११६

विश्वास-प्रस्तुतिः

{जनमेजय उवाच}
आसन्नं विप्रकृष्टं वा
यदि कालं न विद्महे ।
तस्माद् द्वापरविध्वंसाद्
युगान्तं स्पृहयाम्य् अहम् ॥ ह्व्_११६।१ ॥

मूलम्

{जनमेजय उवाच}
आसन्नं विप्रकृष्टं वा
यदि कालं न विद्महे ।
तस्माद् द्वापरविध्वंसाद्
युगान्तं स्पृहयाम्य् अहम् ॥ ह्व्_११६।१ ॥

विश्वास-प्रस्तुतिः

प्राप्ता वयं हि तं कालम्
अनया धर्मतृष्णया ।
प्राप्ता वयं च धर्मं स्वं
सुखम् अल्पेन कर्मणा ॥ ह्व्_११६।२ ॥

मूलम्

प्राप्ता वयं हि तं कालम्
अनया धर्मतृष्णया ।
प्राप्ता वयं च धर्मं स्वं
सुखम् अल्पेन कर्मणा ॥ ह्व्_११६।२ ॥

विश्वास-प्रस्तुतिः

प्रजासमुद्वेगकरं
युगान्तं समुपस्थितम् ।
([क्: त्१।२ ग्१।३-५ म्२।४ सुब्स्त्।: :क्])
तस्मात् समुद्वेगकरे
युगान्ते प्रत्युपस्थिते । ह्व्_११६।३अब्१५६१ ।
प्रनष्टधर्मं धर्मज्ञ
निमित्तैर् वक्तुम् अर्हसि ॥ ह्व्_११६।३ ॥

मूलम्

प्रजासमुद्वेगकरं
युगान्तं समुपस्थितम् ।
([क्: त्१।२ ग्१।३-५ म्२।४ सुब्स्त्।: :क्])
तस्मात् समुद्वेगकरे
युगान्ते प्रत्युपस्थिते । ह्व्_११६।३अब्१५६१ ।
प्रनष्टधर्मं धर्मज्ञ
निमित्तैर् वक्तुम् अर्हसि ॥ ह्व्_११६।३ ॥

विश्वास-प्रस्तुतिः

{सूत उवाच}
पृष्ट एवं भविष्यस्य
गतिं तत्त्वेन चिन्तयन् ।
([क्: त्१।२ ग्१।३-५ म्२ सुब्स्त्।: :क्])
एवं भविष्ये तु गतिं
योगेनैव विचिन्तयन् । ह्व्_११६।४अब्१५६२ ।
युगान्ते पूर्वरूपाणि
भगवान् अब्रवीत् तदा ॥ ह्व्_११६।४ ॥

मूलम्

{सूत उवाच}
पृष्ट एवं भविष्यस्य
गतिं तत्त्वेन चिन्तयन् ।
([क्: त्१।२ ग्१।३-५ म्२ सुब्स्त्।: :क्])
एवं भविष्ये तु गतिं
योगेनैव विचिन्तयन् । ह्व्_११६।४अब्१५६२ ।
युगान्ते पूर्वरूपाणि
भगवान् अब्रवीत् तदा ॥ ह्व्_११६।४ ॥

विश्वास-प्रस्तुतिः

{व्यास उवाच}
अरक्षितारो हर्तारो
बलिभागस्य पार्थिवाः ।
युगान्ते प्रभविष्यन्ति
स्वरक्षणपरायणाः ॥ ह्व्_११६।५ ॥

मूलम्

{व्यास उवाच}
अरक्षितारो हर्तारो
बलिभागस्य पार्थिवाः ।
युगान्ते प्रभविष्यन्ति
स्वरक्षणपरायणाः ॥ ह्व्_११६।५ ॥

विश्वास-प्रस्तुतिः

अक्षत्रियाश् च राजानो
विप्राः शूद्रोपजीविनः ।
शूद्राश् च ब्राह्मणाचारा
भविष्यन्ति युगक्षये ॥ ह्व्_११६।६ ॥

मूलम्

अक्षत्रियाश् च राजानो
विप्राः शूद्रोपजीविनः ।
शूद्राश् च ब्राह्मणाचारा
भविष्यन्ति युगक्षये ॥ ह्व्_११६।६ ॥

