विश्वास-प्रस्तुतिः
([क्: after the रेफ़्।, अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ ins. अ पस्सगे गिवेन् इन् अप्प्। इ (नो। ३३)। :क्])
{वैशम्पायन उवाच}
ततो द्वारवतीमध्ये
प्राकारैर् उपशोभितम् ।
([क्: क्१।२ Ñ२ व् ब् द्न् द्स् द्१-५ ins. after अप्प्। इ (नो। ३३); द्६ after १अब्: :क्])
ततो द्वारवतीमध्ये
कामस्य भवनं शुभम् । ह्व्_१०८।११२०३:१ ।
तत्समीपे ऽनिरुद्धस्य
भवनं सा स्म पश्यति ॥ ह्व्_१०८।११२०३:२ ।
मूलम्

सौवर्णवेदिकास्तम्भं
रुक्मवैदूर्यतोरणम् । ह्व्_१०८।११२०३:३ ।
माल्यदामावसक्तं च
पूर्णकुम्भोपशोभितम् ॥ ह्व्_१०८।११२०३:४ ।
मूलम्
सौवर्णवेदिकास्तम्भं
रुक्मवैदूर्यतोरणम् । ह्व्_१०८।११२०३:३ ।
माल्यदामावसक्तं च
पूर्णकुम्भोपशोभितम् ॥ ह्व्_१०८।११२०३:४ ।
विश्वास-प्रस्तुतिः
बर्हिकण्ठानतग्रीवं
प्रासादैर् एकसञ्चयैः । ह्व्_१०८।११२०३:५ ।
मणिप्रवालसंस्तीर्णं
दिव्यगन्धर्वनादितम् । ह्व्_१०८।११२०३:६ ।
ददर्श भवनं यत्र
प्राद्युम्निर् अवसत् सुखम् ॥ ह्व्_१०८।१ ॥
मूलम्
बर्हिकण्ठानतग्रीवं
प्रासादैर् एकसञ्चयैः । ह्व्_१०८।११२०३:५ ।
मणिप्रवालसंस्तीर्णं
दिव्यगन्धर्वनादितम् । ह्व्_१०८।११२०३:६ ।
ददर्श भवनं यत्र
प्राद्युम्निर् अवसत् सुखम् ॥ ह्व्_१०८।१ ॥
विश्वास-प्रस्तुतिः
([क्: अवसत् चोर्रेच्तेद् फ़ोर् प्रिन्तेद् असत् :क्])
ततः प्रविश्य सहसा
भवनं तस्य तन् महत् ।
([क्: क्१।३।४ व् ब् द् स् (त्३ मिस्सिन्ग्) ins. (Ñ२ after the फ़िर्स्त् ओच्चुरेन्चे of २अब्): :क्])
तत्रानिरुद्धं सापश्यच्
चित्रलेखा वराप्सराः । ह्व्_१०८।२अब्१२०४ ।
ददर्श मध्ये नारीणां
तारापतिम् इवोदितम् ॥ ह्व्_१०८।२ ॥

क्रीडाविहारे नारीभिः
सेव्यमानम् इतस् ततः ।
पिबन्तं मधु माध्वीकं
श्रिया परमया युतम् ॥
मूलम्
क्रीडाविहारे नारीभिः
सेव्यमानम् इतस् ततः ।
पिबन्तं मधु माध्वीकं
श्रिया परमया युतम् ॥
विश्वास-प्रस्तुतिः
वरासनगतं तत्र
यथैवैलविलं तथा ॥ ह्व्_१०८।३ ॥
मूलम्
वरासनगतं तत्र
यथैवैलविलं तथा ॥ ह्व्_१०८।३ ॥
विश्वास-प्रस्तुतिः
([क्: क् Ñ२।३ व् ब् द् (एxचेप्त् द्३) त्४ ग्२।४।५ ins.: :क्])
वाद्यते समतालं च
गीयते मधुरं तथा । ह्व्_१०८।३१२०५:१ ।
न च तस्य मनस् तत्र
तम् एवार्थम् अचिन्तयत् ॥ ह्व्_१०८।३१२०५:२ ।
मूलम्
([क्: क् Ñ२।३ व् ब् द् (एxचेप्त् द्३) त्४ ग्२।४।५ ins.: :क्])
वाद्यते समतालं च
गीयते मधुरं तथा । ह्व्_१०८।३१२०५:१ ।
न च तस्य मनस् तत्र
तम् एवार्थम् अचिन्तयत् ॥ ह्व्_१०८।३१२०५:२ ।
विश्वास-प्रस्तुतिः
स्त्रियः सर्वगुणोपेता
नृत्यन्ते तत्र तत्र वै । ह्व्_१०८।३१२०५:३ ।
न चास्य मनसस् तुष्टिं
चित्रलेखा प्रपश्यति । ह्व्_१०८।३१२०५:४ ।
न चाभिरमते भोगैर्
न चापि मधु सेवते । ह्व्_१०८।३१२०५:५ ।
व्यक्तम् अस्य हि तत् स्वप्नं
हृदये परिवर्तते । ह्व्_१०८।३१२०५:६ ।
इति तत्रैव बुद्ध्या च
निश्चिता गतसाध्वसा । ह्व्_१०८।३१२०५:७ ।
सा दृष्ट्वा परमस्त्रीणां
मध्ये शक्रध्वजोपमम् । ह्व्_१०८।३१२०५:८ ।
([क्: after लिने ३, क्१ Ñ२ ब्१ द्६ ins.: :क्])
प्रियासु गीयमानासु
नृत्यमानासु सर्वशः । ह्व्_१०८१२०५।३*१२०५अ ।
चिन्तयाविष्टदेहा सा
चित्रलेखा मनस्विनी ।
कथं कार्यम् इदं कार्यं
कथं स्वस्ति भवेन् मम ॥ ह्व्_१०८।४ ॥

सान्तर्हिता चिन्तयित्वा
चित्रलेखा यशस्विनी ।
तामस्या छादयाम् आस
विद्यया शुभलोचना ॥ ह्व्_१०८।५ ॥
मूलम्
सान्तर्हिता चिन्तयित्वा
चित्रलेखा यशस्विनी ।
तामस्या छादयाम् आस
विद्यया शुभलोचना ॥ ह्व्_१०८।५ ॥
विश्वास-प्रस्तुतिः
हर्म्ये स्त्रीगणमध्यस्थं
कृत्वा चान्तर्हितं तदा ।
उत्पपात गृहीत्वा सा
प्राद्युम्निं युद्धदुर्मदम् ॥ ह्व्_१०८।६ ॥
मूलम्
हर्म्ये स्त्रीगणमध्यस्थं
कृत्वा चान्तर्हितं तदा ।
उत्पपात गृहीत्वा सा
प्राद्युम्निं युद्धदुर्मदम् ॥ ह्व्_१०८।६ ॥
विश्वास-प्रस्तुतिः
सा तम् अध्वानम् आगम्य
सिद्धचारणसेवितम् ।
सहसा शोणितपुरं
प्रविवेश मनोजवा ॥ ह्व्_१०८।७ ॥
मूलम्
सा तम् अध्वानम् आगम्य
सिद्धचारणसेवितम् ।
सहसा शोणितपुरं
प्रविवेश मनोजवा ॥ ह्व्_१०८।७ ॥
विश्वास-प्रस्तुतिः
([क्: क् Ñ२।३ व् ब् द् त्४ ग्२।४।५ ग्(एद्।) ins.: :क्])
अदर्शनं तम् आनीय
मायया कामरूपिणी । ह्व्_१०८।७१२०६:१ ।
अनिरुद्धं महाभागा
यत्रोषा तत्र गच्छति ॥ ह्व्_१०८।७१२०६:२ ।
मूलम्
([क्: क् Ñ२।३ व् ब् द् त्४ ग्२।४।५ ग्(एद्।) ins.: :क्])
अदर्शनं तम् आनीय
मायया कामरूपिणी । ह्व्_१०८।७१२०६:१ ।
अनिरुद्धं महाभागा
यत्रोषा तत्र गच्छति ॥ ह्व्_१०८।७१२०६:२ ।
विश्वास-प्रस्तुतिः
उषायादर्शयच् चैनं
चित्राभरणभूषितम् ॥ ह्व्_१०८।७१२०६:३ ।
मूलम्
उषायादर्शयच् चैनं
चित्राभरणभूषितम् ॥ ह्व्_१०८।७१२०६:३ ।
विश्वास-प्रस्तुतिः
चित्राम्बरधरं वीरं
कन्दर्पसमरूपिणम् । ह्व्_१०८।७१२०६:४ ।
([क्: ग्२।४।५ चोन्त्। (त्१।२ ग्१।३ म् ins. after ७; त्४ after लिने २ of *१२०६): :क्])
तृतीये तु मुहूर्ते सा
प्राप्ता बाणपुरं तदा । ह्व्_१०८।७१२०७:१ ।
उषां तां दर्शयाम् आस
पश्यैनं यद्य् असौ भवेत् ॥ ह्व्_१०८।७१२०७:२ ।

एवम् उक्ता तदा कन्या
बाणस्य दुहिता ततः । ह्व्_१०८।७१२०७:३ ।
तत्रोषा विस्मिता दृष्ट्वा
हर्म्यस्था सखिसन्निधौ ।
प्रवेशयाम् आस तदा
सम्प्राप्तं स्वगृहं ततः ॥ ह्व्_१०८।८ ॥
मूलम्
एवम् उक्ता तदा कन्या
बाणस्य दुहिता ततः । ह्व्_१०८।७१२०७:३ ।
तत्रोषा विस्मिता दृष्ट्वा
हर्म्यस्था सखिसन्निधौ ।
प्रवेशयाम् आस तदा
सम्प्राप्तं स्वगृहं ततः ॥ ह्व्_१०८।८ ॥
विश्वास-प्रस्तुतिः
([क्: Ñ२ ins.: :क्])
प्रवेशिते ऽनिरुद्धे तु
प्रहृष्टा सहिता तया । ह्व्_१०८।८१२०८:१ ।
सखीजनसमायुक्ता
लज्जमाना शुचिस्मिता । ह्व्_१०८।८१२०८:२ ।
प्रहर्षोत्फुल्लनयना
प्रियं दृष्ट्वार्थकोविदा ।
([क्: न् (एxचेप्त् श्१ Ñ१ द्१।२) त्४ ग्२।४।५ ग्(एद्।) ins.: :क्])
सा हर्म्यस्था तम् अर्घ्येण
यादवं समपूजयत् । ह्व्_१०८।९अब्१२०९:१ ।
चित्रलेखां परिष्वज्य
प्रियाख्यानैर् अयोजयत् । ह्व्_१०८।९अब्१२०९:२ ।
त्वरिता कामिनी प्राह
चित्रलेखां भयातुरा ॥ ह्व्_१०८।९ ॥

सखीदं वै कथं गुह्यं
कार्यं कार्यविशारदे ।
गुह्ये कृते भवेत् स्वस्ति
प्रकाशे जीवितक्षयः ॥ ह्व्_१०८।१० ॥
मूलम्
सखीदं वै कथं गुह्यं
कार्यं कार्यविशारदे ।
गुह्ये कृते भवेत् स्वस्ति
प्रकाशे जीवितक्षयः ॥ ह्व्_१०८।१० ॥
विश्वास-प्रस्तुतिः
([क्: after १०, त्४ ins. अन् अद्द्ल्। चोलोफोन् मेन्तिओनिन्ग् अध्य्। नो। २१८। त्४ ins. after the अद्द्ल्। चोलोफोन्: क् Ñ३ व्१।२ ब् द्स्२ द्१-५ ग्२।४।५ (Ñ२ व्३ द्न् द्स्१ द्६ after the फ़िर्स्त् ओच्चुर्रेन्चे of ११अब्cd) ins.: :क्])
चित्रलेखाब्रवीद् वाक्यं
शृणु त्वं निश्चयं सखि । ह्व्_१०८।१०१२१०:१ ।
कृतं पुरुषकारं हि
दैवं नाशयते सखि ॥ ह्व्_१०८।१०१२१०:२ ।

