११

एकादशः स्तवकः

एवं पुनरन्येद्युरन्ये द्युमणिप्रतीकाशयोस्तयोः सहोदरयोः सहोदरयोर्वनविनोदे सहसहचरयोर्निदाघसमये समयमानभाण्डीरं भाण्डीरबटमासेदुषोनिर्दाघसमयोचिता यर्हि विलासाः प्रादुरासन्, तर्हि तरणिकिरणनिकरकरालतया पथि पथि नखम्पचा धरणिधूलयो विहारमणिगिरिगुहाकुहरनिःसरन्निर्झरझराभिरेव निर्वाप्यन्ते । वाप्यन्तेवासिभिस्तत्तरल-तरलहरिकाकणभर-भरमन्थरैरनेक-पीतकपीतनकुसुम-मकरन्दतुन्दिलैर्निदाघदाहप्रमञ्चनैः प्रभञ्जनरेव पीयन्ते धर्मसलिलानि; निविडतरविटपवितानपटलैर्विटपिभिरेव निर्वाप्यन्ते तरणिकिरणाः । तत इतश्च कुसुमित-कुञ्जकुटीरद्वारि मलयजरसवारिपूरपूरित-जलयन्त्राः सुरभिशीतलसलिलकलसलसत्परिसरा वसुधासुधायमान-सुरस-रसालप्रपाणकरसादि-प्रपाः प्रपालयन्तीभिर्वनदेवताभिरेव निरस्यन्ते पिपासावसादाः कृष्णसहचराणाम् ॥१॥

ग्रीष्म-प्रलम्ब-वध-दाव-विमोचनानि

साहाह्नयान-सुखदोहघनोदितानि ।

श्री-राधिकारत-शरन्नव-वेणु-गीता-

न्येकादशे स्तवक एव हि वर्णितानि ॥

अथ घन-रसमय-समय एव योग्ये श्री-राधा-नव-सङ्गम-सुधारसाप्लवनं श्री-कृष्णस्य वक्तुं प्रमथं तद् अङ्ग-सङ्ग-तस्यौत्कण्ठ्यस्यैव तदातनसमयस्यापि सन्तापकत्वं युक्तम् एवेति व्यञ्जयन् तम् एव निदाघर्तुं तद् उचित्यश् च सरामस्य तस्य लीला वर्णयितुम् आरभते—एवम् इति । अन्येद्युरन्यस्मिन् दिवसे तयो राम-कृष्णयोर् अन्ये विलासो यर्हि प्रादुर् आसन्, तर्हि तरणि-किरणेत्यादिस्थैर् निर्वाप्यन्त इत्यादि-क्रिया-पदैः सम्बन्धः । द्युमणि-प्रतीकाशयोः सूर्य-तुल्ययोः सहोदरयोर् भ्रात्रोः, सहदरयोः—उत्पूर्वस्य ऋ गतौ इत्य् अस्य प्चाद्यचि, सहोद्गमवतोरित्य् अर्थः, यद् वा, सहसा वलेनादरयोर् अनल्पयोर् इति भावि-प्रलम्ब-वधार्थ-राम-पराक्रमः सूचितः । निदाघ-समये सम्यगयमाना सङ्गता भा कान्तिस् तस्या अण्डीरं प्रकृष्ट-पुंस्त्वयुक्तम्, उपार्जक-पुरुषायितम् इत्य् अर्थः, [पा ५-२-१११] काण्डाण्डादीर् अन्नीरचौ इति ईरच, अण्डीरः पुरुषे शक्ते इति विश्वः, नखान् पचन्ति तापयन्ति नखम्पचाः, [पा ३-२-३४] मितनखे च इति ऋच्, निर्झर-झरयोर् वृहत्त्वाल्पत्वाभ्यां भेदः कल्पाः, वारिप्रवाहे निर्झरो झरः इत्य् अमरः । स्त्रियां च झरेत्य् अपि झरीत्यपीति तट्टीका । वापीनाम् अन्तेवासिभिः शिष्यैः, ताभ्योऽधीत्येव लव्धतदीयशैत्य् अविद्यैर् इत्य् अर्थः—छात्रान्तेवासिनौ शिष्यौ इत्य् अमरः । तद् एव स्पष्टयति—तासां वापीनां तरलतर-लहरि-काणाम् अतिचञ्चलोर्मिणां कणभरस्य कणातिशयस्य भरेण मन्थरैर् इति शैत्यमान्द्ये व्यञ्जिते, भरोऽतिशयभारयोः, इति मेदिनी । अनेकेषां बहूनां पीत-वर्णानां कपीतन-कुसुमानां शिरीष-पुष्पाणां मकरनेन तुन्दिलैः पूष्टैर् इति मान्द्य-सौरभ्ये—शिरीषस्तु कपीतनः इत्य् अमरः । निदाघ-दाहस्य प्रभञ्जनैः प्रशम-कर्तृभिः, प्रभञ्जनैः पवनैः, वितानः चादोया इति ख्यातः, वसुधायां पृथिव्यां सुधामानस्यामृत-तुल्यस्य सुरसरसालस्य सु-स्वादु-पक्वाम्र-फलस्य प्रकृष्ट-पानक-रस एव आदिर् येषाम् तेषां प्रपाः, आदि-शब्दात् सितोपलापानकरसश् च, प्रपा पानीयशलिका इत्य् अमरः ॥१॥

नवविकचविचकिलमालिकाकलितकण्ठाभरणाः शिरीषकुसुम-सुमञ्जुलकर्णावतंसाः स्फुटकुटजस्रजासृष्टकचरचनाः सकला एव बल्लवकिशोरा घनतरविटपिकुलतलच्छायामध्यमध्यास्य गिरिवरद्रोणिषु निर्झरजलप्रपातमेदुरतर-यवससमास्वाद-तृप्ततया सुखसुप्तासु धेनुषु सहोदराभ्यां राम-दामोदराभ्यां खेलामारेभिरे ॥२॥

विकच-विचकिलानि प्रफुल्ल-मल्लिका-पुष्पाणि, यवसं तृणम् ॥२॥

केचन मधुरकलं गायन्ति, केचन वादयन्ते, केचन नृत्यन्ति, कदाचन रामो नृत्यति, कृष्णो मुरलीं वादयते गायति च, कदाचन कृष्णो नृत्यति, रामो गायति सहचराश्च; एवं खेलत्सु बालकेषु कलमधुरं मधुरञ्जिवचाः कृष्णस्तानथ निजगाद ॥३॥

कल-मधुरम् इति पौनर् उक्त्यं नाशङ्क्यम्, धनुर्ज्यादिवत् अत्राधिक्य-प्रतिपत्त्य् अर्थम् इति । मधुनोऽपि रञ्जि रञ्जकं वचो यस्य सः ॥३॥

**
“हंहो भ्रातरः! विरमत भो नृत्यगीतबादित्रतः, खेलान्तरमधुना कल्पयामः” । तेऽप्यूचुः—“अमी वयमुपसीदामो दामोदर! किं तत्” इति । स ऊचे—“भो भो द्विधा भवन्तो भवन्तो बलमानबलं बलं केचनानुगच्छन्तु, केचन माम्” इति निर्णीय बलबलमथ निजबलं निजबलं च जयपराजयपराणां स्कन्धारोहपूर्वकं निर्वाह्य वाह्यवाहकतापणपणनं हाटक-पटेन कपटेन (स्वं) पराजित्य श्रीदामोदरेण श्रीदामोदरेण जगदुदहतापि स्कन्धनोहे । नोहेन तस्य चरितमवगम्यते ॥४॥**

बलस्य बलदेवस्य बलं तद् अनुगामिसेनात्वेन कल्पितं सखि-वृन्दम्, निजस्य बलं च । किदृशम् ? नितरां जवं वेगवत्तरत्वं लातीति तत् । जय-पराजय-पराणां क्रमेण बाह्यवाहकतारूपस्य पणस्य पणनं व्यवहृतिं निर्वाह्य निष्पाद्य स्कन्धारोहेति जय-पक्षे केवलादारोहतेः पराजय-पक्षे तु ण्यन्ताद्-घञा रूपं ज्ञेयम् । ततश् चायं वाक्यार्थः । जयपराः स्कन्धम् आरोहन्तो वाह्याः स्युः पराजयपरैः, पराजय-परास्तु स्कन्धम् आरोहयमाणा बाहकाः स्युर् इति । हाटक-पटेन पीताम्बरेण श्रीदामा ऊहे—इति श्रीद्माम्नो महिमातिशयः व्यञ्जितः । ननु जगदीश्वरस्य केयं विपर्ययचर्या ? तत्राह—नोहेनेति । न तर्केण, किन्तु प्रेम-परिपाटी-विज्ञतयेत्य् अर्थः ॥४॥

अस्मिन्नेव काले कालेन ग्रस्तोऽग्रस्तोत्रः सकलदैत्यानामात्मसङ्गोपालो गोपालोचितवेषं विधाय स्वयमेव पराजित्य राजित्यमनःसङ्कर्षणं सङ्कर्षणं कपटी पटीरधवलं स्कन्धे निधाय धावन् निधिमिव चोरश्चोरयन्नमर्यादी मर्यादीकृत-तरुतलमुल्लङ्घ्य मुल्लङ्घ्यमानमनास्तमपोवाह ॥५॥

काले समये, कालेन मृत्युना ग्रस्तः, अतिशैघ्यद्योतनाय भूत-निर्देश उपचारात् । कोऽसौ सकल-दैत्यानाम् अप्य् अग्रे स्तोत्रं बलिष्ठत्वेन यस्य सः, प्रलम्ब उत्य् अग्रे तन् नाम-निरुक्तेः, तथापि कृष्णभीत्यात्मनः सङ्गोपं सङ्गोपनमालाति सङ्गृह्नातीति सः, तथापि कृष्णस्य महासत्त्वताम् अनुमाय तं त्यक्त्वा पराजयेन रामम् आक्रष्टुकामः1 कृष्ण-पक्षीयोऽभूद् इति ज्ञेयम् । पराजित्य स्वयम् एव पराजितो भूत्वेत्य् अर्थः । राजितो दीप्तस् तस्य भावो राजित्यं दीप्तिः शोभा, तया मनः सङ्कर्षतीति तम् । तद्नीम् अत्यधिका रामस्य शोभाभूद् इति भावः । पटीरधवलं चन्दन-गौरं मुदा मत्कार्यं सिद्धम् इति हर्षेण लङ्घ्यमानं मनो यस्य सः । अपोवाह वहन्नपससार ॥५॥

वाहकमर्यादातिक्रमविक्रमविस्मितः स्मितपूर्वं स च सचमत्कारं कपटमनुजमनुजमाजुहाव—“भो दामोदर! मोदरयेण मामयमामय उन्मादक इव मनो मनोरम! रममाण! हरति । तदितः परं किं करवामहे महेच्छ! हे छविल! विलम्बं मा कुरु, कुरु समुचितमुपदेशम्” इति तद्वचनोपरमे परमेण कौतुकेन भगवानवादीत्—“किमप्रतिभया प्रतिभयाक्रान्तोऽसि, निजविक्रममाहर, हर चास्य जीवितम्” इति समुक्तोऽसमुक्तोयतोयदस्वरम् ॥६॥

स च सङ्कर्षणः कपटेनैव मनुजं जीव-रूपम् इति [भा पु १०-८७-२०] नृगतिं विविच्य कवयः इति वेदस्तुतौ नृपर्यायस्य जीव-वाचित्वेन व्याक्यानात् । अनुजं श्री-कृष्णम्, मोदरयेण निज-हर्ष-वेगेन, मां हरत्य् उन्मादक आमयो व्याधिर् मन इवेति व्यापादनार्थ-हरणे दृष्टान्तः, हे रममाणेति अधुनापि किं क्रीडयसीति2 भावः । महेच्छ ! हे अमोघेच्छाशक्तिक ! कौतुकेनेत्य् अंशकलयैव सर्वजगत्-संहार-कर्तुर् अप्य् अस्य भयं लीलावेशाद् इति । इति समुक्तः सम्यग् उक्तः, मोचनं मुक् तया वर्तमानं समुक्, न समुक् तोयं यस्य तस्य तोयद् अस्य मेघस्य स्वर इव स्वरो यत्र तद्-यथा भवति तथा, सजल-जलद-स्वरम् इत्य् अर्थः ॥६॥

स्वरंहसा गिरिवर-पक्ष-भिदुर-भिदुरसोदरादराघात-घुष्टिमुष्टिमुद्गरेण मुण्डपिण्डखण्डखण्डीकरणचण्डेन यमसदनं प्रहीयमाणं हीयमानं जीवितेन तमथ मधुमथनाग्रजः सम्पादयामास, दयामास माण्वपि यदि तदा प्राणप्रयाणतः प्रागेव स तथात्मशरीरं प्रथयामास यथा तदंसावस्थानकुतूहली हली कर्पूरधवलोऽवलोक्यते स्म जनैर्धरणिमध्यमध्यवस्थितं चन्द्रमण्डलमण्डलग्नमिव जायमानम् ॥७॥

अथ मधुमथनाग्रजः श्री-बलदेवस् तं-जीवितेन हीयमानं त्यज्यमानमतएव यम-सदनं प्रति प्रहीयमाणं प्रस्थाप्यमानं सम्पादयामास चकार । केन ? गिरिवर-पक्षाणां भिदुरस्य भेदकस्य भिदुरस्य वज्रस्य सोदरश् चासावदरा अनल्पा आघात-घुष्टिर् आघात-शब्दो यस्य तथा-भूतो मुष्टिम् उद्गरश् चेति तेन । अत्र गुरुमत्सरच्छिदुरया इति माघ-दर्शनात्, करीन्द्र-दर्पच्छिदुरम् इति पाणिनि-कृत-जाम्बवती-विजय-दर्शनात्, संसार-वन्धच्छिदुरान् द्विजातीन् इति व्योष-दर्शनाच् च—भिदिच्छिद्योः कर्म-कर्तयभिधानम् इत्य् अस्य प्रायिकत्व-व्याख्यानात् कर्तयेव कुर्च् प्रत्ययः, कुलिशं भिदुरं पविः इत्य् अमरः । किम् च, अण्व् अपि अल्पम् अपि मा दयामास, न दयते स्म । धरणिमध्यम् अधि धरणि-मध्य एवावस्थितं चन्द्र-मण्डलं तदानीम् अण्डे ब्रह्माण्ड-कटाहस्योपरितनभित्तौ लग्नं तद् भागस्यैवाण्डत्वाभिव्यञ्जक-लक्षणत्व-दर्शनात् तत्रैवाण्ड-शब्द-प्रयोगः ॥७॥

अथ तस्य निरुपमोपदेहो देहो निरर्गलगलगलायमानगलच्छोणितशोणितः सहजधूमधूमलो रक्तसन्ध्याघनसन्ध्याघनश्चरमाचल इवामूलमौलिमिलितकुसुमाशोकाशोकाकुलो विन्ध्य इव भूमौ निपपात, पपात च गगनतो नतोत्तमाङ्गानामुत्तमाङ्गानामुत्सवामोदेन स्तुतिवृन्दारकाणां वृन्दारकाणां करकुड्मलगलिता प्रसूनवृष्टिः ॥८॥

निरुपम उपदेहो वृद्धिर् यस्य सः, दिह उपचये इति धातोः, निरर्गलं निरोध-रहितं यथा भवत्य् एवं3 गलगलायमानं च यथा स्याद् एवं गलता शोणितेन रुधिरेण शोणितः शोणीकृतः, स्वरूपतस्तु धूमवत् धूमल-वर्णः । ततश् च रक्त-वर्णस्य सन्ध्या-काल-घनस्य सन्धिना मिलनेन आघनः सम्यक् निविडश् चरमाचलोऽस्तशैलः, अस्य शिलामयत्वेन स्वरूपतो धूमलतयोश् चतयागन्तुकेनारुणिम्ना च स्त्य् अपि सारूप्ये क्वापि पतनाश्रवणाद् अन्यथोपमिमीते—आमूलेति । आमूलं मौलि-मूलम् आरभ्याग्रपर्यन्तं मिलितानि कुसुमानि येषां तथा-भूता अशोका यत्र स चासौ आ सम्यक् शोकाकुलश् चेति सः । स्व-गुरोर् अगस्त्यस्याज्ञानुरोधेन मेरुजयोद्यमभङ्गानात् शोकस् ततः पातश् च पुराण-प्रसिद्धः । नतोत्तमाङ्गानां भक्त्या नत-शिरसा-मुत्सवामोदेनोत्सवानन्देन हेतुनोत्तमाङ्गानां कुङ्कुमादि-लिप्तत्वेन सुन्दर-गात्राणाम् । स्तुतौ स्तुति-निमित्ते वृन्दं समूहमिय्रति प्राप्नुवन्तीति तेषां मिलितीभूय स्तोत्र-पराणाम् इत्य् अर्थः । यद् वा, स्तुति-विषये वृन्दस्यारकाणाम्, अर्त्तेर्ज्ञानाथत्वेन कर्तुं विज्ञाम् इत्य् अर्थः । यद् वा, स्तुति-विषये वृन्दारकाणां श्रेष्ठानाम्, वृन्दारकः सुरे पुंसि मनोज्ञ-श्रेष्ठयोस्त्रिषु इति मेदिनी ॥८॥

एवमुत्तालतालाङ्के तालाङ्केन निहते परममायाबलावलम्बे प्रलम्बे प्रसिद्धासुरे सुरेशादिनुत्यभिरामो रामोऽसौ नामान्तरं नामान्तरंहःसङ्घसंहननकरं प्रलम्बघ्न इति तदङ्गीचकार ॥९॥

उत्तालताम् औत्कण्ठ्यमालाति गृह्नातीत्य् उत्ताल-तालोऽङ्कश् चिह्नं यस्य तस्मिन् प्रलम्बे तालाङ्केन रामेण निहते सति, उत्तालो हेम-कुण्डे स्याद्-गर्भे चोत्ताल उत्कटे इति विश्वः । प्रलम्बघ्न इति नामान्तरं नाम प्राकाश्ये अङ्गीचकार । कीदृशम् ? अन्त-रंहः-सङ्घस्यान्तःकरण-आप-समूहस्य संहनन-करम् । अत्रांहसो वर्ण-देशनादौ दृष्टेनोस्मवत्त्वेन सङ्घस्य तु क-वर्ग-चतुर्थवत्त्वेन पुनः संहननेत्य् अस्योष्मवत्त्वेनाप्य् अनुप्रासो नानुपपन्नः—हकार-घकारयोस् तुल्य-स्थानात्वाद् एकत्व-वुद्धेः, शीघ्रम्ंहोविघातं बलिवञ्चन-घोराङ्ग्रिरंहःसङ्घं निहन्तु वः इत्यादि सूर्य-शतकादि-दर्शनात् ॥९॥

अथैवमखिलबालबान्धवैः सदामोदरेण दामोदरेण चाभिनन्दितोऽदितोल्लासो हासोहासोसूयमान-मानस-स्मयः खेलातो विरम्य रम्यचरितेन श्रीकृष्णेन सह सहचरैश्न निविडशोभाभाण्डीभाण्डीरमूलमासाद्य विशश्राम ॥१०॥

अथासौ रामो विशश्राम । सदा सततं मोदरेण आनन्ददायिनाभिनन्दितः, साधु कृतं साधु कृतम् इति सत् कृतः, अदितोल्लासोऽखण्डितोल्लासः, हासो हर्ष-जन्यः स्वनिष्ठः, उहा विस्मय-जन्या अन्यदीयास् ताभ्यां सोसूयमानः पुनः पुनर् उद्भवन-मानसः स्मयो मदो यस्य सः । शोभाभाण्डम् अस्यास्तीति शोभा-भाण्डी ॥१०॥

विश्राम्यत्सु श्रीरामदामोदरादिषु श्रीदाम-सुदाम-सुबलादि-सकल-गोपालबालकेषु च धेनवो नवोन्मिषितयवसमान-यवसमानराहित्य-सौहित्य-सौरस्येन तदनुकूल-यमुनाकूलनिकटकटन-लालसतयाविभीषिकाटवि-भीषिकाटवीं दैववशत आसेदुः ॥११॥

नवोन्मिषितैर् यवैः समानानां सदृशानां यवसानां तृणानां मान-राहित्य-सौहित्यसौरस्येन हेतुना मानस्य परिमाणस्योपमाया वा राहित्यं रहितता यत्र तत्, अपरिमितं निरुपमं वेत्य् अर्थः । तथा-भूतं सौहित्यं तृप्तिर् यस्मात् तथा-भूतेन सौरस्येन सुरसतया, सौहित्यं तर्पणं तृप्तिः इत्य् अमरः । तद् अनुकूलस्य तादृश-तृणास्वादानुकूलस्य यमुनाकूलस्य निकटे कटन-लालसतया गमनाभिलाषेण दैववशास्द् इषीकाटवीमासेदुः प्रापुः । कीदृशं यथा भवति तथाविभीषिका अभय-प्रदानम्, अर्थात् कृष्णेन, तस्या आटोऽटनं सञ्चारस् तेन विभि विगत-भयं स्यात् तथा, यद् वा विभीषिकायां भय-प्रदानेऽटाः सहसोत्पतन्तो ये वयः पक्षिणस् तेभ्य एव भीर् यत्र, न त्वन्यतस् तद्-यथा स्यात् तथा, किंवा, अटव्या एव विशेषणम् ॥११॥

ततश्च धेनूनामनूनामदृष्टिमवगत्य साशङ्कमनसः कमन-सहचराचराचरगुरुणारुणाब्जनयनेन तेन नतेन करुणामृतस्रोतसास्रोतसातङ्काक्षाः समूचिरेऽचिरेणाऽन्योन्यम् ॥१२॥

न ऊनाम् अनूनां सम्पूर्णाम् इत्य् अर्थः । अदृष्टिम् अदर्शनम्, कमना अभिरूपाश् च ते सहचराश् चेति ते, कमनः कार्मुके कामेऽभिरूपेऽशोकपादपे इति मेदिनी, तेन कृष्णेन सह करुणामृत-स्रोतसा नतेन नम्रीकृतेनास्रेणाश्रुणा उते ग्रथिते सातङ्के सभये अक्षिणी येषां ते ॥१२॥

भो भोः सवयसः! सवयसः समृगस्य वनस्यास्य मध्ये केवलं के बलम् । न खलु भीतिर्नैचिकी नैचीकीनाम् । तत् कथमासां मा साम्प्रतं काचिदपि दृश्यते । तदवकलयध्वं क-लय-ध्वंसो यावन्न भवतीति च कृष्णभारत्या भारत्यालुलितया सर्व एव बालका बालकान्तघासघासलक्ष्मानुसारेण खुरखुरप्रक्षुण्णक्ष्मातलतलनेन तदनुसन्धानधुरन्धरा धरामातस्तरुस्तरुगुल्मवीरुन्निकरकरम्बितगहनगहनस्थलीषु विचिन्वन्तोऽन्वन्तोदित्वरशङ्काः शं कातरा इव यदा न भेजुः, तदा त्वीषिकाटव्यं काटव्यं दवदवथुकृतं वीक्ष्य कृष्णनाथा अप्यनाथा अप्ययमासेदुष्य इवापसृतिसृतिमपश्यन्त्यः श्यन्त्यश्च जीविताशां साश्रुमुख्योऽभिमुख्योऽभित एव कृष्णावलोकनमर्थमर्थयमाना मानापहारहता इव धेनवो यत्रावतिष्ठन्ते स्म ॥१३॥

सवयसः ! हे वयस्याः सवयसः पक्षि-गण-सहितस्य समृगस्य हरिणादि-सहितस्य वनस्यास्य मध्ये केवलं के सुखे एव वलम्, अतएव नैचिकीनां मुख्यगवीनां तासां नैचिकी अल्पापि भीतिर् न, विनयादित्वात् स्वार्थे ठक्, अल्पे नीचैर् महत्य् उच्छैः इत्य् अमरः । आसां मध्ये काचिद् अपि मा दृश्यते । तत् तस्माद् अवकलयध्वम्, सर्वत्र विचारयत । कस्य सुखस्य लयः संश्लेषः, तस्य ध्वंसो विश्लेषः सुख-विगमो यावन् न भवतीत्य् अर्थः, लयो विनाशे संश्लेषे साम्ये तौर् यत्रिकस्य च इति मेदिनी, कृष्ण-भावत्या चेति भो भोः इत्यारभ्य सर्वेषां तत् कथाम् आरभ्य कृष्णस्यैव भारतीति । कीदृश्या ? भा शोभा तया सहिता रतिः प्रीतिस् तयालुलितयाखण्डितया । बालानां नवानां कान्तानां कमनीयानां घासानां तृणानां घास-लक्ष्मादन-चिह्नः तद् अनुसारेण खुरा एव खुरप्रा वाणास् तैः क्षुण्णस्य क्ष्मातलस्य तलनेन प्रतिष्ठया धरां पृथ्वीमातस् तरुर् व्याप्नुवन्ति स्म, स्तृञ् आच्छादने, गहनस्य वनस्य गहन-स्थलीषु दुर्गस्थानेषु, गहनं दुर्गकाननयोर् अपि इति मेदिनी । अनु अनन्तरम्, अन्तेऽन्वेषणासमाप्तौ उदित्वरशङ्का जात-भयाः सन्तो यदा शं सुखं न भेजुः । तदा यत्र धेनवोऽवतिष्ठन्ते, तद् अनुसन्धानम् अवजानन्तः, तं श्री-कृष्णं पुनर् आसाद्य दुःखिताः सन्तः सर्वे न काचिद् अपि दृष्टा धेनुर् इति यद्य् ऊचिरे, तदैव स श्री-कृष्णस् ता धेतूः प्रत्येकं नाम-ग्राहम् आजुहावेत्य् अन्वयः । धेनवः कीदृश्यः ? ईषिकाटव्यम् ईषिकाटवीभवं दवदवथुकृतं दावानल-ताप-जनितं काटव्यं कटुत्वं वीक्ष्य कृष्ण-नाथा अपि अनाथा अप्य् अयं नाशमासेदुष्यः प्राप्तवत्य इवापसृतिषृतिं पलायन-मार्गम् अपश्यन्त्यः । अत्र काटव्यम् इति पदस्याश्लीलता-दोष ईषिकाटव्यम् इति यमको-पयोगिपददृष्ट्या सोढव्यः । एवं पूर्वत्रापि । किञ्चात्र वर्णनीयत्वेनेषिकाटवीचरितस्यैव प्रस्तुतत्वाद् अश्लीलम् अयस्यापि तत्-पदस्य तु सर्वथैवोल्लङ्घयितुम् अशक्यत्वात्, प्रत्यत यमक-भङ्ग्या समाधानम् एव । ततश् च जीविते आशाम् अपि श्यन्त्योऽल्पयन्त्यः, अभिमुख्यो यूथश एव शोकानुमोदनार्थं समान-मुख्यं इत्य् अर्थः । ततश् च मानापहारे वुद्धिनाशस् तेन इव । मान इति मन ज्ञाजे घञन्तः ॥१३॥

तदनुसन्धानमजानन्तोऽनन्तोद्भूतचिन्ताश्चिन्तामणिमिवाश्रित-मनोरथसिद्धेरनुगत-सङ्कल्पकल्पद्रुममिव स्वजनकामकामधेनुमिव तं पुनरासाद्य नरासाद्यदर्शनं नराकृतिपरं ब्रह्म दुःखिताः सन्तो न काचिदपि दृष्टा धेनुरिति यद्यूचिरेऽचिरेण, तदैव दैवतकुलमुकुटमहामारकतो महामारकतो भयात्ता गा निविवर्तयिषुः स स्वयमुपसृत्य सृत्यनुसारेण घनघटागभीरस्वरं स्वरंहसा द्राघीयः प्लुतमाप्लुतं कृत्वा सुधयेव नामग्राहं प्रत्येकमाजुहाव ॥

न विद्यतेऽन्तो नाशो यस्य तथा-भूतं यथा स्यात् तथा, उद्भूता चिन्ता येषां ते, चिन्तामण्यादीनां स्वकामेष्व् अभीष्टदायित्वेऽपि निष्कामेषु सौन्दर्यच्छाय—पयः प्रदायित्वम् इव कृष्णस्य तेषु स्वाभाविक-सौन्दर्यादिवर्षित्वम्, नरैर् अप्यासाद्यं प्राप्यं दर्शनं यस्येति, चिन्तामण्यादितोऽपि कृपालुत्व-गुणोत्कर्षः । ऊचिरे, सख्यरीत्या वार्तां ज्ञापयामासुर् इत्य् अर्थः । न तु चिन्तामण्यादिषु इव प्रस्तुत-धेनु-प्राप्तिं प्रार्थयामासुर् इति भावः । ता धेनूर्भयान् निवर्तयितुम् इच्छुः । कीदृशात् ? महामारकतो महामृत्युकरात् सृत्य् अनुसारेण वर्त्मानुसृत्या, द्राघीयः प्लुतम्, अत्युच्चं कृत्वा सुधयामृतेनाप्लुतं व्याप्तम् इव कृत्वा नाम-ग्राहं ना गृहीत्वा, [पा ३-४-५८] नाम्न्या दिशि-ग्रहोः इति णमुल् ॥

यथा—

मुक्ते नन्दिनि चन्दिनीन्दुतिलके कस्तूरि कर्पूरिके पिङ्गे रङ्गिणि धूमले धवलिके किञ्जल्किके रङ्गिणि । श्यामे केतकि चन्द्रिके शबलिके काश्मीरिके चम्पिके हीहीहीति ततान तानमधुरं गानं मुरल्या हरिः ॥१४॥

मुक्त इत्यादि वर्णाकृति-गन्धादि-साम्येन सञ्ज्ञा । रङ्गिणीत्य् अर्थ-भेदात् सञ्ज्ञा-भेदः । एकत्र मुरल्यादि-नाद-श्रवणात् रङ्ग आनन्दस् तद्-युक्ता, परत्र सुन्दर-वर्ण-युक्तेति ॥१४॥

तमथ बिम्बाधरमधुमधुरं मुरलीकलमाकर्ण्य कर्ण्यममृतमिव चिरचिन्त्यमानकृष्णवर्त्मा कृष्णवर्त्मानुपाततो जीवनावनाशया शयारूढविश्वासाश्वासादितमोदापि दवदवथुना पृथुनापृता समुपसपितुमसमर्था समर्थामिव प्रत्युत्तरतरलतया गद्गदगदनगभीरभीरस्वरां हम्बाहम्बावाचं वाचं वाचं वाचंयमानां दशमिनां शमिनां च मनोवचोऽगोचरं गोचरं गोकुलवासिनान्तं प्रीणयामास गोवृन्दारिकाविततिः ॥१५॥

गोवृन्डरिकाविततिः श्रेष्ठ-गो-समूहः, तं मुरली-कलम् आकर्ण्य प्रत्य् उत्तरतरलतया समर्थाम् इव हम्बा हम्बा वाचं जात्य् अनुरूप-तादृश-स्व-स्व-वाक्यं वाचं वाचम् उक्त्वा उक्त्वा तं श्री-कृष्णं प्रीणयामास । कीदृशी ? चिरं चिन्त्यमानं कृष्णस्य वर्त्मयया सा, कृष्णवर्त्मा वह्निस् तस्यानुपातस् तत्-कर्तृकानुगमात् जीवनस्यावनं रक्षणं तस्याशया आशयेऽन्तःकरणे आरूढो विश्वासो यस्याः सा, आशु शीघ्रम् आसादितः प्राप्तो मोदो यया तथा भूतापि समुपसर्पितुम् असमर्था । कुतः ? पृथुना दवदवथुना दवतापेनापृता व्याप्ता । हम्बा हम्बा वाचं कीदृशीम् ? गद्गद-गदनेन गभीरां भियमीरयति स्वरो यस्यां ताम् । तं कीदृशम् ? वाचंयमिनां मौनवताम्, किम् अज्ञतया ? नहि नहि, दशमीनां ज्यायसां पुरातनत्वेन परम-विज्ञानाम् इत्य् अर्थः, वर्षीयान् दशमी ज्ञायान् इत्य् अमरः । कुतः ? शमिनां शान्तिमतां मनसो वचसश् चागोचरं न विषयम्4 ॥१५॥

समाकलितेऽथ तस्मिन् धेनुघोष घोषेश्वरनन्दनो ननन्द नोनसम्मदा मदाविलविलसदन्तरा दन्तरामणीयकझकझकायमानसित्तहसितहतान्धकारा इव हर्षोत्कर्षोत्कमनसो न सोसूच्यन्ते स्म कं वानन्दं कुतूहलिना हलिना सह सहचराश्च ॥१६॥

धेनूनां घोषे शब्दे ननन्द, इत्य् अस्य वचन-विपरिणामेन सहचराश् च ननन्दुर् इति । कीदृशाः ? न ऊनः सम्पूर्ण एव सम्मदो हर्षो येषां ते, निषेधार्थक-नकारेण समासः, अतएव मदाविलं मद् अव्याप्तं विलसद् अन्तरं मनो येषां ते, अतएव दन्तानां रामणीयकेन रमनीयत्वेन झक-झकायमानं यत् सित-हसितं तेन हतोऽन्धकारो वन-गह्वरगतोऽपि यैस् ते कं वानन्दं न सोसूच्यन्ते स्म, अतिशयेन नासूचयन् । अत्रानन्दम् इत्य् अनेन नोनसम्मदा इति ननन्दुर् इत्य् आभ्यां चार्थपौनर् उक्त्यमानन्दातिशय-विवक्षया न दोषायेति ॥१६॥

अथ तेनैव ध्वनिनाध्वनिर्णायकेन कृष्णे चरणसञ्चरणसञ्जातत्वरे तत्वरे सर्व एव यदि तदैव दैववशादवसादशीर्णोत्साहा इव दावदावतापेनेषिकावनगता गतावना इव धेनुः सबलोऽवलोक्य हा! कष्टं कष्टङ्कितवानीदृशीं विपत्तिमासामासाद्यमान-मृत्युपथानामिति सञ्चिन्तयन् कातरतर-चकित-चकितरहित-हितविलोचन-विलोचनप्रान्तेन स्रवदस्रवदनाभिस्ताभिरभितो नुद्यमानमानसाभिरवलोक्यमानो मानोज्झितकरुणोन्नाहगाहमानमानसो द्विगुणिते दुःखेऽदुः खेऽपि चरन्त्यो दाहं यदि दवदवकीलाः कीलालदकीलालैरपि शमयितुमशक्यास्तदा पूर्ववदपूर्ववदनबिम्बस्तत्कालोपनतया स्वभावैश्वर्यशक्त्या तमनलं न लङ्घनीयमपि पिपासयिषुरनचरानवादीत् ॥१७॥

