११४

विश्वास-प्रस्तुतिः

{शौनक उवाच}
जनमेजयस्य के पुत्राः
पठ्यन्ते लोमहर्षणे ।
([क्: त्२ ग्१ ins. after the रेफ़्।: :क्])
हरिवंशस्य शेषस्य
कथां पापप्रणाशनीम् । ह्व्_११४।०१५५० ।
कस्मिन् प्रतिष्ठितो वंशः
पाण्डवानां महात्मनाम् ॥ ह्व्_११४।१ ॥

मूलम्

{शौनक उवाच}
जनमेजयस्य के पुत्राः
पठ्यन्ते लोमहर्षणे ।
([क्: त्२ ग्१ ins. after the रेफ़्।: :क्])
हरिवंशस्य शेषस्य
कथां पापप्रणाशनीम् । ह्व्_११४।०१५५० ।
कस्मिन् प्रतिष्ठितो वंशः
पाण्डवानां महात्मनाम् ॥ ह्व्_११४।१ ॥

([क्: स्१ क् न्२ व् ब् द् ins.: :क्]) एतद् इच्छाम्य् अहं श्रोतुं परं कौतूहलं मम । *ह्व्_११४।१*१५५१:१ । त्वत्तः कथयतः सर्वं वेद्म्य् अहं तं परिस्फुटम् । *ह्व्_११४।१*१५५१:२ ।
विश्वास-प्रस्तुतिः

{सूत उवाच}
पारिक्षितस्य काश्यायां
द्वौ पुत्रौ सम्बभूवतुः ।
चन्द्रापीडश् च नृपतिः
सूर्यापीडश् च मोक्षवित् ॥ ह्व्_११४।२ ॥

मूलम्

{सूत उवाच}
पारिक्षितस्य काश्यायां
द्वौ पुत्रौ सम्बभूवतुः ।
चन्द्रापीडश् च नृपतिः
सूर्यापीडश् च मोक्षवित् ॥ ह्व्_११४।२ ॥

विश्वास-प्रस्तुतिः

चन्द्रापीडस्य पुत्राणां
शतम् उत्तमधन्विनाम् ।
जनमेजय इत्य् एव
क्षत्रं भुवि परिश्रुतम् ॥ ह्व्_११४।३ ॥

मूलम्

चन्द्रापीडस्य पुत्राणां
शतम् उत्तमधन्विनाम् ।
जनमेजय इत्य् एव
क्षत्रं भुवि परिश्रुतम् ॥ ह्व्_११४।३ ॥

विश्वास-प्रस्तुतिः

तेषां ज्येष्ठस् तु राजासीत्
पुरे वारणसाह्वये ।
सत्यकर्णो महाबाहुर्
यज्वा विपुलदक्षिणः ॥ ह्व्_११४।४ ॥

मूलम्

तेषां ज्येष्ठस् तु राजासीत्
पुरे वारणसाह्वये ।
सत्यकर्णो महाबाहुर्
यज्वा विपुलदक्षिणः ॥ ह्व्_११४।४ ॥

विश्वास-प्रस्तुतिः

सत्यकर्णस्य दायादः
श्वेतकर्णः प्रतापवान् ।
अपुत्रः स तु धर्मात्मा
प्रविवेश तपोवनम् ॥ ह्व्_११४।५ ॥

मूलम्

सत्यकर्णस्य दायादः
श्वेतकर्णः प्रतापवान् ।
अपुत्रः स तु धर्मात्मा
प्रविवेश तपोवनम् ॥ ह्व्_११४।५ ॥

विश्वास-प्रस्तुतिः

तस्माद् वनगताद् गर्भं
यादवी प्रत्यपद्यत ।
सुचारोर् दुहिता सुभ्रूर्
मालिनी भ्रातृमालिनि ॥ ह्व्_११४।६ ॥

मूलम्

तस्माद् वनगताद् गर्भं
यादवी प्रत्यपद्यत ।
सुचारोर् दुहिता सुभ्रूर्
मालिनी भ्रातृमालिनि ॥ ह्व्_११४।६ ॥

विश्वास-प्रस्तुतिः

स त्व् अजन्मनि गर्भस्य
श्वेतकर्णः प्रजेश्वरः ।
अन्वगच्छत तं पूर्वैर्
महाप्रस्थानम् अच्युतम् ॥ ह्व्_११४।७ ॥

मूलम्

स त्व् अजन्मनि गर्भस्य
श्वेतकर्णः प्रजेश्वरः ।
अन्वगच्छत तं पूर्वैर्
महाप्रस्थानम् अच्युतम् ॥ ह्व्_११४।७ ॥

विश्वास-प्रस्तुतिः

सा दृष्ट्वा सम्प्रयातं तं
मालिनी पृष्ठतो ऽन्वगात् ।
पथि सा सुषुवे सुभ्रूर्
वने राजीवलोचनम् ॥ ह्व्_११४।८ ॥

मूलम्

सा दृष्ट्वा सम्प्रयातं तं
मालिनी पृष्ठतो ऽन्वगात् ।
पथि सा सुषुवे सुभ्रूर्
वने राजीवलोचनम् ॥ ह्व्_११४।८ ॥

विश्वास-प्रस्तुतिः

तम् अपाश्य च तत्रैव
राजानं सान्वगच्छत ।
पतिव्रता महाभागा
द्रौपदीव पुरा पतीन् ॥ ह्व्_११४।९ ॥

मूलम्

तम् अपाश्य च तत्रैव
राजानं सान्वगच्छत ।
पतिव्रता महाभागा
द्रौपदीव पुरा पतीन् ॥ ह्व्_११४।९ ॥

