०४

चतुर्थः स्तवकः

अथ कियता विलम्बेन कदाचिदौत्थानिके कर्मणि जन्मनक्षत्रयोगे, वत्सलता-लतानामिव मुत्सवभूतानामुत्सवभूतानामिव सुकृत-महोदयानामहो! दयानारतरतहृदयानामहृदयानामतिकौतुकालं कौ तु कालं कुर्वतीनां तीव्रजयोषितां व्रजयोषितां श्रेणीमादाय, कृतनयं तनयं मङ्गलाभ्यङ्गोद्वर्तननिवर्तनानन्तरमभिषिच्य मङ्गलाभिवाद्यवाद्यनिर्घोष घोषेश्वरी कृतमार्जनं कृतमार्जनं मङ्गलकज्जलेनाकज्जलेनाञ्जित-नयनं नयनन्दित-पुरजनावृतानावृतानन्दव्रजराज व्रजराजं पुरस्कृत्य कृत्यकोविदया दयादि-सकलगुणाधिरोहिण्या रोहिण्या समं कर्पूरपूरबलक्षलक्षमूल्यतल्पतले शनकैः शाययित्वा समायातानां घोषयोषितामर्चनं विदधती मृदु-मृदङ्ग-पणव-भेरी-काहल-दुन्दुभि-निर्ह्रादैरवनिसुरवराशीराशिनिःस्वनैः सूत-मागध-वन्दिवृन्दोदीरित-गुणगणोद्गारकोलाहलैः सङ्गीताचार्यवर्य-सङ्गीतसङ्गीत-कलकलतरङ्गैश्च मुखरितेषु दिग्वलयेषु क्षुद्बाधया स्तन्यकामस्य तस्य लीलाशिशोलीलाशिशोभस्य रोदनकलं नाकलयामास ॥१॥

चतुर्थेऽनस्तृणावर्तौ स्थैर्यचाञ्चल्य-शलिनौ ।

खण्ड्येते शिशुना मातुः शोकश् च स्व-वियोगजः ॥

कियता विलम्बेनेति तृतीये मासीत्य् अर्थः—[भा पु २-७-२७] त्रैमासिकस्य च पदा शकटोऽपवृत्तः इति द्वितीयस्कन्धात् । उत्थानां शिशोर् अङ्गपरिवर्तनं तद् अर्हे कर्मणि घोषेश्वरी श्री-यशोदा योषितां श्रेणीम् आदाय तनयम् अभिषिच्य शनकैः शाययित्वा घोषयोयिताम् अर्चनं विदधती मृदङ्गादि-निनदादिभिस् तस्य शिशो रोदन-कलं नाकलयाम् आसेत्य् अन्वयः व्रज-योषिताम्, कासाम् इव ? वत्सलताया वात्सल्यस्य लतानाम् इव । मुत् आनन्दस् तस्याः सर्व-भूतानां यज्ञ-रूपाणाम्, यज्ञः सवोऽध्वरो यागः इत्यमरः, उत्सवस्य भुवि स्थाने उत्पत्तौ वा उतानाम् इव ग्रथितानाम् इव सुकृतानां महान् उदयो यासु तासाम्, अहो आश्चर्ये, दयायामनारतं निरन्तरम् एव रतं तासाम्, अहो आश्चर्ये, दयायाम् अनारतं निरन्तरम् एव रतं हृदयं यासां तासाम्, अकारो विष्णुस् तत्रैव हृदो मनसः अयः शुभावहो विधिर्यासाम्, कौ तु पृथिव्यान्तु कालं समयम् अति-कौतुकेन अलमलङ्कृतं कुर्वतीनाम् । श्रेणीं कीदृशीम् ? तीव्रजयोषितां तीव्रस्य जयस्य महोत्कर्षस्य उषितां निवासभूमिम्, अधिकरणे निष्ठा, यद् वा, तीव्रेण जयेन महता सर्वोत्कर्षेण उषितां कृतवासाम् । तनयं कीदृशम् ? कृतनयं कृतो नयो नीतिस् तद् दिनोचिताचारो1 यत्र तम्, मङ्गलैर् अपि अभिवाद्यानां नमस्कर्तुं योग्यानां वाद्यानां मृदङ्गा[-==अस्पष्त====] नन्दितैः पुरजनैर् आवृता । अनावृते आवरण-शून्ये आनन्द-व्रजे सौख-समूहे राजत इति तं व्रज-राजं पुरस्कृत्य दयादीनां सकल-गुणानाम् अधिरोहिण्या निश्रेणीरूपया, निश्रेणिस्त्वधिरोहिणी इत्य् अमरः । कर्पूर-पूराद् अपि वलक्षे शुक्ल-वर्णे, लक्षाणि मूल्यं यस्य तस्मिन् शय्या-तले । शनकैर् इति निद्रा-भङ्ग-शङ्कयेति भावः । सङ्गीताचार्याणां गान-शास्त्राध्यापकानां वर्यैः श्रेष्ठः सम्यग्-गीतानि सङ्गीतानि तेषां कल-कलतरङ्गैः, लीला-शिशोः श्री-कृष्णस्य । कीदृशस्य ? ईराशिशोभस्य ईराशेर् लक्ष्मी-समूहस्यापि शोभा यतस् तस्य, रेफ-द्वयस्य लत्वं यमकार्थम् ॥१॥

अनाकलिते च तस्मिन् रुदितकले सकले सविधगत-शकटशकलीकरणाय नवदलवदलसविलसदङ्घ्रितलमयमाश्चर्योत्तानशायी समुन्मील्य समुदक्षि समुदक्षिपत् ॥२॥

शकलीकराणाय खण्डीकर्तुम्, अयमाश् चर्यरूप उत्तानशायी बालको नूतन-दलवत् अलसं विलसच् च अङ्घ्रितलं समुदक्षि सानन्द-नयनं यथा स्यात् तथा सम्यग् उदक्षिपत् उत्क्षिप्तवान् । मातरम् अवधापयितुं रोदनरावैरपारयन् कृष्णस्ः शकट विघटन-शब्दैः क्रुधेव तामाकुली-चक्रे ॥२॥

