११५

विश्वास-प्रस्तुतिः

{शौनक उवाच}
उक्तो ऽयं हरिवंशस् ते
पर्वाणि निखिलानि च ।
यथा पुरोक्तानि तथा
व्यासशिष्येण धीमता ॥ ह्व्_११५।१ ॥

मूलम्

{शौनक उवाच}
उक्तो ऽयं हरिवंशस् ते
पर्वाणि निखिलानि च ।
यथा पुरोक्तानि तथा
व्यासशिष्येण धीमता ॥ ह्व्_११५।१ ॥

विश्वास-प्रस्तुतिः

तत् कथ्यमानम् अमृतम्
इतिहाससमन्वितम् ।
प्रीणात्य् अस्मान् अमृतवत्
सर्वपापप्रणाशनम् ॥ ह्व्_११५।२ ॥

मूलम्

तत् कथ्यमानम् अमृतम्
इतिहाससमन्वितम् ।
प्रीणात्य् अस्मान् अमृतवत्
सर्वपापप्रणाशनम् ॥ ह्व्_११५।२ ॥

विश्वास-प्रस्तुतिः

([क्: क्१।२।४ न् व् ब् द्न् द्स् द्२-६ ins.: :क्])
सुखश्रव्यतया धीर
मनो ह्लादयतीव नः । ह्व्_११५।२१५५७ ।
जनमेजयस् तु नृपतिः
श्रुत्वाख्यानम् अनुत्तमम् ।
([क्: ९ स्य्ल्लब्लेस् इन् फ़िर्स्त् पाद :क्])
सौते किम् अकरोत् पश्चात्
सर्पसत्राद् अनन्तरम् ॥ ह्व्_११५।३ ॥

मूलम्

([क्: क्१।२।४ न् व् ब् द्न् द्स् द्२-६ ins.: :क्])
सुखश्रव्यतया धीर
मनो ह्लादयतीव नः । ह्व्_११५।२१५५७ ।
जनमेजयस् तु नृपतिः
श्रुत्वाख्यानम् अनुत्तमम् ।
([क्: ९ स्य्ल्लब्लेस् इन् फ़िर्स्त् पाद :क्])
सौते किम् अकरोत् पश्चात्
सर्पसत्राद् अनन्तरम् ॥ ह्व्_११५।३ ॥

([क्: न्२ ins.: :क्]) यद् आरभत पारिक्षित् तन् मे कथय सुव्रत । *ह्व्_११५।३*१५५८ ।
विश्वास-प्रस्तुतिः

{सूत उवाच}
जनमेजयस् तु नृपतिः
श्रुत्वाख्यानम् अनुत्तमम् ।
यद् आरभत् तद् आख्यास्ये
सर्पसत्राद् अनन्तरम् ॥ ह्व्_११५।४ ॥

मूलम्

{सूत उवाच}
जनमेजयस् तु नृपतिः
श्रुत्वाख्यानम् अनुत्तमम् ।
यद् आरभत् तद् आख्यास्ये
सर्पसत्राद् अनन्तरम् ॥ ह्व्_११५।४ ॥

विश्वास-प्रस्तुतिः

तस्मिन् सत्रे समाप्ते तु
राजा पारिक्षितस् तदा ।
यष्टुं स वाजिमेधेन
सम्भारान् उपचक्रमे ॥ ह्व्_११५।५ ॥

मूलम्

तस्मिन् सत्रे समाप्ते तु
राजा पारिक्षितस् तदा ।
यष्टुं स वाजिमेधेन
सम्भारान् उपचक्रमे ॥ ह्व्_११५।५ ॥

विश्वास-प्रस्तुतिः

ऋत्विक्पुरोहिताचार्यान्
आहूयेदम् उवाच ह ।
यक्ष्ये ऽहं वाजिमेधेन
हय उत्सृज्यताम् इति ॥ ह्व्_११५।६ ॥

मूलम्

ऋत्विक्पुरोहिताचार्यान्
आहूयेदम् उवाच ह ।
यक्ष्ये ऽहं वाजिमेधेन
हय उत्सृज्यताम् इति ॥ ह्व्_११५।६ ॥