तेनैव हम्बा-हम्बामयेन ध्वनिना शब्देनाध्वनिर्णायकेन वर्त्मनिश्चायकेन चरणयोः सञ्चरणस्य सञ्जाता त्वरा यस्य तथा-भूते कृष्णे सति सर्व एव प्रकरणात् सहचर-गणस् तत्वरे त्वरां चकार यदि, तदैव स श्री-कृष्णो दावदावतापेन वन-वह्नि-ज्वालया गतावना गतरक्षका धेनूर् अवलोक्य तमनलं पिपासयिषुर् अनुचरानवादीदित्य् अन्वयः । दवदावौ वनारण्य-वह्नी इत्य् अमरः । धेनूः कीदृशीः ?दैववशाद् अवशादेन दुःखेन शीर्ण उत्साहो यासां ताः, शदॢ शातने इत्य् अस्य घञा अवशादस् तालव्य-मध्योऽपि दृष्टः । सवलो बलदेव-सहितः, टङ्कितवान् चिह्नितवान्, टकि लक्षणे इति धातोः, कातरतरम् अतिकातरं चकितं त्रस्तं चकित-रहितम् अतृप्तम्, चक तृप्तौ इति धातोः । हितम् अनुकूलं विलोचनं दर्शनं यस्य तथा-भूतस्य विलोचनस्य प्रान्तेन ताभिर् अवलोक्यमानः । प्रान्तेनेत्य् अन्यभागानाम् अश्रुदावधूमादिभिर् व्याकुलत्वाद् इति भावः । नुद्यमानं कृष्ण-सन्निधौ प्रेर्यमाणं मानसम् एव याभिस् ताभिः । ततश् च मानोझितं परिमाणातीतं करुणोन्नाहं कृपा-विस्तारं गाहमानम् अवगाहमानं मानसं मनो यस्य सः, ततश् च दुःखे द्विगुणिते सति खेऽपि आकाशेऽपि चरन्त्य उत्पतन्त्यो दवदवकीला वनाग्नि-ज्वाला यदि दाहमदुर्दत्तवत्यः । कीदृश्यः ? कीलालदा जलदास् तेषाम् अपि कीलालैर् जलैर् निर्वापयितुम् अशक्या । न लङ्घनीयं दुर्वाषम् अपि ऐश्वर्य-शक्त्या प्रयोज्य-कर्त्र्या पिपासयिषुः, पानं कारयितुम् इच्छुः । अत्र [३४श-श्लो] कुवलय-युवतीनां लेहयन्न् अक्षि-भृङ्गैः, कुवलय-दल-लक्ष्मी-लङ्गिमाः स्वाङ्ग-भासः इत्यादि दानकेलि-कौमुद्यादि-दर्शनात् । पान-लेहन-भक्षणानां तुल्य-पर्यायत्वभावाच् च, [पा १-४-५२] गतिव्युद्ध-प्रत्यवसानार्थ इत्यादिना पिवत्यादीनां प्रयोज्य-कर्तुर् न नित्य-कर्मत्वामच्छन्तीति ॥१७॥

**
“भो भोः नयनानि पिदध्वं मोदध्वं मोचयध्वं च मोहं च” इति । तथा नयनानि पिदधानेषु दधानेषु च विस्मयं लम्बालकेषु बालकेषु कोमलकमलकलिकाकारेण करतलेन गण्डूषीकृत्य कृत्यविशारदे शारदेन्दुवदने सुधासुधारावन्तमिवानलं पिपासति सति व्रजराजतनये नयेन तस्यैवैश्वर्यशक्त्या प्रकटीभूय स्वयमेवासौ पपेऽपपेशलता न कुत्रापि तस्याः ॥१८॥**

सुधासुधारावन्तम् इति तत्-पाणिपतन-समयेऽनलस्यापि सुधा-सम्बन्धि-शोभन-धारा-युक्तत्वम् अश्लीलता-दोष-निवृत्त्य् अर्थं युक्तम् एव । प्रकटी-भूय पृथ प्रचण्ड-मूर्तिं धृत्वासावनलः पपे पीतः । अपपेशलता अदक्षता, दक्षे तु चतुर-पेशल इत्य् अमरः । अत्रानलस्यामृतत्वे सति तत्-पाणेऽप्य् अनौचित्याभावेऽप्य् अनुरागार्द्रचित्त-भक्तानां तद्-दुःसह-दुःखदमेवेति न साक्षात् श्री-मुखाव्जेन पानम् इति । अतएव [भा १०-१९-१२] पीत्वा मुखेन तान् कृच्छ्राद्-योगाधीशो व्यमोचयत् इति मूलपद्येऽपि मुखे नेत्यस्योपायेनेत्य् अयम् अर्थो ज्ञेय । मुखं निःसरणे वक्त्रे प्रारम्भोपाययोर् अपि इति मेदिनी ॥१८॥

अन्यो हि घनरसदो रसदोहेनैव सदा बत! दावतनूनपातमन्तं नयति, एष हि धनरसदो नरसदोत्थभवदवदवथुं करुणोत्कटाक्षः कटाक्षमात्रेणैव यो हरति, तस्य किमिदं चित्रं यदिमं क्षुद्रदवं दवं सकलसौभगवत्या भगवत्या निजशक्तिदेव्या शमयाञ्चक्रे, शमयाञ्चक्रे च तस्य निजगोकुल-गोकुलमिति ॥१९॥

अन्यो हि घन-रसदो मेघो रसदोहेन लज-पूरेण दावस्य वनस्य तनूनपाद्-वह्निस् तमन्तं नाशं नयति । तनूनपात् इति शत्रन्तम्, ज्वलनो जातवेदास् तनृनपात् इत्य् अमरः । नराणां सदोत्थस्य स्र्वदोद्बवतो भवदवस्य संसाराराग्ने दवथुं तापं हरति नाशयति । क्षुद्रो दव उपतापो यस्मात् तं दवं वन-वह्निं शमयाश्च्क्रे नाशयामास । ततश् च तस्य श्री-कृष्णस्य निज-गोकुलस्य स्व-व्रजस्य गोकुलं गो-समूहः शं कल्याणमयाञ्चक्रे प्राप, अय गतौ [पा ३-१-३७] दयायासश् च इति आम् ॥१९॥

नापीदं चित्रं यदखण्डे महसि महसिद्धिकारिणि बकारिणि बहुलप्रभावे प्रभावेश्मनि खण्डमहो महो दवदहनापदेशमपदेशभावमिह विहतमित्यत्र न कोविदः को विदः सारस्यमभिनयति । अतो यैः कृतं नमोऽघारये न मोघा रयेण कालस्य तेषां जनिर्भवतीति ॥२०॥
तदा स्वः-सदां सदान्दोलदानन्दनन्ददात्मनामभितोऽभितः प्रणामाञ्जलयो जलयोनियोनिप्रभृतीनां नन्दनकुसुमाञ्जलिभिरलिभिरवलम्ब्यमानैदिवः कज्जलाश्रुजलाश्रुतिपटलैरिव निपतन्ति स्म ॥२१॥
तदेव दैवतवृन्दवन्दनमनुमोदयला मोदयता च तेनैव सगोपगो-परःशतवर्गम्ं सुच्छायाच्छायातशैत्यगुणे भाण्डीरतरुतलेऽलक्षितमात्मयोगेन सङ्गमय्य “मय्यतो वयस्या विकिरत सम्प्रति प्रतिपन्नार्था दृष्टीः” इति निगदिता दिताक्षिमुद्रा मुद्रामणीयकेन “अहो! किमयमस्माकमुन्मादः स्वप्नो वा, क्व गतो दवानलो न लोक्यते लक्षणमप्यस्य किमपि, क्व वा साइटवी, गावो वयमपि भाण्डीरमूल एव स्मः” इत्यतिविस्मितास्ते विदधिरे ॥२२॥
अथ सा नैचिकीविततिः प्रमदविलसत्कानना काननानले प्रशान्ते शान्तेन मनसा सम्पदमदसम्पद्यमानास्रस्तिमितविलोचनैर्लोचनैः पिबन्तीव सप्रणीतप्रणयरसनाभिरपि रसनाभिरपि लिहन्तीव प्रमोदभरविकसनासिकाभिर्नासिकाभिर्जिघ्रन्तीव परमप्रेमास्पदं पदं गोपेन्द्रतनयं कृतनयं कृपामयमभितोऽभिसर्पति स्म । तदनु करुणाकोमलेनामलेनारुणेन करतलेनाङ्गमभिपरामृशन्नेकैकमेव बलति प्रणयसौरभे सौरभेयीरभिप्रीणयामास ॥२३॥
अथ निदाघधामनि धामनिवहो निखिलजनतापदो जनतापदोघ इव य आसीत्, तमवहार्य हार्यनुष्णभावं गते भावङ्गतेरितदर्शनीयत्वे खचरमचरमगिरिकन्दरादरावरोहरोहदाकाङ्क्षे सति, शीतलीभूतभूतले प्रबलदाहज्वरसञ्ज्वरसन्त्यागसुस्पर्शे जनशरीर इव विगतमहोष्मणि । विमलकमलेषु कमलेषु कमलाकराणाम्, कमलाकराणां सततावगाह-सरसैर्हसरसैकनिपुण-शिरीषनिविरीष-विच्योतन्मकरन्दधुर्वहैर्गन्धवहैर्गन्धसमन्धितपुष्पन्धयैरभितः सेव्यमाने दिवसावसाने कलितकलमुरलीध्वनिरध्वनिरतदृष्टीर्गृष्टीर्गृहाभिमुखीः कारयिष्यन् सहबलोऽवलोक्य निदाघदिवसपरिणामरामणीयकतां सह सहचरैः सलीलसलिलावगाह-दुरवगाह-सुश्रीकः श्रीकमलनयनो नयनोत्सवीभविष्यन् व्रजभुवामनुकूलेनानुकूलेनामलजलाशयानां पवमानेन पवमानेन तदङ्गसङ्गतः पुरःपुरः-सारितैर्गोखुररेणुभिरणुभिरभिमृश्यमानां शुकान्तकान्तकुन्तल-चूर्णकुन्तल-चूर्णधवलोष्णीषो वनतरु वीरुधामनिशनववयसां वयसां तदवलोकमृगाणां मृगाणां च भवद्विरहदुःखन-दुःख-नमितहृदा काकु-कलकलकुलाकुलायमानमानसस्तदाश्वासनादेन नादेन मुरल्याः सरसयन्नमूनमूढमनसो मनसोल्लसितेन यदि विपिनतो बहिराजगाम, तदा विपिनपिनद्धनीलमणिमालामालाभ्रमरा भ्रमरावलिरानुकूल्यसमीरणेन समीरणेन धूयमानेव पुष्करे पुष्करेक्षणसौरभे रभसेनान्धेव कियद्दूरमनुवव्राज ॥२४॥

ऐश्वर्य-शक्ति-प्राकट्यम् अपि लोक-दृष्ट्यैव लीला-सौन्दर्यार्थम् एव । तत्त्व-दृष्ट्या तु तद् अपि पिष्ट-पेषायित5म् एवेत्य् आह—नापीति । इदम् अपि न चित्रम् । किं तत् ? यद्-यस्माद् अखण्डे परिपूर्णमहसि, तेजसीति परिपूर्ण-ब्रह्मत्वं मह-सिद्धिकारिणि वकारीणीति तत्रापि स-विशेषत्वेन मधुर-लीलामयत्वम् । बहुल-प्रभाव इति तथाप्य् अनाच्छादितम् एव भगवत्त्वं व्यञ्जितम् । तद् एवं प्रभाणां वैष्णव-मते उक्तानां ब्रह्मत्वादीनां तेजसाम् अपि वेश्मन्य् अधिकरण-रूपे तस्मिन् । अहो आश्चर्यम् ! दव-दहनच्छलं खण्डं महःप्राकृतम् एव तेजो विहतं नष्टम् । तत् कीदृशम् ? अपदे स्वाश्रय-भिन्ने एव विषये ईशभाव ऐश्वर्यं यस्य, न तु साक्षात् तस्मिन्नेवेति सामान्य-तेजःकणस्यान्यदाहकस्यापि महाग्नि-पुञ्जे लय-दर्शनात्, [गी १५-१२] यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् इति प्राकृत-तत् तेजसाम् अप्याश्रयत्वम् उक्तम् एव । इति हेतोः, अत्र श्री-कृष्णे कः कोविदः कः पण्डितो विदो वुद्धेः सारस्य सरसतां नाभिनयति, अपि तु सर्व एव । अतोऽघारये श्री-कृष्णाय यैर् नमस्कार-मात्रं कृतम्,

[===१०५ पेगेस् ===]तेषां तद् विरह-संयोग-जन्य-दुःख-सुख-विवेकः कथं सम्भवेत् ? तत्राह—अमूढमनसः, वृन्दावनीयत्वाद् इति भावः । विपिनेन पिनद्धा मण्डनत्वेन धृता नीलमणीनां मालाभिः समूहैर् या माला तस्या भ्रमं सैवेयम् इति वुद्धिं राति ददातीति सा, आनुकूल्यस्यानुकूलतायाः समीरणेन सम्यक् प्रेरकेण समीरणेन वायुना धूयमानेव खण्डामानेव । नन्वेवं चेत् कथम् अत्याग्रहेण तमनुवव्राज ? तत्राह—पुष्करेक्षणस्य श्री-कृष्णस्य सौरभेऽङ्ग-गन्धे पुष्कले महति विषये रभसेन हर्षेणान्धा इव ॥२४॥

अथ पुरः पुरः-पदवी दवीयसीति द्रुततरं ततरंहसा चलति भवनविषयकुतूहलिनि हलिनि सहजप्रमदमदमन्थरगामितया मितया पदविहारलीलयाभिसरणमारभमाणो रभमाणो विविधसौभगश्रियमुदारमाधुर्यो रमाधुर्यो मदकलकलभ इव व्रजराजकुमारः कुमारयन्नेव कियदन्तरितोऽन्तरितोऽनुरागं प्रियसहचरैर्दर्श्यमान-पुरवलभीर्बलभीह्रासनिःसङ्कोचं विलोकयामास ॥२५॥

पुरोऽग्रे, पुरः पदवी पुर्या मार्गः, दवीयसी दूरतरेती हेतोः, द्रुततरं यथा स्यात् तथा ततरंहसा विसृत-वेगेन चलति । कुतः ? भवन-विषय एव कुतूहल-युक्ते हलिनि सति, विविध-सौभग-सम्पत्तिं रभमाणो लभमानः, रलयोर् ऐक्यात् । मदकलो मत्तः कलभः करिशावक इव रमाधुर्यः सम्पत्तिभाररान् । कुमारयन्न् एव कियद् अन्तरितः कियन् मात्रं व्यवहितः सन्ननुरागं प्रेमाणम्, अन्तरितोऽन्तःकरणे प्राप्तः, इण् गतौ इत्य् अस्य निष्ठान्तस्य रूपम्, पुराणां वलभीश् चन्द्रशालिकाः, चन्द्रशाला च वलभी स्यातां प्रासाद-मूर्धनि इति श्रीधरः, वलान् निजाग्रजाद्-भियो ह्रासेन हेतुना निःसङ्कोचं यथा स्यात् तथा, एतद् अभिप्रेत्यैव तेन प्रथमत एव तत्-सङ्गतो विच्युतम् इति ॥२५॥

तासु समारूढानां रूढानां प्रणयधुरया मधुरया मदिराक्षीणां वदनमण्डलैः पूर्णचन्द्रपरम्परापराचितेव समजनि गगनवीथी, नयनैरपि नीलराजीवराजीबहुलेव दिक्सरसी, वपुष्कलाभिः पुष्कलाभिर्वितडित्वत्तडित्वदिव नभोमण्डलम्, मणिभूषणमरीचि-वीचि-वीथिभिरपि निरभ्राखण्डलाखण्डलालित्यधनूराजिराजितमिव व्योम, भ्रतरङ्गैरपि नभःस्मितकुसुमवीरुधारुधामलिनामाभया मलिना माभयानामपि दिगबलानाम्, किं बहुना? लावण्यामृतरसवाहिन्यो वाहिन्योऽभवन् प्रणाल्यश्च ॥२६॥

तासु वलभीषु, प्रणयधुरया प्रेम-भारेणैव रूढानां प्रसिद्धानाम्, रूढं जातेऽति-प्रसिद्धे च इति मेदिनी, पूर्ण-चन्द्राणां परम्पराभिः पराचिता सर्वतो व्याप्ता । राजीवराजी कमल-श्रेणी, वपुषां कलाभिर् अंशैर् अवयवैर् इत्य् अर्थः, पुष्कलाभिः श्रेष्ठाभिर् विगतस् तडित्वान् मेघो यत्र तन् निर्मेघानि यान्याखण्डलस्येन्द्रस्याखण्डलालित्यानि पूर्ण-माधुर्याणि धनूंषि तेषां राजिभिः श्रेणीभी राजितं दीप्तम्, नभसि निःसृतं तासां स्मितम् एव कुसुम-वीरुधा, हलन्ताद्-भागुरिमते टाप्, तां रुन्धन्तीति तथा तेषाम् अलिनामाभया कान्त्या दिग् अवलानां दिक्-स्न्दरीणाम् अपि मा शोभा मलिना समजनीति पूर्वेणैव सम्बन्धः । अलिनां कीदृशानाम् ? अभयानां भ्रमणे निःसङ्कोचानाम्, बाहिन्यो नद्यः ॥२६॥

एवं समुत्कण्ठासमुत्कण्ठास्ता अपि सुकण्ठ्यः कण्ठ्यमपि न कुर्वन्ति यं तमनुरागरसं गरसन्निभमिव हृदि वहन्त्यो दिवसमतिवाह्य वाह्यवृत्तिरहिताः स्थिताः ॥२७॥

तदानीन्तस्य तासां तादृश-भावस्यौचित्यम् एव वक्तुं तत्-पूर्वकालवर्तिनी दुःखदशां तासाम् आह—सम्यग् उत्कण्ठतयैव समुत् आशा-मात्र-हेत्कुकानन्दजवाष्परोधात् सहर्षः कण्ठो यासां ताः, तं प्रसिद्धम् अनुराग-रसं गर-सन्निभं विषतुल्यं हृदयेऽपि वहन्त्यो यं गरं कण्त्यं कण्थार्हम् अपि न कुर्वन्ति, सामान्यतो जना इत्य् अर्थः । केवलं रुद्र एव योगेश्वरः कण्ठ्यं करोतीति भावः ॥२७॥

दिवसावसानमालोक्य कृष्णदिदृक्षयाक्षयाशापाशापादितजीवनबन्धा नवं धाम मेघमेचकं मेचकं च कञ्चनोष्णीषपार्श्वे दधानस्य तस्यैव दूराद्यदि ददृशुः, तदा नेत्राञ्जलिभिः पपुरिव पुरि बद्धदृशस्तस्य शस्तस्यन्दि तद्धाम दोर्भ्यां परिरेभिरेऽभित इव रसनाभिरिव लेलिह्यन्ते स्म, ह्यन्ते स्म निष्पन्दा गगनभित्तिचित्रलेखालेखा इव बभूवुः ॥२८॥

तस्यैव कृष्णस्यैव नवं धाम स्वरूपं दूराद् यदि ददृशुः । कीदृशम् ? मेधाद् अपि मेचकं श्यामलम् । तस्य कीदृशस्य ? कञ्चनापूर्वं मेचकं चन्द्रकम् उष्णीष-पार्श्वे दधानस्योष्णीषस्य वामतो वक्रिम्णा मस्तकोर्ध्व एव पार्श्वं तिष्ठति, तत्रैव चन्द्रकार्पणम्, यद् वा, उपरिभागोऽपि पार्श्वे-शब्देन क्वचिद् उच्यत एव । तद् धाम पपुरिष । तस्य कीदृशस्य ? पुरि तच् चन्द्रशालिकावति निवासे वद्ध-दृशः प्रविष्ट6-दृष्टेः । धाम कीदृशम् ? शस्तं यथा स्यात् तथा, स्यन्दते स्रवतीति धाम्नोऽमृतत्वं व्यञ्जितम् । लोलिह्यन्ते स्म, अतिशयेन लीढवत्यः । हि निश्चिये, अन्तेऽवसाने तु निष्पन्दाः जाड्यभावोदयात् । स्मेति त्वर्थे यमक-पूरणार्थम् ॥२८॥

ततश्च कज्जलमिव नयनयोरिन्दीवरमिव श्रवसोरिन्द्रनीलमणिहार इव वक्षसः कस्तूरिकानुलेपनमिव सर्वाङ्गस्य स तासामभवत् । अस्मिन्नेव समये प्रियनर्मसहचरः स ह चरमपाकप्रणयः सपरिहासहासकलया किञ्चिदवादीत् ॥२९॥

चरम-पाकः परिणामो यस्य, स चासौ प्रणयश् चेति । तथा तेन परिहासेन सह वर्तमाना या हासकला तया ॥२९॥

**
“प्रियवयस्य! वयस्यधिकायमाने मानेन नयनेनाद्भुतं किमवलोक्यते, यदयं भवानंशुमाली वनपरिसरे, पुरतोऽमूः प्रणयप्रसराजीविन्यो राजीविन्यो वडभीस्थलगततया गगनमध्यस्था इव, भवानखिलगुणनिधिः कलानिधिः कलामावहत्यधस्तात् पुरत इयं च कुमुद्वती मुद्वती भवत्यूर्ध्वमिति महत् कौतुकं कौ तु कं न रञ्जयति, जयति चेदं चमत्कारकारकं किमपि, विधिकृतेऽधिकृते किमाश्चर्यम्” इति छलेन गोकुलकुलललनामुख्यां वार्षभानवीं परिचाययामास ॥३०॥**

अधिकायमाने वयसि सति । अनेन नयनेन किम्-भूतं मावलोक्यते ? अपि तु सर्वम् एवालोक्यत इति । अंशुमालि सूर्यः, कान्ति-समूहवां च, वनस्य जलस्य काननस्य च परिसरे, प्रणयस्य प्रसरं समूहम् आ सम्यग् जीवयितुं शीलं यासां ताः, यद् वा, तमाजीवन्ति जीविकात्वेन तम् एव आश्रयन्तीति ताः, राजीविन्यः कमलिन्यः । सूर्यो जले, पद्मानि गगने इत्य् आश्चर्यम् । मुद्वत्यानन्द-विकाशवती, विधिकृते विधातृ-रचिते, अधिकृतेऽधिकारे, किम् आश्चर्यम्, तत् कृत-नियम-वैपरीत्य-दर्शनात् ॥३०॥

तदनु तासु तस्यां चाहितनयनो नयनोत्सवकरोऽवकरोज्झितप्रणयकुसुमसुमहासौरभ-रभसरागपरभागभागन्तराणां तासामपि हृदयं सहदयं सुष्ठु निजहृदयेन सदयेन सद्यो विनिमयन्निव निवहदनुरागसुधाप्रवाहया वाहयामास दिनकृतविच्छेदच्छेदकृदपाङ्गलक्ष्मीतरङ्ग-परम्परया ॥

तासु सर्वासु गोपीषु, तस्यां श्री-राधिकायां च आहित-नयनोऽपित-नेत्रः, अयं श्री-कृष्णः, तासां हृदयं निज-हृदयेन सह सदयेन शोभन-शुभावह-विधिना विनिमयन्न् इव परिवर्तयितुम्, अयः शुभावहो विधिः इत्य् अमरः । दिनकृतस्य विच्छेदस्य छेद-कृतोऽपाङ्ग-लक्ष्म्यास् तरङ्ग-परम्परया प्रथमं ताभिः कृतया, सम्प्रति तासां हृदयं पश्चात् स्वेनापि कृतया ताः प्रति स्वस्यापि हृदयं युगपदेवोभयतो धारया वाहयामास । तासाम् अपीत्य् अपि—शब्दाद्-विनिमयन्नित्यतश् चायम् आक्षेपलव्ध एवार्थः । कीदृश्या ? नितरां वहन्न् अनुराग-सुधायाः प्रवाहो यस्यां तया । तासां कीदृशीनाम् ? अवकरोझितः प्रणय उपादि-रहितं सख्यं तद् एव कुसुमं तस्य सुमहा-सौरभस्य रभसो वेगश् च रागपरभागोऽनुराग-परमोत्कर्षश् च तौ भजतेऽन्तरं यासां तासां, यतोऽयं सुहृद् वन्धुः, बन्धुत्वोचितम् एव हृदय-परिवर्तमन् इति भावः ॥

अथ—

अग्रे धूलिभरो गवां खरखुरक्षुण्णः क्षमायास्ततो **हम्बेत्युच्चगभीरचारुनिनदस्तासामथो मण्डलम् । ** तस्यान्ते मुरलीरवस्तदनु च प्रेङ्खोलि नीलं महः पश्चात् कृष्ण इति क्रमाद्व्रजपुरीपत्योरभूद्गोचरः ॥

अथ-शब्दो रसान्तर-वर्णनारम्भार्थः । क्षमायाः पृथिव्या धूलिभरः, व्रज-पुरीपत्योर् नन्द-यशोदयोः ॥

अपि च— धेनूनामथ वत्सवत्सलतया जातत्वरामूधसा माहारस्य च गौरवाल्लघुतरामाबिभ्रतीनां गतिम् । श्रीकृष्णस्य विलासवेणुनिनदैरामोदघूर्णद्दृशां हम्बेतिश्रुतिरम्यगद्गदगिरां श्रेणी व्रजं प्राविशत् ॥३१॥

जातत्वरां लघुतराम् इति गतेस् त्वरालाघवाभ्यां समाम् एव गतिं विभ्रतीनाम् इत्य् अर्थः । हम्बेति श्रुति-रम्या गद्गद-गिरो यासां तासाम् ॥३१॥

एवं श्रीवनमालिनो गोषु गोषु च किरणमालिनोऽपि चरणसञ्चरण-सम्पादित-धरणिपवनासु निजनिलयं गतासु तासु श्रीकृष्णेक्षणक्षणजनितकौतुकेन केनचिदथो कृष्णसहचर-जननीजन-नीराज्यमानसङ्गा व्रजराजवनिता जवनितान्तसत्वरचरणविहारा गोऽवनवनविहारागोचरं गोचरीकृत्य कृत्यनभिज्ञेव तमात्मजमात्मजनवत्सलमालिङ्ग्य ललितगोपुरं पुरं प्रवेशयामास ॥३२॥

किरण-मालिनः सूर्यस्यापि गोषु रश्मिषु चरणानां खुर-रूप-पदानां सञ्चारेण सम्पादितं कृतं धरण्याः पवनं पवित्र्यं याभिस् तासु, पक्षे चरणं शौत-स्मार्त-धर्माचरणं तस्य सञ्चारेण सम्पादितं धरणेर्धरणिस्थ-सर्व-जनस्य पवनं पावित्र्यं याभिस् तासु—सूर्य-किरणोद्गमे सत्य् एव सर्व-धर्म-प्रवृत्तेः । निज निलयं स्व-स्व-गृहम्, पक्षे, नितरां जनैर् उद्भवस्य लयं नाशम्, श्री-कृष्णस्येक्षणं दर्शनम् एव क्षण उत्सवस् तस्माज् जनितेन, कृष्ण-सहचराणां जननी-जनैर् नीराज्यमानः सङ्गो यस्याः सा, जवेन वेगेन नित्य्न्तसत्वरोऽतिशयत्वरायुक्तश् चरण-विहारः पादन्यासो यस्याः सा, तमात्मजं गवाम-वने पालने यो वन-विहारो वने क्रीडनं तेन हेतुनागोचरं परोक्षी-भूतं गोचरी-कृत्य साक्षात्-कृत्यानन्द-विह्वलतया कृत्य् अनभिज्ञेव दलितं गोपुरं सिंह-द्वारं यस्य तत् ॥३२॥

ततश्च सहैवागता वागतारल्येन मन्दमधुरं मधुरञ्जि गदन्तो दन्तोज्ज्वलकिरणधौताधराः स्वस्वजननीजननीयमाना अपि बालका बालकान्तसाहचर्यचर्ययार्यया नितान्तसौहृदा हृदातिसरसेन व्रजेश्वरी श्रावयामासुः—“अम्ब! किं कथनीयमद्यतनमाश्चर्यमाश्चर्यतां केन तत्, यदेष बलभद्रो भद्रज्ज्वलविक्रमोऽक्रमोढखेलारसमात्मसङ्गोपगोपतनयाकारमसुरमसुरहितं चकार । एष च तव सुतो वसुतोऽसुतोऽपि सुतोषकरोऽस्माकं सकलारिष्टहन्ता हन्तातिकरालं दावदावमखिलगोधननिधननियतं किमापपौ, किमाप पौष्कल्यं वाक्सिद्धिरेवास्य, यया नाशं गतोऽसौ शं गतोऽसौ च सौरभेयीगणः” ॥३३॥

वाचामतारल्येन गाम्भीर्येणेत्य् अर्थः । मधु-रञ्जि मधुतोऽपि रञ्जकं यथा भवत्य् एवम्, वाला कोमला कान्ता कमनीया सहचरस्य भावः साहचर्यं सख्यं तस्य या चर्या आचरणं तया आर्यया श्रेष्ठया तादृश-सख्य-भावा-चरणेन हेतुनेत्य् अर्थः । नितान्तं सौहृदं सोहार्दं येषां ते, हृदा नषा । आः केन तत् कर्म-चर्षताम्, आचर्यतां क्रियताम् इति यावत् । आ इति दावानल-पानादि-कष्टम् अनुस्मृत्य पीडार्थे युक्तम्, यद् वा, ननु राम-कृष्णयोर् यत्-किञ्चिद् अपि कर्म नित्यम् एव यं बाल्याद् एवाश्चर्यम् आश्चर्यम् इति वदथैव । तत्र आ इति पदेन कोपमभिव्यज्याहुर् इति, आस्तु स्यात् कोप-पीडयोः इत्य् अमरः । न क्रमेणोढः खेला-रसो येन तम्, बाहक-मर्यादातिक्रमात्, न चात्र शैशव-चापल्यम् एव हेतुर् मन्तव्यः, यत आत्मनः सङ्गोपः सम्यग् गोपनं यस्मात् तथा-भूतो गोप-तनयस्याकार इवाकारो यस्य तम्, असुरं दैत्यम्, असुभिः प्राणैश् च सुष्ठु तोषं करोतीति सः, हन्त विस्मये, अतिकरालं दावदावं वनाग्निं किमापपौ, सम्यक् पीतवन् ? किंवा वाक्-सिद्धिर् एवास्य पौष्कल्यं पुष्टिम् आप प्राप्ता, शं कल्याणम् ॥३३॥

इति गतेषु तेषु निशान्तं निशान्तं मूर्तिमदिन सकलसुखानां समनन्तरमनन्तरभसं स्वतनयं मणिमङ्गलदीपेन नीराज्य राज्यमानवपुषं स्वमहसा महसाधुकारिणि स्वसदने सदनेकलक्ष्मिणि वात्सल्यस्नुतपयोधरा पयोधराङ्कुरमिव करकमलेन करकमलमाधृत्य धृत्यनवस्थिता प्रवेशयामास ॥३४॥

तेषु निशान्तं गृह गतेषु सत्सु स्वतनयं नीराज्य । कीदृशम् ? सकल-सुखानां मूर्तिमद् इव निशान्तं सदन-रूपम् । स्वमहसा स्वकान्त्या राज्यमान-वपुषं दीप्यमान-शरीरम्, धृतौ धैर्येऽनवस्थिता निष्ठा-रहिता, स्नेहतरलेत्य् अर्थः ॥३४॥

ततश्च सायन्तनो यदि तनोरुन्मार्जनादि-क्रियाकलापः कलापण्डितर्बालपरिचारकैरकैतवप्रणयश्रद्धाबद्धावदातहृदयैर्निर्वाहितः, तदा कृताहारो हारोल्लसद्वक्षाः पटकपटकमनीयस्थिरतडिल्लेखः श्रीखण्डखण्डालेप-व्यपदेशदेश-कालातीत-हिमनीमानीयमानपरभागः कौस्तुभमणिराजव्याजव्यासज्यमानाद्युमणिमण्डलः कुण्डलयुगलच्छाच्छन्मच्छविगुरुगुरुभार्गवो वदनमण्डलमिषशरन्निशानिशातनिशाकरः सितोष्णीषकैतवमदमदकलकलहंसो धाराधर इव निखिलजननिदाघसमयसमयमानोष्णतापहारी हारीहितो हितोदितेन प्रियनर्मसुहृदा हृदा मूर्तिमतेव समर्प्यमाणं घनसारसारताम्बूलमभ्यवहरन हरन् सकलजनमनो मनोऽतीतमधुरिमा धुरि मानभृतामग्रणीर्मणिपादूपादूरीकृतधरणितलास्पर्शो मन्दतर-स्पन्दमान-पवमान-स्पन्दानुमेयपरिमेयपरिमेय-परिवीतपीतवसनो बहिरेत्य पुरतोरणे तोरणेन सुललिते निदाघनिशानिशाभिलषणीय-निशाकरकरनिकरनिरवकरकर्पूरधूलिधूलिधवलितं वलितं नयनसुखप्रदेशं प्रदेशं परितः शशधरकान्तकान्तशिलास्यन्दसलिलशीकरनिकरनिर्भरपूरोपवनपवनीबीजनोत्सवपुषा वपुषा विजितगौरीगुरुपौगण्डगण्डलौलसमूहेन चन्द्रिकारुचिरुचिरतया केवलबलदनुपमालिमालिन्यविषा विषाणनिकरेणैव लक्ष्यमाणेनोक्ष्यमाणेनोत्तमसुखरसैः सुखशयितेन तेन गवां निकुरम्बेण रमणीयासूल्लसत्पुरगोपुरगोचरमणिच्छविशिखासु विशिखासु पदकमलमादधानो वधानोऽभितश्च नयनकमलं कमलं न कुर्वन् क्वचन सायन्दोहदोहदपरे सकलाभीरे सकलाभीरेध्यमाणो रसकलाभिरेव रेवतीरमणानुजोऽनुजोषमतिकौतुकेन यदि दोग्धुमारेभे मारेभेन मृद्यमाना राजीवराजीव तदा तदाकर्ण्य गोकुलकुलललनाततिरवधीरितगुरुबलभिका वलभिकारोहरोहदुत्साहा साहाय्याय मनोमदनेन मदनेन दत्तकरावलम्बालं बालहरिणनयनविभ्रमैर्नयनविभ्रमैरिन्दीवरवरविपिनमयीचकार नभः ॥३५॥

