सप्तमः स्तवकः
आगोवर्धनमाकलिन्दतनया-तीरादनोमण्डलैर् **आनन्दीश्वरमर्धचन्द्रवदभूद्वासः स तात्कालिकः । ** **पश्चादप्रकटैव पूर्वभणिता या राजधानी तया ** प्राकट्यं गतया निजैर्गुणगणैरन्यूनयाभूयत ॥
वत्सासुर-वकाघानां1 वधह् पुलिनजेननम्2 ।
वत्स-बाल-हृतिर् ब्रह्म-मोहस्तोत्रे च सप्तमे ॥
आगोवर्धनम् इत्यादौ आङ्-मर्यादायाम्, सा च दूर-सीमवाचिनी3 ज्ञेया । व्रजस्याष्टक्रोशीपरिमितत्वात् राजधानी नन्दीश्वरवर्तिनी निजैर् गुण-गणैः प्रथम-स्तवके वर्णितैः ॥
नित्यत्वं सकलस्य यद्यपि हरेर्धाम्नः सुसिद्धं तथा **प्येकस्मिन्नपरस्य सम्मिलनतो नानित्यता दृश्यते । ** तेजस्तेजसि वारि वारिणि यथा लीनं च नो हीयते तद्वत् सा च महावनस्थितपुरी-लक्ष्मीरिमामाविशत् ॥
पुर्या लक्ष्मीः सम्पत्तिः, इमां गोवर्धन-कालिय-ह्रदयोर् अन्तरालवर्तिनीं शकटावर्ताख्यां राजधानीम् ॥
अथ उभयोरेव पुरश्रियोरेकीभावे तदन्तरश्रिया श्रिया सर्वतोभावेन सेव्यमानतायां च सत्यां कि वर्णनीया तदानीन्तनी वृन्दावनस्य रामणीयक-सम्पत्तिः ॥
उभयोर् वृहद्-वन-वृन्दावनयोः, एकीभावे मिलने सतीत्य् अर्थः । तद् अन्तरं तन् मध्यं श्रयतीति तद् अन्तर-श्रीस् तया श्रिया शोभया ॥
तथापि—
नानाचित्रपतत्रिहारि हरिणन्यङ्क्वादि-नानामृगं **नानाभूरुह-कुञ्ज-गुल्म-लतिका-वापीसरःपल्वलम् । ** कालिन्दीपुलिनैः समुज्ज्वलमथो गोवर्धनेनाद्भुतं वृन्दारण्यमभीक्ष्य ते मुमुदिरे गोपाश्च गोप्योऽपि च ॥१॥
हारि मनोहारि ॥१॥
अथ पूर्वोदितायां व्रजराजपुर्या व्रजराजो विवेश । सन्नन्दादयोऽपि स्वस्वपुरेषु, तदितरेऽपि निजनिजपुरीषु, गोशालास्वपि गावः, विपणिवीथिष्वपि वणिजः, स्वस्वविपणिष्वपि ताम्बूलिक-मालिकादयः ॥२॥
अथ इति कतिपयवर्षानन्तरम्, पूर्वोक्तायां नन्दीश्वरवर्तिन्याम् । स्व-स्व-पुरेषु सेमरि4-साहारादि-नामभिः ख्यातेषु आविविशुः ॥२॥
सर्व एवाप्रकटवत् प्रकटेऽपि तथा बभूवुरित्येवमापुलिन्दमात्मात्मभवनसुखसन्निविष्टेषु सकलजनेषु चिरकालवाससुस्थितवत् विस्मृत-पूर्वावासेषु वृन्दावनतृणसमास्वाद-प्रोद्यत्प्रमोदेषु गोधनेषु गूढतया सेवमानेषु नवनिधिषु दासीवत् परिचरन्तीष्वष्टसिद्धिषु च गूढतया स्वयं संव्रियमाणमहैश्वर्योऽपि निरर्गल-दुर्निवारतया कदाचित् कदाचिदसंव्रियमाणनिजैश्वर्योऽपि भवति लीलाबालको भगवान् ॥३॥
लीला-बालक इति स्वपितृभ्यां तत्-सजातीयैश् च लीलामय-बालकत्वेनैव सदैव प्रतीयमान इत्य् अर्थः ॥३॥
अथात्र कियता कालेन वत्सपालनक्षमतामाविर्भावयामास । सत्स्वपि तत्कर्म-समुचितेषु दासकुमारेषु तथाविध-लीलाकौतुकग्रहिलतया भगवतैव प्रेरितान्तःकरणे परमसुकुमारोऽपि परमदुर्लीलोऽपि वत्सपालनकर्मणि नियोजनीयोऽयमिति विचारयति व्रजराजे, तदुपाकर्ण्य वात्सल्यपारदृश्वरीश्वरी व्रजनगरस्य रस्यमनवगच्छन्तीच्छन्ती च तदपाकर्तुं तदसहमाना स्तनन्धयोऽयमधुना कथमकाण्डे क्लेशयितव्य इति यदा निजगाद, तदा स एव लीलाबालको लीलाबालकोऽमलो “मातर्मातःपरमेवं वक्तव्यम्, वत्सपालनकर्मणि ममातीव तोषोऽतोऽसोढव्यं ते वचनमिदम्, मिदं ते नेममुरीकरोमि । तदादिश जननि! जननिकरेण बालसहचरेण सह वत्सान् चारयिष्ये, कौतुकेन कौ तु के न रज्यन्ति?” इति बाल्यनिर्बन्धेन यदा मातरमुवाच, तदा सापि शिथिलनिर्बन्धा यदि न किञ्चिदप्यपरमचे, तदा व्रजेश्वरोऽपि रोपितकौतको हृदि सुदिनाहमालोक्य सह बलभद्रेण भद्रेण सहचरद्भिर्बालसहचरैश्च वत्सपालनाय स्वयमेव गवाङ्गणमागत्य कतिपयानेव वत्सानग्रतः समुपपाद्य तनुतरां लोहितयष्टिकामेकां करे धारयित्वा वत्सः सह चाल्यमानं तनयं स्वयमप्यनुचचाल ॥४॥
अग्रेतनीम् एव नन्दीश्वर-वासरीतिमत्रैव प्रसङ्गेन वर्णयित्वा इदानीं वत्स-पालनादि-लीलां वर्णयितुम् उपक्रमते । अथेत्यारम्भे, अत्रेति शकटावर्ताख्य-राजधान्याम् । भगवतेति पदं तदीयांशोऽ5न्तर्याम्य् अपि भगवच्छब्देनोक्तः, साक्षात् तस्य तु प्रित्रोः सन्निधौ सर्वदा लीलावेशमयत्वात् तत्कार्यायोग्यत्वात् । तथाविध-लीला-कौतुक-ग्रहिलतयेति—तदीयांशस्य अन्तर्यामिणस् तथा प्रेरणे हेतुर् उक्तः । विचारयति सुहृद्भिः कश्चित् सह तया भार्ययैव वा सहेति मन्त्रणां कुर्वति सतीत्य् अत्रापि कृष्णस्य तथा-विध-लीला-कौतुक-ग्रहिलतयेत्य् एष हेतुर् ज्ञेयः, तत्रैव स्व-पुत्र-पीतिम् आलक्ष्य तद् अनुकूल-तथाविध-प्रमोदयात् । वात्सल्य-पारदृश्वरीति । तद् असहने हेतुः—ईश्वरीति । तन् निवारण-योग्यतायां तत्-कर्म रस्यं स्वरसोचितमनवगच्छन्ती न अनुभवन्ती, अतएव तत् दूरीकर्तुम् इच्छन्ती । अकाण्डे अनवसरे । स्तनन्धयोऽयम् इत्याद्यापस्य स्तन-पाने वैरस्यं न जातम् इत्य् अकाण्डत्वम् । लीलया अव समन्तात् इतस्ततश् चलिता अलकाश् चूर्ण-कुन्तला यस्य सः, अमलः सुन्दरः, हे मातः ! अतःपरं मा एवं वक्तव्यम्, अतो हेतोर् असोढव्यं सोढुम् अयोग्यम् इदं वचनम् । ननु तवैव क्लेशम् आशङ्क्य स्नेहेन व्रवीमि ? तत्राह—ते तव इमं मिदं स्नेहं न उरीकरोमि, न अङ्गी-करोमि, मिदम् इति ञिमिदा स्नेहने भावे क्विवन्तं पदम् । जन-निकरेण जन-समूहेन कौ पृथिव्यां तु के जनाः कौतुकेन न रज्यन्ति, अपि तु सर्व एव । सुदिनाहं शोभनस्य दिनस्याहोरात्रस्य सम्बन्धि यदहस्तत् ॥४॥
एवमनुयान्तं पितरमनुयान्तीं च मातरं विलोक्य “निवर्तेतां भवन्तौ वयमत्राभियुक्ताः, नात्र शङ्का करणीया” इति वदति तनये “मा दूरं गाः, इत एवाद्य चारय स्ववत्सान्, मा विलम्बश्च कार्यः, शीघ्रमेवागन्तव्यम्” इति च ब्रुवाणौ पितरावथ निवर्त्य सबलः सबालसहचरः सकौतुकमेव प्रथमेऽहनि कृताभ्यास इव वत्सान् चारयामास ॥५॥
अभियुक्ता अभिज्ञाः ॥५॥
एवमहरहरहतविक्रमः क्रमसमेधमानसमेधमानसोल्लासतया तया वत्सचारणखेलया खे लयारूढमनसः प्रसृमरानमराननवरतवरतनुसहितान् स हि तान् प्रमोदयन्मोदयन्नपि व्रजवासिनः सह सहचरैर्बलभद्रेण च भद्रेण चरितवैचित्र्येण जननीजनकयोरानन्दं मुहुस्तन्वानस्तन्वा नवघनघटाश्यामलयामलया व्रजभुवं च श्यामलयन् यदि तस्यामेव लीलायां कुशलो बभूव, तदा यावन्तो वत्सास्तावतामेव चारणाय पर्युत्सुक आसीत् ॥६॥
क्रमेण पूर्वदिनतोऽप्यपरस्मिन् दिने तस्माद् अप्य् अन्यस्मिन् दिने सम्यग् एधमानो वर्धमानः समेधस्य मेधा-सहितस्य मानसस्य चेतस उल्लासो यस्य तस्य भावस् तत् ता तया । तया लोके प्रसिद्धया खे आकाशे लयमानन्दमूर्छाम् आरूढं मनो येषां तानमरान्, अनवरतं निरन्तरं वरतनु-सहितान् स्त्री-सहितान् । स श्री-कृष्णः, हि निश्चितम्, प्रमोद-मोदयोः कादाचित्कत्व-सार्वदिकत्वाभ्यां भेदः, तन्वा शरीरेण मुहुर् आनन्दं तन्वानो विस्तारयन् ॥६॥
तथा सति प्रतिदिवसमनुदित एव किरणमालिनि त्रिभुवन-जन-पावन-जनन्या जनन्या जनन्यायकोविदया दयालुहृदयया स्वयमेव शयनोत्थापन-मुखधावन-परिमार्जनाभ्यञ्जनोद्वर्तन-स्नपनानुलेपनालङ्करणकौशलानन्तरमाशयित्वा शाययित्वा च क्षणमनुगतोऽर्धपथपर्यन्तमित एव निवर्त्यतामिति प्रतिमुहुरतिवत्सलां मातरमेनामतिमृदुलमधुरतरेण वचसा निवर्त्य सह बलेन सुबलेन सुदाम्ना सुदाम्ना सुललितवक्षाः सहचरैरपरैश्च शाद्बतलमासाद्य नवनवशष्पाङ्कुरनिकरसमास्वादासादितमोदेषु वत्सनिकरेषु चरत्सु विविधकौमारखेलाकौतुकेन गमयन् समयं पुनरपि समयमाकलय्य माध्यन्दिनाशनार्थं निजपरिजनेनाप्ततमेन व्रजपुरपरमेश्वरीप्रेषितं सुकविकाव्यमिव सुरसम्, पुरुषार्थसार्थमिव नियत-चातुर्विध्यम्, पुरुषार्थसाधनमिव अशीतलप्रायम्, विश्वमिव प्रभूतमन्नमासाद्य सह सहचरनिकरेण कुतुहलिना हलिना च समं समन्ततो मण्डलीभूय सपरिहासहासकौशलं भुक्त्वा पुनरपि वत्सानुपदीनो दीनोद्धरणः काननविहरणरणकिङ्किणीकः कोमलतलचरणकमलाभ्यां धरणीहृत्तापमुत्सारयामास ॥७॥
पावन-जनन्या पावित्र्योत्पादिकया, आशयित्वा भोजयिता, अनुगतः कृतानुगमनः, सुदाम्ना तन् नाम-सख्या, सुदाम्ना शोभन-मालया । शद्वलो नव-तृण-हरित-वर्ण-देशः । नियतं चातुरुविध्यं धर्मार्थ-काम-मोक्षाणां चर्व्य-चोष्य-लेह्य-पेयानां च यत्र तं तच् च । अशीतल-मनलसमधिकारिणं प्रकर्षेण अयते प्राप्नोतीति तत् । पक्षे स्पष्टम् । प्रभौ ब्रह्मणि उतम्, पक्षे, प्रचुरम् । वत्सानाम् अनुपदम् अन्विच्छन्तीति वत्सानुपदिनः सुवलादयस् तेषाम् इनः श्रेष्ठः, कोमले तले ययोस् ताभ्यां चरण-कमलाभ्याम् ॥७॥
एवमनुदिनमेव यामार्धशेषे दिवस एव सकलवत्सनिकुरम्बमवधाय चालयन्नालयाभिमुखं यदागच्छति, तदाध्वनि कृतनयना ध्वनिकृतश्रवणा च तनयवत्सलतयोत्कण्ठमाना पुरतोऽभिव्रजति व्रजतिलकवल्लभा सापि तज्जननी ॥८॥
दिवसे यामार्ध-शेषे सति यदा आगच्छति, तदा अध्वनि कृते नयने यया साध्वनौ वत्स-बालादीनां कृते श्रवणे यया सा, व्रजस्य तिलक-तुल्यः श्री-नन्दः, तस्य वल्लभा श्री-यशोदा ॥८॥
आयाते च भवनं सत्स्वपि दासदासीनिकरेषु स्वयमेव पूर्ववदवयवकिशलयपरिमार्जनादिना परिष्कार्य कार्यकुशला सा सायाशनमाशयित्वा प्रदोषं प्रदोषं समुत्तार्य परार्धशयनमारोप्य शाययामास ॥९॥
आयाते तनये सति सा यशोदा प्रदोषं प्रकृष्त-भुजं श्री-कृष्णं साये अशनं भोजनं यस्य तथा-भूतम् अन्नाद्याशयित्वा भोजयित्वा प्रदोषं समुर्ताय प्रदोष-समयानन्तरम्, प्रदोषे शयनानौचित्यात् प्रेम्णश् च औचित्यग्राहि-स्वभावत्वात् ॥९॥
इत्येवं गतेषु कतिपयेषु दिवसेषु कस्मिंश्चिदहनि वत्सांश्चारयता वत्सगणानामन्तरेव विहितसात्त्वतवेशो महाशाक्त इव, परमतजिघृक्षया विस्तारितास्तिकाकारश्चार्वाक इव, सर्वस्वजिहीर्षया समुपसादित-मित्रभावश्चौर इव, मृदुलतरतृणाच्छादितमुखो वारीगर्त इव, कोऽपि कंसानुचरो वत्साकारः सह वत्सगणैरेव चरन् न केनापि प्रकारेण लक्ष्यमाणः केनचिदपि, तेन सकृदेवाइअलोक्य विपक्षोऽयमिति जानता निखिलसर्वज्ञचक्रचूडामणिना पूर्वजं प्रति “आर्य! किमयं व्रजचरो वत्सः, उत वा कृत्रिमः कोऽपि” इति वदता तदनिर्णीयमान एव पश्यत्सु सकलेष्वेव सहचरेषु मृदुतर-कमल-कुड्मलकोमलेन वामकरतलेन पश्चात्तनं चरणयुगलमाकृष्य धृत्वा समुन्नीय मुहुरलातचक्रवदाघूर्णयता कपित्थतरुकाण्डमधि निष्पिंषता प्रयाणाभिमुखेषु प्राणेषु धृतनिजविकृताकारो यमसदनं गमयाम्बभूवे ॥१०॥
वत्सान् चारयता तेन कृष्णेन वत्साकारः कोऽपि कंसानुचरो यम-सदनं गमयाम् बभूवे इत्य् अन्वयः । विहित-सात्वत-वेश इति महा-चतुर-सभायां तु तथात्वस्याकिञ्चित्करत्वम्, प्रत्युत तस्यैव लज्जावज्ञादण्डादि-प्राप्तिर् इति भावः । विस्तारित आसिकाकारो वेद-प्राणाण्यग्राहित्व लक्षणो येन, स्वस्य नास्तिकत्वं प्रच्छाद्य स चार्वाको वौद्धः, तथापि विद्या-चातुर्यवतो महा-पण्डितस्य नास्तिकेन दुर्ज्ञेयम् अतत्वम् अजेयत्वं च, प्रत्युत अचिराद् एव निज-स्वरूपाविष्कारो दण्डश् च तेन लभ्यत इति भावः । मित्र-भावश् चौर इति, तथापि महा-धार्मिकं सदैव धर्मो रक्षति, चौरस्य तु नाश एवेति भावः । वारी-गर्त इति मत्ततामये हस्तिन्येव तत्-फलोदयः, न तु मनुष्यमात्रे कस्मिञ्चिद् अपीति, तेन यद्य् अप्य् असौ चिराद् अपि तथावर्तिष्यत्, तद् अपि कृष्ण-सखानां किञ्चिद्-भयं नाभविष्यत्, प्रत्युत तस्यैव सदा कृष्णभयाद् अचेतन-प्रयत्वम् एवास्थास्यद् इति भावः । तेन श्री-कृष्णेन तैः सखिभिर् अनिर्णीयमानम् एव निष्पिषता वेगक्षेपेण सञ्चूर्णयता, यम-सदनम् इति तदानीन्तन-लीला-परिकर-लोक-प्रतीत्यभिप्रायेणोक्तम्, वस्तुतस्तु यमोपलक्षितस्याष्टाङ्ग-योगस्य सदन-रूपं ब्रह्म-स्वरूपम् इत्य् अर्थः ॥१०॥
बभूवेदमेव सुरसभारसभावकारि कारिहननं हर-विरिञ्चिमुख-मुखरितं च, वस्तुतो दुर्घटघटनपटीयसो दुष्करकर्म-कर्मठस्य नैतदद्भुतम् ॥११॥
इदम् एव कारिहननम्, ईषच् छक्रहननम्, सुरसभाया देव-समूहस्य रसेन भावकारि प्रीति-करणशीलं बभूव, अघ-वकादि-महा-सुर-हननम्, अग्रेतनं तु किं वक्तव्यम् इति भावः । ईषद् अर्थे चेति कोः कादेशः । कर्मठो निपुणः ॥११॥
तदनु दनुजदमनो मनोरमहेलालसो लालसो निजसहचरनिकरेषु गगनाङ्गनचरमभागशीतकरकरमालिन्यमलिनतामरसमयं समयं वीक्ष्य दिनान्तरवत् सानुचरो वत्सानुचरो भवन् भवनमाजगाम ॥१२॥
हेलालसः खेलारसः, लालसोऽतिशयकान्ति-युक्तः । समयं वीक्ष्य । कीदृशम् ? गगनम् एवाङ्गनं तस्य चरम-भागं पश्चाद्-भागं भजते प्राप्नोति, अशीतकर उष्ण-किरणः सूर्यस् तस्य कराणां किरणानां मालिन्येन हेतुना मलिनानि ताम् अरसानि पद्मानि तन्मयम्, वत्सानाम् अनुचरतीति तथा-भूतो भवन् सन् ॥१२॥
भवनमागम्य गम्यमानेतरचरितस्य तस्य ललितवपुष्कलं पुष्कलं वत्सवत् सर्वावयवस्य दानवस्य मारणं रणं विनैव कृतवतो लीलाविलसितं सर्वमेव सर्वे निजनिज-जननीजननीयमाना अपि शिशवः प्रथममेव व्रजपुरपरमेश्वर्यै कथयाम्बभूवुः ॥१३॥
गम्यमानादितरम् अगम्यं चरितं यस्य तस्य कृष्णस्य, लीला-विलसितम्, कीदृशम् ? ललितम् आनन्दानुभवेन शोभितं वपुः वक्तृ-द्रष्टृ-श्रोतॄणां करोतीति तत्, रलयोर् ऐक्यात्, पुष्कलं श्रेष्ठं वत्स-तुल्य-सर्वाङ्गस्य, निज-निज-जननी-जनैर् व्रजेश्वर्या सह ग्रामान्त-पथ6 पर्यन्तम् आगतैर् निज-निज-गृहवर्त्म प्रति नीयमाना अपि वलात् ततो निवर्त्येत्य् अर्थः । महावलस्य दैत्यस्य गोवत्सत्वं कुतो भयात् । तद्-वधे वा शिशोः शक्तिः क्वेति मेने मृषैव सा ॥१३॥
भगवानपि जनकजननीराजितो जननीराजितो दिनान्तरवत् कृतसायन्तन-स्नानानुलेपो जनकेन सह कृत-सायाशनः सुखसुप्तो रजनीमनैषीत् ॥१४॥
जनक-जननीभ्यां सह राजितो दीप्तो जनैः सर्वैर् एव निर्मञ्छितः, प्रेम्णेत्य् अर्थः ॥१४॥
परेद्यवि द्यवि चानुदित एव यमुनाजनके जनकेलिकलाकुशलः कृताहारो हारोल्लसद्वक्षाः स एष मिलितेषु सहचरेषु सबलेन बलेन सह पूर्ववत् सकलवत्सकलनया नयाविरोधेन वनान्तरमासाद्य नवशाद्बलतलमालोकयन् क्वचन जलाशयोपकण्ठे ललितानि नवनवाङ्कुरितानि शष्पाणि पानीयसन्निकर्षसुमेदुराणि समालोक्य वत्सकुलं तत्रैव निवेशयामास ॥१५॥
परेद्यवि परदिने, सद्यः परुत् परार्यैषमः परेद्यव्यद्य पूर्वेद्युः इत्यादिना सिद्धम् । छवि आकाशे, यमुना-जनके सूर्ये, सकल-वत्सानां सर्व-सहचर-वत्सानाम्, कलनया सम्मेलनेन ॥१५॥
समनन्तरमनन्तरसः स वत्सपालः पालयिता रराज सकललोकपालानाम्, अनतिदूरे पूतनासहोदरोऽदरोत्तुङ्गाबकशरीरः कंससन्मतो महावीरः कोऽपि दनुतनयो नुतनयोऽखिलदानवगणेन, गणेन इव भगवन्तमनुसन्दधानो दैवगत्यावगत्यायमेव स इति धरणितलमुन्नमयन्निव धरणितलनिहितोत्तरचञ्चुर्दिवमवनमयन्निव द्युतल-विनिवेशितोर्ध्वचञ्चुश्च युगपदेव देव-दनुज-मनुजादि-सकलजीवजीवनाकर्षणाय विततायत-महासन्दंशं विवृत्य स्थित इव कालपुरुषः सकलैरेव भयभरनिर्भरभज्यमान-मानसैरातङ्कपङ्किलैरिव सहचरैरालुलोके ॥१६॥
पालियिता सकल-लोक-पालानाम् इत्य् अनेन तादृश-खेलावेशमयस्यापि तस्य मनसि दुष्टागम-समयलव्ध-स्व-सेवावसरा ऐश्वरी शक्तिर् दुष्ट-संहाराय सहसैव पर्यस्फुरद् इति द्योतितम् । अदरमनल्पम्, नुतः स्तुतो नयो नयो नीतिर् यस्य सः । गणयन्तीति गना गण-कास् तेषाम् इनः, दैवज्ञ-श्रेष्ठ इव गणयित्वा अवगत्येत्य् अर्थः । धरणि-तले निहितो वेध-प्रकारेणार्पित उत्तर-चञ्चुर् अधश्चञ्चुर्येन सः । किम् अर्थम् इव ? धरणीतलम् उत्पाट्य उन्ननयन्निव, ऊर्ध्वं नेतुम् इव । एवं दिवं स्वर्गम् अधो नेतुम् इव, पुनश् च महा-घातुकस्वभावम् आलक्ष्य अन्यथोत्प्रेक्ष्तते—युगपद् एवेति । सन्दंशं साडासी इति ख्यातम् ॥१६॥
आलोक्य च “सखे! नायं पक्षी, अपि तु सकलानेव नो गिलितुमिव कृतारम्भेण गुरुतरदम्भेन केनापि बकाकृतिना दानवेनैव भवितव्यम् । तदितः पलायनमेवास्माकं पथ्यम् । अथवा, कैलासशिखरिशिखरद्राघीयसः शरीरादपि दीर्घदीर्घतराच्चञ्चुपुटादस्य कथं पलायनमपि” इति तेषु मीमांसमानेषु “प्राणसमानेषु प्राणरक्षणार्थं नाशङ्कनीयम्” इति दरहसित-सुधापेशल-सलालित्यमाभाषमाणमकुतोभयमभयदमखिललोकस्य सहेलमभिमुखमुपसर्पन्तं तमखिलभुवनैकबन्धुमनुपधिनिरवधिकरुणैकसिन्धुमव्ययमव्याहत-महाप्रभावमतिसाहसः स पामरोऽमरोपहतिकरः करालतरतुण्डः सहसोपपत्य पश्यत्सु सकलेषु दिवि दिविषत्सु गिलति स्म ॥१७॥
