द्वितीयः स्तवकः
अथ तयोः पित्रोस्तथाविधसौभाग्यमेधयितुं राजन्यापदेशसुरेतरयूथपायुतनिर्भर-भर-भज्यमान-वपुषो धरणिदेव्याः परमभीलमाभीलमालोक्य परिदूनेन परमेष्ठिना निवेदितक्षीरोदशायिविज्ञापितमात्मानञ्च लौकिकलीलया रसयितुमवतितीर्षुरवनितलेऽपि भगवान् श्रीकृष्णः सकलमुक्त-प्रकारमाविर्भावयामास ॥१॥
तयोर् नन्द-यशोदयोः, एधयितुं वर्धयितुम् इत्येको हेतुः, आत्मानं च श्ङ्गारादि-रसै रसयितुम् इति द्वितीयः । नन्वेतद्धेतु-द्वयम् अप्रकट-लीलायां योगमाया-कल्पित-प्रपञ्चान्तर्वर्तिषु श्री-गोकुल-प्रकाशेषु वर्तत एवेत्यत आह—अवनितलेऽपीति । मायिक-प्रपञ्चान्तर्वति-भूर्लोकेऽपि । अत्र त्वसाधारणन्तु हेतुत्रयम् [९म-श्लो] आत्मारामान्मुधौरचरितैः इत्यादिना वक्ष्यते । कीदृशमात्मानम् ? धरणिदेव्या आभीलं कष्टम् आलोक्य परिदूनेन परमेष्ठिना ब्रह्मणा तत्राणार्थं निवेदितो यः क्षीरोदशायी पालन-कर्ता विष्नुस् तेन विज्ञापितम् अवतारार्थम् इत्य् अर्थः । आभीलं कीदृशम् ? परमां भियं लाति ददातीति तत्, स्यात् कष्टं कृश्छृमाभीलम् इत्य् अमरः, उक्त-प्रकारं पितृ-मातृ-बन्धु-कुलम् ॥१॥
विशेषतस्तूक्तप्रकाराणां नित्यसिद्धानां गोपदुहितृणां लोकमध्याविर्भावसमये सममेव तत्कामकामिताः श्रुतयो मुनयश्च दण्डकारण्यवासिनः सीतासखस्य दाशरथेविलासमालोक्य तथाजातमनोरथास्तत्तत्साधनैः सिद्धदशामापद्यमानास्तत्तत्सौभाग्यभाजनं वपुरासाद्य उक्तप्रकाराणां द्वितीयगोपमिथुनानां भवने प्रादुरभूवन् ॥२॥
विशेषत इति उक्त-प्रकाराद् अप्रकट-लीलागतादयन्तु विशेष इत्य् अर्थः । नित्य-सिद्धानां श्री-राधा-चन्द्रावल्यादीनां तासां कामे अभिलाषे कामितं कामना यासां ताः, समम् एव सहैव, श्रुतयो वृहद्वामनादिषु प्रसिद्धाः, तथा तेनैव प्रकारेण स्वेष्टदेव-श्री-मदन-गोपाले जातो मनोरथो येषां ते ॥२॥
योगमाया च भगवती भगवतो निरुपमा शक्तिरशेषविशेषदुर्घटघटनापटीयस्त्वमुररीकृत्य भगवत्प्रेषितैव तत्रालक्ष्यविग्रहैवावततार ॥३॥
तत्र गोकुले यशोदायाम् इत्य् अर्थः । वसुदेवेन ततो देवक्यास् ततः कंसादिभिश् चालक्ष्य-विग्रहत्वं तस्या अंशभूताया एव तत् तल् लीला-सिद्ध्यर्थम्, पूर्णतमा तु गोकुलाद् अन्यत्र क्वापि न गच्छति पूर्णतमः श्री-कृष्ण एवेति सिद्धान्तः ॥३॥
तत्र तावद्बृहद्वन एव भगवदवतारतः प्रागेव श्रीनन्दादयोऽवतीर्णाः, भगवदवतारानन्तरं भगवतः सखायः प्रेयस्यश्च नित्यसिद्धाः, अनन्तरं द्विविधा अप्यन्या इति ॥४॥
वृहद् वन एवेति तदानीं केशिभयेन नन्दीश्वरे तत्-पित्रा पर्जन्येन स्थातुम् अशक्यत्वात् । अन्याः साधन-सिद्धा द्विविधाः—श्रुतिर्चर्यो मुनिचर्योऽपि । अवतीर्णा इति पूर्वेणान्वयः ॥४॥
एवमासन्ने भगवदवतारसमये चिरसमयसमुपसीदद्दयिता दयिता इव हर्षभरपृथ्वी पृथ्वी, भगवदुपासकमनांसीव सुप्रसन्नानि मोदितभुवनानि भुवनानि, पाञ्चजन्य इव दक्षिणावर्तः समुज्ज्वलनो ज्वलनोऽपि, भगवज्जनाङ्गसङ्ग इव शीतलस्निग्धमधुरो जगत्पवनः पवनः, भगवद्भक्तहृदयमिव नैर्मल्यपुष्करं पुष्करम्, हरिभजनजनजननानीव सदा सुफलानि निराकुलानि कुलानि विटपिनाम्, विबुधद्रुहामायुष इवापलितानि पलितानि, फलोन्मुखानीव दिविषदामाशालतानिकुरम्बाणि कुरम्बाणि, हरितो लब्धप्रसादा हरितो लब्धप्रसादा मनोवृत्तय इव भागवतानाम्, मन्त्रौषधिमणिभिरपहृतानीव धरण्याः किल्विषाणि विषाणि,
प्राणिनामेव दुःखानि प्रशमितानि, शमितानि च भुवनजनमनांसि, प्रवर्तितमिव जनानामङ्गालतामङ्गलतारुण्येन, उल्लसितमिव सकलगुणसभाजनेन सभाजनेन, फलितमिव सकलभुवनजनानां सुकृतेन सुकृतेन, उन्मीलितानीव चक्षुष्मतां चक्षुषामशातानि शातानि ॥५॥
तत्र सर्वेषां तत्त्ववस्तूनाम् उपलक्षणत्वेन प्रथमं पञ्चानाम् अपि भूतानां हर्षेण तात्कालिक-वैलक्षण्यम् आह—चिरसमयेभ्यो बहुकालानन्तरं समुपसीदन् सम्यक् समीपम् आगच्छन् दयितः कान्तो यस्याः सा, दयिता इव हर्षभरेण पृथ्वी विपुला विसङ्कटं पृतु वृहत् इत्य् अमरः, मोदित-भुवनानि [===मिस्तेक्च्======] पुष्टम् इत्य् अर्थः,यमकारवोधेन रलयोर् ऐक्यम्, पुष्करमाकाशम्, हरिं भजन्ते इति हरि-भजना जनास् तेषां जननानि जन्मनि, विवुध-रुहाम् असुराणाम् आयुषः पलितानि जराविकृतानि आपलितानीव आगतानीवेति सम्भावना, तेषाम् आसन्न-मरण-लक्षण-दर्शनात्, पल-गतौ धातुः, पलितं जरसा शौक्ल्यं केशादौ इत्य् अमरः, कुरम्बाणि कौ पृथिव्यां लम्बमानानि, रविलवीत्यादिगत्यर्थाः, हरितो दिशो लव्ध-प्रसादाः प्राप्त-प्रकाशाः, हरितो हरिं प्राप्य, किल्विषाणि पापिष्ठासुर-समूह-भर-रूपाणि विषाणि । तद् एव विशिष्य विवृणोति—प्राणिनाम् इति । शमितानि शं कल्याणम् इतानि प्राप्तानि, अङ्गलतायां मङ्गलस्य यत्तारुण्यं तेन प्रवर्तितम् इवेति कर्म-विशेषानुक्तेरङ्ग-निष्ठं रूप-गुण-चेष्टादिकं कर्मसामान्यम् एव ज्ञेयम् । तच् च वृत्तम् अपि प्रकर्षेण वर्तितम् इत्य् अर्थः । सकलैर् गुणैः सभाजनं स्तुतिर् यस्य तथाभूतेन सता, सुकृतेन सुष्ठु कृतेन, सुकृतेन पुण्येन, चक्षुषां शातानि सुखानि अशातानि अदुर्वलानि, शो-तनुकरणे इत्यस्य रूपम्, शातं शितं च दुर्वले इति मेदिनी ॥५॥
