१०

दशमः स्तवकः

अथ पुनरहरहरुपचीयमान-मानस-विकार-कारणरण-रणकशून्यहृदया हृदयाधिनाथस्य तस्याङ्ग-सङ्ग-सम्भावनोपायमपायमन्दमनुचिन्तयन्त्यो मनोरथारूढमनोरथा रूढभावस्यापि तस्य दुरवगाहमनोऽवगाहमनोजसा मनोजसाहाय्येन जानन्त्योऽपि न प्रतीतिमुपयान्त्योऽपि हितं पिहितं कुर्वत्यो निजमभिप्रायं सह सहचरीभिः सकला एव निजनिजौत्कण्ठ्यं वाग्विषयीचक्रुः ॥१॥

दशमे राधिका प्राप कृष्ण-पाणि-कृतां स्रजम् ।

कृष्णोऽपि राधिका-पाणि-कृत-पाकान्नभोजनम् ॥

रणरणकं काम-चिन्ता, मन एव रथ्स् तत्रैवाऋऊढः, न तु बहिः प्रकटो मनोरथो यासां ताः, रूढ-भावस्य जात-पूर्वानुरागस्यापि तस्या श्री-कृष्णस्य दुरवगाहस्य मनसोऽव गाहम्, अनोजसा न तु ओज्वसा न वुद्धिवलेन, किन्तु मनोजस्य कन्दर्पस्यैव साहाय्येन हितं निजम् अभिप्रायं कृष्णेन सह हन्त रंस्ये इत्य् एवं-लाक्षणं पिहितम् आच्छादितं कुर्वन्त्योऽपि ॥१॥

तत्र चन्द्रावली बलीयसा मनोरागेण सोद्वेगं मुखविजित-पद्मां पद्मां नाम सखीमुवाच—

“किं गौरि गाढगुरुणा गुरुगौरवेण, किं निन्दया बत ननान्दुरमन्दया नः । किं ज्वालया खलगिरो गरलोपमायाः, श्यामेन मे हृदतिरक्तमकारि पीतम्” ॥२॥

ननान्दुः पत्युर् भगिन्याः, मे पीतं हृत् हृदयम् अतिरक्तम् अकारीति विरोधः, तत्रापि श्यामेनेत्य् अतिविरोधः । न हि श्यामलिम्नैव रक्तिमा कर्तुं शक्यते, श्री-कृष्णेन मम मनः स्वानुरक्तं कृतम् इति तत्त्वार्थः ॥२॥

तामाह पद्मा—“पद्माक्षि! यावद्वार्षभानवी नवीनानुरागवति प्रागवति प्रायिकीं रतिं तत्र न प्रसज्ज्यति, तावत् कृताभियोगेन योगेन तेन सह ते यथा भूयते, तथा मया समयासत्त्या विधेयम्, सविधेऽयं स यथा तव स्वयं समुपैति” ॥३॥

नवीनानुरागवति श्री-कृष्णे प्राक् प्रथमं प्रायिकीं रतिमवति रक्षति यावत्, किन्तु न प्रसज्यति सङ्गं न प्राप्नोति, तावत् तेन श्री-कृष्णेन सह कृतोऽभियोगः फल-सिद्धिर् यत्र तेन ते तव योगेन सङ्गेन यथा भूयते, तथा समयस्यासत्या श्रीघ्रेणैवेत्य् अर्थः । सोऽयं श्री-कृष्णस् तव सविधे निकटे यथा स्वयं समुपैति, ततश् च तया सह जनिष्यमाणात् सङ्गात् पूर्वम् एव त्वत् सङ्गे जाते तामसौ विस्मरिष्यमाणात् सङ्गात् पूर्वम् एव त्वत्-सङ्गे जाते तामसौ विस्मरिष्यतीति भावः ॥३॥

**
“किन्तु व्रजराजसुतस्य तस्य स्वभावो हि भावो हित ऊहितस्तस्यां तस्यां तम्यामेव ह्रदतटनिकटे” इति तामाश्वास्य तथैव स्म चेष्टते, चेष्टतेयं तस्मिन्नेव कर्मणि तस्याः प्रवीणतासीत् ॥४॥**

ननु तस्यामयमत्य् अनुरक्तो लक्षितः, कथं कृतमत्सङ्ग एव तां विस्मरिष्यतीति ? तत्राह—किन्त्विति । भावः प्रेम, स्वभावः स्वस्य भां कान्तिम् अवतीति सः, हितो हितमय ऊहितस् तर्कितस् तस्यां राधायां किन्तु तस्यां तस्याम् एव । कालिय-दमन-दिन-रात्र्यवेव, न तु त्वयीव सर्व-दिवस इति भावः । इति चेष्टते स्म, अचेष्ट । इष्टता चेयं तस्याः ॥४॥

अथैवमुत्कण्ठाभराधिकां राधिका विजने निजनेनिज्यमान-सौहृद-सहचरीभिः सह सहमानाममानामनुरागव्यथां किमपि चिन्तयन्तीमकस्मादुपगतापगताखिलावकरा कराकलितबकुलमाला बकुलमालाख्यसङ्ख्यन्विता श्यामा निजगाद ॥५॥

निजाश् च ता नेनिज्यमान-सौहृदा अतिशुद्ध-सौख्याश् चेति ताभिः सहचरीभि-ललितादिभिः सह, अमानाम् अपरिमाणाम् ॥५॥


“अयि वार्षभानवि! न विना भवतीमिह गोकुले कुले च । कुलललनाललामभूतानां भूतानां सौभाग्यसम्पदं का वहति” ॥६॥

ललाम-भूतानां तिलक-रूपाणां श्रेष्ठ-युवतीनां कुल इत्य् अर्थः । भूतानां सौभाग्य-सम्पदं प्राणि-मात्र-कर्तृक-प्रीतिम् ॥६॥

**
“यदवधारितं तस्मिन्नहनि हनिष्यमाण-प्रमदोहेन रसदोहेन रसवतीहृदयाकर्षणाङ्कुशेन निरीक्षणेन क्षणेन मूर्तिमतेव यदसौ व्रजराजकुमारो मारोद्धतहृदय इव चकोरको रजनीनाथमिव भवदास्यं धयति स्म” ॥७॥**

भूतानाम् इति कियद् आधिक्यम्, यतः सर्व-सौभाग्य-सम्पन्निधेः श्री-कृष्णस्यापि चेतः समाकर्षसीत्य् आह—तस्मिन्नहनीति । अहोदिन-वासरादि-शब्दानाम् अहोरात्र-वाचित्वात्1 कालिय-दमन-दिवसीय-रजन्यां यन्मायावधारितम्, केन चिह्नेन ? हरिष्यमाणो गंस्यमानः प्रमदस्य ऊहो यस्मात् तथा-भूतेन निरीक्षणेन यद् उक्त्तरकालम् आनन्दस्य तर्को व्यक्तो भवतीत्य् अर्थः । हन्तेर् गमनार्थत्वाद्-गमनस्याप्य् अत्र व्यञ्जनार्थत्वाद्-यमकानुरोधाद् असमर्थता-दोषः सोढव्यः, यद् वा, हनिष्यमाणो नाशं प्राप्सान् प्रमदानां गोपीनाम् ऊहस् तर्को यत्र तेन, तदानीम् अनुरागस्य चाक्षुषत्वात् न पुनस् तर्को भविष्यतीत्य् अर्थः । पुनः कीदृशेन ? रसं दोग्धि पूरयतीति तेन, क्षणेनोत्सवेन, धयति स्म, अपिवत् ॥७॥


**“तदधुना तस्यानुरागपात्रं त्वमित्यवगतम् । ** गतं च मेऽमानस्यम्, मानस्यं सारस्यं च मे समजनि” ॥८॥

अमानस्यं दुःखम्, पीडा व्यथा दुःखममानस्यम् इत्य् अमरः । मानस्यं मनसि जातम्, सारस्यं सरसता ॥८॥

साह—“साहसकारिणि! किमेवं प्रलपसि?—

**सा कालि कालियरिपोरनुरागपात्रं, या गोकुले कुलजनैरनुमातुमर्हा । ** इन्दुर्विना कुमुदिनीं स्वयमुज्जिहीते, नेन्दुं विना कुमुदिनी विकचत्वमेति” ॥९॥

आलि ! सखि ! सा का ? कुल-जनैः कुलवतीतिभिः ॥९॥

**
“तन्नूनमखिलाङ्गनानां स एवानुरागपात्रं न तस्य कापि । श्यामाह—माहर मद्वचसि सन्देहम्, देहं च मा खेदय, दयस्व निजसौभाग्यं प्रति, प्रतिजानीहि स हि ममैव” इति ॥१०॥**

मद् वचसि सन्देहं मा आहर, मा आनय ॥१०॥

ललितोवाच—“वाचनिकोऽयमाश्वासः, किंवा यथार्थः” इति । तया पुनरूचे—“ललिते! पृच्छ बकुलमालिकां मत्सहचरीम्” ॥११॥

वाचनिको वचन-मात्र-भवः ॥११॥

ललिताह—“बकुलमालिके! हे मालि! केवलमस्माकमनुरोधेनैव कथनीयम्” । बकुलमालाह—“बकुलमाला हरिष्यति खल्वियं ते सन्देहम्, तथापि किञ्चिदाकर्ण्यतां कर्ण्यतां यद्वहति । एकस्मिन् समये स मयेक्षितः परमसुखवर्धनस्य गोवर्धनस्य गोचरः, चरति
नैचिकीनिचये तदनुपदीनेऽदीने सहचरचये नर्मदानुचरतया स रससमुद्रः, समुद्र इव गम्भीरो भीरोधकः, कुसुमित-बकुल-पालि-पालितं विपिनमध्यमध्यवस्थाय ललितेन गलितेन गम्भीरगन्धभृता भृतातिशोचिषा कुसुमेन सुमेन माल्यमाल्यतिमनोहरं निर्मिमाणः, आलोक्य च तं सहसा सह साध्वसेन लताविटपेनात्मानमपवार्य वार्यमाणधैर्यया करकलितदेवीशुकेन कुसुमासवेन नवेन नर्मदेन सख्या स ख्यापितवार्षभानवीनवीनानुरागदर्शनकालत्रयकथः कथमपि समाकलित-गाम्भीर्यः शीर्यमाण इव मया चिरमेव निभृतं न्यभालि, भालिताहं न केनापि” ॥१२॥

मा निषेधे । आलि ! हे सखि ! केवलम् । वकुलस्य माला माल्यम्, कर्ण्यतां कर्ण-हितत्वम्, समया निकट एवेक्षितः, समयान्तिकम् अध्ययोः इत्य् अमरः, नर्मदः परिहासदायी अनुचरो यस्य स्तस्य भावस् तत्ता तया, पक्षे, नर्मदा स प्रसिद्धो रसस्य जलस्य समुद्रः, समुद्रस्य सरित्पतित्वेन सन्नायकतया तद् अनुचरत्वारोपः, भीरोधको निर्भयः, कुसुमितानां वकुल-वृक्षाणां पालिभिः श्रेणीभिः पालितम् इति तत्-प्राधान्य-तात्पर्यकम्, माल्यं स्रजम्, आलि ! हे सखि ! अतिमनोहरम्, अपवार्य तिरोधाप्य, वार्षमाण म्निवर्त्यमानां धैर्यं यस्याः, चपल-भावेनेत्य् अर्थः, तथा-भूतया मया स श्री-कृष्णो न्यभालि, सविशेषं दृष्टः । अहं तु केनापि न भालिता, न प्रत्य् अभिज्ञाता । करे कलितो गृहितो देव्या राधायाः शुको येन तेन ख्यापिता प्रस्तुता, वार्षभानव्या नवीनानुरागस्य दर्शनं यत्र तथा-भूतस्य काल-त्रयस्य कथा येन सः—वनगमन-समये जन्म-दिनोत्सवे कालिय-दमन-दिवसीय-रात्रौ च दर्शनात् ॥१२॥

ततः कुसुमासवेन कुसुमासवेन सदृशया गिरा किञ्चिदप्रस्तुतं प्रस्तुतम्—“वयस्य! इयमियं स्वकरगुम्फिता बकुलमाला मा लाघवमासादयितुमर्हति । तदिमां तस्यै उपहारीकृत्य हारीकृत्यवस्थां प्रापय” इति वदति सति स तिलमात्रं स्मित्वा “वयस्य! कथमेतत् सम्पद्यतां गद्यतां गगनकुसुममालया गगनमण्डनमिव” इति यदैवं निजगाद निजगाद-वैयर्थ्यनिराकरणाय करणायत्तपाटवोऽपि क्षणं चित्रलिखित इव तस्थौ कुसुमासवः ॥१३॥