न वै देव्याः प्रसादस् ते
अनुकूलो भविष्यति । ह्व्_१०८।१०१२१०:३ ।
अप्रमादात् कृतं गुह्यं
न कश्चिज् ज्ञास्यते नरः ॥ ह्व्_१०८।१०१२१०:४ ।
मूलम्
न वै देव्याः प्रसादस् ते
अनुकूलो भविष्यति । ह्व्_१०८।१०१२१०:३ ।
अप्रमादात् कृतं गुह्यं
न कश्चिज् ज्ञास्यते नरः ॥ ह्व्_१०८।१०१२१०:४ ।
विश्वास-प्रस्तुतिः
सख्या वै एवम् उक्ता सा
पर्यवस्थितचेतना । ह्व्_१०८।१०१२१०:५ ।
एवम् एतद् इति प्राह
सानिरुद्धम् इदं वचः ॥ ह्व्_१०८।१०१२१०:६ ।
मूलम्
सख्या वै एवम् उक्ता सा
पर्यवस्थितचेतना । ह्व्_१०८।१०१२१०:५ ।
एवम् एतद् इति प्राह
सानिरुद्धम् इदं वचः ॥ ह्व्_१०८।१०१२१०:६ ।
विश्वास-प्रस्तुतिः
दिष्ट्या स्वप्नगतश् चोरो
दृश्यते सुभगो जनः । ह्व्_१०८।१०१२१०:७ ।
यत्कृते तु वयं खिन्ना
दुर्लभप्रियकाङ्क्षया ॥ ह्व्_१०८।१०१२१०:८ ।
मूलम्
दिष्ट्या स्वप्नगतश् चोरो
दृश्यते सुभगो जनः । ह्व्_१०८।१०१२१०:७ ।
यत्कृते तु वयं खिन्ना
दुर्लभप्रियकाङ्क्षया ॥ ह्व्_१०८।१०१२१०:८ ।
विश्वास-प्रस्तुतिः
कच्चित् तव महाबाहो
कुशलं सर्वतोगतम् । ह्व्_१०८।१०१२१०:९ ।
हृदयं हि मृदु स्त्रीणां
तेन पृच्छाम्य् अहं तव ॥ ह्व्_१०८।१०१२१०:१० ।
मूलम्
कच्चित् तव महाबाहो
कुशलं सर्वतोगतम् । ह्व्_१०८।१०१२१०:९ ।
हृदयं हि मृदु स्त्रीणां
तेन पृच्छाम्य् अहं तव ॥ ह्व्_१०८।१०१२१०:१० ।
विश्वास-प्रस्तुतिः
तस्यास् तद् वचनं श्रुत्वा
उषायाः श्लक्ष्णम् अर्थवत् । ह्व्_१०८।१०१२१०:११ ।
सो ऽप्य् आह यदुशार्दूलः
शुभाक्षरतरं वचः ॥ ह्व्_१०८।१०१२१०:१२ ।
मूलम्
तस्यास् तद् वचनं श्रुत्वा
उषायाः श्लक्ष्णम् अर्थवत् । ह्व्_१०८।१०१२१०:११ ।
सो ऽप्य् आह यदुशार्दूलः
शुभाक्षरतरं वचः ॥ ह्व्_१०८।१०१२१०:१२ ।
विश्वास-प्रस्तुतिः
हर्षविप्लुतनेत्रायाः
पाणिनाश्रु प्रमृज्य च । ह्व्_१०८।१०१२१०:१३ ।
प्रहस्य सस्मितं प्राह
हृदयग्राहकं वचः ॥ ह्व्_१०८।१०१२१०:१४ ।
मूलम्
हर्षविप्लुतनेत्रायाः
पाणिनाश्रु प्रमृज्य च । ह्व्_१०८।१०१२१०:१३ ।
प्रहस्य सस्मितं प्राह
हृदयग्राहकं वचः ॥ ह्व्_१०८।१०१२१०:१४ ।
विश्वास-प्रस्तुतिः
कुशलं मे वरारोहे
सर्वत्र मितभाषिणि । ह्व्_१०८।१०१२१०:१५ ।
त्वत्प्रसादेन मे देवि
प्रियम् आवेदयामि ते ॥ ह्व्_१०८।१०१२१०:१६ ।
मूलम्
कुशलं मे वरारोहे
सर्वत्र मितभाषिणि । ह्व्_१०८।१०१२१०:१५ ।
त्वत्प्रसादेन मे देवि
प्रियम् आवेदयामि ते ॥ ह्व्_१०८।१०१२१०:१६ ।
विश्वास-प्रस्तुतिः
अदृष्टपूर्वश् च मया
देशो ऽयं शुभदर्शने । ह्व्_१०८।१०१२१०:१७ ।
निशि स्वप्ने मया दृष्टं
सकृत् कन्यापुरं महत् ॥ ह्व्_१०८।१०१२१०:१८ ।
मूलम्
अदृष्टपूर्वश् च मया
देशो ऽयं शुभदर्शने । ह्व्_१०८।१०१२१०:१७ ।
निशि स्वप्ने मया दृष्टं
सकृत् कन्यापुरं महत् ॥ ह्व्_१०८।१०१२१०:१८ ।
विश्वास-प्रस्तुतिः
एवम् एवम् अहं भीरु
त्वत्प्रसादाद् इहागतः । ह्व्_१०८।१०१२१०:१९ ।
न च तद् रुद्रपत्न्या वै
मिथ्या वाक्यं भविष्यति ॥ ह्व्_१०८।१०१२१०:२० ।
मूलम्
एवम् एवम् अहं भीरु
त्वत्प्रसादाद् इहागतः । ह्व्_१०८।१०१२१०:१९ ।
न च तद् रुद्रपत्न्या वै
मिथ्या वाक्यं भविष्यति ॥ ह्व्_१०८।१०१२१०:२० ।
विश्वास-प्रस्तुतिः
देव्यास् तु प्रीतिम् आज्ञाय
त्वत्प्रियार्थं च भाविनि । ह्व्_१०८।१०१२१०:२१ ।
अनुप्राप्तो ऽस्मि चाद्यैव
प्रसीद शरणं गतः । ह्व्_१०८।१०१२१०:२२ ।
([क्: after लिने २२, द्६ ins. अन् अद्द्ल्। चोलोफोन् मेन्तिओनिन्ग् अध्य्। नमे बाणयुद्धम्। ब्१।२ द्स्२ द्२ त्४ ग्२।४।५ चोन्त्। (द्स्१ ins. after सेचोन्द् ओच्चुर्रेन्चे of ११cd): :क्])
इत्य् उक्त्वा रमयाम् आस
सो ऽनिरुद्धो महायशाः । ह्व्_१०८।१०१२११ ।
इत्य् उक्त्वा त्वरमाणा सा
गुह्यदेशे स्वलङ्कृता ।
कान्तेन सह संयुक्ता
स्थिता वै भीतभीतवत् ॥

([क्: क् Ñ३ व्१।२ ब् द्स्२ द्१-५ त्२।४ ग्१।३-५ ग्(एद्।) ins. after ११cd; Ñ२ व्३ द्न् द्६ after सेचोन्द् ओच्चुर्रेन्चे of ११cd; द्स्१ after *१२११: :क्])
ततश् चोद्वाहधर्मेण
गान्धर्वेण समीयतुः । ह्व्_१०८।११cd१२१२:१ ।
अन्योन्यं रेमतुस् तौ तु
चक्रवाकौ यथा दिवा ॥ ह्व्_१०८।११cd१२१२:२ ।

([क्: द्६ त्२।४ ग्१।३-५ ग्(एद्।) चोन्त्।; त्१ ग्२ म् ins. after ११cd: :क्])
एकदेशे गृहस्यास्य
प्रच्छन्नो चैव भामिनी । ह्व्_१०८।११cd१२१४:१ ।
करेणुर् द्विरदेनेव
वरयाम् आस सङ्गता ॥ ह्व्_१०८।११cd१२१४:२ ।

पपौ तस्य मुखं साध्वी
समालिङ्ग्य यथाक्रमम् । ह्व्_१०८।११cd१२१४:३ ।
नेत्रे चुचुम्ब सा देवी
बाणस्य दुहिता यदुम् ॥ ह्व्_१०८।११cd१२१४:४ ।
मूलम्
पपौ तस्य मुखं साध्वी
समालिङ्ग्य यथाक्रमम् । ह्व्_१०८।११cd१२१४:३ ।
नेत्रे चुचुम्ब सा देवी
बाणस्य दुहिता यदुम् ॥ ह्व्_१०८।११cd१२१४:४ ।
विश्वास-प्रस्तुतिः
भूयो भूयः समाश्लिष्य
यथेष्टं मदमोहिता । ह्व्_१०८।११cd१२१४:५ ।
न तृप्तिम् आययौ सा तु
समालिङ्ग्य यदूत्तमम् ॥ ह्व्_१०८।११cd१२१४:६ ।
मूलम्
भूयो भूयः समाश्लिष्य
यथेष्टं मदमोहिता । ह्व्_१०८।११cd१२१४:५ ।
न तृप्तिम् आययौ सा तु
समालिङ्ग्य यदूत्तमम् ॥ ह्व्_१०८।११cd१२१४:६ ।
विश्वास-प्रस्तुतिः
([क्: [चोलोफोन्] :क्])
{वैशम्पायनः}
तामस्या विद्यया युक्तः
प्राद्युम्निर् अथ तत्क्षणात् । ह्व्_१०८।११cd१२१४:७ ।
चिन्तयाम् आस तं दृष्ट्वा
गृहे स्त्रीजनम् अद्भुतम् ॥ ह्व्_१०८।११cd१२१४:८ ।

को ऽयं विधिर् मम महान्
न जाने त्व् अस्य कारणम् । ह्व्_१०८।११cd१२१४:९ ।
स्वप्नो ऽयं किं मया दृष्ट
उताहो विभ्रमो मम ॥ ह्व्_१०८।११cd१२१४:१० ।
मूलम्
को ऽयं विधिर् मम महान्
न जाने त्व् अस्य कारणम् । ह्व्_१०८।११cd१२१४:९ ।
स्वप्नो ऽयं किं मया दृष्ट
उताहो विभ्रमो मम ॥ ह्व्_१०८।११cd१२१४:१० ।
विश्वास-प्रस्तुतिः
जागर्म्य् अहं न मे स्वप्नो
न च म विभ्रमो महान् । ह्व्_१०८।११cd१२१४:११ ।
केयम् अग्रे स्थिता सुभ्रूर्
लतेव च सुपुष्पिता ॥ ह्व्_१०८।११cd१२१४:१२ ।
मूलम्
जागर्म्य् अहं न मे स्वप्नो
न च म विभ्रमो महान् । ह्व्_१०८।११cd१२१४:११ ।
केयम् अग्रे स्थिता सुभ्रूर्
लतेव च सुपुष्पिता ॥ ह्व्_१०८।११cd१२१४:१२ ।
विश्वास-प्रस्तुतिः
उद्भ्रान्तहरिणापङ्गी
भ्रूलताभङ्गभाषिणी । ह्व्_१०८।११cd१२१४:१३ ।
पीनस्तनोरुजघना
ताम्रपादकराधरा ॥ ह्व्_१०८।११cd१२१४:१४ ।
मूलम्
उद्भ्रान्तहरिणापङ्गी
भ्रूलताभङ्गभाषिणी । ह्व्_१०८।११cd१२१४:१३ ।
पीनस्तनोरुजघना
ताम्रपादकराधरा ॥ ह्व्_१०८।११cd१२१४:१४ ।
विश्वास-प्रस्तुतिः
नीलकुञ्चितकेशाढ्या
मधुरस्मितभाषिणी । ह्व्_१०८।११cd१२१४:१५ ।
मम नेत्रपथाक्रान्ता
चन्द्रलेखेव शारदी । ह्व्_१०८।११cd१२१४:१६ ।
किम् इदं नात्र जानामि
केनेदं प्रतिपादितम् ॥ ह्व्_१०८।११cd१२१४:१७ ।

दृष्ट्वास्य ववृधे कामस्
ताम् उषां मदमोहिताम् । ह्व्_१०८।११cd१२१४:१८ ।
सा च तत्पुरतः साक्षात्
पानं कर्तुं समुद्यता ॥ ह्व्_१०८।११cd१२१४:१९ ।
मूलम्
दृष्ट्वास्य ववृधे कामस्
ताम् उषां मदमोहिताम् । ह्व्_१०८।११cd१२१४:१८ ।
सा च तत्पुरतः साक्षात्
पानं कर्तुं समुद्यता ॥ ह्व्_१०८।११cd१२१४:१९ ।
विश्वास-प्रस्तुतिः
अथ ताम् इङ्गितैर् ज्ञात्वा
श्रुत्वा चैव यथार्थतः । ह्व्_१०८।११cd१२१४:२० ।
रमयाम् आस रमणीं
कामतस् तां मनोरमाम् ॥ ह्व्_१०८।११cd१२१४:२१ ।
मूलम्
अथ ताम् इङ्गितैर् ज्ञात्वा
श्रुत्वा चैव यथार्थतः । ह्व्_१०८।११cd१२१४:२० ।
रमयाम् आस रमणीं
कामतस् तां मनोरमाम् ॥ ह्व्_१०८।११cd१२१४:२१ ।
विश्वास-प्रस्तुतिः
सा चापि तं समासाद्य
हर्षभीताकुलेक्षणा । ह्व्_१०८।११cd१२१४:२२ ।
कामतो रमयाम् आस
रोमाञ्चोद्गतकर्कशा ॥ ह्व्_१०८।११cd१२१४:२३ ।
मूलम्
सा चापि तं समासाद्य
हर्षभीताकुलेक्षणा । ह्व्_१०८।११cd१२१४:२२ ।
कामतो रमयाम् आस
रोमाञ्चोद्गतकर्कशा ॥ ह्व्_१०८।११cd१२१४:२३ ।
विश्वास-प्रस्तुतिः
([क्: after the रेफ़्। बेफ़ोरे लिने ७, त्२ ग्३।४ ins.: :क्])
ततो निरुद्धः स्वप्ने तु
स्वपुराच् चित्रलेखया । ह्व्_१०८।११cd१२१४ब्:१ ।
नीतो बाणपुरं सद्यः
सङ्गतश् चोषया सह ॥ ह्व्_१०८।११cd१२१४ब्:२ ।

