षष्ठः स्तवकः
अथवं शैशवकलाकौशलवान् स बालभगवानेकदानेकदासीगणेषु विद्यमानेषु विद्यमानेषु कार्यान्तरकरणाय नियोजितेषु जितेषु निजाज्ञया स्वयमेव दामसमुत्कर्षकर्षण-जनित-पर्याय-पर्यायस्तेन चलमरकत-वलयनट-नटन-झङ्कारमुखरेणाखरेणामलतरेण मदकारण-रणदलि-दलितकमलमलकारिणा करपल्लवेन मृणालदण्डदण्डनपण्डितेन भुजयुगलेन चाङ्गलता-गलता श्रमजलकणभरेण निर्भरेण निर्भरितम्, अलककुलाकुलायमान-भाल-भा-ललितम्, पीवरकुचतट-विहारहारलतान्दोल-दोलत्कञ्चुलिकम्, अमलतरश्रुतियुगल-गलदलाव-लावण्य-सुधासुधारायमाण-कर्णभूषामणि-किरणमञ्जरी-जरीजृम्भ्यमाण-माधुर्य-धुर्यतर-भुज-शिरो-भुज-शिरोऽधिकम्, अधिकमञ्जुल-पृथुल-श्रोणिभार-भा-रमणीयमणीयमित-झणझणायमान-काञ्चिकाञ्चितम्, अतिशिथिल-कवरीकलापकलाप-विस्रंसमान-समान-कुसुम-निकरापदेशेन तिमिर-निकर-रम्यमाणतारावतारावनिकृतशोभाभरम्, अतिवर-विवर-विव्रियमाण-घनघोरघोषोदधिदधिगर्गरीमुखसमुच्छलदच्छलदक्षदधिशीकर-निकर-नितान्ताकीर्ण-स्वर्णशाटिकान्तकान्तम्, स्व-तनय-नयन-लोभनीय-नवनवनीतनीतमानसत्वेन मानसत्त्वेन दधिमथनमादधानां मा दधानां वीक्ष्य मातरमातरलहृदयो विरचितपयोधररसाकाङ्क्षाका क्षामतामभिनीय “कुरु विलम्बं मा मथनतः, मा मथ, न तोदय, देहि मे स्तनरसम्” इति सकलजनमनोमन्था मन्थानदण्डमादधार ॥१॥
भाण्डस्फोटो दाम-वन्धोऽर्जुनमोक्षः फल-क्रयः ।
वृन्दावने प्रयाणं च ष्ठे विस्तार्य वर्ण्यते ॥
स बाल-भगवान् मातरं स्वयम् एव कर-पल्लवेन दधि-मथनमादधानां वीक्ष्य मन्थान-दण्डम् आधधारेत्य् अन्वयः1 । विद्यमानेषु दधि-मन्थनार्थम् एव तत्रागत्य वर्तमानेषु मयैवाद्य मथनीयं युष्माभिः कार्यान्तरं क्रियताम् इति नियोजितेषु मथन-कर्म-त्याजन एव तात्पर्यम् । कार्यान्तरेऽन्यासां बह्वीनां दासीनां तत्र तत्र सदा तत्-पराणां सद्-भावाद् एवेत्य् अर्थः । तत्र तत् त्याजने हेतुः—विदि तादृशमथनेन तादृश-नवनीतोत्क्रमणज्ञाने विषये न विद्यते मानः सस्मानो येषां तेषु । स्व-सुतलोभ्यतादृश-नवनीतोत्क्रमण-योग्यता-महाचतुरासु तासु दासीषु वर्तमानापि न सम्भाविता प्रेमचापल्याद् एवेति भावः । ननु जनिष्यमाणं तस्यास् तत्र महा-शरमं ज्ञात्वापि दासी गणेन ततः किमित्य् अपसृतम् ? तत्राह—निजाज्ञया जितेषु पराभूतेषु मच्छ्रमम् आलक्ष्य बलादेता दास्य एव मथिष्यन्ति इत्य् आशङ्क्य तत्र् तया स्थातुम् अपि न न दीयते, यात यातेति मुहुर् मुहुर् विसृज्यन्त एव किं कर्तव्यं ताभिर् इति भावः । कर-पल्लवेन, कथम्-भूतेन ? दाम्नां सम्यग् उत्कर्षेण यत् कर्षणम् आकर्षणम् अवकर्षणम् च तस्य जनितः पर्यायः पुनः-पुनरावृत्तिस् तेन हेतुना परि सर्वतोभावेन आयस् तेन परिश्रान्तेन मदकारणेन मत्तता-रूप-निमित्तेन रणन्तो गुञ्जन्तोऽलयो भ्रमरा यत्र तथा-भूतं दलितं प्रफुल्लदलं यत् कमलं तस्यापि मलकारिणा मालिन्यकारिणा अङ्गलताया गलता स्रवता निर्भरेण अतिशयेन निःशेषेण भरितं पूरितं यस्तात् तद्-यथा स्यात् तथा । अलकानां कुलैर् आकुलायमानस्य भालस्य भा कान्तिर् ललिता यतस् तत्, पीवरे कुचतटे विहारो यस्यास् तथा-भूताया हारलताया आनोलेन दोलन्ती कञ्चुलिका यतस् तत् । अमलतरात् श्रुति-युगलाद्गलन्ती निःसरन्ती च अलावं विच्छेद-रहितं लावल्य म्यस्यास् तथा-भूता च सुधाया अमृतस्य सुष्टु धारायमाणा च या कर्ण-भूषास्थमणीनां किरण-मञ्जरी तस्यास् तया वा जरीजृम्भ्यमाणम् अतिशयेन प्रकाशमानं माधुर्यं तस्य धुर्यतरा अतिशयेन धारका भुज-शिर-आदयो यतस् तत्, तत्र भूज-शिरसी स्कन्धौ भुजौ बाहू शिरोधिः कन्धरा । श्रोणि-भारस्य भा कान्तिस् तया रमणीया च मणिभिर् यमिता जटिता च झण-झणायमाना2 च या काञ्चिका तया अञ्चितं पूजितम् । कलापकला भूषण-शिल्प-विन्यासः । ताराणाम् अवतारोऽवतरणं पतनं यत्र तथा-भूताया अवनेः पृथिव्याः कृतः शोभाभरो यतस् तत् । अतिवरपृथुलत्वात्3 अतिवरे विवरे विव्रियमाणो घनः सान्द्रो घोरो घोषोदधिः शब्द-समुद्रो यस्यां तथा-भूताया दधि-गर्गर्या मुखात् सम्यग् उच्छलन्तोऽच्छलदक्षा न कस्यचिद् व्याजे चतुरा ये दधिशीकर-निकरास्तैर् नितान्तं सन्ततमाकीर्णः स्वर्ण-शाटिकाया अन्तः कान्तः कमनीयो यतस् तत् । तादृशे नवनीते नीतं प्रापितं मानसं यया तस्या भावस् तत्वेन हेतुना मानस्य मथन-वैष्ट्येन विलक्षण-नवनीतोत्थापने अहम् एव चतुरास्मीत्य् एवं-लक्षण-गर्वस्य सत्तेन विद्यमानत्वेन मादस्य हर्षस्य धानं धारणं यस्यास् ताम् । क्षामतां क्षुधा क्षीणतां मथनतो हेतोर् मा कुरु विलम्बम्, अतएव मा मन्थ, मथनं मा कुरु, मन्थ विलोडने इति भौवादिकः । न तोदय, न दुःखं दापय, अन्यथा भाण्डादिस्फोटनेनापि त्वाम् उद्वेजयिष्यामीति भय-प्रदर्शनम् । सर्वम् इदं तस्याः प्रेम-पोषकम् एव । मनोमन्था इति कर्थरि असुन्नन्तम् ॥१॥
तदपहाय समनन्तरमनन्तरमणीयचरितमतिकोमलं बालकं लम्बालकं तमङ्के निधाय स्तनरसं पाययन्त्यां मातरि मातरिश्वना क्षुभित-दहनज्वालयालयान्तिकान्तिकावदनाधिश्रितपयःस्थालीस्थालीनपयःसमुच्छ्वसनवेगमवलोक्य तदुत्पतनाशङ्कया कयाचन भवनोदरे तनयोपवेशमीहित्वा हित्वा च तं प्रयातवत्यां मातरि, कृतमनोऽरुषा रुषा तत उत्थाय त्वरितमेव शिलाशकलेन दधिगर्गरीं विभिद्य विभिद्यमानमना रोष-भयाभ्यां सर्वतः सरीसृप्यमाणमथितधाराधौते प्रघणतले भवनान्तरं गतो रङ्गतो विजनगतं जनगतञ्च यन्न भवति, तदपि हैयङ्गवीनं नवीनं नवप्रयत्नेन समुत्तार्य कियदशित्वा कियदवचिन्वानोऽन्वानोदितकोपस्तदादाय यावज्जननी नायाति, तावदेव देवदेवेन्द्रादिवन्दितचरणो जननीभियाभियातः, पलायनसपक्षपक्षद्वारेण निष्क्रम्य बहिरङ्गने रङ्गनेयचरितोऽवहननसमयान्यसमयान्यथाभूतावस्थितेरुदूखलस्य खलस्य निहन्ता हन्तावलम्ब्य पृष्ठं चकित-चकित एव शाखामृगशावकान्नवकानवनीतं तदाशयन्नवतस्थे ॥२॥
तद् अपहाय दधि-मथनं त्यक्त्वा मातरिश्वनिआ पवनेन आलयान्तिके वास-गृह-निकटे अन्तिका चुल्ली, अधिश्रयणी चुल्लीर् अन्तिका इत्य् अमरः, तस्या वदने अधिश्रिता आरोपिता पयःस्थली दुग्ध-पाक-पात्रम् । अत्रस्थस्य आलीनस्य पयसः सम्यग् उच्छ्वसनं सम-समत्कारेण पृथुली-भवनं तस्य वेगम् अवलोक्य तस्य पयस उत्पतनाशङ्कया4, तद्-भक्ष्यवस्तून्य् अपि काप्य् अपेक्ष्यता यया5 पुनः सोऽपि समेत्य् उपेक्ष्यताम्, प्र्म्णो विचित्रा परिपाट्युदीरिता वोध्या, तथा प्रेमवतीभिर् एव या अत्र दुग्धावर्तनकारिण्यो दास्योऽपि तत्रा-विचक्षणता-दोषारोपेण पूर्ववत् अहम् एव स्वतनय-भक्षणीयं दुग्धम् आवर्तयितुं जानामि इत्य् अभिमानेन तया विसर्जिता एवेति ज्ञेयम् । रुषा क्रोधेन हेतुना, कीदृश्य ? कृतमनोव्रणया, व्रणोऽस्त्रियामीर्ममरुः इत्य् अमरः, रोषभयाभ्यां विशेषेण भिद्यमानं मनो यस्य सः, ततश् च प्रघणतले तथा-भूते सति, अवचिन्वानस् तत् तत्-पात्रेभ्योऽग्रमग्रभागम् उत्थापयन् तन् नवनीतम् आदाय गृहीत्वा, कीदृश ? अनु तदनन्तरम् आ सम्यक्-प्रकारेण नोदितो दूरी-भूतः कोपो यस्य सःस्—कोपस्यस्वकार्यनाश्य-स्वरूपत्वात् । यद् उक्तम् कामस्यान्तन्तु क्षुत् तृड्भ्यां क्रोधस्यैतत् फलोदयात् इति आङा दधि-गर्गरीभेदने सत्य् अपि पूर्व-कोपशेष आसीद् इति द्योतितम् । पलायनस्य सपक्षं सहाय-युक्तं पक्षद्वारं खिडिकीद्वार इति ख्यातं तेन, पक्षः सहायेऽपि इत्य् अमरः, रङ्गे नाट्यादि-स्थले नेयम् अभिनेतुं योग्यं चरितं भाण्डस्फोटन-पलायनादिकं यस्य सः । अवहनन-समयाद् अन्यस्मिन् समये अन्यथा-भूता अधोमुखतया अवस्थितिर् यस्य तस्य पृष्ठम् अद्वलम्ब्य, चकित-चकित इति मातुर् आगमन-वर्त्मनि दत्तनेत्रतया सावधान इत्य् अर्थः । आशयन् भोजयन् ॥२॥
