०९

नवमः स्तवकः

अर्थैकस्मिन्नहनि विना रामेण वनमागते वनमालिनि चारयति च नैचिकीनिचयं किमपि जातमाश्चर्यम् । तथाहि—“अहो! अहोनाथदुहितुरचिकित्स्यो हृद्रोग इव, त्रिलोकलोकसंहारशक्तिनिक्षेपस्थलमिव कालाग्निरुद्रस्य, उत्पत्तिभूमिरिव भयानकरसस्य,
अनियोजितसाहाय्यकारी सुहृदिव मृत्योः, कोऽपि कालियो नाम काद्रवेयः पन्नगवैरिणो भियाभियातस्तस्या अन्तर्ह्रदमध्यास्ते” ॥१॥

व्रज-व्याकुलता नाग-फणे नाट्यं तदा नुतिः ।

बन्धुभिर् मिलनं दाव-मोचनं नवमे क्रमात् ॥

विना रामेणेति—तस्मिन्न् अहनि मासिक-तदीय-जन्म-नक्षत्र-प्राप्तौ तन्मात्रा तस्य मङ्गल-स्नपनार्थं गृहं एव रक्षितत्वात् । तद् एव कालीय-फणाङ्ग-नसाङ्ग-नटन-लक्षणम् आश्चर्यं वर्णयिष्यन् प्रथमं दुर्दमताभिव्यञ्जनाय सपरिकरं तम् एव कालीयम् उत्प्रेक्षते—अहो इत्यादिना । अहो इत्य् आश्चर्ये, अहोनाथस्य सूर्यस्यापि दुहितुर् इति—आरोग्यं भास्करादिच्छेत् इति स्मृतेः, सर्व-रोग-निहन्तुर् अपि कन्याया यमुनाया हृद्-रोगः । किं च, रोगः स्वाश्रयम् एव हिनस्ति, अयन्तु सर्वम् एवेत्यतः पुनर् उत्प्रेक्षते—त्रिलोकस्य त्रिभुवनस्य लोकानां जनानां संहारे या शक्तिस् तस्या निक्षेप-स्थानम् इव, सा शक्तिर् अस्मिन् कालीये एव कालाग्निरुद्रेण निक्षिप्ता वर्तत इत्य् अर्थः, लोकस्तु भुवने जने इत्य् अमरः । किम् च, सा संहारिका शक्तिर् अपि सर्वेषां न सर्वदा भय-प्रदा, किन्तु स्व-समये संहरतिमात्रम्, यतस् ततोऽप्य् अधिक-तीक्ष्णत्वेनोत्प्रेक्षते—उत्पत्तीति । न केवलम् अतिभय-प्रद एव, किन्तु अनियोजितः सन्न् अपि साहाय्यकारी मृत्योर् एव प्रतिदिनम् एव प्राणिनो हिनस्त्य् अयं सर्वतोऽपि विलक्षण इत्य् अर्थः । पन्नग-वैरिणो गरुडस्य भिया भयेनाभिगतस् तस्या अहोनाथ-दुहितुर् हृदयमध्यमध्यास्त इत्यादि वर्तमान-प्रयोगोऽत्र कवेर् अन्तरनुभवसाक्षात्कारावेशेनैवेति ज्ञेयम् ॥१॥

यस्य सलिलान्तरितस्यापि विषस्योष्मणा तप्यमानं विहायो विहायोड्डीयन्ते विहगाः, यदुपरि परितश्च निजतनुभस्मीभावभयेन गन्धवाहोऽपि न वहति, नवहतिकरं यमस्वसा यमस्वसाधारणं जठरपिठरपिधायकं पित्तगुल्ममिव महादाहावहं वहन्ती यदीयनिःश्वसन-श्वसन-महावेगवेगवत्तरतरङ्गाग्रजाग्रत्सम्पाकसम्पाककुसुमसङ्काशविषविषमज्वालाजालेन लवणमहोर्मिमालिनो महोर्मिमालाशालिनिशाकालीनलवणकान्तिविशेषचाकचक्यशक्योपमं पित्तमिव सन्ततं वमति ॥२॥

तप्यमानं दह्यमानं विहाय आकाशं विहाय वामतो दक्षिणतो वा त्यत्क्वा वियद्-विष्णु-पदं वा तु पुंस्याकाशविहायसी इत्य् अमरः । गन्धवाहः पवनो न वहतीति ऊर्धम् उत्थितो यो विषोष्म-वेगस् तेन प्राप्ताघातत्वाद्1 वहनाशक्तिर् एव तथोत्प्रेक्षिता । यमस्यापि स्वसा भगिनी स्वयं यमुना । यं नवहतिकरं नित्य्-नवीन-पीडाकरम्, अस्वसाधारणं न विद्यते स्वस्य साधारणः समानो यस्य तथा-भूतं कालीयं जठरम् एव पात्रभेदस् तस्य पिधायकं तद् अवकाशाच्छादकं पित्त-गुल्मम् इव वहन्ती सती यदीयानि निश्वसनानि निश्वासा एव श्वसनाह् पवनास् तेषं महता वेगेन वेगवत् तरेषु तरङ्ग्रेषु जाग्रं प्रकटद्युति-युक्तम्, सम्यक् पाकः परिपाको यस्य तथा-भूतस्य सम्पाक-कुसुमस्य शोणालु इति ख्यात-पुष्पस्य सङ्काशं सदृशं यद् विषं तस्य विषमेण ज्वालाजालेनार्चिषां समूहेन लवणमहोर्मिमालिनो लवण-समुद्रस्य ऊर्मिमालां तरङ्ग-श्रेणीं शलितुं प्राप्तुं शील म्यस्य तथा-भूतस्य निशाकालीनस्य लवण-कान्ति-विशेषस्य यच् चाकचिक्यं तेन शक्या उपमा यस्य तथा भूतं पित्तम् इव सन्ततं सदा वमति । आरग्द्वधे राज-वृक्ष-सम्पाकचतुरङ्गुला इत्य् अमरः, शलहुल-पतॢ गतौ ॥२॥

स च महाह्रदो जलपटलमपिधाय समुद्भूताभिर्यदीयनिश्वासधूमधोरणिभिरन्तरतुमीयमान-विषवह्निमत्तया “जलह्रदो वह्निमान् धूमात्” इत्यसदनुमानमपि सदनुमानतया प्रमाणयति । यस्य विषज्वालयालयाय नेशते शतेनानृज्वराणां ज्वराणां यादांसि विना तदीयोदारदारतनयादि ॥३॥

अपिधाय आच्छाद्य, सम्यग् उद्भूताभिर् ऊर्ध्वं चलिताभिर् धूमधोरणिभिर् धूम-श्रेणीभिर् हेतुभिः । असद् अन्कुमानम् इति—वह्न्युमानतयेति—जल-ह्रदस्य विपक्षता वा कथं घटताम् उभयोर् एव साध्यवत्वात्2 । ततश् च सर्वत्र वह्न्युनुमान-वाक्ये गङ्गा-प्रवाहस्यैव विपक्षत्वं कल्प्यम् इति भावः । यस्य कालीयस्य विषज्वालया जराणां शतेन हेतुना आलयाय निवासाय नेशते, न शक्नुवन्ति । ज्वाराणां कीदृशानां ? अनृजुः कुटिलोऽरो वेगो येषां तेषां, यादांसि जल-जन्तवः इत्य् अमरः ॥३॥

तन्निवासभूतभूतद्रोहसत्रमहानलकुण्डकल्पकल्पकालपुरुषनाभिह्रददेशीय-ह्रददेशीय-सीम्नि यदैव दैववशतो गता उदन्यायोगादन्यायोगान्यम्भांसि गावो गोपाश्च पिबन्ति स्म, तदैव श्रीकृष्णेच्छातोऽच्छातोदया अप्यप्राकृतदेहतयाहतयापि गततद्याथातथ्येन सर्वे विपद्यन्ते स्मेव ॥४॥

तन् निवास-भूतं3 भूतद्रोऽसत्र-रूपं षन्महानल-कुण्डं तत्-कल्पस् तत् तुल्यो यः कल्पकाल-पुरुषस्य प्रलय-काल-सम्बन्धि-पुरुषस्य नाभिह्रदस् तद् देशीयस् तत्-सदृशो यो ह्रदस् तद् देशीय-सीम्नि तद् देश-सम्बन्धि-सीमायाम् [पा ५-३-६७] ईषद् असमाप्तौ कल्पवदेश्यदेशीयरः इति कल्पव्देशीयरौ तद्धित-प्रत्ययौ । द्वितीयः क्ल्पः प्रलयवाची, संवर्तः प्रलयः कल्पः इत्य् अभिधानात् । द्वितीयो देशीय इति देश-सम्बन्धिवाची, शिषिक-छ प्रत्ययान्तत्वात् । उदन्या पिपासा तद्-योगात्, उदन्या तु पिपासा स्यात् इत्य् अमरः, अम्भांसि कीदृशानि ? अन्यायोगानि अन्यस्य कालियनाग-भिन्नस्य नास्ति योगो यत्र तानि अच्छातो न छिन्न उदयो येषां योगो यत्र तानि । अच्छातो न छिन्न उदयो येषां तथा-भूता अपि, छो छेदने इत्यस्य निष्ठायां रूपम् । तत्र हेतु-भूतया अप्राकृत-देहतया चिदानन्दमय-मूर्तितया, अतएवाहतयापि अनपास्तयापि । श्री-कृष्णेच्छातः श्री-कृष्णस्येच्छाशक्त्या तेन लीलावेशादनियुक्तयापि तेषां श्री-कृष्ण-विषय-प्रेम-वर्धनार्थं विस्मय-रसाद्य् अर्थं च स्वयम् एवोद्यततया हेतुना गतम् अन्तर्हितं तस्या अपृककृत्देहताया यथा-तथ्यं यथोचित-स्वभावत्वं तेन विपद्यन्ते स्म, इवेत्य्वास्तव-व्यञ्जकम् ॥४॥

तदनु दनुजदमनो मनोव्यथामासाद्य सहसामृतरसनिःस्यन्दिना नयनकमलकोणेन जीवयामासेव । जीविताः सन्तस्ततो विस्मिताः स्मितामृतमुचः परस्परपरमप्रणयतयायतया परस्परमालिङ्गन्तोऽगन्तोषमयमिव विन्दन्तो मिथः समूचिरे ॥५॥

सहसा अकस्माद् एवामृत-रसक्षक्षरणशीलेनेवेति पूर्ववत् । आयतया विस्तृतया अगतं पर्वतं तोषमयं सुखमयं विदन्तो लभमाना मिथः परस्परम् ऊचिरे उक्ताः, कर्म-भूताः प्रथमान्ताः ॥५॥

**
“अचिरेण जीविता वयममुनातो यमुनातोयपानतो मृताः पूर्वं यथानघानघासुरजठरवर्तिनोऽस्मान् जीवयामास, तदयं मृतसञ्जीवनः कोऽपि पदार्थः” इति सस्पृहं श्रीकृष्णमालोकयामासुः सखायः ॥६॥**

अनघानघरहितान्, तथाप्य् अघासुर-जठरान्तर्वर्तिनः ॥६॥

श्रीकृष्णोऽपि स्वनाम्ना मित्रभूतायाः कृष्णाया हृच्छोधनार्थमिव तस्य काद्रवेयस्य द्रवे यस्यन् आकाशमुखचुम्बनार्थलम्बमानलालसयेव तुङ्गिमानमानयन्तमविकलदलकदम्बं कदम्बं समारुह्य कुटिलमलकनिकरं समूह्यासमूह्यातुलमहिमालमहिमानभङ्गाय दृढतरनिबद्धपरिकरः करकमलतलेनोल्लास्य पुनरपुनरवस्रंसमुष्णीषपट्टमाबध्य, माबध्यमानमाधुर्यो धुर्योऽखिलसौभगधुरन्धराणां, धुरं धराणां स्थेन्न आवहन्, प्रथमकैशोर-सुभगवयस्तयायस्तया मृदुभावपुषि वपुषि परिच्छिन्ने परिच्छिन्नेतरगरिमानगरि-मानमर्दनमाधातुकामो हर्षोत्कर्षोत्कमना मनागनुचरनिकरमालोक्य “मा भेतव्यमाभेतव्ययमिहैव धेनुसम्भालनया स्थातव्यम्” इति हसितसितदशनरुचिरुचिराधरमाभाष्य माभाष्यमाणप्रभावो भावोन्नतधीरधीरतिविषमविषमहानलपच्यमानकीलालं कीलालङ्घित-खचर-भूचर-भूतनिकरं तं महाह्रदमतिगभीरमभीरमलपराक्रमपराक्रमणकुशलतया कुशलतया सुरुचि-रुचिरपल्वलशकलमिव मन्यमानोऽन्यमानोत्कर्षहारी दूरतरमुड्डीय झषं जिघृक्षन्नतितरस्वी मत्स्यरङ्क इव तरसा रसादम्भसि निपपात । ततश्च—

निष्पातावेगविग्न-द्विगुणितलहरीजालमूर्ध्वोर्ध्ववृद्धि प्रस्फारस्फेम फेनस्फुरदुरुगरलस्फीतविस्फायिताम्भः । आमूलस्थूलकूलङ्कषतरल-समुत्तुङ्गभङ्गप्रसङ्ग त्रासाद्दूरेऽपसर्पत्-पशु-पशुपशिशु क्षुब्धतासीद्ध्रदस्य ॥