दृष्ट्वैवं स्वप्नसंसर्गं
उषया स्वस्य चाद्भुतम् । ह्व्_१०८।११cd१२१४ब्:३ ।
([क्: after लिने २०अ of १२१४, त्२ ग्१।३ ins.: :क्])
वचनेन विमोहिताम् ॥ ह्व्_१०८।११cd१२१४च्:१ ।
मूलम्
दृष्ट्वैवं स्वप्नसंसर्गं
उषया स्वस्य चाद्भुतम् । ह्व्_१०८।११cd१२१४ब्:३ ।
([क्: after लिने २०अ of १२१४, त्२ ग्१।३ ins.: :क्])
वचनेन विमोहिताम् ॥ ह्व्_१०८।११cd१२१४च्:१ ।
विश्वास-प्रस्तुतिः
स ततश् चित्रलेखां ताम्
अवेक्ष्योवाच यादवः । ह्व्_१०८।११cd१२१४च्:२ ।
द्वारकानगराच् छीग्रम्
आनीतश् चित्रलेखया ॥ ह्व्_१०८।११cd१२१४च्:३ ।
मूलम्
स ततश् चित्रलेखां ताम्
अवेक्ष्योवाच यादवः । ह्व्_१०८।११cd१२१४च्:२ ।
द्वारकानगराच् छीग्रम्
आनीतश् चित्रलेखया ॥ ह्व्_१०८।११cd१२१४च्:३ ।
विश्वास-प्रस्तुतिः
बाणस्य नगरं प्राप्य
सङ्गतो ऽस्म्य् उषया रहः । ह्व्_१०८।११cd१२१४च्:४ ।
एवं स्वप्नो मया दृष्टो
विचित्रो ऽदृष्टपूर्वकः ॥ ह्व्_१०८।११cd१२१४च्:५ ।
मूलम्
बाणस्य नगरं प्राप्य
सङ्गतो ऽस्म्य् उषया रहः । ह्व्_१०८।११cd१२१४च्:४ ।
एवं स्वप्नो मया दृष्टो
विचित्रो ऽदृष्टपूर्वकः ॥ ह्व्_१०८।११cd१२१४च्:५ ।
विश्वास-प्रस्तुतिः
को ऽयं विधिर् ममायातः
का त्वं कैषा च भामिनी । ह्व्_१०८।११cd१२१४च्:६ ।
केयं पुरी गृहं कस्य
तत् त्वम् आख्यातुम् अर्हसि ॥ ह्व्_१०८।११cd१२१४च्:७ ।
मूलम्
को ऽयं विधिर् ममायातः
का त्वं कैषा च भामिनी । ह्व्_१०८।११cd१२१४च्:६ ।
केयं पुरी गृहं कस्य
तत् त्वम् आख्यातुम् अर्हसि ॥ ह्व्_१०८।११cd१२१४च्:७ ।
विश्वास-प्रस्तुतिः
इति ब्रुवन्तं तं दृष्ट्वा
चित्रलेखा वचो ऽब्रवीत् । ह्व्_१०८।११cd१२१४च्:८ ।
अपि ते कुशलं वीर
सर्वत्र यदुनन्दन । ह्व्_१०८।११cd१२१४च्:९ ।
रममाणानिरुद्धेन
अविज्ञाता तु सा तदा ॥ ह्व्_१०८।११ ॥

([क्: after ११, त्१।२ ग्१।३-५ म् ग्(एद्।) ins.: :क्])
पपौ चास्या मुखं कामी
समालिङ्ग्य दृढं यदुः । ह्व्_१०८।१११२१५:१ ।
परस्परं समाश्लिष्य
परस्परमुखं पपुः ॥ ह्व्_१०८।१११२१५:२ ।
मूलम्
([क्: after ११, त्१।२ ग्१।३-५ म् ग्(एद्।) ins.: :क्])
पपौ चास्या मुखं कामी
समालिङ्ग्य दृढं यदुः । ह्व्_१०८।१११२१५:१ ।
परस्परं समाश्लिष्य
परस्परमुखं पपुः ॥ ह्व्_१०८।१११२१५:२ ।
विश्वास-प्रस्तुतिः
तयोद्यतां ततो माध्वीं
पपौ शिष्टाम् अपाययत् । ह्व्_१०८।१११२१५:३ ।
तयोर् एवं तदा कामो
ववृधे जनसंसदि ॥ ह्व्_१०८।१११२१५:४ ।
मूलम्
तयोद्यतां ततो माध्वीं
पपौ शिष्टाम् अपाययत् । ह्व्_१०८।१११२१५:३ ।
तयोर् एवं तदा कामो
ववृधे जनसंसदि ॥ ह्व्_१०८।१११२१५:४ ।
विश्वास-प्रस्तुतिः
चित्रलेखा ततः साध्वी
भूषयाम् आस भूषणैः । ह्व्_१०८।१११२१५:५ ।
वस्त्रैर् आभरणैश् चित्रैर्
माल्यैश् च बहुगन्धिभिः ॥ ह्व्_१०८।१११२१५:६ ।
मूलम्
चित्रलेखा ततः साध्वी
भूषयाम् आस भूषणैः । ह्व्_१०८।१११२१५:५ ।
वस्त्रैर् आभरणैश् चित्रैर्
माल्यैश् च बहुगन्धिभिः ॥ ह्व्_१०८।१११२१५:६ ।
([क्: after लिने ६ of *१२१५, त्२ ग्१।३ ins.: :क्])
अलङ्कृतस् तया तत्र
सङ्गतश् चोषया रहः । ह्व्_१०८।१११२१५ब् ।
विश्वास-प्रस्तुतिः
([क्: त्२ ग्१ चोन्त्। after लिने ९ of *१२१५: :क्])
पपौ तस्य मुखं साध्वी
समालिङ्ग्य यथाक्रमम् । ह्व्_१०८।१११२१६:१ ।
नेत्रे च चुम्बितो देवी
बाणस्य दुहिता सखी । ह्व्_१०८।१११२१६:२ ।
तस्मिन्न् एव क्षणे प्राप्ते
यदूनाम् ऋषभो हि सः ।
दिव्रमाल्याम्बरधरो
दिव्यस्रगनुलेपनः ॥

उषया सह संयुक्तो
विज्ञातो बाणरक्षिभिः ॥ ह्व्_१०८।१२ ॥
मूलम्
उषया सह संयुक्तो
विज्ञातो बाणरक्षिभिः ॥ ह्व्_१०८।१२ ॥
विश्वास-प्रस्तुतिः
([क्: after १२ए त्१।२ ग् म् ग्(एद्।) ins.: :क्])
दमयन्त्या नलो यथा । ह्व्_१०८।१२ए१२१७:१ ।*
विजहार यथाकामं
रमयंस् ताम् उषां शुभाम् ॥ ह्व्_१०८।१२ए१२१७:२ ।
मूलम्
([क्: after १२ए त्१।२ ग् म् ग्(एद्।) ins.: :क्])
दमयन्त्या नलो यथा । ह्व्_१०८।१२ए१२१७:१ ।*
विजहार यथाकामं
रमयंस् ताम् उषां शुभाम् ॥ ह्व्_१०८।१२ए१२१७:२ ।
विश्वास-प्रस्तुतिः
([क्: [चोलोफोन्] :क्])
{वैशम्पायनः}
अथ तस्याम् अवस्थायां
स्थविरा वेत्रपाणयः । ह्व्_१०८।१२ए१२१७:३ ।
आमुक्तकञ्चुका राजन्
कञ्चुकीयाः समन्ततः ॥ ह्व्_१०८।१२ए१२१७:४ ।
मूलम्
([क्: [चोलोफोन्] :क्])
{वैशम्पायनः}
अथ तस्याम् अवस्थायां
स्थविरा वेत्रपाणयः । ह्व्_१०८।१२ए१२१७:३ ।
आमुक्तकञ्चुका राजन्
कञ्चुकीयाः समन्ततः ॥ ह्व्_१०८।१२ए१२१७:४ ।
विश्वास-प्रस्तुतिः
अनिरुद्धं ततो ज्ञात्वा
सार्धं कन्यापुरे स्थितम् । ह्व्_१०८।१२ए१२१७:५ ।
उषया बाणसुतया
रमयन्तं यथेष्टतः ॥ ह्व्_१०८।१२ए१२१७:६ ।
मूलम्
अनिरुद्धं ततो ज्ञात्वा
सार्धं कन्यापुरे स्थितम् । ह्व्_१०८।१२ए१२१७:५ ।
उषया बाणसुतया
रमयन्तं यथेष्टतः ॥ ह्व्_१०८।१२ए१२१७:६ ।
विश्वास-प्रस्तुतिः
रक्षिणः सहसा गत्वा
भीता बाणान्तिकं तदा ॥ ह्व्_१०८।१२ए१२१७:७ ।
मूलम्
रक्षिणः सहसा गत्वा
भीता बाणान्तिकं तदा ॥ ह्व्_१०८।१२ए१२१७:७ ।
विश्वास-प्रस्तुतिः
अथ दीप्तायुधोदग्रा
नित्यं सुपरिरक्षकाः । ह्व्_१०८।१२ए१२१७:८ ।
ते भीताः कथयाम् आसुर्
अनिरुद्धस्य चेष्टितम् ॥ ह्व्_१०८।१२ए१२१७:९ ।
मूलम्
अथ दीप्तायुधोदग्रा
नित्यं सुपरिरक्षकाः । ह्व्_१०८।१२ए१२१७:८ ।
ते भीताः कथयाम् आसुर्
अनिरुद्धस्य चेष्टितम् ॥ ह्व्_१०८।१२ए१२१७:९ ।
विश्वास-प्रस्तुतिः
एष कश्चिन् महाराज
उषया सह सङ्गतः । ह्व्_१०८।१२ए१२१७:१० ।
स्थितः कन्यापुरे राजन्
कश् चासौ कुत इत्य् अपि ॥ ह्व्_१०८।१२ए१२१७:११ ।
मूलम्
एष कश्चिन् महाराज
उषया सह सङ्गतः । ह्व्_१०८।१२ए१२१७:१० ।
स्थितः कन्यापुरे राजन्
कश् चासौ कुत इत्य् अपि ॥ ह्व्_१०८।१२ए१२१७:११ ।
विश्वास-प्रस्तुतिः
आयातः सहसा राजन्
न विद्मो ऽस्य गतिं विभो ॥ ह्व्_१०८।१२ए१२१७:१२ ।
मूलम्
आयातः सहसा राजन्
न विद्मो ऽस्य गतिं विभो ॥ ह्व्_१०८।१२ए१२१७:१२ ।
विश्वास-प्रस्तुतिः
श्रुत्वैतद् रोषयुक्तस् तु
बलं बाणो निरीक्ष्य तत् । ह्व्_१०८।१२ए१२१७:१३ ।
ततस् तैश् चारपुरुषैर्
बाणस्यावेदितं तदा ।
यथादृष्टम् अशेषेण
कन्यायास् तद्व्यतिक्रमम् ॥ ह्व्_१०८।१३ ॥
मूलम्
श्रुत्वैतद् रोषयुक्तस् तु
बलं बाणो निरीक्ष्य तत् । ह्व्_१०८।१२ए१२१७:१३ ।
ततस् तैश् चारपुरुषैर्
बाणस्यावेदितं तदा ।
यथादृष्टम् अशेषेण
कन्यायास् तद्व्यतिक्रमम् ॥ ह्व्_१०८।१३ ॥
विश्वास-प्रस्तुतिः
ततः किङ्करसैन्यं तु
व्यादिष्टं भीमकर्मणा ।
बलेः पुत्रेण बाणेन
वीरेणामित्रघातिना ॥ ह्व्_१०८।१४ ॥
मूलम्
ततः किङ्करसैन्यं तु
व्यादिष्टं भीमकर्मणा ।
बलेः पुत्रेण बाणेन
वीरेणामित्रघातिना ॥ ह्व्_१०८।१४ ॥
विश्वास-प्रस्तुतिः
गच्छध्वं सहिताः सर्वे
हन्यताम् एष दुर्मतिः ।
येन नः कुलचारित्रं
दूषितं दूषितात्मना ॥ ह्व्_१०८।१५ ॥
मूलम्
गच्छध्वं सहिताः सर्वे
हन्यताम् एष दुर्मतिः ।
येन नः कुलचारित्रं
दूषितं दूषितात्मना ॥ ह्व्_१०८।१५ ॥
विश्वास-प्रस्तुतिः
उषायां धर्षितायां हि
कुलं नो धर्षितं महत् ।
असम्प्रदानाद्यो ऽस्माभिः
स्वयङ्ग्राहम् अधर्षयत् ॥ ह्व्_१०८।१६ ॥
मूलम्
उषायां धर्षितायां हि
कुलं नो धर्षितं महत् ।
असम्प्रदानाद्यो ऽस्माभिः
स्वयङ्ग्राहम् अधर्षयत् ॥ ह्व्_१०८।१६ ॥
विश्वास-प्रस्तुतिः
अहो वीर्यमहो धैर्यम्
अहो धार्ष्ट्यं च दुर्मतेः ।
यः पुरं भवनं चेदं
प्रविष्टो नः सुबालिशः ॥ ह्व्_१०८।१७ ॥
मूलम्
अहो वीर्यमहो धैर्यम्
अहो धार्ष्ट्यं च दुर्मतेः ।
यः पुरं भवनं चेदं
प्रविष्टो नः सुबालिशः ॥ ह्व्_१०८।१७ ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१ Ñ१) त्४ ग्२।४।५ ग्(एद्।) ins.: :क्])
एवम् उक्त्वा पुनस् तांस् तु
किङ्करांश् चोदयद् भृशम् ॥ ह्व्_१०८।१७१२१८:१ ।
मूलम्
([क्: न् (एxचेप्त् श्१ Ñ१) त्४ ग्२।४।५ ग्(एद्।) ins.: :क्])
एवम् उक्त्वा पुनस् तांस् तु
किङ्करांश् चोदयद् भृशम् ॥ ह्व्_१०८।१७१२१८:१ ।
विश्वास-प्रस्तुतिः
ते तस्याज्ञाम् अथो गृह्य
सुसन्नद्धा विनिर्ययुः । ह्व्_१०८।१७१२१८:२ ।
यत्रानिरुद्धो ह्य् अभवत्
तत्रागच्छन् महाबलाः । ह्व्_१०८।१७१२१८:३ ।
नानाशस्त्रोद्यतकरा
नानारूपधरास् तु ते ।
दानवाः समभिक्रुद्धाः
प्राद्युम्निवधकाङ्क्षिणः ॥ ह्व्_१०८।१८ ॥

