पञ्चमः स्तवकः
अथ कस्मिन्नपि दिवसे तनयं लालयन्ती व्रजपुरपरमेशानाशानामेकविश्रामभूतस्य तस्य जम्भमाणस्य वदनकमलं कमलं कुर्वदिव निरीक्षमाणा तत्रैव धरणि-धरणिधर-जलधिपुरतरुप्रभृति भुवनकोषप्रभृति भुवनकोषगृह इवात्मानमात्मनः पतिं चावलोक्य लोक्यचरितातीतत्वेन परसविस्मितैवासीत् ॥१॥
जृम्भणं रिङ्गणं नामकरणं गव्यमोषणम् ।
मृद्-भक्षणं विश्व-रूप-दर्शनं पञ्चमे क्रमात् ॥
व्रजपुर-परमेशाना श्री-यशोदा तनयं लालयन्ती जृम्भमाणस्य तस्य वदन-कमलं निरीक्षमाणा धरण्यादिकं विलोक्य परम-विस्मितैवासीत् । तत्र जृम्भण-कलस्यात्य् अल्प-प्रमाणत्वात् तन् मध्य एव धरण्यादि-समस्त-पदार्थ-प्रत्येकावलोकनम् असम्भवद् अपि दुस्तर्क्य-भगवदैश्वर्य-शक्त्या एव तदानीं तन्नयन-वृत्तिम् आविशन्त्या निर्वाहितम् इत्य् अवसेयम् । आशानां मनोरथानाम्, वदन-कमलं मुख-पद्मम्, कं सुखम्, अलम् अतिशयेन, कुर्वद् इव निर्मिमाणम् इव, कं सुखम् अपि भूययदिवेति वा । तत्रैव सजृम्ब-मुख-कमल एव धरण्यादि-प्रभृति-वस्तुजातम् इत्य् अर्थः । तत्र कीदृशे ? भुवन-कोषं प्रकर्षेण विभर्तीति क्विप्, तस्मिन् । भुवन-कोष-गृह इवेत्य् अत्र भुवन-कोष-पदस्य [साहित्य-दर्पणे ७-८] उदेति सविता ताम्रस्ताम्र एवास्त्मेति इत्यादिवदुद् देश्य-प्रति-निर्देश्यत्वेन पौनर् उक्त्यमदोषः । लोके भवं लोक्यं चरितं तद् अतिक्रान्त्वेन । अत्र कारिकाः—पूतनादि-वधैश्वर्यं न प्रेम समचुकुचत् । प्रत्युतावर्धयत् तस्मिन्न् अरिष्ट-परिशङ्कया ॥ नन्द-भाग्यादि-हेतूनां तत्राभूद् यदि कल्पनम् । ततो निर्हेतुर् एवेयमैश्वरी शक्तिर् आगता ॥ विभुत्व-दर्शिका कृष्ण-देहे प्रकटम् एव हि । तथापि विस्मितैवासीन्मत्पुत्रस्येदम् अद्य किम् ॥ न त्वैश्यज्ञान-सम्भ्रान्त्या वात्सल्ये शिथिला1भवत् । न चात्र सम्भवेत् किञ्चित् पूर्ववत् हेतु-कल्पनम् ॥ तच् चापि वस्तुतो गाढ-प्रेमोर्मिमयम् एव हि । इति निष्कम्पता प्र्म्णः ख्यापिता स्यान्मुहुर् मुहुः ॥ एवं च प्रेमदेव्याः परीक्षार्थम् आगच्छत्य् अन्तरान्तरा । शक्तिर् एषा हरेः किन्तु तया दासीकृता भवेत् ॥इति ॥१॥
तथैवापरेद्युरपि तनयमङ्कमारोप्य लालयन्ती तन्मुखकमलकोषमालोकयन्ती च व्रजपुरपरमेश्वरी किमपि सकौतुकमाजगाद ॥
अपरेद्युः—अपरस्मिन् दिवसे ॥
**जम्भस्व तात वदनं परिलोकयामि, दन्ताङ्कुरास्तव किमुन्मिषिता न वेति । ** व्यादत्त एव वदनेऽस्य ददर्श माता, लग्नान्निजस्तनरसस्य कणानिवैताम् ॥२॥
व्यादत्ते प्रकाशिते सति, एतान् दन्ताङ्कुरान् ॥२॥
अथैवं बालनिशाकर इवाशाकर इवाहरहः पुष्टिदेव्या सेव्यमानोऽव्यमानोऽपि पितृभ्यामकालकृतविशेषोऽपि तत्कालकृतविशेष इव जानु-करचङ्क्रमण-चातुरीमुरीचकार ॥
आशासु दिक्षु कराः किरणा यस्य सः, पक्षे, आशा-सम्पालकः । पुष्टिर् एव देवी, तया अहरहः प्रतिदिनं सेव्यमान इवेत्य् अन्वयः । इवेन सह नित्य-समास-वचनम् इत्य् अस्य [रघु-वंशे १-३] उद्वाहुर् इव वामनः इत्यादि-दृष्ट्या प्रायिकत्वात् पितृभ्याम् अव्यमानोऽपि निजाङ्क-वक्षः-कण्थादौ रक्ष्यमाणोऽपि जानुभ्यां कराभ्याम् च चङ्क्रमणस्य चातुरीम् अलिन्दादौ अङ्गीचकार । न कालेन कृतो विशेषो परिणामो यस्येत्य-प्राकृतत्वात् तथापि तत्-कालकृतेति नर-लीलत्वादित्युभयस्यैव वास्तवत्वं तस्याचिन्त्य-शक्ति-सिद्धम् इति सार्वत्रिक एव सिद्धान्तः ॥
**मन्दं सुकोमलकराम्बुजजानुयायी, काश्चीकलेन चकितः स्थगितत्वमेत्य । ** पश्चात् सविस्मयविवर्तित-कम्बुकण्ठमालोकय वितनुते जननीप्रमोदम् ॥
तन्माधुर्यं वर्णयति—मन्दम् इत्यादिभिः ॥
किञ्च—
कराभ्यां जानुभ्यां लघुलघु चलन रत्नघटित प्रघाणे तत्प्रान्तावरणमणिदण्डेषु वसताम् । प्रतिच्छायां वीनामरुणमृदुलैरङ्गुलिदलैः, कृतारम्भो धर्तुं व्रजपुरपुरन्ध्रीः सुखयति ॥३॥
रत्नघटिते रत्नेन स्फटिकादिना घटिते प्रघाणे अलिन्दे वीनां कपोतादि-पक्षिणां प्रतिच्छायां प्रतिविम्बम् अङ्गुलिदलैर् दक्षिण-कर-सम्बन्धिभिः, वामकरस्य भूम्यवष्टव्धत्वादित्य् अर्थः । वीनां कीदृशानाम् ? तस्य प्रघाणस्य प्रान्तावरणे उपरितने ये पणि-दण्डा भित्ति-पटलयोस् तिर्यगवष्टम्भास् तेषु वसताम् ॥३॥
कदाचिदपि चिदपिहितेव स बालमूर्तिरमूर्तिरतिरमणीयः पूर्णज्ञानघनो ज्ञानमवधाययितुं कौतुकेन—
क्व वक्त्रं क्व श्रोत्रं क्व तव दृगिति स्निग्धमुदितः पुरन्ध्रीभिस्तान्यङ्गुलिकिसलयेनाधिगमयन् । क्व दन्ता इत्युक्तः करकमलमाधाय वदने स्मितेनैवोत्पन्ना मम न त इति व्यक्तमवदत् ॥
अपिहिता चिद् इव आवृतं चैतन्यम् इव—जीव-धर्मानुकरणात् । अमूर्तिः, अति-सुकुमार इत्य् अर्थः, मूतिः काठिन्यकाययोः इत्य् अमरः, पुरन्ध्रीभिः कृष्णस्य ज्ञानम् अवधारयितुम् उदितः । तानि वक्त्रादीन्यङ्गानि प्रत्येक-प्रश्नानन्तरम् अङ्गुलिकिसलयेन स्पृष्ट्वा अधिगमयन् ज्ञापयन्, मम ते दन्ता नोत्पन्ना इति व्यक्तम् अवदत् ॥
किञ्च—
का ते प्रसूर्जनयिता तव को वदेति, पृष्टः कयाचिदनतिस्मितपेशलास्यः । तां तञ्च कोमलकराम्बुजपल्लवेन, सन्दर्शयन् प्रणयिनां मुदमाततान ॥४॥
कयाचिद् इत्युपनन्द-पत्न्येति ज्ञेयम् । अनतिस्मितेन पेशलं सुन्दरम् आस्यं यस्य सः । तां प्रसूं यशोदां तं जययितारं नन्दं च, प्रत्येक-प्रश्नानन्तरम् इति सर्वत्र ज्ञेयम् ॥४॥
अथ तदैव वक्तुं क्षमो न वेति नवेऽतिकौतुके वात्सल्यरससन्धात्र्या धात्र्या च—
नामानयोः किमयि तात वदेति पृष्टो, मन्दस्फुटाक्षरमलक्ष्यवचाः च चारु । मातेति तात इति नामयुगादिवर्णौ, मातेतिमात्रमतिमात्रमलं जगाद ॥५॥
नवे नवीने अति-कौतुके, माता इति वक्तव्ये मा इति, तात इति वक्तव्ये ता इति-मात्रं जगाद । तत्रापि अतिमात्रं यथा स्यात् तथा मात्रा संस्कृतादि-नियमः, तमतिक्रम्येत्य् अर्थः । तेन तात इत्य् अत्रादिवर्णे ता इति वक्तव्य्ऽपभ्रंशभासया वा इति जगादेत्य् अर्थः—प्रश्नस्याप्यपभ्रंश-रूपत्वात् ॥५॥
कदाचिदपि—
जानुभ्यां करयुग्मकेन च चलन् रत्नप्रघाणोदरे **स्वच्छायामवलोक्य चारुचकितस्तां पाणिना लुम्पति । ** **भूयस्तामपि तादृशीं प्रति भिया सङ्कोचमेवाचरन् ** मातुः क्रोडतलं निवृत्य चलनात् साशङ्कमारोहति ॥६॥
तां स्वच्छायां तादृशीमलुप्ताकारां तां प्रति, अतएव भिया भीत्या सङ्कुचिताकारः सन् चलनाज्जानुचङ्क्रमणान्निवृत्य ॥६॥
अथ कियता कालेन मणिमयभित्तिमवष्टभ्य मनागुत्थित एव प्रथमपादविहार एव निपतन्तमिवात्मानं मन्यमानो निजप्रतिविम्बमेव करालम्बनाय करकमलदलेनैकेन दधानो निरवलम्बन एव यदा स्खलति, तदा विम्लानवदनो मातृवदनमीक्षमाणः क्षणं रुदन्नेव मात्रा च करकमलदलाभ्यामभिमृश्य स्वागुलिदलं ग्राहयित्वा लघुलघु सञ्चार्यमाणः पूर्वरोदनमलिनमाननचन्द्रं स्मितसुधया धावयन्मातृमोदमातनुते स्म ॥७॥
धावयन् क्षालयन् ॥७॥
तत इतस्ततस्ततश्चरणविहारो हारोल्लसितवक्षसोऽस्य यदा समघटत, तदा तदालोकनकुतुकिनो व्रजराजस्य समक्षमेव जनन्या धात्री कौतुकेन तमुपदिशति स्म—वत्स!