विश्वास-प्रस्तुतिः

([क्: न्२ ins.: :क्])
शूद्रा धर्मं चरिष्यन्ति
युगान्ते जनमेजय । ह्व्_११६।६१५६३ ।
काण्डपृष्ठाः श्रोत्रियाश् च
हवींषि भरतर्षभ ।
एकपङ्क्त्याम् अशिष्यन्ति
युगान्ते जनमेजय ॥ ह्व्_११६।७ ॥

मूलम्

([क्: न्२ ins.: :क्])
शूद्रा धर्मं चरिष्यन्ति
युगान्ते जनमेजय । ह्व्_११६।६१५६३ ।
काण्डपृष्ठाः श्रोत्रियाश् च
हवींषि भरतर्षभ ।
एकपङ्क्त्याम् अशिष्यन्ति
युगान्ते जनमेजय ॥ ह्व्_११६।७ ॥

विश्वास-प्रस्तुतिः

शिल्पवन्तो ऽनृतपराः
नरा मद्यामिषप्रियाः ।
([क्: न्२ ins.: :क्])
परं धर्मं हनिष्यन्ति
मनुष्या मन्दबुद्धयः । ह्व्_११६।८अब्१५६४ ।
भार्यामित्रा भविष्यन्ति
युगान्ते जनमेजय ॥ ह्व्_११६।८ ॥

मूलम्

शिल्पवन्तो ऽनृतपराः
नरा मद्यामिषप्रियाः ।
([क्: न्२ ins.: :क्])
परं धर्मं हनिष्यन्ति
मनुष्या मन्दबुद्धयः । ह्व्_११६।८अब्१५६४ ।
भार्यामित्रा भविष्यन्ति
युगान्ते जनमेजय ॥ ह्व्_११६।८ ॥

विश्वास-प्रस्तुतिः

([क्: ग्१।३।५ म्२।४ द्६ ins.: :क्])
अल्पोदकास् तथा मेघा
अल्पसस्या च मेदिनी । ह्व्_११६।८१५६५ ।
राजवृत्ते स्थिताश् चोरा
राकानश् चोरशीलिनः ।
भृत्या अनिर्विष्टभुजो
भविष्यन्ति युगक्षये ॥ ह्व्_११६।९ ॥

मूलम्

([क्: ग्१।३।५ म्२।४ द्६ ins.: :क्])
अल्पोदकास् तथा मेघा
अल्पसस्या च मेदिनी । ह्व्_११६।८१५६५ ।
राजवृत्ते स्थिताश् चोरा
राकानश् चोरशीलिनः ।
भृत्या अनिर्विष्टभुजो
भविष्यन्ति युगक्षये ॥ ह्व्_११६।९ ॥

विश्वास-प्रस्तुतिः

धनानि श्लाघनीयानि
सतां वृत्तम् अपूजितम् ।
([क्: त्१ ग्१।३-५ म्२।४ ins.: :क्])
नार्यश् चापि करिष्यन्ति
कृषिम् एव कलौ युगे । ह्व्_११६।१०अब्१५६६ ।
अकुत्सना च पतिते
भविष्यति युगक्षये ॥ ह्व्_११६।१० ॥

मूलम्

धनानि श्लाघनीयानि
सतां वृत्तम् अपूजितम् ।
([क्: त्१ ग्१।३-५ म्२।४ ins.: :क्])
नार्यश् चापि करिष्यन्ति
कृषिम् एव कलौ युगे । ह्व्_११६।१०अब्१५६६ ।
अकुत्सना च पतिते
भविष्यति युगक्षये ॥ ह्व्_११६।१० ॥

विश्वास-प्रस्तुतिः

([क्: न्२ ins.: :क्])
अशान्तास् तापसा नित्यं
भविष्यन्ति कलौ युगे । ह्व्_११६।१०१५६७ ।
प्रनष्टचेतना मर्त्या
मुक्तकेशा विचूलिनः ।
उनषोडशवर्षाश् च
प्रजास्यन्ति नरास् तदा ॥ ह्व्_११६।११ ॥

