०३

तृतीयः स्तवकः

एवं भुवमवतीर्णे नराकृतिनि परब्रह्मणि समुपगते च स्तनन्धयतां पूर्वावतीर्णः स च ब्रह्मभूतो लोकः केवलं लौकिक इव लोकैर्दृश्यमानोऽपि सहावतीर्णया श्रियैव पुनरप्यलौकिको जायमानः सकलजननयनमनश्चमत्कारकारी बभूव ॥१॥

तृतीये पूतनाघातः श्री-यशोदातिरोदनम् ।

वर्ण्यते मथुरातोऽथ नन्दस्यागमनं गृहे ॥

स च प्रसिद्धो ब्रह्म-भूतः—श्री-भागवतादौ सर्वेषाम् अपि भगवद्धाम्नां ब्रह्म-स्वरूपत्वेन निश्चितत्वात्, [गो ता उ २९] तासां मध्ये साक्षाद्-ब्रह्म-गोपाल-पुरी हि इति श्री-गोपाल-तापनी-श्रुतेः । श्रिया शोभया ॥१॥

तन्मध्य एव लौकिकतापत्तौ व्रजराजे राज्ञः कंसस्य वार्षिकं गोरसादिकरमुपपादयितुं पुरपरिरक्षणार्थमाप्ततम-स्थविराभीरनिकरं नियोज्य नियोज्यैरेव कियद्भिर्यदुराजधानीं गतवति सति दुरात्मना तेनैव कंसाभिधेन नृशंसेन पूर्वजनुषि कालनेमितयाख्यातेन पूर्ववैरमनुस्मरता (भा।पु। १०.४.१२) किं मया हतया मन्द क्वचिज्जातस्तवान्तकः इति योगमायोदितेन तदनुसन्धानधुरन्धरतया तदपचिकीर्षया प्रेषितः पूतनानामबालग्रहः प्रथममेव तामेव व्रजराज-राजधानीमाससाद, सा पूतना नाम कामरूपिणी रूपिणी सौन्दर्यसम्पत्तिरिव सकलजननयनचमत्कारकारिणी च समपद्यत ॥२॥

व्रज-राजे गोरसादिकरं कंसस्योपपादयितुं गतवति सतीत्य्न्वयः । किं कृत्वेत्य् अपेक्षायां पुरपरिरक्षणेत्यादि । नियोज्यैः किङ्करैः, नियोज्य-किङ्कर-प्रेष्य-भुजिष्य-परिचारकाः इत्य् अमरः, यदुराजधानीं मधुराम्, तस्य निज-शत्रोरनुसन्धाने धुरन्धरतया प्रवीणतया जातस्य निज-शत्रोरपचिकीर्षया अपकारेच्छया ॥२॥

यामभिवीक्ष्य उर्वशि उर्वशिवं ते सौभाग्यम्, अलम्बुषे अलं बुषेणेव ते दर्पेण, रम्भेऽरम्भेकीव त्वमसि, घृताचि घृता चितेव ते यशोनवनीतावलीः, मेनके मेन के त्वामुपहसन्ति, प्रम्लोचे प्रम्लोचेन गतं ते रूपसौभगम्, चित्रलेखे चित्रलेखेव ते मूर्तिः, तिलोत्तमे तिलोत्तमेव ते कीर्तिः, इति सकलैरेव पुरजनैर्नाकवेशविलासिनीरुपहस्य किमियं
मूर्तेव व्रजपुरदेवता, किमियं त्रैलोक्यलक्ष्मीः, किमियमनम्बुधरा तडिन्मञ्जरी, किमियं निष्कुमुदबान्धवा कौमुदी—इति वितर्क्यमाणा व्रजपुर-परमेश्वरी-भवनमेव सा प्रविवेश ॥३॥