श्री-कृष्णोऽपि कृष्णाया यमुनाया अम्भसि निपपातेत्य् अन्वयः । किं कर्तुम् ? काद्रवेयस्य कालियस्य द्रवे विद्रव-निमित्तं दूरीकरणे इत्य् अर्थः । यस्यन् यत्नं कुर्वन्, यसु प्रयत्ने दिवादिः । कथम् ? कदम्बं समारुह्य । कीदृशम् ? आकाशस्य मुख-चुम्बनार्थम् इव, अग्र-देशस्य स्पर्शार्थम् इव4 लम्बमाना अतिदीर्घा या लालसा तयेव, तुङ्गिमानं तुङ्गत्वम् आनयन्तम्, आ सम्यक् प्राप्नुवन्तम्, अविकलं तादृश-विष-ज्वालयाप्य् अम्लानं दल-कदम्बं यस्य तम्, भावि-भगवच् चरण-स्पर्श-सौभाग्य-प्रभावात् । अमृतमारता गरुत्मताक्रान्तत्वाद्वा [भा पु १०-१६-६—भा दी] स एव एकस् तत्तीरेऽपि न शुष्कः इति श्रीधर-स्वामि-चरणाः । समूह्य सन्नह्य, एकीकृट्य वद्धेत्य् अर्थः । न स्म्यग् ऊह्यस् तर्क-गम्योऽतुलो महिमा यस्य सः । अलम् अतिशयेन, अहेः कालियस्य मान-भङ्गाय गर्व-नाशाय न पुनरवस्रंसः स्खलनं यस्मात् तथा स्याद् एवं निवध्य । अत्र स-नेत्र-चमत्काराम् आह—मा शोभा तया वध्यमानं सर्वतः समाहृत्य निरुध्यमानं मधुर्यं यत्र सः । तथा-भूतस्य तस्य तादृश-व्यवसायेन व्याकूली-कृतं स्वमनः स्वयम् एवाश्वासयन्न् आह—अखिल-सौभग-धुरन्धराणां धुर्यः । सौभगम् अत्र महापराक्रमः, सुकीर्तिर् या, भगं श्री-काम-माहात्म्य-वीर्य-यत्नार्क-कीर्तिषु इत्य् अभिधानात्, ततश् च पराक्रमभारवतां महा-कीर्तिमतां वा मध्ये धुर्योऽतिमुख्य इत्य् अर्थः । तादृश-कालियमर्दनम् अपास्य ईषत्करम् एव, का चिन्तेति भावः । सविस्मय-सीत्कारम् आह—प्रथम-कैशोरम् एव सुभगं वयो यस्य तस्य भावस् तत्ता तया परिच्छिन्ने वपुषि धाराणां पर्वतानां स्थेयं स्थैर्यस्य धुरं भारम् आवहन् सम्यग् धारयन् । तादृश-वयस् तया कीदृश्या ? आयस् तया आयासवता प्रथमकैशोरे हि विविध-कौतुकमय-चेष्टितोद्गमः स्वभावाद् एव भवतीत्य् अर्थः । यसु प्रयत्ने कर्तृ-निष्ठान्तः । वपुषि कीदृशे ? मृदुभावं सौकुमार्यं पुष्णातीति तस्मिन्, कोमलं मृदुलं मृदु इत्य् अमरः । अतएव परि सर्वतो-भावेन छिन्न इतरेषां गरिमा गौरवं येन सः । न अञ्चति गच्छतीत्य् अनक्, अरिः शत्रः कालियस् तस्य मानमर्दनं गर्व-चूर्णनम् । मा भेतव्यम् । किं च, आभायाः प्रभाया इतो गतो व्ययो यत्र तथा-भूतं यथा स्यात् एवं स्थातव्यम्, यत्र स्थिति-क्रियायां प्रभाक्षयो नास्तीत्य् अर्थः । मत्-कृते शोको न कार्य इति भावः । हसितेति स्वक्लेश-मात्राभावज्ञापनार्थम् । मा-भाष्यमाणो न वाग्-गोचरः प्रभावो यस्य सः, अकथ्य-प्रभाव इत्य् अर्थः । भावेन शौर्येणोन्नता धीरा निष्कम्पा धीर्यस्य सः, अतएव तं महा-ह्रदम् अतिगम्भीरम् अपि अभीर् भय-रहितः, अमलेन पराक्रमेण परस्य शत्रोर् यद् आक्रमणं तत्र कुशलतया दक्षतया । कुशं जलं तत्-सम्बन्धिन्या लतया शैवालेन सुरुचिरं चिरपल्वलशकलं चिर-कालीन-क्षुद्र-सरःअ-खण्डम् इव मन्यमानः, कुशम् अप्सु च इत्य् अमरः । अत्र कुशलतात्वेन कालीय उत्प्रेक्षितः । अन्यस्य मानोत्कार्यौ हरतीति सः । महाह्रदं कीदृशम् अपि ? अतिविषमं विषम् एव महानलस् तेन पच्यमानं कीलालं जलं यत्र तम् । कीलाभिर् ज्वालाभिर् लङ्घितो मारणार्थं स्वजले वेगेन पातितः ख-चराणां पक्षिणां भू-चराणां तटे मृगादीनां च भूतानां प्राणिनां निकरो येन तम्, वह्नेर् द्वयोर् ज्वालकीलौ इत्य् अमरः । अतितरस्वी वेगवत्तरः । मत्स्यरङ्कः माछराङ्गा इति ख्यातः पक्षि-विशेषः । दृष्टान्तोऽयं निर्भयतया ग्रहण-मात्रांश एव ज्ञेयः, रसाद् अत्य् उत्साहवशाद् इत्य् अर्थः ततो ह्रदस्य क्षुव्धता क्षोभ आसीद्-बभूव । कीदृशं यथ स्यात् ? निष्पातस्यावेगेन सम्यग्-वेगेन विग्नं विकलीकृतं द्विगुणितं च लहरी-जालं तरङ्ग-समूहो यस्मात् तत् । तथा ऊर्ध्वोर्ध्वम् उपर्युपरि वृद्धेः प्रस्फारो विस्तारस् तस्य स्फेमा बहुत्वं यत्र तत् । उपर्युपरि क्रमेण क्षोभस्य वृद्धिर् अपि बहु-विस्तृतासीद् इत्य् अर्थः । फेनैस् तथा तदानीन्तनैः स्फुरद् भिर् उरुगरलैश् च क्रमेण स्फीतानि वृद्धानि विस्फायितानि विवर्धितानि चाम्भांसि यस्मात् तत् तथा । आमूलं मूलम् अभिव्याप्य स्थुलानां कूलङ्कषाणां कूल-कर्तनकारिणां तरलानां चपलानां समुत्तुङ्गानाम् अत्युच्चानां भङ्गानां तरङ्गानां प्रसङ्गात् प्रसत्तेस्त्रासात् । दूरे तटाद् अपि दूरेऽपसर्पन्तः पशवो गवाद्याः पणुप-शिशवः कृष्ण-सखायश् च यतस् तत्, सर्वम् एतत् क्षोभ-क्रिया-विशेषणम् । तेषां तत् तच्छब्देनोक्तिः स्वभावभीरुत्व-व्यञ्जिका ॥

किञ्च—

पातालोदरदरणेच्छयेव मज्जन्, मज्जानं स्फुटमिव कम्पयन्नहीनाम् । आन्दोलं व्यतनुत बाहुमण्डलाभ्यां, प्रेङ्खोलद्गरलशिखाभृतो ह्रदस्य ॥

दरणं दलनम्, रलयोर् ऐक्यात् । प्रेङ्खोलन्तीं चलन्तीं गरल-शिखां विभर्तीति तस्य ॥

ततश्च—

कुतोऽकस्मादस्मादृगपरिचितोऽयं ह्रदपयः **समान्दोलो दोलोल्लहरिभरभीमः समजनि । ** इति स्फायत्तर्कस्मयरसभृता तेन फणिना फणीन्द्राणां तेजोहर इव मणीन्द्रः स ददृशे ॥७॥

स्फायन् वृद्धिं गच्छन् तर्को तथा-भूतं स्मयरसं विस्मय-रसं विभर्तीति तेन कालियेन फणिना स श्री-कृष्णो मणीन्द्र इन्द्र-नीलाख्यः, तत्राप्य् अद्भूतत्वं फणीन्द्राणां स्वेषां तेजोहर इवेति । यद् वा, जात्यैव फणीन्द्र-तेजोहरण-शीलं कश्चिन् मणीन्द्र इति ॥७॥

तमालोच्य तमालोच्यमान-सादृश्यं दृश्यं निरातङ्कं तं कञ्चन परममनोहर हरन्तमिव दर्पं कन्दर्पं कंसयन्तमिव माधुर्येण माधुर्येण सप्रकोपरुषा परुषायितमनाः प्रौढाभोगेन भोगेन स कालीयः कालीयकसुरभिशरीरं समवेष्टयत् । भगवानपि न पिहितैश्वर्यः प्रजगल्भे ॥८॥

तं श्री-कृष्णम् आलोच्य स कालियो भोगेन स्व-शरीरेण समवेष्टयद् इत्य् अन्वयः । तं कीदृशम् ? तमालेन सहोच्यमानं वर्ण्यमानं सादृश्यं यस्य तम् । दृश्यं दृग्भ्यां हितं वस्तु-शक्ति-स्वाभाव्येनापि समस्त-दुरित-नाशात्, निरातङ्कं निःशङ्कं तं बहुकालतोऽपि प्रसिद्धं कञ्चनानिर्वचनीयं दर्पं हरन्तं संहरन्तम् इव । कन्दर्पं कामदेवम् अपि माधुर्येण कंसयन्तं धिक्-कुर्वन्तम्, कसि हिंसायां चारादिः । माधुर्येण कीदृशेन् ? मा शोभा तस्या धुर्येण । अत्र तमालेति दृश्यम् इति परमेति कन्दर्पेति च विशेषण-चतुष्टयेन तादृश-माधुर्य-शालिनम् अपि नृशंसः कालीयो हिंसार्थं तथा-करोद् इति । तथा निरातङ्कम् इति दर्पं हरन्तम् इति विशेषणाभ्यां तादृश-प्रभावशालित्वेनानुभूयमानम् अपि तं तथाकरोत् स महा-मुर्ख इति विरोधो द्योतितः \ तत्र समाधत्ते—स-प्रकोपेति । प्रकोपो वृद्धिः, यथा पित्त प्रकोपो ज्वर-प्रकोप इति । स-प्रकोपया वर्धमानया रुषा परुषायितमनाः कटुकृत-चित्तः । पौढ आभोगः परिपूर्णता यस्य तेन, आभोगः परिपूर्णता इत्य् अमरः \ कालीयो धीर्घमध्योऽपि । कालीयकं कलम्बक इति ख्यातं सुगन्धिकाष्ठम् । प्रजग्ल्भे प्रागल्भ्यम् अकरोत् ॥८॥

तमथ मथनमघस्य प्रांशुप्रांशुभरेण तेनैव कैशोरोत्सवपुषा वपुषा स्तोकमपि कमपि महायाममिव मन्यमानो मानोद्धतः स भोगी भोगकाण्डेन प्रकाण्डेन प्रवेष्टयन्नपर्याप्तमन्वभूत् ॥९॥

तं भगवन्तम्, प्रांशुर् उन्नतः, प्रकृष्टोऽंशुभरो यत्र तेन, उच्छ-प्रांशून्नतोदग्राः इत्य् अमरः । महायामं महा-विस्तारम्, मानोद्धतो गर्वोद्धतः, यतो भोगी फणी, विषय-भोगवां च ॥९॥

एवमिच्छयाच्छयापन्नपन्नगबन्धलीलो भद्रश्रीतरुरिवासावक्षोभो वक्षोभोन्मिश्रयितव्यनव्यकौस्तुभस्तु भगवान् तावदेव व्यलम्बिष्ट, यावत् कर्तव्यफणिवरफणामण्डलताण्डवालोको लोकोत्तरचमत्कारी भवति अन्यकामखिलानामखिलानामेव व्रजवासिनामिति अनन्यदेवतेषामन्यदेव तेषामथ प्रेम वर्धयितुं वर्धयितुं च धैर्यं त्वरागमनाय रागमनायत्तं च विलोकयितुमातङ्कपिशुनामाशु नामारिष्टकल्पनां व्रजे कारयामास ॥१०॥

अच्छया निर्मलया, नात्र कुषुक्तिः5 कल्पनीयेति भावः प्राप्त-सर्प-वन्ध-लीलः । भद्र-शीतरुश् चन्दन-वृक्षः, अक्षोभः क्षोभ-रहितः, अत्र कालिय-दमन-लीलायां प्रयोजनान्तरम् अपि निगूढम् अस्तीत्य् आह—वक्षसो भा कान्तिस् तयोत्कर्षेण मिश्रयितव्यो मिश्रयिष्यमाणो नव्यः कौस्तुभो येन सः, स्तुत्य् अनन्तरं कालीय-पत्नीभिः कौस्तुभ-रत्नस्योपहारी-करिष्यमाणत्वात् । यावति यत्-परिमाणके कर्तव्ये कारिष्यमाणे फणिवरस्य फणा-मण्डले ताण्डवस्यालोको लोकोत्तर-चमत्कारी भवति, तावत् तत्-परिमाणकं ब्ष्लम्बिष्ट, विलम्बमानो बभूवेत्य् अन्वयः । कृष्णस्य तुङ्गतानुसारेण तेन स्वतुङ्गताविष्कारात् । केषां चमत्कारी ? अन्यकामेषु कृष्ण-भिन्न-वस्तुकामनायां खिलानां न्यूनानां रहितानाम् इति यावत् । अखिलानां समस्तानाम् इति हेतोः । अखिलानाम् इत्य् उक्तं तत्र तेषां नगरस्थानां नन्दादीनां सरेषां कथम् आगमनं सम्भवेद् इति तदानीन्तन-तदृशेच्छाशक्त्या एव दुर्लक्षणं प्रदर्श्य व्रजान् निष्कास्य सर्व एव ते स्वयम् आनाययामासिरे श्रीघम् एवेत्य् आह—अनन्येति । न अन्यां देवताम् अपीच्छन्तीति क्विप्, तेषां देवतापि यदि पुत्रादि-रूपेण स्वयम् आगत्य तिष्ठेत्, ताम् अपि विष-ह्रदस्थं स्वं दर्शयित्वा दुःअयिष्यत्येव केवलम् इत्य् अर्थ न हि न हि इत्य् आह—अन्यदेव सर्व-विलक्षणं प्रेम वर्धयितुम् । आयत्यां स्व-प्राप्त्या तेषां परमानन्द-सिन्दौ मज्जयिष्यमाणत्वात् । अतएव धैर्यं वर्धयितुं छेत्तुम्, वर्ध च्छेदने चौरादिकः । रागम् अनुरागम्, अनायत्तम् अपराधीनम्, आतङ्क-इशुनां भय-सूचिकाम्, आशु शीघ्रम्, नाम प्राकाष्ये, अरिष्टस्य कल्पनाम् इत्य् अनेन तस्यावास्तवत्वं व्यञ्जितम्—अघ-वकादिवध-लीलायाम् इवात्रापि कृष्णस्य सर्वथा स्वस्तिमत्त्वेन स्थितेः ॥१०॥