([क्: न् (एxचेप्त् श्१ Ñ१) त्२।४ ग्१।३-५ ins.: :क्])
रुदते तद्बलं दृष्ट्वा
बाष्पेणावृतलोचना । ह्व्_१०८।१८१२१९:१ ।
प्राद्युम्निवधभीता सा
बाणपुत्री यशस्विनी ॥ ह्व्_१०८।१८१२१९:२ ।
मूलम्
([क्: न् (एxचेप्त् श्१ Ñ१) त्२।४ ग्१।३-५ ins.: :क्])
रुदते तद्बलं दृष्ट्वा
बाष्पेणावृतलोचना । ह्व्_१०८।१८१२१९:१ ।
प्राद्युम्निवधभीता सा
बाणपुत्री यशस्विनी ॥ ह्व्_१०८।१८१२१९:२ ।
विश्वास-प्रस्तुतिः
ततस् तु रुदतीं दृष्ट्वा
ताम् उषां मृगलोचनाम् । ह्व्_१०८।१८१२१९:३ ।
हा हा कान्तेति वेपन्तीम्
अनिरुद्धो ऽभ्यभाषत ॥ ह्व्_१०८।१८१२१९:४ ।
मूलम्
ततस् तु रुदतीं दृष्ट्वा
ताम् उषां मृगलोचनाम् । ह्व्_१०८।१८१२१९:३ ।
हा हा कान्तेति वेपन्तीम्
अनिरुद्धो ऽभ्यभाषत ॥ ह्व्_१०८।१८१२१९:४ ।
विश्वास-प्रस्तुतिः
अभयं ते ऽस्तु सश्रोणि
मा भैस् त्वं हि मयि स्थिते । ह्व्_१०८।१८१२१९:५ ।
सम्प्राप्तो हर्षकालस् ते
न ते ऽस्ति भयकारणम् ॥ ह्व्_१०८।१८१२१९:६ ।
मूलम्
अभयं ते ऽस्तु सश्रोणि
मा भैस् त्वं हि मयि स्थिते । ह्व्_१०८।१८१२१९:५ ।
सम्प्राप्तो हर्षकालस् ते
न ते ऽस्ति भयकारणम् ॥ ह्व्_१०८।१८१२१९:६ ।
विश्वास-प्रस्तुतिः
कृत्स्नो ऽयं यदि बाणस्य
भृट्यवर्गो यशस्विनि । ह्व्_१०८।१८१२१९:७ ।
आगच्छेत न मे चिन्ता
भीरु पश्याद्य विक्रमम् ॥ ह्व्_१०८।१८१२१९:८ ।
मूलम्
कृत्स्नो ऽयं यदि बाणस्य
भृट्यवर्गो यशस्विनि । ह्व्_१०८।१८१२१९:७ ।
आगच्छेत न मे चिन्ता
भीरु पश्याद्य विक्रमम् ॥ ह्व्_१०८।१८१२१९:८ ।
विश्वास-प्रस्तुतिः
तस्य सैन्यस्य निनदं
श्रुत्वाभ्यागच्छतस् ततः । ह्व्_१०८।१८१२१९:९ ।
सहसैवोत्थितः श्रीमान्
प्राद्युम्निः किम् इति ब्रुवन् ॥ ह्व्_१०८।१८१२१९:१० ।
मूलम्
तस्य सैन्यस्य निनदं
श्रुत्वाभ्यागच्छतस् ततः । ह्व्_१०८।१८१२१९:९ ।
सहसैवोत्थितः श्रीमान्
प्राद्युम्निः किम् इति ब्रुवन् ॥ ह्व्_१०८।१८१२१९:१० ।
विश्वास-प्रस्तुतिः
अथास्यापश्यत बलं
नानाप्रहरणोद्यतम् । ह्व्_१०८।१८१२१९:११ ।
स्थितं समन्ततस् तत्र
परिवार्य गृहं महत् ॥ ह्व्_१०८।१८१२१९:१२ ।
मूलम्
अथास्यापश्यत बलं
नानाप्रहरणोद्यतम् । ह्व्_१०८।१८१२१९:११ ।
स्थितं समन्ततस् तत्र
परिवार्य गृहं महत् ॥ ह्व्_१०८।१८१२१९:१२ ।
विश्वास-प्रस्तुतिः
ततो ऽभ्यगच्छत् त्वरितो
यत्र तद् वेष्टितं बलम् । ह्व्_१०८।१८१२१९:१३ ।
क्रुद्धः स्वबलम् आस्थाय
सन्दश्य दशनच्छदम् ॥ ह्व्_१०८।१८१२१९:१४ ।
मूलम्
ततो ऽभ्यगच्छत् त्वरितो
यत्र तद् वेष्टितं बलम् । ह्व्_१०८।१८१२१९:१३ ।
क्रुद्धः स्वबलम् आस्थाय
सन्दश्य दशनच्छदम् ॥ ह्व्_१०८।१८१२१९:१४ ।
विश्वास-प्रस्तुतिः
ततो युद्धम् अपोढानां
बाणेयानां निशम्य तु । ह्व्_१०८।१८१२१९:१५ ।
सा चित्रलेखा सस्मार
नारदं देवदर्शनम् ॥ ह्व्_१०८।१८१२१९:१६ ।
मूलम्
ततो युद्धम् अपोढानां
बाणेयानां निशम्य तु । ह्व्_१०८।१८१२१९:१५ ।
सा चित्रलेखा सस्मार
नारदं देवदर्शनम् ॥ ह्व्_१०८।१८१२१९:१६ ।
विश्वास-प्रस्तुतिः
ततो निमेषमात्रेण
सम्प्राप्तो मुनिपुङ्गवः । ह्व्_१०८।१८१२१९:१७ ।
स्मृतो ऽथ चित्रलेखायाः
पुरं शोणितसाह्वयम् ॥ ह्व्_१०८।१८१२१९:१८ ।
मूलम्
ततो निमेषमात्रेण
सम्प्राप्तो मुनिपुङ्गवः । ह्व्_१०८।१८१२१९:१७ ।
स्मृतो ऽथ चित्रलेखायाः
पुरं शोणितसाह्वयम् ॥ ह्व्_१०८।१८१२१९:१८ ।
विश्वास-प्रस्तुतिः
अन्तरिक्षे स्थितस् तत्र
सो ऽनिरुद्धम् अथाब्रवीत् । ह्व्_१०८।१८१२१९:१९ ।
मा भयं स्वस्ति ते वीर
प्राप्तो ऽस्म्य् अभिमतस् तव ॥ ह्व्_१०८।१८१२१९:२० ।
मूलम्
अन्तरिक्षे स्थितस् तत्र
सो ऽनिरुद्धम् अथाब्रवीत् । ह्व्_१०८।१८१२१९:१९ ।
मा भयं स्वस्ति ते वीर
प्राप्तो ऽस्म्य् अभिमतस् तव ॥ ह्व्_१०८।१८१२१९:२० ।
विश्वास-प्रस्तुतिः
ततश् च नारदं दृष्ट्वा
सो ऽभिवाद्य महाबलः । ह्व्_१०८।१८१२१९:२१ ।
प्रहृष्टः सुमना भूत्वा
युद्धार्थम् अभ्यवर्तत । ह्व्_१०८।१८१२१९:२२ ।
([क्: त्२ ग्१।२।४ चोन्त्। (म्४ ins. after १८): :क्])
वध्यतां वध्यताम् एष
गृह्यतां गृह्यताम् अयम् । ह्व्_१०८।१८१२२०:१ ।
हन्यतां हन्यतां क्षिप्रम्
इत्य् ऊचुर् दानवास् तद । ह्व्_१०८।१८१२२०:२ ।
ततस् तेषां स्वनं श्रुत्वा
सर्वेषाम् एव गर्जताम् ।
सहसैवोत्थितः शूरस्
तोत्रार्दित इव द्विपः ॥ ह्व्_१०८।१९ ॥

([क्: त्१।२ ग्१।३-५ म् ins.: :क्])
निरुद्धो ऽपि तया तत्र
बहुशो युद्धदुर्मदः । ह्व्_१०८।१९१२२१:१ ।
भीतया भीत एवासौ
धावति स्म तथासुरान् । ह्व्_१०८।१९१२२१:२ ।
तम् आपतन्तं दृष्ट्वैव
सन्दष्टौष्ठं महाभुजम् ।
प्रासादाच् चावरोहन्तं
भयार्ता विप्रदुद्रुवुः ॥ ह्व्_१०८।२० ॥

([क्: after २०च्, त्१।२ ग्१।३-५ म् ins.: :क्])
नदन्तं सिंहवत् तदा । ह्व्_१०८।२०च्१२२२:१ ।*
तस्य नादेन वै राजन् । ह्व्_१०८।२०च्१२२२:२ ।*
अन्तःपुरद्वारगतं
परिघं गृह्य चातुलम् ।
वधाय तेषां चिक्षेप
नानायुधविशारदः ॥ ह्व्_१०८।२१ ॥

ते सर्वे बाणवर्षैश् च
गदाभिस् तोमरैस् तथा ।
असिभिः शक्तिभिः शूलैर्
निजघ्नू रणगोचरम् ॥ ह्व्_१०८।२२ ॥
मूलम्
ते सर्वे बाणवर्षैश् च
गदाभिस् तोमरैस् तथा ।
असिभिः शक्तिभिः शूलैर्
निजघ्नू रणगोचरम् ॥ ह्व्_१०८।२२ ॥
विश्वास-प्रस्तुतिः
स हन्यमानो नाराचैः
परिघैश् च समन्ततः ।
([क्: क्१ Ñ२।३ व् ब् द्न् द्स् द्१।४-६ त्४ ग्२।४।५ ins.: :क्])
दानवैः समभिक्रुद्धैः
प्राद्युम्निः शस्त्रकोविदैः । ह्व्_१०८।२३अब्१२२३ ।
नाक्षुभ्यत् सर्वभूतात्मा
नदन् मेघ इवोष्णगे ॥ ह्व्_१०८।२३ ॥

आविध्य परिघं घोरं
तेषां मध्ये व्यवस्थितः ।
सूर्यो दिविचरन्मध्ये
मेघानाम् इव सर्वतः ॥ ह्व्_१०८।२४ ॥
मूलम्
आविध्य परिघं घोरं
तेषां मध्ये व्यवस्थितः ।
सूर्यो दिविचरन्मध्ये
मेघानाम् इव सर्वतः ॥ ह्व्_१०८।२४ ॥
विश्वास-प्रस्तुतिः
([क्: क्१।३।४ Ñ२।३ व् ब् द् त्४ ग्२-५ (त्२ after २५, ग्१ after २८) ins.: :क्])
दण्डकाष्ठाजिनधरो
नारदो ह्रष्टचेतनः । ह्व्_१०८।२४१२२४:१ ।
साधु साध्व् इति वै तत्र
सो ऽनिरुद्धम् अभाषत । ह्व्_१०८।२४१२२४:२ ।
ते हन्यमाना रौद्रेण
परिघेणामितौजसा ।
प्राद्रवन्त भयात् सर्वे
मेघो वातेरिता यथा ॥ ह्व्_१०८।२५ ॥

([क्: न् (एxचेप्त् श्१) त्४ ग्२।४ ins.: :क्])
विद्राव्य दानवान् वीरः
परिघेणाशुविक्रमः । ह्व्_१०८।२५१२२५ ।
अनिरुद्धो नदन् हृष्टः
सिंहनादं व्यरोचत ।
घर्मान्ते तोयदो व्योम्नि
नदन्न् इव महास्वनः ॥ ह्व्_१०८।२६ ॥

तिष्ठध्वम् इति चुक्रोश
दानवान् युद्धदुर्मदान् ।
प्राद्युम्निर् व्यहनच् चापि
सर्वशत्रुनिबर्हणः ॥ ह्व्_१०८।२७ ॥
मूलम्
तिष्ठध्वम् इति चुक्रोश
दानवान् युद्धदुर्मदान् ।
प्राद्युम्निर् व्यहनच् चापि
सर्वशत्रुनिबर्हणः ॥ ह्व्_१०८।२७ ॥
विश्वास-प्रस्तुतिः
तेन ते समरे सर्वे
हन्यमाना महात्मना ।
यतो बाणस् ततो भीता
ययुर् युद्धपराङ्मुखाः ॥ ह्व्_१०८।२८ ॥
मूलम्
तेन ते समरे सर्वे
हन्यमाना महात्मना ।
यतो बाणस् ततो भीता
ययुर् युद्धपराङ्मुखाः ॥ ह्व्_१०८।२८ ॥
विश्वास-प्रस्तुतिः
ततो बाणसमीपस्थाः
श्वसन्तो रुधिरोक्षिताः ।
न शर्म लेभिरे दैत्या
भयविक्लवलोचनाः ॥ ह्व्_१०८।२९ ॥
मूलम्
ततो बाणसमीपस्थाः
श्वसन्तो रुधिरोक्षिताः ।
न शर्म लेभिरे दैत्या
भयविक्लवलोचनाः ॥ ह्व्_१०८।२९ ॥
विश्वास-प्रस्तुतिः
मा भैष्ट मा भैष्ट इति
राज्ञा ते तेन चोदिताः ।
त्रासं विसृज्य चैकस्था
युध्यध्वं दानवर्षभाः ॥ ह्व्_१०८।३० ॥
मूलम्
मा भैष्ट मा भैष्ट इति
राज्ञा ते तेन चोदिताः ।
त्रासं विसृज्य चैकस्था
युध्यध्वं दानवर्षभाः ॥ ह्व्_१०८।३० ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१ क्२ Ñ१) त्४ ग्२।४।५ ins.: :क्])
तान् उवाच पुनर् बाणो
भयवित्रस्तलोचनान् । ह्व्_१०८।३०१२२६ ।
किम् इदं लोकविख्यातं
यश उत्सृज्य दूरतः ।
भवन्तो यान्ति वैक्लव्यं
क्लीबा इव विचेतसः ॥ ह्व्_१०८।३१ ॥