हारीकृत्य् अवस्थां हारीकरण-दशाम्, अभूत-तद्भावे च्विः । इयं माला तस्याः कण्ठे हारत्वेन कल्पिता भवत्विति वाक्यार्थः । परमानुरागिण्या तया शुष्कापीयं माला प्रतिदिनम् एव स्व-काण्ठे हार इव2 धारयिष्यतीति हार-शब्द-तात्पर्यम् । भङ्ग्या तु हारीकृति-रूपाम् अवस्थां प्रापयेति त्वत्-कण्ठे अहम् अपि त्वया हारीकृतः स्याम् इति ज्ञापयेत्य् अर्थः । सम्पद्यतां घटताम्, गध्यतां कथय गगन-पुष्प-मालया गगनस्य मण्डनम् इवेति तद्-यथा मनः-कल्पनाम् अन्तरेण कार्यतो न घटते, तथैवैतद् इति तस्या गोष्ठम् अध्योऽस्थितत्वाद् अस्माकं मध्ये केनापि गन्तुम् अशक्यत्वात् सम्प्रति मम तु ततो दूरवने स्थितत्वात्, पुष्पमालाश् च चिरकालस्थायित्वासम्भवाच् चेति भावः । निजगादस्य निज-वचनस्य व्यर्थतानिरसनाय, गदिर् घञन्तः, करणायत्तं वुद्ध्यधीनं पाटवं वाक्-चातुर्यं यस्य सोऽपि प्रतिवक्तुं समर्थोऽपीत्य् अर्थः ॥१३॥

तत्समकालमकालवात्येव पद्मा समुपसन्नवती नवतीव्रतरोत्कण्ठया मया समया समुत्पन्नमनोरथयैव श्रूयते कुसुमासवस्तदा यदवादीत् ॥१४॥

समया निकटे ॥१४॥

**
“अयि! कासि? कासितचतुरिमणि मणिरिव वीक्ष्यसे । किं प्रयोजनं विजनं विपिनं चरसि? रसिकशेखरस्य रस्यतमचरितस्य मद्वयस्यस्य पुरतो निःसाध्वसं साध्वसङ्कलितत्रपात्र पालयसि किं चरणविहारम्” इति तद्वचनोपरमे परमेण छद्मना पद्मनाभस्य पुरत एव सा किमपि प्रास्तौषीत् ॥१५॥**

कासि का भवसि । कासिते सन्दीपिते चतुरिमणि चातुर्ये विषये मणिर् इव साधु यथा स्यात् तथा न सङ्कलिता न सङ्गृहीता त्रपा यया तथा-भूता सती अत्र पालयसि रक्षसि, करोषीति यावत् ॥१५॥

**
“अयि! चन्द्रावल्या वल्यामोदकरीणां सहचरीणां सहगा पद्मा नामाहम्, तया खलु गुणगौर्या गौर्या एव पूजनार्थं कुसुमान्यवचेतुमिह प्रहिता हि तादृशानि कुसुमान्यपरत्र न लभ्यन्ते लभ्यं ते विपिन एव तत् सौलभ्यमिति बकुलकुलमेवादौ विचेयमित्यत्रागता” ॥१६॥**

गुणैर् गौर्या विशुद्धया, गौरोऽरुणे सिते पीते विशुद्धे चाभिधेयवत् इति मेदिनी । अपरत्र वनादौ न लभ्यन्ते, ते तव विपिने एव तेषां कुसुमानां सौलभ्यं सुलभत्वं लभ्यं लव्धुं शक्यम् ॥१६॥

कुसुमासव आह—“प्रसिद्धैव सा गौरी गौरीपूजनपरेति, किन्तु श्रद्धागौरवादेव देवतातुष्टिरिति सा कथं नागता?” साह—“साहसिक! साधूक्तम्, किन्तु—

**यस्मिन् क्षणे ह्रदतटीमधिवर्तमाना, हा हन्त कृष्णभुजगं सहसा ददर्श । ** आरभ्य तं क्षणमहो अधुनापि चित्तं, तस्या दुनोति बत तद्विषबाधयेव” ॥१७॥

कृष्ण-भुजगं कालिय-सर्पम्, पक्षे, कृष्ण एव भुजगस् तम—काम-विष-सञ्चारणात्, दुनोत्युपतप्तं भवति ॥१७॥

स आह—“तद्बाधाशमनोपायो मनोऽपायो यदि भवति, तदैव भावी” । साह—“मनोऽपायकारणमेव मृगयामहे” । स आह—“तदतिदुर्लभम्” । साह—“उच्चरौत्कण्ठ्यस्य किं दुर्लभम्?” स आह—“बाधितमेतत् सति मनसि ह्यौत्कण्ठ्यम्, कथमौत्कण्ठ्यन मनोऽपायोपलम्भः?” साह—“मनोऽपायस्तस्या वृत्त एव, मनोहरेण केनापि मनसो हरणात्, तथाप्यौत्कण्ठ्यमिति विचित्रम्” । स आह—“मनोहरमनुसन्धेहि” । साह—“सम्प्रति बकुलमाल्यमेव, यदिदं गौरीकण्ठं रञ्जयिष्यति” ॥१८॥

मनोऽपायो मनसोऽपायोऽपगमः, कृष्ण-भुजग-स्मृत्यासक्तं मनश् चेदपगच्छति तदैवेत्य् अर्थः, तद् अतिदुर्लभम् इति, भुजग-पक्षे, तस्या भीरुस्वभावत्वाद्-भयासक्तमनो नापयास्यत्य् एव । कृष्ण-पक्षे, परमानुरागिण्यास् तस्याः कृष्णासक्तं मनस्तु नितराम् । उच्चैर् औत्कण्ठ्यस्येति—[पा २-३-६९] न लोकाव्ययनिष्ठा इत्यादिना कर्तरि षष्ठी-निषेधाद् अत्र कर्तर्येव सम्बन्धि-विवक्षया षष्ठी । अस्या जातमौत्कण्ठ्यम् एव मनसोऽपायं लप्स्यत इत्य् अर्थः—विरह-तप्तस्य मनसो मूर्च्छाया लय-दर्शनात् । वाधितम् इति औत्कण्ठ्यम् एव मनसोऽपायं प्राप्स्यतीति भवत्योक्तम्, तत्र मनसोऽपाय-समकालमेवौत्कण्ठ्यस्याप्यपायात् तत्-प्राप्ति-कर्तृत्वम्, औत्कण्ठस्य तदानीं ख-पुष्पायितस्य कथम् अस्त्वित्य् अर्थः वकुल-माल्यम् एवेति साक्षात्-कृष्णोल्लेखस्यारस्यत्वात् तेन माल्येन च चन्द्रावलीम् आश्वासयितुम् अवहित्थैवेयम् । अतः सम्प्रतीत्य् उक्त्या कृष्ण दत्त-माल्य-लक्षणा तस्याश् चित्ते विश्रम्भमाणाप्यपश्चात् सङ्गमयितुं तन्मनोहरं श्री-कृष्णम् एतम् अनुसन्धास्याम्येवेति द्योतितम् । गौरी दुर्गा, पक्षे, चन्द्रावली ॥१८॥

कृष्ण आह—“वयस्य! चतुरेयं यदनयैव बकुलमालया गौरीपूजां कारयितुं कामयते, प्रथनपरिश्रमविश्रमविधिं च” ॥१९॥

गौरीति दुर्गा, पक्षे, चन्द्रावलीम् इति । चन्द्रावली-पक्षे माम् इति प्रयोज्य-कर्म उन्नेयम् । ग्रथन-परिश्रमस्य विश्राम-विधिं कामयत इत्य् अस्यानुषङ्गः ॥१९॥

कुसुमासव आह—“अयि साहसिनि! प्रियवयस्यस्य निजकण्ठाभरणोचितामेनां बकुलमालिकां कथमन्या लब्धुमर्हति? तदिमान्यग्रथितान्येवावचित्य नीयन्ताम्” । साह—“साहसं मे कथमेवम् । मे वञ्चयसि वा कथमेवम्? यदि कुमारस्य रस्यप्रसादो भवेत्तदा स्वयमेव ददातु” ॥२०॥

साहसं मे कथम् एवम् इत्य् एकं वाक्यम् । मे मम वञ्चयसि, वञ्चनां करोषि वा, कथम् एवम् अनेन प्रकारेणेत्य् अपरम् । कुमारस्य युवराजस्य, युवराजस्तु कुमारः इत्य् अमरः ॥२०॥

कृष्ण आह—“वयस्य! समुचितमुक्तमनया, तद्दीयन्तां कुसुमानि स्वयमेव । यर्थभिरेषा स्वसखीं तोषयति, निर्वहति च गौरीपूजनम्” इति तदुदितान्तेऽतान्तेन मनसा दत्तानि कुसुमानि गृहीत्वा सा गतवती ॥२१॥

गौरी-पूजनम् इति पूर्ववत् श्लेषस् तेन स्वानुरागोऽपि यथा-कथञ्चिद्-व्यञ्जित इति ॥२१॥

तव तीव्रतरतपः-प्रभावेण ततः कुसुमासवेनोक्तम्—“वयस्य! इयमिव यदि वार्षभानव्या नव्यालीनां मध्ये काप्यधुना धुनानेव ते हृत्तापमिहोपसीदति, तदैषा माला मा लाघवमुपैति” इत्याकर्ण्य निःसाध्वसमेव तदनाकर्णितमभिनयन्ती पतित-कुसुमावचयनच्छलेनाकस्मिकीवाहमुपसन्ना । तदनु तथैव मामवलोक्य कुसुमासव एव “कासि त्वम्”
इति मामवादीत्, तदाशुकेन शुकेन समुक्तम्—“हंसो! राधासुहृदः श्यामायाः सखीयं बकुलमाला नाम बकुलमालानिर्माणहेतोरिमानि कुसुमान्याचिनोति” । स आह—“मालयाऽस्याः किं प्रयोजनम्, जनं जनमेव बकुलकुसुमानि तरलयन्ति गोकुलबालाः, सङ्कोचोऽपि चोपितस्ताभिः” ॥२२॥

आशु शीघ्रम्, कं सुखं यस्मात् तेन शुकेन । चोपितो दूरीकृतः, चुप मन्दायां गतौ इत्यस्य रूपम् ॥२२॥

शुकेनोक्तम्—“एषा बकुलमाला बकुलमालामारचय्य गुणश्यामायै श्यामायै निजसख्यै दास्यति । सा च मद्देव्यै इति तस्या मर्यादा” ॥२३॥

मद्देव्यै राधायै ॥२३॥

कुसुमासवेनोक्तम्—“वयस्य! मदुक्तिकल्पलतिका फलोन्मुखीव जाता” । शुकेनोक्तम्—“अमोघा हि ब्राह्मणवाणी । तदिमामाहूय दीयतां बकुलमाला, यथैनामियमेव तां प्रापयति” । तदनु दनुजदमनो मनोज्ञतरदशनकिरणकन्दलीव्याजहारो व्याजहारोचितं किमपि—“कथमियमागमिष्यति हासपटोर्वटोर्वचसा, सहजगर्ववत्यो हि गोकुलकुलबालास्तदयि दयित! विहगोत्तम! स्वदेवीपक्षपातेन पक्षपातेन स्वयमेवास्याः सविधमुपसर्पतु भवान् । स्वभावकलकोमलेनामलेनानेन भवतो वचसा नेष्यत्यसौ बकुलमाला बकुलमालाम्” इत्युक्त एव विहगराजो मदभ्यासमभ्याससाद ॥२४॥

मनोज्ञतरो दशनानां दन्तानां किरण-कन्दल्या कान्ति-श्रेण्या व्याजेन छलेन हारो यस्य सः, इत्य् अपह्नुत्य्-अलङ्कारेण मन्द-हासो द्योतितः । व्याजहार इवाच । स्वदेव्याः पक्ष-पातेन साहाय्येन हेतुना । पक्षयोर् गरुतोआः पातेन चालनेन । विहगराजः शुकः ॥२४॥

आसाद्य च “बकुलमाले! मां परिचिनोषि, चिनोषि किं बकुलकुसुमानि? एहि व्रजराजकुमारसविधम्, अहं ते तत्करगुम्फितां स्रजं दापयिष्यामि, किमेतावताधिकेनावचयनपरिश्रमेण” । मयोक्तम्—“अयि शुककुलावतंस! संसर्गजाः किल दोषगुणा इति सत्य एव व्याहारः । यदियं ते स्वभावलम्पटस्य पीतपटस्य पीतमधुरसस्येव समदस्यासङ्गेन भिन्नैव मतिरनुभूयते । क्व नु दृष्टं भवता कुलकुमार्यः परपुरुषदत्तां मालामुरीकुर्वन्ति” ॥२५॥

पितं मधु रसो येन तस्येव ॥२५॥

शुकेनोक्तम्—“अयि! परमपुरुष एवायं न हि परपुरुषः । मयोक्तम्—पुरुष एवायं कथं परमपुरुष इत्युच्यते?” तेनोक्तम्—“नात्र सन्धिरनुसन्धेयः किमपि वाचालतालताविस्तारेण, तत् कर्मधारयपरं पदमेतद्दुर्लभम्” इति तत्कथाचातुर्येणैव जिताहं मातः परं मातः! परम्परागतं वाम्यमकरवम् । मकरबन्धुरकुण्डलस्य तस्याभ्यासमभ्यासमहम् ॥२६॥

सन्धिर् मकाराकारयोः स्व-प्रतिभा-कल्पितयोः संश्लेष इत्य् अर्थः । पक्षे, अपि प्रश्ने, अत्र श्री-कृष्णे सन्धिः किं न अनुसन्धेयः ? अपि त्वनुसन्धातुं योग्य एवेत्य् अर्थः । अतएव तत् कर्म मदुक्त-माला-ग्रहण-लक्षणं धारय स्वीकुरु । एतत् पदम्, एष व्यवसायो दुर्लभ इत्य् अर्थः । मा निषेधे, अतपरं तद् अनन्तरं परस्पराप्राप्तं वाम्यं माकरम्, न कृतवत्य् अस्मि । अत्राङिता मा-शब्देन योग इत्य् अडागमनिषेधाभावः । मातर् इति औत्सुक्य-वैक्लव्यादिभिः सखीं प्रत्य् अपि स्त्रीणां तच् छब्द-सम्बोधनं जात्य् उक्तिर् एव । अभ्यासं निकटम् । अभासम् इत्य् अभिपूर्वस्यास् तेर्लङि-रूपम् ॥२६॥

