग्रीमग्रीयामवतार्य वतार्यचरितास्ताः किल कोकिलकोमलवचसो रचनारसिकताभिः सिकताभिर्भगवदुमामूर्तिं
निर्मिमित्सवः परस्परमभाषन्त—“सहचरि! चरितमिदं न कदाचिदस्माभिरधुना धुनाना सम्भ्रमं भ्रमं च का नाम कुशला कुशलानामपि कुशलेऽस्मिन्न प्रवर्तताम् । किञ्च, किमेकैकशः किमुत युगपदर्चनीया कात्यायनी, कात्यायनीरसता यथा न भवति, तथैव विधीयताम्, धीयतां श्रद्धां विधाय निश्चीयतां च” इति कयाचिदुक्ते पुनरन्या ऊचुः—“मिलित्वालि! त्वादृशीभिरीदृशीभिरीश्वरी पूज्या न पुनरेकैकशोऽनेकशोऽनेकशोभा भविष्यति” इति सकला एवं सकला एवमतिमधुरमधुरं कृष्णगुणगानमङ्गलमारभ्य सौरभ्यसौभाग्यकुसुमाञ्जलिं विकीर्य शुचितरसिकताः समभ्यर्च्य भगवदुमादेव्या मूर्तिं निर्मातुमारेभिरे ॥१२॥
अनिलम् अन्तरेण पवनेन विना, जनान्तरेणाहते, किन्तु अनिलेनैव हते, प्रत्युत ऋजू-कृते इति भावः । अवलेपः फेनादि-कल्क-प्रलेपस् तद्रहिते, अग्रीयाम् उत्तमाम्, अवतार्य स्थापित्वा, रचनायां रसिकता यासु तथा-भूताभिः सिकताभिर् वालुकाभिः । न चरितं न कृतम्, इदं कात्यायन्य् अर्चन-व्रतं तथापि कुशलाः स्वार्थ-चतुरा का नाम भ्रमं भान्तिं सम्भ्रमम् आवेगं च धुनाना दूरी-कुर्वती सती कुशलानाम् अपि कुशले मङ्गलानाम् अपि मङ्गलेऽस्मिन् कर्मणि न प्रवर्तताम्, किन्तु प्रवर्तत एव । कस्य सुखस्यात्यायेन अत्ययेव या नीरसता सम्मत्यभाव-हेतुक-वैरस्यं सा यथा न भवति । धीयतां धिया वुद्ध्या यतां संयताम् । हे आलि ! त्वादृशीभिर् मिलित्वैवेश्वरी पूज्ञा । मिलने हेतुः—ईदृशीभिः परस्पर-सौहार्दवतीभिः । अतो नात्र वैरस्यं भावीति भावः । न तु एकैकश एकैकया पर्यायेणेत्य् अर्थः । विलम्बेन सर्वासां मुख-कालालाभाद् इति भावः । अतएवानेकशोऽनेकाभिर् वह्वीभिर् अनेका शोभा भविष्यतीति । सकलाः पूजन-शिल्पवत्यः ॥१२॥
आरम्भमात्र एव सा भगवती सिकतामयतामयमानेव स्वयमेव स्वयमेव मूर्तिमती यद्यजनिष्ट, तदैव ता अहो अहोभिर्बहुलैरप्येवं न शक्नुवन्ति यन्निर्मातुं तदिदं क्षणेन क्षणेन सह सुसम्पन्नमिति हृत्प्रसादसादनेन देवीप्रसादसादनं जातमिति मन्यमाना मानाधिकां चित्तवृत्तिमेव प्रमाणीचक्रुः ॥१३॥
स्वयम् एव सुष्ठु अयं शुभावहं विधिं मयते पूजा-परिवर्तनेनेव ददातीति सा यथा, मेङ् प्रतिदाने क्षणेन सह उत्सवेन सह । सादनं प्राप्तिः ॥१३॥
ततश्च अभितोऽभितोषतस्तामेव देवीमुपसेवितुमनसो मनसोऽप्यगोचरेण भावेन भावेन वशंवदा वदावदत्वमपहाय वाग्यता यतात्मानो यमुनासलिलमाहृत्य पूजोपकरणानि करणानियम्यानि सन्निहितानि विधाय, निधाय निधिमिव हृदये श्रीकृष्णम्, विधिवद्विहितपादधावनाचमना, मनागालम्बितवसनासनाः समानमानसत्वेन सत्त्वेन मौनावस्थावस्थानेऽपि समानमानसालापाः समाननिर्बाह्यबाह्यव्यवहाराश्च भगवतीमर्चयितुमारेभिरे ॥१४॥
भावेन प्र्म्णा, भावेन भा कान्तिस् तामवति रक्षतीति तेन वशंवदाः परस्परं वशवर्तिन्यः, वदावदत्वं वचन-प्रतिवचनादि-कर्तृत्वम्, पूजोपकरणाणि धूप-दीप-नैवेद्यादीनि, करणेन वाग् इन्द्रियेणानियम्यानि वर्णयितुम् अशक्यानि सन्निहितानि विधाय-हस्त-प्राप्ति-देशे स्थापयित्वेत्य् अर्थः । पूजा-समाप्ति-अपर्यन्तम् आसन-भङ्गस्यानौचित्याद् इति भावः । मनाग् इति प्रौढ-पादत्व-दोष निरसनार्थं भूमिस्पृष्ट-चरणैक-देशा इत्य् अर्थः । सत्त्वेन सत्त्व-गुणेन हेतुना मौनावस्थयावस्थितावपि ॥१४॥
तत्र प्रथमं प्रथमञ्जसाजसाधारण्येन तस्यामेव सैकत्यां कात्यायनीमूर्तौ मनसा मनसैव सकलाः कलावत्यः समानमानसतया एकरूपमेव तदा तदावाहनं विदधति स्म ॥
प्रथं ख्यातम्, अञ्जसा साक्षात् । अज-साधारण्येन अजन्यवस्तु-तुल्यत्वेन सैकत्याम् एवसिकताविकार-भूतायाम् एव, अकृत्रिमतया नित्य-सिद्ध्वत्व-मननेनेत्य् अर्थः । मनसा मनसैव, न तु मन्त्र-वर्णान् स्पष्टम् उच्चार्येति भावः ॥
यथा—
इहागच्छागच्छ देवि सन्निधानमिहाचर । कृष्णस्य सन्निधानं नः प्रापयस्व नमो नमः ॥१५॥
कृष्ण-सन्निधानं नोऽस्मान् प्रापयस्वेति । अजां ग्रामं प्रापयेतिवत् सप्तम्य् अर्थ एव पर्याप्तिः, ततश् च त्वम् अत्रैव कृष्णोऽप्य् अस्मासु सन्निहितो भवत्वित्य् अर्थः । पूर्वस्य साधनत्वम् उत्तरस्य फलत्वम् इति । एवम् अग्रेऽपि ॥१५॥
इत्यावाह्य बाह्यवृत्तिरहिता अवहिता अवनता नताङ्ग्यः पुनस्तथैव विमलमासनमासनमग्रतोऽग्रतोषेण समुपनीय पनीयतमं पूर्ववन्मनसैव निवेदयामासुः—
**“आस्यतामिह भो देवि दिव्यमासनमिष्यताम् । ** अस्माकमङ्कपर्यङ्कं कृष्णासनमुदीरय” ॥१६॥
विमला मा शोभा तस्या आसनं स्थितिर् यत्र तथा-भूतम् आसनम्, पनीयतममतिस्तव्यम्, पण स्तुतौ पन च इति दन्त्यत्वम् अपि ॥१६॥
इत्यासनं सनन्दनीयादरमदरमोदेन समर्प्य स्वागतं पप्रच्छुः—
“स्वागतं तव हे देवि स्वगतं ते निवेद्यते । कृपया कारयास्माकं स्वागतं कृष्णमन्तिके” ॥१७॥
नन्दनीयेनाभिनन्य्द्येन आदरेण सह वर्तमानं यथा स्यात् एवम् । अदरमोदेनानल्पानन्देन स्वगतम् अप्रकाशितं यथा स्यात् तथा, चित्त-वृत्त्यैव स्वागतं निवेद्य इत्य् अर्थः । अस्माकम् अन्तिके कृष्णं सुष्ठु आगतं कारय स्म्पादय, यद् वा, कृष्णं प्रयोज्य-कर्तारम्, अस्माकं स्वागतं कारय, कृष्णोऽस्मान् स्वागतं पृच्छत्वित्य् अर्थः । अतएव वक्ष्यति [भा पु १०-२३-२५] स्वागतं वो महा-भागाः इत्यादि ॥१७॥
इति स्वागतमस्वागतमहापरितोषेण पृष्ट्वा समुचितचित-तत्तद्द्रव्यभव्यभर्मभाजनस्थमुपपाद्य पाद्यमपि तथैव निवेदयाञ्चक्रिरे ॥
असुषु प्राणेष्वागतो यो महान् परितोषस् तेन पृष्ट्वा । सम्यग् उचितैश् चितैर् एकीकृतैस् तत् तद्-द्रव्यैः पाद्योपयोगि-श्यामाकादि-वस्तुभिर् भव्यं मङ्कल-भूतं यद्-भर्म-भाजनं कनक-पात्रं तत्रस्थम् उपपाद्य कृत्वा, पाद्यं पादाय वारिणि इत्य् अमरः ॥
**उपपाद्यमिदं पाद्यं पादयोरभिवाद्ययोः । ** कृष्णप्रस्वेदपाद्यं नः शिशिरीकुरुतामुरः । सम्पाद्यतामनाद्ये नः कृष्णस्याद्य समागमः ॥१८॥
हे अनाद्ये ! दुर्गे ! नोऽस्मभ्यं कृष्णस्य समागमः सम्पाद्यतां दीयताम् ॥१८॥
इति पाद्यं निवेद्य वेद्यरहिता विधिवदाहृत-तदुपयुक्तयुक्ततमद्रव्यानर्घमर्घमर्घयामासुः ॥
वेद्येन ज्ञातुम् अर्हेण पूजा-विधादिना रहिता अपि विधिवद् इति विरोधः, यद् वा, वेद्य-रहिता ज्ञातुम् अशक्या अन्यैर् अज्ञेय-स्वरूपा इति यावत् । तद् उप-युक्तैर् अर्घोपयोगिभिर् वादिभिर् युक्ततमैः परमोचितैर् द्रवयैर् निमित्तैर् अनर्घम्, अर्घो मूल्यं तच्छून्यम, अर्घयामासुर् निवेद्दयामासुः ॥
यथा—
“अप्यर्घितौघैरर्घ्या त्वं तुभ्यम्र्घोऽयमर्घितः । महार्घः श्रीकृष्णसङ्गः क्रियतां स्वर्घ एव नः” ॥१९॥
अर्घितौघैः पूजित-समूहैर् देवादिभिर् अप्य् अर्घ्या पूज्ञा, अर्घितो निवेदितः, महार्घो बहु-मूलाः, स्वर्घः सुलभः ॥१९॥
इत्यर्घं निवेद्य कमनीयमाचमनीयमाचरितविधिविधानमर्पयामासुः । यथा—
**“इदमाचमनीयं ते कमनीयमुपाहृतम् । ** कृष्णस्याचमनीयं त्वमानयास्माकमाननम्” ॥२०॥
कृष्णस्याचमनीयत्वं कृष्णेनास्वाद्यत्वम्, आनय प्रापय ॥२०॥
इत्याचमनीयं निवेद्य घृत-दधि-मधुमधुरं मधुपर्कमर्पयामासुः । यथा—
**“मधुरो मधुपर्कस्ते मुखसम्पर्कमापितः । ** कुरु कृष्णाधरपुटीमधुपर्कक्षमा हि नः” ॥२१॥
कृष्णस्याधरपुट्या यन् मधु तस्य पर्के सम्मेलने क्षमा योग्या नोऽस्मान् कुरु, यद् वा, कृष्णस्याधरपूट्य् एव मधुपर्कस् तत्र तद् आस्वादने क्षमा योग्याः ॥२१॥
इति मधुपर्कं निवेद्य वेद्यवलग्ना लग्ना इव सन्तोष-समाधौ समाधौतहृदयाः प्रेमरसेन पुनः पुनराचमनीयमुपकल्पयामासुः । यथा—
**“पुनराचमनीयं ते कमनीयमिदं पुनः । ** पुनराचमनीयं भोः कृष्णस्याननमस्तु नः” ॥२२॥
वेदिवद् अवलग्नं मध्य-देशो यासां ताः, वेदिः स्त्रियाम् अङ्गुलि-मुद्रायाम् इति मेदिनी, मध्यमं चावलग्नं च इत्य् अमरः । पूर्वं कृष्णेनाचमनीयम् अस्मद् आननम् अस्त्विति प्रार्थितम् इदानीं पुनस् तद अनन्तरं श्री-कृष्णानं नोऽस्माकम् अस्माभिर् आचमनीयम् अस्त्विति प्रत्य् अधर-पानाभिलाषः ॥२२॥