स्थालीमानय पीठमानय घटीमप्यानयेति क्रमाद् **यस्यैवानयनक्षमो भवति तत् स्मित्वैव किञ्चित्तराम् । ** पाणिभ्यामवगृह्य चारुजठरे संयोजयन्मन्थरं विश्रम्यानयते न यत्र पटुता स्पृष्ट्वैव तन्मुञ्चति ॥८॥
ततस् तदनन्तरम्, इतस् ततश् चरण-विहारः, कीदृशः ? ततो विस्तृतः, जनन्या यशोदाया धात्री श्री-मुखरानाम्नी । विश्रम्य मध्यवर्त्मनि क्षणं भूमौ स्थापित्वा पुनर् उत्थाप्यानयत इत्य् अर्थः ॥८॥
तदा व्रजराजसमक्षमुपनन्द-सन्नन्द-पत्न्यौ तदवलोकनमनसौ लोकनमनसौभाग्यचणचरणं तमङ्कमारोप्य—“वत्स! मुञ्च, मुञ्च, त्वमीश्वरपुत्र ईश्वरोऽसि, किमनेन तेऽनुचितेन परिश्रमेण” इति धात्रीं गञ्जयन्त्यौ तदुत्तारयतः ॥९॥
एवं कदाचिदपि—
**भो वत्स कृष्ण नवनीतमिदं प्रदास्ये, नृत्येति कौतुकवशेन कयाचिदुक्तः । ** नृत्यन् सुतालमभिनीतकरं सुपाद-विन्यासचारु जननीमुदमातनोति ॥
लोकानां भक्तजनानां श्री-नारदादीनां नमनेन यत् सौभाग्यं तेन प्रथितौ चरणौ यस्य तम्, [पा ५-२-२६] तेन वित्तश् चुञ्चुप चणपौ इति चणप् । ईश्वरस्य राज्ञः पुत्रोऽसि ॥९॥
कदाचिदपि—
भो वत्स वक्षसि विराजति किं तवैतत्, पाञ्चालिकेव कनकस्य सुचारु चिह्नम् । किं ते वधूरिति रसेन कयाचिदुक्तो, धुन्वन् शिरो हसति हासयते च सर्वान् ॥
पाञ्चालिका पुतरी इति ख्याता, पाञ्चालिका पुत्रिका स्यात् इत्य् अमरः । श्री-कृष्णे उत्तरे न दत्ते सति पुनस् तयोक्तः—ते तव किम् इयं वधूर् भार्या ?—गौर-वर्णत्वात्, प्रियतमत्वेन वक्षसि कृतत्वाच् च । युक्तं चैतत् सम्भवेदेव, यल्लज्जयैव नाम नोच्चारयसीति भावः । धुन्वन् शिर इति शिरोधुननं सस्मतिद्योतकम् ॥
कदाचिदपि—
मात्रा सम्परिधापितां सकुतुकं श्रद्धालुना चेतसा पीतां चारुकटीतटीसमुचितां श्लक्ष्णातिसूक्ष्मां घटीम् । सानभ्यासवशादुपद्रवकरीत्याक्रन्ददीनाननः पाणिभ्यामपसारयन्नतितरां मातुर्मुदेऽवर्तत ॥
सा धटी ॥
कदाचिदपि—
रहसि पुरपुरन्ध्रीमण्डले मण्डनेन, व्रजपतिदयितायाः कुर्वति प्रीतिभूषाम् । चपलमति हठेनाकृष्य सर्वं तदस्यामनियतपदमेव प्रापयामास भूषाम् ॥१०॥
रहसि पुरुषाद्यगोचरे विविक्ते मण्डनेन बालपाश्यादिना प्रितिमयीं भूषां कुर्वति सति तत्-सर्वं बालपाश्यादिकम् आकृष्य अस्यां स्वमातरि श्री-यशोदायाम् अनियतपदम् अयथास्थानं यथा स्यात् तथा भूषां प्रापयामास, स्व-हस्तेनैवेत्य् अर्थः ॥१०॥
अथ श्रीभगवद्बाल्यलीलावलोकेन लोकेनवन्द्यदेवककन्यातोऽपि धन्यातोऽपि धर्ममयी सुकृतशतावरोहिणी रोहिणीयं कियत्कालं गर्भे धृतवती, स खलु भगवदग्रजनितया जनितया सततवर्तमानर्तमानमहिमतया सुप्रसिद्धः सिद्ध-मुनि-चारणादि-वन्दितोऽद्वितीयोऽपि द्वितीयत्वेन भगवत्सहचरो यदा समजनि, तदा स्फटिकमणिनेव महामारकतः, चन्द्रमसेव जलदाङ्कुरः, पुण्डरीकेणेव नीलोत्पलम्, हंसेनेव यमुनातरङ्गः, ज्योत्स्नाशकलेनेव तिमिरकडम्बो विडम्बित-नरबाललीलः खेलालोलः स व्यरोचत ॥
अथ श्री-बलदेव-सहित्येन तन् माधुर्यं वर्णयितुम् उपक्रमते—अथेति । लोकानाम् इनैः परिभिर् ब्रह्मादिभिर् वन्द्या, इनः सूर्ये प्रभौ इत्य् अमरः । देवक-कन्या देवकी या ततोऽपि धन्या, भगवतोऽग्रे जनिर् आविर्भावो यस्य तस्य भावस् तत् ता तया, सततम् एव वर्तमान ऋतः सत्य एव मान-महिमा आदर-गौरवं यस्य तस्य भावस् तत् ता तया, जनितया प्रकटितया सुष्ठु प्रसिद्धः । तद् एति स्फटिक-मणि-मरकताभ्यां स्वच्छत्वम् उक्तम्, तत्र प्राप्तस्फटिक-मणेः स्ववर्ण तिरोधानं द्वयोः काठिन्यं च वारयितुम् अन्यथोपमिमीते—चन्द्रेति । द्वयोः स्निग्धत्वम्, मिथः सौन्दर्य-पोषश् च । पुण्ड्रीकेति सौरभ्य-सौकुमार्ये, हंसेति सुखमय-चेष्टावत्त्वम्, ज्योत्स्नेति छवि-मात्रमयत्वम्, कडम्बोऽङ्कुरः, विडम्बिता तिरस्कृता नर-बाल-लीला येन सः । एवं चेष्टितुं ते पुनः के वराका इति भावः ॥
तत्र च—
शुद्धस्फाटिकनीलरत्नमहसौ खेलारसेनालसौ रेजाते यदि जङ्गमाविव निधी तौ शङ्खनीलौ तदा । अन्योन्यद्युतिभिर्विभिन्नवपुषोरन्योन्यभेदाक्षमा रामे कृष्णमतिर्बभूव जननी कृष्णे च रामभ्रमा ॥
खेलानां रसेन, अनुप्रासार्थं रलयोर् एकत्व-स्मरणम् । अन्योन्यद्युतिभिर् इति द्वयोर् आभिरूप्यनाम्नो गुणस्योद्गमः कादाचित्कोऽयं ज्ञेयः—सार्वदिकत्वेनातिसारस्याभावात् ॥
किञ्च—
**दृप्तानामपि शृङ्गिणामभिमुखं निःशङ्कमाधावति ** व्यालान् धित्सति पावकस्य च शिखामाक्रान्तुमाकाङ्क्षति । बाल्येनातिशयेन लब्धकुतुके भ्रातृद्वये निर्भये तन्मात्रोरनुतापभीतिकरुणाशङ्काङ्कितासीन्मतिः ॥११॥
शृङ्गिणां वृषादीनाम्, आधावतीत्यादिकं सप्तम्यन्तशत्रन्तं भ्रातृ-द्वये निर्भये एवम् एवं-भूते सतीत्य् अर्थः । अनुतापेत्यादि-स्व-शब्द-वाच्यत्वं रस-दोष इति नाशङ्कनीयम् । तद् उक्तं काव्य-प्रकाशे—[७-८३] न दोषः स्व-पदेनोक्तावपि सञ्चारिणः क्वचित् । यथा—औत्सुक्येन कृतत्वरा इत्यादीति ॥११॥
अथ शुद्धसत्त्ववसुदेवेन वसुदेवेन प्रहितः प्रहितः सर्वयदूनां दूनांहोरंहाः स्वतनयस्य नामकरणाय नाम करणायतपाटवः, यज्ञवितान इव मन्त्रात्मा, कपिलावतार इव अधीनतत्त्वग्रामः, स्वरसमूह इव श्रुतिसम्पन्नः, अम्भोधिरिव न दीनः, विरोचन इव तमोपहः, परममहातपःप्रकाशबहुलश्च कुलधरः, कुलधरणीधर इव प्रावृडम्भोधर इव महासारः, परमात्मा परमात्मा यदुकुलाचार्यो मुनिर्गर्गो नाम यदृच्छया प्रागूढ-गूढभावः सन् व्रजराजभवनमाजगाम ॥१२॥
शुद्ध-सत्त्वम् एव वसु धनं तन्मयेन देवेन द्योतमानेन, तेन दीव्यतीति वा, अनेन वसुदेव-शब्दार्थ एव व्यञ्जितः—[भा पु ४-३-२३] सत्त्वं विशुद्धं वसुदेव-शब्दितम् इति चतुर्थस्न्धोक्त-निरुक्तेः । प्रहितः प्रेषितः, कुतः ? प्रकृष्टं हितं यस्मात् सः, दूनं क्षीणम्, अंहसां पापानां रंहो वेगो यत्र यस्माद् वा सः, इत्याभ्यां काकाक्षि-गोलक-न्यायेन यदूनाम् इत्येतस्योभाभ्यम् एवान्वयात् । अस्य यदुकुल-पुरोहितत्व-सूचकं तेषाम् ऐहिक-पारत्रिक-हिताचरणम् उक्तम् । नाम प्राकाश्ये, करणानाम् इन्द्रियाणाम्, त्रैकालिक-सार्वत्रिक-विषय-वस्तूनि आयतं दीर्घं पाटवं तद् उचित-कर्मठता यस्य सः । एतेनोपनिषज्ज्योटिषागमकर्म-तन्त्राद्यभिज्ञत्वेन नाम-करणे सामर्थ्यम् उक्तम् ॥
सूचितम् अर्थं स्पष्टयति—वितानो विस्तारः, मन्त्रा एव आत्मा यस्य, तान् विना तस्य व्यर्थत्वात् । पक्षे, मन्त्रे मन्त्रणायामात्मा वुद्धिर् यत्नो वा यस्य सः, आत्मा यत्नो धृतिर् वुद्धिः इत्य् अमरः । अधीनेति स्पष्टम्, पक्षे, अधिगत इनस्य सूर्यस्य प्राधान्यात् सर्व-ग्रहोपलक्षकस्य तत्त्व-ग्रामः सञ्चारातिचारादि2-यथार्थ्यं येन सः, श्रुतयो द्वाविंशतिः, पक्षे, वेदाश् चत्वारः । नदीनाम् इनः प्रभूः, इनः सूर्ये प्रभौ इत्य् अमरः, पक्षे, न दीनो न दरिद्रः । विरोचनः सूर्यः तमोऽन्धकारोऽज्ञानं च । परमो महान् आतपः किरण-समूहो यस्य सः, तथा प्रकाशने बहुलश् च, गर्ग-पक्षे—परम-महतां तसां प्रकाशे बहुलः कुलधरः, स्वनाम्ना वंश-प्रवर्तक इति केवलं गर्गस्यैव विशेषणम् कुलधर-पदस्य यमकानुरोधाद् उपमा-मण्डल-मध्यपातित्वम-दोषः । कुल-धरणीधरो मेर्वादिपर्वतः, स इव महासारो महास्थिरः, अम्भोधर-पक्षे—महानासारो धा-सम्पातो यत्र सः । गर्ग-पक्षे—महम् उत्सवं प्रति आसरतीति स तथा, कर्मण्यण् । परेषां मा लक्ष्मीः सम्पत्तिर् यस्माद् एवम्-भूत आत्मा यत्नो गमनादि-व्यापारो यस्य सः, प्राक् प्रथमम्, ऊढ-गूढ-भावो धृत-घूढाभिप्रयः । श्री-व्रजराजेनापि मया प्रार्थितं मत्पुत्रस्य नाम-करण-संस्कारं न करिष्यति इत्य् एवम् एव प्रथमं ज्ञातत्वात्3 । तद् अनन्तरं तु तत्-सम्मत्या तेन ज्ञाताभिप्राय एवाभूद् इत्य् अर्थः ॥१२॥
तमथ समासाद्य स मासाद्यमानमानमभिवाद्य पाद्यादिभिरभिपूज्य च हृदि निभृते निभृते हर्षसम्पदा पदावनेजनीरप उपस्पृश्य सविनयमूचे व्रजाधिनाथः—“मुने! किमु न मुनयो नयोद्धरकरुणा भवादृशा दृशा पुनन्ति जगददो गद-दोषबहुलम्, तदपि भाग्यवतामतिमतिसुखदं भवच्चरणजलाचमनम्, तदपि मम घटितमित्यहो मे अगाधेयं भागधेय-सम्पत्तिः । पादरेणुनाणुनापि भुवनं पुनानानां नानांहोरंहसः सततशुभवतां भवतां शुभागमनभागमनवरतमाशासानानामाशा सा नाना नाद्यापि केषामपि विश्राम्यति । तदनायासेनैव सम्पन्नमित्यहो अद्यैव मे फलितोऽफलितो भागधेयविटपी । मत्कृतार्थीकरणमात्रकामस्याकामस्यात्र भवतो भवतोदकस्य प्रयोजनवार्तां वार्ताङ्गस्य किं पृच्छामः । किन्तु साध्वसं साध्वसन्तोषकरमिदानीम्” इति मितिरहितो नानोत्कण्ठागौरवेण समुन्नमना न मनागपि विलम्बं सहमानेन सह मानेन समुज्वलनलोभवान् भवान्मया प्रार्थ्यते—“भगवन्! प्रियसखस्यानकदुन्दुभेर्दुन्दुभेरिव प्रसिद्धघोषस्य प्रसिद्धघोषस्य मम चापत्यं नाम नामकरणेन चेदनुगृह्णासि, तदानुगृहीतो गृही तोषवानहं भवानीति नीतिवत्सु किं बहुना” ॥१३॥