सखे हे श्रीष्ण ! कैलाश-शिखरिणः शिखराद् अपि द्राघीयोऽतिदीर्घं यत् शरीरं तस्माद् अपि दीर्घ-दीर्घतरात् तस्य चञ्चु-पुटात् कथं पलायनम् अपि शक्यम् इत्य् अर्थः । मीमांसमानेषु विचारयत्सु सत्सु वयस्येषु तं श्री-कृष्णं गिलति स्मेत्य् अन्वयः । दर ईषत्, हसित-सुधया पेशलं सुन्दरं सलालित्यं च यथा स्यात् तथा । अमराणां देवानाम् उपहतिम् उपघातं करोतीति सः ॥१७॥
तदनु तदनुपायमपायमिवात्मनां मन्यमानाः सर्व एव सहचराः सह च रामेण हाहेति निगदन्तो गदं तोदमतिमहान्तमापद्यमाना दिवि च दिविचराः “अहो कष्टम्, अहो कष्टम्” इति व्यथमाना मानापहारेण यदा मुह्यन्ति स्म, तदैव ज्वलदनलमिव काकुदं काकुदं दहन्तं क्रमेलक इव प्रमादेन गिलितं नवसहकारपल्लवमिव प्रबलतरगलदण्डाकुञ्चन-प्रसारणविकलः सत्रासपक्षति-विधूननकातरस्तरसा निर्यद्भिः प्राणैरिव बहिर्निःसार्यमाणं तमतिवेगेनैव विवृतगलचञ्चुपुटस्तत्क्षणेनैव ववाम ॥१८॥
तद् अनु तद् अनन्तरं तत् वकासुरेण कृष्णस्य गिलनम्, आत्मनाम् अनुपायम् उपाय-शून्यम् अपायं विपदं मन्यमानाः, गदं व्याधिम्, रोग-व्याधिगदामयाः इत्य् अमरः । कीदृशं तोदम् ? व्यथाकरम्, मानापहारेण चेतनापहारेण, मन् ज्ञाने घञन्तः । तदैव तं श्री-कृष्णं काकुदं शोकभीत्यादिमय-विकारप्रदम्, कुतः ? ज्वलन्तम् अनलम् इव, काकुदं तालु दहन्तं तत् क्षणेनैव ववामेत्य् अन्वयः, तालु तु काकुदम् इत्य् अमरः । क्रमेलक उष्ट्रः, सहकार आम्रः, प्रवलतरं यथा स्यात् तथा, गलदण्डस्याकुञ्चनं रोधपीडानुभवेन सङ्कुचितीकरणं प्रसारणम् उद्वमनार्थं विस्तृती-करणं ताभ्यां व्याकुलः, पक्षती पक्षौ तयोर् विधूननम् इति वैयग्र्य-लक्षणं निर्यद्भिर् निर्गच्छद्भिः ॥१८॥
तेनोद्गीर्ण एव विधुन्तुद-वदनतो निष्क्रान्तश्चन्द्र इव, घनतरघनघटाकोटरतो बहिर्गतः किरणमालीव, गिरिवरगुहाकुहरतो विनिष्क्रान्तः कण्ठीरवशावक इव, दन्तुरतमतमःसमूह-समूढसंसारकूपतो निर्मुक्तः स्वभक्तजन इव, तद्गलगलित-क्लेदलवाक्लिन्नवसनभूषणतया शोभातिशयमेव बिभ्राणो “न भेतव्यम्” इति मधुरतर-सप्रणयकलस्वरमखिलसखिजनान् मूर्च्छतो विरमय्य, पुनराक्रोशेन चञ्चुपुटविघट्टनया निष्कोषयितुमापततः पततस्तस्य वामकरकमलकुड्मलेनोर्ध्वचञ्चुदलं दक्षिणकरकमलकोशेनाधरचञ्चुदलमवधृत्य सहचर-बालकानां दुःखशोकाभ्यां सह, सन्तापभरनमदमरनिकरान्तःकरणानां भयेन सहप्रबलतरदनुजदैतेय-परिषदां हर्षोत्कर्षेण सह, सहसैव हसन्मुखकमलो हेलयैव वीरणतृणस्येव विदारणं विधाय निरर्गलगलदसृग्धारा-धौतधरणितलमभितोऽभितश्छिद्यमाननाडीनालमविरलमेदःश्रुति वपुषः शकलद्वयं गिरिशिखरद्वयद्वयसं पातयामास ॥१९॥
चन्द्र इवेति वयस्यान् प्रति व्यथाशोक-विस्मारणार्थं स्वमाधुर्य-ज्ञापनया किरणम् आलीवेति, असुरान् प्रति त्रासनार्थं दुःसहोग्र-स्व-प्रताप-व्यञ्जनया, गिरिवरेति-कण्टीरवेत्याभ्यां देवान् प्रति शङ्का-निरासार्थं स्व-व्यथा-भाव-सूचनया, प्रत्युत क्रीडा-सुखास्पदत्व-वोधनया च । स्व-भक्त-जन इवेति वैकुण्ठगत-साधन-सिद्ध-पार्षदान् प्रति तत् तत्-पूर्वानुभवस्मारणार्थं तथाकार-मात्र-दृष्ट्यापि कौतुक-भरेण सादृश्य-सम्भावनया उत्प्रेक्षा इति क्लेदलवैराक्लिन्नानि वसन-भूषणानि यस्य, तथा-भूतयेति ग्रस्त मुक्ते चन्द्रे पाटल-वर्ण-लेशो राहु-चिह्न-विशेषः शोभैव, मेघ-मुक्ते किरणमालिनि मेघ-खण्ड-लेश-सम्पर्को दुःसहतेजस्त्व-प्रति-पादक एव दुर्दिनोत्थिते सूर्ये लोके तथानुभवात् । गिरि-गुहा-कुहर-निष्क्रान्ते कण्ठीरवेऽपि तदीयगैरिकादि-चिह्न-लेशः खेला-कौतुकद्योतक एव, संसार-निर्मुक्ते भक्त-जनेऽपि सिद्ध-दशा-प्रथमक्षणे7 वाधितानुवृत्तिन्यायेन, स्वप्न-भङ्गे सति स्वप्नानर्थानु-सन्धानशेष इव विषय-सुखानुभवशेषो विस्मयावह एवेति चतुर्ष्वपि साधर्म्य-कल्पनं द्योतितम् इति । विघट्टनया चालनेन, निष्कोषयितुं ठोत्कारेण अर्दयितुम्, आपतत आगच्छतः पततः पक्षिणः, पतत्-पत्र-रथाण्डजाः इत्य् अमरः, निरर्गलं निर्निवारं गलन्त्या असृग्धारया धौतं धरणितलं यत्र तथा-भूतं यथा स्यात् तथा, अविरला मेदसां स्रुतिः स्रावो यत्र तद् यथा स्यात् । शकलद्व्ययं खण्डद्वयं गिरिशिखरद्वय-प्रमाणम्, प्रामाणार्थे द्वयसच् प्रत्ययः ॥१९॥
पततोश्च तयोः शकलयोः पतति स्म मदमुदितविबुधघटाघनवृष्यमाणनन्दनवनकुसुमसंहतिरपि दिवो हर्षभरजनित-नयनसकज्जल-जलबिन्दुभिरिव देवद्रुमविलासिभिरलिभिः समम्, समन्ततश्च गन्धर्व-किन्नर-युवतयो बत योजितहर्षं ननृतुरभितोऽभितश्च दुन्दुभयोऽभयोदीरिता नेदुरतिसुमहदाश्चर्यं तदिति मन्वाना मन्वानायिता मुनयोऽपि तुष्टुवुः ॥२०॥
तयोः पततोः सतोः, पतति स्म, अपतत् । नयन-सकज्जलेति दिवो नायिकात्वम् आरोपितम्, बत विस्मये, योजित-हर्षं यथा स्यात् तथा, अभयम् असुरादिभ्यो निःशङ्कत्वम्, तेन उदीरिताः । मनुना वैवस्वतेन, आनायिता स्वजन-द्वारा तत्र प्रापिता इत्य् अर्थः ॥२०॥
इह च सहचराः प्रमोदभरभज्यमानहृदया हृदयाधिनाथं तमेकैकशो बकरिपुं करिपुङ्गवगामिनमालिङ्ग्य लब्धजीविता इव, विलोक्य दिवसावसानमशेषमपि दिनान्तरवत् समवहार्य वत्सकदम्बकं कदम्बकन्दुकललिततर-करकमलेन तेन प्रियसखेन सकलसौभगवता भगवता समं भवनमागत्य गत्यवसादासादित-मान्थर्य-माधुर्यधुर्यमुत्कण्ठा-कण्ठाग्रीक्रियमाणमिव तदेव बकहननं व्रजपुरपरमेश्वर्यै कथयाम्बभूवुः ॥२१॥
गत्यवसादेन अत्यौत्सुक्याद् अतिशीघ्रगमन-श्रमेण हेतुना आसादितं मान्थर्यम्, अतिश्वास-भूम्ना एक-प्रयत्नेन उच्चारणासामर्थ्यं तेन यन्माधुर्यं तस्य धुर्यं यथा स्यात् तथा कथयाञ्चक्रुः, धूर्वहे धुर्य-धौरेयधुरीणाः इत्य् अमरः, वकस्य वकासुरस्य हननं हननवृत्तान्तम् । कीदृशम् ? उत्कण्ठया कण्ठाग्रीक्रियमाणम् इवेति समासो यमकानुरोधेन कृतः ॥२१॥
** “मातः! परं मातः परं कौतुकम्, कौतुकं न विस्मापयति तत्, यदद्य सख्या स ख्यापितभुजपराक्रमः पराक्रमः कृतः” ॥२२॥**
हे मातः ! अतः परं कौतुकं मा न सम्भवेद् इत्य् अर्थः । तत् कौतुकम्, कौ पृथिव्यां तु कम् ? अपि तु सर्वम् एव जनम् । सख्या श्री-कृष्णेन, सोऽद्यास्मद्-दृश्यत्वेन प्र्सिद्धः, परस्य शत्रोर् आक्रमः, सखि-कर्तृकस् तस्य पराभव इत्य् अर्थः । कीदृशः ? ख्यापितो भुजस्य पराक्रमो यस्मात् सः ॥२२॥
तथा हि—
“निजमदपर्वतायमानं पर्वतायमानं सर्वानेव नो गिलितुमुद्यतं मुद्यतं ज्वलन्तमिव पावकं बकं तीक्ष्णचञ्चुं चञ्चूर्यमाणं करसरोजाभ्यामाभ्यामाहितहेलं हेऽलं सुकृतिनि! तव कुसुमसुकुमारः कुमारः सपदि वीरणतृणमिव पाटयामास” ॥२३॥
निजमदेन यत् पर्व उत्सवस् तेन तायमानं विस्तीर्यमाणं गिलितुम् उद्यतं कृतोद्यमं मुद्यतं मुद्भ्य आनन्देभ्यो यतम् उपरतम, आसन्नमृत्युत्वात् । चञ्चुर्यमाणं कुटिलगामिनम्, [पा ७-४-८८] उत्परस्यातः [पा पु ७-४-८७] चरफलोश् च इत्य् उन्नुगागमौ । करसरोजाभ्याम् आभ्याम् इति कृष्ण-हस्तौ स्वतर्जन्या स्पृष्ट्वा दर्शयन्ति, आहित-हेलं यथा स्यात्, इति आयासाभाव-सूचनम् । हे अलम् अतिशयं सुकृतिनि ! तवैव सुकृतवशाद् एव तादृशवलवद्-दुष्टवधे अस्य भुजयोर् वलम् उदयते, अन्यदा तु क्रीडा-बाहु-युद्धे अस्माभिर् अपि कतिवारं पराजितस्यास्य कुतस् तथा स्वतो वल-सम्भावनेति भावः । सुकृतिनीत्यस्य सम्बोधन-पदस्यैतन्मातृभिर् एवं विविध8विपत्तौ व्रजेश्वर्यां बहुधा प्रयुक्तस्य बाल-स्वभावाद्-यथाश्रुत-धारणया अनुकथनरीत्या एभिर् अपि प्रयोगः कृत इति ज्ञेयम् ॥२३॥
इति वत्सपालक-बालककलवचनमाश्रुत्य श्रुत्यतिकौतुकप्रदमपि भयदमुभयदशायामेव विस्मय-स्मयजनकमथ पुरपुरन्ध्रीभिः सह सहसा व्रजेश्वरी किमपि कथयितुमारेभे ॥
कुशलिनः पुत्रस्याद्भुत-चरित्रम् इति श्रुत्येर् अति-कौतुक-प्रदम्, गिलितुकामस्य महावकस्य वधः पुत्र-कतृक इति भयदम्, युगपद् एव उभय-दशाया कौतुक-दशायां भयदशायां च विस्मयेन स्मयो मन्दक्-हास्यं तस्य जनकम् । तथा-विध-चरित्रत्वेऽपि पुत्रस्य कुशलित्व-दर्शनम् इति कौतुक-दशायां विस्मयः, विस्मयोऽद्भुतम् आश्चर्यम् इत्य् अमरः । तादृश-वकस्य कोमलाङ्ग-शिशुनापि विदारणम् इति भयदशायां च विस्मय इति ॥
**
“हंहो—** यदर्थमजहामहं बत महावनाऽअस्थितिं **तदेतदतिभीतिदं दितिजकृत्यमुन्मीलति । ** **अयं परमचञ्चलः परमसाहसोऽसाध्वसः ** क्व यामि करवाणि किं हतविधेर्न वेद्मीहितम्” ॥२४॥
अजहां त्यक्तवत्य् अस्मि, अयं मत्-पुत्रः ॥२४॥
इति क्षणमनुचिन्त्य दिनान्तरवद्बालकान् स्वालयान् विसृज्य तनयस्य समयोचिताभ्यञ्जनोद्वर्तनादि कारयित्वा प्रणयव्यवसाया सायाशनमाशयित्वा “तात! गृह एव भवता स्थीयताम्, नातः परं वनान्तरे गन्तव्यम्, वत्स! वत्सरक्षणक्षणस्ते विरमतु, वत्सरक्षणे बहवः सन्ति, किं तवामुनायासेन” इति जननी-जननीतिकरवचनमाकर्ण्य “मातर्मा तव भयं किमपि, सर्वेऽमी मृषेव वदन्ति, तदलं चिन्तया” इति निद्रामभिनयति सति लीलाबालके भगवति जननी च तमतिपरार्धशयनतले सलालनमसूषुपत् ॥२५॥
प्रणये व्यवसायो यस्याः सा, सायाशनं सायं काले अशनं भोजनं यस्य तत्, पानक-शङ्कुली-लड्डुकादि । जननीतिकर इति वचन-विशेषणम्, अतिपरार्धे परार्धमूल्यम्प्य् अतिक्रान्ते शय्यातले । असूषुपत् स्वापयामास ॥२५॥
एवं-लीलालस्य लस्यमानचरितस्य तस्य नित्यसलीलताकल्पलताकल्पभूतमेतत् शैशवादि विवादि विरुध्यते यदपि मूर्तानन्दत्वेन नित्यकिशोरतयाविकारित्वात्, ताथपि तथा पिहितपरमैश्वर्यस्य हितपरमैश्वर्य-स्यद-ललितं तस्य तल्लीलायितम्, येन स्वस्ववासनावासनानाविधभक्तानुग्रहपरवशतया सच्चिदानन्दघने नित्यकैशोर एव सकलभावपुषि वपुषि तथा तथाप्रकाशः, न तु सावस्था कालिकी, किन्त्वचिन्त्यवैभवत्वे वै भवत्वे तदेव सकलं बाल्याद्यपि निस्तर्कनित्यमेव । एवं निर्व्यलीकमुरलीकलमुरलीकुर्वन् कलगानगानवद्यत्वेन वैणविकत्वेन व्रजपुरपुरन्ध्रीणां विस्मयमाततान ॥२६॥
आगत्य च तास्तस्य सन्निधिम्—
हे कृष्ण मातृकुचचूचुकचूषणेऽपि, नालं यदेतदधरोष्ठपुटं तवासीत् ।
तेनाद्य ते कतिपयेषु दिनेष्वकस्मात्, कस्माद्गुरोरधिगतः कलवेणुपाठः ॥
एवं शेष-कौमारम् उपसेदुषः श्री-कृष्णस्याकस्माद् आविर्भूतं वेणुगानाभ्यास-वनमालादि-प्रसाधनैर् माधुर्यस्याति-वैलक्षण्यं वर्णयिष्यन् प्रसङ्गान्नित्य-कैशोरेऽपि तस्मिन् बाल्य-पौगण्ड-लीलयोर् आविर्भाव-तिरोभाववत्येर् अपि नित्य-स्थितिपरिपाती-प्रकारम् उपशिक्षयति-एवम् इति । एवं लीला लाति गृह्नाति तस्य, इत्य् अनेनावर्णितान्यपि लीलान्तराणि सूचितानि । नित्य-सलीलता नित्य-लीलावत्त्वं सैव कल्पलता कल्प-वल्ली तत् तद् अनुरक्त-विविध-भक्तवाञ्चितपूरणात्, तत्कल्पभूतं शैशवादि तत्तन्नित्य-लीलामयं वेत्य् अर्थः । आदि-शब्दात् पौगण्डं च, यद् अपि यद्य् अपि, विरुध्यत इति बाल्य-कैशरयोः परस्पर-विरुद्ध-स्वभावत्वात् । ननु जानुचङ्क्रमणादि निकुञ्ज-विहाराद्योर् बाल्य-कैशोर-लीलयोर् युगपद् एव श्री-कृष्णे धर्मिणि विरोधः, काल-भेद-व्यवस्थया तु कुतुस् तयोर् विरोधः ? तत्राह—नित्य-कौशोरतयेति । ननु यद्येवं तर्हि जन्मारभ्य प्राकृत-बालकस्येवास्य कथं तथा तथा विकारित्व-प्रतीतिः ? तत्राह—अपिहितम् आच्छादितं परमैश्वर्यं स्वयं-भगवत्त्वेन महाषडैश्वर्यं यस्य, तद् इच्छावशाल्लीलाशक्त्यैवेत्य् अर्थः । तस्य श्री-कृष्णस्य तेन नित्य-भूतं षडैश्वर्यम् इव नित्य-किशोरत्व-स्वरूपम् अपि तदानीं तयैव बाल्य-लीलारस-पुष्ट्यर्थम् आच्छादितं तिष्ठतीत्य् अर्थः । ननु कथम् एवम् उच्यते, पूतना दिव9धविश्व-रूप-दर्शन-बन्धनदाम-द्व्यङ्गुल-न्यूनत्वापादक-विचित्रैश्वर्य-सम्बलितत्वेनैव तत् तद्-बाल्य-लीलाया अपि दृष्टत्वाद् इत्यत आह—हितं विस्मयानिष्ट-शङ्कादिभिर् वात्सल्य-रसस्य पोषकम्, न तु तद्-विघातकं यत् परमैश्वर्यं तस्य स्यदेन वेगेन ललितं प्राप्त-शोभं तत् प्रसिद्धं तस्य तथा-लीलायितं येन नित्य-कैशोरे एव वपुषि तथा तथा बाल्यादि-प्रकाशः । कीदृशे ? सकलान् वात्सल्य-सख्य-मधुरादीन् सर्वान् एव भावान् पुष्णातीति तस्मिन्, तेन बालादिवपुषस्10 तादृशत्वाभावात् तत्-प्रकाशत्वम् एव । तथोक्तं श्री-भक्ति-रसामृत-सिन्धौ [२-१-६३] वयसो विविधत्वेऽपि सर्व-भक्तिरसाश्रयः । धर्मी किशोर एवात्र नित्य्-नाना-विलासवान् इति । प्रकाशे को हेतुः ? तत्राह—स्व-स्व-वासनासु वात्सल्यादि-भाव-मात्रमयीषु वासो नैश्चल्यं येषाम्, तथा-भूता ये नानाविध-भक्तास् तेषाम् अनुग्रहाधीनतया तेनानादि-सिद्ध-वेदागमादि-प्रसिद्ध-तत् तद् उपासना-परम्परा-प्रबाहाद् एव तत् तद्ल् लीलाया नित्यत्वं सूचितम् । अतएव नित्य-स्थितस्यैव बाल्यादेः प्रकाश एव, न तु सा कालिकी कालकृता । ननु स्व-स्वोचित-काल एव तस्यास् तस्या अवस्थाया जन्यत्वेनैव प्रतीतेः कथं कालिकत्व-खण्डनम् ? प्रतीतिर् अवास्तवीति चेत्, प्रतीतिमयान्येव सर्वाणि तानि तानि लीलायितानीति तेषाम् अपि अवास्तवत्व-प्रसक्तिर् इत्य् आशङ्याह—किन्त्विति । न चिन्त्यं चिन्तयितुं शक्यं वैभवं यस्य तस्य भावस् तत्त्वे सति, तस्याचिन्त्यशक्तिमत्त्वस्वीकारे सतीत्य् अर्थः । वै निश्चितम्, निस्तर्केति अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् । प्रकृतिभ्यः परं यत् तु तद् अचिन्त्यस्य लक्षणम् इति तत्र तर्क-योजनस्य निषिद्धत्वाद् इति । निर्व्यलीकं प्रियम्, व्यलीकम् अप्रियाकार्य-वैलक्ष्येष्वपि दृश्यते इति विश्वः । कलगानगं मधुरास्फुट-गान-प्रापकम्, अनवद्यत्वं प्रसंसार्हत्वम्, तेन वैणविकत्वेन वेणु-वादन-शीलत्वेन ॥
निर्मञ्छनं तव नयामि मुखस्य तात, वेणुं पुनर्ललन वादय वादयेति । ऊचूर्यदा स्वजननीजनकोपकण्ठे, तं वादयन्नथ तदा सरसीकरोति ॥२७॥
हे ललन ! हे लालनीयेत्य् अर्थः । तं वेणुं सरसी-करोति ॥२७॥
तमालवर्णं तमालवर्णं वाङ्मनसावसानं वसानं च वसनं केशरपरागभरपिञ्जर-तमालिनमिव वनमालिनमिव वनकुञ्जरशावकं बकवैरिणमालोकयितुमहरहरेव नमसि भसितधारिणा देवेन सह सह कमलजनिना च सुरनगरनागराः समुपसीदन्ति ॥२८॥
तं श्री-कृष्णम्, आल-वर्णं हरिताल-वर्णं वसानं परिदधतम्, तालमालं च हरितालके इत्य् अमरः । पुनः कीदृशम् ? वाङ्-मनसयोश् चिन्तन-वर्णनाभ्याम् अवसानं सीमा यस्मिंस् तम्, वनमालिनम्, [श्री-राधा-कृष्ण-गणोद्देश-दीपिकायां परिशिष्टे १३२] पत्र-पुष्पमयी माला वन-माला पदावधिः इति विवक्षित-लक्षणम् आलायुक्तम् । वन-कुञ्जर-शावकम् इवेति—इवेत्य् अस्य प्राग्भावो यमकानुरोधेन, इवेन सह नित्य-समास-वचनम्, इत्य् अस्य प्रायिकत्वात् । अहरहः प्रतिदिनम् एव, भसितं भस्म, तद्धारिणा शम्भुना, कमल-योनिना ब्रह्मणा, गमने अनयोर् अप्राधान्यं पुरातन-पुरुषत्वेन गाम्भीर्याद्-दर्शनौत्सुक्यस्याल्पाविष्कारात् । सुर-नगरस्य नागरा इन्द्रादयः ॥२८॥
एवं स्थिते कस्मिन्नप्यहनि अनुदित एवाहस्करे पुष्करेक्षणो जननीमुवाच—“मातरद्य निरवद्यविपिनभोजने भो जनेश्वरि! विहितलालसोऽस्मि, तदद्यात्र नाशनीयम्, नाशनीयं च न मे वचनमिदं शुभवत्या भवत्या इति” तनयोदितमनयोदितमवगम्य व्रजराजवधूर्जवधूयमान-वदनं “न न न न” इति यदा निजगाद, तदा पुनरपि सनिर्बन्धं लीलाबालकोऽलकोल्लसद्भालो भालोकविघटिततमा विघटिततमामात्मनो लालसामालोक्य तद्घटनसदृशपथेन शपथेन मुहुरनुनाथ्य तदनुमोदनं कारयामास ॥२९॥
