अष्टमः स्तवकः
अथ कौमारलीलां तिरोधाप्य क्रमानुरोधाप्यक्रमानुत्तमवयोऽवस्थावस्थान-स्वीकारेणाविर्भावितपौगण्डो गण्डोड्डमरतारतामन्दहसितासवः स वने विस्मृतधूलिखेलोऽलिखेलोड्डमरकुसुमकन्दुकखेलापरोऽपरोक्षधनरसो रसोत्सवकरोऽवकरोज्झितनिखिलगुणैः सह सहचरैर्वत्सरक्षणक्षणमपहाय हायनातीतो धेनुपालनलीलालीलावण्यमुरीचकार ॥१॥
अथ पौगण्ड-कैशोर-लीले युगपद् उद्गते ।
कृष्णस्य गुरुभिः कान्तावर्गैर् आस्वादिते क्रमात् ॥
पूर्वरागो व्रज-स्त्रीणां कृष्ण-जन्म-तिथौ महान् ।
उत्सवः कन्दुक-क्रीडा धेनुकस्य वधोऽष्टमे ॥
क्रमानुरोधेन आपाः प्राप्यो यः क्रमः परिपाटी—क्रमः शक्तौ परिपाट्याम् इति विश्वः, तेनानुत्तमाया अत्य् उत्तमाया वयोऽवस्थाया अवस्थिति-स्वीकारेणाविर्भावितं पौगण्डं येन सः । गण्डयोः कपोलयोर् उड्डमरता उन्नतिस् तस्यामारतम-मन्द-हसितम् एव आसवो मधु यत्र सः । स श्री-कृष्णः, अलीनां भ्रमराणां खेलया उड्डमरैर् उन्नतैः कुसुमैर् एव कन्दुकं तत्-खेलापरः । रसायाः पृथिव्या उत्सवकरः, अवकरो मालिन्यम्, हायनातीतो हायनान् संवत्सर-परिवत्सरेदावत्सरानुवत्सर-वत्सरान् पञ्च अतीतः षड्-वत्सरवयाः । ऐश्वर्य-पक्षेऽपि कालातीतः । लीलानाम् आली श्रेणी तस्या लावण्यम् ॥१॥
एवमस्य पौगण्डे वयसि कैशोरप्राग्भाव इव क्रमविरलायमाणतारल्यतया प्रथमारब्धगाम्भीर्यस्वाध्यायमिव गमनम्, शैशवदशासहचरीविरहेण मलिनमुखीभावमनुसरन्तीव लोमलतिका, क्व गतमस्य बाल्यचापल्यमिति सुहृद्विच्छेदेनेव क्रमक्षीयमाणमवलग्नम्, क्व गतमस्य शैशवतारल्यमिति तदनुसन्धानधुरन्धरतयेव चापल्यमभ्यस्यन्ती इव नयनकमले, सुकविकाव्यमिव अस्थानस्थपदादिदूषणरहितमुदितम्, किं बहुना? अधिमधुदिनमनुपर्वकर्बुरित-नवाङ्कुरकन्दलदलद्रामणीयक-नवतमालकडम्बविडम्बकम्, प्रत्यङ्गरङ्गितरङ्गित-विशेषमाधुरीधुरीणमन्तरुत्पद्यमान-मधुपरागमधुपरागभागभिनवकुड्मलीभावभावहितं कुसुममिव, अपाकनिष्कषायमृदुमधुरलुलितं श्यामलतालतायाः किमपि फलमिव, स्वयमेव रत्नान्तरेण परिवर्तित-विशिष्ट-रत्नान्तरायमाणैरिव लावण्यविशेषरुपचीयमानम्, मदमुदित-मातङ्गकुलमिव सदानवापीनवक्षोभं वक्षोभङ्गिमसङ्गिमधुरिमांस-मांसलताभ्यां तदप्यन्यदिव प्रतिभासमानमसमानमञ्जुलमखिललोकलोचनचमत्कारकारणं वपुरपूर्वमिव तदा तदासीत् ॥२॥
बाल-चापल्यं बालैः सह चापल्यं धावन-कूर्दनाद्य् उपयोति । पदादीत्यादि-शब्दात् पदैक-देशः, उदितं वाक्यम् । तदा तस्य तद् अपि वपुर् अपूर्वम् इवासीद् इत्यन्वयः । कीदृशम् ? अधि-मधुदिनं वसन्त-दिवसेषु, अनुपर्व पर्वणि पर्वणि, प्रति-ग्रन्थि इत्य् अर्थः । कर्वुरितैः किर्मिरायितैर् नवाङ्कुर-कन्दलैर् दलत् प्रस्फुटं रामणीयकं रमणीयत्वं यस्य तथा-भूतस्य नव-तमाल-कडम्बस्य विडम्बकं स्वरोमावल्याद्य् उद्गम-शोभया तिरस्कारकम् । प्रत्यङ्गम् अङ्गस्याङ्गस्य, रङ्गी रङ्ग-सूचको यस् तरङ्गित-विशेषस् तेन या माधुरी तस्या धुरीणं बहन-समर्थम् । तरङ्गितेति क्यङ् अर्थ-क्विवन्ताद् भावे निष्ठा, पौगण्ड-भाक्त्वेऽपि अन्तर्गत-कैशोर-धर्म-सूचकत्वे दृष्टान्त—अन्तरुत्पद्यमानाभ्यां मधुपरागाभ्यां मकरन्द-धूलिभ्यां मधुपस्य भ्रमरस्य रागं भजते तथा-भूतं च, अभिनवस्य कुड्मलीभावस्य भा कान्तिस् तत्रावहितं सावधानम् । दार्ष्टान्तिक-पक्षे मधु रमणाभिलाषः, परागस् तद् उचित-धीर-लालित्योपयोगिनी चेष्टा, मधुपोऽत्राङ्गः । उत्पद्यमानेति वर्तमान-कालत्वं क्षण-काण-वृद्धि-सूचकं । ननु तथापि प्रकट-पौगण्ड-मात्रकत्वे तस्य कथं शृङ्गारित्वेन सौरस्यम् ? तत्राह—अपाकम् अप्राप्तपाकम्, किं च, निष्काषायं कषाय-दशाम् अतिक्रान्तम्, मृदु कोमलम्, मधुरं सुस्वादु, लुलितं लोभ्यम्, किम् अप्य् अनिर्वाच्यं फलम् इति । तेन प्रथम-पौगण्डेऽप्य् अस्यातितेजस्वित्वात् पौगण्ड-शेषं प्राप्तम् इव प्रथक-कौशोरं स्पृष्टवद् इव वपुर् अभूद् इत्य् अर्थः ।
तद् एव स्पष्टयति—रत्नान्तरेण बाल्य-सम्बन्धि-लावण्येन परिवर्तितं विशिष्ट-रत्नान्तरं कैशोरवर्ति-लावण्यं तद् वद् आचरद्भिः । दानवाप्या सूचितो यो नवः क्षोभस् तेन सह वर्तमान—वापी तु दीर्घिका इत्य् अमरः । पक्षे—सदा नवा नवीना आपीनस्य वक्षसो भा यत्र तत् । वक्षसि भङ्गिमसङ्गी लम्पटता-सञ्जको यो मधुरिमा, असंसयोः स्कन्धयोर् मांसलता च ताभ्यां—भङ्गो धूम्याटषिड्गयोः इति विश्वः । भङ्गस्य भावो भङ्गिमा षिड्गत्वम् ॥२॥
एवमवसरे भगवदुपमासपक्षा मासपक्षानन्तरं भगवदवतारस्य या अनुधरणि धरणिधरेन्द्रदुहितृसुन्दरतादरताकारिण्यो भगवतः प्रियतमा यतमानास्तस्यैव नित्यसङ्गित्वेऽङ्गित्वे च प्रथमरसस्य रसस्यन्दरूपा अवतेरुः ॥३॥
भगवद् उपमानां नील-मणि-मेघ-नीलोत्पलादीनां सपक्ष्ः कनक-विद्युच् चम्पकादयो रूपकाद्य् अर्थं वर्तन्ते यासु ता धरणि-धरेन्द्र-दुहितुः पार्वत्या अपि सुन्दरतायाः सौन्दर्यस्य दरताकारिण्योऽल्पता-कारिण्यः, प्रियतमाः श्री-राधिकाद्यास् तस्यैव भवतो नित्य-सङ्गित्वे यतमानाः क्रियमाणयत्नाः प्रथम-रसस्य शृङ्गार-रसस्याङ्गित्वे मुख्यत्वे निमित्ते च यतमानास् तासां तादृशीश् चेष्टा विना तस्य मौख्यत्वम् एव महात्मभिर् अनादृतं स्याद् इति । यथोक्तम्—हरिर् एषस् न चेद् अवातरिष्य-,न्मथुरायां मधुराक्षी राधिका च । अभविष्यद् इयं वृथा विसृष्टिर् मकराङ्कस् तु विशेषतस् तदात्र । इति ॥३॥
तासामपि कौमारापगमे ऋजूभूय वर्धिता मञ्जरीव तिरश्चीना दृष्टिः, हेमन्तदिनमिव क्रमहीयमानं हसितम्, काव्यगुणविशेष इव वाक्यार्थेऽपि पदमात्रप्रयोगो व्याहारः, वलीकप्रान्तनिःस्यन्दी निर्वृष्टजलधरजलबिन्दुसन्दोह इव क्रममन्दमन्दश्चरणविहारः, दिनलब्धमहारत्नमिव जनलोकनसङ्कोचाच्छन्नं वक्षः, अर्घपात्रमिव अवगुण्ठनमुद्रयावगुण्ठितमुत्तमाङ्गम्, अन्तर्वर्तिरत्नशलाकं मृणालशकलमिव कौमारापगमेन निष्कृष्टमपि कयापि देवतयेव जुष्टं मानसम्, कौमारपरिचितानपरिचितानिव विषयान् कुर्वाणं ज्ञानम्, आरुण्यं करतलयोः पीयूषरश्मिता वदनबिम्बे, अङ्गारकता अनङ्गे, सौम्यता दृङ्निपाते, गुरुता श्रोणौ, काव्यता वचने, शनैश्चरता चरणयोः, तमस्ता केशपाशे, केतुत्वं गुणगणेष्विति नवैव ग्रहा आश्रयमिव चक्रुः ॥४॥
काव्यगुणेति, तथा चोक्तम्—पदार्थे वाक्य-रचनं वाक्यार्थे च पदाभिधा इति । पद-मात्रेति, न तु बाल्यवदिदानीम् अपि वचन-प्राचुर्यम् इत्य् अर्थः । यथा सुन्दरि ! कमवलोकसे इति सख्या पृष्टा सुस्निग्ध-नीरदं सस्पृहम् ईक्षमाणा काचित्तां प्रत्याह—आसेचनकम् इति—तद् आसेचनकं तृप्तेर् नास्त्यन्तो यस्य दर्शनात् इत्य् अमरः । एवं एव वाक्यर्थेषु अभिसारिका काकुद इत्यादि-पद-मात्र-प्रयोगो ज्ञेयः । वलीक छदिः प्रान्त-देशः, तस्यापि प्रान्तात्, निःस्यन्दी क्षरणशीलः । निर्वृष्टो वृष्टिं कृत्वा विरतो जलधरो मेघो यस्य तथा-भूतो जल-विन्दु-समूह इव । जन-लोकन-सङ्कोचेनैवाच्छन्नम्, न तु वस्त्राच्छन्नम् पै कर्तुं शक्यत इति भावः । तथात्वे आत्मनो युवतित्व-ख्यापने लज्जापातात्, उत्तमाङ्गं शिरः, उत्तमाङ्गं शिरः शीर्षम् इत्य् अमरः, अन्तर्वर्तिनी रत्नशलाका यस्य तथा-भूतं मृणाल-खण्डम् इव, मानसम् इति मनसो बाल्य-सूचकं सारल्यं प्रकटं लक्ष्यमाणम् अपि यौवन-स्पर्षेनासारल्यगर्भं जातम् इत्य् अर्थः । कौमारस्यापगमे विरामे विषयेण निष्कृष्टम् अपि निष्कार्षम् अप्राप्तम् अपि, सन्दिग्धम् अपीति यावत् । कयापि कामोन्मादाङ्कुर-रूपया कौमारे परिचितान् रथ्याधूलि-क्रीडितादीन् विषयान् अपरिचितान् इव कुर्वाणं जानम् । अनुभावशोभा-सम्पत्तिं वर्णयित्वा तात्कालिकीम् अङ्ग-शोभा-समृद्धिम् अपि वर्णयति । आरुण्यं रक्तिमा, पक्षे, अरुणः सूर्यस् तस्य भाव आरुण्यम् । पीयूषम् अमृतं तद् इव सुरसा रश्मयो यत्र तत् ता, पक्षे, पीयूष-रश्मिश् चन्द्रः, अङ्गानि इयर्ति प्राप्नोतीति ऋ गतौ इत्य् अस्मात् ण्वुलि अङ्गारकः, पक्षे, मङ्गल-ग्रहः । सौम्यतेति सौम्यो वुधे मनोज्ञे स्याद् अनुग्रे सोमदैवते इति विश्वः । शनैः शनैश् चलत इति शनैश्चरौ चरणौ, पक्षे, शनैश्चरो मन्दः । तमोऽन्धकारो राहुश् च, केतुः पताका, तन् नामा ग्रहश् च । अत्राङ्ग-पक्षे तमस् ता केतुत्वम् इत्य् एतद्-द्वयम् आचारार्थकक्विवन्तोत्तरकर्तृ-वाचक-क्विव्-भाव-प्रत्ययेन सिद्धम् । अतएव केतुत्वम् इत्य् अत्र द्वितकारक-संयोगोऽस्तु वा, अनचि च इति द्वित्वेन च यदा भवति हि ताद्धर्म्यात् ताच्छबदम् इति लक्षणयैव स्येत्स्यसि, अलम् एतावता कष्टेनेति ॥४॥
किञ्च—
चरणचाञ्चल्यं नयनेन, मध्यगौरवं श्रोणीभारेण, ज्ञानतानवमुदरेण, वचनप्राचुर्यं माधुर्येण हृतमिति शैशवाधिकारे नश्यति सत्यङ्गादीनां परगुणविशेषलुण्टाकतासीत् ॥५॥
तानवं कृशता ॥५॥
किञ्च—
अणिमा मध्यमे, महिमा श्रोणिभारे, लघिमा वचसि, प्राप्तिरपत्रपायाम्, कामासायिता मनसि, ईशिता लावण्ये, वशिता नयनकोणयोः, प्राकाम्यं माधुर्य इति सिद्धयोऽपि तदा तासु प्रादुरासन् ॥६॥
अणोर्भावः अणिमा कार्श्यम्, महतो भावो महिमा स्थौल्यम्, लघिमा अल्पता, कामावसायिता कन्दर्प-व्यवसायः, ईशिता ऐश्वर्यम्, वशिता वशीकरणम्, प्राकाम्यं परिपूर्णता ॥६॥
येन खलु सुरभीकृतमिव व्रजनगरम्, रञ्जितमिव सकलमेव भुवनम्, सम्पादितमिव कुसुमधनुषो जनुषः साफल्यम्, शोधित इव शृङ्गाराख्यो रसः, मार्जिता इव सर्वे भावाः, सरसीकृतमिव लीलाविलसितं श्रीकृष्णस्य, कृतार्थीकृतमिव कविकुलवाङ्निर्माणम्, येन च
तासामपि उत्कलिका उत्कलिका, मनोभूर्मनोभूः, मनोरथो मनोरथो, रतिरतिद्राघीयसी, त्रपात्र पारशून्या, साध्वसं साध्वसङ्कोचमुच्चैररतिररतिग्मा, अनुत्साहोऽनुत्साहो वैमनस्यं वै मनस्यन्दुकप्रायम् ॥७॥
येनेत्यादि तासां स कोऽपि हृद्-विकारः समजनीत्य् अनेनान्वयः । उत्कलिका उत्कण्ठा, कीदृशी ? उद्गता कलिकैव यस्यास् तथा-भूता, अवहिः-प्रकाशितगुणेत्य् अर्थः । मनोभूः कन्दर्पः । कीदृशः ? मनोर् भूमनस्येव भवति न बहिः-प्रकाशितव्यापार इत्य् अर्थः । मनोरथः श्याम-सुन्दरेण सह रंस्यामहे इत्य् एवं लक्षणः । मन एव रथोऽधिकरणं यस्य सः । अत्र त्रपा लज्जा, साध्वसं जन-शङ्का साधु यथा स्यात् तथा न विद्यते सङ्कोचोऽल्पता यस्य तत्, परिपूर्णम् एवेत्य् अर्थः । अरतिर् अनिवृत्तिः, अरं द्रुतं तिग्मा तीक्ष्णा, अनुत्साहः कथम्-भूतः ? नुदं खण्डनं न सहत इति दुश्चिकित्स्य इत्य् अर्थः । असूर्यम्पश्या इतिवत् । यद् वा, न उत्साहोऽनुत्साह इति नञा पश्चात् सम्बन्धः । वैमनस्यं दुर्मनस्कता, वै निश्चितं मनसि अन्दुकप्रायम्—अन्दुको निगडोऽस्त्रियाम् इत्य् अमरः ॥७॥
यश्च षष्टिकशालिरिव अन्तरे परिपाकं व्रजन्नपि न बहिर्विकाशी, परिजनैरनुयोज्यमानोऽपि निह्नूयमानः, रस इव अशब्दवाच्यः, मुख्यार्थ इव कदापि न लक्ष्यः, निरूढलक्ष्यार्थ इव अव्यङ्गः, अन्तर्विपूर्णमानोऽपि सुस्थिरः, उद्वेगजनकोऽप्यनुद्वेगः, सन्निपातज्वर इव अस्थिसन्ध्यादि-विमर्दकरः सततं तृष्णाजनकश्च, तासां स कोऽपि हृद्विकारः समजनि ॥८॥
यष्टिकशालिः षाठीति ख्यातं धान्यम्, अनुयोज्यमानः पृच्छ्यमानः, प्रश्नोऽनुयोगः पृच्छा च इत्य् अर्थः । अशब्द-वाच्यः शब्देनाभिधातुम् अशक्यः, रसस्यानुभवैक-गोचरत्वात्, तथात्वे चारसतैव स्याद् दूषणं च । यथोक्तम्—व्यभिचारि-रसस्थायिभावानां शब्दवाच्यता इति । पक्षे, तद् वाचक—शब्दस् ताभिर् न प्रयुज्यते, मुख्यार्थः सङ्केतितः । यथा गङ्गादि-शब्दानां प्रबाहादि-लक्षणोऽर्थः कदापि न लाक्ष्यः, लक्षणा-वृत्तिगम्यो न भवति । पक्षे, अन्यैर् दुस्तर्क्यः । अव्यङ्ग्यः, न विद्यते व्यङ्ग्यं यत्र सः । कुशलो मण्डप इत्यादौ, पक्षे, ताभिर् व्यञ्जनयापि न प्रकाश्यः । न विद्यते नुत् खण्डनं यस्य तथा-भूतो वेगो यस्य सः, अनुद्वेगः—अखण्ड्यवेग इत्य् अर्थः । तृष्णा पिपासा सम्भोगेच्छा च ॥८॥
यस्तु अविपक्वमरसभावितं तासामन्तरं वंशमिव घुणः सन्ततमेव निकृन्तति ॥९॥
यस्तु इति तुकारः पूर्वतो भिन्न-क्रमार्थः । तादृशम् अन्तरं प्रति तस्य घुणासाधर्म्यं तु स्वरूप-लक्षणम् इति ज्ञापनाय ॥९॥
तस्मिन् सति लवलीफलपाण्डरं कपोलतलम्, आतपशुष्यमाणकिसलयमिवौष्ठाधरम्, सावश्यायनीलनलिनदलमिव नयनयुगलम्, निदाघदिनमिव दीर्घोष्णं श्वसितम्, अज्ञजनहृदयमिव अन्तः-शून्यमवलोकननम्, आत्मारामप्रस्थानमिव उद्देश्यशून्यं पदविहरणम्, ग्रहग्रस्तदशापन्न-जनचरितमिव अनस्थितं वचनम्, निविण्णजनशीलमिव गृहादिकार्यपराङ्मुखमविपक्व-व्यवसितमिति स्थिते सहजवर्ती जवर्तीयो गृहादिषु तासां भगवति भावो भा-बोध्यतया नव इव लक्ष्यमाणो वक्ष्यमाणो यदा नाभूत् ,तदादुः सहचर्यो दुःसहचर्योपचारसञ्चारसमये तत्तद्धृदयज्ञतया ज्ञतया च तमवगम्यापि विशेषावगतये गतयेव धिया श्रीकृष्णस्य तनुमहसः सादृश्यं दृश्यं वहन्ति नवेन्द्रमणिमयालङ्करणान्यलङ्ककरणान्यथाभावकारीणि सुरञ्जनान्यञ्जनान्यवतंसीकरणार्थमानीतान्यामोदितकुवलयानि कुवलयानि पुरतः समानीय “प्रियसख्यः! पश्यत श्यत नयनयोरनयोरसारस्यं रस्यं कृष्णरुचिरुचिरं नेपथ्यं पथ्यं गौरेष्वङ्गेषु भवतीनाम्” इति यद्युचिरेऽचिरेण तदा तानि कृष्णाङ्गवर्णसदृशानि दृशा निभाल्य कृष्णनामचरितं नाम चरितं श्रुतिपथे समनुभूय भूयस्त्वेन विपुलपुलकान्यङ्गानि धौतकज्जलानि जलानि वहन्तीर्दृशो बहिरिव निःसरन्ति श्वसितानि श्वसितानि च धारयमाणासु रयमाणासु च कामपि दशां कामपि कापि सहचरी चरीकरीति स्म प्रणयपरिहासमिव ॥१०॥
