१०२

विश्वास-प्रस्तुतिः

{अर्जुन उवाच}
सुमुहूर्तेन तु वयं
तं ग्रामं प्राप्य भारत ।
विश्रान्तवाहनाः सर्वे
वासायोपगतास् तदा ॥ ह्व्_१०२।१ ॥

मूलम्

{अर्जुन उवाच}
सुमुहूर्तेन तु वयं
तं ग्रामं प्राप्य भारत ।
विश्रान्तवाहनाः सर्वे
वासायोपगतास् तदा ॥ ह्व्_१०२।१ ॥

विश्वास-प्रस्तुतिः

ततो ग्रामस्य मध्ये ऽहं
निविष्टः कुरुनन्दनः ।
समन्ताद् वृष्णिसैन्येन
परिक्षित्य जनव्रजम् ॥ ह्व्_१०२।२ ॥

मूलम्

ततो ग्रामस्य मध्ये ऽहं
निविष्टः कुरुनन्दनः ।
समन्ताद् वृष्णिसैन्येन
परिक्षित्य जनव्रजम् ॥ ह्व्_१०२।२ ॥

विश्वास-प्रस्तुतिः

ततः शकुनयो दीप्ता
मृगाश् च क्रूरभाषिणः ।
दीप्तायां दिशि वाशन्तो
भयम् आवेदयन्ति मे ॥ ह्व्_१०२।३ ॥

मूलम्

ततः शकुनयो दीप्ता
मृगाश् च क्रूरभाषिणः ।
दीप्तायां दिशि वाशन्तो
भयम् आवेदयन्ति मे ॥ ह्व्_१०२।३ ॥

विश्वास-प्रस्तुतिः

सन्ध्यारागो जपावर्णो
भानुमांश् चैव निष्प्रभः ।
पपात महती चोल्का
पृथिवी चाप्य् अकम्पत ॥ ह्व्_१०२।४ ॥

मूलम्

सन्ध्यारागो जपावर्णो
भानुमांश् चैव निष्प्रभः ।
पपात महती चोल्का
पृथिवी चाप्य् अकम्पत ॥ ह्व्_१०२।४ ॥

विश्वास-प्रस्तुतिः

तान् समीक्ष्य महोत्पातान्
दारुणांल् लोमहर्षणान् ।
योगम् आज्ञापयं तत्र
जनस्योत्सुकचेतसः ॥ ह्व्_१०२।५ ॥

मूलम्

तान् समीक्ष्य महोत्पातान्
दारुणांल् लोमहर्षणान् ।
योगम् आज्ञापयं तत्र
जनस्योत्सुकचेतसः ॥ ह्व्_१०२।५ ॥

विश्वास-प्रस्तुतिः

युयुधानपुरोगाश् च
वृष्ण्यन्धकमहारथाः ।
सर्वे युक्तरथाः सज्जाः
स्वयं चाहं तथाभवम् ॥ ह्व्_१०२।६ ॥

मूलम्

युयुधानपुरोगाश् च
वृष्ण्यन्धकमहारथाः ।
सर्वे युक्तरथाः सज्जाः
स्वयं चाहं तथाभवम् ॥ ह्व्_१०२।६ ॥

विश्वास-प्रस्तुतिः

गते ऽर्धरात्रसमये
ब्राह्मणो भयविक्लवः ।
उपागम्य भयाद् अस्मान्
इदं वचनम् अब्रवीत् ॥ ह्व्_१०२।७ ॥

मूलम्

गते ऽर्धरात्रसमये
ब्राह्मणो भयविक्लवः ।
उपागम्य भयाद् अस्मान्
इदं वचनम् अब्रवीत् ॥ ह्व्_१०२।७ ॥

विश्वास-प्रस्तुतिः

कालो ऽयं समनुप्राप्तो
ब्राह्मण्याः प्रसवस्य मे ।
यत्ता भवन्तस् तिष्ठन्तु
न भवेद् वञ्चना यथा ॥ ह्व्_१०२।८ ॥

मूलम्

कालो ऽयं समनुप्राप्तो
ब्राह्मण्याः प्रसवस्य मे ।
यत्ता भवन्तस् तिष्ठन्तु
न भवेद् वञ्चना यथा ॥ ह्व्_१०२।८ ॥

विश्वास-प्रस्तुतिः

मुहूर्ताद् इव चाश्रौषं
कृपणं रुदितस्वनम् ।
तस्य विप्रस्य भवने
ह्रियते ह्रियते इति ॥ ह्व्_१०२।९ ॥

मूलम्

मुहूर्ताद् इव चाश्रौषं
कृपणं रुदितस्वनम् ।
तस्य विप्रस्य भवने
ह्रियते ह्रियते इति ॥ ह्व्_१०२।९ ॥