एवं परिपूर्णमङ्गलगुणतया दूषणद्वापरान्ते द्वापरान्ते निरन्तरालभाद्रपदे भाद्रपदे मासि मासिते पक्षेऽपक्षेपरहिते हिते रसमये समये गुणगणारोहिणीं रोहिणीं सरति सुधाकरे सुधाकरे योगे, योगेश्वरेश्वरो मध्ये क्षणदायाः क्षणदायाः पूर्णानन्दतया जीववज्जननीजठरसम्बन्धाभावाद्बन्धाभावाच्च केवलं विलसत्करुणयारुणया तथाविधलीलालीलासिकया कयाचन पुरन्दरदिगङ्गनोत्सङ्ग इव रजनीकरः स्वप्रकाशतया प्रादुर्भावमेव भावयन्, अग्रे पूर्वपूर्वजनि-जनिततपःसौभाग्यफलेनोपलब्धपितृ-मातृ-भावयोः श्रीवसुदेव-देवक्योर्वासुदेवस्वरूपेणाविर्भावं भावयित्वा स्तनन्धयत्वाभिमानमेव क्षणं तयोः प्रकटय्य पश्चान्नित्यसिद्ध-पितृ-मातृ-भावयोः श्रीनन्द-यशोदयोरपि श्रीगोविन्दस्वरूपेण स्वरूपेण तनयतामाससाद ॥६॥
दूषणस्य द्वापरः सन्देहस् तस्यापि अन्तो नाशो यत्र तथा-भूते द्वापर-युगस्यान्ते, निरन्तरालस्य निविडस्य, भाद्रस्य भद्र-समूहस्य पदे आश्रये, समूहार्थे भिक्षादित्वादण्, मासिते असिते पषे, गुण-गणम् आरोढुं शीलं यस्यास् तां सरति प्राप्नुवति सति सुधाकरे आयुष्मति येगे, क्षणदाया रात्रेः, काष्णदाया उत्सवदायिन्यः, विलसन्ती या करुणा तयिअव हेतुभूतयेत्य् अर्थः, अरुणया अरुण-वर्णया सर्वजीवं प्रति अनुरागवत्येत्य् अर्थः । कीदृश्या ? तथाविधानां लीला-नामाली श्रेणी तस्या लासिकया प्रकाशिकया, यद् वा, तथाविधा करूणाव्यञ्जनमयी लीलैव आली सखी तस्या लासिकया नर्तक्या कयाचन अनिर्वनीयया भावयन्, कुर्वन्, करोत्य् अर्थस्य यः कर्ता भवतेः सप्रयोजकः इति स्मृतेः । तथा-कथनं प्रादुर्भावादयो लीलाश् चिन्मयाः स्वतन्त्रा एव वर्तन्ते, लोके तासां प्रकटनेन स्वस्य प्रयोजकतामात्रम् इति ज्ञापनार्थम्, अग्रे प्रथमम्,[===मिस्तेक्च्===] तदायं सुतपा नाम इत्यादि तादृश-भक्ति-प्रचारार्थं तदा तदा अवतरतः साधक-रूपान् तत् तद् अंशान् एव तत्त्वेन निर्दिशतो भगवतो वचनाद् एव, वस्तु-तस्तु नित्य-सिद्धयोर् एव तयोस् तत् तद् अंश-प्रवेश एव साधन-सिद्धत्व-ख्यापकः । तदानीं भगवता तथोक्तिष्तु तयोर् भक्ति-वृद्ध्यर्थम् ऐश्वर्य-भाव-पोषाद् एव । द्रोण-धरांशिनोर् नन्द-यशोदयोर् अपि तथा-भूतत्वेऽपि नित्य-सिद्ध-पितृ-मातृ-भावयोर् इत्य् उक्तिस् तदानीं तथात्वेन केनापि तयोर् अज्ञापितत्वाद्वादरायणिनैव [भा पु १०-८-४८] द्रोणो वसूनां प्रवरः इत्यादिना परीक्षिते प्रोक्तत्वाद् इति स्वरूपेण स्वेनैव पूर्णतमेन रूपेण लीला-पुरुषोत्तमाख्येनेत्य् अर्थः । [सङ्क्षेप-] श्री-भागवतामृतेऽप्येवम् एवोक्तम् [१-७३३-७३५] ब्यूहः प्रादुर्भवेदाद्यो गृहष्वानकदुन्दुभेः इत्यादिना, एतच्चातिर् अहस्यत्वान्नोक्तं तत्र कथान्तरे इत्य् अन्तेन1 ॥६॥
तदनु कंसभिया वसुदेवानीत-वासुदेव-स्वरूपेण सहैक्यं गते सति तत्र शङ्ख-चक्रादीन्यङ्करूपेण करचरणयोरेव स्थितानि कौस्तुभ-वेणु-बनमालाः सहावतीर्णा अपि समयं प्रतीक्षमाणा अलक्ष्यतयैव स्थिताः ॥७॥
तत्र गोविन्दे स्थितानीति तद् अङ्कैः सहैक्यङ्गतानीत्यर्थः । शङ्ख-चक्रादीनीति गदायाः करतल एव स्थितिर् ज्ञेया ॥७॥
तत्र च पूर्वमेव नृशंस-कंसभिया देवकीतरभार्याकिदम्बस्य स्थानान्तरप्रापणविधौ वसुदेवेन प्रियसखस्य श्रीव्रजराजस्य भवन एव प्रापितायां श्रीरोहिणीदेव्यां देवक्याः सप्तमे गर्भे भगवतो धामविशेषे श्रीसङ्कर्षणे भगवदिच्छयैव भगवत्या योगमायया तद्गर्भं प्रापिते सति समये सापि तत्रैव भगवदवतारात् प्रागेव तमजीजनत् ॥८॥
सापि रोहिणीदेव्य् अपि, तत्रैव व्रजराजस्य भवन एवं तं सङ्कर्षणम् अजीजनत् जनयामास ॥८॥
अथ—
आत्मारामान्मधुरचरितैर्भक्तियोगे विधास्यम् **नानालीलारस-रचनया नन्दयिष्यन् स्वभक्तान् । ** दैत्यानीकैर्भुवमतिभरां वीतभारां करिष्यन् मूर्तानन्दो व्रजपतिगृहे जातवत् प्रादुरासीत् ॥९॥
प्रदुर्भावे यथा-पूर्वं श्रैष्ठ्येन कारण-त्रयम् आह—आत्मारामान् इति । [भा पु १-८-२०] तथा परम-हंसानां मुनीनाम् अमलात्मनाम् । भक्ति-योग-विधानार्थम् इत्यादिभ्यः । वीतभारां गतभाराम्, जातवत् प्राकृतो वालो यथा जातस् तद्वत् ॥९॥
आविर्भूतिभूतिसमकालमेव योगमायामायासराहित्येनैव सम्पादयन्मणिभित्तिभित्तिमिततनुच्छायाच्छायामिषेण सच्चिदानन्दगुणनिकायकायव्यूहमिव विदधानः कुसुमसुषमाभर-पराजितापराजितावल्लिमण्डपमिव परमरमणीयतासूति सूतिकासदनं सदनन्दयत् ॥१०॥