इति पुनराचमनीयकमुपकल्प्य सौरभरभस-वशीकृतगन्धवहं गन्धवहं विनापि विस्मापकत्वे सकलोहितमतिलोहितमतिलोभनीयं बलवच्चारिमणि मणिपुटके समुपपादितमभ्यङ्गयोग्यं तैलमग्रत उपनीय—
**“देवि दिव्यमिदं तैलमभ्यङ्गार्थमुरीकुरु । ** अभ्यङ्गमङ्गं कृष्णस्य रङ्गादङ्गानि नः कुरु” ॥२३॥
गन्धवहं पवनं विनापि सौरभ-वेगेन वशीकृता गन्धवहा नासिका येन तत्, विस्मापकत्वे विस्मयोत्पादकत्वे सकलैर् एव ऊहितं तर्क्तितं नासा-त्वग् इन्द्रिययोर् अतिलोभनीयम् । बलवांश् चारिमा चारुत्वं यत्र तादृशे मणि-सम्पुटे । कृष्णस्याङ्गम् अङ्गमभि प्रति-गात्रं लक्षी-कृत्य नोऽस्माकम् अङ्गानि कुरु, मद् वक्षः कपोलादिभिर् अस्माकं कुच-गण्डादीनि योज्यन्ताम् इत्य् अर्थः ॥२३॥
इत्यभ्यङ्गं विनिवेद्य निविडतरमुद्वर्तनीयमुद्वर्तनीयमपि गन्धचूर्णं तूर्णं तूपकल्पयामासुः । यथा—
**“उद्वर्तनीयं ते दत्तं गन्धचूर्णमिदं मृदु । ** उद्वर्तनीयं नो दुःखं त्वया कृष्णाङ्गसङ्गतः” ॥२४॥
निविडतराभिर् मुद्भिर् आनन्दैर् वर्तनीयं भवितव्यं यत्र तत् । कृष्णाङ-सङ्गतः कृष्णस्याङ्ग-सङ्गं प्रापय्य नोऽस्माकं दुःखम् उद्वर्तनीयम् उत्पाटनीयम् ॥२४॥
अथ घनसारसारवासितं सुजातरूपजातरूपघटीसम्भृतं स्नानीयमानीय मानतामुपपाद्य पूर्ववद्यथा—
**“कर्पूरपूरसौरभ्यं देवि स्नानीयमर्पितम् । ** कृष्णाङ्गसङ्गसुधया कृपया स्नपयाशु नः” ॥२५॥
घनसारसारेण श्रेष्ठ-कर्पूरेण वासितं सुगन्धितं सुजातं रूपं सौन्दर्यं यत्र तस्य जात-रूपस्य कनकस्य घट्यां सम्भृतम् । पूर्ववद् इति उपकल्पयामासुर् इत्य् अस्यानुवृत्ति-ज्ञापनम् ॥२५॥
अथ सुविहिताकुञ्चनपरिपाटिकां शाटिकां शातकुम्भसूत्रकृतां कृताञ्जलिपुटं पुरस्कृत्य पूर्ववत् ॥
सुष्ठु विहिता आकुञ्चनस्य सम्यक् कुञ्चिती-करणस्य परिपाटि यस्यां ताम् ॥
**“हे देवि परिधेहीदं कनकांशुकमंशुकम् । ** कृष्णांशुकेनांशुकानि परिवर्तय नोऽम्बिके” ॥२६॥
कनकानाम् अंशवः किरणा यस्मिंस् तद् अंशौकं वस्त्रम् ॥२६॥
अथ नानामणिमयनिरामयनिरामणीयकमलङ्कारमलङ्कारयित्वा समानीतं पूर्ववत्—
**“रत्नालङ्करणैरेभिर्भव भाविन्यलङ्कृता । ** कृष्णाङ्गसङ्गसुधया कारयास्मानलङ्कृताः” ॥२७॥
नाना-माणिमयं च तन् निरामयाणि निर्मलानि नितरां रामणीयकानि रमणीयत्वानि यस्य तथा-भूतं चेति तत्, अलङ्कारं कटक-कुण्डलादि-कमलम् अत्य् अर्थं कारयित्वा निपुण-स्वर्णकार-स्थाने इत्य् अर्थः ॥२७॥
अथ समुपचित-कस्तूरीकस्तूरीकृत-कर्पूरपूरः सरसतरागुरुगुरुर्गन्धसार-गन्धसारः सदनुलेपपङ्कः पङ्कजनयनाभिराभिराभिमुख्यमानायि, तत इदमूचे च—
**“अनुलेपनमेतत्ते देवि दिव्यमुपाहृतम् । ** कृष्णानुलेपसौरभ्यैः सुरभीकारयस्व नः” ॥२८॥
आभिः पङ्कज-नयनाभिः सद् अनुलेप-पङ्को देव्या आभिमुख्यमानायि । कथम्-भूतः ? समुपचिता कस्तूरी मृग-मदो यत्र सः । तुकारो यमकार्थः । उरीकृतोऽङ्गीकृतः कर्पूर-पूरो येन सः । सरसतरैर् अगुरुभिर् गुरुः श्रेष्ठः, गन्धसारस्य चन्दनस्य गन्धेन सारः श्रेष्ठः ॥२८॥
अथ गन्धवहानन्दि-गन्धवहानन्दितगन्धं गन्धं समुपनीय पनीयमूचुः—
“गन्धैर्गन्धवहानन्दी देवि गन्धोऽयमर्पितः । कृष्णाङ्गगन्धेनास्माकमङ्गानि सुरभीकुरु” ॥२९॥
गधवहां नासिकाम् आनन्दयितुं सुखयितुं शीलं यस्य तथा-भूतो गन्धवहेन पवनेन आ सम्यक्-प्रकारेण नन्दितः समृद्धी-कृतो गन्धो यस्य तम्, पनीयं प्रशंसार्हम् ॥२९॥
अथ वृन्दावनस्थ-षडृतुकालीनानि मधुपराग-मधु-परागरञ्जीनि कुसुमानि पुरः सम्पाद्य—
“इदं वृन्दावनोद्भूतं प्रसूनं देवि गृह्यताम् । रदप्रसूनः कृष्णस्य पूजिताः सन्तु नोऽधराः” ॥३०॥
मधुपानां भ्रमराणां रागो यत्र तेन, मधुना परागेण च रञ्जीनि रञ्जकानि । प्रसूनम् इति जातावेकत्वम् । रदा दन्ता एव प्रसूनानि कुन्द-पुष्पाणि तैः ॥३०॥
अथ सुरभितरकालागुरुगुरुतरगुग्गुलुगुलुच्छामृणालप्रभृतिभृतिसुगन्धितं धूपधूममग्रत उपकल्प्य—
**“सुगन्धिर्धुपधूमोऽयं धूपस्ते देवि कल्पितः । ** धूपिता भव नश्चित्तं धूपितं शीतलीकुरु” ॥३१॥
गुलुच्छः स्तवकः, अमृणालं वीरण-मूलम्, मूलेऽस्योशिरम् अस्त्रियाम् । लामज्जकं लघुलयम् अमृणालम्, इत्य् अमरः । तत्-प्रभृतीनां तदादीनां वस्तूनां भृत्या धृत्या सुगन्धितम् । धुवनं धूस्तां पातीति धूपः सकम्प इत्य् अर्थः । धूपिता भव, दीप्तिमती भव, धूप दीप्तौ । नोऽस्माकं धूपितं चित्तं सन्तप्तं मनः, तप धूप सन्तापे इति धातोः ॥३१॥
अथ प्राज्यप्राज्यकर्पूरतिवर्तिवर्तितं दीपमग्रे निधाय पूर्ववत्—
**“कर्पूरवर्ति-सुरभिर्देवि दीपोऽयमर्पितः । ** कृष्णकौस्तुभदीपेन दीप्तं नस्तादुरोगृहम्” ॥३२॥
प्राज्यं प्रचुरं प्राज्यं प्रकृष्टं घृतं यत्र तथा-भूता या कर्पूरवर्तिस् तया वर्तितम् उत्पादितम् इत्य् अर्थः ॥३२॥
अथ मधुरमधुरसरसितसितसितासितातपतण्डुलसार्द्रकससैन्धव-धवलमुद्गमुद्गविदलकदलक-नारिकेल-केलदमल-परिमल-घनघनसारसार-सरसतरापूप-पूपशाङ्कुल-कुललसदखण्डखण्डलड्डुकवलमानमानसामोदक-मोदकसौरभरभसनिरपायपायस-पक्वान्न-दधिपयः-प्रभृति नैवेद्यमुपकल्प्य—
**“निरवद्यं देवि हृद्यं नैवेद्यमुपयुज्यताम् । ** सम्पादयस्व कृष्णस्य नैवेद्यं नो नवं वयः” ॥३३॥
मधुरा च सा मधुनो रसेन रसिता च सितासिता श्वेत-शर्करा तया सिता वद्धा अताप-तण्डुला अप्राप्त-पाक-तण्डुलाश् च तथा सार्द्रकाणि आर्द्रक-खण्ड-सहितानि ससैन्दवानि सलवणानि धवल-वर्णानि मुद्गान्यानन्द-प्रापकाणि मुद्गविदलानि च तथा कदलकानि च नारिकेलानि केलता उत्सर्पता अमल-परिमलेन घनस्य सान्द्रस्य घनसारस्य कर्पूरस्य यः सारः सारभागस् तेन सरसतरा अपूपाश् च, केलृ गतौ धातु । पूः पावित्र्यं तां पान्तीति तानि शाष्कुलानि शष्कुली-सम्बन्धीनि कुलानि वृन्दानि च लसद्भिर् अखण्डैर् अखण्डितैः खण्ड-लड्डुकैर् वलमानानि प्रवलानि मानसा-मोदकानि चित्त-हर्षकाणि मोदकानि च सौरभस्य रभसैर् वेगैर् निरपायाः पायसाश् च पक्वान्नानि च दधि-पयः-प्रभृतीनि च यत्र तत् ॥३३॥
इति नैवेद्यं निवेद्य (भा।पु। १०.२२.४)—
**कात्यायनि महामाये महायोगिन्यधीश्वरि । ** नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ॥३४॥
कात्यायनीति श्लेषेण कस्य कृष्णाङ्ग-सङ्गात्मक-सुखस्य अति अतिशयेन आयनि ! हे प्रापयित्रि ! तथा हे महामाये ! महोस्योत्सवस्य अमो निष्परिमाण आयो यतः, हे तथा-भूते ! महा-योगिनीति तेन नन्द-गोप-सुतेन सह योगोऽपि त्वयैव शिघ्रं स्वयं सम्पाद्यः, न तु पित्रादि-व्यवधानोपद्रवेण काल-विलम्बः कार्यः—काल-विलम्बस्यासह्यत्वाद् इति भावः । अतएव कुर्विति पदम् । अन्यथा कारयेत्य् उपन्यस्तं स्यात् । अधीश्वरीति तत्र सामर्थाद्योतकम्3 ॥३४॥
इति मन्त्रमुपांशु पांशुलताविरहेण बिन्दुविसर्ग-विसर्गमतिवारं जेपुः । जपित्वा तु यथेष्टमाचमनीयानन्तरं ताम्बूलपूलकमुपकल्प्य—
**“सैलालवङ्ग-कर्पूरं ताम्बूलमिदमश्यताम् । ** कृष्णास्य-ताम्बूलरसैरधराः सन्तु नोऽरुणाः” ॥३५॥
उपांशु यथा स्यात् तथा जेपुः, शनैर् उच्चारयेन् मन्त्रमीषदोष्ठौ प्रचालयेत् । कञ्चिच् छब्दं स्वयं विद्याद्युपांशुः स प्रकीर्तितः ॥ इत्यागमोक्तरीत्या पांशुलता-विरहेणोच्चारणं यत्र तत् । अतिवारं बहुवारम् ॥३५॥
इति ताम्बूलं समर्प्य नीराजयामासुः; यथा—
**“नीराजयामि त्वां दीपस्तवकेन महेश्वरि । ** नीराजितानि कृष्णस्य त्विषाङ्गानि भवन्तु नः” ॥३६॥
जीराजीतानि निःशेषेण राजितानि दीप्तानि ॥३६॥
इति नीराज्य मनोराज्यराज्यभिलाषलाषकौशलशलत्तरलतया दण्डवन्निपत्य तुष्टुवुः ॥
मन एव राज्यं तत्र राजितुं शिलम् अस्य तथा-भूतो योऽभिलासस् तेन लाष-कौशलं शिल्प-चातुर्यम, लष शिल्प-योगे तेनैव शलन्ती मिलन्ती या तरलता तया ॥
“अम्ब हेरम्बमातस्त्वां स्तोतुं स्तोकमपीश्वरः । न त्वदीशो न प्रजेशो न वागीशोऽपरे कुतः ॥”
त्वदीशो महा-देवो माहात्म्येन, प्रजेषो ब्रह्मा ऐश्वर्येण, वागीशो वाचष्पतिः पाण्डित्येन ॥
**रसनादेव रसनाकण्डूखण्डनतः परम् । ** वयं तथापि स्तुमहेऽस्तु महेश्वरि ते कृपा ॥
रसनाद् एव आस्वादाद् एव, खण्डनतो हेतोस् ते तव कृपास्तु ॥