अवश्यायो नीहारः, दीर्घं च तत् उष्णं चेति दीर्घोष्णम् । उद्देश्य-शुन्यं गन्तव्य-देश-निश्चयाभावात् संस्कार-वशेनेत्य् अर्थः । एवम् अत्र [उ नी शृङ्गार-भेद-प्र २१] लालसोद्वेग-जागर्यास् तानवं जडिमात्र तु । वैयग्यं व्याधिरुन्मादो मोहो मृत्युर् दशा दश । इति पूर्वरागोक्ता दशा अप्य् उक्तेषु यथा-योगं सूचिता विविच्य ज्ञेयाः । यथान्त-विघूर्णेत्य् अत्र लालसा उद्वेग-जनक इति उद्वेगः, सन्निपातेति व्याधिः, लवलीफलेति पुनर्व्याधिः, अज्ञजनेति ज्डिमा, आत्मारांएत्युद्वेगः, ग्रह-ग्रस्तेत्युन्मादः, निर्विण्णजनेति तानवम्, अविपक्वेति मृतेर् उदर्कताज्ञापनम् । यदि तासां भगवति भावो भगवन्निष्ठो भावो वक्ष्यमाणो नाभूत्, मनो-मध्य एवायम् अस्माभिर् निह्नवनीयः, कथम् अपि सखीभ्योऽपि न वक्तव्य इति निश्चितोऽभूद् इत्य् अर्थः । कथम्-भूतो भावः ? गृहादिषु जवर्तीयो जवेन वेगेन ऋतीया घृणा यस्मात् । न चायम् आगन्तुकः, किन्तु सहजवर्ती स्वाभाविकः, तथापि भा कान्तिस् तया वोध्यतया ज्ञेयत्वेन नवो नवीन इव लक्ष्यमाणः । तदा सहचर्यो नवेन्द्र-मणिमया-लङ्कारादीनि पुरतः समानीय अदुरित्य् अन्वयः । कदा ? दुःसहाया असह्यायाश्चर्यायाः पूर्वरागजन्याया स्थितेर् य उपचारस् तस्य सञ्चार-समये ज्ञतया विदग्धतया तं कृष्ण-निष्ठं भावं ताभिर् अप्रकाशितम् अपि अवगम्यापि सामान्याकारेण ज्ञात्वापि तस्य विशेषस्यावगतये गतया प्राप्तयेव धिया । तानि सर्वाणि कीदृशानि ? कृष्णस्याङ्ग-कान्तेर् दृश्यं मनोरमं सादृश्यं बहन्ति, अलम् अतिशयेन करणानां नेत्र-त्वगादीन्द्रियाणाम् अन्यथाभावकारीणि अश्रु-रोमाञ्चादिमत्त्वकारीणि आमोदित-कुवलयानि सुवासित-भूमण्डलानि, कुवलयानि नीलोत्पलानि । असारस्यं तापं श्यत दूरीकुरुत, शो तनू-करणे इत्य् अस्य रूपम्, रस्यं रसार्हम्, नेपथ्यं भूषणम्, नाम प्राकाश्ये, श्रुति-पथे कृष्ण-नाम-चरितं चलितं प्रविष्टम् इत्य् अर्थः । अनुभूय आस्वाद्य काम् अपि दशां रयमाणासु प्राप्नुवतीषु जलानि वहन्तीर् दृशो दृष्टीर् बहिर्-निःसरन्ति शसितानि इव बहिर् गच्छतः प्राणान् इव श्वसितानि श्वासान् धारयमाणासु तासु मध्ये काम् अपि मुख्याम्, चरीकरीतीति यङ्लुग् अन्त-पदम् ॥१०॥
**
“आः कष्टमालि! मालिन्यं हृदि मे जातम्, यदिदमञ्जनमीक्षितमेव ते नयनजलजं जलजङ्घालतास्तिमितमकरोत्, इदमपि पुरन्दरमणीन्द्राभरणमपि नद्धमेव विपुलपुलकमयीं चकार वपुर्यष्टिम्, इदमपीन्दीवरजालमनाघ्रातमेव स्फीतसरसामिव गन्धवहां गन्धवहां सम्पादयामास । नयनादौ कृतानि पुनः किं करिष्यन्तीमानीति मानीति-परोऽयं सखीजनः सखि! स खिद्यति खिद्यति । तदिह तत्त्वं तत्त्वं कथय किमेषामेव शक्तिविशेषः, किं भवतीनामेव मनसः कोऽपि विकारः” इति स्थिते सर्वासामेवानुरागिणीनामूढानढानां सर्वा एव सहचर्यः परमगुणोत्तराः, यासां निन्दितकमलाचरणानि चरणानि, विहतशोभारम्भारम्भा ऊरवः, कामसिंहासन-हासनकारीणि श्रोणिबिम्बानि, धिक्कृतडमरुमध्यानि मध्यानि, यासां च कुचकोरकैरपि कृतानि सौन्दर्येषु विफलानि फलानि दाडिमीलतानाम्, दशनवसनैरपहृतशोणिमसौरभ्यादि-बन्धुजीवानि बन्धुजीवानि जातानि, दशनैः पराजितानि मनोरमाणि माणिक्यशकलानि, नासापुटैरवधीरिता मुहुरधोमुखकामेषुधिरधोमुखकामेषु धिषणा च कटाक्षः, नयनैरपि तिरस्कृतानि विलसत्कालिकालिन्दीवरेन्दीवरेहितानि विधूयमानवदनविधूयमानवदनलङ्कृतकमलानि कमलानि, तास्ताः स्वस्वयूथपायूथपारवश्यं गता गताशङ्कं तासां भावपरीक्षणक्षणवशा बभूवुः ॥११॥**
ईक्षितम् एव सत् अञ्जनं कर्तृ, जलेन लङ्घालतया अतिवेगेन स्तिमितम् आर्द्रितम्—जङ्घालोऽतिजवः इत्य् अमरः । अपिध्वम् अपरिहितम् एव सत् । गन्धवहां नासाम्, गन्धवहां दूराद् एवेषद्-गन्धं वहन्तीं सती स्फीता फुल्ला चासौ सरसा चेति तथा-भूतां सम्पादयामास । अत्र नासा-फुल्लत्व-नासाश्रवौ कृष्णाङ्ग-गन्ध-साजात्यानुभवेन जातौ । अयं सखीजनः, मा नीतिपरो न नीतिज्ञः । हे सखि ! स प्रसिद्धो मल् लक्षण इत्य् अर्थः । खिद्यति खेदं प्राप्नोति । हे खिद्यति ! खित् सम्पदादि क्विपा खिदः, तां याती गच्छन्ती प्राप्नुवती, तस्याः सम्बोधने हे खिद्यति ! तत् तस्माद् इव तत् प्रसिद्धं तत्त्वं त्वं कथय । ऊढानां गौपैर् व्यूढानां श्री-राधा-चन्द्रावल्यादीनाम्, अनूढानां धन्यादि-कन्यानां सर्वा एव सहचर्यस् तासां भाव-परीक्षणे क्षणवशाः कौतुक-वशा बभूवुर् इत्य् अन्वयः । निन्दितं कमलाया लक्ष्म्या अपि आचरणं स्वाङ्ग-प्रसाधनादि कर्मयैर् तानि, एतत् चरणस्थस्वाभाविक-सौन्दर्यम् अपि लक्ष्म्या भूषणादि-प्रसाधित-समस्ताङ्गेष्व् अपि नास्तीति भावः । न चात्र व्यतिरेकालङ्कारेण चरणैः पद्म-शोभाक्षेप इति शक्यते व्याख्यातुम्—अग्रे मुखैर् एव पद्म-शोभा-खण्डनस्य वर्णयिष्यमाणत्वेन पौनर् उक्त्यापत्तेः । न च चरणादि-मुखान्तानाम् अङ्गानां प्रत्येकम् उपमा-खण्डन-प्रक्रमस्य भङ्गः—लक्ष्मी-सर्वाङ्ग-तिरस्कारि-शोभत्वेन चरणानाम् अपि सामान्याकारेण तथात्वस्य भङ्ग्योदितत्वात् । तथेन्दिरा-मृग्य-सौन्दर्य-स्फुरद् अङ्घ्रि-नखाञ्चलेति महानुभाव-सर्वज्ञ-कवि-चूडा-मणि-श्री-मद्-रूप-गोस्वामि-वर्णित-राधा-सारूप्यधारि-विशाखादीनां तथोत्कर्षस्य सिद्धान्त-विरुद्धत्वाभावेन प्रस्तुतोपयोगित्वाच् च एतद् एव साधु व्याख्यानम् इति विशेषण हत-शोभा रम्भाणाम् आरम्भो येभ्यस् ते, कामस्य यत् सिंहासनं तस्य हासनकारिणीति एतत् तुल्यं कामस्य राज-पट्ट-भूत-सिंहासनमन्यन्नास्तीत्य् अत्रैव कामः साम्राज्यार्थमास्त इति भावः । दाडिमीलतानां फलानि सौन्दर्येषु विफलानि कृतानीत्य् अन्वयः । बन्धुजीवानि बन्धुजीव-कुसुमानि यासाम्, दशन-वसनैर् अपहृत-शोणिम-सौरभ्यादि-बन्धुजीवानि जातानीत्य् अन्वयः । अपहृत-शोणिम्नः शोणत्वस्य सौरभ्यस्य, आदि-शब्दात् प्रकाशस्य च बन्धु-रूपो जीव आत्मापि येषां तानि । अवधीरिता तिरस्कृता अधोमुखी कामस्य इषुधिस्तूणः । लज्जया अधोमुखस्य कामस्य इषुषु शरेषु या धिषणा सन्धानवती वुद्धिः, सा च कटाक्षैर् अवधीरिता । विशेशेण लसत् कं सुखं येषां तथा-भूता अलयो भ्रमरा येषू तेषां कालीन्दी-सम्बन्धिश्रेष्ठन्दीवराणाम् ईहितानि विकाशान्दोलनादीनि नयनैस् तिरस्कृतानि । उपमानादाचारे क्यङा विधूयमानैर् विधुतुल्यैर् वदनैर् विधूयमानवत् विशेषेण कम्प्यमानानीव खण्ड्यमानानीव वा कमलानि पद्मानि जातानीत्य् अर्थः । इवार्थकेन वच्छब्देन स समासः । अतएव अनलङ्कृतम् अभूषितं कमलं जलं येभ्यस् तानि—सलिलं कमलं जलम् इत्य् अमरः । यासां सख्य एव ईदृश-सौन्दर्यास्ता यूथपाः केन कविना वर्णयितुं शक्या इति न ता वर्णिता इति द्योतितम् । स्व-स्व-युथपानां युथे पारवश्यं वशतां गताः प्राप्ताः ॥११॥
नित्यसिद्धानामासां नित्यसिद्धा नामासाम्मुख्यं नार्हति कदाचिदपि सा रसरीतिः । न च सा वयःकृतेति वयः कृतेतिकर्तव्यता च तस्या इति कैशोरागमे रागमेदुरता च तासां न विस्मयजनिका जनिकालसमकालमेवाजनि । कदाचिदभिव्यक्तिरेव कैशोरे इति रहस्ये रहस्येका काचिदमृतवल्लिशाखा विशाखा विदग्धभावमुग्धमधुरा-मधुराक्षरमात्मनः प्रियसखी राधां निगदति स्म ॥
आसां नित्य-सिद्धानां सा रसरीतिर् अपि नित्य-सिद्धा, कदाचिद् अपि असाम्मुख्यं श्री-कृष्णानुन्मुखतां नार्हति, नाम प्राकाश्ये । इतीत्य् उक्त-हेतोर् एव सा रसरीतिः प्राकृतानाम् इव न च वयःकृता, न च कैशोरवयोल्जनिता, तथा तस्या रसरीतेर् इतिकर्तव्यता तत् तद्-व्यापारश् च न च वयःकृता, न च कैशोरस्यागमे प्राप्ते तासां राअस्य मेदुरता, अनुरागस्य निविडता न विस्मय-जनिका । नित्य-सिद्ध-रति-क्रीडावतीनाम् अप्यासां कैशोर एव लौकिकरीत्या किम् इति पूर्वराग इति विद्वज् जन-विस्मयं नोत्पादयतीत्य् अर्थः । तत्र समाधत्ते—जनिकालेति । रहस्ये इति अतिगोप्ये सिद्धान्ततत्त्वे स्थिते सतीत्य् अर्थः । रहसि विविक्त-देशे, एका सखीषु मुख्या ॥
**सुमुखि कथमकस्मादेष ते हृद्विकारः, प्रणयिपरिजनानां प्राणसम्बाधकारी । ** समजनि जनिमात्रेणैव यातश्च पाकं, तदपि न चतुराणामप्ययं तर्कगम्यः ॥
पाकं विपरिणामं यातः प्राप्तः ॥
यतः—
“क्व तेऽध्ययनकौतुकं क्व शुक-शारिकाध्यापना **क्व बर्हिनटने क्षणं क्व परिवादिनीवादनम् । ** क्व हासपरिहासिनी प्रियसखीजनैः सङ्कथा किमालि वनमालिना तव मनोमणिश्चोरितः” ॥१२॥
कथम् असावसित इति चेत् तत्राह—क्व ते इति । परिवादिनी वीणा ॥१२॥
**
“नैतदसम्भावनीयम् । न हि कुमुदबान्धवमन्तरेण कुमुद्वती मुद्वती भवितुमर्हति । तपनमण्डलमन्तरेण कमलिनी मलिनीभावमहत्येव । नापि स्वमुदि मुदिरमन्तरेण सारङ्गी सारङ्गीतमन्यस्य मन्यते, नापि कुसुमधन्वानमन्तरेण रतिरतिरतिमती क्वापि भवति । न हि जलधरोत्सङ्गसङ्गमन्तरेण सौदामिनी दामिनी भवितुमीष्टे, न च मधुमासमन्तरेण क्वचन कलकण्ठी समुत्कण्ठीभवति । नापि कमलाकरमपहाय सलिलमात्र एव शोभते राजहंसी । न च बलक्षपक्षमन्तरेण परिपुष्टिमीयते चान्द्रमसी रेखा । न च निकषपाषाणशकलं विना निजगुणमाविष्करोति काञ्चनी रेखा । न च वसन्तमन्तरेण परिमलमालम्बते वासन्ती । किं
बहुना? चन्द्र एव चन्द्रिका, रत्न एव रत्नप्रभा, कुसुम एव माध्वीकधारेति किमयि! मयि तेऽपलापः । न खलु मणिवणिजामगोचरो मणेरान्तरः कोऽपि भावः । तन्न्ऽपलपनीयमिदं पनीयमिदञ्जसा” ॥१३॥**
मुत् आनन्दस् तद्वती । ननु शीतल-स्वभावे कुमुद-बान्धवे कुमुद्वती मोदतां नाम, कृष्णस्य तु तथात्वम् अनिश्चित्य कथं प्रीतिस् तत्र कर्तुम् उचिता ? बहु-वल्लभत्वेन तत्र कठिन-चरितत्वस्यापि सम्भवात् ? तत्राह—तपनेति, कान्तस्य तैक्ष्ण्यं प्रणयिन्याः सुखायैव भवतीति भावः । ननु कथं तत्रैव प्रीतेर् ऐकान्तिकत्व-व्रत-निश्चयः ? तत्राह—नापीति । स्वस्य मुदि हर्षे सारङ्गी चातकी मुदिरं मेघं विना अन्यस्य गीतं सारं न मन्यते । मेघे चातकीणाम् इव कृष्णे गोकुल-बालानामौत्पत्तिक एव तथा भाव इति भावः । ननु तथापि मेघ-चातक्योः परस्पर-सापेक्षत्व-शोभासाद्-गुण्याभावः स्पष्ट एव, विनापि चातकीर् मेघ-शोभाया अप्रच्युतत्व-दर्शनादित्यत आह—नापि कुसुमेति ।
ननु तस्या अपि तत्रास्थैर्यम् एव स्पष्टो दोष इत्य् अतत आह—न च मध्विति । मधुमासश् चैत्रैः, कल-कण्ठी कोकिलाङ्गना, समुत्कण्ठीति च्वि-प्रत्ययान्तम् । अत्रोभयोः परस्पर-सापेक्षत्वेनैव शोभासाद्-गुणाम्, कल-कण्ठ्यास् तत्रास्थैर् याभावस् तद्-विना-भावस्तु उपमा-प्रयोजक-भूत-तद्धर्माभावाद् एवेति न पूर्वोक्ता दोषाः ।
ननु कल-कण्थाः कण्ठ-स्वरः प्रशस्यतां नाम, न तु गात्र-सौन्दर्यम् इत्यत आह—नापि कमलेति । किं च, प्रीतेर् योग्य-प्रतियोगि-सङ्गस्य-भावाभावाभ्याम् एव समृद्धिनाशावपीत्य् अत्र दृश्टान्तः—न च बलक्षेति । बलक्ष-पक्षं शुक्ल-पक्षम्, ईयत इति ईङ् गतौ दैवादिकः । अन्यच् च, स्वनिष्ठ-प्रेमादि-महा-गुण-परीक्षणं च तादृश-प्रतियोगिन्येव, नान्यत्रेति दृष्टन्तः—न च निकषेति । किं च, गुण-नाम-प्रसिद्ध्यादिकं सर्वम् एव तादृश-प्रतियोगि-साहित्येनैव प्रकाशते, नान्यथेत्य् अत्र दृष्टान्तः—न च वसन्तेति । परिमलम् इति गुणः, वसन्तोऽपि सुरभिः, वासन्तीति नाम, स चापि ऋतुषु श्रेष्ठ इत्यादि, तथा परस्पर-शोभा-सापेक्षत्वाविनाभास्थैर्य-सौन्दर्याद्याः पूर्व-पूर्व-दृष्टान्त-निष्ठा गुणा अप्य् अत्र वर्त्तन्त एव, इत्य् अयम् एव मुख्यो दृष्ठान्त इत्य् अत्रैव पर्यवसानम् इति । दार्ष्टान्तिक-पक्षेऽपि वैदग्ध्यादिना गुणेन तुल्यावेव राधा-माधवौ, माधवेति राधेति तुल्य-पर्यायत्वात् नाम्नापि प्रसिद्ध्या च लोकोत्तरया प्रेम्णा च परस्पर-सापेक्षत्वदिभिश् चेति ।
अथ तत्राप्य् अत्यन्तैक्य-विविक्षया धर्म-धर्मि-रूपेण पौराणिक-सिद्धान्तोपयोगित्वाच्छक्तिमत्तारूपेण वा सम्बन्धेन दृष्टान्तत्रयम् तत्रायम् । अत्र चन्द्र-चन्द्रिकयोः सुख-स्पर्शत्य त्वग् इन्द्रियगम्या । रत्न-रत्न-प्रभयोर् दर्शनीयता नेत्रेन्रियगम्या जाड्यादि1-राहित्येन पूर्वतोऽप्य् अधिका । कुसुम-माध्वीकधारयोस्तु सौरस्यं सौरभ्यं सुख-स्पर्शत्वं सुदर्शत्वम् इति सर्वेन्द्रिय-गम्यत्वम् इत्य् अर्तैव श्रिष्ठ्ये विश्रान्तिर् इति । अपलापः सङ्गोपनम्, अपलापस्तु निह्नवः इत्य् अमरः । मणि-वणिजाम् इति त्वत्-साधर्म्यवत्यो वयं स्वानुभवेनैव सर्वं जानीम इत्य् अर्थः । भावः स्वरूपम् । इदं हृद् विकार-चिह्नम्, अञ्जसा साक्षान्नापलपनीयम् । अनीया स्तव्या मित् स्नेहो यस्याः, हे पनीयमित्-सखि ! स्नेहेन मयि सर्वम् एव कथयेति भावः, पन स्तुतौ, ञिमिदा स्नेहने इति धातु ॥१३॥
इति तदुदितोपरमे परमेण प्रणयेन सकलगुणललिता ललिता चोवाच—“युक्तमुक्तमुदारप्रणयद्रुमशाखया विशाखया, विचित्रं नैतत्, पीयूषमयूखेनैव विभावरीविभा वरीयसी भवति । तमन्तरेण चकोरो चकोरी च कोरीकरोति कमपरम्” ॥१४॥
विभावर्षा रात्र्या विभा कान्तिः । तं विना का चकोरी कमपरमुरीकरोति स्वीकरोतीति तव कान्तिदायित्वं जीवनदायित्वं च केवलम् एकस्य कृष्णस्यैव, नान्यस्येत्येकत्रिव दृष्टान्त-द्वय-तात्पर्यम् ॥१४॥