विश्वास-प्रस्तुतिः

सुकुमारः कुमारो ऽसौ
गिरिकुञ्जे रुरोद ह ।
दयार्थं तस्य मेघास् तु
प्रादुरासन् महात्मनः ॥ ह्व्_११४।१० ॥

मूलम्

सुकुमारः कुमारो ऽसौ
गिरिकुञ्जे रुरोद ह ।
दयार्थं तस्य मेघास् तु
प्रादुरासन् महात्मनः ॥ ह्व्_११४।१० ॥

विश्वास-प्रस्तुतिः

श्रविष्ठायाश् च पुत्रौ द्वौ
पैप्पलादौ च तौ द्विजौ ।
दृष्ट्वा कृपान्वितौ गृह्य
तं प्रक्षालयतां जले ॥ ह्व्_११४।११ ॥

मूलम्

श्रविष्ठायाश् च पुत्रौ द्वौ
पैप्पलादौ च तौ द्विजौ ।
दृष्ट्वा कृपान्वितौ गृह्य
तं प्रक्षालयतां जले ॥ ह्व्_११४।११ ॥

विश्वास-प्रस्तुतिः

विघृष्टे तस्य ते पार्श्वे
खेलेन रुधिरस्रवे ।
अजश्यामौ च पार्श्वौ ताव्
उभाव् अपि समाहितौ ॥ ह्व्_११४।१२ ॥

मूलम्

विघृष्टे तस्य ते पार्श्वे
खेलेन रुधिरस्रवे ।
अजश्यामौ च पार्श्वौ ताव्
उभाव् अपि समाहितौ ॥ ह्व्_११४।१२ ॥

([क्: त्१।२ ग्१।३-५ सुब्स्त्।: :क्]) आजगमानयो पार्श्वं पिबन्न् अप्य् अनयोः स्तनौ । *ह्व्_११४।१२*१५५२ । तथैव च समारूढाव् अजपार्श्वस् ततो ऽभवत् । ([क्: स्१ सुब्स्त्।: :क्]) आजश्यामस्य ते पार्श्वे रूढे वै संअभूवतुः । *ह्व्_११४।१३अब्*१५५३ ।
विश्वास-प्रस्तुतिः

([क्: त्१।२ ग्१।३-५ सुब्स्त्।: :क्])
तं तथैव च तिष्ठन्तं
अजपार्श्वे कुमारकम् । ह्व्_११४।१३अब्१५५४ ।
ततो ऽजपार्श्व इति तौ
चक्राते तस्य नाम ह ॥ ह्व्_११४।१३ ॥

मूलम्

([क्: त्१।२ ग्१।३-५ सुब्स्त्।: :क्])
तं तथैव च तिष्ठन्तं
अजपार्श्वे कुमारकम् । ह्व्_११४।१३अब्१५५४ ।
ततो ऽजपार्श्व इति तौ
चक्राते तस्य नाम ह ॥ ह्व्_११४।१३ ॥

विश्वास-प्रस्तुतिः

स तु वेमकशालायां
उभाभ्याम् अभिवर्धितः ॥ ह्व्_११४।१४ ॥

मूलम्

स तु वेमकशालायां
उभाभ्याम् अभिवर्धितः ॥ ह्व्_११४।१४ ॥

विश्वास-प्रस्तुतिः

वेमकस्य तु भार्या तम्
उद्वहत् पुत्रकारणात् ।
([क्: स्१ सुब्स्त्।: :क्])
सेवकस्य तु तां भार्याम्
ऊहतुस् तस्य कारणात् । ह्व्_११४।१५अब्१५५५ ।
वेमक्याः स तु पुत्रो ऽभूद्
ब्राह्मणौ सुचिवौ च तौ ॥ ह्व्_११४।१५ ॥

मूलम्

वेमकस्य तु भार्या तम्
उद्वहत् पुत्रकारणात् ।
([क्: स्१ सुब्स्त्।: :क्])
सेवकस्य तु तां भार्याम्
ऊहतुस् तस्य कारणात् । ह्व्_११४।१५अब्१५५५ ।
वेमक्याः स तु पुत्रो ऽभूद्
ब्राह्मणौ सुचिवौ च तौ ॥ ह्व्_११४।१५ ॥

विश्वास-प्रस्तुतिः

तेषां पुत्राश् च पौत्राश् च
युगपत् तुल्यजीविनः ।
स एष पौरवो वंशः
पाण्डवानां प्रतिष्ठितः ॥ ह्व्_११४।१६ ॥

मूलम्

तेषां पुत्राश् च पौत्राश् च
युगपत् तुल्यजीविनः ।
स एष पौरवो वंशः
पाण्डवानां प्रतिष्ठितः ॥ ह्व्_११४।१६ ॥

विश्वास-प्रस्तुतिः

श्लोको ऽपि चात्र गीतो ऽयं
नाहुषेण ययातिना ।
जरासङ्क्रमणे पूर्वं
तदा प्रीतेन धीमता ॥ ह्व्_११४।१७ ॥

मूलम्

श्लोको ऽपि चात्र गीतो ऽयं
नाहुषेण ययातिना ।
जरासङ्क्रमणे पूर्वं
तदा प्रीतेन धीमता ॥ ह्व्_११४।१७ ॥

विश्वास-प्रस्तुतिः

अचन्द्रार्कग्रहा भूमिर्
भवेद् अपि न संशयः ।
अपौरवा न तु मही
भविष्यति कदाचन ॥ ह्व्_११४।१८ ॥

मूलम्

अचन्द्रार्कग्रहा भूमिर्
भवेद् अपि न संशयः ।
अपौरवा न तु मही
भविष्यति कदाचन ॥ ह्व्_११४।१८ ॥

([क्: द्६ (मर्ग्।) ins.: :क्]) ततस् तेषूपविष्टेषु सदस्यैः सह शौनकः । *ह्व्_११४।१८*१५५६ ।