अथ पयःस्थालीमवतार्य तार्यमाणजगज्जना निजसौभाग्येन भाग्येन केनापि लब्धतादृशतनया नयासादित-यशोभारा यशोभारामणीयकवती तनयमङ्के कर्तुमुपसीदन्ती सीदन्ती च यथास्थानमवस्थापितमनालोक्य क्व गत इति तमनुसन्दधती दधती च मनसि खेदं वीक्ष्य च पुरतोभग्नदधिगर्गरीगरीयोऽगलितमथित-धाराधवलित-वलितपैच्छिल्यं भवनोदरं नोदरंहसा शकलितकर्परपरःशतं च किमिदमहोऽकस्मात् कस्माद्भग्नेयं दधिगर्गरीति रीतिनिर्णयं कर्तुमशक्नुवाना शिलाशकलाकलनेन तस्यैवेदं दुर्ललितमिति नासिकाशिखर-निहित-ललितवामतर्जनीकं क्षणमवलोकयन्ती स्मयमाना, स्मय-मानाभ्यामपि समवदातहृदया दयालूरपि कृतकृतकप्रतिघा अप्रतिघातमहसो महसोसूयमानमानस्य तस्य सुतस्यान्वेषणाय यदा बहिरियाय, तदैव तामालोक्य सहसा सह साध्वसेनोत्थिता चपला पलायनपरा पराक्रमेण क्रमेण सजवं धावमानावमानाय शङ्कमाना सा काचन श्यामला स्तनन्धयी मोहनदेवता त्वरितमनुधावन्त्या जनन्या जनन्यायविदापि निजगदे—“जगदेकधूर्त! मा धाव मा धाव” इति ॥३॥
यशश् च भा कान्तिश् च ताभ्यां रामणीयकवती, नोदरंहसा निःक्षेपवेगेन शकलितानां खण्डितानां कर्पराणां परःशतं च वीक्ष्य परःशताद्यास् ते येषां परा सङ्ख्या शतादिकात् इत्य् अमरः, अशक्नुवाना इति [पा ३-२-१२९] ताच्छील्य-वयोवचन-शक्तिषु चानश् इति चानश् । शिलाशकलस्य शिला-खण्डस्य आकलनेन दर्शनेन लिङ्गेन । मुग्धस्य शिशोर् अपि कथम् ईदृशी प्रगद्भताभूद् इति स्मयो विस्मयः, मयि सर्वत्र महा-सावधानायां सत्याम् अप्य् एवं कर्तुम् अशकद् इति मनो अहङ्कारस् ताभ्यां हेतुभ्यां सद्भ्यम् अपि सम्यग् अवदातं शुद्धं हृदयं यस्याः सा, कृता कृतका कृत्रिमा प्रतिघा क्रोधोऽर्गवो वा यया सा, प्रतिघा रुट्क्रुधौ स्त्रियाम् इत्य् अमरः, नास्ति प्रतिघातो यस्य तन्महो यस्य तस्य महे लीला-चौर्याद्य् उत्सवे सोसूयमानोऽतिशयेन जायमानो मानो ज्ञानं गर्वो वा यस्य तस्य । जनन्यायविदा जनन्या न्यायं नीतिं वेत्तीति तया ॥३॥
स च पलायमानो मानोन्नतमना मनाग्विवर्तितग्रीवमायाति न वेति नवेऽतिभये मातरमातरलितमनसमाधावमानां माधावमानाङ्गीमालोक्य धावति स्म । ततश्च—
**धावं धावमतित्वरं सचकितः पश्यन्मुहुर्मातरं ग्रीवाभङ्गमनोहरं तरलिते पश्चाद्दृशौ विक्षिपन् । ** **स्तोभक्षुब्धतया न धावितुमलं यावत्तदा कातरः ** शीतः शीतलयाञ्चकार कृतकक्रोधं जनन्या मनः ॥४॥
मानेन वाम्येन उन्नतं मनो यस्य सः, आयाति न वा आयाति माता इति नवे नूतने अतिभये सति मा श्रीस् तया धावमानानि निर्मलान्यङ्गानि यस्यास् तां मातरम् आलोक्य, धावितुं यावन् न अलं न समर्थः, तावत् तदा कातरः सन् शीतः अलसः, शीत-कोऽलसओनुष्णः इत्य् अमरः, कृतकः क्रोधो यत्र तत् मनः ॥४॥
साप्यूचे—“धूर्त्त! कत्येवं धाविष्यसि? क्व वा गन्तव्यम्? तन्मा धाव, तिष्ठ” । तया तथोक्त “यदि न ताडयसि, करतश्च यष्टिं पातयसि, तदा मा परं धावितव्यम्” इत्युक्तवन्तं दूरत एव स्थितं सा पुनरूचे—
ताडने यदि तवातिशया भीस्तत् किमद्य दधिभाण्डमभाङ्क्षीः । मातरेवमपरं न करिष्ये, पातय स्वकरतो बत यष्टिम् ॥५॥
कृष्णः प्रत्यूचे—मतर् एवम् इत्यादि ॥५॥
तदाकर्ण्य मनसा स्मयमाना बहिःकृतककोपा निकटमनुसरन्ती धर्तुं यदारेभे, तदैव पुनरपि सत्वरं धावमानः पुनरनुधावमानां मातरमवलोक्य कातरमनाः पुनरूचे—
**मातः पातय पाणितः खरतरां यष्टिं न मत्ताडनं ** कार्यञ्चेति कुरुष्व सत्यमनघे तद्यामि ते सन्निधिम् । इत्याकर्ण्य सुतस्य कातरवचः सा पाणितोऽपातयद् यष्टिं दूरत एव वीक्ष्य तदसौ विश्रान्तवान् धावनात् ॥६॥
सत्यं शपथम्, सत्यं शपथतथ्ययोः इत्य् अमरः ॥६॥
एवमतिकौतुकं दिवि दिविषदो विलोकयन्तः परमविस्मयस्मयजुषः परस्परमूचुः—अहोऽतिचित्रम्!
यद्ब्रह्मणोऽपि च परार्धयुगावसाने, वैकल्यकारि परमं किमुतापरेषाम् । तद्वै भयं नियतमेव यतो बिभेति, सोऽयं प्रसूकलितयष्टिकृतेऽतिभीतः ॥७॥
परम-विस्मयेन स्मयजुषः, मन्दहास्य-युक्ताः । परार्धयोर् युगस्य युगलस्यावसाने अन्ते ॥७॥
तदाश्वसित-समीरणान्दोलित-कञ्चुलिकाञ्चला श्रमजलकणालङ्कृत-वदनसरोजा श्लथमानकचकलापा क्षणधावनावसन्नपदकमला तनयस्य करं यदा गृहीतवती, तदा सकातर्यं, “मातर्मा ताडयिष्यसि, मा ताडनीयम्” इति गलदश्रुकला-कलिलमीक्षणकमलयुगलमभिनवपद्मपलाशकोमलाभ्यां करतलाभ्यां विमृजन् मन्दमन्दगद्गदकलवचनसुधाबिन्दुनिःस्यन्द-तुन्दिलवदनचन्द्रबिम्बो भीतभीत एव रुदन् विलोकनीय आसीत् । तदैवं माता मनसि विचारयामास—“क्षणमयं बद्ध्वा परिरक्षणीयः । यद्ययं न बध्यते, तदा कदाचिदमर्षणोऽयममर्षवशाद्यत्र कुत्रापि वनादौ गन्तुमर्हति । तत् सम्प्रति बन्धनमेव करोमि” इति विकसितचारुदन्तं रुदन्तन्तमादाय तस्यैवोलूखलस्य सविधमागम्य गम्यमानेतरमहिम्नो विहितानुबन्धाय बन्धाय दासीगणमाहूय “अयि कुरङ्गवति! अयि लवङ्गवति! लुलितललितपट्टदामानमानय द्रुतम्” इति ॥८॥
अमर्षणः क्रोधनः । गम्यमानादितरोऽगम्यमानो दुर्विगाह्यो महिना यस्य तस्य कृष्णस्य बन्धाय बन्धनार्थः विहितो योऽनुवन्ध उपायस् तस्मै, तं सम्पादयितुम् इत्य् अर्थः, [पा २-३-१८] क्रियार्थोपपदस्य इत्यादिना चतुर्थी, लुलितां मार्जितां ललितां कोमलाम्, पट्टदामानम्, न तु कर्कशम् इत्य् अर्थः ॥८॥
**ताभ्यां समानीतया तया जगदेकबन्धुं बन्धुं समुद्यतायां मुद्यतायां व्रजेश्वर्यां वात्सल्यसारमणीषु रमणीषु सकलसम्पल्लीलासु पल्लीलासु कासुचन समागतासु ताभिः समं समुपसन्नेषु नवालकेषु बालकेषु यदभूत्तदतिचित्रम् ॥ **
ताभ्यां कुरङ्गवती-लवङ्गवतीभ्यां तया तादृश-पट्टदाम्ना जगताम् एकं मुख्यं बन्धुम् इति बन्धनानर्हत्वेन विरोधः । मुदि आनन्दे दाम्नः कोमलत्व-दर्शनेन जनिते इत्य् अर्थः । यातायां रतायां पल्लीं नगरं लान्ति वासार्थं स्वीकुर्वन्तीति तासु पुरवासिनीष्वित्य् अर्थः । नवालकेषु नवीनालकयुक्तेषु ॥९॥
तद्यथा—
आद्यं दाम कटीरवेष्टनविधौ वीक्ष्य प्रसूद्व्यङ्गुल **न्यूनं तत्र जुगुम्फ यत् परमहो तच्चाभवत्तादृशम् । ** **तत्रान्यच्च जुगुम्फ यत् सुकृतिनी तच्चेदृशञ्चेदहो ** ब्रह्मवाजनि ह्रासवृद्धिरहिता सा द्व्यङ्गुलन्यूनता ॥९॥
द्व्यङ्गुल-न्यूनम् इति [पा ५-४-८६] तत्-पुरुषस्याङ्गुलेः इत्यादिना अच् समासान्तः, तेषां सर्वेषाम् एव दाम्नां सा द्व्यङ्गुल-न्यूनता ब्रह्म-तुल्या अजनि अभूत्—ह्रास-वृद्धि-राहित्य-साधर्म्यात् । अत्र6 निज्-प्रभोर् हठवत्तारक्षणाय विभूताशक्त्यैव सा दर्शितेति भावः ॥९॥
ततस्तस्याः कोपावेशमुपश्यन्तीभिः पश्यन्तीभिः पुरपुरन्ध्रीभिः सा निजगदे, जगदेकधन्ये! चित्रमिदं यदतिपरिमितपरिमाणेन कनकमेखलासूत्रेण वेष्टितमिदमस्य कटितटं तदधुना गृहस्थितेन यावतैव दाम्ना न परिमीयते, सर्वमेव दामनिकुरम्बं द्व्यङ्गुलन्यूनमेव सम्पद्यते । तदवश्यमेव केनापि रहस्येन भवितव्यम्, तदितःपरमेव विरमेति तद्वचनविरतौ विस्मयोत्कर्षपरवशया अवधिरस्यावश्यमेव विलोकयितव्य इति कृतनिबन्धया सस्मितमूचिरे ता अपि—“अयि! मद्गृहे नैतादृशान्यपराणि सन्ति दामानि, भवतीनां गृहेषु यानि वा सन्ति, तान्यप्यानयत” इति ॥
ततश्च—
**न क्रोधान्न च वैरतो व्रजपुरेश्वर्या न च त्रासतो ** **यासां येषु गृहेषु सन्ति परितो यावन्ति दामान्यथ । ** तावन्त्येव हि ताभिरत्र परमादानन्दकौतूहलाल् लोकातीतचरित्रवीक्षणवशादानिन्यिरे तत्पुरः ॥१०॥
उप आधिक्येन, श्यन्तीभिर् दूरीकुर्वतीतिः, शो तनुकरणे इत्य् अस्य रूपम् । केनापि रहस्येनेति अस्य ललाट-पत्रे विधात्रा बन्धनं न लिखितम् इत्य् अनुमीयत इति भावः । विरमेति तद् अन्यथाकरणं तया अशक्यम् इति भावः । सन्ति साधुनि कोमल-पट्टमयानीत्य् अर्थः, तत्-पुरुस् तस्या यशोदाया अग्रे ॥१०॥