इत्युक्ता साह—
**“साहसमिदं भवतीनां यदिदमसम्भाव्यमपि सम्भाव्यते । ** विशाखा विशाखाभावं न त्यजति, यदियं माधवमासहायिनी”इति ॥१५॥
इति ललितयोक्ता सा राधा आह—विशाखा-भावं विशाखा-नक्षत्र-स्वभावम्, माधवमासो वैशाखः, वैशाखे माधवो राधः इत्य् अमरः । तं जिहीते गछति प्राप्नोतीति ग्रह्यादिभ्यो णिनिः-वैशाख-पूर्णिमायां विशाखा-नक्षत्र-योगात् । भङ्ग्या तु विशाखा त्वं तस्मिन् माधवे सङ्गतैव तिष्ठसीति मा स्व-सदृशीं मां जानीहीति नर्म सूच्यते । पक्षे, माधवस्य मा शोभा, तस्याः सहायिनी सहायवती तद् अनुकूल-व्पापार-युक्ता । अत्रादृष्टाश्रुत-चरेऽपि श्री-कृष्णे प्रथमम् अस्या रागः श्री-मद्-उज्ज्वल-नील-मणि-दर्शिताल्पलनानिष्ठ-स्वरूपाद् एव, ततो वक्ष्यमाण-प्रकाराद् बलभीतले दर्शनादयं स इति निश्चय आसीत् । ततस् तद् अनुसन्धान-धृत-चित्ततयान्यजन-परिशीलित-तत्-प्रसङ्गपरामर्षान् नामादिज्ञानम् इति विवेचनीयम् ॥१५॥
तदुदितान्तेऽतान्तेन मनसा पुनर्ललिताह—“भाविनि! भावि नियतमेव भवति । राधाभिख्ये तत्र राधैव साहाय्यमवलम्बत्-राधाविशाखयोरैक्यात्” ॥१६॥
अतान्तेन प्रफुल्लेनेत्य् अर्थः । तस्याः स्व-स्वभाव-प्रकाशन-कर्मठ-नर्मश्रवणात् । हे भाविनि ! सुन्दरि ! भावि भवितव्यम् । राधाभिख्ये राधानाम्नि, तत्र वैशाख-मासे तत्सनाम्नी राधैव । ननु का तत्र रधा ? तत्राह—राधा-विशाखयोर् कैक्या एक-पर्यायत्वात् । तत्र विशाखा-नक्षत्रम् एव राधा उच्यते इत्य् अर्थः । श्लेषेण, राधया अभिख्या शोभा यस्य तस्मिन् श्री-कृष्णे—अभिख्या नाम-शोभयोः इत्य् अमरः ॥१६॥
अथाह सा हसामृतमधुरम्—“ललिते! न ह्याकाशलता काशलताकुसुमसमानकुसुमेति शक्यते वक्तुम्, तदयि मुखविजितनालीके नालीकेन वितर्केण सम्भावनीयोऽयं जनः” ॥१७॥
हसामृत-मधुरं यथा स्यात् तथा सा राधा आह—आकाशेति । आकाशलतायाः कीदृशं कुसुमम् इति प्रश्ने काशलतायाः कुसुम-तुल्यं तद् इत्य् उत्तरम् इव भवतीनाम् अलीकम् ऊलके प्रश्ने ममापि किं तादृशम् उत्तरम् उचितम् इत्य् अर्थः । मुखेन विजितं नालीकं कमलं यया हे तथा-भूते ! अलीकेन मिथ्या-भूतेन वितर्केण न सम्भावनीयः, अयं मल् लक्षणो जनः ॥१७॥
इत्येवमवसरे स्वभावश्यामा श्यामा नाम राधाराधाय प्रतिदिनमेवागमनशीला तदापि तदापितहृदया हृदयालुतया तत्रैवाजगाम । आगतायां च तस्यामेतस्या मेदुरहृदः कमलमुख्या मुख्याया हृदयमतिस्निग्धमुग्धमुदितमासीत् ॥१८॥
स्वभावेन श्यामा शीक-काले भवेद् उष्णा इत्याद्युक्त-लक्षणा । राधाया आराधनाय, सुहृत्-पक्षत्वाद् उपसर्पणायेत्य् अर्थः । तथापि तत्रैवाजगाम । कीदृशी ? तस्यां राधायाम् आपितं प्रापितं समर्पितं हृदयं स्वमनो यया सा । तत्र हेतुः—हृदयालुतया सौहार्देनेत्य् अर्थः । एतस्या मुख्यायाः श्री-राधायाः ॥१८॥
परस्परं मिलितवतीषु सकलासु सकलासु सस्मितगाम्भीर्यावहित्थं मुख्याह—“कमलमुख्याहरस्व मे वचसि मनो मनोज्ञे प्रियसखि श्यामे दृश्या मे दृशोः कर्पूरवर्तिरिव भवती भवतीह । तदाकर्णय कर्णयशस्करं किमपि मे सखीजन-वचनम्” इति सख्योरुदितं कथयति ॥१९॥
सकलासु कलाभिर् वैदग्धीभिः सहितासु मुख्या रधा आह । मे वचसि मन आहरस्व प्रवेशय । भवती मम दृश्या सती दृशोर् नेत्रयोः कर्पूर-वर्तिर् इव भवति ॥१९॥
श्यामह—“मा हरिणाक्षि! सखीजनमभ्यसूयतु भवती, सकलास्वेव गोकुलकुलललनापरिषत्सु गोकुलललनाललामभूतायास्तव स्तवनकथाप्रसङ्गे सङ्गेयमिदं वृत्तम् । तत्स्वभावो हि भावो हिमकरकुमुदिन्योरिव तस्य तव च जायमान एव सकलगोकुलनगरीगरीयः सौरभ्यमभ्यागमयति” ॥२०॥
परिषत् सभा, ललाम् अभूताया भूषण-रूपायाः—ललामं पुच्छ-पुण्ड्राश्व-भ्;उषा-प्राधान्यकेतुषु इत्य् अमरः । सङ्गेयं प्रशंसनीयम् । स्वभावो हि भाव इत्यति-निरुपधित्व-विवक्षया लक्षणा स्वाभाविको भाव इत्य् अर्थः ॥२०॥
मुख्या हसितमुख्याह—“सितमयूखमुखि! सत्यमेव भवति लोभवती भवती च तस्मिन् जने, यदात्मकथामन्यत्रासञ्जयसि, जयसि त्वं सर्वकलया कथमिदमपि सम्भाव्यते । पश्य का पुनरहिमकरं हिमकरं वा करेणाहर्तुमभिलषतु । का च काचमणिना महामणिं परिवर्तयितुमुद्यता भवतु? का वा रत्नाकरवर्तीनि करवर्तीनि कर्तुमाकाङ्क्षतु महारत्नानि, का वा डगमगायमानमणिवरलोभेन फणधर-फणधरणार्थमर्थिनी भवतु? का च वा कण्ठीरव-किशोरकेशर केशरचनार्थमुद्यतताम्? तदलं प्रतारितालीकेनालीकेनामुना वृत्तान्तेन” ॥२१॥
मुख्या राधा आह । हसित-मुखी सतीति नर्मार्थम् सितमयुख-मुखि ! सर्वकलया सर्वांशेन । पूर्वराग-पाकावस्थायां दैन्यस्यैव सञ्चारिणः प्रावल्यात् तद् अनुरूपम् आह । तत्र प्रथमं कृष्णस्याति-दुर्लभतास्फुर्त्या आह—का पुनर् इति । अहिमकरं सूर्यम्, हिमकरं चन्द्रम् । शुद्ध-प्रेम्णा दुर्लभोऽपि वशीकर्तुं शक्य इति चेत् तत्र स्व-प्रेम्णोऽपि तथात्वाभावं दैन्येनैवाह—का चेति । का च नारी काच-मणिना स्व-निष्ठ-प्रेम्णा महा-मणिन्द्र-नील-मणिं श्री-कृष्ण-निष्ठ-प्रेमाणं परिवर्तर्ययितुं स्वकर्तृक-प्रेमाणं कृष्णे अर्पयित्वा कृष्ण-कर्तृक-प्रेमाणम् आत्मन्यर्पयितुम् । अथ श्री-कृष्णस्याक्षयाणां महा-गुणानाम् आनन्त्यम् अवकलय्यात्मनश् च तद् उदाहरणोचित-पात्रत्वाभावम् आशङ्क्य सविचारम् आह—का वा रत्नाकरेति । न हि रत्नाकरस्थ-समस्त-रत्नानि करतल-मात्रे मान्तीति भ्जावः । अत्यायोग्यत्वेऽप्यात्मनः कदाचिद् अपि प्राप्नुम् आशक्य्ऽपि वस्तुनि साहसाविस्कारेण कष्टम् एवोदर्कं स्यान् न तु सुखम् इति सभय-प्रदर्शनम् आह—का वा डगमगायेति । डगमगेति स्निग्धौज्वल्यवाचि भासानुकरणम् । प्रायो वीररताः स्रियः इति न्यायेन कान्तस्य शौर्यं सुखम् एवावहतीत्य् अन्तरभिलाषे सत्यपि आत्मनो मौग्ध्यमात्रम् आविष्कृत्य कृष्णस्य चाघ-वकाद्यसुरमारणोद् दण्डप्रभावतां व्यञ्जयन्ती सत्रासं सान्तरौत्सुक्यं चाह—का च वेति । कण्ठीरव-किशोरस्य केशरैर्या केश-रचना तद् अर्थम् उद्यतताम् उद्यमं करोति । अत्र समासाद् विधेयांशाविमर्शो यमकानुरोधात् षोढव्य इति प्रतारिता आली सखी येन तेन वृत्तान्तेन ॥२१॥
श्याम्ह—“श्यामाहतं ते सत्यमेव हृदयं हृदयङ्गमेनामुनैव वचसा च सातिशयमेव व्यक्तीकृतम्, कृतं ते प्रतारणेन” ॥२२॥
श्यामेन श्री-कृइष्णेनाहतम् उत्कण्ठोत्पादनया भावना-गतेन ताडितम् इत्य् अर्थः । वचसा दैन्यवोधकेन तद् उत्कर्ष-कथनम् एव तव स्पृहा-व्यञ्जकम् इति भावः । तस्मात् प्रतारणेन कृतम्, अलम् इत्य् अर्थः ॥२२॥
इत्युक्तवत्यामेतस्याः प्रतारणचातुरी चातुरीभूता यदि, तदा स्वभावभावभावुकसुभगम्भावुकमनोवृत्तितया रोमाञ्चमाञ्चनचटुलकपोलपालिपालितकज्जलजलमिषेण नयनकमलाभ्यामन्तर्गतं कृष्णकान्तिद्रवमिव वमन्तीमं तीव्रतरकृष्णानुराग-परभागपरभाजनभावं व्यञ्जयन्ती जयन्तीव वैजयन्ती सर्वसौभाग्य-सम्पदां सखीजनहृदयद्रवाय समजनि । क्षणमाश्वास्य च “श्यामे! क्व मे क्वणतु तादृशं भागधेयभूषणम्, अवधेहि—
अतिपरम-महार्घ्यमस्य चेतो, मणिमतिलोकमणीन्द्रवन्दनीयम् । तृणमणिवदयं ममानुरागः, परिपणितुं पणतां कथं प्रयातु” ॥
इति रोदिति ॥२३॥
आतुरीति च्विः । स्वभां निज-कान्तिम् अवति रक्षति रक्षतीति तथा-भूतो यो भावो वद्ध-मूल इत्य् अर्थः । तस्य भावुकेन कुशलेन सुभगम्भावुका म्नोवृत्तिर् यस्यास् तत्तया हेतुना यो रोमाञ्चस् तस्य मा शोभा तस्या अञ्जनेन प्राप्त्या चटुलौ शोभनौ कपोलौ तयोः पालीभ्यां क्रोडाभ्यां पालितं रक्षितं यत् कज्जल-सम्बन्धि-जलं तन्मिषेण तच् छलेन, चटुलः सुन्दरे चले इति धरणिः, पालिः स्त्र्यस्त्र्यङ्कपङ्क्तिषु इत्य् अमरः । नयन-कमलाभ्यां तद्-द्वाराभ्यां वमन्ती उदिगरन्ती । ततः किम् ? तत्राह—तीव्रतरः परिपक्वो यः कृष्णानुरागस् तेन परभागः सौन्दर्यं तस्य पर-भाजन-भावं श्रेष्ठ-पात्रत्वं व्यञ्जयन्ती, आत्मन इत्य् अर्थः । ततः किम् ? तत्राह—वैजयन्ती पताका जयन्तीव सर्वोत्कर्षेण वर्तमानेव । अतिलोका लोकम् अतिक्रान्ता लोकोत्तरा मणीन्द्रास् तैर् अपि वन्दनीयं वन्दनार्हं तत्-स्थानीयम् इत्य् अर्थः । तृण-मणिस् तृणाकर्षको मणि-विशेषः, परिपणितुं क्रेतुं पणतां मूल्यताम् ॥२३॥
श्यामाह—“मा हन्त! खेदनीयं वामनयने, नय नेतव्यतामस्मद्वचसि प्रामाण्यम् । समाश्वसिहि विश्वसिहि विगतालीक्ये मदालिवाक्ये, त्वदनुरागरत्नेनैव तन्मनोमाणिक्यं परिचीयते । तथा हि—
प्रसरति सहजावरोहहाने, रधिनिधि कश्चन वीरुधोऽवरोहः । निधिरपि न स तेन दुर्विदः स्यात्, कलयति यस्तमहो स एव वेत्ति” ॥२४॥
अस्मद् वचसि प्रामाण्यं प्रधान-कर्म-भूतम्, नेतव्यतां ग्राह्यताम्, नय प्रापय । तत्र प्रामाण्ये तवोपादेयता तिष्ठतु, न तु हेयतेत्य् अर्थः । विगतम् आलीक्यम् अलीकत्वं मिथ्यात्वं यस्य तस्मिन्, ममालीनां सखीनां वाक्ये । त्वद् अनुरागरत्वं तत्रैव लग्नं सत् तमनोरूपं माणिक्यं परिचिनोत्येवेत्य् अर्थः । अत्र दृष्टान्तः—सहजैव अवरोहस्य शाखा-जटाया हानिस् त्यागो यस्यास् तथा-भूताया अपि वीरुधः । अधिनिधि निधि-प्रचेषे अवरोहः प्रसरति—शाखा शिफावरोहः स्यात् इत्य् अमरः । ततश् च स निधिर् अपि तेनावरोहेण दुर्विदो दुर्ज्ञेयो न स्यात् । कुतः ? अहो आश्चर्ये, योऽवरोहो लम्बितः सन् तं कलयति गृह्नाति, अतः स एव तं निधिं वेत्ति । अत्र निधिस्थानीयं श्री-कृष्ण-मनः कर्म-भूतम्, अवरोह-स्थानीयस् त्वद् अनुराग एव गृह्नाति, जानाति च नान्य इत्य् अनेन त्वय्याकृष्टम् एव तस्यापि मनः साम्प्रतं वर्तत एवेति व्यञ्जितम् । तवाप्ययम् अनुरागो नाधुनिक एव, किन्तु अदृष्टाश्रुत-चरेऽपि तस्मिन् प्राग् एवारभ्यासीद् इत्य् अपि व्यञ्जितम् ॥२४॥
आहतुरुभे विशाखाललिते—“ललितेक्षणे श्यामे! पुरापि तव तस्य चेति मुदितमुदितमधुनापि मधुनापिहितमिव किञ्चिदुच्यते । तदयि मधुरहसिते! रहसि ते किमपि श्रवणपथातिथित्वमागतमिव । साह—साहसिक्यमिदं यदहं कथयामि” ॥२५॥
मुदितम् आनन्दः, उदितम् उदय-प्राप्तम् । मधुना पिहितं मधुमिश्रितम् इव विगतालीक्ये मदालि-वाक्ये इति तथा निधिर् अपि न स तेन दुर्विदः स्याद् इत्य् अनेन च सुरसम् इत्य् अर्थः ॥२५॥
ऊभे आहतुः—“श्यामे! शपावहे स्वशिरसा, रसान्तरेण चेदिदं भवति, तदसङ्कोचेनालप, लपनेन्दोस्ते निर्मञ्छनं यावः” ॥२६॥
आलाप कथय, लपनेन्दोर् मुख-चन्द्रस्य, आननं लपनं मुखम् इत्य् अमरः ॥२६॥
अथ सा हसन्त्याह—“सन्त्यायतधियो मदीयाः सहचर्यस्ता एकदा कदाचन वनगमनारम्भसम्भावित-वेणु-विषाण-गुञ्जाशिखण्डादिभूषणसम्भारैः सह सहचरैरग्रेसरस्तथाविध-विविधभूषणो व्रजपुरपुरन्दरनन्दनः पुरतोरणतः पुरतो रणतः कनकमणिमयालङ्कारान् दधानोऽयमधिवलभीतलमधिवलभीतलङ्घितनयनमितस्ततोऽवलोकयन्ती भवत्योः सखीमाकस्मिकेनाकुटिलेनालोकनेनेषत्तरां तमालोक्य तत्समकाल-जनित-मन्दाक्षमन्दाक्षमपवर्तमानां वर्तमानान्दोलितानन्दोल्लास-पराभवेन पुनरपि विवलितग्रीवमालोकमानामाकस्मिकेनैवाकुटिलेन तदालोकनेनार्धवर्त्मनि निकृत्तस्य कटाक्षस्य चरमार्धमुपसंहरन्तीमनपेक्षमाणेन पूर्वार्धेन छिन्नविशिखार्धेनेव हृदि विद्धो नियतिनियोगेन निकृत्तभुजगीपूर्वार्धेन दष्ट इव कामपि दैवोपसन्नामाकस्मिकी रुजमासाद्य सोत्कण्ठं सचमत्कारं सविस्मयं पश्यन् कमपि प्रियनर्मसहचरं यदुवाच, तदन्विष्यमाणाभ्यः पञ्जरतो विच्युताभ्यः शुकीभ्यः शृण्वन्ति स्म” ॥२७॥
हसन्तीति—वर्णयिष्यमाण-राधिकौत्सुक्य-चापल्य-स्मरणात् । व्रज-पुर-पुरन्दर-नन्दनः कामप्याकस्मिकीं रुजमासाद्य कम् अपि प्रिय-नर्म-सहचरं यद् उवाच, तन्मदीयाः सहचर्यस्ता अन्विष्यमाणाभ्यः शुकीभ्यः शृण्वन्ति स्मेत्य् अन्वयः । कथम्-भूतः सन्नित्य् अपेक्षायां प्रथमत एव क्रमेण समस्तोदन्तं विवृण्वती विशिनष्टि—वन-गमनारम्भेत्यादिना । पुरस्य तोरणतो बहिर् द्वारात् पुरोऽग्रे वर्तमानः । पुनः कथम्-भूतः ? रणतः क्वणतो मणिमयालङ्कारान् दधानः, रण ध्वन शब्दे शत्रन्तः । अयम् इति वुद्ध्या प्रकटी-कृतं तमङ्गुल्या दर्शयामीवेति भावः । पुनः कीदृशः ? भवत्योः सखीं वर्ण्यमानलक्षणा-मन-पेक्षमाणेन कटाक्षस्य पूर्वार्धेन छिन्नशरार्धेनेव हृदि विद्धः । कीदृशीम् ? अधिवलभीतलं वलभीतले । अधिवलेन अधिक-बलेन भीतेन भयेन लङ्घिते व्याक्षिप्ते2 नयने यत्र तथा-भूतं यथा स्यात् तथा स-चकितम् इत्य् अर्थः, इतस् ततोऽवलोकयन्तीम्—चन्द्रशाला च वलभी स्यातां प्रासाद-मूर्धनि इति श्रीधरः । आकस्मिकेनाकस्माज् जातेनालोकनेनेषत्तरामल्पतरां यथा स्यात् तथा तं श्री-कृष्णम् आलोक्य तत्-समकालं जनितं यन्मन्दाक्षं लज्जा तेन मन्दे वेगहीने अक्षिणी नेत्रे यत्र तद्-यथा स्यात् तथा, अपवर्तमानां तिरोभवन्तीम्—मन्दाक्षं ह्रीस् त्रपा व्रीडा इत्य् अमरः । ततश् च वर्तमानो जायमान आन्दोलित3 आन्दोलं प्रापित आनन्दो येन तथा-भूताद् उल्लासादौत्सुक्यादयः पराभवः स्वधीरताया ध्वंसस् तेन पुनर् अपि किम् अयं मां पश्यन्नस्ति, हन्त हन्त गतो वा म्रियतां नाम मे लज्जा यद् भावि तद्-भवतु, किन्तु एक-वारम् ईक्षितव्य एवासौ इति चापल्येन विवलित-ग्रीवं ग्रीवा-मुखाप्यालोकमानाम्, ततश् चाकस्मिकेनैव तद् आलोकेन कृष्णालोकेनार्ध-वर्त्मनि निकृत्तस्य छिन्नस्येति द्वयोः परस्परं प्रति तुल्य-कालम् एव कटाक्ष-शर-सन्धानात् कटाक्षस्य स्वकृतस्य चरमार्धम् उपसंहरन्तीम् इति सम्पुर्णस्यैवोपजिहीर्यायां सत्याम् अपि पृष्ट-देशार्धम् एव पूर्वार्धस्य4 तीक्ष्ण-फलिका-युक्तस्य कृष्ण-कटाक्षेण छिन्नत्वात् । अतस् तादृशीं ताम् अनपेक्षमाणेन दैवप्रेरणया । निकृत्तभुजगीति तद् विषस्य दुःशक-प्रतिकारत्वात् । अत्रायम् अर्थः—मामयं मा पश्यतु, अहन्तु एनम् एकवारं पश्यामीति वाञ्छायावलोकनारम्भे तदैव श्री-कृष्णावलोकनं दैवाज् जातम् आलक्ष्य हन्त हन्त माम् अयं दृष्टवान् एव, तदौत्सुक्य-सूचिका मे दृष्टिर् इयम् एतस्य दृष्टिगता मा भवत्विति तिरोदधत्या एतस्याः सम्पूर्ण-दृष्टेर् एवोपसंहारेच्छा, किन्तु दृष्टेः प्रथम-भागस्य प्रथमम् एव कृष्ण-दृष्टौ योगोऽभूद् इति न तस्योपसंहारः शक्य इति पश्चाद्-भाग एवोपसंहृतः । तथा एकस्याः सम्पूर्णाया दृष्टेः पूर्वार्धपरार्धयोः प्रकाशाप्रकाशौ तात्कालिक्या कृष्ण-दृष्ट्यैव सम्पादिताविति तयोर् मध्ये छेद उत्प्रेक्षितः । तेन चाभिलषणीयत्वेऽपि तत्पश्चाद्भागस्य कृष्णे नाप्राप्तिर् एव सौरस्यात् तद् उत्कण्ठावर्धिनी जातेति ॥२७॥