तच्च तच्चरणयुगं मृदुल-कमलदल-मलद-ललिततालुलितं न वर्धितं नवर्धितंसनम्, न च तदतिनिकटमेव शकटं तथापि तथा पिञ्जलतया कटकटायमान-विकटकटुरटन-पुरःसरं विघटितकुप्यघटघटीघटाकमारादेव विदलिताक्षकूबरवरप्रासङ्गसङ्गतभूमितलमितस्ततो व्यस्ततया पर्यवर्तत ॥३॥
अनन्तरं निपततस्तमनसोऽस्तमनसो रवमाश्रुत्य श्रुत्यरञ्जकं सर्व एव जनास्तद्वेदनावेदना-वेदनातुरा इव धावमाना धावमानाकुलमानसास्त्वरितमेव तदुपकण्ठमुत्कण्ठमुत्ससृपुः । उपसृत्य च “अहो किमिदमाकस्मिकं नः सङ्कटम्, यदिदं प्रभूतकालमेवंविधमेव निर्व्याहतमेव निस्पन्दमेव भवनमध्ये मङ्गलभूतमिव वरीवृत्यते कस्मादकस्मादद्य विना विनाशसामग्रीं विपर्यस्तं शकटम्, कथं वा सुसम्पन्नसुकृतपरिपाकस्य पाकस्य शयनतलं परिपत्य परितः परितस्थुषां घटादीनां कतमदपि मदपिच्छिल इवावयवे न लग्नमिति, व्रजपुरेश्वर! शुभवतो भवतो निखिलसभार्यस्य सभार्यस्य कीदृशं स्तवकीदृशं स्तवनार्हं भागधेयम्” इति च ब्रुवाणेषु तेषु, तदभ्यर्णसमुपस्थिताः शिशवो यथावलोचितं बलोचितं कलस्वरम्, “अनेनसाऽनेनसाक्रोशं नाम रुदता मरुदताण्डवितकमलकोरकाचरणौ चरणौ समुदस्यतास्य तादवस्थ्यं विघटितं घटितं च भूमौ निपतनम्” इति यदोक्तवन्तस्तदा न केऽपि श्रद्दधिरे दधिरे तु मनसा किमप्यलक्ष्यं कारणमिति ॥४॥

आश्चर्योत्तानशायीत्युक्तम् आश्चर्यत्वं विवृणोति । तच् च तस्य कृष्णस्य चरण-युगं शकट-भङ्गकार्यार्थं नृसिहंहावतारस्येव हिरण्य-कशिपु-विदारणार्थम्, न जातयैव काठिन्यम् इत्य् आह—मृदुलस्य कमल-दलस्यापि मलदा तिरस्कार-कारिणी या ललितता लालित्यं तया अलुलितम् अखण्डितम् । न च वामनावतारस्येव कटाह-भेदार्थं तात्कालिकीं वृद्धिं प्राप्तम् इत्य् आह—न वधितम् इति । कीदृशम् ? नवा नवीना ऋद्धिर् यत्र तथा-भूत म्तंसनम् अलङ्कारो यत्र यत् । पिञ्जलतया अत्य् आकुलतया, समुत्पिञ्ज-पिञ्जलौ भृशम् आकुले इत्य् अमरः । तथा पर्यवर्तत यथा अनन्तरं सर्व एव तद् उपकण्थम् उत्ससृपुरित्य् अन्वयः । कट-कट इति तद्-भङ्ग-शब्दानुकरणम्, तद्वत् कटुर् अटनं पुरःसरं यत्र भवत्येवम् इतस्ततो व्यस्ततया भग्नावयवत्वेन पर्यवर्तत पतित्वा वैपरीत्येनातिष्ठत् । कीदृशं ? विघटिता कुप्यादीनां घटा यत्र तत्, कुप्यानि स्वर्ण-रजतातिरिक्त-कांस्यादिमयपात्रपि घट-घट्योर् वृहत् त्वाल्पत्वाभ्यां भेदः । आरात् शिशोर् निकट एष विदलितैः खण्डितैर् अक्षादिभिः सङ्गतं भूतलं [==अस्पष्ट==] यत्र कर्णानाम् अरञ्जकम् । तस्य शिशोर् वेदना पीडा तस्या वेदनाज्ञापनं शकटाघात-शब्देनैवेत्य् अर्थः, तया या वेदना स्वपीडा तया आतुरा इव धावमाना धवमानानि पैशुन्यादि-दोषराहित्येन शुद्धानि, अतएवाकुलानि मानसानि येषां ते, धावु गतिशुद्ध्योः तस्य शिशोर् उपकण्थं निकटम्, उत् उच्चीकृतः कण्थो यत्र यद्-यथा स्याद् एवम् । यद् यस्माद् इदं शकटं प्रभूतकालं बहुतरकालं व्याप्य वरीवृत्यते, अतिशयेन वर्तते । पाकस्य बालकस्य, पोतः पाकोऽर्भको डिम्भः इत्य् अमरः । शयन-तलं परितः शय्यातलस्य चतुर्दिक्षु परितः परितस्थुषाम् अभितः स्थितवतां घटादीना मध्ये कतम् अदपि मद-पिच्छिले मृगमदेन पिच्छिले इव अवयवे अङ्गे न लग्नम् । हे व्रज-पुरेश्वर ! शुभवतो मङ्गल-युक्तस्य निखिलासु सभासु आर्यस्य श्रेष्ठस्य भवतो भागधेयं भाग्यं स्तवनार्हम्, कीदृशं तद्-भागधेयं तन्निर्वक्तुं वयं न शक्लुम इति भावः । स्तवकिनी स्तवक-युक्ता ईर्लक्ष्मीः सम्पत्तिर् इति यावत्, तां पश्यतीति, ईगुपधत्वात् कः । स्तव-कीदृशं सम्पत्तिलयायाः स्तवकं व्यञ्जयति, तव भाग्यम् इत्य् अर्थः, अग्रे तु पुष्प-फले अपि व्यञ्जयिष्यतीति भावः । यथा वलोचितं यथा-दृष्टं बलोचितं श्री-कृष्ण-पराक्रमोचितं कलस्वरं यथा स्यात् तथोक्तवन्तः । अनेन कुमारेण अनेनसा एनोऽपराधस्तद्रहितेन साक्रोशं रुदता क्रन्दता क्षुधातुरोऽयं स्तन्यं पातुं न प्राप्नोतीति कोऽस्यापराधः, अतएवायं नोपालभ्य इति भावः । चरणौ समुदस्यता रोदन-वैकल्य-मुद्रया उत्क्षिपता अस्य शकटस्य तादावस्थ्यं तद् अवस्थत्वं विघटितम् । चरणौ कीदृशौ ? मरुता वायुना अताण्ड-वितयोर् अनतितयोः कमलकोरकायोर् इव आचरणं स्वधर्मो ययोस् तौ ॥३-४॥

अथ तत्पतनसमकालमेव तनयं प्रति शङ्कमाना व्रजराजमहिषी महीतलमधि निपपात । ततश्च सवैयग्र्यं पुरन्ध्रीभिः सह रोहिण्या सत्वरमुत्थाप्य कुमारस्य सौवस्तिकवृत्तवार्तवार्तया समाश्वासितासितापाङ्गी सञ्ज्ञामासाद्य वाष्पमुज्जगार ॥