ततश् च सायन्तन उन्मार्जनादि-क्रियाकलापो यदि बाल-परिचारकैर् निर्वाहितः, तदा कृताहारादिः सन् बहिर् एत्य सुखशयितेन गवां निकुरम्बेण रमणीयासु विशिखासु पदकमलम् आदधानः । सकलाभीरे सायन्दोह-दोहपरे सती रेवतीरमणानुजः केनचन कौतुकेन यदि दोग्धुम् आरेभे, तदा तदाकर्ण्य गोकुल-ललनाततिर् नयन-विभ्रमैर् इन्दीवर-विपिनमयीचकार नभ इत्य् अन्वयः । अकैतवः प्रणयश् च तद् उदिता श्रद्धा च दास-भावोचिता ताभ्यां वद्धम् अवदातं शुद्धं हृदयं येषां तैः । हारोल्लसद् वक्षा इति हाराणां नक्षत्र-पङ्क्तित्वं वक-पङ्क्तित्वं वा व्यञ्जनागम्यम्—तस्य धाराधरत्वेनोपमानस्यमानत्वात् । श्री-खण्ड-खण्डालेपस्य व्यपदेशेन छलेन देश-कालातीता तद् देश-समय-दुर्लभा हिमानी हिम-संहतिर् एव तस्या मा शोभा तया नीयमानः प्राप्यमाणः परभागः शोभा यस्य सः, वर्तमान-निर्देशेन प्राप्तेर् अविच्छेदात् शोभायाः प्रतिक्षण-नव-नवत्वं द्योतितम् । व्यासज्यमानेति ताच्छील्ये चानशन्तं वर्तमानत्वं पूर्ववत् । कुण्डल-युगलस्य छद्मना छवि-गुरु-कान्त्याधिकौ गुरु-भार्गवौ वृहस्पति-शुक्रौ यत्र सः, वदन-मन्ण्डलमिषेण शरन्निशायां नितरां शतं सुखं यस्मात् तादृशो निशाकरो यत्र सः, निदाघ-समये सम्यगयमानामार्गच्छन्तीम् उष्णताम् अपहर्तुं शीलं यस्य सः । हारीहितो मधुर-चरितः, हितोदितेन स्वाभीष्ट-रूपहितवादिना, तच् च सुन्दरी-जन-मोहनादिकम् एव ज्ञेयम् । हृदा मनसा, मूर्तिमतेति देहेनैव भेदो मनसा त्वैक्यम् एवेति विवक्षितम् । मान-भृतां सम्मानधारिणां धुरि गणनेऽग्रणीः । मणि-पादुः मणिमय-पादुका पादे यस्य सः । पुरतोरणे सिंह-द्वारे तोरणेन वन्दन-मालया सुललिते, निदाघ-निशायम् अनिशं निरन्तरम् अभिलषणीयो यो निशाकरस्य कर-निकरः किरण-समूहः, स च, कर्पूरस्य धूलिर् इव या धूलिः सा च, ताभ्यां धवलितम् । नयन-सुखं प्रदिशतीति तथा तं प्रदेशं स्थल-विशेषं परितस् तस्य समन्ततः, परितः-शब्द-योगे द्वितीया । सुख-शतितेन गवां निकुरम्बकेण रमणीयासु विशिखासु पुरवर्त्मसु पद-कमलम् आदधानोऽर्पयन् । गवां निकुरम्वकेण कथम्-भूतेन ? शशधर-कान्तश् चन्द्र-कान्तस् तन् नाम्नी या कान्तशिला कान्ति-युक्त-प्रस्तरस् ततः स्यन्दन्ते स्रवन्ति यानि सलिलानि तेषां शीकर-निकरस्य कण-समूहस्य निर्भतोऽतिशयो यत्र स चासौ पुरोपवन-सम्वन्धि-पवनश् चेति तेन तद् वीजनम्, तत्-कर्तृकं वीजनम् इत्य् अर्थः । ततएवोत्सव-पुषोत्सव-पोषकेण वपुषा विशेषेण जिता गौरीगुरोर् हिमालयस्यापि पौगण्ड-युक्ता गण्ड-शैल-समूहा येन तेन पौगण्डं कैशोरात् प्राग् अवस्था, तद् युक्त-गण्ड-शैला इति मध्य-पदे-लोपि-समासः । केवलं बलताम् अनुपमानामलीनां भ्रमराणाम् अपि मालिन्यं स्व-सौन्दर्येण तिरस्कारं वेवेष्टीति तथा तेन, विषॢ व्याप्तौ क्विवन्तः । एवं-भूतेन विषाण-निकरेण शृङ्ग-समूहेनैव लक्ष्यमाणेन गाव एवैत्याः, न तु चन्द्रिका इति ज्ञाप्यमानेन । उक्ष्यमाणेन सिच्यमानेन, उल्लसन्त्यः पुर-गोपुरे पुरद्वारे गोचरा विषयी-भूता या मणयस् तासां छवि-शिखाः कान्त्य् अग्राणि यासु तासु । क्वचन विषये कं सुखम् अलम् अतिशयेन न कुर्वन्, अपि तु सर्वत्रेति बलभ्यारूढायां युवती-श्रेण्यां दृष्टि-क्षेपः सूचितः । दोहदम् इच्छा, सकलाभिः सर्वाभिः, रसकलाभी रस-वैदग्धीभी रेव्यमाणो व्याप्यमानः, रेवृङ् प्लुतौ प्लुतिर् व्याप्तिः, अनुरोषम् अनुप्रीति । मारः काम एवेभस् तेन मृद्यमाना पीड्यमाना राजीवराजी कमल श्रेणी । बलं च भीश् च तद् वलभि, अवधीरितं तिरस्कृतं गुरु-सम्बन्धि वलभि यया सा, अतएव बलभिकायाश् चन्द्रशालिकाया आरोहे रोहन् प्रादुर्भवन्न् उत्साहो यस्याः सा, मनो मदयति मत्तं करोतीति तथा तेन दत्तः करावलम्ब इव यस्याः सा । बाल-हरिणो हरिण-शावकस् तस्य नयनयोर् विभ्रम इव विभ्रमो येषु तैः । विभ्रमो विलासः, नयन-विभ्रमैर् लोचन-विशिष्ट-भ्रमणैः ॥३५॥

एवममूस्तद्वदनसुधाकरसुधाकरतोयां नयनशफरवधूरवधूय स्वयमभितोऽभितोषेण निपतन्तीर्निवारयितुं यदि न शेकुस्तदा नयनसुखदुहं तं दुहन्तं गामवलोकयाञ्चक्रुः ॥३६॥

अमूर्ललनास् तस्य श्री-कृष्णस्य वदन-सुधाकरस्य सुधैव करतोया नदी-विशेषस् तां प्रति निपतन्तीर् अवधूयावधूता भूत्वा स्वयम् एव, न तु ताभिः प्रेरिताः । तं श्री-कृष्णं कीदृशम् ? नयन-मुखं दोग्धि पूरयतीति तथा तम् ॥३६॥

तद्गोदोहनस्य निराविलसितं विलसितं किमरेऽमरेशा अपि वक्तुं शक्नुवन्ति, लघीयांसो हि नभसङ्गमा न भसङ्गमाय प्रभवन्ति, तथापि कविर्वराको वराकोपेन रसनालोभेन वर्णयति ॥

निराविलं निर्मलं सितं व्यवसितं यत्र तत्, विलसितं विलासम्, अमरेशा ब्रह्मादयोऽपि, नभः-सङ्गमाः पक्षिणः, भं नक्षत्रं तस्य सङ्गमाय न प्रभवन्ति । वरः श्रेष्ठ आकोपो दुर्दमत्वं यस्य तादृशेन रसनालोभेनेति स्वदैन्यं व्यञ्जयन्तम् अपि तम् एव स्तावयति तस्य सरस्वती । यथा वरं श्रेष्ठम् एव आ सम्यक् कायति शब्दायते इति तथा रसना आस्वादस् तल्लोभेन ॥

तथा हि—

पादाग्रे कृतपादुकं त्रिकसमुल्लासोल्लसत्पार्ष्णिकं मध्ये न्यस्य घटीं पटोन्नमनतः प्रोद्यत्त्विषोर्जानुनोः । गोतुन्दव्यतिषङ्ग-सुन्दरदरक्षोभश्लथोष्णीषकं पाणिभ्यां क्रमकुड्मलाङ्गुलिपुटं गां दोग्धि दुग्धं हरिः ॥

त्रिकस्य पृष्ठ-दण्डाधोभागस्य समुल्लासेन सम्यग् उच्चीकरणेनोल्लसन्तौ उत्तिष्ठनौ पार्ष्णी यत्र तद्-यथा स्यात् तथा, जानुनोर् मध्ये घटीं न्यस्य । कीदृशयोः ? पटस्य पीताम्बरस्य उन्नमनत उत्कर्षणाद् धेतोः प्रोद्यन्ती त्विट् कान्तिर् ययोः । गोतुन्दस्य गोकुक्षेर् व्यतिसङ्गेन परस्पर-मिलनेन सुन्दरं दरक्षोभम् ईषद् उच्छलितं दरश्लथम् ईषच्छिथिल-वन्धं चोष्णीषं यत्र तद्-यथा स्यात् तथा ॥

अपि च—

अग्रमङ्गुष्ठतर्जन्योरुन्दयित्वा पयःकणैः । क्रमेण गोस्तनं क्षीरमपि क्षरदचक्षरत् ॥

उन्दयित्वा आर्द्रयित्वा, क्षरद् अपि दुग्धं गो-स्तनं क्षारयामास ॥

तथा हि—

वत्सादप्यधिकप्रियो भगवतः पाण्यम्बुजस्पर्शन **स्नेहस्रावि-पयःपयोधरपुटा गौर्दुह्यमाना स्वयम् । ** **धाराभिः सुगमीरघोषगहनामापूर्य सा दोहनीं ** दोहन्यन्तरमेति यावदवनीं तावत् समापुप्लुवत् ॥३७॥

अधिकं प्रीणातीत्य् अधिक-प्रस् तस्य पाण्यम्बुज-स्पर्शनेन यः स्नेहस् तेनैव स्रावि पयो यस्मिन् तथा-भूतं पयोधर-पुटं यस्याः सा । दोहन्यन्तरं कर्म-भूतं यावद् एति, स्वपयसा पूरयितव्यत्वेन प्राप्नोति ॥३७॥

एवं तदवेक्षणक्षणपरवशानां तासां वलभीगतानां भीगतानान्दोलेनापि समुत्कलिकया समुत्कलिकया चञ्चलेनाञ्चलेनाक्ष्नामीक्षमाणानां मनोरथमनोरथसहस्रणापि दुर्वहं जनयामास ॥३८॥

तद् अवेक्षणे यः क्षण उत्सवस् तत्परवशानां तद् अधीनानाम् आन्दोलः कम्पः, अनान्दोलो निष्कम्पत्वम्, भिया गुरु-भयेन गतो नष्टो योऽनान्दोलस् तेनापि गुरु-भय-जनित-स-कम्पत्वेनापीत्य् अर्थः । समुत्कलिकया समुत्कण्ठया मुदां कलया सह वर्तमानया, अक्ष्णां चञ्चलेनाञ्चलेनेक्षमाणानां मनोरथम्, अनसां शकटानां रथानां च सहस्रेणापि दुर्वहं जनयामास । चकारेति तदानीं तस्याति-वृद्ध्या परिमाणाधिक्यं द्योतितम् ॥३८॥

तत्र कासाञ्चन काञ्चनकान्तलताकाराणां निजसहचरीजनैः सह सहजसौहार्दादसम्भ्रमेण भ्रमेण चास्खलतः खलप्तश्च न भेद्यादात्महृदयं सदयं सरसं च प्रकाशयन्तीनां संलाप आसीत् ॥३९॥

सहज-सौहार्दात् कथम्-भूतात् ? भ्रमेण च भ्रान्त्यापि अस्क्थलतः स्थलन-शून्यात्, खलतश् च खलैर् अपि न भेद्यात्, न भेत्तुं शक्यात् । अप्य् अर्थे चकार-द्वयं यमकरक्षार्थम्, संलापो भाषणं मिथः इत्य् अमरः ॥३९॥

**
“अयि सहचरि! चरितमिव मे नयननिर्माणेन, यदम्बुधररुचिरस्य रुचिरस्य चिरस्य रस्यतमा पीयते, किन्तु करिष्यामो वपुरिदं पुरि दन्दह्यमानमवश्यमेतेन वश्यमेतेन नानाकलाकलापवत्तया, तत्रेयं मे युक्तियुक् तिग्मा मतिरुन्मीलति, केलिलतिकेऽलिमन्तरेण कमलिनी मलिनीभावमायाति । तदयि परमाङ्गने! परमाङ्गनेऽस्मदीये समाने समानेतव्योऽयम्, पश्य मम मन्त्रकौशलम्” इति । साह—“कथमिव?” पुनरेषाह—“सहचरि! श्रूयताम्” ॥**

चरितम् इव चरितार्थी-भूतम् इव । यद् यस्माद् अम्बुधराद् अपि रुचिरस्य सुन्दरस्यास्य रुचिः कान्तिः, चिरस्य चिरं व्याप्य रस्यतमातिशयास्वाद्या पीयते । वपुर् इदम् इति वाम-तर्जन्या स्वं दर्शयन्त्य् एवाह—पूरि पूर-मध्ये दन्दह्यमानं गुरु-जन-सङ्घर्षवशाद्-गर्हित-दाह-युक्तम्, भाव-गर्हायां यङ् । अवश्यमेतेन श्री-कृष्णेन वश्यं वशीकर्तुं योग्यं करिष्यामः । एतेन कथम्-भूतेन ? नाना-कला-कलापवत्तयैतेन आ सम्यक्-प्रकारेण इतेन प्राप्तेन, इयं तिग्मा तीक्षणा मतिर् वुद्धिः । युक्तिं युनक्तीति युक्तियुक्, नन्वत्र कथम् अत्याग्रहः ? तत्राह—हे केलिलतिके ! इति सखी-नाम्ना सम्बोधनम् । अलिं भ्रमरम्, अन्तरेण विना हे परमाङ्गने श्रेष्ठ-सुन्दरि ! परमाङ्गने स्रेष्ठ-प्राङ्गणे ॥

**पुरे प्रायोऽस्माकं प्रथमवयसो दुर्दमतया ** **न दुह्यन्ते गावः प्रसभमभयैः कैरपि जनैः । ** अतो दोहाभावाद्भवति विहते गव्यविभवे गुरूणां हृद्योम्नि ज्वलति नितरां तापतपनः ॥४०॥

गव्यविभवे दोहाभाद्विहते भवति सति ॥४०॥

साह—“ततः किम्?” एषाह—

**“त्वयैते वक्तव्याः कमलमुखि मुख्या हि गुरवः ** **कथं गा व्यर्थत्वं गमयथ वृथा दोहनमृते । ** **यदालोके सद्यो दधति सुखदोह्यत्वमपि ताः ** सुदुर्दान्ता यत्नादुपनयत तं दोग्धु स इमाः” ॥

गा धेनूर् व्यर्थत्वं निष्फलत्वम्, यद् आलोके यस्य गो-दोहन-कर्मेत्य् अर्थः ॥

**तदा तैराख्येयं क्व स कथय कोऽसाविति ततो ** **भवत्याख्यातव्यं सुमुखि यदिदं दृश्यत इह । ** ततस्तत्रोद्योगं सखि रचयिताऽसौ गुरुजनः स्वकार्येषु प्राज्ञो भवति न कदाप्येव विमुखः ॥४१॥
अथ चतुरा साह—“तुरासाहमधिव्रजपुटभेदनमाधिव्रजपुटभेदनमानन्दकारणं कारणं न करोति, तदुचितमेवैतत्, किन्त्वयं पित्रोरत्रोररीकृताधीनतया धीनतयापि वर्तमानो न स्वातन्त्र्यमाविष्करोति” । इयमाहा—“अलमनयानयानुकूलवार्तया, वार्तया तु युक्त्या भूयते । श्रूयताम्—
व्रजस्य दुःखे च सुखे च तत्फल-प्रभोगभाजाविव वत्सलत्वतः । श्रुत्वोदितं मद्गुरुभिर्व्रजेश्वरी, तत्कालमेनं विनियोजयिष्यतः” ॥४२॥

अधिव्रज-पुट-भेदनं व्रपत्तने तुरासाहम् इन्द्रं कृष्णं कारणं शरणं न करोति ? किन्तु सर्वा एव, इत्य् आसां तद्भोग्यत्व-व्यञ्जनयाप्सरस् त्वं द्योतितम्, पत्तनं पुट-भेदनम् इत्य् अमरः । कथम्-भूतम् ? आधिव्रजस्य मनो-व्यथा-समूहस्य पुट-भेदनकरम् । उररीकृताङ्गीकृता या पित्रोर् अधीनता तया, धीनतयापि धिया वुद्ध्या इनतया प्रभुत्वेनापि वर्तमानः । अनयोर् अनीतिस् तद् अनुकूलया वार्तयानयालम्, युक्त्या तु भुयते, युक्तिस् तु वर्तत एवेत्य् अर्थः । कीदृश्या ? वार्तयारुग्णया प्रवलयेत्य् अर्थः, वार्तं फल्गुन्य-रोगे च त्रिषु इत्य् अमरः । तत्-फलस्य दुःख-सुख-फलस्य प्रभोगं प्रकृष्टं भोगं भजेते आत्मन्यभिमन्येते इति तथा तौ । कुतः ? वत्सलत्वतो व्रज-जनं प्रति वात्सल्यात् कारुण्योत्पादकादित्य् अर्थः । अतो मद्-गुरुभिर् उक्तं वचः श्रुत्वा परकीयम् उपकारम् अपि स्वीयम् इव मत्वेत्य् अर्थः ॥४२॥

अथैवमन्योन्यकौतुककथाप्रसङ्गरङ्गेण रसमयं समयं गमयन्तीषु तासु कृतलीलादोहोऽलीला-दोहोचितयाचितो वनमालयालयाय चलितः ॥४३॥

वनमालया आचितो वृतः । कीदृश्या ? अलीनां भ्रमराणाम् इला गिरस् तासां दोहः प्रपूरणं तद् उचितया तत्-समवेतया, उच समवाये इति धातोः, भूगोवाचस् त्विडा इला इत्य् अमरः ॥४३॥

चलता चलतारानुकारहारेण हारेण विलसदुरा दुराक्रमश्रीः परितो नयनकमल-व्यापारेणापारेणानन्दाकूपारेण प्लावयन्निव व्रजनगरनागरीगरीयोगुरुगौरवग्राहग्राहतुडितहृत्तडागानवहेलयालयान्तिकमाससाद ॥४४॥

हारेण विलसत् शोभमानम् ऊरो वक्षो यस्य सः, हारेण कीदृशेन ? चलता चञ्चलेन, चलानां ताराणां नक्षत्राणाम् अनुकारं सादृश्यं हरतीति कर्मण्यन् तेन । आनन्दाकूपारेण हर्ष-समुद्रेण प्लावयन्न् इव, अतिपरिपूर्णान् कुर्वन्न् इव । कान् ? व्रज-नगरनागरीणां गरीयो गुरुतरं यद्-गुरु-गौरवं तद् एव ग्राहो हिंस्र-जल-जन्तु-भेदस् तस्य ग्राहेण ग्रहणेन तुडिताः खण्डिताश् च ते हृत् तदागाश् चेति तान्, तुड् भेदने इति धातुः, आलयान्तिकं स्व-गृह-समीपम् । तन्मुखं प्रत्य् अभिमुखेनाभिसारो गमनं तत्र सारस्येन सरसतया निर्निमेषाणि हर्षोद्रेकेण विस्मृत-निमेषाणि ॥४४॥

तासां च नयनकमलानि यावदालोकं लोकं विलङ्घ्य तन्मुखाभिमुखाभिसारसारस्येन निर्निमेषाणि जातानि, अनालोकं प्राप्य प्राप्यकारित्वनियमेन पुनर्निवृत्तानीव, मनांसि तु ललितविलसितेन तेन सहैव सुखशयने तस्यैव सुषुपुः ॥४५॥

अनालोकं प्राप्येति तस्यातिदूरगत्वाद् इति भावः । प्राप्यकारित्वेति सर्वेषाम् एवेन्द्रियाणां नियमः प्राप्यकारित्वम् एव, तच् च प्राप्त एव स्व-स्व-विषये स्व-स्व-कृति-सामर्थ्यं न त्वप्राप्तेऽपीत्य् अर्थकम् । तेन निवृत्तानीवेति स्वाभीष्ट-विषालाभेन ततोऽन्यत्र त्वरोचकत्वेनैवाप्रवृत्त्या निमीलितानीव जातानीत्य् अर्थः । मनांसि त्विति मनसां तु दर्शन-श्रवण-प्रतियोगि-मात्र एव विषये स्व-स्व-कृति-सामर्थ्य-नियमो न त्वपृअप्त-प्राप्तता-विचार इति तु-कार-व्याञ्जितोऽर्थः ॥४५॥

एवमहनि हनिष्यद्भावकरालभावकराल-वियोगवेदना-वेदनास्थानाभावादात्मनो मर्मणि मर्मणि सञ्चारिणी विषविसर्पज्वालेव यातना या तनावुन्मीलति, तां खलु दिवसावसान-तत्समागमागन्तुकदर्शनेन निदाघप्रदोषदोषराहित्यैधितशोभशोभमान-तद्बहिर्विहारदर्शनेन च निर्वापयन्ति तदनुरागिण्यः ॥४६॥

नैदाघिक-लीलाम् उपसंहरति । अहनि दिवसे हनिष्यद्-भावो हनिष्यत्ता तया याः करालभास् तीक्षण-किरणास् ताभिर् अवकरं दोषमालाति गृह्नातीत्य् अवकरालो यो वियोगस् ततो या वेदना पीडा तस्या वेदना ज्ञापनं तत्र स्थानाभावात् परम-प्रेष्ठ-सखीनां तत्-स्थानत्वयोग्यतायां सत्याम् अपि धीरा भव एष मिलित-प्राय एव ते प्रेयान् इति वृथाश्वासस्य तत्-करिष्यमाणताम् आशङ्क्य मद्-दुःखमेता अपि यथातथ्येन न प्रत्य् अभिजानन्तीति मननेन तास्व् अपि तत्रासम्भावनात इति या यातना पीडा तनौ देहे उन्मीलति, दिवसावसाने तस्य श्री-कृष्णस्य समागमाद् धेतोर् आगन्तुकं दर्शनं तेन निदाघ-प्रदोषस्य दोष-राहित्येनैधिता वर्धिता शोभा यथास् तथा-भूतं शोभमानस्य तद् वहिर् विहारस्य यद् दर्शनं तेन चेति द्विविध-दर्शनस्य सुधा-सेकत्वं व्यञ्जितम् ॥४६॥

एवं पुनरहरहरहतपराक्रमः क्रमविवर्धमानकौतुको धेनुगणावने वने विहरन् निदाघसमयं व्यतीयाय ॥४७॥

व्यतीयाय व्यतिक्रान्तवान् ॥४७॥

ततश्च ततश्चरितमाधुर्यमहिम्ना मधुरितभुवनतलोऽवनतलोकरसदालोकः सह सहचरैः। कुतूहलिना हलिना च धेनुगणावनाय वनाय गच्छन्निच्छन्निजकौतुकखेलां खे लाञ्छितजलदाङ्कुरां कुराञ्जन्यकारिणीं चरणपरिचरणपरिभावनया भाव-नयाभ्यामुपचितां दासीवदासीवनपरां परिचर्यायाश्चकितचकितदरोन्मीलच्चपलाचपलाक्षीम्, दरदलित-ललितमालतिकालतिका-कुसुमसुमधुर-मालभारिणीं मेदुरदुरवापशोभकदम्ब-कदम्बक-विपुलपुलकधारिणीं लघुलघुविगलज्जलदजलदरबिन्दुनिकराश्रुस्निग्धमुग्धदिङ्मुखां कुसुमभरभरित-ककुभावल्-इवलित-गन्धवह-ललित-निःश्वासाम्, सरसतर-तरङ्गित-मदमयूर-विकच-कलाप-कचकलापशोभितां तरलतर-ललित-विसकण्ठिका-मुक्ताकण्ठिकामुक्तामभितः सञ्चरदिन्द्रगोपगो-पदयावकर-चिह्नां मरकतमणिमञ्जरी-जृम्भमाणता-हारि-हारित-नव-यवस-यवसरसरसातल-तल्पाम्, रसद-रसदब्द-शब्दमधुरतर-कण्ठनादामतिघनायमानवनराजि-राजिनं नीलिमानमेव नीलमंशुकमंशुकमनीयं वसानामवसानामलसरसां तरोलम्ब-रोलम्बघटा-कटाक्षपातामवनीप-नीपपराग-परागताधिवासां प्रावृषेण्यां लक्ष्मीमालोकयामास ॥४८॥

अथ क्रम-प्राप्तां प्रावृषिकीं लीलां वर्णयितुं प्रथमं ताम् एव वर्णयति । ततश् च निदाघ-समयानन्तरं चरितस्य माधुर्य-महिम्ना ततो विस्तृतः । खे आकाश-दर्पणे लाञ्छितश् चिह्नितो देह-वर्ण एव जलदाङ्कुरो यस्यास् ताम् इति समासे उपमेय-लोपः । तां प्रावृषेण्यां लक्ष्मीमालोकयामासेत्य् अन्वयः । कीदृशीम् ? कोः पृथिव्या राञ्जन्यं कर्तुं शीलं यस्यास् ताम्, रञ्जेः कर्तृ-साधन-ल्यु-प्रत्ययान्ताद्-भावे घञि रूपम् । चरणयोः परिचरणं सेवा तस्य परि सर्वतोभावेन भावनया भावनया भावः प्रेम नयो नीतिस् ताभ्याम् उपचिताम्, दासीवत् दासीम् इव परिचर्याया आसईवनं सम्यग् ग्रन्थनं तत्-पराम्, चकित-चकितं यथा स्यात् तथा सम्भ्रमाद् इव दर ईषद् उन्मीलन्त्यौ चपले दिग्द्वयाविर्भद्-विद्युतावेव चपले चञले अक्षिणी यस्यास् ताम्, विद्युच् चञ्चला चपलापि च इत्य् अमरः । मालभारिणीम् इति इष्टकेषीकेत्यादिना ह्रस्वः । मेदुरं स्निग्धं दुरवाप-शोभं दुर्लभ-शोभा-युक्तं यत् कदम्ब-कदम्बकं कदम्ब-कुसुम-वृन्दं तद् एव विपुलानि पुलकानि तानि हर्षाद् इव धर्तुं शीलं यस्यास् ताम्, लघु-लघु विगलन्तो जलद-सम्बन्धि-जलानां दर-विन्दु-निकरा एवानन्दभरा दश्रूणि तैः स्निग्धं मुग्धं मनोहरं चदिग्-रूप-मुखं यस्यास् ताम्, कुसुमभर-भरितायाः ककुभावलेर् अर्जुन-वृक्ष-समूहाद्-वलितो गन्धवहः सुगन्ध-पवन एव ललितो निश्वासो यस्यास् ताम्, ककुभोऽर्जुनः इत्य् अमरः । सरसतरं तरङ्गितं नाट्य-जन्यं येषां तेषां मत्त-मयूराणां विकचाः प्रफुल्लाः कलापाः शिखण्डा एव कच-कलापः केश-सामूहस् तेन शोभिताम् । तरलतरातिचपला ललिता विसकण्ठिका वक-पङ्क्तय एव मुक्ता-कण्ठिकाः प्रोतम् उक्तामय-कण्ठिकास् ताभिरामुक्तां पिनद्धाम्, आमुक्तः प्रतिमुक्तश् च पिनद्धश् चापि नद्धवत् इत्य् अमरः । कण्ठिका काण्ठीति ख्याता । अभितः सञ्चरताम् न्द्र-गोपानां वुडन इति ख्यातारुण-वर्ण-सूक्ष्म-कीटानां गावो रश्मय एव पदयोर् यावक-चिह्नः यस्यास् ताम्, मरकत-मणि-मञ्जर्या जरीजृम्भ्यमाणताम्, अति-प्रकाशं हर्तुं शीलं येषां तथा-भूता हारिता हारिद् वर्णा नवा नवीना यवसा घासा एव रूप-सादृश्याद्-यवास् तैः सरसं रसातलं भूतलम् एव तल्पं यस्यास् ताम् । रसदस्य रस-वर्षिणो रसदब्दस्य लसन्मेघस्य शब्ध एव मधुरतरः कण्ठनादो यस्यास् ताम् । रसद् इति रलयोर् ऐक्यात्, रस शब्दे इत्य् अस्य शत्रन्तत्वेन व्याख्यायाम् अर्थ-पौरर् उक्त्यं स्यात् । अतिघनायमानास्वति-मेघ-तुल्यासु वनराजिषु राजीनं दीप्तिशीलं नीलिमानं गुणम् एव नीलम् अंशुकं वस्त्रं वसानं परिदधानम्, अवसाने परिणामेऽप्य् अमलां सरसाञ्चेति वनितान्तर-वैलक्षण्यम् अपि ध्वनितम् । तरसा लम्बन्ते इति तरोलम्बा ये रोलम्बा भ्रमरास् तेषां घटैव कटाक्षपातो यस्यास् ताम् । अवनीं पिवति ग्रसति व्याप्नोतीति यावत् । पाति आच्छाद्य रक्षतीति वा । अवनीपो यो नीप-परागस् तेनैव परागतः प्राप्तोऽधिवासः सुगन्धी-करणं यस्यास् तां प्रावृषेण्यां वर्योद्भवां लक्ष्मीं शोभावाम् ॥४८॥

ततश्च समुचितमौषधमिव निदाघतपनतपन-तप्तजीवजीव-निकरस्य रस्यतमेन कालभिषजा चिकित्सितं विचिकित्सितं विहाय हायनमध्ये स एव समयो रसमयो रम्यश्चेति सकलैरेव निरणायि ॥४९॥

निदाघतपनो ग्रीष्म-कालिन-सूर्यस् तस्य तपनं तापस् तेन तप्तो जीवो जीवनं यस्य तथा-भूतस्य जीवनिकरस्य जन्तु-समूहस्य समूचितम् औषधम् इव रस्यतमेन रसेऽति-निपुणेन, [पा ४-४-९८] तत्र साधु इति यत् । काल एव भिषक् वैद्यस् तेन चिकित्सितम्, विचिकित्सितं सन्देहं त्यक्त्वा, विचित्सा तु संशयः इत्य् अमरः ॥४९॥

ततश्च, उच्छ्वसितमिव धरण्या, उल्लसितमिव धरणिरुहैः, मेदुरितमिव गगनतलेन, आकृष्ट इव दिग्व्रततिव्रातः, निद्रित इव वासरमणिः, प्रोषित इव सन्तापः, गर्वितमिव मयूरैः, आनन्दितमिव दात्यूहैः, सरसितमिव चातकैः, हसितमिव कदम्बैः, आलिप्तमिव मृगमदैर्जगदण्डभाण्डविवरम्, स्नाता इव गिरयः, धौता इव वनवीथयः मांसलतया लुप्तानीव पुलिनास्थीनि तरङ्गिणीनाम्, निस्तरङ्गरङ्गाणि कुरङ्गयूथानि, नातिदूरचारीणि गोधनानि ॥५०॥

वासर-मणिः सूर्यः । तरङ्गिणीनां नदीनां पुलिनान्य् एवास्थीनि, तानि जलावृतानि वीक्ष्योत्प्रेक्षते—मांसलतयेति । निस्तरङ्ग-रङ्गाणीति—ईषीका-वीरणाद्यावृत-प्रदेशेषु निष्प्रत्यूह-कूर्दनावकाशस्यालभ्यमान्तत्वात् । यद् वा, वनदाव-ज्वालादि-शान्तेर् निःशेष-तरङ्गत्वं रङ्गाणां नातिदूरे इति यत्र कुत्रापि घास-बाहुल्यात् ॥५०॥

किं बहुना? व्रजपुरपुरन्दरकिशोरस्य च रस्यचरितासीदसौ वर्षासमयलक्ष्मीः ॥५१॥

चरारोऽप्य् अर्थे ॥५१॥

यत्र तेषु तेषु दिवसेषु अतिसौलभ्य-लभ्यमान-शुभगन्ध-गन्धतृण-लव-लवन-मसमसायमानरवरवण-दशनैः शनैः शनैश्चरणसञ्चरण-सञ्चीयमान-मान्थर्यः सहजमशकदंशदंशविरहेण केवल-बलमानरुचिरता-चिरतायै विलसदच्छपुच्छपटान्दोलदोलद्बालधिललितैः क्षणमात्र्सञ्चारजनितोदरम्भरितया भरितया तृणावनालन्धियाधियापितविश्रामाभिलाषैर्नैचिकीनिचयैर्मेदुरदुरवशाददुरवशादशादहरितप्रदेशमध्यमध्यवस्थाय भगवदभिमुखं मुखं विधाय रोमन्थमन्थरमलसलसदादरदरघूर्णमानचटुलेक्षणक्षणदैः क्षणदैर्येण यदि सुखं शयितुमारेभे, तदाः सह सहचरबालकैर्बालकैरवसितहसितहततमाः कन्दुकीकृतनवकदम्बकोरको रचितकन्दुकखेलालसः खे लालसलसदमरनगर-नागरीगरीयोदिदृक्षावैकल्यकल्यतायामनुग्रहाग्रहात्तसरसतयाततया तत इतो मेघरेवान्तरान्तरायतामपहाय स्ववशकलितशकलितभावेन यदि तस्थे, तदान्तराविसृमर-भानु-भानुजालजालस्य-लस्यमानः श्रमजल-शीकरकरम्बितवदनबिम्बो बिम्बोज्ज्वलमधुराधरो धरोरसि कन्दुकाखेलासो विरम्य रम्य-तरुतरुणमूलमलङ्कुर्वन्, पुनरपि घनीभूत-घनघटा-घटितघनसार-त्रसरेणुकल्प-घनरसबिन्दुना ततमालमालतिकालतिका-कुसुमगन्धबाहेन गन्धबाहेन सेव्यमानोऽध्यमानोत्तम-मधुर-लीलावलिः, वलित-ललिताङ्गतयागतयातिपरभाग-भागधेयं गोचारण-लकुटिकापुटिकापुरोभागापर्वार्जित-वामकक्षतलोऽक्षतलोभनीयशोभः सुरुचिर-वामजङ्घोपरि-परिगमित-दक्षिणमहोजङ्घालजङ्घालतो निजविलासमिव बहुधैवतं सपरहितं मनोमल्लारं मल्लारं रागमालपन्मुरलीरलीलया लयाभिरामेण गानेन वनपरिसरतः परिसरतः कुरङ्गनिकुरानुत्कण्ठयन् कण्ठयन्नववनमालो धेनुगणमप्युत्कर्णयन्नाकर्णयन्नात्मसहचरदत्तश्रुतिं श्रुतिं निदधे ॥५२॥