जनेश्वरीति अन्यलोक-कृतस्तुति-सम्बोधन-पदानुवादेन स्वाभीप्सिते तत्र सम्मति-प्रार्थना द्योत्यते । अत्र गृहे न अशनीयं न भोक्तव्यम्, प्रत्याख्यास्यमानां मातरम् आशङ्क्याह—इदं वचनं मम भवत्या न नाशनीयं न ह्येवम् इति प्रत्युत्तरं न दातव्यम् इत्य् अर्थः । शुभवत्येति—अत्र शुभकार्ये वाधा तवानुचितेति भावः । तनयस्य उदितं वाक्यम्, अनयस्य उदितम् उदयो यत्र तथा-भूतम्, जवेन वेगेन धूयमानं वदनं यथा भवत्येवम् । भाभिर् अङ्ग-कान्तिभिर् आलोकेन दृष्ट्या च विघटितं दूरीकृतं तमो ध्वान्तम् अज्ञानं च अन्यदीयं येन तथा-भूतोऽपि निजक्षुत्क्षामताशङ्कोदितवैयग्र्याया मातुर् अग्रे तथा-भूतत्वएनैश्वर्य-प्रकाशस्याप्यकिञ्चित्-करत्वम् इति भावः । आलोक्यावगम्य, शपथेन कीदृशेन ? तद्घटनस्य स्वाभीष्ट-प्राप्तेः सदृशः पन्था यतस् तेन । मातर् ममैव शपथो यद्येतत् त्वं नानुमन्यसे, तथा तवैव शपथो यद्य् अहं गृहे प्रातर् भुञ्जे इत्य् एवं लक्षणेन मुहुर् अनुनाथ्य पुनः पुनः प्रार्थ्य तस्या अनुमोदनं कारयामास । वत्स हटिल ! यथाभिरोचते तुभ्यम् इति वाचयामासेत्य् अर्थः । एतच् च तद्वैयग्र्यशमनार्थं तदानीं तद्-दत्त-पक्वान्नादिकं भुक्त्विवेति ज्ञेयम् ॥२९॥
तदनु देवेन बलदेवेन बलपूरितशृङ्गध्वनिनाध्वनि नाहितविलम्बं निजनिजान्मनागारादागारादागतेषु सहचरेषु “देहि नो जननि! जन-निकाममदनीयमदनीयम्” इति नाथति नाथतिलके त्रिभुवनस्य वनस्य योग्यानि भोज्यानि ज्यानिविहीनानि, दधिमहोदधिमहोद्भटपङ्कपिण्डानीव दधीनि, पीयूषकिरणपललानीव ललितानि नवनीतानि, क्षीरनीरधिहिण्डीरा इव मांसलाः पयःसराः, नयनामोदघटकाः पर्पटका वटकाश्च सुरस-सुरभि-बहमूल्याः शङ्कुल्यादयश्च, स्त्यान-तुहिनशकलानीव आमिक्षाखण्डानि, देवानामपि नयनामोदकानि मोदकानि, पूर्णिमाचन्द्रमण्डला इव सुरूपाः पूपाः, अगलत्करका इव सितोपला-शकलनिकराः, अतिसुरभि-मेध्यमोदनानि दध्योदनानि, जनितसुधामाधुर्यवेपथुका घनसारसुरभिपयः-सिक्ताःपृथुकाः, आवर्तितकौमुदीसारसम्पन्नानि परमान्नानि, सुरस-सुरभीणि सन्धानफलानि, सकलान्येव मातृवात्सल्यानीव अपरिमितानि, उपादेयानि पेयानि, मनसाप्यनूह्यानि लेह्यानि, नयनसुखानुपूर्व्याणि चर्व्याणि, केनापि कथञ्चिदप्यदूष्याणि चूष्याणि, एवं चतुर्विधान्यपि विविधानि,
मातृरचितान्यपि न मातृपरिचितानि, अनेकवाह्यान्यपि न वाह्यानि, हितान्यपि न हि तानि क्वापि सुलभानि, तानि विलोकयतायतानन्देन तेन सहचराः समूचिरे—“रे सखायः! काननभोजनार्थमेतानि समादध्वं मादध्वंसेन” इति सप्रणयमुक्ता मुक्ताभिमानतया नतया मनोवृत्त्या सर्व एव ते बतेमानि सकलान्येव ग्रहीतुकामाः, कामार्बुदार्बुदाधानकारि-सौरूप्येण तेन पुनरूचिरे—“अचिरेण भो अध्यात्मविदां मनांसीव नीरसतया कठिनप्रायाण्येव गृह्नीत, यानि वत्सानुपदं धावत्सु भवत्सु न गलन्ति” इति तथैव तेषु स्व-स्वसमुचितमेव विभज्य गृह्यमाणानि तानि प्रभूतान्यपि स्तोकप्रमाणान्येव बभूवुरपरिमितत्वात्तेषाम् । तदवलोक्य भगवज्जननी पुनरन्यान्यपि तानि तानि हसन्ती समुपसादयामास ॥३०॥
तं श्री-कृष्णम्, अनु लक्षीकृत्य दीव्यति क्रीडतीति तेन बलेन उच्चैः कृत्वा पूरितः शृङ्गे धनिर् येन तेन, अध्वनि गोचारणार्थ-वन-प्रयाणवर्त्मनि न आहितो विलम्बो यत्र तथा-भूतं यथा स्यात् तथा । मनाक् सकृद् एव आरात् समीपम् आगतेषु निज-निजादागारात् गृहात्, विद्यादगारम् आगारम् इति द्विरूप-कोषः, सकृद् अर्थे मनाक् इत्य् अमरटीकायां भरतेन । नोऽस्मभ्यं जनानां निकामं मदनीयं हर्षो यत्र तत्, मदी हऋषे भावे अनीयः । अदनीयं भक्षण-योग्यं वस्तु नाथति याचमाने सति । ज्यानिर्जरा, तया विहीनानि नवोद्भवानीत्य् अर्थः । पीयुष-किरणस्य चन्द्रस्य पललानि मांसानि शैत्य्साधुत्व शुभ्रताभिः, मांसलाः पुष्टाः, पर्पटकाः पापड इति ख्याताः, शष्कुली गूझा इति ख्याता, स्त्यानानि पुञ्जितानि हिम-खण्डानीव, आमिक्षा सा शृतोष्णे या क्षीरे स्याद्-दधियोगतः इत्य् अमरः । चन्द्र-मण्डला इवेति सिताघटितत्वेन शुभ्रतयापि, करका वर्षोपला, सितोपला मिश्री इति ख्याता । मेध्यानि पवित्राणि, मोदनानि हर्षकाणि, वेपथुः कम्पः, घनसारः कर्पूरः, आवर्तितानां पाकेन घनी-कृतानाम्, कौमुदीनाम् इव सारेण सम्पन्नानि सन्धान-फलापि तैलादि-संहिताम्र11 जम्वीरादीनि । उप आधिक्येनादेयानि ग्रहीतुं योग्यानि, अनूयानि तर्कयितुम् अप्य् अशक्यानि, अपूर्वस्वादानुभवाद् इत्य् अर्थः । विविधानि तत् तद्-भेदेन । न मातृभिः परिमाण-कर्तृभिः परिचितानि । परिचय एव नास्ति, कुतस् तद्गणनेति भावः । न बाह्यानि, न हेयानित्य् अर्थः । न हि नैवेत्य् अर्थे । विलोकयता पश्यता, आयत आनन्दो यस्य तेन शृइ-कृष्णेन समादध्वं यूयं गृह्नीत, मादध्वंसेन अहङ्कारत्यागेन । कामार्वुदस्यापि अर्वुदो व्रण-भेदस् तस्य आधानकारि सौरूप्यं यस्य तेन, अर्वुदो मांसकीले स्याद्-दश-कोटिषु चार्वुदम् इति विश्वः । अध्यात्मविदाम् अपि तादृशान्य् अपि मनांसि एतल् लीला-माधुर्य-बालाद् आकृष्य गृह्नीतेति सरस्वत्या भङ्गी च ज्ञेया ॥३०॥
तदनु तान्यपि समुचितं विभज्य निजनिज-चित्रतरविहङ्गिका-सङ्गि-शिक्येषु समुचित-भाजनस्थानि विधाय चलनसुसज्जेषु तेषु स्वयमपि भगवज्जननी विरचित-समुचित-वेशभूषं भगवन्तं वेणु-वनमालादिभिः पुनरपि विशिष्य भूषयित्वा स्नेहस्नुतपयोधरपयः-कणनिकर-क्लिन्नकञ्चुकाग्रपरिसरा कियद्दूरमनुव्रजन्ती सह पुरन्ध्रीभिरग्रे चालितानामपरिमितानां कृष्णवत्सानां तथा तदनुचरगणस्यापि प्रतिजनमनेकेषां वत्सानां परस्तादग्रे चलतः केनापि हेतुना गृहस्थितिकुतूहलिनि हलिनि केवलस्य स्वतनयस्य पश्चाच्चलतां च तेषामनुचराणां च रामणीयकमतिलोकोत्तरमाकलयाञ्चकार ॥
बिहङ्गिका बाहूका12 इति ख्याता, प्रतिजनम्, एकैकस्य जनस्येत्य् अर्थः । वत्सानां परस्तात् पश्चाद् अग्रे, प्रथमं केनापि हेतुनेति शृङ्गम् आपूर्य गन्तम् उद्यतेऽपि तस्मिन् तदैव मिलित-दैवज्ञ-जन-प्रोक्ततद्दिवसीय-नक्षत्र-ग्रहादि-शान्तिक-मङ्गलाभिषेकार्थं जनन्यैव ततो निवारिते सतीति ज्ञेयम् । कुतूहलिनीति तस्य च बहुगोष्वर्णादिदान-प्रियत्वात् ॥
यथा—
**वेणुं वामे करकिशलये दक्षिणे चारुयष्टिं, कक्षे वेत्रं दलविरचितं शृङ्गमत्यद्भुतं च । ** बर्होत्तंसं चिकुरनिकरे वल्गुकण्ठोपकण्ठे, गुञ्जाहारं कुवलययुगं कर्णयोश्चारु बिभ्रत् ॥
कुवल-युगम् इति—कुण्डलस्य पीतिम्ना अस्य च नीलिम्ना शोभाधिक्यात् ॥
किञ्च—
सद्रत्नालङ्करणनिकरेष्वादधानोऽवहेलां, वन्याकल्पे विरचितरुचिर्वत्सपालानुकृत्या । धावन्नग्रे व्रजशिशुगणस्योल्लसद्वैजयन्तीमालः श्रीरञ्जितलसदुरोभित्तिराभाति कृष्णः ॥
श्रीः कनक-रेखाकारा ॥
**अंसे चारविहङ्गिकाग्रविलसच्छिक्यस्थ-भाण्डौदना ** **कक्षे वेणु-विषाण-पत्रमुरली-शृङ्गाणि यष्टिः करे । गुञ्जोत्तंसमयूरपिच्छरचना मौलौ गले गौञ्जिको ** हारः श्रोणितटे घटीति मधुरो वेशः शिशूनां बभौ ॥
अंसे वामस्कन्धे, चार्वी विहङ्गिका, कीदृशी ? अग्रे विलसतोर् विराजमानयोः शिक्ययोस् तिष्ठत्सु भाण्डेषु ओदनानि यस्याम् । ओदनेति सर्व-भक्ष्य-वस्तूनाम् उपलक्षणम् ॥
**केयूरे वलयानि किङ्किणिघटा हारावली कुण्डले ** **मञ्जीरौ मणितुन्दबन्धलतिका यद्यप्यमीषां बभुः । ** **नासीत्तत्र तथापि मातृरचिताकल्पेषु तेषां ग्रहः ** कामं वत्सक-रक्षणोचितवनाकल्पे यथा लालसाः ॥३१॥
केयूरे अङ्गदे ॥३१॥
एवमतिकौतुकाकृष्टमनाः साचि सा चिरतरमालोकयन्ती खेलाकुतूहलेन दूरतरं गतेषु तेषु शनकैर्भवनमुपजगाम व्रजराजमहिषी ॥३२॥
तेषु कृष्णादिषु ॥३२॥
एवं वत्सानग्रे चालयित्वा चलति भगवति तदनुपमकुतूहलविलोकनाय परमस्थविरतमस्य सकललोकपितामहस्यापि ता महस्यापि कतमा वृत्तयो बभूवुः । परमात्मारामस्यापि नीलकण्ठस्य नीलकण्ठस्यद इव मुदिरविलोकनमुदि, रविलोकन इव कमलाकरस्य, समुत्कण्ठाभरस्तथैव समपद्यत, यथा नभसि निर्निमेषतया चित्रलिखिताविव तावास्ताम्, किं पुनः कुतुकलम्पटाः शतमखमुखाः ॥३३॥
सकलानां लोकानां पितामहस्य ब्रह्मणोऽपि ताः प्रसिद्धा महस्य उत्सवस्य अपि निश्चितं कतमा वृत्तयो बभूवुः । नील-कण्ठस्य रुद्रस्य सम्यग् उत्कण्ठाभवः समपद्यत । कीदृशः ? मुदिरस्य मेघस्य विलोकनमुदि दर्शनानने सती नील-कण्ठस्य मयुरस्य स्यद इव नृत्यादिवेग इव । रवीति—तेन विना तस्य स्वरूपस्याप्य् अनुपलम्ब इति विवक्षया ॥३३॥
एवं सति भगवति पुरोगामिनि तत्संस्पर्शनपणपणितमतयोऽहम्पूर्विकया कयापि धावन्तोऽनुचराः परस्परं मयैवाग्रतोऽयं स्पृष्ट इति विवदमानाः परस्परजिगीषया श्रीकृष्णमेव साक्षित्वेन यद्यवृण्वत, तदा हसित-सुधास्नपित-दशन-वसनं दशनमयूखमञ्जरीभिरभितो बलक्षयन् लक्षयन्नथ सकलसहचरमुखं “किं वः पौर्वापर्यं पर्यङ्कनीयम्, युगपदेव पदे वर्तमाना मां प्रापुर्भवन्तः” इति निजगाद ॥३४॥
हसित-सुधया स्नपिते स्नानं कारिते दशन-वसने औष्ठाधरौ यथा तथा निजगाद । वलक्षयन्, धवलीकुर्वन् लक्षयन् पश्यन्, पदे स्थाने ॥३४॥
तदनु दनुजदमने दमनेयमनसां मनसां दुर्लभे वत्सानुपदं चलति चलतिमिरकडम्ब इव कौमुदीकदम्बानुवर्तिनि परस्परं तेषामजनि खेलापरिमलः ॥
दनुज-दमने चलति सति खेलापरिमलस् तेषाम् अजनि । कीदृशे ? दमेन इन्द्रिय-निग्रहेण नेयानि वश्यानि मनांसि येषां तेषां महा-मुनीनाम् इत्य् अर्थः । वश्यस् तु नेयः इत्य् अमरः । मनसां दुर्लभे चञ्चल-तिमिराङ्कुरे इव ॥
केचित् कस्य हरन्ति शिक्यमपरे मुञ्चन्ति केषां करा **दन्ये तत् प्रतिपादयन्ति च ततः सङ्कृष्य तत्स्वामिने । ** **अप्यन्ये परिवर्तयन्ति चकितं भक्ष्येण भक्ष्यं निजं ** दृष्टे तेन पुनर्ददत्यपि लसधासं विलासालसाः ॥
कस्य कस्यचिद् इत्य् अर्थः । ततो मुष्णद्भ्यः सङ्कृष्य सम्यगाच्छिद्येत्य् अर्थः । तेन भक्ष्य-स्वामिना दृष्टे सति ॥
किञ्च—
कश्चित् कस्य च यष्टिकामपहरत्यन्यस्य वेणुं परः । **शृङ्गं कस्य च कोऽपि कस्य च परो गुञ्जास्रजं कण्ठत्तः । ** तस्मात् कोऽपि ततश्च कश्चन ततः कोऽपीति चौर्योत्सवे दृष्टे तत्क्षणतः स एव लभते तद्यस्य यत् स्यान्निजम् ॥३५॥
एवं खेलन्तः कियद्वरं गत्वा नवतृणाङ्कुरनिकुरम्बसमास्वादादतितृप्तिमासाद्य क्षणं विश्रान्तेषु वत्सनिकरेषु क्वचन रुचिरतरतरुतले निजनिजविहङ्गिकादि-सकल-सामग्रीर्निधाय श्रीकृष्णं परितोषयन्तो हासयन्तश्च पुनः खेलान्तरं विरचयाञ्चक्रुः ॥
इति एवं प्रकारेण गौर्योत्सवे सति दृष्टे इति यष्टिकाद्यन्यतमे परकीय-वुद्ध्या प्रथमं हृते तत्क्षणत एव दृष्टे सति यस्य यत् यष्टिकादि निजं स्वीयं स्यात्, तत् स एव तत्स्वामी एव लभते ॥
किञ्च—
**केचिन्नृत्यन्तमारान्मदकलशिखिनं वीक्ष्य नृत्यन्ति तद्वत् ** **केचिद्वाप्यादिकच्छे बकमनु स इवाकुञ्चिताङ्गं वसन्ति । ** **एके भेकेन सार्धं पयसि परिपतन्त्यूर्ध्वमुत्प्लुत्य दूरं ** छायां धावन्ति केचिन्नभसि तत इतो धावतामण्डजानाम् ॥
वापी दीर्घिका ॥४८॥
**केचिच्छाखामृगाणां वदनमनु मुखस्यातिवैकृत्यपूर्वं तानुच्चैर्भीषयन्तो विदधति च तदाकर्षणं धूतपुच्छाः । ** **आरोहन्ति द्रुमाग्रं क्षणमपि सह तैस्तैः समं च प्लवन्ते ** केचिद्गायन्ति नृत्यन्त्यपि लघु कतमे केऽपि तांस्तान् हसन्ति ॥
मुखस्याति-वैकृत्यम् अतिविकृताकारत्वम्, तत्-पूर्वकं यथा स्यात् तथा, धूताश् चालितास् तेषां पुच्छा यैस् ते ॥४९॥
**राजा कश्चिद्भवति कतमस्तस्य मन्त्री तथान्यो ** **दण्डस्वामी कतिचिदपरे हन्त सामन्तवर्गाः । ** **कश्चिच्चौरस्तमथ कतमोऽभ्यासमानीय राज्ञः ** क्रुद्धो विज्ञापयति स च तच्छासनाज्ञां विधत्ते ॥
शसने शास्ति-विषये अज्ञाम् ॥५०॥
**कोचिन्मेषायमाणावतिशयतरसा सोपसर्पापसर्पौ ** **मूर्ध्ना मूर्ध्ना नतेन प्रमदकुतुकिनौ युध्यमानावभाताम् । ** **केचिद्व्याघ्रायमाणाः कटुपट्रटनेनापरान् भीषयन्ते ** पश्चादागत्य केषाञ्चिदपि पिदधते केऽपि नेत्रे कराभ्याम् ॥
पिदधते आच्छादयन्ति ॥
**रंहःसङ्घेन सैंहाः शिशव इव महासिंहशावोत्तमेन प्रत्यग्रोदग्रजाग्रन्मदकरिकलभेनेव मत्तद्विपार्भाः । ** मूर्तानन्देन मूर्ता इव रभसरसा ग्राम्यबालेन सर्वे ग्राम्या बाला इवामी वनभुवि कुतुकात्तेन सार्धं विजह्रुः ॥३६॥
प्रत्यग्रेण अभिनवेनोदग्रमुन्नतं यथा स्यात् तथा । जाग्रता मत्त-करिशावकेन, रभसरसा हर्ष-रसमयाः ॥३६॥
अथ सर्व एव परस्परं मन्त्रयन्तः—
**कृष्णस्तरस्वी किमहो वयं वा, जानीत भो भ्रातर इत्युदीर्य । ** धावन्त एते त्वरयापि यान्तं, श्रीकृष्णमारादतिचक्रमुस्तम् ॥३७॥
तरस्वी वेगवत्तरः ॥३७॥
एवं श्रीकृष्णस्याग्रतोऽजाग्रतो जागरूकस्य धावमानाः कियति दूरे बकीबकयोरासादित-मृत्युगर्भयोः सगर्भयोः समवर्ति-सदनवर्तितया जनितयोः क्रोध-शोकयोः कयोश्चिदतिशयावेगेन वेगेन वैरशुद्धिकामं कामं क्रूरमतिमतिपामरमरमेव तमध्वानमध्वानमाक्रम्यः
वर्तमानमानतमधिधरमधरमधिगगनोर्ध्वमूर्ध्वमूर्ध्वतयोष्ठमाधाय ग्रसितुमिव त्रसं वसन्तमाविरिञ्चममरचयं रचयन्तं मूर्तमघमघनामानमसुरं निरीक्ष्य वर्णयामासुः ॥३८॥
कृष्णस्य कीदृशस्य ? अजायाः प्रकृतेर् अजस्य ब्रह्मणो वा अग्रतोऽग्रे जागरूकस्याग्रे धावमाना अघनामानम् असुरं वीक्ष्य वर्णयामासुः । वकी पूतना, वकश् च तयोः सगर्भयोः सोदरयोः समवर्ति-सदन-वर्तिता यमगृहवासः, समवर्ती परेतराट् इत्य् अमरः, तया जनितयोः क्रोध-शोकयोर् अतिशय आवेगस् तेन हेतुनावेगेन शीघ्रं वैरशुद्धिः प्रतीकारस् तां कामयत इति तम् । क्रूरमतिं घातुकधियम्, अरम् एव क्षिप्रम् एव तं प्रसिद्धमध्वानं पन्थानम्, अध्वानं निःशब्धं यथा भवत्य् एवम् आक्रम्य, केन प्रकारेण ? अधिधरं धरा पृथ्वी तस्यामानतम् सम्यक् नतमधरमाधाय अर्पयित्वा तथा अधिगगनोर्ध्वं गगनाद् अपि ऊर्ध्व-प्रदेश ऊर्ध्वतया ऊर्ध्वमस्तकत्वेन ओष्ठमाधाय त्रसं चराचरम्, त्रसमिङ्गं चराचरम् इत्य् अमरः । ग्रसितुम् इव वर्तमानमाविरिञ्चं विरिञ्चि-पर्यन्तम् अमरचयं त्रसन्तं त्रास-युक्तं रचयन्तं कुर्वन्तम् ॥३८॥
अहो! विचित्रेयं गिरिदरी दरीदृश्यते । पश्यत पश्यत, श्यत श्यत च विभ्रमम्, विभ्रमं चास्या वीक्ष्य कौ तु के कौतुकेन नोपरुध्यन्ते, येयं महाव्यालस्य व्यालस्यविवृततुण्डशोभामालम्बते ॥३९॥
विशिष्टं भ्रमं श्यत श्यत दूरीकुरुत, शो तनू-करणे दिवादिः । अस्या गिरिदर्या विभ्रमं शोभाम्, या इयं महाब्यालस्य महा-सर्पस्य विशिष्टेनालस्येन हेतुना विवृतं यत् तुण्डं तस्य शोभाम् ॥३९॥
यथा तस्य दंष्ट्रावली तथास्या उभयतो भयतोषकराणि शृङ्गाणि, यथा च तस्य भयराजिह्वा जिह्वाद्वयी,तथास्या मरुदान्दोलिता योजनवल्लीवल्लीद्वयी बहिःस्फुरति ॥४०॥
भयतोषकराणि—वैकट्याद्भयम्, अद्भुतत्वात्तोषं च कुर्वन्ति, भयानां राजिं श्रेणीं ह्वयते इति सा । योजन-वल्ली-वल्ली मञ्जिष्टालता, योजन-वल्ल्यपि मञ्जिष्ठ इत्य् अमरः ॥४०॥
यथा च तस्य विषमविष-महाग्निकणास्तथास्या विविधधातुकणा बहिर्निःसरन्ति, तस्य महाकाकुदकाकुदवदस्या उपरितनकुरुविन्दशिलाविलासः, तस्याधमधमनिवदस्याः कुहरहरणोन्मुखी नानालताविततिः ॥४१॥
महा-काकुदम् अतिभय-शोक-विकार-प्रदं यत् काकुदं तालु तद्वत्, तालु तु काकुदम् इत्य् अमरः । अधमधमनिवत् कुत्सित-नाडीवत् कुहरं विवरम्, प्रतिहरणोन्मुखी आकर्षणोन्मुखी ॥४१॥
उपरि चोभयतो लोभयतो लोचने लोचने इव तस्यास्याः कमलरागमणीन्द्रौ, देदीप्यन्तेऽप्यन्ते तस्य श्वासा इव विधूतोपवनाः पवनाः, तस्य विषानलघूमधूमलाः कान्तय इवास्या मारकतमणिदीधितयः । तन्नूनमियं व्यालतुण्डाकृतिगिरिकन्दरा कन्दरातुरं करोतु ॥४२॥
तस्य सर्पस्य लोचने रोचने रुचि-युक्ते लोचने नेत्रे इव । कीदृशस्य ? लोभयतो लोभं यतः प्रप्नुवतः, तस्य श्वासा इव अन्तेऽपि अस्याः पवना देदीप्यन्ते, अतिशयेन प्रकाशन्ते, विशेषेण धूतानि खण्डितानि उपवनानि यैर् इति खरतरत्वम् । कं दरातुरं भयातुरं करोतु ? अपि तु न कम् अपीत्य् अर्थः, दरोऽस्त्रियां भये श्वभ्रे इत्य् अमरः ॥४२॥