विश्वास-प्रस्तुतिः

ततो ऽस्य विज्ञाय चिकीर्षितं तदा
कृष्णो महात्मा सहसाजगाम ।
पारिक्षितं द्रष्टुम् अदीनसत्त्वम्
द्वैपायनः सर्वपरावरज्ञः ॥ ह्व्_११५।७ ॥

मूलम्

ततो ऽस्य विज्ञाय चिकीर्षितं तदा
कृष्णो महात्मा सहसाजगाम ।
पारिक्षितं द्रष्टुम् अदीनसत्त्वम्
द्वैपायनः सर्वपरावरज्ञः ॥ ह्व्_११५।७ ॥

विश्वास-प्रस्तुतिः

पारिक्षितस् तु नृपतिर्
दृष्ट्वा तम् ऋषिम् आगतम् ।
अर्घ्यपाद्यासनं दत्त्वा
पूजयामास शास्त्रतः ॥ ह्व्_११५।८ ॥

मूलम्

पारिक्षितस् तु नृपतिर्
दृष्ट्वा तम् ऋषिम् आगतम् ।
अर्घ्यपाद्यासनं दत्त्वा
पूजयामास शास्त्रतः ॥ ह्व्_११५।८ ॥

विश्वास-प्रस्तुतिः

तौ चोपविष्टाव् अभितः
सदस्यास् तस्य शौनक ।
([क्: म्२।४ सुब्स्त्।: :क्])
ततस् तेषूपविष्टेषु
सदस्यैः सह शौनक । ह्व्_११५।८अब्१५५९ ।
कथा बहुविधाश् चित्राश्
चक्राते वेदसंहिताः ॥ ह्व्_११५।९ ॥

मूलम्

तौ चोपविष्टाव् अभितः
सदस्यास् तस्य शौनक ।
([क्: म्२।४ सुब्स्त्।: :क्])
ततस् तेषूपविष्टेषु
सदस्यैः सह शौनक । ह्व्_११५।८अब्१५५९ ।
कथा बहुविधाश् चित्राश्
चक्राते वेदसंहिताः ॥ ह्व्_११५।९ ॥

विश्वास-प्रस्तुतिः

ततः कथान्ते नृपतिश्
चोदयामास तं मुनिम् ।
पितामहं पाण्डवानां
आत्मनः प्रपितामहम् ॥ ह्व्_११५।१० ॥

मूलम्

ततः कथान्ते नृपतिश्
चोदयामास तं मुनिम् ।
पितामहं पाण्डवानां
आत्मनः प्रपितामहम् ॥ ह्व्_११५।१० ॥

विश्वास-प्रस्तुतिः

महाभारतम् आख्यानं
बह्वर्थं बहुविस्तरम् ।
निमेषमात्रम् इव मे
सुखश्रव्यतया गतम् ॥ ह्व्_११५।११ ॥

मूलम्

महाभारतम् आख्यानं
बह्वर्थं बहुविस्तरम् ।
निमेषमात्रम् इव मे
सुखश्रव्यतया गतम् ॥ ह्व्_११५।११ ॥

विश्वास-प्रस्तुतिः

विभूतिविस्तरकथं
सर्वेषां वै यशस्करम् ।
त्वया त्व् अभिहितं ब्रह्मञ्
शङ्खे क्षीरम् इवाहितम् ॥ ह्व्_११५।१२ ॥

मूलम्

विभूतिविस्तरकथं
सर्वेषां वै यशस्करम् ।
त्वया त्व् अभिहितं ब्रह्मञ्
शङ्खे क्षीरम् इवाहितम् ॥ ह्व्_११५।१२ ॥

विश्वास-प्रस्तुतिः

नामृतेनापि तृप्तिः स्याद्
यथा स्वर्गसुखेन वा ।
तथा तृप्तिं न गच्छामि
श्रुत्वेमां भारतीं कथाम् ॥ ह्व्_११५।१३ ॥

मूलम्

नामृतेनापि तृप्तिः स्याद्
यथा स्वर्गसुखेन वा ।
तथा तृप्तिं न गच्छामि
श्रुत्वेमां भारतीं कथाम् ॥ ह्व्_११५।१३ ॥

विश्वास-प्रस्तुतिः

अनुमान्य तु सर्वज्ञं
पृच्छामि भगवन्न् अहम् ।
हेतुः कुरूणां नाशस्य
राजसूयो मतो मम ॥ ह्व्_११५।१४ ॥