विश्वास-प्रस्तुतिः

अथाकाशे पुनर् वाचम्
अश्रौषं बालकस्य वै ।
हाहेति ह्रियमाणस्य
न च पश्यामि राक्षसम् ॥ ह्व्_१०२।१० ॥

मूलम्

अथाकाशे पुनर् वाचम्
अश्रौषं बालकस्य वै ।
हाहेति ह्रियमाणस्य
न च पश्यामि राक्षसम् ॥ ह्व्_१०२।१० ॥

विश्वास-प्रस्तुतिः

ततो ऽस्माभिस् तदा तात
शरवर्षैः समन्ततः ।
विष्टम्भिता दिशः सर्वा
हृत एव स बालकः ॥ ह्व्_१०२।११ ॥

मूलम्

ततो ऽस्माभिस् तदा तात
शरवर्षैः समन्ततः ।
विष्टम्भिता दिशः सर्वा
हृत एव स बालकः ॥ ह्व्_१०२।११ ॥

विश्वास-प्रस्तुतिः

ब्रह्मणो ऽऽर्तस्वरं कृत्वा
हृते तस्मिन् कुमारके ।
वाचः स परुषास् तीव्राः
श्रावयाम् आस मां तदा ॥ ह्व्_१०२।१२ ॥

मूलम्

ब्रह्मणो ऽऽर्तस्वरं कृत्वा
हृते तस्मिन् कुमारके ।
वाचः स परुषास् तीव्राः
श्रावयाम् आस मां तदा ॥ ह्व्_१०२।१२ ॥

विश्वास-प्रस्तुतिः

वृष्णयो हतसङ्कल्पास्
तथाहं नष्टचेतनः ।
माम् एव हि विशेषेण
ब्राह्मणः पर्यभाषत ॥ ह्व्_१०२।१३ ॥

मूलम्

वृष्णयो हतसङ्कल्पास्
तथाहं नष्टचेतनः ।
माम् एव हि विशेषेण
ब्राह्मणः पर्यभाषत ॥ ह्व्_१०२।१३ ॥

विश्वास-प्रस्तुतिः

रक्षिष्यामीति चोक्तं ते
न च रक्षसि मे सुतम् ।
शृणु वाक्यम् इदं शेषं
यत् त्वम् अर्हसि दुर्मते ॥ ह्व्_१०२।१४ ॥

मूलम्

रक्षिष्यामीति चोक्तं ते
न च रक्षसि मे सुतम् ।
शृणु वाक्यम् इदं शेषं
यत् त्वम् अर्हसि दुर्मते ॥ ह्व्_१०२।१४ ॥

विश्वास-प्रस्तुतिः

वृथा त्वं स्पर्धसे नित्यं
कृष्णेनामितबुद्धिना ।
यदि स्याद् इह गोविन्दो
नैतद् अत्याहितं भवेत् ॥ ह्व्_१०२।१५ ॥

मूलम्

वृथा त्वं स्पर्धसे नित्यं
कृष्णेनामितबुद्धिना ।
यदि स्याद् इह गोविन्दो
नैतद् अत्याहितं भवेत् ॥ ह्व्_१०२।१५ ॥

विश्वास-प्रस्तुतिः

यथा चतुर्थं धर्मस्य
रक्षिता लभते फलम् ।
पापस्यापि तथा मूढ
भागं प्राप्नोत्य् अरक्षिता ॥ ह्व्_१०२।१६ ॥

मूलम्

यथा चतुर्थं धर्मस्य
रक्षिता लभते फलम् ।
पापस्यापि तथा मूढ
भागं प्राप्नोत्य् अरक्षिता ॥ ह्व्_१०२।१६ ॥

विश्वास-प्रस्तुतिः

रक्षिष्यामीति चोक्तं ते
न च शक्नोषि रक्षितुम् ।
मोघं गाण्डीवम् एतत् ते
मोघं वीर्यं यशश् च ते ॥ ह्व्_१०२।१७ ॥

मूलम्

रक्षिष्यामीति चोक्तं ते
न च शक्नोषि रक्षितुम् ।
मोघं गाण्डीवम् एतत् ते
मोघं वीर्यं यशश् च ते ॥ ह्व्_१०२।१७ ॥

विश्वास-प्रस्तुतिः

([क्: स् (एxचेप्त् ग्२; त्३ मिस्सिन्ग्) ins.: :क्])
अर्जुनो ऽस्मीति या बुद्धिः
सा वृथा सत्यम् इत्य् उत । ह्व्_१०२।१७अ११२६ ।
अकिञ्चिद् उक्त्वा तं विप्रं
ततो ऽहं प्रस्थितस् तदा ।
सह वृष्ण्यन्धकसुतैर्
यत्र कृष्णो महाद्युतिः ॥ ह्व्_१०२।१८ ॥