तावदेवमनुकूलमनुकूल-विपर्यस्त-प्राणेश-श्रीकृष्णोत्थान-विलम्ब-लम्बमानमाभीलमाभीलमालम्बमानाः पशवः शिशवश्च शिथिलजीवना विहायसि च विहाय सिचयकचप्रचयादि-संवरणं गीर्वाणा बाणाहता इव मर्मव्यथापन्ना हाहेति स्रवदस्रवदनधावना धावनासमर्था निधाय करयुगलं मूर्धनि ध्वनिमुक्तकण्ठमुभये भयेन शोकेन केनचिदार्ताः “कष्टं भोः कष्टं हा हता हा हताः स्म” इति निरालोकं लोकं सकलमेव वीक्षमाणा यावदासादित-मूर्च्छां मूच्छां प्राप्नुवन्ति स्म, तावदेव व्रजनगरजनगरलोदधिनेवातिकष्टेनारिष्टेनाविकृतिविकृतविभावकेनेवाभावि ॥११॥

तावद् एवम् अनेन प्रकारेण कुलम् अनु तटं लाक्षीकृत्य-अनुकूलस्य विपर्यस् तं प्रतिकूलं प्राणेशस्य श्री-कृष्णस्योत्थान-विलम्बेन लम्बमानं दीर्घीभवत् आभीलं कष्टम् आलम्बमाना आश्रयन्तः । कीदृशम् ? आ सम्यक्-प्रकारेण भियं लाति ददातीति तत् । विहायसि आकाशे, इत्य् अनुसन्धानाभाव-व्यञ्जकम् । गीर्वाणा देवाः, स्रवता अस्रेण वदनानां धावनं प्रक्षालनं येषां ते । उभये पशवः शिशवश् च । आसादिता प्राप्ता मूर्च्छा-समुच्छ्रायो यया ताम्, अतिमहतीं मूर्च्छाम् इत्य् अर्थः, मूर्च्छा मोह-समूर्च्छययोः इति धातु-पाठात् । व्रज-नगरस्थ-जनेषु गरल-समुद्रेणेव अरिष्टेनाभावि अभूयत । कीदृशेन ? अविकृतिर् विशेषेणैव क्रिया-राहित्यं निष्चेष्टत्वं प्रलय इति यावत् । सैव विकृतिः सात्तिक-विकारोऽष्टमस् तद्-विभावकेन तज् जनकेनेव ॥११॥

यथा दिनकरमुखाभिमुख-मुखरता-खरतार-ध्वनि-ध्वनिताशिवाभिः शिवाभिनिर्धूलीधू-लीढाभिरपि धूमधूमलतया मलीमसतया संवादिगवलाभिर्दिगवलाभिः, विडम्बितनिर्महोमणिनाहोमणिना, खरतरस्पर्शनेन स्पर्शनेन, बभूवे भू-वेपथुना पृथुना पृथगेव, पस्पन्दे वामनयनावामनयनादि, पुंसां तु वामनयनादि, उभयेषामेव व्यथमानमानसत्वं न सत्त्वं तावत् कमप्यनुद्वेगमाशिश्राय ॥१२॥

दिनकरस्य सूर्यस्य मुखाभिमुखान्य् अग्रे कृतानि मुखानि तेषां मुखरतत्या मौखर्येण हेतुना यः खरस् तार उच्चतरो ध्वनिस् तेन धनितं व्यञ्जितम् अशिवम् अशुभं याभिस् तथा-भूताभिः सतीभिः शिवाभिः शृगालैर् बभूवे अभूयत । धूलीनां धूः कम्पनं वायुगत्या चलनं तया या ऋईढा निन्द्यत्वेनावज्ञास् ताभ्यो निर्गताभिर् अपि, रीढावमाननावज्ञा इत्य् अमरः, रलयोर् ऐक्यम् । सम्बादि सादृश्यधारि गवलं माहिषं शृङ्गं यासां ताभिर् दिग्भिर् एवावलाभिः स्त्रीभिः । अहोमणिना सूर्येण तथा-भूतेन बभूवे । स्पर्शनेन पवनेन । भूवेपथुना भू-कम्पने पृथग् एवेति सर्वतोऽप्याधिक्यद्योतनाय । वाम-नयनानां नारीणाम्, अवामनयनादि दक्षिण-नयन-भुजोरु, पुरुषाणां तु तद् विपर्ययेण वाम-नयन-भुजोरु, उभयेषां पुंसां स्त्रीणां च सत्त्वं प्राणः कमप्य् अनुद्वेगं न आशिश्राय, न प्राप, किन्तु सर्वम् एवोद् वेगम् इत्य् अर्थः । सत्त्वं भावे स्वभावे च व्यवसाय-प्रभावयोः । पिशाचादौ गुणे प्राणे वले जन्तौ च चेतसि ॥ इत्य् अमर-माला ॥१२॥

इत्येवंविध-विविध-विरुद्धाभावुकभावुक-महातङ्क-पङ्कपङ्किलहृदः सर्व एव घोषा घोषाधिराजेन समं समन्तत उद्भूत-भूत-विप्लवमिव मन्यमाना मानातीतं कृष्णानुभावं ह्यनुभावं भावं च नानुभवन्त इति तं प्रति शशङ्किरे ॥१३॥

एवं-विधं विविधं यद् अभावुकम् अकुशलं तस्य भा कान्तिस् तस्या आमुकेन जनकेन महातस्करूप-पङ्केन पङ्किलं हृत् येषां ते, अथावुको जनकः इत्य् अमरः । घोषा गोपाः, मानातीतं सङ्ख्यातीतं कृष्णस्यानुभावं प्रभावं, अनुभावं भावं च अनुभूय अनुभूयापि नानुभवन्तः । अत्रादौ धातुः साधनेन युज्यते, पश्चाद् उपसर्गेणेति-मते णमूलन्तस्य द्वित्वानन्तरम् उपसर्गयोग इति । तं प्रति श्री-कृष्णं प्रति ॥१३॥

**
“अहो! अद्य महाबुद्धिबलेन बलेन विना वनं गतवानेकोऽनेकोपद्रवकरावकरारिघोरं निरघोऽरं निरवधानैः शिशुभिः पशुभिः पथि नाभिज्ञैः सह स हताः स्मो न विद्मः शिव! शिव! किं कष्टं समजनि” इति नीतिमन्तः ॥१४॥**

कं शशङ्किर इत्य् अत्राह—अहो अद्येति । वलेन बलदेवेन । वनं कीदृशं ? अनेकोपद्रवकरोऽवकरो देषो येषां तैर् अरिभिः शत्रुभिर् घोरम् । स कृष्णस्तु निरघः कस्याप्य् अपराधं न करोति, तथापीत्य् अर्थः ॥१४॥

त्वरितमेव यथावस्थितमवस्थितमपहाय हायनोर्ध्वमपि बालकमारभ्य सकला एव विकला, विकला एव विवृद्धशोककृष्णवर्त्मना कृष्णवर्त्मनामुद्देशेन कुलवधूसमेतपुरपुरन्ध्रीभिः समं व्रजेश्वरी बालवृद्धतरुणाभीरैः सह सहसङ्कर्षणो व्रजेश्वरश्च त्रिभुवनविलक्षणलक्षणभगवच्चरणकमललक्ष्मानुसारेण कातरमनसो मनसोऽग्रत एव तं देशमासेदुः । केवलं स्थावरतयावरतया शोचन्तीवात्मानमनिशान्तानि निशान्तानि स्थितानि ॥१५॥

अवस्थितं भोजन-पानाद्य् अवस्थां तत् तच् चेष्टाम् इत्य् अर्थः । तत्रापि यथावस्थितं तत् तच् चेष्टानाम् अपि तथा तथा भावम् अनतिक्रम्य समाप्तिम् अनपेक्ष्य मध्य एव विहायेत्य् अर्थः । शोक-कृष्णवर्त्मना शोकाग्निना—कृष्णवर्त्मा शोचिष्केश उषर्वुधः इत्य् अमरः । तं देशं कालिय-हृद-तटम् । स्थावरतया आत्मानम् अवरतया अवरत्वेन निकृष्टत्वेन गमनासामर्थ्येन शोचन्तीव । अतएव अनिशान्तानि, न नितरां शान्तानि दुःख-शान्तिम् अप्राप्तानीत्य् अर्थः । निशान्तानि गृहाणि, निशान्तवस्त्य् असदनम् इत्य् अमरः ॥१५॥

एवमागताश्च ते तं देशं तदेशं तमन्तरेण रुदतः शिशूनपि परमशोकातुरानवलोक्य प्रश्नमन्तरेणैवमन्तरेणैव निवेदितमवगत्य श्रीकृष्णस्य विषह्रदाप्लवनं विषह्रदाप्लवनं कृतवन्तमिवात्मानं तटस्था एव जानन्ति स्म ॥

तदा तस्मिन् काले ईशं श्री-कृष्णं तमन्तरेण विना रुदतः, अतएव क्व स भवतां प्राण-बन्धुर् इति प्रश्न्मन्तरेण, एवं हा हन्त विषहृअदे स प्रविष्ट इति तैर् निवेदितम् अप्य् अन्तरेण विनैवावगत्य ज्ञात्वा तटस्थाः कूलस्था अपि ॥

**आपादाग्रशिरोविषानलमहोमाहात्म्यदग्धा इव ** **ज्वालाजालकरालभस्मितहृदः सर्वे निपेतुर्भुवि । ** **वात्यावर्तविपाटिता इव लता नार्यो नराश्च क्षणान् ** मूलच्छेदधुता द्रुमा इव ह्रदप्रान्तस्थलीं तस्तरुः ॥ **हा तात तातवत्सल, किं कृतमतिसाहसं सहसा । ** इति वाष्परुद्धकण्ठं, रुदन्मुमूर्छ व्रजाधीशः ॥

करालं यथा स्यात् तथा भस्मितं हृत् येषां ते । तस् तरुर् आच्छादितवन्तः ॥

**व्रजजनप्रिय वत्स विपद्यते, व्रजजनस्तव दर्शय सन्निधिम् । ** अहह हा बत हेत्यनुलापिन-स्तमभितः पतिता भुवि गोदुहः ॥

हे व्रज-जनस्य प्रिय ! बहुव्रीहिर् वा, तव व्रज-जनो विपद्यते म्रियते । तं नन्दम् अभितं, गोदुहो व्रजराजस्य सखायः ॥

समदुःखसुखा व्रजेशभार्यां, परितस्तां पतिताः सहैव गोप्यः । कुररीमिव शोककर्शिताङ्गीं, विलपन्तीं करुणस्वरं विलेपुः ॥

गोप्यो व्रजेश्वर्याः सख्यः सम-दुःख-सुखाः, तस्याः सुखेन सुखिन्यः, तस्या दुःखेन दुःखिन्य इत्य् अर्थः । अभितः-परितः-समया-निकषा-हा प्रतियोगेष्वपि दृश्यते इति द्वितीया ॥

**नवमुग्धदृशः कुमारिकाश्च, प्रथमानप्रथमानुरागभाजः । ** स्खलिता भुवि मूर्च्छयैव सख्या, कृतसान्त्वा इव नो तदा विलेपुः ॥१६॥

नव-मुग्ध-दृशो वध्वः, यद् वा, तथा-भूता भवत्यः कुमारिकाश् चेति च-काराल् लव्धानां वधूनाम् एवात्र प्राधान्यमायातम् ॥१६॥

एवं तदा तदाकाराकारितमनस्तयानस्तयाप्राकृततयाततया च तथाविधेऽपि शोके जीवितानि वितानित-स्थेमानि न परं यदि बहिरभूवन्, तदा करुणविलापशब्दगुणं गगनम्, अश्रुनिर्झरमयो ह्रदतटः, निःसहनिपतितैः कलेवरैश्छिन्नलताद्रुममयीव धरणी, शोकमयः समय इति स्थिते कृष्णानुभाव-भावनाकुतूहलिना हलिना किञ्चिदूचे ॥१७॥

तदा तस्मिन् काले तस्य श्री-कृष्णस्याकारेणाकृत्या आकारितान्याहुतानि मनांसि येषां तेषां भावस् तत्ता तया । अतएवाननस् तया न अस्तं गतया, तत्र हेतुः—अप्राकृततया । सापि नैकांशेन, किन्तु सर्वांशेनैवेत्य् आह—आततया सम्पूर्णया हेतुना, तथाविधेऽपि शोके, जीवितानि प्राणाः । कीदृशानि ? वितानितो विस्तारितः स्थेमा स्थैर्यं यैस् तानि । निःसहं यथा स्यात् तथा निपतितैः । कृष्णस्यानुभावस्य प्राभावस्य भावना अनुसन्धानं तेनैव कुतूहलवतेति तस्य प्रगाढ-प्रेमावेश-तिरोहितैश्वर्य-ज्ञानत्वेऽपि तदानीम् ऐश्वर्य-शक्त्या मनसि स्वयम् एव स्फुरितं श्री-मन्-नन्दादीनां सर्वेषां किञ्चित् सन्धुक्षण-प्रापणार्थम् इति ज्ञेयम् ॥१७॥