मूलम्

([क्: न्२ ins.: :क्])
अशान्तास् तापसा नित्यं
भविष्यन्ति कलौ युगे । ह्व्_११६।१०१५६७ ।
प्रनष्टचेतना मर्त्या
मुक्तकेशा विचूलिनः ।
उनषोडशवर्षाश् च
प्रजास्यन्ति नरास् तदा ॥ ह्व्_११६।११ ॥

विश्वास-प्रस्तुतिः

अट्टशूला जनपदाः
शिवशूलाश् चतुष्पथाः ।
प्रमदाः केशशूलाश् च
भविष्यन्ति युगक्षये ॥ ह्व्_११६।१२ ॥

मूलम्

अट्टशूला जनपदाः
शिवशूलाश् चतुष्पथाः ।
प्रमदाः केशशूलाश् च
भविष्यन्ति युगक्षये ॥ ह्व्_११६।१२ ॥

विश्वास-प्रस्तुतिः

([क्: क्३ ins.: :क्])
अट्टम् अन्नम् इति प्रोक्तं
शूलो विक्रय उच्यते । ह्व्_११६।१२१५६८:१ ।
चतुष्पथा ब्राह्मण इति
शिवो वेद उदाहृतः । ह्व्_११६।१२१५६८:२ ।
केशो भग इति ख्यातो
राजन् नैवात्र संशयः । ह्व्_११६।१२१५६८:३ ।
सर्वे ब्रह्म वदिष्यन्ति
सर्वे वाजसनेयिनः ।
शूद्रा भोवादिनश् चैव
भविष्यन्ति युगक्षये ॥ ह्व्_११६।१३ ॥

मूलम्

([क्: क्३ ins.: :क्])
अट्टम् अन्नम् इति प्रोक्तं
शूलो विक्रय उच्यते । ह्व्_११६।१२१५६८:१ ।
चतुष्पथा ब्राह्मण इति
शिवो वेद उदाहृतः । ह्व्_११६।१२१५६८:२ ।
केशो भग इति ख्यातो
राजन् नैवात्र संशयः । ह्व्_११६।१२१५६८:३ ।
सर्वे ब्रह्म वदिष्यन्ति
सर्वे वाजसनेयिनः ।
शूद्रा भोवादिनश् चैव
भविष्यन्ति युगक्षये ॥ ह्व्_११६।१३ ॥

विश्वास-प्रस्तुतिः

तपोयज्ञार्थवेदानां
विक्रेतारो द्विजातयः ।
ऋतवश् च भविष्यन्ति
विपरीता युगक्षये ॥ ह्व्_११६।१४ ॥

मूलम्

तपोयज्ञार्थवेदानां
विक्रेतारो द्विजातयः ।
ऋतवश् च भविष्यन्ति
विपरीता युगक्षये ॥ ह्व्_११६।१४ ॥

विश्वास-प्रस्तुतिः

शुक्लदन्ताजिताक्षाश् च
मुण्डाः काषायवाससः ।
शूद्रा धर्मं चरिष्यन्ति
शाक्यबुद्धोपजीविनः ॥ ह्व्_११६।१५ ॥

मूलम्

शुक्लदन्ताजिताक्षाश् च
मुण्डाः काषायवाससः ।
शूद्रा धर्मं चरिष्यन्ति
शाक्यबुद्धोपजीविनः ॥ ह्व्_११६।१५ ॥

विश्वास-प्रस्तुतिः

श्वापदप्रचुरत्वं च
गवां चैव परिक्षयः ।
स्वादूनां विनिवृत्तिश् च
विद्याद् अन्तगते युगे ॥ ह्व्_११६।१६ ॥

मूलम्

श्वापदप्रचुरत्वं च
गवां चैव परिक्षयः ।
स्वादूनां विनिवृत्तिश् च
विद्याद् अन्तगते युगे ॥ ह्व्_११६।१६ ॥

विश्वास-प्रस्तुतिः

अन्त्या मध्ये निवत्स्यन्ति
मध्याश् चान्तावसायिनः ।
यथानिम्नं प्रजाः सर्वा
गमिष्यन्ति युगक्षये ॥ ह्व्_११६।१७ ॥

मूलम्

अन्त्या मध्ये निवत्स्यन्ति
मध्याश् चान्तावसायिनः ।
यथानिम्नं प्रजाः सर्वा
गमिष्यन्ति युगक्षये ॥ ह्व्_११६।१७ ॥