मूलम्

अनुमान्य तु सर्वज्ञं
पृच्छामि भगवन्न् अहम् ।
हेतुः कुरूणां नाशस्य
राजसूयो मतो मम ॥ ह्व्_११५।१४ ॥

विश्वास-प्रस्तुतिः

दुःसहानां यथा ध्वंसो
राजन्यानाम् उपप्लवः ।
राजसूयं तथा मन्ये
युद्धार्थम् उपकल्पितम् ॥ ह्व्_११५।१५ ॥

मूलम्

दुःसहानां यथा ध्वंसो
राजन्यानाम् उपप्लवः ।
राजसूयं तथा मन्ये
युद्धार्थम् उपकल्पितम् ॥ ह्व्_११५।१५ ॥

विश्वास-प्रस्तुतिः

राजसूयो हि सोमेन
श्रूयते पूर्वम् आहृतः ।
तस्यान्ते सुमहद्युद्धम्
अभवत् तारकामयम् ॥ ह्व्_११५।१६ ॥

मूलम्

राजसूयो हि सोमेन
श्रूयते पूर्वम् आहृतः ।
तस्यान्ते सुमहद्युद्धम्
अभवत् तारकामयम् ॥ ह्व्_११५।१६ ॥

विश्वास-प्रस्तुतिः

आहृतो वरुणेनापि
तस्यान्ते सुमहाक्रतोः ।
देवासुरम् अभूद् युद्धं
सर्वभूतक्षयावहम् ॥ ह्व्_११५।१७ ॥

मूलम्

आहृतो वरुणेनापि
तस्यान्ते सुमहाक्रतोः ।
देवासुरम् अभूद् युद्धं
सर्वभूतक्षयावहम् ॥ ह्व्_११५।१७ ॥

विश्वास-प्रस्तुतिः

हरिश्चन्द्रस् तु राजर्षिर्
एतं क्रतुम् अवाप्तवान् ।
तत्राप्य् आडीबकम् अभूद्
युद्धं क्षत्रविनाशनम् ॥ ह्व्_११५।१८ ॥

मूलम्

हरिश्चन्द्रस् तु राजर्षिर्
एतं क्रतुम् अवाप्तवान् ।
तत्राप्य् आडीबकम् अभूद्
युद्धं क्षत्रविनाशनम् ॥ ह्व्_११५।१८ ॥

विश्वास-प्रस्तुतिः

ततो ऽनन्तरम् आर्येण
पाण्डवेनापि दुस्तरः ।
महाभारतसंहारः
सम्भृतो ऽग्निर् इव क्रतुः ॥ ह्व्_११५।१९ ॥

मूलम्

ततो ऽनन्तरम् आर्येण
पाण्डवेनापि दुस्तरः ।
महाभारतसंहारः
सम्भृतो ऽग्निर् इव क्रतुः ॥ ह्व्_११५।१९ ॥

विश्वास-प्रस्तुतिः

तस्य मूलं हि युद्धस्य
लोकक्षयकरस्य ह ।
राजसूयो महायज्ञः
किमर्थं न निवारितः ॥ ह्व्_११५।२० ॥

मूलम्

तस्य मूलं हि युद्धस्य
लोकक्षयकरस्य ह ।
राजसूयो महायज्ञः
किमर्थं न निवारितः ॥ ह्व्_११५।२० ॥

विश्वास-प्रस्तुतिः

राजसूये ह्य् असंहार्ये
यज्ञाङ्गैश् च दुरासदैः ।
मिथ्याप्रणीते यज्ञाङ्गे
प्रजानां सङ्क्षयो ध्रुवः ॥ ह्व्_११५।२१ ॥

मूलम्

राजसूये ह्य् असंहार्ये
यज्ञाङ्गैश् च दुरासदैः ।
मिथ्याप्रणीते यज्ञाङ्गे
प्रजानां सङ्क्षयो ध्रुवः ॥ ह्व्_११५।२१ ॥

विश्वास-प्रस्तुतिः

भवान् अपि च सर्वेषां
पूर्वेषां नः पितामहः ।
अतीतानागतज्ञश् च
नाथश् चादिकरश् च नः ॥ ह्व्_११५।२२ ॥