ततश्च द्विजत्वेन परस्परमतिस्निग्धयोरावयोः प्रियरावयोः प्रियसुहृदोः कुसुमासव-शुकयोरुपरोधेन विरोधेन विरहितं “चिरतरानुरागिण्यै शुक देव्यै स्वकरकमलामोदमेदुरा दुरासदा श्रियोऽपि बकुलमाला बकुलमालाद्वारा प्रापणीया, सफलीकर्तव्यं च निजशिल्पकौशलम्” इति कुसुमासवेन गदितो दामोदरो दरोदितवेपथुना कियदुदीर्णधर्मजलकणमेदुरेण करकमलेनोल्लास्य मूर्तां निजप्रणयमाधुरीमिव बकुलमालामेनां दरहसित-सुधालेशपेशलं वदनसुधाकरमवहित्थया मन्मुखाभिमुखीकृत्य कृत्यकोविदो मम करे सस्पर्शं समर्पयामास । मया च मूर्तं सुरभितमं तदीयं हृदयमिव करे निधाय माल्यमिदं कृतार्थयेव समागत्य मद्देव्यै सर्वमामूलतः कथयित्वा समर्पितम् । “सा चेयं मद्देवी त्वरितमेवादाय समागता” इति कथितवत्यां बकुलमालायां तां बकुलमालां श्यामा राधायाः कण्ठवर्तिनीं करोति स्म ॥२७॥

आवयोरुपरोधेनेति नायकस्य प्रकटम् अभ्यर्थना-दोष-भङ्गार्थम् अवहिथा । अतएव विरोधेन विरहितं यथा स्याद् इत्य् अन्यथा आवां त्वया विरुध्यमानौ स्याव इति ।अततो नास्ति तव दोष-लेश इति भावः । उल्लास्य उत्थाप्य, सस्पर्शम् इति माला-सम्प्रदान-भूताया राधायाः करस्पर्शोत्सुक्यं स्वस्य सूचयति । तदीयं हृदयम् इवेति तस्मात् धृदय-रूपम् इदं राधा-हृअदये शीघ्रं सङ्गमयेति स्वदेवीं प्रति निवेदन-भङ्गी वकुल-मालां वकुल-स्रजम् ॥२७॥

तदनु वार्षभानवी नवीनघनमेदुरस्य रस्यतमं स्पर्शमिव तस्य तस्याः स्रजः स्पर्शमुपलभ्य लभ्यमानामोदेन पुलककुलकरम्बितकपोलफलकमलककुलास्कन्दिमन्दाश्रुमन्दाक्षलक्ष्मीभरभरितमीषदानतवदनकमलममलतरदरहसित-सुधाधौत-मधुराधरकिशलयमानन्दसन्दोहमनुभवन्ती तमतिरयं तिरयन्ती च सुहृज्जनस्य चापरिचितां कामपि दशामासाद्य बकुलमालामालिलिङ्ग । ललिताह—“श्यामे! बकुलमालयोर्न केवलं नामतः साम्यम्, न केवलं गुणतश्च, अपि तु सौभाग्येनापि । तथा हि—

कृष्णकरस्पर्शजुषौ, राधाकण्ठोपकण्ठसंसक्ते । गुणवत्यौ सुकुमारे, सुपरिमले द्वे बकुलमाले ॥”
श्यामाह—“ललिते! ललितेयं ते भणितिः” इति ॥२८॥

विपक्षीय-सखीं याचमानामानाय्य लाघवम् । सुहृत्-पक्ष-सखीं या च मानं मानं प्रदाय तम् ॥ कान्तं मालार्थ-मालापमुद्रामुद्रामणीयकम् । विज्ञाय राधिका प्राप प्रेम-साराधिकं दशाम् ॥ पुलक-कुलैः करम्बितं युक्तं कपोल-फलकं यत्र तद् यथा स्यात् तथा, अलक-कुलास्कन्धि अलक-कुलाप्लावि मन्दम् अश्रु यत्र तत्, ततश् च प्रेम-प्राकट्ये मन्दाक्षं लज्जा तस्य शोभातिशयेन भरितम्, अनुभवन्ती आस्वादयन्ती प्रथमं ततस् तमानन्द-सन्दोहम् अतिरयम् अतिवेगं तिरयन्ती तिरस्कुर्वती च, आयत्यां मूर्छोदयात् ॥२८॥

अथैवमेव समये वृषभानुना भानुना सदृशमहसा महसारस्येन नयविनयविदग्धतापूर्वकमपूर्वकमनीयताककृतसपरिवारवारव्रजराजनिमन्त्रणमन्त्रणतया सुरसतापरिपाकपाककौशलशलच्चातुर्यतुर्यदशामिव स्वदुहितरं हितरञ्जनकरीं तामेव सखीजनसुखाराधां राधां समानेतुं प्रहिता हिता सुचरिता सुचरिता नाम तस्या एव धात्रेयी समाजगाम ॥२९॥

अथ तादृशं कृष्णस्यानुरागमात्मनि सम्भावितवत्या धृताश्वासायाः पुनर् अति-विवृद्ध-तद् दर्शनोकण्ठायास् तस्याः किम् अपि स्वाभिमतार्थ-सम्पादि सोत्सवम् एव तद् दर्शनं दैवनैव तद् अवसरे फलितम् इत्य् आह—अत्थैवम् इत्यादिना । वृषभानुना तां राधां समानेतुं प्रहिता प्रेरिता तस्या धात्रेयी समाजगामेत्य् अन्वयः । महसारस्येनोत्सवसरसतयापूर्वा कमनीयता यत्र तद् यथा भवत्य् एवं कृतम्, सपरिवारस्य परिवार-समूह-सहितस्य व्रजराजस्य निमन्त्रणे मन्त्रणं युक्तिर् येन तस्य भावस् तत्ता तया सुरसतायाः सौरस्यस्य परिपाको यत्र तथा-भूते पाके यत् कौशलं नैपुण्यं तत्र शलतः प्रतिक्षणम् उद्गच्छतश् चातुर्यस्य तुर्य-दशां चतुर्थीं कक्षां मूर्तिमतीम् इवेत्य् अर्थः । अत्र पाक-कर्मणि दुर्वाससो मुनीन्द्राल् लव्धवरायाः क्वापि दिवसे पितृ-सदनान्तरे एव बाल्य-खेला-वेशेनैव कृतपाकायास् ततः स्वसखीभ्यः परिवेषयन्त्याः कौतुकेन तत्रागतायै सलालन-प्रपञ्चं तद् अन्नं याचमानायै स्वमात्रे च सस्मितं विभजन्त्यास् तस्यास् तत् पाक-कौशलं परस्परातः श्रावितस्य वृषभानोर् औत्सुक्येन तद् अपरत्र क्वापि दिवसे तत् पक्वान्नमलक्षितं भुञ्जानस्य स-चमत्कारं लोकोत्तर-चमत्कारतया तद् आस्वादम् अनुभवस् तदानीम् एवाहे ! एतद् अन्नं मत्सख-श्री-व्रज-राजश् चेत् कदादिद् उपभुङ्क्ते3, मत्प्राण-कोटिलाल्यतमः श्री-कृष्णश् च, तदैव मे मनसो निर्वृतिर् इति उत्पन्नमनोरथस्य तस्यायां समये महोत्सवारम्भ इति ज्ञेयम् ॥२९॥

आगत्य च सकलमेवानुपूर्व्या संश्राव्य “गुरवोऽपि ते कृतानुज्ञाः, नु ज्ञापनापेक्षालिक्षालितास्ते, तदलं विलम्बेन, लम्बे न भवद्गमनमनवेक्ष्य । श्यामे! त्वमपि तेनादिष्टा सालीकालीकालस्यमपहाय सहैवानया नयासादितसौजन्या जन्याय भविष्यसीति । विशाखे! गुणललितया ललितया सह स्वमपि भविष्यसि” इति तद्वचनोपरमे परमेण हर्षेण ललिता समभाषत ॥३०॥

ते तव गुरवः श्वश्रू-श्वशुरादयः, कृता अनुज्ञा पितृगेयं गच्छत्विति सम्मतिर् यैस् ते । ननु तथापि स्वकर्तृक-विज्ञापनं तेषु ममोचितम् ? तत्राह—नु भो ज्ञापन-हेतोर् अपेक्षालौ अपेक्ष-समूहे विषये क्षालिताः शोधितास् ते त्वां प्रति तेषां मनख्कालुष्याभावात् त्वज्-जापनापेक्षयालम् इत्य् अर्थः । हे श्यामे ! तेन श्री-वृषभानुना त्वम् अप्यादिष्टा, अतस् त्वद्-गमनमनालोक्याहं न ल्म्बे, न गच्छामि । सालीका सखी-सहिता एव अलीकालस्यं मिथ्यालस्यम्, जन्याय हिताय जन्यो वर-वधूज्ञाति-प्रिय-भृत्य् अहितेषु च इति विश्वः ॥३०॥

**
“सुचरिते! कथमयमाकस्मिको निमन्त्रणमहोत्सवः?” सुचरिताह—“नायमाकस्मिकः श्रीकृष्णजन्मतिथिरतिथिरभूद्यदा, तदा व्रजराजेन सर्वे निमन्त्रिता यद्यासन्, तस्मिन्नेवाहनि पितुरस्या रस्या मनोवृत्तिरभूत्, मयापि सदारः सकुमारः सपरिवारश्च घोषाधीशो धीशोभनो यथाकालं निमन्त्रयितव्य इति चिरमनोरथरथसमारूढो रूढोऽयं महोत्सवः सम्पत्स्यते” इति । श्यामाह—“गुणसाराधिके! राधिके! महदेवेवं कौतुकं कौ तु कं न रञ्जयिष्यति, तदवलोकनीयमेतत् । विशेषतश्च पितृपादानामाज्ञा, तदुत्थीयताम्” इति सर्वा एव वृषभानुभवनं भानुभवनं यदि समाजग्मुः, समाजग्मुषी तदा तत्र मूर्तिमतीव महोत्सवश्रीः ॥३१॥**

भा शोभा, तस्या अनुभवनम् अनुभवो यत्र तत् ॥३१॥

आगतासु तासु पिता सुतामभाषत—“स्वागतं वत्से! सुखं वर्धते” । अथ कृतवन्दनां मूर्धानमाघ्राय पुनरुवाच ॥

सुखम् इति कतृ-पदम् ॥

**
“पाकेन कौशलवता कमनीयतायाः, कल्याणि पाणिकमलं सफलीकुरुष्व । घोषेश्वरः सदयितः ससुतः सरामः, श्वोऽस्मद्गृहे यदशिता स निमन्त्रितोऽस्ति” ॥३२॥**

कमनीयताया यत् कौशलं तद्वता, पाकेन पचनक्रियया पाणि-कमलं सफलीकुरु, अशिता भोक्ता ॥३२॥

ललिताह—“तात! किमु चितमुचितमेव तदुपकरणम्” । स आह—“चिरचितानि रचितानि च विविधकौशलेन सकलान्येवोपकरणानि करणानियम्यानि कौतुकेन न केन, न केवलमद्यैव, तदालोकयन्तु शुभवत्यो भवत्यो भवनं प्रविश्य, सम्पन्नमसम्पन्नमपि च विलोक्यपदार्थं विलोक्य पदार्थं यमन्यमिष्टतमं तमञ्जसा च कथयन्तु” इति ॥३३॥

तस्य पाकस्योपकरणं किं चितं प्रस्तुतम्, उ प्रश्ने । चिरचितानि बहु-दिनत एव प्रस्तुती-कृतानि, न केवलम् अद्यैव, किं च, न केन कौतुकेन, अपि तु सर्वेणैव, रचितानि कल्पितानि, करणैर् इन्द्रियैर् अनियम्यानि, अनन्तत्वाद्-वक्तुं द्रष्टुं ग्रहीतुम् अपि सम्यक्तयाशक्यानीति तासां पाकोत्साहो वर्धितः । पदार्थम् उक्तम् अद्रव्यं सम्पन्नम् असम्पन्नं वापि विलोक्य यमन्यम् इष्टतमं विलोक्य पदार्थं विशिष्ट-लोकार्हदि-व्यवस्तु आलोकयन्तु, तत्रोपयुक्तत्वेन पर्यालोचयन्तु, तमप्य् अञ्जसा शीघ्रम् एव कथयन्तु, ततश् चाधुनैवाहं तमाचिनोमीति भावः ॥३३॥

सकलाः सकलास्तद्वचनविरामेऽविरामेण हर्षेण भुवनकमनीयतासदनं सदनं प्रविश्य प्रमोदजनयित्रीं जनयित्रीं च प्रणम्य सकलामेव सामग्रीमग्रीयां शम्पासम्पातनिभा निभालयामासुः ॥३४॥

सकलाः पाकादि-शिल्पवत्यः, मानः पूजा, स्व-स्व-प्रेमानुरूप-कटाक्ष-कुवलयार्पणादि-रूप-लक्षणा यस्य तम् ॥३४॥