**
“हंहो तात! तातप्यमान-मानसतया समेधमानेन मानेन शोकेन स्वदेहः खेदयितव्यो दयितव्योऽयं कृष्णस्य” ॥१८॥**

तातप्य् अमानम् अतिशयेन तप्तं भवति मानसं यस्मात् तस्य भावस् तत्ता तया सम्यग् एधमानेन वर्धमानेन शोकेन स्वदेहो न खेदयितव्यः, यतोऽयं दयितव्यः कृष्णेनानुकम्पनीयः ॥१८॥

**
“भो मातर्मातःपरं विलप, लपनं मे निर्धारय, धारय धृतिम्, भो भोः पौरजानपदाः! विपदाविष्करणेन मापरं परं सन्तापमाप्तुमर्हत” ॥१९॥**

लपनं वचनम् ॥१९॥

**
“अस्य हि मदवरजस्य मदवरजस्य शौर्यस्य महिमानं हि मानन्दवर्धनं भवन्तो जानन्ति, जानाम्यहमेव केवलम्, केवलम्बन्ताममरपरिवृढा अपि यल्लवावबोधम्” ॥२०॥**

मदवरजस्य मत्कनिष्ठस्य शौर्यस्य महिमानां भवन्तो हि निश्चितं मा जानन्ति, न जानन्ति । कीदृशम् ? आनन्द-वर्धनम् । शौर्यस्य कीदृशस्य ? मदवरात् महाहङ्काराज्जातस्य । अस्याग्रे को वराकः कालिय इति भावः । अमर-परिवृढा देव-श्रेष्ठा अपि के तावद्-यस्य महिम्नो लवस्याप्य् अववोधं ज्ञानम् अवलम्बन्तां प्राप्नुवन्त ॥२०॥

**
“बोधं प्राप्नुत, ईषत्करः खल्वयमनेन पुन्नागेन नागेनस्य पराभवः । नाडगेनपराभवः पवनेन कर्तुं शक्यते । न मयूखमालिमालिन्यं तमसा कर्तुं प्रभूयते । न च समूहो महानलस्य नलस्य वनेन निर्वाप्यते । किमस्य मकरकुण्डलिनः कुण्डलिनः क्षुद्रतमाद्भयसम्भावनम् । तदधुना सन्तापमुपश्यत, पश्यत भुजङ्गापसदममुममुक्तशौर्यो मुक्तप्राणमिव कृत्वा समुत्थितप्रायोऽयमभिप्रायोऽयमभिमतो मम निश्चीयताम्” ॥२१॥**

पुन्नागेन पुरुष-कुञ्जरेण श्री-कृष्णेन, नागेनस्य नागानामिनस्य मुख्यस्य कालियस्य पराभवः । ननु कालियोऽपि-महा-शौर्यवान् अतिक्रुरश् च ? सत्यम्, तथापि श्री-कृष्णं पराभवितुम् असौ न शक्नोतीति सदृष्टान्तम् आह—नागेनस्य न अगेनस्य पर्वत-मुख्यस्य पराभवः, शैल-वृक्षौ नगावगौ इत्य् अमरः । न केवल्ं पराभव-शक्तिर् एव, किन्तु महातेजस्विनः सान्निध्यमात्रेणैव तत्-प्रतिकूलस्य नाश एव स्याद् इत्य् आह—न मयूखेति । मयुखमाली सूर्यः । न च नाश-मात्र एव विश्रान्तिः, प्रत्युत तत एव तेजसाम् अप्य् उपचय एव महान् स्याद् इत्य् आह—न च स्मऊह इति । न च निर्वाप्यते, प्रत्युत स्वं भस्मीकारयितुम् अतिवर्धिष्णूक्रियते इति भावः । मकर-कुण्डलिनः कृष्णस्य, कुण्डलिनः सर्पात्, उपश्यत दूरी-कुरुत, शो तनुकरणे इत्य् अस्य रूपम् ॥२१॥

इत्युक्तवति भगवति भगणपतिधवले बले सपरिजन-जनकजननीजननीरन्ध्रशोककातरतामनुमाय मायया सम्मोहित-सकलसुरासुरादिलोको लोकोत्तरगुरुतरप्रभावो भावोधोज्ज्वलः प्रकटितपुरुपराक्रमः क्रमवरीवृध्यमानवेगो मत्तकुण्डलिकुण्डलितस्तिमिर-तरु-काण्डगतश्चन्द्रमा इव ह्रदोदरतोऽदरतोषपेशलस्मितमुन्ममज्ज नमज्जनसुखाकरः श्रीकृष्णः ॥२२॥

भं नक्षत्रम्, तद्-गणपतिश् चन्द्रः । तथा-विधेऽपि तस्मिन् कालियस्य तदानीन्तन-स्वदौरात्म्य-प्रकटने हेतुः—योग्यतायां हेतुः—लोकोत्तरेति । वकाघाद्य् असुर-वध-सूचितं महा-प्रभावं तस्य तदा तान् स्मारयामासेति भावः । भा देह-कान्तिः, वोधः स्व-विक्रमानुभवः, ताभ्याम् उज्ज्वलो बहिर् अन्तः—प्रफुल्ल इत्य् अर्थः । अत्र प्रकटित-पुरुपराक्रमो भावौघोज्ज्वलः क्रमवरीवृध्यमानवेग इति विशेषणत्रयेण पर्वतमयूखमालिमहानलेति दृष्टान्त-त्रय-धर्माः क्रमेण विवृताः । मत्तस्य मुण्डलिनः कालिय-नागस्य कुण्डलितं कुण्डलाकृतिवेष्टनं यत्र सः । अदरेण अनल्पेन तोषेण हर्षेण पेशलं सुन्दरं स्मितं यत्र तद्-यथा स्यात् तथा, उन्ममज्ज उत्थितवान्, नमतां भक्तानां जनानां सुखाकरः ॥२२॥

अथ तदैव देवतसदसि—

**भं भं भं भमिति बभूव शङ्खघोषो, दुं दुं दुं दुमिति च दुन्दुभिप्रणादः । ** गीर्वाणा गरिमगभीरभूरिभेरी-भाङ्कारैः श्रुतिपथपोथिनो बभूवुः ॥२३॥

गरिम्णा गभीरैर् भूरिभेरीणां भाङ्कारैः श्रुति-पथस्य पोथिनः कुन्थनवन्तः, पुथि कुन्थने इति वोपदेवः ॥२३॥

ततस्ततेन तेन प्रमोदनादेन नादेन सह सहसा समकालमेव लब्धजीविता इव विपन्नाः, प्रमोदेनेव करग्राहमुत्थापिताः पितामहादिभिरभिनन्द्यसौभाग्या भाग्यातिरेकभाजो। व्रजराजादयः । तमति-तीक्ष्णणतीक्ष्णक-कालं करालतर-फणफणद्विषफेनफेनिल-मुखविवरज्वलज्ज्वालाजालजालघुविस्फुलिङ्गलिङ्गकमहाभयम्, शतमूर्धानमूर्ध्वानद्धमणिशतमयूखनिचय-ख-निचयन-चतुरमधोमुख-तप्ततराम्बरीष-निविरीष-निर्जात-जातवेदः-कण-सदृणदृशमवदोधूयमानायत-यतन-द्विशतरसना-सनाथमुखोदरम्, खोदरं लेलिहानमिवातिमदं कालियनागमालोक्य जातमात्रमानन्दकन्दलं दलन्तमपि भूयो भूयोभिर्भयः शोषयन्तो मुहुरतोषयन्तो हृदयं च जीवितावासबलदे बलदेवस्य वचस्यपि न विश्वसन्तो निःश्वसन्तो नितान्तं दीर्घमुष्णं मुष्णन्त इव स्वयं स्वमेव धैर्यं पुनरपि समुपसन्नां प्रमोहावस्थामनवस्थामनवधीरयन्तीमालम्बितुं यदैव प्रववृतिरे, तदैव शोकसङ्कर्षणेन सङ्कर्षणेन किमपि निगदता सरसतरं स रसतरङ्गतो रङ्गतो भुजङ्गमोत्सङ्ग-सङ्गतमात्मानं शिथिलीकृत्य फणफणायमान-फणायमानमनाः फणशत-मणिशत-किरण-मञ्जरीजरीजृम्भ्यमाण-महामहोवल्लिकाननविजिगाहयिषया समुत्पतन् समुत् पतन्निव फणमण्डलमारोहन्नवरजो वरजोषो दर्शयाम्बभूवे ॥२४॥

ततेन विस्तृतेन । प्रमोदनां ददातीति तेन नादेन सह समकालम् एव लव्धजीविता इति तादृशनादोऽपि पूर्वं नष्ट इवासीदिति भावः । व्रजराजादयस् तम् अतिमदं कालिय-नागम् आलोक्य पुनर् अपि समुपसन्नां प्रमोहावस्थाम् आलम् आलम्वितुं यदैव प्रववृतिरे, तदैव सङ्कर्षणेन किम् अपि निगदता अवरजः कृष्णो दर्शयाम् बभूवे इत्य् अन्वयः । तं कीदृशम् ? अतितीक्ष्णं तीक्ष्णकं लोहा-विशेषम् इव कालं काल-वर्णम्, विषाभिमरलोहेषु तीक्ष्णम् इत्य् अमरः । करालतरेभ्योऽतिभीषणेभ्यः फणेभ्यः फणतां निर्गच्छतां विषाणां फेनैः फेनिलानि यानि मुखानि तेषां विवरेषु ज्वलतो ज्वालाजालात् जाता अलघवो विस्फुलिङ्गा एव लिङ्गानि ज्ञापका यस्य तथा । भूतं महा-भयं यत्र यस्माद् वा तं तादृश-महा-भय-रूपम् इति वा-फणद् इति फण गतौ इति शत्रन्तः । शत-मूर्धानं शत-सङ्ख्य-मस्तकम् । एतच् च प्राधान्यापेक्षया । यथोक्तम् [भा पु १०-१६-२८] यद्-यच् छिरो न नमतेऽङ्ग-शतैक-शीर्ष्णः इति । वस्तुततस्तु सहस्र-फण एवासौ, यथोक्तम् [भा पु १०-१६-३०] तच् चित्र-ताण्डव-विरुग्ण-फणा-सहस्रः इति । ऊर्ध-देशे असम्यक्-प्रकारेण नद्धस्य वद्धस्य मणि-शतस्य मयूख-निचयैः किरण-समूहैर् एव खस्य आकाशस्य नितरां चयने आकृष्य ग्रहणे चतुरम्, अधःस्थितानि मुखान्येव तप्ततराण्य् अम्बरीषाणि भर्जन-पात्राणि तेभ्यो निविरीषां निविडं यथा स्यात् तथा निर्जातस्य निःसंशयं जातस्य जातवेदसो वह्नेः कणैर् एव सदृश्यो दृशो नेत्राणि यस्य तम्, अवदोधूयमाना अतिशयेन चलन्त्य आयता दीर्घायतना दर्शनार्थं कृतयत्ना द्विशतरसना एकैक-मुर्खे द्वे द्वे जिह्वे इति नियमेन या द्विशत-सङ्ख्य-जिह्वास् ताभिः सनाथानि मुखानाम् उदराणि विवराणि यस्य तम्, खस्य आकाशस्योदरं मध्यम्, लेलिहानं पुनः-उनर् लिहन्तम्, जात-मात्रं श्री-कृष्ण-मुख-शोभा-दर्शनाद् आनन्द-कन्दलमानन्दाङ्कुरम्—कन्दलं तु कपाले स्याद् उपरागे नवाङ्कुरे इति विश्वः, दलन्तं प्रस्फुटन्तम् अपि, भूयः पुनः कालियनागालोकनाद्-भूयोभिर् बहुतरैर् भयैः शोषयन्तः शुष्की-कुर्वन्तः, जीवितस्य जीवनस्याश्वास-रूपं वलं ददातीति तस्मिन्, प्रमोहोवस्थां मूर्च्छाम्, कीदृशीम् ? अनवस्थामनवस्थानम्, अनवधीरयन्तीं नवजानन्तीं पुष्यन्तीम् इत्य् अर्थः, यद् वा, अनवधि अवधिशून्यं यथा स्यात् तथा, अनवस्थामीरयन्तीम्, शोक-सङ्कर्षणेन शोकनाशकेन, अवरजः स्वानुजः श्री-कृष्णो दर्शयामासे, तान् प्रतीत्य् अर्थः । सरसतरं यथा स्यात् तथा स कृष्णो रसतरङ्गतो जल-तरङ्गात् रङ्गतो रङ्गेण भुजञ्गमोत्सङ्गे सङ्गतमात्मानं शिथिलीकृत्य समुत्पतन्, क इव समुत्पतन् ? समुत् हर्ष-युक्तः पतन् पक्षीव, पतत्-पत्र-रथाण्डजाः इत्य् अमरः । ततश् च फण-फणायमानेषु सहसा वृद्धिशीलेषु फणेषु अयमानं नृत्यार्थं गच्छत् मनो यस्य सः । फण-फणेति सहसा वृद्धि-प्रफुल्लतानुकरणम् । किम् अर्थम् ? फणानां शते मणि-शतस्य किरण-मञ्जुरीभिर् जरीजृम्भ्यमाणा अतिशयेन प्रकाश्यमाना महा-महोवल्ल्यो महातेजोमय-लतास् तासां काननस्य विगाहनेच्छया, वरो मुख्यो जोषः प्रीतिर् यथ सः ॥२४॥