मूलम्

([क्: स् (एxचेप्त् ग्२; त्३ मिस्सिन्ग्) ins.: :क्])
अर्जुनो ऽस्मीति या बुद्धिः
सा वृथा सत्यम् इत्य् उत । ह्व्_१०२।१७अ११२६ ।
अकिञ्चिद् उक्त्वा तं विप्रं
ततो ऽहं प्रस्थितस् तदा ।
सह वृष्ण्यन्धकसुतैर्
यत्र कृष्णो महाद्युतिः ॥ ह्व्_१०२।१८ ॥

विश्वास-प्रस्तुतिः

ततो द्वारवतीं गत्वा
दृष्ट्वा मधुनिघातिनम् ।
व्रीडितः शोकसन्तप्तो
गोविन्देनोपलक्षितः ॥ ह्व्_१०२।१९ ॥

मूलम्

ततो द्वारवतीं गत्वा
दृष्ट्वा मधुनिघातिनम् ।
व्रीडितः शोकसन्तप्तो
गोविन्देनोपलक्षितः ॥ ह्व्_१०२।१९ ॥

विश्वास-प्रस्तुतिः

स तु मां व्रीडितं दृष्ट्वा
समाश्वस्य च माधवः ।
([क्: after २०अ, क्१ (मर्ग्। सेच्। म्।) द्१।२।५ बोम्। पोओन एद्स्। ग्(एद्।) ins.: :क्])
विनिन्दन् कृष्णसन्निधौ । ह्व्_१०२।२०अ११२७:१ ।*
मौढ्यं पश्यत मे यो ऽहं
श्रद्दधे क्लीबकत्थनम् ॥ ह्व्_१०२।२०अ११२७:२ ।

मूलम्

स तु मां व्रीडितं दृष्ट्वा
समाश्वस्य च माधवः ।
([क्: after २०अ, क्१ (मर्ग्। सेच्। म्।) द्१।२।५ बोम्। पोओन एद्स्। ग्(एद्।) ins.: :क्])
विनिन्दन् कृष्णसन्निधौ । ह्व्_१०२।२०अ११२७:१ ।*
मौढ्यं पश्यत मे यो ऽहं
श्रद्दधे क्लीबकत्थनम् ॥ ह्व्_१०२।२०अ११२७:२ ।

विश्वास-प्रस्तुतिः

न प्रद्युम्नो नानिरुद्धो
न रामो न च केशवः । ह्व्_१०२।२०अ११२७:३ ।
यस्य शक्ताः परित्रातुं
को ऽन्यस् तदवितेश्वरः ॥ ह्व्_१०२।२०अ११२७:४ ।

मूलम्

न प्रद्युम्नो नानिरुद्धो
न रामो न च केशवः । ह्व्_१०२।२०अ११२७:३ ।
यस्य शक्ताः परित्रातुं
को ऽन्यस् तदवितेश्वरः ॥ ह्व्_१०२।२०अ११२७:४ ।

विश्वास-प्रस्तुतिः

धिग् अर्जुनं वृथावादं
धिग् आत्मश्लाघिनो धनुः ॥ ह्व्_१०२।२०अ११२७:५ ।

मूलम्

धिग् अर्जुनं वृथावादं
धिग् आत्मश्लाघिनो धनुः ॥ ह्व्_१०२।२०अ११२७:५ ।

विश्वास-प्रस्तुतिः

दैवोपसृष्टो यो मौर्ख्याद्
आगच्छति च दुर्मतिः ॥ ह्व्_१०२।२०अ११२७:६ ।

मूलम्

दैवोपसृष्टो यो मौर्ख्याद्
आगच्छति च दुर्मतिः ॥ ह्व्_१०२।२०अ११२७:६ ।

विश्वास-प्रस्तुतिः

एवं शपति विप्रर्षौ
विद्याम् आस्थाय वैष्णवीम् । ह्व्_१०२।२०अ११२७:७ ।
ययौ संयमिनीं वीरो
यत्रास्ते भगवान् यमः ॥ ह्व्_१०२।२०अ११२७:८ ।

मूलम्

एवं शपति विप्रर्षौ
विद्याम् आस्थाय वैष्णवीम् । ह्व्_१०२।२०अ११२७:७ ।
ययौ संयमिनीं वीरो
यत्रास्ते भगवान् यमः ॥ ह्व्_१०२।२०अ११२७:८ ।