विश्वास-प्रस्तुतिः

तथा द्विहायना दम्यास्
तथा पल्वलकर्षकाः ।
चित्रवर्षी च पर्जन्यो
युगे क्षीणे भविष्यति ॥ ह्व्_११६।१८ ॥

मूलम्

तथा द्विहायना दम्यास्
तथा पल्वलकर्षकाः ।
चित्रवर्षी च पर्जन्यो
युगे क्षीणे भविष्यति ॥ ह्व्_११६।१८ ॥

विश्वास-प्रस्तुतिः

([क्: क्२-४ न् व् ब् द् त् ग्३-५ म्२।४ ins.: :क्])
सर्वे चोरकुले जाताश्
चोरयानाः परसरम् । ह्व्_११६।१८१५६९:१ ।
स्वल्पेनाढ्या भविष्यन्ति
यत् किञ्चित् प्राप्य दुर्गताः । ह्व्_११६।१८१५६९:२ ।
न ते धर्मं चरिष्यन्ति
मानवा निर्गते युगे ।
ऊषराबहुला भूमिः
पन्थानो नगरान्तरा ॥

मूलम्

([क्: क्२-४ न् व् ब् द् त् ग्३-५ म्२।४ ins.: :क्])
सर्वे चोरकुले जाताश्
चोरयानाः परसरम् । ह्व्_११६।१८१५६९:१ ।
स्वल्पेनाढ्या भविष्यन्ति
यत् किञ्चित् प्राप्य दुर्गताः । ह्व्_११६।१८१५६९:२ ।
न ते धर्मं चरिष्यन्ति
मानवा निर्गते युगे ।
ऊषराबहुला भूमिः
पन्थानो नगरान्तरा ॥

विश्वास-प्रस्तुतिः

सर्वे वाणिजकाश् चैव
भविष्यन्ति कलौ युगे ॥ ह्व्_११६।१९ ॥

मूलम्

सर्वे वाणिजकाश् चैव
भविष्यन्ति कलौ युगे ॥ ह्व्_११६।१९ ॥

विश्वास-प्रस्तुतिः

पितृकृत्यानि देयानि
विधमन्तः सुतास् तदा ।
हरणाय प्रपत्स्यन्ते
लोभानृतविरोधिताः ॥ ह्व्_११६।२० ॥

मूलम्

पितृकृत्यानि देयानि
विधमन्तः सुतास् तदा ।
हरणाय प्रपत्स्यन्ते
लोभानृतविरोधिताः ॥ ह्व्_११६।२० ॥

विश्वास-प्रस्तुतिः

([क्: त्२ ग्१।३ ins.: :क्])
पितृदत्तानि वित्तानि
निघ्नन्तस् तनयाः सदा । ह्व्_११६।२०१५७०:१ ।
ग्रहणाय प्रवर्तन्ते
लोभाद् अनृतवादिनः । ह्व्_११६।२०१५७०:२ ।
सौकुमार्ये तथा रूपे
रत्ने चोपक्षयं गते ।
भविष्यन्ति युगस्यान्ते
नार्यः केशैर् अलङ्कृताः ॥ ह्व्_११६।२१ ॥

मूलम्

([क्: त्२ ग्१।३ ins.: :क्])
पितृदत्तानि वित्तानि
निघ्नन्तस् तनयाः सदा । ह्व्_११६।२०१५७०:१ ।
ग्रहणाय प्रवर्तन्ते
लोभाद् अनृतवादिनः । ह्व्_११६।२०१५७०:२ ।
सौकुमार्ये तथा रूपे
रत्ने चोपक्षयं गते ।
भविष्यन्ति युगस्यान्ते
नार्यः केशैर् अलङ्कृताः ॥ ह्व्_११६।२१ ॥

विश्वास-प्रस्तुतिः

निर्विहारस्य भीतस्य
गृहस्थस्य भविष्यति ।
युगान्ते समनुप्राप्ते
नान्या भार्यासमा रतिः ॥ ह्व्_११६।२२ ॥