मूलम्

भवान् अपि च सर्वेषां
पूर्वेषां नः पितामहः ।
अतीतानागतज्ञश् च
नाथश् चादिकरश् च नः ॥ ह्व्_११५।२२ ॥

विश्वास-प्रस्तुतिः

ते कथं भगवन् नेत्रा
बुद्धिमन्तश् च्युता नयात् ।
अनाथा ह्य् अपराध्यन्ते
कुनेतारश् च मानवाः ॥ ह्व्_११५।२३ ॥

मूलम्

ते कथं भगवन् नेत्रा
बुद्धिमन्तश् च्युता नयात् ।
अनाथा ह्य् अपराध्यन्ते
कुनेतारश् च मानवाः ॥ ह्व्_११५।२३ ॥

विश्वास-प्रस्तुतिः

{व्यास उवाच}
कालेनाद्य परीतास् ते
तव वत्स पितामहाः ।
न मां भविष्यं पप्रच्छुर्
न चापृष्टो ब्रवीम्य् अहम् ॥ ह्व्_११५।२४ ॥

मूलम्

{व्यास उवाच}
कालेनाद्य परीतास् ते
तव वत्स पितामहाः ।
न मां भविष्यं पप्रच्छुर्
न चापृष्टो ब्रवीम्य् अहम् ॥ ह्व्_११५।२४ ॥

विश्वास-प्रस्तुतिः

निःसामर्थ्यं च पश्यामि
भविष्यस्य निवेदनम् ।
परिहर्तुं न शक्ष्यामि
कालनिष्ठां हि तां गतिम् ॥ ह्व्_११५।२५ ॥

मूलम्

निःसामर्थ्यं च पश्यामि
भविष्यस्य निवेदनम् ।
परिहर्तुं न शक्ष्यामि
कालनिष्ठां हि तां गतिम् ॥ ह्व्_११५।२५ ॥

विश्वास-प्रस्तुतिः

त्वया त्व् इदम् अहं पृष्टो
वक्ष्याम्य् आगन्तु भावि यत् ।
अतश् च बलवान् कालः
श्रुत्वापि न करिष्यसि ॥ ह्व्_११५।२६ ॥

मूलम्

त्वया त्व् इदम् अहं पृष्टो
वक्ष्याम्य् आगन्तु भावि यत् ।
अतश् च बलवान् कालः
श्रुत्वापि न करिष्यसि ॥ ह्व्_११५।२६ ॥

विश्वास-प्रस्तुतिः

न संरम्भान् न चारम्भान्
न वै स्थास्यसि पौरुषे ।
लेखा हि काललिखिता
वेलेव दुरतिक्रमाः ॥ ह्व्_११५।२७ ॥

मूलम्

न संरम्भान् न चारम्भान्
न वै स्थास्यसि पौरुषे ।
लेखा हि काललिखिता
वेलेव दुरतिक्रमाः ॥ ह्व्_११५।२७ ॥

विश्वास-प्रस्तुतिः

अश्वमेधः क्रतुः श्रेष्ठः
क्षत्रियाणां परिश्रुतः ।
तेन भावेन ते यज्ञं
वासवो धर्षयिष्यति ॥ ह्व्_११५।२८ ॥

मूलम्

अश्वमेधः क्रतुः श्रेष्ठः
क्षत्रियाणां परिश्रुतः ।
तेन भावेन ते यज्ञं
वासवो धर्षयिष्यति ॥ ह्व्_११५।२८ ॥

विश्वास-प्रस्तुतिः

यदि तच् छक्यते राजन्
परिहर्तुं कथञ्चन ।
दैवं पुरुषकारेण
मा यजेथाश् च तं क्रतुम् ॥ ह्व्_११५।२९ ॥

मूलम्

यदि तच् छक्यते राजन्
परिहर्तुं कथञ्चन ।
दैवं पुरुषकारेण
मा यजेथाश् च तं क्रतुम् ॥ ह्व्_११५।२९ ॥

विश्वास-प्रस्तुतिः

न चापराधः शक्रस्य
नोपध्यायगणस्य ते ।
तव वा यजमानस्य
कालो ऽत्र परमेश्वरः ॥ ह्व्_११५।३० ॥

मूलम्

न चापराधः शक्रस्य
नोपध्यायगणस्य ते ।
तव वा यजमानस्य
कालो ऽत्र परमेश्वरः ॥ ह्व्_११५।३० ॥