तमथ तथैव शैशवनाट्य-परिपाट्यनिशकृत-नयनकमलजलकणनिपातपरिमृजा-दुःस्थितकरसरसिजमतिगद्गदगदन-कलभास्वरस्वरमतिमृदु मधुरतरं रुदन्तमपि कपटरोषावेशेन पुनस्तानि सकलानि कलानिपुणतया प्रत्येकमेव सम्प्रथ्य कटितटघटित-पूर्वसङ्ग्रथित-दामनि संयोज्य बध्नती ग्रथ्नती गूढतरमन्तःकुतुकेन विलसन्तीषु हसन्तीषु हरिणनयनासु सौहृदेन कृष्णरोदनमालोक्य चारुदत्सु रुदत्सु बालकेषु पुरेव सर्वाण्येव द्व्यङ्गुलन्यूनान्यवलोक्य श्वसनसमीरण-वेग-वेपमानवक्षःस्थलमवयवकिशलय-समुद्वान्तकान्तश्रमजलकणभरनिर्भरमाकुल-विगलत्कवरीभारविस्रंसमान-मालतीदाम श्रममात्रशेषकोपफला निष्फलप्रयासेव पुनर्बन्धनोपायं चिन्तयामास ॥
अथ पुनर् अपि तं वध्नती सा सर्वान्येव दामानि द्व्य्ङ्गुल-न्यूनान्यवलोक्य पुनर्वन्धनोपायं चिन्तायाम् आसेत्य् अन्वयः । शैशवनाट्यस्य परिपाट्या अनिशकृता निरन्तरम् एव कृता या नयन-कमलयोर् जलकणानां निपातस्य परिमृजा परिमार्जनं तया दुःस्थिते करसरसिजे यस्य तम्, अत्र शैशवस्य नित्यत्वेऽपि मुख्यत्वेन यत् प्रथायनं तद् एव कपटम्, मुख्यत्वन्तु वस्तुतः कैशोरस्यैव । यद् उक्तम्—[भ र सि २-१-६३] वयसो विविधत्वेऽपि सर्व-भक्तिरसाश्रयः । धर्मी कैशोर एवात्र नित्य-नाना-विलासवान् ॥ इति, अत्राप्य् अग्रे विविच्य समाधास्यते7 । तानि ताभिर् आनीतानि दामानि । अन्तःकुतुकेनेति कृष्णस्यादृष्टगतं बन्धनं नास्तीत्य् अस्मद्-वचनम् अमानितवत्या व्रजेश्वर्याः प्रौढिः कियद् अवधिर् भविष्यतितीत्य् अद्य पश्याम इति । चारवो दन्ता येषां तेषु—रोदनार्थं मुखव्यादाने दन्तानां प्रकाशात् । बालकेषु सुवलादिषु कृष्णवयस्येषु, श्वसन-समीरण इत्यादिना श्रम-बाहुल्यम्, अवयव-किशलयेत्यादिना श्रमस्य बहु-कालव्यापित्वम्, आकुल-विगलदित्यादिना बन्धनार्थ-प्रयत्नैकाग्रमनस्त्वं व्यञ्जितम् । श्रम-मात्रम् एव शेशोऽवशिष्टं कोपस्य फलं यस्याः सा ॥
ततश्च—
निस्पन्दानि विलोचनानि विगलत्श्रद्धानि गेहं प्रति **स्वान्तानि प्रहताः समस्तविषये संस्कारशेषा अपि । ** **निर्दामानि बभूवुरेव भवनान्याभीरवामभ्रूवां ** मात्रा कौतुककुप्तयाद्भुतशिशोर्बन्धानुबन्धे कृते ॥११॥
कौतुकेन कुप्यतीति कौतुक-कुप् तस्या भावस् तत्ता तया हेतुना, अद्भुतशिशोर् इति—न च देहो वर्धते, अतिपरिमित-परिमाणेन कनक-मेखलासूत्रेण वेष्टितम् अस्य कटि-तटम् इति पूर्वोक्तेः, न च दामान्य् अपि ह्रसन्ति—यावतैव दाम्ना, सर्वम् एव दामनि-कुरम्बम् इत्याद्य् उक्तेः, प्रत्यक्षम् एव यथा-रूपत्वेन तेषां दृश्यमानत्वात् । अतः शिशु-निष्ठम् एवाद्भुतत्वम् इति ॥११॥
न क्वचिदपि केनापि चिद्बन्धुं शक्यते, न चानन्दः, न च ज्ञानम्, न महोऽपि; तत् कथमहो चिदानन्द-ज्ञानमहोमयवपुषं तमसौ बध्नातु? तथापि हि—
अन्तर्यस्य न विद्यते न च बहिर्योऽन्तर्बहिश्चित्तया **नन्दत्वेन महस्तया च सदृशः पूर्णोऽपरिच्छेदवान् । ** नो पूर्वं न परं च यस्य तमहो माता कथं कोपतो बध्नीयादिति तत्कृपैव कृतिनी चिन्तान्वितावर्तत ॥१२॥
अत्र समादधाति—न क्वचिद् इति । चित् चैतन्यं ज्ञानम्, आनन्द-निष्ठम् अनुभवम् । उक्तम् अर्थम् एव विशदयन् प्रस्तुतोपयोगित्वेन शक्त्यन्तर-प्रादुर्भावम् आह—अन्तरिति । बन्धनं हि बहिः परीतेन दाम्नान्तरावृत्तस्य सम्भवति । यस्य अन्तर्न विद्यते, बहिश् च न विद्यते, तत्र क्व वा दाम्ना स्थातव्यम्, किं वा तेन वेष्टनीयम् । अत्र अन्तरभावे बहिर् अभाव एव हेतुर् बहिर् अभावे च अन्तर्भाव इति द्वयोः परस्पर-सापेक्षत्वेन सिद्धत्वात्, किन्तु सर्वेषाम् एव वस्तूनाम् अन्तर् बहिश् च सदृश स्तुल्य उभयत्रापि विद्यमानत्वात्, किं च, पूर्वापर-विभागवद्-वस्तु पूर्वतो दाम धृत्वा परतो वध्यते, यस्य न पूर्वं न परं च तं कथं वध्नीयाद् इति । अत्र पूर्वं मातर् न मत्ताडनादिकं कार्यम् इत्यादि-काकुभिः कारित-सत्याया अपि मातुः स्व-बन्धन-व्यवसायम् आलोक्य कृष्णस्य कुपित-शिशुऽथवत्तास्वाभाव्येन बन्धनासम्मतौ जातायां मत्-प्रभुं का बध्नीयात् इति तत्र विभुताशक्त्या स्वयम् एव प्रादुर्भूतम्, ततश् च तथापि बन्धन-निर्वन्धा-निर्वृतिम् अतिश्रमम् च मातुर् आलोक्य कृष्णस्यैव स्व-पौढित्यागेच्छायां विभुताशक्त्या तत्रैवान्तर्-भूतम्—कृष्ण-तद्-भक्तयोर् मधे भक्तसैव प्रोढेर् वलवत्त्व-दर्शनात्, [भा पु १-९-३७] स्वनिगमम् अपहाय मत्-प्रतिज्ञाम् इत्यादेर् इति । ततश् च मातुः श्रम-दर्शन-जनित-स्नेह-परवशतया अधुना मम बन्धनम् एव मम सुखदम् इत्याकारायां मनोवृत्तौ कृपाशक्त्या शक्त्यन्तर-वृत्ति-पराभाविन्या प्रादुर्भूतम् इत्य् आह—तत्-कृपैवेति । कृतिनी पाण्डिता, अतिविरुद्धम् अपि समाधातुम् इत्य् अर्थः ॥१२॥
अथ तथापि बन्धनिर्बन्धनिर्भरपरिश्रमलुलित-कलेवरां मातरमभिवीक्ष्य सञ्जातकरुणो भजज्जनपरिश्रमो निजकृपा चेति द्वाभ्यामेवायं बद्धो भवति, नान्यथेति यावत्तद्वयानुत्पत्तिरासीत्तावदेव दाम्नां द्व्यङ्गुलन्यूनतासीत्, सम्प्रत्युभयमेव जातमिति पुनरुद्यममात्रे तया क्रियमाण एव बन्धनमुरीचकार ॥१३॥
न्यूनतायां द्व्यङ्गुल-मात्रत्वे रहस्य-प्रदर्शकं निदानम् आह—भजज् जन-परिश्रम इति । सिद्ध-साधक-तारतम्येन श्रमस्याल्पत्वे तारतम्यं ज्ञेयम्, तथानुसारेण कृपाया अपि तारतम्यं ज्ञेयम् । श्रमत्वं च, लोक-प्रतीत्यैव जातरतिषु भक्तेषु कृष्ण-सम्बन्धेन तस्य सुखमयत्वेनैवानुभवात् । द्वाभ्याम् इति प्रथमो भक्त-निष्ठः, द्वीतीयः कृष्ण-निष्ठो गुणस् ताभ्यां हेतु-हेतुमद्भ्याम् इत्य् अर्थः8 । तया यशोयदा ॥१३॥
ततः सिद्धार्थैव सा सहचरबालकान् प्रति “भो भो भवद्भिरवलोकनीयोऽयं स्वयमात्मानं मोचयित्वा यदि पलायते, तदाहमाकारणीया” इति प्रोच्य पुरपुरन्ध्रीभिः सह भवनमध्यमाविवेश । गतायाञ्च तस्यां विगतरोदनमलिनिमानमाननचन्द्रमतिप्रसन्नमादधानो जननीकृतो बन्धः कार्यान्तरोपयोगी भवत्विति परमयोगीन्द्रस्य निजपरमप्रियभक्तस्य नारदस्य नारदस्य वचनामृतमृतमेव कर्तुं तदभिशापलब्धतरुजन्मनोर्धनदतनुजन्मनोर्नलकूबर-मणिग्रीवयोरनुग्रहग्रहिलमना मन्दमन्दमुदूखलं विकर्षन् जानुकरचङ्क्रमणेन तयोरभ्यासमभ्याययौ ॥१४॥
नारदस्य नॄ विक्षेपे इत्य् अस्मात्, नारं तयोर् मदिराकृत-विक्षेपं द्यति शाप-व्याजेन खण्डयतीति तस्य, यद् वा नॄ नये इत्य् अस्य रूपम्, नीति-प्रदस्येत्य् अर्थः । ऋतम् एव, सत्यम् एव, अभ्यासं निकटम् । प्रणय-रसनया तन्मानसोदूखलान्तः, शपचम् अपि निवद्धो, मुनिम् अपि नयकारागार-मध्ये क्षिपामि ॥ इति बत मम वद्धस्यैव यन्माचकत्व-व्रतम् इह न जनन्यां सार्थकत्वं प्रयाति । तद् उपपुरभुवो द्रागर्जुनौ मोचयामी,त्य्मृशद् इव मुकुन्दस् तत्-समीपं जिहानः ॥१४॥
तदनु सहचरबालका अपि चलितवन्तो दूरे सदसतोरिव एकमूलयोः, ज्ञानकर्मणोरिव पृथक्-पृथक्काण्डयोः, सामयजुषोरिव बहुशाखयोः, महाराजकीर्तिप्रतापयोरिव विदूरविस्तारयोगिरिवरघनवरयोरिव महासारयोर्वर्षाशरत्कालयोरिव बहुतराब्दयोः, ब्रह्माण्डविराड्-विग्रहयोरिव महास्थूलयोः, भीमानुजकार्तवीर्ययोरिवार्जुन-नामधेययोर्नकुल-सहदेवयोरिव यमयोमहीरुहयोः समीपमुपसर्पन्तं तमालोक्य दिनकरकिरणासहिष्णूतयानयोर्मूलमवलम्ब्यते, इति यदा वितर्कयाम्बभूवुः, तदैव दृश्यमान एव तयोर्मूलमध्यमध्यास्य तिर्यक्कृतोलूखलः खलहन्ता स आश्चर्यबालकोऽबालकोऽमलवपुरपूर्वचित्रचरित्रो विना प्रयत्नेनैव तावदुलूखल-सङ्घट्टनतः समूलमुन्मूलयामास ॥१५॥