नैचिकीयूथैर् यदि सुखं शयितुम् आरेभे, तदा तरुण-तरू-मूलम् अलङ्कुर्वन् स कृष्णो मल्लारं रागम् आलपन् श्रुतिं निदधे इत्य् अन्वयः । नैचिकी-यूथैः कीदृशैः ? प्रथमं तावद् अति-सौलभ्येन हेतुना लभ्यमानां शुभ-गन्धानां गन्ध-तृणां गन्धेल इति7 पाश्चात्य-ख्यात-घास-विशेषाणां लवेन लीलया लवनं छेदनं तत्र यो मसमसायमानो रवस् तेनैव रवणा ध्वनिमन्तो दशना दन्ता येषां तैः, लवो लेशे विलासे च इति विश्वः । तृणच्छेदध्वनिर् एव दशनेष्वप्युपचार्यते । ततश् च एकतैव बहु-तृण-प्राप्त्या शनैः शनैर्श् चरणानां सञ्चरणं सञ्चारस् तेन सञ्चीयमानं मान्थर्यं येषां तैः । तत्र च श्री-वृन्दावन-साद्-गुण्यात् सहजेनैव मशकानां दंशानां च दंशनस्य विरहेण केवलं वलमाना या रुचिरता प्रचुरं सौन्दर्यं तस्य चिरतायै चिरसमय-स्थित्यै विलसतोऽच्छस्य निर्मलस्य पुच्छ-पुटस्यान्दोलाद् एव दोलता चञ्चलेन वालधिना ललितैः । ततश् च क्ष्ण-मात्र-सञ्चारेणैव जनिता या उदरम्भरितोदर-पूर्तिस् तया हेतुना तृणादने तृण-भक्षणेऽलन्धीः स्पृहा-शून्यता तया भरितया परिपूरितया हेतुनाधियापितः प्रापितो विश्रामाभिलाषो यैस् तैः । ततश् च मेदुरः स्निग्धश् च, अथश् दुर्गतोऽव समन्तात् शादः पङ्को यत्र स च, अतएव दुर्गतो निरस्तोऽवशदः खेदे यस्मात् स च । शादा नव-तृणानि तैर् हरितश् च यः प्रकृष्टो देशस् तस्य मध्य-माध्यवस्थाय, शादो जम्बाल-शम्पयोः इत्य् अमरः । अलसं च तत् लसन् आदरो व्यज्यमानो यत्र तच् च दर ईषत् घूर्णमानं च यच् चटुलं सुन्दरम् ईक्षणम् अवलोकनं तेन क्षणदैः श्री-कृष्णोत्सवदायिभिः । रचितायां कन्दुक-खेलायां लसो रसो यस्य सः, रलयोर् ऐक्यात् । खे स्वर्गे लालसातिशय-स्पृहावत्यो लसन्त्यो या अमर-नगर-नागर्यस् तासां गरीयसी या दिदृक्षा तद्धेतुकस्य वैकल्यस्य कल्यतायां प्रवलतायां सत्याम्, कल्यौ सज् जनिरामयौ इत्य् अमरः, लालस इति स्पृहार्थक लसेर् यङन्तात् पचाद्यचि रूपम् । छायां निज-स्त्री-चटुलालसानां, मदेन किञ्चिच् चतुलालसानाम् इति माघ-यमक-दृष्टेस् तस्य दन्त्यान्तत्वम् अपीष्टम् । अनुग्रहस्याग्रहेणात् ता गृहीता या सरसता तया आततया विसृततया हेतुना मेघैर् एव कर्तृभिः, अन्तरा मध्योऽन्तरायतां तद् दर्शन-व्यवधानताम् अपहाय त्यक्त्वा यद् इतस्ते । केन प्रकारेण ? स्ववशं स्वाधीनम् एव कलितं व्यापारो यत्र तेन शकलित-भावेन खण्डत्व-रूपेण । तदानन्तरा मध्य एव विसृमरं प्रसरण-शीलं भामोः सूर्यस्य भानुजालं किरण-समूहस् तज्जेन तस्माज् जातेन, तस्यासह्यत्वाद् आलस्येन लस्यमानः शिलिष्यमाणो धरोर् असि भूतल-मध्ये कन्दुक-खेलातो विरतो भूत्वा रम्यं स्निग्धच्छायं तरु-तरुणस्य वृक्ष-वर्यस्य मूलमलङ्कुर्वन् । प्रावृट्-कठिन-सूर्य-किरणा मेघैर् अमर-नागरी-पक्षपातिभिर् यदि न व्यवधीयन्ते स्म, तदा श्रम-जलेत्यादि लक्षणं तात्कालिकं स्व-वदन-सौन्दर्यं ताः क्षण-मात्रम् एव दर्शयित्वा तरु-तलम् आगम्य तद् दृष्टितः स्वयम् एव व्यवहोऽभूद् इवेति भावः । गन्धवाहेन पवनेन । कीदृशेन ? घनीभृताभिर् निविडीभूताभिर् घन-घटाभिर् घटिता निष्पादिता घनसारत्रसरेणु-कल्पाः कर्पूर-कणतुल्या घनरस-विन्दुवो यत्र तेनेतिशैत्यम्, जल-विन्दुभारोद् वहन-परिश्रमेणैव द्रौत्याभावान् मान्ध्यं व्यञ्जित-सम्भावनागम्यम् । तता विस्तृता माला श्रेणी यासां तासां मालतिका-लतिकानां कुसुम-गन्धं वहतीति तेन, ति सौगन्ध्य8मुक्तम् । अव्यमाना रक्ष्यमाणा उत्तमा मधुरा लीलावलिर् येन सः । वलिता सुविन्यस्ता ललिताङ्गता मनोहराङ्ग-भङ्गी तया । कदृश्या ? अतिपरभागस्य अति-सौन्दर्यस्य भागधेयं भागम् आगतया प्राप्तया, भागधेयं मतं भाग्ये भाग-प्रत्युषयोः पुमान् इति मेदिनी । गोचारण-सम्बन्धिन्या लकुटिकायाः पुरोभागेऽपवर्जितं दत्तं वाम-कक्षतलं यस्य सः, दानपर्याये अपवर्जनम् अंहतिः इत्य् अमरः । अतएव तादृश्या भङ्ग्याक्षता परिपूर्णा लोभनीया शोभा यस्य सः, दक्षिणा महोजङ्घाला परिपूर्णा लोभनीया शोभा यस्य सः, दक्षीणा महोजङ्घाला तेजोवेग-धारिणी जङ्घालता यस्य सः, विलास-पक्षे, बहुधैव बहु-प्रकारेणैव तं प्रसिद्धं मल्लारम्, पक्षे, बहवो धैवतस्वरा यत्र तम्, धैवतांश-ग्रहन्यासो मल्लारः सः परिवर्जितः इति तल् लक्षणात् । परेषां हित्येन सह वर्तमानं षड्ज-पञ्चम-रहितं च । षड्जस्य मूर्धन्यादित्वेऽपि तस्य दन्त्यसकारेण सङ्ग्केतो गान-शस्त्रे प्रसिद्धः, षड्जो दन्त्यादिर् अपि इत्य् अमर-टीका चानुसार्य वा । मन एव मल्लः, दुर्ग्राह्यत्वात्, तमप्याराति गृह्नाति वशीकरोतीत्य् उभयथापि तुल्यार्थः । मुरलीमीरयति तथा-भावे प्रवर्तयति या लीला तया । वनस्य परिसरतः परिसरे परि-सर्वतः सरतो भ्रमतः कण्ठं यती प्राप्नुवती नवा वनमाला यस्य सः ॥५२॥

तदा तदाकर्णनकर्ण-नमदमृतधारापातपात-महिमन्यसुभृतां सुभृतां करणव्यापार-पारप्राप्तिं कारयति रयतिग्मतया प्रमदघनानां घनानां हर्षाश्रुद्रव इव दुर्निवारा जलस्रुतिर्यदि समजनि, तदा तमासारं कमठपृष्ठकाठिन्यधरधरणितलकल्पिततल्पतयाल्पतयापि न जातपङ्किलतया किल तया नोद्वेगकरं गुरुतराहारोष्णताशमनतया शमनतया तन्वातन्वानन्दपरया सेहे सेहेहित-भगवदालोका लोकातीता गवां श्रेणी ॥५३॥

तद् आकर्णनं तच्छ्रवणम् एव कर्णयोर् नमन्त्या अमृत-धारायाः पातः पतनं तेन पातो रक्षितो यो महिमा तस्मिन्, असुभृतां प्राणिनां करण-व्यापारस्येन्द्रिय-चेष्टायाः पार-प्राप्तिं कारयति सति । प्रमदेन हर्षेण घनानां निविडानां घनानां मेघानाम् अपि रयतिग्मतया वेगानां तीक्षत्वेन हर्षाश्रुद्रव इव जल-स्रुतिर् जलक्षणम् । सा गवां श्रेणी तमासारं सेहेऽसहत । अल्पतयासारस्याधिक्याभावेन च नोद् वेगकरम्, ग्रत्युत गुरुतराहारहेतुकाया उष्णतायाः शमनतया प्रशमकत्वेन शं सुख-रूपम् एव, अतएवानतया अकुञ्चितया तन्वा, अरालं वृजिनं जिक्ष मूर्तिमत् कुञ्चितं नतम् इत्य् अमरः । अतन्वानन्दपरयानल्प-हर्षपरया । सा प्रसिद्धा इह वृष्टि-समयेऽपि ईहितो भगवद् आलोको यया सा ॥५३॥

ततश्च, तमालोक्य लोक्य-सहचरनिकरेण करेण सरसमूर्ध्वनितानि तानि मूर्धनि तानि तानि निजनिजचेलाञ्चलानि तैः श्रीकृष्णस्यैव निष्कपटपटमण्डपतामापद्य सपद्यसमञ्जसमिव विगलदम्बुधराम्बु धरायामेव पातयामासे, मासेव्यमानस्य व्यमानस्य वपुरुपरि ॥५४॥

तमासारम् आलोक्य श्री-कृष्णस्य मूर्धनि मस्तके तानि तानि प्रसिद्धानि निज-निज-चेलाञ्चलानि सरसं यथा स्यात् तथा ऊर्ध्वे मस्तकोर्ध्व-देशे नितानितानि नितरां विस्तारितानि । ततस् तैश् चेलाञ्चलैः कर्तृभिर् निष्कपटं निर्व्याजम् एव पट-मण्डपत्वम् आपद्य प्राप्य सपदि तत्-क्षणम् एवाम्बुधराम्बु मेघ-सम्बन्धि-जलं धरायां पृथिव्याम् एव पातयामासे, न तु तस्य मूर्धनीत्य् अर्थः । श्री-कृष्णस्य कथम्-भूतस्य ? वपुर् उपरि मा वसन-सम्बन्धिनी शोभा तया सेव्यमानस्य, यद् वा, वपुर् उपरि निष्कपट-पट-मण्डपताम् आपद्योत्येव सम्बन्धनीयम् । व्यामानस्य विगतावमानस्य, यद् वा, धरायाम् एव पातयामासे, मा तस्य वपुर् उपरि । कुतः ? सेव्यमानस्य । तद् अपि कुतः ? व्यमानस्यावमान-रहितो हि सेवार्ह एवेति भावः ॥५४॥

पुरुपरितोषेण च जगदे—“जगदेकवल्लभ! स्वभावोऽयं मल्लाररागस्यापरागस्यापरोक्ष एव यदस्य जलधरागमकानि गमकानि । किन्तु नीरवनीरवर्ष-व्यपदेशरोदनकारिता कारिता भवद्गान-कौशलेनैव । तदलं गानकलया कलयामो न घनाघनाच्छन्ने दिनकरकरनिकरे दिनमर्यादा मर्यादारक! चपलमेव चलामोऽचलामोदमेदुरं दुरन्तं ते मुरलीकलकुलं विरमतु विरमतु च धाराधरधारा, धरणितलतल्पादुत्थापयामो गाः” ॥५५॥

ततः पुरु-परितोषेण प्रचुरानन्देन सहचर-निकरेण जगदे उक्तः श्री-कृष्ण इत्य् अर्थः । किं तत् ? हे जगद् एकवल्लभ ! विश्वेषाम् एकप्रिय ! अस्य मल्लार-रागस्यायं स्व-भावोऽपरोक्षः । साक्षाद् एव कथम्-भूतः ? अपराक् न परा अञ्चतीति अपराक्, प्रकृष्ट इत्य् अर्थः । जलधराणाम् आगमन-मात्रस्यैव प्रयोजकत्वं तद्-गमकानां प्रसिद्धं किन्तु नीरवं निःशब्धं यथा भवत्य् एवम् । नीरवर्षणस्य व्यपदेशेन छदेन रोदनं कर्तुं शीलं येषां तेषां भावस् तत्ता सा तु भवत्-कर्तृकेन गान-कौशलेनैव कारिता उत्पादिता । गान-कलया गान-शिल्पेनालम् । कुतः ? दिनकरस्य कर-निकरे घनाघनैर् आच्छन्ने सति दिन-मर्यादा न कलयामः, न जानीमः, वर्षुकाब्दा घनाघना इत्य् अमरः । हे मर्या दारक ! मरी मारी, तस्या दारक खण्डक ! यद् वा, मर्यादामियर्तीति तथा-विध ! चपलं तूर्णम् एव चलामो गच्छामः, अचलामोदेन स्थिरानन्देन मेदुरं स्निग्धम् ॥५५॥

इति सहचरकृतसरसरभसपरिहासहासपेशलवदनविधुरविधुरमहा महामधुरो विरचितवंशीध्वानमध्वानमभिसारयन् धेनुगणं दिशि विदिशि विहितविलोकनो लोकनोनूह्यमानचरितो धनमहसा महसादरेणेव निरुध्यमानप्रसारसारस्यैः कुवलयवलय-महामारकत-कतमप्रमुखमुखमोटनकरैरङ्गतरङ्गतरलता समधिकोच्छद्भिरतिविस्मयधामभिर्धामभिरन्यादृश्य इव दृश्यमानोऽमानोदारश्रीः सजलधरजलधरणितल-चलनचलनबालधीनां खरखुरखुरप्रक्षोदेनापि नोद्धूलितधूलीनां धेनूनां गणमनु मनुजाकृतिब्रह्मतया मतयाख्यातः ख्यातः परागतपरागोपरागो नीलसरोजस्तोम इव द्वितीय इव महीमहीयःसौभाग्यरूपी रूपी घनरसदः पीनापीनाभोगभारविवशतया मन्दमन्दमलसमलसमुपव्रजन्तीर्व्रजन्तीव्रतया चालयितुं त्वराव्यञ्जकेन रक्षकेन रंहसा वेणुनिनदस्य धेनुर्नोदयन्नदूरे पुरश्रियं ददर्श ॥५६॥

ततः पुरु-परितोषेण प्रचुरानन्देन सहचर-निकरेण जगदे उक्तः श्री-कृष्ण इत्य् अर्थः । किं तत् ? हे जगद् एकवल्लभ ! विश्वेषाम् एकप्रिय ! अस्य मल्लार-रागस्यायं स्व-भावोऽपरोक्षः । साक्षाद् एव कथम्-भूतः ? अपराक् न परा अञ्चतीति अपराक्, प्रकृष्ट इत्य् अर्थः । जलधराणाम् आगमन-मात्रस्यैव प्रयोजकत्वं तद्-गमकानां प्रसिद्धं किन्तु नीरवं निःशब्धं यथा भवत्य् एवम् । नीरवर्षणस्य व्यपदेशेन छदेन रोदनं कर्तुं शीलं येषां तेषां भावस् तत्ता सा तु भवत्-कर्तृकेन गान-कौशलेनैव कारिता उत्पादिता । गान-कलया गान-शिल्पेनालम् । कुतः ? दिनकरस्य कर-निकरे घनाघनैर् आच्छन्ने सति दिन-मर्यादा न कलयामः, न जानीमः, वर्षुकाब्दा घनाघना इत्य् अमरः । हे मर्या दारक ! मरी मारी, तस्या दारक खण्डक ! यद् वा, मर्यादामियर्तीति तथा-विध ! चपलं तूर्णम् एव चलामो गच्छामः, अचलामोदेन स्थिरानन्देन मेदुरं स्निग्धम् ॥५६॥

सा हि आसार-सारसलिलैः स्नातेव, मेघमहो-महोज्ज्वल-नीलशाटिकयाशाटिकया कयाचन समावृतावयवेव, प्रतिभवन-पटल-पटल-पटलपरिगत-मदमेदुरकलापिकलापि-कलापैरायतायतैः स्नानतिमितममितमतिघनं केशपाशं प्रसार्य शोषयन्तीव, घनमुक्तप्रतीचीमुखसन्ध्यारागसन्ध्यारागप्रतिबिम्बबिम्बप्रभादूरसिन्दूरशोभाल-भालस्थलेव समनुकृत-गवाक्ष-गवाक्ष-निकुरम्बेण श्रीकृष्णरूप-सौन्दर्यानयन-चतुर-नयन-चतुरशीतिसहस्रणेव, सुकृतसुकृतपाकलब्धेनेव पश्यन्तीव, घनमहोन्नत्या निरातपताकान्त-पताकान्त-करकिशलयैरिव कृष्णागमनसुखमुल्लासयन्ती लासयन्तीव मनो मनोरथाक्रान्तम्, परितः परितस्थुषां निर्वृष्टेऽपि घने सम्भूय भूयश उपचितानामवनीराणां नीराणां रुचिजितकर्पूर-रेणु-रेणुका-दलदेलबालुकापरिमल-बालुका-परिमिलननिष्पङ्कयापङ्कया प्रणालिकालिकासु प्रवहन्त्या धारया रयातिरेकेणागच्छन्तीनां धेनूनामकैतवां श्रद्धामाधाय यतमानेवासीच्चरणधावनाय भवनाय भवन्तीनाम् ॥५७॥

सा हि पुरश्री प्रथम-मासारसार-सलिलैः स्नातेव आसीत् । ततो मेघ इत्यादि-लक्षणा इवासीद् इति प्रति-विशेषाणानन्तरमथ-सौन्दर्यार्थम् आसीद् इति क्रियापदस्यावृत्त्या सम्बन्धः । मेघम् अहो मेघ-कान्तिस् तद् एव महत्य् उज्ज्वल-नीलशाटिका तया कीदृश्या ? आशा दिशोऽटति व्याप्नोतीति तया । भवन पटलानां गृहच्छदिषां पटले पटले प्रति-समूहे एव परिगताश् च ते मदेन मेदुरां स्निग्धां कलां नित्य-शिल्पम् आप्तुं प्राप्तुं शीलं येषां ते च ये कलापिनो मयुरास् तेषां कलापैः शिखण्डैर् आयतायतैर् अतिधीर्घैः । स्नानेन तिमितम् आर्द्रितम् । घनैर् मेघैर् मुक्ता त्यक्ता प्रतीची पश्चिम-दिक् तस्या मुख-सन्दौ आरगति सम्यक् लगतीति तथा-भूतो यः सन्ध्या-रागः सन्ध्या-कालीन-रक्तिमा तस्य प्रतिविम्बः स्फाटिकाट्टादिगतः, स एव विम्ब-प्रभां दूरयति तिरस्करोति तादृशं सिन्दुरम् । यद् वा, विम्ब-प्रभया विम्ब-फल-कान्त्यादूरम् उपमया सन्निकृष्टं च तत् सिन्दुरं चेति तच्छोभालं तच्छोभाग्राहि भाल-स्थलं ललाट-प्रदेशो यस्याः सा ।

एवं क्रमेण सायं-स्नान-वस्त्र-परिधान-केश-शोषण-सिन्दुर-प्रसाधनैः सन्नायिका-भाव अभिव्यज्य तस्याः श्री-कृष्ण-विषयक-गाढानुरागम् अप्य् अनुभाव-मुखेन द्योतयन् विशिनष्टि-समनुकृत-गवाक्षेण गोनयनाकारेण गवाक्ष-निकुरम्बेण जाल-समूहेन श्री-कृष्ण-सम्बन्धि-रूप-सौन्दर्यस्यानयने चतुरं दक्षं यन्नयनानां चतुरशीति-सहस्रं तेन पश्यन्तीव । चतुरशीति-सहस्रम् इत्य् असङ्ख्यता-तात्पर्येण यमकानुरोधाद् एवोक्तम् । ननु तस्याः कथम् एवं नयन-बाहुल्यम् ? तत्राह—सुकृतेति । [भा पु ४-२०-२८] विधत्स्व कर्णायुतम् एष मे वरः इतिवद्-दर्शना-तृप्त्या नयन-बाहुल्यार्थं सुष्ठु कृतानि यानि सुकृतानि पुण्यानि तेषां पाकेन परिणत्या लव्धेनव । घनस्य मेघस्य महोन्नत्या या निरातपता आतप-राहित्यं तया कान्ता रम्याः पताकान्ताः पताका-ग्राण्येव करकिसलयानि तैः । मनोरथेनाक्रान्तं मनो लासयन्तीव नर्तयन्तीव ।

अथ गोपालस्य तस्य प्रीतकाम्ययेवास्या गवां सेवा-परिपाटीम् आह—परित इति । प्रणालिकाश्रेणीषु प्रवहन्त्या नीराणां धारया आगच्छन्तीनां धेनूनां चरणधावनाय पाद-प्रक्षालनाय यतमाना यत्नवतीवासीत् । नीराणां कथम्-भूतानाम् ? निर्वृष्टेऽपि वृष्टितो विरतेऽपि सति घने मेघे परितः समन्ताद् अट्टालिका-पृष्ठादिषु परितस्थुषां प्रथमम् इतस् ततः स्थितवताम्, ततश् च सम्भूय मिलित्वा भूयशः पुनः-पुनर् अप्युपचितानाम् उपचयं प्राप्तानां सताम् अवनीराणाम्, अवनीं भूतलं रान्ति ऊर्धतो निपत्य गृह्नान्ति प्राप्नुवन्तीति यावत्, तेषां धारया । कथम्-भूतया ? रुचिः कान्ती रोचकत्वं च, ताभ्यां जिताः, कर्पूर-रेणवो यया सा चासौ रेणुका-दल-देल-वालुकापरिमला चेति, रेणुका च दलन्ती स्फुटन्ती एल-वालुका च तयोः परिमलो यस्यां तथा-भूता च या बालुका तस्याः परिमिलनेन सम्मिलनेन निष्पङ्कया पङ्क-रहितया, हरेणुरेणुका कौन्ती, एल-वालुकमैलेयम् इति चामरः । एते सुगन्धलते सौरभ्यार्थमट्ट-पृष्ठ-सन्धि-प्राङ्गण कोणादिष्वारोपिते ज्ञेये । अपङ्कया पङ्कं पापं तद्रहितयेति सामान्य-दृष्ट्या प्रणालिका-प्रसक्तम् अपावित्र्यं वारितम्, भवनाय भवनं प्रवेष्टुं भवन्तीनां वर्तमानानाम् ॥५७॥

अथ मन्मथमथनकृद्बहुशोभो बहुशो भोदारविशालगोशाल-गोचरीकृतगोनिकरो गोनिकरोद्ध ततिमिरपटल-पट-लः स्वभवनचत्वर-स्वरमाणातिर्निजनिजभवनं प्रति प्रतिजनं विसर्ज्य सर्ज्यमानविरहरंहसा विरसमनसो वयस्यबालकान् समाने वयस्यबालकान् समानेन प्रणयनिरीक्षणेन क्षणेन परितोष्य च भवनोदरं विनोदरं विविध-भोग-सम्पदा नभोग
सम्पदानर्थ्यकारिण्या सम्प्रविष्टः पूर्वपूर्वदिनेभ्योऽप्यतिशयितेनाशनपानादिकौशलेन यथायथमुपचरितश्चरितचटुलया प्रस्वा प्रस्वापितश्च कर्पूरपूरबलक्षे बलक्षेमकारिणा सकलपरिमलवतामलवतामुपदधानेन कोमलिम्नालिम्नात-परिसरेण सुरभितमेनोपधानेन शोभमाने शयनतले निशामनैषीत् ॥५८॥

बह्वी शोभा यस्य सः, भा कान्तिस् तयोदारं च तद्-विशाल-गोशालं चेति । तद्-गौः कान्तिस् तस्या निकरेणोद्धूतं तिमिर-पटलं येन तथा-भूतं पटं लाति परिधत्ते इति तथा सः, सर्ज्यमानस्योपार्ज्यमानस्य विरहस्य रंहसा वेगेन, सर्ज अर्जने इति धातुः । समाने तुल्ये वयसि निमित्ते अवालं नवालं किन्तु प्रौढम् एव कं सुखं येभ्यस् तान्, भवनोदरं गृह-मध्यम् । कीदृशम् ? नभोगायाः स्वर्गगताया अपि सम्पद आनत्थ्यं वैयर्थ्यं तत् कर्तुं शीलं यस्यास् तया प्रस्वा मात्रा प्रस्वापितः शायितः । कीदृश्या ? चरिते चरित्रे चटुलया शोभनया । शयन-तले कीदृशे ? कर्पूर-पूरवद्वलक्षे धवले, उपधानेन शोभमाने । कीदृशेन ? बलक्षेमकारिणेति तस्य मणि-मन्त्रौषध-गर्भितत्वं सूचितम् । कोमलिम्ना तदाधिक्य-प्रति-पत्त्य् अर्थं धर्म-धर्मिणोर् अभेदोपचारः । सकल-परिमलवतां समस्त-सुरभिद्रव्याणाम्, अलवतां प्रचुरताम् अखण्ढतां वोपदधानेनाधिक्येन धारयता, अतएवालिभिर् म्नातोऽभ्यस्तः परिसरो यस्य तेन ॥५८॥

एवमितः परमितः परमुत्कर्ष मुत्कर्षं कुर्वाणां प्राणसखीनां प्रमोहपरम्परां परां प्रादुर्भावयन् भावयन्निखिलकुटुम्बनिकुरम्बमप्युपशमोपायमपायकातरमपरिचीयमानः स कृष्णानुरागमहानलो न लोकेन केनचिदप्यनुभूतचरज्वालो जाज्वल्यमानतामवाप यदि, तदा तं निर्वापयितुमिव प्रियसहचरीनिकरेणाजस्रं स्रवद्भिरस्रनिर्झरैस्तिरस्कृततदानीन्तन-जलधरधारैरभिषिच्यमानसिचयावृताङ्गी वार्षभानवी नवीनविपद्वृन्दमासेदुषी विदुषी न परमुपायमाशाबन्धमपि शिथिलयन्ती लयं तीव्रमुपयास्यन्ती बहिर्वृत्तिं विसस्मार, स्मारशराघातघनघूर्णाघनघूर्णायमान-दिग्वनितानितानित-रसमये समये ॥५९॥

अथोपरिष्टाद्-राधा-नव-सङ्गमं वर्णयिष्यन् निदानीम् अस्याः पूर्व-राग-पाकावस्थामन्य-वैलक्षण्येन परम-काष्ठाम् आप्ताम् अभिव्यञ्जयति । इतःपरं कृष्णानुराग-महानलो यदि जाज्वल्यमानतामवाप, तदा वार्षभानवी बहिर्वृत्तिं विसस्मारेत्य् अन्वयः । कृष्णानुराग-महानलः कथम्-भूतः ? परमधिकम् उत्कर्षम् इतः प्राप्तः । ततश् चास्याः प्रमोऽपरम्परां मूर्छापरम्परां प्रादुर्भावयन् जनयन् । कीदृशीम् ? प्राण-सखीनां मुत्कर्षमानन्दस्य कर्षणं नाशं कुर्वाणां भावयन्, कथं जीविष्यतीत्य् उपशम्पायम् औषधादिकं चिन्तयन्, यतस् तैर् अपरिचीयमानो व्याधिग्रहावेशादिवुद्ध्यैव कथञ्चिल् लक्ष्यमाण इत्य् अर्थः । केनचिद् अप्य् अन्य-गोपीजनेनापि नानुभूतचरी नोपलव्ध-पूर्वा ज्वाला यस्य सः । अस्रनिर्झरैः कीदृशैः ? तिरस्मृता तदानीन्तनी जलधरस्यापि धारा यैस् तैर् अभिषिच्यमानेन सिचयेन वस्त्रेणावृतम् अङ्गं यस्याः सा । आसेदुषी प्राप्तवती । कथञ्चिन् मूर्छाभङ्गे सति परमुपायं कृष्णाङ्ग-सङ्गाद् अन्यं प्रतीकारं न विदुषी, न मानयन्तीत्य् अर्थः । तस्य दुष्प्रापतां परामृष्य प्राण-रक्षकम् आशावन्धम् अतिशिथिलयन्ती सम्मोचयन्ती । कुतः ? दशमीं दशामारुरुक्षुर्लयं नाशमुप निकट एव यास्यन्ती । बहिर्वृत्तिम् इन्द्रियाणां वहिर् व्यापारं विस्मार विस्मृतवती । स्मारशरस्याघातेन घना निविडा घूर्णा च यस्याः सा । घनैर् मेघैर् हेतुभिर् घूर्णायमाणाभिः सम्भुक्त-कान्तावन् मुद्रित-वुद्धीनां सखीनां क्षणम् अपि तां त्यक्तुम् अशक्नुवतीनां कृष्णे दूत्यादि-प्रक्रियापि नाभूदतो योगमाययैव सर्वसाधामन् इति वक्ष्यति ॥५९॥

कृष्णोऽपि तदवधि लब्ध-तदनुरागबाधया राधया स्वहृदयमन्दिरमध्यमध्यासीनय्नया सह सहर्षसन्ततं सन्ततमन्तरेव रममाणोऽपि वात्सल्यादिरसजुषां सजुषां पित्रादीनां सन्निधौ तथाविध-तत्तत्सुखप्रकाशशक्त्यैव बहिर्वृत्तिमप्यनुभाव्यमानोऽमानोदारलीलो विललास ॥६०॥

लव्धा तस्य कृष्णस्यानुरागवाधा यया तयानया राधया सहर्ष-सन्ततं सहर्ष-विस्तारं यथा भवत्य् एवं सन्ततं निरन्तरम् एव, अन्तरेव मनो-मध्य एव वात्सल्य-सख्य-दास्य-रस-सेविनां तत् तद्-रसाश्रयाणां पित्रादीनां नन्दादि-श्रीदामादि-रक्तकादीनां सजुषां जुट् प्रीतिस् तत्-सहितानां स्व-स्व-रसोचित-प्रेमवतामित्य् अर्थः । तथा-विधं स्व-स्व-रसोपयोगि तत् तत् सुखं कृष्ण-दर्शनादौ प्रेमतारतम्येन तरतमायमानं सुखं तस्य प्रकाशो यतस् तया स्वभाव-शक्त्यैव तेषां प्रेमानुरोधेन बहिर्वृत्तिं लालनावकाश-प्रदान-कन्दुकादि-क्रीडावेश-परिचर्यानुमोदनादिम्, न विद्यते मानस्तत्त्वतो ज्ञानं यस्यास् तथा-भूतोदारा महती लीला यस्य सः, अतर्कोदारचर्य इत्य् अर्थः ॥६०॥

अथापरेष्वपि दिवसेषु धनसमय-समयमान-माननीय-सौभगेषु मणिगणगोवर्धनस्य गोवर्धनस्य गिरिवरस्य रस्यतमासूपत्यकासु त्यकासु पौरपौरवसुरभिषु सुरभिषु चरन्तीषु तस्यैव क्षितिघरचूडामणीन्द्रस्य चूडामणीन्द्र-स्यन्दमान-रुचिधाराधर-धाराधर-जल-धाराधरगन्धशिलागर्त-परिसर-सरद्विसर-सरसशिला-सिंहासनकृतासनः स्फटिकगण्डशैलशैलजनिषण्ण-जलदनिकरकरकर्षणजातकौतुकैस्तदुदरदर-समुन्मीलदचिररोचिषां रोचिषां पटलेन रुषा परुषापचिकीर्षया कृतनयनवैकृत्येनेव भियाभियापितशङ्कैः परावृत्य वृत्यपरावृतैः पुनरपि धर्तुमुद्यतैर्मुद्यतैरुपसर्पद्भिः पुनरपि तदूर्जितगर्जितगरिम्णा पलायमानैः पुनरपि चपलतया लतया ताडयितुमुपसर्पद्भिस्तदुद्गीर्णनीरनीरन्ध्रशीकरनिकरनिर्भरफूत्कारपराहतैः सहचरैर्हस्यमानः कदापि दापितसुखस्तैरेव बहुधा बहुधातु-शकल-कलनेन कृतविविधरागपरभागपरभाग्येनाकल्पेन, कदाचन च, नटद्भिरितस्ततस्तैरेव जनितसारस्यः सारस्यदो रस्योरस्योत-लक्ष्मी-लक्ष्मा लक्ष्मीलक्ष्माधरविहारी घनसमयसुखापसुखापत्तिकारिफलमूलकन्द-कन्दलितानन्दः सखिभिरेव तत्तदभितोऽभितोषेणाहृत्य श्रद्धाबद्धावत्प्रणयमहिम्ना हि म्नापिततत्तदशनो दशनोज्ज्वलरुचासितेन हसितेन हरमाणो गिरिचराणामखिल-सत्त्वानां मनो मनोज्ञैस्तैरेव
करतल-लभ्य-पूगतरु-पूग-तरुणफलमामूल-दलितदलित-जाम्बूनदाभताम्बूलवल्लीदलदलदतिजीर्ण-सुरभि-शिलाचूर्णचूर्णसमेतं कर्पूरकदलीकाण्ड-निर्यास-वासितं ताम्बूलमुपकल्प्य परिचर्यमाणो विजहार ॥६१॥