विश्वास-प्रस्तुतिः

तस्य संस्थापनम् इदम्
कालस्य वशवर्ति वै ।
तत् प्रणेयं निबोधस्य
त्रैलोक्यं सचराचरम् ॥ ह्व्_११५।३१ ॥

मूलम्

तस्य संस्थापनम् इदम्
कालस्य वशवर्ति वै ।
तत् प्रणेयं निबोधस्य
त्रैलोक्यं सचराचरम् ॥ ह्व्_११५।३१ ॥

विश्वास-प्रस्तुतिः

यथा यष्टा नृपः स्वर्गं
गमिष्यति युगक्षये ।
तथा यज्ञफलानां च
विक्रेतारो द्विजातयः ॥ ह्व्_११५।३२ ॥

मूलम्

यथा यष्टा नृपः स्वर्गं
गमिष्यति युगक्षये ।
तथा यज्ञफलानां च
विक्रेतारो द्विजातयः ॥ ह्व्_११५।३२ ॥

विश्वास-प्रस्तुतिः

{जनमेजय उवाच}
निवृत्ताव् अश्वमेधस्य
किं निमित्तं भविष्यति ।
श्रुत्वा परिहरिष्यामि
भगवन् यदि शक्यते ॥ ह्व्_११५।३३ ॥

मूलम्

{जनमेजय उवाच}
निवृत्ताव् अश्वमेधस्य
किं निमित्तं भविष्यति ।
श्रुत्वा परिहरिष्यामि
भगवन् यदि शक्यते ॥ ह्व्_११५।३३ ॥

विश्वास-प्रस्तुतिः

{व्यास उवाच}
निमित्तं भविता तत्र
ब्रह्मकोपकृतं प्रभो ।
यतस्व परिहर्तुं तद्
इत्य् एतद् भद्रम् अस्तु ते ॥ ह्व्_११५।३४ ॥

मूलम्

{व्यास उवाच}
निमित्तं भविता तत्र
ब्रह्मकोपकृतं प्रभो ।
यतस्व परिहर्तुं तद्
इत्य् एतद् भद्रम् अस्तु ते ॥ ह्व्_११५।३४ ॥

विश्वास-प्रस्तुतिः

त्वया धृतः क्रतुश् चैव
वाजिमेधः परन्तप ।
क्षत्रिया नाहरिष्यन्ति
यावद् भूमिर् धरिष्यति ॥ ह्व्_११५।३५ ॥

मूलम्

त्वया धृतः क्रतुश् चैव
वाजिमेधः परन्तप ।
क्षत्रिया नाहरिष्यन्ति
यावद् भूमिर् धरिष्यति ॥ ह्व्_११५।३५ ॥

विश्वास-प्रस्तुतिः

{जनमेजय उवाच}
निवृत्ताव् अश्वमेधस्य
विप्रशापाग्नितेजसा ।
अहं निमित्तं इति चेद्
भयं तीव्रं च जायते ॥ ह्व्_११५।३६ ॥

मूलम्

{जनमेजय उवाच}
निवृत्ताव् अश्वमेधस्य
विप्रशापाग्नितेजसा ।
अहं निमित्तं इति चेद्
भयं तीव्रं च जायते ॥ ह्व्_११५।३६ ॥

विश्वास-प्रस्तुतिः

कथं ह्य् अकीर्त्त्या संयुक्तः
सुकृती मद्विधो जनः ।
लोकान् उत्सहते गन्तुं
खं सपाश इव द्विजः ॥ ह्व्_११५।३७ ॥

मूलम्

कथं ह्य् अकीर्त्त्या संयुक्तः
सुकृती मद्विधो जनः ।
लोकान् उत्सहते गन्तुं
खं सपाश इव द्विजः ॥ ह्व्_११५।३७ ॥

विश्वास-प्रस्तुतिः

यथा ह्य् अनागतम् इदम्
दृष्टम् अत्र प्रणाशनम् ।
यज्ञस्य पुनरावृत्तिर्
यद्य् अस्त्य् आश्वासयस्व माम् ॥ ह्व्_११५।३८ ॥

मूलम्

यथा ह्य् अनागतम् इदम्
दृष्टम् अत्र प्रणाशनम् ।
यज्ञस्य पुनरावृत्तिर्
यद्य् अस्त्य् आश्वासयस्व माम् ॥ ह्व्_११५।३८ ॥