तं गर्गं समासाद्य समीपम् आगत्य, स व्रजाधिनाथः, माभिः शोभाभिः साद्यमानः प्राप्यमानः मानः सम्माननं यत्र तद्-यथा स्याद् एवम् अभिवाद्य प्रणम्य निभृते विविक्ते देशे ऊचे । हृदि कीदृशे ? हर्ष-सम्पदा नितरां भृते पुष्टे सति । भावादृशा मुनयो दृशा दृष्ट्या एव जगत् किमु न पुनन्ति, अपि तु पुनन्त्येव, गदो जन्म-मरणादि-लक्षणो व्याधिस् तद्दोष-बहूलम्, अहो आश्चर्यम्, मे भाग्य-सम्पत्तिर् इयम् अगाधा । ननांहसां विविध-पापानां रंहसो वेगात् । शुभवतां मङ्गल-युक्तानां युष्माकं शुभागमनम् एव भागः सर्व-प्राप्यत्वेन दायांशस्तम् । आशासानानां वाञ्छतां सा नाना विविधा ऐहिक-सुख-भगवत्-प्रीति-तद्-भनाद्यभिलाष-लक्षणाशा केषाम् अपि न विश्राम्यति, मम तु तद्-वाञ्छितं सम्पन्नं जातम् । नासीत् फलिता फलवत्त्वं यस्य सः, अद्यैव फलितः । भवतोदकस्य संसारनाशकस्य भवतः, अत्रागमनस्य प्रयोजन-वार्त्तां किं पृच्छामः, वार्ताङ्गस्य निरामय-विग्रहस्य, वार्तो निरामयः कल्यष्ह् इत्य् अमरः । किन्तु इदानीं साध्वसं विवक्षितेऽर्थे मम भयं साधु सुष्टु असन्तोषकरम् इति, अतएव हेतोर् भवान् मया प्रार्थ्यते । कीदृशः ? मितिरहितोऽप्रमेय इत्य् अर्थः । ननु समयान्तरे तत् प्रार्थ्यताम्, इदानीम् एव कोऽयम् आग्रहः ? तताह—नानोत्कण्ठाया गौरवेणातिभारेण हेतुना मनाग् अपि विलम्बं न सहमानेन सोढुम् अशक्नुववतेत्य् अर्थः । नन्वेवं चेत्, त्वत् प्रार्थित-सम्पादनेन ममाप्य् अभिप्रेतस्त्वत्तो धनादिलाभो भविष्यतीत्यतः प्रार्थने का चिन्ता नाम् ? तत्राह—भवान् न लोभवान् न लोभी, तत्र हेतुः—मानेन सर्वलोक-कृतेन सम्मानेन सह समुज्ज्वलन् तव सम्मानोऽपि महा-प्रदीप्त इत्य् अर्थः । लोभी तु अतितिरस्कृत एवेति भावः । तर्हि प्रार्थने किम् इति निःशङ्कोऽसि ? तत्राह—समुन्नमनाः सम्यग् आर्द्रचित्तः, तम कृपालु-स्वभावम् आलक्ष्य तत्र सङ्कोचो मम न जायत इति भावः । प्रसिद्धो घोषो वादन-सम्बन्धी च शब्दो यस्य तस्य मम च प्रसिद्ध-घोषस्यापत्यं4 रामं कृष्णं चेत्य् अर्थः । तदा अनुगृहीतस्त्वया अनुकम्पितः, गृही गृहस्थः ॥१३॥
स च मुनिरवादीदवादी—“दक्षिणाशय! व्रजनाथ! नाथति यदिदं भवान्, दम्भवान्न भवति, भवति सदा विनीत एव, नीत एव वशतामनेनैव विनयेन सर्वः । न हि तुहिनकरो न करोति कुमुदमुदमिति ममैतत्तव समीहितहित-सम्पादनं युक्तमेव । किन्तु कंसनृशंसो नृशं सोऽति न सहते, सह तेन न कोऽपि परिस्पर्धी, स्वयं खलताफलमपि विषलताफलवत् स खलु सकलमेव जनमुद्वेजयति । जयति च सुरानपि, न पिहितं भवति कुत्रापि तत्तेजः । विशेषतश्च वसुदेवसुतः क्वचन वर्तत इति जपन्नगपन्नगवन्निश्वसन् सावधानमेव वरीवर्ति” ॥१४॥
अवादीत् उवाच, अवादी अनुकूलः । यद् इदं भवान् नाथति याचते, तेन भावान् दम्भवान् न भवति, किन्तु सदा विनीत एव, अनेनैव मुने, किमु न मुनय इत्यादि वचन-परिपाटीद्योत्येन विनयेन सर्वएव वशतां नीतो भवति, किं पुन-रहम् इत्य् अर्थः । मम पुनर् दूरस्थत्वेऽपि सदा त्वयि प्रीतिस् त्वद्-विनयादि-निरपेक्षा साहजिक्येवेत्य् आह—न तुहिनेति । कंस-नामा मृशंसः क्रूरः, नृशं नुर्मनुष्यस्य शं कल्याणम्, स प्रसिद्धः, अति अतीव, न सहते, किम् च, तेन सह कोऽपि न परिस्पर्धी । खलतायाः खलत्वस्य फलं दुःखम् एव, तद्-रूपोऽपि निरन्तर-स्व-मृत्यु-भावना-विपद्-ग्रस्तोऽपीत्य् अर्थः । श्लेषेण आकाश-लताफल-भूतोऽपि अद्य श्वो वा मरिष्यमाणत्वाद् अविद्यमान-प्रायत्वेन ज्ञातोऽपीत्य् अर्थः, न पिहितं नाच्छादितं कुत्रापि इन्द्रपुरादावपि, किं पुनर् अत्र तदीय-देश एवेति भावः । नगपन्नगवत् पर्वत-वर्ति-सर्पवत् ॥१४॥
**
“वेत्ति मां यदुकुलाचार्यं चार्यं ते यदिदं चेत् कार्यमीहेऽमी हे व्रजराज! राजपुरुषा गूढवेशेन सर्वतश्चरन्तस्तदैव तस्मै निवेदयिष्यन्ते, दयिष्यन्ते न च ते भोजापसदाः कंसनामानो नामानोकह-कोटर-कुहरदहनवज्ज्वलन्तोऽलं तोदयिष्यन्ति, तेन दुष्करमेतत्” ॥१५॥**
चेद्-यदि इदं कार्यं त्वत्-पुत्रनामकरणादि, आर्यं श्रेष्ठम्, चकारस्य वेत्ति-पदस्यान्ते अन्वयः । यद् वा, चार्यम् आचरणीयं कर्तुं योग्यम् इतियावत् ईहे चेष्टे, कारोमीत्य् अर्थः । तदा अमी राज-पुरुषाः, हे व्रजराज ! ननु निवेदयन्तां नाम, तथापि तन्मण्ण्दलाध्यक्ष-मुख्ये मयि सदा सानुकम्प एवासावनुभूतः ? सत्यम्, तथाप्यसौ भेतव्य एवेत्य् आह—दयिष्यन्ते इति बहु-वचनं प्रायस् तत्सनाम-सवासनानां5 तद्-भ्रात्रादीनाम् अन्येषाम् अपि ग्रहणार्थम् । कंसनामानः—कंस् ते हिनस्तीति कंस इत्य् एवं स्व-स्व-नाम-योगार्थं नैव त्यक्षन्तीति भावः । अनोकहो वृक्षः, तादृशानल-दृष्टान्तोऽत्यन्ता-निवार्यत्वेन ॥१५॥
तन्निशम्य शम्यपि घोषाधीशो धीशोकं गतः, पुनरपि निजगाद—“ब्रह्मन्! युक्तमुक्तम्, जीवन्मुक्तं जीवन् को द्वेष्टि, तथापि अषडक्षीणमिदमक्षीणमिदपर इह बहिरङ्गः कोऽपि जनो न वेत्स्यति । मूर्तिमता परममङ्गलेन भवता भवतापहारकेण क्रियमाणस्य कर्मणः किमुच्चावचमङ्गलकार्योपयोगिनातोद्यादिनातोऽद्यादिना केवलेनैव स्वस्तिवाचनेन भवतैव सम्पादनीयमिदम्” इति ॥१६॥
शम्यपि परम-धृतिमान् अपि, धीशोकं धियैव शोकम्, अतिगाम्भीर्येण बहिस् तल् लक्षणानभिव्यक्तेर् इत्य् अर्थः । जीवन् मुक्तं भवन्तं तेन भवद् अद्वेषेण मय्यापि द्वेषो न भविष्यति फलतस् तस्येति भावः । तथापि शङ्कास्पदम् इति चेत् हे अक्षीणमित् ! अक्षीण-स्नेह ! ञिमिदा स्नेहने क्विवन्तः । त्वया मयि स्नेहः किं त्यक्तुं शक्य इति भावः । इह मदन्तःपुरे परम-विविक्ते इदं कर्म अपरो न वेत्स्यति । कथम्-भूतम् ? अषडक्षीणं न विद्यन्ते षट् अक्षीणि यत्र तत् । स्वन्तरङ्ग-परिवार-सहितः, अहम् एक एव ज्ञेयस् त्वं च इत्य् एवं द्वाभ्यां कृतम् इत्य् अर्थः, [पा ५-४-७] अषडक्षाशितङ्ग्वलङ्कर्मालम् पुरुषाध्य् उत्तरपदात् खः इति ख-प्रत्ययः । आतोद्यादिना वाद्यादिना, अतो हेतोः, अद्यादिना, अद्य अमुके मासि अमुके पक्षे इत्यादि-सङ्कल्प-वाक्येन, यद् वा, अद्य् अत्र दिने, आदिना कर्म-प्रथम-गतेन स्वस्ति-वाचनेन ॥१६॥
तद्वचनानन्तरं स्वयमावृतमप्यान्तरं रसं विकाशयन्तीव काचगर्गरी गर्गरीतिरासीन्मुखप्रसादेन, ततस्तु मातृभ्यामुपनीतयोस्तयोर्बालकयोः प्रथमं व्रजेश्वरीक्रोडगतं श्रीकृष्णमवलोक्य स मुनिर्मनसि पराममर्श ॥१७॥
गर्ग-रीतिर् गर्गस्य चेष्टित-परिपाटी, काचस्य गर्गरीव काचेन निर्मितेत्य् अर्थः । रसं तैलादि, प्रेम-रसं च ॥१७॥
अहो किमेतत्—
“हन्तायं किमनादिमोहतमसः सद्रत्नदीपाङ्कुरः किं न्वीशप्रतिपादकोपनिषदां प्रामाण्यमाप्तं वपुः । किं नः सौभगकल्पभूरुहवनस्याद्यः प्रसूनोदयः सान्द्रानन्दसुधाम्बुधेः किमथवा सा कापि जन्मस्थली ॥”
हन्तेति विस्मये, रत्नेति अन्यदीपा हि तैलाद्युपचयाभावेन वातादि-विघेन च निर्विशेष-ज्ञान-योग इव कालेन नश्यत्यपीति भावं । तत्रापि सदिति अवतारान्तर-वैलक्षण्यार्थम् उक्तम् । अत्र प्रामाण्यापेक्षा चेत्, अत आह—ईशस्य सविशेषस्य षडश्वैर्यवतो भगवत इत्य् अर्थः । प्रामाण्यम् एव कर्तृ वपुः शरीरं प्राप्तं प्राप, प्रत्यक्षीभूतम् अभूद् इत्य् अर्थः । न तु निर्विशेष-ब्रह्म-प्रतिपादकानाम् उपनिषदां प्रामाण्यम् इव केवलम् अप्रत्यक्षम् इति भावः । नन्वेतद्द्भूत-भाग्यं कथं समभवत् ? अत्र स्ययम् एव वितर्कयन्नाह—नोऽस्माकम् एतेनैवानुमितं यत् सौभगं तद् एव कल्प-भूरुहवनं तस्याद्यो मूल-भूतः । तस्य प्रार्थित-विविधान्य-फलदायित्वेऽपि स्वजात्यैव जनिष्यमाणाय कस्मैचिद् अतिमुख्याय फलय यः प्रसूनोदयः स एव । अस्माकं सरेषाम् अद्भुत-प्रेम-फलकारणम् एव मूर्तिधारीत्य् अर्थः । यद् वा, प्रसूनोदयः फलोदय एव—प्रसूनं पुष्प-फलयोः इत्य् अमरः । अथ तदैव तादृश-प्रेम-फलोपलव्धि-हेतुकं रसास्वाद-भरम् अनुभूयाह—सान्द्रेति । सा प्रसिद्धा पूर्वं शास्त्र-महाजन-प्रसिद्ध्या श्रुतैव, न त्वनुभूतेति भावः । कापि अनिर्वचनीया, इदानीन्तु अनुभूयमान-मात्रत्वेन वक्तुम् अशक्येत्य् अर्थः । जन्मस्थलीति तेन महा-वैकुण्ठनाथादावपि तरतम-भावेन स्थितानाम् आनन्दानाम् एतद् आनन्द एव मूल-कारणम् इति भावः ॥
किञ्च—
“यं ब्रह्मेति वदन्ति केचन जगत्कर्तेति केचित् परे त्वात्मेति प्रतिपादयन्ति भगवानित्येव केऽप्युत्तमाः । नो देशान्न च कालतो बत परिच्छेदोऽस्ति यस्यौजसो देवः सोऽयमवाप नन्ददयितोत्सङ्गे परिच्छिन्नताम्” ॥१८॥
ब्रह्मेति ज्ञानाभ्यासिनः । जगत्कर्तेति अणिमाद्यखिलैश्वर्यपरास् तार्किकाः, आत्मेति योगाभ्यासवन्तः, भगवान् इति भक्त्येकनिष्ठाः । उत्तमा इति एष्यम् एव श्रिष्ठ्यम्, केऽपीति वैरल्यं च, तेन स्वारस्यम् अप्य् अत्रैव ध्वनितम् ॥१८॥
अहो अतिभूमिरियं विस्मयस्य, यदयं मातुरङ्कगत एव मे—
**“कर्पूरवतिरिव लोचनमङ्गकानि, पङ्को यथा मृगमदस्य कृतानुलेपः । ** घ्राणं धिनोत्यगुरुधूप इवायमुच्चैरानन्दकन्द इव चेतसि च प्रविष्टः ॥”
प्रविष्ट इति धिनोतीत्य् अनयोः सर्वत्रान्वयः ॥
किञ्च—
“धैर्यं धुनोति बत कम्पयते शरीरं, रोमाञ्चयत्यतिविलोपयते मतिञ्च । हन्तास्य नामकरणाय समागतोऽहमालोपितं पुनरनेन ममैव नाम” ॥१९॥
मम नाम प्रसिद्धिः, गर्गो नाम ऋषिर् महाधीरोऽतिगम्भीरोऽचपलो निविकारः परमम् अतिमानित्यादिका सर्वलो-घोषिता ख्यातिर् इत्य् अर्थः । तत्र धैयं धुनोतीत्यौत्सुकुक्य-चापल्ये, पम्पयत इति प्रितिर् अत्याख्यः स्थायी, रोमाञ्चयतीति तद् अङ्गभूतो विस्मयः, मतिं विलोपयतीति उन्मादः ॥१९॥