**
“तत् साम्प्रतं साम्प्रतं ह्यवात्र प्रवेशः” इति निश्चित्य पुनः सन्दिग्धया दिग्धया च साध्वसेन धिया पुनरन्योन्यम्—“अरे भ्रातरः! सत्यमेव यदि बलवदुपसर्पः सर्पः स्यादयं तदा प्रियसहचरो नः सकलवैरिलावको बकोपममेनं मारयिष्यति । तारयिष्यति तावदस्मानपि, न पिधापनीयोऽयमर्थः परेण केनापि” इति कलितकरतालताललितं भगवति कृतविश्वस्तताश्वस्ततावलेन यावदनेन चारुवदनेन चारुणारुणाक्षेण न निषिध्यन्ते, तावदेव देवतनयप्रतीकाशास्ते तदाननविवरं प्रविविशुः ॥४३॥**
अत्र साम्प्रतम् इदानीं प्रवेशः साम्प्रतम् एव योग्यम् एवेत्य् अर्थः13, साम्प्रतं चाधुनार्थे स्याद् युक्तार्थेऽपि च साम्प्रतम् इति विश्वः । न पिधापनीयः, नाच्छादयितुं शक्यः । सर्वैर् एव शश्वद् एव प्रकटम् एवोपलभ्यमानत्वाद् इति भावः । इति हेतोः कलितः करे सर्पापसर्पणार्थम् इव तालो यैस् तेषां भावस् तत् ता तया ललितं यथा स्यात् तथा, विश्वस्तता विश्वासस्तया आश्वस्तता आश्वासस् तद्वलेन । अनेन श्री-कृष्णेन ॥४३॥
तदनु तदनुपदमेव “मा विशत मा विशत, भो व्यालोऽयं व्यालोऽयम्” इति सार्तस्वरं स्वरन्तरचारिमधुरघोषो घोषराजतनयो नयोद्धुरं यावदुवाच, तावदेव ते तदाननप्रवेशमात्रेणैव विषज्वालया लयारूढसकलेन्द्रियाः कृष्ण एवासन्, कैः श्रोतव्यं तद्वचनम् ॥४४॥
स्वः स्वर्गस्य अन्तरचारी मधगामी मधुरो घोषो यस्य सः ॥४४॥
इत्यवसरे स रेरीयमाणनयनाम्बुरिव, करतश्च्युतान्निधीनिव, ताननुशोचन्नतिकरुणोन्नतिकरुणो युगपदेषां जीवनमस्य च मरणं कथं स्यादिति चिन्तितकार्यद्वयोऽद्वयो मतोभययोगे योगेश्वरस्तदनुपदमेव तदाननं विवेश ॥४५॥
रेरीयमाण इति रीङ् श्रवणे यङन्तः । अतिकरुणोन्नत्या अतिकृपोद्गमेन हेतुना करुणः शोकवान्, अद्वयः एकाकी, मतयोः सम्मतयोर् उभययोः सखि-जीवन-दुष्ट-मरणयोर् योगे विषये योगेश्वरः परम-समर्थः, यद् वा, सखीनां रक्ष्णेन दुष्टस्य च मोक्षदानेन यद् अभयं तस्य योगे मतः सम्मतः ॥४५॥
तदा तदाननं विशति भगवति—
हाहाकारो दिवि दिविषदामुच्चचारानुतापोर् **हीहीकारोऽसुरपरिषदां सप्रकर्षेः प्रहर्षैः । ** **योगे योगेश्वर-परिवृढस्तद्वयस्यातिहेलो ** व्यत्यासेन स्वयमुपदधे मानसं मानसन्धः ॥४६॥
तद्-द्वयस्य हाहाकार-हीहीकारयोर् व्यत्यासेन विपर्यासेन योगे विषये मानसं चित्तम् उपदधे, अधुना असुराणां हाहाकारो भवतु, दिविषदां तु हीहीकार इत्य् एव्येवम् । यतो मानसन्धो मानं सम्मानं विजय-रूप-प्रशंसाम् एव सम्यग् धत्ते, न तु पराजय-रूपम् अवमानम् इति सः, यद् वा, माने सम्माने सन्धा मर्यादा यस्य सः, सन्धा प्रतिज्ञा मर्यादा इत्य् अमरः ॥४६॥
स च महाव्यालो महाव्यालोलमना भगवत्प्रवेशापेक्षया क्षयाय चात्मनो नो तावत् संववार वदनम् ॥४७॥
न संववार, नसंवृतवान् ॥४७॥
प्रविष्टे तु भगवति कृतार्थमात्मानं मन्यमानो मानोद्धत-धीरधीरतयैव शाम्बरीवरीयान् वदनं संवरीतुमना मनागपि न शशाक ॥४८॥
मानोद्धतधीर् गर्वोद्धत-वुद्धिः, शाम्बरी माया ॥४८॥
भगवति कृतो हि भावोऽभावोपयोगी न भवतीति तथैव व्यात्ताननो न नोदयितुमशकदात्मनो व्यात्ताननताम् ॥४९॥
अभावोपयोगी नाशवान् न भवतीति दृष्टान्तीभूत उत्प्रेक्षित इति भावः । न नोदयितुं न दूरीकर्तुम् ॥४९॥
अन्तर्गलं कोलायमाने कोलायमानेन तेजसा दहति हतिसरसं समेधमाने निखिलकलासौभगवति भगवति सकरुणारुणापाङ्गतरङ्गरिङ्गत्सुधासुधारया सहचरात् जीवयति यतिहृदयेऽपि घृणीयमाने तदन्तरेऽपि समेधमाने स महामहिमा परिपच्यमान-कर्कटीफल्वदुत्पपाट ॥५०॥
अन्तर्गलं गल-मध्ये कीलायमाने कील-तुल्ये भगवति हतिसरसं यथा स्यात् तथा वर्धमाने सति कीलायमानेन बह्निज्वाला-सदृशेन, बह्नेर् द्वयोर्ज्वालकीलौ इत्य् अमरः । सकरुणस्य अरुणापङ्गस्य अनुरागिनेत्रान्तस्य तरङ्गात् रिङ्गन्त्याः प्रसरन्त्याः सुधायाः सुन्दरधारया । यतीनां सन्न्यासिनां हृदयेऽपि घृणीयमाने घृणां कुर्वति जुगुप्सयेव तत्र प्रवेष्टुं सङ्कुचतीत्य् अर्थः । तस्याघासुरस्यान्तरेऽपि सम्यग् वर्धमाने दुर्वितर्क्य-चरित्वाद् इति भावः । अतः सोऽघासुरः स्तव्य इति भावः ॥५०॥
पाटिते च तस्य तस्मिन् देहे विबुधद्रुहि दुहिणतुहिन-किरणशेखर-शतमख-मुखमुखरितजगत्पावनस्तवनमालिनि वनमालिनि प्रवेष्टुकामं तन्महो महोज्ज्वलं सूर्याचन्द्रयोरन्यतरदिव तरदिव गगनसरोवरं निरवलम्बनमेव तावदासीत् ॥५१॥
द्रुहिणो ब्रह्मा, तुहिन-किरण-शेखरो महेशः, शत-मख इन्द्रः । तस्याघासुरस्य महो जीव-रूपं तेजः, तस्यादृश्यत्वेऽपि तन्मोक्षे सन्दिहानानां कुतर्क-भूतां विज्ञमानिनां मुख-मोटनार्थं भगवद् इच्छयैव दृश्यत्वम् । गगनम् एव सरोवरं तत् तरद् इव तत्पारं गच्छद् इव ॥५१॥
यावत्तदवस्थावस्थानचटुलस्य दीर्घाभोगस्य भोगस्य कुहरतो हरतो गिरिदरीशोभामुदयगिरिगह्वराद्गभस्तिमालीव वनमाली समुज्जीहिते, ही तेऽपि शिशवो लब्धजीविता जीविताधिनाथात् प्रागेव बहिर्भूताः ॥५२॥
तद् अवस्था मरण-दशा, तस्या अवस्थानेन हेतुना चटुलस्य चञ्चलस्य दीर्घ आभोगः परिपूर्णता यस्य तस्य, भोगस्य फणस्य, हीति विस्मये ॥५२॥
तदनु बहिर्भूते भूतेशादि-नुतचरणे भगवति सुरासुरादिभिर्दरीदृश्यमानमेव तन्महो नवजलदमेदुरे तस्मिन्नेव लयमाससाद । किमहो वर्णनीयं तस्य महानुभावस्य चरितम्, यवसौ प्रथममात्मनि भगवन्तं निवेश्य पुनर्भगवत्येव स्वयं निविविश इति ॥
नुत-चरणे स्तुतपदे ॥
ततश्च—
भेरीभाङ्काररावैः पटुपटहघनाघात-सङ्घातघोरैर् उच्चण्डैर्डिण्डिमानां ध्वनिभिरविरलैर्दुन्दुभीनां प्रणादैः । गानैर्गन्धर्व-विद्याधर-तुरगमुखप्रेयसीना मुनीनां स्तोत्रः शब्दान्तरेषु क्षणमिव वधिराः स्वर्गिणस्ते बभूवुः ॥ **उर्वश्याद्या ननृतुरभितः सिद्धवध्वो बभूवुर्मर्दिङ्गिक्यो जगुरतिकलं सुभ्रवः किन्नराणाम् । ** देव्यो देवद्रुमसुमनसां वर्षमुच्चैर्वितेनुर्मत्तेवासीदमरनगरी सा गरीयः-प्रमोदैः ॥
तुरग-मुख-प्रेयस्य किन्नर्यः । शब्दान्तरेषु अन्य-शब्द-विषयेक्षणं व्याप्य वधिरा इव ॥
किं बहुना?—
भ्राम्यच्चूडाग्रचन्द्रस्खलदमृतरसेनाप्लुतैर्मुण्डमाला मुण्डैर्लब्ध्वा शरीरं नटनपटु नरीनृत्यमानैः परीतः । चण्डैरट्टाट्टहासैर्डमरुडिमिडिमित्कारसंस्कारसारैः कुर्वन् ब्रह्माण्डभाण्डं स्फुटितमुदतनोत्ताण्डवं चण्डिकेशः ॥५३॥
अतिप्रचण्डे नृत्यावेशे जाते सति भ्राम्यतश् चूडाग्रवर्तिनश् चन्द्रात् स्खलता अमृत-रसेनाप्लुतैर् अतएव मुण्डमालास्थ-मुण्डैः शरीरं लव्द्वा । नटनपुट यथा स्यात् तथा अतिशयेन नृत्यद्भिः परीतः युक्तः ॥५३॥
अथ मृत्युमुखादागता इव ते बाला बालातपोज्जृम्भमाणकमलनयनं नयनन्दितभुवनं व्रजराज-कुमारं सुकुमारं सुखवैवश्येनैकैकश्येन परिरभ्य “सखे! सखेलं विषमविषमहानलज्वालावलीढानस्मान् कथमजीवयद्भवान्” इति भगवन्तमूचुः । स च सचमत्कारं तानगदत्—“अगददक्षोऽस्मि विषस्य, येनागदेन नागदेन गन्धमात्रादेव गतासवोऽवगतासवोत्सवा इव समुल्लसितजीवना भवन्ति” इति ॥५४॥
विषस्य अगदे औषधे दक्षोऽस्मि, येन अगदेन नागदेन नागं सर्पं द्यति खणयतीति तेन, गतासवो गत-प्राणा अपि जनाः, अवगतोऽनुभूत आसवोत्सवो मधुपाणोत्सवो यैस् तथा-भूता इव ॥५४॥
तदुदितमुदितमुदाकर्ण्य परस्परमपि परमपिहितसौहृदा हृदा निर्भरमालिङ्ग्य “भो भो! भ्रातरस्तदैव देवज्ञा इव वयमवोचाम, बकमिवामुमयं निहनिष्यति” इति जगदुः । जगदुत्तरचरितेन तेन भगवतादिष्टा दिष्टातिशयवन्तस्ते तत इतो विसृमरान् सृमरानिव वत्सान् यूथीकृत्य व्रजपुरपुरन्दर-महिषीदत्तान्नपानादिविहङ्गिका विहङ्गिकानिकरैरेव रक्ष्यमाणाः समानीय च भगवन्तमनुसस्रुः ॥५५॥
तद् उदितं तस्मिन् कृष्णे उदितं कृतोदयम्, उदितं वाक्यम्, न पिहितं न आच्छन्नं सौहृदं येषां ते । जगद् उत्तरं लोकोत्तरं चरितं यस्य तेन भगवता दिष्टा आज्ञप्ताः, दिष्टं भाग्यं तद् अतिशयवन्तः । सृमरान् मृग-भेदान् इव विसृमरान् विशिष्ट-कूर्दनादिगतिशीलान्, तेषाम् अप्य् अघोदर-प्रवेशमहाविपन्मेक्षाद् एव हर्षोद्रेकाद् इति भावः । विहङ्गिकाः पक्षिस्त्रियः ॥५५॥
समनन्तरमनन्तरहसा करुणाचारुणा चामीकरवसनेन सवत्स-वत्सपेन निर्जनभोजनभोचितं स्थलमनुसन्दधता दधता च वयस्यान् प्रति प्रणयं कियता दूरेण सरसः सरसः पुलिनपरिसरो ददृशे ॥५६॥
अनन्तरहसासङ्ख्यरहस्येन, यद् वा अनन्तस्य सङ्कर्षणस्याप्यतिगुह्येन, अत्राग्रे बलदेवेनाप्य् अज्ञास्यमानतत्त्वकत्वात्, रहोऽतिगुह्ये सुरते वसन्ते इति विश्वः । चामीकरं कनकम्, भोजनस्य भो शोभ तद् उचितम्, सरसस् तडागस्य पुलिन-परिसरः । कीदृशः ? सरसः ॥५६॥
दृष्ट्वा च “भो भोः सवयसो वयसोऽपि नात्र सञ्चारो वर्तते । नयनप्रमोदजननी जननीक्रोडवदतिविश्वसनीयेयं पुलिनपदवी, पदवीथीकापि न दृश्यतेऽत्र लोकस्य, तदिहैव भोक्तव्यम्, तदिममभ्यासमभ्यासन्नं चरन्तु वत्सगणाः, वयमपि भुञ्जामहे” ॥५७॥
वयसोऽपि पक्षिणोऽपि, तस्माद् इमां प्रदेशमभ्यासन्नं सर्वतोभावेन निकटं चरन्तु । कीदृशम् अभ्यासम् ? अभीर्निर्भय एव आस उपवेशो गतिर् वा यत्र तम् ॥५७॥
इति निगदति जगदतिजरीजृम्भमाणविचित्रचरित्रे “भो वयस्य! वयमप्यशनायया नाययामह इव कष्टेनैव कालम् । नहि समया समयान्तरं भोजनमपेक्षणीयम् । तदेवमेव मे वचनम्” इति सरसमेकैकश्येन वदति सहचरचये “रचयेयमत्र भोजनस्थलम्” इति मितिरहितमहिम्ना तेन घनतर-तरुतरुणच्छायाच्छायामे घनसारसारधूलिधवलेऽवलेपरहिते हिते पुलिने विकचकमलकमलशीकरनिकरनिर्भरपवमानमाननीये सौगन्धिक-गन्धिकमनीये मध्यमध्यवस्थितौ कृतायां तेऽपि परितोऽवतस्थिरे स्थिरेणैव मनसा ॥५८॥
अशनायया बुभूक्षया, अशनाया वुभूक्षा क्षुत् इत्य् अमरः । नाययाम् अह इति कालोऽस्मान्नयति, तं वयं नाययाम् अहे इति णिच्-प्रत्ययः । समयान्तरं समया समयान्तरस्य निकटे इत्य् अर्थः । समया-शब्द-योगे अभितः परितः इत्यादिना द्वितीया । मितिरहित-महिम्ना अपरिमित-महिम्ना, तेन श्री-कृष्णेन, अत्र भोजन-स्थलं रचयेयम् इत्य्वक्त्वा तत्र पुलिने मध्यमधिरुह्य अवस्थितौ कृतायां सत्यां तेऽपि सहचराः परितोऽवतस्थिरे इत्य् अन्वः । कीदृशे पुलिने ? घनतराणां तरुतरुणानां भोजनापेक्षणीय-वितानकार्यकारिणां छायाभिरच्छो निर्मल आयामो यस्य तस्मिन्, इत्यातपराहित्येन सुखदत्तम् । दण्डकारण्य-शिखण्डिषुवान् इत्यादिवत् तरुण-शब्दस्य परनिपातः । घनसारेति सुख-स्पर्शेन सौगन्ध्येन च । अवलेप-रहित इति पावित्र्येण, हिते इत्यशङ्कास्पदत्वेन, विकचानि प्रफुल्लानि कमलानि पद्मानि यत्र तथा-भूतस्य कमलस्य जलस्य शीकर-निकराणां निर्भरो यत्र तेन परमानेन पवनेन भोजनापेक्षणीय-शिशिर-व्यजन-कार्यकारिणा माननीये, सलिलं कमलं जलम् इत्य् अमरः, सौगन्धिकस्येव गन्धोऽस्येति सौगन्धिक-गन्धि, तच् च तत्कमनीयञ्चेति तस्मिन्निति भोजना-पेक्षाधूपादि-सौरभ्यवत्तेन । अत्र यमकानुरोधात् विधेयांशाविमर्षः सेढव्यः ॥५८॥
सहस्रपत्रसहस्रपत्रीव सा मण्डली व्यराजत राजतपयसा धौत इव तत्र पुलिनोदरे किञ्जल्कावृतविलक्षणबीजकोष इव कनकरुचिरुचिराम्बरो भगवान् । सुपरिच्छदच्छदपङ्क्तय इव शिशवः ॥५९॥
सहस्र-पत्रस्य कमलस्य, सहस्राणां पत्राणां समाहारः सहस्र-पत्री सेव, राजतेन रजत-विकारेण जलेन धौते प्रक्षालिते इव । वीज-कोषः कर्णिका-विलक्षण इति श्याम-वर्णत्वात् ॥५९॥
तत्र च सद्भावलया वलयाकारास्त्रिचतुरास्त्रिचतुराभाः पङ्क्तयः । तासां च प्रणयभुव्यवहितानां व्यवहितानां च परस्परं प्रतिजनमभिमुखमुखकमलतया वर्तमानः प्रत्येकं “ममैवायमभिमुखमुखः” इत्यभिमानमानयन् (गी। १३.१३) “सर्वतोऽक्षिशिरोमुखम्” इति प्राचां वाचां वान्वयमभिनयन् “भो भो भो-भोज्ज्वलनिष्काः! निष्कासयत भक्ष्यसामग्रीमग्रीयाम्” इति श्रीकृष्णो यदा निजगाद, तदैव शिक्यतो निष्कास्य केचित् सुपरिच्छदेषु च्छदेषु, केचित् कुसुमेषु कुसुमेषु, केचिद्विमलताखण्डेषु लताखण्डेषु, केचन सुरश्मिषु रश्मिषु, केचन अचपलेषूपलेषूत्तमेषु, केचिदतिस्तवकेषु स्तवकेषु, केचित्तत्त्तत्कर-संस्पर्शसफलेषु फलेषु, केचिदचञ्चलेष्वञ्चलेष्वमलवसनानाम्, केचित् सुरेखानिकरेषु करेषु, केचिदूरुषूरुषूपनिधाय निजनिजभोज्यादग्र्यमग्र्यतिशयसारं श्रीकृष्णाय पत्रपुटकेषु निधायोपकल्पयामासुः ॥६०॥
सद्भावेन लयः संश्लिष्टः सन्निवेशो यासां ताः, तिस्रो वा चतस्रो वा त्रिचतुराः पङ्क्तयः । कीदृश्यः ? त्रिचतुरा आभाः कान्तयो यासां ताः, प्रथमा पङ्क्तिः पीता, द्वितीया रक्ता, तृतीया श्यामा—इत्य् एवं तिस्र आभास् तथा चतुर्थी श्येनी हारिती वेति । व्यवहितानां व्यवधानेन स्थितानाम् अपि तासाम्, चकारोऽप्य् अर्थे । प्रणयस्य भुवि सत्तायां प्राप्तौ वा, अवहितानां कृतावधानानां प्रतिजनम्, एकैकस्य जनस्य [गी १३-१३] सर्वतः पाणि-पादं तत् सर्वतोऽक्षि-शिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्टति ॥ इति वाचाम् इव अन्वयम् । अभिनयन अभिनयेन दर्शयन्, इवार्थे वाकारः । भो भो इत्य् अतिहर्षेण द्वित्वम् । भां शोभाम् उभन्ति पूरयन्तीति भोभा अतएव उज्ज्वला निष्काः पदकानि येषां ते । अग्रीयाम् उत्तमाम्, छदेषु पत्रेषु कुसुमेषु कौ पृथिव्यां शोभना मा शोभा येषां तेषु, विमलतया नैर्मल्येनाखण्डेषु पूर्णेषु, सुरश्मिषु सुकान्तिषु रज्जुषु उपलेषु प्रस्तरेषु । अतिस्तवकेष्वतिस्तुतिमत्सु स्तवकेषु कुड्मलेषु सुलक्षणो रेखा-निकरो येषु तेषु, उरुषु वृहत्सूपनिधाय, भक्ष्यसामग्रीम् इति पूर्वेणान्नषङ्गः । अग्र्यमग्रभवं भागम् ॥६०॥
स च भगवान् मधुरमधुरवचनपेशपेशलमधुरिम-सुधासुधाराधौतदशन-वसनतयातिचारुतायामिह सन् हसन् हासयन् स यन् परमकौतुकम्, दरोदरोपनीविनिहितमुरलीकोऽलीकोज्झितलक्षणे कक्षतलेऽक्षतलेलिप्यमानमधुरिमणि विन्यस्तवेत्रविषाणः करतले परमाभिरामे वामेऽवात्तदध्योदनकवलोऽवलोलेषु तदङ्गुलिदलेषु कृतसन्धानफलविशेषो विशेषोपलभ्यमानसौन्दर्यलक्ष्मीको दिवि दिविषद्वृन्दवृन्दारकैः कमलज-शितिकण्ठपुरन्दरादिभिरमरनगरनागरीभिरपि सकौतकमालोक्यमानोऽलोक्यमानो निजनिज-भक्ष्यमाधुर्यधुर्यताप्रख्यापनपणनचतुरैहसद्भिः सद्भिः शिशुभिर्हास्यमानो भुञ्जानैः सह सहचरैः स्मितलेशपेशलवदनकमलो बुभुजे भुजेन चलता दक्षिणेन, कथान्तरमप्यन्तरान्तरा कथयन् सहचराणामतीव हृदयावगाही बभूव च ॥६१॥
स च भवान् बुभुजे । कीदृशः ? मधुर-मधुरो वचनपेशः—पिश अवयवे वाक्यावयवे इत्य् अर्थः । स एव पेशल-मधुरिमा शोभन-मायुर्या सुधा-सुधारा अमृतस्य धारा तया धौते प्रक्षालिते दशन-वसने औष्ठाधरौ यस्य तस्य भावस् तत् ता तया हेतुना इह भोजनावसरे अतिचारुतायाम् अतिसौन्दर्ये सन् वर्तमानो हसन् सखीनां नर्मोक्त्या हासयन् स्वकृत-नर्मभिः सखीनित्य् अर्थः । सः श्री-कृष्णो यन गच्छन् प्राप्नुवन्नित्य् अर्थः । दरोदरं कृशोदरम्, उपनीवि नीवि-निकटं च तयोर् निहिता मुर्ली येन सः, तथा कक्ष-तले विन्यस्ते वेत्र-विषाणे येन सः । कीदृशे ? अलीकोज्वितं सत्यम् एव लोलिप्यमानोऽतिशयेन लिप्तीभवन् मधुरिमा यत्र तस्मिन् । तथा करतले अवात्तो गृहीतो दध्योदन-कवलो येन सः । वामे इति कक्ष-तल-करतलयोर् विशेषणम् । अवेत्यस्याकारलोपे नञा अवलोलेषु अचलेषु अचञ्चलेष्वित्य् अर्थः । सन्धान-फलं तैल-सन्धित-करञ्जकरीरादि, वृन्दारकैः श्रेष्ठैः, न लोक्यं लौकिकं मानं प्रमाणं यस्य सः । निज-निज-भक्ष्यस्य वस्तनो माधुर्यधुर्यताया माधुर्याधिक्यस्य प्रख्यापने यत् पणनं पणस् तत्र चतुरैः, चलता भूजेनेति कथाभिनय-प्रदर्शनार्थम् इत्य् अर्थः ॥६१॥
इत्येवं यद्यवसरोऽजनि, सरोजनिजनिर्हि तदा हितदाक्षिण्यपरोऽपि तमघासुरवधविभवमालोक्य जातविस्मयः स्मयमानः स्मयमानपरः परःसहस्रीभूतानां परमेश्वराणां परमेश्वरस्य पुनरैश्वर्यपरीक्षणक्षणनिमित्तमुद्यममाततान ॥६२॥