मूलम्

निर्विहारस्य भीतस्य
गृहस्थस्य भविष्यति ।
युगान्ते समनुप्राप्ते
नान्या भार्यासमा रतिः ॥ ह्व्_११६।२२ ॥

विश्वास-प्रस्तुतिः

कुशीलानार्यभूयिष्ठं
वृथारूपसमावृतम् ।
पुरुषाल्पं बहुस्त्रीकं
तद् युगान्तस्य लक्षणम् ॥ ह्व्_११६।२३ ॥

मूलम्

कुशीलानार्यभूयिष्ठं
वृथारूपसमावृतम् ।
पुरुषाल्पं बहुस्त्रीकं
तद् युगान्तस्य लक्षणम् ॥ ह्व्_११६।२३ ॥

विश्वास-प्रस्तुतिः

बहुयाचनका लोका
दास्यन्ते च परस्परम् ।
([क्: क्१।४ न्२ व्२ ब् द्स् द्६ त्१।२ ग्१।३-५ ins.: :क्])
अविचार्य ग्रहीष्यन्ति
दानं वर्णान्तरात् तथा । ह्व्_११६।२४अब्१५७१ ।
राजचोरादिदण्डार्तो
जनः क्षयम् उपैष्यति ॥ ह्व्_११६।२४ ॥

मूलम्

बहुयाचनका लोका
दास्यन्ते च परस्परम् ।
([क्: क्१।४ न्२ व्२ ब् द्स् द्६ त्१।२ ग्१।३-५ ins.: :क्])
अविचार्य ग्रहीष्यन्ति
दानं वर्णान्तरात् तथा । ह्व्_११६।२४अब्१५७१ ।
राजचोरादिदण्डार्तो
जनः क्षयम् उपैष्यति ॥ ह्व्_११६।२४ ॥

विश्वास-प्रस्तुतिः

सस्यनिष्पत्तिर् अफला
तरुणा वृद्धशीलिनः ।
ईहयासुखिनो लोका
भविष्यन्ति गते युगे ॥ ह्व्_११६।२५ ॥

मूलम्

सस्यनिष्पत्तिर् अफला
तरुणा वृद्धशीलिनः ।
ईहयासुखिनो लोका
भविष्यन्ति गते युगे ॥ ह्व्_११६।२५ ॥

विश्वास-प्रस्तुतिः

वर्षासु वाताः पुरुषा
नीचाः शर्करवर्षिणः ।
सन्दिग्धः परलोकश् च
भविष्यति युगक्षये ॥ ह्व्_११६।२६ ॥

मूलम्

वर्षासु वाताः पुरुषा
नीचाः शर्करवर्षिणः ।
सन्दिग्धः परलोकश् च
भविष्यति युगक्षये ॥ ह्व्_११६।२६ ॥

विश्वास-प्रस्तुतिः

([क्: द्न् बोम्ब्। पोओन एद्स्। ग् (एद्।) ins.: :क्])
आत्मनश् च दुराचारा
ब्रह्मदूषणतत्पराः । ह्व्_११६।२६१५७२:१ ।
आत्मानं बहु मन्यन्ते
मन्युर् एवाभ्ययाद् द्विजान् । ह्व्_११६।२६१५७२:२ ।
वैश्याचाराश् च राजन्या
धनधान्योपजीविनः ।
युगापक्रमणे पूर्वं
भविष्यन्ति द्विजातयः ॥ ह्व्_११६।२७ ॥

मूलम्

([क्: द्न् बोम्ब्। पोओन एद्स्। ग् (एद्।) ins.: :क्])
आत्मनश् च दुराचारा
ब्रह्मदूषणतत्पराः । ह्व्_११६।२६१५७२:१ ।
आत्मानं बहु मन्यन्ते
मन्युर् एवाभ्ययाद् द्विजान् । ह्व्_११६।२६१५७२:२ ।
वैश्याचाराश् च राजन्या
धनधान्योपजीविनः ।
युगापक्रमणे पूर्वं
भविष्यन्ति द्विजातयः ॥ ह्व्_११६।२७ ॥

विश्वास-प्रस्तुतिः

अप्रवृत्ताः प्रपत्स्यन्ते
समयाः शपथास् तथा ।
ऋणं च विनयभ्रंशो
युगे क्षीणे भविष्यति ॥ ह्व्_११६।२८ ॥