अथ धेनुगणावनतो वनतो निवर्तमानं नवर्तमानं नरकरिपुं करिपुङ्गवगामिनं तनयमासाद्य व्रजेशाजेशादिनुतकीर्तिः समधु मधुरमुवाच ॥३५॥
“वत्स! वत्सरावधि-समुपचित-मनोरथेन समुपसन्न-वृषभानुना वृषभानुनासि श्वो निमन्त्रितो मन्त्रितोऽनुचरनिकराद्गृहीतमन्त्रेण, तत्प्रणयाय श्वःश्रेयसे श्वःश्रेयसेन भवितव्यम् । सहचरा एव पालयिष्यन्ति सविधेऽनुगणं धेनुगणम् । तदवनाय वनाय न भवता गन्तव्यम्” इति निगदितो मात्रा मात्राहीनकरुणः “कथमहो! भो जननि! भोजननिमित्तं सहचरानन्तरेणैकाकिना भवितव्यं मया तदलं मे निमन्त्रणेन” इति यदि यदिदमूचे कृतनयस्तनयस्तदा तज्जननीति परा जननीतिपराचचक्षे ॥३६॥

वृषभानु श्वो निमन्त्रितोऽसि कीदृशेन ? समुपसन्ना वृषाणां पुङ्गवानां भानवः किरणा यस्यतेन । अति4गोसमृद्धिमत्त्वाद् अस्मत् तुल्येनेत्य् अर्थः । मन्त्रितो मन्त्रि-रूपाद् अनुचर-समूहाद्-गृहीतो मन्त्रो मन्त्रणं येन तेन । अतस् तत्प्रणयाय तस्य प्रणयं सफलयितुं, प्रणयाय कीदृशाय ? श्रेयसे श्रेष्ठाय, श्वः परेद्यवि, श्वः-श्रेयसेन कल्याणवता वत्सेन, ष्वश्रेयसं शिवं भद्रम् इत्य् अमरः । सविधे व्रजस्य निकट एव, अनुगणं प्रतियुथम् एव, मात्रया इयत्तया हीना करुणा यस्य सः, भो जननि ! हे मातः यद् इदं यदेतदूचे, व्रूञ् व्यक्तायां वाचि इत्यस्य रूपम् । तदा यस्य जननी यशोदा, इति वक्ष्यमाण-वाक्यम्, कीदृशी ? परा श्रेष्ठा, जननीतिपरा लोकरीतिज्ञा, आचचक्षे उत्कवती ॥३६॥

**
“तात! तातप्यमान-मानसेन न भाव्यम् । सहज-सहचरप्रणयं प्रणयसि यद्येवं तदा सह सहचरैरेवावस्थातव्यम्” इति निगदितो दितोपद्रवो निखिलभुवनस्य वनस्य विहारे भाविनि मनो निवर्तयामास, वर्तयामास च वृषभानुना स्वात्मजापाचिते स्वात्मजापाचितेन प्रणयेन सारस्यम् ॥३७॥**

निखिल-भुवनस्य दितः खण्डित उपद्रवो येन, तस्यापायं मनस् तापः कथं तिष्ठत्विति भावः । वृषभानुना प्रयोजक-कर्त्रा स्वात्मजया स्वदुहित्रा पाचिते कारितपाकेऽन्नादिवस्तुनि प्रणयेन प्रेम्णा सारस्यं सरागतां वर्तयामास । प्रणयेन कीदृशेन् ? स्वस्यात्मनि मनसि जापैर् जपै राधा-रूप-गुण-नामाद्यावृत्तिमयैर् आचितेन वर्धितेन ॥३७॥

अथ निशान्ते निशान्ते प्रमोदेन समागता वृषभानोर्भानोरिव घृणयो घृणयोपचितापचितावतिनम्राः, पुरन्ध्रयो रन्ध्रयोगहीनां वाचमभाषन्त—“अवधीयतां व्रजेश्वरि! भवत्या स्वार्थसाराधिका राधिकाजनकस्य वागीशया, वागीशयापि स्तोतुमशक्यानि ते वत्सलतालताप्रसूनानि सुचरितानि, तेनाद्य तु द्यतु भवती भवतीव्रयातनां हरिभक्तिरिव मद्गेहापदं पदं धारयन्ती रयं तीव्रमासाद्य सपत्य-पत्यपरिजना सापत्यरोहिणी-सहिता, हिताय तायतामयि मयि करुणा च त्वयेति । किञ्च, समस्ताः समस्तान्येवाभ्यङ्गोद्वर्तन-स्नानादीनि कर्माणि ममैव वस्त्येऽवस्त्येयानीति त्वरितमेवागन्तुमर्हन्ति” ॥३८॥

निशान्ते प्रातः प्रकरणाद् व्रजेश्वर्या गृहम्, निशान्त-वस्त्यसदनम् इत्य् अमरः, वृषभानोः पुरन्ध्रय आगताः । कीदृश्य ? भानोः सूर्यस्य घृणयः किरणा इव, ततश् च घृणया कृपया हेतुना व्रजेश्वरी-कर्तृकायाम् उपचितापचितौ प्रवृद्ध-पूजायां विषये लज्जयातिनम्राः । सूर्य-घृणयोऽपि प्रातर् गृहम् आगता अतिनम्रा गृहिण्या प्रणत्यादिना पूज्यन्ते, रन्द्र-योगहीनां छिद्र-सम्पर्क-रहितां निष्कैतवाम् इत्य् अर्थः । भवत्या ईशया ईश्वर्या राधिका-जनकस्य रागवधीयताम् । कीदृशी ? स्वस्य अर्थ-सारेण प्रयोजन-मुख्येनाधिका, वागीशया सरस्वत्या, तेनाद्य तु-अद्यैव, द्यतु खण्डयतु, रयं तीव्रम् अतिशयं वेगमासाद्य, पत्य-पत्य-परिजनैः सहिता, तायतां तन्यताम् । समस्ताः सर्वा एव त्वदाद्याः, त्वरितं स्नानाद्यकृत्यैवागन्तुर्म् अर्हन्ति । यतः समस्तान्येवेत्यादि । ममैव वस्त्ये गृहेऽवस्तेययानि समुदायेनैवानुष्ठेयानि, स्त्यै शब्द-सङ्घातयोः इति धात्वर्थस्यैकांशेन सम्बन्धात् ॥३८॥

आह व्रजेश्वर्याश्वर्याः! यदिदं विनयमाहात्म्यं तेने, तेनेह वयं सर्व एव जिताः । तदयि! गम्यताम्, गम्यतां परिहरता हरता च मनोऽस्माकं तस्य विनयेन नयेन च यथानिदेशं करवामेति ॥३९॥

आह व्रजेश्वरी, आशु शीघ्रम्, हे अर्याः ! आदरभाषया हे स्वामिन्य इत्य् अर्थः । यद् वा, [भा पु १०-२८-२१] वार्ता-चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् इति श्री-भगवद् वाक्यानुसारेण तत्रत्यगोपानां सर्वेषाम् एव वैश्यत्वात् हे वैश्याः ! इत्य् अर्थः,स्यादर्यः स्वामि-वैश्ययोः इत्य् अमरः, तेने विस्तृतवान् । उक्तम् एवार्थं पुष्णत्य् आह—नयेन च नीत्या च । कीदृशेन ? गम्यतां गम्यत्वं परिहरता त्यजता अगम्येन, अगाधेनेति5 यावत् ॥३९॥

अथ वृषभानुना भानुनाथितघोषाधीशानुरूपचारूपचारमभित उपचितीकृत्य कृत्यकोविदतया तदागमनापेक्षणक्षणवशेन पुरतोऽरणपुरतोरणतो रणत्किङ्किणीजाल-मालिन्यां मालिन्यांशेनापि रहितायां हितायां श्रेणीबद्धपूर्णकलस-लसन्नवकिशलय-सवृन्तमङ्गलनारिनारिकेलफलफलदमन्ददीपशिखायां विशिखायाम्, विशिष्योभयतोऽभयतो रोपित-सफलपूगतरुपूगतरुणरम्भास्तम्भास्तङ्गमितभास्करकरनिकरेऽध्वनि ध्वनितमृदुमृदङ्गपणवादिपणवादि-वादित्रचित्रे मित्रेहिते पथि निहितेक्षणेन क्षणेन सह सहचर-गणेन गणेन इव भुवनमङ्गलस्य भुवनमङ्गलस्यमानोरुचारुचामीकरवाससा तडिन्मयीकुर्वन्निव निवहीभूत-नागरिमगरिमगाभीर्यगाभीर्यभिमतास्पदं पदं भुवि धारयन्, श्रीव्रजराजकिशोरस्तदनु सकलपरिवारवारपरिवारिता वारिताखिलखलीकारा व्रजराजमहिषी च, तदनु व्रजपुरपुरन्दरोऽदरोद्भूत-भूतलसौभाग्यसार इव सपरिजनो जनोल्लासकारी च ददृशे ॥४०॥

वृषभानुन पथिनिहितेक्षणेन व्रजराज-किशोरः क्षणेन ददृश इत्य् अन्वयः । भानोर् इष्ट-देवात् सकाशान्नाथितं सम्पादयेति प्रार्थितं घोषाधीशस्यानुरूपं योग्यं चारुमुपचारम्, यद् वा, भा कान्तिस् तयानुनयेन नाथितो मां स्वीकुर्वति प्रार्थितो यो घोषाधीशस् तस्यानुरूपम् । पुरतोऽग्रतः, अरणम् आश्रय-भूतं यत् पुरन्तस्य तोरणतो वहिर् द्वारम् आरभ्य विशिखायां ग्राम-मध्य-मार्गे वृहन् मार्गेऽध्वनि तस्या उपवर्त्मन्येकस्मिन् स्थित्वा मित्रेहिते मित्रस्य व्रजराजस्येहितं गमन-व्यापारो यत्र तस्मिन् पथि कदा आगमिष्यतीत्य् उत्कण्ठया निहितेक्षणेन वृषभानुना प्रथमं कृष्णो ददृश इति योजना । विशिखायां कीदृश्याम् ? रणतो धनतः किङ्किणीजालस्य माला वर्तते यस्यास् तस्याम् ।श्रेणिवद्धेषु पूर्ण-कलसेषु लसन्ति शोभमानानि नव-किशलयानि च, सवृन्तानि वृन्त-सहितानि, मङ्गलं नृणन्ति उपयुञ्जन्ति, नॄ नये ग्रह्यादि, मङ्गलनारीणि यानि नारिकेल-फलानि तानि च तैः फलन्त्य् उपकरण-शोभया निष्पद्यमाना आमन्दा दीप-शिखा च यस्यां तस्याम्, अध्वनि तद् अवान्तर-वर्त्मनि, कीदृशे ? उभयतः पार्श्वद्वये, अभयतः व्रजपतेस् तत्रः तथा सम्मति-प्रर्थनाम् अन्तरेण्य् अपि सौहार्दवलाद्भयाभावत इत्य् अर्थः । रोपितैः सफल-पूगतरु-पूगैः फलवद्-गुवाक-वृक्ष-समूहैः, तरुणरम्भाणां स्तम्बैश् चास्तं गमितोऽस्तं प्रापितो भास्करस्य किरण-समूहो यत्र तस्मिन्, शाखा-निविडतया सूर्यातप-प्रवेशाभावाद् इत्य् अर्थः, पूगस् तु क्रमुके वृन्दे इति मेदिनी । अस्तमिति मान्ताव्ययम् । ध्वनितानां मृदु-मृदङ्ग-पणवादीनां पणवादि स्तुतिवादयुक्तं यद्-वादित्रं तेन चित्रे । श्री-कृष्णाद्यागमन-शोभार्थं वृषभानुनैव प्रथमम् एव तद्-वर्त्मनि प्रस्थापितं वाद्यं तत्-सङ्गीति ज्ञेयम् । क्षणेन क्षणमात्रेण भुवनानां मङ्गलस्य ये गणास् तेषाम् इनः श्रेष्ठः, अङ्गे गात्रे लस्यमानेन दीप्तिमतोरुणा चारुचामीकरवाससा भुवनं विद्युन्मयी-कुर्वन्निव । निवही-भूतस्य नागरिम्णो नागरत्वस्य गरिम्णा गुरुतया गाम्भीर्यं गभीरत्वं तद्-गच्छन्त्यास्वाद्यत्वेन प्राप्नुवन्ति या आभीर्यो गोप्यस् तासाम् अभिमतास्पदं वाञ्छनीयम् । परिवाराणां वारैः समूहैः परिवारिता परिवृतीकृता, खलीकारः पैशून्यम्, तन्मूलकत्वात् दोषा अखिला एव खईकारास् ते वारिता यया सा ॥४०॥

दृष्ट्वा च सत्वरमभिव्रजता व्रजतारकेशं सुकेशं सुष्ठु केशवमालिङ्ग्य तौ दम्पती पती घोषनिवासिनां सबहुमानमानमता स्वपुरं प्रवेशयाम्बभूवाते ॥४१॥

व्रजस्य तारकेशं चन्द्रम्, आनमता सख्यरीत्या ईषन्नमता ॥४१॥

प्रवेश्य च तान् यथास्थानस्थानपि सम्पाद्य पाद्यप्रभृतिभिरभ्यर्च्य यथायोगं सकलक्रियोपचारकैः परिचारकैः स्त्रीपुंसजनैरादरेणादरेणाभिसम्पादितैरभ्यङ्गोद्वर्तन-स्नपनाद्युपकरणैः करणैकनिपुणः पुनः स यथाक्रमं स्नानादिकं निर्वाह्य रूपानुरूपानुसम्पादित-वराम्बराभरणगन्धानुलेपनप्रसाधन-साधनविरामेऽविरामेण प्रमोदेन पाकभवनमध्यमध्यभिप्रवेशयामास व्रजपुरपरमेश्वरीम् । यत्र परमेश्वरीव स्वयं स्वयन्त्रित-रूप-गुण-माधुरीधुरीणा पचतितरामतितरामवधानेन ॥४२॥