यद्यवसरोऽजनि जातस् तदा सरोजनि कमलं तत्र जनिर् यस्य स ब्रह्मा, हितम् एव यद्-दाक्षिण्यं सरलतया साधुत्वं तत्परोऽपि स्मयमानपरः स्मयेन मदेन ब्रह्माहं निजम् ऐश्वर्यं विविध-सृष्ट्यावेशेऽपि जानाम्येवेत्य् अभिमानपरः स्मयमानः । अयं तु प्राकृत-बालक-चेष्टावेशान्निज-महैश्वर्यं विस्मृतवान् इवेत्यभिप्रेत्य ईषद्धसन् तथाप्य् अघासुरादि-वधज्ञापितम् ऐश्वर्यम् अहो हन्त वर्तत एवेति जात-विस्मयः । ततश् च परः-सहस्री-भूतानां सहस्रां पर-सङ्ख्यावताम्, परःशताद्यास् ते येषां परा सङ्ख्या शथाधिक्यात् इत्य् अमरः । परमेश्वरस्य श्री-कृष्णस्य ऐश्वर्यस्य परीक्षणम् एव क्षण उत्सवस् तन्निमित्तम् । एवं चालक्षितम् एव भगवन् मायया प्रथमम् एव ब्रह्मणो महामोहो जात इति भावः ॥६२॥
तच्च तस्य, कतिपयः पयःप्रसर इति पयोधिपयोऽधि तदवधिमधिजिगमिषोर्यष्टिनिक्षेप इव, कियत्प्रमाणं गगनतलमिति मितिमिच्छतो मानरज्जुनिपात इव, जातमोहस्य हस्यमानमभूत् ॥६३॥
तस्य ब्रह्मणस् तच् च उद्यम-प्रकटनं हस्यमानम् अभूद् इत्य् अन्वयः । कस्येव ? पयोधेः समुद्रस्य पयो जलम् अधि अधिलक्ष्य, तस्य समुद्रस्यावधिं तल14सीमानम् अधिजिगमिषोर् जिज्ञासोः यष्टिः साप्तवितस्तिकं लकुटं तस्या निक्षेप इव, इति भगवद् ऐश्वर्यस्य महादुरवगाहत्वम् उक्तम्, गनयापि अपरिच्चेदम् आह—कियद् इति ॥६३॥
यदिदं मायाबलेन भगवतो वत्सकुलापहरणं तच्च कूपाकूपारयोरिव जलाशयत्वे, खद्योतखद्योतकरमहसोरिव महस्वित्वे, तमिस्रायास्तमसस्तमसश्चेव महोवारकत्वे, स च पितामहो महोन्मत्त इवात्मभगवतोर्मायावित्वे सामान्यविशेषभावं न विदाञ्चकार ॥६४॥
किं तद् उद्यम-प्रकटनम् इत्य् अपेक्षायाम् आह—यद् इदम् इति । तच् च तद् अपि न विदाञ्चकार, न पराममर्ष । तद् एव किमित्य्पेक्षायाम् आह—आत्मनो भगवतश् च यन् मायावित्वं तत्र सामान्य-विशेष-भावम् इति । कयोर् इव ? कूपोऽपि जलाशयः, अकूपारः समुद्रोऽपि जलाशय इति जलस्थानीयमायायाः परिमाणस्याल्पत्वम्-वृहत्त्वाभ्याम् उपमा । खद्योतो ज्योतिःकीटः, खे आकाशे द्योतकराणि दीप्तिकारीणि महांसि यस्य सः खद्योतकरःमहः सूर्यः, तावुभावेव महस्विनाविति जातिपरिमाणयोः, तमिस्रायाः कुहू-रजन्यास् तमसोऽन्धकारस्य तमसो राहोश् अ महस् तेजस् तस्य वारकत्व इतिमायाया आवरण-रूप-धर्मस्य ज्ञापनार्थम् । अयं भावः—कूप-खद्योत-राहूणां समुद्र-सूर्य-कुहूरात्रिभ्योऽन्यत्रैव स्थितिः स्वप्रभाव15ज्ञापिका । तत्र तत्रैव स्पर्धया प्रवेशस् तु स्व-स्व-सत्ताया अपि विनाशकर इति । अत्र तमस इति क्रम-भङ्गो यमकानुरोधाद् अङ्गीकृतः ॥६४॥
अपहृते च वत्सकुले वत्सपाश्चामी भगवता सह सरसमदन्तो दन्तोज्ज्वलकिरणधौताधरतया हसन्तः सन्तः सन्ततमतिमधुरकथोपकथोपयोगेन विस्मृतवत्सा देवासादित-तत्स्मरणेन तत्सञ्चारस्थलमवेक्ष्य वत्सगणानवलोकेन लोकेननाथं तमूचिरेऽचिरेण ॥६५॥
लोकानाम् इनाः प्रभवो महेशादयस् तेषाम् अपि नाथम्, इनः सूर्ये प्रभौ इत्य् अमरः ॥६५॥
**
“कृष्ण! सखे! सखेदाः स्मः, नैकोऽपि दृश्यते वत्सः, मन्ये नवतृणाङ्कुरलालसालसाभावादतिदूरं गतास्तदधुना तदनुसन्धानाय सन्धानायकैर्भवितव्यमस्माभिः” इति तदुदितादुदिताभियोगो भगवानपि स्मितलेशले शशितिरस्कारिणि वदने कवलमादधान एव मादधानो निजगाद ॥६६॥**
तृणाङ्कुर-लालसया हेतुना अलसाभावात् अनालस्यात् । तत् तस्मात् तेषां वत्सानाम् अनुसन्धानार्थम् । सन्धां सीमानं प्रति अनायकैर् आनयन-कर्तृभिर् भवितव्यम्, सन्धा प्रतिज्ञा मर्यादा इत्य् अमरः । वदने कीदृशे ? स्मित-लेशं लाति गृह्नातीतितस्मिन् शशिनश् चन्द्रस्यापि तिरस्कार-कारिणि वदने कवलमादधान एव अर्पयन्नेव मादधानो मादं हर्षां दधातीति धानो नन्द्यादिः ॥६६॥
**
“भो भो भवद्भिरिहैव भूयतामयमहमनुसन्दधामि” इति करकृतकवलोऽधिकवलोऽधिकक्षतलमाहितवेत्रविषाणो जठरपटपटद्वेणुरथ वत्सगणानुसन्धानमनुबबन्ध ॥६७॥**
अधिकं बलं यस्य सः, जटरपटे पटन् गच्छन् वेणुर् यस्य सः, अटपट गतौ ॥६७॥
सारतरचमत्कारकारकमहोभारभरितवनोद्देशो देशोचितवेशो मुहुरितस्ततो विचरन् खरखुरखुरली-लक्ष्मलक्ष्मीमवनावनालोच्य प्रत्यग्रजाग्रदुदग्रताञ्च तृणानामवलोकयन् “नानेन पथा समचरन् वत्साः” इति तत्रैवावर्तमानोऽमानोन्नतधीरधीरमना मनाग्विस्मितोऽनन्तरमनन्तरमणीयमायेन तेनैव वत्सपगणे चापहृते द्वयमेव परितो विचारयन् वत्सान् सहचरानपि नैक्षताक्षतात्मबलस्तदा सन्देहोपरमे परमेष्ठिनैव विहितमिदमिति निश्चित्य सद्य एव—
ये यादृग्गुण-वर्ण-रूप-वयसो यादृक्स्वरा यादृश **प्रज्ञा यादृश-भाव-नाम-कृतयस्तत्तद्विधास्तेऽखिलाः । ** **वंसा वंसपबालकाश्च मुरली शिक्यं विषाणौ दलं ** भूषा दाम विहङ्गिका लकुटिका सर्वं स एवाभवत् ॥
खराणां कुराणां खुरली सञ्चारः पौनः-पुन्यम्, अभ्यासः खुरली योग्या इति त्रिकाण्ड-शेषः, तस्या लक्ष्म-लक्ष्मीं चिह्न-शोभामवनौ भूतले प्रत्यग्रामभिनवां जाग्रतीम् । उदग्रताम् उन्नताग्रताम्, अमाना अपरिमिता उन्नता धीर् यस्य सोऽप्य् अधीरमना वत्सादि-विषयकस्य प्रेम्णः सहसा सर्वाच्छादकत्व-शक्तेर् इति भावः । अनन्तरं तेनैव ब्रह्मणैव वत्सपगणे चापहृते सति । ननु भगवत्सखानां तेषां महा-वैकुण्ठवासि-पार्षदैर् अपि परमवन्द्यतमानां क्षुद्रस्य ब्रह्मण एव मायया कथं मोहितत्व-सम्भवः ? तत्राह—अनन्तस्य श्री-कृष्णस्यैव रमणीया माया यत्र तेन ब्रह्मणा ब्रह्म-माययापि भगवन् माया-शक्त्या अनुमोदितत्वा भगवन् मायात्वम् इत्य् अर्थः । यथोक्तम्—[भा पु १०-१४-४३] कृष्ण-माया-हता राजन् क्षणार्धं मेनिरेऽर्भकाः इति, तथा [भा पु १०-१३-४४] स्वयैव माययाजोऽपि स्वयम् एव विमोहितः इति । ब्रह्म-माययैव ब्रह्मणो मोहितत्वोक्तेर् मायायाश् च स्वाश्रयव्यामोहकस्वभावत्वासम्भवात् तस्या भगवन् मायात्वम् एव । सर्वं स एव श्री-कृष्ण एव । अत्र तेषाम् एव यद् अनानयनं तद्-ब्रह्माणम् एव स्वीय-वैभवावर्ते निपात्य व्याकुली-कर्तुं तथा स्वं पुत्रीयन्तीस् तत् तन्मातॄः पूर्णाभिलासाः कर्तुं तथा महा-वैकुण्ठनाथादिषु कैमुत्यापादनाय श्री-बलदेवम् अपि विस्मापयितुम् इत्थम् च बहून्य् एव प्रयोजनानि ज्ञेयानि ॥
**आनन्दात्मचिदात्मकञ्च तदिदं स्वेनैव सम्पादितं ** **शुद्धं यद्यपि कार्यजातमखिलं नो कारणाद्भिद्यते । ** लीलोपाधि तथापि भिन्नमभवत्तेषां स्वभावोदयात् सोऽनिर्वाच्यतयाद्भुतः परमभूत् सर्गो निसर्गोत्तमः ॥६८॥
आनन्देति मायिक-सृष्ट्या तत् तत्-प्रतिनिधित्वासम्भवेन स्वक्रीडा न सिध्यतीति भावः । सर्गः सृष्टिः ॥६८॥
अथ तत्तद्भावापन्नैर्गोपकुमाराकृतिभिरात्मभिर्वत्साकृतीनात्मन आत्मनैव नैव विकृतेन तेन दिवसावसानमवलोक्य भवनाय वनायनात् समवहारयन् वेणुमवीवदत् ॥६९॥
गोप-कुमाराकृतिभिर् आत्मभिः सह वत्साकृतीन् आत्मणो वनरूपं यद् अयनमास्पदं तस्मात् सकाशात् भवनाय भवनआं प्रापयितुं समवहारयन् सम्यग् आकर्षयन् वेणुम् अवीवदद्-वादयामास ॥६९॥
तमथ मथनकृतं मनसो वेणुरवं निशम्य सर्व एवात्मभूता भूतारल्यकृतः सहचराः शृङ्गवेणुदलशृङ्गादिरवै रवैधमान-मानसतोषाः परितोऽप्यात्मभूतानखिलवत्सान् समवहार्य दिनान्तरवद्व्रजमाविशन्ति स्म ॥७०॥
शृङ्गादिरवैर्भूवः पृथिव्या अपि तारल्यं हर्ष-हेतुकं कुर्वन्तीति ते, दलघटितं शृङ्गाकारं दल-शृङ्गम् ॥७०॥
मातृभिरभिव्रजन्तीभिः पूर्वं तनयाननादृत्य यथा कृष्णसन्दर्शनं कृतं तथा स्वस्वतनयेष्वेव कृष्णसाधारणं प्रेम लभमानाभिरपि सम्प्रति च प्रतिचमत्कृत-मानसतयैव कुर्वतीभिरेव निर्वव्रे ॥७१॥
तत् तन् मातॄणां पूर्वतः स्वभाव-विशेषं तदानीम् अलक्षितम् उत्पन्नं दर्शयति । मातृभिः सुबलादि-जननीभिः पूर्वं तनयान् अनादृत्य यथा कृष्ण-सन्दर्शनं कृतम्, [भा पु १०-१४-४९] ब्रह्मन् परोद्भवे कृष्णे [भा पु १०-१४-५५] कृष्णमेनम् अवेहि त्वम् इत्यादि-शुक-परीक्षित्-संवाद-गत-सिद्धान्तानुसारात् तथा सम्प्रत्य् अपि कृष्ण-दर्शनं कुर्वतीभिर् एव निर्वव्रे निर्वृतिरलभ्यत । अयं तु विशेषः—पूर्वं तनयाननादृत्य, सम्प्रति तु प्रतिचमत्कृत-मानसतयैवेति । तत्र हेतुः—स्व-स्व-तनयेष्व् इत्यादि, कृष्ण-साधारणं कृष्णतुल्यम्, न तु कृष्ण-निष्ठ—तेषां कृष्ण-स्वरूपत्वेऽपि तत् तत्-स्थितचर-रूप-गुण-मात्राविष्कारात् कृष्णस्य तु सर्व-गुणाविष्कारात् स्वीयरूपे स्थितत्वात् मूल-भूतत्वाच् चापूर्व-वैशिष्ट्यम् अस्त्येवेति भावः ॥७१॥
तेऽपि त इव मातृवत्सलतया तया पूर्वपूर्ववत् स्नपनादिक्रियया मातृः प्रीणयामासुरयं खलु विशेषोऽशेषोपतापशमना अमी अमीवहारिणस्त इव भगवतो दिनकृतं न कथयामासुः ॥७२॥
तेऽपि कृष्णात्मका बालाः, त इव पूर्व-भूत-सुबलादय इव । अमीवं विरह-वैक्लव्यम् ॥७२॥
वत्साश्च दिनान्तरवत् निजनिजमातृसविधमुपगतास्ताभिरपि पूर्वतोऽपूर्वतोषतरलहृदयाभिर्दयाभिभूततया ततया लिह्यमाना ह्यमानानन्देन पीयमाना इव सगद्गदगदनघनघर्घरस्वराभिरङ्के कृता एव सुषुपुः ॥७३॥
पूर्वतो गवाम् अपि स्वभाव-विशेष उक्तः ॥७३॥
कृष्णमपि निजभवनमासाद्य साद्यमानबाल्यविलासम्—
**दोर्भ्यामुत्थाप्य वक्षोभुवि निविडतरस्नेहपीडं निपीड्य ** **श्मश्रुस्पर्श सशङ्कं मृदुनि कमलतो न्यस्य वक्त्रे च वक्त्रम् । उन्नीयोष्णीषमश्रुप्लुतनयनमवघ्राय चास्योत्तमाङ्गं ** नातुष्यद्गोकुलेन्द्रः क्षणमथ महिषीतृप्तये तं मुमोच ॥७४॥
साद्यमानः प्राप्यमाणो ज्ञाप्यमानो वा बाल्य-विलासो येन तम् । सशङ्कम् इत्य् अत्र हेतुः—कमलतोऽपि मृदुनि सुकुमारे वक्त्रे वक्त्रं स्वमुखम्, उत्तमाङ्गं शिव, नातुष्यत् नातृप्यत्, महिषी श्री-यशोदा, तस्य स्व-पूत्र-मुख-चुम्बनोत्कण्ठामालक्ष्येति भावः ॥७४॥
ततश्च जनन्यानन्यातुलवात्सल्यपताकया कयाचिदिव कृताभ्यङ्गोद्वर्तनादिकोऽनादिकोऽमलतनुस्तनुमानिव जननीवात्सल्यसारः कृताहारो हारोपस्कृतवक्षाः प्रक्षालितपादः क्षपित-क्षणकतिपयः पयःफेनवलक्षलक्षमूल्यशयनतले कृतशयनोऽसौ निशामनैषीत् ॥७५॥
कयाचिद् इव अनिर्वचनीयम् एव, अनन्यया अद्वितीयया अतुल-वात्सल्यस्य पताकया । अनादिको नित्य-भूतो जननी-वात्सल्य-सारस् तनुमानिवेत्य् अन्वयः । अमला अभ्यङ्गादिभिर् गो-धूल्यादि-रहिता तनुर् यस्य सः । पयः-फेनवत् वलक्षे धवले ॥७५॥
उदितेऽथ किरणमालिनि च वनमालिनि च वनगमनायोद्यते सहचरा जननीभिः पूर्वतोऽपि सुविहित-प्रसाधनाहितप्रसाधनाः कृतपानभोजना जनानन्दकारिणो भगवदङ्गणमासेदुः ॥७६॥
सुविहितेन प्रसाधनेन प्रकृष्ट-यत्नेनाहितम् अर्पितं प्रसाधनं भूषणं येषां ते ॥७६॥
भगवानपि न पितृमातृतोषमन्तरेणान्यत्र सादरोऽदरोपलालितस्ताभ्यां स्वस्नेहमनुगतश्च कियद्द्दूरं स आत्मसहचर आत्मपाल्य आत्मपालकः पूर्वपूर्वदिनवद्वनमनुससार ॥७७॥
अदरमनल्पम् उपलालितः ॥७७॥
एवं गच्छत्सु कतिपयेषु मासेषु कस्मिश्चन दिवसे जनाभिरामेण रामेण सह सहसा कृष्णे चलिते चलितेषु तेषु चात्मस्वरूपेषु स्वरूपेषु सुललितेषु वत्सवत्सपेषु गिरिवरसविधे तानात्मभूतान् वत्सान् चारयति रयतिग्मगमनेन सद्यस्तन-स्तनप-तर्णकानपि विहाय विहायसेवोड्डीयमानाः स्थिरैराभीरैराभीरैर्निविडदण्डदण्डनेनापि निवारयितुमशक्याः सकला एव धेनवो नवोदीर्णवात्सल्यास्तानेव वत्सतरानुपगत्य गत्यवसादेन खिन्ना अपि हम्बेति गद्गदगदन-रुद्धकण्ठं सोत्कण्ठं सोत्साहमभिलिहन्त्यो जिघ्रन्त्यो नतरां निवर्तन्ते, तृणमपि न चरन्ति स्म ॥७८॥
कस्मिंश्चिन् दिवस इति लीला-विशेषापेक्षया, वस्तुतस्तु नित्यम् एव रामेण सह वन-गमनं तस्येति स्वेषां रूपेषु वर्ण-माधुर्ये विषये सुष्ठु ललितेषु । गिरिवरः श्री-गोवर्धनः । धेनवः सकला एव गावः, तस्यैव गिरिवरस्य शृङ्गवर्ति-तृणचारिण्योऽकस्माद् दूरतः एव तान वत्सतरान् आलोक्येत्य् अर्थतो गम्यते । सद्यस्तनान्, सद्योभवान्, अतएव स्तन-मात्र-पायिनस्तर्णकान्, वत्सान् विहाय त्यक्त्वा, किं पुनर् द्वित्रदिनभवान् मासिकान् द्वैमासिकान् वा, रयेन तिग्मं तीक्ष्णं यद्गमनं तेन, विहायसेव आकाश-पथेनेव उड्डीयमाना इवेत्य् उत्प्रेक्षमाणा इत्य् अर्थः । ततश् च आभीरैर् गोपैः, आभीरैः, रलयारैक्यात् आभीलैः काष्ठेः, स्यात् कष्टं कृछ्रम् आभीलम् इत्य् अमरः, निविडदण्डैर् अपि कृत्वा दण्डनेन निवारयितुम् अशक्याः, तान् एव द्वि-वार्षिक-त्रि-वार्षिकान् अपीत्य् अर्थः ॥७८॥
तन्निवृत्तये समुपसन्नाः सन्नावयवाः खेदेनापि निवर्तयितुं यदा ते न शेकुस्तदा परितोऽपरितोषहारिणो हारिणो निजतनयानवलोक्य धेनुवृन्दादप्यधिक-वात्सल्यभाजो भाजोषेण द्रुतमेव तमेव देशमासाद्य मासाद्यमानसौभगान् मूर्ध्नि नासापुटं मुखे मुखं कृत्वा द्र्भ्यामुरसि रसिकतया समुत्थाप्य नयनाश्रुधौतवक्षसश्चित्रलिखिता इव यदा बभूवुः, तदा बलभद्रो भद्रोद्भूतसन्देहो देहोपचित-हर्षविस्मयस्तानालोक्य च क्षणं मनसि पराममर्श—“अहो किमिदम्?—
**प्राङ्नासीत् स्तनपेष्वपि व्रजगवां वात्सल्यमेतादृशं ** यादृक् सम्प्रति हन्त वत्सनिचये मुक्तस्तनेऽपीक्ष्यते । गोपानां न पुरेदृशः शिशुततौ स्नेहो ममाप्यद्य य स्तन्मन्ये भवितव्यमत्र हि कयाप्यस्मत्प्रभोर्मायया” ॥७९॥
सन्नावयवा अतिधावनेन जानूरु-गुल्फेषु जातव्यथाः । भा कान्तिस् तस्या जोषेण सेवनेन स्व-स्व-तनयरूप-विलोकनेनेत्य् अर्थः । धावन-जनित-तत् तद्-व्यथाम् अपि विस्मृतवन्त इति भावः । मा शोभा तया साद्यमानं प्राप्यमाणं सौभगं येषां तान् वत्सपान् वत्सांश् च आलोक्य, चकारात् तेषु तत् तत्-पितॄणां च परम-वत्सलानाम् अमूषां गवां दृष्टि-पथम् एव कथम् एते वत्सानानीतवन्तः इति क्रोधेन तान् ताडयितुम् आगतानाम् अपि तेषां तादृशम् अपूर्वं वात्सल्यम् आलोक्य च देहे उपचितो यो हर्षस् तेन ममाप्य् अपूर्वो निर्हेतुकः कथम् एतेषु उत्येवं लक्षणो विस्मयो यस्य सः ॥ नन्वास्ताम् अमीषां तन्मायामोहितत्वात् एषु तथा भावः, किन्तु मम शुद्ध-ज्ञान-घन-स्वरूपस्यापि कथं तथात्वम् ? तत्र स्वयम् एवाह—अस्मत्-प्रभोः, मदंश-सञ्चर्षण-कारणार्णव-शय्याद्यवताराणां सर्वेषाम् अप्य् अस्माकं प्रभोर् मूल-भूतस्यांशिनः प्रभुत्वाद् एवेच्छया अस्मान् अपि मोहयितुं समर्थस्येति भावः । अत्रास्य सख्येऽपि तद्रहस्यानुपलम्भात् स्वयोग्यताम् अननेनैव मद्वयस्योऽयम् एतत्-कर्मणि मयि न विश्वस्तवान् इति दैन्योदयेन दास्यरसास्वादः प्रेम-व्याकुलतयैव । एवम् एव मधुर-रसा-वात्सल्यरसादावपि दृश्यते । यथा [भा पु १०-३०-४०] दास्यस् ते कृपणाया मे सखे दर्शय सन्निधिम् [भा पु १०-४७-६६] मनसो वृत्तयो नः स्युः कृष्ण-पादाम्बुजाश्रयाः इति । नन्कु एतावन्तं कालं प्रत्यहम् एव तत् तत् पित्रादीनां तेषु तेषु तथा तथा भावं तथैव गवाम् अपि तादृशापेत्ये विलक्षण-वात्सल्येन वलात् स्तनपायनं गो-दोहनादि-समये पश्यतोऽपि मम कथम् अद्यैव विस्मयेनैतावान् परामर्शः, न तु तदानीं प्रथमेवेति ? तत्राह—कयाप्कीति । तद् इच्छां विना सत्यपि विरोध-दर्शने परामर्शवतोऽपि न विरोधस्फुर्तिर् यथा अधुनापि महताम् अप्य् अमीषां गोपानां तज्-ज्ञापनेच्च्यायां सत्यां तु सर्वस्यापि माययेयम् इति ज्ञानं स्यात्, यथाद्य ममेति, तया अनिर्वचनीययेत्य् अर्थः ॥७९॥
अथ कथमपरथा रथाङ्गपाणेरजस्याग्रजस्याग्रतो मम दैवी वासुरी वा प्रभवितुमायाति मायातिमायाविचक्रचूडामणिं तमेव समुपेत्य पृच्छामिच्छामि कर्तुम्, इति निकटमुपसृत्य “किमिदमहो महोन्नतबुद्धे! बुद्धेरगोचरो मम, यदमी बलवदमीवलङ्घिनोऽमरवरा एव सहचराः, अमी च मुनयो नयोद्धुरा एव गोवत्सा इत्येव मे गोचरः । सम्प्रति सम्प्रतिजाने श्रीजाने! श्रीमान् भवानेव सर्वमिति किमत्र तत्त्वं तत्त्वं कथय” इति कथयेतिहासकथामिव तत् सकलमानुपूर्व्या कथयन् श्रीयशोदाकुमारः कुमारयामास ॥८०॥