मूलम्

अप्रवृत्ताः प्रपत्स्यन्ते
समयाः शपथास् तथा ।
ऋणं च विनयभ्रंशो
युगे क्षीणे भविष्यति ॥ ह्व्_११६।२८ ॥

विश्वास-प्रस्तुतिः

भविष्यत्य् अफलो हर्षः
क्रोधश् च सफलो नृणाम् ।
अजाश् चैवोपयोक्ष्यन्ते
पयसो ऽर्थे युगक्षये ॥ ह्व्_११६।२९ ॥

मूलम्

भविष्यत्य् अफलो हर्षः
क्रोधश् च सफलो नृणाम् ।
अजाश् चैवोपयोक्ष्यन्ते
पयसो ऽर्थे युगक्षये ॥ ह्व्_११६।२९ ॥

अशास्त्रविहिता प्रज्ञा एवम् एव भविष्यति । ([क्: क् न्२।३ व्१।२ ब्२ द्न् द्१।३-५ त्१।२ ग्१।३-५ म्२।४ सुब्स्त्।: :क्]) अशास्त्रविदुषां पुंसाम् एवम् एव स्वभावतः । *ह्व्_११६।३०अब्*१५७३ ।
विश्वास-प्रस्तुतिः

([क्: न्२ व्१।२ ब्२ द्न् द्३।५ त्२ ग्१ चोन्त्।: व्३ ब्१ द्स् द्६ ins.: :क्])
अप्रमाणं करिष्यन्ति
नीतिं पण्डितमानिनः । ह्व्_११६।३०अब्१५७४ ।
शास्त्रोक्तस्याप्रवक्तारो
भविष्यन्ति युगक्षये ॥ ह्व्_११६।३० ॥

मूलम्

([क्: न्२ व्१।२ ब्२ द्न् द्३।५ त्२ ग्१ चोन्त्।: व्३ ब्१ द्स् द्६ ins.: :क्])
अप्रमाणं करिष्यन्ति
नीतिं पण्डितमानिनः । ह्व्_११६।३०अब्१५७४ ।
शास्त्रोक्तस्याप्रवक्तारो
भविष्यन्ति युगक्षये ॥ ह्व्_११६।३० ॥

विश्वास-प्रस्तुतिः

सर्वः सर्वं विजानाति
वृद्धान् अनुपसेव्य च ।
न कश्चिद् अकविर् नाम
युगान्ते प्रत्युपस्थिते ॥ ह्व्_११६।३१ ॥

मूलम्

सर्वः सर्वं विजानाति
वृद्धान् अनुपसेव्य च ।
न कश्चिद् अकविर् नाम
युगान्ते प्रत्युपस्थिते ॥ ह्व्_११६।३१ ॥

विश्वास-प्रस्तुतिः

न क्षत्राणि नियोक्ष्यन्ति
विकर्मस्था द्विजातयः ।
चोरप्रायाश् च राजानो
युगान्ते प्रत्युपस्थिते ॥ ह्व्_११६।३२ ॥

मूलम्

न क्षत्राणि नियोक्ष्यन्ति
विकर्मस्था द्विजातयः ।
चोरप्रायाश् च राजानो
युगान्ते प्रत्युपस्थिते ॥ ह्व्_११६।३२ ॥

विश्वास-प्रस्तुतिः

कुण्डा वृषा नैकृतिकाः
सुरापा ब्रह्मवादिनः ।
अश्वमेधेन यक्ष्यन्ति
युगान्ते जनमेजय ॥ ह्व्_११६।३३ ॥

मूलम्

कुण्डा वृषा नैकृतिकाः
सुरापा ब्रह्मवादिनः ।
अश्वमेधेन यक्ष्यन्ति
युगान्ते जनमेजय ॥ ह्व्_११६।३३ ॥

विश्वास-प्रस्तुतिः

अयाज्यान् याजयिष्यन्ति
तथाभक्ष्यस्य भक्षिणः ।
ब्राह्मणा धनतृष्णार्ता
युगान्ते समुपस्थिते ॥ ह्व्_११६।३४ ॥