**प्रभविष्णोर्महाविष्णोर्योगशक्तिस्त्वमुत्तमा । ** भासि कर्तुमकर्तुं चान्यथा कर्तुमपीश्वरी ॥ **त्वमेव तुष्टिः पुष्टिश्च त्वं शान्तिः क्षान्तिरेव च । ** त्वमविद्या च विद्या च बन्धमोक्षकरी नृणाम् ॥
योग-शक्तिर् योगमायाख्या शक्तिः ॥
मातः सर्वाणि सर्वाणि जगन्ति त्वदपाङ्गतः । उन्मीलन्ति निमीलन्ति भवन्ति विभवन्ति च ॥
गौरीव सर्वान्तःपुर-प्रधान-भृता इति वासव-दत्ता-श्लेष-दर्शनान् महादेव-वाची सर्व-शब्दो दन्त्यादिर् अपि, ततश् च हे सर्वाणि ! शम्भु-पत्नि ! उन्मीलन्ति जायन्ते, निमीलन्ति नश्यन्ति, भवन्ति सत्तानां प्राप्नुवन्ति, विभवन्ति समृध्यन्ति ॥
**सर्वमङ्गलमूर्धन्ये मूर्धन्येव दिवौकसाम् । ** तवाज्ञा च समज्ञा च राजहंसीव राजते ॥
समज्ञा कीर्तीः ॥
परात् परतरे कृष्णपरे परमवैष्णवि । परोपकारपरमे परमेश्वरि ते नमः ॥
कृष्ण ईश्वरः परः श्रेष्ठः सेव्यत्वेन यस्याः, वस्त्वर्थस् तु स्पष्ट एव ॥
**मनोज्ञासि मनोज्ञासि त्वं सर्वस्यैव देहिनः । ** देहि नः पतिरूपेण देवि गोपेन्द्रनन्दनम् ॥३७॥
मनोज्ञा श्रेष्ठा असि, यतः सर्वस्यैव मनो जानासीति मनोज्ञा, अतएवास्मन् मनो-रुच्य् अनुसारेणैवाभीष्टं सम्पादनीयम् इति भावः । तथैव स्पष्टम् आहुः—देहीति, त्वम् एव स्वयं देहि, न तु पित्रादयो ददत्विति [भा पु १०-२२-४] पतिं मे कुरु ते नमः इति पूर्ववत् । त्वद् अर्चनस्यास्मद् अभिप्रेतैतत्-फलकत्वे कथञ्चित् तैर्ज्ञाते कुमारीणाम् अस्माकं लज्जा स्याद् इति ते जानस्त्व् अपि नैवेति भावः । तथा त्वनभिरुचिस् तासां श्री-राधादि-सौभाग्य-दृष्ट्या परकीयास्व् एव कृष्णस्याभिरुच्याधिक्य-सम्भावनानुमानाद् इति ज्ञेयम् ॥३७॥
इति स्तुत्वा चिरतरं रुचिरतरं रुच्यनुरूपं देवीं प्रणम्य यमुनायामेव विसर्जयामासुः । एवमेवमहरहरहतोत्कण्ठाः कण्ठाभरणीकृत-कृष्णगुणगणाः क्रमधमानमानवलिवलितया
सपर्यया पर्ययाविनाभावेन भावेन भगवतीमम्बिकां प्रसादयन्त्यः सादयन्त्यश्च हृत्प्रसाद मासमेव तं कतिपयदिनावशिष्टं कारयामासुः ॥३८॥
क्रमेणैधमानो वर्धमानो मानः पूजा तथा वलिः पूजोपयोग्युपहारश् च ताभ्यां वलितया वर्धितया सपर्यया परिचर्यया पर्ययो विपर्यया-भावः । साहजिक्यं तस्य न विना-भावो यत्र तेनातिस्थिरेणैव भावेनेत्य् अर्थः । कतिपय-दिनावशिष्टं मासम् एव वाप्य् आम्बिकां प्रसादयन्त्यो हृत् चित्तम् अपि सादयन्त्यस् तस्यै प्रापयन्त्यः सत्यस्तं प्रसिद्धं प्रसादम् अम्बिकां कारयामासुः । तासां तादृश-भक्त्या वशी-भूतैव देवी प्रसादम् अकरोद् इत्यण्यन्त-वाक्यम् ॥३८॥
न हि तथाविधविविधविशिष्टसिद्धसौभाग्यवतीनां योग्यवतीनां योगमायादिदेवतान्तराराधनधनसापेक्षा मनोरथसिद्धयः ॥३९॥
अत्र वस्तुत-तस्त्वु-दृष्ट्यैवाशङ्कां परिहरन्न् आह—न हीति । योग्या नर-लीलत्वेनोचिता वतिर् याचनं यासां ताः, वनुयाचने क्तिन्नन्तः । देवतान्तराराधनम् एव धनं तत्-सापेक्षा मनोरथ-सिद्धयो न हि, किन्तु नित्य-सिद्ध-प्रेयसी-भावानाम् एव तासां लोक-वल्लीलेयम् इति भावः ॥३९॥
तेन च तावतैव वतैवमसौ भगवती सौभगवती परिश्रमेण वशंवदावदातहृदया दयालुतमतया मतया च सुप्रसन्नासन्नाभिमतदायिनी प्रतिजनं मनसि प्रादुर्बभूव ॥४०॥
मतया उचितया । आसन्नस्याभिमतस्य वाञ्छितस्य दायिनी ॥४०॥
प्रादुर्भूय भूयसादरेणैव “अयि शुभवत्यो भवत्यो भगवद्रतिदेवता देवतान्तरमाराधयितुं नार्हन्ति, न हि लक्ष्मीका लक्ष्मीकामनया अन्यदेवतामाराधयन्ति तथापि वः केवलबलमानोत्कण्ठाकण्ठाभरणमिदं ममापि यशोभारशोभारचनमेवेदम्भो दम्भोज्झितं मदुपसर्पणं
तेनाचिरतयैव रुचिरतयैव कृष्णासत्त्या भवितव्यम् । अतः परं तपःकरणतो विरमत” इति निगद्यैव सर्वासामन्तरतस्तिरोबभूवेति तासामनुभवः समुत्पनोपद्यते स्म ॥४१॥
भगवद्रतेर् अपि देवतास् तत्-प्राप्त्य् अर्थम् अन्यैर् देवादिभिर् अप्याराध्या इत्य् अर्थः । लक्ष्मीका लक्ष्म्यापि इकं कामना-सुखं यासु ताः—विजिहीर्षे त्वया सार्धं4 गोपी-रूपेति साव्रवीत् इति [६२८] श्री-सङ्क्षेप भागवतामृत-धृत-लक्ष्मी-वचनात्, इ खेदे परुषोक्तौ च कामदेवे त्वनव्यम् तथा सुख-शिर्ष-जलेषु कम् इति च विश्वः । यशोभारस्य भा शोभा तस्या रचनम्, भो इति सम्बोधनम्, दम्भोझितं निष्कपटम् । समुत्पनीपद्यते स्म, अतिशयेनोत्पन्नः ॥४१॥
तत्साक्षि वामाक्षिभुजोरु पस्पन्देऽपस्पन्देनेव सुहृदा हृदापि निरवसादं प्रसादं प्रगतेनाश्वास्यमानाः करतलगं रतलगं मनोरथफलं जातमिवेति मत्वापि ता मासप्रपूरमेवं करणीयमिति निरणैषुः ॥४२॥
तस्य तादृशानुभवस्य साक्षि सूचकम्, वामाक्षिभुजोर्विति प्राण्य् अङ्गत्वाद् द्वन्द्वैक्यम्, अपस्पन्देनापगतस्पन्देन निश्चलेनातिसुस्थिरेणेति यावत्, रतं श्री-कृष्णेन सह रमणं लगयति योजयतीति रतलगम्, ताः कुमार्यो मासं प्र-पूरयत्वेति द्वितीयायां इति णमुल् । निरणैषुर् निर्णयं कृतवत्यः ॥४२॥
अनन्तरं मासावसानदिने दिनेश उदितवति दितवति कमलिनीमुद्रामुद्रामणीयकेन केनचिदावृत्तास्ताः पूर्वतोऽपि बहुगुणेन बहुगुणेन सम्भारेण भारेण देवी पूजयित्वा जयित्वादतिशयप्रमोदाः प्रमोदारतया व्रतं समाप्य समाप्यमानतपः-फलमिव स्वं स्वं जानत्यो नत्योत्कर्षहर्षवशात् परस्परमभिषेकार्थं कुतुकालिकालि कालिन्दीं जिगाहिषवः प्रागेव कात्यायन्या कात्यायन्यायप्रसादीकृतकृतकेतरचित्रपटपटलस्य जलाविलीभाव-शङ्कया कयापि देशाचारचारवेण च तदेव पटपटलमनुकूले कूले निःक्षिप्य सलिले सलीलमवललम्बिरे ॥४३॥
कमलिन्या मुद्रां मुद्रितत्वं दितवति खण्डितवति मुदाम् आनन्दानां रामणीयकेन रम्यत्वेन वहु-गुणेन शत-सहस्रोर्ध्व-सङ्ख्यावता बहु-गुणेन चर्व्य-चोष्यादित्व-गुण-युक्तेन भा कान्तिस् तां राति गृह्नातीति तेन । प्रमा प्रकृष्टा शोभा तस्या उदारतया महत्त्वेन, यद् वा प्रमायां पूजा-सम्भार-प्रमाणे औदार्येण, न तु कार्पण्येन, नत्या परस्परं नमस्कारेणोत्कर्षो हर्षश् च तद्वशात् कुतुकानाम् आलिः श्रेणिर् यासां ताः, कुतुकालिका आलयः सख्यो यत्र तद् यथा भवत्य् एवं जिगाहिषवः कात्यायन्या दुगया कस्य सुखस्यातिशयो य आयो वृद्धिस् तत्र यो न्याय औचित्यं तेन प्रसादी-कृतानां कृत-केतरम् अकृत्रिमं तन्त्रोत्थम् एव चित्रं येषु तथा-भूतानां पटानां कौशेय-वस्त्राणां पटलस्य समूहस्य जले आविलीभावस्य मालिन्यस्य शङ्कया देशाचारेण हेतुना चारवं चारुत्वम् एव, तेन हेतुनेति विगाना भावश् चोक्तः ॥४३॥
अवलम्ब्य परस्परपरमकौतुहलहलनलूलितललितलसन्मनसो दिनकरकरकरम्बिततया नातिशीतभीताः क्षणं विहरमाणाश्च राजन्ते स्म ॥४४॥
परस्परं परम-कौतुहलेन हलनं कर्षणम्, हल विलेखने इत्य् अस्मात् । तेन लुलितं सङ्घृष्तं ललितं लसत्-कान्ति-युक्तं मनो यासां ताः ॥४४॥
एतस्मिन्नेव दिवसे प्रागेव नियतविचारचारस्थलमुखाभिसरणरणदनाकुलखगकुलाकुलायमाने नभसि दिवसमुखे मुखेन्दुसुधासुधावितमुरलीकोऽलीकोज्झितप्रणयैर्बलादिभिः प्रियसखैर्बलवति निराबाधेऽनुधेनुगणं सञ्चारसुखे योगेश्वरेश्वरो व्रतरतकन्यारतकन्यायलब्धप्रेमवश्योऽवश्योऽवश्यो दास्यतत्तदुत्कण्ठाभरः कण्ठामरणीकृत-तत्तद्गुणगणो गोचारणसुखं वयस्यगणसङ्गसुखं च विहाय हायनावधिविवर्धितापूर्वपूर्वरागाणां तासामुत्कलिकामुत्कलिकाविकाशोन्मुखीकरणाय सङ्गानविगानविरहेण प्रादुर्भावावधि समुत्पन्नतत्त्वज्ञानैरिवानन्दपृथुकैः पृथुकैः क्रीडाशालभञ्जिकाकृतिभी रम्याशयैः स खलु व्रजराजकिशोरो बलसुबलसुदामादिभिरप्यलक्षितः कात्यायन्या भारलाघवं तासां च सौभाग्यभारगौरवं स्वस्य वैदग्ध्यभारप्रकटनं करिष्यन्न् तत एवालक्षितमाजगाम ॥४५॥