तदधुना किमीहिष्ये—
**“पादौ दधामि यदि मां वदिता जनोऽयमुन्मत्तमेव बत वक्षसि चेत् करोमि । ** तच्चातिचापलमहो न करोमि वा चेदौत्कण्ठयमेव हि लविष्यति धैर्यबन्धम्” ॥२०॥
तद् अपि पादौ दधामीत्यादिपरामर्शगर्भा धृतिर् अपि रस-परिपाटी-भङ्गाभावाय लीला-शक्त्यैव तस्मिन् समर्पितेति ज्ञेयम् ॥२०॥
भवतु तथापि—
**“जन्माद्य साधु सफलं सफले च नेत्रे, विद्या तपःकुलमहो सफलं समस्तम् । ** आचार्यता भगवती हि यदोः कुलस्य, मामद्य हन्त नितरामकरोत् कृतार्थम्” ॥२१॥
हन्तेत्य् अनुकम्पायाम्, तथापि प्राप्त-तादृश-धृतावपि गर्गे तस्मिन् प्रेमा स्वकार्यं त्यक्तुम् अशक्नुवन्निवोदगाद् एवेत्य् आह—स्नात इवेति । दैहिक-सुखस्य बहिःप्रकाशाधिक्यम्, पीतवान् इति मानस-सुखस्यान्तरेवेति । ततश् च जाग्रद् इत्यादिकं पूर्व-पूर्वं धृति-लक्षणम्, निद्राण इत्यादिकम् उत्तरोत्तरं प्रेम-लक्षणम् इति ॥२१॥
इति स्नात इवानन्दसिन्धौ, पीतवानिव पीयूषम्, जाग्रदेव निद्राण इव, ज्ञानवानेव मुह्यन्निव, जीवन्नेव मूर्च्छन्निव, पश्यन्नपि अन्ध इव, शृण्वन्नपि वधिर इव, वदन्नपि मूक इव, बद्धधैर्योऽपि चपल इव यदा क्षणमेवमासीत्, तदा समीपमम्बाभ्यामुपनीतयोस्तयोः कुमारयोरयोन्नीतस्वस्तिवाचनोऽयं नामकरणायोद्यतो धतोरखिलमशुभं शुभंय्वोरनयोरनयोपशमनाय नानार्थनिरुक्त्या नाम चिकीर्षुरुवाच ॥२२॥
अयेन शुभावह-विधिनोन्नीतं स्वस्ति-वाचनं येन सः, द्यतोः खण्डयतो शुभंष्वोः कल्याणवतोः, [पा ५-२-१४०] अहंशुभमोर्युस् अनयस्योपशमनाय, नानार्थ-निरुक्त्येति तां विनेश्वराणां नाम कस्मान् मनुष्य-सुतेऽर्प्यते इत्य् अनयोर्लोक-दृष्ट्या स्यात् । तथैव वक्ष्यमाणेन क-ऋषणादिभिर् इत्यादिना परमांशित्व-रूप-तात्पर्यार्थ-विवृतिं विना तत्व-दृष्ट्यापि अनयः स्याद् इति ॥२२॥
**“अयं वसुदेवसुतो देवसुतोत्तमबलो बलोच्छ्रायाद् बलो बलेन देवनमस्येति बलदेवेति बल देवेति हासोचितं च नाम । ** महापुरुषत्वेन पापसङ्कर्षणे सङ्कर्षणेति च समुचितमभिधानम्, सर्वाभिरामतया रामतया चैष गमिष्यति प्रसिद्धिम्, बलेन रमत ॥”
इति बलरामश्च ॥२३॥
देव-सुतस्येव उत्तमं वलं पराक्रमो यस्य सः, अस्येति एतत्-सम्बन्धि देवनं मल्ल-युद्धादि-क्रीडनं वलेनैव प्रतिभट-प्रतियोगिनिष्टेन6 भवति, नान्यथेत्य् अर्थः । वलेन दीव्यति इत्य् अनुक्तिर् अग्रे वाख्यास्यमानेन वलेन रमत इत्यनेनैकार्थ्यात् बलदेवेति हास्योचितं चेति, एतत् प्रिय-नर्म-सखैः कदाचिदिमं क्रीडामय-कौतुक-युद्धे पराजित्य विरुद्ध-लक्षणया हे देव ! त्वं वल, वलं प्रकाशयेति लोडन्त वलति-प्रयोगेण करिष्यमाणो यो हासस् तद् उचितं बलदेविति नाम इत्य् अर्थ-द्वयम् । महा-पुरुषत्वेन सिद्ध-पुरुषत्वेनेति प्रकटोऽर्थः । महत्-स्रष्ट्रादि-पुरुषेभ्योऽपि महत्त्वेनेति वास्तवः7 । पापानां सम्यक्-कर्षणे निमित्ते ॥२३॥
अयन्तु तवात्मजो भगवद्भक्तियोग इव चातुर्वर्ण्योपयुक्तः स्वभावत इन्द्रनील-नीलतया सिद्धोऽपि प्रतियुगमंशतः करुणाच्छविग्रहं विग्रहं दधदनेकवर्णतां प्रकटयति । धर्माविकृते कृते शुक्लः, सवर्णस्त्रेतायास्त्रेतायामपि, द्वापरेऽद्वापरेण श्याम एव, मूर्त इव कलौ कलौ पीत इति । क-ऋ-ष-णाभिः पञ्चभिर्वर्णैः समवेतस्य कृष्ण इति नाम्नः चतुर्भिरेव वर्णाश्चतुर्युगवर्णान् दधाति, वर्णानामादिभूतेनाकारेण स्वयमादिभूतो नीलेन्द्रमणिसावर्ण्यं दधत् कृष्ण इत्याख्यां भजते । कर्षति भजतामघं कर्षत्यनुरक्तानां मनांसीति च कृष्णः, कृषिः सत्तार्थः, ण आनन्दार्थः, तेन च सत्तानन्दरूपतया च कृष्ण इति मुख्यं नाम । कदाचिदयं वसुदेवादपि जातोऽजातो विमुक्तादिति वासुदेवोऽपि लोकैरुद्घुष्यते । (भा।पु। १०.८.१६) नारायणसमो गुणैः इत्युक्त सरस्वती तमेवार्थमात्मगतं व्याख्याति स्म—“नारायणश्चास्य गुणैरेव समः, न त्वंशित्वेनाप्यभेदोपचारतो नारायणमप्येनं वदिष्यन्ति” इति ॥२४॥
चातुर्-वण्ये चतुर्षु वणेषु ब्राह्मणादिषु उपयुक्तः कर्तुं योग्यः, स्वार्थे ष्यञ् प्रत्ययः, पक्षे, चत्वारो वर्णाः शुक्लादयो यस्य तस्य भावश् चातुर्वर्ण्यं तत्रोपयुक्तः । तद् एव विवृणोति—स्वभावत इत्यादिना । विग्रह म्देहम्, कीदृशम् ? करुणायाः कृपायाश् छविं कान्तिं गृह्नातीति तम्, पूर्ण-कृपायास् तु तत् तद् अंशिनि श्री-कृष्ण8 एव सम्यक् सम्भवादिति भावः । धर्माणां तपः-शौचादीनाम् अविकृतं विकाराभावो यत्र तस्मिन्, परिपूर्ण-धर्ममये सत्याख्ये युगे इत्य् अर्थः । त्रेताया अग्नित्रयस्य तुल्य-वर्णो रक्त इत्य् अर्थः, दक्षिणाग्निर् गार्हपत्याहवनीयौ तत्रोऽग्नयः, अग्नित्रयम् इदं त्रेता इत्य् अमरः । अद्वापरेण असन्देहेन, अस्मिन् द्वापर-युगे तस्य श्यामस्यास्मिन् कृष्ण एव कैक्यम् आप्तत्वादयम् एव सः, इत्य् एवम् अभिन्नतालक्षणेन, सन्देह-द्वापरौ च इत्य् अमरः । कलौ कलहे मूर्ति-युक्त इव पीत इति एतद् अव्यवहिते आगामिनि कलावेवेति ज्ञ्यम्, न तु सर्वत्र । प्रतिसत्यादि-शुक्लादीनाम् इव प्रति-कलियुगम् [१-२१५] कथ्यते वर्ण-नामभ्यां शुक्लः सत्य-युगे हरिः । रक्तः श्यामः क्रमात् कृष्णस् त्रेयायां द्वापरे कलौ ॥ इत्य् अनेन [सङ्क्षेप-] श्री-भागवतामृते कृष्ण-वर्णस्यैव युगावतारत्वेन निरूपितत्वात्, तथैवात्रापि पञ्चदशे स्त्ववके कलौ कृष्ण इति वक्ष्यमाणत्वात् । अत्र पीत इत्य् उक्तिः [भा पु १०-८-१३] शुक्लो-रक्तस् तथा पीत इदानीं कृष्णतां गतः इति मूलानुसारानुरोधेनैव । मूले चैकादशस्कन्धे [भा पु ११-५-३१,३२] नाना-तन्त्र-विधानेन कलावपि तथा शृणु, कृष्ण-वर्णं त्विषाकृष्णम् इत्यादिना कलियुगावतारत्वेन कृष्ण-वर्णस्यैव निरूपयिष्यमाणत्वेऽपि दशम-सकन्धे तथा पीत इदानीं कृष्णतां गतः इत्य् उक्तिर् इदानीन्तने कलौ पीत-वर्ण इति विजिज्ञापयिषयैव । किम् च, आसन् इति भूतकालानुरोधेनापाततः सुघटे व्याख्यान्तरे9 क्रियमाणे द्वापर-युगावतारस्य पीतत्वे [भा पु ११-५-२७] द्वापरे भागवान् श्यामः पीतवासा निजायुधः इत्य् अनेन विरोधः स्यात् । न च तत्रस्थ-श्याम-पदस्यार्थान्तरं कल्प्यम् इति वाच्यम्, पीतवासा इत्य् अनेन श्यामत्वस्यैव सुष्ठु निर्धारितत्वात्, श्यामस्यैव पीतवसनौचित्यात् । ततश् चायम् अर्थः । यत् यदोर् नित्य-सम्बन्धाद्-यथेदानीं द्वापरान्ते कृष्णतां गतः स्वयम् अयम् अवतारी, तथा तेनैव प्रकारेण स्वयम् अवतारित्वेनेत्य् अर्थः । इदानीं कलियुगादिभागे पीत इति किञ्चित् स्थूल-कालम् अवलम्ब्य इदानीम् इति-पदार्थ उभयात्राप्य् अन्वेतीति । ननु तर्हि अधुना साक्षात् क्रियमाणोऽस्य कृष्ण-वर्ण इदानीन्तन एव, किंवा पूर्वम् अप्य् आसीद् एव ? तस्यैव प्राकट्यम् अधुनेति तत्र न केवलं कृष्ण-वर्ण एव पूर्वम् आसीत्, किन्तु अन्येऽपि वर्ण आसन्नेव इत्य् आह—आसन्निति । अनुयुगं तनुर् गृह्नतोऽस्य अनुक्तोऽप्यन्यः शुक्लो रक्तस् तथा उक्तः पीतः, एवं त्रयोऽपि वर्णा यथा-सम्बवं तत् तद्-युगे तदानीं दृश्यमाना अप्यासन्नेव, तत् तद्-युगे पूर्वम् अपि स्थितानाम् एव तदानीं तदानीं प्राकट्यम्, न तु ते तदानील्म् एवापूर्वा अभवन्नित्य् अर्थः । द्वापर-कलियुगावतारयोः श्याम-कृष्णयोः कृष्ण-वर्णत्वाभेदात् पृथग् अनुक्तिः । एवं च वैवस्व्स्त-मन्वन्तर-गताष्टाविंश-चतुर्-युगीय-द्वापर-कलि-युगयोः स्वयम् एवावतारी कृष्णः पीतश् च प्रादुर् भवति । तद् युगद्वयावतारौ तदा तत्रैवान्तर्-भूतौ तिष्ठतः । तत्र पीतस्य वैशद्येन काप्यनुक्तिर् इति, रहस्यत्वात्10 [भा पु ७-९-३८] छन्नः कलौ यद् अभवस्त्रियुगोऽथ स त्वम् इति सप्तम-स्कन्धे श्री-प्रह्लादेनापि छन्नत्वेनैवोक्तत्वात् । तच्छन्नत्वं च स्व-वर्ण-स्वरूपयोर् अन्यस्वीय-वर्ण-भावाभ्याम् आवृतत्वेन तदानीन्तन-जनैः प्रायो दुर्लक्ष्यत्वम् एवेति । दुर्लक्ष्यत्वम् च तत् तस्य रहस्यवस्तुजातव्यञ्जकताहेतुकम् एवेति भक्त-सुधीभिर् अवश्यम् अवगम्यम् । तत एव् तत्-प्रमापकस्य [भा पु ११-५-३१,३२] नाना-तन्त्र-विधानेन कलावपि तथा शृणु, कृष्ण वर्णं त्विषाकृष्णम् इत्यादि-वचनस्य युगावतार-प्रकरण-मध्य-पठितस्य तथैव छन्न एवार्थोऽति-गूढत्वाद् अवसीयतेऽर्थान्तरेण । स यथा नाना-कलौ प्रति-कलि-युगे, अपि-कारात् वैवस्वताष्टाविंश-चतुर्युगीयकलावपि तन्त्र-विधानेन तन्त्राख्यन्याय-विधिना श्वेतो धावति इत्यादिवत् एक-प्रयत्नोच्चार्येण एकदैवार्थद्यय-वोधकेन शब्देनेत्य् अर्थः । शृन्विति शृण्वन्तम् अपि राजानं प्रति पुनः-प्रेरणं रहस्यत्वेन तन्त्रेणोच्यमानम् अर्थं विशिष्यावधापयितुं परीक्षितं प्रति तु पूर्वोक्तस्य शुक्लो रक्तस् तथा पीतः इति पद्यस्य तथा पीत-शब्द-स्मारकेण अत्रत्य-तथा-शब्देन सङ्केतितं स्पष्टम् एव तम् अर्थं कृष्णेति प्रति-कलियुग-पक्षे कृष्ण-वर्णं कृष्ण-वर्ण-विग्रहम् । रुक्षत्वं व्यावर्तयति—त्विसा कान्त्या अकृष्णं उन्द्र-नीलमणिवद् उज्ज्वलम् इत्य् अर्थः । एक-कलियुग-पक्षे कृष्ण-वर्णं किन्तु त्विषा कान्त्याकृष्णं पीतम्, अन्तःकृष्णं बहिर् गौरम् इत्य् अर्थः । यद् वा, कृष्णं प्रसिद्धं कृष्णावतारं वर्णयति, तद् रूप-लीलादि-माधुर्यं सर्वत्रोपदिशतीति तम् । साङ्गोपाङ्गेत्यादिकम् उभय-पक्षेऽप्य् अप्रच्छन्नत्व प्रच्छन्नत्वाभ्यां तुल्य एवार्थ इति । जानामि वा न जानामि स्वं पुष्णाम्य् एव केवलम् । शुद्धं लिखाम्यशुद्धं वा क्ष्मन्तां साधवोऽखिलम् ॥ वणैर् वक्षरिअर् एव ककार-ऋकार-षकार-णकारैर् वर्णान् क्रमेण शुक्ल-रक्त-श्याम-पीतान् दधाति धारयति, वर्ण-शब्दस्य उभयार्थवाचित्वात् । ततश् च क-ऋ-ष-णा वर्णा यत्र स चासौ अश्चेति विग्रहोऽभिप्रेतः । शक-पार्थिवादित्वाद्-वर्ण-पद-लोपः । एवं च विद्वन् मानस-हंसेतिवत् शब्द-श्लेषेण कादयश् चत्वारो वर्णा एव वर्णाः शुक्लादय इति, ततश् च नामनामिनोर् अभेदात् कृष्ण-नाम्नि तेषां वर्णानां समवायः । नामिनि कृष्णेऽपि तेषां शुक्लादीनाम् इदानीम् अन्तर्भाव इति भावः । अकारेण पञ्चमेन आदिभूतेनेति अकारस्य सर्व-वर्णादि-भूतत्वम् एव कृष्णस्य शुल्काद्यवतारादि-भूतत्वं ज्ञ्पयतीति । किं च, अकारस्य केवलस्यापि विष्णु-वाचकत्वेनार्थवत्त्वम् इव न तेषां क-ऋ-ष-णानां तथा-भूतत्वम् अतो न तेषां स्वयन्त्वम् । अस्य तु तत् तन्नैरपेक्ष्येऽपि स्वतः-सिद्धेः स्वयन्त्वम् इति । सर्वोऽप्ययं वस्त्वर्थ एव विवृतः, श्री-नन्दं वोधयितुम् इष्टस् तु कोऽ11प्येवंविध-महा-पुरुषः शुक्लाद्यवतारोपासनया तदा तदा प्राप्त-तत् तत्-सारूप्यः सम्प्रति कृष्णोऽभूद् इत्येतत्-प्रकारः प्रकट एवार्थः । कृषति दूरी-करोति, कृष विलेखने इत्य्स्मात् । मुख्यम् इति नाम्नां मुख्यतरं नाम कृष्णाख्यं मे परन्तप इति प्रभास-पुराणात्, सत्तानन्दयोर् लक्षणम् अन्वयश् च शक्ति-रूपत्वं च धर्म-रूपत्वेऽपि धर्मित्वम् इत्यादिकं विस्तर-भयाद् अत्रानुपयोगाच् च श्री-भागवत-सन्दर्भादौ व्यक्तत्वाच् च न विवृतम् इति । कदाचिद् इति पूर्वस्मिन् जन्मनीति श्री-नन्देन वुध्यते, ततश् च श्री-वसुदेवस्यापि पूर्व-जन्मनि वसुदेव इत्येव नामासीद् इति च, अजातो मायातः । नारायणस्य सम इति श्री-नन्दं वोधयितुम् इष्टोऽर्थः । तेन च अग्निर्माणवकः इतिवद् उपचारेण इमं नारायणम् अपि वदिष्यन्ति जना इत्य् अवसीयते स्मेति नारायणः समोऽस्येति तु वास्तवः स्वाभिप्रेतः, तम् एव वास्तवम् एव आत्मगतम् अनन्त-वोधं12 गुणैर् एव [भा पु १-१६-२७] सत्यं शौचं दया क्षान्तिस् त्यागः सन्तोषः इत्य्दिभिः प्रथम-स्कन्दोक्तैर् एव न त्वसाधारणैर् वेणु-माधुर्य-रास-विलासादिभिर् महा-गुणैर् अपीति । न त्वंशित्वेनाप्य् अभेदोपचारतो नारायणम् अप्य् एनं वदिष्यन्तीति, तेन गुणैर् एवाभेदोपचारतो नारायणम् अप्येनं वदिष्यन्तीत्य् अर्थ आयाति । अत्र च नारायणम् इत्य् अनुवादपदम्, एनम् इति विधेय-पदम्, नारायणम् इति विश्वस्थित्यादि-कर्तृत्वेन प्रसिद्धम् अपि, किंवा कृष्णांशांश-भागरूपम् अपि एनं श्री-कृष्णं वदिष्यन्तीति, ततश् च सत्य-दया-क्षमादीन् मोक्षदयित्वादींश् च गुणान् मूल-भूतत्वेन कृष्ण-निष्ठान् पर्यालोच्य नारायणे च तादृशत्वेनैव स्थितान् विमृश्य माणवकेऽग्निपदम् इव नारायणेऽपि कृष्ण-पदं प्रयोक्ष्यन्तीत्य् अर्थः । तेनाभेदोपचारोऽप्य् अत्र गौण एवेति भावः, न त्वंशित्वेनाप्य् अभेदोपचारत इति कृष्णस्य तद् अंशित्वसम्भवेऽपि कृष्णांशांश-रूपत्वात् तस्य मुख्यं कृष्णांशत्वं नास्ती त्यंशांशि-सम्बन्धेन मुख्य उपचारो न सम्भवेद् इति सरस्वत्या अभिप्रायः । कृष्णे नारायणादि-शब्द-प्रयोगस् तु नारायणादीनाम् अवताराणां कृष्णेऽन्तर् भावाद् इति ॥२४॥
ततः स एवाह—“कि बहुना? अस्य महिमा नहि मादृशां वाग्विषयः । अयं ते सर्वसौभाग्यफलम्, अनेन सर्वमेव तरिष्यसि दुर्गम्, दुर्गन्तव्यञ्च मनोरथमवाप्स्यसि । य एतस्मिन् रतिमन्तो भविष्यन्ति, तेषामपि सौभाग्यं सर्वज्ञा अपि न ज्ञास्यन्ति । न चेदं क्वचन प्रकाशनीयमतिरहस्यम्” इति समुत्कण्ठाकाकुमारौ कुमारौ तावः कृत्वा सपुलकमात्मगतं कृष्णमालोक्य—“अहो! किमिदं महस औज्ज्वल्यम्—
इन्दीवरेन्द्रमणिवारिधराञ्जनाद्यैः, किं भौतिकैरिदमभौतिकमस्य तेजः । औपम्यमेतु यदतीन्द्रियमेतदेके, ब्रह्मति यन्मणिमणिद्युतिवद्गृणन्ति” ॥२५॥
ततः स एवाहेति—वक्ष्यमाण-वाक्यस्य सरस्वती-कर्तृकत्व-निरासार्थम्, न ज्ञ्स्यन्तीति एतावत्त्व-निश्चियेनेत्य् अर्य्हः । सर्वज्ञा अपीति न हि ख-पुष्पाज्ञानं सार्वज्ञ्यं निहन्ति इति न्यायात् । अङ्के कृत्वा इत्य् अत्र हेतुः समुत्कण्ठया यः काकुस् तस्य मारौ निरासकौ आहेति पूर्वेणैवान्वयः । यद् यस्माद् अतीन्द्रियं यद् एतत् तेजः, एके मुख्य-वादिनो ब्रह्मेति निगृणन्ति, एतत् तेजसो ब्रह्म न भिन्नम् इत्य् अर्थः । तत्र दृष्टान्तः—मणीति, मणिस्थानीयः कृष्णः, मणिद्युतिस्थानीयं ब्रह्मेति । अत्र प्रामाणम् [गी १४-२७] ब्रह्मणो हि प्रतिष्ठाहम् इत्यादि-गीतादि-वाक्यानि ॥२५॥
इति सादरादराभिलाषमालिङ्ग्य क्षणमपि तु पितुरङ्कं लम्भयित्वा जिगमिषुरभिवादितो वादितोऽपि शुभाशिषं कुमारौ प्रति व्रजपतिना अनुयातश्च कियद्दूरं स मुनिर्यथागतं निरगात् ॥२६॥
सादरं च तत् अदराभिलाषमनल्पाभिलाषं चेति तद् यथा स्याद् एवम् आलिङ्ग्य, ईषद् अर्थे दराव्ययम् इति विश्वः, वादितोऽपीति शुभाशीर्वादं कारित इत्य् अर्थः । ज्योतिर् विदो वचस् तस्य गर्गस्य मुख-निःसृतम् । चित्त-भित्तौ लिखंश् चिन्तां हित्वा नन्दो ननन्द सः ॥२६॥
अथ क्रमत उपरमत्प्राये जानुचङ्क्रमणे स्तनपाने च चरणकमलाभ्यामेव शनैः शनैविहरता हरता च नवनीतं क्रियमाणे च बाल्यलीलाकौतुके कौ तु केन प्रकारेण न जनित आनन्दः परमानन्दकन्देन तेन ॥२७॥
कौ तु पृथिव्यान्तु, तेनैव स्वप्रति-विम्बेनैव ॥२७॥
एकदा—
“शून्ये चोरयतः स्वयं निजगृहे हैयङ्गवीनं मणि स्तम्भे स्वप्रतिबिम्बमीक्षितवतस्तेनैव सार्धं भिया । भ्रातर्मा वद मातरं मम समो भागस्तवापीहितो भुङ्क्ष्वेत्यालपतो हरेः कलवचो मात्रा रहः श्रूयते” ॥२८॥
कौतुकेनोपसन्नायां च तस्यां सप्रतिभं स्वप्रतिबिम्बमुद्दिश्य तामुवाच— **“मातः क एष नवनीभमिदं त्वदीयं, लोभेन चोरयितुमद्य गृहं प्रविष्टः । ** मद्वारणं न मनुते मयि रोषभाजि, रोषं तनोति न हि मे नवनीतलोभः” ॥२९॥
मातरिति, त्वम् अपि लोभेन चोरयितुं गृहं प्रविष्ट इति चेत् तत्राह—न हि मे इत्यादि, अहं त्वेतद्-वारणार्थम् एव प्रविष्ट इति भावः ॥२९॥
अन्येद्युरपि कार्यान्तरगतायां जनन्यां तथैव नवनीतं चोरयति सति दैवादागतया तया तमनालोच्य समाजुहुवे ॥
समाहुहुवे इति भाव-साधनम् एव—कर्मणोऽविवक्षितत्वात् ॥
**“कृष्ण क्वासि करोषि किं पितरिति श्रुत्वैव मातुर्वचः ** **साशङ्कं नवनीतचौर्यविरतो विश्रम्य तामब्रवीत् । ** मातः कङ्कणपद्मरागमहसा पाणिर्ममातप्यते तेनायं नवनीतभाण्डविवरे विन्यस्य निर्वापितः” ॥३०॥
पितरिति वात्सल्येन सम्बोधनम्, पद्मरागमहसेति, तस्य बह्नितेजः सारूप्य-दृष्ट्या तादृशत्वं ज्ञापयति, तेन वयः-समुचितं स्व-मौग्ध्यं च मातरम् अनुभावयति, अयं पाणिः ॥३०॥
तदाकर्ण्य कर्णरम्यं जननी च—“एहि वत्स! Eहि” इति तमङ्कमादाय “पश्यामि वत्स! ते पाणिं कीदृक् तप्तः” इति पाणि प्रसारयतस्तस्य पाणिमालोक्य चुम्बयित्वा “अहह! सत्यमेव तप्तोऽयं पाणिस्तदितः पद्मरागा दूरीकर्तव्याः” इति वदन्ती लालयामास ॥३१॥
सत्यम् एव तप्तोऽयं पाणिर् इति तन्मौग्ध्यानुमोदनं पुनर् अपि तथाविधबाल्य-चापलेऽवकाशं वर्धयितुम् ॥३१॥
अपरेद्युरपि—
क्षुण्णाभ्यां करकुड्मलेन विगलद्वाष्पाम्बुदृग्भ्यां रुदन् **हुं हुं हूमिति रुद्धकण्ठकुहरादस्पष्टवाग्विभ्रमः । ** मात्रासौ नवनीतचौर्यकुतुके प्राग्भर्त्सितः स्वाञ्चले नामृज्यास्य मुखं तवैतदखिलं वत्सेति कण्ठे कृतः ॥३२॥
क्षुण्णाभ्यां मर्दिताभ्यां कर-कुड्मलेनेति जातावेकत्वम्, कुड्मलीभूत-पणिभ्यां इत्य् अर्थः । विगलद्-वाष्पाम्बु यथा स्यात् तथा । रोदने हेतुः—मात्रेत्यादि । अस्य कृष्ण्स्याखिलं तवेति तेन स्व-वस्तु-ग्रहणे चोर्यं न भवति, मया तु वृथैव भर्त्सितमतो मा रोदीर् इति भावः ॥३२॥
अथ कदाचन पूर्णचन्द्रिकाधौते निजमणिमयाङ्गणे व्रजपुरपुरन्ध्रीभिः सह कृतगोष्ठ्यां मातरि तत्रैव खेलन् कृष्णचन्द्रश्चन्द्रमवलोकयामास । ततश्च—
पश्चादेत्य हृतावगुण्ठनपटे वेणी कराभ्यां मृदु स्निग्धाभ्यां लुलितां विधाय जननीपृष्ठं तुदत्यात्मजे । देहीत्यस्फुटगद्गदं विरुवति स्नेहार्द्रचित्ता परं पार्श्वस्थालिजनेषु लोचनयुगं व्यापारयामास सा ॥३३॥
हृतः शिरः-प्रदेशादधःपातितोऽवगुण्ठनपटो येन तस्मिन्, लुलितां स्खलितां जनन्याः पृष्ठं तुदति, उपरि पाणिभ्यां वेणीं धृत्वा ताम् आलम्ब्य भूमितः स्वपादावुत्थाप्य ताभ्यां तस्याः पृष्टम् अवष्टभ्य पीडयति सतीत्य् अर्थः । सर्वम् एतच् चापलं विस्तार्यमाण-कथावेशां सखीभिः सह मातरं स्व-प्रार्थनेऽवधापयितुम् एवेति । पार्श्वस्थालीजनेष्विति यूयम् एव पृच्छत किम् असौ याचत इति भावः ॥३३॥
तदा ताश्च सविनयप्रणयोत्साहनपुरःसरं स्वसविधमानीय निजगदुः—“वत्स! किमर्थयसे?