विश्वास-प्रस्तुतिः

विप्रापत्यम् अचक्षाणस्
तत ऐन्द्रीम् अगात् पुरीम् । ह्व्_१०२।२०अ११२७:९ ।
आग्नेयीं नैर् ऋतीं सौम्यां
वायव्यां वारुणीं तथा ॥ ह्व्_१०२।२०अ११२७:१० ।

मूलम्

विप्रापत्यम् अचक्षाणस्
तत ऐन्द्रीम् अगात् पुरीम् । ह्व्_१०२।२०अ११२७:९ ।
आग्नेयीं नैर् ऋतीं सौम्यां
वायव्यां वारुणीं तथा ॥ ह्व्_१०२।२०अ११२७:१० ।

विश्वास-प्रस्तुतिः

रसातलं नाकपृष्ठं
धिष्ण्यान्य् अन्यान्य् उदायुधः ॥ ह्व्_१०२।२०अ११२७:११ ।

मूलम्

रसातलं नाकपृष्ठं
धिष्ण्यान्य् अन्यान्य् उदायुधः ॥ ह्व्_१०२।२०अ११२७:११ ।

विश्वास-प्रस्तुतिः

ततो ऽलब्ध्वा द्विजसुतम्
अनिस्तीर्णप्रतिश्रवः । ह्व्_१०२।२०अ११२७:१२ ।
अग्निं विविक्षुः कृष्णेन
प्रद्युम्नेन निषेधितः ॥ ह्व्_१०२।२०अ११२७:१३ ।

मूलम्

ततो ऽलब्ध्वा द्विजसुतम्
अनिस्तीर्णप्रतिश्रवः । ह्व्_१०२।२०अ११२७:१२ ।
अग्निं विविक्षुः कृष्णेन
प्रद्युम्नेन निषेधितः ॥ ह्व्_१०२।२०अ११२७:१३ ।

विश्वास-प्रस्तुतिः

दर्शये द्विजसूनुं ते
मावज्ञात्मानम् आत्मना । ह्व्_१०२।२०अ११२७:१४ ।
कीर्तिं त एते विपुलां
स्थापयिष्यन्ति मानवाः ॥ ह्व्_१०२।२०अ११२७:१५ ।

मूलम्

दर्शये द्विजसूनुं ते
मावज्ञात्मानम् आत्मना । ह्व्_१०२।२०अ११२७:१४ ।
कीर्तिं त एते विपुलां
स्थापयिष्यन्ति मानवाः ॥ ह्व्_१०२।२०अ११२७:१५ ।

विश्वास-प्रस्तुतिः

इति सम्भाष्य मां स्नेहात् । ह्व्_१०२।२०अ११२७:१६ ।*
सान्त्वयित्वा च तं विप्रम्
इदं वचनम् अब्रवीत् ॥ ह्व्_१०२।२० ॥

मूलम्

इति सम्भाष्य मां स्नेहात् । ह्व्_१०२।२०अ११२७:१६ ।*
सान्त्वयित्वा च तं विप्रम्
इदं वचनम् अब्रवीत् ॥ ह्व्_१०२।२० ॥

विश्वास-प्रस्तुतिः

सुग्रीवं चैव शैब्यं च
मेघपुष्पबलाहकौ ।
योजयाश्वान् इति तदा
दारुकं प्रत्यभाषत ॥ ह्व्_१०२।२१ ॥

मूलम्

सुग्रीवं चैव शैब्यं च
मेघपुष्पबलाहकौ ।
योजयाश्वान् इति तदा
दारुकं प्रत्यभाषत ॥ ह्व्_१०२।२१ ॥

विश्वास-प्रस्तुतिः

आरोप्य ब्राह्मणं कृष्णस्
त्व् अवरोप्य च दारुकम् ।
माम् उवाच ततः शौरिः
सारथ्यं क्रियताम् इति ॥ ह्व्_१०२।२२ ॥

मूलम्

आरोप्य ब्राह्मणं कृष्णस्
त्व् अवरोप्य च दारुकम् ।
माम् उवाच ततः शौरिः
सारथ्यं क्रियताम् इति ॥ ह्व्_१०२।२२ ॥

विश्वास-प्रस्तुतिः

ततः समास्थाय रथं
कृष्णो ऽहं ब्राह्मणः स च ।
प्रयाताः स्म दिशं सौम्याम्
उदीचीं कौरवर्षभ ॥ ह्व्_१०२।२३ ॥

मूलम्

ततः समास्थाय रथं
कृष्णो ऽहं ब्राह्मणः स च ।
प्रयाताः स्म दिशं सौम्याम्
उदीचीं कौरवर्षभ ॥ ह्व्_१०२।२३ ॥