अथ तन् नवसङ्गमसङ्गमकत्वेन वर्षा-समस्यैवातियोग्यतां द्योतयन् पुनर् अपि तद् विलासं वर्णयति—अथेति । सहचरैर् उपचर्यमाणो विजहारेत्य् अन्वयः । घन-समये मेघागमकाले सम्य गयमानं समागच्छं माननीयं सौभगं येषां तेषु दिवसेषु मणि-गणैर् गवां कान्तीनां वर्धनं यस्य तस्य गोवर्धनस्योपत्यकासु निकट-भूमिषु त्यकासु तासु, अकजन्तत्यद्-शब्द-रूपम् । पौराणां सगन्ध-तृणानां गौरवेण पुरुतया प्राचुर्येण हेतुना सुरभिषु सुगन्धासु सुरभिषु धेनुषु चरन्तीषु सतीषु । चूडासु ये मनीन्द्राः कमल्रागादयस् तेभ्यः स्यन्दमानां क्षरन्तीम् इव रुचिधारां कान्तिधारां धरन्तीति तथा-भूता या धाराधर9जलनां मेघ-वृष्ट-जलानां या धारास् ता धरन्ति ये गन्धशिलागर्त्ताः सुगन्ध-शिलामय-विवराणि तेषां तथा-भूताः सरसाः शिला एव सिंहासनानि तत्र कृतासनः । ततः सहचरैर् हास्यमानः, कथम्-भूतैः ? स्फटिक-गण्ड-शैलेषु यानि शैलजानि शिलाजतूनि तत्र निषण्णानाम् उपविष्टानां जलद-निकराणां करेण करधृत-दीर्घ-लकुटेन वा यत् कर्षणम् आकर्षणं तत्र जत-कौतुकैस् ततस् तद् उदरतो दर ईषद् उन्मीलन्तीनाम् अचिररोचिषां विद्युतां रोचिषां दीप्तीनां पटलेनाभियापित-शङ्कैः प्रापित-साध्वसैः । पटलेन कीदृशेण ? रुषा क्रोधेन परुषं यथा भवत्य् एवम् अपचिकीर्षयापकर्तुम् इच्छया कृतं नयन-वैकृत्यं नेत्रविकृतिभावो येन तेनेव । ततश् च भिया परावृत्या इत इत आगच्छत इति पार्ष्णिग्राहतया वरणेनापरैर् अपि वयस्यैर् आवृतैः । ततश् च लव्धसाहसैर् धर्तुम् उद्यमवद्भिर् मुदा तदावेशानन्देन यतैर् वशीकृतैः । दापितं सुखम्, अर्थान् मेघैर् एव सहचरेभ्यो येन सः । बहुविधानां धातु10-खण्डानां कलनेनानयनेन, ततश् च कृतस्य विविधै रागैः परभागस्य शोभयाऽपि परं भाग्यं कृष्णेन स्वीकाराद्-यत्र तथा-भूतेनाकल्पेन वेषेण । सारस्यदः सारजवः, स्थिर-हर्ष-जन्य-वेग इत्य् अर्थः । रस्यं यदुरो वक्षस् तत्र आ उतं सम्यक् प्रथितम् इव लक्ष्मी-लक्ष्म यस्य सः । लक्ष्मीले श्रीले श्रीमति क्ष्माधरे गोवर्धन-पर्वते विहारी विहरण-शीलः । घन-समये प्रावृषि सुखापां सुलभां सुखापत्तिं सुख-प्रप्तिं कर्तुं शीलं येषां तैः, फल-मूल-कन्दैः कन्दलितानन्दोऽङ्कुरित-हर्षः । कन्द-मूलयोर् वर्तुल-दीर्घत्वाभ्यां भेदः । श्रद्धया वद्धं वन्धम11वतः पालयतः प्रणयस्य महिम्ना हि निश्चितं म्नापित तत् तद् अशनो निर्वाहित-तत् तद्-भोजनः । अखिल-सत्त्वानां सर्व-प्राणिनां मनोज्ञैः श्री-कृष्णाभिरुचि-विज्ञैस् तैः सहचरैर् एव ताम्बूलम् उपकल्प्य परिचर्यमाणः । ताम्बूलम् एव कीदृशम् ? करतलेनैव लभ्यं पूग-तरु पूगानां गुवाकक्-वृक्ष-समूहानां तरुणं पुष्टं फलं यत्र तत् तथा आमूलं मूलम् अभिव्याप्य दलिता जातदला चासौ दलितं चूर्णितं यज् जाम्बूनदं कनकं तदाभा चेति तथा-भूता या ताम्बूल-वल्ली तस्या दलं पर्णम्, तथा दलन्त्यास् त्रुटन्त्या अतिजीर्णायाः सुरभिशिलायाश् चूर्णं क्षोद एव चूर्णं ताभ्यां समेतम् । दल विदारणे इत्य् अस्य त्रोटनम् अप्य् अर्थः पचेर् विक्लित्ति-विक्लेदनवज्ज्ञेयः ॥६१॥

यदि कदाचित्तत्रैव वर्षति मुदिरो मुदि रोचमानस्तदा सदानन्ददानन्दकन्दकन्दरामन्दिरमासाद्य रमासाद्यमाने तस्योदरे दरहित-नयनाञ्चलार्पणो दर्पणोदरसन्निभे सन्निभेन्द्रकलभ इवोपविश्य समयं गमयति, तदा त एव सहचराश्चराचर-मनोहरस्य तस्य पुरतः परस्पर-परम-खेला-कोलाहल-हलहलारावे प्रतिरवरवणतयादरीकृतया दरीकृतया कौतुकपरम्परयापरया पुनरपि सविस्तारतारदूङ्कारकारिणः पुनरपि तथाप्रतिध्वनि-स्वनितायां तस्यां पुनरपि ततोऽधिकचीत्कारकारणतयानवस्थानवस्थानत्वेन दूषणेऽपि शिशुतया भूषणायमानतामेवासाद्य श्रीकृष्णं रमयामासुः ॥६२॥

सदैवानन्दतां समृद्ध्यताम्, आनन्दानां कन्दं मूलं यत्र तथा-भूतं कन्दरा-मन्दिरम्, रमया श्रिया आसाद्यमाने सेव्यमाने, सन् सुन्दर इभेन्द्र-शावक इव । प्रतिरवरवणतया प्रतिरवं प्रतिध्वनिं रौतीति तत् तया । कीदृश्या ? अदरीकृतयानल्पीकृतया दरी कन्दरस् तया कृतया निष्पादितया तया हेतुना यापरान्या कौतुक-परस्परा तया, पुनर् अपि सविस्तारमत्यायतं तारम् अत्य् उच्चं दुङ्कारं कोऽपि रे किं वदसि रे इत्याद्याक्रोश-शब्धं कर्तुं शीलं येषां ते । अस्यां दर्घां पुनर् अपि तथा प्रतिध्वनिना धनितायां सत्यां, अनवस्था-निष्ठायाः पर्याप्त्यभावः, तस्या नवीन-स्थानत्वेनोत्तमाश्रयत्वेन ॥६२॥

कदाचिदपि निपतति बहिः प्रावृटश्रियो हाम इव करकाकदम्बे द्रुतविद्रुतविहारा अवनतकन्धरा धरातलनिहितनयनास्तदानयनास्तदाक्षिण्यमवचित्य करे कृत्वा श्रीकृष्णचरणान्तिके निक्षिपन्ति ॥६३॥

करकादम्बे वर्षोपल-समूहे वहिर् निपतति सति द्रुतं शीघ्रं एव विद्रुत-विहारा विगत-खेलास् तेषाम् आनयनेऽस्तं निक्षिप्तं दाक्षिण्यं स्वाच्छन्द्यं यत्र तद्-यथा भवत्य् एवं निःक्षिपन्ति—दक्षिणो दक्षिणोद्भूत-सरलच्छन्दवर्तिषु इति मेदिनी ॥६३॥

निवृष्टे तु घने कन्दरतोऽदरतोषेण बहिर्भूय भूय उपरि गिरिशिखरस्य खर-स्यद-जलद-जल-दरेतर-क्षालिते चमूरुवधूजनाच्छपुच्छपुट-मार्जिते कस्तूरीहरिणतरुणीमदगन्धिनि मरकतशिलाशकलेऽशकलेन्दुसुन्दरमुखः सुखावस्थितः । स्थित एव परितोऽपरितोषहरः स्वां तनुमिव घनमहसा महसारेण दूरादविभज्यमानावयवां मदकल-झाङ्कर-मुखर-मधुप-राग-मधुपराग-प्रियकप्रियकमालां विलसच्छ्रीवत्स-गोचार-चारव-भूयिष्ठां पीतभास्वदंशुकां सरसरभसहरिणीनयनां चमत्कारकारिणी हारिणीं लुलित-ललित-लम्बमान-सुपल्लव-पञ्चशाखां वनराजिमालोकमानः परितश्चरितश्चमत्कारकारणेन मरकताङ्कुरायमाण-सौगन्धिक-गन्धिकत्तृण-घनमेदुरामनिम्नोच्चभाव-भा-बहुलामपगत-भानु-भानु-शीतलतलपरिसरामभितो वलयाकारदूरावस्थितवनराजिकृत-वेष्टनतया परस्परलग्नामिव बलज्ज्वलनपिधानवासरमणिकुण्डलां गां द्यां च समभासमालोकयन्नतिधन्यतमैः सह सहचरैः स हरिः ॥६४॥

अदरतोषेणानल्प-हर्षेण खरस्यदैस् तीक्ष्ण-वेगैर् जलद-जलैर् दरेतरमदरम् अनल्पं यथा स्यात् तथा क्षालिते, अशकलेन्दुः पूर्ण-चन्द्रः । स हरिः स्वां तनुम् इव वनराजिमालोकमानस् तथा गां द्यां च समभासम् आलोकयन्, शवलि ! कालि ! धवले !—इत्यादि नाम-ग्राहं12 यदि समाजुहाव, तदा गिरिवरस्योपत्यकां ताः समीयुर् इत्य् अन्वयः । घन-महसा निविड-कान्त्या, पक्षे, मेघ-तेजसा हेतुना दूराद् दूरतोऽविभज्यमाना विभक्ततया न लक्ष्यमाणा अवयवा यस्यास् ताम्, मदकलानां मदोत्कटानाम् अतएव झङ्कार-मुखराणां मधुपाणां रागोऽनुरागो यत्र स चासौ मधुना परागेण च प्रियं कं सुखं यतः सा चेति तथा-भूता प्रियकमाला कदम्ब-स्रक्, पक्षे, कदम्ब-श्रेणी यस्यां ताम्, विलसतः श्रीवत्सस्य चिह्न-विशेद्षस्य गोचारो रश्मि-सञ्चरणं तेन यच्चारवं चारुत्वं तेन भूयिष्ठां बहुलतमाम्, पक्षे, विलसच्छ्री-युक्तानां वत्सानां गवां च चारस्य यच् चारुत्वं तेन भूयिष्ठाम्, पीतं पीतवर्णं भास्वत् तेजस्वि अंशुकमम्बरं यस्यास् ताम्, पक्षे, पीता निगीर्णा भास्वतः सूर्यस्यांशवो यया ताम्, घन-महसेत्य् अनुवृत्तेः । सरसरभसा रस-वेग-सहिता हरिणी-नयना गोप्यो यस्यां ताम्, पक्षे, सरसरभसानि हरिणीनां नयनानि यस्यां ताम्, हारिणीं हारवतीं मनोहारिणीं च लुलितो मृदुलो ललितो लम्बमानः सुपल्लव इव पञ्च-शाखः पाणिर् यस्यां ताम्, पक्षे, तादृश सुपल्लवानां पञ्चो विस्तारो यासु तथा-भूताः शाखा यस्यां ताम् । चमत्काराणां कारणेन कर्त्रा चलितः प्राप्तश् चमत्कार-हेतूनामास्पद-भूत इत्य् अर्थः । द्यामाकाशं गां पृथ्वीं च । कीदृशीम् ? मरकताङ्कुरायमाणानि सौगन्धिक-गन्धीनि कतृणानि गन्ध-तृणानीव ये घना मेघास् तैर् मेदुराम्, पक्षे, तादृश कत्तृणैर् घना निविडा चासौ मेदुरा स्निग्धा चेति ताम्, सौगन्धिकं तु कह्लारम् इत्य् अमरः । न निम्नोच्चभावो यस्याः सा चासौ भा कान्तिस् तया बला चेति ताम्, अपगता अपसृता भानोः सूर्यस्य भानवोऽंशवो यतः सा चासौ, अतएव शितलस् तलपरिसरो यसाः सा चेतिताम्, वलज्जलनं पिधानं यस्य तथा-भूतो वासरमणिः सूर्य एव कूण्डलं यस्यास् ताम्, जल-पिधान इति चौरादिकः, पक्षे, वलन् जलानां नव आसर आसरणं येषु तथा-भूतानि मणिमयानि कुण्डानि जलाशयान् लातीति तथा ताम् ॥६४॥

अथ तत्र गिरिवरपरिसरे न कोऽपि कञ्चिदधिक ऊनं सरसतरसौगन्धिकगन्धि-तृणे तृणेढि पशुः पशुमिति निरातङ्कतया तृणास्वाद-लालसेऽनालसेनाभितो यथेच्छं गते नैचिकी-निचये करकिसलयसलयधूयमानपीतचेलाञ्चलचालनेन सपताकनीलमणिस्तम्भ इव निखिलसौभाग्यलक्ष्मीविलासगृहारम्भस्य सुधारसाप्लुताप्लुतदीर्घदीर्घगम्भीरतरविकस्वरस्वरसौभाग्यध्वनिभृता निभृताक्षरं शबलि! कालि! धवले! इत्यादि नाम नामग्राहं ग्राहं यदि समाजुहाव, तदा युगपदेव तृणगुल्मादि-विशालभञ्जिकाः शालमञ्जिका इवैक-सूत्रगुम्फिताः, आपीनापीनाभोगभुग्नगतयोऽपि द्रुतगतयो द्रुतचेतसो हम्बेति-गद्गद-गदनपराः पराहता इव मन्त्रबलेन धावमानास्ताः पुनस्तस्यैव कृपालोः कृपालोलमनसो “मा धावत मा धावत” इति कलकोमलध्वनिमध्वनि मधुरमाकर्ण्य निरायासं धावन्त्योऽवन्त्यो भगवदाज्ञामिव समकालमेव गिरिवरस्य द्रुतमुपत्यकामुप त्यकाः समीयुः ॥६५॥

अदरतोषेणानल्प-हर्षेण खरस्यदैस् तीक्ष्ण-वेगैर् जलद-जलैर् दरेतरमदरम् अनल्पं यथा स्यात् तथा क्षालिते, अशकलेन्दुः पूर्ण-चन्द्रः । स हरिः स्वां तनुम् इव वनराजिमालोकमानस् तथा गां द्यां च समभासम् आलोकयन्, शवलि ! कालि ! धवले !—इत्यादि नाम-ग्राहं13 यदि समाजुहाव, तदा गिरिवरस्योपत्यकां ताः समीयुर् इत्य् अन्वयः । घन-महसा निविड-कान्त्या, पक्षे, मेघ-तेजसा हेतुना दूराद् दूरतोऽविभज्यमाना विभक्ततया न लक्ष्यमाणा अवयवा यस्यास् ताम्, मदकलानां मदोत्कटानाम् अतएव झङ्कार-मुखराणां मधुपाणां रागोऽनुरागो यत्र स चासौ मधुना परागेण च प्रियं कं सुखं यतः सा चेति तथा-भूता प्रियकमाला कदम्ब-स्रक्, पक्षे, कदम्ब-श्रेणी यस्यां ताम्, विलसतः श्रीवत्सस्य चिह्न-विशेद्षस्य गोचारो रश्मि-सञ्चरणं तेन यच्चारवं चारुत्वं तेन भूयिष्ठां बहुलतमाम्, पक्षे, विलसच्छ्री-युक्तानां वत्सानां गवां च चारस्य यच् चारुत्वं तेन भूयिष्ठाम्, पीतं पीतवर्णं भास्वत् तेजस्वि अंशुकमम्बरं यस्यास् ताम्, पक्षे, पीता निगीर्णा भास्वतः सूर्यस्यांशवो यया ताम्, घन-महसेत्य् अनुवृत्तेः । सरसरभसा रस-वेग-सहिता हरिणी-नयना गोप्यो यस्यां ताम्, पक्षे, सरसरभसानि हरिणीनां नयनानि यस्यां ताम्, हारिणीं हारवतीं मनोहारिणीं च लुलितो मृदुलो ललितो लम्बमानः सुपल्लव इव पञ्च-शाखः पाणिर् यस्यां ताम्, पक्षे, तादृश सुपल्लवानां पञ्चो विस्तारो यासु तथा-भूताः शाखा यस्यां ताम् । चमत्काराणां कारणेन कर्त्रा चलितः प्राप्तश् चमत्कार-हेतूनामास्पद-भूत इत्य् अर्थः । द्यामाकाशं गां पृथ्वीं च । कीदृशीम् ? मरकताङ्कुरायमाणानि सौगन्धिक-गन्धीनि कतृणानि गन्ध-तृणानीव ये घना मेघास् तैर् मेदुराम्, पक्षे, तादृश कत्तृणैर् घना निविडा चासौ मेदुरा स्निग्धा चेति ताम्, सौगन्धिकं तु कह्लारम् इत्य् अमरः । न निम्नोच्चभावो यस्याः सा चासौ भा कान्तिस् तया बला चेति ताम्, अपगता अपसृता भानोः सूर्यस्य भानवोऽंशवो यतः सा चासौ, अतएव शितलस् तलपरिसरो यसाः सा चेतिताम्, वलज्जलनं पिधानं यस्य तथा-भूतो वासरमणिः सूर्य एव कूण्डलं यस्यास् ताम्, जल-पिधान इति चौरादिकः, पक्षे, वलन् जलानां नव आसर आसरणं येषु तथा-भूतानि मणिमयानि कुण्डानि जलाशयान् लातीति तथा ताम् ॥६५॥

तदा कूजितमुरलीकोऽलीकोज्झितसौहृदैः सह सहचरैर्गिरिवरतोऽवरतो लीलातोऽलीलातोऽलसमवतरन् गिरिवरवनचारि-खग-मृगादि-निखिल-जीवनिकाय-कायतो मन इवावतारयामास ॥६६॥

गिरिवरतो गोवर्धनतः, लीलातो लीलायाः, अवरतो विरत इत्य् अर्थः । अलीलातोऽलीनामिला गिरोऽभिनन्द्य, ल्यव् लोपे पञ्चमी । अलसं यथा स्याद् एवम् अवतरन्, अवरत इति जीवनिकायकायत इत्य् अस्य विशेषणम्, रलयोर् ऐक्यात्, अवलात् कृष्णेन सहावतरितुम् असमर्थाद् इत्य् अर्थः, यद् वा, अवरतः सहावतरण-भाग्य-लाभेन निकृष्टादित्य् अर्थः । मन इवेति मनसस्तन्मयत्वाद् उत्प्रेक्षा ॥६६॥

एवमहरहरहतकौतुके वर्षाविलासे गोचा गोचारण-रणन्मञ्जु-मञ्जीर-मणिमञ्जरीनिकरेण मञ्जुलयोः पदपङ्कजयोः पङ्कजयोद्धुर-रजसोरजसोम-सोमशेखर-शेखरमणिमञ्जरी-रञ्जितयोर्न्यासेनाध्वनि-ध्वज-कमलादि-लक्ष्मलक्ष्मणेन भूरसि रसिकता-सिकता-रुचिरेऽचिरेण तद्भरविपत्राः पत्रावलीर्निर्मिमाणो गिरिवरवरसानुचरः सानुचरः सगोधनो भवनमाजगाम ॥६७॥

वर्षा-विलास-वर्णनम् उपसंहरति—एवम् इति । पद-पङ्कजयोर् न्यासेन भूरसि भूवक्षसि पत्रावलीं निर्मिमाणः सानुचरो भवनम् आजगाम । पद-पङ्कजयोः कीदृशयोः ? पङ्कं पापं तस्य जये उद्धूरं समर्थं रजो ययोस् तयोः, अजश् च उमा-सहितः सोम-शेखरो महेशश् च तयोः, प्रणतिकाले शेखरस्थ-मणि-मञ्जर्या रञ्जितयोः, यद् उक्तम् [भा पु १०-३५-२२] वन्द्यमान-चरणः पथि वृद्धैः इति । न्यासेन कथम्-भूतेन ? गामञ्चतीति गोङ् तेन गोचा, गवानुगेनेत्य् अर्थः । अध्वनि वर्त्मनि जायमानैर् ध्वज-कमलादिभिर् लक्ष्मभिश् चिह्नैर् लक्ष्मणेन स-श्रीकेन, राम-भ्रातरि प्ंसि स्यात् सश्रीके त्वभिधेयवत् इति मेदिनी । भूरसि कीदृशे ? रसिकता सरसत्वं सिकता वालुका ताभ्यां रुचिरे । पत्रावलीः कीदृशीः ? तस्या भुवो भररूपा अघवकादयस् तत्-कृतां विपदं विपत्तिं त्रायन्ते इति तथा ताः । गिरिवरस्य सानौ चरतीति तथा सः ॥६७॥

एवमस्मिन्नेव जलदगमे जलदागमे शोभायामिनीषु यामिनीषु प्रसह्य साह्यमानामनुरागबाधामनिराकरणीयावेगामन्तरे वहन्तीनां गोकुलकुलजानां राधादीनामदीनामलपरिमलां पूर्वरागतामपहाय सुकृतपरिपाकात् पाकात् पाकान्तरमासाद्य मधुरां कामधुरां कामपि सततमवतावतारिताखिलसौभग-लीलेन श्रीकृष्णेन समं समन्ततस्तु भूयो भूयोऽगमाश्या योगमाया भगवती योजयन्ती सफलयति ॥६८॥

अथ श्री-राधा-नव-सङ्गमं वर्णयिष्यन् तत्-सर्व-समाधायिकाया योगमायायाः प्रक्रिया-परिपाटीम् आह—एवम् इति । जलस्य दा दानं तयागमे लोक-सञ्चाराभावाद् उचित-समये इत्य् अर्थः । शोभायामिनीषु शोभया आयामवतीषु यामिनीष्व् अनुवागवाधामन्तरे वहन्तीनां राधादीनां काम् अपि कामधुरां कामभारं योगमाया सफलयति । कथम्-भूता सती ? श्री-कृष्णेन समं ता योजयन्ती सती, कामधूरां कीदृशीम् ? पूर्व-रागतां पूर्व-रागत्वं स्वरूपम् अपहाय त्यक्त्वा सुकृत-परिपाकाद्-भाग्यातिरेकात् पाकात् पाकान्तरं परिणामाद् अपि परिणामान्तरं प्राप्य मधुरां जाताम् इत्य् अर्थः । प्राप्तां क्रियाम् अपेक्ष्य पूर्व-काले क्त्वा । सततमवता स्वरूप-गुण-माधुर्य-निःक्षेपेण पालयतेति कृष्णेनेत्य् अस्य विशेषणम् । भूयो भूयः पुनः पुनर् अप्य् अगवो दुर्गमोऽयः शुभावहो विधिर् यस्याः सा ॥६८॥

न तच्चित्रमस्याः कावरा वराकी चित्रलेखा लेखाधिनाथादि-दुष्प्रवेशपुरनिरुद्धमनिरुद्धमभ्यासादयामास मासकतिपयगम्यमध्वानमध्वानमेवाभिलङ्घ्य जनानीक्षणेन क्षणेन निजसख्यै ॥६९॥

का निकृष्टा अवरा न्यूना । लेखाधिनाथ इन्द्रः । अध्वानं निःशब्दम् एवाभिलङ्घ्य क्षणेन क्षण-मात्रेणैव निज-सख्यै ऊषायै जनानां तत्रानिरुद्धस्य इत ऊषाया अपि परिवार-14रक्षकादीनाम्, अनीक्षणेनावलोकनम् अप्य् अतिक्रम्येत्य् अर्थः ॥६९॥

इयं तु भगवतो महायोगवतो महायोगशक्तिस्तासां पतिन्मन्यानामन्या नारीस्तत्प्रतिच्छायाश्छायारूपा रूपाकृतिभिस्तत्तत्समानाः समानाय्य नित्यसिद्ध-श्रीकृष्णप्रेयसी-स्वरूपेण रूपेण सहावतीर्णानामासामनियोजित-दूतीभावं भावं भावं कृष्णाङ्गसङ्गमङ्गलाय ताः सकलाः सकला यथासमयं यदुपनेष्यति, तत्र कः सन्देह इति सिद्धान्तसिद्धां तदुभयोः केलि के लिम्पन्ति न वैदग्ध्यादिविलासविशेषाः ॥७०॥

का निकृष्टा अवरा न्यूना । लेखाधिनाथ इन्द्रः । अध्वानं निःशब्दम् एवाभिलङ्घ्य क्षणेन क्षण-मात्रेणैव निज-सख्यै ऊषायै जनानां तत्रानिरुद्धस्य इत ऊषाया अपि परिवार-15रक्षकादीनाम्, अनीक्षणेनावलोकनम् अप्य् अतिक्रम्येत्य् अर्थः ॥७०॥

सविशेषा हि लोकोत्तरता कोत्तर-तारतम्यकारिणी भवति, यदियं केलिकला
कलावतो राधामाधवयोर्वयोऽकृता नित्यसिद्धत्वात् । वात्सल्यरसजुषां सजुषां सद्यस्तनस्तनन्धयवत् कृष्णे रतिमुद्वहतां हतांहसां केषाञ्चिद्यदगोचरस्तद्धि तेषां तथाविध-रसस्वरस-स्वभावो न तत्र योगमायामायावैभवमिति ॥७१॥

लोकोत्तवता केलिर् इत्य् अर्थः । कं तद् उत्तरं तत्-प्रधानं यत् तारतम्यं तत्-कारिणी भवति । लोकोत्तरताया वैशिष्ट्य-तारतम्येनैव सुखतारतम्यं स्याद् इत्य् अर्थः । यद् यस्माद् इयं केलिर् वयोऽकृता वयसा न कृता प्राकृत-लोकानाम् इव यौगनोत्पादिता न भवतीति पूर्वरागारम्भे प्रपञ्चितम् एव । सजुषां स-प्रेम्णाम्, प्रीत्य् अर्थक-जुषेर्भाव-क्विपा रूपम् । तथा-विधस्य रसस्य स्वोऽसाधारणो रसो वलं तस्य स्वभावः, शृङ्गारादौ द्रवे वीर्ये देह-धातुषु पारदे रसः इति विश्वः ॥७१॥

तथा सति कस्यामपीक्षणक्षणदायां शुभलक्षणक्षणदायां सौभाग्यरसोक्षणदायां क्षणदायां निविडतम-तमालमालयेव मुदिरमालया श्यामलीकृतायां प्रथमाभिसार-सारस्यभाग-परभाग-भागनुचरीभिरभिरस्यमाना योगमाययैव दर्शितेनाध्वनाध्वनावुपरते चिरानुरक्तिदूतिकया कयाचन पुरोगामिन्या पुरोगामिन्याय-साहस-हरिष्यमाणकृष्णयाकृष्यमाणा नीलनिचोल-चोलधारिणी मृगनाभिलिप्ता नाभिलिता स्तम्भजम्बालजम्बालमान्थर्यमासादयता साध्वसेन “कुतः क्व यामि” इति स्वयमप्यजानती न तीव्रतरतरलतां चात्मनो निन्दन्ती तदुपगमगमक-विलक्षण-लक्षण-शुभलक्षण-कृतक्षणस्य। कृष्णस्य च तस्याश्च मनसा मनसैव कृतं सङ्केत-केतनं मकरकेतनचेतनया परिचायितं परिचायितं च सा वार्षभानवी नवीन-सङ्गरससरस-सरलहृदया हृदयाधिनाथाकृष्टहृदयाभिससार ॥

कस्याम् अपि क्षणदायां रजन्यां सा वार्षभानवी अभिससार । कीदृश्याम् ? ईक्षणयो क्षणदायाम् उत्सवदायिन्याम्, शुभ-लक्षणो यः क्षणः काल-विशेषस् तच्छोधिकायां तेनैव दा शोधनं वा यस्यास् तस्याम्, दैप् शोधने सौभाग्य-रसस्य उक्षणम् अभिषेकस् तद्-दायिन्याम । प्रथमाभिसारे यः सारस्य भागः सरसत्व-रूपोऽंशस् तेन परभागं सौन्दर्य भजतीति तथा सा । अध्वाना पथाध्वनौ शब्दे उपरते शान्ते सति चिरानुरक्तिर् एव दूतिका तयेवाकृष्यमाणा । कीदृश्या ? पुरोगामिन्या अग्रगामिन्या, राधा-गतिर् अनुरागानुसारिण्येवेति द्योतितम् । पुरोगामिनाग्रभाविना न्याय्य-साहसेन कृष्ण-सुखैकतात्पर्यक-रति-प्रागल्भागमकेन हरिष्यमाणो वशीकरिष्यमाणः कृष्णो यस्यां यया वा तया । निचोलः प्रच्छद-पटः, चोलः कञ्चुलिका, स्तम्भस् तद्धता स एव जम्बालः पङ्कं तज्जं तद् उद्भवं बालमान्थर्यं प्रथम-मन्थरताम् आसादयता साध्वसेन नाभिलिप्ता, अभिसारे स्तव्धताकारिण्या शङ्कया रहितेत्य् अर्थः । स्वयम् अप्य् अजानतीति—प्रेम-वैवश्येनैव तद् आचरन्तीत्य् अर्थः । बहिर् दूत्य् असङ्केत-परस्मप-सम्मतिवार्ताज्ञान-विना-भूतोऽपायं प्रथमाभिसारो भगद् इच्छा-शक्तिवशात् तत्-प्रौढानुरागस्यान्य-निरपेक्षत्व-प्रदर्शनायैवेति भावः । तीव्रतरां तरलतां तारल्यम् अपि न निन्दन्ती प्रेष्ठ-सङ्ग-सुख-प्राप्ति-भावनयेति भावः । तस्या राधाया उपगम उपसर्पणं तस्य गमकं सूचकं विलक्षणं लक्षणं यत्रा तथा-भूते शुभ-क्षणे मङ्गल-समये कृतः क्षणः स्वाभिसारोत्सवो येन तस्य श्री-कृष्णस्य तस्याः श्री-राधायाश् च मनसा मनसैवेति हे प्रिये तत्र कुञ्ज-मन्दिरेऽद्याभिसृत्य भवत्या भवितव्यम् इति धानारूढाम् एव राधां प्रति कृष्णस्य सङ्केतः । तथैव तं प्रत्यस्या अपि स ज्ञेयः । ध्यानेनैव कृतः सः, न तु प्रकटम् इति तु विवेको द्ययोर् अपि नास्तीति ज्ञेयम् । सख्यादीनाम् अपि राधासङ्गमार्थं दूत्यक्रिया तद् अनुराग-कथनं वशीकारस् तत्-सम्मत्या-नयनं तद् दशाकथनम् इत्यादिकम् अपि ध्यानेनैव तथैवाभूद् इति ज्ञेयम् । अन्यथा तस्याभिसारस् तस्यास् तदानीं ताभिर् निषिध्येतैवेति भावः । एतच् च सर्वम् अनुरागिजन-मात्राणां स्वेच्छाकृत-धानस्यापि सत्यत्व-प्रदर्शनार्थम् इति । मकरकेतनस्य प्रेमात्मक-कन्दर्पस्य चेतनया संविदा परिचायितं कृत-परिचयम्, यतः परिचायितं प्रदर्शितं च, चाषृ पूजा-निशामनयो ॥

ततश्च—

ऊरुस्तम्भे प्रियसहचरीदत्तहस्तावलम्बा **स्यन्देऽस्राणां पदविहरणे वर्त्मनो वित्तिशून्या । ** कम्पेनालीकरकिसलयं कम्पयन्तीति कृच्छ्रा दायातापि प्रियगृहमहो हन्त निर्गन्तुमैच्छत् ॥

अस्राणां स्यने क्षरणे सति, पद-बिहरणे गमने वर्त्मणो वित्ति-शून्या वर्त्म-ज्ञान-रहिता ॥

किञ्च—

त्वरयति सखीवृन्दे मान्द्यं हठादवलम्बते **चलति यदि वा किञ्चिद्भूयस्तरां विनिवर्तते । ** अपि हृदि समुत्कण्ठे वाम्यं मुहुर्बहिरीहते प्रकृतिकुटिलाः कामं वामा नवाः किल किं पुनः ॥

त्वरयति समीप-गमनार्थं त्वरां कुर्वति सति, समुत्कण्ठे सम्यग् उत्कण्ठ्यावत्य् अपि हृदये ॥

ततश्च—

प्रणयसहचरीभिः प्रार्थनाचाटुवादैः, प्रसभरभसया च प्रापिता कान्तगेहम् । अपरिचितरतश्रीसङ्गमानादराय, व्यतनुत तनुमध्या ही-सखीसन्नियोगम् ॥

अद्यैव केवलम् एकवारम् एव निज-स्पर्श-सुख-मात्रम् अमुष्मै वितरेति प्रार्थना मा परमन्येद्युरस्यान्तिकं कदापि त्वां प्रहिण्म इति स-शपथम् उक्त्वा दयावति ! राधे अस्य व्याकुलतां वीक्ष्य क्षणं प्रसीद इत्यादि चाटु-प्रसभ-रभसया हठवेगेन, रभसा शब्दष्टावन्तोऽपि कोषे दृष्टः । अपरिचिता या रतश्रीः सुरत-सम्पत्तिस् तत्-कर्तृके सङ्गमेऽनादराय त्वाम् अवगन्तुं ह्रीर् लज्जैव सखी तस्याः सन्नियोगम् उत्तमाज्ञां व्यतनुत, साङ्गीकारं विस्मृतवती । अयं भावः—रतश्रियम् एतामहं न परिचिनोमि, तथापि एता मत्सख्यस् तत्-सङ्गमार्थम् एव मां प्रहिण्वन्ति, तस्माद् अहं साम्प्रतं मद् अनुकूलां लज्जाम् एव सखीत्वेन वृणोमि, तन् निदेशेनैव रतश्रियमनादृत्य स्ववाम्यम् आविष्करोमीति ॥

