०१

प्रथमः स्तवकः श्री-श्री-कृष्ण-चैतन्य-चन्द्राय नमः
वन्दे कृष्णपदारविन्दयुगलं यस्मिन् कुरङ्गीदृशां
वक्षोज-प्रणयीकृते विलसति स्निग्धोऽङ्गरागः स्वतः ।
काश्मीरं तलशोणिमोपरितनः कस्तूरिकां नीलिमा
श्रीखण्डं नखचन्द्रकान्ति-लहरी निर्व्याजमातन्वते ॥१॥

श्री-श्री-कृष्ण-चैतन्य-चन्द्रो जयति

वत्सास्वाद्य मुहुः स्वया रसनया प्रापय्य सत्-काव्यतां,

देयं भक्त-जनेषु भाविषु सुरैर् दुष्प्राप्यमेतत् त्वया ।

इत्याज्ञापयतेव येन निदधे श्री-कर्ण-पूरानने,

बाल्ये स्वाङ्घ्रिदलामृतं गतिरसौ चैतन्य-चन्द्रोऽस्तु नः ॥१॥

नितान्तनैसर्गिक-कृष्णसार-लीलाढ्यम् उच्चैः पदमात्मनीनम् ।

श्री-रुपसस्मत्य् अनुकूलम् एव, पूर्वैः श्रितं संश्रयते सुमेधाः ॥२॥

नन्दोत्सवादिरासान्तां होलि1दोलादिकाधिकाम् ।

श्री-कृष्ण-लीलां जग्रन्थ कर्ण-ऊरो महाकविः ॥३॥

एकेन स्त्वकेनाह वृन्दारण्यं तदास्पदम् ।

बाल्य-लीलां ततः षड्भिः प्रादुर्भाव-मुख्यं हरेः ॥४॥

ततस् तु पञ्चदशभिर् लीलां कैशोर-वर्तिनीम् ।

एवं द्व्यधिकया चम्पूर् विंशत्या स्तवकैः कृता ॥५॥

अथ सोऽयं2 कवि-मुकुट-मणिरास्वादित-चरण-सौरस्यः पुनर् अपि मनोमधुपराजेन उपभूज्यमान्यपूर्व-नव-नव-माधुर्य-सम्पत्तिः श्री-भगवच् चरण-कमलम् आनन्दावेशेन वन्दमान एव तन् निर्देश-परम-मङ्गल-सुधा-धारा-परस्परया निर्मीयमाणे प्रत्यूहतापानुद्गम-गमकेऽपि प्रवन्धे सदाचार-सम्मान-नार्थम् अवश्य-कर्तव्यं मङ्गलाचणम् अप्यनुषञ्जयति—वन्दे इति । अहं कृष्ण-पदारविन्द-युगलं वन्दे, यस्मिन् कृष्ण-पदार-विन्द-युगले कुरङ्गी-दृशां प्रस्तोष्यमाणत्वाद्-व्रज-सुन्दरीणाम् अङ्गरागः स्वतः स्वभाव-सिद्धः सन् विलसति । अत्र यस्मिन्न् इति पदं तत्-पदनिरपेक्षम् एव । यथोक्तं काव्य-प्रकाशे—[७-१८८] यच्छब्दस्तूत्तरवाक्यार्थ-गतत्वेनोपात्तः सामर्थ्यात्3 पूर्व-वाक्यार्थ-गतस्य4 तच् छब्द स्योपादानं नापेक्षते, यथा-साधु चन्द्रमसि पुष्करैः कृतं, मीलितं यद् अभिरामताधिके । उद्यता जयिनि कामिनी मुखे तेन साहसम् अनुष्ठितं पुनः इति । कीदृशे ? तासां वक्षोज-प्रणयी-कृते—वक्षोजयोः स्तनयोः प्रणयः प्रेम आश्लेष-लक्षणं सख्यं वा यस्य तथा-भूती-कृते, अर्थात् ताभिर् एवेत्यर्थः । यद् वा, वक्षोजाभ्याम् एव प्रणयी-कृते, प्रणयोऽस्यास्तीति प्रणयी तथाभूती-कृते । तथा-भावस्य सदातनत्वेऽपि येन शुक्ली-कृता हंसाः शुकाश् च हरिती-कृताः इति वदभूततद्भाव-विवक्षा-मात्रेणैव च्वि-प्रत्ययः । अभूत-तद्भावोऽत्र प्राकट्य-समयमात्र-दृष्ट्या वा । तेन तासां स्तनाश्लेषेण यद्य् अपि तदीयोऽङ्गवागोऽपि चरणद्वये सम्भवति, तथापि त्रैकालिक-तत्-सङ्ग-सूचनार्थं स्वभावाद् एवासौ तिष्ठतीति भावः । यद् वा, निरन्तर तदाश्लेषात् तत् तद् अङ्ग-राग-प्रलेपः पौनःपुन्येनैव स्वाभाविकतां गतश् चरण-कमल-तलादेः शोणिमादि-गूणोऽभूदित्युत्प्रेक्ष्यत इति भावः । तम् एव विवृणोति—तलशोणिमा चरण-युगल-तलस्यारुणिमा काश्मीरं स्तनाग्रमण्डलवर्ति कुङ्कुमम् । उपरितन उपरिस्थः नीलिमा श्यामता कस्तूरिकां स्तनाधोमण्डलवर्ति-मृग-मदम्, तथा नख-चन्द्राणां कान्तितरङः, श्री-खण्डं स्तन-मध्य-मण्डलवर्ति-चन्दनम्, निर्व्याजं यथा स्यात् तथा तत् तद् एवेदम्, न तु शोणिमादिकम् इत्य् एवमातन्वते विस्तारयन्ति ज्ञापयन्ति तल-शोणिमादय इति ।काश्मीरस्य जातिभेदेन हिङ्गुल-वर्णत्वम् अपि प्रसिद्धम्, यथा—[भा पु १०-२९-३] रमाननाभं नव-कुङ्कुमारुणम् [भा पु १०-४६-४५] त्विष्यत्-कपोलारुण-कुङ्कुमाननाः इत्य् अस्य सङ्क्षेप-श्री-वैष्णवतोषिण्यां व्याख्या च—वाह्लीककदेशोद्भव-कुङ्कुमस्यारुणाम् अभिव्यक्तम् इति । अतएवामरे तत्पर्य्याये—रक्तसङ्कोच-पिशुनं धीर-लोहित-चन्दनम् इति, अभिधाना-स्थरे च—कुङ्कुमं रुधिरं रक्तम् असृगुक्तं च पीतनम् इति । वर्ण-भेदेन नाम-भेद इति ॥१॥

शोणस्निग्धाङ्गुलि-दलकुलं जातरागं परागैः
श्रीराधायाः स्तनमुकूलयोः कुङ्कुमक्षोदरूपैः ।
भक्तश्रद्धामधु नखमहाःपुञ्जकिञ्जल्कजालं
जङ्घानालं चरणकमलं पातु नः पूतनारेः ॥२॥

वर्णितम् एवार्थम् अवितृप्त्या पुनरत्यन्त-सर्वोत्कृष्टतमत्वभीष्ट-वस्तु प्रार्थनया व्याञ्जयति-शोणेति । पूतनारेः श्री-कृष्णस्य चरण-कमलं नोऽस्मान् पातु, स्व-सम्बाहनादि-दानेन रक्षतु, सेवायां नियोजनार्थं रक्षतु । पूतनारेरित् इत्येतत्-प्रतिबन्धक-दुरित-कूटदमने तत्-कृपैव गतिर् इति भावः । कीदृशम् ? शोणाः स्निग्धा अङ्गुलय एव दल-कुलं यत्र तत्, श्री-राधायाः स्तनावेव मुकुलौ, तयोः कुङ्कुम-चूर्ण-रूपैः परागैर् एव तदा श्लेशलव्धैर् जात-रागम्, अन्यस्य परागैर् अन्यस्य रागवत्तेत्याश्चर्यम् । पुनः किम्भूतम् ? भक्तानां श्रद्धैव मधु यथ तत् । सताम् एव श्रद्धायां तन् माधुर्यानुभवात् श्रद्धैव मध्वित्युपचारेणोच्यते—सातत्येन तदाधिक्ये प्रवर्त्तनार्थम् । सा च भक्तानाम् एव सम्भवेत् तथापि भक्तपदोपादानाद्रुच्युत्तरकालभवा विशिष्टैर् आसक्ति-रूपा ज्ञेया । श्री-भक्तिसमृत-सिन्धौ—[१-३-१२] श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति इत्य् अत्र श्रद्धा पदस्य तथा व्याख्यानान् न तु प्राथमिक्येव सामान्य-भूता, तदानीं माधुर्यानुभवयोग्यतानुपपत्तेर् इति5 । जङ्घे एव नाले यस्य तत् ॥२॥

माधुर्यैर्मधुभिः सुगन्धि भजन-स्वर्णाम्बुजानां वनं कारुण्यामृतनिर्झरैरुपचितः सत्प्रेमहेमाचलः ।
भक्ताम्भोधरधोरणी-विजयिनी निष्कम्पशम्पावलिर्
देवो नः कुलदैवतं विजयतां चैतन्यकृष्णो हरिः ॥३॥

तद् एवं तच् चरणारविन्द-माधुरी-वर्णनेनात्मनस् तत्सेवैक-लालसत्वम् अभिव्यज्य-पुनस् तम् एव कलि-युयाभिर् भावित-गौर-स्वरूपं स्वलोचन-साक्षद् अनुभूतचर-सौन्दर्य-माधुर्यं भगवन्तं श्री-कृष्ण-चैतन्यदेवं वर्णयति—माधुर्यैर् इति । चैतन्य-नामा कृष्णश् चैतन्य-कृष्णः, शाक-पार्थिवादिः—प्रेम्णा भक्त-चेतो-हरणात्, स्व-माधुर्येण स्व-पर्यन्त-वैकुण्ठनाथादि-सर्व-चेतो-हरणाद्वा हरिः, विजयताम्—विशेषेण स्वांशेभ्योऽपि परमोत्कर्षमाविस्परोतु । कीदृशः ? भजनानि नव-विधानि श्रवण-कीर्तनादीन्येव स्वर्णाम्बुजानि विरल-प्रचारत्वाद्-भक्त-सरोवराविर्भावित्वाच् च तेषां वनं तद्रूपः । अनेन श्रवणादि-साधन-भक्तिमय-स्वरूपत्वं गौरा-कृतित्वं भक्त-मनो-मधुकरामोदकत्वञ्चोक्तम् । कीदृशं वनम् ? माधुर्यैर् मधुभिः सुगन्धि । अम्बुज-पक्षे—माधुर्यैर् एव मधुभिर् इति मधू-नामप्यत्र वैलक्षण्यम् । भजन-पक्षे—साधन-दशायाम् अपि तेषां श्रवणादीनां केवल-राग-प्रवर्त्यमानत्वेन ऐश्वर्यज्ञान-निरपेक्षतया तत् तद् अद्भूत-लीलादि-निष्ठानां यानि माधुर्याणि रोचकत्व लक्षणानि, तान्येव मादकत्वान् मधूनि तैः सुगन्धि सुगर्व-युक्तम्, श्री-वैकुण्ठनाथादि-विषयेभ्यो भजनेभ्योऽप्यात्म-परमोत्कर्षाविस्कारात्, किं पुनर् ञ्जान-योगादिभ्य इति—गन्धो गन्धक आमोदे लेशे सम्बन्धि-गर्वयोः इति विश्वः । अनेन स्व-माधुर्यामोदित-निखिल-भुवनत्वम् उक्तम् । पुनः कीदृशः ? सतां शोभमानानां6 प्रेम्णां महा-राशि-रूपत्वात् हेमाचलः कनक-गिरिर् मेरुः । तत्र सताम् इति जात्या, हेमाचल इति प्रमाणेन च प्रेम्णा-मन्यप्रेमत उत्कर्षः सूचितः । अनेन पूर्वोक्त-तादृश-श्रवणादि-साधन-भक्ति-जनित-साध्य-प्रेम-भक्तिमय-स्वरूपत्व-तादृश-श्रवणादि-साधन-भक्ति-जनित-साध्य-प्रेम-भक्तिमय-स्वरूपत्वम् अप्युक्तम् । तथा-भूताचलः कीदृशः ? भजन-प्रवृत्तिकारणानि कारुण्यान्येवामृतानि तन् मयैर् निर्झरैर् उपचितः । वास्तवी कारुण्य-शक्तिः प्रेम-भक्ति-निष्ठैव तदाधारेषूदयमाना प्रतीयते—प्रेमांशं विना तस्यास् तत्रानुदय-दर्शणात् । तथा ह्युक्तं भक्ति-रसामृत-सिन्धौ जात-रति-भक्ति-निरूपणे—[भ र सि २-१-२७६] उत्पन्नरतयः सम्यक् इत्यादिना साधक-भक्तस्य जातरतित्वम् उदाहृतञ्चैकादशस्कन्ध-वचनम्—भा पु ११-२-४६] प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः इति । न साधक-भक्तेऽपि तादृश-कृपादि सम्भवतीति । अनेन स्व-कृपामृतधारास्नपित-जगज् जीवकत्वम् उक्तम् । अथोत्पन्न-प्रेमैकभगवत्-साक्षात्-स्वरूप-प्रकाश् चमत्कारेण स्वाधारम् अलङ्करोतीति द्योतयन् विशिनष्टि—निष्कम्पानां स्थिराणां शम्पानां विद्युताम् आवलिः श्रेणी तद् रूपः । सा कीदृशी ? भक्ता एवाम्भोधराः प्रेमामृत-वर्षण-शीलत्वात् तेषां धोरणी श्रेणी तत्रैव विजयिनी परमोत्कर्षेण स्थायिनी । अनेन प्रेम-भक्ति-मज्जन-मात्र-लभ्य-साक्षात्-स्वरूप-प्रकाश-त्वम् उक्तम् । तद् एवं तदीय-शुद्ध-सत्त्व-विशेष-स्वरूपत्वम् एव7 प्रथमं भक्तेषु श्रवण-कीर्तनादि-रूपेण तिष्ठति, तद् एव दृढ्याभ्यासेनासक्त्या अनश्वर-स्वरूपम् एव प्रेम-रूपताम् आपद्यते । तत्-प्रेमैव सपरिकर-भगवत्-साक्षात्-स्वरूप-प्रकाशानुभव-चमत्कारतां प्राप्नोतीति वैष्णव-सिद्धान्तोऽपि ध्वनित इति ॥३॥

नमस्यामोऽस्यैव प्रियपरिजनान् वत्सलहृदः, प्रभोरद्वैतादीनपि जगदघौघक्षयकृतः ।
समानप्रेमाणः समगुणगणास्तुल्यकरुणाः, स्वरूपाद्या येऽमी सरसमधुरास्तानपि नुमः ॥४॥

वत्सल-हृदः—अर्थान् मादृशेषु सर्वेषु । येऽमी स्वरूपाद्याः—श्री-दामोदर-स्वरूप-श्री-रामानन्द-राय-श्री-रूप-श्री-सनातनाद्याः । कीदृशाः ? अस्य प्रभोर् एव समान-प्रेमाणः, यद् वा परस्परम् एव समानास् तारतम्येन मादृशैर् लक्षयितुम् अशक्यः प्र्मा येषां ते, तान् अपि नुमः स्तुमः । अपिकारात् अद्वैतादीन् अपि नुमः । तान् अपि नमस्याम इत्य् उभयत्रिवोभयं योजनीयम् । प्रभोर् अद्वैतादीन् प्रभोः स्वरूपाद्या इति श्लेष-भङ्ग्या तच् छक्तिमया-एव त इति वोधितम् ॥४॥

गुरुं नः श्रीनाथाभिधमवनिदेवान्वयविधं, नुमो भूषारत्नं भुव इव विभोरस्य दयितम् ।
यदास्यादुन्मीलन्निरवकरवृन्दावनरहः, कथास्वादं लब्ध्वा जगति न जनः क्वापि रमते ॥५॥

अवनिदेवा विप्रास् तद् वांशे विधुं चन्द्रम्, तेन विप्रान्वयस्य समुद्रत्वम् उक्तम् । भूवः पृथिव्या भूषारत्नम् इव [श्री-गीत-गोविन्दे १२-२] क्षणम् उपकुरु शयणोपरि माम् इव नूपुरम् अनुगतिशूरम् इति [साहित्य-दर्पने ४-१२] एकावयवसंस्थ्येन भूषणेनेव कामिनी इत्यादि-प्रयोग-दर्शनात् इवेन सह नित्य-समास-वचन-विभक्त्यलोपः इत्य् अस्य प्रायिकत्व-प्रतिपादनाद्-व्यस्त-प्रयोगेऽयं नानुपपन्न इति । चन्द्रोऽपि शिवमूर्तेर् भूषारत्नं भवति । अस्य विभोः श्री-चैतन्य-देवस्य, यद् आस्याद्-यन् मुखात् उन्मीलन्त्या निरवकराया निर्दोषाया वृन्दावनस्य रहःसम्बन्धिकथाया आस्वादं लव्धा, तस्य विधुत्वात् तन् मुखोद्गीर्णत्वेन कथाया अमृतत्वम् इति भावः । क्वापि जगति भोग्य-स्थाने8 न रमते नासक्तो भवति, वृन्दावन एव शीघ्रम् आगच्छतीति भावः, इति स्वस्य वृन्दावन-वासे हेतुर् अपि दर्शितः । अत्र यद्यपि श्री-गुरु-वन्दनानन्तरम् एव देवता-वन्दनं श्री-सूतादिषु दर्शनात् सदाचार-प्राप्ताम्, तथापि श्री-शुकादौ विपर्ययेणापि दर्शनाद् अविरुद्धम् एवेदम् । किंवा, वस्तुतो दीक्षा-गुरुर् अप्यस्य श्री-भगवान् एव श्री-चैतन्यः, तद् आज्ञा-पारवस्येनैव गुर्वन्तराश्रयणम् । तथा हि कथा श्री-चैतन्य-चरितामृते—[अन्त्य १२४५-५०, १६-६६-७४] एकदा महा-प्रभुर् द्वित्र-प्रिय-सहचर-सङ्गी स्व-पार्षद्-प्रवरस्यैतत्-पितुः श्री-शिवानन्दसेनस्य रथ-यात्रा-दर्शनच्छलेन स्व-चरणान्तिकम् आगतस्यावासम् आगताअस्तेन च ससम्भ्रमं वन्दित-चरण-कमलस् तत्र च वाल्य-विलासं प्रपञ्चयन्तं पञ्च-षड्वर्ष-वयसं [श्री-मत्-परमानन्द-पुरी-पाद-प्रसादात् पुरुषोत्तम-क्षेत्र-जातत्वात् पुरीदासनामनमेत]9 पित्रा कारित-वन्दनम् आलोक्य साधुस्तवायं पुत्रो जातः इत्य् अभिनन्द्य कृपयैतच् छिरसि चरणं दिधीर्षुर् वाल्यावेशेन मुखं व्यादत्तवन्तमेनं कौतुकेन चरणाङ्गुष्ठम् आस्वादयामास, दिव्य-काव्य-कर्तृत्व-शक्तिम् अप्यलक्षितं सञ्चारयामास, वद वद कृष्ण कृष्णएत्युवाच च । ततोऽसौ शिशुर् उत्फुल्लमुखो ब्रूहि ब्रूहीति पित्रादिभिः प्रयुज्यमानोऽपि यदि नानुजगाद, प्रभुर् अपि विस्मयम् अभीनीय विश्वम् एव कृष्ण-नाम ग्राहयितुम् अहम् अशकम्, न पुनर् एनमेकम् एव इत्य् उवाच । तदा श्री-स्वरूप-गोस्वामिभिर् उक्तम्—भगवता स्वयम् एव स्वनाम-महा-मन्त्रम् उपदिष्टोऽस्मि, कथं पुनस्तम् उच्चैर् उच्चारयामि इत्य् एवम् अस्य गम्भीर-हृदयम् अनुमीयते इति । परेद्यवि वत्स ! वद किञ्चित् इत्य् उक्त एव प्रभूणा शीघ्रं पद्यम् एकं ववन्ध—[आर्याशतके १] शरवसोः कुवलयम् अक्ष्णो—रञ्नम् उरसो महेन्द्र-मणिदाम । वृन्दावन-तरुणीनां, मण्डनम् अखिलं हरिर् जयति ॥ ततः सन्तुष्टेन भगवता कवि-कर्णपुर इति नाम तद् दिनम् आरभ्य कृतवता तद् अभीष्ट-मन्त्रराजम् अपि हृदैव स्वयम् उपदिश्यापि लोकरीतिख्यापनाय समये श्री-नाथ-पण्डित-द्वारापि पुनर् असावुपदिदिश इति ॥५॥

गते स्वस्वाभीष्टं पदमहह चैतन्यभगवत्, परीवारे पश्चाद्गतवति च यस्मिन्निजपदम् ।
विलुप्ता वैदग्धी प्रणयरसरीतिर्विगलिता, निरालम्बो जातः सुकवि-कवितायाः परिमलः ॥६॥

प्रारिप्सिते काव्ये10 वर्णयितव्यस्य रसस्य प्रेम्णश् च सामस्त्येनास्वादकान-दृष्ट्वा खिद्यन्न् आह—निज-पदं प्रपञ्चा-गोचरं निज-धाम, प्रकाश-विशेषम् इत्य् अर्थः । तदानीं तत्-परीवाराणां कियतां प्राकट्येऽपि तच्छोक-व्याकुलत्वेन वैदग्ध्याद्यनाविष्कारेण तद् अन्तिक-गमनोन् मुखत्वेन च गत इत्य् उक्तम्, भावि काल-दृष्ट्या वा । परिमलश् चर्वणा-विशेष-विमर्दोथ आस्वाद-चमत्कार-रूप-मनोहर-गन्धः—विमर्दोथे परिमलो गन्धे जन-मनोहरे इत्य् अमरः । तेन कवितयाः पुष्प-मञ्जरीत्वारोपेणास्वादनीय-रसत्वं ध्वनितम् । निरालम्बस् तदास्वादक-तादृश-रसिक-भक्त-मधु-पानां विरल-प्रचात्वाद् इति भावः ॥६॥

तव स्तवं किं करवाणि वाणि, प्राणो न वक्तुं क्षमते त्वदीहाम् ।
यतः सुबद्धैव तनोषि मानं, तमन्यथा सन्तमपि क्षिणोषि ॥७॥

श्री-भगवत् प्रसाद-जनित-वैचित्रीकां स्ववाणीं सं-वोधयंस्तया श्री-भगवन्तम् एव स्तोतुं प्रतिजानीते—तवेति । सुष्ठु बद्धैव सती मानम् आदरं तनोषि, अन्यथा न सुष्ठु वद्धा सती वर्तमानम् अपि तं मानं क्षिणोषि नाशयसि । येन दृढं वध्यसे, तस्यैव मानं विस्तारयसीति विचित्रा तव चेष्ठा इत्य् अर्थः । अतः किम् इति स्तवं करवाणि, सुष्टु वन्धाम्येवेति भावः ॥७॥

मातर्वाणि तवानिशं करुणया लब्धप्रमोदा वयं
किं नु त्वां स्तुमहे त्वयैव यजतां तोयेन कस्तोयधिम् ।
एतत् प्रत्युपकुर्महे भगवतः कृष्णस्य लीलामृत
स्रोतस्येव निमज्जयामि भवतीं नोत्थेयमस्मात् पुनः ॥८॥

ननु प्रणय-रसनया हृदि वद्धोऽपि भक्तैर् भगवान् स्तूयत एवेत्यतः स्तवे को दोषः ? तत्राह—तव करुणया लव्धः प्रमोदो यैस् ते वयं किं नु भोः ! त्वयैव वाण्यैव त्वां वाणीं स्तुमहे । जलेनैव जलधिं जलाशयं कः पूजयतु, स्तवन-साधन-स्यान्यस्याभावान् न स्तुमहे इत्य् अर्थः । त्वत्-कतृकानन्ददानस्य एतद् एव प्रत्य् उपकरणं कुर्महे । कृष्णस्यैव लीलामृत-स्रोतस्येव निमज्जयाम्येवेत्य् अर्थ-सौन्दर्याद् एवकारस्त्रिष्वेव योजनीयः । अस्माद् अमृत-स्रोतसो भवत्या पुनर्नोत्थातव्यम् इति—स्रोतोऽम्बुवेगेन्द्रिययोः इति विश्वः ॥८॥

आत्मनः प्रियतया तनुभाजां, नात्मनः कृतिषु दूषणदृष्टिः । सर्वतस्तिमिरमस्यति दीपो, नात्ममूलतिमिरं विनिहन्ति ॥९॥

ननु पूर्व-पूर्व-महा-करि-कृत-काव्येष्वप्यर्वाचीनैर् ममट-भट्टादिभिर् दोषोत्थापनात् काव्य-निर्माणे कोऽयम् आग्रहः ? सत्यम्, ये विद्वांसः पर-कृते काव्ये दोषान् विचिन्वन्ति, तत्-कृतेऽप्यन्ये तथेत्य् अनवस्थितिर् एवेत्य् अर्थान्तरन्यासेनाह—तनु-भाजाम् आत्मनः कृतिषु दूषण-दृष्टिर् न स्यात्, किन्तु सा पर-कृतिष्वेव स्याद् इत्य् अर्थः । यथा दीपो दीपान्तर-तिमिरम् अस्यति, दूरी-करोति, न आत्म-मूल-तिमिरं दीप-मूलस्थम् अन्धकारम्, दीपान्तरेण तस्यापि नाशः सम्भवतीति भावः ॥९॥

निर्मलेऽपि सुजनाः स्वचरित्रे, दोषमेव पुरतः प्रथयन्ते ।
उज्ज्वलेऽपि सति धाम्नि पुरस्ताद्, धूममेव वमति स्फुटमग्निः ॥१०॥

साधुनां कवीनां पुनर् अन्य एव स्वभाव इत्य् अह—पुरतः प्रथमम् एव, प्रथयन्ते ख्यापयन्ति, पर्यालोचयन्तीत्यर्थः । स्व-चरित्रे स्व-क्रियायाम्, न तु परकृते । धाम्नि स्वीयतेजसि निर्मलेऽपि सति ॥१०॥

अर्थादि-पर्याकलनं विनापि, प्रह्लादयन्ते सुकवेर्वचांसि ।
विनावगाहादपि दृष्टिमात्रान्, मनः पुनन्त्येव हि पुण्यनद्यः ॥११॥

ध्वनि-गुणालङ्काराद्यवगाहन-समर्थ एव जने काव्यम् इदं सफली-भविष्यति, नान्यत्रेति चेदत आह—अर्थादीति । अर्थादीनाम् अर्थ-शब्द-गुणालङ्कार-रसानां पर्यालोचनं विनापि । मनः पुनन्ति, किं पुनर्देहेन्द्रियादीन् । पुण्य-नद्यः श्री-गङ्गाद्याः ॥११॥

तावत् पदानि जायन्ते निर्दोषाणि पृथक् पृथक् ।
यावत् स्वरसनासूच्या तानि ग्रथ्नाति नो कविः ॥१२॥

ननु परकरिष्यमाणं दोषासञ्जनं किम् इति प्रथमं स्वयम् एवोरीकुरुषे, निर्दोषैर् एव पदैः किम् इति न निवन्धासि ? तत्राह—तावद् इति । मिलितानि कृत्वा रसनासूच्या ग्रन्थने निर्डोषी-करणम् अतिदुष्करम् एवेति भावः । तेन सहृदय-हृदय-विक्षेपका रसापकर्षका दोषा एव हेयाः, केचिद्-यमकानुप्रासाद्यनुरोधोनोपादेया अपि सर्वथा निर्दोषस्य काव्यस्यैकान्तम् असम्भवाद् इति प्राचीनैर् अप्य् उक्तम् इति ॥१२॥

निर्मलयसि भुवनतलं, सतताक्षिप्तेन परमलेन ।
खलरसने सन्मार्जनि, तदपि च भीतिर्भवत्स्पर्शे ॥१३॥

गुणालङ्कार-रसोत्कर्षेऽपि केवलं दोषम् एव ये गृह्नन्ति, ते परकीर्ति-लोप-चिकीर्षवः खला दूरे परिहार्या इत्य् आह—निर्मलयसीति । हे खल-जिह्वे ! स्वर्ण-मणिमय-स्थलेऽपि कथञ्चिद् अलक्षितम् अकिञ्चित्करं सूक्ष्म-तृण-शर्करादि-खण्ड-रूपं मलम् एव ग्रहीतुं अत्र पवित्रे स्थाने निज-स्पर्शाद-पावित्र्यम् अपि कर्तुं प्रविशतीति भावः ॥१३॥