प्राग् एव पूर्वदिन एव नियतो विचारः श्वोऽत्र अमूत्र चरिष्यामः इत्य् एवं-लक्षणो यत्र तथा-भूतस्य चारस्थलस्य मुखेऽभिसरणे रणद्भिर् अव्याकुलैर् खगकुलैर् आकुलायमाने सति नभसि । तथा धेनु-गणम् अनु लक्षी-कृत्य सञ्चार-मुखे च वलवति सति । व्रतरताभिः कन्याभी रतकात् प्रेष्ठ-निष्ठ-रमण-सुखात् हेतोर् न्याय-लव्धो यः प्रेमा तेन वश्यः । अवश्य स्वतन्त्रोऽपि, अवश्यम् एव उदास्य उत्क्षेपयितुं दूरीकर्तुं योग्यस् तासां स उत्कण्ठाभारो येन सः लुम्पेदवश्यमः कृत्ये इति मलोपः । उत्कलिका उत्कण्ठा तत एव या मुदां कलिका स्व-द्र्शनेन जनिष्यमाण आनन्दकोरकस् तस्या विकाशोन्मुखीकरणाय तां विकसनोन्मुखी-कर्तुम् इत्य् अर्थः । सङ्गानं गुण-दृष्टिः, विगानं दोष-दृष्टिः5 । आनन्देन पृथुकैः प्रचुरैः, पृथुकैर् बालकैः, तेन स्व-प्रेयसीनां तासां नग्नत्वे तैर् दृष्टेऽपि न क्षतिः, अत्रापि6 सङ्गानेत्यादि-विशेषण-त्रय-वैशिष्ट्ये नितराम् एव । शल-भञ्जिका पुत्तलिका ॥४५॥
आगत्य चासौ, कृष्णोऽपि रक्तो रक्तोऽपि न चलोहितः, न चलो हितश्च चलोहितश्च हितपरोऽपि न हि तपरः ॥
रक्तस्तास्वनुरागी, कर्तरि निष्ठा । रक्तोऽपि रज्यतेऽत्रेति रक्तः, अधिकरणे निष्ठा, तासाम् अनुराग-विषयोऽपीत्य् अर्थः । न चलम् ऊहितं तर्क्यो यस्य सः, न चलो न चञ्चलो हितः सुहृच् च । चलमुहितमर्दनं यतः स चलोहितः, उहिर् त्वर्दे ऊहिङ् तर्के इति वोपदेवः । हित-अरिऽपि उपकारकोऽपि न हि नैव तपरः, तपस् तापस् तं राति ददातीति सः, विरोध-पक्षः स्पष्ट एव ॥
बद्धा केशान् यमितपरिधिर्नूपुरे मूकयित्वा, वारं वारं परिजनकथां वारयन् भ्रूविजृम्भैः । न्यञ्चत्कायश्चकितनयनो गोपयन्नङ्गमङ्गैर्गूढस्मेरो वसनमहरच्छौरिराभीरिकाणाम् ॥४६॥
यमितो वद्धा संयती-कृतः परिधिर् लम्बमान-परिधान-वस्त्रं येन सः ॥४६॥
आत्मानं चोरीकृत्य चोरीकृत्य तारल्यं सारल्यं साध्वीयस्त्वं दुरवगाह-गभीरोऽभीरोजसापहृत्य सकलानि दुकूलानि—
आच्छाद्य गात्रैः सहसाम्बराणि, मूकीकृताशेषवयस्यवर्गः ।
शनैः शनैर्नीपभुजाधिरूढ-स्तदाभिमुख्यं हरिरुल्ललास ॥४७॥
तासाम् आभिमुख्यं यथा स्यात् तथेति त्षां प्रत्यङ्ग-दर्शनार्थं नर्म-संवादार्थं च ॥४७॥
तदनु ता नुताः सौभाग्यलक्ष्म्या सलिलादुत्तितीर्षवो निर्दकूले कूले कृतालोका लोकातीताश्चकितमिदमातर्कयामासुः—“अहो किमिदं केनाप्यपहृतमम्बरमम्बरमणिकरं विना करम्बिना केनापि नात्र भूयते । भूयतेह केवलं के बलन्तीनां विहगराजीनां पदराजी, तदहो कयापि देवतया बत यापितानि कुत्रापि नो वसनानि, यद्देवताया एव धरणितलतलनाभावात् पदपदविलोकनाभावः” ॥४८॥
ताः कुमार्यः, नुताः । अम्बर-मणिः सूर्यस् तस्य करं किरणं विना कवम्बिणा संयोगिना । के जले वलन्तीनां प्रवलानां विहगराजीनां पदराजी चिह्न-श्रेणी, इह प्रदेशे, भूषता भुवि यतत इति पचाद्यच् । तलनं प्रतिष्ठां, पद-पदं चरण-चिह्नम् ॥४८॥
इति चकित-चञ्चलाञ्चलाक्षमभितोऽभितो विलोकमानानामानानाविधवितर्कं चिन्तयन्तीनामपाङ्गतरङ्गा मिहिरदुहितुरुपर्युपर्युत्फालफरफरायमाणसफरवधूश्रेणय इव मदमुदित-चलदलिदलितविस्मापितकुवलयकुवलयदलानीव वा परितः परितस्तरिरे दिशां मुखानिः ॥४९॥
आनानाविधतर्कं विविध-वितर्क-पर्यन्तम्, मद-मुदितैश् चलद्भिर् अलिभिः कनीनिकास्थानीयैर् दलितानि सम्मर्दितानि विस्मापित-भू-मण्डलानि यैस्तानि कुवलय-दलानि नीलोत्पल-पत्राणीव, परितस्तरिरे इति स्तृञ् आच्छादने व्याप्तवन्त इत्य् अर्थः । शफर-वधू-श्रेणय इति प्रथमम् अकस्माद् अतिचकित-संविग्नतया सम्पूर्णा-पाङ्गानाम् एवातिचाञ्च्ल्ये दृष्टान्तः । मद-मुदित-चलदलीति तद् अनन्तरं किञ्चिद् विचारपरतया तद् अंशतारका-मात्रा-चापल्ये इति ॥४९॥
ततश्चातिशयवैकल्येन वै कल्येन भूयत इति सकरुणारुणापाङ्गोऽपां गोचरीभूता भूतापहारी हारी ताः कुलमारिकाः सुकुमारिकाः सुललितमधुमधुरविकस्वरस्वर-स्वरपरिचित-सुधासुधावितामुवाच वाचमतिरसपरिहासहासपेशलं हासयन्नपि पृथुपृथुकवयस्यगणमतिप्रियप्रियक-तरुतरुणस्कन्धारोहरोहत्परभागोऽपरभागोजःपटलोद्धूतरविकिरणः श्रीव्रजराजयुवराजः ॥५०॥
अतिशय-वैकल्येन वै निश्चितं कल्येन प्रवलेन जायते इति हेतोः, कल्यौ सज्जनिरामयौ इत्य् अमरः । ताः कुल-कुमारिकाः प्रति व्रजराज-युवराजो वाचम् उवाचेत्य् अन्वयः7 । ताः कीदृशी ? अपां जलानां गोचरी-भूता जल-मध्यस्था इत्य् अर्थः । कारुण्ये हेतुः—भुवः पृथिवीस्थ-मात्रस्यापि तापहारी, किमुत तासाम् । हारी हारवान् । वाचं कीदृशीम् ? सुललितां मधुरोऽपि मधुरो विकस्वरः स्वरो यस्यां ताम्, स्वः स्वर्गोऽपि अपरिचितया सुधया सुधया सुष्ठु धावितां क्षालिताम् इव । रोहत्परभाग उत्पद्यमान-शोभः, न परं भजते अपरभाक्, स्वाधीन इत्य् अर्थः । यत ओजः-पटलेन तेजो-वृन्देन तिरस्कृत-सूर्य-किरण इति तत् तद् अनीति-कर्मणि देशाध्यक्षाद् अपि निर्भयत्व-व्यञ्जनार्थम् ॥५०॥
भो भो माशङ्कनकननीयतापरां तापरां कुरुत मनोवृत्तिमात्मनीनामयमहमहन्तां कुतुकरसमयं समयं प्राप्य कुर्वाणो लीलालोभवतीनां भवतीनां गतम्लान्यंशुकान्यंशुकानि निजहार । निजहारमुपहारीकृत्य सरसमित एवागत्य गत्यनवसादेन मिलिता एकैकशोऽथवा निजनिजाम्बराणि वराणि समादध्वं मादध्वंसेन ॥५१॥
आशङ्कनस्य आशङ्काया या कननीयता दीप्तता यत्-पराम्, कनी दीप्तौ । अतएव तापरां ताप-प्रदां मनो-वृत्तिं मा कुरुत, किन्तु अयम् अहम् अहं तां भवतीनां मनो-वृत्तिम् आत्मनीनाम् आत्मने हितां कुर्वाणः कर्तुम् अंशुकानि निजहार, हृतवान् अस्मि । कीदृशाणि ? गता म्लानिर् येषां तथा-भूता अंशवः किरणा येषां तानि । समादध्व गृह्नीत, मादो मत्तता-गर्वस् तस्य ध्वंसेन तां विहायेत्य् अर्थः ॥५१॥
अथ कात्यायनीव्रत-व्रततेरिव फले दुष्पचे पचेलिमतामिवागत्य गलिते प्रकट-सौरभ-रभसं तस्य रसमिव तत् कृष्णस्य सलोभ-व्याहरणं भव्याहरणं हरणमिव व्रतकर्मसमाप्तेः श्रवणपुटकेन पीत्वा पीत्वा च व्रतपरिश्रमपारमसमयसमयमानमाशालताविशालतावि सौभाग्यफलमिव तमम्बरवरचोरमुपघ्नमुपध्नत्य इवासकृद्दरकुडनलितललितलक्ष्मपक्ष्मपतनचञ्चलाञ्चलाभिनीतमन्दाक्षमन्दाक्षतलक्ष्मीकेनापाङ्गेन समुत्कर्षहर्षहठाकृष्टमनसोऽपि दारुदारुणया तयैवापत्रपयापयापितहर्षचिह्ना अप्रतिभाप्रतिभासमानसमानसाध्वसाः साध्वसाधितशीतभयमाकण्ठमेव सलिलमवललम्बिरेऽलं विरेमुश्च क्षणमुत्तरतः ॥५२॥
दुष्पचे अन्यैर् दुःशक्यपाके, पचेलिमतां स्वयम् एव पक्वताम्, कर्म-कर्तरि केर्लिमरः । तस्य फलस्य सलोभ-व्याहरणं लोभ-सूचक-वाक्यं व्रत-कर्म-समाप्तेर् भव्याहरणं मङ्गल-प्रापकं हरणं यौतुक-वस्तु, भावुकं भविकं भव्य इत्य् अमरः । हरणं यौतुक-द्रव्यम् इति मेदिनी । व्रत-परिश्रमस्य पारम् इत्वा प्राप्य । तमम्बरवरचोरमपाङ्गेनोपघ्नत्य इवेति अपाङ्गश्यामर्षाभिनायकत्वम् अपि सूचितम् । तं कथम्-भूतम् इव ? असमयेऽपि सम्यगयमानं स्वयम् आगच्छत् सौभाग्य-रूपं फलम् इव । तद् अपि कीदृशम् ? आशैव लता तस्या विशालताया वीः प्रजननं यतस् तत्, वी प्रजनन-कान्ति-गतिषु उपघ्नम् आश्रयम्, [पा ३-३-८५] उपघ्न आश्रये इति पाणिनि-सूत्रम् । अपाङ्गेन कीदृशेन ? दरकुड्मलिताभ्याम् ईषत्कुड्मलायमानाभ्यां ललितं लक्ष्म यत्र तद्- यथा स्यात् तथा पक्ष्मपतनेन चञ्चलाभ्याम् अञ्चलाभ्याम् अभिनीतं यन् मन्दाक्षं लज्जा तेन मन्दा पुनः पुनर् एवाक्षताप्रतिहता लक्ष्मीः शोभा यत्र तेन, मन्दोऽतीक्ष्णे च मूर्खे च इति मेदिनी । सम्यग् उत्कर्षो यस्य तथा-भूतेन हर्षेण हठाद् आकृष्ट-वित्ता अवललम्बिरेऽवलम्बितवत्यः । उत्तरतः प्रत्य् उत्तर-दानाद् अप्य् अलम् अतिशयेन विरेमुर् विरताः ॥५२॥
परस्परां पराञ्चिताननाः सत्योऽसत्योर्दकमिव तं व्याहारं विदत्यः सुदत्यः “सुभगत्वमुत्तरं देहि त्वमुत्तरं देहि त्वमुत्तरम्” इति निभृतमेवोचुर्न तु कापि कुतुकादुत्तरमदात् ॥५३॥
परस्पराम् इति स्त्री-नपुंसकयोः सुप आम् वेति स्मृतिः इति आम्, पराञ्चितानना लज्जानत-मुख्यः, न स्त्य उदर्क उत्तर-फलं यस्य तथा-भूतं व्याहारं कृष्ण-वाक्यम् इति प्रत्य् उत्तरे दत्ते सति न वस्त्र-प्राप्ति-सम्भावना । सुभगत्वेन सौभाग्येन हेतुना मुत् आनन्दस् तया तरोऽभिभवो यत्र तद् यथा स्यात् तथा देहि, तॄ तरे अभिभवे प्लुत्याम् इति कल्पद्रुमः । निभृतम् एव नीचैर् एव परस्पराम् ऊचुः ॥५३॥
तदेवमभितः कृतचकितेक्षणं क्षणं निर्वचनरचनरम्यतमं तासां वदनकुलमवाचालचालचतुरचञ्चरीकं दरविकासं दरविन्ददरविन्दवृन्दमिव मग्ननालं नालं चकार यमुनायाः किमु कमनीयताम् ॥५४॥
