विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
ततस् तूर्यनिनादैश् च
शङ्खानां च महास्वनैः ।
बन्दिमागधसूतानां
सर्वैश् चापि सहस्रशः ॥ ह्व्_११०।१ ॥
मूलम्
{वैशम्पायन उवाच}
ततस् तूर्यनिनादैश् च
शङ्खानां च महास्वनैः ।
बन्दिमागधसूतानां
सर्वैश् चापि सहस्रशः ॥ ह्व्_११०।१ ॥
विश्वास-प्रस्तुतिः
([क्: म् ins. after १: द्६ after *१२९३: त्४ after १०९।८७: ग्२।४ (फ़िर्स्त् तिमे) after १०९।८८: :क्])
जयाजय जगन्नाथ
जय चक्रगदाधर । ह्व्_११०।११२९४:१ ।
जय लोकत्रयावास
जयाशेषजगन्मय ॥ ह्व्_११०।११२९४:२ ।
मूलम्
([क्: म् ins. after १: द्६ after *१२९३: त्४ after १०९।८७: ग्२।४ (फ़िर्स्त् तिमे) after १०९।८८: :क्])
जयाजय जगन्नाथ
जय चक्रगदाधर । ह्व्_११०।११२९४:१ ।
जय लोकत्रयावास
जयाशेषजगन्मय ॥ ह्व्_११०।११२९४:२ ।
विश्वास-प्रस्तुतिः
जय नाभिसमुत्थाब्ज+
+निषण्णचतुरानन । ह्व्_११०।११२९४:३ ।
जय कौस्तुभरत्नांशु+
+विभासितजगत्त्रय ॥ ह्व्_११०।११२९४:४ ।
मूलम्
जय नाभिसमुत्थाब्ज+
+निषण्णचतुरानन । ह्व्_११०।११२९४:३ ।
जय कौस्तुभरत्नांशु+
+विभासितजगत्त्रय ॥ ह्व्_११०।११२९४:४ ।
विश्वास-प्रस्तुतिः
जय श्रीकरपद्मस्थ+
+चरणाम्भोरुहद्वय । ह्व्_११०।११२९४:५ ।
जय त्रिधामन्सर्वेश
जय लोकपितामह ॥ ह्व्_११०।११२९४:६ ।
मूलम्
जय श्रीकरपद्मस्थ+
+चरणाम्भोरुहद्वय । ह्व्_११०।११२९४:५ ।
जय त्रिधामन्सर्वेश
जय लोकपितामह ॥ ह्व्_११०।११२९४:६ ।
विश्वास-प्रस्तुतिः
जय यज्ञपते देव
जय विश्वगुरो हरे । ह्व्_११०।११२९४:७ ।
जय चक्रगदाशङ्ख+
+पद्मदीप्तकराम्बुज ॥ ह्व्_११०।११२९४:८ ।
मूलम्
जय यज्ञपते देव
जय विश्वगुरो हरे । ह्व्_११०।११२९४:७ ।
जय चक्रगदाशङ्ख+
+पद्मदीप्तकराम्बुज ॥ ह्व्_११०।११२९४:८ ।
विश्वास-प्रस्तुतिः
जय शार्ङ्गादिहेत्युद्यत्+
+सहस्रभुजमण्डल । ह्व्_११०।११२९४:९ ।
जय चक्राग्निनिर्दग्ध+
+निखिलासुरमण्डल ॥ ह्व्_११०।११२९४:१० ।
मूलम्
जय शार्ङ्गादिहेत्युद्यत्+
+सहस्रभुजमण्डल । ह्व्_११०।११२९४:९ ।
जय चक्राग्निनिर्दग्ध+
+निखिलासुरमण्डल ॥ ह्व्_११०।११२९४:१० ।
विश्वास-प्रस्तुतिः
जय योगिमनःपद्म+
+बोधकृच्चरणाम्बुज । ह्व्_११०।११२९४:११ ।
निजैकपादसंलीन+
+जगत्त्रय हरे जय ॥ ह्व्_११०।११२९४:१२ ।
मूलम्
जय योगिमनःपद्म+
+बोधकृच्चरणाम्बुज । ह्व्_११०।११२९४:११ ।
निजैकपादसंलीन+
+जगत्त्रय हरे जय ॥ ह्व्_११०।११२९४:१२ ।
विश्वास-प्रस्तुतिः
जय स्थितिलयोत्पत्ति+
+कारणाशेषकारण । ह्व्_११०।११२९४:१३ ।
जय विष्णो हृषीकेश
जय बाणं महासुर । ह्व्_११०।११२९४:१४ ।
स तून्मुखैर् जयाशीर्भिः
स्तूयमानो हि मानवैः ।
बभार रूपं सोमार्क+
+शक्राणां सदृशं हरिः ॥ ह्व्_११०।२ ॥
मूलम्
जय स्थितिलयोत्पत्ति+
+कारणाशेषकारण । ह्व्_११०।११२९४:१३ ।
जय विष्णो हृषीकेश
जय बाणं महासुर । ह्व्_११०।११२९४:१४ ।
स तून्मुखैर् जयाशीर्भिः
स्तूयमानो हि मानवैः ।
बभार रूपं सोमार्क+
+शक्राणां सदृशं हरिः ॥ ह्व्_११०।२ ॥
विश्वास-प्रस्तुतिः
अतीव शुशुभे रूपं
तस्य चाभ्युत्पतिष्यतः ।
वैनतेयस्य भद्रं ते
बृंहितं हरितेजसा ॥ ह्व्_११०।३ ॥
मूलम्
अतीव शुशुभे रूपं
तस्य चाभ्युत्पतिष्यतः ।
वैनतेयस्य भद्रं ते
बृंहितं हरितेजसा ॥ ह्व्_११०।३ ॥
विश्वास-प्रस्तुतिः
([क्: त्१।२ ग्१।४।५ म् ins. after ३: ग्(एद्।) after ४: :क्])
स्मृत्वा स्मृत्वा च तद्रूपं
शङ्खचक्रगदाभृतः । ह्व्_११०।३१२९५:१ ।
तृप्तिं नाद्यापि गोविन्द
प्राप्नुयामो हरेः सदा । ह्व्_११०।३१२९५:२ ।
अथाष्टबाहुः कृष्णस् तु
पर्वताकारसन्निभः ।
विबभौ पुण्डरीकाक्षो
विकाङ्क्षन् बाणसङ्क्षयम् ॥ ह्व्_११०।४ ॥
मूलम्
([क्: त्१।२ ग्१।४।५ म् ins. after ३: ग्(एद्।) after ४: :क्])
स्मृत्वा स्मृत्वा च तद्रूपं
शङ्खचक्रगदाभृतः । ह्व्_११०।३१२९५:१ ।
तृप्तिं नाद्यापि गोविन्द
प्राप्नुयामो हरेः सदा । ह्व्_११०।३१२९५:२ ।
अथाष्टबाहुः कृष्णस् तु
पर्वताकारसन्निभः ।
विबभौ पुण्डरीकाक्षो
विकाङ्क्षन् बाणसङ्क्षयम् ॥ ह्व्_११०।४ ॥
विश्वास-प्रस्तुतिः
असिचक्रगदाबाणा
दक्षिणं पार्श्वम् आस्थिताः ।
चर्म शार्ङ्गं तथा चापं
शङ्खं चैवास्य वामतः ॥ ह्व्_११०।५ ॥
मूलम्
असिचक्रगदाबाणा
दक्षिणं पार्श्वम् आस्थिताः ।
चर्म शार्ङ्गं तथा चापं
शङ्खं चैवास्य वामतः ॥ ह्व्_११०।५ ॥
विश्वास-प्रस्तुतिः
शीर्षाणां वै सहस्रं तु
विहितं शार्ङ्गधन्वना ।
सहस्रं चैव कायानां
वहन् सङ्कर्षणस् तदा ॥ ह्व्_११०।६ ॥
मूलम्
शीर्षाणां वै सहस्रं तु
विहितं शार्ङ्गधन्वना ।
सहस्रं चैव कायानां
वहन् सङ्कर्षणस् तदा ॥ ह्व्_११०।६ ॥
विश्वास-प्रस्तुतिः
श्वेतप्रहरणो ऽधृष्यः
कैलास इव शृङ्गवान् ।
आस्थितो गरुडं राम
उद्यन्न् इव निशाकरः ॥ ह्व्_११०।७ ॥
मूलम्
श्वेतप्रहरणो ऽधृष्यः
कैलास इव शृङ्गवान् ।
आस्थितो गरुडं राम
उद्यन्न् इव निशाकरः ॥ ह्व्_११०।७ ॥
विश्वास-प्रस्तुतिः
सनत्कुमारस्य वपुः
प्रादुर् आसीन् महात्मनः ।
प्रद्युम्नस्य महाबाहोः
सङ्ग्रामे विक्रमिष्यतः ॥ ह्व्_११०।८ ॥
मूलम्
सनत्कुमारस्य वपुः
प्रादुर् आसीन् महात्मनः ।
प्रद्युम्नस्य महाबाहोः
सङ्ग्रामे विक्रमिष्यतः ॥ ह्व्_११०।८ ॥
विश्वास-प्रस्तुतिः
स पक्षबलविक्षेपैर्
विधुन्वन् पर्वतान् बहून् ।
जगाम मार्गं बलवान्
वातस्य प्रतिषेधयन् ॥ ह्व्_११०।९ ॥
मूलम्
स पक्षबलविक्षेपैर्
विधुन्वन् पर्वतान् बहून् ।
जगाम मार्गं बलवान्
वातस्य प्रतिषेधयन् ॥ ह्व्_११०।९ ॥
विश्वास-प्रस्तुतिः
अति वायोर् अथ गतिम्
आस्थाय गरुडस् तदा ।
सिद्धचारणसङ्घानां
शुभं मार्गम् अवातरत् ॥ ह्व्_११०।१० ॥
मूलम्
अति वायोर् अथ गतिम्
आस्थाय गरुडस् तदा ।
सिद्धचारणसङ्घानां
शुभं मार्गम् अवातरत् ॥ ह्व्_११०।१० ॥
विश्वास-प्रस्तुतिः
अथ रामो ऽब्रवीद् वाक्यं
कृष्णम् अप्रतिमम् रणे ।
स्वाभिः प्रभाभिर् हीनाः स्मः