न लवोऽपि लवेन च व्यथायाः, परिवृद्धौ विदुनोति यस्य सर्वः ।
न खलो नखलोमतो मतोऽन्य-स्तमबद्धाः किल के न सन्त्यजेयुः ॥१४॥

यस्य लवेन छेदेन व्यथाया लवोऽपि लेशोऽपि न भवति, यस्य परि-वृद्धौ सत्यां सर्वो जनो विदुनोति, विशेषेणोपतप्तो भवति, दुनोतिर् अयमकर्मकोऽप्यस्ति—[३-३] देहि सुन्दरि ! दर्शनं मम मन्मथेन दुनोमि इत्यादि श्री-गीत-गोविन्दादि-दृष्टत्वात्11 । तथाभूतान् नख-लोमतः खलोऽन्यो न मतः, न ज्ञातः । नखा यानि लोमानि च छेदयितुम् इष्टानि, तत्-स्वरूप एव खलोऽनुभूतस् ताद्धर्म्यादित्य् अर्थः । तमेतादृशम् अवद्धाः स्वतन्त्राः किल निश्चितं के न सन्त्यजेयुः ? ये वद्धास् तत्-पारवश्य-बन्धने पतितास् त एव् अन त्यजेयुर् इति । नख-लोमान्य् अपि कारागारस्था एव न त्यजेयुर् इत्य् अनेनापि साधर्म्यम्12—तम् इत्य् अस्य पुंस्त्व-निर्देशो दार्ष्टान्तिक-पक्षस्यैव प्राधान्यात् । पूर्वत्र तनुभाक्-शब्दोक्तानां विदुषां परकृत-काव्य-दोषोद्धृत्या तन् निष्ठरसां लङ्कार-गुणादि-प्रकाशकत्वेन च घट-पटादि-निष्ठ-तिमिर-मात्र-हारक-तत् तद् रूपादि-प्रकाशक-दीपेन साधर्म्यम् । खलानां पुनः सतोऽपि गुणालङ्कारादीनाच्छाद्य काव्य-लोपचिकीर्षया केवल-दोषा-सञ्जनम् एव कुर्वतां मुख-पाण्यादि-सौन्दर्याच्छादक-देह-शोषक-नख-लोम-साधर्म्यम् इति विवेकः । आत्मन इत्यादि-द्वयं सामन्यत एव साधुनाम् उत्तमत्व-तारतम्यज्ञापकम् । तथा निर्मलयसीत्यादिद्वयं खलानाम् अधमत्व-तारतम्यज्ञापकम् इत्य् एवं पद्य-चतुष्टयं मध्य-पद्य-द्वयानुरोधेन काव्य-प्रकरण एव व्याख्यातम् इति ॥१४॥

आनन्दवृन्दावन-नामधेयां, चम्पूमिमां कृष्णचरित्रचित्राम् ।
मनोविनोदाय रसग्रहाणां, चक्रे स्व-मोदाय च कर्णपूरः ॥१५॥

इमां चम्पूं गद्य-पद्यमयी या सा चम्पूरित्य् अभिधीयते13 इत्याद्युक्त-लक्षणाम्, आनन्दानां वृन्दम् अवति पालयति तथा-भूतं नामधेयं यस्यास् ताम् । श्लेषेण—आनन्द-रूपं वृन्दावनं वृन्दावन-सम्बन्धि-कृष्ण-चरित्रं च वर्णनीयत्वेन वर्तते यत्र तन् नामधेयं यस्यास् ताम् । श्लेषेण—कर्णपूर इति रस-ग्रआणां कर्णावानन्देन पूरयतीति कवि-कर्णपूर इति नाम्नो भगवता कृतत्वात् स्व-कथन-देष-सहनेनापि तन् निर्देशः । तत्राप्यतिलज्जया कवि-शब्दाप्रयोगः ॥१५॥

यथा तथा स्युः कुसुमानि माला, चित्रायते गुम्फन-कौशलेन ।
तत्रापि चेत्तानि सुसौरभाणि, भवन्ति रम्याणि तदा पुनः किम् ॥१६॥

सु-सौरभाणि—दशम-स्कन्ध सम्बन्धि-कृष्ण-चरित्र-रूपत्वेन रम्याणि—तत्रापि वृन्दावनीयत्वेन सर्व-चित्ताकर्षकत्वात् ॥१६॥


अस्ति सकलवैकुण्ठसारमपि न वै कुण्ठसारम्, वप्रभूतेष्वपि नवप्रभूतेषु चिन्महःसु समुत्पन्नम्, अकृतकमपि कृत-कम्, प्रकृतिसिद्धमपि अप्रकृतिसिद्धम्, अतएव नित्यभूतमपि अ-नित्यभूतम्, सु-रसार्थ-बहुलमपि सुर-सार्थ-दुर्लभम्; वि-पल्लवैरपि विपल्लवस्याप्यपदैः, अप्रसवैरपि सुप्रसवैः, लीलायतनैरपि अलीला-यतनैः शाखिभिराकीर्णम्; मन्दारबहुलमपि अमन्दारम्, बकुलैरपि नव-कुलैः, तमालैरपि नतमालैरुपशोभितम्; किं बहुना?—भगवद्वपुरिव उज्जृम्भमाण-मन्मथकरजलेखा-रक्तचन्दनधवलकुचप्रियालतालीभृङ्गारूपं पुरुकरुणञ्च; मुनिमण्डलमिव शाण्डिल्य-लोमशादि-सहितम्, उपनत-बानप्रस्थगणञ्च, गायत्रीजपाकुलितञ्च; समरस्थलमिव अम्लानबाणकरवीरकुलाकुलितम्, चर्मिनिर्मितक्रीडञ्च पीलु-परिवृतञ्च; कुरुपाण्डवायोधनमिव गाङ्गेयारुष्करार्जुन-शरपरिपूर्णं, शिखण्डिमण्डितञ्च; स्वमिव निरन्तराशोकातिमुक्तपुरुषप्रायम्; निरन्तरालविराजमानज्योतिश्चक्रमपि अविकर्तनम्, अनिशेशम्, अभौमम्, विबुधम्, अजीवम्, अकविगम्यम्, अमन्दम्, विकेतु, वितमः, निस्तारकम्; स्वतेजसा तु सुभास्वत् सुपीयूषकिरणं सुमङ्गलं सुबुधं सुजीवं सुकविगम्यं सुभानवं सुकेतु सुतमः सुतारकम्; भूविशेषकमपि न भूविशेषकम्, सदा सक्षणमपि क्षणरहितम्, व्यापकमपि नव्यापकं किञ्चन। निखिलगुणवृन्दावनं वृन्दावनं नाम वनम् ॥

वर्णनीयानां श्री-कृष्ण-विलास-महा-रत्नानां खनिभूतत्वात् प्रथमं सपरिकरं वृन्दावनं वर्णयति । अत्र दीर्घ-दीर्घेषु गद्येषु सुख-वोधार्थं वाक्य-मध्येऽप्यङ्का देयाः । अतिहृस्वेषु तेषु बहु-वाक्यान्तेऽपि क्वापि तीका-भावाद् अपीत्ये एवम् अत्र नास्ति नियम इति । वृन्दावनं नाम वनम् अस्ति, वर्तमान-प्रयोगोऽस्य नित्यत्व-वोधकः, सकलेभ्यो वैकुण्ठेभ्यः सारं श्रेष्ठम् अपि न विअ कुण्ठ-सारं न वै निश्चितं कुण्ठः सारो वलं यस्य तत् । सतापि महता परमैश्वर्येण न कुण्ठीभूतं महा-माधुर्य-रूपं बलम् अस्येत्य् अर्थः । एवम् आदिषु केदार-रूपेषु चिन्महःसु सम्यग् उत्पन्नम् इति प्रतीतिमात्रत्व-ज्ञापनाय, वस्तु-तस्तु अनादि-सिद्धम् एव, पुन्न-पुंसकयोर् वप्रः केदारः क्षेत्रम् इत्य् अमरः । चिन् महसाम् अपि जाति-परिणाम् आभ्याम् उत्कर्षम् आह—नवानि नित्य-नवनवोद्भासमानोनिच—अनुराग-विवर्तमयत्वात्, प्रभूतानि14 प्रचुरतमानि च, परिपूर्णतमत्वात्, तेषु । अकृतकम् अकृत्रिमम्, कृतकं कृतं कं सुखंयेन तत्, प्रकृत्या स्वभावेन स्वरूप-शक्त्यैव सिद्धम्, न च प्रकृत्या प्राणिनः पृथिव्यादीनि वा यत्र तत्, युक्ते क्ष्माद् आवृते भूतं प्राण्यतीते समे त्रिषु इत्य् अमरः । शोभना रसा आस्वादा येषां तथा-भूतैर् अर्थैः फलादि-वस्तुभिः शृङ्गारादि-रसैर् वा बहुलम् । सुराणां देवानां सार्थैः समूहैर् दुर्लभम्, सङ्घसार्थौ तु जन्तुभिः इत्य् अमरः । शाखिभिर् वृक्षैर् आकीर्णं व्याप्त्यम् । कीदृशैः ? विशिष्टाः पल्लवा येषां तैः, विपदां लवस्य लेशस्याप्यपदैः, न विद्यते प्रसवो जन्म येषां तैः, नित्य-सिद्धतात्, शोभनाः प्रसवाः पुष्प-फलादयो येषां तैः, प्रसवस्तु फले पुष्पे वृक्षाणाम् इति विश्वः । लीलानामायतनैर् गृह-रूपैर् अलीनां भ्रमराणाम् इला वाचस्तासाम् अयतनं यत्नाभावः । सौलभ्यं यत्र तैः, गो-भूवाचस् त्विडा इला इत्य् अमरः । मन्दारैर् देवतरुभिर् बहुलम्, अमन्दानाम् उत्तमानाम् एव आरो गमनं यत्र तत्, ऋ गतौ घञन्तः । नव-कुलैर् नूतन-समूहैः, नता नम्रा माला श्रेणी येषां तैः । उज्जृम्बमाणेन उद्गच्छता मन्मथेन कामेन हेतुना याः करज-लेखा नख-लेखास् ताभी रक्तौ चन्दनेन धवलौ कुचौ यासां ताः प्रिया एव लताल्यस् तासु भृङ्ग-रूपम् । पक्षे—उज्जृम्भमाणं प्रकाशमानं मन्मथादीनां वृक्ष-भेदानां रूपं सौन्दर्यं यत्र तत् । तत्र मन्थः कपित्थः, करज-लेखा करञ्ज-श्रेणी, रक्त-चन्दन-धवौ प्रसिद्धौ, लकुचो डेहुआ इति ख्यातः । अत्र क्वचिद् अपभ्रंश-भाषा-प्रायो गौडीयानाम् एव लिख्यते—ताली ताडी-पत्र इति ख्यातः, भृङ्गं गुडत्वक् इति कपित्थे स्युर्दधित्थग्राहि-मन्मथाः, करजश् च करञ्जके, लुकुचो निकुचो डहुः, राजादनं प्र्यालः स्यात्, ताली खर्जुरी च तृण-द्रुमाः, त्वक्-पत्रम् उत्कटं भृङ्गम् इत्य् अमरः । पुरुकरणं बहु-कृपा-युक्तं बहु-करुण-वृक्ष-युक्तं च । इत्य् एवम् आदिषु उज्जृम्भमाणेत्यादि-शब्द-मात्र-साम्येनैवोपमा, सकल-फलं पुरमेतज् जातं सम्प्रति सितांशु-विम्बम् इव इत्यादिवद्-विरोधाभास इव उपमाभासोऽयम् इति कश्चित् । शाण्डिल्येति स्पष्टम् । पक्षे—शाण्डिल्यो विल्व-तरुः, लोमशा जटा-मांषी, विल्वे शाण्डिल्य-शैलूषु, जटा-मांसी जट्ला लोमाशा मिसी इत्य् अमरः । वानप्रस्थ-स्तृतीयाश्रमी, महुआ इति ख्यातो मधूकश् च, मधूके तु गुड-पुष्प-मधुद्रुमौ, वान-प्रस्थ-मधुष्ठीलौ इत्य् अमरः । गायत्रीति स्पष्टम्, पक्षे—गायत्री खदिरः, जपा ओड्र-पुष्पम्, गायत्री बाल-तनयः खदिरो दन्त-धावनः, ओड्र-पुष्पं जवा इत्य् अमरः । समर-स्थलं युद्ध-स्थानम्, अम्लान-वाण-युक्तः करो यस्य तथा-भूतेन वीरकुलेन आमुलितं व्याप्तम् । पक्षे—अम्लानादीनां कुलेन व्यप्तम्, अम्लानस्तु महासहा, नीला झिण्टी-द्वयोर् वाणा इत्य् अमरः । चर्मिभिर् योध-विशेषैः कर्तृभिर् भूर्ज-वृक्षैः करणैश् च निर्मिता क्रीडा यत्र तत्, भूर्जे चर्मि-मृदुत्वचौ इत्य् अमरः । पीलुर् हस्ती वृक्ष-भेदश् च, द्रुम-प्रभेदम् आतङ्गकाण्ड-पुष्पाणि पीलवः इत्य् अमरः । अयोधनं युद्धम्, गाङ्गेयस्य भीष्मस्य अरुस्करा व्रणकरा येऽर्जुनशरास् तैः परिपूर्णम्, व्रणोऽस्त्रियामीर्ममरुः इत्य् अमरः । पक्षे—गाङ्गेयं स्वर्णम्, तन् नामा नाग-केशरः, अरुस्करो भल्लातकी, अर्जुनशरौ प्रसिद्धौ, नाग-केशरः काञ्चनाह्वयः, वीर-वृक्षोऽरुस्करोऽग्निमुखी भल्लातकी त्रिषु इत्य् अमरः । शिखण्डी द्रुपद-पुत्रः, पक्षे—मयुरः, यद् वा शिखण्डि-पदेन कथञ्चिद्-गुञ्जा-यूथिकयोर् अप्य् अभिधानम्, गुञ्जायां यूथिकायां शिखण्डिनी इति विश्वः । स्वमिव वृन्दावनम् इव निरन्तरं सदा अशोकाः शोक-रहिताः, अतिमुक्ता मुक्तान् अतिक्रान्ता भक्ता ये पुरुषास् तत्-प्रायम्, प्रायो भूम्न्यन्तगमने इत्य् अमरः । पक्षे—निरन्तरा निरवकाशा निविडा इति यावत् । अशोका अतिमुक्ता माधवी-लता पुरुषाः पुन्नागस् तत्-प्रायम्, अति-मुक्तः पुण्ड्रकः स्याद् वासन्ती माधवी-लता । पुन्नागे पुरुषस् तुङ्गः इत्य् अमरः । निरन्तरालं निविडं यथा भवत्येवं विराजमानं ज्योतिश् चक्रं यत्र तथा-भूताम् अपि अविकर्तनं सूर्य-रहितम्, अनिशेशं चन्द्र-रहितम् इत्यादीत्येवम् अर्थम् उद्भाव्य विरोधः, वस्त्वर्थश् च—निविडं विराजमानं ज्योतिषां कान्तीनां चक्रं समूहो यस्य तत्, यद् वा, निरन्तरं सर्वदा अलवि लवश् छेदस् तद् रहितं केनाप्यनाश्यम् इत्य् अर्थः । तत्रत्यानाम् अच्छेदकम् इति । राजमान-ज्योतिः प्रदीप्त-तेजस्कं चक्रं सुदर्शनाख्यं यत्र तत् [गो ता उप ३०] चक्रेण रक्षिता मधुरा इति श्रुतेः । यद् वा, निरन्तरम् एव अलविराजमानं रविना विनैव राजमानम् इत्य् अर्थः—रलयोर् एकत्व-स्मरणात्, ज्योतिश् चक्रं प्रकाश-मण्डलं यत्र तत् । अविकर्तनेत्यादि सूर्य-चन्द्रादि-रहितम् इत्येषोऽर्थोऽत्रापि पक्षे सङ्गमनीयः—[श्वे ६-१४] न तत्र सूर्यो भाति न चन्द्र-तारके [गी १५-६] न तद् भासयते सूर्यः इत्यादि श्रुतेः । कविः शुक्रः, मन्दः शनिस् तमो राहुः । अर्थान्तरं च—न विद्यते शिशेषेण कर्तनं कालादिभिर् नाशो यत्र तत्, अनिशम् एव ईशः श्री-कृष्णो यत्रानिशमीष्टे इति वा, अभौमं न भूमि-विकारः, अप्राकृतत्वात्, विशिष्टा वुधा विज्ञा यत्र तत्, अजीवम्—अविद्यावृत-पुरुष-रहितम्, अकविगम्यं न कवेः पण्डितस्यापि गम्यम्, दुर्ज्ञेयत्वात् । अमन्दम् उत्तमं विकेतु उत्पातादि-चिह्न-रहितम्, केदुर् द्युतौ पताकायां ग्रहोत्पातादि-लक्ष्म च इति विश्वः । वितमो विगतमोगुणम्, निस्तारकं निस्तारकतृ । नन्वन्यदेशवत्तत्रापि सूर्यादयः प्रतीयन्त एवेत्याशङ्क्य् आह—स्वतेजसेत्यादि । स्वकान्त्या तु सुभास्वद् इति स्वीयचिच् छक्ति-प्रकाश-विशेषम् अयत्वाद् अप्राकृता एव सूर्यादयः प्राकृता इव प्रतीयन्ते, श्री-कृष्णस्य नर-लीलत्ववत् तत् परिकराणां तेषां अपि तथा-तथा-लीलत्वम् इत्य् अर्थः । तथा ह्युक्तं श्री-सङ्क्षेप-भागवतामृते—[१-७९९] प्राकृतेभ्यो ग्रहेभ्योऽन्ये चन्द्र सूर्यादयो ग्रहाः । लीलास्थैर् अनुभूयन्ते तथापि प्राकृता इव ॥ इति । सुभानवं शोभनो भानु-पुत्रः शनिर् यत्र तत् । सुभास्वदित्यादीनां पूर्ववद् अर्थान्तरं च । सुभास्वत् शोभनच्छवि-युक्तम्, शोभनाः पीयूषमयाः किरणा अंशवो यत्र तत्, शोभनाभिर् भाभिः कान्तिभिर् नवम्, सुकेतु शोभन-पताकम्, सुतमः शोभनं सुखदायि तमोऽन्धकारो यत्र तत्, व्रजाङ्गनानां कृष्णाभिसार-साहाय-कारित्वात् शोभनं तारकं मोक्षदायक-शक्ति-विशेषो यत्र तत् । भूवः पृथिव्या विशेषकं तिलक-रूपम्, तमाल-पत्र-तिलक-चित्रकाणि विशेषकम् इत्य् अमरः । न भूविशेषकं प्राकृतो भूमि-विशेषो न तद् इत्य् अर्थः । स्वार्थिकाः प्रकृतितो लिङ्ग-वचनान्यतिवर्तने इति कन्नन्तस्य क्लीवत्वम् । अयम् अर्थः—यथा महा-वैकुण्ठ-नाथाद्यंशिनोऽपि श्री-कृष्णस्य नर-लीलत्वम्, तथा तद् धाम्नो वृन्दावनस्यापि महा-वैकुण्ठाद्यंशित्वेऽपि भूवि-शेष-लीलत्वम्, अतएव15 भूति-लकायमानत्वम्, वस्तुतः सिद्धान्तेऽपि16 श्री-कृष्णस्य नरा-कृतित्वेऽपि न प्राकृत-नरत्वं यथा तथा वृन्दावस्यापि भूवि-शेषाकृतित्वेऽपि न प्राकृत-भूमि-विशेषत्वम् इति । एतद् एवास्य वैकुण्थतो वैलक्षण्यं यद्-युगपद् एव वास्तव-मिथो-विरोधि-धर्म-द्वयाश्रयत्वेनाकृत-कत्वेऽपि कृतकत्वम्, क्षण-राहित्यत्वेऽपि क्षण-साहित्यत्वम्, परिच्छिन्नत्वेऽपि व्यापकत्वम् इत्य् एवं प्रायः सर्वत्रैवार्थान्तरं विनैव सिद्धान्त-विशेष-प्रतिप्त्त्यै व्याख्योयम् इति । सक्षणं सोत्सवम्, क्षणेन विकार-हेतुकालेन रहितम् । यद् वा, निर्व्यापारस्थिति-रहितम्, निर्वापारस्थितौ काल-विशेषोत्सवयोः क्षणः इत्य् अमरः । व्यापारोऽत्र भगवल् लीला एव, नव्यस्य स्तव्यस्य वस्तुनः प्रेम्णः श्री-कृष्णस्य वा, आपकं प्रापकम्, णु स्तुता वित्यस्य रूपम् । निखिल-गुण-वृन्दस्य अवनं पालनं यत्र तत्17

यत्र हि—

क्वचिन्मरकतस्थली कनकगुल्मवीरुद्द्रुमाः, क्वचित् कनकवीथिका मरकतस्य वल्ल्यादयः । क्वचित् कमलरागभूस्फटिक-गुल्मवीरुद्द्रुमाः, क्वचित् स्फटिकवाटिका-कमलरागवल्ल्यादयः ॥

वर्ण-वैविध्यादौचित्येन सौन्दर्य-वैचित्रीम् आह—क्वचिन् मरकत-मणिमयी स्थली अमृत्रिम-भूमिः, तत्र कनकमया गुल्म-लताद्रुमाः सन्तीत्य् अर्थः । पूर्वोक्तस्यास्तीत्यस्य वचन-विपरिणामेनाप्यनुषङ्गः । एवम् अग्रेऽपि यथा-सम्भवं ज्ञेयम् । कनक-वीथिका कनकमयी वर्त्म-भूमिः, यद् वा, क्वचिद् वन-भूमौ कनक-पङ्किः स्वर्ण-श्रेणेयेव, न तु मृत्तिका-पुञ्जस् तत्रैव मरकतस्य वल्लि-गुल्म-द्रुमाः ॥

किञ्च—

क्वचिन्मरकतद्रुमाः कनकवल्लिभिर्वेल्लिताः क्वचित् कनकपादपा मरकतस्य वल्लीजुषः । क्वचित् स्फटिकभूरुहाः कमलरागवल्लीभृतो द्रुमाः कमलरागजाः स्फटिकवल्लिभाजः क्वचित् ॥

न केवलं भूमि-द्रुमाद्यैर् एव परमौचित्येन परस्पर-विजातीय-वर्ण-रत्नमयद्तया सौन्दर्यम्, किन्तु परस्पर-मिलितयोर् वृक्ष-वल्ल्योरपीत्य् आह—क्वचिद् इति । वेल्लिता व्याप्त्याः वेल्लितं कुटिले प्रोक्तं वाच्यवद्-विधुते प्लुते इति विश्वः । एवम् अत्र पूर्वोक्ता वक्ष्यमाणाश् च वृक्षजातय एव काश्चिन्मरकतादि-मणिमय्यः केवलं पत्राकृति-स्कन्ध-विन्यासादिभिर् एव परिचीयन्ते काश्चन स्वरूपेणापि स्थिता ज्ञेयाः—भवतो विचित्र-लीलौपयिकत्वात् । अतएव क्वचित् क्वचिद् इति शब्द-प्रयोगः । न चैवमादीनाम् एतादृशत्वस्य कवि-वर्णना-मात्र-प्रमाणत्वं वाच्यम्—बहुतर-पुराणागम-संहिता-श्रुतिभिर् अपेय्वम् एवोक्तत्वाद्त् । किन्तु तथा-भूतत्वेन कदाचित् कैश्चिद्-दृश्यते न दृश्यते चेत्यादि स्तवकान्ते सप्रमाणकं व्याखास्यत इति ॥

यत्र च—

न सोऽस्ति मणिभूरुहो विविधरत्नशाखो न यः सुचित्रमणिपल्लवा न खलु या न शाखाश्च ताः । न तेऽपि मणिपल्लवा विविधरत्नपुष्पा न ये न पुष्पनिकरोऽप्यसौ विविधगन्धबन्धुर्न यः ॥

अथैकस्मिन्न् अपि वृक्षे तथा वर्ण-वैचित्रीम् आह—स मणि-भूरुहो नास्ति, विविधरत्नमय्यः शाखा यस्य तथा-भूतो यो न स्यात्, ताश् च शाखा न सन्ति, सूचित्रा बहु-वर्णा मणिमयाः पल्लवा यासु तथा-भूता या न स्युः, तेऽपि विचित्रा मणि पल्लवा न सन्ति, ये विविध-रत्नमय-पुष्पा न स्युः, असौ पुष्प-निकरोऽपि नास्ति, विविधा मालत्यादि-गन्धा एव सजातीयत्वात् बन्धवो यस्य तथा-भूतो यो न भवति, विविधानां गन्धानाम् आश्रय-रूपत्वाद्-बन्धुरिति वा ॥

यत्र च—

**विहारमणिपर्वतप्रकरतः पतद्भिर्मणिद्रवैरिव सुनिर्झरैः स्वयमितस्ततः पूरिता । ** स्थलस्थलरुहां मुणीतरसणीभिराकल्पिता, तथा मणिपतत्रिभिर्विलसितालवालावली ॥१॥

येषु वृक्षेषु आलवालानामावली अस्ति । कीदृशी ? स्थलानां स्थल-रुहां वृक्षाणां च मणिभ्य इतर-मणिभिरा सम्यक् कलिता निर्मिता, विहार-सम्बन्धि-मणिमय-पर्वतानां प्रकरतो गलद्भिर् मणिद्रवैर् इव सुन्दर-निर्झरैः पूरिता ॥१॥

येऽमी तरवः परमेष्ठिन इव स्वयम्भुवः, धूर्जटय इव सुजटाः, तरणय इव सुच्छायाः, सनकादय इव सदावालाः, चन्द्रा इव समाह्लादिपादाः, धनुर्भृत इव सुवलितकाण्डाः, विलासिन इव सुवल्कलाः, सुरसैनिका इव सदाच्छविशाखाः, काण्डा इव योधा इव सुपत्राः, स्वर्गा इव वर्षा इव विलसत्सुमनसः, कर्मयोगा इव शरा इव अव्यभिचारिफला अबीजसमुत्पन्ना अनारोपितश्रेणीबन्धा अपरिपालितवर्धिता अनभिषिक्तस्निग्धा असमयनियमपुष्पफलाः, चित्रलेखा इव सुकवि-व्याहारा इव अन्यूनानतिरिक्ताः सर्व एव समकालमेवाङ्कुरित-पल्लवित-मुकुलित-कुसुमित-फलित-पच्यमान-पक्वफलास्तदवस्था एव सर्वदा जरीजृम्भन्ते ॥२॥

स्वयम् एव भवन्तीति स्वयभूवः, तरु-पक्षे—जता जड खातः, इत्य् अमरः, तरणयः सूर्याः, छाया कान्तिः, पक्षे—आतपाभावश् च, सन्ति शोभनानि आलवालानि येषां ते, आह्लादिनः पादाः किरणाः अङ्घ्रयश् च येषां ते, पादा रश्म्य् अङ्ग्रितुर्यांशाः इत्य् अमरः, काण्डा वाणास् तरु-शरीर-यष्टयश् च, सुष्टु वलन्त्यः कलाश् चतुःषष्टि-सङ्ख्या येषाम्, क्विवन्तो वल-धातुः, सदा अच्छो निर्मलो विशाखः कार्तिकेयो यत्र, पक्षे—सदाच्छविः कान्तिर् यासु तथा-भूताः शाखाः येषां ।सुपत्राः, काण्ड-पक्षे सुपक्षाः, योध-पक्षे सुवाहनाः, वृक्ष-पक्षे सुदलाः, पत्रं वाहन-पक्षयोः पत्रं पलाशं चहदनम् इत्य् अमरः, सुमनसो देवाः, मालत्यः पुष्पाणि च, सुमनसस् त्रिदिवेशा दिवौकसः, सुमना मालती जातिः, स्थियः सुमनसः पुष्पम् इत्य् अमरः, न व्यभिचारीणि फलानि, कर्म-योग-पक्षे—अदृष्टानि, शर-पक्षे लोहमयाग्राणि, वृक्ष-पक्षे सस्यानि येषां ते, लाभे सस्ये शराद्य् अग्रे व्युष्टौ च फलके फलम् इति शाश्वतः, वीजं विनैव समुत्पन्नाः—कर्मणामनादित्वान् मूल-वीजस्याज्ञेयत्वेनाभावात्, शराणां वाणानाम् अपि शर-वृक्षोद्भवत्वात् तेनैक्यम्, ततश् च तेषां वीजं विनैव स्वजटोत्पन्नत्वात्, तरूणाम् अप्य् अत्रत्यानां वस्तुतो नित्य-सिद्धत्वात् त्रिष्व् अपि पक्षेषु तुल्योऽर्थः, न आरोपितः केनापि श्रेणि-वन्धो येषां ते—कर्मणां धारावाहि-स्वरूपत्वात्, शर-वृक्षाणाम् अपि स्वत एव श्रेणि-वद्धत्वात्, अत्रत्यतरूणाम् अपि भगवद् इच्छया तथा-भूतत्वात् । अपरिपालिता अपि वर्धिताः, अनभिषिक्ता अपि स्निग्धाः, न समयस्य नियमो येषां तथा-भूतानि पुष्पाणि फलानि च येषां ते, कर्म-पक्षे भोगात् प्राक्-परिणाम-विशेषाः पुष्पाणि, शर-पक्षे फलं निष्पत्तिः, फलं वीजे च निष्पत्तौ इति त्रिकाण्ड-शेषः, चित्राणां लेखाः श्रेणयः इव सुकवीनां व्याहारा उक्तय इव न्यूनातिरेक-देष-रहिताः, एक-कालम् एव अङ्कुरिताश् च पल्लविताश् च मुकुलिताश् च कुसुमिताश् च फलिताश् च, तथा पच्यमानानि पक्वानि च फलानि येषां ते पच्यमान-पक्व-फलाश् च ते तथा, तद् अवस्था वर्णितावस्थाः सन्त एव जरीजृम्बन्ते, अतिशयेन प्रकाशन्ते ॥२॥