अवाचालौ चालने चतुरौ चञ्चरीकौ भ्रमरौ यत्र तत्, दर ईषद् विकासं विन्दत् प्राप्नुवद् अरविन्द-वृन्दम् इति । अत्र चञ्चरीकयोर् निर्वचनत्वेनैवारविन्द-वृन्दम् अपि निर्वचनम् इति तादृश-वदन-कुल-साधर्म्यम् अस्य सिद्धम् । किमु नालञ्चकार ? अपितु अलङ्चकारैव ॥५४॥
एवमनुत्तरमनुत्तरङ्गितदृशां चिरसमयरसमयतां व्रजदरसतामेवोत्पादयतीति पुरोगां रोगान्तरवदुपद्रवकरीमपत्रपामत्र पारयित्वा मधुरतरतरलित-पक्ष्मलक्ष्मीलक्ष्मीलदक्षिकमलमतिसकलसकलसरसससम्भ्रम-विनयानुनयानुत्तमन्नुत्तमन्दाक्षमति-दरहसितसितदन्तकान्तिकान्तिकलब्धिमधुर-मधुरिमाब्धि-लहरि हरिमभाषन्त ॥५५॥
नोच्चैस् तरङ्गिता दृशो याभिस् तासाम् । एवम् अनुत्तरं प्रत्य् उत्तराभावः, चिरसमयं व्याप्य रसमयतां व्रजत् सत् अरसतां सारस्या-भावम् एव वस्तु-विचारत उत्पादयतीति हेतोर् हरिम् अभाषन्तेत्य् अन्वयः । ननु लज्जावतीनां कुल-कुमारिकाणां कथम् एतत् सम्भवेत् ? इत्यत आह—पुरोगामग्रवर्तिनीं पत्रपां लज्जां पारयित्वा समाप्य, पार तीर कर्म-समाप्तौ । मधुरतरं यथा स्यात् तथा, तरलितैः पक्ष्मभिर् लक्ष्मीं शोभां लाति गृह्नाति तथा-भूतं क्ष्मीलत् सनिमेषम् अक्षि-कमलं यत्र तद् यथा स्यात् तथा, मील क्ष्मील निमेषणे । अतिसकलं सर्वम् अतिक्रान्तम्, कया शोभया ? इत्यत आह सकलं कला वैदग्धी तत्-सूचकं सरसम् अरूक्षं ससम्भम-सूचकं विनयानुनयाभ्यां प्रश्रय-प्रसादनाभ्याम् अनुत्तमं श्रेष्ठं नुत्तमन्दाक्षं प्रेरित-लज्जं तच् च तच् च यथा स्यात् तथा, तत्र वैदग्ध्यादि-सूचनं महेच्छेत्यादिभिर् विशेषणैर् यथायथं ज्ञेयम् । अतिदर अत्यल्पेन हसितेन सितस्य दन्तस्य कान्तीनां कस्य जलस्यान्तिक-लव्ध्या निकट-प्राप्त्या तत्र प्रति-विम्बितत्वान् मधुरा मधुरिमाव्धिलहरी यत्र तद् यथा स्यात् तथा, अभाषन्य व्यक्तम् अव्रुवन् ॥५५॥
**
“आं जानीमहे महेच्छ! त्वां गोकुलमहीमहेन्द्रस्य विततनयं तनयं प्रगुणगुणरत्नरत्नाकरं करम्बितकरुणातरङ्गमवनीमङ्गलमङ्गलक्ष्मीभरेण वितन्वानं तन्वानन्दमय्या सकललोकलोचनरोचनरोचिषं व्रजानन्दनं दक्षिणमक्षीणसमज्ञासमज्ञानमज्ञानहन्तारं हन्तारं कथमनयमनय इममतिमहीयांसं महीयां सम्पादयति तत्रभवान् भवान् दुर्नीतिहानिं हा निन्द्यमिदमाचरितं । चरितं किमहो, महोन्नतकुलकुमारिकामारिका देवतेव तेवते वतेयं ते रीतिः, यदमूनि नः समीचीनानि चीनानि जहार, हा रसिकतेयं तेऽयं न जनयिष्यते, परं त्वपयश एव । भो व्रजश्लाघ्य! व्रज श्लाघ्यताम्, देहि तावदस्माकमम्बराणि, वराणि सन्तु ते विशदानि यशांसि” ॥५६॥**
अङ्ग-लक्ष्मीभरेण अवन्या मङ्गलं वितन्वानं विस्तारयन्तम्, आनन्दमय्या तन्वा देहेन व्रजानन्दनम्8, दक्षिणं सरलम्, अक्षीणया सम्पूर्णया समज्ञया कीर्ता समं तुल्यम् एव ज्ञानं शस्त्र-शास्त्रास्तादि-पाण्डित्यं यस्य तमज्ञानहन्तारम्, अन्यस्मै अपि तादृश-ज्ञान-दायकम् इत्य् अर्थः । विततनयम् इत्यादिभिर् नवभिर् विशेषणैस् तत्-प्रतिरूपम् अनीतिं प्रगुण-दूषणं शीतार्तकन्यास्वकारुण्यं नग्निका दिदृक्षा-रूपम् अमाङ्गल्यं कन्या-गण-कटुकटाक्ष-विषयी-भावं दुःखदत्वम् । अदाक्षिण्यं दुष्कीर्तिम्, अविज्ञत्वम् अज्ञान-विस्तारं च क्रमेणाभिव्यज्ञापि कोमल-मुद्रया स्पष्टम् अप्य् आहुः । हन्त खेदे, अरं शीघ्रम्, इमम् अनयम् अनीतिम्, कथं त्वम् अनयो गृहीतवान् असि, नीञो लङ्-मध्यम-पुरुषैक-वचनम् । अनयं कीदृशम् ? अतिमहीयांसम् अतिवृहत्तरम् । महीयां मह्यै पृथिव्यै हितां दुर्नीति-हानिं भवान् सम्पादयति, तस्मै हितम् इति छः । हा पीडायाम्, निन्द्यं चरितम् इदं किम् अहो किम् अर्थम् आचरितम् ? ननु किम् अत्र निन्दनं सम्भावितम् ? तद् आहुः—कुल-कुमारिका इत्य् अनुकम्पायां कः, महोन्नता व्रतोद्यापनोत्सवासक्ताः, अतएव अनुकम्प्याः, कुल-कुमारीर् मारयतीति सा देवतेव इयं ते तव रीतिस् तेवते दीव्यति, तेवृ देवने । ब्तेति खेदे । चीनानि वस्त्राणि, हा इति शोके । ते तवेयं रसिकता अयं शुभावह-विधिं न जनयिष्यते । श्लाघ्यतां श्लाघ्यत्वं व्रज प्राप्नुहि ॥५६॥
अथ स पुनराह ताः पुनराहताः व्रीडभारेण कुर्वन्—“अयि नालीकमुख्यो नाउलीकमुख्योक्तिरहम्, कदाचन वचनवतामयमयथार्थ एव व्यवहारो हारोपेण यदयाथातथ्या तथ्यायते भणितिः, मम तु वचनामृतमृतमेवेति सुप्रसिद्धमेवैतत्, परिहासेनापि हितं नापिहितं करोमि सत्यम्, विशेषतस्तु व्रतवतीभिर्भवतीभिर्भवति न भव्यः परिहासः, सहसा सह साधुवादेन यदुक्तमिहागत्य नीयन्तां वराण्यम्बराण्यञ्जसेति तन्न कदापि मिथ्या भवितुमर्हति” ॥५७॥
ताः प्रति स श्री-कृष्ण आह, व्रीड-भारेण लज्जातिशयेनाहताः प्राप्ताघातास् ताः, कुर्वन् कर्तुम् इत्य् अर्थः । नालिक-मुख्यः ! हे कमल-मुख्यः ! अलीक-मुख्या मिथ्या-प्रधाना उक्तिर् यस्य तथा-भूतो नाहम्, वचनवतां जनानां कद्दाचित् क्वचिद् अयथार्थो मिथ्या-भूत एव व्यवहारो भवति । कुतः ? यतोऽयाथातथा मिथ्या-भूतैव भणितिः, ह स्फुटम्, आरोपेण सत्यत्वारोपणैव कदाचन तथ्यायते, ते मिख्या-भूतम् अपि स्व-वचनं सत्यम् इव प्रत्यायन्तीत्य् अर्थः । अपिहितम् आच्छादितं न करोमि ॥५७॥
पुनर्निजगदुस्ताः—“दुस्तापहर! हन्त हन्तरधर्मस्य धर्मस्य किमहो पन्यानं नारोहसि, हसितेनापि सन्तो नैवं निगदन्ति, दन्तिवरगामिन्! भवन्ति हि भवन्तः किल सहजदयालवो, दयालवोऽपि किमस्मासु नास्ति परदुःखमननुभवतां भवताम्” ॥५८॥
हे अधर्मस्य हन्तः ॥५८॥
यदस्माकमतिहिममहिममयूखतनयाम्भोऽवगाहमानानां पृथुवेपथुमतीनां मतीनां वैकल्यं कल्यं भवतीति न विदाङ्कुर्वन्ति भवन्तः ॥५९॥
अहिम-मयुखः सूर्यस् तत् तनया यनुमा तस्या अम्भो जलम् अतिहिमम्, वैकल्यं व्याकुलत्वम्, कल्यं समर्थं न विदाङ्कुर्वन्तु, न जानन्ति, न विचारयन्तीत्य् अर्थः ॥५९॥
तदहो वरमिह मिहिरदुहितरि हितरिच्यमानाः सुमहिमहिमपयसि म्रियामहेऽयामहे न विवस्त्रा वस्त्रासकारिणामन्तिकमयं हि कुलजाकुलजातिस्वभावो भावोऽयं ते खलु दृष्टः ॥६०॥
तद्विरम चिरमचिक्कणक्वणन् ! प्रणमामो मा मोहय वचसा च साधुपरिहासविशारद! शारदशशिवाञ्छितास्य-दास्य! दास्य एव ते वयमिमा मिमान इव नो मनो यदा यदाज्ञापयसि, तदेव करवामहै महैश्वर्यमिदं हीयतां हीयतां धर्मशरणिः । रसपरिहासामृतस्य मा प्रहीयतां प्रहीयतां नोऽरुचीर चीरनिचयः शिशुभिरेव रेवणानर्हैः ॥६१॥
अचिक्कण-क्वण्न ! हे रूक्षवादिनि ! वचसा च वाक्येनापि म मोहय, किं पुनः कर्मणा । शरद-शशिनापि वाञ्छितमास्यस्य मुखस्य दास्यं यस्य हे तथा-भूतेति तादृश-मुखाद् अमृत-रूपं प्रियम् एव वाक्यं निःसर्तुर् मर्हतीति भावः । नोऽस्माकं मनो मिमान इव परिमातुं परीक्षितुम् एवेत्य् अर्थः । हेतौ शानच् । इदं वस्त्रादान-रूपं महैश्वर्यं हीयतां त्यज्यताम्, ओहाक् त्याते, हि निश्चितम्, ईयताम् अनुविधीयताम्, धर्मस्य शरणिर् मागः । इङ् गतौ । मा ग्रहीयतां मा कूपायताम्, पूंस्येवान्धुः प्रहिः कूपः इत्य् अमरः । चीर-निचयः प्रहीयतां प्रेष्यताम्, हे अरुचिर ! अस्माकम् अरुचिमरोचकम् एव ईरयसि आचरसि, तत् किम् अर्थम् एवेति भावः । शिशुभिर् एव द्वार-भूतैः, न तु स्वयम् एवागत्य् अत्य् अर्थः । कुतः ? रेवणानर्हैः, रेवणं शङ्का रेवृ शङ्कायाम् तद् अनर्हैः, शिशुत्वादेषु लज्जानुत्पत्त्या विश्वस्ता भवेम, त्वयि तु नैव तथेति भावः ॥६१॥
इति सामभिरासामभिरामोक्तौ विरतायामन्याश्चतुरन्मन्याश्च तुरङ्गवदना विकस्वर-स्वरपरिवादि-परिवादिनीकलकण्ठस्वराः स्वरागप्राकट्येन सप्रागल्भ्यमूचिरेऽचिरेण—“अहो कष्टं कष्टयतु धर्मपथम्, गोकुलनगरी गरीयसान्यायेनैवं ना कदापि नाकदापिहिता, अन्याये सति तदपसारार्थं सारार्थं यस्मै निवेदिष्यते, स एवान्यायकारी, का रीतिरभूदस्मिन्
व्रजनगरे, व्रजनगरेन्द्रनन्दन वसनानि चेन्न ददासि, दासिकायमानाभ्यो नस्तदा व्रजराजाय जायमानयानयासूयया निवेदनीयम्” ॥६२॥