सदसतोः स्थूल-सूक्ष्म-तत्त्वयोर् एक-मूलयोर् एव प्रकृति-पुरुष-भवत्वात् तुल्यकारणकयोर् विस्तारो विस्तृतिः, पक्षे, विटपः विस्तारो विटपोऽस्त्रियाम् इत्य् अमरः, महासारयोर् इति गिरिवरे सारः स्थैर्यम्, घनवरे आसारो धारा-सम्पातः, महीरुहयोः सारो मज्जा इति, बहुतराव्दयोर् इति वर्षासु अव्दा मेघाः, शरदि अपां दा शुद्धिः दैप् शोधने इत्य् अस्मद् अङि अव्दाः, महीरुहयोर् अव्दास् तद्-द्वयोः परिच्छेदकत्वत्सराः अवगता व्यस्ततया लम्बिता अलकाश् चूर्ण-कुन्तला यस्य सः, अमल-शरीरः, सङ्घट्टनतः सञ्चालनात् ॥१५॥
एवं तन्नामकीर्तनेन सवासनेऽंहःसङ्घ इव तेन समुन्मूलिते तरुद्वये जगदण्डभाण्डविवरवर्ति-सकलशब्द-निर्वापकः कश्चन प्रलयघनघटानिर्मुक्त-महाशनिप्रकरभैरवारवानुकारी मडमडेति ध्वनिविशेषः सविशेषमुत्पपात, तद्वयञ्च निपपात । पतितयोश्च तयोर्मध्य एव स उलूखलनिबद्धस्तादृशेनापि भैरवेण रवेण नतरामुद्विग्नमना मनागपि न चकितः प्रसन्नवदनस्तयोरात्मानाविव मूर्तिमन्तौ परमतेजस्विनौ दिव्यमूर्ती पुरुषावालोकयामास । तावपि शापनिर्मुक्तौ नित्यमुक्तमपि बद्धं नित्यशुद्धमपि नवनीताऽपहारदूषितं जगबन्धमोचकमपि मातृवात्सल्येन स्वीकृतबन्धं तमभितुष्टुवतुः ॥१६॥
प्रलय-कालीनाभिर् मेघ-घटाभिर् निर्मुक्तानां विसृष्टानां महा-वज्र-प्रकराणां यो भैरवो भयप्रद आरावो ध्वनिस् तम् अनुकर्तुं शीलं यस्य सः ॥१६॥
**
“जय जय सच्चिदानन्दघन! घनघटामेदुर! दुरवगाहलील लीलयाकृत-धरणितलावतरण, ! रणसर्वदानव-सर्वदानव-पराभव-भवत्पटिमचटुलभुजबल जबलवोत्खात-महार्जुनद्वन्द्व निर्द्वन्द्वनिर्भरपुरकृप कृपणजनवत्सल जनवत्सललित-विलासव्रज व्रजपुरमङ्गलावतार तारकेशक्लेशकर-वदनबिम्ब बिम्बबन्धुकरुचिरमधुराधरधरणितलालङ्कारकार कारणहीनकृपा-कृपाणलतिकातूनयानाद्यविद्ययानन्दितमतिमज्जन मतिमज्जननिर्विषयलीलाकूपार पारमहंस्यपथाधिगम्य-चरणकमल कमलजशितिकण्ठादि-कण्ठाभरणीकृतगुणगण गणनातीत-लोकोत्तरप्रभाव प्रभाबहुल बहुललितविहार हारविलसद्वक्षःस्थल स्थलकमलविमलपदयुग युगचतुष्ककृतांशावतार तारकावदगणेयनामरूप निर्मलयशोवदात दातरमिमतानामभिमतानामखिललोकनाथ नाथ नमस्ते नमस्ते । जगति समस्ते समस्ते कोऽपरः, परमपुरुष! तव कुहकं कुह कं न मोहयति, दुर्घटघटनचातुरी चातुरीकरोति कस्य न मनो मनोरम! मूर्तानन्द! नन्दनन्दन! नन्दनवनविहारिणां मुकुटमहामारकत! कतमो भवन्तमुत्तमश्लोकमुपश्लोकयितुमर्हति । त्वमसि मूर्तामूर्तानन्दत्वेन व्यक्ताव्यक्ताकारतया, नन्दयसि निजभजनकारिणोऽध्यात्मविदश्च । तेन निरर्गलगलदमन्दचिन्मकरन्दमन्दाकिनीमेदुरे तव चरणारविन्दे विन्देव रतिमरतिमपाकुरु” ॥
किञ्च—** “वाञ्छावहे किमपि नापरमार्तबन्धो, त्वत्पादपङ्कजपरागनिषेवि-सङ्गात् । शापोऽपि यन्मुनिपतेरभवत् प्रसादः, कैर्नाद्रियेत तदहो महतां प्रसङ्गः? ॥ **वागस्तु ते स्तुतिषु तावकपादपद्मध्याने मनस्तव कथाश्रवणे श्रुती च । ** किं भूरिणा बत हृषीकपतेऽस्मदीयः, सेवारसेन रसिकोऽस्तु हृषीकवर्गः ॥
रणे युद्ध-विषये ये सर्वदैव नवा अतिवलिष्ठत्वान् नवीनां इव सर्वे दानवास् तेषां पराभव-निमित्ते, भवत् उत्पद्यमानम्, पटिम्नि चातुर्ये, चटुलं त्वरा-युक्तं भुज-वलं यस्य हे तथा-भूत ! जनवत् लोकानुकारी सललितो विलास-समूहो यस्य, कारण-हीना निर्हेतुका कृपैव कृपाणलतिका खडग-लतिका तया लूनया छिन्नया अनादि-ऋऊपया विद्यया हेतुना आनन्दिता मतिमन्तो जना येन, मतेर् वुद्धेर् मज्जनम् आप्लावो यत्र स च निर्विषयो विषयातीतश् च लीला-समुद्रो यस्य, समुद्रोऽद्धिरकूपारः इत्य् अमरः, निर्मलैर् यशोभिर् अवदाता श्वेतीकृतेत्य् अर्थः । अभिमतानाम् अभिमान-विषयाणाम्, अभिमतानाम् अभीप्सितानाम्, दातः हे दायक ! नमस्ते नमस्ते इति हर्षेण द्विरुक्तिः । समस्ते जगति ते तव समोऽपरः कः, त्वम् एव त्वत्सम इत्य् अर्थः । तत्र हेतुः—तव कुहकं माया कुह कुत्र कं न न मोहयति, कुत्रेत्य् अर्थे कुहेत्य् अव्ययम्, आतुरीकरोति व्याकुलीकरोति, उपश्लोकयितुं श्लोकैर् उपस्तोतुम्, मुर्तामुर्तेत्यादि यथा-सङ्ख्येनार्थो ज्ञेयः, विन्देव लभेवहि ॥
**देवर्षिणा तव पदाब्जमधुव्रतेन, भूयानकारि बत नौ शपता प्रसादः । ** लीलालवोढजगदण्डपरःसहस्रो, येन त्वमक्षिविषयोऽद्भुतबालखेलः ॥
लीला-लवेन ऊढमात्मनि धृतं जगदण्डानां परः-सहस्रं येन सः, तथा-भूतोऽपि अद्भुता बाल-खेला यस्य सः ॥
**के वर्णयन्तु भगवन् भवतो जनन्याः, सौभाग्यमेतदतिभूरि ययासि बद्धः । ** यस्यैकलेशशतभागमपीह नापुर्ब्रह्मा शिवः शतमखश्च महर्षयश्च ॥ **न ज्ञानिनां सकलवेदविदां च भूमन्, योगैकनिष्ठमनसां च भवान् सुखापः । ** तेषामतीवसुलभस्त्वमसीह येषां, नन्दात्मजे त्वयि रतिर्नरबाललीले” ॥१७॥
यस्य सौभाग्यस्य ॥१७॥
**
“तदनुजानीहि नाथ! नाथय नौ मनोरथं यथा भवदीयचरणारविन्द एव रतिमुद्वहन्तो हन्तौचित्येन प्रारब्धफलमुपभुञ्जानौ समयं गमयावहे” ॥१८॥**
नौ आवां मनोरथं वाञ्छितं नाथय याचय, प्रार्थनां कारय ॥१८॥
इति यावदन्तर्हित्य तौ दिशमुत्तरामुपययतुस्तावदेव देव-दिङ्नाग-नागपुरनागरीवाधिर्यकारिणा त्रासितघोषेण घोषेण तेन पततोलब्धशाप-संयमयोर्यमयोरर्जुनयोर्गतरसा तरसा सर्वैव बालवृद्धनर-नारीसंहतिर्व्रजेश्वरी च वितर्कं पुरस्कृत्य कृत्यपराङ्मुखहृदया हृदयारूढपरमशङ्कया कयाचन तत्रैवोपससाद ॥१९॥
दिङ्नागा दिग्-गजाः, त्रासितो घोषो गोकुलं येन तेन घोषेण हेतुना गतो रसो यस्याः सा ॥१९॥
आगत्य च भगवते बालकृष्णाय दण्डवत्प्रणामार्थं पतिताया भुवो हस्ताविव, पातालविवराद्युगपदूर्ध्वमुत्थाय पृथग्यियासन्तावजगराविव, भगवतैव युगपत् पातितावादिदैत्यो मधुकैटभाविव, पतितौ महाद्रुमावन्तरान्तराय-रहितमनाकुलमकुतोभयं कुतोऽभयं वितरन्तमिव तं बालमुकुन्दं मुकुन्दं निधिमिव विलोकयन्तः किमिदं किमिदमहो विना वात्ययत्ययासादनेन भुवि निपतितावेतौ महार्जुनौ कस्मादकस्मादयं वोभयतो भयतोदकरावेतावन्तरान्तरालेख्यगतं नवपयोद-शकलमिव शिशुरयं समुज्जिहीते ही तेन भाग्यं नोऽधिकतरं बलीयो यदयं निराकुल एवास्ते ॥२०॥
हस्ताविति उयत्तया द्वयोर् अन्यूनातिरिक्तत्वम्, अन्तरा मध्ये अन्तरायैर् विघ्नै रहितम्, कुत इति कुः पृथिवी तस्यै, सार्व-विभक्तिकस् तसिः, अभयं वितरन्तं ददतम् इव कुकुन्दं तन्नामानम्, तथा च क्रम-दीपिकायाम्—इन्द्र-नील-मुकुन्दाव्जान् मकरानङ्ग-कच्छपान् । शङ्ख-पद्मादिकांश्चैव निधीनष्ठौ क्रमाद्यज्वेत् । इति । अत्ययासादनेन नाश-प्राप्त्या, दिष्टान्तः प्रयलोऽत्यः इत्य् अमरः, कृष्णस्य भयकरौ आत्मनश् च तोदकरु इत्य् उभ्यतोदकरौ, अन्तरालेख्यम् अन्तश् चित्रम्, समुज्जिहीते समुद्गच्छति, हीति विस्मये ॥२०॥
किमेनयोश्चिरकालीनतयोपनतयोपप्लवकारिण्या जरत्तरतया मूलमेव विजीर्णम्, तेन निजविस्तारभारेणैवानयोर्निपातः? न च तथा, मूलमनयोः सरसमेव, समे बहुलशिफानिवहे स्निग्धता स्थूलता चेति मीमांसमानेषु समानेषु सुखदुःखाभ्यां व्रजजनेषु व्रजपुरपुरन्दरोऽदरोदित-स्मित-सुधालेशपेशलास्यं लास्यं कुर्वतैव मनसा त्वरमाणेन पितरमालोक्य समुल्लसन्तमुल्लसन्तं बालकृष्णं मोचयित्वाऽङ्केकृत्य कृत्यकोविदामपि सभार्यां स भार्यां “महदनार्यं कृतं भवत्या” इति जुगुप्समानो गर्गगिरमनुस्मृत्य स्मृत्यविरोधेन ज्ञातमहिम्नः पुत्रस्यैवेयं कृतिरिति मनसि विदाञ्चकार ॥२१॥