किञ्च—

येषां बिम्बितपल्लवैरुभयतो विस्तारभाजामिव **प्रस्फार-स्फटिकालवालवलये स्फायन्मयूखाङ्कुरे । ** स्नातुं निःसलिलेऽपि पूर्णसलिल-भ्रान्त्या भृशं पक्षिणश् चञ्चुभिः परितो विकीर्य गरुतो धुन्वन्ति मज्जन्ति च ॥

येषां18 तरूणां प्रस्फारस्य प्रवृद्धस्य स्फटिक-स्यालबालानां वलये मण्डले निःसलिलेऽपि पूर्ण-सलिल-भ्रान्त्या पक्षिणः स्नातुं गरुतः पक्षान् चञ्चुभिर् विकीर्ष धुन्वन्ति कम्पयन्ति, गरुं पक्षच्छदाः परम् इत्य् अमरः, मज्जन्ति स्नान्ति च । वलये कीदृशे ? स्फायन्तो बर्द्धमाना मयूखानां स्फटिक-निरणानाम् अङ्कुरा यत्र तस्मिन् । येषां कीदृशानाम् ? तत्र विम्बितैः प्रति-विम्बितैः पल्लवैर् उभयतोऽधश्चोपरि च विस्तार-भाजाम् इव ॥

क्वचन—

आवाले ज्वलदिन्द्रनीलघटिते तद्रोचिषामूर्मिभिः कालिन्दी-पयसेव वातचपलेनापूरिते सर्वतः । लक्ष्यन्ते तरवस्त एव कतिचिद्रोमाञ्चिताः कोरकैर् ध्यानावस्थित-कृष्णकान्तिपटलाश्लेषप्रवृत्ता इव ॥

तद्रोचिषाम् इन्द्र-नील-कान्तीनाम् ऊर्मिभिर् एव वातचपलीकृतेन कालिन्दी-जलेनेवापूरिते आवाले प्रतिविम्बितत्वेन त एव तरवो ध्यानेनावस्थितम् उपस्थिती-कृतं यत् कृष्ण-कान्ति-पटलं तस्याश्लेषे प्रेम्णालिङ्गन-कर्मणि प्रवृत्ता इव लक्ष्यन्ते ॥

अन्ये च—

केऽप्यालवालकुरुविन्दमयूखवृन्दैर्लक्षारसैर्निरवधीव कृताभिषेकाः । अन्तर्न मान्तमिव सन्ततमेधमानं, कृष्णानुरागरसमेव समुद्वमन्ति ॥

केऽपि तरव आल-वाल-रूपाणां कुरु-विन्डनां रत्न-विशेषाणां मयूख-वृन्दैर् एव लाक्षारसैर् निरवधि निरन्तरम् इव कृतोऽभिषेको येषां ते । उत्प्रेक्षितम् अप्य् अर्थम् अपह्नुत्या पुरनन्यथा सम्भावयति—कृष्णानुरागरसम् एव सम्यग् उद्वमन्ति मूलेनोद्गिरन्ति, न ते लास्फारसा इत्य् अर्थः । अन्य-योगव्यवच्चेदक एवकार एवापह्नुति-लिङ्गम् । कथम् उद्वमन्ति ? अन्तः आत्म-देह-मध्ये न मान्तम् अवकाशम् अप्राप्नुवन्तम् । कुतः ? सन्ततम् एधमानं सदा बर्धमानम् ॥

सर्व एव भगवदवतारा इव चिदात्मकतया विविधशक्तिमत्त्वेन चालौकिका एव लोके लौकिका इव दृश्यन्ते ॥३॥

नन्वेवम्भूतत्वेनकिम् इति सर्वैर् एव लोकैः प्रकटं न दृश्यन्ते ? तत्राह—सर्व एवेति । ततश् च तेषां यथा प्राकृत-तुल्याकार-चेष्टादीनाम् अपि वास्तवत्व-चिन्मयत्वेनोपास्यत्वादिकं शास्त्रे निर्णीतम्, न तु मायिकत्वम् अपि तथा अमीषां च ॥३॥

यत्र च—विलासिन्य इव ललितपत्राङ्कुराः, स्वाधीनभर्तृका इव प्रियेण तरुणाभिरामेण सदोपगूढाः, अनुरागिण्य इव समुत्कलिकाः, नाकसंसद इव विलसत्सुपर्वाणः, पुष्पवत्योऽपि नीरजस्काः, वक्रा अपि न वक्राः, चञ्चला अपि नाचिररोचिषः, सततभ्रमरा अपि अभ्रमराः, मरुदान्दोलिता अपि न मरुत्स्पृष्टाः, सर्वा एव सर्वकामप्रदा वीरुधः ॥४॥

पत्राङ्कुराः पत्र-लेखाः, पत्रानि अङ्कुराश् च, प्रियेण, कीदृशेन ? तरूणश् चासावभिरामश्चेति तथा तेन । पक्षे तरूणेति तृतीयान्तम् । उत्कलिका उत्कण्ठा, उत्कण्थोत्कलिके समे इत्य् अमरः, पक्षे उत्कृष्टा कलिका, नाक-संसदः स्वर्ग-सभाः, विलसन्तः सुपर्वाणो देवा यत्र, पक्षे विलसन्ति शोभन-पर्वाणि यासु ताः, निरजस्का मालिन्य-रहिताः, पुष्पवत्यः स्त्रियो हि रजस्वला भवन्ति, एतास् तु न तथेति विरोधः, वक्रा अनृजु-शरीरा अपि न वक्रा न कृउराः—पत्र-पुष्प-फलादिभिः सर्वेषां प्रियाचरणात्, वक्रः स्यात् कुट्ले क्रूरे इति विश्वः । न अचिररोचिषः, किन्तु चिरसमयव्यापिकान्तयः, चञ्चला विद्युतो हि अचिररोचिषो भवन्ति, विद्युच् चञ्चला चपलापि च इत्य् अमरः, सतत-भ्रमरा निरन्तर-भ्रमर-युक्ताः, न भ्रमं रान्ति ददतीति ताः, न मरुद्भिर् देवैः स्पृष्टाः, कृष्ण-लीलास्पदत्वात्, मरुतौ पवनामरौ इत्य् अमरः ॥४॥

यत्र च मणिमयालवालोपरि-कृतोपधानतयेव सुखसुप्तेनेव विभुग्नवृन्तेन फल-निकुरम्बेण परितः कृतमूलमण्डनैरिव नारिकेलपोतैरभितोऽभिरमणीयानि, तनुमध्यमा मध्यमानामिव करग्राह्याणां फलनिकराणां भरेणाधोमुखैरभितो विलम्बमानैर्वृन्दैः परितः कृतकण्ठमण्डनैरिव पूगतरुभिरितस्ततः कमनीयानि, परिपाकेऽपि नारं गलता नारङ्गलता-फल-निकुरम्बेण सतत-समुदितामित-मङ्गला-परम्परापरं परागतान्यग्रहमिव नभस्तलं विदधानानि, सुपल्लवलीलतानटनेन लवलीलता-नटनेन नयनरञ्जनानि, केशरि-नखरशिखरविदार-विकसन्मौक्तिक-निकरेण रुधिरारुणेन करिकलभ-कुम्भनिवहेन कृतोपमैः परिपाक-विलोहितैर्विदीर्यमाणतया व्यक्त-बीजराजिभिस्तत्कालापतित-शुकचरणाघात-समधिकावनतैः फलनिकरैः सुललितेन निखिलदिग्वधूसीमन्त-सिन्दूरपूरमनुभावयत्सु कुसुमसमूहेषु सदालिमीलतावनेन दालिमी-लतावनेन चमत्कारकारीणि, षडूर्मि-खर्जुर-हितानि खर्जू-रहितानि, निःसारितौकोमलेन कोमलेन मृद्वीका-मधुरेण मृद्वी-कामधुरेणावान्तर-काननेन मनोहारीणि, अभितः फलिनीभिः फलिनीभिश्च परमरमणीयानि, सकामजन-मनांसीव सफलकर्मरङ्गाणि, स्वरङ्गनानीव ललितरम्भाणि, सङ्गीतानीव विविधरमणीय-तालानि, कर्मकाण्डानीव निरवधि-सुपाक-कण्टकिफलानि, रूपकोपरूपकाणीव सफलशैलूषाणि, मेरुमन्दरशृङ्ग-विशेष-तेजांसीव जम्बूजनितश्यामलिमानि, नारायणतपांसीव बदरिकावनाधिकरणानि कानिचिदुपवनानि ॥५॥

यत्र च वृन्दावने कानिचिद् उपवनानि सन्ति । कीदृशानि ? नारिकेलानां पोतैर् अभितः सर्वतोऽभिरमनीयनि, पोताः पोधा इति ख्याताः, कीदृशैः ? विभूग्नवृन्तेन सत्य भूमि-लग्नेन पतितेन फल-निकुरम्बेण परितः कृतानि मुलस्य मण्डनानि यैस् तैः, फस-समूहेन कीदृशेन ? आलवालोपरि कृतम् उपधानं येन तस्य भावस् तत् ता तया हेतुना सुखं सुप्तेनेव जनैर् उत्प्रेक्षमाणेनेत्य् अर्थः, पूग-तरुभिर् गुवाक-वृक्षैः कमनीयानि, कृदृशैः ? फल-निकराणां वृन्दैः कान्दीति ख्यातैः परितश् चतुर्दिक्षु कृतानि कण्ठस्य मण्डनानि येषां तैः, वृन्दैः कीदृशैः ? भरेणाधोमुखैः, अत-एवाभितः सर्वतो विलम्बमानैः, तनुमध्यमा उत्तमाङ्गनास् तासां मध्यमानां मध्य-देशानाम् इव करग्राह्याणां मुष्टि-मात्र-ग्राह्यत्वात्, पक्षे वृक्षाणाम् अत्य् अनुच्छितत्वात् मूले स्थित्वैव करेणैव ग्रहीतुं शक्यानां फल-निकराणाम्, मध्यमं चावलग्नं च मध्योऽस्त्री इत्य् अमरः, नारङ्गलता नारङ्गीति ख्याता, तस्याः फल-समूहेन सतत-समुदिता अमिता अपरिमिता मञ्गलस्य मङ्गल-ग्रहस्य परस्परा क्रम-बाहुल्यं तत्परं नभस्तलं विदधानानि कुर्वाणानि, मङ्गलस्य लोहित-वर्णत्वाद् आकाश-गतत्वाच् च एतत् फल-साधर्म्यम्, तेनैव हेतुना परागतः परास्तोऽन्यग्रहो यत्र तथा-भूतम् इव उत्प्रेक्ष्यमाणम् इत्य् अर्थः, फल-निकुरम्बेण कीदृशेन ? परि-सर्वतो-भावेन पाकेऽपि सति न अरमतिशयेन गलता स्रवता, लवली-लताया लोआलीति ख्याताया नटनेन, मन्द-पवनान्दोलितत्वात्, कीदृशेन ? सु शोभनाः पल्लवा यस्यां तथा-भूता लीला यस्यास् तस्या भावः सुपल्लवलीलता, तस्याः सु-पल्लव-लीलतायाः स्थितिर् अनटनम् अगमनं किन्तु स्थितिर् एव यस्मिन् तेन नटनेन, दालिमीलताया दाडिमीलताया वनेन, डलयोर् ऐक्यं यमकानुरोधात्, कीदृशेन ? निखिलानां दिग् वधूनां सीमन्तस्य सिन्दुर-पूरम् अनुभावयत्सु सुज्ञापयत्सुत्प्रेक्षयत्स्विति यावत्, पुष्प-समूहेषु सदा अलीणां भ्रमराणां मीलतां मीलत्वं रस-तृप्ततया तन्द्रामवतीति तथा तेन, मीलक्ष्मील निमेषणे पचादिः । पुनः कीदृशेन ? फल-निकरैः सुष्ठु ललितेन, कीदृशैस् तैः ? विदीर्यमाणतया व्यक्ता वीजराजिर् येषां तैः, तस्मिन्न् एव काले आपतितानां शुकाना म्चरणाघातेन समधिकं यथा स्यात् तथा अवनतैः, करिकलभानां हस्तिशावकानां कुम्भ-निवहेन सहकृता उपमा येषां तैः, कुम्भ-निवहेन कीदृशेन ? केशरिणां सिंहानां नखर-शिखरैर् नखागैर् विदाराद् विकसन्तो मौक्तिक-निकरा यस्मिंस् तेन, अतएव रुधिरेण हेतुना अरुणेन, अतएव रुधिरेण हेतुना अरुणेन, तद् उद्गतत्वान् मौक्तिकानाम् अप्यारुण्यं प्रान्तगतं ज्ञेयम्, षड् ऊर्मय एव ऋजुर्व्याधि-वीशेषः, कण्डूः खर्जुश् च कण्डूयाः इत्य् अमरः, तया रहितानि, शोकमहौ जरा-मृत्यु क्षुत्-पिपासे षड् ऊर्मय पक्षे खर्जूरैर् वृक्ष-भेदैर् हितानि, निःसारितानि दूरी-कृतानि ओकसां स्थानानां मलानि तृण-पर्ण-जम्बालादीनि यत्र तेन, मृद् वीकाभिर् द्राक्षाभिर् मधुरेण, मृद्वीका गोस्तनी द्राक्षा इत्य् अमरः । अतएव मृद् वीनामङ्गनानां कामधुरा वाञ्छितभरो यत्र तेन, फलवतीभिः प्रियङ्गुभिः प्रियङ्गुलताभिः, प्रियङ्गुः फलिनी फली इत्य् अमरः, सफले सफले स्वर्गादि-साधके कर्मणि रङ्गः कर्तव्यत्वेन उत्साहो येषु तानि, पक्षे फल-सहितः कर्म-रङ्गःकाम-रङ्गा इति ख्यातो वृक्षो येषु तानि, स्वः स्वर्गस्य अङ्गनानि प्राङ्गणानि, ललिता रम्भा तन् नाम्नी अप्सरा नाट्यार्थम् आगता येषु तानि, पक्षे रम्भा कदली-वृक्षः, ताला नृत्य-वाद्य-निष्ठाः, ताल-वृक्षाश् च, सुष्ठु पाके परिणामे सति कण्टक-युक्तानि फलानि स्वर्गादीनि येषु—पातशङ्का-मात्सर्य-सूयादि-दोष-बाहुल्यात्, पक्षे सुपक्व-पनस-फलानि, रूपकानि नाटकादीनि, उपरूपकानि नाटिकादीनि, सफलाः सार्थकाः, शैलूषाः नटा यत्रा तानि, शैलूषा जायाजीवाः कृशाश्विनः, भरता इत्य् अपि नटाः इत्य् अमरः, पक्षे शैलूषा विल्व-वृक्षाः, विल्वे शाण्डिल्य-शैलूषौ इत्य् अमरः, मेरु-मन्दारो नाम सुमेरु-पार्श्ववर्ति-पर्वतः, तत्रैव द्वीपाख्यापकस्य महा-जम्बू-वृक्षस्य सत्त्वात्, वदरिका-वनं वदरिकाश्रमः अधिकरणं आश्रयो येषां तानि, पक्षे वदरी-वनस्याधिकरणातीति षष्ठी-तत्-पुरुषः ॥५॥

यस्य च कालातीतस्यापि षड्भिरेव ऋतुभिर्भगवल्लीलौपयिकतयाप्राकृतैरपि प्राकृतैरिव भासमानैः कृतविभागाः; षड्विभागाः, यथा—वर्षाहर्षः, शरदामोदः, हेमन्तसन्तोषः, शिशिरसुखाकरः, वसन्तकान्तः, निदाघसुभगश्चेति ॥६॥

यस्य वृन्दावनस्य षड्-विभागाः सन्ति । कीदृशाः ? षड्भिर् ऋतुभिः कृता विभागाः प्रतिस्वं विशिष्य भागा येषां ते । तान् एवाह—वर्षाहर्ष इति । वर्षाभिर् हृष्यति हर्षयतीति वा सः, सुखं करोतीति [प ५-४-६३] सुख-प्रियादानुलोम्ये इति डाच् प्रत्ययान्तः, सुखानामाकर इति वा ॥६॥

तेषु च भगवद्भक्तियोग इव सतत-घनरसदः, ब्रह्मानन्दसाक्षात्कार इव सदानन्दद-चिररोचिः, पार्वतीविग्रह इव सदासमुत्कण्ठित नीलकण्ठः, न्यायग्रन्थ इव सदात्यूहकोलाहलः, गरुत्वानिव सदा सारङ्गरुतं बिभ्राणः, दिनकर इव विकाशित-ककुभावलिः, लीलौपयिकतया लघु लघु निपतदम्बुकणनिकरनिरन्तरोत्पद्यमान-नवमृदुल तृणाङ्कुरान्मरकतमणिशिलाकिरणाङ्कुर-निकुरम्ब-सम्भालनया परितः परिहाय मरकतमणिभूमिष्वेव तत्किरण-कन्दलीर्वाष्प-च्छेद्य-सस्यधियाचामद्भिश्चमूरु चयैरभितोऽभितः शोभमानः, मृदुमृदुसञ्चरदिन्द्रगोपनिकरैरितस्ततः सजीवैरिव कमलराग-शकलैः कलितं नवतृणाङ्कुरमय-हरितपट्टकूर्पासकं भुवो वक्षसि निधापयन्निव लघुतर-शीकरनिकरवाहि-कदम्बपरिमल-विमलजलधरानिल शीतलः स किल वर्षाहर्षो नाम ॥७॥

तेषु विभागेषु मध्ये वर्षा-हर्षो नाम विभागः । कीदृशः ? सततं घनं निविडं रसं श्री-कृष्णानुराग-लक्षणं ददातीति सः, पक्षे घन-रसो जलं मेघ-पुष्पं घन-रसः इत्य् अमरः, सताम् आनन्ददं चिरं रोचिः प्रकाशो यत्र, पक्षे सदानन्दन्ती अचिर-रोचिर् विद्युद् यत्र सः, नील-कण्ठो महेशो मयूरश् च, सदा अत्युहे अतिशय-तर्के विचारात् कोलाहलो यत्र सः सः, पक्षे दात्यूह-कोलाहलेन सह वर्तमानः, दात्यूहो डाहुकः इति ख्यातः पक्षी,गरुत्मान् गरुडः, सदा-सारं सदावलं गरुतं पक्षं विभ्राणः, पक्षे सदा सारङ्गाणां चातकानां रुतं शब्दं पुष्णन्, सारङ्गे चातके भृङ्गे इति मेदिनी19, ककुभानां दिशामावलिः श्रेणी, टापञ्चापि हलन्तानाम् इति वचनात् दिशा-वाचेत्यादिवत् ककुभा-शब्दोऽपि टावन्तो दृष्टः । तथा च कश्यपः—भूमि-पुत्रादयः सर्वे यस्याम् अस्तमिते रवौ । दृश्यन्ते ककुभायां वै ततोऽनिष्टं विनिर्दिशेत् ॥ इति, पक्षे ककुभोऽर्जुन-वृक्षः, लीलौपयिकतया स्पृहनीयत्वेनेत्य् अर्थः । लघु लघु यथा स्यात् तथा निपतताम् अम्बुकणानां निकरेण हेतुणा निरन्तरम् उत्पद्यमाना जायमाना नवा मृदुलास् तृणाङ्कुरास् तान् मरकत-मणि-शिलानां किरणाङ्कुरा एवैते नूनं भवन्ति, न20 पुनस् तृणाङ्कुरा इति सम्भालनया सम्यग्-दृष्ट्या निरूपणेन, परित इति वामतो दक्षिणतः पृष्ठतश् च परित्यज्य, आचामद्भिर् भूञ्जानैः, यथैवाचमनमतृप्तिकरम्, तथैव तेषाम् अवास्तवत्वाद् अर्पकत्वाद्-भक्षणाभिनयमात्रम् इति भावः । चमूरवो मृग-भेदा, मृदु मृदु यथा स्यात् तथा सञ्चारद्भिरिन्द्र-गोप-समूहैः, इन्द्र-गोपा लोहित-वर्ण-सूक्ष्म-कीट-विशेषास् तैः21, सजीवै प्राणवद्भिर् इव पद्मराग-खण्डैः कलितं जटितं नव-तृणाङ्कुरमयं हरितं हरिद् वर्णं पट्ट-कूर्पासकं पट्ट-कञ्चुलिकां निधापयन्22 अर्पयन्न् इव, चोल-कूर्पासकौ स्रियाः इत्य् अमरः । लघुतर-शीकर-निकर-वाहिनेति मान्द्यम्, कदम्बानां परिमलो यत्र तेनेति सौगन्ध्यम्, विमल-जल-धर-सम्बन्धिनेति शैत्यम् उक्तम् । तथा-भूतेनानिलेन शीतलः स्निग्धोऽयं वर्षा-हर्ष्यो विभागः, न तु प्राक्तन-निदाघवद्-रूक्ष इति भावः ॥७॥

किञ्च—

समुन्मिषित-मालतीकुसुमसुस्मिता मेदिनी, कदम्बतरुकोरकैः पुलकिता वनानां ततिः । अजस्रगलदस्रभृद्घनपयःकणानां गणैरपि द्युरमणी समं यदनुरागमातन्वते ॥८॥

सम्यगुन्मिषितैर् विकसितैर् मालतीनां कुसुमैर् एव शोभनं स्मितं यस्याः सा मेदिनी यथा पुलकिता पुलकवती वनानां ततिः श्रेणी, तथा द्युरमणी द्यौर् एव रमणी सापि अजस्रं निरन्तरं गददस्रं विभर्ति । कैः ? घना मेघास् तत्-सम्बन्धि-पयःकणानां गणैः, यद्-यत्र वर्षाहर्ष-विभागे समं तुल्यम् एवानुरागम्, स्मित-पुलकाश्रूणां हर्षानुभावकत्वात्, आतन्वते विस्तारयन्ति । तिस्रो मेदिनी-वनतति-द्युरमण्योऽनुरागिण्य इवोत्प्रेक्ष्यन्त इत्य् अर्थः ॥८॥

किञ्च, यत्र—

पुरन्दरधनुर्लतातिलकचारु-भालस्थला, तडित्कनककेतकीदल-लसत्तमःकुन्तला । विलोलविषकण्ठिका-विमलमालभारिण्यसौ, नवोन्नतपयोधरा हरिमनोहरा दिग्वधूः ॥

दिग् वधूः दिग् एव वधूः, हरेर् मनोहरा, अपूर्व-शोभयेत्य् अर्थः । पुरन्दर-धनुर्लतेव तद् आकारं तिलकं तेन चारु सुन्दरं भाल-स्थलं यस्याः सा, तडितो विद्युत एव कनक-केतकी-दलानि तैर् लसन्ति तमांस्येव कुम्भलाः केशा यस्याः सा, विलोलाभिर् विष-कण्थिकाभिर् वक-पङ्क्तिभिर् एव विमल-माला-भारवती, [पा ६-३-६५] इष्टकेषीका-मालानां चित-तूलभारिषु इति ह्रस्वत्वम्, बलाका विष-कण्थिका इत्य् अमरः, पयोधरः स्तनो मेघश् च, स्त्री-स्तनाब्दौ पयोधरौ इत्य् अमरः ॥

सारङ्गीकुलकाकु-कर्षणविधेराश्वासवाङ्मानिनी मानक्षोदन-पेषणीभ्रमिबलत्सुस्निग्ध-मन्द्रध्वनिः । **नृत्यन्मत्तमयूरमौरजरवः प्राणेश-विश्लेषिणी ** प्राणाकर्षणमन्त्रपाठ-निनदो मेघस्वनः श्रूयते ॥९॥

सारङ्गी-कूलानां चातकी-समूहानां काकुभिर् वैक्लव्य-व्यञ्जक-ध्वनि-विकारैर् यः कर्षणस्य विधिर् विधानं आगत्यास्मान् शीघ्रं जीवय इति यत् प्रार्थन-करणं तस्माद् धेतोस् तस्याश्वस-वाक् औत्कण्ठ्येन मा विषीदत, एषोऽहं वर्ष्ष्मि इत्य् एवम् आकारेत्य् अर्थः । मानिनीनां मानस्य क्षोदनी पेषणी, तस्या भ्रमिश् चूर्णीकरणार्थः घूर्णनम्, ततो हेतोर् बलन् सुस्निग्धो मान्द्रो गम्भीरश् च ध्वनिः, नृत्यतां मत्तमयूराणां मौरजो मुरज-सम्बन्धी रवः, प्राणेशात् स्वकान्तात् विशेषवतीनां प्राणाकर्षणः प्राण-निष्काशको मन्त्र-पाठस्य निनदो मेघस्वनः श्रुयत इति श्रूयमाणः सन्नेवम् एवम् उत्प्रेक्ष्यत इति भावः ॥९॥

कदाचिदपि, यत्र—

दात्यूहाः परितो रुवन्ति गणशः कोयष्टिकाः सर्वतो मण्डूकाः प्रचलाकिनस्तत इतो धाराधरा व्योमनि । आसाराः पयसां झपज्झपदिति स्निग्धातिमन्द्रस्वराः सर्वेमुग्धदृशां रतान्तसमये स्वापोत्सवं कुर्वते ॥

कोयष्टिकाः टिठीति ख्याताः, गणशो गणे गणे, स्वीये वर्तमाना इत्य् अर्थः । प्रचलाकिनो मयूरां, झपज्-झपद् इति वृष्टि-शब्दानुकरणम् ॥

यत्र च—

मध्ये गौरी परिणतफलैर्नम्रशालै रसालैर् अन्ते श्यामा रुचिभिरभितः पक्वजम्बूफलानाम् । प्रान्ते पाण्डुः स्फुटसुरभिभिः सूचिभिः केतकानाम् उद्यानश्रीः स्फुरति विविधैर्वर्णकैश्चित्रितेव ॥१०॥

वर्णकैर् हरितालादिघटितैर् मध्ये गौरी पीत-वर्णा, कुतः ? परिणतानि पक्वानि फलानि येषां तैः, अतएव नम्राः शालाः स्वन्ध-शाखा येषां तैः, स्कन्ध-शाखाशाले इत्य् अमरः, एवम्भूतै रसालैर् वर्षापरिणाम् इभिर् आम्रभेदैर् हेतुभिः, अन्ते तद् वहिर् मण्डले श्यामा, प्रान्ते प्रकृष्टे अन्ते सर्वतो-बहिर् मण्डल इत्य् अर्थः । सूचिभिः सूचि-तुल्यैः पुष्प-दलैः । अत्र आम्राणां श्रेष्ठत्वात् मध्यस्थत्वम्, जम्बुनां ततोऽवरत्वेन श्यामतया बहिःस्तत्वात् तदीय-मरकत-प्राचीरायमाणत्वम्, केतकीनां निष्फलत्वेनापकृष्टानां सूचि-तुल्य-पुष्प-दलतया शक्त्यस्त्रधारि तदीय-रक्षक-गणायमाणत्वम् इति विवेक्तव्यम् ॥१०॥