विश्वास-प्रस्तुतिः

{व्यास उवाच}
उपात्तयज्ञो देवेभ्यो
ब्राह्मणेषु निवत्स्यति ।
([क्: त्२ ग्१।३ ins. after the रेफ़्।: :क्])
विहितो यज्ञ एषो ऽत्र
देवैश् च ब्राह्मणैर् अपि । ह्व्_११५।३९५१६० ।
तेजसाभ्याहृतं तेजस्
तेजस्येवावतिष्ठते ॥ ह्व्_११५।३९ ॥

मूलम्

{व्यास उवाच}
उपात्तयज्ञो देवेभ्यो
ब्राह्मणेषु निवत्स्यति ।
([क्: त्२ ग्१।३ ins. after the रेफ़्।: :क्])
विहितो यज्ञ एषो ऽत्र
देवैश् च ब्राह्मणैर् अपि । ह्व्_११५।३९५१६० ।
तेजसाभ्याहृतं तेजस्
तेजस्येवावतिष्ठते ॥ ह्व्_११५।३९ ॥

विश्वास-प्रस्तुतिः

औद्भिदो भविता कश्चित्
सेनानीः काश्यपो द्विजः ।
अश्वमेधं कलियुगे
पुनः प्रत्याहरिष्यति ॥ ह्व्_११५।४० ॥

मूलम्

औद्भिदो भविता कश्चित्
सेनानीः काश्यपो द्विजः ।
अश्वमेधं कलियुगे
पुनः प्रत्याहरिष्यति ॥ ह्व्_११५।४० ॥

विश्वास-प्रस्तुतिः

तद्युगे तत्कुलीनश् च
राजसूयम् अपि क्रतुम् ।
आहरिष्यति राजेन्द्र
श्वेतग्रहम् इवान्तकः ॥ ह्व्_११५।४१ ॥

मूलम्

तद्युगे तत्कुलीनश् च
राजसूयम् अपि क्रतुम् ।
आहरिष्यति राजेन्द्र
श्वेतग्रहम् इवान्तकः ॥ ह्व्_११५।४१ ॥

विश्वास-प्रस्तुतिः

यथाबलं मनुष्याणां
कर्तॄणां दास्यते फलम् ।
युगान्तद्वारम् ऋषिभिः
संवृतं विचरिष्यति ॥ ह्व्_११५।४२ ॥

मूलम्

यथाबलं मनुष्याणां
कर्तॄणां दास्यते फलम् ।
युगान्तद्वारम् ऋषिभिः
संवृतं विचरिष्यति ॥ ह्व्_११५।४२ ॥

विश्वास-प्रस्तुतिः

तदाप्रभृति हास्यन्ते
नृणां प्राणाः पुराकृतीः ।
विनिवर्तिष्यते लोके
वृत्तान्ते वृत्तिमत्स्व् अपि ॥ ह्व्_११५।४३ ॥

मूलम्

तदाप्रभृति हास्यन्ते
नृणां प्राणाः पुराकृतीः ।
विनिवर्तिष्यते लोके
वृत्तान्ते वृत्तिमत्स्व् अपि ॥ ह्व्_११५।४३ ॥

विश्वास-प्रस्तुतिः

तदा सूक्ष्मो महोदर्को
दुस्तरो दानमूलवान् ।
चातुराश्रम्यशिथिलो
धर्मः प्रविचलिष्यति ॥ ह्व्_११५।४४ ॥

मूलम्

तदा सूक्ष्मो महोदर्को
दुस्तरो दानमूलवान् ।
चातुराश्रम्यशिथिलो
धर्मः प्रविचलिष्यति ॥ ह्व्_११५।४४ ॥

विश्वास-प्रस्तुतिः

तदा ह्य् अल्पेन तपसा
सिद्धिं यास्यन्ति मानवाः ।
धन्या धर्मं चरिष्यन्ति
युगान्ते जनमेजय ॥ ह्व्_११५।४५ ॥

मूलम्

तदा ह्य् अल्पेन तपसा
सिद्धिं यास्यन्ति मानवाः ।
धन्या धर्मं चरिष्यन्ति
युगान्ते जनमेजय ॥ ह्व्_११५।४५ ॥