यय्था-स्थान-स्थान् स्त्री-पुरुषोचित-स्हानेषु स्थितान् सम्पाद्य कृत्वा, स्त्री-पुंस-जनैर् यथाचितम्, स्त्रीणाम् अभ्यङ्गादिभिः स्नानादिकं स्त्रीजनैः पुंसान्तु पुरुष-जनैर् निवाह्येत्य् अर्थः । अदरेण निःसङ्कोचेन, आदरेण प्रेममयेनेत्य् अर्थः, करणैक-निपुणः कार्यैक-प्रवीणः स वृषभानुः, प्रसाधन-साधनम् अलङ्कार-परिधानम् । स्वयं परमेश्वरीव साक्षान् महालक्ष्म्यरिव, इव लौकिकरातिमनुसृत्योक्तम् । सिद्धान्तरीत्या तु तस्या अपि परमांशिन्या राधायास् तया सहोपमाकिञ्चित्करैव ॥४२॥

तया वन्दिताथ सा निजकुलश्रीयशोदा श्रीयशोदा स्नेहश्रद्धाबद्धा बहुतरतरलमना मनाग्विहस्याह—“वत्से! यद्यपि रमणीमणीचारिमणि चारिमणिकल्पेयं पाककला, तथापि कुसुमकोमलाङ्ग्यास्तवायमतिभारो भारोपायैव नितरामभूत् । तदवलोकयामि किं किं पाचितमस्ति” इति तया निगदिता दिताखिलपरिश्रमा त्रपाचितं पाचितं सकलमेव सः दर्शयामास ॥४३॥

तया राधाया निज-कुलस्य श्रियं यशश च ददातीति सा, स्नेहः स्वनिष्ठः, श्रद्धा तन् निष्ठा ताभ्यां वद्धा, अतएव बहुतरम् उल्लासाधिक्येन तरलं मनो यस्याः सा प्राह । रमणीमणीनां चारिमणि चारुत्वे प्राशस्त्ये निमित्ते चारिणी सञ्चरणशील चासौ मणि-कल्पा मण्डन-रत्न-तुल्या चेति सेयं पाक-कला पचन-शिल्पम्, उत्तमाङ्गनानां पाक-कौशलम् एव रत्नालङ्कार इत्य् अर्थः । तथापि कुसुमाद् अपि कोमलम् अमलम् अङ्गं यस्यास् तस्यास् तवायमतिभार एतदीयः श्रमः सोढुम् अशक्य इत्य् अर्थः । तथापि भा शोभा तस्या आरोपायोत्पदनाय । किं पाचितम् इति त्वन् मात्रा प्रयोजक-कर्त्र्या, त्वया तु प्रयोज्य-कर्त्र्येत्य् अर्थः । त्रपया लज्जया आचितं सङ्गृहीतम्, यद् वा, त्रपाणाम् आचितं समूहो यत्र तद्-यथा भवत्येवम् इति क्रिया-विशेषणम्, आचितः सङ्गृहीतेऽपि वृन्देऽपि स्यात्रिलिङ्कः इति मेदिनी ॥४३॥

दृष्ट्वा च व्रजेश्वरी सौरूप्य-सौरभ्य-सौलभ्य-लभ्यमानपाकपरिपाकसाद्गुण्या गुण्यामोदकारिणी सा तरसा तरलितहृदया दयावती पचन्तीमेव तामालिङ्ग्य “वत्से! साधु ते धुतेक्षणाक्षणा सुपरिपाकपाककला” इति नितरामभिननन्द ॥४४॥

सौरूप्य-सौरभ्ययोः सौलभ्येन सुलभत्वेन लभ्यमानम् अनुभूयमानम्, पाकस्य परिपाके साद्-गुण्यं सद्-गुणता यया सा, गुणिनं गुणवन्तम् आमोदम् आनन्दं कर्तुं शीलं यस्याः सा पाकला ॥४४॥

श्यामाललितादिभिर्वन्दितानन्दिताननेन्दुरथ ता अपि परिरभ्यं सौरभ्यसौकुमार्यवतीस्ता एवाह—“अयि श्यामे! अयि ललिते! अयि विशाखे! साधु वः परस्परपरमसौहृदानुबन्धो बन्धोर्मानसहारी मानसहा रीतिरियमृत्तमानाम्”, इति ताः सर्वा अभिनन्द्य समीपस्थां राधादिभिः सकलाभिः सकलाभिरभिवन्दितां रोहिणीमभाषत ॥४५॥

आनन्दित उत्फुल्ल आननेन्दुर् यस्याः सा, सौरभ्येति सौरभ्य-सौकुमार्ये आलिङ्गनेनैवानुभवन्ती सतीत्य् अर्थः । मानसहा मानं सम्मानं सहत इति मानसहा, सकलाभिः कलासहिताभिः ॥४५॥

**
“अयि बलभद्रजननि! भद्रजननिवहपूज्येयमासां परस्परप्रीतिः । अपि च इयं हि राधा मेदुरा मेऽदुरासदा मनसस्तदियं सम्भाव्यते—** नन्दनलतेव भूमौ, चन्दनलतिकेव रूपमलयस्य । वृषभानोरिव सुकृतं, खनिरनिरूप्येव गुणमणीन्द्राणाम्” ॥४६॥

मेदुरा स्निग्धा, मे मम मनसो न दुरासदा, मनसि स्वयं स्फुरतीत्य् अर्थः । शेषे षष्ठी । नन्दनलतेति मनसोऽभिलासा-पूर्त्या रूपमलय-सम्बन्धिनी चन्दन-लतिकेवेति नयन-घ्राणत्वचाम् अपि, वृषभानोः सुकृतम् इति स्वकुल-यशःकैर् अवचन्द्रिकात्वेन, गुण-मणीन्द्राणां खनिर् इति त्रिजगद् विरल-प्रतियोगिकात्वेन ॥४६॥

सा प्रत्युवाच—“श्रीकृष्णमातः! मातः परमस्याः सम्भावनीयमस्ति । किञ्च—

नन्दनो व्रजपतेर्गुणसिन्धुर्नन्दिनी च सुमुखी वृषभानोः । तोषहेतुरयि घोषपुरश्री-कण्ठभूषणमिदं मणियुग्मम्” ॥४७॥

मा अस्ति, व्रजपतेर् नन्दनः कृष्णः, सुमुखी राधा, तोष-हेतुर् बन्धूनां द्रष्टृ-श्रोतृ-मात्राणां वा, श्रीः शोभा सम्पत्तिर् वा ॥४७॥

तत्रपे तत्र पेशलाङ्गी राधा । श्यामादयश्च राधामुखमवलोक्य मनाग् विहस्य मनसा मनसाहुः—“अयि! देवि! तवेदं वचनमस्माकमभीष्टबोधन्यासि, धन्यासि भो धन्यासि, वृष्टिर्हि निःसन्देहमाप्या देहमाप्याययति निदाघोष्णम् । यदिदं घोषपुरश्रीकण्ठभूषणमिदं मणियुग्ममित्येकाधिकरणकरणप्रतिपादकं वचोऽविप्रकृष्टं प्रकृष्टमर्थं बोधयति, घोषपुरश्रीकण्ठमौलिमणिमण्डनयुग्ममित्यनुक्तेरतिसुललितमेतत्” ॥४८॥

तत्रपे निजश्लाघायां लज्जते स्म, राधा-मुखम् आलोक्येति श्लोकार्थ-भङ्ग्या लव्ध6म् अस्मच् चर्वणया किम् अप्य् अभीष्टार्थ-सूचकं वस्तु किम् इयं मनसा आस्वादयति, न वेति एतत् परीक्षणार्थम् । ततश् च मनाग् विहस्येति तन्मुखस्य तदा स-लज्जत्वेऽप्य् अन्तः-स-कौतुकत्वं दुर्लक्षम् अपि सहसैवालक्ष्य धिया तदास्वादम् एवानुभवन्तीं ताम् अनुमाय तत एव स्वेषाम् अपि जातस्योल्लासस्य ज्ञापनाय, मनसा मनसेति वाप्सा, प्रतिस्वमित्य् अर्थः । देवि ! हे श्री-रहिणि ! तव वचनं श्लोक-रूपम्, कीदृशम् ? अस्माकम् अभीष्टं वोधम् अनुभवं न्यस्यति समर्पयतीति तत्, आप्या जलमयी, यद् वा, प्राप्तुं योग्या । निःसन्देहम् इत्याप्यायतीति क्रिया-विशेषणम् । यमकानुरोधाद् व्यवहितान्वयः सोढव्यः । देहं कीदृशम् ? निदाघेनोष्णं तप्तम् । एकस्मिन्न् एवाधिकरणे करणं व्यापार-सामान्यं प्रतिपादयति ज्ञापयतीति तत्—एकस्मिन्न् एव कण्ठे मणि-युग्मस्य गुणवद्धतया स्थिति-दीप्तिमिलनादि-व्यापार-दर्शणात् । तद् उपमेययो राधा-कृष्णयोर् अप्य् एकत्रैव प्रेम-गुण-वद्धयोर् मिलन-विलासादि-मङ्गल-रूपम् अविप्रकृष्टम् अर्थः वोधयति । भवन्मुख-निसृते वचसि भवत्यापरामृष्टोऽप्ययम् अर्थोऽस्मान् आश्वासयितुं दैवोदीरित इवाविर्भूत इति भावः । न च श्लोक-पूर्तेर् अन्यथाशक्यत्वाद् उक्तम् इदम् इति वाच्यम् इत्य् आह—घोषेसि ॥४८॥

अथ कृष्णजननी जननीराजितचरणा वृषभानुगृहिणीं भानुगृहिणीं सञ्ज्ञामिव सञ्ज्ञामिव मूर्तिमतीं स्वकुलश्रीकीर्तिदां श्रीकीर्तिदां समाहूयालिङ्ग्य चाह—अयि! कथमियं तमियन्तमतिखेदं प्रापिता? यः खलु प्रौढगृहिणीजनोचितो नोचितो हि नवमालिकायाः कायापकर्षः कृशानुतापेन, कृशानुतापेन नासि ॥४९॥

मूर्तिमतीं सञ्ज्ञां चेतनाम् इव, सञ्ज्ञा स्याच् चेतना नाम हस्ताद्यैश् चार्थ-सूचना इत्य् अमरः । इयं राधा, तं प्रसिद्धम्, इयन्तम् एतावन्तं खेदं प्रापिता, यः खेदः, कृशानुतापेन वह्निज्वालया, अतस्त्वम् अनुतापेन कृश नासि, न भवसीति स-प्रणयेष्यः प्रश्नः ॥४९॥

साह—“साहसिक्यमेवैतन्मे व्रजेश्वरि! सत्यमेव व्याहरसि । रसिकेयं पाककर्मणि स्वभावत एव, विशेषतोऽशेषतोषप्रदोऽयमद्यतनो महो महोदारः सदारः ससुतो यत्र भोक्ता घोषाधीशो धीशोभावतीयं स्वयमेव सादरादरानन्देन प्रवर्तितास्ते पाककर्मणि ॥

सा वृषभानु-गृहिणी आह, महो महोत्सवः, अदरा-नन्देनानल्पहर्षेण ॥

किञ्च—

यथा तथेयं पचतु स्वभावः, कश्चिद्गुणोऽस्याः करपल्लवेऽस्ति । सौरूप्य-सौरस्य-सुपारिमल्य-वत्ता यतः पाकमुपैति पाके” ॥५०॥

तद् एक-हेतुताधिक्य-प्रतिपत्त्य् अर्थं हेतु-हेतुमतोर् अभेदोपचारः, स्वभावाद् एवोत्पन्नो गुण इत्य् अर्थः, यद् वा, स्व-शोभा-रक्षकः, यतो येन करपल्लवेन पाके पाक-कर्मणि सौरूप्यादिमत्ता पाकं परिणामम् उत्कर्षम् उपैति । सुपारिमल्यम् इत्य् उत्तरपदस्य चेत्य् उत्तरपद-वृद्धिः ॥५०॥

**
“तेनास्या जनकेन केनचित् कौतुकेन निर्बन्धः कृतः, किन्तु प्रणयरसवत्यन्तरे रसवत्यन्तरेण भूयते, तत्र भूयानेव पाको जातः । को जातः पुरुषोऽत्र नारी वा नात्मानमद्य कृतार्थं मन्यते । किन्तु तत्रभवत्या भवत्या स्वयमभिभाविकया भूयतां यथा यथोल्लासमञ्जसा समञ्जसानि सकलानि सौष्ठवानि भवन्ति” इति तद्वचनोपरमे परमेश्वरी व्रजस्य सस्मितं समूचे—“अयि! यथावत् सादरं वत्सादरं यत् पपाच, तत्सकलं सकलं रोहिणी परिवेषयतु” इत्यर्द्धोक्ते सा पुनराह ॥५१॥**