हे उर्वशि ! उरु अधिकम् अशिवम् अमङ्गलं यस्य तथा-भूतं सौभगं तवाभूत्, अनया स्वीय-सौन्दर्येण तव तिरस्कारादिति भावः । वुषेणेव तृणादिक्षोदेनेव, कडङ्गरो वुषं क्लीवे इत्य् अमरः । हे रम्भे ! अरं द्रुतं भेकीवत् त्वम् । हे घृताचि ! ते तव यशांस्येव नवनीतानि, तेषामावलिः, सा अधुना घृता जलानिना सिक्ता चिता प्रेतदाहिका अग्नि-श्रेणीव, गृ घृ सेवने इति । हे मेनके ! मे मम सम्बन्धिनः के न त्वाम् उपहसन्ति, अपि तु सर्व एव, प्रम्लोचेन, प्रबाहेन, चित्र-लेखा रेखा इव स्तव्धेत्य् अर्थः । तिलोत्तमा तिलाद् अप्य् उत्तमा अतिश्यामा अपकीर्तिर् अभूदित् अर्थः । तिलोत्तमा तिलाद् अप्य् उत्तमा अतिश्यामा अपकीर्तिर् अभूद् इत्य् अर्थः । इति नाक-वेश-विलासिनीः स्वर्गाप्सरसः, उपहस्य तिरस्कृत्य, व्रजपुरदेवतेति दुष्प्रधर्षत्वांशेन, त्रैलोक्य-लक्ष्मीर् इति परम-शोभया, तडिन् मञ्जरीति गौरकान्त्या, कौमुदीति सुशीतलच्छवितया ॥३॥

तथा सति इयं खलु व्रजपुर-पुरन्दर-मन्दिरावतीर्ण-परममहापुरुषचरण-परिचरण-चातुर्यधुर्यतया त्रैलोक्यलक्ष्मीरेव समुपसर्पतीति पुनस्तैरिदमेव निरटङ्कि ॥४॥

पुनस्तैर् एव जनैर् इदम् एव निरटङ्कि निर्णीतम् । तादृश-सौन्दर्यं स्फोरयित्वा तान् मोहयामासेति ज्ञेयम्—तस्या वराक्यास् ताम् अस्या तया मायया शुद्ध-सत्त्वावरण-सामर्थ्यान्यथानुपपत्तेर् इति ॥४॥

अनन्तरं चौरमूर्तिरिव महासाहसा, लोभोपहता जनतेव निर्लज्जा, कोपवृत्तिरिवासमीक्ष्यकारिणी, सा भवनं प्रविश्य ज्वलन्तमिव सकलाशुभसमूहभस्मीकरणचणमहानलस्फुलिङ्गम्, निखिल-रिपुनिकर-बहलतमः-समुद्घाटनपाटवैकचटुलं विलक्षणं दीपशिखरमिव, संसार-विषमविष-महाकूपार-निःशेषनिःशोषकारिणं मुनिविशेषमिव, मथ्यमानचन्द्रिकाचयफेनधवलशयनतलशयितं कर्पूरधूलिकेदारतट-समुत्पन्नं महामरकताङ्कुरमिव, खलवाणीव बहिः सरसा, वारीव बहिरावृता, मणिकोषाञ्चिता कालायसकरपालिकेव दर्शनसुखदा, कल्पलतिकायमाना विषलतिकेव, सस्नेहं जननीव तमङ्कमारोपयितुं कृतमतिर्जनन्या व्रजपुरपरमेश्वर्या
वसुदेवभार्ययार्यया च “किमियं भगवती गौरी, किमियं भूतधात्री, किमियमिन्द्राणी, किमियं वरुणानी, किमियमग्नायी मदात्मजं प्रति वत्सलतया समुपसन्ना?” इति वितर्कपरया न प्रत्यषेधि ॥५॥