कृष्ण कस्माद् अपूर्ववत् ॥ ह्व्_११०।११ ॥
मूलम्
अथ रामो ऽब्रवीद् वाक्यं
कृष्णम् अप्रतिमम् रणे ।
स्वाभिः प्रभाभिर् हीनाः स्मः
कृष्ण कस्माद् अपूर्ववत् ॥ ह्व्_११०।११ ॥
विश्वास-प्रस्तुतिः
सर्वे कनकवर्णाभाः
संवृत्ताः स्म न संशयः ।
किम् इदं ब्रूहि नस् तत्त्वं
किं मेरोः पार्श्वगा वयम् ॥ ह्व्_११०।१२ ॥
मूलम्
सर्वे कनकवर्णाभाः
संवृत्ताः स्म न संशयः ।
किम् इदं ब्रूहि नस् तत्त्वं
किं मेरोः पार्श्वगा वयम् ॥ ह्व्_११०।१२ ॥
विश्वास-प्रस्तुतिः
{भगवान् उवाच}
([क्: Ñ२।३ व् ब्१।२ द्न् द्स् द्१।२।५(मर्ग्।)।६ ins. after the रेफ़्।; द्३ after १२: :क्])
मन्ये बाणस्य नगरम्
अभ्याशस्थम् अरिन्दम । ह्व्_११०।१३१२९६:१ ।
रक्षार्थं तस्य नियतो
वह्निर् एष स्थितो ज्वलन् । ह्व्_११०।१३१२९६:२ ।
अग्नेर् आहवनीयस्य
प्रभया स्म समाहताः ।
तेन नो वर्णवैरूप्यम्
इदं जातं हलायुध ॥ ह्व्_११०।१३ ॥
मूलम्
{भगवान् उवाच}
([क्: Ñ२।३ व् ब्१।२ द्न् द्स् द्१।२।५(मर्ग्।)।६ ins. after the रेफ़्।; द्३ after १२: :क्])
मन्ये बाणस्य नगरम्
अभ्याशस्थम् अरिन्दम । ह्व्_११०।१३१२९६:१ ।
रक्षार्थं तस्य नियतो
वह्निर् एष स्थितो ज्वलन् । ह्व्_११०।१३१२९६:२ ।
अग्नेर् आहवनीयस्य
प्रभया स्म समाहताः ।
तेन नो वर्णवैरूप्यम्
इदं जातं हलायुध ॥ ह्व्_११०।१३ ॥
विश्वास-प्रस्तुतिः
{राम उवाच}
यदि स्म सन्निकर्षस्था
यदि निष्प्रभतां गताः ।
तद् विधत्स्व स्वयं बुद्ध्या
यद् अत्रानन्तरं हितम् ॥ ह्व्_११०।१४ ॥
मूलम्
{राम उवाच}
यदि स्म सन्निकर्षस्था
यदि निष्प्रभतां गताः ।
तद् विधत्स्व स्वयं बुद्ध्या
यद् अत्रानन्तरं हितम् ॥ ह्व्_११०।१४ ॥
विश्वास-प्रस्तुतिः
{भगवान् उवाच}
कुरुष्व वैनतेय त्वं
यन् नः कार्यम् अनन्तरम् ।
त्वया विधाने विहिते
करिष्याम्य् अहम् उत्तरम् ॥ ह्व्_११०।१५ ॥
मूलम्
{भगवान् उवाच}
कुरुष्व वैनतेय त्वं
यन् नः कार्यम् अनन्तरम् ।
त्वया विधाने विहिते
करिष्याम्य् अहम् उत्तरम् ॥ ह्व्_११०।१५ ॥
विश्वास-प्रस्तुतिः
([क्: क् Ñ२।३ व् ब् द् ग्२ चोन्त्।; ग्५ म्४ ins. after १६अब्: :क्])
चक्रे मुखसहस्रं हि
कामरूपी महाबलः । ह्व्_११०।१६अब्१२९८ ।
गङ्गाम् उपागमत् तूर्णं
वैनतेयस् ततो बली ॥ ह्व्_११०।१६ ॥
मूलम्
([क्: क् Ñ२।३ व् ब् द् ग्२ चोन्त्।; ग्५ म्४ ins. after १६अब्: :क्])
चक्रे मुखसहस्रं हि
कामरूपी महाबलः । ह्व्_११०।१६अब्१२९८ ।
गङ्गाम् उपागमत् तूर्णं
वैनतेयस् ततो बली ॥ ह्व्_११०।१६ ॥
विश्वास-प्रस्तुतिः
([क्: क् Ñ व् ब् द् ग्२।५ ins. after १६; ग्४ after १४: :क्])
आप्लुत्याकाशगङ्गायाम्
आपीय सलिलं बहु । ह्व्_११०।१६१२९९:१ ।
प्रववर्षोपरिगतो
वैतनेयः प्रतापवान् । ह्व्_११०।१६१२९९:२ ।
तेनाग्निं शमयाम् आस
बुद्धिमान् विनतात्मजः । ह्व्_११०।१६१२९९:३ ।
([क्: after लिने १ of *१२९९, द्२ ins.: :क्])
स पक्षाभ्याम् उपादाय
ववर्ष सलिलं बहु । ह्व्_११०।१६१२९९अ ।
गृहीत्वा सलिलं तत्र
तम् अग्निम् अभिषेचयत् ।
अग्निर् आहवनीयस् तु
ततः शान्तिम् उपागमत् ॥ ह्व्_११०।१७ ॥
मूलम्
([क्: क् Ñ व् ब् द् ग्२।५ ins. after १६; ग्४ after १४: :क्])
आप्लुत्याकाशगङ्गायाम्
आपीय सलिलं बहु । ह्व्_११०।१६१२९९:१ ।
प्रववर्षोपरिगतो
वैतनेयः प्रतापवान् । ह्व्_११०।१६१२९९:२ ।
तेनाग्निं शमयाम् आस
बुद्धिमान् विनतात्मजः । ह्व्_११०।१६१२९९:३ ।
([क्: after लिने १ of *१२९९, द्२ ins.: :क्])
स पक्षाभ्याम् उपादाय
ववर्ष सलिलं बहु । ह्व्_११०।१६१२९९अ ।
गृहीत्वा सलिलं तत्र
तम् अग्निम् अभिषेचयत् ।
अग्निर् आहवनीयस् तु
ततः शान्तिम् उपागमत् ॥ ह्व्_११०।१७ ॥
विश्वास-प्रस्तुतिः
([क्: after १७, न् (एxचेप्त् श्१ Ñ१) त्४ ग्२।४।५ ग्(एद्।) ins.: :क्])
तं दृष्ट्वाहवनीयं तु
शान्तम् आकाशगङ्गया । ह्व्_११०।१७१३००:१ ।
परमं विस्मयं गत्वा
सुपर्णो वाक्यम् अब्रवीत् ॥ ह्व्_११०।१७१३००:२ ।
मूलम्
([क्: after १७, न् (एxचेप्त् श्१ Ñ१) त्४ ग्२।४।५ ग्(एद्।) ins.: :क्])
तं दृष्ट्वाहवनीयं तु
शान्तम् आकाशगङ्गया । ह्व्_११०।१७१३००:१ ।
परमं विस्मयं गत्वा
सुपर्णो वाक्यम् अब्रवीत् ॥ ह्व्_११०।१७१३००:२ ।
विश्वास-प्रस्तुतिः
अहो वीर्यम् अथाग्नेस् तु
यो दहेद् युगसङ्क्षये । ह्व्_११०।१७१३००:३ ।
([क्: Ñ२ व्२।३ ब् द्न्१ द्स् द्६ चोन्त्।: :क्])
तद् एव वर्णवैरूप्यं
चक्रे कृष्णस्य धीमतः । ह्व्_११०।१७१३०१ ।
त्रयस् त्रयाणां लोकानां
पर्याप्ता इति मे मतिः ।
कृष्णः सङ्कर्षणश् चैव
प्रद्युम्नश् च महाबलः ॥ ह्व्_११०।१८ ॥
मूलम्
अहो वीर्यम् अथाग्नेस् तु
यो दहेद् युगसङ्क्षये । ह्व्_११०।१७१३००:३ ।
([क्: Ñ२ व्२।३ ब् द्न्१ द्स् द्६ चोन्त्।: :क्])
तद् एव वर्णवैरूप्यं
चक्रे कृष्णस्य धीमतः । ह्व्_११०।१७१३०१ ।
त्रयस् त्रयाणां लोकानां
पर्याप्ता इति मे मतिः ।
कृष्णः सङ्कर्षणश् चैव
प्रद्युम्नश् च महाबलः ॥ ह्व्_११०।१८ ॥
विश्वास-प्रस्तुतिः
ततः प्रशान्ते दहने
सम्प्रतस्थे स पक्षिराट् ।
स्वपक्षबलविक्षेपैः
कुर्वन् घोरं महास्वनम् ॥ ह्व्_११०।१९ ॥
मूलम्
ततः प्रशान्ते दहने
सम्प्रतस्थे स पक्षिराट् ।
स्वपक्षबलविक्षेपैः
कुर्वन् घोरं महास्वनम् ॥ ह्व्_११०।१९ ॥
विश्वास-प्रस्तुतिः
तान् दृष्ट्वाचिन्तयंस् तत्र
रुद्रस्यानुचराग्नयः ।
([क्: after २०अब्, त्१।२ ग्१।३-५ म् ग्(एद्।) ins.: :क्])
नियुक्ताः शूलिना पूर्वं
रक्षणे नगरस्य हि । ह्व्_११०।२०अब्१३०२:१ ।
ऊचुः परमसङ्क्रुद्धा
ज्वालयन्तो दिसो दश । ह्व्_११०।२०अब्१३०२:२ ।
आस्थिता गरुडं ह्य् एते
नानारूपा भयावाहाः ॥
मूलम्
तान् दृष्ट्वाचिन्तयंस् तत्र
रुद्रस्यानुचराग्नयः ।
([क्: after २०अब्, त्१।२ ग्१।३-५ म् ग्(एद्।) ins.: :क्])
नियुक्ताः शूलिना पूर्वं
रक्षणे नगरस्य हि । ह्व्_११०।२०अब्१३०२:१ ।
ऊचुः परमसङ्क्रुद्धा
ज्वालयन्तो दिसो दश । ह्व्_११०।२०अब्१३०२:२ ।