द्वितीयस्तु भगवच्चरण इव कमला-करलालितः, हरिभक्तजन इव निरवकरजीवनः परमनिर्मलाशश्च, वैकुण्ठनाथमिव विलसच्चक्रं प्रफुल्लपद्मञ्च, भगवतः पाण्डवदूत्यमिव
समदधार्तराष्ट्रहेलितम्, अध्यात्मयोगमिव सञ्चरत्परमहंसम्, रामायणमिव अभिराम-लक्ष्मणालापम्, भगवद्यश इव कुवलयामोदम्, ज्वलनदिग्विभागमिव प्रभिन्नपुण्डरीकम्, नैरृतकोणमिव कुमुद-मदामोदित-मधुकरम्, सायंसमयमिव विलसद्रक्त-सन्ध्यकम्, परितो जलाशयमादधानः, समरसमारम्भ इव विलसच्चन्द्रहासः, सत्यकाल इव पूर्णभावेन मदमुदित-वृषविलासः शरदामोदो नाम ॥११॥

द्वितीयः शरदामोदो नाम विभागः । कमलायाः कराभ्यां लालितः, मृदु मृदु संवाहितः, पक्षे कमलाकरैर् तडागैर् लालितो ललिती-कृतः, निरवकरं निर्दोषं जीवनं जीवितं जलं च यत्र सः, परम-निर्मला आशा भक्ति-विषया दिशश् च यत्र सः । पुनः कीदृशः ? परितो जलाशयं आ सम्यग्-दधानो धारयन् पुष्णन्निति वा । जलाशयम् एव विशिनष्टि—चक्रं सुदर्शनम्, चक्रश् चक्रवाक-पक्षी च, प्रफुल्ला प्रसन्ना लक्ष्मीर् यत्र, पक्षे प्रविकसितानि पद्मानि कमलानि यत्र तडागे । भगवतः श्री-कृष्णस्य पाण्डव-दुत्यं भारत-प्रसिद्धम् । समदैर् धृत-राष्ट्र-पुत्रैर् दुर्योधनाद्यैर् हेलितमवज्ञातम्, पक्षे मत्तानां धार्तराष्ट्राणां हंस-विशेषाणां हेलितं हेला यत्र तम्, धार्तराष्ट्राः सितेतरैः, हेला लीला इति चामरः, सञ्चरन् परम-हंस ईश्वरः, पक्षे सञ्चरण-शीलो राजा हंसो यत्र परम-शेषो वा तम्, अभितो राम-लक्ष्मणयोर् आलापो यत्र तम्, पक्षे अभिरामः कमनीयो लक्ष्मणायो लक्ष्मणायाः सारस्या आप्लापो यत्र तम्, हंसस्य योषिद् वरटा, सारसस्य तु लक्ष्मणा इत्य् अमरः, कुः पृथिवी तस्या वलयस्य मण्डलस्य आमोद आनन्दो यतस् तत्, पक्षे कुवलयस्य नीलोत्पलस्यामोदो गन्धो यत्र तम्, जलनो बहिः, प्रभिन्नो मत्तः पुण्डरीकस् तन् नामाग्निदिग् गजो यत्र तम्, प्रभिन्नो गर्जितो मत्तः इत्य् अमरः, पक्षे प्रभिन्नानि विकसितानि प्रभेद-युक्तानि वा पुण्डरीकाणि सिताम्भोजानि यत्र तम्, कुमुदो नैर् ऋतकोणस्थो दिग्गजस् तस्य मदेनामोदिता मधुकरा यत्रा तम्, पक्षे कुमुदेषु मदामोदिता मधुकरा यत्र तम्, ऐरावतः पूण्दरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्भौमः सुप्रतीकश् च दिग्गजाः । इत्य् अमराः, विकसन्ती विराजन्ती रक्ता सन्ध्या यत्र तम्, पक्षे विकसन्ति स्फुटन्ति रक्त-सन्ध्यकानि यत्र तम्, हल्लकं रक्त-सन्ध्यकम् इत्य् अमरः, समरो युद्धम्, चन्द्र-हासं खड्गश् चन्द्र-प्रकाशश् च, वृषो धर्मः पुङ्ङवश् च ॥११॥

यत्र च—दुर्जनवचनोत्तप्ताः सुजना इव बहिरुष्णतामन्तः शीतलतां दधाना महाह्रदाः, यत्र च—श्रीखण्डखण्डाङ्गरागा इव दिगङ्गनानाम्, पवनावधूतसितसिचयाञ्चलखण्डा इव नभोलक्ष्म्याः, वितत्यातपे दत्तानीव कर्तनीयतूलिकानि पवनकन्यकानां सिततर-जलद-शकलानि ॥१२॥

उष्णतां कृत्रिम-कोपं तप्तत्वं च बहि, अन्तः शितलतां दयां शीतत्वं च दधानाः सुजना इव ह्रदा यत्र शरदामोद-विभागे ताः । यत्र च सिततराण्यतिश्वेतानि जलदशकलानि मेघ-खण्डाणि श्री-खण्डस्य चन्दनस्य खण्ड-भूता अङ्गरागा इव उत्प्रेक्ष्यन्ते इत्य् अर्थः । पुनस् तेषाम् आकाश-मध्य-गतत्वं चाञ्चल्यं च विलोक्यान्यथोत्प्रेक्षते । पवनेनावधूतानां चालितानां सित-वस्त्राणाम् अञ्चल-खण्ढा इव आकाश-शोभा-भूतायाः स्त्रियाः, पुनर् अपि लघुनाम् एव तेषां प्रतिक्षणं विस्तारम् आलोक्य ततोऽप्यन्यथा उत्प्रेक्षते । कर्तनीयानि सूत्र-निर्माण-योग्यानि तुलिकानि कार्पासभवानीत्य् अर्थः । अतएव वितत्य विस्तार्य सूर्यातपे दत्तानि अर्पितानि तानि पवन-कन्यकानाम् इति, अतएव पवनेन पित्रा शोषणार्थम् आतपे स्वयम् एव चाल्यमानानीत्य् अर्थः ॥१२॥

येषाञ्च प्रतिबिम्बे तरणिदुहितुरम्भसि सम्भृतविलास-सम्भारे सति, तस्या एव सलिलगतानि सैकतान्तराणीव, अथवा, भगवदवगाहन-सौभाग्यमिवासादयितुकामा सुरसरिदेव गर्भवासमाससादेति सकलैरनुमीयते ॥१३॥

येषां सित-मेघ-खण्डानां प्रतिविम्बे, कुत्र ? तरणि-दुहितुर् यमुनाया अम्भसि, तस्या एव यमुनाया एव सैकताम्भराणि बालुकामय-पुलिनान्तराणीव लक्ष्यन्ते इत्य् अर्थः, सैकतं सिकतामयम् इत्य् अमरः । मेघ-खण्डानां चाञ्चल्यात् प्रतिविम्बानाम् अपि प्रबाहवच् चाञ्चल्यम् आलोक्य अन्यथोत्प्र्क्षते—अथवेति । आसादयितुकामा प्राप्तुकामा सुरसरिद्-गङ्गा गर्भ-वासं यमुनाया गर्भे वासम् ॥१३॥

विकचकमलख्लारहल्लकामोदमेदुरः सप्तच्छदसौरभदानगन्धिरन्धितपुष्पन्धयोऽन्धकारितदिग्वलयः, पवन-मतङ्गाजश्च यत्र परमामोदमातनोति ॥

विकचानां कमलादीनाम् आमोदैर् गन्धैर् मेदुरः, सान्द्र-स्निग्धस् तु मेदुरः, इत्य् अमरः, सत्पच्चदः—छातिन इति गौडे, सनपन इति पाश्चात्येषु खातो वृक्षस् तस्य सौरभेण दान-गन्धिर् मद-गन्धिः, हस्तिनां मदो दानम् इत्य् अमरः । अतएव अन्धिता व्याकुली-कृताः पुष्पन्धया भ्रमरा येन सः, [पा ३-२-२९] नासिका-स्तनयोर् ध्माधेटोः [पा ३-२-३०] नाडीमुष्ट्योश् च इति योग-विभागात् खश् प्रत्यः, उन्मीलन् निज-कान्तिकेतक-समाकृष्टाक्ष पुष्पन्धयः23 इति कवि-कल्पलता, परमम् आमोदं गन्धमानन्दं च ॥

**कूजत्सारसकाञ्चिका मृदुनदत्कादम्बपादाङ्गदा ** **चक्राह्वस्तनमण्डला दरदलद्राजीवकोषानना । ** **नीलाम्भोरुहलोचना मधुकरश्रेणीभ्रमद्भ्रूलता ** यत्राभाति परागरञ्जिवसना मूर्तेव देवी शरत् ॥१४॥

कादम्बः कल-हंसः, दर ईषत्, दलन् प्रस्फुटन्, राजीव-कोष एवाननं यस्याः सा, पराग् एव रञ्जि द्रष्टृ रञ्जकं वसनं यस्याः सा ॥१४॥

किञ्च, या किल देवहूतिरिव कर्दमे प्रस्थिते कपिलास्यनिरीक्षणक्षणा । किञ्च—

स्थलकमलवनान्तः कौसुमं यस्य तल्पं, विमलबहुलतारं व्योम मुक्तावितानम् । विकसितचलकाशाश्चामराणां समूहः, स ऋतुरतुलकान्तिर्यत्र राजेव रेजे ॥

या शरत् कर्दमे श्री-कपिल-देवपितरि पङ्के च, प्रस्थिते प्रव्रजिते सति, पक्षे गते नष्टे सतीत्य् अर्थः, कपिलस्य स्व-पुत्रस्य, पक्षे समय-विशेषो यस्यास् सा, काल-विशेषोत्सवयोः क्षणः इत्य् अमरः । स ऋतुर् यत्र विभागे राजा इव रेजे, दीप्तिं चकारः । कौसुमं पतित-कुसुम-दलमयम्, मुक्तावितानं मुक्तामयश् चन्द्रातपः विकसिताः पवनेन चलाः काशाः काश-पुष्पाणि ॥

किञ्च—

अत्याकृष्टा इव हरिदिभैर्व्योमवृक्षस्य शाखाः प्रत्याक्रान्ता इव जलधरैर्नम्रतां याः समीयुः । दूरं याताः किमिव हरितस्तैर्विमुक्ता इहेत्थं वर्षाहर्षात् क्षणमुपगता यत्र तन्वन्ति तर्कम् ॥१५॥

वर्षा-हर्षात् प्रदेशाद्-यत्र शरदामोदे उपगता जना इत्थम् एवं तर्कम्, ऊहं तन्वन्ति, वर्षाहरे आकाशस्य सर्वतो मेघावृतत्वाद्-दिशां निकटवर्तित्वं हस्त-प्राप्यम् इव मत्वा शरदामोदे तु तद् अभावाद् दिशां दूरवर्तित्वं लोचनाभ्याम् अप्यगम्यं परामृश्य एवम् उत्प्रेक्ष्यन्त इत्य् अर्थः । व्योम एव वृक्षस् तस्य शाखा हरिदिभिर् दिग्गजैर् अत्याकृष्टा इव, अत्यन्तम् आकृष्य अधःपातिता इवेत्य् अर्थः । याः शाखा जल-धरैर् मेघैस् तेषां साहाय-कारिभिर् इव प्रत्याक्रान्ता उपरि आरुह्य आक्रान्ता इव नम्रतां समीयुः प्राप्ताः । इह शरदामोदे तु हरितस् ता दिशः, किम् इव दूरं याताः, अत24स्तदीयैर् हस्तिभिर् व्योम-वृक्षस्य शाखा नाकृष्ञन्ते इति भावः । तत्र कारणम् इव तर्कयन्तो विशिंयन्ति—तैर् जलधरैर् विमुक्ता इति25 तच्छाखाक्रमणार्थं तद् उपरि मेघैर् अत्र नारुह्यन्ते, अतः साहाय्याभावात् स्वीयगजानाम् अतिदूरस्थ-शाखाकर्षणा-शक्तेर् निवृत्ता इत्य् अनुमीयते इति भावः ॥१५॥

अथ तृतीयोऽपि यत्र भीम इव महासहा मोदमेदुरः, अर्जुन इव मधुसूदनप्रियसहचरः, महेश इव अनुगतबाणः, कैलास इव सहावलोध्रः, श्रीभागवतग्रन्थ इव मधूर-शुकोदितः, आयुर्वेद इव प्रवीणहारीतः, साधुसङ्ग इव सदामदलावः, भगवदुपासक इव क्रमशीतलीभवज्जीवनः, अहरहरुपचीयमानदोषोऽपि निर्दोषः, पद्मिनी-ग्लानिकरोऽपि क्षणदा-दैर्घ्येण पद्मिनी-महोत्सवकरः स खलु हेमन्तसन्तोषो नाम ॥१६॥

यत्र विभागेषु तृतीयो हेमन्त-सन्तोषः । महत् सहो वलं यस्य सः, मेदेन हर्षेण मेदुरः स्निग्ध इति पद-द्वयम्, पक्षे महासहा पुष्प-विशेष-वाची टावन्तः, अम्लानस् तु महासहा इत्य् अमरः, मधुसूदनः श्री-कृष्णः, पक्षे मधुसूदनानां भ्रमराणां प्रियः सहचरः पीत-झिण्टी यत्र सः, इन्दिन्दिरश् चञ्चरीको रोलम्बो मधुसूदनः इति त्रिकाण्ड-शेषः, पीता कुरुण्टको झिण्टी तस्मिन् सहचरी द्वयोः इत्य् अमरः, अवलया भार्यया दुर्गया सह वर्तमानः उः शम्भुस् तं धरतीति सहावलोध्रः, पक्षे हावौल्लासको भाव-विशेषः, सहावो लोध्र-वृक्षो यत्र सः, मधुरश् चासौ शुकाद्-व्यास-पुत्रादुदित उदयं प्राप्तश् चेति स तथा, पक्षे मधुरं शुकानाम् उदितं कूजितं यत्र सः, हारीतस् तच्छास्त्र-प्रवर्तको मुनिः, पक्षे हरिताल इति ख्यातः पक्षि-विशेषः, मदमहङ्कारं लुनातीति सः, पक्षे सतत-मद-युक्तो लावः पक्षि-विशेषो यत्र सः, क्रमेणोत्तरोत्तर-प्राप्यमाणाधिकेयेन भजनेन शीतेन च शीतली-भवन्ति जीवनानि जीवितानि जलानि च यस्य यत्र च सः, अहरहः प्रतिदिनम् उपचीयमाना वर्धमाना दोषा रजनी येन सः टावन्तो देषा-शब्दोऽनव्ययोऽप्य् अस्ति—ततः कथाभिः समतीत्य दोषा-,मारुह्य सैनैः सह पुष्पकन्तु इति भट्टि-प्रयोगात्, प्रारम्भो दोषायाः प्रदोषः इत्य् अमरः-टीकासुप्रदोष-शब्द-व्याखानाच् च । पद्मिन्यः कमलस्तम्बाः, क्षणदा रात्रिः, पद्मिन्यः सल्लक्षणवत्यः स्त्रियश् च ॥१६॥

यत्र नवदिनकरकिरणपरामर्शोन्मुखजनमनांसि दिवसमुखानि, अभिनवारुणकिरण-निकर-निपातधिषणतया हरिणरमणीभिः क्षणमुपसेव्यन्ते कुरुविन्दमणिमय-धरणितलानि, नोपगम्यन्ते च हिमकरकिरणनिकरधिया स्फटिकमणिशिलाविलासवीथयः; किं बहुना? शीतभीतेनेव भगवता किरणमालिनापि दहनदिगुपकण्ठ एव सोत्कण्ठमालम्ब्यते ॥१७॥

दिवस-मुखानि प्रभातानि, अभिनवानामरुणस्य सूर्यस्य किरणानां निपाते धिषणा निश्चयवती वुद्धिर् यासां तासां भावस् तत् ता तया हेतुना उपसेव्यन्ते शीतत्राणार्थम् इत्य् अर्थः । स्फटिक-मणिमयीनां शिलानां विलासो यासु तथा-भूता वीथयो भूमि-प्रदेशाः पङ्क्तयो वा, उपकण्थो निकट-देशः, कण्थस्य समीपम् उपकण्थं तस्म्न्न् इति सप्तम्यन्तया व्याख्याने भगवतापि परदार-कण्थे सोत्कण्थमालम्ब्यत इति द्वितीयोऽपि विरोधो ज्ञेयः ॥१७॥

नवनवाङ्कुरनिकराकारकिरणकन्दलेषु मरकत-मणिवीथिपरिसरेषु सचकितमभितोऽभितो निरीक्षमाणाश्चमूरुरमण्यो यवाङ्कुरधियैव चरन्त्यो निरवधि व्रजचमूरुनयना-नयनचमत्कारं कारयन्ते ॥१८॥

कन्दलं समूहः कन्दलन्तु समूहे स्याद् उपरागे नवाङ्कुरे इति विश्वः, सचकितम् अभितोऽभितः कर्षका अत्र सन्ति न वा सन्तीति निरीक्षमाणाश् चमूरवो मृग-विशेषास् तेषां रमण्यः ॥१८॥

यत्र च—

क्रमाद्भानोरूष्मा ह्रसति हिमयोगेन महता, बलन्ते वक्षोजद्वयपरिसरेषुष्मविभवाः । क्रमाद्दैर्घ्यं रात्रेर्भवति ह्रसिमा वाम्यरहसो, वधूनां शीतार्तप्रियतमपरिष्वञ्जनविधौ ॥

वाम्यरहसो राम्यसुरतस्य, रहोऽतिगुह्ये सुरते च इति विश्वः, ह्रसिमा ह्रस्वत्वम्, प्रे ह्रे वा इति तिकारस्य संयोग-पूर्वस्यापि लघुत्वम्, प्रियतमेति प्रेमैवात्र हेतुर् इति व्यज्यते ॥

कुरुबककुसुमानि केशपाशे-ष्वलककुलेषु वहन्ति लोध्रधूलीः । स्रजमुरसि महासहाप्रसूनईर्व्रजसुदृशो न मणीन्द्रमण्डनानि ॥

अम्लानस् तु महासहा तत्र शोणे कुरुवकः इत्य् अमरः, न मणीन्द्रेति तेषां शैत्यात् ॥

**कालीयकालेपनमङ्गरागे, लीलागृहे केवलधूपधूमः । ** ताम्बूलमेलादि-कटुप्रयोगं, नोष्णेतरो यत्र गुणो गुणाय ॥१९॥

कालीयकं कलम्बक इति ख्यातम्, उष्णेतरः शीतो गूणो यत्र, न गुणाय, किन्तु दोषायैव ॥१९॥

अथ चतुर्थोऽपि यत्र सुहृत्समागम इव समुल्लसित-बन्धुजीवः, विश्वकर्मेव कुन्दारोपित-प्रभाकरः, भगवद्वैकुण्ठनाथ इव सर्वदा नवदमनवः, महावर्षागम इव समुल्लसित-मरुवकामोदः, मुनिसमाज इव प्रमुदित-भारद्वाजः, लङ्कासमर इव क्रमशो वर्धमान-मानवासरः, दयितपद्मिनीवियोगनिर्विण्णतयेव कृतोत्तरापथप्रयाणेन सकलजनोपसेवित-पादेन किरणमालिना विरोचमानः शिशिरसुखाकरो नाम ॥२०॥

चतुर्थः शिशिर-सुखाकरः, बन्धुनां जीव आत्मा, पक्षे बन्धुजीवः दोपहरिया इति ख्यातः पुष्प-विशेषः, स्वदुहितुः सञ्ज्ञाया कठोरतत् तेजःसंश्लेष-दुःख-दूरीकरणाय कुन्दे चक्र-भ्रमौ आरोपितः प्रभाकरः सूर्यो येन, पक्षे कुन्द-पुष्पे आरोपितां सम्यग्-जनितां प्रभां कान्तिं करोतीति स तथा, कुन्दश् चक्र-भ्रमौ माघ्ये इति विश्वः, सर्वेषां दानवानां दमनं यस्मात् सः, पक्षे सर्वदा नवानि दमनकानि दोना इति ख्यातानि यत्र सः, सम्मग् उल्लासितो मरु-भूमावपि वकानां हर्षो येन सः, पक्षे, मरुवकस्य पुष्प-विशेष-श्यामोदः, भवेन् मरुवकः पुष्पभिच्छल्य-द्रुफणिज्झके इति मेदिनी, भार्द्वाजो भरद्वाज-वंशः, पक्षे भरद्वाज-पक्षि-समूहश् च, व्याघ्राटः स्याद् भरद्वाजः, इत्य् अमरः, लङ्कायां समरो युद्धं मानवो मनुवंशोद्भवो राघवश् च, आसरो राक्षसश् च, क्रव्याद् ओऽस्रप आसरः इत्य् अमरः, क्रमशो वर्धमानौ तौ यत्र सः, पक्षे वर्धमानं मानं परिणं येषां तथा-भूता वासरा दिवसा यत्र सः, दयिता पद्मिन्येव दयिता पद्मिनी सल्लक्षणवती स्त्री तस्या वियोगेन निर्विण्णता किमतः परं हार्हस्थ्याश्रमेण इति निर्वेदस् तया हेतुनेव कृतम् उत्तरापथे वैराग्यार्थम् एव प्रयाणं येन तेन, ततश् च सकल-जनैर् उपसेविता निज-निज-पावित्र्यार्थम् इव पादाः शीत-निवर्तक-किरणा एवाङ्घ्रयो यस्य तेन किरण-मालिना सूर्येण ॥२०॥

यत्र अन्तर्वर्तमानमणिगणकिरणकन्दलैरिव जलतः समुदित्वरैर्धूमायमानैर्जलवाष्पैरलक्षित-जलानि सरित्सरसी-पल्वल-वनानि धूमानुमित-वह्निमत्तयेव झटित्यनासेवमानाभिर्हरिणतरुणीभिः सचकितमीक्ष्यमाणानि वासरमुखानि, यवसशिखर-समुदीर्णविमलमौक्तिक-जालधिया निशा-निःस्यन्दि-तुहिनकणपटलानि भगवता विभावसुनापि निजकोमलकराग्रेण ह्रियमाणानि यत्र दिवसमुखेष मुहूर्तादेव विरलायन्ते ॥२१॥

सरिदादीनि झटिति शिघ्रम्, न आ सम्यक् सेवमानाभिः, कुतः ? धूमैर् अनुमितो बह्निस् तद्वत् तया अलक्षितजलत्वात् सरिदादीन्येव वनानि वितर्क्य एतानि बह्निमन्ति धूमेभ्यः इत्य् एवम् अनुमायेत्य् अर्थः । झटितीत्य् अनेन पूर्व-पूर्व-सञ्चारे तत्र जलस्य दृष्ट-चरत्व-स्मरणात् सन्देहेन विशेषतो निभालनार्थं वासर-मुखानि प्रभाति वीक्ष्यमाणानि प्रकाषकाङ्क्षयेत्य् अर्थः । यवसानां तृणानां शिखरेषु समुदीर्णानि विमलानि मौक्तिक-जालान्येव एतानि, इति धिया निशायां निःस्यन्दितुं शीलं येषां तानि हिमकण-वृन्दानि भगवतापि विभावसुना सूर्येणापि, श्लेषेण धनवतापि, विभेत्यानेन प्रकाशवत्त्वात् सम्यङ् निभालयितुं शक्लुवतापि कराः किरणा एव करास् तद् अग्रेण निजेत्यातिलोभान्नाप्यन्यद्वारेत्य् अर्थः । कुत एतद् अवसीयते ? तत्राह—यत्रेति, दिवस-मुखेष्वेव, रात्रौ तु सम्यक् स्थितानीत्य् अर्थः । मुहूर्ताद् एवेति तत्रापि चौर्त्य-कर्मणि दक्षतेति भावः ॥२१॥

घनतर-दलनिकर-विस्तारतया निरस्तहिमनिपात-चटुलविटपि-निकरतलमध्यमध्यास्य मन्थरमभ्यस्यमानरोमन्थमधुरैरतीतशीतभीतिभिरभितः कृष्णसारनिकूरम्बैरतिरमणीयाश्च यत्र वासरान्ताः, परितप्तायःपिण्डप्रकाण्डसदृशतरणिबिम्बविनिपात-जलधिजलोद्भूतवाष्पैरिव तुहिनकणैर्मलीमसेभ्यो दिशां मुखेभ्यः स्वस्वनिवासोन्मुखमुखर-खगनिकरवितत-नभस्तलानि निशामुखानि, परितश्च विनमदतिघनकिसलयनिकरसमासङ्गसङ्गतोष्मकुलायकुलकल्पस्थलविशेषकृतसुखशयनानां खगमिथुनानां निष्कूजस्तिमितैस्तरुभिरतिरम्याः शीतभिया चकोरैरप्यनभिसेव्यमान-शशधरकान्तिकन्दलीकाः क्षणदाः ॥२२॥

घनतरा अति-निविडा दल-निकरा यत्र यथा-भूतो विस्तारो येषां तद्-भावेन हेतुना निरस्तो हिमानां निपातस् तेन चटुलाः श्लाघनीया विटपि-निकरा वृक्ष-समूहास् तेषां तल-मध्य-मध्यास्य तत्रोपविश्य मन्थरं यथा स्यात् तथा अभ्यस्यमानेन रोमान्थेन मधुरैर् दर्शनीयैर् इत्य् अर्थः, चटुलः सुन्दरे चले इति धरणिः, निगीर्ण-घासादीनां पुनः सम्यक् चर्वणं रोमन्थः, परितप्तमयः-पिण्ड-प्रकाण्डं श्रेष्ठ-लौह-पिण्डम्, प्रकाण्डम् उद्घ-तल्पजौ प्रशस्त-वाचकानि इत्य् अमरः, प्रशंसा-वचनैश् चेति समासः, तत्-सदृशस्य तरणि-विम्बस्य सूर्य-मण्डलस्य निपातेनैव हेतुना जलधिजलेभ्य उद्भूतैर् वाष्परुष्मभिर् इव उत्प्रेक्ष्यमाणैर् हिमकणैः, स्व-स्व-निवासान् प्रति उन्मुखरैस् तद् आगमन-काले कुजद्भिः खग-निकरैर् व्याप्तं नभस् तलं येषु तानि, विशेषेण नमताम् अति-निविडाणां किसलय-निकराणां समासङ्गेन हेतुना सङ्गतः प्राप्त उष्मा यत्र तथा-भूतः कुलाय-कुलकल्पो नीड-समूह-सदृशः स्थल-विशेषस् तत्र कृतं सुखेन शयनं यैस्तेषां खग-मिथुनानाम्, स्थी-पुंसौ मिथुनम् इत्य् अमरः । निष्कूजं शीत-निवर्तकोष्म-सुखानुभवेन कुजनाभावः, निर्मक्षिकम् इतिवत् समासः, तेन हेतुना तत्-सुख-ज्ञापनोत्थस्वानन्द-रसेन स्तिमितैर् अव्याकुलत्वेनाद्रैर्स् तरुभिः26 ॥२२॥

किञ्च—

गाढालिङ्गनरङ्गमेव शयनं मानोऽपमानं गतो दीर्घैव प्रियसङ्कथा न रजनी क्षीणेति निद्राग्रहः । आलेपः परिरम्भण-व्यवहितेः कर्तेति दूरे प्रियः स्पर्शोष्मा प्रिययोः स यत्र शिशिरः कालोऽप्यतिप्रेमदः ॥

रजनी न क्षीणा इति हेतोर् निद्रायाम् अग्रहो न ग्रहः, आग्रहो नास्तीत्य् अर्थः, आलेपः कुङ्कुमादि-सम्बन्धी दूरे त्यक्त इत्य् अर्थः । कुतः ? परिरम्भणस्य व्यवहितेर् व्फ़्यवधानस्य कर्ता इति हेतोः । ततश् च प्रिययोः स्त्री-पुरुषयोर् गाढा-लिङ्गनेन स्पर्शे य उष्मा स एव प्रियः ॥

न हि भवति तदानीं सम्भवो दैवगत्या, क्व नु दिनमणिभासो गोचराः पद्मिनीनाम् । तदपि कुतुकयोगादावलिः पद्मिनीना-मुषसि भजति यस्मिन् पृष्ठतः सादरं ताः ॥

तदानीं पद्मिनीनां पद्मस् तन्वानां सम्भवो जन्मैव न भवति, क्व नु पुनर् दिनमणेः स्वनायकस्य सूर्यस्य भासः किरणास् तासां गोचराः स्युरित्य् अर्थः । तद् अपि तथापि यस्मिन् शिशिर-सुखाकरे पद्मिनीनां सल्लक्षण-स्त्रीणां श्रेणी उषसि प्रभाते ता दिन-मणि-भासः पृष्ठ-देशेन सेवत इत्य् आश्चर्यम् ॥