उपनतया प्राप्तया, समे द्वयोर् अपि तुल्ये शाखा-समूहे, मीमांसमानेषु विचारयत्सु । सुख-दुःखाभ्यां इति कृष्णस्य स्वस्ति-दृष्ट्या भय-सम्भावनया च । पेशलं सुन्दरम्, पेशलो रुचिरे दक्षे इति विश्वः । समुल्लसन्तम् इति पितरम् इत्य् अस्य विशेषणम्, मुदा लसन्तम् इति बाल-कृष्णम् इत्यस्य, स नन्दो भार्यां श्री-यशोदां सभासु आर्याम्, अनार्यं निन्द्यं जुगुप्समानो निन्दन् गर्गगिरं [भा पु १०-८-१९] नारायण-समो गुणैः इत्यादिकां स्मृत्य् अविरोधेन धर्म-शस्त्रोक्तं यत् कृष्णस्यैश्वर्यं तद्-यथार्थतया प्रकारान्तरेण ज्ञातम् अपि नन्द-वात्सल्यस्य विरोधं नाकरोदित्य् अर्थः । यद् वा, स्मृतिर् इच्छा तद् अविरोधेन पुत्र-प्रभावः पित्रोः सुखायैव स्याद् इति स्मृतिर् इच्छा तयोर् धर्म-संहितायाम् अपि स्मृतिः इति विश्वः ॥२१॥
तस्मिन्नेव समये सहचराः शिशवोऽपि “भो भो अनेनसानेन साम्प्रतं तिर्यगेव कृत्वोलूखलं समेखलं समेतभरेणाकर्षणेन समूलमुन्मूलितावेतौ” इति यदूचिरे, चिरेणापि न तत् केऽपि प्रतीयुः । अनन्तरं कृतस्वस्त्ययनं सकलस्वस्त्ययनं तं बालकृष्णं दधिदूर्वाक्षतादिनक्षतादिनारायण्गुणाधिकगुणं निर्मञ्ज्य कृतमङ्गलतुर्यघोषेण भवनं प्रवेशयामास घोषाधीशः ॥२२॥
अनेनसा अनघेन अनेन कृष्णेन समेखलं मेखला-सहितं समेत-भरेण सम्प्राप्तभरेण तस्याकर्षणेन अक्षतं क्षताभावः ॥२२॥
अथ तथैव कदाचन धूलिखेलालसं लालसं वयस्यबालकेषु निजपरागपटलेन धूसरमिन्दीवरमिव धूलिधोरणि-कलिलममलकलेवरमभ्रविभ्रमं भ्रमन्तमितस्तततस्ततखेलनकुतुकावेशेन गमितामितकालं सराममभिरामचरितं यथाकालमालयमप्राप्तमवलोक्य सखेदया दयावत्या व्रजपुरपरमेश्वर्या प्रहीयमाणाहीयमानानन्त-परम-सुकृताधिरोहिणी रोहिणीदेवी त्वरितमागत्य गत्यवसादेनाप्यसन्नपदकमला दूरत एव “तात! प्रातरारभ्य सन्तत-तन्तन्यमानखेलयालयागमनमपि विस्मृतम्, गगनमध्यमध्यवरुह्य तपति ललाटन्तपस्तपन एषः, कथमनेन नवनीतकोमलेन वपुषा घनघर्माघातमपि सहसे? सहसेमं खेलारसमपहाय सह सहचरैरेव समेहि, समे हि काले कृतमज्जनो भवदभिरामेण रामेण पूर्वजनिना सह कृतासनो जननीमनः प्रमोदय” इत्यूचे ॥२३॥
धूलि-खेलायां रसो यस्य तम्, लालसीतीति लालस्यत इतिवा पचाद्यच् लालसम्, धूलीनां धोरणीभिः श्रेणीभिः कलिलं सङ्कीर्णम्, अभ्र-विभ्रमम् इति पुनरभ्रोपमा इतस् ततो भ्रमण-साधर्म्येण लीलामृत-वृष्ट्या च, ततो विस्तृतः खेलने एव यः कुतुकावेशस् तेन, प्रहीयमाणा प्रस्थाप्यमाना, वर्तमान-सामीप्ये वर्तमानवत्त्वात् प्रहितेत्य् अर्थः, अहीयमानानि त्यक्तुम् अयोग्यानि अनन्तानि परम-सुकृतानि अधिरोढुम् अधिरोहयितुं वा शीलम् अस्याः सा, न सन्ने विशिर्णे पदकमले यस्याः सा । राम-कृष्णयोर् दर्शन-सुखावेशाद् इति भावः । ललाटन्तप इति [पा ३,२-३६] असूर्य-ललाटयोर् दृशितपोः इति खश् ॥२३॥
इति तदुक्त्यापि यदि खेलातो न विरराम रामकनीयांस्तदा गृहागतायां राममातरि मातरिश्ववेगतो गतोत्साहा व्रजेश्वरी स्वयं स्वयन्त्रणया त्वरितमागत्य राममामन्त्र्य निजगाद—“वत्स राम! त्वरितमेहि, मे हितं वचनमाकर्णय, तव मुखमीक्षमाणो व्रजपुरपुरन्दरोऽपि निरशन एव वर्तते” । विशेषतश्च आह—“हे वत्स! कृष्ण भवतोऽद्य जन्मक्षयोगे मङ्गलाभिषिक्तः क्षितिसुरवराशिषा समार्चितः समाचारसमुचितं त्वमपि तेभ्यः कनकवसनादि जनकोपनीतमुपकल्प्य जनकेन सह भोक्तुमर्हसि” ॥२४॥
मातरिश्ववेगतः पवन-वेगेन त्वरितम् आगत्य स्व-यन्त्रणया स्व-खेदेन स्वभावत एव सदा दान-प्रियं कृष्णं तद् उत्साहम् उत्पाद्य खेलातो निवर्तयति—विशेषतश् चेति ॥२४॥
इति निगदन्ती दन्तीन्द्रगामिनी निकटमभ्येत्य “वत्स एहि” इति कृष्णकरकमलमाधृत्य बलदेवमग्रतः कृत्वा सहचरानपि सहानयन्ती नयं तीव्रमुपपादयन्ती स्वयमेव सहोदरयो रयोपनायित-मङ्गलाभ्यङ्गोद्वर्तन-स्नपन-मार्जन-परिधापनानुलेपन-भूषण-मालादि-सकलसामग्रीका दलदिन्दीवर-सोदरतः कलेवरतो वरतो धूलीमपनीयातिमिततिमितवसनशकलेन परिमृज्य च पुनरभ्यङ्गादिनोपचर्य तदवसरमीक्षमाणस्य व्रजराजस्याभिमुखमुपनिनाय रामकृष्णौ ॥२५॥
नयं तीव्रम् इति मातुर् ईदृश्येव नीतिः प्रशस्यते, यत् पुत्रस्य खेलासुखम् अपीयं न सहते भोजनापेक्षयेति भावः । रयेण वेगेन उपनायिता दासी-वृन्दद्वारैव निकटमानायिता मङ्गलाभ्यङ्गोद् वर्तनादि-सामग्री यसा सा । विकसित नीलाम्बुज-सदृशाद् अङ्गात् प्रथमं स्वपाणिभ्यां स्वाञ्चलेन वा धूलीम् अपनीय पुनर् अतिसूक्ष्मधूली-निरसनाय अतिमितम् अतिपरिमितं महासूक्ष्मतन्तुमयत्वात् तिमितम् आद्रीकृतम्, तिम स्टिम आर्द्रीभावे इति धातुः ॥२५॥
उपसन्नयोश्च तयोः प्रमुदितमना मनाक् स्मितपूर्वमवेक्ष्य वदनं निजमङ्कमारोपयामास व्रजराजः ॥२६॥
तदनु तनयाभ्यां सहभोजनारम्भे सहोपसन्नान् सहचरानपि भगवज्जननी निजतनयसाधारण्येन भृत्यजनैः कारिताभ्यङ्गादि-सकलोपचारात् समाहूय कृष्णेन सहैव विधिवदाशयित्वा निजगृहान् प्रापयिषुरपि “वत्साः! मा परमेतावन्तं कालं खेलनीयम्, यद्यप्ययमतिचञ्चलो मद्बालः खेलां न परिहरति, तथापि भवद्भिः क्षणमेव खेलित्वा मद्गृहे स्वगृहे वागन्तव्यम् । तथा सति कथमेकक एष खेलतु” इति सदयं तात् विसर्जयामास ॥२७॥
तयोर् वदनं स्मित-पूर्वं मनाग् अवेक्ष्येति हर्ष-सङ्गोपकमति-गाम्भीर्यं द्योतितम् ॥२७॥
अथापरेद्युरपि कयापि फलविक्रयिण्या “केन क्रेयाणि फलानि” इति नीतिचतुरया रयासादितव्रजराजपुरद्वारया पुनरुदीरिते व्याहारे हारेण विलसदुरःस्थलः स्थलकमलचरणः करपुटपुटकिनीप्रसूनाभ्यां गृहान्तरतः क्रमनिर्गलनेन द्वित्रधान्यावशिष्टं धान्याञ्जलिमादाय झणझणत्कारिकाञ्चनकिङ्किणीको बहिरियाय यदा, तदा जलमुग्धाममुग्धामलं मूर्तानन्दकन्दकल्पं तमालोक्य मुग्धात्मानमपि विस्मरन्ती सा सुकृतवती कृतवती करकमलाञ्जलिप्रपूरं फलवितरणम् । अथ तस्या भाजनान्तरे जनान्तरेणालक्षितानि रत्नान्येव बभूवुः ॥२८॥
करपुटे एव पुटकिनी-प्रषुने कमले ताभ्यां, नालीकिनी पुटकिनी विसिनी नलिनीति च इति हारावली । जलमुग्भ्यो मेघेभ्योऽपि धाम्ना कान्त्या मुग्धं मनोहरं च तम् अमलं च तम्, यमकानुरोधेन विधेयांश्य-विमर्शः सोढव्यः । मुग्धा मूढाः ॥२८॥
अथ कदाचिदपि तेनैवान्तर्यामिणा प्रेर्यमाणान्तःकरणैरुपनन्द-सन्नन्दादिभिः स्थविराभीरमुख्यैः सरभसमास्थानीमास्थानीतमानसतया समास्थाय व्रजराजः सादरमूचे—“व्रजेश्वर! तव सम्पदा सम्पदास्माकी, मानवं न बंहिष्ठसौभाग्यं क्वापि भवत्सदृशमीक्षामहे, महेच्छ! यस्य तवायमीदृशः सकलजनकाकुमारः कुमारः समजनि, समजनिकालमेवास्य जायमानान्यरिष्टान्यरिष्टान्तरारभ्य किमद्यप्रभृति न दृश्यन्ते” ॥२९॥
आस्थानीम् आथा इति पाश्चात्त्येषु ख्यातां सभां समास्थाय सम्यग् आलम्ब आस्थाया अपेक्षया, आनीतं करिष्यमाण-मन्त्रणायां भद्राभद्र-विवेकार्थम् एकाग्रीकृतं न क्वापि चालितं मानसं यैस् तेषां भास् तत् ता तया, आस्था चालम्बना स्थान-यत्नापेक्षासु कथ्यते इति विश्वः । भवत्-सदृशं वंहिष्ठ-सौभाग्यं मानवं वयं कुत्रापि न पष्यामः । महेच्छ हे महाशय! महेच्छस् तु महाशयः इत्य् अमरः । काकुमारः शोकादि-कृत-दुःख-हन्ता । जन्म-समकालम् एव व्याप्य, अरिष्टान्तः सूतिका-गृह-मध्यत एवारभ्य अरिष्टं सूतिका-गृहम् इत्य् अमरः ॥२९॥
प्रथमं निशाचरी चरीकरीति स्म प्रलयमिव । ततः परमनो-निपातो मनोनिपातोपमः सर्वेषाम्, तदनु तृणावर्तवात्या वात्याहितं किं न चकार । साम्प्रतमुच्चैरनयोरनयो निपातेन संवृत्तः ॥३०॥
चरीकरीति स्म , अतिशयेन कृतवती, अनोनिपातः शकट-निपातः, तृणवर्त्ताख्या वा किम् अत्याहितं न चकार ? अत्याहितं महाभीतिः इत्य् अमरः । अनयोर् अनयः प्रस्तुतत्वात् अर्जुन-वृक्षयोर् निपातेन उच्छैर् अनयो महान् अन्यायः ॥३०॥
तत् किमत्र निदानम्? नास्य जन्मलग्नलग्नमस्ति किमपि दूषणम् । सर्व एव शुभमात्रग्रहा ग्रहाः । तवापि लोकोत्तरमेवादृष्टं दृष्टञ्च, येनैतज्जगत्पत्यंशकलितमपत्यं शकलितमहापदकस्मादेव देवदुर्लभं सम्पादितमस्ति ॥३१॥