यथा—“प्रियसख! केयं वलभीतलविद्योतिनी निर्मुदिरा विद्युदिव, नन्दनवनतो निपत्य वडभीतलमालम्बमाना बालकल्पलतिकेव, त्रिलोकीलोक-सम्मोहकारिणी मदनैन्द्रजालिकस्य कुहककनकपाञ्चालिकेव, गोकुलपुराधिष्ठातृदेवतेव, केनापि परमकलावता चित्रकारेण चित्रिता निभित्तिचित्र-लेखेव, गगनसरसो लम्बमाना हेमहंसीव, आकाशकनककेतकीव, कुसुमधनुषो निष्कृपा कृपाणीव, अद्वितीया द्वितीया चन्द्रलेखेव, सम्मोहस्य महिमवल्लीव, लावण्यस्य दर्पणिकेव, माधुर्यस्य पताकिकेव, गुणमणीन्द्रवृन्दतेजोमञ्जुमञ्जरीव, सौरूप्यविहङ्गपुरटपञ्जरिकेव, क्षणमेवाविर्भूय तिरोभवति । किमयं मे स्वप्नः, किमुत भ्रम एव वा, किमुत मदीयमनसो विभ्रामिका कापि दैवी माया” ॥२८॥
निर्मुदिरा मेघ-विनाभूता । विद्युद् इवेति नेत्र-चमत्कारि-रूपचाक्-चिक्यवतीत्वेन । बाल-कल्पलतेति मनो-लोभनीय-वस्तुदित्सुतया । कुहकेत्यदृष्टाश्रुत-चरत्वेनासम्भाव्य-सौन्दर्यस्याकस्माद् उद्गमेन । तत्रापि स्वस्य काम-सुखम् अनुस्मृत्य मदनैन्द्रेति । तत्राप्य् अतिशयम् आलक्ष्य सम्मोहेति । नैन्द्रजालिक-विद्यया स्वस्याशक्यवशीकारत्वं सम्भाव्याह—गोकुल-पुरेति । तादृश-मुख-नेत्राद्यङ्ग-सौष्टवस्य विधातृसृष्टावसम्भावितत्वं निश्चित्याह—चित्र-लेखेति । तत्राप्यतिलोकोत्तरताम् अनुभूय परमकलावतेति । केनापीति विश्व-कर्मतोऽपि वैलक्षण्यं द्योतितम् । निर्भित्तीति तस्यातर्क्यशक्तिता सूचिता, अलङ्कार-क्वणितस्य कर्णाल्हादकताम् अनुभूयाह—हेम-हंसीति । अङ्ग-सौरभ्यस्य5 मनो-व्रम-व्याकुलीकारित्वदिग्-दर्शनेनाह—कनक-केतकीति । तद् अनुस्मृत्या काम-पीडाम् अनुभूयाह—कुसुम-धनुष इति । तत्रापि चित्ताह्लादकतया दोषास्पृष्टतया द्वितीयातिथि-चन्द्रलेखेवेति । अद्वितीया न विद्यते साम्येन द्वीतीया यस्याः सा । तत्र हेतुम् आनन्द-मूर्च्छा-जनकत्वं तस्याः प्राह—सम्मोहेति ।
अथा लावण्य-माधुर्य-साद्गुण्य-सौन्दर्याणाम् अवधिभूतत्वेनोत्प्रेक्षते क्रमेण चतसृभिः । मणि-दर्पणायमानत्वम् अङ्गानां लावण्येनैव भवति । इयं तु साक्षाल् लावण्यस्यैव दर्पणिकेति । तथा हि तल् लक्षणम्—[उ नी १०-२८] मुक्ता-फलेषु छायायास् तरलत्वम् इवान्तरा । प्रतिभाति यद् अङ्गेषु तल् लावण्यं विदुर् वुधाः । इति । पताकिका उत्कर्षपरा अवधिसूचिका । सौरूप्यं सौन्दर्यम्, तद्रूपो बिहङ्गः पक्षी अस्यां पञ्जरिकाभूतायाम् एव निवद्धस् तिष्टतीति तेनान्यत्र न दृश्यत इति भावः । यद् वा, सौरूप्यं शोभन-रूपत्वं वर्णित-धर्माणां समस्तानाम् एव तत्, तेनैतन् निष्ठाः सर्व एव वर्णित-गूणाः क्वापि न निःसृता इति भावः । तिष्ठतश् चलतश् च मे गोचारणाय स कथं सम्भवेदिति भ्रमस् तात्कालिकः, स चापि निर्हेतुकः6 कथं स्याद् इति दैवी माया ॥२८॥
स आह—“सखे! सखेदेन मा भवितव्यम् । इयं हि वार्षभानवी नवीनैव सृष्टिर्वेधसः । यां खलु सर्वसौभाग्यसाराधिकां राधिकां प्राहुः” इत्युक्ते सति “आं जानामि नामितसकलसुन्दरीसौन्दर्यगर्वामेनां गुणवतीगणगणनाप्रसङ्गे प्रसङ्गेयचरित्रामम्बयोः संवाद एव किं त्वद्यैव मे नयनपथि पथिकेयम्” इत्यवहित्थया प्रसङ्गान्तरमापाद्य हृदि सञ्जातविकारो बहिः प्रकृत इव, अनुगवीनो नवीनो नटन्मेघ इव, मेदुरदुरवगाहनीलधामा धामातिश्यामायितं विपिनमलञ्चकार । तदयि दयिते! ललिते! निर्व्यूढमुभयोरेव मनसि मनोरथ-महाङ्कुरेण । काले द्विपत्रायितक्रमेण फलदशाप्यस्य सम्भावनीया ॥२९॥
अम्बयोर् इति श्री-यशोदा-रोहिण्योः कदाचित् तथा संवादः पूर्वम् आसीद् इति ज्ञापितम् । सङ्गेय-चरित्रां प्रशंसाहचरिताम् । अवहित्थया आकार-गोपनेन7, प्रसङ्गान्तरम् इति विरमतु तावद् अनुचितेयं वार्ता, प्रस्तुतानुसरणम् एव चारु, हंहो सखायोऽद्य कुत्र वने चिक्रीडिषा भवताम्, का वा तत्र खेला ? इत्य् एवं-लक्षणम् । अनुगवीनो गवां पश्चाद् अलङ्गामी, [पा ५-२-१५] अनुग्वलङ्गामी इति खः, मेदुरं सान्द्रं स्निग्धं दुरवगाहं नीलं धाम कान्तिर् यस्य सः । एकस्यैव मनोरथ-शाखिन एकेनैव महाङ्कुरेण, उभयोर् मनसि निर्व्यूढम् इत्य् अनेन द्वयोर् मनसोरप्येकत्वम् एवेति द्योतितम् । अतएव मनसीत्य् एक-चचनम् । तथा ह्युक्तं श्रीमद् उज्ज्वल-नील-मणौ [स्थायि भाव-प्र १५५] राधाया भवतश् च चित्तजतुनी इत्यादि ॥२९॥
मुख्याह—“श्यामे! अलीकवादिनि! विरम विरम, नाहं कदाप्येकाकिनी वडभीतलमारूढा । तन्नातः परमिमं जनं लघुतरीकर्तुमर्हसि, पादयोस्ते निपतामि, मा परमपत्रपा-पारावारे पातय माम्” इति तदुदितोपरमे स्ह—“यदीयमलीकैव वार्ता, तत् कथमत्रापत्रपा-पारावारः? अतो निह्नूयमानोऽपि निह्नोतुं न शक्यते स्वाभाविको हि भावः । तदिदं क्षम्यतां मे चापलम् । अतः परं विश्वस्ता भव निजमागधेय-सम्पदि” इत्येवं तदा समस्ता एव व्रजनगरे स्व-स्व-यूथपाभिः समं स्व-स्व-सख्यः समन्तत एवमेव यथास्वं
सरसकथाप्रसङ्गेन श्रीकृष्णे जातमनुरागं व्यञ्जयन्ति स्म । निरन्तरं च वर्धत एव पूर्वरागनाटकपूर्वरङ्गः ॥३०॥
पारावारः समुद्रः ॥३०॥
तथा हि—ध्वज-कमलादि-विलक्षणलक्षणलक्षितचरणचिह्नमयी पृथिवी, तत्कान्ति-सकान्ततरणितनया-सलिलसलीलानि सकलान्येव सलिलानि, तदीयश्यामलमहोमयानि सकलान्येव महांसि, तद्गन्धवाहिनः सर्व एव गन्धवाहाः, तन्मुखचन्द्रचन्द्रिकाधौतमाकाशमिति तासां सर्वाण्येव भूतानि तनिष्ठानि जातानि ॥३१॥
अथासां गाढासक्ति-व्यञ्जकं तन्मयत्वानुसन्धानं दर्शयति—ध्वजेत्यादिना । चरण-चिह्नमयीति सर्वेषाम् एव पृथीवीस्थानाम् अङ्क-रेखादीनां स्व-वुद्ध्यैव ध्वजादि-साधारण्य-कल्पनया तच् चिह्नत्वेन8 प्रतीतिर् इत्य् अर्थः । तत्-कान्त्या सकान्तं तुल्यं यत् तरणितनयाया यमुनायाः सलिलं तेन समाना लीला रूप-विलासो येषां तानि ॥३१॥
एवं ध्यानैकतानतायां च तस्यां तद्रूपमेव नयनेषु, तदधररस एव रसनासु, तदगन्ध एव गन्धवहासु, तत्स्पर्श एव त्वक्षु, तद्दर्शनक्षणगनणासु सङ्ख्या, तदधिकरणप्रेमपरीक्षणेषु परिमाणम्, गुरुजनादिवर्गात् पृथक्त्वम्, तदाकार एव मनसः संयोगः, पत्यादिगृहाद्विभागः, गुरुपरिजनेषु परत्वम्, कृष्णसम्बन्धिष्वपरत्वम्, जीवनेषु गुरुत्वम्, चेतसि द्रवत्वम्, प्रेम्णि स्नेहत्वम्, श्रवणे तद्गुणशब्दः, तत्संयोगचिन्तासु बुद्धिः, तत्सङ्गप्रत्याशायामेव सुखम्,
तदसङ्ग एव दुःखम्, तदासत्तिषु इच्छा, गुर्वादिषु द्वेषः, कृष्णोपसर्पण एव प्रयत्नः, तदुपसत्तिरेव धर्मः, तदन्यथाभाव एव अधर्मः, तत्प्रेमकरण एव संस्कारः, इत्येवं सर्वासां चतुर्विशतिरेव गुणास्तदानीमेवंविधा आसन् ॥३२॥
एवं च तासामन्योन्यं सरसानुलापश्चासीत्, यथा—
**“ईदृशा पुरुषभूषणेन या, भूषयन्ति हृदयं न सुभ्रवः । ** धिक् तदीयकुलशीलयौवनं, धिक् तदीयगुणरूपसम्पदः ॥
एवं वैशेषिक-दर्शनोक्तानां पृथिव्यादि-द्रव्याणां तन्मयत्वेनैव ग्रहणम् उक्त्वा । तद् दर्शनोक्तानाम् अन्येषां रूप-रसादि-चतुर्विंशति-गुणानाम् अपि केषाञ्चित् तदीयानाम् अपि9 केषाञ्चित् तद् अनुकूलतयैवोपादेयतां तासाम् आह—ध्यानैकतानतायां ध्यानैकाग्रमनस्तायां सत्याम् इत्य् अर्थः, एकतानोऽनन्यवृत्तिः इत्य् अमरः । रसनासु जिह्वासु । तद् अधर-सर इति भावनयैव साक्षाद् उपनत इत्य् अर्थः । तत्-स्पर्श इति सम्प्रयोग10-लीलादिकम् अपि तथैव निर्व्यूढम् एवेति ध्वनितम्11 । तद् दर्शनानन्तरं वा ये क्षणास् तेषां गणने सङ्ख्या । एकक्षण-मात्रं श्री-कृष्णो मया दृष्टः, कृष्ण-द्र्शनानन्तरं मे पञ्च क्षणाः पञ्च कल्पायमाना व्यतीता इत्य् एवं तद् अधिकरणे कृष्ण-रूपाश्रयालम्बने प्रेमा परिमाणं तोलनं लक्षितम् । पृथक्त्वं तस्माद्-भिन्नतया आत्मनां स्थितिभावना । आदि-शब्दात् तत्-सम्बन्धि-जन-वर्गाद् अपि विभागो विश्लेषः । आदि-शब्दात् श्व-श्र्वादि-गृहाद् अपि, कन्यानान्तु पितृ-गृहात् । परत्वं बहिरङ्ग-वुद्धिः शत्रुत्वं वा । अपरत्वं स्वीयत्वम्, गुरुत्वं भार-वुद्धिः, द्रवत्वम् इति धर्म-धर्मीणोर् अभेदोपचारात् । तद् आधिक्य-विवक्षया चेतस एव द्रवत्वम् इत्य् अर्थः । स्नेहत्वं स्नेह-वाचकत्वम् । किंवा, श्री-मद् उज्ज्वल-नील-मण्युक्तानुसारेण [स्थायिभाव प्र ५९] प्रेम्ण एव कञ्चिद् उत्कर्षं प्राप्तस्यैव स्नेहत्वम् इति । आसत्तिः सामीप्यम् ॥
जीवितं सखि पणीकृतं मया, किं गुरोश्च सुहृदश्च मे भयम् । लभ्यते स यदि कस्य वा भयं, लभ्यते न यदि कस्य वा भयम् ॥
यदि न लभ्यत एव, तर्हि तद् अप्राप्ति-वेदनातुराया मरिष्यन्त्या मम गुरुभयं किं नामेत्य् अर्थः ॥
किञ्च—
मां धवो यदि निहन्ति हन्यतां, बान्धवो यदि जहाति हीयताम् । साधवो यदि हसन्ति हस्यतां, माधवः स्वयमुरीकृतो मया ॥
हन्यतां हीयतां हस्यताम् इति त्रयं भाव-साधनम् ॥
किन्तु—
व्रीडां विलोडयति लुञ्चति धैर्यमार्य-भीति भिनत्ति परिलुम्पति चित्तवृत्तिम् । नामैव यस्य कलितं श्रवणोपकण्ठे, दृष्टः स किं न कुरुतां सखि मद्विधानाम्” ॥३३॥
लुञ्चति अपनयति ॥३३॥
एवं सकलाः स कलानिर्धीर्दिनमुखे मुखेन विधुरीकृतपीयूषमयूखेन मुरलीं वादयमानो दयमानो नोदितनयनकमलाञ्चलचञ्चलचटुलतया तत इतो निरीक्षणेन क्षणेन वर्त्मनि उभयतोऽभयतोषकरीषु वीथिषु निजनिजपुरगोपुरगोचरान् गोकुलकुलवृद्धानानन्दवृन्दवृतमनसः कुर्वन्ननुगवीनो नवीनो नट इव भवनतो वनं वनतो भवनं यदा याति, यदायाति च, तदैव काश्चित् केशप्रसाधनसाधनतोऽकृतकेशबन्धाः, काश्चिदाप्लवतो बतोदकमपि नापसारयन्त्यः, काश्चिदालिजनेनाञ्जनेनाञ्जयतेक्षणे “मदिरेक्षणे! क्षणं विरम” इति निषिध्यमाना अप्यञ्जितार्धैकनयनाः, काश्चित् सखीजनेनानुरक्तेनालक्तेनालमारज्यमानैकचरणाश्चरणाब्जचिह्न नैकपार्श्व एव सोपानपदवीमरुणयन्त्यः, काश्चिदेकतरचरणकृतनूपुरतयारतया विशृङ्खलशिञ्जिते भीस्थगितत्व-सत्वरचलन-च्छिन्नार्धशृङ्खलातिविशृङ्खलारावाः, काश्चिदर्धग्रथित-मेखलाञ्चलचलनकृतचरणाग्रमार्जना मृणालनालसन्दानिता नितान्तविशृङ्खलगामिन्यो राजहंस्य इव महागुरु-गुरुभयमधो निधाय धावमाना गोकुलकुलबाला बालातपविकाशिन्यः कमलिन्य इव वडभीतलमारोहन्ति ॥३४॥
एवं स कला-निधिः श्री-कृष्णो दिन-मुखे दिनादौ तदैव समय-द्वये गोकुल-कुला-बाला बलभीतलमारोहन्तीत्य् अन्वयः । विधुरी-कृतस् तिरस्कृतः पीयूष-मयुखश् चन्द्रो येन तेन मुखेन मुरलीं वादयमानः । पुनः कथम्-भूतः ? सकला उक्त-लक्षणाः स्वानुरागिणी12र्दयमानः कृपयन् । केन प्रकारेण ? नोदिते प्रेरिते ताः प्रति प्रस्थापिते ये नयन-कमलयोर् अञ्चले तयोश् चञ्चल-चटुलतया, कर्मधारयोत्तर-भाव-प्रत्ययान्तत्वाद् एकत्वम्, चाञ्चल्य-सौन्दर्याभ्याम् इत्य् अर्थः, चटुलः सुन्दरे चले इति धरणिः । क्षणेन उत्सवेन वीथिषु महावर्त्म-प्रान्तगतासु प्रतिपुर-प्रवेशार्थ-पदवीषु निज-निज-पुरस्य स्व-स्वावासस्य गोपुर-गोचरान् सिंह-द्वारे दृष्टि-विषयी-भूतान् । केषानां प्रसाधनस्य भूषणस्य यत् साधनं बाल-पाश्यापट्टचमरी-माल्यादि तस्मात्, तत् परित्यज्य, ल्यव् लोपे पञ्चमी आप्लवतः स्नानात्, आप्लवम् अपरिसमाप्येत्य् अर्थः । आलिजनेन सखीजनेन कर्त्रा, अञ्जनेन कज्जलेन ईक्षणे नेत्रे अञ्जयता, हे मदिरेक्षणे ! कृष्ण-नूपुर-ध्वनि-मात्रेणैव अधैर्याद् अतिचपल-नेत्रे इति भावः । अत्रैक-वचनम् एकैकां प्रति एकैकस्याः सख्या उक्तेः । अलक्तेन यावकेन, अलम् अत्य् अर्थम्, आरज्यमान एक एव चरणो यासाम् । एक-चरण एव कृतो नूपुरो यासां तत् तया । कीदृश्या ? विशृङ्खल-शिञ्जिते द्वितीय-नूपुराभावाद् अग्रथित-शब्दे आरतया, पुनर् अपि भिया गुरु-जन-भयेन स्थगितत्वं सत्वर-चलनं च ताभ्यां छिन्ना या अर्ध-शृङ्खलापि तया हेतुना पूर्वतोऽपि अति-विशृङ्खला आरावा यासु ताः, अर्ध-नूपुर-शब्दस्याभावात्13 तद् ध्वनेः पूर्वतोऽप्यग्रथितत्वम् इत्य् अर्थः । अर्ध-ग्रथिता या मेखला काञ्ची तस्या अञ्चलेन चलने गमन-कर्मणि कृतं चरणाग्रमार्जनं यासां ताः । सन्दानिता वद्धा । बालातपः प्राभातिक-सूर्य-किरणः ॥३४॥
एवं च सति—