**
“भो भोः! दृश्यतां दृश्यतां गतोऽयमञ्जन-स्निग्धो भुजङ्ग-दशन-दंशन-लग्न-विषम-विष-महानल-स्फुलिङ्गकण-चाकचक्याशक्योपममणिमय-सकलालङ्करणोऽलङ्करणोचितविक्रमः, क्रमवरीवृध्यमानावमानावहतभुजग-भोग-वेष्टन-शिथिलकच-कलापालक-निकरोष्णीषपीतवसनवनमालामालालितविग्रहो विग्रहोपयुक्ततया पुनरपि दृढबद्धपरिकरः, परिकरसुखदिदृक्षया क्षयाय फणमणिमहसो महसोसूयमानमहसो निजकलेवरस्य वरस्य प्रभया भयाक्रान्तेव निर्वापितेषु फणमणिमहःसु सुखमिदानीं दृश्यतां मद्वचसश्च तत्त्वमनुभूयताम् । भूयतां च परमानन्दवत्तया विस्मृतवैकल्यैः कल्यैककल्याणैः” इति विस्मय-स्मय-शबलेन बलेन निगदिता दिताखिलशोकाः सर्व एव घोषजुषो जुषोत्फुल्लनयना नयनानन्दकन्दं श्रीकृष्णमालोकयन्तो लोकयन्तोऽपि भयानकमहीन्द्रं युगपदेव पदे वर्धमानमानन्दभरयोः शाबल्यं भजन्ते स्म ॥२५॥**

दृश्यतां दर्शनार्हतां गतः प्राप्ताः । भुजङ्गस्य दशनैर् दन्तैर् दशने लग्नं विषमं विषम् एव महानलस्य स्फुलिङ्ग-कणस् तस्य चाकचक्येनाशक्योपमं निरुपमं मणिमयं सकलम् अलङ्करणम् अलङ्कारो यस्य सः, अलम् अतिशयेन करणानां भुजादीनाम् उचितो विक्रमो यत्र सः, यद् वा, करणे कार्ये विषये युक्त-विक्रमः । क्रमेण वरीवृध्यमानोऽतिशयेन वर्धमानोऽवमानस् तिरस्कारस् तेनैवावहतं दूरीभूतं यद् भुजगस्य महा-भोगेन वृहद् आभोगेन भोगेन शरीरेण वेष्टनं तेन हेतुना शिथिलाः, कचकलापश् च अलक-निकरश् च उष्णीषश् च पीतवसनं च वनमाला च तैर् एव मा शोभा तया ललितो ललितीकृतो विग्रहो देहो यस्य सः, विग्रहोपयुक्ततया नृत्यम् इषेण कालिय-शिरसि पाद-प्रहार-प्रदानेच्छया दृढं वद्धः परिकरं परिच्छदो येन सः, भवेत् परिकरो वृन्दे परिवार-विवेकयोः । आरम्भ-गात्रिकावन्धपर्यङ्केषु परिच्छिदे ॥ इत्य्जयः । फणानां मणि-महसो मणितेजसः क्षयाय च वद्ध-परिकरः, अतएव महेन निनर्तिषोत्सवेन सोसूयमानम् अतिशयेन प्रादुर् भवेत् मह किरणो यस्य तथा-भूतस्य कलेवरस्य प्रभया कान्त्या निर्वापितेषु । तत्र हेतुम् उत्प्रेक्षते—भयाक्रान्त्येवेति । कृष्ण-गात्र-तेजसा मणितेजांसि भीतानि जातानि, अतएव तेन निर्वाइतानीत्य् अर्थः । वस्तुतस्तु महा-तेजसोऽग्रे क्षुद्र-तेजस् तिरोधत्त एव । अतएव युष्माभिर् विस्मृत-वैकलैर् भूयताम्, वैकल्यम् अपि स्मृति-पथे मा तिष्ठत्वित्य् अर्थः । कीदृशैः ? कल्यं समर्थं निरामयं व एकं मुख्यङ्कल्याणं भाग्यातिरेकाद्-येषां तै, कल्यौ सज्जनिरामयौ इत्य् अमरः । इति विस्मयस्मयाभ्याम्द्भुत-हास्यरसाभ्यां शवलेन कर्वुरितेन बलदेवेनोक्ताः सन्तः खण्डित-समस्त-शोकाः, अतएव युषा प्रीत्या उत्फुल्ल-नेत्राः, युषी प्रीति-सेवनयोः भावक्विवन्तः । युगपदेव पदे स्थाने विषये श्री-कृष्ण-द्र्शनेनानन्दो वर्धते, कालिय-दर्शनेन भयम् इति ॥२५॥

अथ श्रीकृष्णोऽपि तटस्थानतटस्थानतिममतया मतया तान् करुणापाङ्गेन कृपाङ्गेन कृतार्थीकुर्वन्नखिलसुरकिन्नरनरसिद्धसिद्धसन्मानो मानोन्नतो नतोद्धारकः फणमण्डलरङ्गभुवि
निनर्तिषुर्यदि मनः सहचरीचरीकरीति स्म, तदैव विबुधा विबुधा गन्धर्वविद्याधराप्सरसां सरसां गोष्ठीमारचय्य मृदुमृदङ्गमुरज-पणव-पण-बहुलनृत्यसाहाय्यसम्पादनाय समवतिष्ठन्ते स्म ॥२६॥

तटस्थान् कूल-स्थान्, मतया युक्तया अतिममतया अतिशयममत्वेन हेतुनाटस्थाननुदासीनान्, तान् व्रजवासिनः करुणापाङ्गेन करुणेनापाङ्गेन करुण-रसमय-कटाक्षेणेत्य् अर्थः । कृपा दयैव अङ्गं यत्र तथा-भूतेन कृतार्थीकुर्वन् सन् निनर्तिषुर्षदि मन एव सहचरीकरोति स्म—नृत्याङ्गानां वाद्य-गीतादीनाम् अपेक्षितत्वेऽपि तत्रान्यस्य प्रवेशाशक्तेः । स्व-मानसम् एव मार्दङ्गिकादित्वेन स्थापितं तथा-भूतम् अपि सहचरं स्वसङ्ग-सङ्गतम् अतिशयेनाकरोदित्य् अर्थः । सहचरीति अभूत-तद्भावे च्विः । नन्वेवम् अपि कथं नृत्य-सिद्धिः ? तत्राह—अखिलानां सुरादीनां सिद्ध एव सम्मानो नृत्य-साधुवादो यत्र सः । तत्र हेतुः—मानेन नाट्य-शिल्पज्ञानेनोन्नतः । न केवलम् एतावत्त्वम् एव, किन्तु नतोद्धारको नतानां भक्तानां स्व-प्रभुं तथा-भूतम् आलोक्य भय-विह्वलानां तस्माद् उद्धार-कर्त्ता । अतएव विवुधा देवाः, विवुधा विशिष्ट-पण्डिताः, तदानीन्तन-व्यवसायौचित्य-ज्ञानात् । मृदङ्गादिभिः पण-बहुलस्य स्तुति-बहुलस्य नृत्यस्य साहाय्यं सम्पादयितुम् ॥२६॥

समनन्तरमनन्तरहसि निखिलकलासौभगवति भगवति कर्कशमार्गरीत्या दाक्षिणात्यप्रबन्धबन्धमनुसरति गन्धर्वादयोऽपि चच्चत्पुटचाचपुटतालौ गुरुलघुप्लुतद्रुतद्रुतार्धविरामरामणीयकविदां वरिष्ठैः सशब्द-निःशब्दादिभेदविचारचातुरीगरिष्ठैस्तालधारिभिरुद्घाटयामासुः ॥
यथा—

थैयातथतथथैया-थैथैथैयातथेति गन्धर्वाः । तालं पाठं वादन-मारेभिर उच्चकौर्मुदिताः ॥

अनन्तरहसि अपरिमित-रहस्ये, रहोऽतिगुह्ये सुरते इति विश्वः, यद् वा, अनन्तरस्य शेष-नागस्य रहस्य-रूपे । अतः कालिय-फणोपरि नृत्ये को विस्मय इति भावः ॥

**उद्घाटयन्ति शब्दं, तालं पाठं च ते यथा विरुदम् । ** अयमपि तथैव नृत्यति, फणिनः फणतः फणान्तरं गच्छन् ॥

यथा-विरुदं चण्डत्तमञ्जर्यादि-लक्षणं विरुदम् अनतिक्रम्य ॥

**निजकल्पितया गत्या, नृत्यति कृष्णो यथा स्वैरी । ** न तदनुरूपं गातुं, वादयितुं पठितुमप्यमी शेकुः ॥ **एको नृत्यन्नथ फणिपतेः शीर्षतः शीर्ष्णि गच्छन् ** स्वेनाक्लृप्तां वदनविधुनोद्घाटयन् शब्दमालाम् । **घाते घाते चरणकमलाघातभङ्ग्योन्नमन्तं ** शीर्णं कृत्वा नमयति फणं पण्डितस्ताण्डवेशः ॥

अमी गन्धर्वादयः ॥

घाते घाते प्रथिघातम् एव स्वेन वदन-विधुना स्व-मुख-चन्द्रेण ॥

द्रां द्रां द्रां दृमिदृमिथोङ्गथोङ्गथोङ्गि-त्युत्तालप्रसृमरतालपाठगत्या । विन्यस्यन्नदयमुदारपादपद्मं, बभ्राजे फणिफणरङ्गभङ्गरङ्गी ॥२७॥

अदयं निर्दयं यथा भवत्य् एवं पाद-पद्मं विन्यस्यन् सन् वभ्राजे भ्राजते स्म । शङ्कुशरावघटोपरि परिपाटीभिर् नटन्ति शैलुषाः, इति तान् अतिचिक्रमिषुः फणि-फणन् अनु नरीनृत्यत्य् असौ कृष्णः ॥२७॥

अथैवं श्रीकृष्णस्य निजगतिविशेषमनुकर्तुमशक्नुवन्तोऽवन्तो व्रीडामायतमाना यतमाना अपि गन्धर्वा अप्सरसश्च यदि न प्रभवन्ति स्म, तदामी हर्षोत्कर्षोत्कमनसः स्वातन्त्र्येणैव ननृतुर्जगुश्च ॥२८॥

व्रीडामवन्तः पालयतः प्राप्नुवन्त इत्य् अर्थः । अत्र हेतुः—आयतमाना विस्तृत-गर्वाः, यतमाना यत्नवन्तोऽपि ॥२८॥

अथ तुमुलेषु दिवि दुन्दुभिदुङ्कारेषु, घनगभीरेषु भेरीभाङ्कारेषु, स्वभावसुखरेषु मुनिगणस्तवनेषु, निपतन्तीषु च नन्दनवनकुसुम-वृष्टिषु, बहुविधमेधमानेषु च दिविषदां घोषवासिनां च प्रमोदेषु, विबुधद्रुहां च वैमनस्येषु, ताण्डवचण्डिमानमारब्धवतः श्रीवनमालिनो निर्दयनिर्भरविन्यस्यमानचरणकमलाघातखेदखिन्नतया प्रतिफणं वमदसृग्धारमाभुग्ननयनमतिशीर्यद्भोगमाकुलतया म्रियमाणमिव तमाशीविषपति पतिं विलोक्य विषण्णहृदो हृदोपनीयापत्यानि पत्या निधनं गच्छतेव सकातर्यं ममतया निरीक्षमाणास्तेन चातिशयदोदूयमानमानसाः “न साम्प्रतं भगवदनुग्रहमृते मृतेरस्य निरासकं वर्तते” इति मनसि विभाव्य भाव्यनुकम्पां भगवतोऽभिकाङ्क्षन्त्यस्तद्वनिता नितान्तशोक-कर्षितत्वेन त्यक्त-साध्वसं साध्वसंहितलज्जं भगवत्सविधमभ्यागत्य सशोक-कातर्यं कलमधुरं स्तुवन्ति स्म ॥२९॥

विवुध-द्रुहाम् असुराणां वैमनस्येषु एधमानेषु निर्दयं निर्भरं च यथा स्यात् तथा विन्यस्यमानयोश् चरण-कमलयोर् आघात-खेदेन खिन्नतया वमन्ति मुखानि असृग्धारां यस्य तम्, मुखानीत्यस्य वृत्तावन्तर्भावः, जहच् छब्दः स्वार्थं यत्र सा जहत्-स्वार्था लक्षणेति यावत् । आशिविषपतिं सर्पराजम्, पतिं स्व-भर्तारम् । कीदृश्यः ? पत्या कालियेन निधनं मृत्युं प्राप्नुवता निरीक्ष्यमाणास् तेन हेतुना अतिशयेन दोदूयमानं पुनः-पुनर् उपतप्यमानं मानसं यासां ताः । भाव्यनुकम्पां भाविनीम् अनुकम्पाम्, साधु यथा स्यात् तथा, न संहिता न वद्धा लज्जा यत्र तद्- यथा स्यात् तथा ॥२९॥

**
“जय जय देव! देवघटामुकुटमहामारकत! कतमदस्ति भवतः परं परम्ब्रह्म ब्रह्म-शितिकण्ठ-कण्ठरत्नायमानगुणरत्नाकर! रत्नाकरतनया-कर-लालितं तव पादाम्भोज भोजं भोजमेव मानसमुखेन सुखेन सुयोगिनः परमहंसा हंसा इव क्षीरनीरयोर्नीरमिव पुरुषार्थ-सार्थ-मुख्यमपवर्गमपवर्गयोग्यं कुर्वन्ति” ॥३०॥**