ग्रहाः सूर्याद्या नव, दृष्टं फल-दर्शनेन साक्षात्-कृतं च, येनादृष्टेन अकस्माद् एवैतत् कृष्णाख्यम् अपत्यं सम्पादितम् असिति, जगत्पतेर् नारायणस्यांशेन कलितं कृतम्, गर्ग-वाक्य-प्रमाण्याद् इति भावः । अतएव शकलिता खण्डिता महती आपद्-विपत्तिर् येन तत् ॥३१॥
तदस्माभिरिदमनुमितम्—“अस्यैव स्थलस्य दूषणमेतत् । तदिदमपहाय हायनमध्ये सर्वदा सुखदं सर्वर्तुगुणवृन्दावनं वृन्दावनं नाम वनं यामः, यदतिबहुतृणम्, बहुतृणं भवति
यदासादितवतां त्रैलोक्यलक्ष्मीः, लक्ष्मीश्च यत्र निरन्तरकृतनिवासेव सेवमाना वर्तते । यत्र गोवर्धनो गोवर्धनो नाम गिरिः । यदि भवति मतिर्मतिमतांवर! भवतो भव तोषप्रदोऽस्माकं तदा तदासादनेन” ॥३२॥
तद् दिन एव यियासुत्वेऽपि हायन-मध्य इत्य् उक्तिस् तारल्य-प्रकाश-सङ्कोचेन । सर्वेषाम् ऋतूनां वसन्तादीनां गुण-वृन्दम् अवति स्वस्मिन् रक्षतीति तत्9 । यामो यस्यामः, वर्तमान-समीप्ये लट् । यद्-वृन्दावनम् अति-बहूनि तृणानि यत्र तत्, गवां सुखदत्वाद् इत्य् अर्थः । न केवलम् एतावद् एव, किन्तु यत् आसादितवतां प्राप्तवतां जनानां त्रैलोक्य-लक्ष्मीः तैलोक्यस्य सम्पत्तिर् बहु-तृणं तृण-तुल्या भवति, ईषद् असमाप्त्यर्थे [पा ५-३-६८] विभाषा सुपो बहुच् इत्यादिना पुरस्ताद्-बहूच् प्रत्ययः । लघुर् बहु-तृणं नरः इतिवत् प्रकृतिवत् लिङ्गत्वम् । गोवर्धनो गवां वृद्धिकरः । तदा तद् आसादनेन तत्र गमनेनास्माकं तोष-प्रदो भव ॥३२॥
तदा तदाकर्ण्य घोषाधीशो धीशोधितस्तानुवाच—“ममता मम तावदिह भवादृशां कृते, कृते भवद्भिरस्यैतादृशि दोषावलोके लोकेन कथमत्र स्थातव्यम्? तदधुना साधुना सामञ्जस्येन चल्यताम्” इति तेनानुमते परिजनैः सह प्रथममनसां मनसां च द्रढिमानमानयन्तः सर्व एव मुमुदिरे ॥३३॥
धीशोधितः, धीशोधः सञ्जातो यस्य सः, शुद्ध-वुद्धिर् इत्य् अर्थः । मम तावत् भवादृशां कृते निमित्ते इह वृहद्-वने ममता ममत्वम् । अनसां शकटानां दार्ढ्यं बहुविध-वस्त्वादिचालनार्थम्, मनसाञ्चायत्याम् अनुशोचना-भावार्थम् ॥३३॥
अनन्तरमैरावतैरिव चतुर्दद्भिः, गृहीतमौनव्रतैरिव नवद्भिः, सुमेरोरवयवैरिव कनकशृङ्गैः, रामबलैरिव सुवृत्तहनुमन्मुखैः, सङ्गीताचार्यैरिव प्रखरखुरलीलैः, आदिच्छन्दोभिरिव समचतुष्पादैः, बलभैरपि नवलक्षैः, प्रचलायत-बालधिलतैरपि अबालधि वपुर्दधानैः, अनस्योतैरपि नस्योतैः, किङ्किणी-जाल-मालालङ्कृतकन्धरैरनडुद्भिरतिरमणीयेषु, उपरि-परितानितसित-हरित-पाटल-पाण्डर-पीतारुणकिर्मीर-चीरमण्डपेषु, परितोवृतीकृत-नानाविध-परार्ध्य-पट्टवसनेषु, कनक-कलसोपरि-परिपतत्पताका-निकररसनाभिरिव दिनकरकिरणकलापं कलापण्डिततया लेलिहानेषु, परिहस्यमानामर-विमानेषु, विमानेषु, साधुजनेष्विव निर्दोषप्रासङ्गेषु, हरिभक्तेष्विव स्वक्षेषु, तडागेष्विव सुचक्रेषु, अलकापुरीपरिसरेष्विव सदासन्नलकूबरेषु शकटेषु स्व-स्व-परिकरानारोप्य केषुचन कनक-रजतारकूट-ताम्र-कांस्यादि-निर्मितानि विस्मितसकलसभाजनानि भाजनानि च पुरोगाः पुरो गाः कर्तुं विचारयन्तश्चारयन्तश्च यदावतस्थिरे बत स्थिरेणैव मनसा सर्वे ॥
प्राचुर्यतो न घटते क्रमतः प्रयातुं, धेन्वावलिश्च शकटावलिरप्यथेति । पङ्क्तिद्वयेन चलिते युगपत्तदा ते, गम्यं गते अपि पदं जहितो न हेयम् ॥३४।
अनडुद्भिर् अतिरमणीयेषु शकटेषु स्व-स्व-परिकरानारोप्य गाः पुरोगाः कर्तुं विचारयन्तो यदा अवतस्थिरे, तदा प्राचुर्यतो होतोर् धेन्वावलिः शकटावलिश् च क्रमतः प्रयातुं न घटते इत्यतस् ते धेन्वावलि-शकटावली युगपद् एव पङ्क्ति-द्वयेन चलिते, ततो गम्यं गन्तव-देशं प्राप्तेऽपि हेयं त्यक्तव्यं पदं वृहद् वनाख्यं न जहितो न त्यजतु इत्य् अन्वयः । अनडुद्भिः कीदृशैः ? नवदद्भिः, मौनि-पक्षे न कथयद्भिः, अनडुत्-पक्षे स्पष्टम् । तत्र दन्तानां चतुःसङ्ख्यत्व-नव-सङ्ख्यत्वे वयोन्यूनाधिकत्व-वाञ्जके । सुवृत्ताः सुचरित्रा हनूम् अदादयो यत्र तैः, पक्षे, सुवृत्तानि सुवलितानि10 हनुयुक्तानि मुखानि येषां तैः, प्रखरां प्रगल्भां खुरलीं नृत्याभ्यासं लान्ति ददतीति तैः, अभ्यासः खुरली योग्या इति त्रिकाण्ड-शेषः । आदिच्छन्दोभिः श्री-नारी-मृगी-समानिकेन्द्र-वज्रादि-नामभिः, वलैक्षैः धवलैः, वलक्षो धवलोऽर्जुनः इत्य् अमरः, नवलक्ष-सङ्ख्याकैः, प्रचला आयता बालधिलता येषां तैः, बाल-हस्तश् च बालधिः इत्य् अमरः, न बाला जडा धीर् यत्र तत्, महावुद्धि-युक्तं वपुर् इत्य् अर्थः, इङ्गित-मात्र-विज्ञत्वात् । अनसि शकटे ओतैर् योजितैर् नसि नासिकायाम् एतैर् ग्रथितैः । उपरि प्रदेशे परितानिता विन्यास-विशेष-विस्तारेण निर्मिताः प्रत्येकं सितादिचीरमय-मण्डपा येषु, परितस् तेषां मण्डपानां चतुर्दिक्षु वृतीकृतानि प्राचीरीकृतानि नानाविधानि श्वेतरक्तादि-वर्णानि परार्ध्यानि बहुमूल्यानि पट्टवसनानि येषु तेषु । लेलिहानेष्विति लिह आस्वादने यङन्तः, विमानेषु विशिष्टमानेषु । प्रासङ्गः प्रकृष्टा आसक्तिः, शकटावयवश् च, प्रासङ्गो ना युगाद्-युगः11 इत्य् अमरः । अक्षमिन्द्रियं च, चक्रं चक्रवाकश् च, सदा सन् वर्तमानो नल-कूवरः कुवेर-पुत्रो यत्र तेषु, पक्षे आसन्नम् आसक्तिः, भावक्तान्तम्, तत् लातीति आसन्नलः कुवरो येषु तेषु, कुवरस् तु युगन्धरः इत्य् अमरः । आरकूटः पित्तल इति प्रसिद्धः । पुरः प्रथमं गा एव पुरोगा अग्रगामिनीः कर्तुं परामृशन्तः, ततस् ताश् चालयन्तश् च, रलयोर् ऐक्यात् ॥३४॥
एवमनचच्छिन्नतया आवृन्दावनसीम अबृह्द्वनमध्यमनुयमुनं चलन्ती सा धेनुपङ्क्तिरचलन्तीव कृतवितर्का वितर्कान्तरास्पदं बभुव ॥३५॥
अनुयमुनं यमुनावद्दीर्घा, [पा २-१-१५,१६] अनुर्यत् समया, यस्य चायामः इति समासः । कृतवितर्केति किञ्चिद्-दूरस्थैर् जनैर् इत्य् अर्थः ॥३५॥
किमियं यमुनया सह रहःकथाभिलाषुकतया समागता सुरधुनीधारा किमियं वृन्दावनरेणुजिघृक्षयाक्षया समुपसीदन्ती क्षीरनीरनिधेस्तरङ्गपरस्परा, किमियं क्षीरोदशायिनः शयनभावमपहाय वृन्दावनदिदृक्षयैव समुपसीदतो भोगीन्द्रस्य परमन्द्राघीयसी भोगकाण्डलता, किमियं भुवो मुक्तावली । एवं विलसत्-कनक-कलसाग्रजाग्रद्विचित्रतरपताकानिकरकरन्वित-ललितागोपुरघटाघटित-परमपरभागं दुर्गप्राचीरमिव, यमुनातटघटमानखेलालसाः शिशर इति करुणया कुलिशकरेणाकृत-पक्षच्छिदा कनक-गिरि-कैलास-गौरीगुरु-प्रभृति-महामहीधरराजनिकराणां पङ्क्तीभुय चलन्ती कुमारश्रेणिरिव शकटान्यपि जनैर्व्यदृश्यन्त । एवं चलत्सु तेषु तथैव नभसि श्रेणिभूता धुलीपटली निरालम्बं मातिकं दुर्गमिव समपद्यत ॥
अथवा, यमुना-दैर्ध्य-सदृश-दैर्घ्योपलक्षिता धेनु-पङ्क्तिः12, सुरधुनी गङ्गा, तत्र तदानीम् एव रहःकथाकारणम् अलक्षयन्, तद् देश-मात्रवर्तिनीर् उद्गत-धूलीधोरणीश् च पश्यन्, मत्तमहोक्षपङ्क्तीनां धेनु-पङ्क्तीनां च उच्चनीचत्वम् अन्तरान्तरा परामृशन्नन्यथोत्प्रेक्षते—किम् इयम् इति । क्षीरनीरधेर् गवद्धामत्वेऽपि वृन्दावनस्य तत उत्कर्षो व्यञ्जितः । पुनस् तस्या अपि वृहद् वन13मूलत एव निःसरणम्, न तु ततः परत इति पातालोत्थितत्वेनोत्प्रेक्षते—किम् इयं क्षीरोदशायिन इति, भोगीन्द्रस्य शेष-नागस्य तत्रापि तस्य तदाधारत्वेऽपि पूर्ववद् उत्कर्षः । पुनश्चातिश्वेतिम् अचाकचक्यं भुवः शोभां चालक्ष्याह—मुक्तेति । धेनुपङ्क्तिं वर्णयित्वा शकट-पङ्क्तिम् अपि वर्णयति—एवम् इति । विलसतां चाकचिक्यवतां कनक-कलसानाम् अग्रे जाग्रद्भिश् चित्रतरैः पताकानिकरैः करम्बितानां ललिताट्टपुरद्वाराणां घटाभिर् घटितः कल्पितः परमः परभागः शोभा यत्र तत् । तर्हि कुतो जङ्गमत्वम् इत्यत आह—यमुना-तटेति । कनक-गिरिः सुमेरुः, गौरीगुरुर् हिमालयः, कुमार श्रेणिः कीदृशी ? यमुनातटे घटमानः खेलारसो यस्याः सा, अतएव पङ्क्तीभूय निर्विवादेन चलन्ती । ननु पक्षच्छेदक-परम-शत्रु14व्रधरस्य विद्यमानत्वेऽपि कतम् एवं प्रागल्भ्यम् ? तत्राह—शिशव इति । इति हेतोर् विस्रम्भेण खेलत्सु शिशुषु व्रज-निक्षेपेण वैरसाधनम् अतिजुगुप्सितम् इति स्वयम् एव परामृश्येत्य् अर्थः । मार्तिकं मृत्तिका-विकारम् ॥