**अह्नो मध्ये हृदि निवसतो माधवस्यावलोके ** **निद्राणायाः कुवलयततेः श्रीहराणीक्षणानि । ** प्रातः सायं कलितवलभीजालरन्ध्राणि तासां। मुष्णन्त्याभामहह वसतां पञ्जरे खञ्जनानाम् ॥३५॥
अह्नो मध्य इति—तदा विरह-वैवश्येन तद्-ध्यान-निष्ठतया ईक्षणानां मुद्रितत्वम्, जाल-रन्ध्राणि पञ्जर-स्थानीयानि ॥३५॥
एवमनूढानामपि नाम पिहितमनोरथानां धूलिखेलावधि भगवद्भवनकृतगतागतानां गोपजातिस्वभावत ऋजुमार्गस्थितत्वेन सर्वजनगोचराणां विशेषतो मातापितृभ्यामद्यतनीयमिति प्रत्येकमधिगततयानवलोकितदूषणानां स्वस्ववासनासनाथेन भाविपतिभावेन दृढतरेण निब्भृतनिखातमहानिधिनेवान्तस्तृप्ततया बहिस्तदभिलाषेण दुःस्थितवद्दृश्यमानानां जनानामिव हृदयनितिह-भावसरसतया बहिर्व्यञ्जितताटस्थ्यानां कुमारीणामयमेव नः पतिर्भावीति मनोरथबहनेन समयं गमयन्तीनां दिनानि कतिचिद्यातानि ॥३६॥
अनूढानाम् कन्यानाम्, नाम प्राकाश्ये, स्व-स्व-वासनया औत्पत्तिक्यैव सनाथः सफलो भाविपति-भावः, अस्माकं कृष्ण एव भावी पतिर् इति तस्य भावेन भाविपतित्वेन तस्मिन् श्री-कृष्ण एव हृदये निहितो यो भावस् तद् उचितः प्रेमा तेन सरसतयापि बहिर् व्यञ्जितं ताटस्थाम्, गोपनार्थं तत्रौदासीन्यं याभिस् तासाम् । तत्र दृष्टान्तः—निभृतम् अन्यजनालक्षितं यथा स्यात् तथा, निखातेन खनित्वा पृथिवी-मध्ये स्थापितेन । उक्त-पोषन्यायेनाह—अयम् एव न इति ॥३६॥
अर्थैकदा मणिपञ्जरतः केलिशुकं निष्कास्य करकमलतले विनिधाय परिपक्वदाडिमीबीजमेकैकं चञ्चूपुटनिकटे समर्पयन्ती कृष्णानुरागभरनिर्भर-भज्यमानहृदयतया “कृष्णं वद” इति मुहुरभिलापयन्ती कमपि परितोषमाससाद वृषभानुपुत्री । तदन्तरान्तरारूढमहानुरागनिर्विण्णतया किञ्चन पद्यं हृद्यं श्रावयित्वैव पठति स्मः यथा—
**दुरापजनवर्तिनी रतिरपत्रपा भूयसी, गुरूक्तिविषवर्षणैर्मतिरतीव दौःस्थ्यं गता । ** वपुः परवशं जनुः परमिदं कुलीनान्वये, न जीवति तथापि किं परमदुर्मरोऽयं जनः ॥३७॥
कम् अपि परितोषम् इति कृष्ण-नाम्नः स्व-वाच्य-साधर्म्यवत्त्व-स्वरूपत्वात् । तद् अन्तरा तन्मध्य एव, अयं मल् लक्षणो जनः ॥३७॥
स च शुकः परमविदग्धः प्रागेवाधीतसकलविद्यस्तदपि पद्यं श्रावं श्रावमेव कण्ठे चकार । तस्मिन्नेव समये स्वभावपक्षिमावेन स्वातन्त्र्यमासाद्य परिपुष्टोऽपि “कृष्ण कृष्ण” इति तदुक्तं पठन्नपि तत्करकमलतः समुड्डीय गगनमुत्पपात । अनन्तरमुड्डयनाप्रवीणतया पुरभवनपटलात् पुरभवनपटलान्तरं निपतन क्रमेण गोकुलराजकुमारस्य भवनालिन्दे निपत्य कलकोमलस्वरेण किमपि रञ्जयन् “दुरापजनवर्तिनी रतिः” इत्यादि तदेव पद्यमगासीत् । तदाकर्ण्य कर्णरम्यम् “अहो! Kइमिदम्” इति सविस्मयकौतुकम् “अये! कोऽसि कस्यासि” इति व्रजराजकुमारस्तमादातुकामः स्वयमेव तदभ्यासमभ्यागच्छन्तं “पुनः पठ्यताम्” इति सप्रणयमुवाच । स च तत् पुनः पपाठ ॥३८॥
तं शुकम्, कीदृशम् ? स्वयम् एव तद् अभ्यासं कृष्ण-समीपमाभिमुख्येनागच्छन्तं वस्तु-शक्त्यैवाकर्षणाद् इति भावः ॥३८॥
कृष्ण आह—“महामेध! मे धन्यीकृतं त्वया श्रवणयुगलम्, परमविद्वत्तर! वचसा च साम्प्रतम् ततस्त्वमतीवधन्योऽसि” । स आह—“व्रजराजनन्दन! अतीव कृतघ्नोऽयं जनः कथं धन्योऽसीति वृथा स्तूयते । यदयम्—
**गाढानुरागभरनिर्भरभङ्गुरायाः, कृष्णेति नाम मधुरं मृदु पाठयन्त्याः । ** धिङ्मामधन्यमतिचञ्चलजातिदोषाद, देव्याः कराम्बुरुहकोरकतश्च्युतोऽस्मि”॥३९॥
मेधा धारणावती वुद्धिः । वचसा चेति चकारात्तव स्वाभाविक-कूजितेनापि । व्रजराज-नन्दनेति पूर्वं कदाचिद्-वलभीतले वनाय गच्छन्तं कृष्णम् आलोक्य तेन शुकेन कोऽयम् इति पृष्टया विशाखया व्रजराज-नन्दनोऽयम् इति परिचायित्वात् तस्येति ज्ञेयम् ॥३९॥
श्रीकृष्णः—“अहो! महानुरागवत्याः कस्याश्चित् करतललालितोऽयं भविष्यति” इति मनसि विभाव्य, “अये! क्षणमिहैव स्थीयतां यावदहं तवाभीष्टमास्पदं प्रापयामि” इति करकमलं प्रसारयामास । स च निःसाध्वसमेव तदिच्छाप्रतिपालन-लालसतया तत्करकमलमारुरोह । तदेवमवसरे कश्चिदुर्वीगीर्वाणपुत्रः कुसुमासवो नाम वटुः श्रीकृष्णस्य हासप्रियसखः समागत्य “वयस्य! महाविदग्धोऽयं शुकः केलिकौतुकाय सम्पत्स्यते, यत्नादयं रक्षणीयः” इति दाडिमीबीजनिकरेण तमनुतर्पयति ॥४०॥
उर्वीगीर्वाणो विप्रः । हास-प्रिय-सखो विदूषकाख्यः ॥४०॥
तत्रैव समये कृष्णानुरागभरपराभव-भज्यमान-मृदुलाङ्गी सा किल वृषभानुदुहिता करतलादुड्डीय गतं तं शुकं गवेषयितुकामा कामप्यनुचरीमाह—“मधुरिके! धात्रेयीमिमामादाय गवेषय कुतो गतवानयं शुकशावकः” इति प्रहितानुचरी धात्रेय्या सह तत इतोऽन्वेषयन्ती दैवान्निजपुरगोपुरपरिसरे वसन्तं वसन्तं मधुनेव कुसुमासवेन सह तमेव लालयन्तं लयं तं गतं तस्मिन्नेवानन्दे तत्परिपठित-पद्यद्वयार्थानुभवभवदतिहृदयगाढवेदनावेदनाय जनमन्यमपश्यन्तं स्वहृदयेनैव सह विचारयन्तं चारयन्तं च ध्यानलब्धायां तस्यामेव मनोमनोरमं कृष्णमालोकयामास ॥४१॥
धात्रेयीं धात्र्याः पुत्रीम् । वसन्तमृतुराजम् इव तं कृष्णम् आलोकयामास । मधुनेव चैत्रेणेव । तम् एव शुकं लालयन्तम् । कृष्ण-विशेषणं लय-विशेषणं वा । तेन शुकेन परिपठितं यत् पद्य-द्वयं प्रथमं वृषभानु-सुतोक्तं दुरापेति, द्वितीयं शुकोक्तं गाढानुरागेति । प्रथमे स्वानुरागो व्यङ्ग्यः, द्वितीये वाच्यः, तस्य पद्य-द्वयस्यार्थानुभवेन हेतुना भवन्ती अतिशया या हृदय-गाढ-वेदना तस्या वेदनाय ज्ञापनाय ॥४१॥
आलोक्योपसृत्य च “जयति जयति श्रीव्रजराजकुमारः, पीतांशुक! शुक एष मद्देव्याः । तदयं सदयं सरसभावेन दीयतामादीयतामात्मनो यशःपरिमलो विमलो विविध एव ते गुणगणः, किमपरं ब्रवीमि” ॥४२॥
हे पीतांशुक ! पीताम्बर ! आदीयतां गृह्यताम् ॥४२॥
कुसुमासव आह—“तव देव्या अयमिति किमत्र निगमनम्? निगमनं नापि वचस्ते, यदि भवति, तदाहूयताम्, आहूतश्चेत्तव करमारोहति, तदा सम्भाव्यते तावकः” इति ॥४३॥
निगमनं ज्ञापकम् ॥४३॥
साह—“वटो! व्रजराजकुमार-करकमल-स्पर्शाय को न स्पृहयति, यदस्यास्वादमनुभवन्ती अचेतनापि वंशी कदापि न परिहरति, किमुतायं चेतनः पक्षी । तत् कुमार! सा नो देवी शुकादिगीतगुणचरितं प्रति परमलालसा । तद्विना क्षणमपि न निर्वृणोति । तदयं दीयताम्” इति ॥४४॥
आस्वादम् अनुभवन्ती अचेतनापि वंशीत्य् अनेन स्वदेव्यास् तत्रानुरागोऽपि भङ्ग्या अभिव्यञ्जितः । तत् तस्मात् कुमार ! हे युवराज कृष्ण ! युवराजस्तु कुमारः इत्य् अमरः । शुकादीनां गीतं च प्रति परमा लालसा यस्याः सा । आदि-शब्दात् शारिका हंसाश् च, पक्षे, शुखादिभिः, श्लेषेण व्यास-पुत्रादिभिर् गीतानि गुणाश् चरितानि च यस्य तं श्री-कृष्णम् । तद्-विना तदीयगुण-चरितं विना । यद् वा, शुकादिभिर् गीतं यद्-गुण-चरितं तद्-विना तस्य कृष्ण-सम्बन्धित्वं प्रत्यासत्ति-भङ्गी-लव्धम् । अत्रादि-शब्दात् सखीभिः सुहृद्भिश् च ॥४४॥
कुसुमासव आह—“भवति हि, एवंविधगुणं नवकीरं धनं न काः कामयन्ते?” साह—“तस्या एवायम्, कथमत्र कामना?” स आह—“का ते देवी?” साह—“यथायं ते वयस्यो व्रजराजस्य कस्यापि नन्दनः, सा च तथा नन्दिनी कतमस्य, तमस्य भवतः साक्षात् किं प्रख्यापयामि” ॥४५॥
हि निश्चितं भवति, भवितुं युज्यत एवैतद् इत्य् अर्थः । नवकीरं नवीनं शुकं धनं धन-रूपं का न कामयन्ते, अपि तु सर्वा एवेति, प्राप्तिस्तु दुर्घटेति भावः । पक्षे, वकीरन्धनं पूतनाघातिनं कृष्णं का न कामयन्ते, किन्तु सर्वाः कामयन्त एवेत्य् अर्थः । तत्र14 एवंविध-गुणम् इति स्ववस्यपक्षपातिताम् आलम्ब्य तां प्रति अनिर्वचनीयाद्भूत-गुणे मद्वयस्ये भवद्-देव्या अनुराग उचित एवेति तस्या अभिनन्दनम् । पुनश् च वकीरन्धनम् इति तस्याः पक्षपातिताम् आलम्ब्य तूष्णीं स्थितं सवस्यं प्रति एतादृशानुरागवत्यम् अपि तस्यां स्वरागमनभिव्यञ्जयतस् तव स्त्रीवधेऽपि भयं नास्ति, यतस्त्वया प्रथमम् एव सा पूतना घातितैवेत्य् उपालम्भनं द्योतितम् । अयं शुकः, पक्षे, कृष्णः । तं तस्याः पितरं व्रजराज-तुल्यम् इत्य् अर्थः । अस्य धृष्ट-रूपस्य भवत इत्य् अर्थः । तेन सदृशान्वयजातत्वेनापि तस्याः श्री-कृष्णेन सह प्रतियोगिता समुचितैवेति च सूचितम् ॥४५॥
स आह—“भवतु, कथमयमस्माभिर्दातव्यः? न चोरीकृत्य चोरीकृत्यमनेनानायि । नानायितकलालोभवत्यो भवत्यो मृषा दोषमासञ्जयितुं भ्रमन्ति । दैवादयं शरणागतः शरणागतवत्सलेनामुनारक्षि, रक्षित्वा पुनः कथं दास्यते” इत्येवमवसरे व्रजेश्वरी तत्रागत्य “वत्स! कथं विलम्बसे?—
**अन्नं शीतलतामुपैति नियतश्चाहारकालो ययौ ** मात्रा भोजितपायितास्तत इतः प्राप्ताः सखायस्तव । उत्कर्णं विवृतेक्षणं विवलितग्रीवं स-हम्बारवं धेनूनां निचयश्च तात भवतः पन्थानमुद्वीक्षते” ॥४६॥
अचोरश् चोरः सम्पद्यते तस्य कृत्यम् इति च्विः, तत् उरीकृत्य अङ्गीकृत्य, अनेन मद्वयस्येन, अयं शुको न आनायि, नानीतः । नानायितासु नानावदावरन्तीषु कलासु नर्म-शिल्पेषु लोभवत्यः । दोषमासञ्जयितुम् इति शुकानयन-व्याजेन मद् वयस्येन सह संवदितुं कञ्चित् क्षणं विलम्ब्य भङ्ग्या दूत्यम् एवाङ्गीकृत्य कयाचिद् अपि सह प्रवादान्तरम् अप्युत्थापयितुं भवत्यः शुक्नुवन्तीति भावः । इयम् आश्वास-भङ्ग्येव, न तु वस्तुत आक्रोशः । भोजितपायिता इति प्रथमं भोजिताः, ततः पायिताः, [पा २-१-४९] पूर्वकालैक इत्यादिना समासः ॥४६॥
**
“तदेहि, भोजनानन्तरं भो जनानन्तरङ्गानादाय गोष्ठमासीद” इति यदोवाच, तदैवोपसृत्य कुसुमासव आह—“मातर्मातः परं कुतुकमस्ति, यदयं शुकः शुक इव परमबुधः, बुध इव कलानिधिभूः, निधिभूरिव सर्वजनागोचरः, चर इव सर्वहृदयाग्रहः दयाग्रह इव चेतोद्रवास्पदम्, पदमिव विभक्तियुक्, भक्तियुगिव प्रियन्वदः, वद इव मेधावी, धावीव समुत्कण्ठः, कण्ठ इव सर्वस्वराश्रयः, स्वराश्रय इव सुमनाः, सुमना इव शान्तिकमनः, मन इव दुर्धरः, धर इव स्थिरः, स्थिरचरचमत्कारकारः, सहसा सह साधूत्कण्ठया समुड्डीय वयस्यकरे पतितः । तदस्य विविधकलापेनालापेनातिचमत्कृतमना मनागत्र वयस्यो वयस्योतेन प्रणयेन विललम्बेलं वेदनयानया, किञ्च, शुकोऽयं वयस्येन मादृशादप्यधिकं प्रणयपात्रीक्रियते । तदन्तरान्तरारूढमदा मदासञ्जितदोषा गोपकुमारीयं मद्देव्याः शुकोऽयमिति वदन्ती नेतुमभिलषति । तेनानयानयाद्दत्तमुत्तरं वयस्यं व्यथयति” इति । व्रजेश्वरी तदुक्तमाकर्ण्य पार्श्वतो विलोक्य “कथमिहैव मधुरिका” इति सानुग्रहं करेणामृशति ॥४७॥**
भोः कृष्ण ! जनान् सखीनन्तरङ्गानादाय गोष्ठं गवां स्थानम् आसीद् प्राप्नुहि । शृङ्खलामय-रसनारूपकेण शुकं वर्णयति—शुक इव वैयासकिर् इव, वुध इव चतुर्थ-ग्रह इव, कला-निधिश् चन्द्र-पुत्रः, पक्षे—कला वैदग्धी सैव निधिस्तं प्राप्तः, भू प्राप्तौ क्विवन्तः । निधि-भूर् निधि-क्षेत्रम्, सर्वेषां हृदयं मन आ सम्यक् गृह्नातीति सः, पक्षे—सर्वेषाम् एव हृदयस्य मनस आग्रहो यत्र सः । दया-रूपो ग्रहो दया-ग्रहः । विभक्तयः स्वादयो गुण-वैलक्षण्य-रूपा विभागाश् च । भक्ति-युक् भगवद्-भक्तः, वदः सिद्धान्तवक्ता, धावी धावनपरः, समुत्कण्थः सम्यग् उद्गत उच्चीकृतः कण्ठो यस्य सः, पक्षे—समीचीना उत्कण्ठा अध्ययनादि-विषया अस्मात्-सन्निधिस्थिति-विषया वा यस्य सः । स्वराश्रय इव स्वर्गवासीव सुमनाः कोविदः, सुमनाः पुष्पम्;अलत्योस्त्रिदशे कोविदेऽपि च इति विश्वः । सुमना इव साधुर् इव शान्त्या शान्ति-गुणेन कमनः कमनीयः । दुर्धरो धर्तुम् अशक्यः, उपमेयस्यैव प्राधान्यात् पुंस्त्वम्, धरः पर्वतः । साधु यथा स्यात् तथा उत्कण्ठया सह वर्तमानः, यद् वा, साध्वी या उत्कण्ठा तया विविधाः कलाः पातीति तथा-भूतेनालापेन, वयसि पक्षिणि, ओतेन ग्रथितेन प्रणयेन हेतुना विललम्बे, प्रेम्णा तल् लालनाद्यर्थं विलम्बितवान् इत्य् अर्थः । अतएव अनया अन्नं शीतलताम् इत्यादिना व्यञ्जितया वेदनया अलम् । तद् अन्तरा तन्मध्य एव, अनयात् अनीतिम् आलम्ब्य, अनया गोप-कुमार्या उत्तरम् इति कर्तृपदम् ॥४७॥
सा च ससाध्वसभक्तिश्रद्धं प्रणम्य “व्रजाधीश्वरि! न मया किमप्युक्तम्, मद्देव्या राधाया अयं शुकः क्रीडोपकरणम्, अनेन विना सा खिद्यतीति केवलमहमवोचम्” ॥४८॥
सा च मधुरिका स-साध्वसेति कदाचिद्-व्रजेश्वरी मयि15 खिद्येद् इति भावनया साध्वसम्, भक्ति-श्रद्धे तु साहजिक्यावेव । राधाया इत्य् अत्र नाम-गोपनस्यायुक्तत्वात् ॥४८॥
सा चाह निभृतम्—“मधुरिके! त्वमधुना भवनमनुसर, वत्से वनं गतवति मयैवायं शुको भवदेव्यै प्रेषयितव्यः” । मधुरिका च “यथाज्ञापयति तत्रभवती” इति प्रणम्य निश्चक्राम । ततः सा व्रजेश्वरी तनयस्य करकमलमाधृत्य “एहि वत्स! Eहि” इत्युत्थाप्य “कुसुमासव! शुकमेनमात्मनैव सावधानं रक्ष, भक्षय चैनं कनकपुटिकया घृतौदनम्” इति यदा निगदति स्म, तदा श्रीकृष्णः समुवाच—“मयैव भोजयितव्योऽयम्” इति करकमलन्धृतशुकः पीतांशुकः पीतां श्रवणपुटकेन तां गाथामन्तरमनुपठन् तदुत्तररूपं किञ्चन पद्यं शुकं श्रावयित्वा जनान्तिकं कुसुमासवमामन्त्र्य पठति च—“सखे! कुसुमासव!—
न वनगमने नाप्यासङ्गे वयस्यगणैः समं, न च मुरलिकानादे मोदो न धेनुगणावने । इममशृणवं यावत् कीरोत्तमानननिःसृतं, कमपि दयितालापं गाढानुरागभरालसम्” ॥४९॥