सौवस्तिकं स्वस्ति-रूपं यद्-वृत्तं चरित्रम्, विनयादिभ्यष्ठक् तेन हेतुना वार्ता निरामया या वर्ता वृत्तान्तः, वार्त्तो निरामयः कल्यः इत्य् अमरः, तया समाश्वासितासितापाङ्गी श्री-यशोदा सञ्ज्ञां चेतनाम् ॥

बालो मे नवनीततश्च मृदुलस्त्रैमासिकोऽस्यान्तिके हा कष्टं शकटस्य भूमिपतनाद्भङ्गोऽयमाकस्मिकः । तच्छत्वापि न मे गतं यदसुभिस्तेनास्मि वज्राधिका धिङ्मे वत्सलतामहो सुविदितं मातेति नामैव मे ॥

माता इति नामैव मम, न तु मातृकार्यकारित्वम् इत्य् अर्थः ॥

किन्च—

यन्निष्पातजवैर्मही विचलिता यस्यारवैः सर्वतः **सर्वेऽमी वधिरीकृता निपतिते तस्मिन् समीपे शिशुः । ** लब्ध्वा भूरिभयं यदेष तदितः स्मृत्वापि जीवत्यहो मद्दुर्दैवफलं महद्व्रजपतेर्भाग्यैः कियद्वार्यताम् ॥५॥

आरवैः शब्दैः, तस्मिन् शकटे समीपे निपतिते सति यद् एष शिशुर् भूरिभयं लव्ध्वा इतोऽस्माद् एव स्थानत् तत् शकट-पतनं स्मृत्वापि अहो आश्चर्यं जीवति, तत् तस्माद् अनुमितस्य मद्-दुर्दैवस्य फलं महद् दं पूतनागमन-शकट-पतनाद्युत्पात-बाहुल्यम्, तथापि तत् तच् छान्तिर् दर्शन-लिङ्गेनानुमितैर् व्रजपतेर् व्रजराजस्य भाग्यैर् बहुभिः कियत् निवार्यताम् । न जाने, पुनर् अप्य् अग्रे मद्-दुर्दैवं कीदृशं फलिष्यतीति भावः ॥५॥

इति सत्वरमुपसर्पन्ती ससाध्वसा साध्व्सावतिविधुरा विधुरामणीयकहारिवदनं तमङ्कमारोप्य मारोप्यमाणसौभगं समालोक्य समालोक्य-मधुरिमा धुरि मानसं मानसन्तोषतो न चकार ॥६॥

साधु सुष्ठु, अतिविधुरा अति-व्याकुला, विधोश् चन्द्रस्यापि रामणीयकाहारि रमणीयत्व-हरणशीलं वदनं यस्य तम्, मा शोभा तया रोप्यमाणं प्रकाश्यमानं सौभाग्यं यस्य तम् । यषोदा कीदृशी ? समालोक्योऽङ्कगतेन कृष्णेन हेतुना सम्यग् आलोकयितुं योग्या मधुरिमा माधुर्यं यस्याः सा । ततश् च मानश् चित्त-समुन्नतिस् तेन सन्तोषतो हेतोर्धुरि चिन्तायां मानसं मनो न चकार ॥६॥

अनन्तरं तरङ्गितमङ्गलस्वस्त्ययनादिनादिना नीराजितं नीराजितं स्वमहसैव सैवमतिस्नेहस्नुतं स्तनरसं नरसङ्काशं परं ब्रह्म बालकमपि नवालकं मूर्तमपि अमूर्तं पाययित्वा निद्राणमिव मत्वा पुनरन्यशयने शयनेयतया संयोज्य यावत् स्वापयति, तावदेव वसुदेवभार्या सुदेवभार्या महोत्सवागतव्रजवनिता-नितान्यमानपूजावशेषं समापयामास, घोषाधीशोऽपि कतमधरामरोदीरित-मङ्गलस्वस्तिवाचनादिना पुनरपि शकटं तथैवाचारलब्धतया स्थापयामास ॥७॥

स्वस्त्ययनादिना, कीदृशेन ? आदिना कारणेन प्रथमतः कृतेन, नीराजितं निर्मञ्छितम्, कीदृशम् ? स्वमहसा स्व-कान्त्यैव निःशेषेण राजितं नर-सङ्काशं नराकारणैव सम्यक् काशः प्रकाशो यस्य तम्, नवा नवीना अलका यस्य तम्, अमूर्तम् अकठिनम्, मूर्तः काठिन्य-कारयोः इत्य् अमरः, निद्राणम् इवेति निद्रा-पूर्व-भावो व्यञ्जितः । शयनेयतया शयौ पाणी ताभ्यां नेयतया ग्राह्यतया, पञ्च-शाखः शयः पाणिः इत्य् अमरः, वसुदेव-भार्या रोहिणी, कीदृशी ? शोभनस्य देवस्य देवरातेर् इव भा कान्तिस् तया आर्या पूज्या, महोत्सवागताभिर् व्रजवनिताभिः सह तासाम् एव वा नितरां तान्यमानाया विस्तार्यमाणायाः पूजाया अवशेषम् ॥७॥

अथ कस्मिन्नपि रसमये समये मणिकिरणप्रघणे प्रघणे सदयं मुत्सङ्गमुत्सङ्गमारोप्य जनन्या जनन्यायविदया श्रीयशोदया श्रीयशोदयाश्रिया लाल्यमानो मानोन्नतधीरधीनमायो मायोगरुचिरो रुचिरोपित-नरदारकलीलो ज्ञानघनोऽज्ञानघनोदको भ्रमयन् कृतप्राकृतचरितोऽचरितोहः स बालकृष्णः सङ्गंस्यमानमतिरंस्यमानमतिरम्बरान्तरिष्यमाणमुपशमाय प्रमाय प्रबलानिलरूपं दानवं तदा नवं ततान गरिमाणम् ॥८॥