अपरथा अन्यथा यदि तन्माया न स्याद् इत्य् अर्थः । रथाङ्गपाणेः सर्वमाया-संहारकतेजस्क-चक्र-हस्तस्य, अजस्य स्वयं भगवतः श्री-कृष्णस्यापि, अग्रजस्य ज्येष्ठ-भ्रातुर् ममाग्रतो दैवी आसुर् इवा माया प्रभवितुम् आयाति, अत्र अन्यमायया अनभिभवः साहजिकोऽपि स्वस्य दैन्येनैव तत्-सम्बन्धेन नोक्तः, अतएव अतिमाया-विचक्र-चूडामणिं तं पृच्छां कर्तुम् इच्छामि, अहो आश्चर्यम्, हे महोन्नत-वुद्धे इति सम्बोधनेन मय्यपि तव नो विश्वासः, साधु साधु तवेदं वुद्धिचातुर्यम् इति केवल-सख्योदयेन प्रणयकोपव्यञ्जक उपालम्भः । ननु किम् इत्य् उपालभसे, त एवामी वत्सास्त एवामी बालका इति सत्यं यद्-यस्मात् अमी बलवत् अमीवं पापं तल् लघनशीला देव-प्रवरा एव सहचरा बालका अमी च मुनय एव गवां वत्साः, तत्र तत् तद् अंश-प्रवेशात् तत् तच् छब्देनोक्तिः । सम्प्रति अधुना भवान् एव सर्वम्, तेषां तु कतमोऽपि न दृश्यत इति भावः । ननु बलवता निभालनेन निष्टङ्क्य कथ्यताम् ? तत्राह—सम्यक्-प्रकारेण प्रतिजाने, प्रतिज्ञायैवेदं व्रवीमीति । श्रीर् जाया यस्य सः श्रीजानिः । हे श्री-जाने लक्ष्मीकान्त ! अमी सर्वे भवद् अंशा लक्ष्मीकान्ताश् चतुर्भुजा दृश्यन्त इति भावः । इति कय्हयेति तद् वाक्येनेतिहास-कथाम् इव कुमारयाम् आसेति, कुमार क्रीडने चुरादिः । तत्र तदानीम् एव तं प्रति स्वरहस्यज्ञापनेच्छायां भगवतोऽयम् अभिप्रायो ज्ञेयः—यदि प्रथमम् एव व्रवीमि, तदा दयालु-सरल-स्वभावस्य मदग्रजस्य तेषां तादृशावस्थासहनाशक्त्या कोपेन ब्रह्मणोऽपि कोपे प्रवृत्ति-सम्भवाद् एतल् लीला-निर्वाहो मे न स्यात् । यदि तन् निर्वाहानन्तरम् एव ब्रवीमि, तदा तदानीम् एव हन्त ! किम् इति नाव्रवीः, कात्र क्षतिर् अभविष्यत्, तथा-भूतत्वं तव नाभालितं मयेति तच्छोचनया वैरस्यम् एव, यदि पुनर् न व्रवीम्य् एव, तदा तत्-कथन-योग्ये तादृशे सख्यौ तस्मिन् विश्रम्भायोगेन सख्य-रसस्यैव हानिः, वर्षे समाप्त-प्राये तु कथनेन किञ्चिद् अनवद्यम् इति । वस्तुतः सिद्धान्त-गत्या तु तादृशस्य महा-पुरुषाद्यंशिनः श्री-बलदेवस्यापि मोहकत्वेन महा-स्वयं-भगवत्त्व-ज्ञापकेन तस्याचिन्त्यशक्त्या ब्रह्म-रुद्रादि-मोहने कौमुत्यम् एवानीतम् इति ॥८०॥
एवं वत्सरवत्सरक्षणक्षणकौतुके संवृत्तप्राये प्रायेण हि भगवन्महिम-हिल्लोलगणगणनायां प्रवृत्तो वृत्तोहः स्वयम्भूः स्वयम्भूर्लोकमागत्य “चोरितेषु मया वत्सवत्सपेषु तत्र किं वृत्तम्” इति वृत्तमितिरहितस्य तस्य वृत्तमवगन्तुकामः कामपि साध्वसाध्वसतामालम्ब्य दूरत एव तथाविधान् विविधान् विलोक्य वत्सवत्सपान् विस्मितविस्मितविमनाः “कथममी ततएव त एवागताः, किंवा परे, किंवा प्राकृता एवामी मयापहृता वस्तुतोऽवस्तुतोदयेनालीका नालीकासनस्य गलितो गर्वः” इति स्वमनुगञ्जयन् भगवति परममायाविनि विनिहितमायोऽहितमायो नलिनजो न जोषयितुमात्मानं प्रबभूव ॥८१॥
एवं वत्सरं व्याप्य वत्स-रक्षणस्य क्षण-कौतुके उत्सव-कौतुके वृत्तः समाप्त ऊहस् तर्को यस्य सः, वृत्तं चेष्टा लीलेति यावत्, तस्य मितिः परिमाणं तद्रहितस्य, वृत्तं वार्ताम्, असाध्वसां निर्भयताम्, विस्मितेन विस्मयेन विगतं स्मितं यस्य स चासौ विमनाश् च, अवस्तुता अवास्तवम्, अलीका मिथ्या-भूता मायिका इत्य् अर्थः । नालीकासनस्य कमलासनस्य, इति हेतोः, गर्वो गलितः । अहितं मीमीते इत्य् अहितमायः, यद् वा, अहिता अपकारिणी अभद्रा मा कान्तिस् तां यातीति सः, अनुतापेन भ्रष्ट-श्रीर् इत्य् अर्थः । जोषयितुं प्रीणयितुम्, आत्मानं न प्रबभूव, न समर्थोऽभूत् ॥८१॥
**अनभिज्ञ इव स्वचरितेनैवाकृतीभवन् स्वयैव मायया स्वयमेव बद्ध इति वैफल्येनालीका नालीकासनस्य कृतिरासीत् ॥८२॥ **
अलीका मिथ्या-भूता ॥८२॥
अथ पुनरपि तान् समालोकयति सति तस्मिन्—
सर्वे पङ्कज-शङ्ख-चक्र-गदिनः श्रीमच्चतुर्बाहवोऽ नन्तानन्दचिदेकमात्रवपुषः सूर्येन्दुकोटित्विषः । लीलोल्लासितलोमकूपकुहरोन्मज्जन्निमज्जत्तर स्वेदाम्भःकणिकानिकायसदृश-ब्रह्माण्डमाण्डव्रजाः ॥
किञ्च— **श्यामाः कुण्डलिनो मणीमुकुटिनः केयूरिणो हारिणः ** **कूजत्कङ्कणिनः क्वणत्कटकिनो मञ्जीरिणो निष्किणः । ** **आकण्ठप्रपदं लसत्तुलसिकामालालिझङ्कारिणः ** **खेलन्मेखलिनस्तडिद्व्यतिकरश्रीचेलिनस्ते बभुः ॥८३॥ **
लीलायैव उल्लासितानां लोम्नां कूप-कुहरेष्वतिशयेन उन्मज्जन्त उद्गच्छन्तस् तथा अतिशयेन निमज्जन्तस् तत्रैव लयं गच्छन्तः स्वेदाम्भसां कणिका-समूहैः सदृशा ब्रह्माण्ड-भाण्ड-समूहा येषां ते । अत्र सूक्ष्मः कणः कणी, ततोऽल्यल्पार्थे क-प्रत्ययेन परमानुभूता अलक्षिता एवेत्य् अर्थः ॥८३॥
अथ प्रतिजनमेकेन परमेष्ठिना द्वाभ्यामश्विभ्यां त्रिभिर्गुणैश्चतुर्भिर्वेदैः पञ्चभिस्तन्मात्राभिः षड्भिरृतुभिः सप्तभिरृषिभिरष्टभिः सिद्धिभिर्वसुभिश्च नवभिर्निधिभिर्ग्रहैश्च दशभिर्विश्वेदेवैरेकादशभी रुद्रैर्द्वादशभिरादित्यैस्त्रयोदशभिर्बहिरन्तरिन्द्रियाधिष्ठातृदेवैश्चतुर्दशभिर्मनुभिः पञ्चदशभिस्तिथिभिः षोडशभिर्विकारैर्मूर्तिमद्भिरुपास्यमाना मानान्तरानधिगम्यमाना ददृशिरे दृशि रेचितकृपातरङ्गतयागतया च सर्वसौन्दर्यसम्पदा कृतास्पदाः ॥८४॥
श्रोत्रत्वगादीनाम् अधिष्ठातृभिर् दिग्वातादिभिर् दर्शभिर् इन्द्रियाणि दश मनश्चैकं महा-भूतानि पश्चेति षोडशभिः । मनान्तरेण तत्-प्रकाशकेन प्रमाणान्तरेण नाधिगम्यमानाः, किन्तु स्व-प्रकाशकेन प्रकाशताशक्त्यैव स्वयं दृश्यमाना इति भावः । प्रतिजनं प्रत्येकं नारायणं ते ब्रह्मणा ददृशिरे इत्य् अन्वयः । कीदृशाः ? दृशि दृष्टौ, अल्पत्व-वोधकम् एक-वचनम्, अपाङ्गेष्वित्य् अर्थः । रेचिता सम्पृक्ताः कृपातरङ्गा येषां तेषां भावस् तत्ता तया आगतया ब्रह्मणोऽनुग्रहार्थम् इति भावः । यद् वा, स्वाभाविक्यैव तयागतया स्थिरया कृतास्पदाः कृतवासा इति ॥८४॥
एवमवलोकयन्नेव सर्वमेव वासुदेवमयमिति जानन्नविलम्बेनैव दध्योदकवलकरं बलकरं रसायनमिव सर्वसुहृदां हृदां रञ्जनं परितोऽपरितोषेण पुरेव वपुरेव बहुलमाखेदयन्तं वत्सान् वत्सपांश्च समनुसन्दधानं दधानं च कक्षे वेत्रं विषाणं च, जठरपटपरीत-मुरलीकमलीकविमनस्कताविरसमिव तत इतो विलोकयन्तमेकमेव विचरन्तम् (छा।उ। ६.२.१)
“एकमेवाद्वितीयं ब्रह्म” इत्यर्थमिव मूर्तिमन्तमालोक्य निराबाधापराधापराजित इव चतुर्मुखश्चतुःसानुः कनकगिरिरिव दण्डवद्भुवि निपपात ॥८५॥
श्रोत्रत्वगादीनाम् अधिष्ठातृभिर् दिग्वातादिभिर् दर्शभिर् इन्द्रियाणि दश मनश्चैकं महा-भूतानि पश्चेति षोडशभिः । मनान्तरेण तत्-प्रकाशकेन प्रमाणान्तरेण नाधिगम्यमानाः, किन्तु स्व-प्रकाशकेन प्रकाशताशक्त्यैव स्वयं दृश्यमाना इति भावः । प्रतिजनं प्रत्येकं नारायणं ते ब्रह्मणा ददृशिरे इत्य् अन्वयः । कीदृशाः ? दृशि दृष्टौ, अल्पत्व-वोधकम् एक-वचनम्, अपाङ्गेष्वित्य् अर्थः । रेचिता सम्पृक्ताः कृपातरङ्गा येषां तेषां भावस् तत्ता तया आगतया ब्रह्मणोऽनुग्रहार्थम् इति भावः । यद् वा, स्वाभाविक्यैव तयागतया स्थिरया कृतास्पदाः कृतवासा इति ॥८५॥
समनन्तरं सञ्चारतो विरतो विहितस्थितिरेव केवलमभूदभूतपूर्व-गाम्भीर्यो विविधशक्ति-नर्तकी-नाट्यसूत्रधारः सकलगुणाधारस्तमालतरुकडम्ब इव निश्चलः ॥८६॥
विविधाः शक्तय एव नर्त्तक्यस् तासां नाट्ये सूत्रधार इति पशुप-वंश-शिशुत्व-नाट्यम् इत्य् अस्य पदस्य मूलगतस्य व्याख्यान-रूपम् इदम् । ततश् च पशुप-वंश-शिशुत्वम् च तथाकारत्वेनैव नटस्य भावो नाट्यम् च तयोर् द्वन्द्वैक्यम्, तद् उद्वहदित्य् अर्थ इति ॥८६॥
**तदनु चतुर्मुख-चतुर्मुकुटकोटिमहामणीन्द्र-मरीचिवीचयो भगवच्चरणकमलस्पर्शकाम्ययेव धावन्त्यो भगवत एव चरणनखरमणीमञ्जरीभिरनधिकारितया निवार्यमाणा इव कुण्ठतामापेदिरे यदि, तदा नालीकासनो नालीकासनो भवन् उत्थायोत्थाय भूयो भूयो नत्वा यथापराधमतिनम्रतामुपगम्य तमस्तौषीत् ॥ **
अलीकमसनं दीप्तिर् यस्य सः, तथा न भवन्, भगवच् चरण-नख-कान्तिभिः स्पृष्टत्वात् ॥
**जय जय नूयते चिदवबोधरसैकमयं, घनरुचि चन्द्रकस्तवकगौञ्जिक-हारभृतः । ** चलवनमालिकं कवलवेणुविषाणभृतो, वपुरिदमद्भुतं व्रजपुरन्दरनन्दन ते ॥
अथ ब्रह्मणश् चतुर्भिर् मुखैश् चतुर्भिर् वेदैर् इव सा स्तुतिर् इति वेदस्तुतिच्छन्दसा नर्दटकेनैव ताम् उपनिवध्नाति । जय-जयेति हर्ष-मङ्गलाभ्याम् । ते तव वपुर्नूयते स्तूयते । तव कीदृशस्य ? चन्द्रकादिभृतः, तथा कवलादि-भृतः, वपुः कीदृशम् ? चला चञ्चला वनमालिका यस्य तत् । एवम् च [भा पु १०-१४-१] नौमीड्य तेऽभ्रवपुषे इत्य् अस्यार्थो विवृतः ॥
**अथ मदनुग्रहार्थकमशेषविशेषतया, प्रकटितमद्भुतं यदिह वत्सपवत्सवपुः । ** अपि लवमस्य भो न महिमानमवैमि विभो, किमुत तवेदृशायुतविकाशविकारकृतः ॥
वत्सप-वत्सानां वपुर्-वासुदेवाकारम्, एकम् अपि, तथा च [भा पु १०-१४-२] अस्यापि देव वपुषः इति ॥
**अपि च चतुर्भुजाः कमलकम्बुगदारिभृतो, धनरसचिन्मया निखिलभूतिभृतः सकलाः । ** त्वमजित केवलं ललितगोपतद्विभुजो, न हि विकृतिं प्रयात्यखिलकारण ते प्रकृतिः ॥
अत्र साक्षात् तवैव किमुताम्त इति साक्षात्-पदस्य तात्पर्यं विवृणोति—अपि चेति । कम्बुः शङ्खः, अरिश् चक्रम्, अखिलानां क्षित्यादीनां प्रापञ्चिकानाम् अप्रापञ्चिकानाम् च सपरिकर-वासुदेवादि-स्वरूपाणाम् च हे कारण-भूत ! तथापि ते तव प्रकृतिर् मूल-भूतं स्वरूपं विकृतिं प्राकृतम् अप्राकृतं वा विकारं न प्राप्नोति । प्रकृतिम् एव निर्दिशति—ललित-गोप-तनुर् द्विभुज इति ॥
**अतिरसवर्षिणीं तव पदाम्बुजभक्तिविधामहह विहाय यः प्रयतते ह्यवबोधकृते । ** न स लभते श्रमादपरमण्वपि हन्त फलं, तुषवुषघाततो न हि कदापि फलोपगमः ॥
विधा प्रकारः, अववोधो ज्ञानम्, तूषो धान्यादिवल्कलं खण्डितम्, वूषोऽखण्डितम् इति । तथा च [भा पु १०-१४-४] श्रेयः-सृतिम् इत्यादि ॥
**विजहति ये प्रयासमवबोधविधौ सुधियो, दधति तवाङ्घ्रिपङ्कहभावमतीवदृढम् । ** अतिकुतुकी स्ववानपि कृपाब्धितरङ्गचलस्त्वमजित तैर्जितो भवसि नाथ तदीयवशः ॥
स्ववान् अपि स्वाधीनोऽपि । तता च [ भा पु १०-१४-५] ज्ञाने प्रयासम् उदपास्य इत्यादि ॥
**कति च न ते पुरा परमहंसवतंसगणा-स्तव पदपङ्कजे सदनुरागविलासभृतः । ** **तव चरितामृत-श्रवण-कीर्तन-चिन्तनतः, किमपि सनातनं तव सुखेन पदं प्रययुः ॥ **
वतंसोऽवतंसः, तथा च [भा पु पुरेह भूमन् इत्यादि ॥
**तदपि च निर्गुणस्य तव पुण्यगुणैकनिधेर्-न हि महिमामलात्मभिरवैतुमहो सुशकः । ** अनुभवमात्रतः परमनन्यविबोध्यतयाप्यविकृतितो भवेद्यदि भवत्यपि नेतरथा ॥
ननु केवलं भजनाग्रह एव किम् इति स्थाप्यते ? बहु-शास्त्र-विचाराभ्युत्थज्ञानच्छिन्न-संशयादि-मालिन्य-केनान्तरात्मनैव तन्महिमज्ञान-सिद्धेः, तथा [श्वे ३-८] तम् एव विदित्वातिमृत्युम् एति इत्यादि-श्रुतेर् ज्ञानाग्रहोऽप्युपादेय एवेति ? तत्राह—तद् अपि च तथापि, तादृशे ज्ञाने जातेऽपीत्य् अर्थः । निर्गुणस्य प्राकृत-गुणातीततस्य तव महिमा अवैतुं ज्ञातुं न सुशकः । कथं तर्हि सुशकः ? तत्राह—अनुभव-मात्रतो भजन-मात्रोत्थात् केवलाद् अनुभवाद् एव यदि महिमा अवैतुं सुशको भवेत् तर्हि भवतु, इतरथा शास्रोत्थ-ज्ञानादिभ्यस् तु न भवत्यवेत्य् अर्थः । यदि-शब्दः कार्त्स्न्येन महिम्ना ज्ञानाभाव-ज्ञापकः । कीदृशात् ? अविकृतितः प्राकृत-विकार-रहितात् । तथा च [भा पु १०-१४-६] तथापि भुमन् इत्यादि ॥
**तव गुणसागरस्य गुणमेकमपीश्वर के, गणयितुमीशते हितकृते ह्यवतीर्णवतः । ** अपि धरणीरजांस्यपि च भानि तुषारकणा, अपि गणनीयतां दधति कस्य च कालवशात् ॥
तव महिम-ज्ञानं दूरे वर्तताम्, त्वदीयस्यैकस्यापि गुणस्य महिम्नो वार्त दूरे, तस्य गणनम् अपि दुष्करम्, एकस्यापि भेद-प्रभेदानाम् आनन्त्यादित्याह—तव गुणेति, कस्य च कस्यापि गणनीयतां दधति, केनापि कालवशाद्गणनार्हाणि भवन्त्य् अपि तव त्वेकम् अपि गुणं के गणयितुम् ईशते, न केऽपीत्य् अर्थः । तथा च [भा पु १०-१४-७] गुणात्मनस् तेऽपि इत्यादि ॥
**तव तदनुग्रहग्रहिलताध्वनि दत्तदृशो, निजनियतिक्रमोपगत-दुःखसुखोपभुजः । ** वचनवपुर्मनोभिरनुसन्दधतश्च भवत्-पदकमलं भवन्ति तव धामनि दायभृतः ॥
के तर्हि कृतार्थाः ? तत्राह—तवेति । नियतिर् अदृष्टम्, तथा च [भा पु १०-१४-८] तत् तेऽनुकम्पाम् इत्यादि ॥
**अथ मदभव्यतां कलय नाथ जगद्विरलां, त्वयि परमेश्वरे प्रथितमायिकिरीटमणौ । ** स्वविहितमायया स्वयमिहास्मि विमोहितधी-रनलकणः क्व च क्व च महाप्रलयज्वलनः ॥
अहं तु तेषां मध्ये कतमोऽपि न भवामि, किन्तु परम-मन्द-वुद्धिर् एवेत्याह—अथेति । तथा च [भा पु १०-१४-९] पशेश मेऽनार्यम् इत्यादि ॥
**पुरुकृप मृष्यतां मम महानपि मन्तुरयं, सहजरजोभुवः पृथगधीश्वरभावभृतः । ** बलवदजावलेपपरिलेप-महाकुमते-रयि मयि नाथवानयमितीव विधेहि कृपाम् ॥
मन्तुरपराधः । बलवानजोऽहम् इत्य् अवलेपोऽहङ्कारः । कथं तर्य्हतादृशापराधवति त्वयि कृपासम्भावनापीति तत्र कृपोद्गम-प्रकारं स्मारयति—मयि नाथेति । यद्य् अप्य् असावन्यत्र स्वयम् एव प्रभुस्मन्यस् तथापि मयि विषये नाथवानेवायम्, एतस्य नाथ एवाहम्, अयन्तु मद्भृत्य एवेति प्रकारकेणैव परामर्शेन स्वनिष्ठेन कृपां विधेहि । किन्तु मन्निष्ठं तद् उद्गवकं किञ्चिद् अपि लक्षणं नास्त्येवेति भावः । तथा च [भा पु १०-१४-१०] अतः क्षमस्वाच्युत इत्यादि ॥
**क्व महदहम्मही-ख-मरुदम्बु-कृशानुसमा-वृतजगदण्डभाण्डगत-सप्तवितस्तितनुः । ** अहमहह क्व चेदृशपरार्धपरानुगता-गतपथरोमकूपनिकरेश तवेश्वरता ॥
नन्वहम् एव सर्व-जगत्-प्रभुर् इति सत्यम् एव, त्वम् अपि चेद् अन्यत्र स्व-प्रभुतां ख्यापयसि, तर्हि त्वयि स्पर्धैव मे योग्या, न तु कृपेति तत्र न हि न हीत्याह-क्व महद् इति । स्पर्धा हीषत्साम्येऽपि भवति, तव मम तु वह्वेवान्तरम् इति भावः । महद् आदिभिः समावृतं जगदण्डम् एव भाण्डं तद्-गता तद् अन्तर्भूता स्वमानेन सप्त-वितस्तिमयी तनुर् यस्य सोऽहं क्व, हे ईश ! तवेश्वरता वा क्व ? अत्यन्तासम्भव-ज्ञापकं क्व-द्वयम् । तत्रापि सप्त-वितस्तिम् इतत्वं स्वस्य निकृष्ट-पुरुषत्व-सूचकम् । महा-पुरुषा हि स्वमानेन नव-वितस्तयो भवन्तीति । ईदृशानां जगदण्ड-भाण्डानां परार्ध-सङ्ख्यानां परमाणु-तुल्यानां गतागतस्य प्रवेश-निर्गमस्य पन्थानो रोम-कुप-निकरा यस्य हे तथा-भूत इति तद् अंश-भूत-प्रथम-पुरुष-कारणार्णव-शयित्वेनोक्त्यासाक्षस् तस्यांशिनः परम-कैमुत्यमानीतम् । तथा च—[भा पु १०-१४-११] क्वाहं तमो महत् इति ॥
**अपि जननीजनोदरगतस्य शिशोश्चरणोन्नमनविधिर्भवेन्न जननीष्वपराधकरः । ** **त्वदुदरवर्तिनी निखिलजीवघटेति विभो, त्वमसि जगत्प्रसूरिति समक्षकृतोऽनुभवः ॥ **
नन्वहम् एव सर्व-जगत्-प्रभुर् इति सत्यम् एव, त्वम् अपि चेद् अन्यत्र स्व-प्रभुतां ख्यापयसि, तर्हि त्वयि स्पर्धैव मे योग्या, न तु कृपेति तत्र न हि न हीत्याह-क्व महद् इति । स्पर्धा हीषत्साम्येऽपि भवति, तव मम तु वह्वेवान्तरम् इति भावः । महद् आदिभिः समावृतं जगदण्डम् एव भाण्डं तद्-गता तद् अन्तर्भूता स्वमानेन सप्त-वितस्तिमयी तनुर् यस्य सोऽहं क्व, हे ईश ! तवेश्वरता वा क्व ? अत्यन्तासम्भव-ज्ञापकं क्व-द्वयम् । तत्रापि सप्त-वितस्तिम् इतत्वं स्वस्य निकृष्ट-पुरुषत्व-सूचकम् । महा-पुरुषा हि स्वमानेन नव-वितस्तयो भवन्तीति । ईदृशानां जगदण्ड-भाण्डानां परार्ध-सङ्ख्यानां परमाणु-तुल्यानां गतागतस्य प्रवेश-निर्गमस्य पन्थानो रोम-कुप-निकरा यस्य हे तथा-भूत इति तद् अंश-भूत-प्रथम-पुरुष-कारणार्णव-शयित्वेनोक्त्यासाक्षस् तस्यांशिनः परम-कैमुत्यमानीतम् । तथा च—[भा पु १०-१४-११] क्वाहं तमो महत् इति ॥
**अथ जलशायिनो भगवतश्च तवैव तनोर्यदहमभूवमीश्वर ततोऽसि ममापि पिता । ** नहि जनकोऽसतस्तनुभुवोऽप्यपराधकृतः, परिहरते निसर्गसुतवत्सलताकुशलः ॥
अपराधकारिणोऽपि तनुभुवः पुत्रान् न हि परिहरते, न त्यजति । तत्र हेतुः—निसर्गेति । तथा च [भा पु १०-१४-१३] जगत्रयान्तोदधि इत्यादि ॥