मूलम्

अयाज्यान् याजयिष्यन्ति
तथाभक्ष्यस्य भक्षिणः ।
ब्राह्मणा धनतृष्णार्ता
युगान्ते समुपस्थिते ॥ ह्व्_११६।३४ ॥

विश्वास-प्रस्तुतिः

भोगार्थम् अभिपत्स्यन्ते
न च कश्चित् पठिष्यति ।
एकशङ्खास् तथा नार्यो
गवेधुकपिनद्धकाः ॥ ह्व्_११६।३५ ॥

मूलम्

भोगार्थम् अभिपत्स्यन्ते
न च कश्चित् पठिष्यति ।
एकशङ्खास् तथा नार्यो
गवेधुकपिनद्धकाः ॥ ह्व्_११६।३५ ॥

विश्वास-प्रस्तुतिः

नक्षत्राणि विहीनानि
विपरीता दिशस् तथा ।
सन्ध्यारागो ऽथ दिग्दाहो
भविष्यत्य् अपरे युगे ॥ ह्व्_११६।३६ ॥

मूलम्

नक्षत्राणि विहीनानि
विपरीता दिशस् तथा ।
सन्ध्यारागो ऽथ दिग्दाहो
भविष्यत्य् अपरे युगे ॥ ह्व्_११६।३६ ॥

पितॄन् पुत्रा नियोक्ष्यन्ति वध्वः श्वश्रूश् च कर्मसु । ([क्: व्३ ब् द्स् द्२-६ ins. after ३७अब्: न्२ व्१।२ द्न् after ३७: :क्]) वाक्शरैस् तर्जयिष्यन्ति गुरूञ् शिष्यास् तथैव च । *ह्व्_११६।३७अब्*१५७५ ।
विश्वास-प्रस्तुतिः

([क्: व्३ ब्१।२ द्स् द्६ चोन्त्।: न्१ ins. after ३७: :क्])
मुखेषु च प्रयोक्ष्यन्ति
प्रमत्ताश् च नरास् तदा । ह्व्_११६।३७अब्१५७६ ।
वियोनिषु चरिष्यन्ति
प्रमदासु नरास् तदा ॥ ह्व्_११६।३७ ॥

मूलम्

([क्: व्३ ब्१।२ द्स् द्६ चोन्त्।: न्१ ins. after ३७: :क्])
मुखेषु च प्रयोक्ष्यन्ति
प्रमत्ताश् च नरास् तदा । ह्व्_११६।३७अब्१५७६ ।
वियोनिषु चरिष्यन्ति
प्रमदासु नरास् तदा ॥ ह्व्_११६।३७ ॥

विश्वास-प्रस्तुतिः

अकृताग्राणि भोक्ष्यन्ति
नराश् चैवाग्निहोत्रिणः ।
भिक्षां बलिम् अदत्त्वा च
भोक्ष्यन्ति पुरुषाः स्वयम् ॥ ह्व्_११६।३८ ॥

मूलम्

अकृताग्राणि भोक्ष्यन्ति
नराश् चैवाग्निहोत्रिणः ।
भिक्षां बलिम् अदत्त्वा च
भोक्ष्यन्ति पुरुषाः स्वयम् ॥ ह्व्_११६।३८ ॥

विश्वास-प्रस्तुतिः

पतीन् सुप्तान् वञ्चयित्वा
गमिष्यन्ति स्त्रियो अण्यतः ।
पुरुषाश् च प्रसुप्तासु
भार्यासु च परस्त्रियम् ॥ ह्व्_११६।३९ ॥

मूलम्

पतीन् सुप्तान् वञ्चयित्वा
गमिष्यन्ति स्त्रियो अण्यतः ।
पुरुषाश् च प्रसुप्तासु
भार्यासु च परस्त्रियम् ॥ ह्व्_११६।३९ ॥

विश्वास-प्रस्तुतिः

नाव्यधितो नाप्य् अरुजो
जनः सर्वो ऽभ्यसूयकः ।
न कृतप्रतिकर्ता च
काले क्षीणे भविष्यति ॥ ह्व्_११६।४० ॥

मूलम्

नाव्यधितो नाप्य् अरुजो
जनः सर्वो ऽभ्यसूयकः ।
न कृतप्रतिकर्ता च
काले क्षीणे भविष्यति ॥ ह्व्_११६।४० ॥