हे देव ! जय जय । ननु किम् अहम् इन्द्रन्द्रादि-देवानाम् एकतमोऽस्मि ? तत्र न हि न हीत्याहुः—देव-घटति । सर्वदेवाराध्यो नारायणस् त्वम् इति भावः । ननु केषाञ्चिन्मते पर-ब्रह्मण एव सर्वतः श्रैष्ठ्यं श्रूयते ? तत्राहुः—भवतः परं त्वत्तोऽन्यभूतं परं ब्रह्म कतमत् ? त्वम् एव पर-ब्रह्मेत्य् अर्थः । ननु तत् तु निर्गुणत्वेन प्रसिद्धम्, अहन्तु सगुण एव तद् विपतीतः ? तत्राहुःउ—ब्रह्म-शितिकण्ठयोर् विधिभवयोः कण्ठे रत्नायमानानां गुण-रत्नानां गुण-मुख्यानाम् आकर ! हे खनि-रूप ! रत्नं स्व-जाति-श्रेष्ठेऽपि इत्य् अमरः । भगवद्-गुणानाम् अप्राकृतत्वात् त्वम् एव निर्गुणं ब्रह्मेत्य् अर्थः । प्राकृतत्वे ताभ्याम् आदरेण कीर्तनीयत्वं न स्याद् इति भावः । तत्र सतां प्रवृत्तिम् अपि प्रमाणयति—रत्नाकरेति । भोजं भोजम्, आस्वाद्यास्वाद्य, मानसं मन एव मुखं तेनापवर्गं मोक्षम् अपि अपवर्ग-योग्यं त्यागार्हं कुर्वन्ति, त्वद् अङ्घ्रि-चिन्तनास्वादेन ब्रह्म-ज्ञान-साध्यस्य मोक्षस्या-रोचकत्वे कृते ब्रह्मतोऽपि त्वन्माहात्म्यं प्रत्युताधिकम् एवावसीयत इति भावः ॥३०॥

**
“कुर्वन्तिके श्रवसोरस्मन्निवेदनं वेदनन्तृक! सच्चिदानन्दघनविग्रह! विग्रहमात्रक्षपित-सर्व-दानव! सर्वदा नव! नवव्यूहपर! परमपुरुष! रुषमपहर” ॥३१॥**

अतः श्रवसोः कर्णयोर् अन्तिके अस्मन्निवेदन्ं कुरु । वेदोऽपि नन्ता नतिकर्ता यस्य । यथा वेदः प्रणम्यैव त्वां स्वतात्पर्यम् अवधापयति, तथा वयम् अपि निवेदयाम इति भावः । ननु केषाञ्चिन्मते वेदा निराकारपरा एव ? तत्राहुः—सच् चिद् इति । तन् मतेऽपि तवाप्राकृतत्वात् निर्गुण एव निराकारोऽपि त्वम् एवेति भावः । कथं तर्हि देवक्याम् अर्वाचीन इव जातोऽस्मि ? तत्राहुः—विग्रह-मात्रेणैव क्षपिताः संहृता सर्वे दानवा येन । भू-भार-संहारणार्थं कृपयैव त्वम् आविर्भूतोऽसीत्यतो न त्वम् अर्वाचीनः, किन्तु पुराण-पुरुषोत्तम एवेति भावः । किं च, विगीतं पुरातनत्वं त्वयि नास्तीत्याहुः—सर्वदा एव नव ! नवीन ! नित्य-नवीनत्वेनैव तव पुराणत्वम् इति भावः6 । तद् एव विवृण्वन्ति—हे नव-व्यूहपर ! यथोक्तं सात्त्व-तन्त्रे—चत्वारो वासुदेवाद्या नारायण-नृसिंहकौ । हयग्रीवो माहाक्रोडो ब्रह्मा चेति नवोदिताः ॥ इति । अतो हे परम-पुरुष ! रुषं दुष्ट-निग्रहार्थाम् अप्य् अपहर ॥३१॥

**
“त्वमभिनवासुदेवो वासुदेवोऽसि, त्वमखिलतापसङ्कर्षणः सङ्कर्षणश्च, त्वमखिलघोषवासिनां प्रेमप्रद्युम्नः प्रद्युम्नश्च, त्वमात्ममायया निरुद्धोऽनिरुद्धोऽसि, त्वमखिलदेवतात्मा बतात्मा व्रजवासिनाम् । प्रसीद सीदत्ययं फणिपतिः” ॥३२॥**

व्यूहान् एव मुख्यान् स्पष्टी-कुर्वन्ति । अभिनवोऽसूनां प्राणानां देवः प्राणनाथोऽसीत्य् अर्थः । प्रेमैव प्रकृष्;तं द्युम्नं धनं यत्र सः, द्युम्नमर्थरैविभवा अपि इत्य् अमरः । आत्म-मायया योगमायया निरुद्धः, अन्यैर् अज्ञेय-तत्त्वत्वात् । नन्वेवं-भूतोऽस्मि चिन्मच् चरण-स्पर्शो भाग्यम् एव, किम् इति विषीदथ ? तत्राहुः—फणिपतिः सर्प-मुख्यः, अतितामस-जातित्वात् तत्-स्व-भाग्यान् अभिज्ञ इति भावः ॥३२॥

**
“अस्य रस्यतमं सुकृतं कृतं कियद्वास्ति, येन तेऽसुर-सुरकिन्नर-नरर्षि-देवर्षिगणवन्द्यमानमात्मारामरामणीयकहतसमाधि-समाधिदुर्लभं चरणकमलं कमलङ्करोति यदिदं तदनायासेनासकौ सकौतुकनटनाटनाहितं प्रतिफणमेवमेव बिभर्ति” ॥३३॥**

तत् पुनर् अस्माभिस् त्वनुभूयत एवेत्य् आहुः—अस्येति । आत्मारामाणां रामणीयकं रमणीयत्वं यतः, हतः सम्यगाधिर्मनोव्यथा यतः, स च स च यः समाधिस् तत्रापि दुर्लभम् । यद् इदं कं सुखमम् अलम् अत्य् अर्थं करोति, यद् वा, कं जनमलङ्करोति, किन्तु, न कम अपीति पुनर् दुर्लभत्वम् । सकौतुकं यत् नटनम् अटनं च ताभ्याम् आहितम् अर्पितम्, यद् वा, सम्यक् हितम् ॥३३॥

**
“भो अतीतगुणत्रय! गुणत्रयकृतोऽयं प्रपञ्चः स्वयमेव भवता भवतापहारकेण निखिलमनः शोधनसत्त्वेन सत्त्वेन पाल्यते, अनुकृतकपिकच्छूरजसा रजसा सृज्यते, अवधीरितनिविडतमसा तमसा संह्रियते, नाममात्रमत्र महाभुज! गरुडासन-कमलासन-वृषासनानाम्” ॥३४॥**

ननु किम् इत्येवम् आद्रियते, दुष्टोऽयं मया निग्रहीतव्य एव ? तत्र दुष्टता-शिष्टतयोस् त्यागोपादाने त्वत् परतन्त्राणां जीवानां स्वतो न सम्भवत इति वक्तुं तस्य निरतिशयैर्श्वर्यं विवृण्वन्त्य आहुः—भो अतीतेति । भवतापहारकेणापि भवता7 पाल्यत इति विरोधः । निखिलानां मनः-शोधने मनः शोधयितुं सत्त्वं सत्ता8 यस्य तेन सत्त्वेन, अनुकृतं सदृशीकृतं कपि-कच्छूरजः कण्डूराचूर्णं येन तेन । कपिकच्छूरालकुषीति, पाश्चात्य-देशे कौञ्च इति ख्याता, कपि-कच्छूश् च मर्कटी इत्य् अमरः ॥३४॥

**
“किञ्च, निष्किञ्चनप्रिय् ! गुणतारतम्येन जीवतारतम्ये न जीवः स्वगुणगुणदोषौ हातुमर्हति । तेनास्य तमोजनितया तमोजनितया खलतया खलतया तुल्यं सौजन्यम्, जन्यं तेन कदर्थयति । तवैवेयं माया मा यापयितुं शक्यते । विलोक्यते विलोदवसितानामीदृश्येव रीतिः” ॥३५॥**

स्वस्य गुणैः सत्त्वादिभिः, गुण-दोष्यौ शिष्टतादुष्टते । तेनास्य कालियस्य तमोजानतया तामस-जन्मत्वेन, खलतया खलत्वेन हेतुना । कीदृश्या तमोजनितया ? तमसा क्रोधेनोत्पादितया, खलतया आकाशलतया तुल्यं सौजन्यम्, असम्भवम् एवेत्य् अर्थः । जन्यं जन-हितम् । यदि दण्डेनापि न स्वभाव-परित्यागः, ततः किं दण्डेनेत्य् आहुः—तवैवेति । विलोदवसितानां विवर-गृहाणाम्—गृह-गेहोदवसितम् इत्य् अमरः ॥३५॥

**
“तेनायं नापराध्यति, राध्यतिकरुणरसे प्रभवति भवति भवति क उपेक्ष्यः । समदृशस्तव शस्तबहुलः सम एव सर्वः पन्थाः, कुरु कृपामरम्, पामरं जीवममुं जीवनेन न मोचयितुमर्हसि” ॥३६॥**

किं च, त्वयि पुनर् असावनुकम्प्य एव भवितुम् अर्हति, न तु दण्ड्य इत्य् आहौः—राधी सिद्ध एवातिकरुण-रसो यत्र तस्मिन् । न चान्येषाम् इव कृपायाम् असामर्थ्यम् इत्य् आहुःउ—प्रभवति प्रभविष्णौ, भवति त्वयि । दण्डानुग्रहयोः प्रति-कूलत्वानुकूलत्वाभ्यां प्रतीतयोर् अपि त्वत्कर्तृकत्वाद् यद्य् अपि तुल्यत्वम् एव, एतादृश-दण्डस्यापि शुभोदर्कत्वात्, तथाप्य् अस्मिन्नतिमूढेः कृपा-पक्ष एवोचित इत्य् आशयेनाहुः—समेति । शस्तवहुलो मण्गल-प्रचुरः, सर्वः पन्थाः, दण्डश् च निग्रहश् च, कृपां कुरु, अरं शीघ्रम् ॥३६॥

**
“यं भगवन्तं भवन्तं भव-कमला-कमलासन-प्रभृतयोऽपि यतयोऽपि यतमाना हृदापि दापितावधाना न वेदितुमर्हन्ति, तमसावति तमसावतिष्ठमानगरिष्ठमानगरिमपुष्टमतिः कथं विदाङ्करोतु” ॥३७॥**

माम् एव ज्ञापयितुम् अहम् एव प्रभावम् आविष्कृत्य दण्डयामीति चेदत आहुः—यम् इति । हृदा चित्तेन प्रयोजक-कर्त्रा दापितम् अवधानं येभ्य ते । तं भवन्तम् असौ कालियः, अति-तमसा हेतुनावतिष्ठमानस्य सदा तिष्ठतो गरिष्ठस्य मानस्य गर्वस्य9 गरिम्णा गौरवेण पुष्टा10 मतिर् यस्य सः । विदाङ्करोतु जानातु ॥३७॥

**
“तव हेलाकृतनटनटनटनत्कारिवेदनावेदनाभिभूतोऽयं महासारोऽपि रोपितहृन्मर्मव्रण इव श्वासमात्रावशिष्टोऽशिष्टोऽपि महाप्राणो हा! प्राणोज्झितो न भवतु” ॥३८॥**

कारुण्यम् उत्पादयन्त्यः सदैन्यं तर्जन्या दर्शयन्त्य आहुः—हेलया कृतेनापि नटनेन हेतुना या टन-टनत्कारिणी वेदना पीडा तस्या देवनेनानुभवेनाभिभूतोऽयं महा-सारोऽपि महा-बलोऽपि महा-प्राणः प्राणित्वांशेन तु महा-नेवेत्य् अर्थः ॥३८॥

**
“क्षम्यतामयमपराधः, मा वैधव्यमस्तु, पतिदानं नो विधीयताम्” इति कातरतरगद्गदगदनपराणामहि-महिलानां तदनुग्रहग्रहणग्रहिलानां कलकोमलमलरहितहितकाकुलपितमाकर्ण्य जातानुग्रहो भगवान् शिथिलीकृतकृतकनिग्रहो विगलितरोषोदयो दयोद्धुरमना मनाविहस्य मधुमधुरतरमुवाच ॥३९॥**

अस्मत्-सम्बन्धेनाप्येष रक्ष्यताम् इत्य् आहुः—मा वैधव्य मस्त्वित्युक्त्वापि पतिदानं नो विधीयताम् इति वदन्तीनाम् अयम् अभिप्रायः—यद्य् अपि त्वां सदा भजन्तीनाम् अस्माकं त्वद् वहिर् मुहेनानेन पत्या अलम् एव, तथापि वैधव्येऽपि स्त्रीत्वाद् अस्वातन्त्र्येणास्माकं पुनः केनापि वलिनान्येन सर्पेणावश्यम् आक्रंस्यमानत्वात्, तस्यापि त्वद् वहिर् मुखत्वाविशेषात्, प्रत्युत औपतत्यजुगुप्सातश् चायम् एव त्वच् चरण-स्पर्श-जनित-भाग्यः पतिर्वरं तिष्ठत्विति । अतएव हि दुष्टस्य पत्युर् भगवत्-करिष्यमाण-शास्तिम् एवेछन्तीनां प्रथमम् अनुपसर्पणम्, सम्प्रति तु तस्य शरणागति-लक्षण-भक्तिं जाताम् अनुमाय हृष्यन्तीनां तत्र प्रीतिर् इति । यद् उक्तम् [भा पु १०-१६-३०] तमरणं शरणं जगाम इति । श्री-भक्ति-रसामृत-सिन्धावपि दास-भक्त-प्रस्तावे [३-२-२३] शरण्याः कालिय-जरासन्ध-वद्ध-नृपादयः इति । अहिम-हिलानां सर्प-सुन्दरीणां कृतक-निग्रहः कृत्रिम-दण्डः । मनाग्-विहस्येति तासाम् अपि तथा-भक्ति-निष्ठानुभवात् ॥३९॥