**नरनिकरायणं सकलदेहभृदात्मतया, सहजत एव तद्व्यभिधया च भवानपि सः । ** **इति हि तदात्मजोऽप्यहमधीश तवात्मभवः, कुरु करुणां क्षमस्व मम मन्तुमनन्तधृते ॥ **
ननु जलशायी नारायण एव तव माता पिता चेति सत्यम् एव । तेन गोपेन्द्र-सूनोर् मम किमायातम् ? तत्र न केवलं तद् अंशित्वेन भवान् एव स इति न्यायः, किन्तु तन् नाम-निरुक्तिर् अपि मुख्या त्वय्येव दृश्यते इत्याह—नर-निकरायणम् इत्यादि । समूहार्थ-काणन्तस्य नार-शब्दस्य व्याख्या नर-निकर इति । तस्यायनम् आश्रयः । केन प्रकारेण ? सकल-देह-भृतां सर्व-जीवानाम् आत्मतया परमात्मत्वेन, इति स्वभावाद् एव तद्व्यभिधाया तन् नाम्नापि स नारायणो भवान् साक्षात् प्रकृतिपरो योऽयम् आत्मा गोपालः कथं त्ववतीर्णो भूम्यां ह वै इति [उत्तर-विभागे २४] श्री-गोपाल-तापनी-श्रेतेः । [भा पु १०-१४-५५] कृष्णमेनव् अवेहि त्वम् आत्मानम् अखिलात्मनाम् इति स्मृतेश् चेति । अनन्तदृते इति परमधैर्यशालित्वेनाक्षोभ्यतया तव क्षमा युत्कैवेति भावः । तथा च [भा पु १०-१४-१४] नारायणस् त्वं न हि इत्यादि ॥
**तदपि जलस्थितं तव सदेव वपुः परमं, जलगततैव तस्य नितया न भवेद्भगवन् । ** **अथ परिलोकितं न च विलोकितमप्यपरं, यदपि मया तवैष महिमा हि कृपाकृपयोः ॥ **
ननु जलशायी नारायण एव तव माता पिता चेति सत्यम् एव । तेन गोपेन्द्र-सूनोर् मम किमायातम् ? तत्र न केवलं तद् अंशित्वेन भवान् एव स इति न्यायः, किन्तु तन् नाम-निरुक्तिर् अपि मुख्या त्वय्येव दृश्यते इत्याह—नर-निकरायणम् इत्यादि । समूहार्थ-काणन्तस्य नार-शब्दस्य व्याख्या नर-निकर इति । तस्यायनम् आश्रयः । केन प्रकारेण ? सकल-देह-भृतां सर्व-जीवानाम् आत्मतया परमात्मत्वेन, इति स्वभावाद् एव तद्व्यभिधाया तन् नाम्नापि स नारायणो भवान् साक्षात् प्रकृतिपरो योऽयम् आत्मा गोपालः कथं त्ववतीर्णो भूम्यां ह वै इति [उत्तर-विभागे २४] श्री-गोपाल-तापनी-श्रेतेः । [भा पु १०-१४-५५] कृष्णमेनव् अवेहि त्वम् आत्मानम् अखिलात्मनाम् इति स्मृतेश् चेति । अनन्तदृते इति परमधैर्यशालित्वेनाक्षोभ्यतया तव क्षमा युत्कैवेति भावः । तथा च [भा पु १०-१४-१४] नारायणस् त्वं न हि इत्यादि ॥
**अथ कथमन्यथा जठरमध्यमधीह विभो, समकलयत् प्रसूस्तव समस्तमधीश जगत् । ** असदिदमीक्ष्यते बहिरहो न तवोदरगं, घनचिति केवलं क्व जडजातविमिश्रविधिः ॥
तद् वपुः प्राकृत-जल-परिच्छिन्नत्वे प्रतीतिर् अवास्तवीति16 भवतैव स्वयं दृष्टान्ति-भवता प्रदर्शितम् इत्य् आह—अथेति । अन्यथा यदि वपुषः प्रपञ्चाश्रितत्वम् एव स्याद् इत्य् अर्थः, तदा जठर-मध्यम् अपि अधिकृत्य प्रसूर्माता समस्तं जगत् कथं समकलयत् सम्यग् अपश्यत् ? सर्व-जगताम् आश्रय-भूतम् एव मद् वपुर् न तु जगदाश्रितम् इति ज्ञापनार्थम् एव मातरं लक्षीकृत्य जठरस्थं जगत्त्वया प्रकटितम् इति भावः । किन्तु वस्तुतः सिद्धान्त-विचारे तु बहिःस्थितम् इदं जगत् असत् असर्वकालस्थायि नश्वर-स्वरूपम् एव, तवोदरगतं तु न तथा सत्यम्, अनश्वर-स्वरूपम् एव कारणत्वाद् इत्य् अर्थः । तत्र हेतुः—केवलं घनचिति त्वद् विग्रहे जडजातस्य विमिश्र-विधिर् विलिप्तत्व-प्रकारः क्व । न हि घन-चैतन्ये जड-प्रलेपः सम्भवेद् इत्य् अर्थः । व्रजेश्वर्या त्वज् जठरस्य तत्रस्थ-जगतश् च वैधर्म्येणाननुभूतत्वाद् इति भावः । तथा च [भा पु १०-१४-१६] अत्रैव मायाधमनावतारे इत्यादि ॥
**पुरुकृप यत्त्वया जठरवर्ति तदेह जगत्, स्वसहितमीक्षितं न तदमुष्य भवेत् प्रतिमा । ** **यदि भवतीह तत्प्रतिमुखत्वममुष्य भवेदथ न च मायिकं तव विनोदकलैव हि सा ॥ **
ननु किम् एवं मन्यसे ?—बहिः-स्थितस्यैव जगतो मज्जठरे प्रतिविम्बोऽस्तु, मज् जठर-स्थितस्यैव जगतो वा छायारूपं बहिः-स्थितं जगदस्तु ? तत्राह—हे पुरुकृपेति । त्वत्कृपयैव तव तत्त्वं स्पुरति, न ममात्र शक्तिर् इति भावः । तदा तस्मिन् समये त्वया जठरवर्ति यज् जगत् ईक्षितं दर्शितम्, तद् अमुष्य बहिर् भूतस्य जगतः प्रतिमा त्वयि दर्पणरूपे प्रतिविम्बो न भवेत् । तत्र हेतुः—स्व-सहितं त्वत्-सहितम्, न हि दर्पणे दर्पणोऽपि दृश्यत इति भावः । यदि अमुष्य बहिर् भूतस्य जगतस् तत् प्रति-मुखत्वं भवेत्, तस्य जठर-वर्तिनो जगतः प्रतिच्छायात्वम् इति षठी-तत्-पुरुषः । अथ तदा अदो बहिर्-भूतं जगत् मायिकं न च स्यात्, सत्यवस्तुनश् छायापि सत्यैव भवति—सर्व-काल-स्थायित्व-प्रसक्तेर् इति भावः । तर्हि को निश्चयः ? तत्राह—सा तव विनोदकलैव अनिर्वाच्यम् एवेदम् अस्माभिर् इति भावः । तथा च [भा पु १०-१४-१७] यस्य कुक्षौ इति ॥
**अथ यदमी भवांश्चिदवबोधरसैकमयाः, स्वयमभवद्विभो स्वयमथैकक एव पुनः । ** तदपि च मायिकं यदि तदीयजडत्वमितिर्यदि जडता ततोऽनुभवसिद्धिविरोधविधिः ॥
अमी वत्स वत्स-पाद्याः । ननु आद्यन्तयोर् अदृष्टत्वात् तत् सर्वं मायिकम् अस्तु ? तत्राह—तद् अपि चेति । तदा त्वदीय-जडत्वस्य मितिः प्रमितिः स्यात् अस्तु, को दोष इति चेत् तत्राह—यदि जडता स्यात्, तदा अनुभवस्य सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्तय इत्य् उक्त-प्रकारस्य साक्षात्-कारस्य या सिद्दिर् युत्या निष्पन्नता तस्या विरोध-कारणम् इति । न ह्यनुभवसिद्धे वस्तुन्यप्रामाण्यशङ्का सम्भवतीति भावः । तथा च [भा पु १०-१४-१८] अद्यैव त्वदृते इत्यादि । तस्यायम् अर्थः—त्वदृते त्वां विना अन्यस्य मायात्वं न दर्शितम् ? किन्तु दर्शितम् एव । वत्स-वत्सपाद्यास् ततश् चतुर्भुजाद्याश् च त्वम् एव भवसीति, त्वद् रूप एव ते इति न तेषां मायिकत्वम् । तदृते इत्य् अनेन त्वद्भिन्नानाम् एव मायिकत्वोक्तेर् इत्याह—एकोऽसि इत्यादि । अद्वयं ब्रह्म शिष्यत इति बहूनाम् अपि तेषां त्वत्-स्वरूपत्वात् त्वम् एवैको भवसीत्य् अर्थ इति ॥
**तत इदमूह्यते तव तु काचिदहो इयती, व्युपमितिरीशता त्रिभुवनैकविमोहकरी । ** घनरसचित्तया बहुविधोऽसि न वै नृतया, तदितरयोगिनां तव च भेद इयान् हि महान् ॥
व्युपमितिर् निरुपमा, ईशता ऐश्वर्यम्, न नृतया नृ-शब्दस्य मनुष्यार्थत्वात् तेषां च प्रकृति-जन्यत्वान् न प्राकृततयेत्य् अर्थः । तत् तस्माद् इतरेषां योगिनां तव च इयान् एतावान् भेदो महान् इति तेषां मायिक-रूपत्वेनैव बहु-रूपता-सामर्थ्यम्, तव तु घन-रस-चिद्-रूपत्वेनेति । तथा च अद्यैव त्वदृते इत्य् अस्यैव तात्पर्यतो युक्ति-निर्धार इति ॥
**प्रथमत एककः स्वयमभूरथ भूरितरा, सहचरवत्सकावलिरभूरथ सापि पुनः । ** **अजनि चतुर्भुजा प्रतिजनं च मयोपनुता, पुनरसि चैक इत्यपि कलैव न ते कुहकम् ॥ **
मया ब्रह्म-रूपेण, उपनुता स्तुता, कलैव कौतुकम् एव, यद् वा, तवांश एव, न कुहकं मायेति । तथा च तस्यैव पद्यस्य एकोऽसि प्रथमम् इत्यादि ॥
**तव पदवीमिमामविदुषां तु मनःकुहरे, भवसि हरे पृथक् पृथगिव प्रतिभानपरः । ** **अवनविधाननाशकर एकक एव भवानिह हरिरब्जजो भव इतीश्वर ते कुहकम् ॥ **
एकक एव भवान् पृथक् पृथग् इव । त्वत्तो हरः पृथक्, ब्रह्मापि पृथग् एव, तत्रापि युक्तिर् दार्ढ्याभाव-सूचक इव-शब्दः । इति एतद्-भानं ते कुहकं माया । अत्र च हरेः स्वरूपेणैव, ब्रह्म-रूद्रयोस् तु गुणावतारत्वेनैक्यम् इति मन्तव्यम् । यद् वा, स्वायम्भुव-मन्वन्तरे यज्ञावतारेणैवेन्द्रत्वम् इति क्वचित् कल्पे विष्णु-स्वरूपेणैव ब्रह्म-रुद्रत्वम् इति तद् अपेक्षयैवोक्तम् । तथा ह्युक्तं श्री-सङ्क्षेप-भागवतामृते [१०-४८] भवेत् क्वचिम् महा-कल्पे ब्रह्मा जीवोऽप्युपासनैः । कचिद् अत्र महा-विष्णुर् ब्रह्मता प्रतिपद्यते । इत्यादीति । तथा च [भा पु १०-१४-१९] अजानतां त्वत्पदवीम् इत्यादि ॥
**सुर-मुनि-मानुषादिषु तवाविरहो यदिदं, हितकृतये सतामहित-संविधयेऽप्यसताम् । ** **तदखिलमंशतो यदापि तन्न विभो कुहकं, ह्यवयविनो विरूप इह नावयवप्रकरः ॥ **
गुण्वतारान् प्रस्तूय लीलावतारान् अपि तदैक्येन प्रस्तौति—सुरादिषु वामनादि-रूपेणाविराविर्भावः । तद् अखिलमंशत एव यद्य् अपि, तथापि तद्-विराडवन् न कुहकम् । तत्र हेतुः—अवयविन इति । न हि मानुष्यावयविनो हस्त-पादाद्या विजातीयाः पश्वादि-सम्बन्धिनो भवन्ति । तथा हि [भा पु १०-१४-२०] सुरेषु इत्यादि ॥
**त्वमसि परात्परः सकलशक्तिकदम्बमयः, परभगवत्तया त्वमखिलेश्वरमूर्धमणिः । ** **घटयसि दुर्घटं विघटयस्यपि भोः सुघटं, तव महिमा हि मादृशगिरां न भवेद्विषयः ॥ **
यद्य् अप्येवमैक्यम्, तथापि पूर्णत्वेनावतारित्वात् तेषां मूल-भूतस् त्वं पृथग् एवोत्याह—त्वम् असीति । ते परम-स्वरूपाः, त्वन्तु परात्परः, ते यथोपयोगिज्ञानेच्छाकृत्यादि-शक्ति-प्रकाशवन्तः, त्वन्तु सकल-शक्ति-कदम्बमयः, ते भगवत् तया अखिलानाम् ईश्वराः, त्वन्त्नु परम-भगवत् तया तेषाम् अपि मूर्धमणिरूपः । तथा च [भा पु १०-१४-२१] को वेत्ति भूमन् इत्य् अस्य आभास-तात्पर्यम् ॥
**क इह नु वेत्ति ते चरितमण्वपि भूमतमोत्तम भगवन् परात्मतम योगविदां परम । ** क्व कति कथं कदा यदयि योगकलां प्रथयन्, विहरसि लीलया शिवविरिञ्चि-दुरासदया ॥
तेऽवतारा भूमानस् त्वन्तु भूमतमोत्तम इति । एवं परात्मत्मेत्यादि । तथा च को वेत्ति भूमन् इत्यादि ॥
**इदमखिलं जगद्यदपि नश्वरमीश्वर भोः, पुरुतरदुःखदं विरसमन्तत एव हि यत् । ** त्वयि रसबोधनित्यवपुषि प्रकटं विलसद्भवति भवत्पदप्रतिममेव हि शाश्वतिकम् ॥
असतोऽपि सत्ता-प्रदत्वात् त्वम् एव साक्षाद् ईश्वर इत्य् आह—इदम् अखिलं जगत् यद्य् अपि नश्वर, मायिकत्वात् त्वत्-स्वरूपाद् भिन्नम्, तथापि त्वयि प्रकटं विलसत् भवति, त्वत्-सेवनोन्मुखं चेत् स्यात् भवति, तदा भवतः पदं स्थानं धाम तत्-प्रतिमम् एव तत्-सदृशम् एव शाश्वतिकं नित्य-भूतं भवति । तथा च [भा पु १०-१४-२२] तस्माद् इदम् इत्यादि । तस्यायम् अर्थः—मायात उद्यद् अपि जगत् मायावृत्तिजातम् अपि नित्य् सुख-वोधतनौ त्वयि विषये स्यात्, त्वत्-सेवानुकुलं चेत् स्याद् इत्य् अर्थः, तदा सद् इव सत्यं वैकुण्ठम् इवाभातीति ॥
**त्वमनितरः पुराणपुरुषः स्वयमात्ममहः-प्रकरविसारतः समधिरूढ-समस्तभगः । ** घनसुखचिद्रसो रसविलासविशेषमयः, पुरुकरुणामयः क इह तेऽस्तु कटाक्षपदम् ॥
अनितरः, न विद्यते इतरो यस्यात् सः, एक इत्य् अर्थः । भग ऐश्वर्यादिः, तव कटाक्षपदं तिरस्कार्यः कोऽस्तु ? न कोऽपीत्य् अर्थः । तत्र हेतुः—पुरुकरुणामय इत्यादि । यद् वा, ते तव पुरु-करुणामयत्वाद् उक्त-लक्षणस्य कटाक्ष-पदं कृपावलोकास्पदं को भवेत् ? कस्य एतादृशं महा-भाग्यम् अस्तीत्य् अर्थः । भाङ्ग्या तु को ब्रह्मा करुणामयस्य तव कटाक्ष-पदम् अस्तु इत्याशास्ते च । तथा च [भा पु १०-१४-२३] एकस्त्वम् आत्मा इत्यादि ॥
**गुणनिधिमीदृशं ननु भवन्तमुपास्यतया, चरणसरोरुहे निहितमत्तमनोभ्रमरः । ** **अनुपधिचिद्रसप्रसवकान्तिलसद्वपुषं, भजति हि सद्गुरोः करुणयैव सुधीः कतमः ॥ **
अनुपधेर् उपाधि-शून्यस्य चिद् रसस्य प्रसरः17 प्रकाशो यस्मात् तच् च, अतएव कान्त्या लसच् च वपुर् यस्य तम्, तथा च [भा पु १०-१४-२४] एवंविधं त्वाम् इत्यादि । तत्र आत्मात्मतयेत्यस्यार्थोऽनुपधीत्यादिना विवृतः । किरण-रूपस्य निरञ्जन-चिद् रसमयस्यात्मनोऽप्यात्मा परमाश्रय-भूतं त्वद्-वपुरि इति । अतो विचक्षत इति त एव विचक्षणा ज्ञेया इति भावः । इति तेन साक्षाद्-भवद् उपासकः कतम एव विरलः सुधीः, अन्ये पुनस्त्वद्-वपुः-किरण-रूप-ब्रह्मोपासकाः, साक्षात् त्वच्चिद् रूप18-भजनत्यागिनो मन्द-धिय एव बहव इति द्योतितम् । अतएव तैर् अविचक्षणैर् अत्र भक्ति-रसमये ग्रहन्थे किम् इत्य् एतद् अभिप्रेत्य तन् निष्ठा-प्रकार-प्रदर्शकम् । [भा पु १०-१४-२५] आत्मानम् एवात्मतयाविजानताम् इत्यादि श्लोक-चतुष्टयम् उल्लङ्घितम् एवेति ॥
**तव चरणाम्बुजोल्लसदनुग्रहशुद्धमति-स्तव निजतत्त्वविद्भवति कोऽपि परः सुकृती । ** न तु निगमागमाद्यखिलशास्त्रविचारणया, कृतमतिरप्यसौ सुनिपुणोऽपि महानपि यः ॥
ननु तर्हि केवल-ब्रह्मतत्त्व-मात्र-ज्ञान-परा माम् अभजन्तो विगीताः सन्तु, किन्तु साक्षान् मां भजताम् अपि मत्तत्त्व-ज्ञानार्थं19 तेषां ज्ञानिनाम् इव वेदादि-शास्त्र-विचारणम् अपेक्षितं स्याद् एव ? तत्र नेत्य् आह—तवेति । तथा च [भा पु १०-१४-२९] अथापि ते देव इत्यादि ॥
**अत इदमेव भूरितर-भाग्यमिहैव जनुः, किमपि यतो भवेत्तव जनाङ्घ्रिरजःस्नपनम् । ** स्वजनगणस्य जातिकुलशीलधनादि भवान्, चरणरजोऽधुनापि तव वेदविमृग्यतमम् ॥
तत्रापि20 भज्त्येकमये श्री-वृन्दाबन-धाम्नि ये यत्-किञ्चिज् जन्म-मात्रवन्तस् तेषां भाग्यम् आशासान एव स्तौति-अत इति । किम् अपि तृण-गुल्मादि-सम्बन्ध्य् अपि, यतो जनुषः । नन्वत्र साक्षान् मय् अपि तिष्ठति मदीय-जनाङ्ग्रिरजसि कोऽयम् अत्याग्रहः ? तत्र तेषां इव प्रेमाणं निगूढम्21 आशासानस् तान् एव सगद्-गदं स्तौति—स्वजनेति । जातीति—अहो त्वयि ममता-परिपाटीति भावः । अतएव वेदैर् अपि अतिशयेन विमृग्यम् एव, न तु प्राप्तम् । तथा च तद्-भूरि-भाग्यम् इत्यादि ॥
**तदिह ममाप्यहो भवतु जन्म किमत्र भवे, किमथ परत्र गुल्म-तरु-पक्षि-पशु-प्रभृतौ । ** **अहमपि येन ते चरणपद्मनिषेविजना-ननु चरणाम्बुजं तव भजामि निरस्तमदः ॥ **
तत्रापि22 भज्त्येकमये श्री-वृन्दाबन-धाम्नि ये यत्-किञ्चिज् जन्म-मात्रवन्तस् तेषां भाग्यम् आशासान एव स्तौति-अत इति । किम् अपि तृण-गुल्मादि-सम्बन्ध्य् अपि, यतो जनुषः । नन्वत्र साक्षान् मय् अपि तिष्ठति मदीय-जनाङ्ग्रिरजसि कोऽयम् अत्याग्रहः ? तत्र तेषां इव प्रेमाणं निगूढम्23 आशासानस् तान् एव सगद्-गदं स्तौति—स्वजनेति । जातीति—अहो त्वयि ममता-परिपाटीति भावः । अतएव वेदैर् अपि अतिशयेन विमृग्यम् एव, न तु प्राप्तम् । तथा च तद्-भूरि-भाग्यम् इत्यादि ॥
**सुकृतमहो अहो बत महोन्नति-घोषजुषां, यदसि परं बृहत्तमसि चिद्रसपूर्णतनुः । ** **महदहमोः परः प्रकृतिपुरुषयोश्च परः, परमसुहृत्तमो वभ यदीय इयानतुलः ॥। **
नन्व् अत्रत्यानाम् एषाम् एव किं तद्-भाग्यं तन्निर्वक्तुं न शक्यते, किन्तु फलेन फलकारणम् अनुमीयते24 इति न्यायेन कथञ्चिद् उच्यत इत्य् आह—सुकृतम् इति । अहो इति पुनर् उक्तिर् अत्याश्चर्ये । वतेति तत्राप्य् अतिचमत्कारे । महती उन्नतिर् यस्य तत् । महद् अमोर्महत्तत्त्वाहङ्कारयोर् भङ्ग्या तु तद् अधिष्ठातृत्वाद् ब्रह्म-रुद्रयोः परः । कियद् एतत् प्रथम-कक्षागतं माहात्म्यम् इति तयोर् अपि परयोः प्रकृति-पुरुषयोर् अपि परः । ननु वृहत्त्वाद्-वृंहणत्वाच् च तद्-ब्रह्म परमं विदुः इति ब्रह्मैव वहुत्र सर्व-परमभूतत्वेन श्रुयते ? तत्राह—वृहत् ब्रह्म परं परमभूतं सत् त्वम् असि, [गी १४-२७] ब्रह्मणोऽपि प्रतिष्ठाहम् इत्यादि-श्रुति-वाक्यैस् तस्य तस्याप्याश्रय-भूतश् चिद्-रस-पूर्ण-तनुस् त्वम् एव भवसीत्य् अर्थः । एवं-भूतस् त्वं यद्-यस्मात् घोषजुषां व्रजवासिनां परम-सुहृत्तमः, न च सुहृद् एव, नापि परम-सुहृत्, नापि परम-सुहृत् तरश्चेति भावः । तत्राप्य् अतिविस्मये वतेति, इयान् एतावान् अतुलो निरुपमोऽपि त्वं यदीयः स्व-स्वामि-सम्बन्धेन येषां स्वामीत्य् अर्थः । तत्र तादृशः प्रेमैव कारणम् इति भावः । तेन तैर् एव् सेवितैस् त्वत्-प्रसादेन त्वं लभ्यसे, नान्यथेत्यतः साधूक्तं मया—तव जनाङ्घ्रिरजःस्नपनम् इति । तथा च [भा पु १०-१४-३२] अहो भाग्यम् अहो भाग्यम् इत्यादि ॥
**अहमिह धन्यतां किमनु वच्मि गवां सुदृशामपि जगदुत्तरां जगदधीश भवान् भगवान् । ** **अपिवदनुत्तमं बत यदीयप्रयोधरजं, रसमिह वत्सवत्सपसलील-शरीरधरः ॥ **
तेष्व् अपि मध्ये मुख्य-मुख्यतराणां माहात्म्यं पुनर् अतीव दुष्पारम् इति दिग्-दर्शनरीत्य् आह—अहम् एहेति । इह व्रजे, पुनर् इहेति अत्र समये, वत्स-वत्सपेति बहु-विध-रूपधारणेन तत् पानं तव महा-तल्लोभपारवश्य-व्यञ्जकम् इति भावः । तथा च [भा पु १०-१४-३१] अहोऽतिधन्याः इत्यादि ॥