इति मातुरनुपदं पदकमलमाधाय क्षालितपदो भोजनासनमध्यास्यः भुञ्जानः स्व-सन्मुखे कनकपुटिकायामात्मनैव श्रीकरकमलेन सुरभितरघृताक्तमोदनं शुकमाशयामास ॥५०॥
जनान्तिकम् इति तृतीयजनाज्ञाप्यम् । श्रावयित्वेति तत्-कण्ठ-स्थीकृतेन पुनश् च स्वभावाद् एव राधाग्रे पठिष्यमानेन तेन पद्येनैव स्वानुराग-व्यञ्जनया तामाष्वासयितुम् इति भावः । गाढनानुरागभरेणालसम्, आलसति प्रकाशत इति तथा तम्, अस्याति-गुरुत्वाद्-वोढुम् असमर्थम् इवेति भावः ॥५०॥
अनन्तरमाचान्तः पूर्वपूर्वदिनवदनुगवीनो जिगमिषुः “जननि! जननिरपेक्षतया रक्षितव्योऽयं शुकः” इति सप्रणयं स प्रणिजगाद । ततश्च गतवति सति धेनुपालनाय विपिनमध्यं लीलाकिशोरे श्रीकृष्णे धात्रीदुहित्रा राधाशुकं राधागृहे प्रेषयामास श्रीकृष्णजननी । तामथ करकमलकलितशुकां श्रीकृष्णजननीधात्रेयीमालोक्य श्यामलया सखीभ्यां च सह सहसोत्थाय “एह्य हि” इति सबहुमानमाहूय निजासनार्धमध्यारोप्य “भवति! कुशलं तत्रभवत्याः श्रीव्रजेश्वर्याः” इति सप्रणयभक्तिश्रद्धं निगदति स्म वृषभानुकिशोरी । साह—“कल्याणिनः खलु ते चरणाः, किन्तु तवामुना शुकेनाशुकेनानन्दितः कुमारः कुमारयति स्म, चिरं रुचिरं रुतं चाश्रुत्य श्रुत्यपरिमेयपरितोषमासादितवान्, दितवान् चक्षुष्मतां तापत्रयं च । अथ तस्मिन् धेनुचारणाय वनं गतवति तव तिलमात्रदुःखासहनयानया समर्यादया दयावत्या त्वयि त्वयि कुशले! कुशलेशमात्रमपि विलम्बमकुर्वाणया प्रेषितोऽयं खगोत्तमो व्रजेश्वर्या” ॥५१॥
शुकेन कीदृशेन ? आशुकेन आशु शीघ्रं कं सुखं यस्मात् तेन । कुमारः कृष्णः कुमारयति स्म, क्रीडितवान् । चिरं रुचिरं रुतं च आ सम्यक् श्रुत्वा श्रुत्योः कर्णयोर् अपरिमेयतोषं प्राप्तः, दितवान् खण्डितवांश् च । तदा तथा-भूतोत्फुल्ल-मुखोऽभूद् यथा तदानीं स पश्यतां त्रिविध-तापं खण्डितवान् इत्य् अर्थः । अनया श्री-व्रजेश्वर्या त्वति तु दयावत्या, अयि सम्बोधने, हे कुशले, कुशलेशो दर्भ-सम्बन्धी अति-सूक्ष्मांश-विशेषस् तद् अतिक्रमे सूर्यस्य यावान् कालो भवति तन्मात्रम् अपि ॥५१॥
श्यामाह—“सुवदने! वद नेदम् । इह गोकुले गोपकुले गोपनीयमगोपनीयं वा यत् किञ्चन रत्नभूतं भूतं भूतंसरूपं तत्सकलमेव व्रजराजनन्दनस्य, नन्दनस्य विहगोत्तमेभ्योऽप्ययं सौभगवान्, भगवान् यममुं करे चकार । तदयं तस्यैव खेलोपकरणं करणीयः । किन्तु सम्प्रति प्रतिपेषणमसाम्प्रतम् । साम्प्रतं गच्छतु भवती, पश्चाद्गतागतललितया ललितयायं धेन्ववनतो वन्नतो भवनमागत एव तस्मिन् व्रजेश्वरीसमक्षं समर्पणीयः” ॥५२॥
श्यामाहेति तया स्व-हृदयस्य राधिका-हृदयेन सहैक्य निश्चियात् । रत्न-भूतं रत्न-रूपं भुवस् तंसरूपं भूषण-रूपं भूतम् अभूत् । नन्दनस्य स्वर्गोद्यानस्य । भगवान् इति सखीं प्रति प्रणय-परिहास-व्यञ्जना, यद् वा, श्रीमान्, भगं श्री-काम-माहात्म्य-वीर्य-रत्नार्ककीर्तिषु इत्य् अमरः । असाम्प्रतम् अनुचितम् ॥५२॥
मुख्याह—“सुमुख्याह सुललितमेव श्यामा, तद्गम्यताम्, गम्यतां प्रापय मे नतिविततीनामीश्वरीचरणान्” ॥५३॥
सुमुखी श्यामा सुललितम् एवाह । तत् तस्मात् त्वया गम्यताम्, ईश्वरी-चरणान् मे मम नतिविततीनां प्रणति-समूहाणां गम्यतां प्रापय । नतिविततीनाम् इति कृत्यानां कर्तरि वा इति षष्ठी । ईश्वरी-चराना मे नतिभिर् गम्या इति ज्ञापयेत्य् अर्थः । अत्र यदि श्री-मत्या व्रजेश्वर्या स्व-पुत्र-सौख्यम् अनपेक्ष्याप्य् अस्मासु स्निग्धतयास्मात्-सुखम् अनुरुन्धत्या प्रेषितोऽयमास्माकीनः शुकः, तर्ह्यस्माभिर् अपि तत्-पुत्र-सौख्यानुमोदनेनैव प्रसादनीया सा परम-वत्सला गरीयसीति स्वाभिप्रायं ज्ञपिता तया धात्रेयी । वस्तुतो मूलाभिप्रायस् त्वस्याः कृष्ण-सङ्गतेन स्वीयशुकेनैव स्व-सङ्गम् असुखम् अभिमन्यमानाया मम परम-विदग्धेन शुकेनैव तत्-प्रीति-पात्री-भवता सर्वाभीष्टं साधयिष्यते इत्य् एषोऽपि न मुख्यः, किन्तु प्रेम्णो रीतिर् एवेयं यत् प्रियतमस्य प्रीत्य् अर्थम् एवात्म-देह-प्रियवस्त्वादि भवतीति ॥५३॥
गतायामथ तस्यां सा वार्षभानवी नवीनकृष्णानुराग-परभागभागभिमुखमागतं तं विहगोत्तमम् “अयि धन्य! धन्यसि सौभाग्यधनेन त्वं यदमुष्य दुर्लभजनस्य सुखाकरकरस्पर्शस्त्वया भो अलम्भिं । अलं भियाभियाहि मत्पाणौ । भवन्तं स्पृशन्ती शं तीव्रमनुभवानि” इति नीतिमती तं पाणौ कृत्वा “कथय किमाकलितम्” इति यदा बभाषे, बभाषे च तदा सोऽपि—
“मया निगदितं वचः श्रवणवर्त्म यावद्ययौ, स तावदतिदुःस्थितो मनसि कैश्चनालक्षितः । चरन्नपि निजैः समं हृदि निगूढगाढव्रणः, किशोरवररावणोत्तम इवानिशं शीर्यति” ॥५४॥
उक्तं च सखायं लक्ष्यीकृत्य जनान्तिकम्—“सखे! कुसुमासव!—
**न वनगमने नाप्यासङ्ग वयस्यगणैः समं, न च मुरलिकागाने मोदो न धेनुगणावने । ** इममशृणवं यावत् कीरोत्तमानननिःसृतं, कमपि दयितालापं गाढानुरागभरालसम्” ॥५५॥
नवीन-कृष्णानुरागस्य पर-भागं शोभाम् उत्कृष्ट-भागं वा भजत इति सा । सौभाग्य-धनेन हेतुना त्वं धनी धनवान् असि । सुखाकर इति सुख-प्रियादानुलोम्ये इति डाच् । यद् वा, सुखस्याकरो यः करस् तस्य स्पर्शः । भिया अलम् इति हन्तासमीक्ष्यकारिणा मया लालयन्त्या अपि भवत्याः पाणितो जातिस्वभावाद् उड्डीय गत्वा अपराद्धम् एव16 कथं पुनस् तत्रैव पाणावुपविशामीति भयं न कर्तव्यम् इत्य् अर्थः । अभियाहि, आभिमुख्येनैव मत्पाणावागच्छ । भवता नापराद्धम्, प्रत्युत मद् अभीष्टम् एव साधितम् इत्य् आह—भवन्तम् इति । भवन्तं स्पृशन्ती सती, तीव्रं निर्भरं शं सुखम् अनुभवाणीति त्वत्-स्पर्शेन परम्परया ममापि तत्पाणिस्पर्शाभिमानो भवत्विति भावः । श्रवणवर्त्मेत्य् अत्र तस्येत्य् अनुक्तिः प्रेमवैवश्येनैवेति न्यून-पदतादोषो नासञ्जनीयः । कैश् च कैर् अपि मनसि दुःस्थितः, न आ सम्यक् लक्षितः, ईषत् तु चतुर-जनैर् लक्षित एवेत्य् अर्थः । तस्यातिगाम्भीर्येऽपि तादृश-त्वद् विषयकभावस्य दुर्गोपत्वाद् इति, कथं पुनस् तत्रैव पाणावुपविशामीति भयं न कर्तव्यम् इति । भवन्तं स्पृशन्ती सती, तीव्रं निर्भरं शं सुखम् अनुभवानीति त्वत्स्पर्शेन परम्परया ममापि तत्-पाणि-स्पर्शाभिमानो भवत्विति भावः । श्रवणवर्त्मेत्य् अत्र तस्येत्य् अनुक्तिः प्रेम-वैवश्येनैवेति न्यून-पदता-दोषो नासञ्जनीयः । कैश् च कैर् अपि मनसि दुःस्थितः, न आ सम्यक् लक्षितः, ईषत् तु चतुर-जनैर् लक्षित एवेत्य् अर्थः । तस्यातिगाम्भीर्येऽपि तादृश-त्वद् विषयक-भावस्य दुर्गोपत्वाद् इति भावः ॥५५॥
श्यामाह—“मा हसनीयास्मि । सम्प्रति प्रतिपन्नं मे वचनं च नन्दयितुं दयितुं चार्हसि, यदयं दयितालापमिति दयितात्वेन भवतीमुरीचकार” ॥५६॥
मा हसनीयास्मि, अतःपरम् अहं त्वाया हसितुं न शाक्यास्मि, मे वचनं नन्दयितुं दयितुं च कृपयितुं च अर्हसि, न तु पूर्ववन् निन्दितुं नाप्युप17क्रम-मात्र एव छेत्तुम् इति भावः ॥५६॥
मुख्याह—“श्यामे! श्यामेरितं नाध्यबोधि, बोधिद्रुमदलोदरि! मा परिहासकर्म धारय, कर्मधारय एवायं न षष्ठीतत्पुरुषः । तत् पुरुषः स खलु दुर्लभ एव, किमसम्भावनयानया मामतिलघूकरोषि । भवतु परमाद्भुतस्य तस्य दशा तादृशीदृशीषद्भागधेये जने कथमीयतेऽनुमीयते नु वा कथं भवत्या, भवत्यात्मसमापि समापितोपरोधा परिहासे हा! सेधयति कौतुकम्” ॥५७॥
श्यामस्य18 ईरितं वाक्यं नाध्यवोधि, भवत्या न ज्ञातम् । वोधिद्रुमस्य अश्वत्थस्य दलवदुदरं यस्या हे तथा-भूते ! इति सौन्दर्येणैव मत्तस् त्वम् अधिका ऋज्वी, न तु विमर्शनैपुण्येनेति भावः । परिहास-रूपं कर्म मा धारय, मा कुर्वित्य् अर्थः । यतो दयितालापम् इत्य् अयं समासः कर्मधारय एव, न षष्ठी-तत्-पुरुषः । ततश् च दयितश् चासावालापश् चेति तम् । मेधाविनोऽधीत-शास्त्रस्य शुकस्यालापो निसर्गाद् एव सकल-लोकस्य प्रियो भवत्य् एव, किं पुनः सदा क्रीडापरस्य तस्या । अनुराग-भरालसम् इति अशृणवम् इति क्रिया-शिशेषणं स्पष्टम् एवेति तन् न व्याख्यातम् । मया निगदितं वच इत्यादि तु शुककृतं पद्यम् अप्रमाणम् एव । तत् तस्माद्धेतोः स खलु पुरुषो दुर्लभ एव इति प्राक्तन-मद्वाक्यम् एव प्रामाणम्, त्वद्-वचनं तु युक्ति-च्छिन्नम् इति भावः । ननु षष्ठी-तत्-पुरुषस् त्वया कथं खण्डित इत्य् अत आह—भवत्विति । तुष्यतु न्यायेन स्वीकारे भवतु षष्ठीतत् पुरुषस् तथापि परमाद्भूतस्य तस्य् अतादृशी भवत्या व्याख्याता दशा ईदृशि अल्पभाग्ये मल् लक्षणे जने विषये कथमीयते ज्ञायते निर्धार्यते भवत्य् एत्य् अर्थः । अनुमानाद् इति चेत्, नु प्रश्ने, कथं वानुमीयते, तत्र तादृशो हेतुर् उच्यताम्, स तु नास्त्येव, तस्माद् अपरस्याम् एव कस्याञ्चित् तथा सम्भवेद् इति भावः । आत्मसमा मत्समापि भवती । समापितः समाप्तीकृत उपरोधो यया सा । हा खेदे । परिहासे विषये कौतुकं सेधयति, सिद्धं करोति । यिधु संराद्धौ ण्यन्तः । न तु मद् व्यथोपरोधेन व्यथिता भवती, प्रत्युत कौतुकवती परिहसत्येव माम्, तस्मान् मयानुरोधस् तव नास्तीत्य् अर्थः ॥५७॥
साह—“अयि! असमीक्ष्यभाषिणि! मधुरिका तेऽनुचरीति गोकुले को न वेत्ति, सेयं यदा मदीयदेव्याः शुकोऽयमित्याललाप, तदैवासौ भवतीमबोधिष्ट । तदलमत्रासम्भावनया” इति विश्रान्तो विवादः ॥५८॥
हे असमीक्ष्य-भाषिणि ! अपर्यालोच्यैव सर्वं व्रूषे इत्य् अर्थः । आत्मन्य-योग्यताम् अध्यारोप्य दैन्यदेवेति भावः ॥५८॥
अर्थैकदा भगवज्जन्मतिथिरतिथिरभूद्यदि, तदा महामहारम्भेऽरं भेरीभाङ्कारलम्पटपटहपटुमर्दलदलन्मुरज-दुन्दुभि-दन्मदन्मङ्कार-चमत्कारकारि-नानाध्वनिध्वनिते, अध्वनि तेषां घोषजुषां घोषजुषां समेधमाने मेधमाने परमानन्दे, द्विजवृषभसभोदीरित-मन्त्रपूतसलिल-परिपूरितस्फटिक-घट-सहस्रधा-रा-घट-सहस्र-धारा-घटमानाभिषेक-मङ्गलामङ्गलावण्य-लक्ष्मीं
बधाने, धृतनव्यदिव्य-पीतकोशेयप्रत्युद्गमनीये प्रत्युद्गमनीयेन मणिमण्डनमहसा महसारूप्यमहौज्ज्वल्ये, मङ्गलमणिबन्धमणि-बन्धवलयोपरिपरिचित-हरिद्राक्त-सूत्रेण नद्धदूर्वाङ्कुरे गोरोचनारोचनायतविशेषक-विशेष-कमनीये, जनन्या जनन्यायविदां प्रवरयोत्सवरयोत्सवदामोदया दयाशीलया शिरसि निहिताशीः कुसुमधान्ये सबहुमानमाहूताभिर्व्रजपुरपुरन्ध्रीभिर्मङ्गलगानपुरःसरं सरन्तीभिः कृतनीराजने, जनेन सकलेन कृतकौतुक-यौतुक-यौगपद्ये समनन्तरमनन्तरसोपकरणमोदकपायसापूपादिभिराहितसौहित्ये, हित्ये सकलजन्यानां जन्यानां प्रेमधामनि, पुनरपि नीराजितेऽजिते दिव्यासनमारूढे रूढेद्धमहसि, महसिद्धिनिमित्तमित्तरलतासिद्धबन्धुवर्गनिमन्त्रण-व्यवहारेण व्रजराजमहिष्या निमन्त्रितेषु व्रजपुरपुरन्ध्रीजनेषु वधूजनकुमारिकाजनेषु च, व्रजराजेन निमन्त्रितेषु द्विजवृषभेषुसन्नन्दोपनन्दप्रभृति-सकलाभीरनिकरेषु च, सन्नन्दादिवधूभिः सह सकलगुणारोहिण्या रोहिण्या पाचितैर्नार्नाविधैरुपकरणैराशयितुं समुचित-समय-समागमे सति पुनरपि प्रतिभवनं तांस्तानानाययितुं प्रेषितेषु स्त्रीपुंसपरिकरेषु, समागतानां तेषां सर्वेषां मध्ये यथाक्रमं गोपा गोपाङ्गनाश्च परमसुकुमारं कुमारं तमाशीर्भिरभ्यर्चयितुमुत्कण्ठमानाः कण्ठमानाय्य मणिहारान् प्रत्येकं पूजयामासुः ॥५९॥
अथ [पञ्चम-किरणे ६२,६३] स्वप्नाद् वा श्रवणाद्वापि चित्रादेर् वावलोकनात् । साक्षाद् आकस्मिकाद्वापि दर्शनाद्-दुर्लभे जने ॥ प्राक्तनी रतिर् उद्भूता इत्य् आद्यलङ्कार-कौस्तुभोक्त-हेतु-वैविध्येन जात-पूर्वरागाणां विविधानाम् एव तासां [उ नी शृङ्गार-भेद प्र २१] लालसोद् वेगजागर्यास् तानवं जडिमात्रे तु । वैयग्र्यं व्याधिर् उन्मादो मोहो मृत्यु दशा दश ॥ इति पूर्व-दर्शित दश-दशाप्रापित-तादृश-विपदां सन्धुक्षणार्थम् इव शुभदैव-योगाद् एकस्मिन् दिने सर्वासाम् एव युगपद् एव साक्षद् दर्शन-समीप-गमनोपायन-प्रदानादिकम् अपि घटितम् इत्य् आह—अथैकदेति । तदा महा-माहारम्भे अजिते श्री-कृष्णे दिव्यासनम् आरूढे गोप-गोपाङ्गणाश् च प्रत्येकं तं पूजयामासुर् इत्य् अन्वयः । महा-महो महोत्सवस् तस्त्यारम्भे । कीदृशे ? अरं द्रुतम् एव भेरीणां भाङ्कारैः लम्पटैः प्रुढ-निनदौद्धत्यवद्भिः पटहैः पटुहैः पटुभिर् दक्षैः स्व-शब्दन-चातुर्यवद्भिर् मर्दलैर् दलद्भिः प्रस्फुटत्स्वनितैर् मुरजैर्दुन्दुभीनां च दस्मद् अस्मकारैश् चमत्कारकारिणो ये नानाध्वनयस् तैर् एवं ध्वनिते नानादिग्-देश-गतजनान् प्रति व्यञ्जिते । ततश् चाध्वनि पथि घोषजुषां व्रजवासि-स्त्री-पुरुष-सामान्यानां घोषजुषां स्वीय-नूपुरादि-मृदङ्गादि-शब्द-युक्तानां समेधमाने सम्यग् वर्धमाने मेधमाने परस्परं सङ्गमवति परमानन्दे सति । मेधृ सङ्गमे शानजन्तः । ततश् चाजिते श्री-कृष्णे, प्रथमं कीदृशे ? द्विज-वृषभाणां द्विज-श्रेष्ठानां सभाभिरुदीर् इतेन मन्त्रेण पूतैः सलिलैः परिपूरिता ये स्फटिक-घट-सहस्रधारा घटाः स्फटिकानां घटं घटने शिल्प-विशेष-विन्यासं सहस्रधा सहस्र-प्रकारं रान्ति गृह्नान्त धारयन्तीति सोमपा-शब्ददाकाराम्भः । तथा-भूतैर् घटैर् या सह्रस्र-धारास् ताभिर्घटमानेनाभिषेकेण मङ्गलां मङ्गल-भूताम् अङ्गानां लावण्य-शोभां दधाने धारयति सति । ततश् चार्द्र-शुष्क-सूक्ष्म-शुभ्र-वस्त्रैर् गात्र-जलापसरणं ज्ञेयम्, ततो वस्त्रादिपरिधानम् । प्रत्युद्गमनीये धौतोत्तरीये, तत् स्याद् उद्गमनीयं यद्-धौतयोर् वस्त्रयोर् युगम् इत्य् अमरः । प्रत्युद्गमनीयेन प्रत्युत्कर्षज्ञेयेन मणि-मण्डनानां महसा कान्त्या महस्य उत्सवस्य सारूप्येण तुल्यत्वेन19 महत् औज्ज्वल्यं यस्य तस्मिन् । ततश् च मङ्गलान्येव मणयस् तेषां वन्धो यत्र तथा-भूतस्य मणि-वन्धस्य वलयोपरि परिचितेन हरिद्राक्त-सूत्रेण नद्धौ वद्धौ दूर्वाङ्कुरौ यत्र तस्मिन् । ततो गोरोचनया रोचनायतां कान्त्या विस्तृतं यद् विशेषकं तिलकं तेन विशेषतः कमनीये । उत्सवरयस्य उत्सववेगस्य उत्सव उत्कृष्टः सवः प्रसव उत्पत्तिस् तं ददातीति तथा-भूत आमोद आनन्दो यस्यास् तया कृतनीराजने कृत-निर्मञ्छने । ततश् च सर्वजने कृतानि कौतुकेन यौतुकानि उत्सवे देयानि वस्तूनि तैर् यौगपद्यं तुल्य-कालत्वं यत्र तस्मिन् । तदानीं पूर्वपश् चाद्भावमसहमानाः सर्व एव युगपद् एव यौतुकान्युपाजह्ररित्य् अर्थः । अनन्तरसान्युपकरणानि येषां तैर्मोदकादिभिर् आहितम् अर्पितं सौहित्यं तृप्तिर् यत्र तस्मिन् । होत्ये हितहिते, तस्मै हितम् इति यत्, यद् वा, हितार्हे, दण्डादित्वात् यः । सकलानां जन्यानां सामान्यतः स्निग्ध-वन्धूनां तथा जन्यानां विशेषतो व्रजेश्वर्याः सखीनां प्रेमास्पदे, जन्याः स्निग्धा वरस्य ये इत्य् अमरः , जन्या मातृवयस्या स्यात् इति धरणिः । पुनर् अपि ताम्बुल-प्राशनानन्तरं नीराजिते ताभिर् एव कृतारात्रिके अजिते श्री-कृष्णे इति विशेष्यपदम् । रूडं प्रादुर्भूतम्, इद्धं दीप्तं महो यस्य तस्मिन् । महस्य उत्सवस्य सिद्धि-निमित्ते मित्तरलतया स्नेहतारल्येन सिद्धो वन्धु-वर्गाणां निमन्त्रण-व्यवहारस् तेन । मिदिति ञिमिदा स्नेहने इत्यस्य भावे क्विपा रूपम् । तांस्तान् पुरन्ध्रीजनादीन् द्विज-वृषभादींश् च प्रेषितेषु स्त्री-पुंस-परिकरेष्विति व्रजेश्वर्या स्त्रीपरिकरेषु व्रजराजेन तु पुं-परिकरेष्विति यथा-क्रमं पूर्ववज्ज्ञेयम् । कण्थमानाय कुमारस्यैव कण्ठं प्रापय्य कण्ठे समर्प्येत्य् अर्थः ॥५९॥
तदनु श्वश्रून्मन्यानामनुपदीना अदीनाप्रपदीनाः प्रपन्नमालिन्य-प्रतनुतरप्रावारविवरविवेव्रीयमाणतनकिरण-कन्दलीकाः मृदूता-नव-तानवचलचीनावगुण्ठन-पटाञ्चल-चञ्चलैरन्तरुदित्वर-त्वरमाण-स्वभाव-भावपिशुनैरपि तत्कालीनावहित्थया निर्विकारकुटिलावलोचनैर्लोचनकुवलयलयैरप्यमुखरैः खरैरनुरागैस्ताः काश्चन नवानुरागिण्यो दैवोपपन्न-सम्पन्न-संस्तव-स्तवकित-सौभाग्यभाजनतया जनतया तर्क्यमाणया परममहानिधिवल्लभमानवल्लभमाननया दायदायमददत ॥६०॥
अथ [पञ्चम-किरणे ६२,६३] स्वप्नाद् वा श्रवणाद्वापि चित्रादेर् वावलोकनात् । साक्षाद् आकस्मिकाद्वापि दर्शनाद्-दुर्लभे जने ॥ प्राक्तनी रतिर् उद्भूता इत्य् आद्यलङ्कार-कौस्तुभोक्त-हेतु-वैविध्येन जात-पूर्वरागाणां विविधानाम् एव तासां [उ नी शृङ्गार-भेद प्र २१] लालसोद् वेगजागर्यास् तानवं जडिमात्रे तु । वैयग्र्यं व्याधिर् उन्मादो मोहो मृत्यु दशा दश ॥ इति पूर्व-दर्शित दश-दशाप्रापित-तादृश-विपदां सन्धुक्षणार्थम् इव शुभदैव-योगाद् एकस्मिन् दिने सर्वासाम् एव युगपद् एव साक्षद् दर्शन-समीप-गमनोपायन-प्रदानादिकम् अपि घटितम् इत्य् आह—अथैकदेति । तदा महा-माहारम्भे अजिते श्री-कृष्णे दिव्यासनम् आरूढे गोप-गोपाङ्गणाश् च प्रत्येकं तं पूजयामासुर् इत्य् अन्वयः । महा-महो महोत्सवस् तस्त्यारम्भे । कीदृशे ? अरं द्रुतम् एव भेरीणां भाङ्कारैः लम्पटैः प्रुढ-निनदौद्धत्यवद्भिः पटहैः पटुहैः पटुभिर् दक्षैः स्व-शब्दन-चातुर्यवद्भिर् मर्दलैर् दलद्भिः प्रस्फुटत्स्वनितैर् मुरजैर्दुन्दुभीनां च दस्मद् अस्मकारैश् चमत्कारकारिणो ये नानाध्वनयस् तैर् एवं ध्वनिते नानादिग्-देश-गतजनान् प्रति व्यञ्जिते । ततश् चाध्वनि पथि घोषजुषां व्रजवासि-स्त्री-पुरुष-सामान्यानां घोषजुषां स्वीय-नूपुरादि-मृदङ्गादि-शब्द-युक्तानां समेधमाने सम्यग् वर्धमाने मेधमाने परस्परं सङ्गमवति परमानन्दे सति । मेधृ सङ्गमे शानजन्तः । ततश् चाजिते श्री-कृष्णे, प्रथमं कीदृशे ? द्विज-वृषभाणां द्विज-श्रेष्ठानां सभाभिरुदीर् इतेन मन्त्रेण पूतैः सलिलैः परिपूरिता ये स्फटिक-घट-सहस्रधारा घटाः स्फटिकानां घटं घटने शिल्प-विशेष-विन्यासं सहस्रधा सहस्र-प्रकारं रान्ति गृह्नान्त धारयन्तीति सोमपा-शब्ददाकाराम्भः । तथा-भूतैर् घटैर् या सह्रस्र-धारास् ताभिर्घटमानेनाभिषेकेण मङ्गलां मङ्गल-भूताम् अङ्गानां लावण्य-शोभां दधाने धारयति सति । ततश् चार्द्र-शुष्क-सूक्ष्म-शुभ्र-वस्त्रैर् गात्र-जलापसरणं ज्ञेयम्, ततो वस्त्रादिपरिधानम् । प्रत्युद्गमनीये धौतोत्तरीये, तत् स्याद् उद्गमनीयं यद्-धौतयोर् वस्त्रयोर् युगम् इत्य् अमरः । प्रत्युद्गमनीयेन प्रत्युत्कर्षज्ञेयेन मणि-मण्डनानां महसा कान्त्या महस्य उत्सवस्य सारूप्येण तुल्यत्वेन20 महत् औज्ज्वल्यं यस्य तस्मिन् । ततश् च मङ्गलान्येव मणयस् तेषां वन्धो यत्र तथा-भूतस्य मणि-वन्धस्य वलयोपरि परिचितेन हरिद्राक्त-सूत्रेण नद्धौ वद्धौ दूर्वाङ्कुरौ यत्र तस्मिन् । ततो गोरोचनया रोचनायतां कान्त्या विस्तृतं यद् विशेषकं तिलकं तेन विशेषतः कमनीये । उत्सवरयस्य उत्सववेगस्य उत्सव उत्कृष्टः सवः प्रसव उत्पत्तिस् तं ददातीति तथा-भूत आमोद आनन्दो यस्यास् तया कृतनीराजने कृत-निर्मञ्छने । ततश् च सर्वजने कृतानि कौतुकेन यौतुकानि उत्सवे देयानि वस्तूनि तैर् यौगपद्यं तुल्य-कालत्वं यत्र तस्मिन् । तदानीं पूर्वपश् चाद्भावमसहमानाः सर्व एव युगपद् एव यौतुकान्युपाजह्ररित्य् अर्थः । अनन्तरसान्युपकरणानि येषां तैर्मोदकादिभिर् आहितम् अर्पितं सौहित्यं तृप्तिर् यत्र तस्मिन् । होत्ये हितहिते, तस्मै हितम् इति यत्, यद् वा, हितार्हे, दण्डादित्वात् यः । सकलानां जन्यानां सामान्यतः स्निग्ध-वन्धूनां तथा जन्यानां विशेषतो व्रजेश्वर्याः सखीनां प्रेमास्पदे, जन्याः स्निग्धा वरस्य ये इत्य् अमरः , जन्या मातृवयस्या स्यात् इति धरणिः । पुनर् अपि ताम्बुल-प्राशनानन्तरं नीराजिते ताभिर् एव कृतारात्रिके अजिते श्री-कृष्णे इति विशेष्यपदम् । रूडं प्रादुर्भूतम्, इद्धं दीप्तं महो यस्य तस्मिन् । महस्य उत्सवस्य सिद्धि-निमित्ते मित्तरलतया स्नेहतारल्येन सिद्धो वन्धु-वर्गाणां निमन्त्रण-व्यवहारस् तेन । मिदिति ञिमिदा स्नेहने इत्यस्य भावे क्विपा रूपम् । तांस्तान् पुरन्ध्रीजनादीन् द्विज-वृषभादींश् च प्रेषितेषु स्त्री-पुंस-परिकरेष्विति व्रजेश्वर्या स्त्रीपरिकरेषु व्रजराजेन तु पुं-परिकरेष्विति यथा-क्रमं पूर्ववज्ज्ञेयम् । कण्थमानाय कुमारस्यैव कण्ठं प्रापय्य कण्ठे समर्प्येत्य् अर्थः ॥६०॥
एवं मातृणामनुपदीनाः स्वभावपतिभाव-भावना-सुरभिमनसो मनसो महोत्सवमिव तं दिनं दिनं प्रेक्षमाणा अपि तत्र महोत्सवे सविशेष-सौन्दर्यदर्यवगाहनेन तदेव प्रथममिव दृश्यमानं दृश्यमानन्दितनिखिलजनपतिभावकर्पूरपूरभावितैर्मनःसुमनःसुसम्भारैः स्वयं वव्रिर इव कन्या धन्यादिकाः ॥६१॥
तं श्री-कृष्णं दिनं दिनं व्याप्य प्रतिदिनं प्रेक्षमाणा इत्य् अर्थः । [भा पु १०-२१-१] हेमन्ते प्रथमे मासि नन्द-व्रज-कुमारिकाः इत्य् अर्थः कन्या-गणस्य तन्मूल-नगरोत्पन्नत्वात् मूलत एव कृष्णेन सह परिचयोऽस्तीति श्री-वैष्णव-तोषण्यां व्याख्यानात् । सौन्दर्यदरी सौन्दर्य-कन्दरा तस्या अवगाहनेन लोचन-द्वारा मनसैवेति भावः । दृश्यं दृग्भ्यां हितं दृश्यमानं प्रत्यक्षीक्रियमाणम्, पतिभावेन कर्पूर-पूरेण भावितैर् वासितैर् मानांस्येव सुमनांसि पुष्पाणि, तान्येव शोभनाः सम्भारास् तैः ॥६१॥
एवं च सति समसमवधानसङ्गोपित-सकलाकारविकारविशेषतया विशेषेणालक्ष्यमाणासूक्ष्यमाणासूत्तमेन मन्दाक्षेण सकलास्वेव नवगोकुलकुलललनासु चिरोपसत्तिसत्तिमितहृदयतयायतया व्रजराजकुमारसमीपतोऽपतोदमुत्पत्य चरणकमलोपरि परिपतति पतति तस्मिन्नेव ससम्भ्रमं तदीयत्वेनाधीयमानबहुमानबहुलमुपसर्पन्त्यां वार्षभानव्यां नव्यां पङ्कजस्रजमिव सैवेयमिति विभाव्य दृष्टिमदृष्टिमधुरां मधुमथनोऽथ नोदयाञ्चके दयाञ्चक्रे च मनोवृत्त्या ॥६२॥
अथात्र सामयिकीं श्री-कृष्णाकाङ्क्षित-सुख-साधकता-वैदग्धीं शुकस्याह—एवं एवं सतीति । सकलास्वेव गोकुल-कुल-वधूषु मध्ये वार्षभानव्यां राधायां मधुमथनो नव्यां पङ्कज-स्रजम् इव दृष्टिं नोदयाञ्चक्रे इत्य् अन्वः । सकलासु तासु कीदृशीषु ? समं तुल्यम् एव यत् सम्यग् अवधानं यथा द्रष्टुः श्री-कृष्णस्य तद्-दर्शनार्थम् अवधानम्, तथैव दृश्यानां तासां तद्-दृष्टिवारणार्थं यद् अवधानम् इत्य् अर्थः, तेन सम्यग्-गोपितः सकल आकारो विकार-विशेषश् च रोमाञ्चादिर् याभिस् तासां भावस् तत् ता तया हेतुना विशेषेणालक्ष्यमाणासु परिचेतुम् अशक्यास्वित्य् अर्थः । तत्र हेतुः—उत्तमेन मन्दाक्षेण लज्जया उक्ष्यमाणासु आर्द्रीक्रियमाणासु, उक्ष सेचने धातुः, मन्दाक्षं ह्रीस् त्रपा इत्य् अमरः । वार्षभानव्यां कीदृश्याम् ? तस्मिन्न् एव प्रसिद्ध एव पतति शुके पक्षिणि, पतत्-पत्र-रथाण्ड्जाः इत्य् अमरः, अपतोदं गत-व्यथं यथा स्यात् तथा, उत्पत्य उड्डीय चरण-कमलोपरि पतति सति तदीयत्वेन कृष्ण-सम्बन्धिता-प्राप्तत्वेन हेतुना आधीयमानात् तत्रार्पप्यमाणात् बहुमाणात् प्रचुर-सम्मात् हेतोर् बहुलं यथा स्यात् तथा स-सम्भ्रमम् अपसर्पत्याम् । तस्य शुकस्य तस्या एव चरण-कमलपतने को हेतुर् इत्य् अपेक्षायाम् आह—चिरोपसत्तिश् चिरकालं तन् निकट-वासस्तत एव हेतोः सत् शोभनं तिमितं प्रेमार्द्रं च हृदयं यस्य तत् तया । आयतया विस्तृतया, न तु सा तस्याल्पेत्य् अर्थः । तेन महाधीरस्यापि तस्य धृतिलोपो नासम् अञ्जस इति भावः । ततश् च सैव वलभीतले दृष्टचरी शुकस्वामिनी प्रसिद्धा राधेयम् इति विभाव्य दृष्टिं नेत्रं प्रेरयामास । कीदृशीम् ? अदृष्ट्या दर्शनेन मधुराम् । साम्मुख्याभावादर्शनम् एव तत् श्वश्रूजनादीन् प्रति व्यज्य निभृतं नीचैर् नेत्रेण स्वकर्तृक-दर्शन-माधुर्यं तु तां ज्ञापयामासैवेत्य् अर्थः । दयाञ्चक्रु इति तद् अङ्गानां पूर्वराग-जनित-कार्श्याद्यनुसन्धानेन ॥६२॥
अथ निखिलसौभाग्यशोभार्या भार्या व्रजपुरपुरन्दरस्य दरस्यन्दमान-हसितमाध्वीका साध्वी कासारजमुखीस्ताः सकलाः सुतसमीपतः स्वयमानीय यथायथमुपपादितेषु भोजनस्थलेषु निवेशयामास ॥६३॥
सौभाग्य-शोभया आर्या मुख्या । दर ईषत् स्यन्दमानं हसितम् एव माध्वीकं यस्यां सा । ताभिर् वेष्टितस्य पुत्रस्य विद्युन्मण्डल-मध्यवर्तिनो मेघस्येव शोभाम् आलक्ष्य मत्-पुत्र-वध्व एव एता भवितुम् अनुरूपा इति निरुपाधिनैवाकस्माद् उद्गतेन तासु वधूभावेन सा मन्दं जहासेति भावः । कासारजं कमलम् ॥६३॥
तस्मिन्नेव समये निरुपमगन्धमाल्यादिभिनैर्चिकीनिचयमभ्यर्च्य मणिप्रघणे प्रघणे सर्वतोभद्रासर्वतोभद्रासने निवेश्य धावितचरणान् कनकमयपात्रपात्रसांस्करणयोग्यानत एव तथाविधपान-भोजनाचमनादि-भाजनैर्विरचितोपचारान् द्विजवृषभानर्घ्यादिनाभ्यर्च्य सन्नन्दोपनन्द-भार्याभ्यां भार्याभ्यां रोहिण्या च परिवेशितान्यन्नपानादीन्याशयित्वा स्रग्गन्ध-ताम्बूल-वासोऽलङ्कारादिना चोपचर्य जननयन-तापसङ्कर्षणेन सङ्कर्षणेन सह सर्वानेव दशमिनः शमिनस्तरुणानपि शिशूनपि बल्लवानग्रेकृत्य रोहिण्या परिवेशितमन्नमशितुं व्रजराजो यदा प्रववृते, तदैव प्रसृमरमरकतभवनमध्यमध्यवस्थापितेषु सवसनेष्वासनेष्वारोप्यमाणानामसामान्यानां मान्यानां पार्श्वद्वयतो मुख्याक्रमेण समुपवेशितानां वधूनां कुमारिकाणां च प्रत्येकं स्वयमेव परिवेषणमाचरन्ती चरन्तीव सुखसमुद्रे समुद्रेरीयमाणस्मितसुधाकणम् “अयि! न
त्रपात्र पालनीया” इति प्रतिजनमाभाषणमाणा यथाजोषमाशयित्वा प्रत्येकममलतर-वसनमणिमयालङ्कारमालानुलेपन-सिन्दूरताम्बूलादिभिर्यथायथं सम्पूज्य पूज्यचरणासौ भगवती सौभगवतीनां मूर्धन्या धन्या श्रीकृष्णजननी जननीत्या ताः समस्ताः प्रत्येकमालिङ्गय भवनं प्रेषयामास ॥६४॥
मणिभिः प्रघणे प्रकृष्ट-निविडे, प्रघणे अलिन्दे । सर्वतोभद्राया गम्भार्याः सर्वतो मङ्गलं यद् आसनं तत्र, गम्भारी सर्वतोभद्रा इत्य् अमरः । भा कान्तिस्तया आर्याभ्यां । आशयित्वा भोजयित्वा, दशमिनो वृद्धान्, अतएव शमिनः शान्तिमतः, वर्षीयान् दशमी ज्ञायान् इत्य् अमरः । समुत् सनन्दं रेरीयमाणोऽतिशयेन श्रवन् स्मित-सुधायाः कणो यत्र तथा-भूतं यथा स्यात् तथा, अयि पुत्र्यः ! अत्र त्रपा लज्जा न पालनीया, स्वच्छन्दं भुज्यताम् इत्य् अर्थः । यथाजोषं प्रीत्य् अनुसारेण, आशयित्वा भोजयित्वा, भगवती श्रीमती ॥६४॥
अनन्तरमवशिष्टमतिमोदनमोदनमापामरमखिलनगरवासिभ्यो निरलसलसन्मुखमेव विभज्य दत्त्वा नटनर्तकीवाद्यपूरकचारणमागधादिभ्यो व्रजराजेन पृथक् परितोषितेभ्योऽपि स्वयमपि पृथगमीषां मतिसङ्कल्पकल्पनं दत्तवतीति यदि विश्रान्तो महोत्सवस्तदा नित्यमेवमेव चेद्भवति, तदैव निर्वृतिरिति मनसि विभाव्य क्षणं तदुपरमपरमदुःखानुभवमाससाद सा दयालुः ॥६५॥
अतिमोदनम् अतिसुखदायिनम्, ओदनम् अन्नम्, चारणा नाटकाद्य् अभिनयकारिणः, मागध वंश-शंसकाः, दयादुर् इति सकल-जन-सम्पूर्ण-तृप्त्याकाङ्क्षया । धन्योऽसि भद्रपदमास-समस्त-कालो भद्रं पदे तव यद् अद्य मयानुभूतम् । त्वं यो न योजयति हा प्रतिमासमेव धिक् तं विधातरम् इति प्रजगाद राधा ॥६५॥