सत् सुन्दरं सूतिकासदन-मनन्दयत्, कदा ? आविर्भूतेर् आविर्भावस्य या भूतिर् उत्पत्तिः, यद् वा आविर्भूति-रूपा या भूति सम्पत्तिस् तस्याः समकालम् एव, योगमायां रास-महिषी-विहारादिषु मूल-ग्रन्थोक्तानुवादरीत्या युगपद् एकसैव कायस्य पृथक् पृथग्-बहुविध-प्रकाश-प्रकाशिकां स्वरूप-भूता-चिन्त्याद्भुत-शक्तिमायासाराहित्येनैव सम्पादयन् तां शक्तिमनालम्ब्यैव तत्-कार्यम् इव प्रकटयन् नित्य् उत्प्रेक्षैवेयम्, न तु तदैवेति तत्र तत्-कार्येषु विम्ब-प्रतिविम्बत्वायोगात् मणि-भित्तीनां भिदो भेदाः, सम्पदादित्वात् क्विप्, तासु तिमिताः स्निग्द्धा यास् तनुच्छाया एकस्यैव देहस्य प्रतिविम्बास् तासां छाया शोभा तन्मिषेण, प्रतिविम्बास् ते न भवन्ति, किन्तु देहा एवेत्य् अपह्नुता इत्य् अर्थः । सच्चिदानन्द-गुणानां निकायो येषु एवम्भूतानां कायानां ब्यूहं समूहम् इव, ततश् च सूतिकासदनं कथम्-भूतम् इव ? कुसुमानां शोभाभरेण पराजितं पराक्रान्तं यद् अपराजिता-लता-मण्डपं तद् इव, अतएव रमनीयतायाः सूतिर् उत्पत्तिर् यस्मिन् तत् ॥१०॥
ततश्च—
अनाघ्रातं भृङ्गैरनपहृत-सौगन्ध्यमनिलैर् **अनुत्पन्नं नीरेष्वनुपहतमून्मीकणभरैः । ** **अदृष्टं केनापि क्वचन च चिदानन्दसरसो ** यशोदायाः क्रोडे कुवलयमिवौजस्तदभवत् ॥
उक्त-लक्ष्णो मूर्तानन्द एव ओजस् तेज्ः-स्वरूपं तत् यशोदायाः क्रोडे कुवलयम् इवाभूदित्य् अन्वयः । अत्र तदादि-शब्धानां क्वचिद् उद्देश्य-लिङ्गत्वं क्वचिद् विधेय-लिङ्गत्वं च भवेत् । यथा शरीर-साधनापेक्षं नित्यं यत् कर्म तद्यमः, नियमस् तु स यत् कर्मानित्यम् आगन्तुकसाधनम् इति । अतएवात्र तच्छब्दो विधेयस्योजसो लिङ्गं धत्ते इति । भृङ्गैर् अनाघ्रातं पूर्व-पूर्व-भक्तैर् नारायणादि-रूपम् एवास्वादितम् इत्य् अर्थः । अनिलैर् इति पूर्व पूर्वमहा-कवीश्वरैर् नारायादि-यश एव वर्णनैर् विस्तारितम् इत्य् अर्थः । नीरेष्वितिप्रपञ्च-गत-गुण-तरङ्गैर् अस्पृष्टम्, क्वचन वैकुण्ठादावपि केनापि जन्म-मात्रेणैव, श्लेषेण ब्रह्मणाप्त्य् अदृष्टम्, किंवा, तन्माधुर्यादेः प्रतिक्षणम् एव नव-नव-स्वभाववत्त्वात् तस्याप्यनुरागि-भक्ताद्यैर् अपि अनाघ्रातत्वादिकम् इव भवति सदैव, किमुत साक्षात् तदवतारारम्भे एवेति तथोक्तम् । यद् वा, तदानीं लोकैर् अनुभवेन तथैव प्रतीतत्वात् तथा वर्णितम् इति ॥
**निद्राणे सति सूतिकापरिजने मात्रा समं सर्वतः ** **सद्यो-जातशिशुस्वभावसरसं चक्रन्द बालो हरिः । ** ओङ्कारः किमिवातनोद्भगवतः कण्ठोपकण्ठं गतः तल्लीलोत्सवकर्मणोऽस्य महतः प्राङ्मङ्गलद्योतनाम् ॥११॥
सद्योजात-शिशूनां स्वभावेन सरसं यथा स्यात् तथा चक्रन्द । ओङ्कारस्यैव नासास्वर-विशेषेण पुनः-पुनर् उच्चारितस्य तत्-क्रन्दन-साजत्यात् तथोत्प्रेक्षते । ओङ्कारः कण्ठस्योपकण्ठं समीपं गतः सन् प्राक् प्रथमारम्भे मङ्गलद्योतनां किम् अतनोत् ? यद् उक्तम्—ओङ्कारश् चाथ-शब्दश् च द्वावतौ ब्रह्मणः पुरा । कण्थ्ं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ ॥इति ॥११॥
अथ तस्य कलरोदनस्वनमाकर्ण्य तत्कालजागरिता व्रजपुरपुरन्ध्र्यः, अभ्यक्तमिव सुरभितमस्नेहेन, उद्वर्तितमिव सौरभ्येन, स्नातमिव माधुर्येण, मार्जितमिव लावण्येन, अनुलिप्तमिव सौन्दर्येण, भूषितमिव त्रैलोक्यलक्ष्म्या, पूजितमिव भवनदेव्या गन्धफलीभिरिव
सूतिप्रदीप-कलिकाप्रतिच्छायाभिः, स्तोकानामप्यवयवकिसलयानामोजसा कुर्वन्तमिव कुवलयकलिकायमानानि सूतिप्रदीप-निकुरम्बाणि, अङ्कुरमिव नवनीलमणीन्द्रस्य, पल्लवमिव तमालस्य, कन्दलमिव नवाम्भोदस्य, कस्तूरिका-तिलकमिव त्रैलोक्यलक्ष्म्याः, सिद्धाञ्जनमिव सौभाग्यसम्पदः, सरसीकुर्वन्तमरिष्टमपि सकलारिष्टशमनम्, बालकमपि नवालकम्, मृदुमधुरतरकरशाखाभिर्भगवल्लक्षणानि मत्स्याङ्कुशादि-लक्ष्माणि गोपयितुमिव मुष्टीकृतकरकमलकोरकमुत्तानशायिनं मुकुलिताक्षमैक्षिषत ॥१२॥
ऐक्षियत दृष्टवत्यः, तत्कालोचितम् अभ्यङ्गोद्वर्तनादिकं तस्य स्वत एव सिद्धम् इत्य् उत्प्र्क्षते । सुरभितमेन निरुपाधिना स्नेहेन वात्सल्य-रतिपरिणाम् अविशेषेण वस्तु-प्रभावतो हठाज् जनितेनेत्य् अर्थः । अन्योऽभ्यङ्गस् तु स्नेहाश्रयतैलादिनैव भवतीति ततोऽस्य वैलक्षण्यम् अपि द्वनितम् । एवम् अग्रेऽपि ज्ञेयम् । सौरभ्येण स्वतः-सिद्ध-स्वाङ्ग-सम्बन्धिना, उद्वर्तनन्तु कस्तूर्यादि-गन्धवद्-वस्तु-घटितम् एव भवति । माधुर्यस्यापाद-मस्तक-व्यापित्वात्तेन स्नातम् इव, स्नानन्तु माधुर्यवतैव जलादिना भवति । किं च, तत् स्नानं हि तात्कालिकीं काम् अपि सर्वाङ्गस्य शोभां जनयति, एतन्माधुर्यन्तु सार्वकालिकम् इति सर्वाङ्गस्य शोभां जनयति, एतन्माधुर्यन्तु सार्वकालिकम् इति ध्वनितम्2 । यद् उक्तम् उज्ज्वल-नील-मणौ [उद्दीपन-विभाव-प्र ३६] रूपं किम् अप्य् अनिर्वाच्यं तनोर् माधुर्यम् उच्यते ॥ लावण्येनेति, तल् लक्षणं तत्रैव [उद्दीपन-विभाव-प्र २८] मुखाफलेषु छायायास् तरलत्वम् इवान्तरा । प्रतिभाति यद् अङ्गेषु लावण्यं तद् इहोच्यते ॥ इति । अन्यत्र मार्जनाद् एव दर्पणायमानत्वकारि-लक्षणकं लावण्यं कस्यापि स्वच्छाङ्गस्यैव जायते । अत्र तुस्वयं लावण्येनैव मार्जनम् इत्य् अतिवैशिष्ट्यम्, अनुलेपस्तु उचिताङ्ग-विन्यस् तैः सौन्दर्य-जनकैर् एव कुङ्कुमादिभिर् भवति । भूषितमिति त्रैलोक्यस्यापि लक्ष्म्या समुदित-शोभयैव भूषणन्तु यत्-किञ्चित् लक्ष्मीवद्भिर् एव कुण्डलादिभिर् भवति । भवनदेव्या गृहाधिष्ठात्र्या देवतया, गन्ध-फलीभिश् चम्पकैः, कुवलयं नीलोत्पलम्, तत्-कलिका-सदृशानि, एतेनाभिरूप्यमुक्तम् । तथा च तल् लक्षणम्, तत्-कलिका-सदृशानि, एतेनाभिरूप्यम् उक्तम् । तथा च तल् लक्षणम्—[उ नी उद्दीपन-विभाव-प्र ३३] यदात्मीय-गुणोत्कर्षैर् वस्त्वन्यन्निकटस्थितम् । सारूप्यं नयति प्राज्ञैर् आभिरूप्यं तद् उच्यते ॥इति । श्री-मूर्ति-निष्ठान् गुणान् अभिव्यज्य साक्षात् श्री-मूर्ति-स्वरूपं वर्णयति—अङ्कुरम् इति, स्वच्छत्वेन स्तोकत्वेन च पल्लवम् इति, मृदुलत्वेन कन्दलम् इति । अतिस्निग्धत्वेन कस्तूरी-तिलकम् इति, सौरभवत्त्वेन सर्वोत्कृष्टत्वेन च सिद्धाञ्जनम् इति, चैक्वण्येन सर्वाकर्षण-शक्तिमत्त्वेन चोपमा । अरिष्टम् अपि सूतिका-गृहम् अपि सकलान्यरिष्टानि शमयतीति तथा तम्, अरिष्टं सूतिकागारे चक्रे चिह्ने शुभेऽशुभे इति विश्वः, नवा अलकाश् चूर्ण-कुन्तला यस्य तम् ॥१२॥
अनन्तरमासामेव हर्षनिःस्वनेन जागरिता जननी च—
ज्ञात्वा जातमपत्यमीक्षितुमथ न्यञ्चत्तनुस्तत्तन **अवालोक्य प्रतिबिम्बितां निजतनूमन्येति शङ्काकुला । ** गच्छारादिति तन्निरासनपरा पश्यन्त्यमुष्याननं मुक्ताहारमिवोपढौकितवती स्नेहाश्रुणो बिन्दुभिः ॥१३॥
ईक्षितुं न्यञ्चन्ती तनुर् यस्यास् तथा-भूता सती निजतनूम् एव तत् तनौ बलकतनौ प्रतिविम्बिताम् आलोक्य अन्या इति शङ्कया आकुला मत्प्रसवकाले मायया मदाकारधारिणी बालक-हारिका योगिनी काचिद् अत्र प्रविष्टा इति त्रासेन् विह्वलेत्य् अर्थः । ततश् च आराद्-दूरे गच्छ इति तन्निरासनपरा नृसिंहनामस्मृत्या तन्निःसारण-प्रवृत्तेत्य् अर्थः । तदैव भयश्वासोत्थ-स्व-निश्वास-योगवशात् प्रतिविम्बादर्शने सति अमूष्य आननं पश्यन्ती मुक्ताहारम् इवेति निःसीमहर्षावेशेन तं त्रासम् अपि विस्मृतवतीति भावः ॥१३॥
अथ कस्तूरीकर्दममिव, श्यामामृत-महोदधि-मथन-समुद्भिन्न-नवनीतपिण्डमिव, मृगमदरस-मेचकितं पयःफेनशकलमिव, सुकुमारतनुरपि सम्भाव्यमान-निज-तनुपारुष्यभयेन स्वाङ्कमारोपयितुं बिभ्यतीव, क्षणमवनततनुरेव स्नेहस्नुतपयोधरा पयोधराग्रमधरपुटे विन्यस्य पयः पाययामास ॥१४॥
कस्तूरीत्यादित्रयाणाम् एषां सौकुमार्येणोत्तरोत्तरं वैष्ट्ट्यं ज्ञेयम् । तद् अपि कस्तूरीति सौरभ्य-श्यामत्वाभ्यम् अपि कर्दम-शब्दोऽर्धार्चादिः । श्यामामृतेति स्नेहमय-स्वरूपत्वेनापि अभूतोपमेयम् । तत्र श्यामेति तदीय-वर्णसाजात्यार्थम्, अमृतेति तदीय-स्नेहस्याति-मधुरत्वार्थं मृगमदस्य रसेन मेचकितं श्यामलीकृतं दुग्ध-फेन-खण्डम् इवेति पावित्र्येणापि, कालस्यामलमेचकाः इत्य् अमरः । एवं सुकुमार-शरीरापि सा जननी स्व-बालकस्याङ्ग-सौकुमार्यम् आलोक्य तद् अपेक्षया सम्भाव्यमानं यन् निजतनोः पारुष्यं कथोरत्वं तस्माद् भयेन मत्-क्रोडाभिमर्शेन व्यथां प्राप्स्यति बालकोऽयम् इति शङ्कया किञ्चित् कुव्जीभूयावनत-तनुः पयोधराग्रं स्तनाग्रं स्ववाम-हस्तेनैव धृत्वा कृष्णस्याधरपुटे विन्यस्य ॥१४॥
तदनु व्रजपुरपुरन्ध्रीभिरभितः शिक्ष्यमाणा निजाङ्कमारोप्य पुनः पयोधरं पाययन्ती स्नेहावेगेन निराबाधं रीयमाणं मूर्तममृतरसमिव स्तनरसमशेषपानासमर्थतया मृदुलबिम्बाधरप्रान्ततो निपत्य कपोलतलमाप्लावयन्तं तमथ चीनतराञ्चलेन निःसारयन्ती स्तनदानतो विरम्य सादरं सस्नेहं तमालोकयन्ती च परमविस्मयमापन्ना ॥१५॥
सद्योजात-बालक एवम् अङ्के ध्रियते इति हस्त-निधापनादीन् अभितः सर्वतोभावेन शिक्ष्यमाणा जननी निरावाधं निर्व्यवधानं यथा स्यात् तथा रीयमाणं क्षरन्तम्, रीङ् स्रवणे दैवादिकः, तं स्तनरसं चीनतरेणातिसूक्षेणाञ्चलेन ॥१५॥