आस्थिता गरुडं ह्य् एते
नानारूपा भयावाहाः ॥
विश्वास-प्रस्तुतिः
किम् अर्थम् इह सम्प्राप्ताः
के वापीमे जनास् त्रयः ॥ ह्व्_११०।२० ॥
मूलम्
किम् अर्थम् इह सम्प्राप्ताः
के वापीमे जनास् त्रयः ॥ ह्व्_११०।२० ॥
विश्वास-प्रस्तुतिः
निश्चयं नाध्यगच्छन्त
ते गिरिव्रजवह्नयः ।
प्रावर्तयंश् च सङ्ग्रामं
तैस् त्रिभिः सह यादवैः ॥ ह्व्_११०।२१ ॥
मूलम्
निश्चयं नाध्यगच्छन्त
ते गिरिव्रजवह्नयः ।
प्रावर्तयंश् च सङ्ग्रामं
तैस् त्रिभिः सह यादवैः ॥ ह्व्_११०।२१ ॥
विश्वास-प्रस्तुतिः
([क्: after २२ (=२१?), न् (एxचेप्त् श्१; Ñ१ ॐ।) त्४ ग्२।४।५ ins.: :क्])
तेषां युद्धे प्रसक्तानां
सन्नादः सुमहान् अभूत् ॥ ह्व्_११०।२११३०३:१ ।
मूलम्
([क्: after २२ (=२१?), न् (एxचेप्त् श्१; Ñ१ ॐ।) त्४ ग्२।४।५ ins.: :क्])
तेषां युद्धे प्रसक्तानां
सन्नादः सुमहान् अभूत् ॥ ह्व्_११०।२११३०३:१ ।
विश्वास-प्रस्तुतिः
तं च श्रुत्वा महानादं
सिंहानाम् इव गर्जताम् । ह्व्_११०।२११३०३:२ ।
अथाङ्गिराः स्वपुरुषं
प्रेषयाम् आस बुद्धिमान् । ह्व्_११०।२११३०३:३ ।
यत्र तद् वर्तते युद्धं
तत्र गच्छस्व माचिरम् । ह्व्_११०।२११३०३:४ ।
([क्: चोर्र्। तद् ववर्तते :क्])
अथाज्ञप्तस् तु बाणेन
पुरुषो वै मनोजवः ।
दृष्ट्वा तत् सर्वम् आगच्छे+
+त्युक्तः प्रह्वस् ततस् त्वरन् ॥ ह्व्_११०।२२ ॥
मूलम्
तं च श्रुत्वा महानादं
सिंहानाम् इव गर्जताम् । ह्व्_११०।२११३०३:२ ।
अथाङ्गिराः स्वपुरुषं
प्रेषयाम् आस बुद्धिमान् । ह्व्_११०।२११३०३:३ ।
यत्र तद् वर्तते युद्धं
तत्र गच्छस्व माचिरम् । ह्व्_११०।२११३०३:४ ।
([क्: चोर्र्। तद् ववर्तते :क्])
अथाज्ञप्तस् तु बाणेन
पुरुषो वै मनोजवः ।
दृष्ट्वा तत् सर्वम् आगच्छे+
+त्युक्तः प्रह्वस् ततस् त्वरन् ॥ ह्व्_११०।२२ ॥
विश्वास-प्रस्तुतिः
तथेत्य् उक्त्वा स तद् युद्धं
वर्तमानम् अवैक्षत ।
अग्नीनां वासुदेवेन
संसक्तानां महामृधे ॥ ह्व्_११०।२३ ॥
मूलम्
तथेत्य् उक्त्वा स तद् युद्धं
वर्तमानम् अवैक्षत ।
अग्नीनां वासुदेवेन
संसक्तानां महामृधे ॥ ह्व्_११०।२३ ॥
विश्वास-प्रस्तुतिः
ते जातवेदसः सर्वे
कल्माषः खसृमस् तथा ।
दहनः शोषणश् चैव
तपनश् च महाबलः ॥
मूलम्
ते जातवेदसः सर्वे
कल्माषः खसृमस् तथा ।
दहनः शोषणश् चैव
तपनश् च महाबलः ॥
विश्वास-प्रस्तुतिः
स्वधाकारस्य विषये
प्रख्याताः पञ्च वह्नयः ॥ ह्व्_११०।२४ ॥
मूलम्
स्वधाकारस्य विषये
प्रख्याताः पञ्च वह्नयः ॥ ह्व्_११०।२४ ॥
विश्वास-प्रस्तुतिः
अथापरे महाभागाः
स्वैर् अनीकैर् व्यवस्थिताः ।
([क्: after २५अब्, द्३ ins.: :क्])
अग्नयः समदृश्यन्त
ज्वलमाना महाहवे । ह्व्_११०।२५अब्१३०४ ।
पटरः पतगः स्वर्णो
अगाधो भ्राज एव च ॥
मूलम्
अथापरे महाभागाः
स्वैर् अनीकैर् व्यवस्थिताः ।
([क्: after २५अब्, द्३ ins.: :क्])
अग्नयः समदृश्यन्त
ज्वलमाना महाहवे । ह्व्_११०।२५अब्१३०४ ।
पटरः पतगः स्वर्णो
अगाधो भ्राज एव च ॥
विश्वास-प्रस्तुतिः
स्वाहाकाराश्रया पञ्च
अयुध्यंस् ते ऽपि चाग्नयः ॥ ह्व्_११०।२५ ॥
मूलम्
स्वाहाकाराश्रया पञ्च
अयुध्यंस् ते ऽपि चाग्नयः ॥ ह्व्_११०।२५ ॥
विश्वास-प्रस्तुतिः
ज्योतिष्टोमहविर्भागौ
वषट्काराश्रयौ पुनः ।
द्वाव् अग्नी सम्प्रयुध्येतां
महात्मानौ महाद्युती ॥
मूलम्
ज्योतिष्टोमहविर्भागौ
वषट्काराश्रयौ पुनः ।
द्वाव् अग्नी सम्प्रयुध्येतां
महात्मानौ महाद्युती ॥
विश्वास-प्रस्तुतिः
तयोर् मध्ये ऽङ्गिराश् चैव
महर्षिर् विबभौ प्रभुः ॥ ह्व्_११०।२६ ॥
मूलम्
तयोर् मध्ये ऽङ्गिराश् चैव
महर्षिर् विबभौ प्रभुः ॥ ह्व्_११०।२६ ॥
विश्वास-प्रस्तुतिः
([क्: after २६cd, Ñ२।३ ब् द्न् द्६ ग्(एद्।) ins.: :क्])
आग्नेयं रथम् आस्थाय
शूलम् उद्यम्य भास्वरम् । ह्व्_११०।२६१३०५ ।
स्थितम् अङ्गिरसं दृष्ट्वा
स्यन्दने पुरुषोत्तमः ।
कृष्णः प्रोवाच वचनं
स्मयन्न् इव पुनः पुनः ॥ ह्व्_११०।२७ ॥
मूलम्
([क्: after २६cd, Ñ२।३ ब् द्न् द्६ ग्(एद्।) ins.: :क्])
आग्नेयं रथम् आस्थाय
शूलम् उद्यम्य भास्वरम् । ह्व्_११०।२६१३०५ ।
स्थितम् अङ्गिरसं दृष्ट्वा
स्यन्दने पुरुषोत्तमः ।
कृष्णः प्रोवाच वचनं
स्मयन्न् इव पुनः पुनः ॥ ह्व्_११०।२७ ॥
विश्वास-प्रस्तुतिः
तिष्ठध्वम् अग्नयो यूयम्
एष वो विदधे भयम् ।
ममास्त्रतेजसा दद्घा
दिशो यास्यथ विक्षताः ॥ ह्व्_११०।२८ ॥
मूलम्
तिष्ठध्वम् अग्नयो यूयम्
एष वो विदधे भयम् ।
ममास्त्रतेजसा दद्घा
दिशो यास्यथ विक्षताः ॥ ह्व्_११०।२८ ॥
विश्वास-प्रस्तुतिः
अथाङ्गिरास् त्रिशूलेन
दीप्तेन समधावत ।
आददान इव क्रोधात्
कृष्णप्राणान् मधामृधे ॥ ह्व्_११०।२९ ॥
मूलम्
अथाङ्गिरास् त्रिशूलेन
दीप्तेन समधावत ।
आददान इव क्रोधात्
कृष्णप्राणान् मधामृधे ॥ ह्व्_११०।२९ ॥
विश्वास-प्रस्तुतिः
त्रिशूलं तस्य तद् दीप्तं
चिच्छेद परमेषुभिः ।
अर्धचन्द्रैस् तथा तीक्ष्णैर्
यमान्तकनिभैर् युधि ॥ ह्व्_११०।३० ॥
मूलम्
त्रिशूलं तस्य तद् दीप्तं
चिच्छेद परमेषुभिः ।
अर्धचन्द्रैस् तथा तीक्ष्णैर्
यमान्तकनिभैर् युधि ॥ ह्व्_११०।३० ॥
विश्वास-प्रस्तुतिः
स्थूणाकर्णेन चास्त्रेण
दीप्तेन सुमहायशाः ।
विव्याधान्तकतुल्येन
वक्षस्य् एनम् अथो ऽनदत् ॥ ह्व्_११०।३१ ॥
मूलम्
स्थूणाकर्णेन चास्त्रेण
दीप्तेन सुमहायशाः ।
विव्याधान्तकतुल्येन
वक्षस्य् एनम् अथो ऽनदत् ॥ ह्व्_११०।३१ ॥
विश्वास-प्रस्तुतिः
रुधिरौघप्लुतैर् गात्रैस्
तदाग्निर् चिह्वलन्न् इव ।
विष्टब्धगात्रः सहसा
पपात धरणीतले ॥ ह्व्_११०।३२ ॥
मूलम्
रुधिरौघप्लुतैर् गात्रैस्
तदाग्निर् चिह्वलन्न् इव ।
विष्टब्धगात्रः सहसा
पपात धरणीतले ॥ ह्व्_११०।३२ ॥
विश्वास-प्रस्तुतिः
शेषास् ततो ऽग्नयः सर्वे
चत्वारो ब्रह्मणः सुताः ।
आवाहयंस् तदा शीघ्रं
बाणस्य पुरम् अन्तिकात् ॥ ह्व्_११०।३३ ॥
मूलम्
शेषास् ततो ऽग्नयः सर्वे