**कचभरमधि बन्धुजीवमाला, दमनकपल्लववल्लभोऽवतंसः । ** उरसि च नवकुन्दकोरकाणां, स्रगिति वधूर्न दधे मणीन्द्रभूषाम् ॥२३॥

दमनक-पल्लव एव् अवल्लभो यत्र सः ॥२३॥

अथ पञ्चमोऽपि यत्र प्रियसंयोग इवाभिनवोत्कलिकाकुल-रसालः, भगवत्तत्त्वज्ञानाभ्यास इव सदोच्चसदतिमुक्तः, भगवद्भक्त इव प्रफुल्लरक्ताशोकः, शास्त्रार्थ इव नवस्तवककोविदारः, महासमरसमावेश इव प्रभिन्नपुन्नागनिकरः, मत्त इव मधुरसामोदमन्दारः, रघुनाथसेनासन्निवेश इव विलसत्कपिकः, जीव इव संसारसुखलवङ्गत्वामोदितः, इक्ष्वाकुवंश इव सदाबलमानवकुलः, स्वरसमूह इव स्फुटसप्तलापः, दानप्रवाह इव प्रभिन्नकरीरः, रागीव सदा मन्दकुसुमाशुगो वसन्तकान्तो नाम ॥२४॥

पञ्चमो वसन्तकान्तः27 । अभिनवानाम् उत्कलिकानाम् उत्कण्ठानां समूहेन रसालः सरसः, पक्षे अभिनवम् उद्गतानां कलिकानां कुलं यत्र तथा-भूतो रसाल आम्र-वृक्षो यत्र सः उच्छ्वसन्तः प्र्मानुभाव-रूपोच्चश्वासवन्तः, अतिमुक्ता मुक्तान् अपि महिम्ना अतिक्रान्ता भक्ता यत्र सः । प्रफुल्लश् च भगवत्य् अनुरागी आशोकः शोक-रहितश् चेति कर्मधारयः, पक्षे प्रफुल्लश् च रक्तश् च भगवत्य् अनुरागी अशोकोः शोक-रहितश् चेति कर्मधारयः, पक्षे प्रफुल्ला रक्ताशोको यत्र सः, नवो नवीनः स्तवः श्लाघा येषां तथा-भूतानां कोविदानां आरो गमनं प्रवेशो यत्र सः, पक्षे नवस्तवको नूतन-मुकुल-युक्तः कोविदारः काञ्चनार इति ख्यातो वृक्षो यत्र सः, प्रभिन्नानां मत्तानां पुन्नागानां पुरुष-हस्तिनां समूहो यत्र सः, प्रभिन्नो गर्जितो मत्तः इत्य् अमरः, पक्षे विकसितानां प्रभेदवतां वा पुन्नाग-वृक्षणां निकरो यत्र सः, मधुनो रसस्यामोदेन मन्दम् इयर्ति गच्छतीति सः, पक्षे मधुरः सामोदो मन्दार-वृक्षो यत्र सः, विलसन्तः कपयो वानरा यत्र सः, पक्षे विलसत् कं सुखं येषां तथा-भूताः पिकाः कोकिला यत्र सः, सुख-शीर्षजलेषु कम् इति विश्व, संसारेषु संसृतिषु सुखलवं सुखलेशं गत्वा प्राप्य आमोदित आनन्द-युक्तः, पक्षे सम्यक् सारं सुखं यस्मात् तथा-भूतं लवङ्गं यत्र सः, संसारा-सुख-लवङ्गो वसन्तः स्वयम् एव तस्य भावस् तत्वं तेनामोदितः सुगन्ध-युतः, सदावलं मानव-कुलं मनुवंश-समूहो मनुष्य-समूहस् तत् तत् प्रजा-रूपो वा यत्र सः, पक्षे सदा वलमानानि वकुलानि यत्र सः, व्रलतेर् अयं शानच्-प्रत्यान्तः, स्फुटा स्पष्टाः सप्तभिर् निषादाद्यैर् एव लापा आलापा यत्र सः, पक्षे स्फुटां प्रफुल्लां सप्तलामाप्नोतीति सः, सप्तला नव-मालिका इत्य् अमरः, प्रभिन्नकरिभ्यो मत्त-हस्तिभ्य ईरति गच्छति स्रवतीति यावत्, पक्से विकसित करीर-वृक्षः, अमन्दः कुसुमाशुगः कामो यस्य सः, पक्षे मन्दः कुसुम-सम्बन्धी वायुर् यत्र सः, आशुगौ वायु-विशिखौ इत्य् अमरः ॥२४॥

यत्र हि—हिमविगम-विमलतयामृतकरोऽपि मृतकरोपितप्राण इव परिरभते मधुरजनीर्मधुरजनीः, मधुराका मधुरा काशते ।
कमधुरा का मधुरारामरामणीयकवती न भवति ॥२५॥

अस्य विशेषतः कामोद्दीपनत्वं वर्णयति । अमृतकरश् चन्द्रः, श्लेषेण अमृतमय-हस्तः सन्, मधु-रजनीर् वसन्त-रात्रीः, श्लेषेण मधुरा वधूः, समाः स्नुषा जनी वध्वः इत्य् अमर, परिरभते आलिङ्गति । कीदृशीः ? मधुरा जनिर् उत्पत्तिर् यासां ताः, मृतकेष्वपि रोपिताः प्राणा येनेति सर्व-सुखदायीत्य् अर्थः । मधोर् वसन्तस्य राका पूर्ण-चन्द्रो रात्रिर् मधुरा सती काशते प्रकाशते । अत्र मधुराका मधुराकेति चतुर्भिरक्षरैर्षमकम् एवम् उपरिष्टाद् अपि चतुःपञ्चादिभिर् ज्ञेयम् । का कामधुरा कामिनी मधुरेषु आरामेषु रामणीयकवती रमणीयत्ववती न भवति, अपि तु सर्वा एवेत्य् अर्थः । रामणीयकस्य सदातनत्वेऽप्यत्राधिक्य-विवक्षया कथनम् ॥२५॥

यत्र च—शीलितकुसुमोपवनः पवनः सेवितारामा रामाः समदास्तरुणास्तरुणा कुसुमितेनामितेनानिशविहारा विहाराः कुसुमरजःपूर्णा अपि दिगबला गवलाभा मधुकरैर्नीरजसो नीरजसोत्कण्ठैरपि, मकरन्दकरन्ददानानपि न पिबति कुसुमसमूहान् समूहान्मधुकरनिकरो निकरोति मत्ततयाततया प्रकामकामहेलालसमहेलालसदाननगन्धेन ॥२६॥

अत्र हेतुं वर्णयति—शीलितं पुष्पोद्यानं येन सः, तथा-भूतः पवनः, अतएव रामा व्रज-तरुण्योऽपि सेवितारामाः पुष्प-चयनच्छलेन प्राप्तो-पवनाः, अतएव तरुणा युवानः समदाः । अत्र वर्णनीयस्य यूनः श्री-कृष्णस्य एकत्वेऽपि बहुत्वं प्रकाश-बाहुल्यापेक्षयेति ज्ञेयम् । कीदृशास् तरुणाः ? वृक्षेण कुसुमितेन पुष्पितेन अमितेनापरिमितेन हेतुना अनिशं विहारो येषां ते, अतएव विहारा विगलित-हारा विशिष्ट-हारा इति वा । कुसुमानां रजोभिः पूर्णा अपि नीरजसो निर्मलाः, अतएव तद्-गन्धेन वलाद् आकृष्यमाणत्वात् नीरजेषु सोत्कण्थैर् अपि मधुकरैर् दिग् अबला दिग् अङ्गना एव गवलाभाः, गवलं शुषिर-भेदः, श्यामत्व-चिक्वणत्वाभ्यां तदाभाः, न तु सर्वांशे गवलाभा इत्य् अर्थः28, गवलं महिषं श्ङ्गम् इत्य् अमरः । व्यवधानेनापि विरोधो यककानुरोधाद् एव । मकरन्द-रूपं करं ददानान् प्रयच्छतोऽपि कुसुम-सहूहान् न पिवति, प्रत्युत निकरोति तिरस्करोतीत्य् अर्थः, निकारः स्यात् परिभवे इति धरणिः, तेन मधुकर-निकरस्य राजकीय-पुरुषत्वम्, वसन्तस्य च राजत्वम् आरोपितम् । कीदृशान् ? समूहान्, सम्यगूहः कथम् अस्माकं मकरन्दं न गृह्नाति29, किमपराद्धम् अस्माभिः इत्य् एवंलक्षणस् तर्को येषां तान् । प्रकामं यथा स्यात् तथा काम-हेला काम-सूचक-भाव-विशेषस् तया सजृम्भतया30 अलसानां अलसानां सालसताम् अभिनयन्तीनां महेलानां महिलानां लसता आनन-गन्धेन या मत्तता तया आततया विस्तृतया, महेला महिला च इति द्वि-रूप-कोषः ॥२६॥

यत्र च—किं शुकचुञ्चवः किंशुकचुञ्चवः किममी वनान्ता इत्यसम्पलाशं पलाशविपिनमनुतर्कयन्ति चञ्चरीकाः ॥२७॥

किंशुकानां कीराणां चुञ्चुवः, चुञ्चुश् चञ्चुस् तलस् तालः इति द्विरूपकोषः, किम्ममी वनान्ता वन-प्रदेद्शाः, कीदृशाः ? किंशुकैः पलाशैः प्रथिताः, [पा ५-२-२५] तेन वित्तश् चुञ्चुप् चणपौ इति चुञ्चुप्-प्रत्ययः । इति स्न्देहेन असम्पलाशं सम्यक् पत्र-रहितं पलाश-विपिनम्, चञ्चरीका भ्रमराः ॥२७॥

किं बहुना?—

माकन्दानां कलितकलिकास्वादनः कोकिलोऽयं, चञ्चच्चञ्चुर्यदयमनदत् कण्ठमूलं धुनानः । ग्रासीभूतः सह कलिकया यत्र लब्धावकाशो, मूर्तो नादः कुहुरिति बहिर्याति यत्र द्विरेफः ॥२८॥

माकन्दानामाम्राणां कलितं कृतं कलिकानामास्वादनं येन सः, तदैव स्वप्रिवादि-कोकिल-निदमाकर्ण्य यद् अयम् अनदत् कुजितवान्, चञ्चन्ती चञ्चुर् यस्य सः, कण्ठ-मूलं कम्पयन्, ततश् च कलिकया सह ग्रासी-भूतो ग्रासत्वं प्राप्तो द्विरेफो लब्धावकाशः सन् बहिर् याति । कीदृशः ? कुहुर् इति नादो मूर्तः, मूर्तिमत्त्वेन उत्प्रेक्षित इत्य् अर्थः, कुहुः स्यात् कोकिलालाप-नष्ठेन्दुकल-दर्शयोः इति मेदिनी, कुहूर् दीर्घान्ता ह्रस्वान्ता च इत्य् अमर-तीका । तेन भ्रमरस्य कुकुल-लग्नस्य कोलिला-गमनान् अनुसन्धानं कोकिलस्यापि भ्रमरोऽयं न कलिकेत्यवधानेऽप्यसामर्थ्यं तथा ग्रास-मुखत्वेऽप्युच्चैः कूजनं च मत्ततयैवेति ज्ञेयम् । यत्र वसन्ते ॥२८॥

किञ्च—

मदकलकलकण्ठकण्ठघण्टा, ध्वनिनिकरानुमित-स्वतन्त्रचारः । प्रतिसरति स यत्र मत्तवामा-कल-कलदः स्मरगन्धसिन्धुरेन्द्रः ॥

कलकण्थाः कोकिलाः, स्वतन्त्रचारः स्वच्छन्दगामी, स्मर एव गन्ध-सिन्धुरेन्द्रो महा-मत्त-दुर्दान्त-हस्तिवर्यः ॥

**पुन्नागैरवतंसनं विदधती वासन्तिकाभिः स्रजं ** गुच्छार्धं बकुलैर्ललाट-फलके सिन्दूरकं किंशुकैः । चाम्पेयैः कूचकञ्चुकं कटितटे शोणाम्बरं वञ्जुलैर् नित्यं मूर्तिमती सती विजयते श्रीर्यत्र पौष्पाकरी ॥

गुच्छार्धं31 हार-भेदम्, हार-भेदा यष्टि-भेदाद्-गुच्छ-गुच्छार्धगोस्तनाः इत्य् अमरः, वञ्जुलैर् अशोकैः, पुष्पाकरो वसन्तस् तदीया ॥

स्मितकुसुम्जुषो मरन्दवाष्पाः, प्रविलसदङ्कुरञ्जातरोमहर्षाः । निरवधि किल यत्र भाववत्यो, वनलतिकाः कति का न संलसन्ति ॥२९॥

का वन-लतिकाः कति न संलसन्ति ? ॥२९॥

अथ षष्ठोऽपि यत्र काश्मीरदेश इव सततोत्पद्यमानतया सुरभितया च विलसत्कपीतनः, कासार इव प्रफुल्लमल्लिकाक्षालितः, शरत्काल इव सम्पन्नपाटलः, नाक इव सदोत्फुल्लशक्रः, कमलाकर इव स्फुटतरशतपत्रकः, पर्वतगत-वह्न्यनुमानप्रयोग इव नियतधूम्याटः, प्रह्लादान्वय इव प्रचण्डविरोचनः, वैष्णवजन इव स्पृहणीय-विधुपादः, ईश्वर इव अखण्डनमज्जनसुखः, साधुजनसङ्ग इव क्रमहीयमान-दोषावसरः, हरिभक्त इव सदानुकूल-जगत्प्राणः, पुण्यवान् जन इव भद्रश्री-रसविलास-सुखो निदाघसुभगो नाम ॥३०॥

षठो निदाघ-सुभगः, विलसत् कं सुखं यस्मात् तथा-भूतं पीतनं कुङ्कुमं यत्र सः, अथ कुङ्कुमं काश्मीर-जन्माग्नि-शिखं वरं बाह्लीकपीतने इत्य् अमरः, पक्षे विलसन् प्रफुल्लः कपीतनः शिरीषो यत्र सः, शिरीयस्तु कपीतनः इत्य् अमरः, प्रफुल्लैर् मल्लिकाक्षैर् हंस-भेदैर् अलितः शोभितः, अल-भूषणे धातुः, मलिनैर् मल्लिकाक्षास् ते इत्य् अमरः पक्षे, प्रफुल्लाभिर् मल्लिकाभिः क्षालितः शोधितः, पाटलः शरद्भवधान्य-विशेषः, आशु-व्रीहिः पाटलः स्यात् इत्य् अमरः, पक्षे पाटला पुष्प-भेदः, शक्र उन्द्रः, कुटज-वृक्षश् च, अथ कुटजः शक्रो वत्सकः इत्य् अमरः, शत-पत्रं कमलं शत-पत्रकः पक्षि-विशेषश् च, अथ स्याच्छतपत्रकः, दार्वा-घाटः इत्य् अमरः, नियताम् अव्यभिचारितां धूम्यां धूम-समूहम् अटति गच्छति अनुसन्धत् ते इति यावत्, समूहार्थे यत्-प्रत्ययः, पक्षे, नियतो धूम्याटः फिङ्का इति ख्यातः पक्षि-विशेषो यत्रः सः, कलिङ्ग-भृङ्ग-धूम्याटाः इत्य् अमरः, विरोचनः प्रह्लाद-पुत्रः सूर्यश् च, विधुर् विश्णुश् चन्द्रश् च, पादश् चरणः किरणश् च, अखण्ढं पूर्ण नमतां जनानां सुखं यस्मात् सः, पक्षे न विद्यते खण्डनं यस्य तथा-भूतं मज्जने सुखं यत्र सः, क्रमेण हीयमानः क्षीयमाणो दोषाणां वैगुण्याणां रात्रीणां चावसर उद्गमः क्षणश् च यत्र सः, सदा अनुकूला जगतां प्राणा यत्र सः, तथा चोक्तम्—[श्री-पद्म-पुराणे] येनार्चितो हरिस्तेन तर्पितानि जगन्त्य् अपि । रज्यन्ति जन्तवस् तत्र स्थावरा जङ्गमा अपि ॥ इति, पक्षे, जगत्-प्राणः पवनः, जगत्-प्राणः समीरणः इत्य् अमरः, भद्रा श्री-रविच्छिन्ना सम्पत्तिस् तया रस-विलासात् शृङ्गारादि-विलासात् सुखां यस्य सः, पक्षे भद्र-श्री-रसश् चन्दन-द्रवः, भद्र-श्रीश् चन्दनोऽस्रियाम् इत्य् अमरः ॥३०॥

यत्र च—घनघर्मजनित-मर्मबाधया सर्वतः पलायमानेनेव शैत्यगुणेन व्रजपद्मिनीजनस्तनदुर्गाश्रय एव केवलं विधीयत इव । यत्र च—तरवो वीरुधश्च निदाघपीडिता इव निरन्तरमन्योन्यं लघुलघु विचलद्भिः किशलय-व्यजनैः सदयं विजयन्तीव, निज-निज-घनविट् पच्छाययाच्छाद्य शिशिरीकृतेन मणिमयालवाल-सलिलेन कृपाप्रपामिवोपकल्प्य परमातिथ्यकुशला इव खग-मृगकुलस्य पिपासानिरासाय यतन्ते विश्रमयन्ति च पुण्यवत्स्विव सदाच्छायेषु निजतलेषु ॥३१॥

कृपा-प्रपां कृपायाः पानीय-शालिकाम्, यतन्ते तरव इति पूर्वस्यैवानुषङ्गः, विश्रमयन्ति विगतश्रमं कुर्वन्ति, विभक्ति-विपरिणामेन खग-मृग-कुलम् एव । छाया कान्तिर् आतपाभावश् च ॥३१॥

यत्र च—खरतर-दिनमणि-किरणानुविद्ध-दिनमणिमणिपटल समुद्घटित-दहनदाहनिर्वापणचण-मणिमय-विहारशिखरिशिखर-निःस्यन्दमान-शिशिरतर-निर्झर-जलप्रपात-शीतलेषु घनतर-विटपिविटप-निवारित-वासर-मणिमयूखजालेषु वनपथेषु परस्परकरासङ्ग-भङ्गिमरङ्गवत्यो झणझणायमानमणिनूपुरनिनदसरसं तादृश्यपि निदाघे वसन्तकाल इव सकुतुकं खेलन्ति व्रजदेव्यः ॥३२॥

खरतैर् अतितीक्ष्णैर् दिन-मणि-किरणैर् अनुविद्धेभ्यो दिन-मणि-पटलेभ्यः सम्यग् उद्घटितो यो दहनाद् इव दाहस् तस्य निर्वपणचणैर् निर्वापनेन प्रशस्तैर् मणिमय-विहार-पर्वत-शिखरात् निःस्यन्दमानैः शिशिरतरैर् निझर-सम्बन्धि-जल-प्रपातैः शीतलेषु ॥३२॥

यत्र च—दिवसकरकरनिकरज्ज्वालजटालतया विषमविषधरनिःश्वासा इव करलतराः स्वयमेव स्वं स्वमेवोत्तापयन्तः सन्ततमनिर्वृता इव, प्रति-सलिलाशयं मज्जन्तोऽपि चात्मानं निर्वापयितुमसमर्था इव, व्रज-पद्मिनीजन-स्तनपरिमल-मिलनार्थमिवोपसर्पन्ति शीतली भवितुमनिलाः । यत्र च—दिवसादिव साध्वसात् क्षणदाप क्षणदापति-रुचिरा रुचिरामणीयकं यदि जनानां तदा तदासङ्गेन ते निदाघमेव श्लाघन्ते ॥३३॥

यत्र च निदाघे यदि क्षणदा रात्रिः क्षणदापतिना चन्द्रेण रुचिरा सती रुचिरामणीयकं रोचकत्वेन रमणीयत्वम् आप प्राप्तवती । तत्र हेतुम् उत्प्रेक्षते—जनानां तदा दिवसाद् इव घर्म-दुःसहात्, दिनाद् इव साध्वसाद्भयात् तद् विलोक्य कृपय निवारयितुम् इत्य् एवत्य् अर्थः । तद् अङ्गेन तस्यां रात्रावसक्त्या तच्छैत्य् असुखानुभव-जनितया निदाघम् एव धन्योऽयं निदाघ-समयः, यत्रैवैतादृशी रात्रिः इति श्लाघन्ते ॥३३॥

किञ्च—

कर्पूरत्रसरेणुबन्धुभिरपां निःस्यन्दिभिर्बिन्दुभिश् चञ्चामर-चारु-मारुतधुतैर्मुक्तावितानैरपि । **आकीर्णे जलयन्त्रवेश्मनि सरो-वाप्यादि-मध्यस्थिते ** कृष्णो यत्र मुदा निदाघदिवसे शेते समं कान्तया ॥

क्स्र्पूराणां त्रसरेणु-रन्धुभिः सूक्ष्म-कण-सहितैर् अपां विन्दुभिर् निःस्यन्दिभिर् नितरां स्रवद्भिः, मुक्तामयैर् वितानैश् चाकीर्णए व्याप्ते, तैर् द्वयैः, कीदृशैः ? चञ्चतां चञ्चलानां चामराणां चारुणा मारुतेन धूतैः कम्पितैः ॥

**भालप्रान्तनिबद्धकुन्तलभरो मुक्तास्रजा स्थूलया ** वासः काञ्चनवारिहारि पवनस्पन्दानुमेयं दधत् । **मल्लीकोरक-मालया द्रुततर-श्रीखण्डपङ्केन च ** द्वित्रेण प्रियमण्डनेन च कृताकल्पो हरिः क्रीडति ॥

भालस्य प्रान्ते निवव्धो द्विधा विभक्तः कुन्तलभवो यस्य सः, वास उत्तरीयं पवनस्य स्पन्देन चलने नानुमेयम् अनुमातुं शक्यं नान्यथेत्यति-सूक्ष्मत्वात्, काञ्चन-जलम् इव हारि मनोहरम्, द्वित्रेणेति बहुतराणां धारणासहनात्, तत्रापि प्रियेति स्वतः शैत्य-गुण-केनेत्य् अर्थः ॥

कर्णालङ्करणं शिरीषकुसुमैरुत्तंसनं पाटलैर् मालां मल्लिभिरङ्गदादि कुटजैः सम्पादयन्त्यात्मनः । आलीभिर्वनराजिभिः सह सदृग्भूषाभिरीशाङ्घ्रयः सेव्यन्ते दिवसावसानसमये यस्मिन्निदाघश्रिया ॥३४॥

उत्तंसनं शिरो-भूषणम् ॥३४॥

एवं द्वन्द्वशो द्वन्द्वशश्च ऋतुभिर्विभेदिता अपरेऽपि त्रयो विभागा इति नवकाननमेव वृन्दावनम्, मूलभूतन्तु षड्भिरेव ऋतुभिरुपसेवितमित्यङ्गाङ्गिभावेन दशविभागमिति ॥३५॥

एवं वृन्दावनस्य षड्विभागान् वर्णयित्वा अपरम् अपि विभाग-चतुष्कं तत् तद् वर्णनेनैव वर्णित-प्रायमुटङ्कयति—द्वन्द्वशो द्वन्द्वश इति । अत्र शसैव वीप्सावगतौ द्विर् वचनं नोपपद्यत इति न वाच्यम्—एकैकशो देहीत्यादौ द्विर्वचनेनैव तद् अवगतौ पुनः शस्-प्रत्यय-दर्शनात्, तथा ह्युक्तं न्यासकारेणापि भोजं भोजं प्रव्रजति32 इत्यादौ द्विर् वचन-सापेक्षेणैव णमुला उच्यते । पापच्यते इत्यादौ द्विर् वचन-निरपेक्षेणैव यङा आभीक्ष्ण्यम् उच्यते, यथा ह्येक एव भारः कदाचिद् एकेनैव केनचिद् ऊह्यते, कदाचिद् अन्यसापेक्षेणैव केनचिद् इति द्वन्द्वशो द्वयेन द्वयेन कृत्वा ऋतुभिः शरदादिभिर् विभेदिता विभेदं प्रापिता, यथा शरद्धेमन्तयोर् वर्णित-तत् तल् लक्षणवत्त्वेन शरद्धेमन्तसन्तोष एकः, शिशिर-वसन्तकान्तोऽन्यः, निदाघ-वर्षाहर्षोऽपरः—इति त्रयो विभागाः । अङ्गाङ्गिभावेनेति षड्-ऋतुक-विभागः सर्वर्तु-सुखद-नामा खल्वङ्गी, वर्षाहर्षादयस् तदङ्गानीत्य् अर्थः ॥३५॥

यत्र षडृतुके विभागे—

सीमन्ते नवनीपकं करतले लीलारविन्दं नव **स्निग्धं लोध्ररजः कपोलफलके बन्धूकमालां गले । ** **कर्णे वञ्जुलपल्लवं स्तवकिनं मल्लीस्रजं कुन्तले ** बिभ्रत्यो व्रजसुभ्रवः प्रतिदिनं कृष्णं सदोपासते ॥

सीमन्त इति नीपार-विन्दादीनि क्रमेण व्र्षादि-लक्षण-सूचकानि । वञ्जुलोऽशोकः ॥

यस्मिन्मञ्जुलकुञ्जमण्डपकुलं नानामणीन्द्रालय स्पर्धावर्धितसौभगं पिककुलैर्भृङ्गैश्च निष्कुजितम् । **यस्मिन्नोषधयो ज्वलन्ति रजनौ दीपायिताः सौरभं ** कस्तूरीहरिणाङ्गना विदधते लूमैश्चमर्यो मृजाम् ॥३६॥

यस्मिन् वर्णित-लक्षणे वृन्दावने मञ्जुलं कुञ्ज-मण्डप-कुलम् अस्ति । नाना-माणीन्द्रा वैदूर्यादयस् तन्मयैर् ललयैर् गृहैः सह या स्पर्द्धा, तस्यां वर्धितं सौभगं यस्य तत् । निष्कूजितम् इति कर्मणि क्तान्तम् । ततश् च ते भृङ्गादय एव यस्य गुणस् तवनार्थं वन्धिजनायन्ते इति भावः । लुमैः पुच्छैः, पुच्छोऽस्त्री लूमलाङ्गुले इत्य् अमरः । मृजां मार्जनी-कृत्यं विदधते कुर्वन्ति ॥३६॥

एवम्भूतस्य वृन्दावनस्य मध्ये इन्द्रनीलमणिहारयष्टिरिव, इन्दीवर-मालेव, कज्जल-परिखेव, असितशाटीव वृन्दाटवीदेव्याः काचन यमुना नाम नदी ॥३७॥

इन्द्रनीलेति लावण्येन33, इन्दीवरेति शैत्य-सौगन्ध्य-सौकुमार्षैः, कज्जलेति लोचन-रोचकत्वेनांशेन असित-शाटीति अव्यभिचारि-नेपथ्यसाधकत्वेन ॥३७॥

या खलु सतरङ्गापि नतरङ्गाधायिका, सकमलापि नश्यत्कमला, ससारसापि विसारसारस्या, मज्जनसुखदापि नमज्जनसुखदा ॥३८॥

सतरङ्गा तरङ्ग-सहिता, नतानां नम्रत्वाद्-भक्तानाम्, रङ्गस्य प्रेम-सुखस्य, आधायिका अर्पयित्री, सकमला पद्म-सहितापि, न श्यन्ति न ह्रासं प्राप्नुवन्ति कमलानि जलानि यस्याः सा, शो तनूकरणे शत्रन्तः, सलिलं कमलं जलम् इत्य् अमरः, णश अदर्शने इत्यस्य रूपे प्रथमोपस्थापिते विरोधः, सारसः पक्षी, विसारा मत्स्यास् तेषां सारस्य वलं यस्यां सा, नमतां जनानां सुखदा ॥३८॥

विविधलतिकाकारचित्रविचित्रितकञ्चुलिकयेव चिन्मणिशैवाल-लतिकावितत्या परिवृतवक्षःस्थलविलासिरथाङ्गपयोधरा, कलित-कह्लारादि-पराग-पटलचित्रपटा, भ्रमद्भ्रमरघटाबद्ध-वेणिरिन्दीवरनयना, विकसदरविन्दमुखी, प्रफुल्लहल्लकलसदधरोष्ठी, सारससारसनाञ्चितपुलिननितम्बा, कलहंसहंसका, मूर्तेव रमणीयता देवी तरलतरतरङ्गहस्तेनेव जलजकुसुमैः श्रीकृष्णाराधनमबाधमनिशमेव कुर्वाणा जरीजृम्भ्यते ॥३९॥