अथवा—
गोरूपेण पुरा सुरारिकदन-व्याहारहेतोरगा च्छ्रीकृष्णस्य पदाजसङ्गसुखं व्याहर्तुकामा किम् । धूलीधोरणिभिर्धरेयमधुना धूताभिरूर्ध्वानिलैर् धातुर्धावति धाम धैर्यरहिता स्वं धाम धृत्वा पुनः ॥३६॥
तस्या ऊर्ध्वोर्ध्व प्रचलनं न सम्भवतीत्यत आह—अथवेति । अगात् धातुर्धाम ब्रह्म-लोकम् इत्य् अन्वयः । गोरूपेणेति अतिखेदेन स्वरूपं समृद्धं विहाय दैन्यवोधनार्थम् इत्य् अर्थः । अधुना पुनः स्वं धाम निजरूपं धृत्वेत्य् अतिहर्ष-वोधनार्थम् इत्य् अर्थः । तथापि धावति, तत्र हेतुर् धैर्य-रहितेति । धोरणिभिः श्रेणीभिः । पूर्वं महा-दुःखमय-पापिजनभारा-सहिष्णुतया खेदेन शनैः शनैर् गमनम्, अधुना श्री-कृष्ण-पादाव्ज-सङ्ग-मयहर्ष-महाभारा-सहिष्णुतया द्रुतम् एवास्या गमनम् इति भावः ॥३६॥
एवमितरेतरमेहि याहि नयानय चालय निधापयेत्यादि प्रत्येकमग्रत एकीभुतेऽपि क्रमशः सम्भूय भूयस्त्वमासाद्य पश्चादुभयोरेव वक्तृवक्तव्यायोः श्रवणदुर्विभाव्यत्वमागते वचसि केवलं हस्तसञ्ज्ञयैव व्यवहार आसीत् ॥
सम्भूय तत्रैवोपगतानां बहूनां तादृश-वचोभिः सह मिलित्वा, भूयस् त्वं बहुतरत्वम्, हस्त-सञ्ज्ञया हस्त-सङ्केतेन, सङ्ज्ञा स्याच् चेतना नाम हस्ताद्यैश् चार्थसूचना इत्य् अमरः ॥
किन्च—
तूर्यारवैर्घोषजनप्रणादैरनःस्वनैर्धेनुगणप्रघोषैः । नष्टेऽन्यशब्दे नभसस्तदानीं, त एव शब्दा गुणतामुपेयुः ॥३७॥
गुणताम् इति शब्द-गुणम् आकाशम् इत्य् अध्यात्म-शास्त्रात् ॥३७॥
अथैकमेव मणिमय-खेलागिरिकुहरमधि विरोचमाने एकैकजगन्मङ्गल-मङ्गलफलसफलोत्सङ्गे सुकृत-सिद्धौषधि-लतिके इव एकमेव शकटरत्नमारूढे निज-निजकुमारालङ्क्रियमाण-क्रोडतले श्रीयशोदारोहिण्यो श्रीकृष्णगुणगानकलस्वरभास्वरं व्यतिभाते स्म ॥३८॥
मणिमय-क्रीडागिरिर् इव स्थानीयं शकट-गृहम् अधिकृत्य विरोचमाने विशिष्टकान्ति-युक्ते एकैकम् एव जगतां मङ्गलस्यापि मङ्गल-रूपं यत् फलं तत्स्थानीयम् अपत्य् अद्वयम् इत्य् अर्थः । तेन सफल-क्रोडे व्यतिभाते, परस्पर-शोभां तन्वाते स्म ॥३८॥
इतस्ततः शस्त्रधारिणोऽपि केचन शकटगताः, केऽपि पदातयः शतश एव पुरतः परितश्च पश्चात् चलितवन्तः । एवं चलति व्रजबले जबलेलिह्यमानगगनेव सा महावनराजधानीश्रीर्मूर्तिमतीव स्वयमग्रत एव गन्तव्यस्थलीमलङ्कर्तुमिव चलितवती, केवलं भूमात्रमेव तत्रावशिष्टमिव ॥३९॥
जवेन वेजेन लेलिह्यमानम् इव गगनं यया सा ॥३९॥
अथाग्रगामिनो गन्तव्यावधिमासाद्य विवृत्यानुयायिनो निरीक्षमाणाः क्रमत उपचीयमानानेव वीक्षन्ते, न त मूलस्यावधिमिति तस्मिन्नहनि यमुनापारप्रयाणमघटमानमिति तत्रैव वसतिमिच्छवो विनापि घोषाधीशाज्ञया देशकालज्ञास्त एव तथा सन्निवेशं कारयाञ्चक्रूर्यथा सैव पुरश्चलिता राजधानी-श्रीः स्वयमेव स्वसन्निवेशमकरोत् ॥
अनुयायिनः पश्चाद् अगच्छतः कर्मभूतान् ॥
तथा हि—
आतानिताः पटगृहाः परितो वितान-श्रेण्यस्तथोर्ध्वमभितः पटभित्तयश्च । शृङ्गाटक-क्रमत एव समानसूत्र-सुश्रेणयो विपणयो वणिजां विरेजुः ॥
वितानं चन्द्रातपाख्यम्, ऊर्ध्वगतं महा-प्राचीरायमाणाः पटभित्तयश् च दिक्-चतुष्टयगताः परितः सर्वतो मध्यस्थास् तु पट-गृहा इति । शृङ्गाटकानि चतुष्पथानि पुरी-मध्य-गतानि, तत्-क्रमेणैव प्राग्वत् समानेन सूत्रेण सूत्रपातेन श्रेणिर् यासासाम्, विपणयो हट्टवत्मानि ॥
किञ्च—
यत्रादौ प्रथमागता कतिपयी तस्थौ गवां संहतिस् तत्रैव क्रमतः समेत्य शनकैर्वृद्धिं प्रयान्ती ततः । ज्योत्स्नाखण्डमिवाग्रतः समभवत् पश्चादभूत् पायसः कासारः क्रमतोऽभ्यपद्यत तदा क्षीरस्य वारान्निधिः ॥४०॥
पायसो दुग्धमयः ॥४०॥
एवं कृतवसति-सन्निवेशेषु श्रीनन्दसन्नन्दोपनन्दादिधुरन्धराणां प्रथमागतेषु परिजनेषु यथास्थानं तेष्वपि समासाद्य विश्रान्तेषु परितश्चापरेषु यथास्थलं स्थितेष्वाभीरेषु चिरेण मूलविच्छिन्नासीत् धेनुपङ्क्तिः शकटपङ्क्तिश्च ॥४१॥
श्री-न्देति, अत्रोपनन्दतोऽपि सन्नन्दस्याभ्यर्हितत्वं श्री-नन्देन सहाव्यवहित-सन्निधिकत्वात् । तथोक्तं गणोद्देश-दीपिकायाम्—[३३] उपनन्दोऽभिनन्दश् च पितृव्यौ पूर्जौ पितुः । पितृव्यौ तु कनीयांसौ स्यातां सन्नन्द-नन्दनौ इति ॥४१॥
अर्थवं शकटपटलादवतरत्सु सकलजनेष्ववतार्यमाणेषु तत्समयोपयोगिभाजनेषु मोचितेष्वप्यनडुत्सु तदाहारोपपादनपरेषु तदधिकारिषु यथायथं क्रयविक्रयपरेषु परिचारकादिषु रसवत्यादिस्थलपरिष्कारपरेषु तदधिकारिषु भगवानपि मयूखमाली यामचतुष्टयगम्यं गमनपथमतिक्रम्य श्रान्त इव वरुणदिङ्नागरीगृहे वासं विधित्सन्निव समपद्यत ॥४२॥
मोचितेष्विति भूतकाल-प्रयोगोऽवतरणात् पूर्वम् एव तेषां मोचनात्, अत्रोक्तिस् तु तदाहारेत्य् अस्यानुरोधेन ॥४२॥
ततश्च कुलाय-कुलाय समुन्मुखतया नभसि समुड्डीयमानेषु कलितकलरवेषु खगकुलेषु उच्चतरं तरुमनु कृतोपवेशेषु मयूरादिषु मण्डलीभूय सर्वतोदिगभिमुखं निशद्य रोमन्थमन्थरेषु मृगनिकुरम्बेषु कमलकुहरविहरणवशतया वन्दीभवत्सु मधुकरनिकरेषु तिमिरनीलपटावगुण्ठनेनाभिसारिकाभावम सादितवतीष्विव दिगङ्गनासु अभिलषित-समयासादनेनेव हसितविकसितवदनासु कुमुदिनीषु भवद्विरहविधुरतया करुणतरमितरेतरमनुशोचत्सु केषुदेकेनैव विसलताखण्डेन परस्परचञ्चुपुटमाबध्नत्सु रथाङ्गमिथुनेषु आतपापायमलिनतया छायास्वेव विजातीयत्वेन दरीदृश्यमानेषु दीर्घदीर्घतर-जनचयच्छायानिचयेषु, प्रतिपटभवनकुहरमधि ज्वाल्यमानेषु बहिरपि सहृदयहृदयप्रकाशेष्विव दृश्यमानेषु दीपेषु प्रतिसरणि समुपविष्टेषु यामिकेषु कापि प्रदोषलक्ष्मीर्भगवन्तमुपचरितुमाजगामेव ॥४३॥
कुलायकुलाय वास-समूहाय, कुलायो नीडम् अस्त्रियाम् इत्य् अमरः । रथाङ्ग-मिथुनेषु चक्रवाक-दम्पतीषु छायास्वेवेति कथञ्चिन्नक्षथादि-प्रकाशसम्भावितास्वित्य् अर्थः । विजातीयत्वेनेति स्थौल्यातिशयवद्-गवाद् इच्छायातः । एवकारश्छायानाम् एव स्थौल्य-दैर्घ्ययोर् बहुतरत्वेन हेतुना परस्पर-विजातीयत्वेनोपलव्द्धिः, व्यक्तीनान्तु तयोर् अल्पत्वेन विशेषतो लक्ष्यितुम् अशक्यत्वात् तथात्वेनानुपलव्धिर् इति ज्ञापनार्थः । यामिकेषु प्रहरिया इति ख्यातेषु वर्त्मरक्षकेषु ॥४३॥
तत्र तदा—
आयातास्वखिलासु धेनुष समं वत्सैर्यथेच्छं मुदा **विश्रान्तासु निराकुलं विरचिताहारासु तृप्तासु च । ** भूयान् दोहरवः पयोधि-मथनध्वानाकृतिर्दोहनीर् गर्भ्रान्तगभीरमुग्धमधुरः कृष्णस्य रस्योऽभवत् ॥
दोहनी-गर्भे भ्रान्तः, अतएव गभीरो मुग्धो मनोहरो मधुरः—माधुर्येण मनोहरणात् ॥
तत्र च—
नामग्राहं प्लुतरचनया गोदुहाहूयमाना **हम्बारावैः प्रतिरवकरी धाविता धेनुवृन्दात् । ** अभ्यायाता निकटमसकृत् पाणिना मृष्टगात्री काचित् काचित् क्वचन रुचिरा नैचिकी दुह्यते स्म ॥४४॥
नाम-गृअहं हिही शवलि ! हिही धवलि इत्य् एवं नाम गृहीत्वा गोदुहा गोदोहक-गोपेन, प्रतिरवकरीति ताच्छील्य-ट-प्रत्ययान्तम्, काचित् इत्य् अनेन तद् दिने अतिश्रान्त-वत्सगवीनां दोहनाभावः सूचितः ॥४४॥