महासाहसेति सहसान्तःपुर-प्रवेश-सामर्थ्यम् उक्तम् । निर्लज्जेति स्वकार्य-साधन एव तात्पर्यम् । असमीक्ष्यकारिणीति तादृश-सुभग-श्री-मूर्ति-दर्शनेऽपि घातुकत्व-व्यवसायात्यागः । सा तम् अङ्कम् आरोपयितुं कृतमतिर् जनन्या न प्रत्यषेधि । कीदृशं तम् ? सकलानाम् अशुभ-समूहानां काष्ठ-स्थानीयानां भस्मीकरणचणं भस्मीकरणेन स्पर्श-मात्रेणैव ख्यातं महाग्निकरणम्, एतेनाधिकारि-विशेषानियमेनैव स्पर्श-मात्रेणैव निःशेष-पाप-हारित्वम् उक्तम् । निखिला रिपुनिकरा एव वहलानि तमांसि तेषां सम्यगुद्घाटनस्य पाटवे दक्षतायाम् एकं चटुलं चञ्चलं परम-समर्थम् इत्य् अर्थः । एतेन रिपु-प्रवर्त्यमान-दुर्व्यापारारम्भ-मात्रेणैव अक्षोभेण तन् नाशकारि-स्वभावत्वम् उक्तम् । संसार एव विषमस्य विषस्य महा-पूपारः समुद्रस् तस्य निःशेषेण निःशोषकारिणम्, एतेन तादृश-शत्रुणाम् अपि संसार-बन्धच्छेदकत्वेन परमदयालुत्वम् । इत्य् एवं तटस्थ-लक्षणेन महा-गुणानुट्टङ्क्य तदानीं स्वरूप-लक्षणेनापि परम-माधुर्यं वर्णयति—मथ्यमानेति । मथ्यमानानां चन्द्रिकाचयानां फेनम् इव धवलम् इत्य् उपलक्षणम् । शीतलं कोमलं च यत् शयन-तलं तत्र शयितम् । तत्रोत्प्रेक्ष्यते1 कर्पुर-धूलीत्यादि । बहिः-प्रकाश-रूपेण सरसा, अन्तःस्वगत-रूपेण त्वतिक्रुरा वाणी, पूतनापि बहिर् वात्सल्य-प्रकाशिनी, अन्तस्तु मारण-व्यवसायवतीत्य् अर्थः । दुर्मदगजानां बन्धनेन वशीकारार्थं वारी यथा तृणादिभिर् वहिर् आवृता, अन्तस्तु विवरमयी, तथा सापीत्य् अर्थः । कालायसकर-पालिका तीक्ष्णखड्गलतिका, वसुदेव-भार्यया रोहिण्या च न प्रत्यषेधि । गौरीतानुपमसौन्दर्य-दृष्ट्या, भूतधात्रीति परम-कृपोदय-दृष्ट्या, इन्द्राणीति स्वाधिकार-प्रकाशन-दृष्ट्या, वरुणानीति स्निग्धच्छविदृष्ट्या, अग्नायीत्यतिदुर्धर्षत्वदृष्ट्या वितर्कः ॥५॥

**
“किमहमस्य माता किमियं वा” इति निर्धारयितुमसमर्थायामेव व्रजेश्वर्यां निःसाध्वसमेव तमर्भकमङ्के विधातुमारेभे ॥६॥**

अङ्के क्रोडे ॥६॥

ऊरीकृताज्ञभावेन ज्ञानघनविग्रहेण भगवतापि परमकारुणिकेन जननीवेषमात्रपरिलोचनपरितुष्टेनेव तया स्पृष्टमात्रेणैव तदङ्कतलमारुरुहे । सा च सादरमङ्के निधाय मात्रोः पश्यन्त्योः परमवत्सला जननीव पयोमुखं विषकुम्भमिव पयोधरमधरे निधापयामास ॥७॥

उरीकृतोऽञ्गीकृतोऽङ्गीकृतोऽज्ञभावोऽज्ञत्व येन तस्य, सर्वदा मधुर-लीला-विष्टत्वेऽपि उत्पातागम-काले सहसैवैश्वर्यस्फुरण-स्वभावत्वात् ॥७॥

ततश्च—

पिबन् दुग्धं स्निग्धोदरदलित-बन्धूककलिका **दलद्रोणीताम्राधरपुट-चमुत्कारकलया । ** अमूं चक्रे लीलामयनवशिशुः प्राणधमनी समाकृष्ट्या सद्यः सकलकरणग्लानिविवशाम् ॥८॥

अमूं पूतनां सकलानां करणानाम् इन्द्रियाणां ग्लानिभिर् विवशां चक्रे । प्राणधमनी प्राण-नाडी, तस्याः समाकृष्ट्या सम्यग् आकर्षणेन । कथं तद् आकर्षणम् इत्य् अपेक्षायां तद्-विशिनष्टि—स्निग्धम् उदरं यस्याः सा च दलिता दलवती या बन्धुक-कलिका तस्या दलम् एव द्रोणी पान-पात्री तद्रूपं यत् ताम्र-वर्णम् अधरपुटं तेन या चमुत्कारस्य कला वैदग्धी तया दुग्धं पिवन्, आवेशेन चूषण-श्ब्दानुकरणं चमुत्कारः ॥८॥