नीलमणिनेव सकलावयवानाम्, कुरुविन्देनेव बिम्बाधरस्य, कमलरागेणेव पाणिपादस्य, शिखरमणिनेव नखरनिकरस्य निर्माणमिति मत्वा कदाचिन्मणिमयोऽयमिति वा, इन्दीवरेणेव सकलावयवस्य, बन्धूकेनेव बिम्बाधरौष्ठस्य, जपाकुसुमेनेव पाणिपादस्य, मल्लीकोरकेणेव नखरनिकरस्येति कदाचिदयं कुसुममयो वा केनापि निरमायि, “न ममायं तनुजः” इत्यसम्भावनया वितर्कयन्ती, वक्षसि दक्षिणभागे मृणालतन्तुक्षोद-सोदर-सुभग-सुस्निग्ध-श्रीवत्साख्य-रोमराजिलक्ष्म लक्षयित्वा स्तन-रस-कण-निपात-विन्यासविशेषोऽयमिति पुनरपि मृदुतर-चीनसिचयाञ्चलेनापसारयन्ती यदा तन्नापसरति, तदा किमपीदं महापुरुषलक्षणमिति चिन्तयन्ती, पुनरपि वक्षसो वामभागे लक्ष्मरूपां लक्ष्मीमालोक्य तनुतरपीतविहङ्गिकापोतेन कृतावासं तमालपल्लवमेवेदं सहजातयैव विद्युत्कलिकया कलितो जलधराङ्कुर एवायमिति कनकरेखया रञ्जितं निकषपाषाणशकलमेवेदमिति पुनर्निभालयन्ती कदाचिदरुणतरकरचरणपल्लवतया चतुःपञ्चारुण-कमलकोषं यमुनातरङ्गमिव मन्यमाना, सद्यो मकरन्द-सन्दोहातिपानमदातिशयेन भ्रमणासमर्थतया निश्चलं मधुकरनिकरमिव कुटिल-कचकलापम्, प्रतिक्षणनवान्धतमसाङ्कुरानिवालकप्रकरान्, मुकुलितनीलोत्पले इव लोचने, द्रुततरनीलमणिजलमहाबुद्बुदायमानं गण्डयुगलम्, श्याममहोलतिकायाः प्रत्यग्रोन्मिषितपल्लवयुगमिव श्रवणयुगलम्, तिमिरद्रुमाङ्कुरायमाणं नासिकाशिखरम्, तरणितनयातनुबुद्बुदायमानं नासापुटकम्, द्विदलजवाकोरकायमाणमोष्ठाधरम्, परिपक्वस्तोकतर-यमल-जम्बू-फलायमानं चिबुकमपि निरूम्य परिणतमिव मे नयननिर्माणफलमिति मन्यमाना स्नातमिवानन्दजलनिधावियमात्मानं विदाञ्चकार ॥१६॥
शिखरमणिना माणिक्यभेदेन, पक्वदाडिम-वीजाभं माणिक्यं शिखरं विदुः इत्य् अभिधानात् । पुनश् च तद् अङ्गानाम् अतिमार्दवं परामृश्य मणिमयत्वे काठिन्यं प्रसज्जेतेत्य् अन्यथा सम्भावयति—इन्दीवरेणेत्यादिना । मल्लीकोरकस्य जातिभेदात् प्रान्त-रक्तत्वेन नखसाधर्म्यम्, मृणाल-तन्तूनां क्षोदस्य चूर्णस्य सोदरं सदृशं च तत् सुभगञ्चेत्यादि लक्ष्म लक्षयित्वा दृष्ट्वा प्राग्भवं कपोलाप्लाविनं स्तर-रसं स्मरन्ती निश्चिनोति—स्तन-रसेति । तनुतरेणातिसूक्ष्मेण पीत-वर्णेन बिहङ्गिकापोतेन क्षुद्रपक्षि-बालकेन परस्परितश्लेषेण तु बिहङ्गिका वाहुका3 इति प्रसिद्धा तस्याः पोतेन, अतिसूक्ष्मया तयेत्य् अर्थः—लक्ष्मी-चिह्नस्यापि तथाकारत्वात् । अत्र पल्लव-विहङ्गिकयोरौत्पत्तिको न संयोग इत्य् अन्यथोत्प्र्क्षते—सहजातयेति । तत्र कलिकयेति सूक्ष्मत्व-विवक्षया, तद् अपि विद्युतः स्वाभाविकमस्थैर्यम् आशङ्क्य, कनकरेखयेति अत्रापि नित्य-संयोगित्वार्थं सहजातयेत्य् अनुवर्त्यम् । पुनर् इति सामान्यतः प्रथमं सर्वाङ्गम् इत्य् अर्थः । चत्वारो वा पञ्च वा अरुण-कमल-कोषा यत्र तम्, तत्र पञ्च वेति नाभेर् अपि रक्त-कमल-कोषसाम्यमभिप्रेत्येत्यवसीयते । ततो मुखारविन्दं पश्यन्ती तद् अवयवन् क्रमेणोत्प्रेक्षते—सद्य इत्यादिना । प्रतिनवं नवान् नवान् अन्धतमसाङ्कुरान् इव । प्रत्यग्रोन् मिषितम् अभिनव-प्रकाशितम्, प्रत्यग्रोऽभिनवो नव्यः इत्य् अमरः, तिमिरस्याति-निविडत्वेनातिकठिनेन द्रुमेण रूपकम् । ततश् च तस्याङ्कुरतुल्यम् इति श्यामत्व-चिक्कणत्वयोर् अपि लाभः । शिखरम् अग्रदेशः, तत्-पार्श्व-द्वयगतं तादृशवुद्वुद-द्वयं भवति चेत् तदा नासिकायाः सादृश्यम् इत्य् अर्थः । परिणतम् इव परिपाकां प्राप्तम् इव, इयं श्री-यशोदा ॥१६॥
तत्समयसमकालमेव “महाभाग! तव तनयो जातः” इति पुरन्ध्रीजनमुखतश्चिरतरनिदाघ-द्राघिम-परिशुष्यमाणस्य पल्वलस्य विदारविवरं सरसीकृत्य पूरयन्तममृतासारमिव चिरतरतनयवासनाफलप्रतिबन्धपरुषितस्य हृदयस्य परमनिर्वृतिकरं कमपि शब्दमाकर्ण्य सुस्नात इव हर्षवर्षासु, प्रविष्ट इवामृतमहार्णवेष्वालिङ्गित इवानन्दमन्दाकिन्या, तदवलोकनोत्कण्ठासमुत्पत्तेरग्रत एव ब्रह्मानन्दसाक्षात्कार-चमत्कारेण वपुष्मतेव स्वयमुपव्रज्य सूतिभवनं प्रवेशित इव, चिरसमयसमुपचित-सुकृतचयचातुर्येण दत्तहस्तावलम्ब इव, उत्कलिका-भगवत्या पृष्ठतः समधिकं नुन्न इव, त्वरितमभ्यर्णमभ्येत्य बीजमिव घनानन्दस्य, अङ्कुरमिव जगन्मङ्गलमङ्गलोदयस्य, पल्लवमिव सिद्धाञ्जनलतायाः, कुसुममिव चिरतरसमयसमुत्पन्नसुकृतकल्पमहीरुहारामस्य, फलमिव सकलोपनिषत्कल्पलताविततेः, व्रजेश्वरीवपुरपराजितालतायाः प्रसूनमिव तनयमालोक्य, सम्पन्न इव सकलमनोरथसम्पत्त्या, सिद्ध इवानन्दसाक्षात्कारचमत्कारेण, उत्कीर्ण इव लिखित इव पुनः सुप्तोत्थित इव बलमानविपुलकपुलकमानन्दवाष्पकण-निकरनिपातनिस्तिमितामलौकिकीं दशामासाद्य स्थितः, सानन्दैरुपनन्द-सन्नन्दादिभिर्भूसुर-वरेण पुरोधसा कारित-जातकर्मादि-क्रियः स्वतनयाभ्युदयाय दीयमानैः कलधौतकलधौतविषाणखुरैर्मणिमय-माल्यलाल्यमानकण्ठैर्नवप्रसूतैर्गवां निकुरम्बकैरवनिनिर्जराणां प्रतिगृहमेव सुरभिलोकमेकैकमुत्पादयामास, प्रत्यङ्गणमपि तिलपर्वतं हिरण्यपर्वतं मणिपर्वतमपि तेषामेकैकशो निर्मितवान् निमेषमात्रेणैव व्रजराजः ॥१७॥