चत्वारो ब्रह्मणः सुताः ।
आवाहयंस् तदा शीघ्रं
बाणस्य पुरम् अन्तिकात् ॥ ह्व्_११०।३३ ॥
विश्वास-प्रस्तुतिः
([क्: क्१।२ Ñ२।३ व् ब् द्स् द्४।६ ins. after the अद्द्ल्। चोलोफोन्: क्३।४ द्२।३।५ त्४ ग्५ after ३३: द्न् द्१ चोन्त्। after *१३०६: :क्])
{वैशम्पायन उवाच}
अथ बाणपुरं दृष्ट्वा
दूरात् प्रोवाच नारदः । ह्व्_११०।३३१३०७:१ ।
एतत् तच्छोणितपुरं
कृष्ण पश्य महाभुज ॥ ह्व्_११०।३३१३०७:२ ।
मूलम्
([क्: क्१।२ Ñ२।३ व् ब् द्स् द्४।६ ins. after the अद्द्ल्। चोलोफोन्: क्३।४ द्२।३।५ त्४ ग्५ after ३३: द्न् द्१ चोन्त्। after *१३०६: :क्])
{वैशम्पायन उवाच}
अथ बाणपुरं दृष्ट्वा
दूरात् प्रोवाच नारदः । ह्व्_११०।३३१३०७:१ ।
एतत् तच्छोणितपुरं
कृष्ण पश्य महाभुज ॥ ह्व्_११०।३३१३०७:२ ।
विश्वास-प्रस्तुतिः
अत्र रुद्रो महातेजा
रुद्राण्या सहितो ऽवसत् । ह्व्_११०।३३१३०७:३ ।
गुहश् च बाणगुप्त्यर्थं
सततं क्षेमकारणात् ॥ ह्व्_११०।३३१३०७:४ ।
मूलम्
अत्र रुद्रो महातेजा
रुद्राण्या सहितो ऽवसत् । ह्व्_११०।३३१३०७:३ ।
गुहश् च बाणगुप्त्यर्थं
सततं क्षेमकारणात् ॥ ह्व्_११०।३३१३०७:४ ।
विश्वास-प्रस्तुतिः
नारदस्य वचः श्रुत्वा
कृष्णस् त्व् इदम् अथाब्रवीत् । ह्व्_११०।३३१३०७:५ ।
क्षेमं चिन्तयताम् अत्र
श्रूयतां च महामुने ॥ ह्व्_११०।३३१३०७:६ ।
मूलम्
नारदस्य वचः श्रुत्वा
कृष्णस् त्व् इदम् अथाब्रवीत् । ह्व्_११०।३३१३०७:५ ।
क्षेमं चिन्तयताम् अत्र
श्रूयतां च महामुने ॥ ह्व्_११०।३३१३०७:६ ।
विश्वास-प्रस्तुतिः
यदि वावतरेद् रुद्रो
बाणसंरक्षणं प्रति । ह्व्_११०।३३१३०७:७ ।
शक्तितो वयम् अप्य् अत्र
सह योत्स्याम तेन वै ॥ ह्व्_११०।३३१३०७:८ ।
मूलम्
यदि वावतरेद् रुद्रो
बाणसंरक्षणं प्रति । ह्व्_११०।३३१३०७:७ ।
शक्तितो वयम् अप्य् अत्र
सह योत्स्याम तेन वै ॥ ह्व्_११०।३३१३०७:८ ।
विश्वास-प्रस्तुतिः
एवं विवदतोस् तत्र
कृष्णनारदयोस् तदा । ह्व्_११०।३३१३०७:९ ।
प्राप्ता निमेषमात्रेण
शीघ्रत्वाद् गरुडेन ते । ह्व्_११०।३३१३०७:१० ।
ततः शङ्खं समानीय
वदने पुष्करेक्षणः ।
([क्: चे प्रिन्त्स् पुप्करेक्षणः :क्])
([क्: after ३४अब्, ब्१ द्२।३ ins.: :क्])
प्रदध्मौ समरे कृष्णो
नादेनापूरयन् दिशः । ह्व्_११०।३४अब्१३०८ ।
वायुवेगेन तं दध्मौ
मेघश् चन्द्रम् इवोद्गिरन् ॥ ह्व्_११०।३४ ॥
मूलम्
एवं विवदतोस् तत्र
कृष्णनारदयोस् तदा । ह्व्_११०।३३१३०७:९ ।
प्राप्ता निमेषमात्रेण
शीघ्रत्वाद् गरुडेन ते । ह्व्_११०।३३१३०७:१० ।
ततः शङ्खं समानीय
वदने पुष्करेक्षणः ।
([क्: चे प्रिन्त्स् पुप्करेक्षणः :क्])
([क्: after ३४अब्, ब्१ द्२।३ ins.: :क्])
प्रदध्मौ समरे कृष्णो
नादेनापूरयन् दिशः । ह्व्_११०।३४अब्१३०८ ।
वायुवेगेन तं दध्मौ
मेघश् चन्द्रम् इवोद्गिरन् ॥ ह्व्_११०।३४ ॥
विश्वास-प्रस्तुतिः
ततः प्रध्माप्य तं शङ्खं
भयम् उत्पाद्य वीर्यवान् ।
([क्: after ३५अब्, त्१।२ ग्१।३-५ म् ग्(एद्।) ins.: :क्])
अग्निं जित्वा तदा विष्णुर्
बाणस्य पुररक्षिणः । ह्व्_११०।३५अब्१३०९ ।
प्रविवेश पुरं कृष्णो
बाणस्याद्भुतकर्मणः ॥ ह्व्_११०।३५ ॥
मूलम्
ततः प्रध्माप्य तं शङ्खं
भयम् उत्पाद्य वीर्यवान् ।
([क्: after ३५अब्, त्१।२ ग्१।३-५ म् ग्(एद्।) ins.: :क्])
अग्निं जित्वा तदा विष्णुर्
बाणस्य पुररक्षिणः । ह्व्_११०।३५अब्१३०९ ।
प्रविवेश पुरं कृष्णो
बाणस्याद्भुतकर्मणः ॥ ह्व्_११०।३५ ॥
विश्वास-प्रस्तुतिः
([क्: त्१।२ ग्१।३-५ ins. after the अद्द्ल्। चोलोफोन्: ग्(एद्।) after ३५: :क्])
{वैशम्पायनः}
ततो बाणपुरं प्राप्य
शङ्खं दध्मौ जनार्दनः । ह्व्_११०।३५१३१०:१ ।
ततो हि बलभद्रस् तु
दध्मौ शङ्खम् अनुत्तमम् ॥ ह्व्_११०।३५१३१०:२ ।
मूलम्
([क्: त्१।२ ग्१।३-५ ins. after the अद्द्ल्। चोलोफोन्: ग्(एद्।) after ३५: :क्])
{वैशम्पायनः}
ततो बाणपुरं प्राप्य
शङ्खं दध्मौ जनार्दनः । ह्व्_११०।३५१३१०:१ ।
ततो हि बलभद्रस् तु
दध्मौ शङ्खम् अनुत्तमम् ॥ ह्व्_११०।३५१३१०:२ ।
विश्वास-प्रस्तुतिः
प्रद्युम्नश् चापि सङ्क्रुद्धो
दध्मौ शङ्खम् अनुत्तमम् । ह्व्_११०।३५१३१०:३ ।
गरुडः पक्षवातेन
बाणसैन्यं व्यधूनयत् ॥ ह्व्_११०।३५१३१०:४ ।
मूलम्
प्रद्युम्नश् चापि सङ्क्रुद्धो
दध्मौ शङ्खम् अनुत्तमम् । ह्व्_११०।३५१३१०:३ ।
गरुडः पक्षवातेन
बाणसैन्यं व्यधूनयत् ॥ ह्व्_११०।३५१३१०:४ ।
विश्वास-प्रस्तुतिः
चतुर्णां च महाराज
सागराणां यथा स्वनः । ह्व्_११०।३५१३१०:५ ।
प्रादुर् बभूव तुमुलः
शब्दो बाणपुरं प्रति । ह्व्_११०।३५१३१०:६ ।
ततः शङ्खप्रणादेन
भेरीणां च महास्वनैः ।
बाणानीकानि सहसा
समनह्यन्त सर्वशः ॥ ह्व्_११०।३६ ॥
मूलम्
चतुर्णां च महाराज
सागराणां यथा स्वनः । ह्व्_११०।३५१३१०:५ ।
प्रादुर् बभूव तुमुलः
शब्दो बाणपुरं प्रति । ह्व्_११०।३५१३१०:६ ।
ततः शङ्खप्रणादेन
भेरीणां च महास्वनैः ।
बाणानीकानि सहसा
समनह्यन्त सर्वशः ॥ ह्व्_११०।३६ ॥
विश्वास-प्रस्तुतिः
ततः किङ्करसैन्यं तद्
अभ्यागात् समरे महत् ।
कोटिशश् चापि बहुधा
दीप्तप्रहरणं तदा ॥ ह्व्_११०।३७ ॥
मूलम्
ततः किङ्करसैन्यं तद्
अभ्यागात् समरे महत् ।
कोटिशश् चापि बहुधा
दीप्तप्रहरणं तदा ॥ ह्व्_११०।३७ ॥
विश्वास-प्रस्तुतिः
तद् असङ्ख्येयम् एकस्थं
महाभ्रघनसन्निभम् ।
नीलाञ्जनचयप्रख्यम्
अप्रमेयं तथाक्षयम् ॥ ह्व्_११०।३८ ॥
मूलम्
तद् असङ्ख्येयम् एकस्थं
महाभ्रघनसन्निभम् ।
नीलाञ्जनचयप्रख्यम्
अप्रमेयं तथाक्षयम् ॥ ह्व्_११०।३८ ॥
विश्वास-प्रस्तुतिः
ते प्रदीप्तप्रहरणा
दैत्यदानवराक्षसाः ।
प्रमाथगणमुख्याश् च
ते ऽयुध्यन् कृष्णसङ्गताः ॥ ह्व्_११०।३९ ॥
मूलम्
ते प्रदीप्तप्रहरणा
दैत्यदानवराक्षसाः ।
प्रमाथगणमुख्याश् च
ते ऽयुध्यन् कृष्णसङ्गताः ॥ ह्व्_११०।३९ ॥
विश्वास-प्रस्तुतिः
सर्वतस् तैः प्रदीप्तास्यैः
सार्चिष्मद्भिर् इवानलैः ।