अथ परेद्यवि कुर्वन् धेनूनामवनं वनं गतो व्रजराजकुमारः कुमारयन् सह सहचरैः कुसुमकन्दुकखेलामाततान । तत्र सहचर-करावचित-कुसुमनिकर-निर्मितैरमितैरतिरुचिर-चिरविलासरसोपयोगिभिरिन्दुपललपिण्डैरिव कुन्दकन्दुकैरितरेतर-तरलतापन्नसम्पन्नसंहननसंहननकौतुकेन केनचिदतिसन्मोदमोदमानः, कदाचिदूर्ध्वोधननेन द्युरमणीरमणीयभावभावनामिव जनयन्, कदाचन तिर्यगसनेन दिग्वधूवृन्दस्य कर्णपूररचनामिव विदधानोऽनुचरैः सह धावमानो मानोन्नतमना मनागपि न विशश्राम ॥६६॥
परेद्यवि परदिवसे, परेद्यव्यद्यपूर्वेद्युर् इत्यादि निपातनात् सिद्धम् । कुमारयन् क्रीडयन् । इन्दुपलल-पिण्डैश् चन्द्रस्य मांस-पिण्डैर् इव कुन्द-कुसुम-कन्दुकैः । इतरेतरं परस्परं तरलतापन्ने तारल्य-प्राप्ते, सम्पन्ने शोभा-सम्पत्ति-युक्ते संहनने शरीरे, यत् सम्यक् हननं क्षेपणाघातस् तेन कौतुकेन, संहननं शरीरं वर्म विग्रहः इत्य् अमरः । द्युरमणीनां स्वर्गाङ्गनानां रमणीय्त-भावस्य भावनाम् । अस्माभिः सह विजिहीर्षुरेवास्मान् प्रति कन्दुकं क्षिपतीत्य् एवं-लक्षणाम् । तिर्यगसनेन तिर्यक्-क्षेपणेन । असु क्षेपणे ल्युडन्तः । मानः क्रीडा-चातुर्यम्, मनु ज्ञाने इत्य् अस्य घञ् अन्तत्वात् घञ्, क्रीडा गर्वो वा तेनेन्नतं मनो यस्य सः ॥६६॥
कदाचिच्च—
धावन् कूणितकोणशोणनयनं धर्मद्युतेः शङ्कया **हेलाखेलनकौतुकी विजयते लोलालकैर्बालकैः । ** ऊर्द्ध्वोद्धूनितकन्दुकग्रहवशादुद्वक्त्रमर्धस्खलच् चारूष्णीषनिवेशितोत्तरकरं प्रोन्नीतपाण्यन्तरम् ॥६७॥
ऊर्धम् उत्कर्षेण धूनितं चालितं कन्दुकं तस्य ग्रहणवशाद् उद्वक्त्रं यथा स्यात् तथा, अर्धस्खलति चारुणि उष्णीषे निवेशित उत्तरकरो वाम-पाणिर् यत्र तद्- यथा स्यात् तथा । प्रकार्षेणोन्नीतम् उच्चतया स्थापितम् उत्क्षेपणवात् पाण्यन्तरं दक्षिण-पाणिर् यत्र तद्- यथा स्यात् तथा । घर्मद्युतेः सूर्यस्य किरण-निपात-शङ्कया कुणितौ सङ्कुचिती-कृतौ कोणौ ययोस् तथा-भूते शोणे नयने यत्र तद्- यथा स्यात् तथा, हेला-खेलन-कौतुकी धावन् सन् विजयते ॥६७॥
एवं गृहीत्वा कन्दुकं दुरवगाहचरिते, तस्मिंश्चिरं विलस्य श्रमजल-कणभरभरिततया मुक्ताभिः खचितं शरदमलपूर्णसुधाकरबिम्बमिव वदनमण्डलं दधाने, विश्रमणाय कस्यचन तरुतरुणस्य मूलमालम्बमाने लम्बमानेन लतापल्लवेन केनापि वीज्यमाने, केनापि निजसिचयाञ्चलेन कल्पितं तल्पमधिशयाने, केनापि संवाहितचरणे सति क्षणमनुचराः सर्व एव तं। परिचेरुः ॥६८॥
तस्मिन् श्री-कृष्णे ॥६८॥
इत्यखिलात्मना श्रीकृष्णेन सह परमदयिता मदयितारः । सकलरसवन्तोऽवन्तो नैचिकीनिचयं दिनानि कियन्ति गमयाम्बभूवुरमी सुकृतिनः कृतिनः सर्वे ॥६९॥
अखिलानाम् आत्मना प्रेमास्पदत्वाद् आत्म-भूतेन, मदयितारः, मदी हर्षे इत्य् अस्मात् ण्यन्तात्, कृष्णं हर्षयन्त इत्य् अर्थः । सकल-रसवन्त इति वलभद्र-मण्डली-भद्रादीनां सख्य-वात्सल्य-दास्यानि रसाः, सुवलोज्ज्वलादीनां सख्य-शृङ्गारोचित-दास्य-रसौ, श्री-दामादीनां केवलं सख्य-रसः, रक्तकादीनान्तु केवलं दास्यम् इति ॥६९॥
परेद्यवि द्यवि चरत्सु वृन्दारकनिकरेषु पश्यत्सु श्यत्सु च नयनतापं जातकुतूहला हलायुधानुजेन साग्रजेन साग्रप्रमोदेन सह सहचराः पूर्वपूर्वदिनवत् चारयन्तो रयं तोषस्य गतवद्गवां निकुरम्बकं श्रीकृष्णेन तेनैव वृन्दावनतरुलताखगमृगमधुव्रतव्रातसौभाग्यं स्वनिष्ठमपि पूर्वजं व्यपदिश्य दिश्यमानं शृण्वन्तो विहरन्तश्च हरन्तश्च नयनवतां नयनसन्तापं गगनमध्यमध्यवस्थिते मयूखमालिनि रुचिरुचिरवनविहारजातश्रमौ श्रमजलकणकमनीयकपोलमण्डलौ सहोदरावदरावरुद्धालस्यलस्यमानौ पूर्ववदतिघनप्रच्छायतरुमूलमालम्बमानौ श्रमापनोद-विनोदविविधोपचारैरुपचरितवन्तो हसन्तो हासयन्तश्च मधुरतरकथाभिरथाभिनिन्युः प्रणयडाम्बर्यम् ॥७०॥
अखिलानाम् आत्मना प्रेमास्पदत्वाद् आत्म-भूतेन, मदयितारः, मदी हर्षे इत्य् अस्मात् ण्यन्तात्, कृष्णं हर्षयन्त इत्य् अर्थः । सकल-रसवन्त इति वलभद्र-मण्डली-भद्रादीनां सख्य-वात्सल्य-दास्यानि रसाः, सुवलोज्ज्वलादीनां सख्य-शृङ्गारोचित-दास्य-रसौ, श्री-दामादीनां केवलं सख्य-रसः, रक्तकादीनान्तु केवलं दास्यम् इति ॥७०॥
श्रीकृष्णोऽपि क्षणं विश्रम्य सहसा सहसाध्वसप्रणयमग्रजस्य चरणकमलसंवाहनादिना दिततदीयखेदः, सहेलखेलोल्लसित-हसितहत-सकल-सहचर-चरमश्रमो मध्याह्न-तपन-तापमवधूय धेनुगणानुसरणकुतूहलिना हलिना सह सहजप्रणयमधुरो वनभुवि विहरमाणः क्षणं क्षणं वितनुते स्म ॥७१॥
सह-साध्वस-प्रणयं स-सम्भ्रम-प्रेम-गौरवस्य साध्वस-गन्धित्वान् अपगमात् । संवाहन-क्रियाया विशेषणम् इदम् । दितः खण्डितस् तदीयः खेदो येन सः । क्षणं व्याप्य क्षणम् उत्सवम् ॥७१॥
तस्मिन्नेवावसरे स रेरीयमाणमधुमधुरं सकल-कलाकलाप-कौशल-शलन्मधुरिमा धुरि मानभृतां मूर्धन्यो धन्योदारचरितः सबलो बलोर्जितः श्रीकृष्णः सखिभिरत्यूचे ॥७२॥
“भो भो राम! भो भोः कृष्ण! महाप्रभाव! प्रभावधूतनिविडतमस्काण्डप्रकाण्ड! बुभुक्षयाक्षयाजनि नो जठरयातना या तनावपि नो माति । मातिदूरे दूरे सरीसृप्यमाणैः सौरभ्यैरभ्येधितघ्राणामोदमतिपाकमेदुरदुरवापफलानां मोदं जनयति नस्तालवनं लवनं विनापि केवलान्दोलेनैव फलानि निपतिष्यन्ति । तैरस्मानाप्याययितुमर्हतं भवन्तौ” इति गदितौ दितौत्कण्ठ्यान् विधातुमेतान् समेतान् लालसया तद्धेनुककृतावनं वनं समुपव्रज्य तच्छोभालोभालोलनयनौ नयनौत्कण्ठ्यमवतारयामासतुः ॥७३॥
सः श्री-कृष्णः, रेरीयमाणम् अतिशयस्रावि मध्विव मधुरं यथा भवत्येवं सखीभिर् अभ्यूवे, उच्यते स्म । तत्र हेतुः—सकले कला-कलापे क्रीडा-शिल्प-समूहे यत् कौशलं नैपुण्यं तेनैव शलन् प्राप्नुवन् मधुरिमा यम्, शल हुल गतौ । इदं दुर्लभ-ताल-फल-भक्षणम् अप्य् एकं क्रीडा-कौतुकम् इति भावः । मान-भृतां सम्मान-धारिणां धुरि गणनायां मूर्धन्य इति तादृशे प्रार्थनापि न लाघवायेति भावः । उदार-चरित इति वकाघाद्यसुरान् इव21 धेनुकम् अपि हन्तं समर्थ इति भावः ॥७३॥
परिपाकपिङ्गलतागलता फलतादवस्थ्येन स्थविष्ठस्कन्धदेशा देशावच्छेदच्छेदरहिता हितालोका लोकाभिरामा रामानुजेन ते घनमेदुरा दुरासदाः सदाफलाः फलामोदमोदमानभुवनजना जनागोचराश्चराचरगुरुणागुरुणा पवमानेन सटसटायमानदलदलद्रावद्रावकारिणा चोरितफलगन्धास्तालविटपिनो ददृशिरे दृशि रेचितविभ्रमेण । तेन “पातयध्वं पातयध्वम्” इति निगदितैस्तैः पुष्टलोष्टलोलकरतलैः पात्यमानानां फलानामाकर्ण्य ध्वनिमध्वनि मन्द्रं खुरखुरप्रक्षुण्ण-धरणिधूलिधोरणिभिरन्धकारीकृत्य दश दिशः प्रखरखरकायः पश्चात्तनचरणयुगलक्षेपेण नाटयन्निव भुवस्तटमूर्जत्स्फूर्जद्गर्जनेन तर्जयन्निव निर्जरानपि जर्जरीकृत-पर्जन्यघोषो घोषोद्भवान् बालकानुपेक्ष्य रामकृष्णावेव हन्तुकामः काममभिससार सारवान् धेनुको नाम दैतेयः ॥७४॥
रामानुजेन कृष्णेन ते ताल-विटपिनस् ताल-वृक्षा ददृशिरे दृष्टाः । कीदृशेन ? दृशि दृष्टौ रेचितः सम्पृक्तो विलासो यस्य, सोल्लास-नेत्रेणेत्य् अर्थः । ताल-विटपिनः कीदृशाः ? परिपाकेन पिङ्गलतायां पिङ्गल-वर्णतायां सत्याम् अपि अगलता अनपगच्छता फलानां ताद्वस्थ्येन तद् अवस्थत्वेन हेतुना स्थविष्ठा अतिस्थुलाः स्कन्ध-देशा येषां ते । अतएव तत्र देशावच्छेदे यश्छेदो विरलत्वेन छिन्नत्व22-लक्षणोऽवकास् तद्रहिताः, स्कन्द-देशेऽतिस्थौल्यात् परस्पर-मिलनेनाति-निविडा एकीभूता इवेत्य् अर्थः । हितः सुखदत्वाद् आलोकोऽपि येषां ते घनेभ्यो मेघेभ्योऽपि मेदुराः स्निग्धाः, दुरासदा दुःखेनासाद्य् अन्त इति तथाभूताः । तथा वर्णित-गुणत्वं तेषां उत्प्रेक्षयापि व्यञ्जयति—चराचराणां जङ्गम-स्थावराणां प्राणतयेन्द्रिय-शक्त्य् उपदेशकत्वेन गुरुणापि पवमानेन वायुना, श्लेषेण, गुरुत्वाद् अन्यम् अपि पवित्रीकुर्वताप्यगुरुणा भवता चौर्य-सङ्कोचान्मन्दीभूतेन सता चोरितः फल-गन्धो येषां तथा-भूताः । कीदृशेन ? सट-सटायमानानां दलानां पत्राणां दलद्भिः प्रस्पुरद्भी रावैः फुत्कार-शब्दैर् इव द्रावं पलायनं कर्तुं शीलं यस्य तथा-भूतेन । येषां गन्धम् अपि चराचर-गुरुर् अपि लोभात् तथा भवंश् चोरयति, तेषां फलानां लोभ्यत्वं किं वर्णनीयम् इति भावः । तेन रामानुजेन निगदितैस् तैः सखिभिः खुरा एव खुरप्राः खुरपा इति ख्याता अस्त्र-विशेषास् तैः क्षुण्णाया दरणेर् धूलि-धोरणिभिर् धूलि-श्रेणीभिर् निर्जरान् देवान् । सारवान् बलवान् ॥७४॥
तमापतन्तं पतन्तं पतङ्गमग्नाविव भूरिबलो बलोऽवहेलया हननाय क्षिप्यमाणौ पश्चात्तनावङ्घ्रीवामकराग्रेणाधृत्य नभसि घूर्णयित्वा, समुत्तालतालतरौ निष्पिष्य तेनैक तद्वपुषानायासेनैव फलानि पातयन् घातयामास ॥७५॥
सम्यग् उद्गतस्तार उच्च-ध्वनिर् यत्र स चासौ ताल-तरुश् चेति तस्मिन्, रलयोर् ऐक्यात् । यद् वा, समुत्ताले सम्यग् उत्कटे, उत्तालो हेम-कुण्डे स्याद्-गर्वे23 चोत्ताल उत्कटे इति विश्वः ॥७५॥
अथ समेतानिह निहतेऽस्यैवानुगामिनः कियतो यतोद्यमान् सहोदरावेव सहोऽदरावेवमाजघ्नतुः ॥७६॥
इह अस्मिन् धेनुके निहते सति समेतान् सहोदरावेव भ्रातरौ द्वावेव । कीदृशौ ? सहसा बलेन अदरौ अनल्पौ निर्भयौ इति वा । एवम् अनेन प्रकारेण ॥७६॥
अथ निविडनिपात-विशीर्यमाण-परिपक्वफलरसकर्दमदमदमायमाने भुवस्तलेऽशीर्यमाणान्यापक्वानि फलानि यथाकाममवचित्यावचित्य कौतुकतः कन्दुकखेलामेव चक्रुर्न तु बुभुजिरेऽजिरे तद्वनस्य रुरुधिरे रुधिरेण तेषां तानि फलानीति नीतिविदः ॥७७॥
आपक्वानि ईषत्-पक्वानि, अतएव अशीर्यमाणानि स्कन्द-वृन्ताद् अगलन्ति । न तु बुभुजिरे इत्य् अत्र हेतुः—तस्य वनस्य अजिरे प्राङ्गणेऽवकाश इति यावत् । तानि फलानि सर्वाणि रुधिरेण गर्दभरक्तेन रुरुधिरे रुद्धानीति अपावित्र्याद् इति नीति-विदो दर्म-शास्त्र-नितिज्ञा राम-कृष्णदयः । अतएवाधुनिका अपि तदीय-भक्तास् तां नीतिं ताल-मात्राभक्षणाद् अनुसरन्तीति ज्ञेयम् । अतएव मूलेऽपि । अथ ताल-फलान्यादन्, मनुष्या गत-साध्वसा इत्य् अर्थ मनुष्यास् तत्याः पर्वत-वासिनः पुलिन्दाद्या हीनजातय एव, न तु ते राम-कृष्णाद्या इति व्याख्येयम् ॥७७॥
एवं तालफलानास्वादाजातसौहित्यैस्तद्गन्धबान्धव्य-बन्धुर-नासापुटैस्तैः सह सहरामो धेनूरवहार्यानाहार्यानागाह्य-मधुरिमा धुरि मानभृतामाद्यो मा-द्योतित-भुवनतलो नतलोकशोकहानोकहानोजस्विनो वृन्दावनस्य प्रत्येकमवलोक्याभिनन्दन्नपराह्णमालोक्य व्रजाभिमुखो मुखोदीरित-मुरलीकोऽलीकोन्नीतमानुषभावो महानुभावो महानुत्तमः मानसगङ्गाया अनुकूलमनुकूलमरुता पुरः पुरः प्रतिनीयमानेषु धेनुखुरखुरलिकोद्धूत-धूलिनिकरेष्वनुषक्तानुषक्ताकारतया लग्नेन कियता गोखुरपांशुना चोचुम्ब्यमानचलदलकचारूष्णीषं वदनबिम्बं प्रियजननयने निदधानो दधानो मुरलीकलेन कलेन व्रजनगरनागरीगरीयोमनोमाणिक्यचौर्यं ताभिरभितोऽधिरूढवलभीतलाभिरनिमिषनयनपुटकिनी-कुसुमदल-पुटकेन पेपीयमानवदनो भवनमाविवेश श्रीकृष्णः ॥७८॥
तदनु जननीभ्यामुत्सारित-रजस्कमभिमार्जित-तनूधावनानन्तरमभ्यक्तोद्वर्तित-स्नपित-परिधापित-भूषित-भोजित-पायितौ सुखं सुषुपतुः श्रीराम-दामोदरौ ॥७९॥
ताल-फलानाम् अनास्वादेन हेतुना न जातं सौहित्यं तृप्तिर् येषां तैः । तेषां गन्धस्यैव वान्धव्येन ग्राहकत्वात् बान्धवतया बन्धुरं सुन्दरं नासापुटं येषां तैः बन्धुरं सुदरेऽपि च इति विश्वः । अनाहार्यः, न कुतश्चिद् आहरणीयः, किन्तु स्वाभाविक एवानागाह्योऽतलस्पर्शो मधुरिमा माधुर्य-समुद्रो यस्य सः । मानभृतां सम्मान-धारिणां धुरि गणनायाम् आद्यो मूल-भूतः । मा शोभा तया द्योतितं भुवन-तलं येन सः । अनोकहान् वृक्षान्, अभिनन्दन्न् इति पत्र-पुष्प-फल-च्छायादिभिः प्रीतिदायित्वात् तालान् एव तद् वैपरीत्येन दुर्गमत्वान्निन्दन्निति भावः । अलीकोन्नीतमानुषभाव इति मानुष-शब्दोऽयं रूढिवृत्या प्राकृत-जीव-विशेष-वाची । महेनोत्सवेन न विद्यते उत्तमो यस्मात् सः । अनुकूलं कूले कूले । पुरोऽग्रतः, पुर इति द्वीतीया-बहुवचनम्, पुरीः प्रतीत्य् अर्थः । खुरलिका अभ्यासः । अनुयक्ताद् अनुषङ्गात् हेतोर् अनुषक्तोऽनुरुद्ध आकारो यस्य तत् तया हेतुना लग्नेन चोचुम्ब्यमाना अतिशयेन चुम्ब्यमानाश् चलन्तोऽलकाश् चूर्ण-कुन्तलाश् चारूष्णीषं च यत्र तत् । मुरलीकलेन कीदृशेन ? कलेन कं सुखं लाति ददातीति तेन । नयनम् एव पुटकिनी-कुसुमं कमल-पुष्पं तद् एव दल-पुटकं पत्र-पुटकम्, यद् वा, तस्यैव दलं पत्रं नेत्रैकदेशस् तद् एव पुटकं तेन ॥७९॥
इत्यानन्दवृन्दावने कैशोरलीलालता-विस्तारे पूर्वानुरागपरभागो
नामाष्टमः स्तवकः ॥८॥
…
-
जात्यादि [घ] ↩︎
-
व्याप्ते [ख] ↩︎
-
प्रान्दोलित [घ] ↩︎
-
पृष्ठ-देशार्धस्य [ख] ↩︎
-
सौगन्ध्यस्य [क,ख] ↩︎
-
चाप्य् अनिर्हेतुकः [घ] ↩︎
-
सङ्गोपनेन [ख] ↩︎
-
तच् चिह्नत्वेनैव [ख] ↩︎
-
मेव [ख] ↩︎
-
संयोग [ख] ↩︎
-
ध्वन्यते [ख] ↩︎
-
स्वानुरागवती [क] ↩︎
-
शब्दस्याप्य् अभावात् [क] ↩︎
-
तोषम् इति [घ] ↩︎
-
व्रजेश्वरीम् अपि [घ] ↩︎
-
अपराध एव कृतः [क] ↩︎
-
नात्युप [घ] ↩︎
-
श्यामेन [क] ↩︎
-
तुल्य-रूपतया [क] ↩︎
-
तुल्य-रूपतया [क] ↩︎
-
द्यसुरादिवत् [क] ↩︎
-
छिद्रत्व [क] ↩︎
-
गर्भे [घ] ↩︎