चिद्-रूपाणां मणिमयीनां शैवाल-लतिकानां वितत्या निमज्ज्य उद्गतत्वेन परिवृतौ आवृतौ यमुनाया मध्य-देश एव वक्षःस्थलम्, तत्र विलासिनौ रथाङ्गावेव पयोधरौ यस्याः सा, सारसाः पक्षिण एव कूजन-साधर्म्येण सारसनं काञ्ची तेनाष्णितः पुलिन-रूपो नितम्बो यस्याः सा, कल-हंस एव हंसकः पाद-कटकं यस्याः सा, जरीजृम्भ्यते, अतिशयेन प्र्काशते ॥३९॥

यस्याञ्चोभयोरेव कूलयोः कुसुमभर-भज्यमानविटपविटपि-पटलप्रतिबिम्बेन सलिलान्तरेऽपि कुसुमितं काननान्तरमिव व्यञ्जयन्त्यां सह-प्रतिबिम्बितं विहगकुलमपि वैसारिणो यत्र जिघत्सवस्तुण्डेन खण्डयन्तः क्षणमवतिष्ठन्ते, रजनावपि बिम्बितं नक्षत्र-ग्रह-निकरमपि सर्वतः केनापि विकीर्णं लाजजालमिव मन्यमानाः शफरा अपि प्रत्येकमत्तुमुत्कण्ठन्ते ॥४०॥

कुसुमानां भरेण इव भज्यमानाः प्राप्यमाण-भङ्गा विटपाः पल्लवा यस्य तथा-भूतस्य विटपि-समूहस्य प्रति-विम्बेन सह प्रतिविम्बितं बिहग-कुलं तत्रस्थ-पक्षि-समूहं जिघत्सवोऽत्तुम् इच्छवः, वैसारिणो मत्स्याः, अवतिष्ठन्ते, [पा १-३-२२] समवप्रविभ्यः स्थः इत्यात्मनेपदम्, शफराः प्रोष्ठीनामानो मत्स्य-भेदाः ॥४०॥

मध्ये च यस्याः कर्पूरपूरमयानीव तिमिरनिकरोद्वान्तकान्त-कौमुदीशकलानीव वृन्दाटवीदेव्याः श्रीखण्डखण्डाङ्गरागपटलानीव विस्रस्तवेणीदण्डान्तरान्तरा-विराजमानमालतीमाल्यखण्डानीव नवानि पुलिनानि । येषु च कुत्रापि नवनवसमुज्जृम्भमाण-मरकताङ्कुरायमाण-तृणाङ्कुरेषु विविधान्येव कुसुमोपवनानि, अन्तरा अन्तरा मञ्जुलानि कुञ्जानि च, प्रतिपुलिनोपवनं चिन्मणिमय मण्डपाश्च ॥४१॥

कर्पूर-प्रवाहमयानीवेत्य् अनेन शैत्य-सौगन्ध्य-शौक्ल्यं ध्वनितम् । ततश् च मृग-मद-प्रवाहमय्या अपीति व्यञ्जितया उत्प्रेक्षया जीवितो विरोधोऽपि द्योतितः । ननु कर्पूर पूरमयत्वेनोत्प्रेक्षसे चेत् पुलिनानि, तर्हि कथं तेषां स्थैर्यम् इत्य् आशङ्क्य अन्यथोत्प्रेक्षते—तिमिरेति । ननु तर्हि कुतः परस्परं पुनर् अपि वाध्य-वाधकत्वा-भावस् तेषाम् इत्य् आशङ्क्य पुनर् अन्यथोत्प्रेक्षते—श्रीखण्डेति । ननु तर्हि नदी-मध्य-गतान्यपि तानि तया कथं न बाहितानीति पुनर् अप्य् आशङ्क्य पुनस् तोऽप्यन्यथा नदी-सहितान्येव तान्युत्प्रेक्षते—विस्रस्तेति । येषु पुलिनेषु मध्ये कुत्रापि केषुचित् तेष्वन्यानि बहनि पुलिनानि तृण-गुल्मादि-रहितानि स्वच्छ-वालुकामयानि सन्ति रास-नाट्य-लीलार्थम् इति ॥४१॥

येषामङ्गणेषु सारस-सरारि-कुरर-चक्रवाक-कलहंसादिभिः सह तत्काननचराः शुक-पिकजीवञ्जीवञ्जीवचकोरकप्रभृतयो विहङ्गमाः सरभसमेव कृष्णकथालापेन मधुरगोष्ठीमिव कुर्वन्तो वर्तन्ते ।
उभयतश्च पार्श्वयोर्यस्या विविधमणिबद्धेषु तटेषु अन्तरा अन्तरा मरकत-कुरुविन्द-वैदूर्य-विद्रुमादि-विविध-मणिगण-निर्मिता अवताराः, येषामभिमुखसमानसुघटिततया तटयोरेव सोपानपरम्परे शोभादेव्या दशनपङ्क्ती इव दृश्यते ॥४२॥

सारसादिभिर् जलचरैः, शुकादयः स्थलचराः, यस्या यमुनाया द्वयोः पार्श्वयोर् अवतीर्यते एभिर् इत्य् अवताराः, घाट इति ख्याताः । येषाम् अवताराणाम् एकैकेषाम्, उभयतश् च उभयोरुभयोर् वाम-दक्षिण-पण-पार्श्वयोः ॥४२॥

उभयतश्च येषां तिरस्कृत-मणिमण्डपानि लतामन्दिरमण्डलानि; तानि च यथा—

**चत्वारस्तरवश्चतुर्षु सरुचः कोणेषु तेषामधो ** द्वे द्वे चोभयतः प्रिये इव लते विष्वक् तथावर्धताम् । तानाक्रम्य परस्परात्तवपुषः पुष्पैः फलैः पल्लवैः साङ्गोपाङ्ग-मणीन्द्रमण्डपरुचं कुर्वन्ति सर्वा यथा ॥४३॥

चतुर्षु कोणेषु चत्वारस् तरवः सरुचः, रुगित्युप-लक्षणम्, स्थौल्य-दैर्घ्य-विस्तारैर् अपि तुल्या ज्ञेयाः, तेषाम् एकैकशः अध उभयत उभयोर् उभयोः पार्श्वयोर् द्वे, एका दक्षिणे पार्श्वे, एका वामे, एवं द्वे द्वे विश्वक् उपरि-चतुर्दिक्षु च औचित्यानुरूपेण तथा अवर्धतां व्याप्तवत्यौ, वर्धश् छेदन-पूरणयोर् इत्यस्य परस्मैपदिनो रूपम् । यथा तांस् तरूनाक्रम्य परस्परमात्तानि गृहीतानि जटितानि वपूंषि यासां तास् तथा-भूताः सत्यः सर्वा अष्टावेव लताः पुष्पादिभिर् अङ्गोपाङ्ग-सहित-मणिमय-मण्डपानाम् इव रुचं कान्तिं कुर्वन्ति ॥४३॥

तत्प्रकारो यथा—

स्तम्भास्तेऽमी वडभ्यो नियतकुसुमिताः स्कन्धशाखास्तदीया वल्लीनां पुष्पितानामपि विटपकुलैः कल्पितानि च्छदींषि । **कैश्चिद्द्वारोऽपि भङ्गीविरचनरुचिरा भित्तयः कैश्चिदन्यैः ** पुष्पैः प्रालम्बचूडाकलसविरचनाचामरादीनि कैश्चित् ॥४४॥

ते प्रसिद्धा अमी पूर्वोक्ताश् चत्वारस् तरवो भूमित ऋजुभूयोत्थितत्वेन चत्वारः स्तम्भाः, तदीयास् तरु-सम्बन्धिन्यः स्कन्ध-शाखा नियतं सुष्ठु वक्री-भूयः परस्परं मिलिताश् चतस्रो वडभ्यः, वल्लीनां विटप-कुलैः पल्लव-समूहैश् छदींषि छाउनीति ख्यातानि कल्पितानि । कैश्चिद् वलीनां विटप-कुलैर् भङ्या सन्निवेश-कौशलेन यद् विरचनं तेन रुचिराश् चतस्रो द्वारोऽपि कल्पिताः । तथा तैर् एवान्यैः कैश्चिद्भित्तयस् तथा पुष्पैस् तादृश-तादृश-विन्यास-वैशिष्ट्येन स्थितैः, प्रालम्बादीनीति तत्र प्रालम्बानि पटलेभ्यो लम्बमान-माल्यानि, विरचना विविध-पत्रावल्यादीनां रचना, रचना स्यात् परिस्पन्दः इत्य् अमरः ॥४४॥

अथ यस्य वृन्दावनस्य मध्ये पुरुषावतार इव सहस्रशिराः, सहस्रपाच्च, महाविनोदीव अमलमणिकटको विविधमणिकुण्डलश्च, शब्दग्राम इव विविधधातुयोनिः, ध्रुव इव भूभृत्कुलभूषणोऽपि भगवदनुग्रहेण लङ्घित-सकलोपरितनलोकः सुनासीरनासीर इव दुरवगाह-गुहालङ्कृतः, मलय इव सर्वतोभद्रश्रीरपि न भुजगावासः, हर इव चन्द्रचूडोऽप्यनुग्रः, भगवानिव विचित्रवनमालः, आनन्द इव महोत्सवेष्टः, भूवलय इव लोकालोकरमणीयः, आनन्दकन्दरवटोऽपि आनन्दकन्दरावटः, वनराजी-सत्त्वानामप्यवनराजी सत्त्वानां गोवर्धनो नाम गिरिवरः ॥४५॥

सहस्र-सङ्ख्यानि शिरांसि मस्तकानि शृङ्गाणि च, पादाश् चरणाः प्रत्यन्तशैलाश् च, पादाः प्रत्यन्तपर्वताः इत्य् अमरः, विनोदो विलासः, कटकं वलयः, पक्षे कटकोऽस्त्री नितम्बोऽद्रेः इत्य अमरः, मणिमयानि कुण्डानि लातीति सः, धातवो भू-या-वा-दिव-प्रभृतयो मनःशिलादयश् च, भूभृत् राजा पर्वतश् च, भूभृत् भूमिधरे नृपे इत्य् अमरः, उपरितन-लोको महर् लोकः34, पक्षे वैकुण्ठः, सुनासीर इन्द्रः, नासीरस् तस्य सेना, गुहः कार्तिकेयः, पक्षे देवखातविले गुहा इत्य् अमरः, सर्वतो भद्र-श्रीश्चन्दन-तरुर् यत्रः, पक्षे सर्वेभ्योऽपि भद्रा श्रीः समृद्धिर् यस्य सः, पर्वत-पक्षे चूडा शृङ्गम्, अनुग्रः सौम्यः, वन-माला आपाद-लम्बि-माल्यं वन-श्रेणी च, महति उत्सवे मङ्गल-कर्मणि, इष्टः प्रशस्तः, पक्षे महद्भिर् उत्सैः प्रस्रवणैर् वेष्टो वेष्टनं यस्य सः, उत्सः प्रस्रवणम् इत्य् अमरः, लोकालोकस् तन् नामा पर्वतः, पक्षे लोक-कर्तृक-दर्शनम्, आनन्दानां कन्दं मूलं रान्ति तथा-विधा वट-वृक्षा यत्र सः, आनन्द-रूपकन्दराणां अवटो गर्तो यत्र सः, सत्त्वानां प्राणिनाम् अवनेन पालनेन राजितुं शीलं यस्य सोऽवन-वनराजी, सत्त्वानां कीदृशानाम् ? वनराजीसत्त्वानां वनराजीषु सत्त्वं वर्तमानत्वं येषां तेषां मृगादीनाम् इत्य् अर्थः । विरोधाभासद्योतकोऽपिकारः ॥४५॥

यः खलु कैलासेनापि नोपमीयते—अरूप्यत्वात्; न च मेरुणापि, अजातरूपत्वात् ॥४६॥

अरूप्यत्वाद् रूपकेण वर्णयितुम् अशक्यत्वात्, अदृष्टो-परमत्वाद् इत्य् अर्थः, पक्षे रूप्यं रजतं रजतं तन्मयत्वाभावात् कैलाश-शैलो हि रजतमयो भवति, अयं तु विविध-मणि-शिलामय इति भावः—अजात-रूपत्वान् नित्य-सिद्ध-रूपत्वात्, मेरुस् तु प्रकृति-जन्य-रूप इति । पक्षे जात-रूपं कनकम्, तन्मयत्वाभावात् मेरुहि कनक-मयो भवतीति ॥४६॥

यत्र आदिरसवर्णनावर्णसमूह इव, रूपकोपरूपक-व्यापार इव, माधुर्योपयोगी नटवर्गः ॥४७॥

आदिरसस्य वर्णनायां यो वर्ण-समूहस् तत्र माधुर्योपयोगी ट-वर्गो न भवति । तथा ह्युक्तम्—मूर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रलौ लघू । अवृत्तिर् मध्य-वृत्तिश् च माधुर्ये घटना मता ॥ इति । रूपकोपरूपकयोर् नाटक-नाटिकयोर् यो व्यापारस् तत्र माधुर्यम् उपयुङ्क्ते, नतानां नर्तकानां वर्गः । यत्र गोवर्धने नटाः शोणालु इति ख्यातास् तेषां वर्गोऽपि माधुर्योपयोगी, नट-कट्वङ्ग-टुण्टुकाः इत्य् अमरः ॥४७॥

यत्र किल कालीयक-तरुमूलवाहिना निर्झरेण परिमलपरिभावितासूपत्यकासु सकला एव तृणजातयो गन्धतृणतामभिपद्यन्ते, हरिद्द्रवद्रममूलवाहिषु शुकपक्षच्छविषु निर्झरेषु कृतावगाहाः सर्वा एव रुरु-चमर-चमूरु-गवय-गन्धर्व-सृमर-रोहित-शश-शम्बर-प्रभृतयो हरिणजातयो हरिन्मणिघटिता इव परस्परं न परिचिन्वन्ति ॥४८॥

कालीयकः कलम्बक इति ख्यातः । भावितासु वासितासु, उपत्यकासु शैल-समीपवर्ति-भूमिषु, हरिन्मणिर् मारकतम् ॥४८॥

यश्च क्वचन महानीलमणिशिलामयूखच्छवि-च्छुरित-स्फटिकमणिगण्डशैलः कलित-नीलनिचोलो हलधर इव दरीदृश्यते ।
क्वचन चारुचामीकरशिलाकिरणच्छुरिताधोभाग-महामरकतगण्डशैलः पीताम्बरो नारायण इव, क्वचन च, कनकमणिशिलापट्ट-सङ्घट्ट-भासुर-हीरकोपलभित्तिर्हरगौरीविग्रह इव, क्वचन च मरकत-गण्डशैलमनूभयतः प्रपाति-निर्झरजलो मण्डलीकृतकोदण्डः सीतापतिरिव, क्वचन च, रजतगण्डशैलोपरिगतकमलराग-शिलापट्ट-सन्निवेशो महाहंसाधिरूढः कमलयोनिरिव, क्वचन, चोच्चतरमणिगण्डशैलशिखरतः प्रबलतरतरसा निःस्यन्दमानेन विविधमणिकिरणच्छटाच्छुरितेन निर्मलनिर्झरेण ऋजुभूय लम्बमानसुरपतिकोदण्ड इव, क्वचन च, विविधमणिपाषाणशवलीभाव-भासुरस्य सानुनः समुदित्वरेण किरणनिकरेण नभसि निर्मीयमाणः शक्रशरासन इव, क्वचन च, वैदूर्यमणिशिखरशिखासमुद्भूत-किरणकन्दलीभिरनवच्छिन्न-धूमलेखाभ्रमेण भ्रमधूम्याटनिकर इव, क्वचन च, श्रीकृष्णस्य मणिसिंहासनायमान-सुसीम-सुषीमशिलाविलासः, क्वचन च, श्रीकृष्णस्य रासविलासविशेषसमुचितमणिस्थलीपरिसरः, क्वचन च, श्रीकृष्णस्य मणिमन्दिरायमाण-कन्दरनिकरः, क्वचन च, पवनसमुद्ध त-विविध-कुसुमपराग-वितति-वितन्यमान-श्रीकृष्णार्थकसितवितानः, क्वचन चामूलविकसितलोध्रतरु-निकरेणाभितोऽभितः प्रतानितपटकुट्टिमपटलायमानः धवखदिर-पलाशशल्लकी-निचुल-शिशपा-करज-मधूक-पनस-प्रियाल तालीप्रभृतिभिर्वनराजिभिरपहतातपः सहज-निर्वैर-विसदृश-सत्त्व-समाकुलश्च । अपरे तत्पादा अपि तद्गुणा एव ॥४९॥

दरी-दृश्यते, दृशिर् यङन्तः, चामीकरं कनकम्, अनु लक्षी-कृत्य, उभयतो भाग-द्वये वक्री-भूय, प्रपातीनि प्रपतन-शीलानि निर्झराणां जलानि यत्र सः, कमल-योनिर् ब्रह्मा, प्रवलतरतरसा अतिवेगिना निःस्यन्दमानेन निष्पतता निर्मल-निर्झरेण हेतुना विविध-मणीनां किरणच्छटाभिश्छुरितेन, तेनास्य रक्त-पीत-नीलादि-विविध-वर्णमयत्वेन इन्द्र-धुः-सारूप्यम्, शवलीभावो मिश्रीभावस् तेन भासुरस्य विविध-कान्तिमत इत्य् अर्थः । सानुनः प्रस्थ-देशस्य प्रस्थः सानुरस्त्रियाम् इत्य् अमरः, धूम्याटो धूमल-वर्ण-पक्षि-विशेषः, शोभना सीमा यासां तासां सुषीमाणां शीतलानां शिलानां विलासो यत्र सः, सुषीमः शिशिरो जडः इत्य् अमरः, वितानः चादोया इति ख्यातः, प्रतानितैर् विस्तारितैः पटैर् एव कुट्टिमं शिल्प-चातुर्येणोच्चीकृत-मणि-वद्ध-भू-भाग-विशेषस् तं-समूह इवाचरण्, शल्लकी गज-भक्ष्यो गन्ध-वृक्षः, निचुलो हिञ्जल इति ख्यातः, करजः करञ्जः, वनराजिभिः कर्तृभिर् धवादिभिः करणैर् वा अपहत आतपो यत्र सः, सहजं निर्वैरं वैराभावो येषां तैर् विसदृशैर् व्याघ्र-मृगादिभिः सत्त्वैः समाकुलः ॥४९॥

एवमुक्तप्रकार-गोवर्धनसमः कश्चन तस्यादूरत एव नन्दीश्वराख्यो द्वितीय इव नन्दीश्वरः क्षितिधरः । यश्च चारुतरधवाक्रीडोऽपि माधवाक्रीडः, किं शुकवानपि न किं शुकवान्,
सुप्रस्थशोभोऽपि असुप्रस्थशोभः, वामन इव सुरसार्थसमुत्पादनखनिःस्यन्दमानसलिलनिर्झरशीतशिवः, प्रौढ-मानिनीजन इव सहचरीप्रसादरचनाभेद्यमनःशिलासारः, हर इव सदोपगूढशैलजः ॥५०॥

नन्दीश्वरो महेशः, अतएवास्य शुभ्र-वर्णत्वम् आयातम् । चारुतैर् धव-वृक्षैर् आक्रीड उद्यानं यत्र सः, माधवस्य आ सम्यक् क्रीडा यत्रः सः, अत्र नञ् अर्थो मा-शब्दो विरोधाभासगमकः । शुकवान् किं न ? अपि तु शुक-युक्तः, असूनां प्राणानां प्रस्था प्रकर्षेण तिष्ठन्ती शोभा भक्ष्यपेयादि-वस्तु-सौलभ्य-लक्षणा यत्र सः, यद् वा, न सुष्ठु प्रस्थशः प्रस्थपरिमाणेन भा कान्तिर् यस्य, अपि तु महाभारादि-परिणाम् एनैव कथञ्चिदित्य् अर्थः, प्रस्थोऽस्त्री सानुमानयोः इत्य् अमरः, शोभना रसा त्रिपाद-परिमिता प्राथिता वृत्तिकरी भूमिः, तद् अर्थं समुद्गतस्य पादस्य नखात् निःस्यन्दमानेन सलिल-निर्झरेण गङ्गाख्येन शीतः शीतली-कृतः शिवो येन सः, यद् वा , सुरसार्थे देव-समूहे विषये समूत् सहर्ष इति पृथक् पदम्, तथा पाद-नखेति पूर्ववद् अर्थः । गिरिपक्षे सुरसानाम् अर्थानां वस्तूनां सम्यग् उत्पादन्यः खनयो यत्र सः, तथा स्यन्दमानसलिल-निर्झरेषु गङ्गायां घोषः इतिवत् लक्षणया तत् तटेषु शीत-शिवं शोफमहुरी इति ख्याता लता यत्र सः, विदुः शीत-शिवं शम्यां शैलेय-शत-पुष्पयोः इति विश्वः, सहचरीभिः सखीभिः प्रसाद-रचनाभिर् एव भेद्यो भेत्तुं शक्यो मन एव शिलासारो यस्य सः, पक्षे सहचरी पीत-झिण्टी, तस्याः प्रसाद-रचना प्रफुल्लता-परिपाटी तया अभेद्य आकृत्य आकृत्या भिन्नो भवितुम् अनर्हो मनः-शिलासारो यत्र सः, सदोपगूढा आलिङ्गिता शैलजा पार्वती येन सः, पक्षे उप समीपे गूढं शैलजं शिलाजतुरसो यत्र सः, शैलजन्तु शिलाजतु इत्य् अमरः ॥५०॥

यत्र काचन राजधानी व्रजपुर-पुरन्दरस्य । यत्र खलु मेखलाशृङ्खलादिष्वेव खल इति, स्वस्वसरःस्वेव मत्सर इति, चन्द्र एव दोषाकर इति, परिमलादिष्वेव मल इति, छत्र-चामरादिदण्डेष्वेव दण्ड इति, नीवि-रसनादिबन्धेष्वेव बन्ध इति, चन्दनकुङ्कुमादिपङ्केष्वेव पङ्क इति, समाध्यादौ केवलमाधिरिति, आपीडादौ पीडेति शब्दः श्रूयते ॥५१॥

अत्रादि-शब्देभ्यो यथा-क्रमेण व्रीहि-खल-सुख-लम्पट-मुखलावण्येषु, तथा धूमल-श्यामल-कमलेषु, इक्षु-दण्ड-भूज-दण्ड-तिथि-नक्षत्र-दण्डेषु, तथा तथा काव्य-प्रवन्धेषु, चन्दन-कस्तूरी-कर्पूर-पङ्केषु, तथा राजाधिकारे, तथा स्तनोपपीडा-लिङ्गने इति-शब्दः श्रूयते, इति-पद-द्वयेन सर्वत्रान्वयः । तेन खल-जन-मात्सर्य-वैगुण्यादीनां तत्रासम्भव इति ॥५१॥

किञ्च—कुन्तलादौ कौटिल्यम्, हारादौ लौल्यम्, कर चरणादिषु रागः, अवलग्नादौ मध्यमाख्या, पलोन्मित एव पलितम्, कुसुमादिधूलीष्वेव रजः, अन्धकार एव तमः, रत्नादिष्वेव काठिन्यम्, युग्म एव द्वन्द्वम्, पवनादौ मन्दता, मध्यादावेव क्षीणता, लोचनादावेव चाञ्चल्यम्, जलेष्वेव नीचगामिता, व्यभिचारिभावेष्वेव ग्लानि-शङ्का-दैन्य-विषादादयः,
मुक्तादिष्वेव छिद्रम्, कटाक्षादिष्वेव तैक्ष्ण्यम्, रसविशेष एव कटुता, जातावेव सामान्यम्, रजत एव दुर्वर्णता । यत्र च—सर्व एव नानागुणखनयोऽपि मुक्तावस्थाः । यत्र च—अरुणोदय इव प्राचीरागमः, उत्सवप्रदेश इव वितानितमणितोरणः, सूर्य इव हरिदश्मरश्मिमहारथ्यः, हरनटनविलास इव महाट्टहासः, सूर्योदय इव निजमहसोरुचारिमणि निशान्तः, नारायण इव चामीकरपटलः, ब्रह्मानन्द इव उपयुक्तमुक्तावलीकः, सत्सेनानीसार इव विदूरवलभीकः, चकोरनिकर इव शशधरकान्तगोपानसीमः, रत्नाद्रिरिव विविधरत्नप्रघणः, हर इव सदामहोमाङ्गनः पुरनिकरः ॥५२॥

कुन्तलादावित्यत्रादि-शद्बेभ्यः क्रमेण कटाक्षे, वस्त्राञ्चले, नेत्रान्त-ताल्वधरौष्ठ-जिह्वा-नखे, मध्याङ्गुलौ, कर्पूर-लोध्र-धेनु-धूलिषु, स्वर्ण-रजतादिषु, हसिते, केशरोमनखे, किसलये इति । अत्र अवलग्नं मध्य-देशः, मध्यमं चावलग्नं च इत्य् अमरः, युग्म एव द्वन्द्वम्, न तु कलहे द्वन्द्वं कलह-युग्मयोः इत्य् अमरः, इह व्यभिचारिभावेष्वित्य् उपलक्षणम् । श्री-कृष्ण-सम्बन्धादानन्द-चिद् एक मात्रत्वेन शृङ्गारादि-रसेषूपयुक्ताश् चेत् पूर्वोक्ताः खलत्व-मत्सरत्वादयोऽपि भावा भूषणावहा एव, न तु दूषणाधायका । यथा राधा-चन्द्रावली-यूथयोः परस्परेष्टानिष्ट-वाधन-साधनाभ्यां खलत्व-मात्सर्य-दोषेद्गारादयो दृष्टा एव, तथा श्री-कृष्ण-पितामहादीनां शतशः श्रुति-स्मृत्यागम-वाक्य-साधित-नित्य-सिद्ध-भावानाम् अपि पालित्यादिकं वात्सलादि-रस-पोषकत्वात्, [ब्र सू २-१-३३] लोक-वल्लीलाकैवल्यम् इति न्यायेन कालिकम् इव प्रतीतमप्य-विरुद्धम् अचिन्त्यत्वाद् एव, न तु तर्क-विरोधम् एव प्रमाय नित्य-सिद्धा मुकुन्दवत् इत्यादि-वचन-जातम् अविस्रभ्यान्यथा प्रतिपत्तव्यम्—अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् इति प्रभास-खण्ड-वचनेन तत्र तत्र तर्क-योजनाया निषिद्धत्वाद् इति । आदि-शब्दाभ्यां शृङ्ग-वंशीनलेषु, वुद्ध्यनुराग-नखाग्रेषु, दुर्वर्णता दुर्वर्ण-शब्द-वाच्यता, दुर्वर्णं रजतं रूपाम् इत्य् अमरः, सर्वे भगवत्-परीवारा यथोचितं नाना-गुणानां वृद्धत्व-तारुण्ञ-पौगण्ड-वाल्य-निष्ठानां वात्सल्यादि-रस-पोषकाणां गुणानां खनि-रूपा अपि श्री-कृष्ण-पितामहादयो मुक्तावस्थास्त्यक्त-कालिक-भावाः काल-कृत-विकार-रहिता इत्य् अर्हः, पूर्वोक्त-युक्तेर् एव विशेषः कालिकोऽवस्था इत्य् अमरः, सगुणत्वेऽपि मुक्तावस्थत्वम् इति श्रवणाद् विरोधाभासः । प्राच्या दिशो रागेण रक्तिम्ना मा शोभा यतः सः, पक्षे प्राचीरैर् अगमोऽगम्यः, वितानितं वितान-युक्तं विस्तारितं च मणिमयं तोरणं वन्दन-माला सिंह-द्वाराख्य-बहिर् द्वारं च यत्र सः, हरिदश्मा हरिण्मणिः, तद् वद् रश्मयः किरणा येषां ते, महारथ्या महान्तो रथ-बाहका अश्वा यस्य सः, अतएव हरिदश्व इति सूर्य-नाम प्रसिद्धम्, रथ्यो वोढा रथस्य यः इत्य् अमरः, पक्षे हरिदश्मानां रश्मयो यासु ता महत्यो रथ्याः प्रतोल्यो यत्र सः, रथ्या प्रतोली विशिखा इत्य् अमरः, रथ्या गलीति ख्याता, अट्ट-हासो विकट-हास्यम्, अट्टालिका-प्रकाशश् च, निजस्य महसा तेजसा उरुचारिमणि सति अधिक-चारुतायां सत्यां निशाया रात्रेरन्तो नाशो यत्र सः, पक्षे निजमहसा उरुचारीणि मणिमयानि निशान्तानि मन्दिराणि यत्र सः, निशान्त-वस्त्य-सदनम् इत्य् अमरः चामीकर स्वर्णं तद् वर्णं पटं लातीति सः, पक्षे पटलं छाउनि इति ख्यातम् । उपयुक्ता मुक्तावली मुक्ता-श्रेणी यत्र सः, पक्षे उपयुक्ताभिर् आधिक्येन लग्नाभिर् उपलक्षितं वलीकं पुज्जा इति ख्यातं यत्र सः, बली कनीध्रे पटल-प्रान्ते इत्य् अमरः, यद् वा उपयुक्ता मुक्ता आवलीकं बलीक-पर्यन्तं यत्र सः, सारो मुख्यः, विदूरा वलानां सेनानां भीर् यस्मात् सः, यमाश्रिता सेनाः परेभ्यो न विभ्यतीत्य् अर्थः, पक्षे विदूरा वलभी पाडीति ख्यातम् अन्त-गृहोर् ध्ववर्ति-दारु-खण्डं यत्र सः, शशधरस्य चन्द्रस्यैव कान्तानां कमनीयानां गवां रश्मीनां पाने सीमा मर्यादा यस्य सः, गोपानसी तु वडभी छादने वक्र-दारुणि इत्य् अमरः, विविधै रत्नैः प्रघनोऽतिनिविडः, पक्षे विविध-रत्नमयालिन्दः, प्रघाण-प्रघनालिन्दा बहिर् द्वार-प्रकोष्ठके इत्य् अमरः, सदा मह उत्सवो यस्यां सा, उमा पार्वती अङ्गना यस्य सः, पक्षे सदाम दाम-युक्तं होमाङ्गनं होम-चत्वरं यत्र सः, पुरनिकर उपनन्दादि-स्वामिकः ॥५२॥