कस्मिन्न् अपीति एक-वर्ष-वयः-प्राकट्ये [भा पु १०-२६-६] एकहायन आसीनो ह्रियमाणो विहायसा इति दशमस्कन्धोक्तेः । तद् अन्तरालवर्तिनाम् अकरणादि-लीलोल्लङ्घनेन प्रथमत एवैतद् वर्णनन्तु दशमस्कन्धोक्त-क्रमानुरोधेनैव, इत्येवमन्यत्रापि ज्ञेयम् । स बाल-कृष्णः सङ्गंस्यमानं प्रवला-निल-रूपं दानवं प्रमाय गरिमाणं ततानेत्य् अन्वयः । प्रघणे अलिन्दे, कीदृशे ? मणीनां किरणैः प्रकर्षेण घने निविडे, मुदामानन्दानां सङ्गो यत्र तद्-यथा स्यात् तथा, उत्सङ्गं क्रोडम् आरोप्य जनन्या जनानां न्यायं पुत्रोपलालनाद्याचारं वेत्तीति, उगुपधात् कः, तया, श्री समृद्धिश् च यशश् च दया च ताभिः श्री शोभा यस्यास् तथा-भूतया यशोदया लाल्यमानः स बाल-कृष्णः सङ्गंस्यमानं सङ्गती-भभिष्यन्तं प्रवलानिल-रूपं तृणावर्त-रूपं दानवम् । स्वयं कथम्-भूतः ? अम्बरान्तः आकाश-मध्ये अतिशयेन रंस्यमाना मतिर् यस्य सः, आकाश-सञ्चार-रूप-क्रीडार्थम् इत्य् अर्थः । तं कीदृशम् ? उपशमाय नाशाय उष्यमाणं सङ्कल्प्यमानं प्रमाय निर्धार्य तद्-वधार्थम् अपीत्य् अर्थः । इति प्रयोजन-द्वयम् उद्दिष्टम् । तदा तस्मिन् समये नवम-भूत-पूर्वं गरिमाणं गौरवं ततान् विस्तृणावर्तागमज्ञानेन निज-भार-कल्पनम् इत्यत आह—मानेन प्रमाणेनोल्न्नता धीर् यस्य सः । तदानीम् उत्पातागमे निज-सेवावसरम् आज्ञय सहसैवोपस्थितायाम् ऐश्वर्य-शक्त्यां वुद्धि-वृत्तावधानादित्य् अर्थः । ननु अन्यदा तस्य निजैश्वर्यास्फूर्तौ मायावृतं तत्त्वं2 केनचित् किम् इति नाशङ्क्येत, इत्यत आह—अधीना वशवर्तिनी माया यस्य सः । ननु कदाचिद् ऐश्वर्य-स्फूर्तिः कदाचिन्नेत्येवम् अनियत-लीलत्वं कथं तस्येति ? तत्राह—मायोगरुचिर इति । मा शोभा सौन्दर्यं तस्या योगेन रिचिं राति ददाति गृह्नातीति वा सः । निखिल-शक्ति-कदम्बसेव्यमानस्य तस्य यथा यथा लीलायाः सौन्दर्येण रोचकत्वं भवति, तथा तथैवावसरे स्व-शक्त्य् अनुमोदनम् इत्य् अर्थः । तेन न केवलम् असुराद्यागमे तद् वधार्थं स्वजन-पालनार्थं च ऐश्वर्य-सुखानुभवि-भक्तागमे च तत्-प्रसादार्थं निजमहैश्वर्य-स्फूरणम्, किन्तु माधुर्यास्वादो यथा न व्याहन्येत, प्रत्युत प्रणय गाढतया निज-सम्बन्धमननस्यातिदार्ढ्येन सनर्म-विस्मय-कौतुकासक्त्या परिपुष्येतैव, तथा निज-क्निखिल-कान्ता-चक्रवर्तिनीनां महा-माधुरी-विवर्तवर्तिनीनां श्री-राधिकादीनाम् अपि संसदि दशावतार-शेष-शाय्यादि-लीला-विष्कारार्थम् अपीत्य् अलं विस्तारेण । ननु यदि तदानीम् ऐश्वर्यं स्पुरितम्, तदा वामनाद्यवतारेषु त्रिविक्रमादिरूपवत् तद्वधानुरूपं किम् इति नाविश्चक्रे ? तत्राह—रुचिरोपितेति । रुच्या रोपिता नर-दारकस्येव लीला येन सः, बालक-वपुषैव तादृश-दुष्टवधे विस्मय-वैलक्षण्यं स्यात्, व्रज-वासिनां माधुर्यास्वाद-विघातश् च न भवेद् इति भावः । ननु ईदृशान् एक-प्रयोजनक-कार्य-चातुरी सहसैव तस्य कथम् अभूद् इति ? तत्राह—ज्ञान-घन इति । प्रयोजनानन्तरम् अप्याह—अज्ञान् तृणावर्तादीन् भ्रामयन् बालकाकारज्ञापनेन भ्रान्तान् कर्तुम्, तथापि तेष्वपि मुक्तिदायित्वेन दयालुत्वम् आह—अघनोदकः, अघं संसार-दुखं नुदति दूरी-करोतीति सः । न च बालत्वेऽपि सिंह-बालकस्येव असुरान् प्रति भयानकत्व-प्रदर्शनम् इत्याह—कृत-प्राकृत-चरित्र इति । अतएव न चरितः सञ्चरित उहस्तर्को यत्र सः ॥८॥

**
“मत्कृते मम कथं जनयित्री, वात्यया परिभवं समुपैतु”
इत्थमङ्कगत एव स तादृक् स्तोक एव बहुदुर्वह आसीत् ॥९॥**

भार-प्रकटने मुख्यं प्रयोजनम् आह—मत्कृत इति ॥९॥

सा च तदा तदाक्रमणपीडितापीडिता भुवनजनैर्वत्सलतया लतया फलभरनतया सदृशी कथञ्चिदेकरसं चिदेकरसं तमात्मजमात्मजवेन स्खलन्तं तत्रैवोपवेशयामास ॥१०॥

भुवनस्थ-जनैः सर्वैर् अपि ईडिता स्तुता, कथञ्चित् कष्ट-सृष्ट्या उपवेशयामास । एकरसम् एक-रूप-स्वरूपं3 चिद् एकरसं तदानीं ज्ञानैक-वीर्यम्, शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः इत्य् अमरः ॥१०॥

अथ भगवदिच्छयाच्छया च्छुरितमानसा मानसारतयाविवेकेनैव नैव चिन्तयित्वा विहायापि तं हा यापितं तं समयमविदती विदती च सहानीतमिति मितिहीनप्रभावं तं प्रभावन्तं गृहमध्ये प्रविश्य यदा कार्यान्तरनियुक्ता तस्थुषी तस्मिन्नेवावसरे युगपद्विप्रयुक्तनाग-नागरीनिकुरम्बस्य दीर्घोष्णनिश्वास इव, काललोहकारेणास्फालिताया भूभस्त्रायाः समुच्छ्वास इव, युगपदेव दिङ्मातङ्गानां श्रवणसूर्यास्फालनतः कम्पमानस्य नभसः स्यन्द इव, वातात्मकोऽपि पित्त-कफव्याधिरिव रजस्तमोबहुलः, खल इव बहिः शर्करावर्षी अन्तर्दुरधिगमः, मद इव अन्धङ्करणः, पित्तज्वर इव महावेगः, सङ्ग्राम इव प्रसरत्करेणुसङ्घातकृतान्धकारः, पञ्चभूतात्मकतामपनीय एकभूतात्मकं कुर्वन्निव त्रिभुवनं कंसप्रहितस्तृणावर्ताख्यः ॥