([क्: after ४०अब्, Ñ२।३ व्१।३ ब् द्न् द्४-६ त्१ ग्१।३-५ ins.: :क्])
अभ्युपेत्य तदात्युग्रैर्
यक्षराक्षसकिन्नरैः । ह्व्_११०।४०अब्१३११ ।
आपीयत तदा रक्तं
चतुर्णाम् अपि संयुगे ॥ ह्व्_११०।४० ॥
मूलम्
सर्वतस् तैः प्रदीप्तास्यैः
सार्चिष्मद्भिर् इवानलैः ।
([क्: after ४०अब्, Ñ२।३ व्१।३ ब् द्न् द्४-६ त्१ ग्१।३-५ ins.: :क्])
अभ्युपेत्य तदात्युग्रैर्
यक्षराक्षसकिन्नरैः । ह्व्_११०।४०अब्१३११ ।
आपीयत तदा रक्तं
चतुर्णाम् अपि संयुगे ॥ ह्व्_११०।४० ॥
विश्वास-प्रस्तुतिः
ततो रामो महाबाहुः
केशवं वाक्यम् अब्रवीत् ।
([क्: फ़ोर् ४१अब्, क् Ñ२।३ व् ब् द् त्४ ग्(एद्।) सुब्स्त्।: :क्])
तद्बलं तु समासाद्य
बलभद्रो महाबलः । ह्व्_११०।४१अब्१३१२:१ ।
प्रोवाच वचनं तत्र
परस्य बलनाशनम् । ह्व्_११०।४१अब्१३१२:२ ।
कृष्ण कृष्ण महाबाहो
विधत्स्वैषां महद् भयम् ॥ ह्व्_११०।४१ ॥
मूलम्
ततो रामो महाबाहुः
केशवं वाक्यम् अब्रवीत् ।
([क्: फ़ोर् ४१अब्, क् Ñ२।३ व् ब् द् त्४ ग्(एद्।) सुब्स्त्।: :क्])
तद्बलं तु समासाद्य
बलभद्रो महाबलः । ह्व्_११०।४१अब्१३१२:१ ।
प्रोवाच वचनं तत्र
परस्य बलनाशनम् । ह्व्_११०।४१अब्१३१२:२ ।
कृष्ण कृष्ण महाबाहो
विधत्स्वैषां महद् भयम् ॥ ह्व्_११०।४१ ॥
विश्वास-प्रस्तुतिः
इति सञ्चोदितः कृष्णो
बलभद्रेण धीमता ।
तेषां वधार्थम् आग्नेयं
जग्राह पुरुषोत्तमः ॥
मूलम्
इति सञ्चोदितः कृष्णो
बलभद्रेण धीमता ।
तेषां वधार्थम् आग्नेयं
जग्राह पुरुषोत्तमः ॥
विश्वास-प्रस्तुतिः
अस्त्रम् अस्त्रविदां श्रेष्ठो
यमान्तकसमप्रभम् ॥ ह्व्_११०।४२ ॥
मूलम्
अस्त्रम् अस्त्रविदां श्रेष्ठो
यमान्तकसमप्रभम् ॥ ह्व्_११०।४२ ॥
विश्वास-प्रस्तुतिः
स विधूयासुरगणान्
क्रव्यादान् अस्त्रतेजसा ।
प्रययौ त्वरया युक्तो
यतो ऽदृश्यत तद्बलम् ॥ ह्व्_११०।४३ ॥
मूलम्
स विधूयासुरगणान्
क्रव्यादान् अस्त्रतेजसा ।
प्रययौ त्वरया युक्तो
यतो ऽदृश्यत तद्बलम् ॥ ह्व्_११०।४३ ॥
विश्वास-प्रस्तुतिः
शूलपट्टिसशक्त्यृष्टि+
+पिनाकपरिघायुधम् ।
प्रमाथगणभूयिष्ठं
बलं तद् अभवत् क्षितौ ॥ ह्व्_११०।४४ ॥
मूलम्
शूलपट्टिसशक्त्यृष्टि+
+पिनाकपरिघायुधम् ।
प्रमाथगणभूयिष्ठं
बलं तद् अभवत् क्षितौ ॥ ह्व्_११०।४४ ॥
विश्वास-प्रस्तुतिः
शैलमेघप्रतीकाशैर्
नानारूपैर् भयानकैः ।
([क्: after ४५अब्, त्२ ग्१।३-५ म् ग्(एद्।) ins.: :क्])
वेताऌऐश् च पिशाचैश् च
भक्षयद्भिश् च मांसकम् । ह्व्_११०।४५अब्१३१३ ।
वाहनैः सङ्घशः सर्वे
योधास् तत्रावतस्थिरे ॥
मूलम्
शैलमेघप्रतीकाशैर्
नानारूपैर् भयानकैः ।
([क्: after ४५अब्, त्२ ग्१।३-५ म् ग्(एद्।) ins.: :क्])
वेताऌऐश् च पिशाचैश् च
भक्षयद्भिश् च मांसकम् । ह्व्_११०।४५अब्१३१३ ।
वाहनैः सङ्घशः सर्वे
योधास् तत्रावतस्थिरे ॥
विश्वास-प्रस्तुतिः
वातोद्धूतैर् इव घनैर्
विप्रकीर्णैर् इवाचलैः ॥ ह्व्_११०।४५ ॥
मूलम्
वातोद्धूतैर् इव घनैर्
विप्रकीर्णैर् इवाचलैः ॥ ह्व्_११०।४५ ॥
विश्वास-प्रस्तुतिः
([क्: after ४५, क् Ñ२।३ व् ब् द् त्४ ग्५ ins.: :क्])
शुशुभे तत्र बहुलैर्
अनीकैर् बहुधान्विभिः । ह्व्_११०।४५१३१४:१ ।
मुसलैर् असिभिः शूलैर्
गदाभिः परिघैस् तथा ॥ ह्व्_११०।४५१३१४:२ ।
मूलम्
([क्: after ४५, क् Ñ२।३ व् ब् द् त्४ ग्५ ins.: :क्])
शुशुभे तत्र बहुलैर्
अनीकैर् बहुधान्विभिः । ह्व्_११०।४५१३१४:१ ।
मुसलैर् असिभिः शूलैर्
गदाभिः परिघैस् तथा ॥ ह्व्_११०।४५१३१४:२ ।
विश्वास-प्रस्तुतिः
अधावत् तद् असङ्ख्येयं
शुशुभे सर्वतो बलम् । ह्व्_११०।४५१३१४:३ ।
ततः सङ्कर्षणो देवम्
उवाच मधुसूदनम् । ह्व्_११०।४५१३१४:४ ।
वैनतेयगतो रामस्
तान् दृष्ट्वा कृष्णम् अब्रवीत् ।
कृष्ण कृष्ण महाबाहो
यद् एतद् दृश्यते बलम् ॥
मूलम्
अधावत् तद् असङ्ख्येयं
शुशुभे सर्वतो बलम् । ह्व्_११०।४५१३१४:३ ।
ततः सङ्कर्षणो देवम्
उवाच मधुसूदनम् । ह्व्_११०।४५१३१४:४ ।
वैनतेयगतो रामस्
तान् दृष्ट्वा कृष्णम् अब्रवीत् ।
कृष्ण कृष्ण महाबाहो
यद् एतद् दृश्यते बलम् ॥
विश्वास-प्रस्तुतिः
एतैः सह रणे योद्धुम्
इच्छामि पुरुषोत्तम ॥ ह्व्_११०।४६ ॥
मूलम्
एतैः सह रणे योद्धुम्
इच्छामि पुरुषोत्तम ॥ ह्व्_११०।४६ ॥
विश्वास-प्रस्तुतिः
([क्: after ४६, त्१।२ ग्१।४।५ म्१-३ ins.: :क्])
इति ब्रुवाणं रामं तं
कृष्णो वचनम् अब्रवीत् । ह्व्_११०।४६१३१५ ।
ममाप्य् एषैव सञ्जाता
बुद्धिर् इत्य् अब्रवीच् च तम् ।
([क्: फ़ोर् ४७अब्, श्१ सुब्स्त्।: :क्])
एषो ऽभिलषितः कामः
प्राग् एव हि ममाभवत् । ह्व्_११०।४७अब्१३१६ ।
एभिः सह समागन्तुम्
इच्छेयं युद्धदुर्मदैः ॥ ह्व्_११०।४७ ॥
मूलम्
([क्: after ४६, त्१।२ ग्१।४।५ म्१-३ ins.: :क्])
इति ब्रुवाणं रामं तं
कृष्णो वचनम् अब्रवीत् । ह्व्_११०।४६१३१५ ।
ममाप्य् एषैव सञ्जाता
बुद्धिर् इत्य् अब्रवीच् च तम् ।
([क्: फ़ोर् ४७अब्, श्१ सुब्स्त्।: :क्])
एषो ऽभिलषितः कामः
प्राग् एव हि ममाभवत् । ह्व्_११०।४७अब्१३१६ ।
एभिः सह समागन्तुम्
इच्छेयं युद्धदुर्मदैः ॥ ह्व्_११०।४७ ॥
विश्वास-प्रस्तुतिः
युध्यतः प्राङ्मुखस्यास्तु
सुपर्णो वै ममाग्रतः ।
सव्ये पार्श्वे च प्रद्युम्नस्
तथा मे दक्षिणे भवान् ॥ ह्व्_११०।४८ ॥
मूलम्
युध्यतः प्राङ्मुखस्यास्तु
सुपर्णो वै ममाग्रतः ।
सव्ये पार्श्वे च प्रद्युम्नस्
तथा मे दक्षिणे भवान् ॥ ह्व्_११०।४८ ॥
विश्वास-प्रस्तुतिः
रक्षितव्यम् अथान्योन्यम्
अस्मिन् घोरे महामृधे ।
एवं ब्रुवन्तस् ते ऽन्योन्यम्
अधिरूढाः खगोत्तमम् ॥ ह्व्_११०।४९ ॥
मूलम्
रक्षितव्यम् अथान्योन्यम्
अस्मिन् घोरे महामृधे ।
एवं ब्रुवन्तस् ते ऽन्योन्यम्
अधिरूढाः खगोत्तमम् ॥ ह्व्_११०।४९ ॥
विश्वास-प्रस्तुतिः
([क्: after ४९, स् (एxचेप्त् त्४; त्३ ग्२ मिस्सिन्ग्) ins.: :क्])
ततो युद्धं महच् चक्रे
लाङ्गलेनाथ लाङ्गली । ह्व्_११०।४९१३१७:१ ।