पुरन्ध्रीजनानां मुखतः कम् अपि शब्दम् आकर्ण्य । क्म् इव ? चिरतरस्य बहुकाल-व्यापकस्य निदाघस्य द्राघिम्णा दीर्घत्वेन हेतुना सर्वतः शुष्यमाणस्य पल्वलस्याल्पसरसोऽमृतासारम् अमृतमयं धारा-सम्पातम् इव । निर्वृतिरानन्दः, सुस्नात इति आपाद-मस्तकं सर्वाङ्गम् एव हर्षपुलकाकुलितं जातम् इति भावः । वर्षास्विति विश्वम् अपि हर्ष-पूर्णं मन्यमान इति भावः । प्रविष्ट इति स्वकर्तृक-प्रवेशोऽपि तादृशानन्दे आलिङ्गित इत्यानन्द-कर्तृक-प्रवेशोऽपि स्वस्मिन्नित्य् उभयान्वयेनानन्द-महा-सम्मर्दजनितां मूर्च्छां प्राप्तावान् इति भावः । मन्दाकिन्या इति तस्यानन्दस्य शुद्ध-सत्त्वात्मकत्वां ध्वनितम्4 । तामेवानन्द-मूर्च्छां सर्वेन्द्रियलय-साधर्म्येणोत्प्रेक्षते—ब्रह्मानन्देति । वपुष्मता मूर्तिमता, तदा सूतिका-गृह-प्रवेशोऽसम्भवन्न् अपि तया आनन्द-मूर्च्छयैव स्वकारणतद्वार्ताश्रवणानन्द-संस्कार-विशेषवशात् कारित इत्य् अर्थः । ननु स्खलनम् अपि तदा कुतो नाभूत् ? तत्रा—चिरसमयेति । सुकृतचयस्य चातुर्यमन्यतो वैलक्षण्येन स्व-प्रकाशकारित्वम्, तेन कर्त्रा स्वयन्दत्तो हस्तावलम्बो यस्य सः, इत्य् अग्रत आकर्षणं पृष्ठतो नुन्न इतिस्व-हस्ताभ्यां पृष्ठं धृत्वा वलेन चालित इव इत्य् अर्थः, उत्कण्थोत्कलिके समे इत्य् अमरः, उत्कण्थासमुत्पत्तेर् अग्रत एव मूच्छाया जातत्वेऽपि तस्याः पश्चाद् उत्कण्थायाः प्राकट्यं पूर्वोक्त-हेतोर् अवेत्य् अर्थः । उत्कण्थयैव वृद्धिं गच्छन्त्या मूर्च्छाया भङ्गे कृते सति अभ्यर्णं निकटम् अभ्येत्य तनयम् आलोक्य अलौकिकीं दशामासाद्य स्थितः । कीदृशम् ? व्रजेश्वरीवपुर् एव अपराजिता लता तस्याः कुसुमम् इव तथा घनानन्दस्य वीजम् इवेति । एतस्माद् एव सर्वोऽप्यनन्दो जायत इति भावः । यद् वा, तस्य तदानीम् एव निःसीमानन्ददायित्वेऽपि अग्रे भाविवाल्य-पौगण्डादि-विलासमयं घनानन्दम् अपेक्ष्य वीजम् इव, तत्-सूचकत्वाद् इत्य् अर्थः । जगतां मङ्गलस्य मङ्गलेन स्वस्तिमत्त्वेन, न त्वल्पकाल-मात्र-नश्वरत्वेन य उदयस् तस्याङ्कुरम् इवेति वीजम् इव पूर्वं गर्भस्थस्यैव तस्य तद्वीजायित्व-सिद्धेर् इति भावः । सिद्धाञ्जनेति अञ्जनस्य नेत्र-सुखदत्वात् सिद्धत्वे जगद् वशीकारित्वात् कृष्णस्यापि स्व-सौन्दर्येण तथा-भूतत्वात् तल् लतयास्तु दृश्यवस्तुत्वाद् अङ्कुरवीज-दशयोर् वास्तव-निज-वर्णानुपलव्धेः कृष्णस्यापि गर्भस्थिति-चित्त-स्थिति-दशयोर् नयनाननुभूत-तादृश-रूपत्वात् तत्-पल्लवायित्वम् एव युक्तम् इत्य् अर्थः । चिरतरेति चिरतरात् समयात् सम्यग् उत्पन्नानां परिणत्या प्राकट्यम् इव गतानां पुण्य-कल्प-वृक्षाणाम् आरामस्य कुसुमम् इवेति पुण्याणां वाञ्छित-महादुर्लभार्थप्रसवित्वात् कल्प-वृक्षत्वं बहुतरत्वाद् आमत्वं श्री-कृष्णस्य तादृश-पुण्यचय-परफल-भूतत्वात्, वृक्षाणां च फल-प्रयोजनत्वात्, फलस्याप्य् उत्पत्तिदशायां कुसुमत्वात् कृष्णस्य तद् दिनोत्पन्नस्य कुसुमेनोपमा युक्तैव, उपनिषत्-कल्प-लताश्रेण्यस् तु कृष्णस्य प्राकट्यम् अनपेक्ष्यापि नित्य्-विराजमानत्वं प्रतिपादयन्त्यास् तद् एकमात्र-प्रयोजनायाः फलेनैव सदैव कृष्णस्योपमा युक्तैव । एवम् च क्रमेण वीजत्वाङ्कुरत्व-पल्लवत्व-कुसुमत्व-फलत्वानाम् एकस्यैव यौगपधेन वर्णनाद् विरोधालङ्कारः । सम्पन्न इवेति वैषयिकस्य, सिद्ध इवेत्यैश्वरस्यापि सर्व-सुखस्य प्राप्तिर् व्यञ्जिता । उत्कीर्ण इवेति आनन्द-साक्षात्-कारभावेन प्रथमं विक्षिप्त इव, प्रतिपत्तव्यमूढ इवेत्य् अर्थः । ततस् तेनैव जडीकृतो लिखितश् चित्रित इव, ततस् तं वोढुम् अशक्तत्वाद् इव, प्राप्त-मूर्छत्वेन आदौ सुप्त इव, तत उत्थित इवेति । कृष्ण-दर्शन-सुखं पुनर् अनुभावयितुम् इव चेतना-देव्यैव प्रतिवोधितत्वेनेति भावः । बलमानं विपुलात् कात् सुखाद् हेतोः पुलकं यत्र तद्-यथा स्यात् तथा दशामासाद्य स्थितः । बलमानम् इति शानजन्तो बलतिः, सुख-शीर्ष-जलेषु कम् इति विश्वः । निस्तिमितां निःशेषेणार्द्रीभूताम्, कलधौतेन सुवर्णेन, कल-धौतेन रूप्येण च, यथा-सङ्ख्यं युक्तानि निषाणानि शृङ्गाणि खुराश् च येषां तैः, कल-धौतं रूप्यहेम्नोः इत्य् अमरः, यद् वा, कलधौतयोः स्वर्ण-रूप्ययोः करैः किरणैः, रलयोर् ऐक्यात्, क्रमेण धौतानीव शृङ्गाणि खुराश् च येषां तैः, अवनि-निर्जराणां भूदेवानां, तेषां मध्ये एकैकश एकस्यैकस्य विप्रस्य प्रत्यङ्गनमङ्गने अङ्गने तिलादि-पर्वत-त्रयं निर्मितवान्, तेन तदानीं दत्तानि वस्तूनि पर्वतादि-क्रमेणैव कथञ्चिद्-गणयितुं शक्यानि, न तु टङ्कादि-क्रमेणेति भावः ॥१७॥
तस्य वितरणसमये चिन्तामणिकल्पतरु-कामधेनुगणश्च शक्तिहीन इव, रत्नाकरा अपि यादोमात्रावशिष्टा इव, किं बहुना? त्रैलोक्यलक्ष्मीरपि लीलापद्मैकशेषा बभूव ॥१८॥