प्रणय-रसवति ! हे प्रेम-रस-युक्ते व्रजेश्वरि ! अन्तरे बहिः-प्रकोष्ठे, रसवत्यन्तरेणापरया रसवत्या भूयते—अन्तरम् अवकाशावधि परिधानान्तर्धिभेदताद् अर्थ्ये । छिद्रात्मीय-विना-बहिर् अवसर-मध्येऽन्तरात्मनि च ॥ इत्य् अमरः, अभिभाविकया सर्वाधिष्ठात्र्या, परमेश्वरी यशोदा । यथावद्-यथायुक्तम्, सादरं यथा स्यात् तथा, वत्सा राधिका यत् पपाच, तत् सकलं समस्तम्, सकलं सशिल्पं यथा स्यात् तथा, अदरं निःशङ्कं च यथा स्यात् तथा, रोहिणी परिवेषयतु । राधायास् तु अनभ्यस् ततच् छिल्पत्वात्, अतएव तत्र जनिष्यमाण-सङ्कोचत्वाच् च । सप्रति तन्नातीव उपयुज्यत इति भावः । अर्द्धोक्त इत्य् अन्यत् सर्वं श्यामाद्या इति शेषः स्थितः ॥५१॥

**
“घोषेश्वरि! पुण्डरीककुवलयसुकुमाराभ्यां कुमाराभ्यां रामकृष्णाभ्यां सह घोषराजाय जायया च तस्य सह शुभवत्या भवत्या सकलगुणरोहिण्यै रोहिण्यै च वत्सैवेयं परिवेषयतु । श्रीकृष्णसहचरनिकरेभ्यः करेऽभ्यस्तलाघवास्तलाघवा श्यामा ललिता वा ललिताबाल्यसख्या परिवेषयित्री” ॥५२॥**

तस्य जायया भवत्या सह रोहिण्यै इत्यन्वयः । रोहिण्या गौरवम् अत्र वयोवृद्ध्या भोजने योजितम् । यद् उक्तं श्री-गणोद्देश-दीपिकायाम् [३२] रोहिणी वृहद् अस्वास्य इति । करे पाणौ परिशेषणं प्रत्यभ्यस्तं लाघवं यया सा । ननु कृषान-सहचरा अपि कृष्णवद् एवादरणीया भवन्तीति ? तत्राह—अस्तं लुप्तम् एव लाघवं न्यूनत्वं यस्यां सा श्यामा ललिता वापि राधा-समैवेत्य् अर्थः । अतस्तया कृतेऽपि परिशेषणे न तेषाम् अनादरः स्याद् इति भावः । साम्ये हेतुः—ललितम् आवाल्यं वाल्यम् अभिव्याप्यैव सख्यं यस्याः सा ॥५२॥

एतदाकर्ण्य तदा कर्ण्यमप्यवहित्थयाथ यापयन्ती मन्दमधुरस्मित-स्नपिताधरकिशलयसलयसमुदीर्णं किमपि वचस्तदात्मजात्मजाड्यमभिनयन्ती नयं तीव्रमिव सौहृद्यस्य हृद्यस्यन्ती नीचैर्मातरं निजगाद—“अहमिव निखिलसौभगवतीभ्यां भगवतीभ्यां व्रजेश्वरीभ्यामाभ्यामाभ्यात्मना परिवेषयिष्ये । श्यामैव नवरवहिरवहिता हितायात्मनः परिवेषयित्री” इति ॥५३॥

कर्ण्यं कर्णाभ्यां हितम् अप्य् एतद् आकर्ण्य, अवहित्थया आकार-गोपनेन । अथ अनन्तरं यापयन्ती, एतद् आत्मनि न प्रवेशयन्ती, न मानयन्तीति यावत् । अधर-किशलये सलयं यथा स्यात् तथा समुदीर्णमधरपल्लव-संश्लेष-सहितम् एव निःसृतम्, न तु वहिर् अतिप्रव्यक्तम् इत्य् अर्थः—लयो विनाशे संश्लेषे इति मेदिनी, तदात्मजा तस्याः पुत्री रधा आत्मनो जाड्यम् अभिनयन्ती सौहृदस्य सख्यस्य तीव्रं नयं नीतिं हृदि सख्या हृदये अस्यन्ती निक्षिपन्ती । आभ्याम् आत्मना आ ईषद् अभ्याम् आतुरत्वं सङ्कोचो यस्य तेनात्मना आभाम् अन्तर्गृह-मध्ये एव परिवेषयिष्ये आतुरोऽभ्यम् इतोऽभ्यान्तः इत्य् अमरः । अन्येभ्यो वहिरूपविष्टेभ्यः परिवेषणे तु महान् एव सङ्कोचो मे भविष्यतीति भावः । एवात्मनो मृदुत्वम् एवाभिव्यज्य श्यामायाः प्राखर्यं व्यञ्जयन्ती पुनः स्वं मध्यात्वे एव पर्यवसाययति—श्यामैवेति । नवर इति केवलार्थम् अव्ययम् । वहिर् अलिन्दम् अध्यासीनेभ्य इत्य् अर्थः । अवहिता सावधाना, हितायात्मन इत्य् अन्यथा प्राखर्यख्यातेर् वैयर्थ्यापत्त्या सखीभिर् एषा हसिष्यत एवेति नर्म व्यञ्जितम् ॥५३॥

परस्परसमानमानसभावभावबोधविबुधा श्यामाह—“मा हरिणनयने! नयनेयमेतत्, सैव परिवेषणे भवतु यत्ता, यत्तातेन निमन्त्रिता अमी अमीवहरा हरादय इव” ॥५४॥

परस्परम् आत्मनोः सनानस्तुल्य एव मानसो भावस् तस्य भा शोभा तस्या अववोधे तत्-सिद्ध्यर्थक-वाक्-चातुर्य-ज्ञाने विवुधा पण्डिता, नये नीतौ, नेयम् उपादेयम् । यत्ता यत्न वती, यस्यास् तातेनामी निमन्त्रिताः, अमीवहराः पापनाशिन इत्य् उपमानस्य विशेषणम् । हरादयो महेशादय इवेत्य् अनेन यत्तातेनेति प्राप्त-वृषभानु-पदस्य परस्परित-रूपकालङ्कारेण तेजस्वि-सूर्यार्थकत्वे श्रेष्ठ-भानुनेव वृषभानुना, महेषादय इव नन्दादयोऽमी निमन्त्रिता इत्य् अर्थ्यो व्यञ्जितः ॥५४॥

अथ तमाश्रुत्य श्रुत्यतिरसदं कुतुकरसदं कुतुककलहं कलहंसिकयोरिव तयोर्जातकौतुका कौ तु कामपि प्रीतिमागता वात्सल्यसम्पद्व्रजेश्वरी व्रजेश्वरी जगाद—“अयि शुभवत्यौ! भवत्यौ मा भैष्टामिष्टामिमां नीतिं वां ब्रवीमि । उभे एव युगपदिष्टयोपदिष्टयोत्तमया दिशा मयादिशा शिक्षिते परिवेषयितुमर्हतम्” ॥५५॥

तयो राधा-श्यामयोः, मया उपदिष्टया इष्टया दिशा शिक्षिते सत्यौ युवाम् । मया कीदृश्या ? आदिशतीति आधिक्, तया ॥५५॥

इति बहिर्भूय भूयसि मणिप्रघणे प्रघणे अक्रमेण पातिताः सर्वतोभद्राः सर्वतोभद्राः पीठपङ्क्तयो विशदसमञ्जयाज्ञया क्रमेण तया पुनः पातयाम्बभूविरे ॥५६॥

मणि-प्रघणे रत्न-निविडे, प्रघणे अलिन्दे, सर्वतोभद्राः सर्वतो भद्रम् उपवेश-सुखं यासु ताः, सर्वतोभद्रा गम्भारीदारुमय्यः, तया व्रजेश्वर्या । कीदृश्या ? विशदा निर्मला समञ्जा कीर्तिर् यस्यास् तया । आज्ञया निदेशेन ॥५६॥

एवमास्तीर्णसितसूक्ष्मवसनेष्वासनैष्वाहितक्रममुपविष्टस्य घोषेन्द्रस्य सान्द्रस्य साधुना स्नेहेन दक्षिणे स्फटिकेन्द्राभिरामो रामो वामतो वामतोन्मीलन्नीलमणीन्द्ररुचिरुचिरः कृष्णस्तस्य च सव्ये पीनावटुर्वटुः कुसुमासवः सबहुमानमुपवेशितो द्विजत्वेन, तद्वामतो मतोत्तमक्रमबन्धाः सुबलादयः प्रियसहचरा इति क्रमेण कृतासनपरिग्रहेऽग्रहेताविव घोषसम्पदां पदाम्बुजधावनपूर्वकमपूर्वकमनीयादरे व्रजपुरपुरन्दरे दरहितहितस्मिते, कुतुहलिनि हलिनि च, तदनु तदनुजे दनुजेन्द्रदमने च, शुकसहचरे द्विजबालके बालकेलिनर्मसखे च, प्रणयवसुबलादौ सुबलादौ सखिगणे च, व्रजराजभार्यया भार्यया समाहूयमाना माहूयमानपदाग्रकमलेव वार्षभानवी नवीनभक्तिश्रद्धाबद्धा बहुमानपुरस्सरं पुरस्सरञ्जनीयवात्सल्याय व्रजराजाय जायमानमुदे परिवेषयाञ्चकार, श्यामा तु रामाय ॥५७॥

साधुना स्वमर्यादेन स्नेहेन, सान्द्रस्य निविडस्य, वामतो वाम-पार्श्वे, वामतया शोभनतया, उन्मीलत उद्भासमानात् नील-मणीन्द्राद् अपि रुच्या कान्त्या रुचिरः सुन्दरः, पीना पुष्टा अवटुर् घाता यस्य सः । तद् वामतः सुवलादयश् चेति—इति क्रमेणोपवेशिता इति विभक्ति-विपरिणामेनानुषङ्गाः । ततश् च पदाम्बुज-धावन-पूर्वकं व्रज-पुर-पुरन्दरे कृतासन-परिग्रहे सति । कीदृशे ? घोष-सम्पदाम् अग्रहेतौ मुखकारण-भूते । स्वपरिकर-शोभाम् आलोक्य दर ईषद् ईहितं चेष्टितं व्यापारो यत्र तच् च तत् हितं सर्वजनोल्लासकं च स्मितं यस्य तस्मिन् । प्रणय एव वसु धनम्, तद् एव वलादि बलम् आयुर्यशश् च यस्य तस्मिन् । भा शोभा तया आर्यया श्रेष्ठया, यद् वा, कानिस्वामिन्या, स्यादर्घः स्वामिवैश्यस्योः इत्य् अमरः । मा शोभा, तया हूयमानं पूजार्थम् इव दीयमानं पदाग्रे कमलं यस्याः सा, जुहोतेर् दान-मात्रार्थकत्वस्यापि धातुपाठे दृश्यत्वात् । पुरः प्रथमं सरञ्जनीय-वात्सल्या-सहिताय, अतएव जायमाना मुत् प्रीतिर् यस्य तस्मै ॥५७॥

तदनु तदनुजपरिवेषणसमये “वार्षभानवि! न विना भवती श्यामा परिवेषयितुमर्हति, तव नेदीयांसं श्रीकृष्णं त्वमेव परिवेषय” इति व्रजेश्वर्यैव निगदिता दिताग्रहग्रहपरिभवा चिरानुरागपरभागपराभूतेन मनसा दरकरकम्पकं परमसभेन प्रसभेन प्रसंवृग्वती परिवेषयाञ्चकार ॥५८॥

तद् अनुजः श्री-कृष्णः, नेदीयांसम् अतिनिकटवर्तिनम्, व्रजेश्वर्यैव निगदितेति7 लज्जारीत्य् अनुसृत्या स्वातन्त्र्यरूपो दोषोः निरस्तः । आग्रह एव ग्रहो दुष्परिहरत्वात्, तेन यः परिभवः स्वविषयको लज्जादि-ध्वंसक-चापल्याभिव्यक्तिः स दितः खण्ढितो यस्याः, परभाग उत्कृष्टो भागः परिणतोऽश इत्य् अर्थः । दरेण साध्वसेन करकम्पममीषत् कर-कम्पम्, अल्पार्थे कः, प्रसभेन हठेन, कीदृशेन ? परमश् चासौ सभः सदीप्तिश् च तेन । बलदेव-दक्षिणतः समुपरिष्टेभ्यः श्रीदाम-सुभद्र-मण्डली भद्रादिभ्यस् तु श्यामा क्रमेण परिवेषयाञ्चकारेति ज्ञेयम् ॥५८॥

पुनर्व्रजेश्वर्यैवोक्ते उभे एव कुसुमासवादि-सकलसहचरेभ्यो यदि परिवेषयाञ्चक्रुतुः, तदा कुसुमासवः सबहुमानमात्मानं श्लाघयामास—“अहो! वयमपि भूसुरवृषभा वृषभानुतनयाकरतुन्नेनान्नेनानेन परिपूताः स्मः । यदियं परमा रमादेवीव साक्षात्, एतत्सादृश्यं काप क्व, पक्वमनयाश्नते भोजनान्तरं भो जनान्तरं न रोचिष्यते, रोचिष्य! ते व्यस्य” इति क्रमगत्यासादितवार्षभानवीनवीनपरिवेषणे प्रहसनमाधुरीधुरीणे वटावटाट्यमानतरङ्गे जल्पति सावहित्थं कृतकृतककोपः श्रीकृष्ण उवाच—“वाचाल! वाच्ऽलमनया प्रहसनमात्रमात्रया, मा विष्वण” ॥५९॥