**अथ मनुजाकृतिं गतवतामिह घोषभुवां, करणकुलाश्रयास्तव पदाम्बुजशीधु कियत् । ** यदुपलभामहे तदवशिष्टमनेन वयं, बहुसुभगा अमी किमु भवन्तु गिरां विषयाः ॥
करण-कुलाश्रया इन्द्रिय-कुलान्याश्रित्य तद् अधिष्ठातृ-दैवतत्वेन वयम् इत्य् अर्थः । अत्र यद्य् अप्य् अभिमन्तुर् आत्मन एव विषय-भोगः, न तु तत् तत्-कर्तृणाम् इन्द्रियाधि-देवानाम् इत्य् अध्यात्म-सिद्धान्तस् तथापि वुद्धौ ब्रह्मा तिष्ठति, चक्षुषि सूर्यस् तिष्ठति, तन्तम् अधिष्ठातारं विना तु तत् तद् इन्द्रियं श्री-कृष्ण-निष्ठानाम् अपि रूप-रसादीनां घ्राहकं न स्याद् इति सामान्य-दृष्ट्या अध्यात्म-विदां प्रवादोऽपि श्री-कृष्णे प्रेमौत्कण्ठ्यवतां ब्रह्मादीनाम् आनन्द-हेतुः, कर्तृत्व-मात्रेणैव भोक्तृत्वाभिमान-स्वीकारात् प्रेम्णाम् एव विलक्षणेयं प्रक्रिया दृश्यते चान्यत्र पद्यावल्यादौ [१७९] मिथ्यापवाद-वचसाप्य् अभिमान-सिद्धिः इत्यादीति । अन्यथा चिदानन्दमय-वपुषा श्री-भगवत्-परिवाराणां तेषाम् इन्द्रियादेः प्राकृतत्वम् एव न शक्यते वक्तुम्, कुतस् तत्र तत्र तत्-प्रपञ्चगतानां ब्रह्मादीनां प्रवेश इति । तथा च [भा पु १०-१४-३३] एषां तु भाग्यमहिताच्युत इत्यादि ॥
**विषविषमस्तनापि कृतमातृसुवेशतया, समजनि पूतना तव सुधाम्नि सहावरजा । ** **धनजनजीवनाद्यखिलदानकृतां किमहो, व्रजपुरवासिनां विवरितेति भवाम्यपधीः ॥ ** **अथ बत लोभ-कोप-मद-मत्सर-काममुखा, विदधति तावदेव हि जनस्य मलिम्लुचताम् । ** गृहमपि तावदस्य परमेश्वर बन्धगृहं, तव चरणाब्जयोर्न खलु यावदयं निरतः ॥
कृतो मातुर् यशोदाया इव वेशो यया तस्या भावस् तत्ता तया, सुधाम्नि शोभन-धाम्नि वैकुण्ठे, समजनि समभूत् । किं विवरिता ? कं वरं भवान् दास्यतीति तद् अनुसारेणैषाम् उचितस्य वरस्यासम्भवात् ऋणित्वेन तवैतत् पारतन्त्र्यं युक्तम् एवेति भावः । तथा च [भा पु १०-१४-३५] एषां घोष-निवासिनाम् इत्यादि ॥
**अहह विदन्ति ये तु महिमानमहो भवतः, सुभग विदन्तु ते सुकृतिनोऽतिविदग्धधियः । ** **न हि विवदामहे न खलु तेषु घृणां तनुमो, मम तनुहृद्गिरामपदमेव भवन्महिमा ॥ **
भगवद्-भक्तिरस्योद्घाटन-चापल्येन स्वस्य भगवत्तत्त्व-विज्ञाम्मन्यता-मात्रम् आशङ्क्य सप्रश्रयम् आह—अहहेति । अतिविदग्धधिय इति विरुद्ध-लक्षणया श्लेषेण तु आकाश-परिमातॄणाम् इव विशेषतो दग्धैव धीस् तेषाम् इति । तथैव25 सुकृतिन इत्य् अत्राप्यकार-प्रश्लेष इति न विवदामह इति तैर् विवादोऽपि परम-मूर्खतेति भावः । घृणां न तनुम इति भवत् तत्त्व-निश्चय-चापल्य-मात्रं कृतवतो ममापि तादृशत्वं जातम् इति भावः । किन्तु भवत्-कृपया साम्प्रतम् एव सा मम मुर्खता अपगतेत्याह—मम इत्यादि । अपदमनास्पदम् अगम्य एवेत्य् अर्थः । तथा च [भा पु १०-१४-३८] जानन्त एव जानन्तु इत्यादि ॥
**इदमनुमन्यतां कृपणवत्सल यामि भवत्-कृतपरमेष्ठितास्पदपदानुपदः पदवीम् । अखिलजगज्जनान्तरविदेकचिदेकरसो, मम हृदयञ्च वेत्सि तव देव नमामि पदे ॥८७॥
गते स्वयम्भुवि भुवि सुविमलायां नवतृणाङ्कुराचामोदारमोदा रभसेन चरन्ती पूर्ववत् सा वत्सावलिरथ रथचरणपाणिना ददृशे ॥८८॥ **
अथ तादृश-स्वयाच्ञायां तेनैव कृपयतापि भगवता कृत-मौनेन यावद् अधिकारम् आधिकारिकाणाम् इति न्ययेन स्वस्य सत्य-लोक-प्रस्थापनम् एव साम्प्रतम् अभिप्रेतम् इत्य् अनुमाय स-लालसा-गर्भ-विनयं समयोचितम् आह—अनुमन्यताम्, अनुमतिं कुरु, पदवीं सत्य-लोलं यामि । कीदृशः ? भवतैव कृतं स्वाज्ञया प्रयुक्तं यत् परमेष्ठितास्पदं पदं सृष्ट्यादि-व्यवसायस् तेनैवानुपद्यते अनुगच्छतीति तथा-भूतः । तेनात्रावस्थानानर्हतया तादृश-त्वदाज्ञास्थायित्वम् एव मम निकृष्ट-दासस्य युक्तम् इति भावः । अखिलानाम् एव जगज् जनानाम् अन्तरं वेत्सि, अतस्तन् मध्यपतितस्य ममापि हृदयं किं मया स्वाभिलषितं मुहुर् विज्ञाप्यम् इति भावः । तेनैव तद् अधिकारान्ते मद् अभीष्टं सम्पादयितुं श्री-भगवच् चरणा एव प्रमाणम् इति द्योत्यते । न च प्राकृतस्येव तवात्र विस्मृतिः सम्भाव्येति द्योतयन्न् आह—एको मुख्यश् चिद् एक-रसो ज्ञान-घन-रसमय इत्य् अर्थः । तथा च [भा पु १०-१४-३९] अनुजानीहि मां कृष्ण इत्यादि । अत्र [भा पु १०-१४-३०] तद् अस्तु मे नाथ इत्यादि, [भा पु १०-१४-१] पशुपाङ्गजाय इति स्त्ववोपक्रमानुरोधेनात्य् उपयुक्तत्वाभावाद् इव [भा पु १०-१४-३७] प्रपञ्चं निष्प्रपञ्चेऽपि इति, श्री-कृष्ण वृष्णि-कुल-पुष्कर इति पद्य-द्वयार्थो न विवृतः, किन्तु एकचिद् एक-रसो नमामीति पदाभ्याम् उट्टङ्कित एव ।
श्री-मद्-भागवत-श्लोक-व्याख्या-चातुर्य-वद्धियाम् ।
तदैकार्थ्य-रसास्वादे दिङ्मात्रम् इव दर्शितम् ॥
नव-तृणाङ्कुराणाम् आचामेन आस्वादेनोदारो मोदो यस्याः सा । रभसेन हर्षेण ॥८८॥
तदनु कलकोमलगभीर-हाङ्कारकलितचलनेङ्गितानुविद्ध-लघुलघुयाष्टिकाघूर्णनेन ससम्भ्रमभ्रमणेन मुखविवरविगलदर्धावलीढतृणाङ्कुरनिकर-करम्बित-धरणितलं वत्सकुलमनु मनुजाकृति परं ब्रह्म ब्रह्ममोहनानन्तरमनन्तरमणीयरहस्य-हस्यमान-परमोपयोगि-योगिकुलं पूर्वभोजनस्थलमनुससार ॥८९॥
हाङ्कारः परावर्तनार्थं तादृश-सङ्केत-ध्वनिस् तेन कलितं कृतं चलनेङ्गितं तस्यापि अङ्गितया अङ्गित्वेन अनुविद्धं लघु-लघु-यष्टिका-घूर्णनं तेन हेतुना यत् स-सम्भ्रमं भ्रमणं तेन ॥८९॥
सारभृतां मुकुटमणिमिममालोक्य तेऽपि तदनवलोकन-वैमनस्यं वै मनस्यञ्जसा यदुपजग्मुस्तदपहाय हायनं गतमपि क्षणार्धमिव मन्यमाना मानान्तरानधिगम्यमानमहिमानमहिमानहारिहारिचरितमुपव्रजन्तो “नाभोजि भो जितरिपुसमीकबल! कबल एकोऽपि भवन्तमन्तरेण” इति वदन्तो दन्तोज्ज्वलकिरणमञ्जरीजरीजृम्भमाणमधुराधरा धराभर्पहारिणं हारिणं तमभित आवव्रुः ॥९०॥
मानान्तरेण प्रमाणान्तरेणान् अधिगम्यमानो न ज्ञायमानो महिमा यस्य तम् । अहिर् अघासुरस् तस्य मानहारि ज्ञान-नाशकं गर्वहारीति वा हारि मुग्धं चरितं यस्य तम् । एकोऽपि कवलो न अभोजि । भो इति सम्बोधने । समीकं सैन्यम् ॥९०॥
तदनु दनुजदमनोऽपि मनोऽपिधायिनीं सप्रणयमुवाच वाचमतिमधुरतराम् ।
“एवमेव मे प्रणयलोभवतां भवतां सुचिरमयि मयि हृद्यसौहृद्यसौरभम्” इति निगदिता दिताखिलतापा
लतापाशवलयवलयितकराः कराग्रं भगवत आधृत्य “एहि चिरारब्धमशनं समापयामो यामोऽशनयायाः पारम्” इति मितिरहितकथामोदेन तेषां जातकौतुकः स दानवनाशनो वनाशनोत्सव-परिसमाप्तिमभिललाष ॥९१॥
मनसोऽपिधायिनीं प्र्म्णा आच्छादन-कारिणीम् । अयि सम्बोधने । मयि विषये यत् हृद्यं हृदय-प्रियं सौहृद्यं तस्य सौरभं तद् वद् इन्द्रियाह्लादकत्वम् । दितः खण्डितोऽखिलतापो येषां ते । अशनायायाः क्षुधायाः—अशनाया वुभुक्षा क्षुत् इत्य् अमरः ॥९१॥
अथ भोजनरस उपरते परतेजसा तेन दिवसमणेर्ललाटन्तपस्यातपस्यापनोदाय विनोदाय विश्रामेण च क्षणमलसतालसतामवयवानां खेलाखेदं प्रच्छाय प्रच्छायललिततरुभूलमालम्बमानो लम्बमानोदारहारः सहचरोरुमूलकृतोपधानो मुहूर्तं सुष्वाप सुस्वापतेयमिव रमणीयतादेव्याः ॥९२॥
दिवसमणेः सूर्यस्य, कीदृशस्य ? परतेजसा ललाटन्तपस्य, [पा ३-२-२६] असूर्य-ललाटयोर् दृशितपोः इति खश् । तत्-सम्बन्धिन आतपस्यापनोदाय निवारणार्थं विश्रामेण हेतुना क्षणं विनोदायानन्दार्थं भोजन-हेतुकया अलसतया आलस्येन लसतां शोभमानानाम् अङ्गानां खेलाजनितं खेदं प्रच्छाय दूरीकृत्य, छो छेदने प्रकृष्टा छाया यत्र तथा-भूतं तरुमूलं सुष्वाप । कीदृशम् ? रमणीयता-देव्याः शोभनं स्वापतेयं धनम् इव, [पा ४-४-१०४] पथ्यतिथिवसतिस्वपतेर्ढञ् इति ढञ् । रमणीयत्वस्य सर्व-स्वभूतं तत्, शयनम् इत्य् अर्थः ॥९२॥
अथ भगवन्निलय-लयनार्थमिव गगनचत्वरत्वरमाणे चरम-दिग्वनिता-नितान्तपरभागभागतिशय-प्रणय-महिम्नेव तद्भवनमालम्बितुमुपक्रान्तेऽपक्रान्ते च सकललोकतापतोऽपतोषतया कमलिनीमलिनीभावभावयितरि तरिमिव गगनपारावारपारावारयोः स्वमण्डलीमण्डलीनामिव चिकीर्षति भगवति गभस्तिमालिनि वेणुविषाणध्वनिध्वनित-दिग्वलया निलयाय निभृतहृदया हृदयाधिनाथेन तेन सह सहचराः सर्व एव सर्वतो वत्सान् समवहारयन्तो रयं तोषस्यासाद्य व्रजन्तो व्रजं तोयदेन सह नभोदिवसा इव भोगिनस्तस्यैव पूर्णाभोगं भोगं वीक्ष्य सकौतुकं “अहो! महोज्ज्वलं नः खेलागह्वरमिदं जातम्” इति परस्परं गदन्तोऽगदं तोदहरमिव श्रीकृष्णं निधाय पुरः पुरः समीपं समुपसीदन्ति स्म ॥९३॥
भगवतो निलये लयनं संश्लेषः प्राप्तिस् तद् अर्थम् इव गभस्तिमालिनि सूर्ये गगनचत्वरात् त्वरमाणे सति श्री-कृष्ण-सङ्गिनां तेषां सुखमय-समयस्याल्प-प्रमाणत्व-भाणात् सर्वे सहचराः श्री-कृष्णं पुरो निधाय पुरः पुर्याः पुरोऽग्रदेशस्य समीपम् उपसीदन्ति स्मेत्य् अर्थः । गभस्तिमालिनि कीदृशे ? चरम-दिग् एव वनिता तस्या नितान्तपरभागम् अतिशयशोभां भजते तथा-भूतो योऽतिशय-प्रणयस् तस्य महिमा इव तद्-भवनम् आलम्बितुम् उपक्रान्ते कृतारम्भे । ततश् च सकल-लोक-कर्मकात् तापतोऽपक्रान्ते निवृत्ते तद् वनिता-विरह-सन्तप्तेनेव तेन सकल-लोक-तापनात् । ततश् च अपतोषतया स्वकर्तृक-त्यागेन गत-सन्तोषतया कमलिन्या मलिनी-भावस्य भावयितरि उत्पादके । किम् च, स्वमण्डलीं निज-विम्बम्, अण्डलीनां ब्रह्माण्डकटाहलग्नाम् इव चिकीर्षति । स्वमण्डलीं कीदृशीम् ? गगनम् एव पारावारः समुद्रस् तस्य परावारयोः पारावारतटयोर् गमनार्थं तरिम् इव नौकाम् इव, श्लेषेण स्वमण्डलीं स्वगोष्ठीं तथा-भूतां चिकीर्षति । तद् वनितास्थानम् एकाकित्वेनैव जिगमिषयेति भावः । रयं वेगम्, तोषस्य सन्तुष्टेः, आसाद्य प्राप्य, ब्रजं गोष्ठम्, नभसः श्रावणस्य, दिवसा इवेति तद् अविनाभावित्वं ध्वनितम् । भोगिनः सर्पस्य तस्यैव अघासुरस्य भोगं शरीरम्, भोगं शरीरम् इति भागवृत्तिः, पूर्णाभोगं पूर्ण विस्तारम्, अगदम् औषधम्, तोदहरं व्यथाहरम् ॥९३॥
तत्र च मातृस्तनपानोत्सुकतया सत्वराग्रचरणा रणाजिरोदित्वरमहसि महसिद्धिकृति पश्चाद्वर्तिनि भगवति विलम्बमानोत्तरचरणा इव सर्वे वत्सा उभयतस्त्वरात्वराभ्यां सहजतोऽपि मन्थरगतय एव बभूवुः ॥९४॥
तत्र च समुपसादन-क्रियायां सर्वे वत्सा उभयतोऽग्रतः—मातृ-स्तनेति, अत्वरायां हेतुः—पश्चाद् वर्तिनि भगवतीति । किदृशे ? रणाजिरे युद्धाङ्गने उदित्वरम् उदयशीलं महस् तेजो यस्य तस्मिन्, स्वजीवन-रक्षके प्रेम समुचितम् एवेति भावः । महसिद्धिकृति उत्सव-सम्पादके, इति तत्र प्रेम्णी तादृश-वुद्धि-पूर्वक-कृतत्व-शङ्कापि निरस्ता । सहजतोऽपि मन्थरगतय इति त्वरातोऽप्यत्वराया आधिक्यं वोधयति । तेन च स्वात्मदेहादितोऽपि तेषां श्री-कृष्णे प्रेमाधिक्यं द्योत्यत इति ॥९४॥
प्रविष्टे च व्रजपुरं व्रजपुरन्दरनन्दने कलमधुरमुरलीरवमधुभिः कुर्वति सकललोकश्रुतिसेचनकमसेचनकमधुरिमणि रचयति समस्तजन-जीवनागमनमिव स्नेहभरनिर्भरनिर्भुग्नहृदयाभ्यां तन्मुरलीनादगुणेनाकृष्टाभ्यां पितृभ्यां प्रतोली-तलमुपसेदे ॥९५॥
श्रुति-सेचनकम् इति स्वार्थे कः । असेचनकं परमानन्दकारी मधुरिमा यस्य तस्मिन्—तद् असेचनकं तृप्तेर् नास्त्यन्तो यस्य दर्शनात् इत्य् अमरः । तत्र दर्शनादित्य् उपलक्षणम् अनुभवस्यापि, तथा दीर्घादित्वम् च क्वचिद् इति तट् टीकाकृतः26 । प्रतोली रथ्या—रथ्या प्रतोली विशिखा इत्य् अमरः ॥९५॥
तदनु दनुजदमनसहचराश्चराश्चरगुरोस्तस्यैव वत्सरान्तरकृतं कृतं तदद्यतनमिव जानन्तोऽनन्तोत्तमसन्तोषतः स्व-स्व-जननीजननीरजस्कीक्रियमाणवपुषः सन्तो निजगदुः—“जननि! जननितान्तविस्मापकं स्मापकं चास्माकमतिसाहसपुष्करं दुष्करं दुरासदं रासदं कर्म कृतवान्, अस्मानपि विषमविषमहानलदग्धानविदग्धानविलम्बेनैव जीवयामास च स चतुरशिरोमणिः” इति वत्सरक्षणा वत्सरक्षणाहितलक्षणाः शिशवः सर्वमेवानुपूर्व्या कथयाम्बभूवुः ॥९६॥
वत्सरान्तरे कृतं तत् कर्म अघासुर-वध-लक्षणम् । स्मापकं च मन्द-हास्य-जनकं च । अतिसाहसेन पुष्करं पुष्कलम्, रलयोरैक्यात् । रासो विनोदः, वत्सरः, क्षणवद्-येषां ते वत्स-रक्षणाः, वत्सानां रक्षणे आहित-लक्षणा निपुणाः—गुणैः प्रतीते तु कृत-लक्षणाहित-लक्षणौ इत्य् अमरः । अत्र एषु मातृभिः श्वस्तनादि-व्यवसायस्य प्रश्नः, तास्वेभिर् अपि प्रत्युत्तरेण तद् अनुमोदनम्, श्री-भगवत्-प्रभावेण पूर्व-स्वरूपेष्वपि निज-तयैषां स्पूर्तिर् इति ज्ञेयम् ॥९६॥
अथ घोषराजो राजोचित-परिच्छदकरैः परिचारकनिकरैः करैकदिश्यमानैरुपचरितं चारुचरितं चारुणाख्यं प्रभूतनयं तनयं स्नानपानाहारादिभिरपसारितखेदं खे दन्दह्यमानस्य खरकिरणस्य किरणस्यन्दः कथमनेनसानेन साधुनाधुना शिरीषकोमलवपुषा सह्यत इति जनन्यानन्यातिशयवत्सलया करतलेनामृश्यमान-सकलाङ्गं विश्रामाय नियोजयामास ॥९७॥
कारैकेन दक्षिण-करेण । एतद् एतद् एवम् एवं क्रियताम् इति स्वयम् अभिमानेन दिश्यमानैर् आज्ञाप्यमानैः, दन्दह्यमानस्य अतिशयेन दाहकस्य खर-किरणस्य सूर्यस्य किरणस्यन्दो रश्मिधारापातः । एनः पापम्, अनेनसा अघ-रहितेन । वस्तुतस्तु पञ्चमान्यपदार्थ-बहुव्रीहिणा अघ-हन्त्र्या जनन्या कर्त्र्या करतलेनामृश्यमानानि सकलान्यङ्गानि यस्य तम् । कीदृशा ? न विद्यते अन्यस्यामतिशयो यस्याः, तथा-भूता चासौ वत्सला चेति तया ॥९७॥
गतवति भवन-मध्य-मध्यवसाय-सहस्रैरप्यनधिगम्य-भावलीलेऽवलीलेहित-योगीन्द्र-वृन्ददुष्करकरणे भगवति व्रजपुरपुरन्दरोऽदरोत्साहसाहसिक्यवशो महिष्या समं मन्त्रयामास ॥९८॥
कीदृशे ? अवलीलयैव ईहितं कृतं योगीन्द्र-वृन्दैर् अपि दुष्करं करणं कर्म ब्रह्म-मोहनादि-लक्षणं येन तस्मिन्, अदरेण अनल्पेन उसाहेन साहसिक्यं सहसा प्रवर्तनं तद् वशः ॥९८॥
**
“अयि श्रीकृष्णजननि परिचारकादिपरिच्छद इव कृष्णस्य पृथगावासोऽपि कारयितुमर्हः” । सहसा हसन्ती साह—“सन्तीह कति दिवसा अस्य जातस्य, नाधुनानेन धुनानेन सकलाङ्गतापं शून्योत्सङ्गया मया भवितुं शक्यते” ॥९९॥**
सा यशोदा आह । कीदृशी ? सहसा हसन्ती, प्रश्नस्यात्यन्तायोग्यत्वम् अननेन कृतहासा । अस्य कृष्णस्य जातस्य सतः कति दिवसाः सन्ति ते स्वयं गण्यन्ताम् इत्य् अपेक्षितस्य शेषस्यानुक्तिर् अपर्यालोचित-चिकीर्षिते त्वयि किं प्रत्युत्तरयितव्यम् इति व्यज्यमानार्थ-पोषिका । अनेन श्री-कृष्णेन, अधुना इदानीम् एव, धुनानेन दूरीकुर्वता, शून्योत्सङ्ग्या शुन्यक्रोडया ॥९९॥
**स चोवाच वाचमतिकोमलाममलाम्—“अयि न जानासि नासि विज्ञाविज्ञानामिदमपि किञ्चिदभिमानसुखम्, यदपत्ये जातमात्र एव तद्वैभव-भवनाय प्रमोदन्ते सम्पन्ना हि पितरः । सुखविशेष एवायम्, कथमत्र शून्योत्सङ्गया भवितव्यं भवत्या” इति स्मितपूर्वं तूष्णीकया तया कृतानुमोदनो मोदनोनुद्यमानमानसस्तदपरेद्युरारभ्य कृष्णार्थं पृथगेवात्मपुरसदृशमात्मपुरलग्नमेव पुरं कारयामास ॥१००॥ **
सम्पन्नाः धनादिमन्तः, तूष्णीकया मौनवत्या । कृतानुमोदन इति मौनं सम्मति-लक्षणम् इत्य् उक्तेः । मोदेन नोनुद्यमानम् अतिशयेन प्रेर्यमाणं मानसं यस्य सः ॥१००॥
इत्यानन्दवृन्दावने कौमारलीलालताविस्तारे वत्सक-बकाघासुरवध-पुलिनभोजन-ब्रह्ममोहनो नाम सप्तमः स्तवकः ॥७॥
…
-
वकाद्यानां [घ] ↩︎
-
भोजनम् [घ] ↩︎
-
दूरसंयोग-वाचिनी [ग] ↩︎
-
सेअरि [ग] ↩︎
-
तद् अंशो [ख] ↩︎
-
ग्रामानुपथ [घ] ↩︎
-
लक्षणे [ख] ↩︎
-
एवं-विध [ख] ↩︎
-
पुतना-वध [ग] ↩︎
-
बाल्यादि-लीला-वपुष [ख] ↩︎
-
सन्धिताम्र [क,ग] ↩︎
-
वाउका [ख] ↩︎
-
योग्य एवेत्य् अर्थः [ग] ↩︎
-
जल [ग] ↩︎
-
स्वभाव [ग] ↩︎
-
परिच्छिन्नत्वानियम इति [ख,घ] ↩︎
-
प्रसव [ख] ↩︎
-
त्त्वच्छूद्ध [ख] ↩︎
-
ज्ञापनार्थं [ग] ↩︎
-
तथापि [घ] ↩︎
-
निरूढ [ग] ↩︎
-
तथापि [घ] ↩︎
-
निरूढ [ग] ↩︎
-
अनुमीयते [ग] ↩︎
-
तथा [ग] ↩︎
-
तट्टीकाकृत् [ग] ↩︎