किं क्षीरं न किमुत्तमं दधि ननो किं कूर्चिका वा ननाम् **इक्षा किं नन किं तवेप्सितमहो हैयङ्गवीनं घनम् । ** दास्यामो न विषीद वत्स नतरां कुप्यस्व मात्रे गृहोत् **पन्ने नो रुचिरित्युदङ्गुलिदलः शीतांशुमालोकयत्” ॥३४॥ **
कूर्चिका क्षीरविकृतिः इत्य् अमरः । गृहोत्पन्ने तत्र हैयङ्गवीने न रुचिर् इति कृष्णोत्तरम् । तर्हि कुत्रत्ये रुचिर् इति, ततश् च उदङ्गुलिदल उन्नमित-तर्जनीकः, आ सम्यग् अदर्शयत् । आकाशोत्पन्ने अमूस्मिन् हैयङ्गवीन-खण्डे मम रुचिर् इत्य् अर्थः ॥३४॥
ततस्ता अपि पुनरूचुः—
**“कलय न पितरेतद्धन्त हैयङ्गवीनं, प्रतरति कलहंसो व्योमवीथीतडागम् । ** अहमपि कलहंसं प्रार्थये खेलनार्थी, तदुपनयत यावन्नैष पारं प्रयाति” ॥३५॥
अहम् अपि इत्यादि कृष्णोत्तरम्, देहि देहीति एकैकां प्रति कथनाद् एक-वचनम् । एवम् उत्तरत्रापि ॥३५॥
इति भूयः सोत्कण्ठं चरणयुगं भुतले नाटयन् कराभ्यामासामपि कण्ठतटं धृत्वा धृत्वा देहि देहीति पूर्वतोऽप्यधिकतरं रोदिति स्म । ततश्चवं बाल्यावेशेन रुदन्तं तमन्या ऊचुः—“वत्स!
**आभिः प्रतारितमयं नहि राजहंसः, पीयूषरश्मिरयमम्बरमध्यवर्ती । ** देह्यनमेव महतीह मदीयवाञ्छा, खेलिष्यते तदधुनानय देहि देहि” ॥३६॥
इति भूयः समधिकमेव रुदन्तं माता तमङ्कमानीय—“वत्स! **हैयङ्गवीनमिदमेव न राजहंसः, पीयूषरश्मिरपि नैष न तत् प्रदेयम् । ** पश्यात्र दैववशतो गरलं विलग्नं, तेनैतदुत्तममपीह न कोऽपि भुङ्क्ते” ॥३७॥
गरलं विलग्नम् इति कलङ्क-चिह्नं दर्शयति । अत्र प्रकरणे सम्बोधन-पदैर् एव श्री-कृष्ण-यशोदयोर् उक्ति-प्रत्युक्ती ज्ञेये । तद् वा गरलम् एव वा किमेतस्य उत्तरम्, अग्रे काल-कूटं नामेति ॥३७॥
ततश्च “अम्बाम्ब! कथमत्र गरलं लग्नम्, तद्वा किम्” इति पूर्वावेशविरहेण रसान्तरमापन्नस्य कृष्णस्य कथाश्रवणश्रद्धायां सत्यां समीचीनमिदं जातमिति कृत्वा जननी तमालिङ्ग्य “वत्स! Śरूयताम्” इति किमपि मधुरमधुरमुवाच ॥३८॥
तत् दुग्धम् ॥३८॥
**
“वत्स! अस्ति कश्चन क्षीरोदधिर्नाम । मातः! कीदृशोऽसौ? — वत्स! यदिदं दुग्धमवलोक्यते, तन्मयः समुद्रः । मातः! कियतीभिर्धनुभिः प्रस्नुतं तत्, येन समुद्रो जातः? — वत्स! गोदुग्धं तन्न भवति । मातः! प्रतारयसि माम्, विना गाः कथं नु दुग्धम्? — वत्स! येन गोषु दुग्धं सृष्टम्, स एव ता ऋतेऽपि तत् स्रष्टुमर्हति । मातः! कोऽसौ? — वत्स! भगवान् जगत्कारणम् । मातः! स एव कः? — वत्स! स भगवान् अगः । स गन्तुं न शक्यते । मातः! हुɱ सत्यमेव ब्रवीषि, तत् कथय । वत्स! स एकदा दुग्धोदधिः सुरासुराणां कलहे असुरमोहनाय तेनैव भगवता मथितः । तत्र मन्दरो नाम गिरिर्मन्थानदण्ड आसीत् । वासुकिर्नाम नागराजो रज्जुः । एकतोऽसुरा अन्यतश्च सुरा एवाकर्षकाः । मातः! यथा गोप्यो दधि मथ्नन्ति? — वत्स! हुम् । एवं मध्यमाने तस्मिन् कालकूटो नाम गरलमुत्पन्नम् । मातः! दुग्धे कथं गरलम्, सर्पेष्वेव तत्? — वत्स! तस्मिन्महेशेन पीते सति तच्छीकरा ये निपतिताः, तानेव पीत्वा भुजगा विषधरा आसन् । तेन भगवत एव सा शक्तिर्यद्दुग्धेऽपि गरलम् । मातः! हुम्, सत्यमेतत् । वत्स! इदमपि हैयङ्गवीनं तत एवोत्थितम् । तेनात्र तस्यावशेषो लग्नः । पश्य, यमिमं कलङ्क इति सर्वे गायन्ति । तद्गृहोत्पन्नं भुङ्क्ष्व, नेदम्” इति श्रूयमाणे लीलानिद्रावशमागतं जननी च कर्पूरधूलिधवले महापरार्ध्यशयनतले तमारोप्य शनैरसूषुपत् ॥३९॥**
अगः—न गच्छतीत्यगः, सर्वतैव यस् तिष्ठतीत्य् अर्थः । तथापि गन्तुं तन्निकटे यातुं न शक्यते, यतस् तम्, अद्य त्वां दर्शयामीत्य् अर्थः । सरस्वती तु अगो गकारहीनो भगवान्, भवान् एवेत्य् अर्थः । इति श्लेषेण तमेवोक्तवती ॥३९॥
अथानुदित एव मयूखमालिनि दधिनवनीतादि समुपसाद्य—“वत्स! जागृहि जागृहि” इति करतलेनामृश्य “निर्मञ्छनं यामि, पर्युषितयैव क्षुधा तिष्ठसि, तदिदानीमुत्तिष्ठ” इति समुत्थाप्य सुरभिसलिलेनाननकमलं धावयित्वाङ्कमारोप्य कनकभाजनोपनीतं नवनीतादि दर्शयित्वा “वत्स! यदभिरोचते, तदश्यताम्” इति जनन्या निगदितोऽभ्यासवशतस्त्यक्तमपि पयोधरमेव तस्याः पातुमारेभे ॥४०॥
पर्युषितया श्वस्तनया ॥४०॥
सा च क्षणं पाययित्वा—“वत्स! नवनीतं ते प्रियमिदमश्यताम् । मातर्नापिरमिदमश्नामि, गतायां निशायां मृषा कथयाहं निद्रां गमितोऽस्मि । क्षुद्बाधयैव मया स्थितम् । वत्स! कस्तदा चोरयिष्यति नवनीतम्? — मातर्मया कदा ते चोरितं नवनीतम्? मृषा वदसि” इति लीलाबालकेन तेन बाल्यलीलापरिपाट्या बहुनैव प्रकारेण जननीमनोरञ्जनमाततान ॥४१॥
कदाचिदपि—
गोशालचत्वरतले विचरन् द्रवन्तं, वत्सं विधृत्य विनिपात्य निजाङ्कसूले । दोर्भ्यां विगृह्य मुखमस्य मुखाम्बुजेन, चुम्बन् भियञ्च कुतुकञ्च तनोति मातुः ॥
जननी इति कर्तृपदम् ॥
**अङ्गणे निजगवां धृतपुच्छस्तर्णके सपदि धावति धावन् । ** नग्न एष तदनावृतमेव, ब्रह्म मूर्तमहरज्जनचेतः ॥
निजगवाम् इति टजभावः । शूद्रस्वामिक-गो-वध-प्रायश् चित्तम् इत्यादि प्राचां वामेन [पा ५-४-९२] गोरतद्धितलुकि इति टचोऽनित्यत्वज्ञापनात् । श्री-व्रजराजेन कौतुकवशात् कृष्ण-स्वामिकत्वेन काश्चन गावः स्थापिता इति ज्ञेयम् । तर्णके वत्से, नग्नो दिगम्बरः ॥
अङ्कितो निजगवाङ्गणपङ्कैः, शङ्क्यते मृगमदैरिव लिप्तः । पश्यतां नयनयोरभिरामः, सुन्दरे हि किमसुन्दरमास्ते? ॥
पश्यतां सर्वेषाम् एव ॥
कदाचिदपि—
**उष्णीषमीषदतिचारु निवध्य मूर्ध्नि, मात्रा विशिष्य परिधापितपीतवासाः । ** गोरोचनारचितचित्रतमालपत्रः, स्निग्धाञ्जनाक्तनयनो बहिरप्युपैति ॥
कदाचिद् अपीति यत्रोत्सवादौ, तमाल-पत्रं तिलकम्, तमाल-पत्र-तिलक-चित्रकानि विशेषक इत्य् अमरः ॥
**त्रैलोक्यमोहनमवेक्ष्य कुलोकदृष्टिर्मा भूदिहेति कृतलौकिकमातृभावम् । ** मात्रा थुथूत्कृतिदरक्षरदास्यचन्द्र-पीयूषबिन्दुभिरपूजि सुतस्य मूर्धा ॥
इह श्री-कृष्ण-शरीरे ॥
**कण्ठे रुरोर्नखमनुत्तमहेमनद्धं, श्रोणौ महार्हमणिकिङ्किणिदाम बिभ्रत् । ** मन्दं पुराद्बहिरुपेत्य करोति खेलामाभीरनीरजदृशां भवनाङ्गणेषु ॥४२॥
रुरोर् व्याघ्रस्य ॥४२॥
अथ कदाचित् सकला एव व्रजयोषितो जयोषितोदयस्य सदयस्य तस्य सततबाल्यधार्ष्ट्यकौतुकं कौ तु कं नरं न रञ्जयति, जयति वा न कुत्रेति मनसि न सिद्धवेदना वेदनाय, तथापि व्रजराजदाराणामुदाराणामुपजग्मुरभ्यासम् ॥४३॥
जयेन उषित उदयो यस्य तस्य, यस्य उदये विजयः सदा तिष्ठतीत्य् अर्थः । अतएव सन् सदा वर्तमानः शोभनो वा अयः शुभावहो विधिर् यस्य तस्य, यद् वा, सद् अयस्य दया-युक्तस्य ईदृश-मधुर-लीलाविस्कारे लोकेषु तस्य दयिअव कारणम् इति भावः । कौ तु पृथिव्यां तु कं नरं कं मनुष्य-मात्रम् अपि किं पुनस्ताः परम-वात्सल्य-प्रेमवतीरित्य् अर्थः । कुत्र वा न जयति, अपि तु सर्वत्रैव जयति, उत्कर्षम् एव प्राप्नोति, न तु सङ्कोचम् इत्य् अर्थः । इति—अत एव होतोः, प्रतिदिनं गव्य-भाण्ड-स्फोटनादिभिर् पै ताः सिद्ध-वेदनाजात-पीडा मनसि न भवन्ति, किन्तु कौकुकार्थं मुख-मात्र एवेत्य् अर्थः । तथापि मनसि पीडिता इव वेदनाय तद्धार्ष्ट्यविज्ञापनाय श्री-व्रज-राजदाराणां श्री-यशोदायाः, अभ्यासं समीपम् ॥४३॥
आगत्य च सहासं सप्रणयं सकौतुकं किमपि समूचुः—“अयि व्रजराजभाविनि! भाविनितान्तदुरन्तभावोऽयं तव कुमारः । यदयं द्विपत्र एवाधुना धुनान इव भुवनमबलमानसम्पल्लीलोऽपि पल्लीलोपि चरितमभ्यस्यति, स्थित्वा किंवा विधास्यति ॥”