को ऽयं यस्य भयत्रस्ता
भवन्तो यान्त्य् अनेकशः ।
कुलापदेशिनः सर्वे
नानायुद्धविशारदाः ॥ ह्व्_१०८।३२ ॥
मूलम्
को ऽयं यस्य भयत्रस्ता
भवन्तो यान्त्य् अनेकशः ।
कुलापदेशिनः सर्वे
नानायुद्धविशारदाः ॥ ह्व्_१०८।३२ ॥
विश्वास-प्रस्तुतिः
भवद्भिर् न हि मे युद्धे
कार्यं साहाय्यम् अद्य वै ।
अब्रवीद् ध्वंसतेत्य् एवं
मत्समीपाच् च नश्यत ॥ ह्व्_१०८।३३ ॥
मूलम्
भवद्भिर् न हि मे युद्धे
कार्यं साहाय्यम् अद्य वै ।
अब्रवीद् ध्वंसतेत्य् एवं
मत्समीपाच् च नश्यत ॥ ह्व्_१०८।३३ ॥
विश्वास-प्रस्तुतिः
अथ तान् वाग्भिर् उग्राभिस्
त्रासयन् बहुधा बली ।
व्यादिदेश रणे शूरान्
सर्वान् अयुतशः पुनः ॥ ह्व्_१०८।३४ ॥
मूलम्
अथ तान् वाग्भिर् उग्राभिस्
त्रासयन् बहुधा बली ।
व्यादिदेश रणे शूरान्
सर्वान् अयुतशः पुनः ॥ ह्व्_१०८।३४ ॥
विश्वास-प्रस्तुतिः
प्रमाथगणभूयिष्ठं
व्यादिष्टं तस्य निग्रहे ।
अनीकं सुमहद्रात्रौ
नानाप्रहरणोद्यतम् ॥ ह्व्_१०८।३५ ॥
मूलम्
प्रमाथगणभूयिष्ठं
व्यादिष्टं तस्य निग्रहे ।
अनीकं सुमहद्रात्रौ
नानाप्रहरणोद्यतम् ॥ ह्व्_१०८।३५ ॥
विश्वास-प्रस्तुतिः
तत्रान्तरिक्षं बहुधा
विद्युद्वद्भिर् इवाम्बुदैः ।
बाणानीकैः समभवद्
व्याप्तं सन्दीप्तलोचनैः ॥ ह्व्_१०८।३६ ॥
मूलम्
तत्रान्तरिक्षं बहुधा
विद्युद्वद्भिर् इवाम्बुदैः ।
बाणानीकैः समभवद्
व्याप्तं सन्दीप्तलोचनैः ॥ ह्व्_१०८।३६ ॥
विश्वास-प्रस्तुतिः
केचित् क्षितिस्थाः प्राक्रोशन्
गजा इव समन्ततः ।
अथान्तरिक्षे व्यनदन्
घर्मान्तेष्व् इव तोयदाः ॥ ह्व्_१०८।३७ ॥
मूलम्
केचित् क्षितिस्थाः प्राक्रोशन्
गजा इव समन्ततः ।
अथान्तरिक्षे व्यनदन्
घर्मान्तेष्व् इव तोयदाः ॥ ह्व्_१०८।३७ ॥
विश्वास-प्रस्तुतिः
ततस् तत् सुमहद् युद्धं
समेतम् अभवत् पुनः ।
तिष्ठ तिष्ठेति च तदा
वाचो ऽश्रूयन्त सर्वशः ॥ ह्व्_१०८।३८ ॥
मूलम्
ततस् तत् सुमहद् युद्धं
समेतम् अभवत् पुनः ।
तिष्ठ तिष्ठेति च तदा
वाचो ऽश्रूयन्त सर्वशः ॥ ह्व्_१०८।३८ ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१ क्२ Ñ१) त्४ ग्२।४।५ ins.: :क्])
अनिरुद्धो रणे वीरः
स च तान् अभ्यवर्तत । ह्व्_१०८।३८१२२७ ।
तद् आश्चर्यं समभवद्
यद् एकस् तैः समागतः ।
अयुध्यत महावीर्यैर्
दानवैः सह संयुगे ॥ ह्व्_१०८।३९ ॥

तेषाम् एव च जग्राह
परिघांस् तोमरान् अपि ।
तैर् एव च महायुद्धे
निजघान महाबलः ॥ ह्व्_१०८।४० ॥
मूलम्
तेषाम् एव च जग्राह
परिघांस् तोमरान् अपि ।
तैर् एव च महायुद्धे
निजघान महाबलः ॥ ह्व्_१०८।४० ॥
विश्वास-प्रस्तुतिः
([क्: ब्१ ins.: :क्])
परिगृह्य च तान् एव
चायुधैर् अहनद् रणे । ह्व्_१०८।४०१२२८ ।
पुनः स परिघं घोरं
प्रगृह्य रणमूर्धनि ।
स दैत्यसङ्घान् समरे
निजघान महाबलान् ॥ ह्व्_१०८।४१ ॥
मूलम्
([क्: ब्१ ins.: :क्])
परिगृह्य च तान् एव
चायुधैर् अहनद् रणे । ह्व्_१०८।४०१२२८ ।
पुनः स परिघं घोरं
प्रगृह्य रणमूर्धनि ।
स दैत्यसङ्घान् समरे
निजघान महाबलान् ॥ ह्व्_१०८।४१ ॥
विश्वास-प्रस्तुतिः
([क्: त्१।२ ग् म् ins.: :क्])
अष्टौ त्रीणि सहस्राणि
किङ्कराणां तरस्विनाम् । ह्व्_१०८।४११२२९:१ ।
जघान समरे चैकः
साक्षात् पौत्रस् तु शार्ङ्गिणः । ह्व्_१०८।४११२२९:२ ।
ननाद विविधं नादं
रोदसी च स कम्पयन् । ह्व्_१०८।४११२२९:३ ।
निस्त्रिंशं चर्म चोत्सृष्टं
जग्राह रणमूर्धनि ।
स तेन व्यचरन् मार्गान्
एकः शत्रुनिबर्हणः ॥ ह्व्_१०८।४२ ॥

भ्रान्तम् उद्भ्रान्तम् आविद्धम्
आप्लुतं विप्लुतं प्लुतम् ।
इति प्रकारान् द्वात्रिंशद्
विचरन्न् अभ्यदृश्यत ॥ ह्व्_१०८।४३ ॥
मूलम्
भ्रान्तम् उद्भ्रान्तम् आविद्धम्
आप्लुतं विप्लुतं प्लुतम् ।
इति प्रकारान् द्वात्रिंशद्
विचरन्न् अभ्यदृश्यत ॥ ह्व्_१०८।४३ ॥
विश्वास-प्रस्तुतिः
एकं सहस्रशस् तत्र
ददृशू रणमूर्धनि ।
क्रीडन्तं बहुधा युद्धे
व्यादितास्यम् इवान्तकम् ॥ ह्व्_१०८।४४ ॥
मूलम्
एकं सहस्रशस् तत्र
ददृशू रणमूर्धनि ।
क्रीडन्तं बहुधा युद्धे
व्यादितास्यम् इवान्तकम् ॥ ह्व्_१०८।४४ ॥
विश्वास-प्रस्तुतिः
ततस् तेनाभिसन्तप्ता
रुधिरौघपरिप्लुताः ।
पुनर् भग्नाः प्राद्रवन्त
यत्र बाणः स्थितो रणे ॥ ह्व्_१०८।४५ ॥
मूलम्
ततस् तेनाभिसन्तप्ता
रुधिरौघपरिप्लुताः ।
पुनर् भग्नाः प्राद्रवन्त
यत्र बाणः स्थितो रणे ॥ ह्व्_१०८।४५ ॥
विश्वास-प्रस्तुतिः
गजवाजिरथौघैस् ते
उह्यमानाः समन्ततः ।
कृत्वा चार्तस्वरं घोरं
दिशो जग्मुर् हतौजसः ॥ ह्व्_१०८।४६ ॥
मूलम्
गजवाजिरथौघैस् ते
उह्यमानाः समन्ततः ।
कृत्वा चार्तस्वरं घोरं
दिशो जग्मुर् हतौजसः ॥ ह्व्_१०८।४६ ॥
विश्वास-प्रस्तुतिः
([क्: Ñ२ ब्१ द्स् ins.: :क्])
एवं भयम् अभूत् तेषां
दानवानां महारणे । ह्व्_१०८।४६१२३० ।
एकैकस्योपरि तदा
ते ऽन्योन्यं भयपीडिताः ।
वमन्तः शोणितं जग्मुर्
विषादाद् विमुखा रणे ॥ ह्व्_१०८।४७ ॥
मूलम्
([क्: Ñ२ ब्१ द्स् ins.: :क्])
एवं भयम् अभूत् तेषां
दानवानां महारणे । ह्व्_१०८।४६१२३० ।
एकैकस्योपरि तदा
ते ऽन्योन्यं भयपीडिताः ।
वमन्तः शोणितं जग्मुर्
विषादाद् विमुखा रणे ॥ ह्व्_१०८।४७ ॥
विश्वास-प्रस्तुतिः
न बभूव भयं तादृग्
गानवानां पुरा रणे ।
यादृशं युध्यमानानाम्
अनिरुद्धेन संयुगे ॥ ह्व्_१०८।४८ ॥
मूलम्
न बभूव भयं तादृग्
गानवानां पुरा रणे ।
यादृशं युध्यमानानाम्
अनिरुद्धेन संयुगे ॥ ह्व्_१०८।४८ ॥
विश्वास-प्रस्तुतिः
([क्: क्२ ins.: :क्])
तादृशं न भयं तेषाम्
अभवद् देवसंयुगे । ह्व्_१०८।४८१२३२ ।
केचिद् वमन्तो रुधिरम्
अपतन् वसुधातले ।
दानवा गिरिशृङ्गाभा
गदाशूलासिपाणयः ॥ ह्व्_१०८।४९ ॥
मूलम्
([क्: क्२ ins.: :क्])
तादृशं न भयं तेषाम्
अभवद् देवसंयुगे । ह्व्_१०८।४८१२३२ ।
केचिद् वमन्तो रुधिरम्
अपतन् वसुधातले ।
दानवा गिरिशृङ्गाभा
गदाशूलासिपाणयः ॥ ह्व्_१०८।४९ ॥
विश्वास-प्रस्तुतिः
([क्: त्१।२ ग् म् ins.: :क्])
केचिन् मथितमस्तिष्काः
केचिद् भिन्नगलान्तराः । ह्व्_१०८।४९१२३३ ।
ते बाणम् उत्सृज्य रणे
जग्मुर् भयसमाकुलाः ।
विशालम् आकाशतलं
दानवा निर्जितास् तदा ॥ ह्व्_१०८।५० ॥

निःसङ्गभग्नां महतीं
दृष्ट्वा तां वाहिनीं तदा ।
बाणः क्रोधात् प्रजज्वाल
समिद्धो ऽग्निर् इवाध्वरे ॥ ह्व्_१०८।५१ ॥
मूलम्
निःसङ्गभग्नां महतीं
दृष्ट्वा तां वाहिनीं तदा ।
बाणः क्रोधात् प्रजज्वाल
समिद्धो ऽग्निर् इवाध्वरे ॥ ह्व्_१०८।५१ ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१ क्२ Ñ१) त्४ ग्२।४।५ ins. (त्२ ग्३ after ६८): :क्])
अन्तरिक्षचरो भूत्वा
साधुवादी समन्ततः । ह्व्_१०८।५११२३४:१ ।
नारदो नृत्यति प्रीतो ह्य्
अनिरुद्धस्य संयुगे ॥ ह्व्_१०८।५११२३४:२ ।