सहस्रम् अयुतं रामो
जघान दितिनन्दनान् । ह्व्_११०।४९१३१७:२ ।
गिरिशृङ्गनिभैर् युद्धे
गदामुसललाङ्गलैः ।
युध्यतो रौहिणेयस्य
रौद्रं रूपम् अभूत् तदा ॥
मूलम्
([क्: after ४९, स् (एxचेप्त् त्४; त्३ ग्२ मिस्सिन्ग्) ins.: :क्])
ततो युद्धं महच् चक्रे
लाङ्गलेनाथ लाङ्गली । ह्व्_११०।४९१३१७:१ ।
सहस्रम् अयुतं रामो
जघान दितिनन्दनान् । ह्व्_११०।४९१३१७:२ ।
गिरिशृङ्गनिभैर् युद्धे
गदामुसललाङ्गलैः ।
युध्यतो रौहिणेयस्य
रौद्रं रूपम् अभूत् तदा ॥
विश्वास-प्रस्तुतिः
युगान्ते सर्वभूतानि
कालस्येव दिधक्षतः ॥ ह्व्_११०।५० ॥
मूलम्
युगान्ते सर्वभूतानि
कालस्येव दिधक्षतः ॥ ह्व्_११०।५० ॥
विश्वास-प्रस्तुतिः
आकृष्य लाङ्गलाग्रेण
मुसलेन व्यपोथयत् ।
चरत्य् अतिबलो युद्धे
युद्धमार्गविशारदः ॥ ह्व्_११०।५१ ॥
मूलम्
आकृष्य लाङ्गलाग्रेण
मुसलेन व्यपोथयत् ।
चरत्य् अतिबलो युद्धे
युद्धमार्गविशारदः ॥ ह्व्_११०।५१ ॥
विश्वास-प्रस्तुतिः
प्रद्युम्नः शरजालैस् तान्
समन्तात् प्रत्यवारयत् ।
दानवान् पुरुषव्याघ्रो
युद्यमानान् सहस्रशः ॥ ह्व्_११०।५२ ॥
मूलम्
प्रद्युम्नः शरजालैस् तान्
समन्तात् प्रत्यवारयत् ।
दानवान् पुरुषव्याघ्रो
युद्यमानान् सहस्रशः ॥ ह्व्_११०।५२ ॥
विश्वास-प्रस्तुतिः
स्निग्धाञ्जनचयप्रख्यः
शङ्खचक्रगदाधरः ।
प्रध्माप्य बहुशः शङ्खम्
अयुध्यत जनार्दनः ॥ ह्व्_११०।५३ ॥
मूलम्
स्निग्धाञ्जनचयप्रख्यः
शङ्खचक्रगदाधरः ।
प्रध्माप्य बहुशः शङ्खम्
अयुध्यत जनार्दनः ॥ ह्व्_११०।५३ ॥
विश्वास-प्रस्तुतिः
पक्षप्रहाराभिहतांस्
तुण्डाग्रनखविक्षतान् ।
अकरोत् समरे शत्रून्
वैनतेयः प्रतापवान् ॥ ह्व्_११०।५४ ॥
मूलम्
पक्षप्रहाराभिहतांस्
तुण्डाग्रनखविक्षतान् ।
अकरोत् समरे शत्रून्
वैनतेयः प्रतापवान् ॥ ह्व्_११०।५४ ॥
विश्वास-प्रस्तुतिः
([क्: क् Ñ२।३ व्१।२ ब्२।३ द्न् द्१-५ त्४ ग्५ सुब्स्त्। फ़ोर् ५४cd: द्स्१ ins. after ५४: द्स्२ after ५४अब्: :क्])
नीता वैवस्वतमुखं
वैनतेयेन धीमता । ह्व्_११०।५४१३१८ ।
तैर् हन्यमानं दैत्यानाम्
अनीकं भीमविक्रमैः ।
अभज्यत तदा सङ्ख्ये
बाणवर्षसमाहतम् ॥ ह्व्_११०।५५ ॥
मूलम्
([क्: क् Ñ२।३ व्१।२ ब्२।३ द्न् द्१-५ त्४ ग्५ सुब्स्त्। फ़ोर् ५४cd: द्स्१ ins. after ५४: द्स्२ after ५४अब्: :क्])
नीता वैवस्वतमुखं
वैनतेयेन धीमता । ह्व्_११०।५४१३१८ ।
तैर् हन्यमानं दैत्यानाम्
अनीकं भीमविक्रमैः ।
अभज्यत तदा सङ्ख्ये
बाणवर्षसमाहतम् ॥ ह्व्_११०।५५ ॥
विश्वास-प्रस्तुतिः
([क्: after ५५, त्१।२ ग्१।३-५ म् ins.: :क्])
निर्जित्य कैङ्करं सैन्यं
हरिर् लोकनमस्कृतः । ह्व्_११०।५५१३१९:१ ।
पाञ्चजान्यं महाशङ्खं
दध्मौ दैत्यभयङ्करम् । ह्व्_११०।५५१३१९:२ ।
भज्यमानेष्व् अनीकेषु
त्रातुकामः समभ्ययात् ।
([क्: after ५६अब्, द्स्१(मर्ग्।) ins.: :क्])
एतस्मिन्न् अन्तरे राजन्
नारदः प्रययौ रणात् । ह्व्_११०।५६अब्१३२०:१ ।
कैलासं मेरुसङ्काशं
दृष्टो रुद्रेण पूजितः । ह्व्_११०।५६अब्१३२०:२ ।
पृष्टः किम् इह देवर्षे
सम्प्राप्तस् तद् वदस्व मे ॥ ह्व्_११०।५६अब्१३२०:३ ।
मूलम्
([क्: after ५५, त्१।२ ग्१।३-५ म् ins.: :क्])
निर्जित्य कैङ्करं सैन्यं
हरिर् लोकनमस्कृतः । ह्व्_११०।५५१३१९:१ ।
पाञ्चजान्यं महाशङ्खं
दध्मौ दैत्यभयङ्करम् । ह्व्_११०।५५१३१९:२ ।
भज्यमानेष्व् अनीकेषु
त्रातुकामः समभ्ययात् ।
([क्: after ५६अब्, द्स्१(मर्ग्।) ins.: :क्])
एतस्मिन्न् अन्तरे राजन्
नारदः प्रययौ रणात् । ह्व्_११०।५६अब्१३२०:१ ।
कैलासं मेरुसङ्काशं
दृष्टो रुद्रेण पूजितः । ह्व्_११०।५६अब्१३२०:२ ।
पृष्टः किम् इह देवर्षे
सम्प्राप्तस् तद् वदस्व मे ॥ ह्व्_११०।५६अब्१३२०:३ ।
विश्वास-प्रस्तुतिः
{नारदः}
बाणः संहन्यते देव
कृष्णेन हलिना किल । ह्व्_११०।५६अब्१३२०:५ ।
तस्य सर्वम् अनीकं तु
भग्नं तन् नावतिष्ठति ॥ ह्व्_११०।५६अब्१३२०:६ ।
मूलम्
{नारदः}
बाणः संहन्यते देव
कृष्णेन हलिना किल । ह्व्_११०।५६अब्१३२०:५ ।
तस्य सर्वम् अनीकं तु
भग्नं तन् नावतिष्ठति ॥ ह्व्_११०।५६अब्१३२०:६ ।
विश्वास-प्रस्तुतिः
किं वर्तसे ऽद्य निश्चिन्तो
भर्तस् ते पीड्यते किल । ह्व्_११०।५६अब्१३२०:७ ।
कुरुष्व तस्य साहाय्यं
भक्ताधीनो भवान् इति ॥ ह्व्_११०।५६अब्१३२०:८ ।
मूलम्
किं वर्तसे ऽद्य निश्चिन्तो
भर्तस् ते पीड्यते किल । ह्व्_११०।५६अब्१३२०:७ ।
कुरुष्व तस्य साहाय्यं
भक्ताधीनो भवान् इति ॥ ह्व्_११०।५६अब्१३२०:८ ।
विश्वास-प्रस्तुतिः
{वैशम्पायनः}
नारदस्य वचः श्रुत्वा
हरः प्रस्फुरिताधरः । ह्व्_११०।५६अब्१३२०:९ ।
निश्वासं मुमुचे राजन्न्
अस्तः कश् चिद् विनिर्गतः ॥ ह्व्_११०।५६अब्१३२०:१० ।
मूलम्
{वैशम्पायनः}
नारदस्य वचः श्रुत्वा
हरः प्रस्फुरिताधरः । ह्व्_११०।५६अब्१३२०:९ ।
निश्वासं मुमुचे राजन्न्
अस्तः कश् चिद् विनिर्गतः ॥ ह्व्_११०।५६अब्१३२०:१० ।
विश्वास-प्रस्तुतिः
तं किं करोमीति हरं
पृच्छन्तं प्राह भूतपः । ह्व्_११०।५६अब्१३२०:११ ।
गच्छ बाणपुरं शीघ्रं
जहि कृष्णहलायुधौ ॥ ह्व्_११०।५६अब्१३२०:१२ ।
मूलम्
तं किं करोमीति हरं
पृच्छन्तं प्राह भूतपः । ह्व्_११०।५६अब्१३२०:११ ।
गच्छ बाणपुरं शीघ्रं
जहि कृष्णहलायुधौ ॥ ह्व्_११०।५६अब्१३२०:१२ ।
विश्वास-प्रस्तुतिः
तथेत्य् अन्तर्दधे सो ऽपि
ययौ यत्र हरिर् हली । ह्व्_११०।५६अब्१३२०:१३ ।
प्रमथान् आह रुद्रस् तु
सज्जा भवत सत्तमाः ॥ ह्व्_११०।५६अब्१३२०:१४ ।
मूलम्
तथेत्य् अन्तर्दधे सो ऽपि
ययौ यत्र हरिर् हली । ह्व्_११०।५६अब्१३२०:१३ ।
प्रमथान् आह रुद्रस् तु
सज्जा भवत सत्तमाः ॥ ह्व्_११०।५६अब्१३२०:१४ ।
विश्वास-प्रस्तुतिः
सज्जैर् गच्छत मात्स्यार्द्धो (?)
मयूरोन्दरवाहनौ । ह्व्_११०।५६अब्१३२०:१५ ।
गच्छ नारद तत्र त्वं
बाणम् आश्वासय प्रभो ॥ ह्व्_११०।५६अब्१३२०:१६ ।
मूलम्
सज्जैर् गच्छत मात्स्यार्द्धो (?)