सहासम् इति, भाविनितान्तेत्यादि, स-प्रणयम् इति, लुम्पति तं स्मितेनेति, स-कौतुकम् इति दूरे स्थितो गर्जतीत्यादि, विशेष-विचारे तु सर्वत्रैव सर्वम् इति । भावी नितान्तं दुरन्तो भावश् चेष्टा यस्य सः, कथम् अनुमीयते इति चेत् तत्र हेतुम् आहुः । यद् अयम् इति द्विपत्र एवेति वृक्षोपमया । न जानीमो जनिष्यमाणानां शाखा-पल्लव-पुष्प-फलादीनां कीदृशम् उद्वेजकत्वं भविष्यतीति भावः । न बलमाना सम्पत् समृद्धिर् यस्यास् तथा-भूता लीला यस्य सोऽपि पल्लीलोऽपि पल्लीं नगरीं लुम्पतीति तच् चरितं स्थित्वा वा इत ऊर्ध्वम् इत्य् अर्थः ॥
तथा हि—
“अदुग्धदुग्धेषु गवां गणेषु, निपाययत्येष विमुच्य वत्सान् । सम्भूय भूयः क्रियते यदा तु, रोषस्तदा लुम्पति तं स्मितेन ॥
सम्भूय मिलित्वा ॥
**निह्नुत्य यत्नाद्गहनान्धकारे, हैयङ्गवीनादि सुरक्षितं यत् । ** प्रविश्य पश्यन् स्वमहःप्रकाशैस्तत् सर्वमानीय बहिष्करोति ॥
निह्नुत्य् सङ्गोप्य ॥
**हेलालसं तत् कियदेव भुङ्क्ते, शाखामृगान् भोजयते प्रकामम् । ** न भुञ्जते ते यदि तृप्तिमन्तो, भूमौ किरत्येव विभिद्य भाण्डम् ॥
शाखामृगान् वानरान् ॥
करालभ्ये पीठं विरचयति पीठोपरि पुनस् **तदूर्ध्वं तच्चान्यत्तदुपरि समारोप्य चरणौ । ** समुद्बाहुः शिक्याद्दधि च नवनीतादि च हरन् निषिद्धश्चेत् कश्चित् क्षिपति सकलं तूर्णमवनौ ॥
तद् ऊर्ध्वं तस्य ऊर्ध्वम् उपरि, अन्यच् च ततीठं विरचयति ॥
**धृतः कयाचिद्यदि कौतुकेन वा, विमोट्य पाणी सहसापसर्पति । ** दूरे स्थितो गर्जति तिष्ठ तिष्ठ भो, दग्ध्वा गृहं ताडयितास्मि बालकान् ॥
कयाचित् गृहिण्या ॥
चोर एष इति केनचिदुक्तः, क्रुद्ध एव निगदत्यतिधृष्टः । त्वं हि चोर इदमेव मदीयं, गेहमस्य सकलं हि ममैव ॥
केनचित् गृहपतिना, अस्य गेहस्य, गेहस्थितम् इत्य् अर्थः ॥
वास्तौ लिप्ते सुललितमृदा चित्रिते चारुचूर्णैर् धूलीपत्रादिभिरशुचिभिः शुद्धिहानिं करोति । त्वत्सान्निध्येऽधिकसुचरितोऽस्मादृशामालयेषु **स्तेनो धृष्टः प्रखरमुखरः क्रोधनो गर्धनश्च” ॥४४॥ **
गर्धनो लोलुपः ॥४४॥
इत्येवं व्रजवनिता नितान्तमृषा परुषा रुषा गिरो यदि निजगदुः, जगदुत्सवकरोऽपि तदा तदालापवैयर्थ्यं प्रतिपादयितुं मृषाश्रुकलिलनयनो नय-नोदापराद्धोऽपि राद्धोऽपि धापयितुं तत्सकलं स कलं व्याजहार ॥४५॥
नितान्त-मृषात्यन्त-मिथ्या-भूतया रुषा रोषेण परुषा गिरो निष्ठुर-वाक्यानि, मृषा अश्रुभिः कलिले व्याप्ते नयने यस्य सः । नयस्य नीतेर् नोदेन दूरीकरणेन हेतुनापराद्धो राद्धः, अपराधवान् जातः, तद् अपि अपिधापयितुम् आच्छादयितुं तत्-सकलं दधि-चौर्यादि । सः कृष्णः, कलं मधुरम् ॥४५॥
**
“अम्ब! आसां मध्ये कस्याश्चिदपि सुस्निग्धता न वर्तते, न वर्ततेऽवचसि । सत्यमेता अनृताः, अनृता चासां समस्तानामेव, यत आसामबालकेषु बालकेषु मे स्वभावभाववत्ता, तेन तदीक्षणाय क्षणायत्ततया प्रत्येकमासां निशान्ते, निशान्ते सत्येव मया गम्यते । तदवलोच्य बलोच्यमानमिदमनृतं वचो मा प्रतीहि, मातः! परमे मातःपरमेव बन्धुदर्शनाय गन्तव्यम्” इति भिया रुदन्मुखं तनयमङ्के कृत्वा व्रजेश्वरी व्रजयोषितः सस्मितावहित्थमब्रवीत्—“अयि! मिथ्याभाषिण्य एव भवत्यः, अयमेव सत्यवादी, तन्मैवं निरपराधोऽयमस्मद्बालकः पुनरुपालभ्यो भवतीभिः” इति ताभिः सह प्रीति-सङ्कथया क्षणमवस्थाय रोहिणीद्वारैव तासां बन्धुसपर्यां विधाय च विसर्जयामास ॥४६॥**
नवा ऋतता सत्यता इह वचसि अदुग्ध-दुग्देष्वित्यादि-वाक्ये अनृता अत्यन्तामृतभाषित्वेन अनृत-रूपा एवैताः, सत्यम् इत्य् अर्थः । आसाम् अनृता न नृता मनुष्यता नास्ति, अमानुष्य एवैता इत्य् अर्थः । वस्तर्थोऽपि स सहसा आपतित इति । अवालं तरुणं कं सुखं येभ्यस् तेषु, स्वभावेन निसर्गेण भाववत्ता प्रेमवत्ता तेन हेतुना, तेषाम् ईक्षणाय क्षणायत् ततया उत्सवाधीनत्वेन, निशान्ते गृहे, निशान्ते प्रातःकाले । बलेन उच्यमानं हे मातः ! हे परमे पूज्ये, इत्यात्मनः सुचरितत्वं व्यज्यते । अतःपरं मा एव गन्तव्यम् । बन्धु-सपर्यां तिलकादि-क्रियाम् ॥४६॥
अथ निर्गतासु तासु कृष्णजननी जननीतिकोविदा तनयमङ्के निधाय “वत्स! लोभवान् भवान् निजगृहे जगृहे यदतिचापलं तदिह शुशुभे शुभेनैव, परसदनेऽसदनेकं कर्म न सुशोभते, सुशोभ! ते चरितमिदं नातिललितम् । निजाङ्गण एव खेल” इत्युपदिशन्ती लालयामास ॥४७॥
जनानां नीतिषु कोविदा । लोभवान् लोभ-युक्तः । असं चौर्याद्यनेक म्कर्म, हे सुशोभ ! ते तव ॥४७॥
तस्मिन्नेव समये व्रजराजोऽपि तत्रैवागत्य वागत्यधिकमाधुर्येण किमपि तमपिहितप्रभावमपि हितप्रभावमात्मजमात्मजनसुहृदं सम्बोध्य निजगाद—
एह्येहि वत्स पितरेहि ममाङ्कमूलमित्युक्त एव जनकेन स मातुरङ्कात् । । आगत्य कण्ठमवलम्ब्य जुगुप्सते मां, माता कथं बत मृषेति कलं जगाद ॥४८॥
वाचामत्य् अधिक-माधुर्येण आत्मजं सम्बोध्य किम् अपि निजगादेत्य् अन्वयः । अपिहित आच्छादितः प्रभावो यस्य तम्, किम् च, हितां प्रभां कान्तिम् अवति रक्षतीति तम्, जुगुप्सते उपालभते, कलम् अतिमधुरम् अस्फुटम् च, बालत्वाद् इति ॥४८॥
तदा तदाकर्ण्य किं तदिति पृच्छति घोषाधीशे धीशेवधिरिव स आश्चर्य-बालोऽबालोच्य मातरं मातरञ्जसा त्वमेव कथयेति निजगाद । सा च घोषनारीणां रीणां मधुधारामिव कथितां कथां कथितवती ॥४९॥
पृच्छति सति, धीशेवधिः धीनिधिः, हे मातः ! अञ्जसा शीघ्रं रीणां क्षरिताम्, रीङ् स्रवणे इत्य् अस्मात् ॥४९॥
तव तीव्रतरापराधोऽयं यदनागसि सततनये तनये मम मृषादोषासञ्जनसञ्जननकुतुकिनीनां गोपरमणीनां परमणीनां दर्शने समत्सराणामिव जनानां वचसि प्रत्यय इति महिषीमवहित्थया अनुयोज्य “तात! मदङ्कमूल एव तिष्ठ । मा परमस्या अङ्कं गाः” इत्युक्त एव पितुरङ्कात् मातुरङ्कं जवेनारोहति तनये नयेन तौ दम्पती एव जहसतुः ॥५०॥
सततम् एव नयो विनयो नीतिर् वा यस्य, तथा-भूते मम तनये विषये मृषा दोषासञ्जनं दोषारोपस् तस्य सञ्जनने उत्पादने कुतुकिनीनां दर्शने समत्सराणाम् इति श्री-कृष्ण-प्रोत्साहनेन ताः प्रति असूया च स्वस्यान्तरङ्गताद्योतनं यशोदायास् तु मातृत्वेऽपि तद्-द्वयाभावात् बहिरङ्गत्वज्ञापनम्, अवहित्थया अनुयोगश् चेति स्वाङ्कमूलस्य रोचकत्वे हेतुत्रयम् इति । तर्हि ततः स्वाङ्के स्थातुं न प्राप्स्यमीत्यत इदानीम् एव बलादितोऽपसृत्य तत्र यामीत्येष बाल्य-स्वभाव-ज्ञापकं कृष्णस्य मनसि विचार एव जवेन मातुर् अङ्कारोहणे हेतुर् ज्ञेयः । नयेनेति बालकस्य नीतिर् एवेयम् इति ज्ञात्वेत्य् अर्थः ॥५०॥
तदनु दनुजदमनमात्रा सह सहर्षहसितमेव कृतप्रकृतप्रवृत्तितया व्रजराजः किमपि प्रास्तौषीत् । अयमेकक एव बहिरेति, न प्रबलो बलोऽपि, तेनोरुभयोरुभयोरेव नैकाकिविहारित्वं समीचीनम्, अतः खेलासहचराः परिचरणचतुराः परिचारकाश्च कल्पनीयाः, यथामी सततमनयोः सविधचारिणो भवन्तीति विचार्य कियन्तो धीसचिवाः कियन्तो बालपरिचारकाश्च तदवधि तेन नियुयुजिरे ॥५१॥
कृता प्रकृता प्रस्तुता प्रवृत्तिर् वार्ता येन तस्य भावस् तत्ता तया प्रास्तौषीत्, प्रस्तावम् अकरोत् । बलोऽपि बलभद्रोऽपि, उर्वी भा कान्तिर् ययोस् तयोः, कल्पनीया मया कल्पयितुम् अर्हाः, धीसचिवा मन्त्रिणः, मन्त्री धीसचिवः इत्य् अमरः ॥५१॥
बालसहचरास्तु प्रागेव गृहाद्गृहादेव मिलितवन्तः । एवं सबलः सबालसहचरश्च सबालदासश्च धीसचिवैरुपलक्षणत्वेनैव वीक्ष्यमाणः प्रतिपुररथ्यं धूलिखेलाकौतुके करिवरकलभ इव चपलकरदण्ड-ताण्डव-समुद्भूत-धूलीपटलेनात्मानं परं च धूसरयन् सह-संवासतया शिशुतया च निःसङ्कोचमेव व्रजबालिका अपि सहखेलन्तीः सहचरबालकसाधारण्येनैव खेलया परितोषयन् कदाचिदपि ताभिस्तैरपि कलहायमानस्तास्तानपि ताडयंस्ताभिस्तैश्च ताडितः कदाचिद्धसति, कदाचित् कुप्यति न कुप्यति च ॥५२॥