ततश्च—

गच्छन्तीषु सखीषु गन्तुमनसः कृष्णेन पाणौ धृते **तस्य स्पर्शरसादसारि मनसा तस्याः स्थितौ चेत् स्पृहा । ** मा यातेति मनोऽनुलापपिशुनैर्भ्रूभङ्गकैर्वारिताः प्राप्ताश्वासतयैव केलिभवनद्वार्येव सख्योऽभवन् ॥

गन्तुमन्सो निर्गन्तुकामायास् तस्याः पाणौ कृष्णेन दृते सति तस्य स्पर्शवशात् प्रेष्ठस्य स्पर्श-सुखम् अनुभूय तस्या मनसास्थितौ चेत् यदि स्पृहा असारि प्राप्ता, तदा निर्गमा-शक्तौ स्व-हस्त-रोधम् एव हेतुं ज्ञापयन्त्यास् तस्या मा यातेति हे सख्यः ! माम् अस्य हस्ते निक्षिप्य मा बहिर् गच्छतेति यो मनोऽनुलापो मनसैव पुनः पुनर् भाषणं तस्य पिशुनैः सूचकैः, अनुलापो मुहुर् भासा इत्य् अमरः । प्राप्ताश्वासतयैवेति कृष्ण-कर्तृक-हस्त-रोधे तस्याः स्व-दोष-पिधायिनीं स्पृहाम् अनुमायेति भावः । तथापि किञ्चिद् वाम्यसाहाय्याय भवनस्य द्वार्येव, न त्वन्तः ॥

ततश्च—

**कृष्णे पश्यति लोचने मुकुलयत्यापृच्छति स्वागतं ** **तूष्णीमेव शृणोति संस्पृशति च स्वैरं परावर्तते । ** न त्रासादवहित्थया न च न तद्व्याजेन वाम्येन वा बालानामभिलाषवत्यपि हृदि प्रायः स्वभावो हि सः ॥

लोचने स्व-नेत्रे मुकुलयति मुद्रयति—आङि नु-प्रच्छ्योः इत्य् आक्रोशानुज्ञयोर् एवाभिधानात् नात्मनेपदम् । शुणोति, न तु प्रतिवक्ति । स्ंस्पृशति निर्गम-शङ्कया वाम-पाणिना धृत-दक्षिण-हस्ताया एव तस्याः कञ्चुलिकादिकं दक्षिणेन पाणिना स्पृशति सति परावर्तते, तद् असहिष्णुतयेव किञ्चित् स्ववलम् आविष्कृत्य विघट्टत इत्य् अर्थः । न त्रासाद् इति तद् विरोधिनो हर्षस्य प्रावल्य-दर्शनात् । अवहित्थयेति—वुद्धि-पूर्वकत्वाभावेनैव सहसैव तत् तच् चेष्टोद्गतेः । न व्याजेनेति प्रयोजनान्तर-सापेक्षत्वानुपलम्भात् । वाम्येनेत्य् असम्मतिं वहिर् अव्यज्यापि तत्र रसवाधनत्वांशानाविष्कारात् । प्राय इति तादृश-सन्नायिकानाम् एव, न तु सर्वासाम् इति ॥

ततश्च—

उपनमयति यद्यत् प्रातिकूल्यं नताङ्गी, प्रभवति किल तत्तत् कृष्णकौतूहलाय । रसयति हि पदार्थो दुर्लभस्तावदेव, व्यभिचरति तदीयं दुर्लभत्वं न यावत् ॥

रसयतीति—यदि प्राकृतस्यापि पदार्थस्य रसवत्त्व-दुर्लभतायां सत्यां तदा किं पुनर् अप्राकृतस्य सुखैकमयस्यास्य पदार्थस्य सुलभत्वेऽपि सदा रसयतो दुर्लभतायाम् इत्य् अभिप्रायः ॥

किञ्च—

आलिङ्गितुं कृतमतौ दयिते नतश्रूरुत्थाय गन्तुमभिलष्यति केलितल्पात् । बाला तथाप्यजनि तस्य मनःप्रसादे, सान्निध्यमेव हि मणेस्तमसोऽपहत्यै ॥

नतभ्रूः कुटिल-भ्रूः ॥

एवं च सति—

नालीनां शपथैर्हरेनुनय-व्याहारमन्त्रैश्च नो कन्दर्पस्य च नैव वैभववतो बाणेन यन्निर्ममे । विद्युद्दामघटाकटाक्ष-कटुभिः क्रोधोर्जितैर्जितैर् एका प्रौढसखीव कण्ठमनयत्तां तस्य कादम्बिनी ॥७२॥

आलीनां शपथैर् इति—हठिनि राधे ! यद्यतः परं वामा भवसि, तद् अस्माकं शिरसां शपथोऽस्तु ते इति । अनुनय इति—प्रियतमे ! स्मर-गरलेन जाज्वल्यमान-हृदयोऽस्मि, क्षणं परिरम्भ-सुधया जीवय माम इति । मन्त्रैर् इति—ततश् च विचित्र-चन्दन-कञ्चुलिकादिकं निर्माय कौशलेन त्वाम् अपि विस्मापयापि, अलम् अत्र नेपथ्य-भङ्ग-वैमनस्य-व्यञ्जनया इत्य् आमन्त्रणैः । कदम्बिनी मेघ-माला ॥७२॥

ततश्च, परमदुरासदत्वेन रासदत्वेन चापि मनसा न साधयितुमर्हमिहर्हामकस्मात् कस्मादपि केनापि करे निहितां हितां सुधाकरकलामिव, अकृतकामनामनाघ्रातां मधुकरेण करेण समाक्रष्टुमशक्यामशक्यापवारणां परिमलमलघीयांसमादधानां मादधानां कामपि सुरतरु-कुसुममालामालापमन्तरेणापि केनापि कण्ठे निहितामिव, परमाह्लादरभसाधारां धारां सुधारसस्येव केनापि नापि लपित्वा वक्षसि निक्षिप्तामिव, अकपटपटदति-साध्वस-साध्वसदभिक्षोभलुलितामधिकण्ठमनुत्कण्ठमनायत्तिवशात् कृतावलम्बामलं वामलक्ष्मीकेन
भुजवलयेन जवलयेन तं समयमारभ्य परिरभ्य परितस्थुषा व्रजराजयुवराजेन रराजे, न रसादपरं परं विविदे च ॥७३॥

ततश् च तां परिरभ्य परितस्थुषा व्रज-राज-युवराजेन रराजे इत्य् अन्वयः । परम-दुरासदत्वेनातिदुष्प्रापत्वेन । रासदत्वेन रासं रस-समूहः, स्वार्थे अणि, रस एव वा रसनं रास आस्वादनं वा । तद् दायित्वेन मनसापि साधयितुम् उपार्जयितुं नार्हां न योग्याम्, अत्य् असम्भवे वस्तुनि मनोरथस्यापागतेः । अर्हां माननीयाम्, अकस्माद् अतर्कितम् एव । कस्माद् अप्य् अनिर्वाच्याद्धेतोः । सुधाकर-कलाम् इति—वैकल्य-तिमिर-ध्वंसित्वेन चेतश् चन्द्रकान्त-द्रावकत्वेन काम-सञ्ज्वरोपशमकत्वेन साहजिक-सौन्दर्येण चोत्प्र्क्षा । न कृता केनापि कामना यस्याम् इति । कल्प-तरु-पक्षे—अदत्तकामत्वेन परिपूर्णसाराम्, राधा-पक्षे, स्पष्टम् एव । मधुकरेणानाघ्राताम् इति पराग-मकरन्दाभ्याम् अविच्युताम् इत्य् अर्थः । पक्षे, तस्याः पतिष्मन्येनाननुभूत-माधुर्यकलाम् । समाक्रष्टुम् अशक्याम् इत्य् अतिभाग्य-लव्धाम् इत्य् अर्थः । पक्षे, पतिम् मन्यस्य करस्पर्श-मात्रेणाप्य् अशक्याम् । अपवारणम् आच्छादनम्, परिमलम् आमोदम्, मादो हर्षस् तस्य धानाम् अर्पयित्रीम्, सुर-तरु-कुसुम-मालाम् इत्य् अखिल-वाञ्छित-सम्पादकत्वेन सुख-स्पर्शदत्वेन व्यज्यमानालिङ्गनसौष्ठव-सभाजनत्वेन विशिष्ट-सौन्दर्याधायकत्वेन च । आलापम् अर्पण-वाक्यम् । परमाल्हादस्य रभसं वेगम् आ सम्यग् धारयतीति स्वार्थण्यन्तात् पचाद्य् अच्, ताम् । सुधाराम् इति निरतिशयास्वादाधायकत्वेन वैपरीत्येन यन् नाम16-घटकाक्षर-द्वय-वाच्यत्वेन च । अकपटं निर्व्याजम् एव पटता भीरुतया प्राप्नुवतातिसाध्वसेन हेतुना साधु यथा स्यात् तथासद्भिस् त्रास-जन्यत्वाद् अभद्रैर् मिथ्या-भूतैर् वाभिक्षोभैर् ललितां मर्दिताम् । अतएवानायत्तिर् अनधीनता तद् वशाद् अप्य् उत्कण्ठाम् अधिकण्ठं कण्ठे कृतोऽवलम्बो यया ताम् । अलम् अत्य् अर्थम् । वामा मनोज्ञा लक्ष्मीः शोभा यस्य तेन भुज-मण्डलेन । कीदृशेन ? जवस्य वेगस्य लयो मिलनं यत्र तेन । रसादानन्दजाड्याद् अपरमन्यत् न विविदे, न ज्ञायते स्म ॥७३॥

तामथ कृष्णेन सह सहचर्यो हसितोत्कटाः कटाक्ष-विक्षेपेण पश्यन्त्यः श्यन्त्यश्च स्वममानस्यं मानस्यं चाभिलाषं सफलमिव मन्यमाना मानातीतसन्माननया जलधरोर्जितगर्जित-गरिमाणं स्वसखीं श्रावयित्वा श्रावयित्वा ससङ्कोचं पूजयामासुः ॥७४॥

स्वममानस्यं सुखं श्यन्तः खण्डयन्त्यः । मनसि भवं मनसे हितं वा मानस्यम्, मानं परिमाणं तद् अतीतयापरिमितया सम्माननया स्व-सङ्कोचं श्रावयित्वा गमयित्वा, श्रु गतौ तालव्यादिर् अपि ॥७४॥

**
“धन्योऽसि घनरसद! रसद एवासि, त्वमुचित एव, चितः । एवमस्य तव वर्णमित्रस्य मित्रस्य नवकमलिनीवृन्दारिकावृन्दानां मैत्रीकरणेन, यदियं मे दुराराधामेदुरा राधा हुङ्कारमात्रेणैव कृष्णकण्ठं प्रापितास्ति भवतावता परमसौभाग्यम्” इति सखीजन-सोत्प्रासप्रासविद्धहृदयेव भयोपरमे परमेणाग्रहेण तदुरसो रसोदधेरिवापि बहिर्बुभूषया भूषयामास यदि स्वमात्मानम्, तदा प्रसभेन सभेन ग्रहविशेषेणाशेषेणामोदेन कृष्णेन च तस्याश्चित्रितलतोपवनानीव न जातपत्राङ्कुरमङ्गानि कपोलचुम्बनानि, यमुनाजलानीव कज्जलशोभाग्लानिकराणि नयनचुम्बनानि, भक्तिरस-रसिक-हृदयमिव समक्षतयावकरागमधरपानम्, द्वितीया हिमकरलेखेव अलक्ष्यमाणलाञ्छना दशन-नखपद-पदवी, सुप्रतिष्ठितशिवलिङ्गसन्माननमिव सदामोदकर-कमलपूजन-जनित-परभागं स्तनयुगपरामर्शनम्, शुक्तिसम्पुटा इवाक्षुण्णमुक्तावलीकाः परिरम्भाः, विषमविषधरीधारणमिव साहसमात्रप्रतिपादकं रोमलतापरिशीलनम्, तीर्थसलिलमिव स्पर्शमात्रेणैव कृतार्थन्मन्यताकारि नाभिह्रदपरिसरकरप्रदानम्, गोक्ष इव परमदुःशको नीविमोक्षश्च कृतानि ॥७५॥**

तव वर्ण-मित्रस्यास्य नैत्रीकरणेन कर्त्रा त्वं चितो व्याप्तः—चितं छन्ने त्रिषु इति मेदिनी । कमलिनी-वृन्दारिकाः श्रेष्ठ-कमलानि श्रेष्ठ-सुन्दर्यश् च । वृन्दारक-नाग-कुञ्जरैः पूज्यमानम् इति समासः । मित्रस्य सूर्यस्य सख्युश् च । ममेयं सखी राधा । मे इति जात्या एक-वचनम् । दुराराधा दुःसाध्या, कुतः ? अमेदुरा—अवचस्करत्वात् कठोरेत्य् अर्थः । ततः सा तद् उरसो वहिर् वुभूषया वाम्याविष्कारेण यदि स्वमात्मानं भूषयामास, तदा कृष्णेन प्रसभेन हठेन तस्याः कपोल-चुम्बनादीनि कृतानीत्य् अन्वयः । प्रासः कुन्तनामास्त्र-भेदः । सभेन सदीप्तिना, ग्रह-विशेषेण सुरत-तन्त्रोक्त-वेणी-चिवुकादि-धृति-विशेषेण । अशेषेण सम्पूर्णेन । न जातः पत्राणाम् अङ्कुराणां भङ्गो यत्र तानि । पक्षे, पत्राङ्कुर आकल्प-भेदः । मुग्धा-लक्षण-नायिकायाम् अतिभीरुत्व-स्वभावायां प्रथम-सम्भोगस्य तथौचित्यात्, तस्या मध्या-प्रगल्भयोर् इव सम्भोग-गाढत्वा-सहिष्णुत्वात् । कज्जल-शोभाया ग्लानिकराणि, पक्षे, अग्लानिकराणि । समक्षतया प्रत्यक्षतयैव, अवकरैर् दोषैर् अगमगम्यम्—गमेर् डः कर्मण्य् अपि बाहुल्यात् । यद् वा, अवकरान् न गच्छति न प्राप्नोतीति तथा । पक्षे, सम्यग् अक्षतो यावकरागोऽपि यत्र तत् । लाञ्छनं कलङ्कं चिह्नं च । अधरे दशनस्य स्तनयोर् न खराणां यत् पदं चिह्नं तस्य पदवी पद्धतिः । सदामोदकरैः कमलैर् यत् पूजनम्, पक्षे, सदामोदं यत् कर-कमलं तेन पूजनं स्पर्शस् तेनैव जनितः परभागः शोभा यस्य तत् । अक्षुण्णा अनपनीता, पक्षे, अच्छिन्ना मुक्तावली येषु ते । रोमलता-परिशीलनं स्तनाध आरभ्य रोमावली-वर्त्मना कर-चालनम् । कृतानीति कृतश् च कृताश् च कृतं च कृतानि, नपुंसकम-नपुंसकेन इत्यादिना नपुंसकत्वम् ॥७५॥

ततस्तस्या अपि ब्रह्मव नेति नेति निषेधसिद्धं वचनं, तडिद्दामेव उत्पद्यैव लीयमानं कटाक्षविक्षेपणं, गिरिनिर्झरजलमिव उत्सवाहितादरास्रवत् विलोकितम्, गोवर्धनसानव इव
स्वन-वाचाल-मणि-कटकाः करकम्पाः, वर्षाशिखरोव अभङ्गुर-पयोधरः प्रतिपरिरम्भः, मलयानिल इव मृदुस्पन्दः, वसन्तदिनकरातप इव दरघर्मकीलालः, किसलयकलाप इव मृदुलीलाकरकम्पः, तडाग इव विपुलकभङ्गश्च देहः समजनि ॥७६॥

नेति नेतीति रतारम्भे । कटाक्षेति किञ्चिद् असहिष्णुता-व्यञ्जनाय । उत्सवेत्यादि रत-मध्ये उत्से प्रस्रवणे वाहितं च तत् अदर अनल्पं यथा स्यात् तथा स्रवच् चेति तत् । उत्सः प्रस्रवणम् इत्य् अमरः । पक्षे, उत्सवेन रतोत्सवेनाहितम् अर्पितम् । अदरास्रमन् अल्पास्रं तद् वत् तद्-युक्तम्, कटकं गिरिनितम्बो वलयं च । प्रति-परिरम्भः श्री-राधा-कर्त्रीकः, मृदुस्पन्द इत्यादि रतोपान्ते । मृदुस्पन्दो मन्द-गतिः, जातस्तम्भभावश् च । दरघर्मकीलाल ईषद्-घर्म-ज्ल-कणको जात-स्वेद-भावश् च । मृदु-लीलानां विलासानाम् आकरो येन तथा-ब्ःउतः कम्पो यत्र सः, पक्षे, मृदु-लीलया कर-कम्पो हस्तगत-कम्प-भावो यत्र सः, विपुलः कस्य जलस्य भङ्गस् तरङ्गो यत्र सः, पक्षे, विशिष्टौ पुलक-स्वर-भङ्गौ यत्र सः ॥७६॥

ततश्च दूरादालोकयन्तीनामालीनामालीनानां द्वारोपकण्ठे कण्ठे-गृहीतां कृष्णेन तां नतां ह्रीभरेण निर्भरेण निर्भातां प्रियवयस्यां वयस्याञ्जस्येन नूतनतया प्रगाढरसासहेऽवस्थितामनवस्थितामनवधानपरां प्रियतमाग्रहे ग्रहेण केनाप्यभिभूतामिव कश्चिदालाप आसोदितरेतरम् ॥

द्वारस्य उपकण्ठे समीपे आ ईषत् लीनानां निह्नुतवतीनां तां राधा ह्रीभरेण लज्जातिशयेन नतां कुञ्चनपराम्, वयसि नव-यौवने, अञ्च्जसेत्य् अस्य भाव आञ्जस्यं तेनानवधानपरामानन्दमत्ताम्, प्रियतमस्याग्रहे रमणाग्रहे सति अतिवाम्य-साधकेन केनापि ग्रहेण पराक्रान्ताम् इव ॥

यथा—

“अयमयं सखि भाति किशोरयोनर्वकिशोरवरः सुरतोत्सवः । अयमिह प्रतिपत्तिविमूढतां, गत इव प्रतिभाति मनोभवः ॥

सुरतोत्सवोऽपि नव-किशोरवरः प्राप्त-प्रथम-यौवनारम्भ-मात्रः । अतस् तादृशमनोभवोऽपि प्रतिपत्ति-विमूढताम् इव गतः आनन्द-जाड्यं प्राप्त इव ॥

अस्यास्तु—

**चिरमनोरथ एव चिरात् फलन्, फलभरेण मनो व्यथयन्निव । ** अहह दुःसह एव भवत्यहो, सुखतयापि च दुःखतयापि च” ॥७७॥

सुखतयापीति फलन् सन्, दुःखतयापीति पूर्व-दशायाम् अफलन् सन्, अतः सदैव दुःसह एवैष भवती त्य् अर्थः ॥७७॥

ततश्च स्वकृतापसरण-रण-श्रमादेव प्रबल-बलमानश्वासां शिथिलकचहस्तां हस्ताम्बुजेन दधतीं श्लथमानां नीवीं नीवीं यथा श्रुटितैकावलिकावलिकामस्तव्यस्तामिव सतृष्णेनापि कृष्णेनापि कृतरतोपरमेण परमेण प्रणयेन निबद्ध केशपाशे पाशेन निबद्धायां नीवौ, प्रथिते च तारे हारे, हापिते च करकमलेनामलेनाम्बुनि घर्मजे, नर्मजेन वचसा सरसीक्रियमाणामवलोक्य सहचर्यः सह चर्यया प्रणयस्मितनिरीक्षणरूपया क्षणरूपया कृष्णकथया पुरत उपतस्थिरे ॥७८॥

स्वेनैव कृतम् अपसरणं पराजित्य पलायनम् इव यत्र तथा-भूते रणे सुरत-सङ्ग्रामे यः श्रमस् तस्मात् । कच-हस्तः केश-समूहः, पाशः पक्षश् च कलापार्थाः कचात् परः इत्य् अमरः । नीवीं यथा मूल-धनम् इव, स्त्री-कटी-वस्त्र-वन्धेऽपि नीवी परिपणेऽपि च इत्य् अमरः । क्रुटिता एकावलीनामावली श्रेणी यस्यास् ताम्, उभयत्रैव प्रियत्वाद् अनुकम्पायां क-प्रत्ययः । कृष्णेनापि कृष-शब्दश् च सत्तार्थो णश् चानन्दः, इत्य् अर्थवशाद् आनन्द-प्रदेनापि तारे मुक्तामये घर्मजेऽम्बुनि कर-कमलेन हापिते दूरी-कृते सति प्रणयादि-रूपया चर्यया आचरणेन क्षण-रूपयोत्सव-भूतया ॥७८॥

स्थिरेव किञ्चिदथ सा दिधुमुखी नतमुखी न तदाननानि पश्यन्ती पश्यन्ती च भ्रूकुटिकुटिलेन कटाक्षेणान्तरान्तरा ताभिरथोचे—“एहि सखि! गृहं यामो, यामो ह्यवशिष्यते, शिष्यतेह विरमतु रतिकलागुरोरस्य गुरोरस्यरहस्यशिक्षायाम्, किमपरं विलम्बसे, लम्बसे वा न कथं केलितल्पात्” इति सपरिहासहासभाषिणीः स्वसखीः कपट-पटद्भ्रूकुटि-कुटिलाक्षमलसलसता भुजामृणालेन केशकलाप-सौरभ्य-गर्भकेण गर्भकेण ताडयन्तीडयन्ती च स्वलावण्यविशेषमशेषमनारतं कृष्णस्य मनसा न सारस्यमुचा कृतकृतकरुषा परुषापि परमसरसमना मनाक् स्मित्वा “अस्मि स्वादृशीनामीदृशीनामीहितकापट्य-नाट्यनायिका-क्रीडाशालभञ्जिका, भञ्जिका स्वाधीनतायाः किलाहं यदा यदालपथ विपथ-विशिष्टपथयोरथ योग्यन्तदेव देवतावाक्यमिव करवाणि, किमिति मां सम्प्रति सम्प्रतिपत्तिमूढां कुरुथ । कया वात्रागतं कया वा नागम्यते” इति कोमलालापेन यदि किञ्चिदुक्तवती, तदा तदाकर्णनेनापूर्वेण सन्तापच्छिदुरदुरवापमोदमेदुरदुरवस्थितमनाः कृष्णः “शुभवतीनां भवतीनां प्रसादतः सादतः किलाहं विमुक्तोऽस्या वचन-सुधा-सुधारापरिशीलनेन” इति वदन पारितोषिकमिव ताभ्यो जनं जनं प्रति प्रतिपन्नप्रणयः प्रणयति स्म परिष्वङ्गं यदि, तदा तदालोच्य चेतसा चेतसारस्या वचसा च सा परिहासवता सवता पीयूषशीकरानिव किमपि मन्दमधुरं मधुरञ्जि निजगाद—“अधुना गलितहृदूषणा दूषणाभाववत्यो भवत्यो भवन्ति नापरं परिहसिष्यन्ति” इति ॥७९॥

तासाम् आननानि न पश्यन्ती । कुतः ? नम्र-मुखी, प्राप्त-सम्भोगत्वेन सलज्जेत्य् अर्थः । अन्तरा अन्तरा पश्यन्ती च । भ्रूकुटि-कुटिलेनेति भवतीभिर् एवास्य हस्ते वलान् निक्षिप्ताया मम सतीव्रत-ध्वंसनं कृतम् इति भावः । यामः प्रहरः, शिष्यता शिष्यत्वम्, गुरा उद्यमेन, गुरी उद्यमे भावे क्विप् । उरस्यम् उरसि भवं यद्-रहस्यम् आलिङ्गन-प्रत्य् आलिङ्गनादि तस्य शिक्षायाम् । कपटेन पठन्त्या प्राप्नुवत्या भ्रू-कुट्या कुटिले अक्षिणी यत्र तद् यथा स्याद् एवम्, केशकलापस्य सौरभ्यं गर्भे यस्य तेन गर्भकेण माल्येन, केश-मध्ये तु गर्भकः इत्य् अमरः । कृष्णस्य मनसा प्रयोज्य-कर्त्रा ईडयन्ती स्तावयन्ती स्वलावण्य-विशेषम्, तदानीं सखी-ताडन्-चेष्टोत्थम् अशेषं सम्पूर्णम् । न सारस्यमुचा सरसताम् अमुञ्चन्त्या कृतया कृत्रिम-रूषा परुषा कठोरापि । क्रीडाशाल-भञ्जिका खेलन-पुत्तलिका अस्मि । स्वाधीनतायाः स्वातन्त्र्यस्य भञ्जिका स्वयम् एव नाश-कर्त्री । कुत एतदित्यत आह-यदेति । सन्तापानां छिदुरो दुरवापो दुर्लभश् च मोद यस्य सः । सादतः सन्तापात् । चेतसा च मनसापि, इतसारस्या प्राप्तरसा, वचसा च वाक्येनापि सा राधा । कीदृशेन ? पीयूष-शीकरान् सर्वतोत्पादयता, षु प्रसवैश्वर्ययोः इति भौवादिकोऽयम् । ऊषणं पीडा, ऊष रुजायाम् गलित-मनः-पीडा इत्य् अर्थः ॥७९॥

ताश्च कृष्णाङ्गसङ्गमनिर्वृतिनिर्वृतिभाजो निजसखीसुखसमीक्षण-समनुभूतमपि भूतमपि वर्तमानमिव पुनरात्मानुभवेन विदाञ्चक्रुः ॥८०॥

कृष्णाङ्ग-सङ्गमेन निर्वृतिर् आनन्दः, तस्या निर्वृतिर् अनावरणं तद्भाजः, भूतम् अप्य् अतीतम् अपि वर्तमानम् इवेति ईदृशं सुखम् एतन्मत्सखी एवाधुनापि प्राप्नोत्वित्य् आशास्तिर् द्योतिता ॥८०॥

अथ सा विभावरी विभा-वरीयसी भूत्वापि यामा यामावशेषतयैव सदोषा दोषाख्यामपि समाससाद, ससादतया यतस्ताः प्रियसखीमादाय कृष्णभवनाग्निजभवनं समासेदुः ॥८१॥

विभावरी रात्रीः, विभया कान्त्या वरीयसी श्रेष्ठा भूत्वापि यामस्यैक-प्रहर-मात्रस्यैवायामोऽवशेषो यस्यास् तत् तयासदोषा दोष-युक्ता दोषाख्यां दोषेति नाम । यतो हेतोस् ताः सख्यः ससादतया सावसादत्वेन ॥८१॥

अथ विभातायां विभावर्यां विभावर्यां श्यामामागतां वीक्ष्य वीक्ष्यमाणेनात्मनोऽन्यभावेन विस्मितां स्मितांशुधौताधरामधोमुखी विधुमुखी विधुरिता ह्रिया यदि बभूव, तदा श्यामापि मापितमापित-नवर-नवरमणीय-कृष्णाङ्गसङ्ग-सङ्गत-पारभाग्यापारभाग्याम्भोधिमात्मानमेव जानती न तीव्रं किमपि पप्रच्छ ॥८२॥

श्यामां कीदृशीम् ? विभया वर्षाम् । मापितं मानं मा प्रमा, तामापितम् । नवरं केवलम्, नवरमनीयस्य कृष्णस्याङ्ग-सङ्गात् सङ्गतं मिलितं पारभाग्यं परभागो यया सः, चातुर्वर्ण्यादित्वात् स्वार्थे ष्ण्यञ्, न तीव्रं कोमलम् इत्य् अर्थः ॥८२॥

**
“अयि! कस्मादकस्मादस्मदालोकेन लोकेन नानुभूतां भूताण्डवकारिणीमिव दशां वधत्या विलक्षण-लक्षणयापत्रपया कलाकलापविचक्षणे! चक्षणे तव हृदयम् ॥**

अस्मद् आलोकेन सतैवापत्रपया लज्जया तव हृदयं चक्षणे, क्षणु हिंसायाम् हिंसायां ग्रस्तो बभूवेत्य् अर्थः । कीदृशा ? भुवः पृथ्वीस्थलोक-मात्रस्यैव ताण्डवकारिणीं हर्ष-नाट्यकारयित्रीम् इव दशां दधत्या धारयन्त्या । तत्र हेतुर्-गर्भ-सम्बोधनम्—हे कलाकलाप-विचक्षणे ! इति ॥

किञ्च—

अलसवलितमङ्गं स्वावसादं व्यनक्ति, ग्लपितमिव मृणालीकन्दलं दोर्द्वयं ते । दशनवसनमेतन्नीरसं गण्डपाली, लुलितललितपत्रा प्रक्रमः कस्तवैषः ॥

नीरसं नीरागम् ॥

किञ्च—

अभिनवलतिकेव वातरुग्णा, नवनलिनीव मतङ्गजेन भुग्ना । मृदुतरनवमालिकेव धूता, मदमधुपेन विलक्ष्यसे त्वमद्य ॥

वातरुग्णेत्यङ्ग-विन्यासानाम् अस्तव्यस्तता म्लानता च । मतङ्गजेन भुग्नेति दशन-नखक्षतादि । मद-मधुपेन धूतेति स्वनायक-साक्षात् सम्भोग-कौतुकं सूचितम् ॥

**अपि चिरमभिलष्यमाण एव, प्रणयिनि कोऽपि सुदुर्लभो हि लब्धः । ** अथ कथमियमन्यथास्मदादेः, फलितवती सखि भाग्यकल्पवल्ली” ॥८३॥

फलितवतीति कृष्णेन तव सम्भोग एव तस्याः फलम्, तच् चानुभव-साक्षात्कारित्वात् प्रत्यक्षं जातम् इत्य् अर्थः । कल्पवल्लीत्य् अखिल-वाञ्छित-पूरणात् ॥८३॥

इति प्रणयरंहसादरसादर-साहससाधुवादेन पृच्छ्यमानाच्छ्यमानाय्य मनसि न सिद्धकपटा पटान्तेन मुखमावृत्य सा दरविस्मितं सादरविस्मितं निजगाद—“श्यामे! Kइं ब्रवीमि—

**क्वाहं स्थिता क्व चलिता क्व च वा स पन्था, नीतास्मि केन नलिनाक्षि तदीयपार्श्वम् । ** किं वा बभूव मयि तत्र समेतवत्यां, जानाम्यहं यदि तदा भवती न वेत्ति ॥

फलितवतीति कृष्णेन तव सम्भोग एव तस्याः फलम्, तच् चानुभव-साक्षात्कारित्वात् प्रत्यक्षं जातम् इत्य् अर्थः । कल्पवल्लीत्य् अखिल-वाञ्छित-पूरणात् ॥

किञ्च—

**व्यापारो मनसश्च यत्र न गतः सम्भावनाभावतो ** **यत् स्वप्नः किमयेन्द्रजालमथवा भ्रान्तिः सुदीर्घैव मे । ** तत् किं ह्लादि किमार्तिदं किमु भयं किंवा न तन्नापि तच् चेतो विद्रुतिकारकं च मनसो मूर्च्छाकरं चाभवत्” ॥८४॥

असम्भावित-वस्तु-दर्शन-लिङ्गेनाह—स्वप्न इति । तस्यापि जागरण-दशानुत्पत्तिम् आशङ्क्य् आह—उन्द्र-जालम् इति । तस्यापि चिरास्थायित्वम् आशङ्क्य् आह—सुदीर्घा भ्रान्तिर् इति—तद् अतिसुरत-चेष्टितं ह्रिया स्पष्टं वक्तुम् अशक्तेः । किं ह्लादि आह्लादकम्, पौर्व-कालिक-निखिल-दुःख-प्रशमन-पूर्वक-निस्तुल-सुखदत्वेनानुभवात् । किम् आर्तिदं पीडादायि औत्तरकालिक्या महोत्कण्ठायाः कारण-भूतत्वेनाधुना विचारतो दुःख-दत्वेनैवानुभूतत्वात् । किंवा उभयम् आह्लादार्त्योर्दायकम्—तदानीम् अप्य् अपरिमित-सुखानुभव-तद् उत्कण्ठानुभवयोर् दुर्वारत्वात् । न तन् नापि तन् न ह्लादि नाप्यार्तिदञ्चेत्य् अर्थः । तदैवाप्य् उत्कण्ठा-बाहुल्येन ह्लादांशावरणात्, ह्लाद-बाहुल्येन चोत्कण्ठावरणादित्य् एवं च निर्वक्तुम् अशक्नुवती केवलम् अनुभव-मात्रम् आह—चेत इति ॥८४॥

अथ सपरिहासं हासं हासमेवाह श्यामा—“श्यामाब्जनयने! नयनेयमेतत् । तथा हि—
केली-कलाध्ययनकौशलमेकदैव, न स्यादतः किमपि नो भवती विवेद । भूयस्ततः सखि विलासगुरोः सकाशाद्-यत्नादधीष्व यदि विज्ञतमासि भूष्णुः” ॥८५॥

हासं हासं हसित्वा हसित्वा । नये नीतौ नेयं नेतुम् अर्हम्, एतद् वचनं न्याय्यम् एवेत्य् अर्थः । नो विवेद, नाज्ञासीत् । भूष्णुर् भवित्री ॥८५॥

अथ सौभाग्यसाराधिका सा राधिका सरसतरं सतरङ्ग-रङ्गवतीव किञ्चिदुवाच—

**“मातः परं सुमुखि यामि तदीय-पार्श्वं, दूरादसौ नयनवर्त्मनि वर्तनीयः । ** अध्येतु नाम भवती तत एव तत्ते, पाण्डित्यमेव मनसो रसदं मम स्यात्” ॥८६॥