एवं सुखविहित-पानाहारविहारेषु व्रजनगर-नरनारी-निकरेषु पर्याय-जाग्रतां यामिकानां निज-निज-जागरणकौशलप्रकाशिकाभिरभितो मुहुरुदित्वरीभिर्गीर्भिरपशङ्कं यथासुखमभिनिद्राणेषु च यामैकशेषा रजनी यदि समजनि, तदा शयनतलादुत्थितवतीभिरतिशुचितरवेशभूषाभिराभीरभीरुभिरपि प्रतिपटगृहालिन्द-दीपितदीपं कृतवास्तुबलिभिरभितो भगवद्बालकृष्णगुणगणगान-कलरव-कर्णरम्यं युगपद्विधीयमानस्य दधिमथनस्य मणिमय-मञ्जुमञ्जीर-वलयादि-विविध-भूषण-शिञ्जितसहचरेण गर्गरीकुहरविहरमाण-मसृणतर-गभीरनिनदेन गानकलरव-मधुरिम-सरसतयातिशय-सुललितेन, जगदमङ्गल-समूल-निर्मूलीकरणकुशलेन दिगङ्गनागणकृतानुध्वनन-विरचित-परिपोषेण तत्क्षणममराङ्गनानामपि पतिशयन-जुगुप्सया त्वरितमेव जाग्रतीनामेकान्तभावेन तमेव घोषनिर्घोषमाकर्णयन्तीनां श्रवणानन्दो जन्यते स्म ॥४५॥
कृतो वास्तुवलिर् वास्तु-पूजोपहारो याभिस् ताभिः, गर्गरीणां कुहरे विवरे एव विहरमाणः, अतएव मसृणतरो गभीरश् च यो निनदस् तेन अमराङ्गनानां तत्क्षणम् एव जाग्रतीनां श्रवणानन्दो जन्यते स्म, उत्पाद्यते स्मेत्य् अन्वयः ॥४५॥
समनन्तरमुदयति भगवति किरणमालिनि किरणमालिदुहितुरपारपारगमन-समुद्योगयोग्येषु तेषु प्रथममेव व्रजराजनिदेशेन तत्तदधिकारिणो धेनुवृन्दमेव पारमासादयितुमारेभिरे । यथा—
**हीहीकारध्वनिभिरसकृद्बल्लवैः प्रेर्यमाणं, हम्बारावैरनुमतिकराण्युत्तराणीव कुर्वत् । ** स्फायद्घोणं श्वसितपवनैरुन्नमत्पूर्वकायं, पार्श्वस्रोतस्तदथ यमुनां धेनुवृन्दं ततार ॥
स्फायन्ती वृद्धिं यान्ती घोणा नासा यस्य तत्, पार्श्वयोर् द्वयोर् अपि स्रोतो यस्य तत्, स्रोतसा चाल्यमानम् इत्य् अर्थः ॥
**शृङ्गाभाववशाल्लघूनि वदनान्युल्लासयन्तः सुखं ** **स्तोकत्वादपि वर्त्मणोऽतितरसा निर्लङ्घयन्तो जलम् । ** पुच्छानां सलिलाप्लुतौ गुरुतया नोल्लासनेऽतिक्षमाः क्षेमं वत्सतराः प्रतेरुरभितः स्वस्वप्रसूपूर्वतः ॥
वर्ष्मणो देहस्य स्तोकत्वात् अल्पत्वात् स्व-स्व-प्रसूपूर्वत इति तेन तासां चिन्ताभावः, श्रीघ्रतरणोत् साहश् चाभूद् इति ज्ञेयम् ॥
किञ्च—
**ग्रीवापीठेषु कृत्वोरसि मृदुचरणान् बाहुनैकेन रुद्ध्वा ** **वत्सान् सद्यःप्रसूतान् प्रतरणपटवो बाहुनान्येन केचित् । ** **स्वच्छन्दं सन्तरन्तः कलितकलघन-स्वानमेषां प्रसूभिः ** पश्चात् सङ्गम्यमानास्तरणिदुहितरं गोदुहः सम्प्रतेरुः ॥
कृत्वा स्थापयित्वा, तच् चरणान् स्ववामदक्षिण-स्कन्धतो द्वे द्वे कृत्वा उरसि वक्षसि आनीतान्, एकेन वामेन बाहुना रुद्धा, अन्येन दक्षिणेन बाहुना सन्तरन्तः ॥
**पूर्णाभोगे तरङ्गान् सुमहति ककुदे जर्जरीभावमाप्तान् ग्रीवाभङ्गाभिरामं प्रकुपितमनसस्ताडयन्तो विषाणैः । ** स्रोतो-वेगेऽपि तुङ्गे त्वरितमृजुतरं पुङ्गवाः पुङ्गवाना मुन्मूर्धानोऽतिदीर्घ-श्वसितजवभरोद्धूतमम्भः प्रतेरुः ॥४६॥
पूर्ण आभोगः परिपूर्णता यथ तस्मिन् तरङ्गान् अतिवलमदेन ऋजुतरपार-प्रयाने ककुदि दक्षिण-भागे स्रोतोवन्धेनोच्छलितान् इत्य् अर्थः । तदाघातम् अनुभूय एते किम् अस्माभिः सह युद्धार्थं सङ्गताः इति प्रकुपित-मनसो विषाणैः स्व-स्व-दक्षिण-शृङ्गैः पुङ्गवानां वृषभाणां मध्ये पुङ्गवाः श्रेष्ठाः, अतिदीर्घेति त्वरया सन्तारेण ऋजु-प्रयाणेन प्रकोपेन च हेतुनेत्य् अर्थः ॥४६॥
अथ—
उत्तीर्णा घनसारधूलिपटलीस्वच्छे ततः सैकते **श्रेणीभूय समन्ततः स्थितवती श्रान्तेव सन्तारतः । ** एकत्रस्थितिवाञ्छयेव मिलिता पूर्वं ततो विच्युता कालिन्द्या सह जाह्नवीव रुरुचे सा नैचिकीनां ततिः ॥४७॥
घनसारः कर्पूरम्, सैकते बालुकामये देशे ॥४७॥
अथ अपारङ्गतास्वपि पारं गतासु निखिलासु नैचिकीषु पातालतलादुत्थिता इव नागनागरीखेलामणिगिरिद्रोणयः सुरशिल्पिनो निजशिल्पकलाकौशलेन व्रजराज-समाजमानन्दयितुकामस्य गगनगङ्गाप्रवाहत इव यमुनामिलितानां निजविज्ञानानां मूर्तय इव द्युमणिदुहितुरन्तरतः समुत्तीर्णा इव बहुपद्यो विचित्रजलजन्तुविशेषवध्व इव तत्कालमितस्ततो बहुकेनिपाताः समुपसन्नास्तरणयः ॥४८॥
अपारं गणयितुम् अशक, त्वम् इत्य् अर्थः, यद् वा, अपगता अरङ्गता रङ्गाभावत्वं यासां तासु, श्रमापनोदनानन्तरम् इत्य् अर्थः । पाताल-तलादिति कुत्राप्य् अनुपलभ्यमानत्वेनैवालक्षितातिवेगवत् तेन निकटोपस्थितत्वात् किम् अधस्त इहैवोत्थिता इति सम्भाविता इत्य् अर्थः । गगनम् एव गङ्गा तस्य प्रवाह इति किम् इहैव आकाशात् पतिता इति । यमुनामिलितानाम् इति निज-नप्त्रीत्वेन तत्रैव सङ्गम् इतानां विज्ञानानां शिल्प-कौशलानां मूर्तय इवेत्य् अनेन मणि-स्वर्णादि-खचितत्वं निर्माण-वैचित्रीभरावधित्वं15 चोक्तम्, केनिपाता नौका-दण्डाः चहडि इति ख्याताः16 ॥४८॥
तासु सर्वतः समीचीनां मृदुपवनपातदर-चलित-ललितपताकां मध्यमध्यासित-विचित्र-भवनामेकामेव तरणिं निजनिजतनयमङ्कमारोप्य श्रीव्रजराजमहिषी श्रीवसुदेव-रमणी च युगपदारुरुहतुः, उभयोरपि परिचारिकाश्च । तत्र च निजाङ्ग-रुचिरुचिरमधितरणि तरणिदुहितुर्लघुतरतरङ्गभङ्गिमानमानमत्कन्धरमालोक्य जननी-सन्निधानतो निधानतोषेण तरणिप्रान्तमागत्य गत्यनवस्थतया भुजादण्डं प्रसार्य करकमलेनालोडयितुकामं श्रीकृष्णमालोक्य मातरावेव तरावेवमातङ्कं तं कञ्चन प्राप्तवत्यौ यदा निवारयितुं न शेकतुस्तदा तदाशङ्कयैव व्रजराजेऽपि तामेव तरणिमारुह्य तमात्मजमात्मजवसहज उद्धर्षं निजाङ्कतलमानीय सावधान एव तस्थुषि तरणिवाहिनोऽवाहयन्त तरणिम् । एवमपरेऽपि यथेच्छमतिसुलभासु समानद्रढिमादि-गुणासु तरणिषु युगपदेव विमानसदृशीषु कृतारोहाः सह परिजनैरेव सुखसन्निविष्टाः समानकालमेव पारमीयुः ॥४९॥
अधितरणि मध्य-यमुनायां चलन्त्यां नौकायाम्, आ ईषत् नमन्ती कन्धरा यत्र तद्-यथा स्यात् तथा आलोक्य नौको-परितन-गृह-मध्ये स्थित्वैवेति ज्ञेयम् । ततश् च निधानं निधिस् तद् विषयकेणैव तोषेण हेतुना गृहाद् बहिर्भूय तरणेः प्रान्तम् आगत्येति मध्य-नौकायाम् एव तद् एक-पार्श्वम् आगत्येत्य् अर्थः । तत्र गत्य् अनवस्थतयेति तत्र गतेर् अनवस्थत्वेन हेतुना वाम-हस्तेन तरणि-प्रान्तभित्तिम् अवलम्ब्य दक्षिणं भुजादण्डं तत् तले प्रसार्येति ज्ञेयम् । एवं दुनिवार-बाल्यचापलं कृष्णम् आलोक्य मातरौ श्री-यशोदा-रोहिण्यौ तरौ नौकायाम्, एवम् अनेन प्रकारेण तं प्रसिद्धं कञ्चनापूर्वम्, आतङ्कं शङ्कां प्राप्तवत्यौ ॥४९॥
तदनु प्रतीरमुत्तीर्णेषु तेषु ताभिरेव तरणिभिस्तरणिवाहिनो निखिलमेव शकटव्रजं च दारवनिस्तरङ्गनिःश्रेणिश्रेणिनिकरेणारोहितं कृत्वा पारमासादयामासुः । व्रजराजः सकलानेव तान्नाविकान् पारितोषिकेण परितोष्य विसर्जयामास ॥५०॥
प्रतीरम् उत्तीर्णेषु सत्सु, प्रतीरं च तटं त्रिषु इत्य् अमरः । ताभिर् एव नौकाभिः शकट-समूहं च पारं प्रापयामासुः । किं कृत्वा ? दारवीणां दारुमयीणां निस्तरङ्गाणाम् अचपल-दण्डानां निःश्रेणीनाम् अधिरोहिणीनां श्रेणी निकरेण पङ्क्ति-समूहेन, प्रयोजक-कर्त्रा, शकट-व्रजम् आरोहितं कृत्वा तासु तरणिष्वित्य् अर्थः । पारितोषिकेण वस्थालङ्कारादिना ॥५०॥
इत्यानन्दवृन्दावने बाल्यलीलालताविस्तारे यमलार्जुनभङ्गो नाम
षष्ठः स्तवकः ॥६॥
…
-
दधारेत्य् अर्थः [घ] ↩︎
-
रुण-रुणायमाना [ग] ↩︎
-
अति-पृथुलत्वात् [ख] ↩︎
-
उत्पलनाशङ्कया [ग,घ] ↩︎
-
मया [ग,घ] ↩︎
-
अथ [घ] ↩︎
-
अत्र शैशवस्य—समाधास्यते इत्य् अंशः, क-ख—करलिप्योस् तथा ग-ग्रन्थेऽपि नस्त्य् । ↩︎
-
हेतु-हेतुमद्-भावाभ्याम् इत्य् अर्थः [ग] ↩︎
-
यावत् [घ] ↩︎
-
सुचरितानि [घ] ↩︎
-
युगान्तरम् इत्य् अपि पाठः ↩︎
-
अथवा, यमुना—धेनु-पङ्क्तिः इत्य् अंशः ग-ग्रन्थे नस्ति । ↩︎
-
वृन्दावन [गो] ↩︎
-
शक्त [घ] ↩︎
-
भावावधित्वं [गो] ↩︎
-
ख्याता इत्य् अस्मात् परं नौका-दण्डः क्षेपणी स्यात् इत्य् अमरः, इत्य् अधिक-पाठः ग-ग्रन्तत उपलभ्यते । ↩︎