**
“मा भैष्ट भो मा भैष्ट । मम विरतोऽयं तोयं लब्ध्वेव महानलो भवतीनां वचनेनानेनानेकोऽपि कोऽपि कोपः, तदयं पन्नगो न गोचरो भविष्यति मृत्योः । तस्मादयं ममेममाक्रीडमपहाय यत एवागतस्तत्रैव प्रतियातु । या तु मदीयचरणचिह्नचारुलक्ष्मीरस्य रस्यतमोत्तमाङ्गसङ्गिनी, तामालोकयतो गरुडादपि न भयम्” इति भगवदुक्त्युपरमे परमेणाश्वासेन निर्वृतहृदयो हृदयोभारभुग्नमिव यदासीत्, तदतिलघु लघु मन्यमानोऽमानोऽयं फणिपतिः सभयभक्तिश्रद्धमाह ॥४०॥**

अनेकोऽपि प्रचुरोऽपि कोऽपि अनिर्वचनीयः कोपः, श्लेषेण—न एकः, न मुख्यः—कृतक-निग्रह इति पूर्वोक्तेः, एके मुख्यान्यकेवलाः इत्य् अमरः । आक्रीड्यतेऽत्रेति आक्रीडं ह्रदम्, यद् वा, वृन्दावनम् । उत्तरमाङ्ग-सङ्गिनी शिरोवर्तिनी । अयसां लोह-पिण्डानां भारेणेव भुग्नं स्व-मृत्यु-शङ्कया रुग्णं हृत् मनः, तद् अतिलघु, भगवद् आश्वासेन तद्-भारापगमाल्ल्घु श्री-घ्रम् एव, अमानो गत-गर्वः ॥४०॥

**
“भो भगवन्! प्रभवतो भवतो भुवीयमाविर्भूतिर्भूतिकृते साधूनामसाधूनामभिभवाय । भवाय भव्यानां भव्यानां भक्तानां चाचन्द्रभास्करं भास्करम्बितमनोविनोदाय, विनोदाय च परमाशुभानामाशुभानामुदयाय” ॥४१॥**

भूति-कृते सम्पत्त्यै, भव्यानां मङ्गलानां भवाय उत्पत्त्यै । भव्यानां भाविनाम्—[पा ३-४-६८] भव्यगेय इत्यादिना कर्तरि य-प्रत्यः । भासा कान्त्या करम्बितानां मनसां विनोदायानन्दाय परमाशुभानाम् अत्य् अमङ्गलानां विशेषेण नोदाय दूरीकरणाय, अतएवाशु श्रीघ्रं भानां प्रकाशानाम् उदयायोद्गमाय ॥४१॥

**
“दयायतन! तदुचितोऽयं तोयं ते क्रीडोचितं दूषयतो मम निग्रहोऽनुग्रहश्चानुत्तमश्चातः कोऽपरः? कोपरसतो नृत्यतस्तव सकलमङ्गलास्पद-पदकमल-लक्ष्मलक्ष्मीभर-भरिता मे यदमी, फणमण्डलाः, तदद्य बलानुजानुजानीहि, भवदाज्ञया रमारमण रमणकमेव द्वीपमनुयामि । यामिह दुर्दैवतो दैवतोत्तम! तव चरणकमलयोरनीतिमकरवं मकरबन्धुरकुण्डल! तां क्षमस्व” इति । दिव्याम्बरवरमणिगणगणनपिहित-स्वरूपहितस्वरूपकौस्तुभमुक्ताहारोपहारोपनयन-पुरःसरं कृतप्रणामः सपरिकरो निश्चक्राम ॥४२॥**

दयायतन ! हे दया-मन्दिर ! मकराकृतिनी बन्धुरे सुन्दरे कुण्डले यस्य । दिव्याम्बराणि च वरमणिगणेषु मध्ये गणनेन यथान्ये मणयस् तथायम् अप्येको मणिर् इत्य् एवं-लक्षणेन कालिय-कर्तृक-विमर्शेन पिहितम् आच्छादितं स्वरूपं यस्य, तथा-भूतश् चासौ हित-स्वरूपश् च हित-धन-रूपश् च यः कौस्तुभः स च मुखाहाराश् च तेषाम् उपहाराणाम् उपनयनं समीपे प्रापणम् एव पुरःसरं यत्र, तद् यथा स्यात् तथा कृत-प्रणामः । एतद् उपहारीकरणं च कालियस्य स्व-प्रेयसीद्वारैव । यद् उक्तं श्री-गणोद्देश-दीपिकायाम्—[परिशिष्टे १२९] कौस्तुभाख्यो मणिर् येन प्रविश्य हृदमौरगम् । कालिय-प्रेयसी-वृन्द-हस्यैर् आत्मोपहारितः ॥ इति ॥४२॥

निष्क्रान्ते च तस्मिन् सद्य एव पीयूषयूषवदतिमधुरसाधुरसा बभूव सा ह्रदपयःपटली, पटलीलयावधीरित-तडिद्वलयो वलयोज्ज्वलकरः स च व्रजराजकुमारः कूलमुत्तीर्य तीर्यमाण-भयकौतुकचमत्कारानन्दशाबल्यसमुद्रं समुद्रंहसा पितरं मातरं मान्यानन्यानपि घोषवृद्धानृद्धानृतेन तेन परमादरेण प्रणम्य मातापितृभ्यां तैरपि व्रजपुरन्ध्रीभिः परमकुतूहलिना हलिना चालिङ्गितः, परमानुरागिणीभिर्वधूभिः कन्याभिश्च सानुरागपरभाग-परभागधेय-मधुरमीक्ष्यमाण ईक्षमाणश्च ताः, तथैव चिरमभितोऽभितोषवशंवदाभिर्धेनुभिरपि सास्रैरेव नयनपुटैः पीयमान इव, प्रफुल्लाभिर्घ्रायमाण इव, रसज्ञाभी रसज्ञाभी रभसेन लिह्यमान इव, कलगद्गदेन हम्बारवेण सप्रणयमनामयं पृच्छ्यमान इव, प्रत्येकमेव सखीनालिलिङ्ग ॥४३॥

पटलीलया तदानीं लब्ध-वस्त्रद्युति-विलासेनावधीर् इतं तिरस्कृतं विद्युद् वलयं तडिन्मण्डलं येन सः, तीर्यमाणो न पुनस्तीर्णः, वाधितानुवृत्तिन्यायात् । भयादीनां शावल्य-रूपः समुद्रो येन तम्, तत्र भयं कालिय-दर्शनेन, कौतुकं देव-वाद्याद्यनुभवेन, चमत्कारः सर्प-फणोपरि नृत्यावकलनेन, आनन्दः श्री-मुख-फुल्लतानुमित-दुःखाभावेन, समुत् सानन्दं यथा स्यात् तथा, रंहसा वेगेनऋद्धान् समृद्धान्, तेन तत्-कालोदितेन ऋतेन सत्येन निष्कैतवेन । अनुरागस्य परभागेन उत्कर्षेण हेतुना यत् परं श्रेष्ठं भागधेयं भाग्यं तेन सहितं च तत्, अतएव मधुरं चेति तद्-यथा स्याद् एवम् । रसज्ञाभिर् जिह्वाभिः, रसज्ञाभी रस-विज्ञाभिः, रभसेन हर्षेण ॥४३॥

इत्येवमामोदमानैर्बन्धुभिरामोद्यमाने विश्राम्यति भगवति व्रजवासरमणे वासरमणेरुपराममालोक्य व्रजराजो जराजोषमिव तं वासरस्य मन्यमानो “मा नोऽद्य वासगमनं भवितुमर्हति” इति विचार्य सर्वानेव निदिदेश देश-कालोचितं किमपि, यथा—“भो भोः! समुपसन्नेयं शर्वरी शर्वरीतिरिव विषमदर्शना तमोबहुला उग्रा च, तदिहैवाद्य वस्तव्यम्, स्तव्यं चेदं ह्रदतटमुपपादितं दितं गरलानलज्वलितमनेन कल्याणिना वत्सेन । तदिदं ह्रदकूलमनुकूलमनुसृत्य यामिनीं यापयाम” इति तदुदितमाकलय्य सर्व एव मुमुदिरे, मुदिरेन्द्ररुचः कमनीयकिशोरस्य रस्यतमाभिलषणीयतम-दर्शन-सौलभ्य-लभ्यमान-मानसविकार-कारणोत्कलिकाकण्डू-कण्डूलताक्षणनिर्वापणकृते विशेषतोऽनुरागिण्यो मुग्धरमण्यः कन्यकाश्च ॥४४॥

आमोदमानैर् हृष्यद्भिः, आमोद्यमाने क्रियमाणानन्दे सति भगवति । कीदृशे ? व्रज-वासरमणे, व्रजं वासेन रमयतीति तस्मिन् । वासरमणेः सूर्यस्योपराममस्तीभावम्, वासरस्य दिवसस्य जराजोषम् इव जरा-प्राप्तिम् इव तमुपरामं मन्यमानः । नोऽस्माकम् अद्य वासगमनं मा भवितुम् अर्हति । शर्वरी रात्रिः । सर्वस्य रुद्रस्य रीतिर् इव । स्तव्यं स्तवनार्हम्, यतो गरलानलस्य ज्वलितं ज्वलनम्, दितं खण्डितम् । मुमुदिरे आनन्दिता वभूवुः । अनुरागिण्यो विशेषतो मुमुदिर इत्य् अनुषङ्गः । कुतः ? मुदिरेन्द्ररुचो मेह्होत्तम-तुल्य-वर्णस्य कृष्णस्य रस्यतमम् अतिशयास्वाद्यम् अभिलषणीयतमं यद्-दर्शनं तस्य सौलभ्यतदानीं वारणाभावात् सुलभत्वं तेन लभ्यमानस् तदैव प्राप्यमाणो मानसो विकार एव कारणं यस्याः सोत्कालिका उत्कण्ठैव कण्डूर् व्याधि-विशेषस् तस्या या कण्डूलतेति सिध्नादिलजन्तात्तल् ॥४४॥

तदेवं श्रीकृष्णं मध्यमध्यवस्थाप्य तमभितोऽभितो व्रजराजादयः, क्वचन सखायः, क्वचन व्रजेश्वरीप्रभृतयः, क्वचन मातृनिकटस्थाः कुमार्यः, क्वचन श्वश्रूनिकटस्था वध्वश्च, परितस्तद्बहिरपि चापरास्तद्बहिरपि चापराः, तद्बहिरपि धेनवः, सविधे नवः स विविधास्त्रधारिगणो यासाम् ॥४५॥

कुमारीणां वधूनां च प्रथम-मण्डले स्थितिर् व्रजेश्वरी-साहित्यम् अनुरुन्धतीनां मातॄणां श्वश्रूणां च सङ्गानुरोधेन दैवाद् एव फलिता । तद् वहिर् द्वितीय-मण्डले चापराः, त्वर्थे चकारः, अपरास्तु गोपा अनुरागि-गोपी-पतिस्मन्यादय इत्य् अर्थः । अपरा इति पूर्व-अरावरेत्यादिना सर्वनाम् असञ्ज्ञा-विकल्पात् । तद् व्हिर् अपि तृतीय-मण्डले चापं रान्ति गृह्नन्तीति धनुष्पाणयः सर्व-रक्षका इत्य् अर्थः । तद्-वहिश् चतुर्थे मण्डले धेनवो गावः । यासां सविधे निकटे पञ्चमे मण्डले स महा-शौर्येण प्रसिद्धो विविधास्त्रधानिणां गणः समूहः ॥४५॥

इति मण्डली व्यूह्य विविध-विचित्र-चरित्र-चारिमगरिम-कालियमर्दनलीला-कथानुकथनेन निशार्धं गमयतामयतामथ निद्रामपि स्त्रीपुंसानां मध्ये देवोपसादितेन तेन रसमयेन समयेन श्रीकृष्णमुखचन्द्रमबाधमेव सानुरागमनिमेषमीक्षमाणानां वधूनां कुमारिकाणां च चाक्षुषे मानसे च भोगे निर्भरं निर्वहति सति मुख्यानां चन्द्रावलीप्रभृतीनां चातिशायिनि नयनोत्सवे पूर्वमेवाङ्कुरितप्रेममनोरथयोरथ योगमाकस्मिकं तमासाद्य परस्परदिदृक्षा-सदृक्षासमुत्कण्ठा समुत्कण्ठा समुत्पनीपद्यते स्म यदि, तदैवाकस्मिकमभिमुखीनमुभयोरेव चातुरक्षिकमक्षि-कमल-खेलनमासीत् ॥

विविधस्य चित्र-चरित्रस्य चारिमा चारुत्वं गरिमा गुरुत्वं ताभ्यां कालिय-मर्दनस्य लीला-कथाया अनुकथनेन निशार्धं गमयताम्, अथानन्तरं निद्रामयतां गच्छताम्, इ गतौ शत्रन्तः । निर्वहति निर्वाहं प्राप्नुवति सति । दर्शन-साम्येऽपि तासां मध्ये चन्द्रावल्यादीनाम् अतिशयिनीति प्रेमतारतम्येनोत्सवतारतम्यात्, त्वर्थे चकारः । तत्रापि राधाया असमोर्ध्व-प्रेम-महिम्ना सर्वातिशयिमनोनेत्रोत्सवदायित्वं चाह—पूर्वम् एवाङ्कुरितः प्रेम्णि परस्पर-प्रेम-विषये मनोरथो ययोस् तयोर् अधुना त्वसौ पल्लवितत्व-पुष्पितत्वम् अवाप्य सहसा फलितोऽपीति भावः । परस्पर-दिदृक्षया सदृक्षा सदृशी अनुरूपा सम्यग् उत्कण्ठा यद्य् अतिशयेन समुत्पन्ना । नीग् वञ्चुस्रंस्वित्यादिना नीगागमः । कीदृशी ? समुत् सहर्षाः सम्यग् उत्थितो वा कण्थो यस्यां सा । चातुरक्षिकं चतुर्ष्वक्षिष्वेव भवम्, इति अध्यात्मादित्वात् ठञ् । अक्षि-कमलानाम् एव खेलनम् इत्य् उभयत्रापि निर्धारणम् । अभिमुखीन् सम्मुखीनम् ॥