अथ सा यदा कार्यान्तर-नियुका तस्थुषी स्थितवती तस्मिन्न् एवावसरे तृणावत्याक्यः कोऽपि वात्या-विवर्त आविर् आसीद् इत्य् अन्वयः । अच्छया निर्मलया भगवद् इच्छया हेतुना मानस्य पुत्रातिभर-प्रमाणस्य सारतया निविडतया अविवेकेनैव छुरितं मानसं यस्याः सा । अतएव तं पुत्रं विहाय बहिः स्थापयित्वापि नैव चिन्तयित्वा, हा खेदे, यापिदं गमितं तं घोरं समयम् अविदती अजानती । किम् च, अङ्गनाद् यदा प्रविष्टवती, तदैव पुत्रम् अपि सह स्वेनैवानीतं विदती भ्रमाद् एव जानती । ननु कथं तादृशीनाम् एवं भ्रमः ? तत्राह—मितिः प्रमाणं तया हीनः प्रभावो यस्य तम्, तद् इच्छा-प्रभावेणैव विभ्रमोऽपि जनित इति भावः । ननु विकटवात्यया बहिःस्थितस्य तस्याति-सुकुमारत्वेन परिभवः सम्भवेत्, तथ नहि न हीत्याह—प्रभावन्तम्, ऐश्वर्यावेशेन देदीप्यमानम् । युगपद् एककालम् एव विप्रयुक्तानां विरहिणीनां नाग-नागरीणां समूहस्य निश्वास इत्य् अतिकटुत्वेन भू-भस्त्राया इति अतिविततत्वेन स्यन्दः क्षरणं विदीर्य उपरितोऽधःपतनम् इति यावद् इत्य् अतिभयानकत्वेन । वात-धारोः सात्त्विकत्वेनायुर्वेद-शास्त्रे उक्तत्वाद्-विरोधः । पित्त-कफयोस्तु राजसत्व-तामसत्वाभ्याम्, पक्षे, रजो धूलिः तमोऽन्धकारः, शर्करा सिता कर्परा च । प्रसरद्भिः करेणूनां हस्तिनीनां सःघातैः कृतोऽन्धकारो यथ, पक्षे, प्रसरन्ति कानि सुखानि येभ्यस् तथा-भूतै रेणु-सङ्घातैर् इति । एक-भूतात्मकं पवनमयम् ॥

ऊर्ध्वोर्ध्वावर्तनृत्यत्प्रचुरतृणरजःशर्करापूरदूर भ्रंशैरभ्रंलिहानो ग्लपितजनतनुः कोऽपि वात्याविवर्तः । कल्पान्तप्रज्वलिष्यत्फणिपतिवदन-व्यूहवह्नेरुदीर्णैः क्षौणीं निर्भिद्य धूमैरिव भुवनजनानन्धयन्नाविरासीत् ॥

कीदृशः ? उर्धोर्धम् उपर्युपरि आवर्तो भ्रमिस् तत्र नृत्य-ताम् इव तृण-रजः-शर्करा-पूराणां दूरतो भ्रंशैर्ग्लपिता जनानां तनवो येन सः । कल्पान्ते प्रकर्षेण ज्वलिष्यन् यः फणि-पतेर् अनन्तस्य वदन-ब्यूहतो बह्निस् तस्य धूमैर् इव क्षौणीं निर्भिद्य उपरिगत-भुवनस्थ-जनानन्धयन् अन्धी-कुर्वन् ॥

**अयमेति महानिलोऽसूरः, स्वयमेव स्वविनाशकारणम् । ** उररीकुरुतामिति प्रभुर्गरिमाणं न तथा ततान सः ॥११॥

न तथेति । पूर्वं यथा मातुर् अङ्के तथा न, किन्तु तद्वलानुरूपं तु ततानैवेत्य् अर्थः । अन्यथातिलाघवेन सद्य एवात्युच्चदेशान्नयने स्वस्य श्रमः सम्भवेद् इति ॥११॥

एवमन्धतमसान्धतमसारूप्यं गतेषु सकलेषु परितस्तृणरजःशर्करावर्षे च महति हतिकारके सति भवनमध्यमध्यवस्थाय चिन्तयत्सु पुरजनेषु च मात्रा यथैवोपवेशितं तथैवाकुतोभयस्य कुतो भयस्य कथापीति निरातङ्कं तं कञ्जनयनं नयनन्दितभुवनजनं भुवनजनन्दिकरचरणतलं रणतलं गतानां गतानाञ्छानां सुरद्रुहामन्तकमन्तकरणाय स्वस्य स महासुरो हरति स्म ॥१२॥

अन्धतमसेन गाढध्वान्तेन हेतुनान्धतमैर् अतिशयान्धैः सारूप्यं तुल्य-रूपतां गतेषु परितः सर्वतः हतिकारके घातके सति तं कञ्ज-नयनं कमल-नेत्रं स्वस्य अन्तकरणाय मारणाय महा-सुरो हृतवान्, नयेन नीत्वा तादृश-दानव-वध-निवन्धन-तादृश-चातुर्यमय्या नन्दिता भूवन-जना देवादयो येन तम् । भुवनं जलं तत्र जातं कमलं तद्वत् नन्दि शैत्य-सौरभ्य-सौकुमार्यादि-समृद्धि-युक्तं कर-चरण-तलं यस्य तम् अपीत्य् अतिदुरात्मत्वेन तस्य निर्दयत्वम् उक्तम् । किम् च, सुरद्रुहाम् असुराणाम् अन्तकम् । कीदृशानाम् ? रणतलं गतानाम् । आछि आयामे अञ्छः आयामः, न आञ्छेऽनाञ्छः, गतोऽनाञ्छो येषां शौर्याद्यायामवताम् इत्य् अर्थः ॥१२॥

स च बालब्रह्म ब्रह्मरुद्रादिसेवितो वितोदः प्रकटामोदो मोदोद्धुरः पटे निवध्य नीयमानोऽनल इव कण्ठशोधनार्थं कण्ठे कृतः कालकूट इव स्वयं निमन्त्र्यानीयमानो मृत्युरिव तेनाह्रियमाणः, सुरपुरपुरन्ध्रीकृतदर्शनातिपूर्तय इव तत्स्वरूपया निःश्रेणिकया नाकतलमुज्जिगमिषुरिव कियद्दूरमुद्यातः, प्रियसुहृदमिव तं मृगमद-मेचकित-विसवल्लीवल्लीलेन स्तोकेनैव भुजबलयेनाधिकण्ठतटं तथा शनैः शनैर्निपीडयामास, यथास्य निर्गच्छन्तोऽप्यसवो विलम्ब्य विलम्ब्य सपदि चूर्णपेषं पिष्टा इव निर्जग्मुः । अहो कौशलं कुशलिनः खेलाशिशोस्तस्य भगवतः ॥१३॥