उपलक्षयन्ति इत्य् उपलक्षणास् तत्वेन, रथ्या प्रतोली ॥५२॥
कदाचिदपि धूलीभिरेव प्राचीरपुरगृहादि निर्मिमीते, कदाचिदपि परनिर्मितं भनक्ति । तेऽपि तन्निर्मितं भञ्जन्ति । पुनरपि तन्निर्मिमीते, पुनरपि भनक्तीत्येवमवसरे दिवि दिविषदस्तदेव कुतुकं पश्यन्तो मनसि सकौतूहलं पराममृशुः—
**“यदीयो भ्रूभङ्गः कति न जगदण्डानि शतशः, प्रसूते सम्पाति क्षपयति न तत्र प्रयतते । ** स एवायं धूलीपुरगृहविनिर्माणरभसे, भृशं श्रान्तः स्विन्नस्तदपि न विरामं रचयति ॥”
इति सप्रमोदमालोकयन्ति स्म ॥५३॥
एवमतिकालखेलया गृहागमनमपि विस्मृत्य रथ्यासु खेऽलन्तं खेलन्तं बालसूर्यमिव तत्पुरपुरन्ध्र्यो मातृवदतिवत्सलाः सलालित्यमभिदधति ॥
खे सुखे निमित्ते अलम् अतिशयेन खेलन्तम् खम् इन्द्रिय-सुखे स्वर्गे इति विश्वः, पक्षे, खे आकाशे, अलन्तं शोभमानं तम् ॥५३॥
**
“एह्येहि लाल ललिताङ्गनमस्मदीयं, तत्रैव खेलशिशुभिः कियदप्यशान ।”
इत्युक्त एव विहसन् मृदु भाषतेऽसौ, “नो यामि नाप्यवसरो मम तावदास्ते” ॥५४॥**
हे लाल ! लल ईप्सायाम् घञ् हे लालनीय इत्य् अर्थः । अशान भुङ्क्ष्व ॥५४॥
इत्युक्त सति ताभिरप्यतिशयं मातृवदतिशयाग्रहग्रहिलाभिः प्रसभेन सभेन करकमलमाधृत्य धृत्यनवस्थिततया ततया स्वगृहमानीय मानीयमान-सौभाग्योऽसौ भाग्योचितया मज्जनमार्जनादिसपर्यया पर्ययातस्नेहया परिचर्य स्नेहमर्यादया दयालूभिः किञ्चित् सर-नवनीताद्याशयित्वा सह सहचरैर्गृहाय प्रहीयते ॥५५॥
प्रसभेन हठेन, कीदृशेन ? सभेन भा शोभा तत्-सहितेन, परम-वात्सल्य-प्रेम-सूचकत्वात् कृष्णे प्रसभस्यापि सशोभत्वम् इत्वेत्य् अर्थः । धृतौ धैर्ये अनवस्थिततया आततया विस्तृतया प्रेमभरेण धैर्यं कर्तुम् असमर्थाभिस्ताभिर् इत्य् अर्थः । मा शोभा तयैव आनीयमानं सौभाग्यं यत्र सोसौ । परि सर्वतोभावेनापि अयातः प्राप्त एव स्नेहो यस्यां तया, सरो दुग्धध्यादीनाम् अग्रो घन-भागः ॥५५॥
एवं खेलन् कदाचिदनुरक्ताया व्रजभुवो महिमानं वर्धयन्निव जठरगत-जगत्पावनायेव मृदं भक्षितवान् । तदथ बलोऽवलोक्य कृतसुकृतपाकैः पाकैश्च सहचरैः सह चरैरिव भद्राभद्रयोश्चपलमेव व्रजेश्वरीमासाद्य साद्यमानमानसो “न साम्प्रतं मातरेष यन्मृदमाद मादत्ते चास्माकमपि वचनं च, नन्दयति तददन एव लालसाम्” इति निजगाद ॥५६॥
पाकैर् बालकैः, पोतः पाकोऽर्भको डिम्भः इत्य् अमर्ः, चरैः सहैव, चपलम् एव सत्वरम् एव, सत्वरं चपलं तूर्णम् इत्य् अमरः । हे मातः ! साम्प्रतं साद्यमानं दम्यमानं मानसं यस्य तथा-भूत एष न भवति, यद्-यस्मान् मृदम् आद भक्षितवान् । अस्माकम् अपि वचनम्, मा इति नेत्य् अर्थे, न गृह्नातीत्य् अर्थः । नन्दयति बहुलीकरोति ॥५६॥
सा च तदा तदाश्रुत्य श्रुत्यसमञ्जसं रुषा परुषा परया रयानीतयष्टिकया कयापि भ्रकुटिकुटिलयावलोकनमुद्रया भाययन्ती “कथमदान्त मृदमत्सि, मत्सितादिकं न लभ्यते, मृदि कः स्वादः, न च परगृहापराधवत् प्रतारयितुं तारयितुञ्च स्वदोषमधुना शक्ष्यसि । तवाग्रजोऽग्रजोषस्तव सहचराश्च सर्वे साक्षिणश्च” इति निजगाद ॥५७॥
श्र्त्योः कर्णयोर् असमञ्जसं परया रूषा परुषा रक्षा । मत् मत्तः, सितादिकं शर्करादिकम् । अग्रजो योऽग्रवर्ती ॥५७॥
तदा जननीमिया कृतापह्नवोऽपराद्धोऽप्यनपराद्ध इव मृषाश्रुकलाकलिलनयनोऽनयनोदाय “मातर्न मया मृदशिता, सर्वेऽमी मृषा भाषन्ते, यदि न प्रत्येषि, तदवलोकय मे मुखम्” इति यदायमुवाच, तदा “व्यादेहि वदनम्” इति व्रजराजमहिषी निजगाद । समनन्तरमनन्तरहसि हसितपुरःसरं व्यादत्तवदने निखिलसौभगवति भगवति पारावारवारपरिवारितसप्तान्तरीपां तरीपारावारादियुतनदनदी-नदनदीर्घां सवनोपवनां पवनान्दोलितलतातरुगुल्मां मृग-मृगराजराजमानमेरुलोकालोकावधिविविधाचलामचलामखिलनागनागरीगणोपसेव्यमान-नागनायकादिमण्डितं नागलोकञ्च कञ्चन, निखिल-तारका-ग्रह-नक्षत्र-कृत-दिनभोगं नभो गन्धर्व-सिद्ध-किन्नर-चारण-विद्याधरादि-विद्याधरादि-मुनिगणगणनीयशोभं यशोभं नाकमपि कमपि महर्लोकादिकमन्यञ्च न्यञ्चद्युदञ्चज्जीवनिकायकायमखिलमेव ब्रह्माण्डमात्मानमात्मनः पतिमात्मनोऽपत्यं तमपि सव्रजलोकमालोकयामास ॥५८॥
अनय-नोदाय अनीतिदूरीकरणाय, अशिता भक्षिता, परावाराणां समुद्राणां वारेण समूहेन परिवारिताः सप्त अन्तरीपा द्वीपा यस्यां ताम्, तरी नौका पारावारे तीरे आदिशब्दात् तत्रस्था मनुष्यादयस् तैर्युतानां युक्तानां नद-नदीनां नदनेन गर्जनेन दीर्घाम्, मृगराजः सिंह, अचलां पृथ्वीं भूर्लोकम् इत्य् अर्थः । निखिलस् तारकादिभिः कृतो दिनस्य भोगो ज्योतिः-शास्त्रोक्तो यत्र तथा-भूतं नभ आकाशं भुवर् लोकम् इत्य् अर्र्थः । विद्याधरादयो विद्यानां धरा धारका, आदिमुनि-गणा मरीच्यादय एतैर् गणनीया शोभा यत्र तम्, यशशां तत्रत्य-सम्बन्धिनां भा दीप्तिर् यत्र तं नाकं स्वर्गम्, अखिलम् एव समस्तम् एव ब्रह्माण्डम्, कीदृशम् ? न्यञ्चतां कीट-पतङ्गादीनाम्, उदञ्चतां ब्रह्मेन्द्रादीनां जीवनिकायानां काया यत्र तम् ॥५८॥
आलोक्य च “किमयं मे भ्रमः, किमयं मे स्वप्नः, किमियं देवमाया, किमिदमैन्द्रजालिकम्, किमस्यैव भ्रामकः शक्तिविशेषः?” इति निर्णेतुमपारयन्ती रयं तीव्रमाप मोहस्य । तदतन्तरं तदनन्तरंहसोऽस्य वैभवमिति विज्ञाय विज्ञा यत्नतोऽपि न विस्मरन्ती “यदधीनतयानतया मयेदमालोकितम्, स एव मे शरणम्, तदवलोकेन केनचनाद्भुतचरितस्य तस्य तदलौकिकं वैभवं वै भवञ्च मोहयितुं समर्थम्” इति जानती तमेव सुतमेव सुतरामीश्वरत्वेनावगच्छन्तीच्छन्ती च पुत्रभावमुभयोरेव भयोरेवमतिभरेण भुग्ना पूर्वभावं विहाय चरम एव भावे प्रसज्य पुनरङ्के निधाय लालयामास ॥५९॥
इन्द्रजाले भवमैन्द्रजालिकम्, मोहस्य तीव्रं रयं वेगम् आप प्राप्तवती । अस्य वैभवम् इति विज्ञायेति नाहं भ्रान्ता, नापि शयाना, नापि क्वचिद् अपि देवे सापराधा, नाप्य् अत्र कश्चिद् ऐन्द्रजालिकोऽस्ति । किं च, मत्पुत्रस्यास्य नामकरण-समये पूर्व-सिद्धं योगैश्वर्यम् अपि गर्गेणोक्तम् इति वितर्कान्ते निश्चयाद् इति भावः । तद्-विश्व-दर्शनम्, अनन्तरंहसोऽपारैश्वर्यवेगस्य विज्ञा पण्डिता आनततया आनम्रतया तद् अवलोकनेन विश्व-दर्शनेन वै निश्चितं भवं महेशं च । इच्छन्ती च पुत्रभावम् इति तथा-भूतैश्वर्य-दर्शनेऽपीत्य् अतः पुत्र-भावस्य प्रभावस्य प्रावल्यं दर्शितम् । तेन देवक्याः खलु ऐश्वर्यभावेनैव शैश्वर्य-भावो विलाप्यते, वलवत एव वाधकत्व-सम्भवादिति भावः । युगपद् एव उभयोर् ईश्वरभाव-पुत्रभावयोर् ये भे शोभे तयोः, एवम् अनेन प्रकारेणातिभरेण भुग्ना रुग्णा द्वयोर् एव कान्तिच्छटाघातेन पीडितेत्य् अर्थः । पूर्वभावं विहायेति तस्यागन्तुकत्वेन दौर्वल्यात् । चरमे इत्य् अस्य स्वाभाविकत्वेन प्रावल्याद् अत्र समाहितं [भा पु १०-८-३६] श्री-वैष्णव-तोषिण्यां यथा तादृश-तदैश्वर्य-शक्तिर् एव तु स्वयं वा तमालिङ्ग्य वा तद् अभीष्ट-लीला-रस-सम्पादनाय मातरि कोपाच्छादक-भावान्तरापादनेन तथा सर्वम् एवास्यान्तर् विध्यते, न किम् अपि भक्षयतीति तद् वचःसत्यापनेन च निज-प्रभुसाहाय्याय विस्मयादि-द्वारा मातुस् तत्प्रेम-पोषाय च विश्वं दर्शितवती इति ॥५९॥
इत्यानन्दवृन्दावने बाल्यलीलालताविस्तारे मृद्भक्षणसक्षणो नाम
पञ्चमः स्तवकः ॥५॥
…