अनन्तरम्—

मुञ्चति व्यथमानमानसतया क्षिप्तोऽपि गाढं तया **चूषन्नेव सुकोमलाधरपुटेनातृप्तवत् कौतुकी । ** बिभ्रत्याः सहजाकृतिं विषपयः पीत्वाष्टिवत्तां तनूम् आवासान्निरसीसरद्बहिरसौ तत्क्रोडवर्ती च सः ॥९॥

मुञ्चेति—बालं न मुञ्चत्य् अपि मान्त्रिकेण, या मुञ्च मुञ्चेत्य् अपसारितापि । तां पूतनां मुञ्चति नैष बालः, स्वं मुञ्च मुञ्चेत्य् अपसारयन्तीम् ॥ सहजाकृतिं विभ्रत्याः पूतनाया विषपयः पीत्वेति तदानीं लव्धावसरया संहारिकया शक्त्यैव तत् पानम्, तस्य तु व्यपदेश-मात्रं शक्ति-शक्तिमतोर् अभेदात् इति न्यायात् । एतच् च वर्णयिष्यमाण दावानल-पान-प्रसङ्गवद् एव ज्ञेयम् । तस्यास् तं विकटां तनुं स्वभाव-सिद्धाम् आवासन्नगराद् वहिर् निरसीसरत् निःसारयामास । नगर-मध्ये तत्-सम्मर्दनेन बहुतर-लोकनाशं परामृश्य बहिश् चिक्षेपेत्य् अर्थः । स्वयं च तत्-क्रोडवर्तीत्य् अहो आश्चर्यम् इति ॥९॥

तदनु च चक्रवर्तिराज इव सकलप्रजाकरालः, लङ्कापरिसर इव विभीषणमाहात्म्यः, गानव्यहार इव तालप्रवेष्टः, महामहीध्र इव गण्डशैलपयोधरः, बलिरिव पातालास्यः, महाशैल इव कन्दरागम्भीरगन्धवहः, महायोधसमूह इव संयुगप्रबलदन्तः, ध्वजिनीसङ्घ इव महाध्वजिह्वः, यादोगण इव महाह्रदोदरः, वनप्रदेश इव महावटाक्षः शालोरुश्च, सार्धेयोजनव्यापी तद्देहस्तदानीं पुरबाह्यवनपरिसरे निपतन्नवनिरुहानपि पातयामास ॥१०॥

तद् देहः क इव ? चक्रवर्ती राजा सर्व-मण्डलेश्वरः स इव सकलानां प्रजानां करमालाति गृह्नातीति सः वाक्यार्थ-कथन-मात्राय, किन्तु आलातीति रा ला दाने आतश् चोपसर्गे कः, ततः षष्ठी-समासः, पक्षे, सकल-प्रजानां सम्बन्धे करालो भीषणः, विभीषणस्य माहात्म्यं महिमा यत्र, पक्षे, विशिष्टं भीषणः, भय-प्रदं माहात्म्यं महा-कायत्वं यस्य सः, तालानां प्रकऋषेण वेष्तनं यत्र सः, भुज-बाहू प्रवेष्टो देः इत्य् अमरः, महा-महीध्रो महा-पर्वतो मेर्वादिः, स इव गण्डशैलेषु पयोधरा मेघा यस्य सः, पक्षे, गण्ड-शैलाविव पयोधरौ स्तनौ यत्र सः, पाताले आस्या स्थितिर् यस्य सः, पक्षे, पातालवदास्यं मुखं यस्य सः, कन्दरासु गभीरो गन्धवहो वायुर् यत्र सः, पक्षे, कन्दरे इव गभीरे गन्धवहे नासिके यस्य सः, गन्ध-वहो घोणा नासा च नासिका इत्य् अमरः, संयुगे युद्धे एव् प्रवलन् अन्तो मरणं यस्य सः, पाक्षे, सम्यग् युगा इव प्रवला दन्ता यस्य सः, रथसीराङ्गयोर् युगः इति विश्वः, ध्वजिनी-सङ्घः सेना-समूहः, ध्वजिनी बाहिनी सेना इत्य् अमरः, महा-ध्वजिनं सेनान्यं ह्वयते इतिसः, पक्षे, महान् अध्वा मार्ग इव जिह्वा यस्य सः, महाह्रदेष्वेव उत्कर्षेण इयर्ति गच्छतीति पचाद्यच्, पक्षे, महान् ह्रद इव उदरं यस्य सः, महान्तो वटा अक्षाश् च वृक्ष-भेदा यत्र सः, अक्ष्हो बहेडा इति ख्यातः, पक्षे महान्तौ आवटौ गर्ताविवाक्षिणी यस्य सः, गर्तावटौ भुवि श्वभ्रे इत्य् अमरः, शालाभिः शाखाभिः शाल-वृक्षैर् वा उरुवृहन्, पक्षे, शाल-वृक्षाविव उरू यस्य सः । अवनिरुहान् कंसोपभोग्यफलान् तद् आरामस्थान् तामस-प्रकृतीनाम्रादीनिति ज्ञेयम् ॥१०॥