वितोदो गतव्यथः, प्रकटो ब्रह्म-रुद्रादि-लोक-पर्यन्तं वात्यया सञ्चार्यमाण आमोदोऽण्ङ-सौरभ्यं यस्य सः, मोदेन तद्वधोत्साहमय-हर्षेणोद्धुरः । तेन तृणावर्तेन पटे निवध्येति तेनाकर्षणं कृष्णस्य । कण्थेति कृष्णेनाकर्षणं बाल्याद्भीत्येव तत्-कण्थस्य स्वयम् इति । ततश् च तस्य मृत्युर् एवेत्युक्तम् । अनलस्य जलादिना प्रतीकारोऽस्तीति काल-कूट इति तस्यापि मन्त्रादिनेति चेत् मृत्युर् इति, सुरपुरस्य पुरन्ध्रीभिः कृता या दर्शने आर्तिर् उत्कण्था तस्याः पूर्तये वात्याकारया निःश्रेणिकया सिण्डी इति ख्यातया मृगमदेन मेचकितायाः श्यामली-कृताया विषवल्ल्या मृणाल-लताया इव लीला यस्य तेन, शनैः शनैर् इति एकदैवातिपीडने सहसैव तत्-प्राण-त्यागे सति दूरतो वेगत एव तद्-वपुषः पतने स्वश्रम आपद्येतेति भावः । चूर्णपेषम् इति [पा ३-४-३५] शुष्क-चूर्णरुक्षेषु पिषः इति णमुल्, चूर्णवत् पिष्ट्वेत्य् अर्थः । विलम्ब्य विलम्ब्य निर्जग्मुर् इति तेन शनैः शनैस् तद्वपुषो निपतने सति निःश्रेणिकयेवावतरणम् अपि भगवतः सुखेनैवाभूद् इति भावः ॥१३॥

अथ विगतासौ गतासौभगे भगवदङ्गसङ्गादङ्गसङ्गान-समुचिते प्रागावेगवेगतो गतोत्कर्षेऽपि पांशुशर्करावर्षिणि पवमाने पवमाने स्वकुलं तस्मिन्नपि निपतति तत्कण्ठावलम्बि-नीलमणिहार इव अलब्धभूतलस्पर्श एव तेन सह भुवस्तलं यावदालम्बते, तावदेव शाम्यति वात्यावर्ते पूर्वमेव तनयानवलोकशोक-शुष्यमाणमना मनागप्यवस्थातुमसमर्था समर्थामेव मूर्च्छामवलम्ब्यावलम्ब्याहतधीरधीरतया व्रजेशवनिता नितान्तमवनितले निपपात ॥१४॥

विगता असवो यस्य तस्मिन्, तथापि गतमसौभगं यस्य तस्मिन्, कुतः ? भगवतोऽङ्गस्य समुचिते पवमाने वायौ स्वकुलं पवमाने पवित्रीकुर्वति तस्मिन्न् असुरे निपतति सति अलव्ध-भूतल-स्पर्श इति व्यथाभावो व्यञ्जितः ॥१४॥

व्रजपुरपुरन्ध्रीभिरभिरभ्यमाणा जीवनानुमापकश्वासाश्वासामान्येन बोधयन्तीभिर्धयन्तीभिरिव तच्छोकानलकीलाः कीलालेन मुखमासिञ्चन्तीभिः किमपि समूचे ॥१५॥

अभिरभ्यमाणा आलिङ्गनाकारेण ध्रियमाणा, आश्वासस्यामान्द्येन, आधिक्येनेत्य् अर्थं । धयन्तीभिर् अनुभवन्तीभिर् इति यावत् । कीला ज्वालाः, कीलानेन जलेन, आसिञ्चन्तीभिः सर्वतः क्षालयन्तीभिः—अपस्माराभर्मूर्च्छया मुखस्य लालाक्लिन्नत्वात् ॥१५॥

सुकृतिनि! हे कृतिनि! परमपरभागधेयेन भागधेयेन येन तादृशो दृशोरतिरसदो रसदोऽविततनयस्तनयः समासादि, तेनैव स्वस्ति स्वस्तिमानसौ मानसौभाग्योदयो वां दम्पत्योः पत्योर्व्रजपुरस्य रस्य एव, तदलमलं मोहेन, मोहेन क्लेशय मानसम्, मा न सन्तापी हि मानसज्वरः, स खलु कुशली सम्प्रति सम्प्रतिपत्स्यतेऽकस्मादेव, कस्मादेवमुत्ताम्यसीति तासां चिराश्वासगिरा लब्धजागरेव सा यच्चेतनामापद्यते स्म, सैव तस्याः शोकोद्गारिणी समजनिष्ट ॥१६॥

हे पुण्यवति ! हे कृतिनि पण्डिते ! येन भागधेयेन भाग्येन । कीदृशेन ? परमः परभाग उत्कर्षो धेयो धार्यो यस्य तेनातिरसदोऽति-सुखदः, रसस्यानुरागस्य दोहेन पूरणेन विततो विस्तृतो नयो येन सः । तेनैव भागधेयेन हेतुना स्वस्तिमान् कुशली असौ तनयः स्वस्ति सुखेन अस्ति । कीदृशः ? वां युवयोर् व्रज-पुरस्य स्वामिनोर् मान-सौभाग्ययोर् उदय-रूपः रस्य इति तथात्वेनैव सर्वैर् अनुभवनीय इत्य् अर्थः । मा ऊहेन अपायतर्केण मानसं क्लेशयः, मानसज्वरो हि मा न सन्तापी, अपि तु सन्तापक एव, मा इति निषेधे ॥१६॥

तद्यथा—

“इत एव मयोपवेशितो, बत वोडुं ह्यसमर्थया भरम् । मम दुर्नियतिस्वरूपया,तनयो हा धिगहारिवात्यया ॥

तत् शोकोद्गारणं यथा दुर्नियतिर् दुर-दृष्टं सम्भवेदित्य् अर्थः ॥

क्व शिशोर्बत तादृशो भरः, सहते यं बत न प्रसूरपि । अतएव तथानुमीयते, मम दुर्दैवविजृम्भितं हि तत् ॥ नवनीतमिवार्तिकोमलो, व्यथते यो बत मातुरङ्कतः । स कथं खरपांशुशर्करा-तृणवर्षं सहते स्म मे सुतः ॥