तद् आलोक्य तदानीन्तन-जनानां सम्भावनाम् आह—चिन्तामणीत्यादि । अन्येषां स्वपुरस्थकनकादीनां का कथा ? योऽयं नन्दस्य दानावेशो लक्ष्यते, ततश् चिन्तामण्यादीनां गणश् च शक्तिहीनो वभूव, रत्नानि प्रसवितुम् इत्य् अर्थात् । भविष्यतीति वक्तव्ये भूत-प्रायत्वसम्भावनया वभूवेत्य् उक्तम् । यदोमात्रेति तदीय-रत्नानि त्वनीय दत्त-प्रायाण्येविति भावः ॥१८॥
अनन्तरञ्च श्रीव्रजपुरपुरन्दरस्य शुभकुमार आदिरासीदिति जगन्मङ्गलमङ्गलो ध्वनिरध्वन्यध्वनि मुखान्मुखतो यदैव समन्ततः सञ्चचार, तदैव तदग्रतो वा सानन्दोपनन्द-सन्नन्दप्रभृतयः सर्व एव गोदुहो निज-निजपरिजनैर्विविधपट्टसूत्रकल्पितशिग्भिर्मणिमयविहङ्गिकाभिर्मणिघटपटलपूरितान् घृत-दधि-नवनोतमथितोदश्विदामिक्षादिविविधगोरसान् समानाय्य विविधमणिमण्डनमण्डिता मङ्गलहारिद्रवसनानुकारिक्षणप्रभाप्रभातिरस्कारि-चारुचामीकरवसनैः कृताकल्पाः, कनकमणिदण्डपाणिकमलाः, समुन्मर्यादपरमानन्दवारान्निधेर्महोर्मय इव सकला एव दिशो व्यानशिरे ॥१९॥
तद् अग्रतो वेत्येवम् इव सम्भाव्यत इत्य् उक्तप्रेक्षैवेयम् । विहङ्गिका बाहुका इति ख्याता, बिहङ्गिका भार-यष्टिः इत्य् अमरः, तक्रं ह्युदश्वन्मथितं पादाम्बु निर्जलम्, आमिक्षा सा शृतोष्णे या क्षीरे स्याद् दधियोगतः इत्य् अमरः, गोदुहः, कीदृशाः ? मङ्गलैर् अनर्गल-मङ्गल-सूचकैर् हारिद्रैर् हरिद्रारसाक्तैर् वसनैस् तथा तेषां त्वतितुच्छत्वात् तद् अनुकारिभिस् तत्-सदृशैर् माङ्गलिक-जन्मोत्सवे हारिद्रवस्त्राणां प्राधान्यात् क्षण-प्रभाणां विद्युत्कान्तीनां तिरस्कारिभिश् चारुचामीकररसाक्तैश् च वसनैः कृत आकल्पो वेशो यैस् ते समुन्मयादस्य मर्यादातः सम्यग् उत्क्रान्तस्य परमानन्द-सिन्धोर् व्यानशिरे व्याप्तवन्तः ॥१९॥
तत्समकालमेव यावज्जनुरननुभूतप्रभूतामोदमुदितमेदुरमना मनोरथातीतं कमपि तदुदन्तमत्यन्तकमनीयं कर्णावतंसीकृत्य कृत्यपरिहारेण हारेण सता लसता ललितकण्ठा, उत्कण्ठोत्तरला, तरलायमानमाणिक्यशकला, अशकलातिमञ्जिमकङ्कणा, कङ्कणायमान-हीरकनिकरसुभगाङ्गदा, अङ्गदाक्षिण्यकारिसकलाभरणा, भरणार्हमहार्हकाञ्चिकाञ्चितजघना, घनारोहारोहातिमुखरकिङ्किणीका, कनककमनीयहंसका, हंसकान्तगतिर्विलोलकेशबन्धा, केशवं धामनिकामकमनीयं तत्कालाविर्भूतमवलोकयितुं कनकभाजनोपनीत-मङ्गलनिर्मञ्छनिकार्हफल-कुसुमदधिदूर्वाक्षित-मणिदीपनिकरादिकमतिमृदुलचीनहारिद्र-वसनशकलेनापिधाय निजनिजकरकमलभलेनोपगृह्य, झणझणायमान-मणिनूपुरकलनिनदैर्मुखरयन्तीव दश दिशो व्रजराजसदनमियाय व्रजनगरनागरीणामावलिः ॥२०॥
तत्-सनकालम् एव व्रजराज-सदनं व्रज-नगर-नागरीणाम् आवलिरियायेत्यन्वयः । कीदृशी ? यावज् जनुर्जन्म-पर्यन्तम्, न अनुभूतः प्रभूतः प्रचुर आमोदस्तेन, मुदितं प्राप्त-हर्षं मेदुरं सान्द्र-स्निग्धं मनो यस्याः सा, तद् उदन्तं जन्मवार्तां कृत्यपरिहारेण गृहकृत्यमनपेक्ष्येत्य् अर्थः । किम् च, गमनाङ्ग-भूतं स्व प्रसाधनादि-कृत्यम् अपेक्षां चकारैवेत्याह—हारेणेत्यादि । सता वर्तमानेन साधुना वा लसता कान्तिमता हारेण ललितः काण्थो यस्याः सा, उत्कण्थाभिरुत्तरला, तरले हार-मध्य-गमणौ अयमानं घटमानं माणिक्य-शकलं माणिक्य-खण्ढं यस्याः सा, अशकलोऽखण्डः पूर्ण एव मञ्जिमा मञ्जुत्वं येषां तानि कङ्कणानि यस्याः सा, तरलो हार-मध्यगः इत्य् अमरः । कम् इति मान्तमव्ययं जल-वाचकम्, तस्य कणायमानैः कण-सदृशैर् हीरकनिकरैः शुभग-मङ्गदं यस्याः सा, अङ्गानां दाक्षिण्यकारीणि अनुकूलानि सकलान्याभरणानि यस्याः सा, भरणार्हया मञ्जुषिकान्तर एव रक्षण-धारणार्हया । किम् च, महार्हया उत्सव-योग्यया उत्सव-समय-मात्र-धार्ययेत्य् अर्थः । काञ्चिकया अनुकम्पितकाञ्च्या अञ्चितं पूजितं जघनं यस्याः सा, घने निविडे आरोहे नितम्बे आरोह आरोहणं यस्याः सा चासौ मुखरा च किङ्किणी यस्याः सा, आरोहस्त्ववरोहेऽपि वरारोहा कटावपि इति मेदिनी । संसकः पाद-कटकः, हंसस्येव कान्ता गतिर् यस्याः सा, केशवं श्री-कृष्णं धाम्ना स्वकान्त्या निकामं यथेस्प्सितम् एव कमनीयम् ॥२०॥