तदनु तदेतत् कुहकमिति जानती तमात्मजमनवेक्षमाणा व्रजराजमहिषी वत्सवत्सला गौरिव “अहो कष्टमहो किमिदं क्व मे तनयः” इति मूर्च्छन्ती, व्रजपुरपुरन्ध्रीभिराश्वास्यमाना सञ्ज्ञामवलम्ब्य “हा धिक् हा बत नीलोत्पलम्मिति कर्णावतंसीकर्तुं किमपहृतो नाकनारीभिः, नीलरत्नमिति शिरःशेखरीकर्तुं चोरित इव नागनागरीभिः, तमालकुसुममिति चिकुरोत्तंसीकर्तुं किमपसारितो गन्धर्वीभिः, सिद्धाञ्जनमिति निह्नूत्य रक्षित इव योगिनीभिः, तुहिनकिरणकोरक इति जटाटवीं प्रापितो धूर्जटिना, किं ममैव प्रबलतरदुर्नियतिदेव्या विलसितमिदम्, किमहमयोग्या जननीति स्वयमेव जनन्यन्तरमासादितवान्” इति पुनः स्खलन्ती मूर्छामेव कालक्षेपकरीमुररीचकार ॥११॥

तदानीन्तनं व्रजेश्वरी-चेष्टितं वर्णयति—कुहकम् इति । यदयं तस्या दिव्य-वेशः, व्याजमयं यच् च वात्सल्यम् अङ्कनिधापनं स्तनदानं च तद् एतत् सर्वम् अनु कुहकम् इति जानती, सञ्ज्ञां चेतनाम्, दुनियतिर् दुरदृष्टम्, सैव देवी तस्याः ॥११॥

तदनन्तरमविलम्बमेवानया तनयो लभ्यतामिति स्वयमेव मूर्च्छया त्यज्यमानेव सा पुनः सञ्ज्ञामवलम्ब्य “हंहो के जानीथ, कथयत, केनाप्यपहृतं मेऽपत्यम्, क्व गताहं लप्स्ये” इति प्रबलतरपवनभुग्नलवलीलतेव मलिना पदे पदे स्खलन्ती व्रजपुरपुरन्ध्रीजनैर्धार्यमाणापि सोरस्ताडनमुच्चैस्तरां रुदती विगलित-चिकुरकलापा करुणस्य मूर्तिरिव यावत् पुरतोरणमाससाद, तावदेव “किमिदं विना वात्यामेव निपतितं गिरिशृङ्गम्, किमयं पृथिव्या एव मृतगर्भः, किमयं नभसो गलित एव मांसपिण्डः, किमयं दिशामस्थिसङ्घातः, किमयं राक्षसीदेहः” इति परितो धावद्भिराभीरैस्तदुरसि निःसाध्वसमेव खेलन्तं सर्व एव मां पश्येयुरिति करुणया तद्व्यपदेशेन बहिर्भूतमिव, महागिरिवरोपरि जलधराङ्कुरमिव लीलाशिशुं तमालोक्य “अहो अद्भुतमिदं पुरनिवेशसमये येयमवलोकिता, सैवेयं व्रजपुरपुरन्दरनन्दनद्रोहार्थमागता, स्वयमेव तेनैवापराधेन ननाशेति किमहो भाग्यमस्माकम्” इति वितर्कर्याद्भिर्दृश्यमाना एव व्रजपुरपुरन्ध्र्यो गिरितटमिव तद्देहमारुह्य तदुरस्तः स्मितसुभगवदनमकुतोभयं तमादाय करात् करान्तरमुपसादयन्त्यो व्रजपुरेश्वरीं प्रति—“अयि! सुकृतिनि! तनयोऽयमयं ध्रियतां ध्रियताम्” इति यदोचुस्तदा तदुदीरितां गिरमपि स्वप्नवाणीमिव मन्यमाना “किं प्रतारयन्ति मां भवत्यः” इति शोकग्रहाभिभूतेव सा यदा न प्रत्येति, तदोत्सङ्गेऽपितस्य सुतस्य स्पर्श एव प्रत्याययाञ्चकार ॥१२॥