इति सामभिः प्रीति-लक्षणैर् उपायैर् अभिरामायां रम्यायाम् उक्तौ वाचि विरतायां सत्याम्, अन्याभय-प्रदर्शन-रूपं भेद-लक्षणम् उपायम् आलम्बमाना ऊचिरे । चतुरङ्ग-वदनाश् चतुरङ्गसेनावन्निःशङ्क-मुख्यः, श्लेषेण तुरङ-वदनाः, मूर्ताः किन्नर्य एवेत्य् अर्थः । विकस्वरं स्वरं परिवदितुं शीलम् अस्याः सा परिवादिनी वीणा तस्याः कल इव कण्ठ-स्वरो यासां ताः । टङ्कयतु निर्वध्नातु निश्चिनोतु वा । गोकुल-नगरी एवं गरीयसान्यायेन कदापि नापिहिता नाच्छादिता, अभावे नह्य नो नापि इत्य् अमरः । कीदृशी ? नाकं स्वर्गं द्यति तिरस्करोति, ततोऽपि सुन्दरीति भावः । यद् वा, न अकं दुःखं ददातीति सा । जायमानया तवानयचेष्टितेन हेतुनाधुनैवोत्पद्यमानया ॥६२॥
पुनरसकौ रसकौतुकी स्मितव्याजहारो व्याजहारोचितं किमपि—“एतदयि दयितमुदितमुदितमुदितरथाकर्तुं नार्हथ । यदि भवत मम दास्यो मदास्योदितं वा करिष्यथ, तदुचितमुपचितमुपधिरहितं हितं खल्विदं मम वचनं कथं न पाल्यते? न हीश्वरस्य रस्यमरस्यं वा वचः खण्डयन्ति दास्योऽदास्यो वा कः पदार्थस्तासामीश्वराय? तेनोभयथैवागत्य नीयतां वसनकुलम्, न कुलं कलङ्कनीयम्, नो चेदहं न ददानि, कुपितेन किं राज्ञा वाज्ञा बाधिष्यते” ॥६३॥
असकौ कृष्णस् ताभिर् अज्ञताभि-प्रायकत्वात्, अज्ञातार्थे अकच्, स्मितम् एव वक्षसि द्योतमानं सद्-व्याजेन हारो यस्य सः व्याजहार इवाच । अयीति सम्बोदने, एतद् दयितं प्रियम्, उदितं व्याक्यम् । कीदृशम् ? उदितमुत् उदिता मुत् प्रीतिर् यतस् तत् । इतरथा कर्तुं प्रथाख्यातुम् । मदास्योदितं मन् मुख-वाक्यम्, अदास्योऽदेयः, दासृ दाने । उभयथा स्व-मुख-स्वीकृतेन मद् दास्येन मद् वाक्य-परिपालनेन वा हेतुनेत्य् अर्थः । तेन राज्ञा मत्-पित्रा मयि परम-वत्सलेन किं वा वाधिष्यते ? न वाधिष्यत एवेति । हे अज्ञाः एतद् अपि न जानीथेति भावः ॥६३॥
इति सनिर्बन्धं कृष्णस्य तदानीन्तन-व्याहारं नव्या हारं हारं श्रवणपुटकेन केनचिच्चिरचितेन प्रणयेन नयसनाभिनाभिलषणीय-दुर्लभजन-भजन-भाजनसभाजनसरसेन “नातः परं हेलनीयं दुर्लभजनोदितं नो दितं च भवति” इति विचारयता रयतारल्यवता वतान्तरेण कुपितामपि तामनुरक्तसखीमिव ह्रियं चानपेक्ष्य परस्परं परं निर्विवाद-संवाद-सम्बद्ध-हृदया युगपदेव ता देवता इव यमुनाजलाधिष्ठात्र्यः कूलमनुकूलमनु समुत्थातुमुपचक्रमिरे ॥
नव्या नवीना गोप-कुमार्यः, हारं हारं हृत्वा हृत्वा गृहीत्वा गृहीत्वेत्य् अर्थः । नय-सनाभिना समूचित-नीतिसोदरेण चिरचितेन बहु-दिन-सञ्चितेनाभिलषणीयं वाञ्छनीयं यद्-दुर्लभ-जनस्य श्री-कृष्णस्य भजनं तद् भाजयतीति तच् च तत् सभाजनेन श्लाघया सरसं चेति । तेन तथा-भूतेन प्रणयेण हेतुना दुर्लभजनस्योदितं वाक्यम्, अतःपरं न हेलनीयं नो नापि दितं खण्ढितं च भवति, दास्यो भवेम, तवोदितं च करवामेति स्वयम् एवोक्तवतीनाम् अस्माकम् अधुना योग्य-प्रत्य् उत्तराभावाद् अपीति भावः । इति विचारयता अन्तरेण मनसा अनुकूलं कूलं तटम् अनु लक्षी-कृत्य समुत्थातुम् आरेभिरे । अन्तरेण कीदृशेन ? रयः प्रेम-वेगस् तेनैव तारल्यं चापल्यं तद् वता, चिरं धैर्यं कर्तुम् अशक्नुवतेत्य् अर्थः । वतेति विस्मये, लज्जातोऽपि प्रेम-वेगस्य प्रावल्यद्योतनाय । अनुरक्त-सखीम् इवेति उपेक्षितायास् तिरस्कृताया अपि तस्याः स्वत्यागासम्भवात् ॥
यथा—
स्कन्धद्वन्द्वादुरसि लुलितैरायतैः केशपाशैर् **ऊरुस्तम्भावधिनिपतितैश्छादयन्ती पुरोऽङ्गम् । ** बालामाला मिहिरदुहितुः प्रोत्ततारानुकूलं गाढाश्लिष्टा तिमिरनिकरैश्चन्द्रिकामण्डलीव ॥
लुलितैर् मृदुलितैः, आयतैर् दीर्घैः, ऊरु एव स्तम्भौ स्थुणे तावभिव्याप्य, जानु-पर्यन्तम् इत्य् अर्थः । पुरोऽङ्गमग्रगात्रम् । बालानां माला श्रेणी ॥
किञ्च—
**स्वीया श्रीर्नयनेषु यौतुकतया नीलोत्पलैरपिता हंसीभिर्व्यधितौपढौकनमिव प्रस्थानलीलायितम् । ** सौन्दर्यं च सुसौरभं च कमलैस्तासां मुखेष्वाहितं कालिन्दीपयसः प्रयाणसमये पूजेव सर्वैः कृता ॥
सौन्दर्यं च सुसौरभ्यं चेत्य् अर्थ पूर्ववत्, यौतुकौपढौकनाद्युत् प्रेक्षण-विशेषानुक्त्या भग्न-प्रक्रमाख्यो देषो नाशङ्कनीयः । पूर्वैर् उभयैर् एकैक-वस्तु-प्रदानात् तथोक्तिः । कमलैस् तु सौन्दर्यस्य सौरभ्यस्य चकाराभ्यां मृदुत्व-प्रफुल्लत्वयोश् च प्रदानात् सर्वस्वार्पणम् एव कृत, सर्वस्वार्पणस्य तु यौतुक-दानत्वाव्यवहारात् तथानुक्तिर् इति व्याख्यानात् ॥
किञ्च—
ह्रिया शीतेनापि व्यरचि चिरमान्द्यं चरणयोर् **मुदा वातेनापि व्यतनि तुहिनाढ्येन पुलकः । ** ह्रियौत्कण्ठ्यनापि प्रसभमविशेषं बलवता समातेनेऽन्योन्यं स्फुटमगतिगत्योरिव रणः ॥
तुहिनाढ्येन हिम-कण-युक्तेन वातेन ह्रिया लज्जयौत्कण्ठ्येन च यथा-क्रम-गति-गत्योर् निमित्तयोर् अन्योन्यं रणः सम्यगातेने व्यस्तारि । अविशेषं बलवतेति द्वयोर् विशेषणम्, तच् च प्रथमम् एवायत्याम् औत्कण्ठ्यस्यैवाधिकवलत्वं गत्या लक्षितम् इति ज्ञेयम् ॥
किञ्च—
किञ्चिद्दूरमुपेत्य हन्त सहसा व्रीडासखीतर्जना **दन्योन्यं सरसोपहास-पिशुनस्तासां वचोविग्रहः । ** त्वं याहि प्रथमं प्रयातु भवती याहि त्वमेकाकिनी गच्छ त्वं व्रज तन्वि यातु भवतीत्येकान्तकान्तोऽभवत् ॥
किञ्चिद्-दूरं नाभिदघ्न-जलल्-प्रदेशम् ॥
किञ्च—
सौभाग्येन परस्परं बलवता तुल्येन तुल्यं तदा **कृष्टानां नहि तत्र काचन ययौ नो कापि तस्थौ पथि । ** सर्वा एव नतानना द्रुतहृदो मन्दाक्षमन्दोत्सवाः । किञ्चिन्न्यञ्चदुदञ्चदञ्चलदृशः कृच्छ्रण तत्राययुः ॥६४॥
परस्परं तुल्येन समानेन बलवता सौभाग्येन तुल्यम् अनुरूपम् एव यथा स्यात् तथा तेन कृष्णेनाकृष्टानां तासां मध्ये काचन कापि न ययौ न तस्थौ च । किं च, सर्वा एवेत्यादि । द्रुत-हृदः प्रेम-विक्लिन्न-मनसः ॥६४॥
एवं समीपमुपसन्नानां सन्नानां ह्रीभरेण कासाञ्चित् पुरोगाणामङ्गैरन्तरिताङ्गीनर्ताङ्गीनर्यनकोणेनालक्ष्य सवैलक्ष्य-सवैदग्ध्यं स रसिकशेखरः खरतरमनोरागपरभागपरभाजनं जनं जनं प्रति प्रतिजगाद—“कथमयि मयि कृतसाध्वसाः साध्वसारस्येन पुरः पश्चाद्भावेनानवस्थितावस्थिताः कथं वात्मानं गोपायितुमर्हिष्यथ । उन्नतरूप-तरूपरि परितस्थुषा मया समया सकलाः कलावत्यो भद्रेणैव वीक्ष्यन्ते, तत् किमनयानयानुबन्धपरया प्रतारणया? तदधुना साधुनासाध्वसेन श्रेणीभूय भूयसीं श्रेणीं दधत्योऽवस्थातुमर्हन्ति, तथा कृते प्रकृते प्रयोजने वासोग्रहणेऽपि कौशल्यं कौ शल्यं तदेव यदन्तरङ्गजनरङ्गजनकं न भवतीति मद्वचसा च साम्प्रतं वासो गृहीत” इति । तदा तदाकर्ण्य कर्ण्यमतिरसायनं मतिरसाय नन्ददपि पुरोगतानां समानभावेन समानभावेन तदा तदाज्ञानुरूपमेव यथायथं श्रेणीभूय तस्थुः ॥६५॥
ह्रियो लज्जाया भरेण भारेण सन्नानां विषण्णानां पुरोगानाम् अग्र-गामिनीनां कासाञ्चिद् अङ्गैर् एवान्तरिताङ्गीराच्छादित-गात्रीः सवैलक्ष्यं सविस्मयं सवैदग्ध्यं च यथा स्यात् तथा, यमकानुरोधात् द्वन्द्वैक्यम् । खरतरस्याति-तीक्ष्णस्य मनसोऽनुरागस्य परभागः सौन्दर्यं तस्य पर-भाजनं श्रेष्ठं पात्रम्, अनवस्थितम् अव्यवस्थितम् अवस्थितं स्थितिर् यासां ताः, उन्नत-रूपस्यात्य् उच्चाकृतेस् तरोर् उपरि, श्लेषेण, उन्नतं रूपं सौन्दर्यं तद् एव तरुस् तस्योपरि परितस्थुषा स्थितवता सर्व-सौन्दर्य-गुणस्यापि चूडामणिनेत्य् अर्थः । तेन तासां प्रलोभनमयं स्वयन्दौद्यं व्यञ्जितम् । समया निकट एव । असाध्वसेन निःसङ्कोचेन तथा कृते तथावस्थाने कृते सति, कुशलस्य भावः कौशल्यं चातुर्यम् । अन्यथा व्यवहित-गात्रीणां पश्चाद् वर्तित्वाद्वाससो ग्रहणे परिधाने च कृच्च्रम् एवेति भावः । कौ पृथिव्यां तद् एव शल्यं तद् वचः कर्ण्यं कर्णाभ्यां हितम्, मतेर् वुद्धेः, रसाय स्वादार्थं नन्दद् अपि समृद्धिमच् च, पुरोगतानां समान-भावेन च तुल्याकारत्वेन मान आदरो भावः प्रेम ताभ्यां सहितेन ॥६५॥
तथा स्थितासु तासु सुप्रीतमना मनाग्विहस्य स्कन्धे निहित-तत्तदम्बरः पीताम्बरः पीताखिलकुमारीवदन इव दृशा दृशामभिरामः पुनराह ता हता मन्दाक्षेण—“अयि विरुद्धमेतत्—