सतरङ्ग-रङ्गवतीवेति श्यामा परिहास-सुधांशूदयम् उपलभ्य तस्या रङ्ग-सिन्धुर् उच्छलित इवेत्य् अर्थः । असौ नयन-वर्त्मतः सकाशान् निवर्तनीयः, ततो विलास-गुरोः सकाशात् । तत् तस्माद्-भवत्य् एवाध्येतुस्मरतु, पुनः-पुनर् आवृत्त्याभ्यस्यत्वित्य् अर्थः । इक स्मरणे इत्य् अस्य रूपम् । ततश् च विस्मरणशीलाया मम तेनापि पुनर् अपि तादवस्थाम् एव भविष्यति । अतो भवत्या मेधाविन्या एव तत्राधिकार इति भावः । ततश् च ते तवैव पाण्डित्यं मम मनसो रसदं स्यात् । सौहार्दादैक्याद् एवेति भावः ॥८६॥

तदा तदाचक्षाणायाः सपरिहसित-हसित-सित-किरण-ज्योत्स्नास्नपिते दशनवाससि ललिता ललिताक्षरं निजगाद—“उचितं चितं हि तत्रभवत्या भवत्या रसपाठोपदेशेन ॥

तत् प्रतिवचनम् आचक्षाणायाः कथयन्त्यास् तस्याः स-परिहसितं यद् धसितं परिहास-सहितं यद् धसितं हास्यं तद् एव सित-किरणश् चन्द्रस् तस्य ज्योत्स्नया स्नपिते सति दशन-वाससि अधरे ललिता निजगाद राधां प्रतीत्य् अर्थः । उचितं चितं योग्यम् एव प्रस्तुतम् इत्य् अर्थः ॥

क्ञ्च—

**शिष्यायितं प्रथममत्र यया तदीयभङ्गे प्रयातु पठितुं कथमन्यशिष्या । ** तेनानया सह कृशोदरि दीर्घमेव-मध्येतुमर्हसि विलासगुरुं तमेत्य” ॥८७॥

तदीय-भङ्गे तत्-कर्तृके भङ्गे सति स्वाधायनस्येत्य् अर्थः । अन्या चासौ शिय्या चेत्यन्यशिष्या, अनया श्यामया ॥८७॥

इत्येतस्मिन्नेव काल्ɛकालेरितां वात्यामिवागतां कटूकृताननां ननान्दरमभिवीक्ष्य सर्वासु चकितासु तासु प्रतिभा-प्रतिभासमानेव ललितैव “शिष्यायितं प्रथमम्” इत्यादि-पादत्रयानन्तरमनन्तरभसादेवम् “अध्येतुमर्हसि विधाय गुरूपसत्तिम्” इति यदा पपाठ, पाठस्वरमुपश्रुत्य सा सुखरा सुखरागमासामालोक्य वितर्कयन्ती निजगाद—“ललिते! किं शिक्षयसि?” ॥८८॥

न विद्यतेऽन्तो नाशो यस्य तथा-भूताद्-रभसाद्-भयेनापानष्ट-पाठ-स्वर-वेगादित्य् अर्थः । सुख-रातितीक्ष्ण-स्वभावा । सुख-रागं सुखा-सक्तिम् ॥८८॥

साह—“गुरूपसत्तिम्” । साप्याह—“शिष्यायितं प्रथममित्यादेः कोऽर्थः?” साह—“प्रथममनया गुरुजनेन यदुक्तं तद्गृहीत्वैव भङ्गो दत्तः । एकाकिसाध्यं न तदित्यनया सार्धं तदध्येतुमर्हसि” इत्युक्तम् ॥८९॥

गुरुजनेन हितोपदेष्टृ-श्वश्र्वादि-पुरन्ध्रीजनेन । भङ्ग इति भञ्जन-क्रियापेक्षयैव कर्म-कर्तृकत्वे क्त-प्रत्ययः ॥८९॥

साप्यथाह—“ललित् ! कथमधुना परलोकालोकाय समुद्युक्तासि?” श्यामाह—“आबाल्यमेवैषा परलोकाय समुद्युक्ता च । तत् कथमधुनेत्युच्यते?” ॥९०॥

परलोकालोकाय पर-पुरुष-दर्शनाय, परलोकाय स्व-धर्म-प्राप्य-स्वर्गादि-लोकाय, समुत् सानन्दा, युक्ता विवेकवती ॥९०॥

साह—“श्यामे! न जानासि श्यामानुरागिण्यः खल्वेताः” । श्यामाह—“अयि! सुप्रसिद्धमेवैतदाबाल्यमेवैतासां मय्यनुरागित्वम्” । साह—“श्यामे! कृष्णपक्षपातिकलाः सकलाः सर्वदैताः” । श्यामाह—“नाप्येतत्, न हि कृष्णपक्षपातिन्यः कलाः सर्वदा चित्रभास्वराः स्वरागता इव शोभन्ते” । साह—“कृष्णवर्त्मगाः किलैताः” । श्यामाह—“क्व तावदत्र कृष्णवर्र्मा, स तु कालियदमनरजन्यामेव प्रबुद्ध आसीत्” ॥९१॥

मय्य् अनुरागित्वम् इति श्यामायां मय्य् अनुरागिण्य इत्य् एव तच् छब्द-व्युत्पत्तिर् वोधिता । कृष्णस्य पक्षपातिनी कला शिल्पं यासां ताः । कृष्ण-पक्षो यः शुक्ल-पक्षेतरस् तत्पातिन्यः कलाश् चन्द्र-सम्बन्धिन्य इति कृष्ण-पक्षपाति-कला-पदस्यार्थः । सर्वदा चित्र-भास्वराश् चित्रकान्तिमय्य इति सर्वदैता इत्य् अस्यार्थः—चित्रं किर्मीर-कल्माशशवलैताश् च कर्वुरे इत्य् अमरः । स्वरेभ्यः षड्जादिभ्य आगताः कला मधुरास्फुट-ध्वनय इव ते यथा सर्वदा चित्र-भास्वराः शोभन्ते, तथा नेति । कृष्ण-वर्त्मगाः कृष्णस्य वर्त्मगामिन्यस् तस्मैः स्व-सम्भोगदानार्थम् इति भावः । कृष्ण-वर्त्मा वह्निस् तत्र गमनम् । अद्य कथमासां व्रवीषीतिभावः ॥९१॥

साह—“श्यामे! मां परीक्षसे? पीताम्बरानुरागिण्यो ह्येताः” । श्यामाह—“मा हठकारिण्येवं वादीः । प्रत्यक्षविरुद्धमेतत् । नीलारुणाम्बरप्रियाः खल्विमाः” । साह—“श्यामे! व्रजराजतनये श्रद्धाबद्धा बहुधैवैताः प्रतीयन्ताम्” । श्यामाह—“अत्यलीकमेवैतत् । व्रजस्थ-राजतस्य नये कथममूः श्रद्धालवः?” ॥९२॥

व्रजराजस्य तनये कृष्णे रमणार्थं या श्रद्धा तया वद्धाः । व्रजस्थेति—व्रजस्य राजतम्, रजतस्य विकारः समूहो वा तस्य नये ग्रहणे ॥९२॥

साह—“हरिणापहृतमानसा ह्यताः” । श्यामाह—“क्व तावदत्र हरिणः । तद्वाचाले! वाचा लेलिह्यसे वैदग्ध्यम्, न तु ते तदस्ति, तद्विरम विरम” ॥९३॥

हे वाचाले ! वाचा वाक्येन, तद्-वैदग्ध्यम् ॥९३॥

साह—“श्यामे! तवैव वैदग्धी दग्धीकरोति मे मनः । तत् कथय कथमपरापराहर्विलक्षणलक्षणमस्या वपुरिदं राधायाः? ॥

अपरस्माद् अपरस्माद् अह्नो विलक्षणं लक्षणं यस्य तत् ॥

श्यामाह—

सौभाग्यदं मृगदृशां शशिखण्डमौलि, यद्दैवतं प्रथमवर्णविहीनमेकम् । आराधनाय किल तस्य धृतव्रतेयं, म्लानं ततः कुसुमकोमलमङ्गमस्याः” ॥९४॥

शशिनः खण्डं मौलौ यस्य तत् । कीदृशम् ? प्रथं चन्द्र-शेखरत्वेन ख्यातम् । अवर्ण आक्षेपस् तेन विहीनम्, अवर्ण्यक्षेपनिर्वाद इत्य् अमरः । प्रथमेन वर्णेन शकारेण विहीनम् इति वास्तवोऽर्थः ॥९४॥

साह—“क्व सा देवता?” श्यामाह—“अज्ञे! साधुना साधुना भावेन मनोमय्येव; मय्येव विश्वस्ता सती मान्यथा शङ्किष्ठाः” ॥९५॥

सा देवता, अधुना इदानीम् ॥९५॥

इत्येवं सत्येवं स रसमयः समयः समपादि यदि, तदा वदनविजितचन्द्रा चन्द्रावलिरपि निजवयस्याभिरभिनव-वयस्याभिरभिनवरागवतीभिरेव निजकलाकलापप्रख्यापनेन कृष्णाङ्गसङ्गसङ्गररङ्गमङ्गलाभ्यासमभ्यासमासाद्य साद्यमानं यदि चकार, विचकार विविध । एव तदा कुलजा-कुलजातिशीलाद्यनपेक्षयाक्षयामोदकरः कोऽपि मधुररसमयः समयमानसङ्कोचः सकलसकलकमलमुखीनां च ॥९६॥

अभिनव-वयसि कैशोरे आभिर्निज-वयस्याभिः साहाभ्यासमासाद्य निकटं प्राप्य साद्यमानं व्यज्यमानं यदि चकार, तदा कोऽप्य् अनिर्वाच्यो विविधो विचकार, विकारो रोमाञ्चाद्यनुभावोऽभूद् इत्य् अर्थः । कथम्-भूतः ? कुलजा-सम्बन्धिनां कुलादीनाम् अनपेक्षयाक्षयम् आमोदम् आनन्दं करोतीति सः । कुलादि-नैरपेक्ष्याद् एव सम्यगयमानः सङ्कोचो यत्र सः । एवं चन्द्रावलेर् यथायम् उक्तस् तथान्यासाम् अपि ज्ञातव्य इत्य् आह—सकलेति । सकलानां सर्वासाम् एव कला-सहित-कमल-मुखीनां च ॥९६॥

एवं जलदसमये रसमये रसिको रसिकोरसि कोविदः कलाकलापे स खलु व्रजपुरपुरन्दरनन्दनो रमते स्मरमते स्म ॥९७॥

उप-संहरति—स श्री-कृष्णो रसिकानां गोपीनाम् उरसि स्वयं च रसिकः, स्मरमते काम-तन्त्र-मते रमते स्म, अरमत । यतः कला-कलापे कोविदः पण्डितः ॥९७॥

ततश्च तस्मिन् श्रीकृष्ण आतिष्ठद्गु तिष्ठद्गुरुगौरवो गुरुजनान्तिकमेव तिष्ठति दिनन्दिनमायतीगवमायतीगबन्धुनिकरैः समं वनादायाति, याति स्म वर्षासमयः ॥९८॥

तत्र काल-विभागम् आह—तस्मिन् जलद-समये, आ-तिष्ठद्गु गुरु-जनान्तिकं तिष्ठति तिष्ठन्ति गावो यस्मिन् तं कालम् अभिव्याप्य, प्रातर् इत्य् अर्थः । यतस् तिष्ठद्-गुरु-गौरवस् तिष्ठन्ति गुरूणां माता-पित्रादीनां गौरवाणि स्वलालन प्रदान सम्माननादि-लक्षणानि यत्र सः । दिनं दिनं प्रति-दिनं तथा आयतीगवम्, आयत्य आगच्छन्त्यो गावो यत्र तस्मिन्न् आयतीगवम्, तिष्ठद्गु-प्रभृतित्वात् साधुत्वम् । आयत्याम् उत्तरकाले आयति-दीर्घा वा या ईर्लक्ष्मीस् तां गच्छन्तीति तथा ते च बन्धु-निकराश् च तैः समं सहायाति गृहम्, आयतिस् तु स्त्रियां दैर्घ्ये आचारागामि-कालयोः इति मेदिनी । तेन मध्याह्न-निशिथादौ रमणम् इति ॥९८॥

ततश्चैवं विलसति सति सकलसौभगवति भगवति निजसेवोपरमे परमे दुःखेऽदुः खे भङ्गमिव समन्तत एव जलदाः ॥९९॥

निज-सेवाया उपरमे सति परमे दुःखे जाते खे आकाशे भङ्गमिवादुर्दत्तवन्तः ॥९९॥

ततश्चासन्नेऽसन्ने निजसेवासमये “मयेह सेवनीयः” इत्युत्कण्ठयोत्कमना इव विकसदद्वदनसारसा सा रसादिव विमलकासारा कासारापायसीमन्तितजम्बालाबालामोदमेदुरहंसहंसका कलकूजित-सारस-सारसना दलदिन्दीवरवरलोचना शरवधूः समुपससाद ॥१००॥

ततश् च निज-सेवा-समये आसन्ने सति । कीदृशे ? असन्नेऽविशीर्णे स श्री-कृष्णो मया इह वृन्दावने सेवनीयः स्व-समृद्ध्या सन्तोषणीय इत्य् उत्कण्ठयोत्कम् उत्कृष्टं कं सुखं यत्र तथा-भूतं मनो यस्याः सेव शरद्-वधूः सम् उपससाद । कीदृशी ? विकसद्-वदन-सारसं मुख-पद्मं यस्याः सा, पक्षे, विकसद् वदनाः सारसाः पक्षिणो यस्यां सा । सा इति छेदः, रसाद् अनुरागाद् इव विमलो निर्मलः कस्य सुखस्यासारो यस्यां सा, पक्षे, रसं वर्षा-वृष्टं जलं प्राप्य् एव वीन् पक्षिणो मलन्ति धारयन्तीति तथा-भूताः कासाराः सरांसि यस्यां सा, मल मल्ल धारणे पचाद्यच् । कस्य जलस्यारारापाये सति आसारांश-नाशे वा सति सीमन्तितः सीमन्ती-भूतो जम्बालो पङ्को यस्याः सा, अवालैः प्रौढैर् आमोदैर् मेदुराः स्निग्धा हंसा एव हंसकः पाद-कटको यस्याः सा, कलं कूजितं येषां ते सारसा एव सारसनं काञ्चि यस्याः सा ॥१००॥

ततश्च प्रक्षालितघनजम्बालमिव नभस्तलम्, सुजनमनांसीव सुप्रसन्नानि सलिलानि, उत्तमश्लोकश्लोका इव लब्धविकाशाः काशाः, निशानिशात इव निशाकरः, कृतोद्वर्तनानीव नक्षत्राणि, विकसितसप्तच्छदामोदमेदुरा वनश्रीः, अपगतमानकालुष्याः प्रमदा इव क्रमह्रसत्कमला धवला बलाहकततीः, सितसूक्ष्मसिचयविततीविततीकृत्येव वर्षासारसारस्यापसारणे वितते द्योतते धोरमणी तपस्विनी ॥१०१॥

उत्तम-श्लोकस्य भागवतः श्लोका यशांसि, निशया शाण-स्थानीयया निशातस् तेजित इव, निशित-क्ष्णुत-शातानि तेजिते इत्य् अमरः । सप्तच्छदः छाइत्तन इति ख्यातः, शतपना इति पाश्चात्त्ये च ख्यातः । द्यौर् एव रमणी तपस्विनी सती द्योतते । कदा ? वर्षाभवेनासारेण सारस्य सरसतैव सरागता तस्यापसारणे वितते विस्तृते सति, शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः इत्य् अमरः । वीत-रागोचितं परिधानीयम् आह—बलाहकततीर् मेघ-श्रेणीर् एव सित-सूक्ष्म-वस्त्रततीर् वितती-कृत्य विस्तार्य । बलाहकततीः कथम्भूताः ? गतमान-क्रुर्याः प्रमदा इव क्रमेण ह्रसन्ति ह्रासवन्ति कमलानि मुह-रोधक-मालिन्यानि जलानि च यासां ताः, सुख-शिर्ष-जलेषु कम् इति विश्वः, सलिलं कमलम् जलम् इत्य् अमरः ॥१०१॥

अपि च, तरङ्गिणीनां रङ्गिणीनां वर्षासखीविरहतो हतोदकप्राचुर्यादप्यकुल्यानां कुल्यानां श्रेणय इव बहिरवलोक्यन्ते पुलिनवीथयः, किंवा स्वच्छतयैव तासां बहिः प्रकाशिताः शुद्धा हृद्वृत्तय इव ॥१०२॥

तरङ्गिणीनां नदीनां हतं यद् उदकस्य प्राचुर्यं तस्माद् धेतोर् अप्य् अकुल्यानां क्षुद्र-नदीत्वम् अप्राप्तानाम्, कुल्याल्पा कृत्रिमा सरित् इत्य् अमरः । पुलिन-वीथयः कुल्यानां श्रेणय इव अस्थ्नां समूह इव, कीकसं कुल्यम् अस्थि च इत्य् अमरः पुलिनानां श्वेतिम्ना कदाचिद् अश्लीलत्वं व्यज्यतेति पुनर् अन्यथोत्प्रेक्षते—किं वेति ॥१०२॥

सुललितलेखानां लेखानां च मनोहराणां चरतामनुकूलमनुकूलगिरां गिरां देव्या च कथयितुमशक्यश्रियां मदकलकलहंस-सारसारस-सरस-मनोरथ-रथ-चरण-कुरर-कह्वकारण्डवादीनां चरणचिह्नचित्रितानि सैकतानि, अमल-कमल-कह्लार-हल्लक-हल्लीशकोपदेश-पेशलस्तरलतरललित-तरङ्ग-शीकर-निकर-निर्भर-मन्थरो मन्थरो जनमनसामज-नमन-सामग्रीसमवेत इव समुपसन्नसमीरणः समीरणश्चेति ॥१०३॥

सुललिता लेखा श्रेणी चञ्चु-चरण-कल्पिता रेखा वा येषां तेषां लेखानां च देवानाम् अपि, दिविषदो लेखाः इत्य् अमरः । अनुकूलं कूले कूले चरताम्, मदकला मत्ताः कल-हंसाश् च साराः श्रेष्ठाः सारसाश् च सरसो मनोरथो येषां ते, रथ-चरणाश् चक्रवाकाश् च निकृष्टत्वाद् अप्राप्त-विशेषणाः कुरर् आदयश् च तेषाम्, कह्वो वकः, कारण्डवस् तद्-भेदः । निर्मलानां कमलादीनां हल्लीशकस्य नाट्य-शिषेष्योपदेशे पेशलो दक्षः । अतएव तरलतराणां ललित-तरङ्गाणां शिकर-निकरस्य निःशेषभरेण मन्थरो मन्द-गतिः । अतएव सौगन्ध्य-शैत्यम् आन्द्यैर् जनमनसां मन्थं मन्थनं राति ददातीति सः, अजस्य श्री-कृष्णस्य नमनं नमस्कारस् तस्य या सामग्री रिक्त-हस्तेन वन्दनम् अयुक्तम् इति हल्लीशकम् उपदिश्य लव्धा दक्षिणा-रूपा पराग-शीकरादि तया समवेत इव । अतएव समुपसन्नं सम्यगीरणं प्रवेशो यस्य सः ॥१०३॥

तत्र सकलविलक्षणलक्षणसमेतायामुपेतायामुपेत्य वनपरिसरं विरतजलधरागमं रागमञ्जुल- मेदुरादुरालोकलोकरमणीयमहसारस्यदेन स्यदेन धेनूनामनुसृतिमासाद्य सह सहचरैः खेलता लतातरुवीथिवीथिषु सर्वदाबलाकामदेन कामदेन विलोलविकसितविमलपरिमलप्रियकमालेन मदकलकलापिकलापिबर्हभूषणेन कनकनिकषकषणवसनविद्युता विद्युताभिरामेण मुरलीध्वनि-स्तनित-परम्परया परया मदमयूरमण्डलीमभितो नर्तयतार्तयता च खगमृगावलिं निर्झरयता रयतादवस्थ्येन गिरिकन्दरतो दरतोयं सरसयतायतायतेन सारस्येन तरुलताः सरितां च स्थगितप्रवाहतयाहतया जातपूरेणाम्बुपूरेणाम्बुजवनीमुत्सारयता सारयता च पुलिनवीथीः, परितश्च श्यामलतया श्यामलतया हरितो निवृत्त्यागतेनेव पुनरपि जलदसमयेन रसमयेन रतिप्रदेन व्रजमृगनयनापाङ्गशरदितेन शरदि तेन ऋतुसन्धिरिव कारयामासे ॥१०४॥

अथ तत्र भगवतो विलासं वर्णयिष्यन् तत्-सम्बन्धेन शरदोऽपि शोभा-वैलक्षण्यम् आह—तत्रेति । तत्र शरदि वन-परिसरम् उपेत्य खेलता तेन श्री-कृष्णेन ऋत्वोर् वर्षा-शरदोः सन्धिर् इव कारयामास इत्य् अन्वयः । उपेत्यायाम् उपसन्नायाम्, स्यादेन वेगेन । कथम्-भूतेन ? रागेणानुरागेण मञ्जुलानां मेदुराणां स्निग्धानाम् अतएवादुरालोकानाम् अदुर्दशानां तन् निकटवर्तिनाम् इत्य् अर्थः । तादृश-लोकानां रमणीयो यो महस् तादृश-दर्शनोत्सवस् तेन सारस्यदायिना । अनुसृतिम् अनुगतिम् आसाद्य प्राप्य । लता-तरूणां वीथयः श्रेणयस् तासां वीथिषु पदवीषु । वर्षा-लक्षण-व्यक्त्यर्थं श्री-कृष्णं जलद-समय-रूपत्वेन विशिनष्टि । सर्वदावलानां रमणीनां कामदेन कन्दर्प-समर्पकेण, पक्षे, वलाकाया वक-पङ्क्तेर् मदो मत्तता यतस् तेन कामदेन सुखदेन, पक्षे, कामोद्दीपकेन । प्रियकमाला कदम्ब-स्रक् कदम्ब-पङ्क्तिश् च । मदकला मत्ताश् च ते कलां नृत्यादि-वैदग्धीम् आप्तुं प्राप्तुं शीलं येषां तथा-भूताश् च ये कलापिनस् तेषां वर्हं शिखण्डो भूषणं शिरोऽवतंसो यस्य तेन, पक्षे, तेषां वर्हं भूषयतीति तेन—वर्षास्वेव तच्छोभोदयात् । कनक-निकषं निकष-परीक्षितं स्वर्ण कषति स्व-शोभया तिरस्करोतीति तद् वसनम् एव विद्युद्-यत्र तेन । विशिष्टया द्युता दीप्त्याभिरामेण । स्तनितं मेघ-गर्जनम्, आर्तयता मुहुर् आस्वादने-नाप्य् अतृप्तं कुर्वता गिरिकन्दरतः प्रसृतं दरतोयम् अल्पजलम् अपि । रयस्य वेगस्य तादवस्थत्वं यथा वेग आगतस् तथैव स्थितः, न तु प्रसृत इति तद् अवस्थत्वं निस्पन्दत्वम् इत्य् अर्थः । तेन हेतुना निर्झरयता निर्झरं कुर्वता, जाड्येन परितः प्रसरणाभावात्, पर्वतात् स्रुत्वा एकत्र स्थिते बहुजले निर्झरः इत्य् अमर-टीका, आयतायतेन दीर्घ-दीर्घेन सारस्येन द्रौत्य-परस्परयेत्य् अर्थः । सरितां नदीनां स्थगित-प्रवाहतया हेतुना परितः प्रसरणाभावाद् अम्बु-पुरेण पूर्वतः प्रसृत-जल-प्रवाहेण जातः पूरः पूरणं तेनाम्बुजवनीमुत्सारयता जल-वृद्ध्य् अनुसारेण वर्धनादुर्ध्वमुत्थापयतेत्य् अर्थः । अहतयेति स्थगित-प्रवाहतयेत्यस्य विशेषणम्, अपरास् तयेत्य् अर्थः । पुलिन-वीथीश् च सारयता जल-वृद्ध्यैव लुप्ताः कुर्वतेत्य् अर्थः । सृ गतौ ण्यन्तः । गतत्वम् अत्र लुप्तत्वम् । सर्वत्रैव मुरली-ध्वनिस् तनितपरस्परयेत्य् अयं हेतुर् अनुवर्त्यः । वर्षा-लाक्षणं च स्पष्टम् । श्यामलतया निजस्यामलिम्ना परितश् च हरितः सर्वा दिशः श्यामलयता श्यमल-वर्णाः कुर्वता । ततश् च जलद-समयेन निवृत्यापि पुनर् आगतेनेवेत्य् उत्प्रेक्षा व्रजस्य मृग-नयनानां हरिणाक्षीणाम् अपाङ्गशरैर्दितेन खण्डितेन ॥१०४॥

अथ कस्मिन्नपि दिवसे—

**चिकुरनिकरचञ्चच्चारुबर्हावतंसः, श्रवसि दधदुदेजत्कुण्डले कर्णिकारम् । ** कनककपिशवासा वैजयन्तीं दधानो, न्यविशत नटराजश्रीः स वृन्दावनान्तः ॥

वेणु-वादन-विलासोचित-वेशं तं वर्णयति—चिकुर-निकरेति । चूडा-सूचनम्, [१३९श श्लो] चूडा-चुम्बित-चन्द्रकौ इति वक्षते च । वैजयन्तीं पञ्च-वर्णमयीं मालाम् ॥

चरणकमलचिह्नैरङ्कुशाम्भोज-वज्र-प्रभृतिभिरतिचित्रैश्चित्रयन् क्षौणिवक्षः । अधरकिसलयाग्रे वेणुमाधाय धीरं, व्यतनुत शरदर्हं मालवश्रीप्रगानम् ॥

धीरम् अचपलम्, श्लेषेण वेणोर् अपि तच्छिष्यतयैव गाने पाण्डित्यम् इव जातम् इत्य् उत्प्रेक्षा च व्यञ्जिता ॥

किञ्च— बिम्बाधरारुणकराङ्गुलिकान्तिपूरैः, पूर्णोदरान्तविवरेण बहिः सरद्भिः । सा मालवश्रियमिव प्रतिलङ्घ्य कामं, रागावलीं तनुमतीं वमतीव वंशी ॥

विम्बाधरस्यारुणकराङ्गुलीनां च कान्ति-प्रबाहैः स्वयं पूर्णा सती सा वंशी उदरस्यान्तर् विवरेण तत्र मातुमसम्भवाद् इव बहिः प्रसरद्भिस् तैर्मालवश्रियं प्रस्तुतम् एक-मात्रं रागं प्रतिलङ्घ्येव कामं यथेष्टं रागावलीं राग-श्रेणीं तनुमतीं मुर्तिमतीं सतीं वमतीव ॥

किञ्च—

स्फुरताधरपल्लवेन मन्दं, विकसद्भिर्दशनांशुभिः स्मितेन । रमणीमुखसौभगं प्रपेदे, मुरलीरन्ध्रमनेन चुम्ब्यमानम् ॥१०५॥

मुरल्या रन्द्रम्, अनेन श्री-कृष्णेन चुम्ब्यमानं सत् रमण्या मुखस्य सौभगं प्रपेदे प्राप । तत्र कृष्ण-निष्ठम् अनुभाव-सारूप्यम् एव लिङ्गम् आह—स्फुरतेत्यादि ॥१०५॥

किञ्च, येयं मुरली—

**सरन्ध्रा नीरन्ध्रा भवति मुखरागैर्मधुपतेः ** **कठोरा सारस्यं गमयति कठोरान्तरमपि । ** अतूष्णीका तूष्णीकयति मृग-पक्षि-प्रभृतिकं स्वयं वंशे जाता विकलयति सद्वंशजवधूः ॥

विकलयति व्याकुलीक्-करोति ॥

किञ्च—

स्वयं शून्याप्यन्तर्बहु वहति रागव्यतिकरं, **दधात्येकं पर्व प्रकटयति पर्वाणि शतशः । ** कलान् धत्ते रम्यान् विकलयति सर्वं जगदहो मुरारेर्वंशीयं जडयति समुल्लासयति च ॥

कलान् मधुरास्फुट-नादान् ॥

किञ्च—

कलो यस्याः सूक्ष्मो विलसति विसारी त्रिभुवने **विशत्यन्तः-श्रोत्रं सकलतनुपीडां रचयति । ** **रसं नानाकारं सहजमधुरोऽप्येष तनुते ** कदाचित् पीयूषं वितरति कदाचिद्विषमपि ॥

नानाकारं कान्तादीनां यथास्वं स्थायिभावानुगतं पीयूषं संयोगे, विषं विच्छेदे ॥

**अम्भः स्तम्भयति द्रुतं द्रवयति द्रागद्रिमद्रिं द्रवन् शुष्कानप्यवनीरुहः किसलयत्यामूलमुन्मूलितान् । ** ब्रह्मानन्दलयं गतानपि मुनीनुच्चैः समुच्चाटय त्याश्चर्यस्य निधानमेष जयति श्रीकृष्णवेणुध्वनिः ॥१०६॥

किं च, धर्म-विपर्ययवत्त्वेन वस्तुजातम् अनुभावयतीत्य् आह—अम्भ इति । स्तम्भयतीति स्तम्भोऽद्रि-धर्मः, अद्रिमद्रिं प्रति-पर्वतं द्रवन् गच्छन् सन्, द्रवयतीति द्रौत्य अम्भो-दर्मः—इत्य् एवम् ॥१०६॥

तमास्वाद्यस्वाद्यमास्वाद्य माद्यन्त इव द्यन्त इव सकलसन्तापं स्थावरतामापुरस्थावराः पुरस्था वराः सीमन्तिन्यश्च गणशोऽगणशोभाभरनिर्व्यूढानुरागपरभागपरभागधेयधेयसौशील्याः परस्परं समवासनाः समवासनाथित-परम-सौहृदा हृदा परिरभ्य रभ्यमाणमानसविकारास्तमेव वंशीकलमुद्दिश्य मुद्दिश्यमानकलपदाः पदार्थभूत-श्रीकृष्णगुणगणगणनकलया कलयामासुर्दिनसमापनम् ॥
तथा हि—

किं ब्रूमोऽक्षिमतोऽक्षिसौभगमहो यद्राम-दामोदरौ वृन्दारण्यविहारिणावभवतां गोचारणे गोचरौ । स्निग्धापाङ्गतरङ्गरिङ्गितकृपातुङ्गीकृतानन्दखू वेणुध्वानविधानधूनितधराधैर्यावहार्यश्रियौ ॥

तं वेणु-ध्वनिम्, आस्वाद्य-स्वाद्यं आस्वादेषु मध्ये सुष्ठु आद्यं मुख्यम् आस्वाद्य तन् माधुर्यम् अनुभूय माद्यन्त इवानन्दमत्ता भवन्त इव, अतव सकल-सन्तापं द्यन्त इव खण्डयन्त इव, अस्थावराः पक्षि-मृगादयः स्थावरतां तदीय-दाड्य-धर्मम् आपुः प्रापुः । तथा पुरस्था व्रज-पुरे स्थिता वराः श्रेष्ठाः सीमन्तिन्यः सौन्दर्यस् तु गणशः प्रति-यूथम् एवागणोऽगण्यः शोभाभवो यत्र तद्-यथा स्यात् तथा, निःशेषेण व्यूढो योऽनुराग-परभागः प्रेमोत्कर्षः, ततएव यत् परं श्रेष्ठं भागधेयं भाग्यं तस्माद् एव धेयं धारणार्हं सौशील्यं यासां ताः । समवासनास् तुल्यवासनाः, अतएव परस्पर-रोचक-स्वभावत्वाद् एव समवासा एकस्थानास्थितयश् च ताः । नाथितं प्रार्थितं परम-सौहृदम्न्योन्यं याभिस् तथा-भूताश् चेति ताः । मुदानन्देन दिश्यमानानि निर्दिश्यमानानि कलानि मधुराणि पदानि किं व्रूमः इत्यादि सुप् तिङन्त-वृन्दानि याभिस् ताः कलयामासूश् चक्रुः ॥

**चूडाचुम्बितचन्द्रकौ विलसितावालोलया मालया दीव्यद्दिव्यतमालपत्ररचनावत्युज्ज्वलौ धातुभिः । ** प्रत्यङ्गं कृतमण्डनौ स्तवकिभिश्चित्रैर्लताखण्डकै स्तन्वाते नयनोत्सवं नटवरौ रङ्गप्रविष्टाविव ॥

तमाल-पत्रं तिलकम्, धातुभिर् मनः-शिलादिभिः, तथा [भा पु १०-२१-८] चूत-प्रवाल इति ॥

**धन्या धयन्ति मुखपङ्कजमस्य दृग्भ्यां, चुम्बन्ति तत् किमपि धन्यतरास्त एके । ** ते नाम के मुरलिका-परिपीतशेषं, येऽस्याधरं सुमुखि धन्यतमाः पिबन्ति ॥

अन्याः प्रकटम् एवोत्कण्ठमानाः निःशङ्का एवाहुः—अस्य श्री-कृष्णस्य, धयन्ति पिवन्ति दृग्भ्यां दूरत एव पश्यन्ति-मात्रम् इत्य् अर्थः—तन् मुख-पङ्कजं चुम्बन्ति दृग्भ्याम् इत्य् अस्याननुवृत्तेः, न तु स्व-मुखेनैवेत्य् अर्थः । एके मुख्या जनास् ते ते नाम के इति न तेषां सौभाग्यं वक्तुं शक्नोमीत्य् अर्थः । हे सुमुखि ! सखि ! इति त्वदादिका वयं शोभन-मुख-धारिण्योऽपि तद् अप्राप्त्या विफल-मुख्य एवेति भावः ॥

**धन्यासि भो मुरलि यत् परिपीयमाना, श्यामेन तद्दशनचन्द्रिकयासि दिग्धा । ** स्निग्धा सती मणितवत् कलकूजितानि, सन्तन्वती भुवनमुत्तरलीकरोषि ॥१०७॥

ननु शश्वद्-विहारिणि ! प्रति-दिनम् एव तेन कान्तेन तथा दिव्यन्ति तर्हि त्वम् एव धन्यतमासीति ? तथाह—तत्रानुराग-पौढिम्ना तस्य मुहुर् अनुभूतत्वेऽप्य् अननुभूतत्वम् अननेनालीकवादिनि ! कदा मे तथा सौभाग्यं जातम् इति तत्रौत्सुकाम् एव व्यञ्जयन्ती तत्-सम्बन्धवतीं मूरलीम् एव सम्बोध्य स्तौति—धन्यासीति । मणितं सुरत-ध्वनिः ॥