अनया मूर्च्छया त्यज्यमाना, लवली लोयालि इति ख्याता, पुरतोरणं पुरवहिर् द्वारम्, गिरि-शृङ्गम् इत्य् उच्चत्वेन, मृत-गर्भ इति इति लालाद्यावृतत्वेन, मास-पिण्ड इति अतिवितत्वाद् अलक्ष्यमाण-मुखाद्यवयव-विशेषत्वेन अस्थि-सङ्घात इति दंष्ट्रा-नखादि-प्रदेश-दृष्ट्या, पृथिव्या नभसो दिशाम् इति क्रमेण अधस्त-उपरितोऽभितो वा आगतोऽयं तिसृभ्य एताभ्यो विना कुतस्त्योऽयं भविष्यति, चतुर्थ-पदार्थस्यासम्भवादिति भावः । तद्-व्यपदेशेन पूतनाप्प्राणाकर्षणच्छलेन वितर्कयद्भिर् आभीरैर् दृश्यमाना इति तोभ्योऽप्यतित्वरया तासां प्रथमं तत्र गमनात् तं व्रजेश्वरी-तनयं करात् करान्तरम् इति सर्वासाम् एव तासां तद्-ग्रहणौत्कुक्यात् । तत्र महति जन-सङ्घट्ते अवकाशाभावाद् एकया तमादाय शीघ्रम् आगन्तुम् अशक्यत्वाच् चेत्य् अर्थः । अयम् अयम् इत्य् अतिहर्षेण द्विरुक्तिः ॥१२॥

तदनु शोकनिद्रातो लब्धजागरेव, पुनरासादित-जीवनेव, पुनरुत्पन्नसंविदिव, मूर्च्छयैव परिवर्तितसकलेन्द्रियवृत्तिरिव, तनयमुखमभिवीक्ष्य यावन्निर्वृणोति, तावदेव कृतकौतुकमङ्गलं गोपुच्छ-भ्रामण-गोमूत्र-स्नपनादिभिः संस्कार्य रोहिणीसहिता उपनन्द-सन्नन्दप्रमुखभार्या व्रजपुरपुरन्ध्रीभिः समं निज-निजमत्यनुसारेण सारेण भगवन्नामग्रामेण तदङ्गरक्षां विदधति स्म ॥१३॥

लव्धा-जागरेवेति तद् अपि घूर्णालस्यादीनीव कार्श्यमालिन्यादीनि प्रथमं तस्या न नष्टानीति भावः । आसादितेति ततश् च जीवत्मना तस्या देहे पुनः प्रविष्टम् इवेति भावः । उत्पन्नेति ततो वुद्ध्यापि, परिवर्तितेति तत एवेन्द्रियैर् अपीति, तनय-मुखम् इति तत एव दर्शनं समभवद् इति भावः । सारेण श्रेष्ठेन ॥१३॥

अपरतश्च सर्व एव गोदुहो महाटङ्करिव गिरिवरपाषाणाअ कुठारैः पूतनावयवान् खण्डशः कृत्वा नयनयोरपरिचितां चितां विधाय पुरुभिरिन्धनैरिन्धनैकाभ्रंलिहेन पुरुतरशिखावता शिखावता दीपयाञ्चक्रुः ॥१४॥