विस्रस्तकीर्णचिकुरत्वमिदं ह्यलक्ष्मी-लक्ष्म व्रतस्थितजनस्य तु निन्द्यमुच्चैः । सामान्यलोकसविधेऽपि विमुक्तकेशा, नार्हन्ति गन्तुमनु मान्यजनं पुनः किम्” ॥६६॥
मन्दाक्षेण लज्जया हस्तास् ताः पुनर् आह । मान्यजनम् आदरणीय-जनम्, अनु लक्षीकृत्य, तस्य निकट इत्य् अर्थः ॥६६॥
**
“हन्त भोः सुकेश्यः! के श्यन्ति स्वहितम्, अनिबद्धाः केशा नाकेशानामपि लक्ष्मीः क्ष्मीलयन्ति, तदयि वदननिन्दितराकेशाः केशान् बध्नीत” ॥६७॥**
के जनाः स्वस्य हितं श्यन्ति नाशयन्ति । नाकेशानां स्वर्गपतीनाम् अपि क्षीयन्ति मुद्रयन्ति , राकेशश् चन्द्रः ॥६७॥
इति समाश्रुत्य श्रुत्यतिरम्यं शमितातङ्कं तं कञ्जनयनस्य व्याहारं सकलाः सकलाकौशलं शलन्त्यस्त्रपाजलनिधौ निधौतभावाः समाकुञ्चितोरुचितोरुरामणीयकमधिधरणिरणित-हंसककलहंसककलहानुरक्तरक्तचरणकमलपार्ष्णियुगलोपरिपरिपातित-जानुयुगलमुपविश्य चलवलयझङ्कारकारणकर्णामोदकराभ्यां कराभ्यामदरसमुन्नमिताभ्यां मदरसमुन्नमिताभ्यां दरविकसदुरसो रसोल्लासितमानसाः केशकलापं कलापण्डिततया बबन्धुः ॥६८॥
सकलाकौशलम् इति व्याहार-विशेषणम् । त्रपाजलनिधौ शलन्त्यो गच्छन्त्यः, तत्रैव निधौत-भावा अतिशयेन क्षालित-स्वरूपाः, निमज्ज्योत्थिता इत्य् अर्थः । सम्यग् आकुञ्चिताभ्याम् उरुभ्यां चितमानीतम् उरु अधिकं रामनीयकं यत्र तद्-यथा स्यत् तथा, अधिधरणि धरण्यां रणितो ध्वनि-युक्तो हंसकः पाद-कटक एव कल-हंसकस् तस्य कलहे अनुरक्तयोर् अनुरागिणो रक्तयोर् अरुणयोश् चरण-कमलयोः पार्ष्णि-युगलस्योपरि परिपातितं स हत-जानु-युगलं यत्र यद् यथा स्यात् तथा उपविश्य, अत्र केश-बन्धने लज्जया श्रेणी-भावम् अपहाय पुनर् अप्य् अग्रपश्चाद् भावस्थितिम् अङ्गीकुर्वाणानां तासां यः श्रेण्य् अग्रवर्तिन्यः9 कुञ्चित-निचीन-संहतजानु-युगलोपरि निहित-कफोणि युगलम् उपविविशुस् तासाम् एव पार्ष्णि-युगोपरि10 पृष्ठवर्तिन्यस् तादृश-जानु-युगलं निदधुर् इति ज्ञेयम् । अन्यथा स्व-स्व-पार्ष्णि-युगोपरि निहित-जानु-युगत्वेन सौखासनतयोपवेशे जघन-प्रान्तोद्घाटनं स्यात् । चलानां बलायानां झङ्कार एव कारणं यस्य तथा-भूतम्, कृष्णस्य कर्णयोर् आमोदं कुरुत इति ताभ्यां कराभ्याम् अदरम् अनल्पं समुन्नमिताभ्यां मदरसं हर्ष-रसम् उन्नमार्द्रमिताभ्यां रोमाञ्च-चिह्नेन प्राप्ताभ्याम् इत्य् अर्थः ॥६८॥
बन्धुरथ तासां पुनरपि निजगाद निजगादप्रतिपालनतस्तुतोष च तोषचपलः—“हन्त भोः पुरतो मान्यस्य मान्यस्य समुपवेशोऽभिशोभितामुपैति, भवत्यो यद्यपि न सामान्या मा न्यायस्तदपि मदग्रतो वः समुपवेशनम् । तदुत्तिष्ठन्तु तिष्ठन्तु च मच्छासनेऽच्छासनेऽस्मिन्नोपविश्यताम्” इति पुनरस्य रस्यतममुक्तं मुक्तं वदनचन्द्रमसः पीयूषयूषमिव श्रवणनिर्व्यथनेन निर्व्यथनेन निपीय जातसाध्वसाः साध्वसाधु-विचार-विरहेणैव सहसा सहसादरतया जानुनि जानु निधाय परस्परासक्तकरकमलपिहितोरुमूलमामूलमालम्बमानावरोहरोहदतिरामणीयका मणीयकाननलता इव किञ्चिदानताः समुत्तस्थुः ॥६९॥
निजस्य गादो वचनं तस्य प्रतिपालनाद् धेतोस् तुष्टस् ततश् च तोष-चपल आनन्देनास्थिरोऽभूत् । मान्यसादरणीयस्य पुरोतोऽन्यस्य अमान्यस्य जनस्य उपवेशो मा अभिशोभिताम् उपैति, न शोभते । मा न्यायोऽन्यायः । अस्मिन्न्च्छासने निर्मलासने, श्रवण-निर्व्यथनेन कर्णच्छिद्रेण, च्रिद्रं निर्व्यथनं रोकम् इत्य् अमरः, व्यथनस्यात्य् अन्ताभावो निर्व्यथनं तेन निपीय आमूलं मूल-समीप-पर्यन्तम्, आ ईषल् लम्बमानाभ्याम् अवरोहाभ्यां रोहदुत्पद्यमानम् अतिरामणीयकं यासां ताः, मणीय मणिमय्यः आननलता इव ॥६९॥
पुनरुवाच वाचमतिसरसां स रसाञ्चितमना मनाग्विहस्य—“हन्त भोः कुमार्यो मार्योपसेवनोचितं चितं वश्चरितम्, न खलु व्रतपराः परास्तदुकूलतयानुकूलतयानुगम्य जलदुकूलतां कूलताण्डवितदृशः खेलितुमर्हन्ति । नग्नतया सलिलावतरणे तरणेदुर्हितरि सलिलदेवता वतातिशयहेलिता भवति । देवताहेला हे लालसाविरोधिनी च, तदिदमागो मा गोचरीभूतं वः । व्रतफलफलनाय यदि वो दुर्लभाय लभायता भवतीच्छायास्तदा तदागःक्षमापणाय पणायन्ताम्, अस्ति निरपाय उपाय उत्तमस्तत्र कश्चित्” इति निशम्य शम्यवस्थामापन्नेन हृदा सुहृदा सुखदेन सह सहसा हरिणनयना व्यचीचरन् ॥
मेति निषेधे । आर्याणां शिष्टानाम् उपसेवनोचितम् अनुसरण-योग्यं वो युष्माकं चितं समुदितं चरितं न भवति । अनुकूलतया आनुकूल्येन जल-दुकूलतां ल्जलं दुकूलं यासां तथा-भूतत्वम्, अनुगम्य प्राप्य । तरणेर् दुहितरि यनुनायाम्, हेला अवज्ञ, हे इति सम्बोधने, लालसा कामना वो युष्माकम् आगोऽपराधो मा गोचरी-भूतं न विषयी-भूतम् । ननु तर्हि सम्प्रति किं विधेयम् ? तताह—व्रत-फलस्य फलनाय निष्पत्तये फल निष्पत्तौ । किदृशाय ? दुर्लभाय, इच्छाया लभा लाभा आयता अधिका भवति, लभेः षित्त्वादाङः, व्रत-फल-निष्पत्त्य् अर्थःं यद् इच्छाम् अधिकं प्राप्नुथेत्य् अर्थः । शमिनां शान्तानाम् अवस्थां प्राप्तेन स्व-पौढिनाशात् प्राप्त-दौन्येनेत्य् अर्थः । हृदा मनसा सह व्यचीचरन् पराममर्शुः । सुखदेद्न सुहृदा अनार्जवत्यागादनुकूल-प्रिय-सुहृद् रूपेणेत्य् अर्थः ॥
**“यद्यज्जगाद तदिहाकरवाम वामः, किंवा परं वदति तन्नहि हन्त विद्मः । ** नैव क्रियेत यदि तद्व्रतसाध्यबाधा-भीतिं प्रदर्शयति हा किमिहाचरामः” ॥७०॥
वामाः प्रति-कूल-चेष्टितः कृष्णः । व्रतस्य साध्यं फलं तत्र वाधा-रूपां भीतिं ॥७०॥
इति क्षणमितरेतरेक्षणसक्षणसचकितं शङ्कापङ्कापङ्गुमनसो न सोढव्यमन्यत् सोढव्यं वा किमपीति सन्दिहाना हानादान-व्यसनिन्यो बभूवुः ॥७१॥
इतरेतरेक्षणं स्व-परविचार-संवेदनार्थं परस्पर-कृत-दृष्टिकं सक्षणं प्रेष्ठस्य तादृशाग्रह-दृष्ट्या सोत्सवं सचकितं हन्त किं भविष्यति इति सत्रस् तं तच् च तच् चेति द्वन्द्वैक्यम् । शङ्कैव पङ्कस् तेन आ सम्यक् पङ्गु प्रवृत्य् असमर्थं मनो यासां ताः हानादाने तदाज्ञायास् त्याग-स्वीकारौ एव व्यसने विपत्ती तद् वत्यो बभूवुः ॥७१॥
तासां तादृशां दृशां कातर्यं समालोक्य समालोक्यवदनश्रीमालिन्यान्मनोग्लानिं चानुमायामायामेवाश्रित्य स पुनराह ॥
समम् अकुटिलम् आलोक्यं दीप्ति-योग्यं तद् वदनं तस्य श्रियः शोभाया मालिन्याद् धेतोः, आलोकौ दर्शनोद्द्योतौ इत्य् अमरः । अर्हार्थे यत् । अमायामकैतवम् ॥
**“आशङ्काचकितचकोरकान्तिचोरैः, पश्यन्त्योऽक्षिभिरभितः परस्परास्यम् । ** किं बालाः कलयथ कर्कशान् वितर्कान्, श्रूयन्तां कलुषमुषोऽस्मदीयवाचः” ॥७२॥
कलुषं व्रत-वैगुण्य-रूपं पापं मुष्णन्ति नाशयन्तीति ताः ॥७२॥
विनोदकं विनोदकं भवति किं पिपासायाः, सायाह्नं च विना न भवति कोऽपि समयो निदाघवासरस्य रस्यः, तन्मदुपदेशो भवतीनां कार्यः ॥
उदकं जलं विनापि पिपासायास् तृष्णाया विनोदकं निरासकं किञ्चिद् अस्ति किम् ? नास्त्य् एव । यत्र पिपासा तत्रोदके प्रातिकूल्यम् अयुक्तम् इव मयि स्पृहावतीनां भवतीनां व्रतिनीनां मद्रोचक-कृत्यानाचरण-रूपं प्राति-कूल्यं मय्य् अनुचितम् एवेति भावः । ननु कुल-बालिकानां लज्जा-निर्मूलनेनात्य् अन्त-विडम्बनम् एव स्म्प्रति ते रोचकम्, तत् कथं कर्तुं शक्यते ? रोचकान्तरम् उच्यतां यद् वयम् अनुतिष्ठेम ? तत्राह—सायाह्नं विना निदाघ-वासरस्य कोऽपि समयोऽपराह्नादिर् न रस्यः, तथा तं विना कथम् अप्य् उष्मा न निवर्तते, तथैव भवतीनां प्रकटम् एव सर्वाङ्ग-दर्शनं विना ममाग्रहो न निवर्तिष्यत एवेति भावः ॥
**“अंहः-सङ्घ-क्षपणपणनो मह्यमेव प्रणामः ** **कल्याणानामपि जनयिता श्रद्धया कल्प्यमानः । ** ऊर्ध्वे मूर्ध्नामृजुतरतनूवल्लयो हन्त तस्मा दद्धा बद्धाञ्जलि विदधतां सुभ्रवोऽस्मत्प्रणामम्” ॥
एवं रहस्यं स्व-चिकीर्षितम् अर्थम् अपदेशेनैव व्यञ्जनया वोधयित्वा प्रकटम् अप्य् अपराध-रूपं मिषम् आलम्ब्य व्यवतिष्ठमान आह—अंह इति । अंहः-सङ्ङ्घानां क्षपणम् एव पणनं पणः फलं यस्य सः । किं च, श्रद्धया कल्प्यमानः सन् कल्याणानां वहुतरम् अङ्गलस्वाभीष्टानाम् अपि जनयिता उत्पादको भवति । ततस् ताः पञ्चाङ्ग-प्रमाणामं विधित्सतीर् आशङ्क्य स्वाभीष्टाविरोधिनीं तत्-परिपाटीं स्वयम् अभिनयेन शिक्षयन्न् आह—मूर्ध्नां मस्तकानाम् ऊर्ध्वे सीमन्त-प्रदेशे वद्धोऽञ्जलिर् यत्र तद्-यथा स्यात् तथा अस्मत्-प्रमणां विदधतां कुर्वन्तु । सुभ्रुव इत्य् अस्य विशेष्यत्वात् प्रथम-पुरुषः । तथापि कुञ्चिताङ्गत्वं सम्भाव्याह-ऋजुतर-तनु-वल्ल्य इति ॥