तेषां वा दशनानां किमाभिरूप्यं निरूपयामः, तथा हि—

**पापच्यमानदरदाडिमबीजराजी, राजीवमध्यमयि चेदुररीकरोति । ** इन्दूदरं विशति चेत् कुरुविन्द-पङ्क्तिर्दन्तावलिः किल तदस्य तुलां बिभर्ति ॥

दशन-चन्द्रिकयासि दिग्धा इत्य् अनुस्मृतं तद् दशन-सौन्दर्यं विशेषेणाह—तेषां वेति ॥

**अत्यन्तसाहसवती मुरली यदेषा, कृष्णाधरं पिबति यः परकीयपेयः । ** किं सौभगं तदनयातनि येन रत्नं, यत्नं विनापि पुरतः स्वयमेति यस्याः ॥

अथ तत्र तस्यै काचिदीर्ष्यन्तीव तत्-सौभाग्यम् अभिनन्दति—अत्यन्तेति । यः कृष्णाधारः परकीयपेयः साजात्येन गोपिकानां एव पानार्ह इत्य् अर्थः, अतनि व्यस्तारि । तथा च [भा पु १०-२१-९] गोप्यः किम् अचरदयम् इत्यादि ॥

यत्पीतशेषरसशीकरसम्प्रयोगान्नद्यः प्रफुल्लकमलावलिलोमहर्षाः । स्तभनन्ति रुद्धतरसस्तरवः प्रसून-माध्वीकलोचनजलाः परितो रुदन्ति ॥

यस्याः पीत-शेषो यो रसस् तस्य शीकरस्यापि सम्प्रयोगात् मुरली-वादनानन्तर-स्नानावगाहनादिभिर् अधरे प्रवाह-संयोगात् रुद्धत-रसो रुद्ध-वेगास् तरवस् तत् तत्तीरस्थास् तज् जलं मूल-द्वारेणाकर्षन्तः परम्परया तत्-प्राप्त्य् अभिमानवन्त इति भावः । तथा च [भा पु १०-२१-९] यद् अवशिष्ट-रसम् इत्यादि ॥

**धन्या जयत्ययि मही महिता महिम्ना, कृष्णस्य यच्चरणचिह्न-विचित्रवक्षाः । ** वंशीरवामृतरसैः सरसान्तरेव, याजस्रमेव यवसाङ्कुररोमहर्षा ॥

यस्याः पीत-शेषो यो रसस् तस्य शीकरस्यापि सम्प्रयोगात् मुरली-वादनानन्तर-स्नानावगाहनादिभिर् अधरे प्रवाह-संयोगात् रुद्धत-रसो रुद्ध-वेगास् तरवस् तत् तत्तीरस्थास् तज् जलं मूल-द्वारेणाकर्षन्तः परम्परया तत्-प्राप्त्य् अभिमानवन्त इति भावः । तथा च [भा पु १०-२१-९] यद् अवशिष्ट-रसम् इत्यादि ॥

वृन्दावनस्य महिमा न हि मादृशीनां, गम्यो यदत्र मुरभिन्मुरलीरवेण । स्वान्तं विलास्य मृदुलास्यमयुर्मयूराः, स्पन्दं जहुस्तरुलता मरुता हताश्च ॥

मुरभिदः श्री-कृष्णस्य मुदिराकृतेर् मुरली-नाद-रूप-गर्जनेनाषुः प्रापुः, मरुताहताश् चालिता अपि, तथा च [भा पु १०-२१-१०] वृन्दावनं सखि भुवः इति । ततश् च अद्रिसाम्बवरतान्य-समस्त-सत्वम् इति दृष्ट्या तरु-लता-शब्देन तत्रस्था विहगादयो लक्ष्यन्त इति ॥

**किं दुश्चरं चरितमालि तपो मृगीभिः, पश्यन्ति याः समुरलीकलमास्यमस्य । ** अक्षणोः प्रकामकमनीयगुणत्वमासां, मा साम्प्रतं भवति सम्प्रति सम्प्रतीहि ॥

अन्या स्व-दर्शनौत्क्यं सक्याम् अभिव्यञ्जयन्त्य् आह—किम् इति । मासाम्प्रतं नायोग्यं सम्प्रतीदानीम् एव सम्प्रतीहि सम्यक् प्रतीतिं याहि । तथाहि [भा पु १०-२१-११] धन्याः स्म मूढ-गतयः इति ॥

**सौभाग्यभागियमहो सखि कृष्णसारी, सारीकरोति नयने सह-कृष्णसारा । ** वंशीनिनादमकरन्दभरं दधानं, कृष्णास्यपङ्कजमशङ्कितमापिबन्ती ॥

तास्वेव काञ्चिन् निकटवर्तिनीम् आलक्ष्योक्तपेषन्यायेनाह—सारी-करोतीति च्वि-प्रत्ययात्, इतः-पुर्वं नयने श्रेष्ठे नाभूतां इत्य् अर्थः । सह-कृष्णसारेति कृष्ण एव सारो यस्येत्य् अन्वर्थ-नामत्वं तस्योचितम् एव, मत्-पतिस् तु तद् विपरीत-धर्मातिदुष्टो वेति भावः । अशङ्कितम् इति अहं तु सायं व्रजागतम् अपि तं पत्यादि-शङ्कया न सम्यक् पश्यामीति भावः ॥

**धन्या विमानवनिता जनितानुरागा, द्रागात्तगाढरतिभिः पतिभिः परीताः । ** लीलाकलक्वणितवेणुमवेक्ष्य कृष्णं, धैर्यादथावरुरुहुर्मुमुहुर्मुहुश्च ॥

न च स्वपति-सहिताया एव मृग्याः कृष्णेऽनुरागः पशुत्वेन विशेष-विवेकाभाद् इति वाच्यम्, यतः के वा विदग्ध-शिरोमणयोऽपि जनाः कृष्णे नानुरज्यन्तीत्य् अप्रस्तुत-प्रशंसया काचिद् आह—धन्येति । विमान-वरिता विमान-चारिण्यो देवाङ्गनाः, श्लेषेण तासाम् अपि मानं वेणुनादो लुम्पेद् एव, अस्माकन्तु का कथेति भावः । जनितानुरागा इति ता एव वनिता-पद-वाच्यताम् अर्हन्ति, नान्या इति भावः । वनिता जनितात्य् अर्थानुरागायां च योषिति इत्य् अभिधानात् । तथा च [भा पु १०-२१-१२] कृष्णं निरीक्ष्य इति ॥

**विस्रंसमानचिकुराः श्लथमाननीव्यो, देव्यो धृतिव्यसनतो निखिला दिवीव । ** आरिप्स्यमानममरद्रुमपुष्पवर्षं, विस्मृत्य हन्त ववृषुर्नयनाम्भ एव ॥

दिवीव नभसि वर्तमाना एव ॥

**अर्धावलीढयवसाङ्कुरशोभिदन्ताः, सोत्कण्ठमुन्मिषितनेत्रमुदीर्णकर्णम् । ** चित्रार्पिता इव पतन्तमिवामृतौघं, वेणुध्वनिं श्रुतिपुटे गमयन्ति गावः ॥

अन्या तु वेणु-माधुर्यं प्राणि-मात्राणाम् अपि मुदा चित्ताकर्षकम् इति वदन्ती प्रेमसामान्य-रीतिम् आलम्ब्य विजातीय-भाववतीर् अपि गास् तत्र प्रस्तौति—अर्धावलीढेति । तथा च [भा पु १०-२१-१३] गावश् च कृष्ण-मुख-निर्गत इति ॥

**चूषन्ति चूचुकमहो न न सन्त्यजन्ति, वत्सा नयन्ति न पयःकवलं गलाधः । ** वंशीकलाहृतहृदां सखि नैचिकीनां, स्नेहस्नुतस्तनरसो धरयैव पीतः ॥

किम् च, आहार-विहार-मात्र-प्रसक्तानां वत्सानाम् अपि तत्र महान् प्रमोदय इति सशीत्कारम् आह—चूषन्तीति । न चूषन्ति, न च सन्त्यजन्ति । ननु तर्हि वत्साग्रहम् अन्तरेण तन् मातरोऽपि किं प्रसवन्ति ? तत्राह—वंशीकलेति । धरयैव भूम्यैव, तथा च [भा पु १०-२१-१३] शावाः स्नुत-स्तनपयः-कवलाः इति ॥

**वंशीकलं कलयतोऽस्य निपीय दृग्भ्यां, रूपामृतं पुनरमुष्य रसानुभूत्या । ** ध्यायन्ति मीलितदृशः सखि बद्धमौनं, बद्धासनं मुनय एव पतत्त्रिणोऽमी ॥

अपरा च तिरश्चां मध्योप्य् अतिचपलानां पक्षिणाम् अपि महा-धीर-मुख्य-चिह्नम् आलक्ष्य किञ्चिद् अनुमिमाना सविस्मयम् आह—वंशी-कलम् इति । कलयतो धारयतः, अस्य कृष्णस्य, तथा च [भा पु १०-२१-१४] प्रायो वताम्ब मुनयः इति ॥

**न स्पन्दते सखि न रौति न वीक्षतेऽन्यन्नान्यच्छृणोति न जिघत्सति पक्षिसङ्घः । ** रोमाञ्चवानिव मुदा गरुतं धुनानो, वंशीकलास्वदनमेव परं करोति ॥

प्रेमानुभाव-विशेषस्यैव मुनित्व-गमकताम् अप्य् आह—न स्पन्दत इति । स्तम्भाख्योऽनुभाव एव समाधि-लक्षण-गमकः, न रौतीत्यादिभिश् चतुर्भिर् विषयान्तरारोचकत्वम् एव वागादीन्द्रिय-प्रत्याहारज्ञापकम्, रोमाञ्चवान् इत्य् उभयत्र भक्ति-सूचकम्, तद्-राहित्ये सति मुनित्वस्यापि वैफल्य-ज्ञापनाय न जिघत्सति, न भोक्तुम् इच्छति । गरुतं पक्षम् ॥

स्रस्ते रथाङ्गकलहंसविचित्रचेले, प्रव्यक्तसैकतनितम्बमुदीर्णफेनम् । आवर्तवर्तितघनभ्रमिभिः समीयेपस्मार एव मुरलीनिनदैर्नदीभिः ॥

तद् एवं मुरल्याः सर्वेष्व् अपि रसेष्व् अप्य् उद्दीपकत्वे शृङ्गारे त्वति-वैशिष्ट्येन तत् कथयन्ती स्वीयं भावम् एव व्याचक्षाणा काचिद् अचेतनाऽपि नदीं प्रस्तौति—स्रस्ते इति । रथाङ्गाः कलहंसाश् चैव विचित्रं चेलं परिधानीय-वस्त्रं तस्मिन् स्रस्ते सति तेषाम् अपि भाव-वैवश्येन पुलिनाद् वहिःप्रदेशान्तर्लुठनात् प्रव्यक्तं सैकतं सिकतामय-पुलिनम् एव येन तद्-यथा स्याद् एवम् । अपस्मारोऽत्र कामशराघात-जनितो व्यादि-विशेष एव समीये सम्प्राप्तः ॥

**वीचीकरैः सरसिजाञ्जलिमर्पयन्त्यः, कृष्णाङ्घ्रिपङ्कजयुगं बहुमानयन्त्यः । ** सच्छीकरैः शिशिरयन्ति रसेन वंशी-नादप्रहृष्टमनसः सखि शैवलिन्यः ॥

शैवलिन्यो नद्यः, तथा च [भा पु १०-२१-१५] नद्यस् तदा तद् उपधार्य इति ॥

**आच्छादयन् शरदशीतकरस्य तापं, छत्रायितः स्ववपुषायमचेतनोऽपि । ** संसर्पति प्रतिपथं परितः प्रसर्पन्, मैत्रीं विभावयति मेघरुचीह मेघः ॥

एवं नद्यो यथा नायिकात्वाभिमानवत्यो निज-सच्छीकरादिभिस् तस्य भूतल-गत-तापं कामयन्त्यः सेवन्ते, तथा मेघोऽपि सख्याभिमानेन नभस् तलगतं तापं शमयन् सेव्यमानो लक्ष्यते, अतः के वा तद् दास्यं न कुर्वन्ति, केवलं वयम् एव तत्र वञ्चिता इत्य् अभिव्यञ्जयन्ती काचिद् आह—आच्छादयन्न् इति । शरद-शितकरस्य शारद-सूर्यस्य मेघस्येव रुक् कान्तिर् यस्य तस्मिन्न् इति सावर्ण्यम् एव मैत्री-हेतुः, तथा जगत् ताप-शमकत्वादिकं च ज्ञेयम् । इह श्री-कृष्णे ॥

**कर्पूरपूरपरमाणुसमेन वारां, शीतेन शीकरभरेण विसारिणां यः । ** गोचारणश्रममपाकुरुतेऽनुगायम्, वंशीममुष्य घन एव निसर्गबन्धुः ॥

यः कृष्णः, अमुष्य श्री-कृष्णस्य, तथा च [भा पु १०-२१-१६] दृष्ट्वातपे इति ॥

**स्निग्धेषु शाद्वलतलेषु पदारविन्द-स्यन्दीनि वल्लभतमाकुचकुङ्कुमानि । ** वक्षोरुहेषु च मुखेषु च रूषयन्त्यो, धन्याः पुलिन्दसुदृशः सुरसा भवन्ति ॥

हन्तैव सर्व-जगद् एव प्राप्त-कृष्ण-माधुर्यार्णवानुशीलनतया धन्यं केवलम् एकैवाहं तत्र वञ्चितेति सर्व-मुख्यतमा कापि सदा भोगेऽपि तद्-गन्ध-मात्राधारस्तुतिरत्य् उज्ज्वल-नील-मणि-लक्षित-मादन-भावोदयेनाह—सिन्ग्धेष्व् इति । अत्र यद्य् अपि वल्लभतमा स्वयम् एव, तथाप्य् अनुरागस्याति-पौढिम्ना स्वस्य तथात्वाननुभवाद् अपरेति भावनापदारविन्दात् स्यन्दिनीति रति-समये लग्नान्यासन्नित्य् अर्थः । रूषयन्त्यो लिम्पयन्त्यः । वक्षोरुहेष्विति तच् चरणार्पणस्यैवाभिमानः, मुखेष्विति तत्-सौरभ्यलोभपारवश्येन ॥

**हन्ताधिकार्यनधिकारितया न भेदः, सर्वाभिलाषसदने मधुरिम्णि तस्य । ** युक्तं पुलिन्दसुदृशो यदिहानुरक्ता, रागस्य च प्रकटने ह्ययमेव मार्गः ॥

अधिकार्यन् अधिकारितयेति स्वस्यापि तत्र योग्यता-स्थापनेनाश्वासनं युक्तम् इत्य् अत्र हेतुः—सर्वाभिलाषेति । रागस्य प्रकटन इति स्वस्यायोग्यत्वे ज्ञातेऽपि लोभस् तु भवद् एवेति भावः । तथा च [भा पु १०-२१-१७] पूर्णाः पुलिन्द्यः इति ॥

**यः कन्दकन्दरपयःफलधातुरागैः, क्रीडोपयोगिभिरसौ भजतेऽनुवेलम् । ** गोवर्धनो गिरिवरः स हि माधवस्य, लीलासखश्च सखि भागवतोत्तमश्च ॥

पुलिन्दी-प्रस्तावेनानुस्मृतं तदास्पदस्य श्री-गोवर्धनस्य भूरि-सौभगं वर्णयन्ती भङ्ग्या तत्रैव स्वाभिसारोत्सुक्यम् अपि सखीष्व् अभिव्यञ्जयन्त्य् आह—यः कन्देति । लीला-सखश् चेति कन्दरादीनां क्रीडोपयोगित्वात् सख्यम्, भागवतोत्तमश् चेति कन्दपः-फल-धात्वाद्य् उपचारैः परिचरणाद्-दास्यम् ॥

यस्याश्रयं कृतवता सखि बद्धतृष्णः, कृष्णस्तनोत्यभिमतं मतमेतदेव । श्रेषः सिसाधयिषवो न विना सहायं, योग्याश्च तद्घटयितुं कुशला भवन्ति ॥१०८॥

वैष्णवोत्तमानुवृत्त्यैव विष्णोः प्राप्तिर् इति सिद्धान्तयन्तीव तत्र श्री-गोवर्धनानुवृत्तेस् तु साक्षात् कृष्णवशीकारित्व-लक्षणम् अति-वैशिष्ट्यम् आनयन्ती तत्रैव स्वस्या अपि सञ्जिगमिषां प्राण-सख्यां सूचयन्त्य् आह—यस्येति । मतमेतद् एवेति सात्वत-तन्त्र-प्रामाण्याद् अपीति भावः । योग्याश् च योग्या अपि, तथा च [भा पु १०-२१-१८] हन्तायम् अद्रिरवलाः इत्यादि । पूर्वाह्नादौ परोढानामालापम् अनुरागजम् । समाप्य पूर्व-रागोत्थमनूढानामथाह तम् ॥ नन्वेताभिर् व्रजस्थाभिः कृष्णे वन-विहारिणि । नदी-मेघ-पुलिन्द्यादेस् तथा भावस् तदात्मजः ॥ जातः कथं शृणु पऊढ-भक्तस्याप्य् अमले हृदि । ऋतम् एव स्फुरत्यासां मूर्त-प्रेम्णान्तु किं पुनः ॥१०८॥

अथातिमानवतया नवतया च सदा सदाक्षिण्यं बलवता बतानुरागेण परमधन्या धन्यादयः कुलकन्याः कुलकन्यायविदोऽपि विदोऽपि न गोचरमुत्कलिकामुत्कलिकामिव बिभ्रत्योऽभ्रत्योघे मन्दाक्षस्य मन्दाक्षस्यदाः परम्परं परम्पराप्राप्तप्राक्तन-प्रणयेन समालिङ्गन्त्यः समभाषन्त ॥

वैष्णवोत्तमानुवृत्त्यैव विष्णोः प्राप्तिर् इति सिद्धान्तयन्तीव तत्र श्री-गोवर्धनानुवृत्तेस् तु साक्षात् कृष्णवशीकारित्व-लक्षणम् अति-वैशिष्ट्यम् आनयन्ती तत्रैव स्वस्या अपि सञ्जिगमिषां प्राण-सख्यां सूचयन्त्य् आह—यस्येति । मतमेतद् एवेति सात्वत-तन्त्र-प्रामाण्याद् अपीति भावः । योग्याश् च योग्या अपि, तथा च [भा पु १०-२१-१८] हन्तायम् अद्रिरवलाः इत्यादि । पूर्वाह्नादौ परोढानामालापम् अनुरागजम् । समाप्य पूर्व-रागोत्थमनूढानामथाह तम् ॥ नन्वेताभिर् व्रजस्थाभिः कृष्णे वन-विहारिणि । नदी-मेघ-पुलिन्द्यादेस् तथा भावस् तदात्मजः ॥ जातः कथं शृणु पऊढ-भक्तस्याप्य् अमले हृदि । ऋतम् एव स्फुरत्यासां मूर्त-प्रेम्णान्तु किं पुनः ॥

वंशीकलः किल हरेः सखि सिद्धवीर्यो, वस्तुस्वभावपरिवृत्तिकरो हि मन्त्रः । निश्चेतनत्वमुदपादि सचेतनानां, यच्चेतनत्वमुपपन्नमचेतनानाम् ॥१०९॥

उद्पादि उत्पादयामास । वंशी-कलः कर्ता, तथा यद्यतो वंशी-कलात् ॥१०९॥

दृश्यताञ्च तदेतत्—

**स्तभनन्ति हन्त हरिणाश्च गवां गणाश्च, वृक्षौकसश्च सरितश्च जलेचराश्च । ** भूमीभृतश्च सखि भूमिरुहश्च भूश्च, स्निह्यन्ति च प्रकटयन्ति च रोमहर्षम् ॥

तद् एतं स्वभाव-परिवर्तनं दृश्यताम् इति दूरवृत्तम् अपि तत् तत् सर्वं साक्षात्-क्रियमाणम् इवाभिप्रयन्ति—स्तभ्नन्तीति । हरिणादीनां पञ्चानां जङ्गमानां स्तम्भः स्थावर-धर्मः, तथा भूमि-भृदादीनां त्रयाणां स्थावराणां स्नेहाश्रुपात-रोम-हर्षौ जङ्गम-धर्मौ । वृक्षौकसः पक्षिणः, जलेचरा मीनादयः, भूमि-भृतः शैलाः । सर्वत्र चकारा भावोदये सर्वेषाम् एव प्राधान्य-सूचकाः । शैलानां भुवश् च तृणाद्यङ्कुरोद्गम-निर्झरादिभ्यां पुलकाश्रुपातौ । वृक्षाणान्तु मुकुलोद्गम मकरन्दाभ्यां । तथा च [भा पु १०-२१-१९] अस्पन्दनं गतिमताम् इति ॥

यं कालकूटमिव कालकरं करालं, कालेन कालियरिपुः कलयाञ्चकार ।
तं कालि कालयतु केलिमती कुलीना, वंशीकलं किल कुलस्य कलङ्ककीलम् ॥११०॥

नन्वस् तु नाम हरिणादीनां तिरश्चाम् अल्पधियां तथा भूभृदादीनां च ततोऽपि ज्ञानाभावान् न्यून-कोटौ रेखाणां तथात्वं दोषानाधायकम् एव । किं च, विशिष्ट-परामर्शशालि-नृजातिश्व् अपि कुल-कुमार्यस् तु स्व-धर्म-रक्षार्थम् अपि यत्नतो धृतिम् आलम्बेरन्नेवेति तत्र स-विचारम् आहुः—यम् इति । कालेन कैशोर-प्राप्त्या यं वशीकलं कलायाञ्चकाराभ्यस्तवान्, कालियरिपुः काल-कूट-मूल-खण्डकोऽपि काल-कूटम् इव कालकरं मृति-पर्यन्त-दशा-प्रापकम्, अतएव करालं घोरम् । हे आलि ! सखि ! तं का कुलीनापि कालयतु वारयतु, प्रत्युत केलिमती सतीति केलीनां भावित्वेऽपि तत्र निश्चय-दार्ढ्येनैव नित्य-योगार्थकम् अतुपा तदौसुक्यस्यापि कान्त्या तृप्तिं विभाव्फ़्य धृतिम् आलम्बताम् इत्य् अर्थः । वयं तु तद् अप्राप्तिमुर्मुरज्वालिता एविति भावः ॥११०॥

स्मरत स्मरतरलमानसं मानसम्पत्तिसमदं समदं दह्यमानेन हृदयेन हृदयेनमतिरुचिरं रुचिरञ्जित-सकलभुवनतलं वनतलं गतमगतमहोत्सवं व्रजराजनन्दनम् ॥

अथ [गी २-६२] ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते इति तत्व-शास्त्रोक्त-दृष्ट्या तत्-प्राप्ति-साधनं तद्-ध्यानम् एवेति निश्चिन्वन्त्यस् तद् एव सौहार्देन स्वीयाः प्रति विद धाना इवाहुः—स्मरतेति । मानस्य स्र्व-जन-कृतस्यादरस्य सम्पत्त्या समदं प्रस्तुतत्वाद् औचित्येन व्यञ्जित-वेणु-गान-गर्वं समेन सर्वासाम् अस्माकम् ऐकमत्या तुल्येन तत्-प्राप्त्यभावाद् दन्दह्यमानेन हृदयेन मनसा स्मरत । कीदृशम् ? हृदयेनं हृदय-नाथम् । अगतोत्सवं नित्य-महोत्सव-युक्तम् ॥

सुस्निग्धदीर्घघनकुञ्चितकेशपाशं, मन्दभ्रमद्भ्रमरकावलिभव्यमालम् । सुभ्रूलतं स्वलकमुन्नतचारुनासं, घ्रयं भविष्यति कदास्य तदास्यपद्मम् ॥

अतएव समरणार्थम् इवाकेशम् आचरणाव्जं मुख-मुख्याङ्गं सनिजाभिलाषोद्गारं वर्णयन्ति—सुस्निग्धेति । भ्रमरका ललाटालका ॥

किञ्च—

माधुर्यसिन्धुमधि यस्य भवेन्निपात-स्तत् केवलं मधुरिमाणमुरीकरोति । उष्णीष-सीमनि सहेलगता मुरारेर्गोच्छन्दरज्जुरपि मज्जति रम्यतायाम् ॥

गवां छन्द-रज्जुः पाद-वन्धन-रज्जुः, सा च पीत-पट्ट सूत्रमयी मुखालम्बित-चर्मग्रा ज्ञेया ॥

किञ्च—

रत्नोल्लसन्मकरकुण्डलताण्डवेन, बिभ्राजमानतममस्य कपोलबिम्बम् । ताम्बूलगन्धिरदनच्छदबन्धुजीवैर्धन्याः परं प्रमुदिताः परिपूजयन्ति ॥

तामूल-गन्धीति तत्-पूजन-साधन-तादृश-पुष्पाणाम् एतद् एव सौगन्ध्यम् इति भावः ॥

किञ्च—

श्रीवत्सकौस्तुभ-रमावनमालिकानां, लक्ष्मीभरेण परयापि च हारभासा । विभ्राजमानपरिणाहममुष्य वक्षः, का नाम धामनयनेच्छति न प्रवेष्टुम् ॥

पर्णाहो विशालता ॥

किञ्च—

जानुद्वयीलवणिमामृतमुद्दिधीर्षः, पार्श्वस्थयोर्मदमनोभवनागयूनोः । शुण्डाद्वयीव भुजयोर्द्वितयीयमस्य, कस्या विलोडयति हन्त न हृत्तडागम् ॥

जानुद्वयीति भुजयोर् आजानुलम्बितत्वेनाग्राभ्यां स्वत एव तत्-स्पर्शस् तथात्वेनोत्प्रेक्षितः ॥

किञ्च—

आवेल्लितं सुवलितावलिभिर्वलीभिर्मुष्टिप्रमेयमपि पुष्टमिवौजसा यत् । लग्नं मुहस्तदवलग्नममुष्य नोऽन्तर्हा हन्त तत् कृशमिदं च कृशीकरोति ॥

सुवलिता आवलिर् याषं ताभिर् वलीभिर् आवेल्लितम् आवेष्टितम्, यद् वा, पूरक रेचक श्वासानुरोधेनावेल्लितम् ईषत् कम्पितम्, ओजसा बलेन तद् अवलग्नं मध्य-भागो नोऽस्माकम् अन्तर्मनसि लग्नं सत् कृशम् अप्य् अन्तः कृशी-करोति, औत्कण्ठ्यात्मक ताडनेनेति भावः । यद् वा, स्वयं कृशम् अपि सदन्यद् अपि कृशं करोति ॥

किञ्च—

लावण्यकल्पतरुकोटरकल्पनाभीनिर्यत्तनुभ्रमरराजिरिवोन्मुखीयम् । रोमावलिर्मलिनिमानमहो वहन्ती, हा हन्त कालभुजगीव ददंश हुन्नः ॥

लावण्य-कल्पतरोः कोटर-कल्पा या नाभिस् ततो निर्यती निर्गच्छन्ती तनुः सूक्ष्मा भ्रमर-राजिर् इव मलिनिमानं वहन्ती रोमावलिर् उन्मुखी सती तदीय-हृदय-पर्यन्तं गच्छन्त्य् अपि नोऽस्माकम् एव हृदयं काल-भुगगीव ददंश ॥

किञ्च—

**शोणारविन्दरचिनिन्दकमङ्घ्रियुग्मं, वज्राङ्कुशध्वजसरोरुह-लक्ष्मलक्ष्मि । ** मञ्जीररत्नकिरणोल्लसदङ्गुलीकं, वक्षस्तटोमहह भूषयिता कदा नु ॥१११॥

वज्व्रादिभिर् लक्ष्मभिर् लक्ष्मीः शोभा यस्य तत्, अङ्घ्रि-युग्मं कर्तृ, वक्षस् तटीम् इत्य् अस्य पूर्व-श्लोकस्थेन न इति पदेनानुषङ्गः, भूषयिता भूषयिष्यति ॥१११॥

इत्येवमुत्कण्ठमानाः कण्ठमानाय्य जीवितमिव ता एता एता इवानुरागपरभागेण कथं कथञ्चिच्छरदं गमयित्वा तरङ्गमयित्वातरञ्चोत्साहस्य साहस्यरयं गता अहहेमं तं हेमन्तं समासेदुः ॥११२॥

जीवितं जीवनं कण्ठमानाय्य कण्ठ-गत-प्राणा इवेत्य् अर्थः । एवं पूर्वरागे दशम्या दशायाः प्राग्-भाव-प्राप्तिर् उक्ता, केवलम् आशयैव निरुद्ध-जीविता इति भावः । अनुरागपरभागेन महा-प्रेमोत्कर्षेण ताः प्रसिद्धा एता गोप-कन्या एता इवान्यत्रौपम्याभावाद् अनन्वयालङ्कारोऽयम्, तद् अप्य् उत्साहस्यातरं दुस्तरं तरङ्गमयित्वा प्राप्य, सहसेत्य् अस्य भावः साहस्यं तस्य रयं वेगं गताः कात्यायन्य् अर्चन-व्रतार्थम् इत्य् अर्थः । अहहेति सुकुमारीणाम् अपि तादृशं तप इति खेदे । तं प्रसिद्धम् इमं तथा भावोदयेन साक्षाद् इवोपसन्नं हेमन्तं तन्नामर्तुं प्रापुः ॥११२॥

ततश्च मूलमिलित-दरपरिशिष्ट-विशिष्टविकचसौगन्धिक-गन्धिक-पिपासयेव नम्र-कम्र-कपिशपिशङ्ग-कणिशशालिशालिक्षेत्रस्य, दराङ्कुरित-निर्यवस-यव-सहित-गोधूम-धूमलितोदारकेदार-केवलबलमानशोभस्य, मेदुरतरकुस्तुम्बुरुस्तम्बरुचिरमधुरामधुरावनेः, सुस्निग्धवास्तुकवास्तुकस्य, दिक्षु दिक्षु बलदिक्षुबलजबलजनित-लक्ष्मीकस्य, सहसो मासस्य शस्यसम्पत्तिप्रथमे प्रथमेऽपि स्वभावसिद्धा भावसिद्धावुत्कण्ठयापितजीविता इव साधकाभिमानजुषोऽमानजुषो विहितसङ्गोपना गोपनाथतनयो नयोपपन्नः “पतिर्नो भूयात्” इति सङ्कल्प्य सहोमासे सहोमासेवनमारेभिरे ॥११३॥

ततश् च सहसो मासस्य हेमन्तर्तोः प्रथमे सहोमासे मार्ग-शीर्षमासि सहमिलिता एव ताः प्रसिद्धा धन्यादिकन्या उमायाः सेवनम् आरेभिरे इत्य् अन्वयः । सहो वलिष्ठेऽपि च मार्ग-शिर्ष-हेमन्तयोश् चापि सहाः प्रदिष्टः इति विश्वः । मास-शब्देन ऋत्वभिधानम् उपचारात् तद् अवयवत्वाद्-यमका-शोभार्थम्, यद् वा, सहसो मासस्येति व्यधिकरण-षष्ठ्यौ, ततश् च सहसो हेमन्त-ऋतोर् मासस्य मध्ये यः सहोमासस् तत्रेत्य् अर्थः । कीदृशस्य ? मूले मिलितं मूल-मात्र-लग्नं दर-परिशिष्टम् ईषद् अवशिष्टम्, विकच-सौगन्धक-गन्धि प्रफुल्ल-कह्लार-तुल्य-गन्धं कं जलं तस्य पिपासयेव तत्-पातुम् इच्छयेव नम्रा नताः कम्राः कमनीयाः कपिश-पिशङ्ग-कणिश-शालिनो जाति-भेदेन कपिश-वर्ण-पिशङ्ग-वर्ण-मञ्जरी-युक्ता ये शालयो धान्यानि तेषां यत्र तस्य । तराङ्कुरितैर् जाताल्पाङ्कुरैर् निर्यवसैर् निस्तृणैर् यवस-सहित-गोधूमैर् धूमलिता धूमल-वर्णी-कृता ये उदारकेदारा वृहत्-क्षेत्राणि तैर् एव केवलं बलमाना शोभा यस्य तस्य, कूस्तुम्बुरूणां धन्याकानां स्तम्बैर् गुच्छै रुचिरास् तत् साहित्येन शोभा या मधुरा मधुरिका महुरीति प्रसिद्धास् ताभिर् मधुरा माधुर्यवती अवनिः पृथ्वी यतस् तस्य । सुस्निग्धानि वास्तुकानि वास्तु-भूमयो यैस् तानि, वास्तुकानि शाक-विशेषा यत्र तस्य, दिक्षु दिक्षु वलन्ति इक्षुवलजानीक्षुक्षेत्राणि तैर् वलेनैव जनितोत्पादिता लक्ष्मीः शोभा यस्य तस्य । सहोमासे कीदृशे ? शस्य-सम्पत्त्या प्रथा ख्याता मा शोभा यस्य तस्मिन् । स्वभाव-सिद्दा अपि नित्य-सिद्धा अपि भाव-सिद्धो कृष्ण-कान्त्वात्व-रूपो यो भावस् तस्य सिद्धि-निमित्ते साधकाभिमानजुषः, अमाना अपरिमाणा जुट् प्रीतिर् यासां ताः ॥११३॥

इत्यानन्दवृन्दावने कैशोरलीलालताविस्तारे ऋतुविहारे राधानवसङ्गमो

नामैकादशः स्तवकः ॥११॥


  1. माहर्तुमाकः [क] ↩︎

  2. क्रीडसीति [ख] ↩︎

  3. स्याद् इत्य् एवं [क] ↩︎

  4. अविषयम् [ख] ↩︎

  5. पेषित [क] ↩︎

  6. प्रनुन्न- [क] ↩︎

  7. गान्धेल इति [ख] ↩︎

  8. एनाति-सौगन्ध्य-[ख] ↩︎

  9. जलधर [घ] ↩︎

  10. बहु-धातु [क] ↩︎

  11. बन्धनम् [क] ↩︎

  12. नाम-ग्राहं ग्राहं [क,ख] ↩︎

  13. नाम-ग्राहं ग्राहं [क,ख] ↩︎

  14. परीवारि-दार-[क] ↩︎

  15. परीवारि-दार-[क] ↩︎

  16. तन् नाम [ख] ↩︎