यस्य प्रधानतमम् मसारप्राचीरं मरकतगृहं हेमपटलं प्रबालस्तम्भालि स्फटिकवृति वैदूर्यवडभिमहानीलेन्द्राटुं विमलकुरुविन्दोपलमहाप्रतीहारं नानाकृतिजितविमानावलि पूरम् ॥

प्रधानतमं श्रीमन् नन्दस्वामिकं पुरम्, प्रतीहारो द्वारम्, नाना-कृतयो विविध-चित्राणि ॥

**कुड्ये यस्य मणिप्रवेकरचिते शिल्पक्रियाकल्पितैः ** प्रत्यासज्य शुकैः समं गृहशुकेष्वासादित-स्थेमसु । **सप्राणाः किममी इमे किमथ वेत्युन्मीलतः संशयाद् ** दातुं दाडिमबीजकानि सुचिरं मुह्यन्ति मुग्धाङ्गनाः ॥५३॥

कुड्ये भित्तौ, मणि-प्रवेको मणि-श्रेष्ठः, क्लीवे प्रधानं प्रमुखं प्रवेकानुत्तमोत्तमाः इत्य् अमरः, चित्रितैः शुकैः सह प्रत्यासज्य प्रत्यासक्तिं कृत्वा सख्यं विधायेत्य् अर्थः । अतएव आसादितः स्थेमा स्हैर्यं स्वीकृत-तद्धर्मतया निष्पन्दत्वं यैस् तेषु उन्मीलतः शंशयात् उन्मीलन् उद्भवन् यः संशयः सन्देहस् तस्माद् धेतोः ॥५३॥

यत्र पुरे मूर्त इव वात्सल्यरसः, शरीरभृदिव शुद्धसत्त्वम्, सार इव सकलसौभाग्यस्य, द्वीप इवानन्दसमुद्रस्य श्रीनन्दो नाम व्रजराजः ।
यः खलु भगवत्पितृभाव-भावुक-सुभगम्भावुकः, चिद्विलास इव सदैकावस्थः ॥५४॥

भगवत्-पितृ-भावः पितृत्वं तद् एव भावुकं तेन सुभगम्भावुकः सुभगो भवतीति सः, सदा एकावस्था यस्य सः, श्री-कृष्णस्य चरमकैशोरे नित्य-स्थितिवत् अस्यापि तिल-तण्डुलित-केशता-पादक-प्रथम-वार्धके वयसि नित्य-स्थितिर् इत्य् अर्थः । अस्मिन्न् अपि तथाविध एव नन्दे, उपलक्षणम् एतत्, अन्येषाम् अपि भगवत् तथा-तथा-ध्यायकानां त्रैकालिकानाम् उपासकानाम् अनादि-परस्परा एव तत् तत् साक्षात्कारश्रवणात् श्रुति-स्मृत्यागमीय-परःशत-वचनेभ्यो यौवन-कैशोर-पौगण्डाद् अन्यः, उपलक्षणम् एतद् अन्येषाम् अपि भगवत्-परीवाराणां स्व-स्व-रस-पोषकत्वेन तथा तथा भावे एषैव युक्तिर् अनुसन्धेया ॥५४॥

यस्य च भगवत्प्रकाशफला कल्पवल्लीव, मूर्तिमतीव वात्सल्यरसश्रीः, सञ्चारिणीव तेजोमञ्जरी, स्वकुलयशोदा यशोदा नाम सधर्मचारिणी ॥५५॥

यस्य च सधर्म-चारिणी यशोदा नामेत्य् अन्वयः ॥५५॥

यत्र च राजधान्यां बहव एव गोदुहः । सर्वे पशुपतयोऽपि अहरा अभवा अनुग्राश्च गव्याजीवा अपि न गव्या जीवाः ॥५६॥

गोदुहो गोपाः, अहराश् चौर-रहिताः, अभवाः संसार-रहिताः, अनुग्राः सौम्याः, हरादीनां पशुपति-वचकत्वेन विरोधः । गव्यम् एव आजीवो जीविका येषां ते, गौः पृथिवी तद्भवा गव्याः, दिगादित्वाद् यत् । ते जीवा गव्याः पार्थिवा न भवन्ति, किन्तु चिमया इत्य् अर्थः ॥५६॥

तत्र च केचन व्रजराजस्य सनाभयः, केचन परम्परासम्बन्धभाजः, तेषामपत्यानि श्रीकृष्णसहचराः; केचन गोदुहो मूर्ता इव भगवद्धर्माः, तत्पत्न्यश्च मूर्ता इव भक्तिवृत्तयः, तत्पन्नाः कन्या भगवत्प्रेयस्यः ॥५७॥

सनाभयः सपिण्डाः ॥५७॥

ये तु श्रीकृष्णसहचरा बालकास्ते सर्वे श्रीसनकादय इव नित्यकौमाराः, वनप्रदेशा इव सवयसः, हारभेदा इव परस्परतोऽविसदृशगुणाः, शरत्पद्माकरा इव बृहस्पतिवंशा इव सदाच्छविकचाः, ईशानदिग्विभागा इव समदसुप्रतीकाः, शरद्विलासा इव पद्मास्याः, षड्ज-मध्यम-पञ्चम-स्वरा इव समानश्रुतयः, कुसुमसमूहा इव सुघ्राणाः, अक्षदेविन इव चञ्चलाक्षाः, रघुनाथसहाया इव ओजस्वि-सुग्रीवाः, कलभा इव पीनायतहस्ताः, मथ्यमानक्षीरनीरधितरङ्गा इव प्रसन्नवक्षोभाः, करिण इव पीनकटाः, सदा सुखिन इव महोरवः, चन्द्रा इव कोमलपादाः, सदैकदशा अपि त्रिदशैकाधिकाः, ते च श्रीदाम-सुदाम-वसुदाम-सुबलादयः ॥५८॥

नित्य-कौमारा इति श्री-कृष्ण-सवयस्त्वात् प्रायो नित्य-कैशोरत्वेऽपि तत्-क्रियाक्वारित्वासम्भवात् नित्य-कौमारा एवोच्यन्ते । अतः श्री-कृष्ण-सखिषु बलदेवादिकं विना सर्वेषां चेट-विटादीनां शृङ्गार-रस-साहाय्य-चातुर्येऽपि सनकादिभिर् एव साधर्म्यम् । वयांसि पक्षिणस् तैः सहिताः, पक्षे समानं वयो येषां ते, खग-बाल्यादिनोर्वयः इत्य् अमरः, गुणाः सूत्राणि, सौहार्ददयश् च । पद्माकर-पक्षे—सदा अच्छा निर्मला विकचाः प्रफुल्लाः, पद्मानां प्रफुल्लतैव पद्माकरेऽप्य् उपचर्यते । वृहस्पति वंश-पक्षे—सदाच्छविः सदाकान्ति-युक्तः कचः शुक्राचार्य-शिष्यत्वेन प्रसिद्धो येषु, सहचर-पक्षे—कचाः केशाः । सुप्रतीको दिग्-गजः, पक्षे समदा मृगमद-चर्चा-युक्ताः शोभनाः प्रतीका अङ्गानि येषां ते । इदानीं मुखादि-चरण-पर्यन्तं प्रत्येकम् अङ्गं शब्द-साधर्म्येणोपमिमानो विशिनष्टि—पद्मानामास्या स्थितिर् येषु, स्यादास्या त्वासनं स्थितिः इत्य् अमरः, पक्षे पद्म-युल्याननाः समानास् तुल्य-सङ्ख्यकाः श्रुतयो येषां ते । तथा हि—सप्तस्वराणां द्वाविंशति-श्रुतिकत्वे षड्ज-मध्यम-पञ्चमानां चतस्रश् चतस्र इति द्वादश श्रुतयः । निषाद-गान्धारयोर् द्वे द्वे, इति चतस्रः, ऋषभ-धैवतयोस् तिस्रस् तिस्र इति षट्, इत्य् एवं द्वाविंशतिर् इति, पक्षे समान-कर्णाः । चञ्चलौ अक्षौ पाशकौ येषां ते, अक्षम् इन्द्रिये ना द्यूताङ्गे इत्य् अमरः, पक्षे स्पष्टम्, ओजस्वी सुग्रीवो येषु ते, पक्षे ओजस्विनी शोभना ग्रीवा येषां ते—कृष्णेन सह कौतुक-सङ्गरार्थं तथौचित्यात्, कलभा हस्ति-शावकाः, प्रकर्षेण सीदतीति प्रसत्, सदेर्गत्य् अर्थत्वात्, प्रसत् प्रसरन् नवः क्षोभो येषां ते, पक्षे प्रसन्ना वक्षसो भा दीप्तिर् येषां ते, कटो गण्डः कटिश् च, गण्डः कटः इति, कटो ना श्रोणि-फलकं कटिः इति चामरः, महेन उत्सवेन उरवः प्रवीणाः, पक्से स्पष्टम्, पादा रश्मयश् चरणाश् च, सदा एकैव दशा येषां ते । श्री-कृष्णस्य चरमकैशोराविर् भाव-काले ये यद् वयसस् ते तथावयस्त्वेन नित्यस्थितिम् अन्त इत्य् अभिप्रायः ॥५८॥

द्वितीयगोदुहान्तु ताः कन्याः, सुकविता इव सुकुमारपदाः, मनोवृत्तय इव निरुपमजङ्घालताः, वनवास-प्रवृत्तरामराज्यश्रिय इव स्ववरजानुगतसकलसौभाग्याः, उत्सव-भूमय इव घनोरुरम्भास्तम्भारोपाः, दुरूहग्रन्थवृत्तय इव प्रकटितटीकाः, बन्धुजनचिरकालासङ्गतय इव बन्धुरोदराः, भगवन्नामकीर्तय इव सदावर्तनाभीकाः, भगवत्कृपा इव दीनावलग्नाः, वर्षाश्रिय इव नवपयोधराः, हेमन्तश्रिय इव सुवलितायतदोषाः, अभिषेकावसानशिरःश्रिय इव कम्बुककन्धराः, नारायणकरशाखा इव मार्जितकमलाननाः, वसन्तश्रिय इव तिलकुसुमगन्धवहाः, भगवन्मूर्तय इवेक्षणानुगृहीत-कुवलयाः, भगवद्गुणकथा इव श्रवणरम्याः, कुबेरपुरश्रिय इव विलसदलकाभिख्याः, पश्चिमदिग्विभागलक्ष्म्य इव अभिरामकेशकलापाः ॥५९॥

अथ भगवत्-प्रेयसीर् अपि चरणादि-केशान्तं तथैवोपमिमानो विशिनष्टि—निरुपमा जङ्घा-लता शीघ्रगामिता यासां ताः, जङ्गालोऽतिजवः इत्य् अमरः, पक्षे स्पष्टम् । शोभने अवरजे कनिष्ठे भरते अनुगतं सकलं सौभाग्यं यासां ताः, पक्षे स्वयोर् वरयोर् जानुनोर् गतं प्राप्तं सकलं सौभाग्यम्, किं पुनः सर्वाङ्गेषु यासां ताः, घनो निविड उरूणां विपुलानां रम्भास् तम्भानाम् आरोपो यासु ताः, पक्षे घनाभाम् ऊरुभ्यां रम्भास् तम्भौ सौन्दर्येणालुम्पन्तीति ताः, रलयोर् ऐक्यात् । टीकाविवरणम्, पक्षे प्रकृष्टा कटी-तटी यासां ताः, बन्धूनां रोदं रोदं रोदनां रान्तीति ताः, पक्षे बन्धुरम् अश्वथदलवत् उन्नतानतमुदरं यासां ताः, सदा आवर्तनेन पुनः-पुनर् उच्चारणेन न विद्यते भीर्भयं कुतश् चिद् अपि याभ्यस् ताः प्क्षे सन् शोभन आवर्तो यस्यां तथा-भूता नाभी यासां ताः, दीनेषु अवलग्नाः सङ्गताः, पक्षे दीनम् अवलग्नं मध्य-देशो यासां ताः, सुष्ठु वलिता प्रतिदिनं वर्धमाना, अतएव आयता दीर्घा दोषा रात्रिर् यासु ताः, पक्षे सुवलिते आ ईषद् आयते दोषे बाहू यासां ताः दोषा रात्रौ भुजेऽपि च इति विश्वः, अभिषेकस्यावसानेऽन्ते शिरसः शोभा इव कम्बुः शङ्खस् तदीयं कं जलं धरन्तीति ताः, पक्षे कम्बुवत्रिरेखाङ्कित-ग्रीवाः, कर-शाखाः कराङ्गुल्यः, माजितं कमलाया लक्ष्म्या आननं याभिस् ताः, पक्षे मार्जितं विमली कृतं कमलम् इवाननं यासां ताः, तिल-कुसुमस्य गन्धं बहस्तीति ताः, पक्षे तिल-कुसुमम् इव गन्धवहा नासिका यासां ताः, क्लीवे घ्राणं गन्धवहाः इत्य् अमरः, ईक्षणेन अवलोकनेनैवानुगृतीतं कुवलयं भू-मण्डलं याभिस् ताः, पषे ईक्षणाभ्यां नेत्राभ्याम् अनुगृहीतं स्पर्धा-योग्यत्वा-सम्भवाद् अनुकम्पितं कुवलयं नीलोत्पलं याभिस् ताः, श्रवणेन श्रवणाभ्यां च रम्याः श्रिय इव सम्पद इव विलसन्ती अलकायाः पुर्याः अभिख्या शोभा यभ्यस् ताः, अभिख्या नाम-शोभयोः इत्य् अमरः, पक्षे विलसद्भिर् अलकैश् चूर्ण-कुन्तलैः शोभा यासां ताः, अभिरामस्य केशस्य कं जलं तस्येश्वरस्य वरूणस्य कलाः शिल्पानि पान्तीति ताः, पषे रमणीय-केश-समूहवत्यः ॥५९॥

आसां मध्ये सकलरमणीमौलिमणिमालेव, वैदर्भीरीतिरिव माधुर्योजःप्रसादादि-सकलगुणवती सकलालङ्कारवती रसभावमयी च, कनककेतकीव प्रेमारामस्य, तडिन्मञ्जरीव
मधुरिमजलधरस्य, कनकरेखेव सौन्दर्यनिकषपाषाणस्य, कौमुदीवानन्दकुमुदबान्धवस्य, भुजदर्पावलिरिव कुसुमायुधस्य, सारश्रीरिव लावण्यजलधेः, हासलक्ष्मीरिव मधुमदस्य, आकरभूरिव कलाकलापस्य, खनिरिव गुणमणिगणस्य कापि श्रीराधिका नाम ॥६०॥

वैदर्भीति, तथा चोक्तम् अलङ्कार-कौस्तुभे—[९म-किरणे] अवृत्तिर् अल्पवृत्तिर् वा समस्त-गुण-भूषिता । वैदर्भी सा तु शृङ्गारे करुणे च प्रशस्यते । इति । केतकीतो विलक्षणा अतिमधुर-गन्धा, कनक-केतकीति तत्-प्रेम्णः सर्व-प्रेमाच्छादक-स्ववैभवकत्वम् उक्तम् । तडिद् इति सर्व-माधुर्य-गुणस्यापि मधुरता-धायकत्वं तन्माधुर्यस्य, कनकेति सर्व-सौन्दर्य-गुणेनापि सर्वोत्कृष्ट्वत्व-परीक्षया उत्तीर्णत्वं तत्-सौन्दर्यस्य, कौमुदीति—सर्वानन्द-गुणस्यापि विशिष्टानन्दकता-धायकत्वं तन् निष्ठानन्दस्य । तथोक्तम्—शशी व्योमोत्सङ्गं शशिनम् अभितः कान्ति-लहरी इति । भूजदर्पेति निज-विजयि-नर-नारायणाद्यवतारिणः श्री-कृष्णस्यापि तयैव विजयात् । तेन च सर्वकान्तागणाशक्य-वशीकारस्य श्री-कृष्णस्य मानसरोधकत्वं तत्-कामतान्त्रिकतायाः । सारश्रीर् इति सर्व-लावण्यस्यापि मूल-भूत-सम्पत्ति-रूपत्वं तल् लावण्यस्य । हासेति भुज-दर्पेतिवत्, मधुर् वसन्तः, तेन च तत्-कामतान्त्रिकतायाः समय-गत-वैलक्षण्यस्यापि सार्वदिक्त्व-प्रतीतिः । आकरभूरिव खनीनां जन्म-भूरिव, तेन सर्व-वैदग्ध्य-गुणस्याविर्भावक-प्रकाश-लवकत्वं तदीय-वैदग्धीनाम् । खनिर् इति तथैवार्थः । गुणाः पूर्वोक्तेभ्यो भिन्ना दयाक्षान्त्यादयो ज्ञेयाः ॥६०॥

या खलु गौरी च गौरीसहस्राधिका, तथापि श्यामा, अनादिरपि किशोरी, सुरूपापि असुरूपा सखीनिकुरम्बस्य, सौकुमार्यवती चासौ कुमार्यवतीह सकलसौभाग्यम् ॥६१॥

गौरी गौर-वर्णा, गौरी-सहस्रात् पार्वती-सहस्राद् अप्य् अधिका, श्यामा शीतकाले भवेद् उष्णा उष्ण-काले च शीतला स्तनौ सुकठिनौ यस्याः सा श्यामा परिकीर्तिता । इत्य् उक्त-लक्षणा, असुरूपा प्राण-रूपा, पुंसि भूम्न्यसवः प्राणाः इत्य् अमरः, असौ कुमारी सकलं सौभाग्यम् अवति वशीकरोति कीदृशी ? सौकुमार्यवती ॥६१॥

यां खलु महालक्ष्मीरिति केचन, लीलेति तान्त्रिकाः, आनन्दिनीशक्तिरिति केचिदामनन्ति ।
यस्याश्च विशाखा-ललितादयः समानगुणरूपास्तत्प्रतिच्छायारूपाः प्रियसख्यः ॥६२॥

आनन्दिनी ह्लादिनी, तथा ह्युक्तम्—ह्लादिनी या महा-शक्तिः सर्व-शक्तिवरीयसी । तत्-सारभूता इति । केचिद् इत्य् अत्रैव स्वारस्यमानन्दिनीभिः स्वाभिः शक्तिभिर् इति रासान्ते स्वयं वर्णयिष्यमाणत्वात्, महा-लाक्ष्म्यास् तु एतदीयैश्वर्य वैभवमयांश-भूतात्वेन तथा लीला-शक्तेश् च पाद्मकार्तिक-महात्म्य प्रसिद्द्या एतदीय-विहारकानन-पालिवृन्दात्वेन च [भा पु १०-२९-३७] [सङ्क्षेप] श्री-वैष्णव-तोषण्यादिषु निर्धारितत्वाच् चेति । ललिताया ज्येष्ठत्वेऽपि विशाखायाः प्राधान्यं राधया सहैक्यदृष्ट्या । तथा हुक्तम्—नाम-रूप-गुणादीनाम् ऐक्यात् श्री-राधाकैव या इति ॥६२॥

द्वितीया च काचिद्यूथपा चन्द्रावलीव परमाह्लादिनी, प्रकृतिरिव गुणमयी, नयनेन्द्रियवृत्तिरिव रूपवती, अपां वृत्तिरिव रसमयी, कुसुमावलिरिव परमोदारा, श्रीचन्द्रावली नाम ललनारत्नम् । यस्याश्च पद्मा-शैव्यादयः प्रियसख्यः । एवं श्रीराधा-सपक्षा श्यामा नाम कापि यूथपेति बह्व्य एव यत्र यूथपाः ॥६३॥

वृत्ति-शब्दोऽत्र स्वरूप-वाचकः । कुसुमावलि-पक्षे परेषां मोदं हर्षम् आ सम्यग् रातीति सा ॥६३॥

अथ यत्र राजधान्यां मूर्ता इव भगवद्धर्माश्चोर्वीगीर्वाणाः परमदयालवः शम-दम-तितिक्षोपरतीनां मूर्तय इवापि सात्वतशास्त्रप्रवक्तारः, तदनुकूलवेदाभ्यासनिरताः केचन पञ्चरात्रनिष्ठा वजराजकृतदानमात्रप्रतिग्रहीतारः, तदेकयाजकाः ॥६४॥

उर्वीगीर्वाणा विप्राः, शमो भगवन्निष्थ-वुद्धिता, दम् इन्द्रिय-वशीकारः, तितिक्षा क्षमा, उपरतिर् विराग्यम, सात्वत-शास्त्रं श्री-भागवतादि, नारद-पञ्चरात्रोक्त-धर्मपराः, तमेकं व्रजराजम् एव याजयन्ति, नान्यम् ॥६४॥

ये खलु ज्ञानानन्दयोः कातर्योपयुक्ता अपि न कातर्योपयुक्ताः, विद्याविद्योतेषु परमचातुर्यवन्तोऽपि न चातुर्यवन्तः, सदारमाधुर्या अपि नरमाधुर्याः, प्रकृतिगुणशावल्या अपि न प्रकृतिगुणशावल्याः । किं बहुना? तैलिक-ताम्बूलिक-मालिक-काम्बविक-गान्धिक-स्वर्णकार-घटकार-व्योकार-पटकारादयोऽपि चिद्रूपा अपि मनुष्यधर्माणः, मनुष्यधर्माणोऽपि श्रीदा अपि पुण्यजनेश्वरा अपि न कुबेरा नैकपिङ्गा न नरवाहनाः ॥६५॥

प्रस्तुतत्वात् श्री-कृष्ण-सम्बन्धिनोर् ज्ञानानन्दयोर् मध्ये कातर्ये कतरस्यैकतरस्य भावः कातर्यं तत्रोपयुक्ताः श्री-कृष्णस्यैश्वर्ये केचित् प्रविष्टाः, केचिन् माधुर्ये चेत्य् अर्थः । एवम् अपि न कातर्ये कातरत्वे उपयुक्ताः, अन्यानुपघात्य सिद्धान्तज्ञा इत्य् अर्थः । तथा विद्यानाम् अष्टादशानां विद्योतेषु विचारादिभिः प्रकाशनेषु, न चातुर्यमातुरत्वं पराजयस् तद्वन्तः, सदैव रमाणां सम्पत्तीनां धुर्या येषां ते, प्रकृत्या स्वभावेनैव ये गुणा मैत्र्यादय्स् तैः शावल्यं वैचित्र्यं येषां ते, किन्तु न प्रकृत्या गुणैः सत्त्वादिभिः शावल्यं मिश्रीभावो येषां ते, अप्राकृताः शुद्ध-सत्त्वमया इत्य् अर्थः । काम्बविकः शङ्खवणिक्, व्योकारो लौहकारकः, मनुष्य-धर्माद्यास्त्रयस् तथा कुवेराद्याश् च त्रय एकपर्याया एवेति विरोधः । न कुत्सितं वेरं शरीरं येषां ते, न एकः पिण्गोऽपि येषु ते, विष्टितो वेतनतो वा न नर-वहन-क्लेषभाजः, नैककीर्तिर् नैक-यशा इतिवन् नञो नलोपाभावः, न-शब्देन सह सुप्-सुपेति वा समासः ॥६५॥

किं बहुना? पुलिन्दा अपि यत्र वर्षाभ्रमरा इव जातिनाम्नैव विकला अपि सकलसुमनसां रतिप्रदाः ॥६६॥

जातिर् मालती-पुष्पम्, तन्नाम्नैव विकला अपि आनन्दावेशेन विह्वला अपि सकल-सुमनसां सर्व-पुष्पाणां रतिप्रदाः, पक्षे पुलिन्देति नाम्नैव विकला निन्द्या अपि सकल-देवानां रति-प्रदाः, सुपर्वाणः सुमनसस् त्रिदिवेशा दिवौकसः इत्य् अमरः ॥६६॥

यत्र च—अतिदीर्घतर-महास्फटिक-मणिभित्ति-चतुष्टयमधि मरकतगोपानसी-खण्डाचटुल-चरमभागदीर्घ-तरकनकवंशाकीर्णाः, चतुष्कोणावस्थित-महागोपानसी-चतुष्टयावष्टब्ध-सुस्थित-कुरुविन्दमयकौणिक-चतुष्टया-वष्टब्ध-महावडभीकाः, भूधरभूमय इव विमल-नानामणिपटलाः, विचक्षणा इव निस्तम्भाः, सहृदया इव विशद-प्रकीर्णतराः, महाराजपुरगोपुरनिकरा इव परितोविराजि-बहुप्रतीहाराः, स्फुरत्पवनधूतधूलयः परितो महागोगृहाः ॥६७॥

यत्र च राजधान्याम्, महा-गो-गृहाः, कीदृशाः ? अतिदीर्घतरे महास्फटिक-मणिमये भित्ति-चतुष्टये यानि मरकत-मणिमयानि गोपानसीखण्डानि चत्वारीत्य् अर्थात्, तेषु अचटुलैर् अचञ्चलैर् दृढ-निवद्धैर् इत्य् अर्थः । चरम-भागो दीर्घतरो येषां तैः कनक-मयैर् वंशैः वरगा इति गौडे ख्यातैः काष्ठ-खण्डैर् आकीर्णा व्याप्ताः । पुनः कीदृशाः ? चतुर्षु कोणेषु अवस्थितेन मरकतमयं यन्महागोपानसी-चतुष्टयं तत्रावष्टव्धेन पूर्व-गोपानसी उपरिगतो क्षुद्रा, उयन्तु पटलोपान्तगता महती ज्ञेया । अतएव सुस्थितेन निश्चिलेन कुरुविन्दमणिमयेन कौणिकानां कोणाइच् इति ख्यातानां चतुष्टयेनावष्टव्धा महावडभी पाडि इति ख्यातं ऊर्ध्वगतं दारु-खण्ढं येषां ते, विमलानां नाना-मणीनां पटलं समूहो येषु ते, पक्षे विमल म्नाना-मणिमयं पटलं छाउनी इति ख्यातं येषां ते, निःस्तम्हा निरहङ्कृताः स्थुणा-रहिताश् च, विशदा निर्मलाः, प्रकीर्णतरा असङ्कुचिताः, पुरगोपुराणि पुरद्वाराणि, प्रतीहारा द्वारपाला द्वाराणि च ॥६७॥

येषामङ्गणेषु सरस्वती-शरीरमिव पूर्णिमा-नक्तमिव सर्वशुक्लम्, नीलमणिशैलाग्रमिव श्यामशृङ्गम्, अङ्गनानिकुरम्बमिव घनायतबालहस्तम्, भगवच्चक्रमिव महसारिपुच्छम्, तीर्थसलिलमिव अतितरसास्नानमितम्, गणपति-शरीरमिव महापीनम्, मन इव अवशम्, तपस्विकुलमिव सदा सुव्रतम्, चिन्तामणिकुलमिव सकलकामदुघम्, निदाघकाननमिव सदोत्फुल्लवत्सकम्, सुकविकाव्यमिव नानावर्णविन्यासञ्च नैचिकीनिकुरम्बम् ॥६८॥