व्यथते व्यथां प्राप्नोति ॥

स यथैव निशाचरीविष, स्तनपानाच्छकटस्य पाततः । अवितः किल येन वेधसा, स इदानीमपि तं सदावतु ॥

स सुतो येन पूर्वम् अवितो रक्षितः ॥

अधुना परमेश्वरेण चे-दवितोऽसौ यदि लभ्यते सुतः । न कदापि तदाङ्कमध्यतो, बत भूमौ विजहामि हा पुनः ॥

परमेश्वरेणास्मदिष्टदेवेन ॥

त्वरितं परितोऽवलोक्यतां, क्व नु नीतः क्व नु पातितोऽर्भकः । । मम यावदपैति जीवितं, न बहिस्तावदमुं समानय ॥”
इति भूयो मूर्च्छति ॥१७॥

क्व नीतो वात्ययेत्य् अर्थः ॥१७॥

ततश्च भूयस्ताभिः कृताश्वासा श्वासापितमपि जीवितं जहती ह तीव्रतरधीवैधुर्या धुर्या मलिनवदनारविन्दा रविं दारुणमिव दहन्तं शोकमावहन्ती हन्तीव यदा जनमनांसि, तदैव पुरतोरणस्य पुरतो रणस्य प्रथमारम्भ इवारं भ इवातिसमीचीने निर्जितविपक्षोऽपक्षोद-भूतस्य भूतस्य रिपोरुरसि रसिको महाकण्टकगहने विकचमेकमपराजिताकुसुममिव, तृणस्तम्बान्धजीर्णसरसि समुद्दण्डमेकमसितोत्पलमिव, घनतरतिमिरपटलोपरि दीपाङ्कुर इव, महामोहोपरि परमज्ञानामृतमिव, मरुभुवि सुरतरुकडम्ब इव, परमदुःखवृक्षशिखरे सान्द्रानन्दकुसुममिव स बालकृष्णो रोचते स्म ॥१८॥

श्वासेन पूर्व-मूर्च्छा-भङ्गानन्तरं निश्वासेन आपितं प्रापितम् अपि जीवितं जहती त्यजन्ती, ह स्फुटम्, धुर्या श्रेष्ठा, दारुणं रविम् इव दहन्तम् । तद् इव4 पुरतोरणस्य पुरवहिर्द्वारस्य पुरतोऽग्रतो रिपोरुर्सि स बाल-कृष्णो रोचते स्मेत्य् अन्वयः कीदृशः ? रणस्य युधस्य प्रथमारम्भ इव, अरं शीघ्रं भे नक्षत्रे अतिसमीचीने स्वभावेन स्वराशिगणन-गत्या च शीघ्र-विजय-प्रद इव निर्जितो विपक्षो येन सः । रिपोः, कीदृशस्य ? अपक्षोदभूतस्य चूर्णीभूतस्य, अतिशयेन नष्टस्येत्य् अर्थः । भूतस्य भुवि पृथिव्याम् उतस्य स्यूतसोवेत्य् अर्थः । विकचं विकसितम् । तत्रस्थं तमुत्प्रेक्षते—महा-कण्टकेति, स्वाकृष्ट-विकट-तृणस् तम्बशर्करा-पुञ्जभरितत्वेन, तृणस्तम्बान्धेति बहिस् तृणाद्याच्छन्नत्वेन तदाकारस्य दुर्लक्ष्यतया, घनतिमिरेति तत्साहजिक-वर्णत्वेन दीपाङ्कुर इवेत्य् अनेन पूर्वोक्तापराजिता कुसुमत्व-नीलोत्पलत्वाभ्यां तस्य प्राप्तं तत्-सङ्ग-जनित-किञ्चित्-कृष्णत्वं वारितम् । ज्ञानामृतम् इवेत्यतेन तत्-साहितोऽपि तेन स्प्रष्टुम् अशक्यत्वं ध्वनितम्, तन्मोक्षदायकत्वं च । मरुभुवीति अतिकठोरत्वेन, सुरतविति अतिविस्मयास्पदत्वेन तद् उत्प्रेक्षा, परम-दुःखेति-सान्द्रानन्देत्याभ्यां तत्र गतजनानाम् असुर-शरीरं श्री-कृष्णं च युगपत् पश्यतां निःषीमदुःखं निःसीमसुखं च युगपद् एव जात-मति व्यञ्जितम् ॥१८॥

तमकुतोभयमर्भकमाकलय्य क्रमसमुपचीयमाने मानेन हीने जननिचये केचन “अयमेव पामरोऽमरोदयद्वेषी वात्याकृत्या कृत्यान्तरायभूतो भू-तोदमिव कुर्वन् व्रजराजकुमारमपहर्तुं कृतोद्यमोऽद्य मोहितः स्वयैव किल्बिषविषज्वालयालयान्तमपि गन्तुमशक्तो नभस्त एव निपपात” इति ॥१९॥

क्रमेण समुपचीयमान इति प्रथमं दश, ततो विंशतिस् तत्रस् त्रिंशद् इति क्रमेण सङ्ख्या-वृद्ध्येत्य् अर्थः । अतः क्षणमात्रेणैव मानेन परिमाणेन हीने सति जन-समूहे अमराणां देवानाम् उदयद्वेषी भुवः पृथिव्यास् तोदं व्यथाम् इव कुर्वन्, आलयान्तं गृह-समीपम् ॥१९॥

केऽपि च—“अये! अयमेव महाप्रभावप्रभावर्धिष्णुरीशिता शितास्त्रममोघमिव सदा नवोऽपि दानवोत्तमानां प्राबल्यमवधाय वधाय तेषामवततारेव, तेनारम्भ एव परिपूतनामा पूतनामारकोऽयमनोभञ्जको मनोऽभञ्जको जनानामधुना धुनानमिव भुवनमिमञ्च घातयामासे” इति ॥२०॥

केऽपीति महा-दुर्जयस्यासुरस्य पतने स्वयैवेत्याद्य् उक्तं युक्त्याभासम् अकिञ्चित्करं मन्यमानाः स्व-वुद्धिप्रतिभातेनानुमानेनैव वास्तवार्थ-स्फूर्तिमन्त इत्य् अर्थः । अयं बालकः, ईशिता ईश्वरः, असुरवधार्थम् अमोघं तीक्ष्णास्त्रम् इव—ईश्वरत्वेन निश्चयाभात् । अवततार इवेति सदैव् नवः सनातनोऽपि नित्य-नूतन-प्रतीतिकः, न तु वस्तुत इदानीन्तन एवेत्य् अर्थः । अनसः शकटस्य भञ्जकः, मनसश् चेतसो न भञ्जकः, न दूषकः, सर्व-सुखदायित्वात् ॥२०॥