भूसुर-वृषभा विप्र-श्रेष्ठ्य अपि । ननु विप्राणाम् अपि भवतां गोप-कन्यापक्वेनान्नेन कुतः पावित्र्यम् ? तत्राह—यद् इयम् इति । एतस्याः सादृश्यं का नारी क्व देशे काले वा आप प्राप ? अभिनयेन साक्षाद् एवानुभावयन्नाह—अनया पक्वम् अश्नते भुञ्जानाय ते तुभ्यं भोजनान्तरम्, [पा ३-३-११३] कृत्यल्युटो बहुलम् इति कर्मणि ल्युटा भोज्यान्तरम् इत्य् अर्थः । भो इति सम्बोधने । जनान्तरं गोपीजनान्तरं न रोचिष्यते, किन्तु राधैवेति तु कृष्णैक-वेद्यो रहसोऽर्थः । ततश् च तया पक्वस्य तद् अन्नस्य कार्मणत्वम् अपि व्यञ्जितम् । हे रोचिष्य ! रोचिषि स्वस्य प्रकाशे वर्तमान ! तत्र भवार्थे दिगादित्वाद् यत् । त्वयाप्येतन्मयेव प्रकाश्योच्यताम् इति भावः । अत्र रोचिष्येत्य् आमन्त्रित-पदस्य [पा ८-१-७२] आमन्त्रितं पुर्वम् अविद्यमानवत् इत्य् असद् वत्त्वेऽपि रोचिष्यते इति क्रियापदाद् उत्तरस्थो युष्मदः परिकल्प-ते-आदेशः सर्वदा रक्ष देव नः इतिवत् । प्रहसन-मात्रम् एव मात्रं वित्तं यस्यास् तया वाचा, मात्रा कर्ण-विभूयायां वित्ते मानेऽवधारणे इति मेदिनी । मा विस्वन मा जल्पेति दन्त्यसकारोऽयम्, [पा ८-३-६९] वेश् च स्वनः भोजनार्थकस्यैव षत्वविधेः ॥५९॥

स आह—“किं भोक्तव्यं मूकवदनेन वदनेन? सहस्रेणैव वदनानां वदनानाञ्चनीयमिदं भोक्तुं व्याख्यातुं च किं शक्यते” ॥६०॥

वदनानां मुखानां सहस्रेणैव यद् वदनं कथनं तेनापि नाञ्चनीयं नेषत् पूजयितुं शक्यम् इत्य् अर्थः ॥६२॥

शुकोऽप्याशुकोप्याचञ्चदवटुर्वटुकृष्णयोर्मध्यवर्ती कृष्णदत्तं कृतामोदनमोदनमश्नन् किञ्चिद्विवक्षुरिव यद्युद्ग्रीव आसीत्, तदा व्रजेश्वर्याह—“द्विजोत्तम! कथय किं कथनीयम्” इति । वटुराह—“अद्य द्विजोत्तमोऽस्मि” । साह—“शुकं पृच्छामि” ॥६१॥

शुकोऽपि किञ्चिद् विवक्षुर् इवेद्ग्रीव आसीत् ? कीदृशः ? आशुकोपिनी शीघ्रकोप-व्यञ्जिका आचञ्चन्ती ईषच् चञ्चला अवटुर् घाता यस्य सः, अवटुर् घाटा कृकाटिका इत्य् अमरः ॥६१॥

शुक आह—“अये द्विजकुमार! मा रचय वचश्चातुरीम्, त्वमसि मत्तोऽपि मत्तोऽपिहितंवदनो वद नोऽपरम् । व्रजराजकुमारस्य मारस्यचेष्टितेन भूयताम् । किच, रमातोऽपि परमा, किमु तयोपमीयते, तन्निराबाधोऽपराधोऽपराहतस्तव चाभूत्” इत्याकलय्य व्रजराज ऊचे—“क्वत्योऽयं महाविज्ञः पक्षो” । व्रजेश्वरी पूर्ववृत्तं कथयति ॥६२॥

अपिहित-वदनोऽनर्गल-मुखः, नो वद मा वद, त्वया अरस्य चेष्टितेन मा भूयताम् । रमा लक्ष्मीः, अतोऽपि राधातोऽपि परमा श्रेष्ठा, देवतात्वाद् इति भावः । अत इयं राधा तया सह किमु कस्माद् उपमीयते । तत् तस्मात् तवापराधोऽभूत्, निरावाधो दुर्वारः, यतोऽपराहतः, न पराभूतः । अयम् अर्थो व्रजेश्वरी-प्रभृतिभिर् अवगतस् तन्महिम-सिद्धान्तानावेशात् । किन्तु रमातो लक्ष्मीतोऽपीयं राधा परमेति सिद्धान्तोपयोगिवस्त्व् अर्थः । तव चेति चकारात् पूर्वस्यां व्याख्यायाम् उपमेयत्वेनोपयोजिताया राधाया अप्य् उत्तरस्यां श्रोतुर् ममापीति । क्वत्यः किन्देश-भवः ॥६२॥

स पुनराह—“तत् कथमनेनात्मदेव्याः समुत्कर्षेण मुत्कर्षेण भूयते?” साह—“देव! देवतया तया सहोपमानेन मानेन समुत्कर्ष इत्यपराधाशङ्कया राधाशङ्कयापि ममतया मतया चिन्तयन्निदमुक्तवान्” ॥६३॥

सम्यग् उत्कर्षेण हेतुना, मुत्कर्षेणानन्दापगमवता । अनेनोपमानेन मा समुत्कर्षः, न आधिक्यं भवति, अयोग्यत्वात् । राधा-शङ्गयेति—अरे ! मामकेनापि त्वया तदानीं किम् इति प्रत्य् उत्तरं न दत्तम् इत्यायत्यां राधा-कर्तृकोपालम्भ-शङ्कया ॥६३॥

अथ भवनान्तरेणान्तरेणालापं परिवेषयित्र्योस्तयोर्व्यावहासी हासीद्यदि, तदा मुख्या हसन्मुख्याह—“सन्मुखि! श्यामे! द्विजडिम्भयोर्वाचालतालतापाशेनेव बद्धास्मि, त्वमेव परिवेषय” इत्यावृत्तिपरिवेषणाय यदि मुख्याभिमुख्याभिहताशासीत्तदा व्रजेश्वरी भवनान्तरं प्रविश्य स्वयमेव सुमुखीमभिमुखीचकार ॥६४॥

भवनान्तरेण भवन-मध्येन, अन्तरेणालापम्, आलापं विनैव, तयोः राधा-श्यामयोर् व्यावहासी परस्परं हास्यम्, ह स्पष्टम् । अत्र भवनान्तरेण इत्य् अस्याधिकरणत्वेऽपि यमकानुरोधात् करणत्व-विवक्षया तृतीया—वावहासीक्रियां प्रति गुरुजन-व्यवधानदायिनो भवनान्तरस्य साधकतमत्वात् । सम्मुखि ! हे सुन्दर-मुखि ! द्विज-डिम्बयोः कुसुमासव-शुकयोः । मुख्या राधा, आभिमुख्येऽभिहता नष्टा आशा यस्याः सा ॥६४॥

ततस्तथा पूर्वक्रमाक्रमानुसारेण परिवेषयन्त्यौ ते अवलोक्य व्रजेश्वर्याह मनसा—“द्विजशिशोरतिस्तवेन जातापत्रपेयं व्युत्क्रमेण परिवेषयति, समुचितेयमामुष्यपुत्रिका, मामुष्य पुत्रिका त्वमसि पुत्रि! सत्यमाह वटू रत्नाकरपुत्रिकैवासि” इति सस्नेहमभिनन्दन्ती प्रकाशमाह—“वत्से! यथाक्रममेव परिवेषयतु शुभवती भवती” इति तदाज्ञया सा तथैव विदधे ॥६५॥

पूर्वक्रमस्याक्रमानुसारेण पूर्व-परिपाट्या भिन्नक्रमम् अनुसृत्येत्य् अर्थः । राधाया इयं समुचिताम् उष्यपुत्रिका आमुष्यपुत्रीत्वं वृषभानुपुत्रीत्वम् इति यावत् सद् अभिजाताया एव स्व-श्लाघायां लज्जा भवति, न तु सर्वस्य एवेति भावः । अमुष्य-पुत्र्या भाव आमुष्य-पुत्रिका, मनोज्ञादिः, [पा वा ३८९८] आमुष्यायणाम् उष्य-पुत्रिका इत्यादिना षष्ठ्या अलुक् । तद् गुणानां लोकोत्तरताम् अनुभूयाह—हे पुत्रि ! राधे ! आमुष्य वृषभानोः पुत्रिका त्वं मा असि, न भवसि, किन्तु रत्नाकरस्य पुत्रिका लक्ष्मीः, सैवासि ॥६५॥

एवं सरसहास-परिहास-परितोषेण तत्पाकपरिपाक-परिनिष्ठितसौष्ठवानुमोदेन मोदेन भुज्ञानस्य व्रजराजस्य ते तेमनादिषु षडेव रसा वरसारतामासेदुः, तथा रामादेः सकलसहचरगणस्यापि ॥

तस्या राधायाः पाकस्य पचनक्रियायाः परिपाके परिनिष्ठितं यत् सौष्ठवं तस्यानुमोदनेन । तेऽनिर्वचनीयाः, तेमनादिषु व्यङ्जनादिषु, वरसारतां प्रशंसनीयसारभागत्वम् ॥

श्रीकृष्णस्य तु—

समश्नतस्तस्य तयैव पाचितं, तयैव देव्या परिवेषितं च तत् । परस्परान्तर्गतभावगन्धिना, रसान्तरेणातिरसत्वमाययौ ॥६६॥

भावः शृङ्गारः, रसान्तरेण गाढानुरागेण ॥६६॥

एवमेषामशनोपरमे परमेण प्रमोदेन वराम्बराङ्गाद-कङ्कणादि-भूषणमालामालालेपन-पनन-ताम्बूलादिभिरर्चितानां स्वयमेव वृषभानुनानुनीतानां भवति विश्रामे, भवनमध्यमध्यवतिष्ठमाने गरिष्ठमाने गरिमगाम्भीर्यवत्यौ श्रीकृष्णरामजनन्यौ वार्षभानव्या नव्यामोदया दयावत्यौ परिवेष्यमाणमिष्यमाणमिष्टमिष्टं भुञ्जाने तरसा रसास्वादमुग्धे अन्योन्यमभाषेताम्—“साध्वसौ साध्वसौदास्येन वाचोयुक्तिपटुर्वटुराह—भोजनान्तरं भो जनान्तरं न रोचिष्य ते रोचिष्य ते वयस्य” इति ॥६७॥

माला स्रक्, माला श्रेणी, लेपनं चन्दनादि-प्रलेपः, पननं स्तुतिः, इष्टम् ईप्सितम्, किष्टम् इष्यमाणं तदानीम् अभिलस्यमाणं वाचा प्रार्थ्यमानम् इति वा, साध्वसे भये यत् औदास्यं तेन निःशङ्कतयेत्य् अर्थः ॥६७॥

ततो व्रजेश्वर्याह—“तदयि दयितेहिते! वार्षभानवि! न विना भवत्पक्वमन्यपक्वमतः परं परं नामोदिष्यते, मोदिष्यते च ममात्मजः, तदितः प्रागुरवो गुरवो हि ते हितेन वचसा मयानुरोधयितव्या रोधयितव्या च तेषामननुमतिः, यथा लाभवती भवती कृष्णार्थमेव मे वस्त्येऽवस्त्येयसौहृदा हृदा सरसेन पक्त्री भवित्री” ॥६८॥

दयितं प्रियमीहितं चेष्टितं यस्या हे तथा-भूते ! दयिते वल्लभे श्री-कृष्णे एवईहितम् ईहा अभिलासो वा यस्या इति तु सरस्वती-प्रयुक्तोऽर्थः । परं रोचकत्वेनोत्कृष्टं नामोदिष्यते, नानुमोदिष्यते, अरोचकत्वम् एव मंस्यत इत्य् अर्थः । ततश् च न मोदिष्यते, न मुदं प्राप्स्यति । तत् तस्मात्, इतोऽतः परं प्राक् प्रथमम् एव ते तव उरवो मुख्या गुरवः श्वशुरादयः, हि निश्चितं हितेन वचसा सामो पायेनानुइरोधयितव्या वशीकर्तव्याः । ततश् चाननुमतिरनाज्ञा । यथालाभवतीति प्रतिदिनं तुभ्यं वस्त्रालङ्कारादि-प्रदानेन दानोपायश् च तेषु कार्य इति । कृषार्थम् एव, न त्वस्मद् आद्यर्थम् इति परिश्रमाभावश् च तन्मातरं प्रति सूचितः । मे मम वस्त्ये गृहे, अवस्त्येयं पुञ्जीभवितुम् अर्हं सौहृदं यस्याः सा ॥६८॥

तदाकर्ण्य तज्जनन्याह—“व्रजाधीश्वरि! धीश्वरि! मद्विधानाम्, तवेयं भारती भारती एवास्याश्चरीकरीति, रीतिविदोऽत्र तुष्यन्त्येव । तेनाहरहरतिरंहसा तत् सम्पादयिष्यति । भवन्निशान्ते निशान्ते सत्येव यास्यति । भवत्प्रसादतो व्रजलोको लोकोत्तरतया जरीजृम्भ्यते, न कालचक्रतोऽपि त्वङ्गति, त्वं गतिरस्माकम्” इति । तदवधि तदवधिषणामतागताभ्यां निरस्तसाध्वसा साध्वसावासत्तिमती बभूव ॥६९॥