घना निविडा आयता दीर्घा बाल-हस्ताः केश-समूहा यस्य पाशः पक्षश् च हस्तश् च कलापार्थाः कचात् परे इत्य् अमरः, पक्षे बाल-हस्तः पुच्छ-पूर्वभागः, बाल-हस्तस् तु बालधिः इत्य् अमरः, महसा तेजसा रिपुं छ्यति छिनत्ति, छो छेदने क-प्रप्ययान्तः, पक्षे महेन उत्सवेन निरन्तर-श्री-कृष्ण-दर्शन-जनितेन सारि प्रसरण-शीलं पुच्छं यस्य तत्, अतितरसा अतिवेगेन स्नान-विषये मितं मानयुक्तम्, यद् वा स्नानं लोक-कतृक-मज्जनम्, इतं प्राप्तम्, पक्षे अतितरा स्यस्ना गल-कम्बलस् तया नमितम्, महापीनम्, अतिविपुलम्, पक्षे महत् आपीनम् ऊधो यस्य तत्, ऊधस् तु क्लीवम् आपीनम् इत्य् अमरः, अवशम् अनधीनम्, पक्षे न विद्यते वशा वन्ध्या यत्र, वशा वन्ध्या इत्य् अमरः, सदा सुनियम-युक्तम्, पक्षे सदा सुव्रता यत्र तत्—सुव्रता सुख-सन्दोह्या इत्य् अमरः, सकलान् कमान् दोग्धि पूरयतीति तत्, पक्षे सकला अपि कामदुघा यत्र तत्, सदा उत्फुल्ला वत्सकाः कुटज-पुष्पाणि शावकाश् च यत्र तत्, नाना-वर्णानां माधुर्यादि-व्यञ्जकाक्षराणां विशिष्टो न्यासः सन्दर्भो यत्र तत्, पक्षे श्वेत-नील-पीतादि-वर्ण-युक्तम्, पूर्वत्रक्तं35 सर्व-शुकात्वम् एकैक-निकुरम्बम् अपेक्ष्य ज्ञेयम् । अतोऽत्र निकुरम्बम् इति जातापेक्षया एक-वचनम् ॥६८॥

यत्र च—भुवि निपतिताः कौमुदीनां सजीवा इव गर्भाः, सञ्चरन्त इव शिलाखण्डाः कैलासस्य, ग्रन्थय इव हरहासस्य, हिण्डीरा इव क्षीरसमुद्रस्य, मांसपिण्डा इव शुद्धसत्त्वस्य तत इतो धावमाना वत्सनिवहाः ॥६९॥

कौमुदीनाम् इत्यादि36 शुक्ल-प्राधान्येन, तत्र कौमुदीनाम् इत्य् आल्हादकत्वं प्राधान्येनोक्तम्, कैलासस्य इति श्वेतिम्ना, हर-हासस्य इत्य् अनर्गल-प्रफुल्लत्वम्, हिण्डीरा इति मार्दवम्, शुद्ध-सत्त्वस्य इत्य् अप्राकृतत्वम्, धावमाना इति ताच्छीलाशानजान्तम् ॥६९॥

यत्र च—गण्डशैला इव स्फटिकाचलस्य, महोन्मय इव दधिमहादधेः मुनय इव सायङ्गृहाः, जीवन्मुक्ता इव स्वैरचारिणः, दिग्गजा इव महाविषाणाः, नृपा इव महाककुदाः, मत्ता इव स्तब्धारुणलोचनाः, महागर्ववन्त इव सदाहन्वादाः, विरक्ता इव लम्बमानगलकम्बलाः, विविध-मणिवप्रोत्खातरेखाशवलितशृङ्गतया नानावर्ण विषाणा इव खुरक्षुण्णमणिधरणिरजोभिरभितो धूसरा मूर्तिमन्तश्चतुष्पादा धर्मा इव महोक्षाः । यस्य गोकुलस्य कलाकलांशेन सुरभिलोकः समपादि ॥७०॥

स्फाटिकेति स्वच्छत्वं दृडहत्वं च प्राधान्योनोक्तम्, महोर्मय इति दुवारवेगत्वम्, सायम् एव गृहा आश्रयितव्यत्वेन वर्तन्ते येषां ते, महादन्ता वृहच्छृङ्गाश् च, विषाणं स्यात् पशु-शृङ्गेभदन्तयोः इत्य् अमरः, महा-ककुदा इति प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् इत्य् अमरः, सदा अहम् एव विद्वान् शूर इत्य् एवं वादो येषां ते, पक्षे हम्बा इति शब्दमाददतीति ते, वप्रः प्राचीर-कोणादिगतो वुरुज् इति ख्यातः, सुरभिलोको गोलोकः ॥७०॥

यस्य शाखानगरेषु शृङ्गाटकानामभितोऽभितः समसूत्रनिपातपातिता इव श्रेणीकृताः, महाराजविजयसमया इव विलसत्पताकिन्यः, मुक्तास्फोटा इव मौक्तिकप्रालम्बाः, वसन्ततरव इव प्रबालप्रघणाः, विविधमणिघटाघटिता विपणिविततयः, काश्चिद्वसन्तश्रिय इव नानाकुसुम-सौरभ-सुवासिताः, काश्चिन्महाशैलाधित्यका इव विविधगन्धद्रव्यसुगन्धाः, काश्चिन्मणिखनय इव विविधमणिगणकान्तिकन्दलिताः, काश्चिद्विलासिजनवक्षस्तट्य इव चन्दनागुरु-कस्तूरीघनसारसौरभोद्गाराः, काश्चित् पक्वशालिकेदारविततय इव शालिपरिमलोद्गार-गरीयस्यो वणिजां निवासभूताः ॥७१॥

शाखा-नगरेषु नगर-प्रन्तेषु, शृङ्गाटकानां चतुष्पथानाम् इति षष्ठी समसूत्रेत्य् अनेनान्वयात् । पश्चाद् अभितोऽभितो वर्तमाना इत्य् अनेनान्वयेऽपि न द्वितीया—न हि प्रसक्तो वचन-शतेनापि निवर्तयितुं शक्यते इति न्यातात् । समया इवेति समयाशब्दो भुजाशब्दवत् टावन्तो रष्टव्यः । मुक्ताः स्फोटाः शुक्तयः, मौक्तिकानां मुक्तानां प्रकृष्ट आलम्बो येषु, पक्षे मौक्तिकैः प्रालम्बमृजुलम्बि माल्यं यासु ताः, प्रवालैः प्रघणा निविडाः, प्रवालम् अङ्कुरेऽप्यस्त्री इत्य् अमरः, पक्षे प्रवालमया अलिन्दा यत्र ताः, विद्रुमः पुंसि प्रवालम् इत्य् अमरः, विपणिविततयो हट्टवर्त्म-समूहाः, शैलाधित्यकाः शैलोपरिगता भूमयः, घनसारः कर्पूरम्, शालयो धान्यानि, वणिजाम् इति माल्य-गन्ध-रत्न-चन्दन-धान्याद्य् उपजीविनाम् ॥७१॥

एवंविधस्य व्रजपुरस्य परितश्च महानगरं जलधितटानीव समुल्लसित-विद्रुमाणि, महासैन्यानीव विविधकुञ्जराणि नानाविधगुल्मानि च, तपस्विकुलानीव नानाप्रकारव्रततीव्रातानि, रसिकनिकुरम्बाणीव सदाविलासेनामोदित-वयांसि विपिनान्तराणि ॥७२॥

व्रज-पुरस्य सम्बन्धि महा-नगरं श्री-मन् नन्दराजाधिवासम्, परितस् तस्य चतुर्दिक्षु, अभितः परितः समया इत्यादिना द्वितीया, विद्रमाः प्रवालाख्य-रत्नानि, विशिष्टद्रुमाश् च, कुञ्जरा हस्तिनः, पक्षे विविध-कुञ्ज-युक्तानि, गुल्माः सैन्य-विशेषाः, वीरुधश् च, नाना-प्रकारेषु व्रतेषु तीव्र आतः प्रवेश-सातत्यं येषां तानि, अत सातत्यागमने इत्य् अस्मात् घञ्, पक्षे व्रतत्यो लताः, वयांसि आयुंषि पक्षिणश् च ॥७२॥

येषु अविरलगलदनाविलवल्गु-गुग्गुलुनिर्यासपिच्छिलेषु वर्त्मसु परस्परनिबद्ध-करकमलमभिसरन्ति विपिनदेव्यः ।
वनवृषभ-ककुद्दरकषण-चूर्णीभूत-बदरतरुखण्ड-समुत्पद्यमान-जतुरजोभिरनवरत-निःस्यन्दमान-मकरन्दभरनिर्भरतिमिततया चरणकमलेष्वनायास-यावकपङ्कानुलेपो जरीजृम्भ्यते वनीदेवतानाम्, मदमुदितरोमन्थमन्थरवनमेषमुखकुहर-समुदीर्णजीर्णकक्कोल-फलसौरभ-सुवासितानि दिशां मुखानि, वनमहिष-विषाणशिखरक्षुण्ण-सरलसुरदारुचारुत्वगामोदमेदुरं गगनतलम्, बनकरिकरभघटा-भग्नलग्नशल्लकीपल्लवास्तीर्णानि गिरितटानि, वनधेनुगणास्वादित-गन्धतृणरुचिर-शाद्वलसौगन्ध्यबन्धूनि धरणितलानि, कर्णपूरीभूत-सुललित-मरिचगुच्छकाभिरभितः पुलिन्दसुन्दरीभिः करतलभग्नकर्पूरकदलिकानिर्यास-संवासित दलितताम्बूलीदलदंशसरसाभिरवगाढा विपिनसीमानः, कपिकुलकवलीकृत-निस्तुलनिस्तल-गोस्तनीफलगुच्छ-समाच्छन्नानि भुवस्थलानि ॥७३॥

ककुदां दरकषणं कण्डूयनार्थम् ईषद्-घर्षणम्, तिमिततया स्तिमितत्वेन, तिम ष्टिम आर्द्रीभावे धातुः, जरीजृम्भ्यते अतिशयेन प्रकाशते, शल्लकी गजभक्ष्यो गन्ध-वृक्षः, गज-भक्ष्या तु शल्लकी इति त्रिकाण्डशेषः, वर्तुलं निस्तल म्वृत्तम् इत्य् अमरः, गोस्तनी द्राक्षा ॥७३॥

किञ्चान्यान्यपि काननानि—

**रसाल-पनसार्जुन-क्रमुक-नारिकेलासनैः, पलाश-वट-पर्कटी-खदिर-बिल्व-जम्ब्वादिभिः । ** मधूक-गिरिमल्लिका-बकुल-नाग-पुन्नागकैरशोक-बक-पाटली-कनकचम्पकैश्चम्पकैः ॥

अन्यानि वर्णितलक्षणाद्-वृन्दावनादितराणि काम्यवनादीनीत्य् अर्थः । रसालादिभिः परिवृतानीति चतुर्थ-श्लोकस्थेनान्वयः । क्रमुको गुवाकः, पर्कटी प्लक्षः ॥

**शिरीष धव-शिशपा-लकच-लोध्र-कोशातकी-प्रियाल-नट-शल्लकी-सरलशाल-पील्वादिभिः । ** **कपित्थकरमर्दकैः प्रियक-तिन्दुकाम्रातकैः, करीर-करवीरकैः कदलिका-लवल्यादिभिः ॥ **

लकुचो डहुः, कोशातकी घियातोरै इति ख्याता, ज्योत्स्नी पटोलिकायां च कोशातकी इत्य् अमरः ॥

तमालनवमालिकाकनकयूथिकायूथिका-कुरण्टक-लवङ्गिका-दमनकातिमुक्तादिभिः । अपि स्थलसरोजिनीविचकिलादिभिः कन्दली-प्रियङ्गु-तुलसीमुखैरपि विचित्रवीरुद्गणैः ॥

अतिमुक्तो माधवी, विचकिलि मल्लिका, आद्यन्तयोस् तमाल-तुलस्योर् निर्देशः सर्वेषाम् अपि वृक्षाणां मङ्गलमयत्व-सूचकः ॥

**सितासितविलोहितोत्पल-सरोज-कह्लारकै ** रथाङ्ग-बक-सारसैः कुरर-हंस-कारण्डवैः । विराजित-तरङ्गकैर्विमलवारिभिर्वापिका **तडाग-सरसीमुखैः परिवृतानि तोयाशयैः ॥७४॥ **

तोयाशयैर् जलाशयैः परिवृतानि, कीदृशैः ? सितेत्यादिभिर् जलस्थ-पुष्पैः, रथाङ्गादिभिर् जलचर-पक्षिभिश् च विराजिताः शोभितास् तरङ्गा येषां तैः, वापीसरस्योर् महद् अल्पत्वाभ्यां भेदः ॥७४॥

**तेषामेकतमं बृहद्वनं नाम वनम् । यत्र व्रजपुरपुरन्दरस्य यथोक्तप्रकारं राजधान्यन्तरमास्ते ॥७५॥ **

उक्त-प्रकारं श्री-नन्दीश्वरम् अनतिक्रम्य ॥७५॥

उक्तमेतदखिलमलौकिकमपि भगवदिच्छया स्वीकृत-लोकमध्यपातित्वं मांसचक्षुषो लौकिकमेव पश्यन्ति नयनदोषवशाच्छङ्खमपि पीतमिव । भगवदिच्छा तु यथा—

आसाते पितृ-मातृ-भावभविकौ कृष्णस्य यत्राधिपाव् **एको नन्द इति प्रथामुपययावन्या यशोदेति यौ । ** ताभ्यां नित्यकिशोर एष शिशुवत् प्रादुर्भवन्मोदते **लीलायाः किमशक्यमस्ति भगवद्वर्यस्य लीलानिधेः ॥७६॥ **

उक्तम् [१७-अनु] अस्ति सकल-वैकुण्ठसारम् इत्य् उपक्रम्य वर्णितम् अलौकिकं प्रकृति-जन्यलोक-भिन्नं केवल-सच्चिदानन्दरसमयम् अपीत्य् अर्थः । भगवद् इच्छयेति अनादि-सिद्धयैवेत्य् अर्थः । भगवद् इच्छयेति अनादि-सिद्धयैवेत्य् अर्थः । ततश् च तथा-भूतत्वेनैवास्य नित्यत्वेऽपि37 द्विपरार्धावसाने प्रपञ्चाभावेऽपि योगमाया-कल्पितस्य प्रपञ्चस्यान्तर्वर्तित्वं ज्ञेयम् । तथा-भूत-सवरूपत्वेनैवास्य श्री-कृष्णस्य नराकृतित्वेन38 लौकिकालौकिक-सर्वतो-विलक्षण-लीलादिभिर् महावैकुण्ठनाथादिभ्योऽपि चमत्कारकारित्वम् इव महावैकुण्ठादिभ्योऽपि उत्कर्षो निःसीम-माधुर्याविष्कारेण भगवतामृतादिषु सिद्धान्तितो घटत इति । किं च, प्रपञ्चान्तर्वर्तित्वेऽपि सर्व-प्रपञ्च-व्यापकत्वम् अस्य भगवद् विग्रहस्येवातर्क्यतयैवास्ति । एतत्-प्रदेशैक-देशेऽपि ब्रह्माण्ड-कोटीनां साक्षाद् दृष्टत्वाद् इति लौलिकं देशान्तर-साधारणां नयनयोर् देषः पित्तप्रकोपस् तद्वशात्, देशान्तर-साधारण्यम् अस्य सर्वतो-वैलक्षण्येन निरुपधिचित्ताकर्षकत्व-लक्षण-महागुणानुभवाद् अपि ज्ञेयम् । परानन्दो यस्मिन् नयन-पदवी-बाजि भविता विज्ञातव्यो मधुवरवशोऽयं मधुरिपुः इति यत्र प्रकृत्या रतिर् उत्तमानां ततानुमेयः परमोऽनुभावः इत्यादेर् भगवतस् तदीयानां भक्त-धामादीनां च चित्ताकर्षकत्व-लक्षण-गुणेनापि परिचितोत्वोक्तेः । अतस् तथाभूत-चित्ताकर्षकत्व-तारतम्येनापि तेषाम् उत्कर्ष-तारतम्यं लक्ष्यते भक्त-सुधीभिः । तथैवाकृष्ट-चेतस् तारतम्येनैव तत् तद्-द्रष्टुर् अप्य् अत्तमत्व-तारतम्यं ज्ञायते । न तु वर्णित-लक्षण-मणिमय-वृक्ष-भूम्यादिमयत्वस्यादर्शनाद् एव उत्तमत्वहानिकरं मांसचक्षुष्ट्वं वाच्यम्—भगवद् इच्छया विना दृष्टि-योग्य-जनैर् अपि तस्य द्रष्टुम् अशक्यत्वात् । यथोक्तं [सङ्क्षेप-] श्री-भागवतामृते [१-७९३] लीलाढ्योऽपि प्रदेशोऽस्य कदाचित् किल कैश्चन । शून्य एवेक्ष्यते दृष्टि-योग्यैर् अप्य् अपरैर् अपि ॥ इति । तथा सामान्याकारेण दृष्टानाम् अपि वृक्ष-गुल्मादिमय-भूमीनाम् अपि चिन्मयत्वम् एव प्रतिपादितम्, न तु तद् अन्यथात्वम् । अलं विचार-विस्तारेण । [भा पु १०-४३-१७] मल्लानाम् अशनिः इत्यादौ विराट्त्वेन दृष्टस्य श्री-कृष्णस्यैव मांस-चक्षुर् भिरनाकृष्टमनस्कैर् आसुरभावाक्रान्तैर् अपि दृष्टानां तत् तत्-प्रदेशानां नाचिन्मयत्वम्, किन्तु [उ नी स्थायि-भाव-प्र ३६] कृष्ण-निष्ठं स्वरूपं स्याद् अदैत्यैः सुगमं जनैः इति-रीत्या तदानीं तत् तद् अर्थक्रियाकारित्वाभाव इति । भगवद् इच्छेति तादृश-लीला-स्थितेस् तद्धेतुकत्वेऽपि तच् छब्देनाभिधानम् उपचारेणैव । स च त्स्या विलक्षण-माधुर्यापादक-तद् इच्छा-मात्रैक-रसत्व-वोधक इति । प्रकटा-प्रकटा चेति लीला सेयं सेयं द्विधोतिता इत्यादिना [सङ्क्षेप-] भागवतमृतोक्ताया [१-७१४] द्विधाभूताया एव लीलाया नित्य-स्थिति-परिपाटीमाह—आसारे इति । यत्र गोकुले यौ अधिपौ अधीश्वरौ आसाते, नित्यं विराजमानौ वर्त्तेते इत्य् अर्थः । कीदृशौ ? कृष्णस्य् पितृ-मातृ-भाव एव भविक मङ्गलं ययोस् तौ । कौ तावित्य् अपेक्षायाम् आह—एको नन्द इति अन्या यशोदेति प्राथां ख्यातिम् उप वसुदेव-देवक्यादिभ्योऽपि आधिक्येन ययौ, ताभ्याम् एष श्री-कृष्णो नित्य-किशोरः शिशुर् इव प्रादुर्भवन्, शिशुवद् इति कैशोराच्छादनांश-मात्र-विविक्षया, वस्तु-तस्तु शैशवादीनाम् अपि नित्यत्वम् अग्रिम-ग्रन्थे स्पष्टमे व स्थापयिष्यते ग्रन्थ-कृता । मोदत इति वर्तमान-निर्देशात् निरन्तरम् एव तत्रापकट-लीलायां परस्परा-सम्पृक्त-स्वरूपैर् बहुभिः प्रकाशैः । प्रकट-लीलायां तु कदाचित् क्वचन ब्रह्माण्ड-वृन्दे एकेनैव प्रकाशेन तत्र प्रत्येकम् अन्तरान्तरा प्रकटितावान्तर-प्रकाशेनेति भेदः । ननु नित्य-किशोरत्वं शैशवादिमत्वं च एकत्र युगपद् विरोधि स्यात् ? तत्राह—लीलायाः किम् अशक्यम् अस्ति, अचिन्त्य-शक्त्या सर्वम् अपि सुशक्यम् एवेत्य् अर्थः । किम् अशक्यम् इत्य् अनेन सूचितेन दुर्घटत्वेन शैशवादीनाम् अपि नित्यत्वम् अत्रापि सूचितम् अभूद् एवेति । भगवद्भ्यो वैकुण्ठनाथादिभ्योऽपि वर्यस्य श्रेष्ठस्य, केन वर्यत्वम् ? इत्य् अपेक्षायां हेतुर् गभितं विशिनष्टि—लीला-निधेर् इति । तद् उक्तम् [भ र सि २-१-४३] लीला प्र्म्णा प्रियाधिक्यम् इत्यादीति ॥७६॥

लीलानिधित्वं च यथा—

वात्सल्यमामोदयितुं तयोस्तत्, शिशुर्भवन् पालन-लालनाभ्याम् । **अलौकिकैरेव समस्तभावैः, स लौकिकत्वं स्वयमेति लोके ॥ **

ननु तस्य लोक-वल्ल्;इलावत्त्वे किं प्रयोजनम् इत्य् अपेक्षायां भक्त-विनोदनं विना नान्यन् मुख्यं प्रयोजनम् इति सामान्येन वक्तुं विशिष्य तद् एवैकम् आह—तयोर् नन्द-यशोदयोः शिशुर् भवन् सन् पालन-लालनाभ्यां तत् प्रसिद्धं शैशवादि-चेष्टोत्थं वात्सल्यमामोदयितुं, प्रकाशयितुं तदादि-सर्वभक्त-सुखार्थम्, यद् वा, अनुमोदयितुम्, अप्रकट-लीलां तदादि-तादृश-सिद्धान्, प्रकट-लीलायान्तु साधकान् समस्तान् अपीत्य् अर्थः । अलौकिकैः कुत्राप्य् अदृष्टाश्रुत-चरेण माधुर्येण तदाच्छादितैर्श्वर्येण च लोकम् अतिक्रान्तैः समस्त-भावैर् वाल्य-पौगण्डादिभिर् लोके अप्रकटे प्रकटेऽपि लौकिकत्वं नर-लीलत्वम् एति प्राप्नोति । स्वयं लौकिकत्वम् एतीत्यनेन लौकिकत्वस्यैव स्वयं-रूपत्व-लक्षणत्वम् इति भावः ॥

गो-गोप-गोपी-निकरैर्विलासोऽलोकेऽपि तस्मिन् भवितुं क्षमेत । **बाल्यादिलीलासुरनाशलीले, लोकं विना नार्हत एव शोभाम् ॥७७॥ **

ननु कथं केवलं वात्सल्यानुमोदनार्थम् इति उच्यते, मधुर-रसस्य तत्र प्राधान्ये सत्यपीति ? तत्राह—तस्मिन् प्रसिद्धे अलोकेऽपि प्रपञ्चाद् बहिर्भूते महा-वैकुण्ठीय-गोलोकेऽपि विलासः शृङ्गार-रस-निष्ठो भवितुं क्षमेत युज्येत । भवतीत्य् अनुक्त्वा भवितुं क्षमेतेत्य् अनेन यथा लौकिके माधुर्य-पोषेण स्यात् तथा न सम्भवतीति द्योतयति, [५-५६] श्रियः कान्ताः कान्ता परम-पुरुषः इति [५-२९] लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानम् इत्यादि ब्रह्म-संहितानुसारेण सपरिकरस्य श्री-कृष्णस्य देवलीलत्वेन ऐश्वर्यस्यैव पोषणाधिक्यात् । तथाप्य् असौ तत्र शोभत एव, किन्तु वाल्यादि लीला तथा असुरनाश-लीला चेति द्वे लोकं विना शोभां नार्हत एव । श्री-कृष्णस्य देव-लीलत्वान् महैश्वर्य-साक्षात्कारेण तत्रत्य-वात्सल्यस्याकिञ्चित्करत्वात्, तथा [पञ्चम-पटले १५] महानील-नीलाभम्39 इत्य् उपक्रम्य [पञ्चम-पटले १९] अनःपूतनादीन् निहन्तुं प्रत्तम् इत्यादि-क्रमदीपिकोक्तानुसारेण धातॄणां वैध-भक्तानां प्राप्यत्वेन तत्र वर्तमानाया अपि असुरनाश-लीलायाश् च तथैव देव-लीलतया महैश्वर्य-दृष्ट्या सङ्कोचाद्य-भावान्नाट्यवद् अकिञ्चित्करत्वम् एवेति । अतस् तत् तद् अनुमोदनोपलक्षण-भूतस्य वात्सल्यानुमोदनस्यैव हेतुत्व-प्राधान्यात् प्राधान्येन व्यपदेशा भवन्ति इति न्यायेन वात्सल्यमामोदयितुम् इत्य् उक्तम्, न पुनर् मधुर-रसानुमोदनादीनां हेतुत्वाभाव एव । केवलम् इति गोलोकस्य40 ऐश्वर्यमयत्वं [सङ्क्षेप-] श्री-भागवतामृते व्यक्तम्, यथा [१-७७७,७८१, ७८२] यत् तु गोलोक-नाम स्यात् तच् च गोकुल-बैभवम् । तदात्म-वैभवत्वं च तन्महिमोन्नतेः ॥ यथा पाताल-खण्डे—अहो मधुपुरी धन्या इत्यादीति । अतः साधूक्तमत्रापि ग्रन्थकृता वर्णनारम्भ एव [१७श-अनु] अस्ति सकल-वैकुण्ठसारं वृन्दावनं नाम वनम् इति । तथा ब्रह्म-लोक-द्र्शन-प्रस्तावे च श्री-मन् नन्दादीनाम् अनुभवेनापि व्यञ्जयिष्यते [१६ श-स्तवके २५श-२७श-अनु] चास्यैव गोकुलस्य परमोत्कर्ष इति ॥७७॥

इत्यानन्दवृन्दावने भगवत्स्थानतत्त्ववल्लीविस्तारे

प्रथमः स्तवकः ॥


  1. होला-[ग-घ] ↩︎

  2. सोऽयं कर्णपुरः,[क] ↩︎

  3. उपपत्ति-सामर्थ्यात्[घ] ↩︎

  4. पूर्व-वाक्यानुगतस्य इति पाठान्तरम् । ↩︎

  5. Yओग्यतानुत्पत्तेर् इति [घ] ↩︎

  6. सोभनानां [ख] ↩︎

  7. स्वरूपमेव [घ] ↩︎

  8. स्थले [ग] ↩︎

  9. स्रीमत्-परमानन्द—पुरीदास-नामानम् एतं इति दीकांशः ख—करलिप्यां नस्त्य् । ↩︎

  10. व्याक्ये [ग] ↩︎

  11. श्री-गीत-गोविन्द-दृष्टत्वात् [ग] ↩︎

  12. साधर्मात् [घ] ↩︎

  13. साहित्य-दर्पणे षष्ठ-परिच्छेदे [३१२] गद्य-पद्यमयं काव्यं चम्पुर् इत्य् अवधीयते इति । ↩︎

  14. प्रभूतान् इति [घ] ↩︎

  15. तत एव [ख] ↩︎

  16. सिद्धान्ते तु [ग] ↩︎

  17. गुण-वृन्दानि अवति पालयति तथा तद् इति [ग] ↩︎

  18. तेषां [घ] ↩︎

  19. मेदिनीकरः [ग] ↩︎

  20. अन् तु [ग] ↩︎

  21. विशेषाः पाटपोक इति ख्यातास् तैः [क] ↩︎

  22. निधापयन् [क] ↩︎

  23. समाकृष्टाक्षि [गो] ↩︎

  24. यत [ग] ↩︎

  25. इव [घ] ↩︎

  26. स्तिमितैः खगवत्सलैस् तरुभिः [क,ख] ↩︎

  27. वसन्त-कालः [क] ↩︎

  28. सारांसि गवलाभानीत्य् अर्थः [ग,घ] ↩︎

  29. कथम् अस्मान् अन् पिवति [ग] ↩︎

  30. सजृम्भया [ग] ↩︎

  31. किम् च, गुच्छार्धं [ग] ↩︎

  32. व्रजति [ग] ↩︎

  33. चिक्वणत्वेन [क] ↩︎

  34. स्वर् लोक [ख] ↩︎

  35. पूर्वोक्तं [घ] ↩︎

  36. मित्य् अत्र [घ] ↩︎

  37. नित्यत्वे [ग] ↩︎

  38. नराकृतित्वेनैव [घ] ↩︎

  39. महा-लील-लीलाभं [ख] ↩︎

  40. गोकुलस्य [ग] ↩︎