एतस्मिन्न् अन्तरे चैव
बाणः परमकोपन । ह्व्_१०८।५११२३४:३ ।
कुम्भाण्डसङ्गृहीतं तु
रथम् आस्थाय वीर्यवान् ।
ययौ यत्रानिरुद्धो वै
सो ऽसिम् उद्यम्य दारुणम् ॥ ह्व्_१०८।५२ ॥
मूलम्
एतस्मिन्न् अन्तरे चैव
बाणः परमकोपन । ह्व्_१०८।५११२३४:३ ।
कुम्भाण्डसङ्गृहीतं तु
रथम् आस्थाय वीर्यवान् ।
ययौ यत्रानिरुद्धो वै
सो ऽसिम् उद्यम्य दारुणम् ॥ ह्व्_१०८।५२ ॥
विश्वास-प्रस्तुतिः
पट्टिसासिगदाशूलान्
उद्यम्य च परश्वधान् ।
बभौ बाहुसहस्रेण
शक्रध्वजशतैर् इव ॥ ह्व्_१०८।५३ ॥
मूलम्
पट्टिसासिगदाशूलान्
उद्यम्य च परश्वधान् ।
बभौ बाहुसहस्रेण
शक्रध्वजशतैर् इव ॥ ह्व्_१०८।५३ ॥
विश्वास-प्रस्तुतिः
बद्धगोधाङ्गुलित्रैश् च
बाहुभिः स महाभुजः ।
नानाप्रहरणोपेतः
शुशुभे दानवोत्तमः ॥ ह्व्_१०८।५४ ॥
मूलम्
बद्धगोधाङ्गुलित्रैश् च
बाहुभिः स महाभुजः ।
नानाप्रहरणोपेतः
शुशुभे दानवोत्तमः ॥ ह्व्_१०८।५४ ॥
विश्वास-प्रस्तुतिः
सिंहनादं नदन् क्रुद्धो
विस्फारितमहाधनुः ।
([क्: त्१।२ ग् म् ins.: :क्])
विसृजञ् शतशो बाणान्
दानवो ऽथ महाबलः । ह्व्_१०८।५५अब्१२३५:१ ।
अभ्यद्रवच् च वेगेन
प्राद्युम्निर् यत्र संस्थितः । ह्व्_१०८।५५अब्१२३५:२ ।
अब्रवीत् तिष्ठ तिष्ठेति
क्रोधसंरक्तलोचनः ॥ ह्व्_१०८।५५ ॥

वचनं तस्य संश्रुत्य
प्राद्युम्निर् अपराजितः ।
बाणस्य वदतः सङ्ख्ये
उदैक्षत ततो ऽहसत् ॥ ह्व्_१०८।५६ ॥
मूलम्
वचनं तस्य संश्रुत्य
प्राद्युम्निर् अपराजितः ।
बाणस्य वदतः सङ्ख्ये
उदैक्षत ततो ऽहसत् ॥ ह्व्_१०८।५६ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त्१।२।४ ग् म् ins.: :क्])
उषा च पितरं दृष्ट्वा
भयविह्वललोचना । ह्व्_१०८।५६१२३६:१ ।
प्रासादमध्ये संलीना
भर्तारं समुदैक्षत ॥ ह्व्_१०८।५६१२३६:२ ।
मूलम्
([क्: द्६ त्१।२।४ ग् म् ins.: :क्])
उषा च पितरं दृष्ट्वा
भयविह्वललोचना । ह्व्_१०८।५६१२३६:१ ।
प्रासादमध्ये संलीना
भर्तारं समुदैक्षत ॥ ह्व्_१०८।५६१२३६:२ ।
विश्वास-प्रस्तुतिः
कर्तव्यमूढा सम्भ्रान्ता
चित्रलेखा वराप्सराः । ह्व्_१०८।५६१२३६:३ ।
बभूव विमना भूत्वा
मृतास्मीति व्यचिन्तयत् । ह्व्_१०८।५६१२३६:४ ।
किङ्किणीशतनिर्घोषं
रक्तध्वजपताकिनम् ।
ऋक्षचर्मावनद्धाङ्गं
दशनल्वं महारथम् ॥ ह्व्_१०८।५७ ॥

([क्: द्६ त्१।२ ग् म् ins.: :क्])
आरुह्य स्यन्दनं वीरो
बभौ बाहुसहस्रवान् । ह्व्_१०८।५७१२३७ ।
तस्य वाजिसहस्रं तु
रथे युक्तं महात्मना ।
([क्: न् (एxचेप्त् श्१ क्२) त्२।४ ग्२।४।५ ins.: :क्])
पुरा देवासुरे युद्धे
हिरण्यकशिपोर् इव ॥ ह्व्_१०८।५८अब्१२३८:१ ।

तम् आपतन्तं ददृशे
दानवं यदुपुङ्गवः । ह्व्_१०८।५८अब्१२३८:२ ।
सम्प्रहृष्टस् ततो युद्धे
तेजसा चाप्य् अपूर्यत ॥ ह्व्_१०८।५८अब्१२३८:३ ।
मूलम्
तम् आपतन्तं ददृशे
दानवं यदुपुङ्गवः । ह्व्_१०८।५८अब्१२३८:२ ।
सम्प्रहृष्टस् ततो युद्धे
तेजसा चाप्य् अपूर्यत ॥ ह्व्_१०८।५८अब्१२३८:३ ।
विश्वास-प्रस्तुतिः
असिचर्मधरो वीरः
स्वस्थः सङ्ग्रामलालसः । ह्व्_१०८।५८अब्१२३८:४ ।
नरसिंहो यथा पूर्वम्
आदिदैत्यवधोद्यतः । ह्व्_१०८।५८अब्१२३८:५ ।
आपतन्तं ददर्शाथ
खड्गचर्मधरं तदा ॥ ह्व्_१०८।५८ ॥
मूलम्
असिचर्मधरो वीरः
स्वस्थः सङ्ग्रामलालसः । ह्व्_१०८।५८अब्१२३८:४ ।
नरसिंहो यथा पूर्वम्
आदिदैत्यवधोद्यतः । ह्व्_१०८।५८अब्१२३८:५ ।
आपतन्तं ददर्शाथ
खड्गचर्मधरं तदा ॥ ह्व्_१०८।५८ ॥
विश्वास-प्रस्तुतिः
([क्: त्१।२ ग् म् ins.: :क्])
रागिणं चिह्नितं राजन्
प्रियानखपदैस् तथा । ह्व्_१०८।५९अब्१२३९ ।
खड्गचर्मधरं तं तु
दृष्ट्वा बाणः पदातिनम् ।
प्रहर्षम् अतुलं लेभे
प्राद्युम्निवधकाङ्क्षया ॥ ह्व्_१०८।५९ ॥

तनुत्रेण विहीनश् च
खड्गपाणिश् च यादवः ।
अजेयश् चेति मत्वा तं
युद्धायाभिमुखे स्थितम् ॥ ह्व्_१०८।६० ॥
मूलम्
तनुत्रेण विहीनश् च
खड्गपाणिश् च यादवः ।
अजेयश् चेति मत्वा तं
युद्धायाभिमुखे स्थितम् ॥ ह्व्_१०८।६० ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१ Ñ१) त्४ ग्२।४।५ ins.: :क्])
अनिरुद्धं रणे बाणो
जितकाशी महाबलः । ह्व्_१०८।६०१२४०:१ ।
वाचं चोवाच सङ्क्रुद्धो
गृह्यतां हन्यताम् इति ॥ ह्व्_१०८।६०१२४०:२ ।
मूलम्
([क्: न् (एxचेप्त् श्१ Ñ१) त्४ ग्२।४।५ ins.: :क्])
अनिरुद्धं रणे बाणो
जितकाशी महाबलः । ह्व्_१०८।६०१२४०:१ ।
वाचं चोवाच सङ्क्रुद्धो
गृह्यतां हन्यताम् इति ॥ ह्व्_१०८।६०१२४०:२ ।
विश्वास-प्रस्तुतिः
वाचं च ब्रुवतस् तस्य
श्रुत्वा प्राद्युम्निर् आहवे । ह्व्_१०८।६०१२४०:३ ।
बाणस्य ब्रुवतः क्रोधाद्
धसमानो ऽभ्युदैक्षत ॥ ह्व्_१०८।६०१२४०:४ ।
मूलम्
वाचं च ब्रुवतस् तस्य
श्रुत्वा प्राद्युम्निर् आहवे । ह्व्_१०८।६०१२४०:३ ।
बाणस्य ब्रुवतः क्रोधाद्
धसमानो ऽभ्युदैक्षत ॥ ह्व्_१०८।६०१२४०:४ ।
विश्वास-प्रस्तुतिः
उषा भयपरित्रस्ता
रुदती तत्र भामिनी । ह्व्_१०८।६०१२४०:५ ।
अनिरुद्धः प्रहस्याथ
समाश्वास्य च तां स्थिताम् ॥ ह्व्_१०८।६०१२४०:६ ।
मूलम्
उषा भयपरित्रस्ता
रुदती तत्र भामिनी । ह्व्_१०८।६०१२४०:५ ।
अनिरुद्धः प्रहस्याथ
समाश्वास्य च तां स्थिताम् ॥ ह्व्_१०८।६०१२४०:६ ।
विश्वास-प्रस्तुतिः
अथ बाणः शरौघाणि
क्षुद्रकाणां समन्ततः । ह्व्_१०८।६०१२४०:७ ।
चिक्षेप समरे क्रुद्धो ह्य्
अनिरुद्धवधेप्सया ॥ ह्व्_१०८।६०१२४०:८ ।
मूलम्
अथ बाणः शरौघाणि
क्षुद्रकाणां समन्ततः । ह्व्_१०८।६०१२४०:७ ।
चिक्षेप समरे क्रुद्धो ह्य्
अनिरुद्धवधेप्सया ॥ ह्व्_१०८।६०१२४०:८ ।
विश्वास-प्रस्तुतिः
अनिरुद्धस् तु चिच्छेद
काङ्क्षंस् तस्य पराजयम् । ह्व्_१०८।६०१२४०:९ ।
ववर्ष शरजालानि
क्षुद्रकाणां समन्ततः ।
बाणोऽनिरुद्धशिरसि
काङ्क्षंस् तस्य रणे वधम् ॥ ह्व्_१०८।६१ ॥
मूलम्
अनिरुद्धस् तु चिच्छेद
काङ्क्षंस् तस्य पराजयम् । ह्व्_१०८।६०१२४०:९ ।
ववर्ष शरजालानि
क्षुद्रकाणां समन्ततः ।
बाणोऽनिरुद्धशिरसि
काङ्क्षंस् तस्य रणे वधम् ॥ ह्व्_१०८।६१ ॥
विश्वास-प्रस्तुतिः
तानि बाणसहस्राणि
चर्मणा व्यवधूय सः ।
बभौ प्रमुखतस् तस्य
स्थितः सूर्य इवोदये ॥ ह्व्_१०८।६२ ॥
मूलम्
तानि बाणसहस्राणि
चर्मणा व्यवधूय सः ।
बभौ प्रमुखतस् तस्य
स्थितः सूर्य इवोदये ॥ ह्व्_१०८।६२ ॥
विश्वास-प्रस्तुतिः
सो ऽभिभूय रणे बाणम्
आस्थितो यदुनन्दनः ।
सिंहः प्रमुखतो दृष्ट्वा
गजम् एकं यथा वने ॥ ह्व्_१०८।६३ ॥
मूलम्
सो ऽभिभूय रणे बाणम्
आस्थितो यदुनन्दनः ।
सिंहः प्रमुखतो दृष्ट्वा
गजम् एकं यथा वने ॥ ह्व्_१०८।६३ ॥
विश्वास-प्रस्तुतिः
ततो बाणसहस्रौघैर्
मर्मभेदिभिर् आशुगैः ।
विव्याध निशितैस् तीक्ष्णैः
प्राद्युम्निम् अपराजितम् ॥ ह्व्_१०८।६४ ॥
मूलम्
ततो बाणसहस्रौघैर्
मर्मभेदिभिर् आशुगैः ।
विव्याध निशितैस् तीक्ष्णैः
प्राद्युम्निम् अपराजितम् ॥ ह्व्_१०८।६४ ॥
([क्: ब्२ द्५ त्४ ग्२।४।५ ग्(एद्।) ins.: :क्])
समाहतस् ततो बाणैः
खड्गचर्मधरो नृप । ह्व्_१०८।६४१२४२ ।
विश्वास-प्रस्तुतिः
([क्: ब्२ द्५ त्४ ग्२।४।५ चोन्त्।; क्१।३।४ Ñ२ व् ब् द्स्२ द्१।४।६ ins. after ६४ (द्न्१ after ६७अब्): :क्])
तम् आपतन्तं निशितैर्
अभ्यघ्नन् सायकैस् तदा । ह्व्_१०८।६४१२४३ ।
सो ऽतिविद्धो महाबाहुर्
बाणैः सन्नतपर्वभिः ।
क्रोधेनाभिप्रजज्वाल
चिकीर्षुः कर्म दुष्करम् ॥ ह्व्_१०८।६५ ॥