मयूरोन्दरवाहनौ । ह्व्_११०।५६अब्१३२०:१५ ।
गच्छ नारद तत्र त्वं
बाणम् आश्वासय प्रभो ॥ ह्व्_११०।५६अब्१३२०:१६ ।
विश्वास-प्रस्तुतिः
एष माम् आगतं पश्य
त्वत्कृते दैत्यसत्तम । ह्व्_११०।५६अब्१३२०:१७ ।
घातयामि यदुश्रेष्ठौ
प्राप्तौ याव् इह मन्दधीः ॥ ह्व्_११०।५६अब्१३२०:१८ ।
मूलम्
एष माम् आगतं पश्य
त्वत्कृते दैत्यसत्तम । ह्व्_११०।५६अब्१३२०:१७ ।
घातयामि यदुश्रेष्ठौ
प्राप्तौ याव् इह मन्दधीः ॥ ह्व्_११०।५६अब्१३२०:१८ ।
विश्वास-प्रस्तुतिः
तथेति नारदः प्राप्तो
बाणायावेदयत् तदा । ह्व्_११०।५६अब्१३२०:१९ ।
पुनर् ययौ कृष्णपार्श्वं
खेचरो वा गरुत्मनि ॥ ह्व्_११०।५६अब्१३२०:२० ।
मूलम्
तथेति नारदः प्राप्तो
बाणायावेदयत् तदा । ह्व्_११०।५६अब्१३२०:१९ ।
पुनर् ययौ कृष्णपार्श्वं
खेचरो वा गरुत्मनि ॥ ह्व्_११०।५६अब्१३२०:२० ।
विश्वास-प्रस्तुतिः
कारयाम् आस रुद्रस् तु
प्रयानोद्योगम् उत्तमम् ॥ ह्व्_११०।५६अब्१३२०:२१ ।
मूलम्
कारयाम् आस रुद्रस् तु
प्रयानोद्योगम् उत्तमम् ॥ ह्व्_११०।५६अब्१३२०:२१ ।
विश्वास-प्रस्तुतिः
ज्वरस् तु रणम् आगत्य
ददर्श हलिनं रणे । ह्व्_११०।५६अब्१३२०:२२ ।
घ्नन्तं दानवदैतेयांस्
तं हन्तुं स समागतः । ह्व्_११०।५६अब्१३२०:२३ ।
ज्वरस् त्रिपादस् त्रिशिरास्
तदा समरदुर्जयः ॥ ह्व्_११०।५६ ॥
मूलम्
ज्वरस् तु रणम् आगत्य
ददर्श हलिनं रणे । ह्व्_११०।५६अब्१३२०:२२ ।
घ्नन्तं दानवदैतेयांस्
तं हन्तुं स समागतः । ह्व्_११०।५६अब्१३२०:२३ ।
ज्वरस् त्रिपादस् त्रिशिरास्
तदा समरदुर्जयः ॥ ह्व्_११०।५६ ॥
विश्वास-प्रस्तुतिः
भस्मप्रहरणो घोरः
कालान्तकयमोपमः ।
नदन् मेघसहस्रस्य
तुल्यनिर्घातनिस्वनः ॥ ह्व्_११०।५७ ॥
मूलम्
भस्मप्रहरणो घोरः
कालान्तकयमोपमः ।
नदन् मेघसहस्रस्य
तुल्यनिर्घातनिस्वनः ॥ ह्व्_११०।५७ ॥
विश्वास-प्रस्तुतिः
हलायुधम् अभिक्रुद्धः
साक्षेपम् इदम् अब्रवीत् ।
([क्: after ५८अब्, त्१ ग्१।३-५ ins.: :क्])
किं मां युध्यसि दुर्बुद्धे
बलवन्तं महास्वनम् । ह्व्_११०।५८अब्१३२१ ।
किम् एवं बलमत्तो ऽसि
न मां पश्यसि संयुगे ॥
मूलम्
हलायुधम् अभिक्रुद्धः
साक्षेपम् इदम् अब्रवीत् ।
([क्: after ५८अब्, त्१ ग्१।३-५ ins.: :क्])
किं मां युध्यसि दुर्बुद्धे
बलवन्तं महास्वनम् । ह्व्_११०।५८अब्१३२१ ।
किम् एवं बलमत्तो ऽसि
न मां पश्यसि संयुगे ॥
विश्वास-प्रस्तुतिः
तिष्ठ तिष्ठ न मे जीवन्
मोक्ष्यसे रणमूर्धनि ॥ ह्व्_११०।५८ ॥
मूलम्
तिष्ठ तिष्ठ न मे जीवन्
मोक्ष्यसे रणमूर्धनि ॥ ह्व्_११०।५८ ॥
विश्वास-प्रस्तुतिः
इत्य् एवम् उक्त्वा प्रहसन्
हलायुधम् अभिद्रवत् ।
युगान्ताग्निनिभैर् घोरैर्
मुष्टिभिर् जनयन् भयम् ॥ ह्व्_११०।५९ ॥
मूलम्
इत्य् एवम् उक्त्वा प्रहसन्
हलायुधम् अभिद्रवत् ।
युगान्ताग्निनिभैर् घोरैर्
मुष्टिभिर् जनयन् भयम् ॥ ह्व्_११०।५९ ॥
विश्वास-प्रस्तुतिः
चरतस् तस्य सङ्ग्रामे
मण्डलानि सहस्रशः ।
रौहिणेयस्य शैघ्र्येण
नावस्थानम् अदृश्यत ॥ ह्व्_११०।६० ॥
मूलम्
चरतस् तस्य सङ्ग्रामे
मण्डलानि सहस्रशः ।
रौहिणेयस्य शैघ्र्येण
नावस्थानम् अदृश्यत ॥ ह्व्_११०।६० ॥
विश्वास-प्रस्तुतिः
([क्: after ६०, द्६ त्१।४ ग्१।३-५ म् ins.: :क्])
सव्येन बाहुना भस्म
चिक्षेप बलवक्षसि । ह्व्_११०।६०१३२२ ।
तस्य भस्म तदा क्षिप्तं
ज्वरेणाप्रतिमौजसा ।
शैघ्र्याल् लक्ष्ये निपतितं
शरीरे पर्वतोपमे ॥ ह्व्_११०।६१ ॥
मूलम्
([क्: after ६०, द्६ त्१।४ ग्१।३-५ म् ins.: :क्])
सव्येन बाहुना भस्म
चिक्षेप बलवक्षसि । ह्व्_११०।६०१३२२ ।
तस्य भस्म तदा क्षिप्तं
ज्वरेणाप्रतिमौजसा ।
शैघ्र्याल् लक्ष्ये निपतितं
शरीरे पर्वतोपमे ॥ ह्व्_११०।६१ ॥
विश्वास-प्रस्तुतिः
तद् भस्म वक्षसस् तस्य
मेरोः शिखरम् आगतम् ।
प्रदीप्तं पतितं तत् तु
गिरिशृङ्गं व्यदारयत् ॥ ह्व्_११०।६२ ॥
मूलम्
तद् भस्म वक्षसस् तस्य
मेरोः शिखरम् आगतम् ।
प्रदीप्तं पतितं तत् तु
गिरिशृङ्गं व्यदारयत् ॥ ह्व्_११०।६२ ॥
विश्वास-प्रस्तुतिः
रोषेणाभिप्रजज्वाल
भस्मना कृष्णपूर्वजः ।
निःश्वसञ् जृम्भमाणश् च
निद्रान्विततनुर् मुहुः ॥ ह्व्_११०।६३ ॥
मूलम्
रोषेणाभिप्रजज्वाल
भस्मना कृष्णपूर्वजः ।
निःश्वसञ् जृम्भमाणश् च
निद्रान्विततनुर् मुहुः ॥ ह्व्_११०।६३ ॥
विश्वास-प्रस्तुतिः
नेत्रयोर् आकुलत्वं च
मुहुः कुर्वन् भ्रमंस् तदा ।
संहृष्टलोमा ग्लानाक्षः
क्षिप्तचित्त इव श्वसन् ॥ ह्व्_११०।६४ ॥
मूलम्
नेत्रयोर् आकुलत्वं च
मुहुः कुर्वन् भ्रमंस् तदा ।
संहृष्टलोमा ग्लानाक्षः
क्षिप्तचित्त इव श्वसन् ॥ ह्व्_११०।६४ ॥
विश्वास-प्रस्तुतिः
ततो हलधरो मत्तः
कृष्णम् आह विचेतनः ।
कृष्ण कृष्ण महाबाहो
प्रदीप्तो ऽस्म्य् अभयङ्कर ॥
मूलम्
ततो हलधरो मत्तः
कृष्णम् आह विचेतनः ।
कृष्ण कृष्ण महाबाहो
प्रदीप्तो ऽस्म्य् अभयङ्कर ॥
विश्वास-प्रस्तुतिः
दह्यामि सर्वतस् तात
कथं शान्तिर् भवेन् मम ॥ ह्व्_११०।६५ ॥
मूलम्
दह्यामि सर्वतस् तात
कथं शान्तिर् भवेन् मम ॥ ह्व्_११०।६५ ॥
विश्वास-प्रस्तुतिः
इत्य् एवम् उक्ते वचने
परिष्वक्तो हलायुधः ।
([क्: after ६६अ, न् (एxचेप्त् श्१ Ñ१) त्४ ग्५ ins.: :क्])
बलेनामिततेजसा । ह्व्_११०।६६अ१३२३:१ ।*
प्रहस्य वचनं प्राह
कृष्णः प्रहरतां वरः । ह्व्_११०।६६अ१३२३:२ ।
न भेतव्यम् इतीत्युक्त्वा । ह्व्_११०।६६अ१३२३:३ ।*
कृष्णेन परमस्नेहात्
ततो दाहात् प्रमुच्यत ॥ ह्व्_११०।६६ ॥
मूलम्
इत्य् एवम् उक्ते वचने
परिष्वक्तो हलायुधः ।
([क्: after ६६अ, न् (एxचेप्त् श्१ Ñ१) त्४ ग्५ ins.: :क्])
बलेनामिततेजसा । ह्व्_११०।६६अ१३२३:१ ।*
प्रहस्य वचनं प्राह
कृष्णः प्रहरतां वरः । ह्व्_११०।६६अ१३२३:२ ।
न भेतव्यम् इतीत्युक्त्वा । ह्व्_११०।६६अ१३२३:३ ।*
कृष्णेन परमस्नेहात्
ततो दाहात् प्रमुच्यत ॥ ह्व्_११०।६६ ॥
विश्वास-प्रस्तुतिः
([क्: Wहिले न् (एxचेप्त् श्१ Ñ१) ins. after ६६: ग्१।५ after लिने १ of १३२६*: :क्])