टङ्केः टाङ्कीति ख्यातैः, टङ्कः पाषाणदारणः इत्य् अमरः । अपरिचिताम् अविषयां दूरे इत्य् अर्थः । इन्धनैः काष्ठेः, शिखावता वह्निना—शिखवान् आशुशुफणिः इत्य् अमरः । कीदृशेन ? पुरुतर-शिखावता बहुतरज्वाला-युक्तेन, अतएव इन्धनेन दीप्त्या एवं मुख्यम् अभ्रं दूरगत-मेघम् अपि लेधि व्याप्नोतीति तेन दीपयाञ्चक्रुर्ज्ज्वालितवन्तः ॥१४॥

भगवदुपभुक्ततया तच्चिताधूमस्तु कालागुरुधूपधूम इव गगनतलमारुह्योपरितन-सप्तभुवनजनघ्राणतर्पणो बभूव ॥१५॥

उपरितनानां सप्त-भुवनानां भुवः-स्वर् महर् जनस्तपः-सत्य-वैकुण्थानां ये जनास् तेषां घ्राण-तृप्तिकारी ॥१५॥

किं बहुना? यदुत्पन्ना धूमयोनयोऽपि यानि यानि सलिलानि वेमुस्तैरपि भूरपि सौगन्ध्यवती समपद्यतेत्यहो कि वक्तव्यं भगवतः कारुण्यम्, यदियं विषमविषमयपयःप्रदानार्थं गृहीतजननीवेशाभासापि जननीलोकमासादिता ॥१६॥

धूमा-योनयो मेघा वेमुर्ववृषुर् इति यावत् । अत्र वमेर् दन्तौष्ट्यवकारादित्वेऽपि वेमतुर् ववमतुरित्युभयस्यापि भागवृत्तौ दृष्टात्वात् । तथैव कवि-कल्पद्रुमेऽपि फणादि-मध्य-पटितत्वात् न शशददरादिगुणानाम् इत्यादि-प्रतिषेधः प्रायिकाः ॥१६॥

एवं सति दूरतो मथुरातः प्रतिनिवर्तमाने व्रजपुरपुरन्दरे तदनुवर्तिनो धूमलेखामवलोक्य सन्दिहानाः स्वामिनमूचुः—“व्रजराज! किमयं द्योदेव्या आप्रपदीनो धूमलनिचोलः पवनेन व्याधूयते, किममूर्वा मूर्वाच्छवयो धरणितलमाच्छिद्य रसातलत एव महाहिमण्डलीफणमणिविशेषभासो विश्रमेव जगदण्डभाण्डविवरं पिदधति, किंवा, दिक्करिण एव परस्परं युध्यमाना इतस्ततो धावन्ति, किंवा, जलधरा एव भुवि निपत्य पुनरुद्गच्छन्तो मलिनयन्ति दिशां मुखानि, किंवा, धरणिरेव रजोभावमासाद्य दिवमारोहति, किंवा, अकालसन्तमसान्येतानि” इति ॥१७॥

द्यौर् एव देवी तस्या नीलः प्रच्छदपटः, आप्रपदं व्याप्नोतीति ख-प्रत्ययः । पृथिवीतस् तद् उद्गमं सम्भाव्य पुनः संशयाना आहुः । मुर्वा तृण-विशेषस् तत् तुल्यदीप्तयः । विश्वम् एव सर्वम् एव पिदधति आच्छादयन्ति पुनर् अतितस्तो वृहत् तरान् धूम-खण्डानालोक्याहुः—दिक्करिण इति । पुनर् इति नैविड्ये-नैकीभूयोद्गच्छतो मूल-धूमान् अवलोक्याहुः—जलधरा मेघाः, पुनस् तत्रत्यं भूतलं धूमेनाच्छन्नम् आलोक्याहुः—किंवा धरणिरेवेति । ततश् च इतस्ततः सर्वम् एव व्याप्तम् उपक्रामन्तं धूम-सहूहम् आलोखाहुः—अकालेति । विश्वक्सन्तमसं तमः इत्य् अमरः ॥१७॥