केचिदपि—“अये व्रजपुरपुरन्दरस्यैव पूर्वपूर्वजनिजनिततपःसु कृतं सुकृतं यत् पुञ्जितं जितं तेनैव, तदृते यदिदमस्य दमस्य सकलापदां पदान्तरं नाकलयामः” ॥२१॥

केचिद् अपीति, तद् उक्त5मतिसाहसं मत्वा दृढेन युक्त्यन्तरेणैव समादधाना इत्य् अर्थः । सर्व एवैते तत्प्रेम-माधुरी-विवर्त-वर्तिन एव6 यथोत्तर-श्रेष्ठा ज्ञेयाः । तपःसु मध्ये पुञ्जितं यत् सुकृतं पुण्यं कृतं तेनैव जितम् उत्कर्षेण वर्तितम् । तदृते तद्विनास्य सकलापदां पूतनादि-प्रयुक्तानां दमस्य दमनस्य नाशस्येति यावत्, पदान्तरं लाक्षणान्तरम् ॥२१॥

इति गदन्तोऽगदं तोकं तमादाय दायलब्धं महाधनमिव निःसङ्कोचतयाङ्के कुर्वन्तो निज-जनानामन्तःपुरमन्तःपुरं प्रापयामासुः ॥२२॥

अगदं निरामयं तोकं बालकम् । कीदृशम् ? निजजनानाम् अन्तः अन्तकरणं पिपर्ति पूरयतीति क्विप्, तम् ॥२२॥

हर्षकलकलेनानुमाय कुशलितां तदनु दनुजदमनस्य मनस्यतीवपीवरेण वरेण हर्षतरङ्गेण रङ्गेण विकसद्वदनाभिर्व्रजपुरपुरन्ध्रीभिनिजगदे—“जगदेकपूज्ये भाग्यवति भवति भवद्भाग्येन समुपसन्नोऽसन्नोऽयं भवत्तनयः इति हर्षकथासादितरसा तरसा पूर्णजलदावलीजलदावलीढवनभूमिरिव जीविताङ्कुररुचिरारुचिरामणीयकस्निग्धा क्व स क्व सः” इत्युत्कलिकोत्कलिकोदयवश्यावश्यायलिप्तकमलाकृतिनयनाकृति-नय-नामानुरूपगुणा सद्य एव भवन्ती तनयावलोकनार्थमुद्गता मुद्गताधिक्येनात्मानमपि न सस्मार यशोदा ॥२३॥

मनसि अतीव पीवरेण पुष्टेन निजगदे, यशोदेत्य् अर्थात्, अधिकम् अधिकं पुष्टी-भवता, वरेण श्रेष्ठेन । हे भवति ! असन्नोऽनवसन्नः, तरसा वेगेन, पूर्णजलदावलीनां जलेन दावलीढा वन-भूमिर् इव, जीवितेनाङ्कुरेण तृणादि-सम्बन्धिना, पक्षे, जीवितस्य जीवनस्याङ्कुरेण रुचिरा, उत्कलिकाया उत्कण्ठाया या उत्कलिका उद्गतः कोरकस् तस्या उदयेन हेतुना वश्या मूर्छोत्थापनादिना वशीकर्तुं शक्या, अवश्यायेन नीहारेण लिप्तयोः कमलयोर् इवाकृतिर् ययोस् तथाभूते नयने यस्याः सा । अत्र तनय-प्राप्तिहर्षोत्थत्वाद् अश्रूणां शैत्यान्नीहारेणोपमा । इति मुद्गतमानन्दनिष्ठं यदाधिक्यं तेन ॥२३॥

ततस्तु ततस्तुतिपराभिरपराभिरयमयमिति मृतसञ्जीवनौषधमिव स तदुत्सङ्गे सङ्गेयमहिमा न्यध्यायि ॥२४॥

तत-स्तुरिपराभिर् विस्तृतस्तव-कर्त्रीभिः । स श्री-कृष्णः ॥२४॥

सा च नष्टलब्धधनमिवाङ्कमारोप्य सस्पृहमीक्षमाणाक्षमाणामानन्दानुभववहनस्य
करणानां करणानान्ध्य इव जाते क्षणं स्तिमितमनाः सती तनयमुवाच—“जात! जातमात्र एव मात्र एवमतिखेदमुपनयसि, नयसिद्धिरियं न भवतः । अथवा, किं ते दूषणम्, बहिरवस्थाप्य भवन्तं गृहागतां दारुदारुणां नाम्नैव मातरं मां प्रति मातृनाम्नानाम्नातपारुष्यो रुष्योद्रकं न गतो गतोऽपि यत् पुनरागा निरागा नितरामतो भवान्मातृवत्सलो वत्स! लोकातीतोऽसि ममैवागः” इति चिरं लालयन्ती स्नेहस्नुतं स्तनरसं नरसङ्काशं तमथ मूर्तमानन्दं सानन्दं सा पाययामास ॥२५॥

सा यशोदा करणानाम् इन्द्रियाणां करणेषु स्व-स्व-व्यापारेषु अनान्ध्यो चक्षुष्मत्त्वे जाते सति पूर्वं मूर्च्छया तेषाम् आन्ध्यमासीदित्य् अर्थः । करणानां कीदृशानाम् ? आनन्दानुभवानां बहनस्य धारणस्याक्षमाणाम् असमर्थानाम् । हे जात ! हे पुत्र ! जात-मात्र एव मात्रे जनन्यै मह्यम् एवम् अतिखेदम् उपनयसि ददासि, इयं भवतो नीति-सिद्धिर् न भवति, मातृनाम्ना मातृत्वस्य नाम-मात्रत्वेन हेतुनापि न आम्नातं नाभ्यस् तं पारुष्यं कठोरत्वं येन सः, यतो रुष्योद्रेकं क्रोधोद्रकं न गतः, भावे कृत्यप्रत्ययः । यत् पुनरागाः आगतोऽसि, अतो निरागा निरपराधः ॥२५॥

इत्यानन्दवृन्दावने बाल्यलीलालताविस्तारे शकटतृणावर्तविवर्तो नाम

चतुर्थः स्तवकः ॥४॥


  1. स्तत्कुलोचिताचारो [क] ↩︎

  2. मायावृतत्वं [ख] ↩︎

  3. एक-रूप-स्वरसं [क,ग] ↩︎

  4. तदैव [ग,घ] ↩︎

  5. यद् उक्त [घ] ↩︎

  6. इव [घ] ↩︎