तद्यथा—

राधालोके प्रसरति हरेर्दोलितो दृष्टिपातः **पुच्छाघातादिव मदिरयोर्वेपिताम्भोजराजी । ** कृष्णालोके सति मुकुलिता राधिकायाः कटाक्षाः पद्माघातादिव रतिपतेः प्राप्तभङ्गाः पृषत्काः ॥४६॥

मदिरयोः खञ्जनयोः, पुच्छाघातादित्य् अनेन प्रथमं राधा-कर्तृक आलोकोऽपाङ्गाभ्याम् एवेति ज्ञापितम् । वेपिताम्भोजराजीति ततश् च कृष्ण-लोचन-द्वयस्य निरङ्कुशत्वेन समुदितस्यैव युगपद् एव बहूनां व्यापाराणाम् औत्सुक्येन जनितानां कमलौपम्यात्, तत श तथा-भूते कृष्ण-लोके सति मुकुलिता इति सहसा लज्जोपगमात्, पृषात्का वाणास् तेऽपि नीलोत्पल-रूपा एव । प्राप्तभङ्गा इति तेषां नेत्र-प्रान्त-मात्र-व्यापाररूपत्वेन क्षीणत्वादिवेति पुनर् उत्प्रेक्षापि ध्वनिता इति ॥४६॥

एवं मुहूर्तं मूर्तं मूर्च्छन्तमिव तमनुराग-सुमनःपरागपटलान्धकारमनुभवतोस्तयोश्चन्द्रावलीप्रभृतिष्वपि कृष्णं वार्षभानव्यां नव्यां रतिमुद्वहन्तमनुमान्तीषु सकलास्वपरासु निद्रामुपगच्छन्तीषु केषुचिदपि मिथः कृष्णकथाकथनेनैव जाग्रत्सु “भो भो अत्याहितमत्याहितम्” इत्यहितसूचकः कष्टतरः कोऽपि कलकलः समुल्ललास ॥४७॥

मुहूर्तं व्याप्य मूर्च्छन्तं विस्तारं प्राप्नुवन्तम् इव, मूर्च्छा मोह-समुच्छ्राययोः इति धातुः । अनुराग एव सुमनः पुष्पं तस्य पराग-पटलैर् अन्धकाराम्—तदानीम् आनन्द-मूर्च्छाया मनोनयनाच्छादनात् । अनुभवतोः सतोष् तयो राधा-कृष्णयोः । अनुमान्तीष्वनुमानं कुर्वतीषु सतीषु, अत्याहितं महाभीतिः इत्य् अमरः ॥४७॥

तमाकर्ण्य समाकुलीभूय भूयशः परित्यक्त-शयनासूत्कर्णमभितो निरीक्षमाणासु धेनुषु “किं भोः किं किम्” इति सातङ्कमापृच्छमानेष्वच्छमानेष्वन्योन्यं प्रधानेषु हुं हुमिति निद्रातः समुत्तिष्ठत्सु निद्राणेषु, सचकितं श्रीकृष्णमालोकमानासु कुलवधूषु कुलकन्यासु च तासां भयविह्वलतामालोक्य “मा भेतव्यं मा भेतव्यम्” इति सप्रणयगाम्भीर्यमाश्वासयति च श्रीव्रजपुरन्दरनन्दने केचिदेवं वितर्कयामासुः ॥

आपृच्छमानेष्विति [पा वार्तिक ९०९] आङि नु-प्रच्छ्योः इत्यात्मनेपदम् । अच्छो निर्मलो मानो ज्ञानं वस्तुपरामर्शो येषां तेषु । भय-विह्वलता चासां न स्वानिष्टशङ्कया, किन्त्वस्मत्-प्राण-कोटि-निर्मञ्छनीयचरण-नखाग्रमेतम् अस्मत्-कान्तं वाधिष्यते । दवाग्निर् इति भावनयैव, एवम् अग्रेऽपि नन्दादिष्व् अपि ज्ञेयम् ॥


**“किं कालियः पुनरसौ तटवर्त्मनैति, लब्धापमानजनितातिशयप्रकोपः । ** किं नूच्चकैर्मदपयोझरधौतगण्ड-शैलं कुतोऽपि वनवारणयूथमेति” ॥४८॥

धूमस्य श्यामलिमानम् आलोक्य प्रथमं संशेरते—किं कालिय इति । मद-पयसां झरैर् धौतौ गण्डाविव शैलौ यस्य तत् ॥४८॥

इति वितर्कयत्सु जनचयेषु “भो भो निरुपायोऽपायोज्झितोऽयं दावानलो दावानलः” इति पुनरुद्घुष्टमतिकष्टतरमाकर्ण्य व्रजेश्वरः सत्रासं कालियमर्दनमुपगम्य सहसा गर्गोदितमनुस्मृत्य “भो वत्स! परित्रायतां परित्रायतामेष निरुपायापायारण्यमहावह्निस्त्वदेकनाथं समस्तमेव व्रजं दहन्नुपैति । नहि भवन्तमन्तरेणास्योपशमः, शमन्यथा च न वर्तते विनास्य शमनम्” ॥४९॥

निरुपायोऽयं निवारणोपाय-शून्यः, अपायोज्मितः स्वयं च नाश-रहितः । गर्गोदितम्—[भा पु १०-८-१६] अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ इति । निरुपायोऽपायो नाशो यस्य तथा-भूतोऽरण्यम् अहावह्निः । तस्यां रात्रौ विष-संसर्ग-शङ्कया ह्रद-तट-निकटं परित्यज्य कुडुमारे इति लोक-प्रसिद्ध-प्रदेशे विहित-स्थित्वेन यनुना-जलानयन-शक्तेः, तस्य महा-वह्नेर् अपि सर्वत आवृत्यैवोत्पतिष्णुत्वेन दृश्यमानत्वान् निर्गमाशक्तेश् च । शं कल्याणम् ॥४९॥

इति सपरिजन-जनक-जननी-प्रभृति-समस्त-बन्धुजन-व्याकुलतामालोक्य “मा भेतव्यम्” इत्यग्रत उपसृत्य यद्यपि । वनान्तरवन्नान्तरवर्तिदवदवथु वृन्दावनम्, तथापि सर्वचमत्कारकारलीलाहेतोः स्वेच्छ्यैव समापादितमिव ॥

अग्रत उपसृत्य माधवो दवदहनं ददर्शेत्य् अन्वयः । अन्तर्वती दरदवथुर् यस्य तथा-भूतं वृन्दाबनं यद्य् अपि न भवति । फणिमूर्धनि नर्तित्वा, जगद् विलक्षणम् अजिज्ञापत्तरुणीः । स्वस्य प्रभावम् अतुलं, कलासु पाण्डित्य् अत्याधिकम् ॥ पत्याद्यावरणान् निज-सङ्गं दुर्घटम् अमुः परामृशतीः । दवशमनेनाकलयद्-दुर्घट-घटना-पटीयसीं शक्तिम् ॥

**शुष्के सर्वाङ्गलग्नं श्वसति तरुगणे चच्चटाध्वानघोरं ** प्लोषन्तं पत्रमात्रं तृणततिमभितस्तत्क्षणाद्भस्मयन्तम् । त्रस्यद्भिर्न्यङ्कुरङ्कुप्रभृतिमृगकुलैर्वीक्षितं धावमानैर् दूरादभ्रंलिहाग्रं दवदहनमथो माधवः सन्ददर्श ॥५०॥

शुष्के तरुगणे अथ च श्वसति अन्तर्जीवति पत्र-मात्रं प्लोषन्तं दहन्तम्, न तु स्कन्ध-शाखादिकम्, अतिवर्षीयस् तेन सारमयत्वाद् अन्तःसरसत्वाच् च । अशुष्के तरुण-तरु-गणे तु न किञ्चिद् अप्किति भावः । अभ्रमाकाशं लोढि, अग्रं जिह्वोपमशिखा यस्य तम् ॥५०॥

**
“सम्भव्यथ व्यथया बन्धुजनकदनमनेन विनमनेन विहायोलिहा महाधूमधूमध्वजेन । निष्पत्रा निष्पत्राकरोति तरुश्रेणी, भयसमुत्कर्णा कर्णाभीलं करोति काकुरवैरियं च धेनुविततिः, विततिरियं च समुड्डीना धूमलेखाभिरन्धीभवति । साध्वसाकुलं कुलं च हरिणानां कान्दिशीकं समजनि, तत् किं करोमि ॥**

सम्भवीत्यादि श्री-कृष्णस्य स्वगतं वाक्यम् । महा-धूमेन धूमध्वजेन मह्निनानेव वीन् पक्षिणो नमयति पातयतीति तेन । बन्धुजनकदनं व्यथया सम्भवि सम्भवत्येवेत्य् अर्थः । निष्पत्रा भस्मी-भूत-दला तरु-श्रेणी निष्पत्रा-करोति कारुण्योत्पादनादतिव्यथयतीत्य् अर्थः, [पा ५-४-६१] सपत्र-निष्पत्राद् अतिव्यथने इति डाच् । कर्णाभीलं कर्णयोः कष्टम् । वीनां पक्षिणां ततिः श्रेणी, कान्दिशीको भय-द्रुतः इत्य् अमरः ॥

सम्भाव्या न पयोदवृष्टिरधुना नद्याः पयःसेचनैर् **नैवास्योपशमो न चापसरणे देशश्च कालश्च नः । ** इत्याचिन्तयतः स्वयं भगवतः प्रादुर्भवन्त्यैश्वरी शक्तिः काचन तं शिखासु कचवद्धृत्वा निमेषात् पपौ” ॥५१॥

तं दव-दहनं शिखासु हेतिषु कचवत् कचेष्विव, [पा ५-१-११६] तत्र तस्यैव इति वतिः ॥५१॥

“ततश्च दरिद्राणां मनोरथ इवोत्पद्यमान एव प्रणष्टः, हतभाग्यानां वैभवोदय इवाभुज्यमान एव तत्कालविगलितः, वैद्युतो वह्निरिव न चिरस्थायी, स्वप्नदृष्ट इव, भ्रमोपगत इव, ऐन्द्रजालिकोदीरित इव, न दृश्यमानो वनवह्निरखिलजन-लजनकारी बभूव । किमस्माभिः प्रमत्तैरिवालपितं कुतो वनाग्निः” इति ॥५२॥

मनोरथस्य पुनर् उत्पत्तिशङ्कया अन्यथोपमिमीते11–वैभवोदय इति । तत्राप्य् अतिशैघ्र्येण विगलने दृष्टान्तः—वैद्यातो वह्निर् इति । तत्राणाम् अप्य् उक्त-दृष्टान्तानां सत्यत्वाद् दार्ष्टान्तिकस्य तु मिथ्यात्वेनैव तैरायत्याम् अनुभूतत्वाद् अन्य-दृष्टान्त-तत्रम् आह । तत्र स्वप्नस्यापि सिद्धादिषु क्वचित् सत्यत्वम् आशङ्क्याह—ऐन्द्रजालिक इति । लजनं लज्जा । अथा भगवद्-दृष्टिकारुण्या-मृत-वृष्ट्यैव तृण-गुल्म-वृक्षादयः पूर्ववद् एव सहसैवाभूवन्न् इति वह्नि-चिह्नस्य कस्याप्य् अदर्शनाद् विस्मिता आहुः—किम् अस्माभिर् इत्यादि ॥५२॥

अथ विभातायां विभावर्यां वर्यां श्रियं दधानेन बहुविधबहुललीलाधानेन स्वकुलभूषणेन सुधासारेण सारेणेव सर्वसौभाग्यानां स्वजनेष्वाहितनयेन तनयेन सह स ह व्रजपुरपुरन्दरोऽदरोदीर्णप्रमोदः प्रमोदयं प्रमोदयंश्च व्रजपुरं व्रजपुरवासिभिः समं समुपससाद ॥५३॥

बहुधा बहु-प्रकारेण, बहुल-लीला दधाति धारयतीति नन्द्यादि ल्युः । तेन सुधाया आसारेण धारा-सम्पात-रूपेण सह स व्रजराजः, ह स्फुटम्, अदरोऽनल्प उदीर्णः प्रमोदो यस्य सः, प्रमायाः प्रमाण्यस्योदयो यथा भवत्य् एवं प्रमोदयन्, गर्गप्रोक्तमाहात्म्येद्घोषेणेत्य् अर्थः, यद् वा, प्रमायाः प्रकृष्ट-शोभाया उदयो यत्र तद् व्रज-पुरम् ॥५३॥

तेनाथ व्रजनगरी नाथ-व्रजन-गरीयसीं रुजमादधाना प्रोषितभर्तृकेव तां रजनीं गमितवती रागमितवती राजन्तं पुनरपि पूर्वमिव ॥५४॥

नाथस्य श्री-नन्दस्य व्रजनेन गरीयसीं गुरुतरां रुजं पीडाम् आ सम्यग् दधाना धारयन्ती । अथ तेन नाथस्यागमनेन पुनर् अपि पूर्वम् इव राजन्तं रागम् इतवती प्राप्तवती ॥५४॥

इत्यानन्दवृन्दावने कैशोरलीलालताविस्तारे कालियदमनो नाम

नवमः स्तवकः ॥९॥


  1. प्रतप्तत्वात् [ख] ↩︎

  2. साध्वत्वात् [ख] ↩︎

  3. तस्य कालियस्य निवास-भूतं [क] ↩︎

  4. शीर्षम् इव [घ] ↩︎

  5. युक्तिः [क] ↩︎

  6. तत्त्वम् [क] ↩︎

  7. भवः [घ] ↩︎

  8. सत्ता विद्यमानोऽहं [क] ↩︎

  9. दुष्ट-गर्वस्य [घ] ↩︎

  10. दुष्टा [क] ↩︎

  11. पमीयते [क] ↩︎