मोक्षयित्वा बलं तत्र
दाहात् तु मधुसूदनः । ह्व्_११०।६६१३२५ ।
प्रोवाच परमक्रुद्धो
वासुदेवो ज्वरं तदा ।
([क्: त्१।२ ग्१।३।४ म् सुब्स्त्। फ़ोर् ६७अब्: ग्५ ins. after ६७अब्: ग्(एद्।) after १३२५*: :क्])
बलभद्रो हृषीकेशाच्
छान्तिं प्राप्तस् तदा रणे ॥ ह्व्_११०।६७अब्१३२६:१ ।
मूलम्
([क्: Wहिले न् (एxचेप्त् श्१ Ñ१) ins. after ६६: ग्१।५ after लिने १ of १३२६*: :क्])
मोक्षयित्वा बलं तत्र
दाहात् तु मधुसूदनः । ह्व्_११०।६६१३२५ ।
प्रोवाच परमक्रुद्धो
वासुदेवो ज्वरं तदा ।
([क्: त्१।२ ग्१।३।४ म् सुब्स्त्। फ़ोर् ६७अब्: ग्५ ins. after ६७अब्: ग्(एद्।) after १३२५*: :क्])
बलभद्रो हृषीकेशाच्
छान्तिं प्राप्तस् तदा रणे ॥ ह्व्_११०।६७अब्१३२६:१ ।
विश्वास-प्रस्तुतिः
तयोर् अन्तरम् आसाद्य
तस्थौ युद्धाय केशवः । ह्व्_११०।६७अब्१३२६:२ ।
व्याविध्य सहसा बाहुं
ज्वरम् एतद् उवाच ह । ह्व्_११०।६७अब्१३२६:३ ।
एह्य् एहि ज्वर युध्यस्व
या ते शक्तिर् महामृधे ॥
मूलम्
तयोर् अन्तरम् आसाद्य
तस्थौ युद्धाय केशवः । ह्व्_११०।६७अब्१३२६:२ ।
व्याविध्य सहसा बाहुं
ज्वरम् एतद् उवाच ह । ह्व्_११०।६७अब्१३२६:३ ।
एह्य् एहि ज्वर युध्यस्व
या ते शक्तिर् महामृधे ॥
विश्वास-प्रस्तुतिः
तां दर्शयस्व समरे
मयि युद्धविशारद ॥ ह्व्_११०।६७ ॥
मूलम्
तां दर्शयस्व समरे
मयि युद्धविशारद ॥ ह्व्_११०।६७ ॥
विश्वास-प्रस्तुतिः
([क्: ग्५ ग्(एद्।) चोन्त्।: त्१।२ ग्१।३।४ म् ins. after ६७: :क्])
ततः क्रुद्धो ज्वरो राजन्
दुःखानाम् अग्रणीर् हरिम् । ह्व्_११०।६७१३२८ ।
सव्येतराभ्यां बाहुभ्याम्
एवम् उक्तो ज्वरस् तदा ।
चिक्षेप चैनं तद् भस्म
ज्वालागर्भं महागदः ॥ ह्व्_११०।६८ ॥
मूलम्
([क्: ग्५ ग्(एद्।) चोन्त्।: त्१।२ ग्१।३।४ म् ins. after ६७: :क्])
ततः क्रुद्धो ज्वरो राजन्
दुःखानाम् अग्रणीर् हरिम् । ह्व्_११०।६७१३२८ ।
सव्येतराभ्यां बाहुभ्याम्
एवम् उक्तो ज्वरस् तदा ।
चिक्षेप चैनं तद् भस्म
ज्वालागर्भं महागदः ॥ ह्व्_११०।६८ ॥
विश्वास-प्रस्तुतिः
([क्: after ६८, त्१।२ ग्१।३-५ म् ins.: :क्])
भस्मना विद्धदेहस् तु
देवदेवो जनार्दनः । ह्व्_११०।६८१३२९ ।
ततः प्रदीप्तस् तु विभुर्
मुहूर्तम् अभवत् तदा ।
कृष्णः प्रहरतां श्रेष्ठः
शमं चाग्निर् गतः पुनः ॥ ह्व्_११०।६९ ॥
मूलम्
([क्: after ६८, त्१।२ ग्१।३-५ म् ins.: :क्])
भस्मना विद्धदेहस् तु
देवदेवो जनार्दनः । ह्व्_११०।६८१३२९ ।
ततः प्रदीप्तस् तु विभुर्
मुहूर्तम् अभवत् तदा ।
कृष्णः प्रहरतां श्रेष्ठः
शमं चाग्निर् गतः पुनः ॥ ह्व्_११०।६९ ॥
विश्वास-प्रस्तुतिः
ततस् तैर् भुजगाकारैर्
बाहुभिस् तु त्रिभिस् तदा ।
जघान कृष्णं ग्रीवायां
मुष्टिनैकेन चोरसि ॥ ह्व्_११०।७० ॥
मूलम्
ततस् तैर् भुजगाकारैर्
बाहुभिस् तु त्रिभिस् तदा ।
जघान कृष्णं ग्रीवायां
मुष्टिनैकेन चोरसि ॥ ह्व्_११०।७० ॥
विश्वास-प्रस्तुतिः
([क्: after ७०, द्६ स् (त्३ ग्२ मिस्सिन्ग्) ग्(एद्।) ins.: :क्])
ततः क्रुद्धो हृषीकेशो
मुष्टिना निजघान तम् । ह्व्_११०।७०१३३०:१ ।
वक्षःस्थले स भूतात्मा
मूर्ध्नि चैव पुनः पुनः ॥ ह्व्_११०।७०१३३०:२ ।
मूलम्
([क्: after ७०, द्६ स् (त्३ ग्२ मिस्सिन्ग्) ग्(एद्।) ins.: :क्])
ततः क्रुद्धो हृषीकेशो
मुष्टिना निजघान तम् । ह्व्_११०।७०१३३०:१ ।
वक्षःस्थले स भूतात्मा
मूर्ध्नि चैव पुनः पुनः ॥ ह्व्_११०।७०१३३०:२ ।
विश्वास-प्रस्तुतिः
ततो ज्वरः समाविध्य
बाहू धमनिसन्ततौ । ह्व्_११०।७०१३३०:३ ।
ताभ्यां वक्षः समाहत्य
ददम्श च यदूत्तमम् ॥ ह्व्_११०।७०१३३०:४ ।
मूलम्
ततो ज्वरः समाविध्य
बाहू धमनिसन्ततौ । ह्व्_११०।७०१३३०:३ ।
ताभ्यां वक्षः समाहत्य
ददम्श च यदूत्तमम् ॥ ह्व्_११०।७०१३३०:४ ।
विश्वास-प्रस्तुतिः
ततो ऽसहञ् जगन्नाथः
आनने समपोथयत् । ह्व्_११०।७०१३३०:५ ।
स सम्प्रहारस् तुमुलस्
तयोः पुरुषसिंहयोः ।
ज्वरस्य च महान् आसीत्
कृष्णस्य च महात्मनः ॥
मूलम्
ततो ऽसहञ् जगन्नाथः
आनने समपोथयत् । ह्व्_११०।७०१३३०:५ ।
स सम्प्रहारस् तुमुलस्
तयोः पुरुषसिंहयोः ।
ज्वरस्य च महान् आसीत्
कृष्णस्य च महात्मनः ॥
विश्वास-प्रस्तुतिः
पर्वतेषु पतन्तीनाम्
अशनीनाम् इव स्वनः ॥ ह्व्_११०।७१ ॥
मूलम्
पर्वतेषु पतन्तीनाम्
अशनीनाम् इव स्वनः ॥ ह्व्_११०।७१ ॥
विश्वास-प्रस्तुतिः
([क्: after ७१, त्१।२ ग्१।३।५ म् ग्(एद्।) ins.: :क्])
अष्टाभिश् च त्रिभिश् चैव
बाहुभिश् च तदा रणम् । ह्व्_११०।७११३३१:१ ।
प्रावर्तत महाघोरं
देवानां तत्र पश्यताम् । ह्व्_११०।७११३३१:२ ।
कृष्णज्वरभुजप्राणैर्
युद्धम् आसीत् सुदारुणम् ।
नैवम् एवं प्रहर्तव्यम्
इति तत्राभवत् स्वनः ॥
मूलम्
([क्: after ७१, त्१।२ ग्१।३।५ म् ग्(एद्।) ins.: :क्])
अष्टाभिश् च त्रिभिश् चैव
बाहुभिश् च तदा रणम् । ह्व्_११०।७११३३१:१ ।
प्रावर्तत महाघोरं
देवानां तत्र पश्यताम् । ह्व्_११०।७११३३१:२ ।
कृष्णज्वरभुजप्राणैर्
युद्धम् आसीत् सुदारुणम् ।
नैवम् एवं प्रहर्तव्यम्
इति तत्राभवत् स्वनः ॥
विश्वास-प्रस्तुतिः
मुहूर्तम् अभवद् युद्धम्
अन्योन्यं सुमहात्मनोः ॥ ह्व्_११०।७२ ॥
मूलम्
मुहूर्तम् अभवद् युद्धम्
अन्योन्यं सुमहात्मनोः ॥ ह्व्_११०।७२ ॥
विश्वास-प्रस्तुतिः
([क्: after ७२, त्१।२ ग्१।३-५ म्१।३।४ ins.: :क्])
हन्तुम् ऐच्छत् तदा विष्णुर्
ज्वरं लोकभयङ्करम् । ह्व्_११०।७२१३३२ ।
ततो ज्वरं कनकविचित्रभूषणं
न्यपीडयद् भुजवलयेन संयुगे ।
यम् अक्षयं समुपनयञ् जगत्पतिः
शरीरधृग् गगनचरं महामृधे ॥ ह्व्_११०।७३ ॥
मूलम्
([क्: after ७२, त्१।२ ग्१।३-५ म्१।३।४ ins.: :क्])
हन्तुम् ऐच्छत् तदा विष्णुर्
ज्वरं लोकभयङ्करम् । ह्व्_११०।७२१३३२ ।
ततो ज्वरं कनकविचित्रभूषणं
न्यपीडयद् भुजवलयेन संयुगे ।
यम् अक्षयं समुपनयञ् जगत्पतिः
शरीरधृग् गगनचरं महामृधे ॥ ह्व्_११०।७३ ॥