अनन्तरं प्रविश्य सूतिकाभवनमालोक्य च तमभिनवं नवं नयननिर्माणस्य फलमिव संविज्जन्मनो विफलीभावाभावमहौषधिपल्लवमिव निजवात्सल्यसरसो नीलमहोत्पलमिव चिरं जयेति मङ्गलाशीःप्रसूनैरभ्यर्च्य विनिमेषमनुवेलमीक्षमाणा व्रजेश्वरी-सौभाग्यसारः शरीरवानयमिति तामेव स्तुवत्यः, मुहूर्तानन्तरमलिन्दतलमासाद्य मङ्गलसङ्गीतिसुरीतिललितवदना अन्तरगुञ्जदलिपुञ्जकलमधुरझङ्कारकोलाहललुलितकमलाः कमलिन्य इव, परस्परमतिकौतुकेन केनचन प्रणयभरसरसकरसरसीरुहकुड्मलेन परस्पर-वदन-शशधरमण्डलमतिविमल-सुरभितरतैलहारिद्र-द्रवनवनवनीतादिभिरभितो दशन-किरणभरालसलसदमलबन्धूकबन्धुराधरकिसलयं हसन्त्य एव लिम्पन्त्यो यदा त्रैलोक्यलक्ष्मीसौभाग्यमधरीचक्रुस्ता नागर्यः, तदैवाङ्गणभुवि व्रजपुरपुरन्दरं समया समयासादित-परमानन्दसन्दोहास्त एव गोदुहो महामदमुदिता इव, इन्दुकन्दूकैरिव नवनीतपिण्डैः स्थूलतरकरकानिकरैरिव आमिक्षागेण्डुकैः, दधिजलधिकर्दमगोलैरिव चन्द्रिकापललखण्डैरिव दधिपिण्डैः, परस्परं निःसाध्वसमभिघ्नन्तो मणिमयजलयन्त्रपूरितानां पयोदधिमण्डमथितोदश्विदादीनां द्रुतकनकपयसामिव हारिद्रसलिलानामपि महासुगन्धितैलानाञ्च धारापातैः परस्परं सिञ्चन्तो मृदुमृदङ्ग-पणव-डमरु-झर्झर-मृदुल-मर्दलकुल-काहल-भेरी-प्रभृति-मङ्गल-विचित्रवादित्रनिनदानुगततालक्रमं नृत्यन्तो गायन्तश्च मङ्गलसङ्गीतान्तर्गत-चर्चरिकाद्विपदिकाजम्भलिका-तेनादिनानाविधगानमनाकलितमपि साक्षात्कारयन्त इव तत्कालाविर्भूतं तमपूर्वं कुमारं व्रजराजमाह्लादयाञ्चक्रुः ॥२१॥
सम्बिदोऽनुभवमय्या वुद्धेर् जन्मनो विफलीभावो वैफल्यं तस्याभावे निमित्ते महौषधि-पल्लवम् इव, नुसनेति बहिः-सुखस्य, सम्बिदित्यान्तर-सुखस्य, निजेति सुखमयसाहजिक-भावस्य च प्रकाशः । अन्तरे मध्ये गुञ्जताम् अलिपुञ्जानां भ्रमर-समूहानां कालो मधुरास्फुट-ध्वनिर् एव मधु तद्राति ददाति वर्षतीति यावत्, तथा-भूतो झङ्कार-कोलाहलस् तेन लुलितानि आकुलितानि कमलानि अग्रस्थितत्वान् मुखाकाराणि पुष्पाणि यासां ताः, लुल विमर्दने सौत्रोव धातुः, कमलिन्यः कमललता इव । अत्र मङ्गल-सङ्गीतीनां भ्रमर-झङ्कार उपमानम्, मुखानां कमलानि, तासां नारीगणानां कमल-वल्ल्य इति । प्रणयस्य भरेणेव सरसेन कर-कमल-कुट्मलेन दशन-किरणानां दन्तकान्तीनां भरेण भारेण अलसं लसतः कान्तिमतः, अमल-बन्धुकाद् अपि बन्धुरं सुन्दरमधर-किसलयं यत्र तद्-यथा स्यात् तथा हसन्त्यः, अधरीचक्रुर् न्यूनीचक्रुः । अङ्गनभूवीति अलिन्दे तु स्रीभिर् आवृतत्वेन तत्रानवकाशाद्-व्रजपुरस्य पुरन्दरम् इन्द्रं श्री-नन्दं समया, श्री-नन्दस्य निकटे इत्य् अर्थः, अभितः परितः समया इत्यादिना द्वितीया, समयान्तिकम् अध्ययोः इत्य् अमरः, गोदुहो गोपाः, करका वर्षोपलः, आमिक्षाया एव निविडत्वात् निस्तलत्वाच् च गेण्डुक-तुल्यत्वं गोलो गोटा इति ख्यातो वर्तुल-पिण्डः, चन्द्रिकायाः पलल-खण्डैर् मांस-पिण्डैर् इव, इति सुख-स्पर्शत्वम् उक्तम् । चर्चरिकादयो गीतच्छन्दोभेदाः, एवम्-भूत-नानाविधगानं कर्म, तम् अपूर्वं कुमारं प्रयोज्य कर्म-भूतं साक्षात्कारयन्त इव, अनुभावयन्त इव । किंवा, गानम् एव प्रयोज्य-कर्म-भूतं साक्षात्कारयन्त इव दर्शयन्त इव, तं कुमारम् इत्य् अर्थः । गानं कीदृशम् ? अनाकलितम् अपि पूर्वम् अनभ्यस्तम् अननुभूतम् अपि तदानीं भगवद् इच्छयैव सहसा स्फुरितम् इत्य् अर्थः ॥२१॥
इतस्ततश्च उर्वीगीर्वाणसञ्चय-मङ्गलाशीःस्वनसहचर-वेदनिर्घोषैरभितोऽभितः सकल-जन-मुखोद्गीर्ण-जयजय-रवैः परितश्च चारुचारण-मागध-सूत-वन्दि-वृन्दोपनीतवास्तवस्तवस्तवकैरपि नादब्रह्ममय इव समयः समपादि ॥२२॥
चारणा नताः, सूताः पौराणिकाः प्रोक्ता मागधा वंशशंसकाः । वन्दिनस्त्वमल-प्रज्ञाः प्रस्तावसदृशोक्तयः ॥इति ॥२२॥
ततश्च तमतिमहोत्सवमहारसं जरयितुमसमर्थेव सा व्रजपुरभूरभूत्, पुरप्रणालिका-निकरमुखनिःसृत-दधि-दुग्धादिधाराप्रपातमिषेण मुहुर्वमन्तीव सुरभयति स्म च पुरमार्गान्, यद्धाराजलं गृहीतविहगाकारा नाकिनोऽपि सादरमुपस्पृशन्ति स्म, पिबन्ति स्म च ॥२३॥
यरयितुं जीर्णं कर्तुमसमर्था इव सा व्रजपुर-भूर् मुहुर्वमन्तीवाभूदित्य् अन्वयः । पुरस्य प्रणालिकानिकरा एव मुखानि तेभ्यो निःसृतो यो दधि-दुग्धादिधारा-प्रपातस् तन्मिषेण वमन्तीवाभूदिति सम्बन्धः । नाकिनो देवाः ॥२३॥
तस्मिन्नेव समये सकला एव धेनवो नवोन्नीत-नवनीत-हरिद्रातैलरूषिताः कनकमणिविभूषणभूषिताः सवत्सा जगत्सारभूता निजनिजमनसि कृष्णाविर्भावभावुकसुभगम्भावुका हर्षहम्बारवेण मुखरयन्त्यो भुवनतलं नात्मानमपि सस्मरुः, किमुताहार-पानादि ॥२४॥
कृषाविर्भाव एव भावुकं मङ्गलं तेन सुभगम्भावुकाः सुभगा भवन्त्य इत्य् अर्थः ॥२४॥
एवमतिकालकलितमहोत्सवमाभीरीनिकुरम्बं भगवती श्रीवसुदेव-पत्नी रोहिणी तेलसिन्दूरमाल्यवसनाभरणादिभिरभिपूज्याभिनवशुभकुमाराभ्युदयमभ्यर्थयामास । बहिश्चतरेतरमनवरत-रभसरभसवशात् सहसहर्षकृतयज्ञावभृथस्नानास्त एवोपनन्दादयो व्रजपुर-पुरन्दरं पुरस्कृत्य प्रतिजनमेव मणिमयमण्डनमहार्हवसन-माला-चन्दन-ताम्बूलादिभिरभ्यर्च्य सविनयमभिनव-शुभकुमारमङ्गलोदयमाचकाङ्क्षुः ॥२५॥
रभसस्य हर्षस्य रभसा वेगस् तद् वशात्, रभसा तावन्तोऽप्य् अस्ति, रभसा हर्षवेगयोः इति त्रिकाण्द-शेषपाठात् ॥२५॥
इत्यानन्दवृन्दावने प्रादुर्भावलीलालताविस्तारे
द्वितीयः स्तवकः ॥२॥
…