ततश्च—
ह्रियं कृत्वा पश्चात् प्रियतमगिरोऽग्रे विदधती **स्वलावण्यं कृत्वा वसनमखिलाङ्गावरणकम् । ** ऋजूभूय स्थित्वा दरमुकुलिताक्षी करपुटीं शिरोऽग्रे बिभ्राणा हरिणनयनाश्रेणिरनमत् ॥७३॥
दरम् उकुलिताक्षीति हन्तास्माकम् ऊरु-मूलस्य कीदृशत्वं वा खल्वनेन दृष्टम् अभूद् इत्य् आलोकनार्थम् अतिलज्जयापि नेत्रयोः सम्यङ्-मुद्रणाभावः ॥७३॥
अथ यथानिदेशं विहिताचरणप्रपञ्चाः पञ्चालिका दारवीरिव नाट्यमाना नाट्यमानाशयः शयकुशेशयशयसकलवसनः सनम्रमुखीस्ताः प्रति प्रीतमना मनाग्विहसितसितसुधासुधाविताधरः प्रत्येकमेव प्रणयरसोत्कटाक्षः कटाक्षकलया निरीक्ष्य निजगाद—“प्रीतोऽहं वः साधुनाधुना निर्व्यलोकेन केनचिद्भावेन भावेन, तदुन्नीयतां करकमलं, नीयतां करकमलं कर्तुमुचितरागं वसनकुलं परिधीयतामुपरि धीयतामुचितचितपरितोषाणां मनोवृत्तिः” ॥७४॥
दारवीः काष्टमयीः पञ्चालिआः पुत्तलिका इव नाट्यमानाः, नृत्यं कार्यमाणाः । स कीदृशः ? नाट्ये नर्तनायां मानो ज्ञानं यस्य तथा-भूत आशयोऽन्तःकरणं यस्य सः, नर्तयितुं विचक्षणधीरित्य् अर्थः । शयः पाणिर् एव कुशेशयं कमलं तत्र शेरते इति शयकुशेशयशयानि सकल-वसनानि यस्य तथा-भूतः, वस्त्राणि दातुं स्कन्धतो हस्ते दधान इत्य् अर्थः । पञ्च-शाखः शयः पाणिः इत्य् अमरः । प्रणय-रसेन उत्कटम् अक्षम् अन्तःकरणं यस्य सः, प्रेमार्द्र-चित्त इत्य् अर्थः । भां शोभाम् अवति पुष्णातीति भावस् तेन । वसन-कुलं नीयतां ततश् च परिधीयताम् । कथम्-भूतम् ? करकं दाडिम-पुष्पम् अपि अलङ्कर्तुम् उचितो राग आरुण्यं यस्य तत्, समौ करक-दाडिमौ इत्य् अमरः । उचितानां योग्यानां चित-परितोषाणां समूडानन्दानाम् उपरि मनोवृत्तिर् धीयताम् अर्प्यताम्, निज-भावोचित-सुख-सिन्धु-मग्न-चेतसो भवतेत्य् अर्थः ॥७४॥
इति निगद्य तथा समुन्नीतकरकमलाभ्यः कमलाभ्यधिकसौभगाभ्यो निजकरकमलेन प्रतिजनं तथा समीचीनानि चीनानि समर्पयामास, यथा यथास्वमेव तदा तदापुर्न खलु विपर्ययः पर्ययते स्म ॥७५॥
चीनानि वस्त्राणि तथा तेन प्रकारेण समर्पयामास, यथा यथास्वं निज-निजम् एव तत् तद् वसनम् आपुः प्राप्तवत्यः । विपर्ययः परि सर्वतो-भावेन न अयते स्म, न प्राप्तोऽभूत्, किन्त्वेकांशेनैव । तत्र प्रथमं कञ्चुलिकां दत्त्वा ताम् एव स-सम्भ्रमम् अन्तरीयतया परिहितवतीभ्योऽन्तरीयां शाटिकां च ददाविति भावः ॥७५॥
ततश्च ताः स्वं स्वं ललितांशुकमशुकमङ्गलतामङ्गलतायां मूर्तिमत्यामिव सङ्गमय्य मदनपताकिनीपताकिनीरजनीराजय इव जयन्ति स्म ॥७६॥
ललितांशवः किरणा यस्यास् तद् अंशुकं वस्त्रम्, अङ्गम् एव लता सैव मङ्गलता मूर्तिमती तस्यां सङ्गमय्य योजयित्वा जयन्ति स्म, सर्वोत्कर्षं प्रापुः । मदनस्य कन्दर्पस्य पताकिनी सौभाग्यवती तत्-प्रिया रतिस् तस्याः क्रीडार्थं पताकिन्यः पताका-धारिण्यः कमलिनी-श्रेणय इव, पताका वैजयन्त्यां च सौभाग्याङ्कध्वजेऽपि च इति विश्वः ॥७६॥
अथ श्रीकृष्णकरकमलपरिमलपरिपूर्णामोदानि पूर्णामोदा निवीय वसनानि सना निर्मलानि सादरदरमन्दाक्षमन्दाक्षताग्रविलोकनकनत्कनककमलाननास्तदङ्गसङ्गसम्भावभाविता इव पुलककुलकञ्चुकिततनवो नवोन्मीलदानन्दनिःस्पन्दनिःस्पर्शपरिष्वङ्गमङ्गलमिवानुभवन्त्यः क्षणमवतस्थिरे स्थिरेण प्रणयभरेण । स च न जुगोप गोपराजयुवराजो गाम्भीर्यम्, यदतः परं परमकोमलतामलताधौतहृदयः सदयं समुवाच ॥
पूर्णामोदाः पूर्णानन्दवत्यः, निवीय परिधाय, सना सदा निर्मलानि, सना नित्ये इत्य् अमरः । सादरं यथा स्यत् तथा दरमन्दाक्षेण ईषल् लज्जया मन्दम् आक्षतम् ईषत्-खतं यद् अत्ग्र-विलिकनं सम्मुख-दर्शनं तेन कनत् शोभमानं कनक-कमल-तुल्यमाननं यासां तः, तद् अङ्ग-सङ्गि-वसन-सङ्गाद् एव तद् अङ्ग-सङ्गस्य सद्-भावेनेव भाविता वासिता इव । नवोन्मीलद्भिर् आनन्दैर् निःस्पन्दः स्पन्द-रहितो निःस्पर्शः स्पर्श-विना-भूत एव परिष्वङ्गस् तद् द्रूपं मङ्गलम् । परम-कोमलतया या अमलता नैर्मल्यं तया क्षालितमनाः ॥
**“अयं वः सङ्कल्पः प्रथम इव कल्पक्षितिरुहः ** **प्ररोहः प्रागेव व्यजनि मम चित्तस्य विषयः । ** इदानीं तद्वृद्धैः व्यरचि विविधेयं विरचना परीक्षा च प्रेम्णो व्यतनि भवतीनां निरुपधेः” ॥७७॥
कल्प-क्सिति-रुह इति मदभीष्टस्यापि साधकत्वात् मच् चित्त-विषयः प्राग् एव व्यजनि अभूत् । इयं विरचना विविधहठ-निदेशमयी, निरुपधेर् उपधि-शून्यस्य ॥७७॥
यन्मदभिहितमभि हितमकारि हृदयम्, न कापि वामता मतासीद्वः, तदयं वो मनोरथः साधु नाधुनातनत्वमेति, वासनासनातनत्वेन सह पूर्वपूर्वसिद्ध एव, तदयं नित्यः सत्यः सरसश्च । साधारण्येन ममाश्यं स्वभावः । तथा हि—
“स्थवीयस्यानन्दे मयि विनिहितं धौतहृदयैर् **न रागं रागत्वाश्रयमपि करोमि क्षणमपि । ** परं तु स्वानन्दामृतमयतया तं प्रविदधे न हि स्वच्छन्दौजा भवति रसकूपोऽन्यरसभाक्” ॥७८॥
हृदयम् अभि मन्मनोऽभि लक्षि-कृत्य मद् अभिहितं हितम् अकारि, वो युष्माकं वामतापि अमता अस्मता अभूत्, तत एव हेतोर् असौ मनोरथः साधु यथा स्यात् तथा अधुना तनत्वं न प्राप्नोति, किन्तु नित्य-सिधत्वम् एवेत्य् अर्थः । अयं मनो-रथः सत्यो निष्कैतवः सरसः प्रेममयः । स्थवीयसि परम-महति आनन्दे तत्-स्वरूपे रागं स्पृहां कामम् इति यावत्, तं रागं स्वानन्दामृतमयतया मत्-सुखामृत-तात्पर्यकत्वेन विदधे करोमि, आश्रय-सुख-तात्पर्यकत्वेन प्रेममयतयैव फलतीत्य् अर्थः । स्वच् छन्दौजाः स्वतन्त्र-प्रभावो11 रसस्य पारदस्य कुपोऽन्य रसं न भजत इति योऽन्यो रसस् तत्र निक्षिप्तो भवति, स स्वरूपं विहाय तस्य रूपतां प्राप्नोति, लवणाकरवद् इत्य् अर्थः ॥७८॥
**“भवतीनां तु स्वभावसिद्धानामद्धा नाम स्वभावोऽयं भावो यं श्रीरपि प्रार्थयते । ** सामान्यानामपि मयि परमे रससिन्धौ कामाद्या नाङ्कुरायन्ते, न क्वथिता न च भृष्टा यवादयो हन्त बीजन्ति” ॥७९॥
अद्धा साक्षात्, नाम प्राकाश्ये, भावो दीप्तिधारी, यं स्वभावम्, वीजन्ति वीजानीवाचरन्ति ॥७९॥
इति सरसतर-तरलतालताकुसुममिव परिमलमलनमनोहरं प्रियतम-वचनामृतमृतमेव मन्यमाना मानातीतहर्षोत्कर्षोत्कमनसो मनसो द्रुतस्येव शीकर-निर्गममिवानन्दाश्रु-कण-निःस्यन्दमभिनयन्त्यो निरुत्तरमेव किञ्चिदाकुञ्चितेक्षणं क्षणं तस्थुः ॥८०॥
सरसतरां या तरलता प्रेमार्द्रतया गाम्भीर्याभावः, सैव लता तस्या कुसुमम्, अङ्ग-सङ्ग-रूप-फल-कारणत्वात् परिमलः कर्ण-रोचकत्वं तस्य मलनेन धारणेन मनोहरम् । ऋतं सत्यम् ॥८०॥
तदनुत्तमप्रणयकलाकलालापकण्ठीः कलकण्ठीरिव शिशिरसमयावसानसानन्दतया कण्ठगुम्फितकूजिता जितारिरथ पुनराललाप—“अयि व्रजत व्रजतलमागामिनीः क्षणदाः क्षणदाः समया मया सह रन्तव्यम्, सिद्धा एव भवत्यः, स्तोभवत्यः स्तोकमपि मा भवन्तु” इति लब्धाश्वासाः श्वासानिलधूताधरकिसलयं सलयं दलदिन्दीवरवरवर्षणमिव कटाक्षापातपातपरम्परां तदुपरि परिकल्प्य कृच्छ्रणैव व्रजं व्रजन्ति स्म ॥८१॥
अनुत्तम-प्रणय-कलया कलं मधुरास्फुटम् आलपतीति स कण्ठो यासां ताः कल-कष्ठीः कोकिलस्त्रीः, कण्ठे गुम्फितं ग्रथितं कूजितं याभिस् ताः, तेन अयि वचनं किंस्विदा-कर्णयसि, किञ्चित् प्रत्युत्तरम् अपि देहि, अयि नामत्र प्रभवानि, त्वम् उत्कण्ठसे चेत् त्वम् निःसन्देहं पृच्छेत्यादि तासां नीचैः परस्पसङ्कथनम् अपि सञ्ज्ञा-बहुलं समभूद् इति व्यञ्जितम् । जितारिः श्री-कृष्णः । समया निकट एव, सलयं सश्लेषं कटाक्षाणाम् आपातपातस् तत्-कालपातनं तस्य परस्पराम्, आपातस् तदात्वे पतनेऽपि च इति विश्वः ॥८१॥
इत्यानन्दवृन्दावने कैशोरलीलालताविस्तारे वस्त्रापहरणं
नाम द्वादशः स्तवकः ॥१२॥
…