हे मद्विधानाम् अपि धियां वुद्धीनाम् ईश्वरि ! तवेयं भावती वाणी कर्त्री अस्या राधाया भा शोभा रतिः प्रीतिश् च ते द्वे एव चरीकरीति, अतिशयेन कुरुते । अहरहः प्रत्य् अहम् अतिरंहसातिवेगेन तत् पचन-कर्म । भवन् निशान्ते भवत्या गृहे, निशाया अन्ते सत्य् एव प्रातर् एव । न त्वङ्गति, न कम्पते, त्वगि कम्पने इत्य् अस्य रूपम् । तद् अवधि तदानीम् आरभ्य, तद् अवधिषणा तस्या मातुष् तेषां श्वश्र्वादि-गुरुजनानां वावधिषणा सम्मतिस् तया गतागताभ्या व्रजेश्वरी-गृह-गमनागमनाभ्यं साधु यथा स्यात् तथासौ राधा आसत्तिमती कान्त-समीप-प्रप्त्या तद् दर्शनादिलाभवतीत्य् अर्थः ॥६९॥

एवं प्रकारान्तरेण हृत्कारान्तरेण हृच्चौरवन्निवध्यमानगोकुलचन्द्रा चन्द्रावल्यादिगोकुलकुलललनावलिर्वलितदृढासत्तिसत्तिमितहृदया हृदयाधिनाथस्य तस्याङ्गसङ्गरसभाजनतासभाजनतारतम्येन तरतमायमानां कुसुमाहरणच्छलतोऽच्छलतोद्यानमासाद्य मासाद्यमानमानवपुषोऽवपुषो विशिखशिखराविद्धमानसा कोरकदशामपहाय हायनमध्य एव कुड्मलदशामापन्नमतिसम्पन्नमतिसंस्तवमनुरागकुसुममभिसौरभरभसं बिभ्राणाभ्राणामभिनवानां कान्तिकान्तेन कान्तेन तेन समं समन्ततो रज्यन्त्यपि तस्मिन्नेव निखलजनसुहृदि हृदि जागरूके निखिलव्रजजनप्रेमास्पदेऽपदेशराहित्येनैव प्रेम दधानैर्गुरुभिरप्यात्मसाधारण्येन निरुपहितहितरागभरागतनिष्कषायभावैरकृतदोषसम्भावना वनाभिसरणेनापि नापिधीयमानचापला मनोरथं सफलयति स्म ॥७०॥

स्वपाणि-कृत-पाकान्नास्वादिने प्रेयसेऽन्वहं स्वाधरामृतमाधुर्य-दित्साप्यस्या व्यवर्धत । अथोपरिष्टात् वर्णयिष्यमाणात् श्री-राधानव-सङ्गमात् पूर्वम् एव तन्माधुर्यस्य सर्वातिशयितानुभावनार्थं श्री-कृष्णस्य चन्द्रावल्यादि-सङ्गोऽभूद् इत्य् आह—एवम् इत्यादिना । चन्रावल्यादि-गोकुल-कुल-ललनावलिः कुसुमाहरणच्छतोऽच्छलतोद्यानम् आसाद्य समन्ततस् तेन कान्तेन समं रज्यन्ती मनो-रथं सफलयति स्मेत्य् अन्वयः । कीदृशी ? हृद् एव कारा वन्धनागारं तस्या अन्तरेण मध्येन, हृच् चौरवत् चित्तरत्नतस्कर इव नितरां वध्यमानो गोकुल-चन्द्रो यया सा वलितया प्रवलया दृढया निश्चलया आसत्त्या कान्त-सान्निध्येन सत् शोभनं यथा स्यात् तथा, तिमितम् आर्द्रीभूतं हृदयं यस्याः सा । पुनः कीदृश ? अभि सर्वतः सौरभस्य आमोदस्य रभसो वेगो यत्र तत्, अनुराग-कुसुमं कोरक-दशाम् अपहाय त्यक्त्वा हायन-मध्ये वर्ष-मध्य एव कुड्मल-दशाम् आपन्नं विभ्रणा । कोरक-कुड्मलयोर् विकाश-विकाशोन्मुखत्वाभ्यां भेदः । कोरक-दशाम् अपि कीदृशीम् ? तस्य कृष्णस्याङ्ग-सङ्ग एव रसस् तस्य भाजनतायां पात्रत्वे सभाजनम् उत्कर्षः, तस्य तारतम्येन तरतमायमानाम्, कृषाङ्ग-सङ्ग-योग्य्वत्वे कस्याश्चित्-कृष्टतरां कस्याश्चिद् उत्कृष्टतमां प्रेमतारतम्यादित्य् अर्थः । अच्छा निर्मला लता यत्र तच् च उद्यानं च तत् मा यौवन-सम्पत्तिस् तया साद्यमानं प्राप्यमाणं मानवं मनुष्य-मात्रं पुष्णातीति तस्यावपुषोऽनङ्गस्य । अभ्राणां मेघानां कान्तितोऽपि कान्तेन कमनीयेन तेन कान्तेन प्रसिद्ध-प्रेयसा समं सह रज्यन्त्य् अपि, अनुरागं कुर्वत्य् अपि । गुरुभिः श्वश्र्वादिभिर् अपि न कृता दोषस्य सम्भावना यस्या सा, अन्यजनैस् तु नैव कृतेत्य् अर्त्र किं चित्रं इति भावः । तत्र हेतुः—तस्मिन्न् एव श्री-कृष्ण एव आत्म-साधारण्येन हेतुना निरुपहित उपाधि-शून्यः, स्वभावेनैवोदित इति यावत् । हितः स्वानुकुलो यो रागभरः प्रेमातिशयस् तेनागतो निष्कषायो दोषानुसन्धान-शून्यो भावो येषां तैः । न ह्यात्मनि दोष दृष्टिः कस्यापि भवतीति भावः । तथात्वम् अपि तादृशानाम् एव सम्भवति, न सर्वेषाम् इत्य् आह—अपदेशराहित्येन निश्छलत्वेन निष्कैतवतयेति यावत् । न च व्रजवासिना म्प्रेम्णि किञ्चिद्-दौर्लभम् इत्य् आह—निखिल इति । न च तत्र यत्नलेशापेक्षापीत्य् आह—हृद्येव जागरुक इति । ततश् च वनाभिसारेणापि नापिधीयमानं गुरुजन-वारणातिशयाभावेनाच्छाद्यमानं चापलं यस्याः सा ॥७०॥

एवं तासां नित्यसिद्धानां लक्ष्मीतोऽपि श्रेयसीनां प्रेयसीनां प्रेमसाङ्कोच्यसमूढामूढामतिं यैव योगमाया स्वमायास्वच्छन्दतया समपादि, सैव माननागुरूणां गुरूणां पतिन्मन्यानामन्यानामन्या नारीस्तत्तत्प्रतिच्छायारूपाच्छायारूपाकृतितुल्याश्च बिभ्रतामविषयञ्चकार तासां कृष्णेन सह सङ्गमम् ॥७१॥

ननु तर्हि लौकिकरीतिम् एवानुसृतानां श्वश्र्वादि-गुरुजनानां वनगतास्व् अपि स्व-स्व-वधूषु दोषानासञ्जने कीदृश-भावनया समाधानम् ? तत्राह—एवम् इत्यादि । यैव योगमाया-ऊढामतिं परैर् दूढाः परकीया एव वयम् इति भावनां रसपुष्ट्य् अर्थं तासां समपात् । इह गोकुले रक्षितवति सैव तासां कृष्णेन सह सङ्गमं गुरुणाम् अविषयं च चकारेत्य् अन्वयः । ऊढामतिं कीदृशीम् ? प्रेमसाङ्कोच्यानि दुर्लभत्वादि-भावनयोत्ण्थावृद्ध्यादीनि तैः समूढां पूजिताम् । एतद् अर्थम् एव योगमायया तासां परकीयात्व-कल्पनं नित्य-प्रेयसीनाम् अपि सर्वदातनम् एव । तथा चोक्तम्—[उ नी हरिप्रिया-प्र २१] यत्र निषेध-विशेषः, सुदुर्लभत्वं च यन्मृगाक्षीणाम् । तत्रैव नागराणां, निर्भरमासज्जते हृदयम् ॥ इति । माननया वयमासां श्वश्रवादय इत्य् अभिमानेन गुरूणां वृहतां गुरूणां श्वश्रादि-गुरुसामान्यानाम्, पतिस्मन्यानां मानना-मात्रेणैव पतित्ववताम् । कीदृशानाम् ? तत् तत् प्रतिच्छायागूपस् तासां तासां प्रति-विम्ब-रूपा मायिकीरन्या नारी-विभ्रतां स्व-स्व-गृह एव धारयतां पुष्णतां वा, छाया कान्तिः, चकारात् कदाचित् कृष्णे किञ्चिद् असूयया रस-पुष्ट्य् अर्थं न च विभ्रताम् अपि । [अर्थात् तासाम् अभिसृत्य् विलासादिषु विलम्बादौ जाते सति योगमायया सर्वं समाधीयते, कदाचिन् न समाधीयते च रसपोषायैव, विदग्धमाधवादिषु तथा दृष्ठेः] ॥७१॥

इति सामञ्जस्ये जाते सति व्रजेशयोरप्यजेशयोरप्यभिनन्दनीयचरितस्य तस्य विततनयस्य तनयस्य कुसुमशरशरण्यतायशोरेऽपि कैशोरेऽपिहितवत्सलतालताबन्धेन तदिव कमनीयतायाः पौगं डमरत्वं पौगण्डमरत्वं च मुञ्चदिव जानतोर्न तोयजाक्षीभिस्ताभिः सह सहसा सङ्गोऽसङ्गोपनीयोऽपि सम्भावनाविषय एव बभूव ॥७२॥

एवं तत्र तत्र योगमाययैव सर्व-समाधानम् इत्य् उक्त्वा श्री-नन्द-यशोदयोः श्री-कृष्ण-प्रित्रोस् त्वन्यथैव समाधानं सुसिद्धम् एवास्तीत्य् आह—अजेशयोर् ब्रह्म-शिवयोः । कुसुमशरस्य कन्दर्पस्य, परण्यता-रूपं यशो राति गृह्नातीति तथा-भूतेऽपि कैशोरे अपिहितेनाच्छन्नेन प्रकटेनैव वत्सलता-लतावन्धेन हेतुना तद् इव प्रागारभ्यानुभूयमानम् इव । कमनीयतायाः पौगं पूगः समूहस्ततोऽपि समूहार्थेऽणा पूग-वृन्दम् इत्य् अर्थः, पूगः स्यात् क्रमुके वृन्दे इति मेदिनी । तथा तत्-कृतं डमरत्वं डाम्वर्यम्, तथा तयोर्दयोः कारण-भूतं पौगण्डं वयश् च, एतत्रयम्, तथा तयोर् द्वयः कारण-भूतं पौगण्डं वयश् च, एतत्रयम् । अरत्वं शीघ्रत्वं मुञ्चत् त्यजद् इव जानतोः । अस्मत् पुत्रस्य कृष्णस्य पौगण्डं वयस्तत्-कृत-कमनीयत्वादिकं च शीघ्रं नापगच्छति, किन्तु बहु-दिन-पर्यन्तं स्थास्यत्येवेति मनस्यनुभूय विचारयतोर् इत्य् अर्थः । एतद् अर्थम् एव कृष्णस्य पौगण्डे वयस्येव कैशोराविर्भाव पित्रोः पौगण्द-मात्र-ग्रहणाय प्रेयसीनां तु कैशोर-मात्र-ग्रहणायेति । ततश् च ताभिः सह तनयस्य तस्य सङ्गः सहसाकस्मात् सङ्गोपयितुम् अशक्योऽपि न सम्भावनाया विषय एव वभूवेत्य् अन्वयः ॥७२॥

अपि तु, वस्तुमहिम्ना हि म्नायत एव तासु स्नुषासम्बन्ध एव निःसम्बन्ध एव निःसहः । किमहो! महावैभवं स्वभावशक्तेरिति स्थितिः ॥७३॥

हि निश्चितम्, व्रजेशयोस् तासु स्नुषा-सम्बन्धो वधू-वुद्धिर् वस्तुमहिम्नैव म्नायते स्वयम् एवाभ्यस्यमानो भवतीत्य् अर्थः, म्ना अभ्यासे कर-कर्तरि रूपम्, निःसम्बन्धः सम्बन्ध-शून्य एव । निःसहो दुर्वारः, स्थिर् मर्यादा, स्थितिः स्त्रियाम् अवस्थाने मर्यादायां च सीमनि इति मेदिनी ॥७३॥


इत्यानन्दवृन्दावने कैशोरलीलालताविस्तारे निमन्त्रण-स्वीकारकौतुको

नाम दशमः स्तवक्रः ॥१०॥


  1. रात्र-मात्र-वाचित्वात् [घ] ↩︎

  2. हारम् इव [घ] ↩︎

  3. युङ्क्ते [घ] ↩︎

  4. अनेक [क] ↩︎

  5. असाध्येनेति [क] ↩︎

  6. भङ्ग्योपलव्ध [क] ↩︎

  7. गदितेति [क] ↩︎