कियदासन्नतया विभक्ताकृतित्वेन “अहो! धूमलेखैवेयम्” इति यदा निश्चिक्युस्तदैव तत्सौरभेण पुनर्जातसन्देहाः “कथमकस्मादेवैतावानगुरुधूपधूमः, किंवा, पृथिव्या निजगुणो गन्ध एव धूमाकारतामासाद्य स्वात्मना नभसः शब्दगुणजिगीषया विश्वमेव व्याश्नुते” इति वितर्कयत्सु तेषु व्रजराजेऽपि “किमिदं किमिदम्” इति शङ्कमाने त्वरितमुपव्रजद्भिर्व्रजस्थैः कथिते सकल एव वृत्तान्ते वृत्तान्ते च पूतनाख्ये बालग्रहे, कुमारानामयरसमय-विवरणसमावेशपेशलतया त्वरितमेवोपगम्य कृतनये तनयेक्षणक्षणपरवशे रवशेष-विरतौ सुतमङ्कमारोपयति रोपयति च परमानन्दबीजानि हृदये मूर्धानमा जिघ्रति, मनस्यमानिव प्रमोदभरो हर्षाश्रुभरमिषेण नयनाभ्यामुत्ससर्पेव ॥१८॥

निश्चिक्युर्निशितवन्तः, व्याश्नुते व्याप्नोति । वृत्तो निर्व्यूढोऽन्तो नाशो यस्य तथा-भूते बाल-ग्रहे कतिते सति सकल एव वृत्तान्ते कथिते इत्य् आनेनैव पूतनागमन-नाश पर्यन्तकथनस्यापि सिद्धत्वात्, वृत्तान्ते च पूतनाख्ये इति पुनः कथनं पूतना-स्तन-पानादि-कथाश्रवणे व्रजराजस्य मूर्च्छारम्भम् आलोख्य कथामन्तरान्तरा सा तु पूतना मृतैव मृतैव, तव पुत्रस् तु मातुर् अङ्के सम्प्रति खेलन्न् एव वर्तते, किम् इति क्लाम्यसि इति सान्त्वनार्थम् । कुमारस्य अनामय-रसमय-विवरणम् आरोग्य-निमित्तकर-समय-गोमूत्र-स्नपनादिस्वस्त्ययन-विवृतिस् तत्र समावेशे पेशलतया चतुरतया त्वरितं निकटम् आगत्य कृतो नयो येन तथा-भूते श्री-व्रजराजे तनयस्य ईक्षणेन क्षण उत्सवस्तत्परवशे, रवाणाम् आनन्द-कोलाहलानां शेषस्य विरतौ सत्यां सुतां क्रोडम् आरोपयति आरोहयति सति परमानन्दानां वीजानि हृदये क्षेत्र-रूपे मनसि रोपयति सति । अत्र सुतस्य यद् अङ्कारोपणं तत् परमानन्द-वीजानां हृत्क्षेत्रे रोपणम् इवेत्युत्प्रेक्षा । हृदये आनन्द-वीजानां रोपणेन सह सुतस्याङ्का-रोपणम् इति सहोक्तिर् वा व्यङ्ग्या । एवम्भूते व्रजराजे प्रमोदभरो मनसि अमानिव अतिवृद्ध्यावकाशम् अप्राप्नुवन्निव हर्षाश्रुभरच्छलेन हर्षाश्रुभरास् ते न भवन्ति, किन्तु प्रमोदभर एव नेत्राभ्याम् उत्ससर्पेव उच्छलितवान् इवेत्य् अफ्नुतिः । अतानन्द-वीजानां हृत्क्षेत्रे तदानीम् एव रोपणम्, तदानीम् एव प्रमोद-भर-वृक्ष-रूपेणाति-वृद्ध्या तत्रावकाशाभावेन बहिःप्रसरणम् इति समुच्चयालङ्कारस्य व्यञ्जिके सहोक्त्यपह्नुती इति ॥१८॥

इत्यानन्दवृन्दावने पूतनावधलीलालताविस्तारे

तृतीयः स्तवकः ॥३॥


  1. अत्रोत्प्रेक्ष्यते [घ] ↩︎