रुधिरौघप्लुतैर् गात्रैर्
बाणवर्षैः समाहतः ।
अभिभूतः सुसङ्क्रुद्धो
ययौ बाणरथं प्रति ॥ ह्व्_१०८।६६ ॥
मूलम्
रुधिरौघप्लुतैर् गात्रैर्
बाणवर्षैः समाहतः ।
अभिभूतः सुसङ्क्रुद्धो
ययौ बाणरथं प्रति ॥ ह्व्_१०८।६६ ॥
विश्वास-प्रस्तुतिः
असिभिर् मुसलैः शूलैः
पट्टिसैस् तोमरैस् तथा ।
सो ऽतिविद्धः शरौघैस् तु
प्राद्युम्निर् नाभ्यकम्पत ॥ ह्व्_१०८।६७ ॥
मूलम्
असिभिर् मुसलैः शूलैः
पट्टिसैस् तोमरैस् तथा ।
सो ऽतिविद्धः शरौघैस् तु
प्राद्युम्निर् नाभ्यकम्पत ॥ ह्व्_१०८।६७ ॥
विश्वास-प्रस्तुतिः
आप्लुत्य सहसा क्रुद्धो
रथेषां तस्य सो ऽच्छिनत् ।
जघानाश्वांश् च खड्गेन
बाणस्य रथमूर्धनि ॥ ह्व्_१०८।६८ ॥
मूलम्
आप्लुत्य सहसा क्रुद्धो
रथेषां तस्य सो ऽच्छिनत् ।
जघानाश्वांश् च खड्गेन
बाणस्य रथमूर्धनि ॥ ह्व्_१०८।६८ ॥
विश्वास-प्रस्तुतिः
तं पुनः शरवर्षेण
तोमरैः पट्टिसैस् तथा ।
चकारान्तर्हितं बाणो
युद्धमार्गविशारदः ॥ ह्व्_१०८।६९ ॥
मूलम्
तं पुनः शरवर्षेण
तोमरैः पट्टिसैस् तथा ।
चकारान्तर्हितं बाणो
युद्धमार्गविशारदः ॥ ह्व्_१०८।६९ ॥
विश्वास-प्रस्तुतिः
हतो ऽयम् इति विज्ञाय
प्राणदन् नैरृता गणाः ।
ततो ऽवप्लुत्य सहसा
रथपार्श्वे व्यवस्थितः ॥ ह्व्_१०८।७० ॥
मूलम्
हतो ऽयम् इति विज्ञाय
प्राणदन् नैरृता गणाः ।
ततो ऽवप्लुत्य सहसा
रथपार्श्वे व्यवस्थितः ॥ ह्व्_१०८।७० ॥
विश्वास-प्रस्तुतिः
शक्तिं बाणस् ततः क्रुद्धो
घोररूपां भयावहाम् ।
जग्राह ज्वलितां दीप्तां
घण्टामालाकुलां रणे ॥ ह्व्_१०८।७१ ॥
मूलम्
शक्तिं बाणस् ततः क्रुद्धो
घोररूपां भयावहाम् ।
जग्राह ज्वलितां दीप्तां
घण्टामालाकुलां रणे ॥ ह्व्_१०८।७१ ॥
विश्वास-प्रस्तुतिः
ज्वलनादित्यसङ्काशां
यमदण्डोपमां शुभाम् ।
([क्: श्१ द्२ ins.: :क्])
वारयन्तीं दुराधर्षां
चामीकरविभूषिताम् । ह्व्_१०८।७२अब्१२४४:१ ।
गुर्वीं भारसहस्रेण
विश्वकर्मकृतां तदा । ह्व्_१०८।७२अब्१२४४:२ ।
प्राहिणोत् ताम् असङ्गेन
महोल्कां ज्वलिताम् इव ॥ ह्व्_१०८।७२ ॥

ताम् आपतन्तीं सम्प्रेक्ष्य
जीवितान्तकरीं तदा ।
ताम् एव प्राहिणोच् छक्तिं
सर्वशत्रुभयङ्करीम् । ह्व्_१०८।७३अब्१२४५ ।
सो ऽभिप्लुत्य तदा शक्तिं
जग्राह पुरुषोत्तमः ॥ ह्व्_१०८।७३ ॥
मूलम्
ताम् आपतन्तीं सम्प्रेक्ष्य
जीवितान्तकरीं तदा ।
ताम् एव प्राहिणोच् छक्तिं
सर्वशत्रुभयङ्करीम् । ह्व्_१०८।७३अब्१२४५ ।
सो ऽभिप्लुत्य तदा शक्तिं
जग्राह पुरुषोत्तमः ॥ ह्व्_१०८।७३ ॥
विश्वास-प्रस्तुतिः
निर्बिभेद ततो बाणं
स्वशक्त्यैव महाबलः ।
सा भित्त्वा तस्य देहं तु
जगाम वसुधातलम् ॥ ह्व्_१०८।७४ ॥
मूलम्
निर्बिभेद ततो बाणं
स्वशक्त्यैव महाबलः ।
सा भित्त्वा तस्य देहं तु
जगाम वसुधातलम् ॥ ह्व्_१०८।७४ ॥
विश्वास-प्रस्तुतिः
([क्: after अन् अद्द्ल्। चोलोफोन्, म्३ ins.: :क्])
{वैशम्पायनः}
ततो मूर्छां समापेदे
बलिपुत्रः प्रतापवान् । ह्व्_१०८।७४१२४६:१ ।
रुधिराप्लुतगात्रस् तु
स्वशक्या पीडितो भृशम् । ह्व्_१०८।७४१२४६:२ ।
([क्: न् (एxचेप्त् श्१) त्४ ग्२।४।५ ins. after ७४: :क्])
स गाढविद्धो व्यथितो
ध्वजयष्टिं समाश्रितः । ह्व्_१०८।७४१२४७ ।
ततो मूर्छाभिभूतं तं
कुम्भाण्डो वाक्यम् अब्रवीत् ।
उपेक्षसे दानवेन्द्र
किम् एवं शत्रुम् उद्यतम् ॥ ह्व्_१०८।७५ ॥

लब्धलक्ष्यो ह्य् अयं वीरो
निर्विकारो ऽद्य दृश्यते ।
मायाम् आश्रित्य युध्यस्व
नायं वध्यो ऽन्यथा भवेत् ॥ ह्व्_१०८।७६ ॥
मूलम्
लब्धलक्ष्यो ह्य् अयं वीरो
निर्विकारो ऽद्य दृश्यते ।
मायाम् आश्रित्य युध्यस्व
नायं वध्यो ऽन्यथा भवेत् ॥ ह्व्_१०८।७६ ॥
विश्वास-प्रस्तुतिः
आत्मानं मां च रक्षस्व
प्रमादात् किम् उपेक्षसे ।
वध्यताम् अयम् अद्यैव
न नः सर्वान् विनाशयेत् ॥ ह्व्_१०८।७७ ॥
मूलम्
आत्मानं मां च रक्षस्व
प्रमादात् किम् उपेक्षसे ।
वध्यताम् अयम् अद्यैव
न नः सर्वान् विनाशयेत् ॥ ह्व्_१०८।७७ ॥
विश्वास-प्रस्तुतिः
([क्: द्स्१ ग्(एद्।) ins.: :क्])
अन्यांश् च शतशो हत्वा
उषां नीत्वा व्रजिष्यति । ह्व्_१०८।७७१२४८ ।
कुम्भाण्डवचनैर् एवं
दानवेन्द्रः प्रचोदितः ।
वाचं रूक्षाम् अभिक्रुद्धः
प्रोवाच वदतां वरः ॥ ह्व्_१०८।७८ ॥

एषो ऽहम् अस्य विदधे
मृत्युं प्राणहरं रणे ।
आदास्याम्य् अहम् एनं वै
गरुत्मान् इव पन्नगम् ॥ ह्व्_१०८।७९ ॥
मूलम्
एषो ऽहम् अस्य विदधे
मृत्युं प्राणहरं रणे ।
आदास्याम्य् अहम् एनं वै
गरुत्मान् इव पन्नगम् ॥ ह्व्_१०८।७९ ॥
विश्वास-प्रस्तुतिः
इत्य् एवम् उक्त्वा सरथः
साश्वः सध्वजसारथिः ।
गन्धर्वनगराकारस्
तत्रैवान्तरधीयत ॥ ह्व्_१०८।८० ॥
मूलम्
इत्य् एवम् उक्त्वा सरथः
साश्वः सध्वजसारथिः ।
गन्धर्वनगराकारस्
तत्रैवान्तरधीयत ॥ ह्व्_१०८।८० ॥
विश्वास-प्रस्तुतिः
विज्ञायान्तर्हितं बाणं
प्राद्युम्निर् अपराजितः ।
पौरुषेण समायुक्तः
स प्रैक्षत दिशो दश ॥ ह्व्_१०८।८१ ॥
मूलम्
विज्ञायान्तर्हितं बाणं
प्राद्युम्निर् अपराजितः ।
पौरुषेण समायुक्तः
स प्रैक्षत दिशो दश ॥ ह्व्_१०८।८१ ॥
विश्वास-प्रस्तुतिः
आस्थाय तामसीं विद्यां
तदा क्रुद्धो बलेः सुतः ।
मुमोच विशिखांस् तीक्ष्णांश्
छन्नो मायाधरो बली ॥ ह्व्_१०८।८२ ॥
मूलम्
आस्थाय तामसीं विद्यां
तदा क्रुद्धो बलेः सुतः ।
मुमोच विशिखांस् तीक्ष्णांश्
छन्नो मायाधरो बली ॥ ह्व्_१०८।८२ ॥
विश्वास-प्रस्तुतिः
प्राद्युम्निर् विशिखैर् बद्धः
सर्पभूतैः समन्ततः ।
वेष्टितो बहुधा तस्य
देहः पन्नगराशिभिः ॥ ह्व्_१०८।८३ ॥
मूलम्
प्राद्युम्निर् विशिखैर् बद्धः
सर्पभूतैः समन्ततः ।
वेष्टितो बहुधा तस्य
देहः पन्नगराशिभिः ॥ ह्व्_१०८।८३ ॥
विश्वास-प्रस्तुतिः
([क्: श्१ सुब्स्त्।: :क्])
देहः संवेष्टितस् तस्य
बहुधा शरराशिभिः । ह्व्_१०८।८३१२४९ ।
स तु वेष्टितसर्वाङ्गो
बद्धः प्राद्युम्निर् आहवे ।
निष्प्रयत्नः स्थितः स्वस्थो
मैनाक इव पर्वतः ॥ ह्व्_१०८।८४ ॥
मूलम्
([क्: श्१ सुब्स्त्।: :क्])
देहः संवेष्टितस् तस्य
बहुधा शरराशिभिः । ह्व्_१०८।८३१२४९ ।
स तु वेष्टितसर्वाङ्गो
बद्धः प्राद्युम्निर् आहवे ।
निष्प्रयत्नः स्थितः स्वस्थो
मैनाक इव पर्वतः ॥ ह्व्_१०८।८४ ॥
विश्वास-प्रस्तुतिः
ज्वालावलीढवदनैः
सर्पभोगैर् विवेष्टितः ।
अभीतः पर्वताकारः
प्राद्युम्निर् अभवद् रणे ॥ ह्व्_१०८।८५ ॥
मूलम्
ज्वालावलीढवदनैः
सर्पभोगैर् विवेष्टितः ।
अभीतः पर्वताकारः
प्राद्युम्निर् अभवद् रणे ॥ ह्व्_१०८।८५ ॥
विश्वास-प्रस्तुतिः
निष्प्रयत्नः स्थितश् चापि
सर्पभोगमयैः शरैः ।
न विव्यथे स भूतात्मा
सर्वतः परिवेष्टितः ॥ ह्व्_१०८।८६ ॥
मूलम्
निष्प्रयत्नः स्थितश् चापि
सर्पभोगमयैः शरैः ।
न विव्यथे स भूतात्मा
सर्वतः परिवेष्टितः ॥ ह्व्_१०८।८६ ॥
विश्वास-प्रस्तुतिः
ततस् तं वाग्भिर् उग्राभिः
संरब्धः समतर्जयत् ।
बाणो ध्वजं समाश्रित्य
प्रोवाचामर्षितो वचः ॥ ह्व्_१०८।८७ ॥
मूलम्
ततस् तं वाग्भिर् उग्राभिः
संरब्धः समतर्जयत् ।
बाणो ध्वजं समाश्रित्य
प्रोवाचामर्षितो वचः ॥ ह्व्_१०८।८७ ॥
विश्वास-प्रस्तुतिः
कुम्भाण्ड वध्यतां शीघ्रम्
अयं वै कुलपांसनः ।
चारित्रं येन मे लोके
दूषितं दूषितात्मना ॥ ह्व्_१०८।८८ ॥
मूलम्
कुम्भाण्ड वध्यतां शीघ्रम्
अयं वै कुलपांसनः ।
चारित्रं येन मे लोके
दूषितं दूषितात्मना ॥ ह्व्_१०८।८८ ॥
विश्वास-प्रस्तुतिः
इत्य् एवम् उक्ते वचने
कुम्भाण्डो वाक्यम् अब्रवीत् ।
राजन् वक्ष्याम्य् अहं किञ्चित्
तन् मे शृणु यदीच्छसि ॥ ह्व्_१०८।८९ ॥
मूलम्
इत्य् एवम् उक्ते वचने
कुम्भाण्डो वाक्यम् अब्रवीत् ।
राजन् वक्ष्याम्य् अहं किञ्चित्
तन् मे शृणु यदीच्छसि ॥ ह्व्_१०८।८९ ॥
विश्वास-प्रस्तुतिः
अयं विज्ञायतां कस्य
कुतो वायम् इहागतः ।
केन वायम् इहानीतः
शक्रतुल्यपराक्रमः ॥ ह्व्_१०८।९० ॥
मूलम्
अयं विज्ञायतां कस्य
कुतो वायम् इहागतः ।
केन वायम् इहानीतः
शक्रतुल्यपराक्रमः ॥ ह्व्_१०८।९० ॥
विश्वास-प्रस्तुतिः
([क्: चे -पराकमः :क्])
मयायं बहुशो युद्धे
दृष्टो राजन् महारणे ।
क्रीडन्न् इव च युद्धेषु
दृश्यते देवसूनुवत् ॥ ह्व्_१०८।९१ ॥
मूलम्
([क्: चे -पराकमः :क्])
मयायं बहुशो युद्धे
दृष्टो राजन् महारणे ।
क्रीडन्न् इव च युद्धेषु
दृश्यते देवसूनुवत् ॥ ह्व्_१०८।९१ ॥
विश्वास-प्रस्तुतिः
([क्: द्न् ins.: :क्])
कुलशीलतपोवीर्यैः
सर्वैर् एव समन्वितः । ह्व्_१०८।९११२५०:१ ।
सर्वयुद्धे ऽप्य् असंहार्यो
भवेद् वीर्याधिकस् तव । ह्व्_१०८।९११२५०:२ ।
बलवान् सत्त्वसम्पन्नः
सर्वशास्त्रविशारदः ।
नायं वधकृतं दोषम्
अर्हते दैत्यसत्तम ॥

विज्ञाय च वधं वास्य
पूजां वापि करिष्यसि ॥ ह्व्_१०८।९२ ॥
मूलम्
विज्ञाय च वधं वास्य
पूजां वापि करिष्यसि ॥ ह्व्_१०८।९२ ॥
विश्वास-प्रस्तुतिः
([क्: क्१।३।४ Ñ२।३ व् ब् द् त्२।४ ग्२।३ ins. (ग्४ after ९२अब्; ग्५ after फ़िर्स्त् ओच्चुर्रेन्चे of ९२cd): :क्])
गान्धर्वेण विवाहेन
कन्येयं तव सङ्गता । ह्व्_१०८।९२१२५१:१ ।
अदेया ह्य् अप्रतिग्राह्या
अतश् चिन्त्य वधं कुरु । ह्व्_१०८।९२१२५१:२ ।
वधे ह्य् अस्य महान् दोषो
रक्षणे सुमहान् गुणः ।
अयं हि पुरुषोत्कर्षः
सर्वथा मानम् अर्हति ॥ ह्व्_१०८।९३ ॥

सर्वतो वेष्टिततनुर्
न व्यथत्य् एष भोगिभिः ।
([क्: क्१ Ñ२।३ व् ब् द्स् द्१।४-६ ins.: :क्])
कुलशौण्डीर्यवीर्यैश् च
सत्त्वेन च समन्वितः । ह्व्_१०८।९४अब्१२५२ ।
पश्य राजन् यशोवीर्यैर्
अन्वितं पुरुषोत्तमम् ॥

न नो गणयते सर्वान्
वधं प्राप्तो ऽप्य् अयं बली ॥ ह्व्_१०८।९४ ॥
मूलम्
न नो गणयते सर्वान्
वधं प्राप्तो ऽप्य् अयं बली ॥ ह्व्_१०८।९४ ॥
विश्वास-प्रस्तुतिः
([क्: क्१।३।४ Ñ२ व् ब् द्न् (बोथ् सेचोन्द् तिमे) द्स् द्१-५।६ (सेचोन्द् तिमे) त्२ ग्२-५ ins. after ९४ (द्न् द्६ (अल्ल् फ़िर्स्त् तिमे) after ७७अब्): :क्])
यदि मायाप्रभावेन
नात्र बद्धो भवेद् अयम् । ह्व्_१०८।९४१२५३:१ ।
सर्वासुरगणान् सङ्ख्ये
योधयेन् नात्र संशयः ॥ ह्व्_१०८।९४१२५३:२ ।

सर्वयुद्धेषु मार्गज्ञो
भवेद् वीर्याधिकस् तव । ह्व्_१०८।९४१२५३:३ ।
शोणितौघप्लुतैर् गात्रैर्
नागभोगैश् च वेष्टितः ।
त्रिशिखां भ्रुकुटीं कृत्वा
न चिन्तयति नः स्थितान् ॥ ह्व्_१०८।९५ ॥
मूलम्
सर्वयुद्धेषु मार्गज्ञो
भवेद् वीर्याधिकस् तव । ह्व्_१०८।९४१२५३:३ ।
शोणितौघप्लुतैर् गात्रैर्
नागभोगैश् च वेष्टितः ।
त्रिशिखां भ्रुकुटीं कृत्वा
न चिन्तयति नः स्थितान् ॥ ह्व्_१०८।९५ ॥
विश्वास-प्रस्तुतिः
इमाम् अवस्थां नीतो ऽपि
स्वबाहुबलम् आश्रितः ।
न चिन्तयति राजंस् त्वां
वीर्यवान् को ऽप्य् असौ युवा ॥ ह्व्_१०८।९६ ॥
मूलम्
इमाम् अवस्थां नीतो ऽपि
स्वबाहुबलम् आश्रितः ।
न चिन्तयति राजंस् त्वां
वीर्यवान् को ऽप्य् असौ युवा ॥ ह्व्_१०८।९६ ॥
विश्वास-प्रस्तुतिः
सहस्रबाहोः समरे
द्विबाहुः समवस्थितः ।
रुचितं यदि ते राजञ्
ज्ञेयो वीर्यबलान्वितः ॥ ह्व्_१०८।९७ ॥
मूलम्
सहस्रबाहोः समरे
द्विबाहुः समवस्थितः ।
रुचितं यदि ते राजञ्
ज्ञेयो वीर्यबलान्वितः ॥ ह्व्_१०८।९७ ॥
विश्वास-प्रस्तुतिः
([क्: क्२ व्२।३ द्२-४।६ ग्३ ins. (क्१।४ Ñ२।३ व्१ ब् द्न् द्स् द्१।५ त्४ ग्२।४।५ after सेचोन्द् ओच्चुर्रेन्चे of ९७cd): :क्])
कन्या चेयं न चान्यस्य
निर्यात्यानेन सङ्गता ॥ ह्व्_१०८।९७१२५४:१ ।

यदि चेष्टतमः कश्चिद्
अयं वंशे महात्मनः । ह्व्_१०८।९७१२५४:२ ।
ततः पूजाम् अयं वीरः
प्राप्स्यत्य् एवासुरोत्तमः ॥ ह्व्_१०८।९७१२५४:३ ।
मूलम्
यदि चेष्टतमः कश्चिद्
अयं वंशे महात्मनः । ह्व्_१०८।९७१२५४:२ ।
ततः पूजाम् अयं वीरः
प्राप्स्यत्य् एवासुरोत्तमः ॥ ह्व्_१०८।९७१२५४:३ ।
विश्वास-प्रस्तुतिः
रक्ष्यताम् इति चोक्त्वैव
तथास्त्व् इति च तस्थिवान् । ह्व्_१०८।९७१२५४:४ ।
([क्: ग्३-५ चोन्त्।, त्१ म् ins. after ९७ (त्२ after ९५अब्; ग्१ after ६८अ): :क्])
बाढम् इत्य् अब्रवीद् बाणो
हन्तुं व्यवसितः किल । ह्व्_१०८।९७१२५५:१ ।
उषां बबन्ध निगडैर्
दृढैः पाशैश् च संयतैः ॥ ह्व्_१०८।९७१२५५:२ ।

व्यादिदेश ततो बाणो
रक्षिणः किङ्करान् बहून् । ह्व्_१०८।९७१२५५:३ ।
रक्ष्यताम् एष दुष्टात्मा
सा च रक्ष्या कुलाधमा ॥ ह्व्_१०८।९७१२५५:४ ।
मूलम्
व्यादिदेश ततो बाणो
रक्षिणः किङ्करान् बहून् । ह्व्_१०८।९७१२५५:३ ।
रक्ष्यताम् एष दुष्टात्मा
सा च रक्ष्या कुलाधमा ॥ ह्व्_१०८।९७१२५५:४ ।
विश्वास-प्रस्तुतिः
([क्: क्१।३।४ Ñ२ व् ब् द् त्४ म्४ चोन्त्।, ग्२ म्४ ins. after ९८अब्: :क्])
तथेत्य् आह च कुम्भाण्डं
बाणः शत्रुनिषूदनः ॥ ह्व्_१०८।९८१२५७:१ ।
मूलम्
([क्: क्१।३।४ Ñ२ व् ब् द् त्४ म्४ चोन्त्।, ग्२ म्४ ins. after ९८अब्: :क्])
तथेत्य् आह च कुम्भाण्डं
बाणः शत्रुनिषूदनः ॥ ह्व्_१०८।९८१२५७:१ ।
विश्वास-प्रस्तुतिः
संरक्षिणस् ततो दत्त्वा
अनिरुद्धस्य धीमतः । ह्व्_१०८।९८१२५७:२ ।
अनिरुद्धं योधयित्वा
बाणः स्वगृहम् आविशत् ॥ ह्व्_१०८।९८ ॥
मूलम्
संरक्षिणस् ततो दत्त्वा
अनिरुद्धस्य धीमतः । ह्व्_१०८।९८१२५७:२ ।
अनिरुद्धं योधयित्वा
बाणः स्वगृहम् आविशत् ॥ ह्व्_१०८।९८ ॥
विश्वास-प्रस्तुतिः
([क्: क्१।३।४ Ñ२ व् ब् द् त्४ ग्२ चोन्त्।, Ñ३ ins. after ९८ (त्२ ग्१।३ चोन्त्। after १२५५*: ग्४।५ after १२५७*): :क्])
संयतं मायया दृष्ट्वा
अनिरुद्धं महाबलम् । ह्व्_१०८।९८१२५९:१ ।
ऋषीणां नारदः श्रेष्ठो
ऽब्रजद् द्वारवतीं प्रति ॥ ह्व्_१०८।९८१२५९:२ ।

ततो ह्य् आकाशमार्गेण
मुनिर् द्वारवतीं गतः ॥ ह्व्_१०८।९८१२५९:३ ।
मूलम्
ततो ह्य् आकाशमार्गेण
मुनिर् द्वारवतीं गतः ॥ ह्व्_१०८।९८१२५९:३ ।
विश्वास-प्रस्तुतिः
गते ऋषीणां प्रवरे
सो ऽनिरुद्धो व्यचिन्तयत् । ह्व्_१०८।९८१२५९:४ ।
नष्टो ऽयं दानवः क्रूरो
युद्धं प्राप्य न संशयः ॥ ह्व्_१०८।९८१२५९:५ ।
मूलम्
गते ऋषीणां प्रवरे
सो ऽनिरुद्धो व्यचिन्तयत् । ह्व्_१०८।९८१२५९:४ ।
नष्टो ऽयं दानवः क्रूरो
युद्धं प्राप्य न संशयः ॥ ह्व्_१०८।९८१२५९:५ ।
विश्वास-प्रस्तुतिः
स गत्वा नारदस् तत्र
शङ्खचक्रगदाधरम् । ह्व्_१०८।९८१२५९:६ ।
ज्ञापयिष्यति तत्त्वेन
इमम् अर्थं यथैव तत् ॥ ह्व्_१०८।९८१२५९:७ ।
मूलम्
स गत्वा नारदस् तत्र
शङ्खचक्रगदाधरम् । ह्व्_१०८।९८१२५९:६ ।
ज्ञापयिष्यति तत्त्वेन
इमम् अर्थं यथैव तत् ॥ ह्व्_१०८।९८१२५९:७ ।
विश्वास-प्रस्तुतिः
नागैर् विवेष्टितं दृष्ट्वा
उषा प्राद्युम्निम् आतुरा । ह्व्_१०८।९८१२५९:८ ।
रुरोद बाष्परक्ताक्षी
ताम् आह रुदतीं पुनः ॥ ह्व्_१०८।९८१२५९:९ ।
मूलम्
नागैर् विवेष्टितं दृष्ट्वा
उषा प्राद्युम्निम् आतुरा । ह्व्_१०८।९८१२५९:८ ।
रुरोद बाष्परक्ताक्षी
ताम् आह रुदतीं पुनः ॥ ह्व्_१०८।९८१२५९:९ ।
विश्वास-प्रस्तुतिः
किम् इदं रुद्येत भीरु
मा भैस् त्वं शुभलोचने । ह्व्_१०८।९८१२५९:१० ।
पश्य सुश्रोणि सम्प्राप्तं
मत्कृते मधुसूदनम् ॥ ह्व्_१०८।९८१२५९:११ ।
मूलम्
किम् इदं रुद्येत भीरु
मा भैस् त्वं शुभलोचने । ह्व्_१०८।९८१२५९:१० ।
पश्य सुश्रोणि सम्प्राप्तं
मत्कृते मधुसूदनम् ॥ ह्व्_१०८।९८१२५९:११ ।
विश्वास-प्रस्तुतिः
यस्य शङ्खध्वनिं श्रुत्वा
बाहुशब्दं बलस्य च । ह्व्_१०८।९८१२५९:१२ ।
दानवा नाशम् एष्यन्ति
गर्भाश् चासुरयोषिताम् ॥ ह्व्_१०८।९८१२५९:१३ ।
मूलम्
यस्य शङ्खध्वनिं श्रुत्वा
बाहुशब्दं बलस्य च । ह्व्_१०८।९८१२५९:१२ ।
दानवा नाशम् एष्यन्ति
गर्भाश् चासुरयोषिताम् ॥ ह्व्_१०८।९८१२५९:१३ ।
{वैशम्पायन उवाच}
एवम् उक्ता निरुद्धेन
उषा विश्रम्भम् आगता । ह्व्_१०८।९८१२५९:१४ ।
नृशंसं चापि पितरं
शोचते सा सुमध्यमा । ह्व्_१०८।९८१२५९:१५ ।
([क्: after लिने ३, Ñ२ व्२ ब्२ द्स्१ द्२।६ ins.: :क्])
बद्धं निवेदयाम् आस
प्राद्युम्निं गरुडध्वजे । ह्व्_१०८१२५९।३*१२५९अ ।
[चोलोफोन्]