विश्वास-प्रस्तुतिः
{जनमेजय उवाच}
पुनर् एव महाबाहो
कृष्णस्य जगतीपतेः ।
([क्: स् ins.: :क्])
कृतार्थाः सर्वथा विप्र
नारायणसमाश्रयात् । ह्व्_१०१।१११२५:१ ।
जाता हि वयम् अद्यैव
तत्कथाश्रवणाद् द्विज । ह्व्_१०१।१११२५:२ ।
([क्: after लिने १, त्१ ins.: :क्])
इत्य् उक्तः स स्मितं कृत्वा
प्रणम्य मुनिपुङ्गवम् । ह्व्_१०१।१११२५अ ।
माहात्म्यं श्रोतुम् इच्छामि
परमं द्विजसत्तम ॥ ह्व्_१०१।१ ॥
मूलम्
{जनमेजय उवाच}
पुनर् एव महाबाहो
कृष्णस्य जगतीपतेः ।
([क्: स् ins.: :क्])
कृतार्थाः सर्वथा विप्र
नारायणसमाश्रयात् । ह्व्_१०१।१११२५:१ ।
जाता हि वयम् अद्यैव
तत्कथाश्रवणाद् द्विज । ह्व्_१०१।१११२५:२ ।
([क्: after लिने १, त्१ ins.: :क्])
इत्य् उक्तः स स्मितं कृत्वा
प्रणम्य मुनिपुङ्गवम् । ह्व्_१०१।१११२५अ ।
माहात्म्यं श्रोतुम् इच्छामि
परमं द्विजसत्तम ॥ ह्व्_१०१।१ ॥
विश्वास-प्रस्तुतिः
न हि मे तृप्तिर् अस्तीह
शृण्वतस् तस्य धीमतः ।
कर्मणाम् अनुसन्धानं
पुराणस्य महात्मनः ॥ ह्व्_१०१।२ ॥
मूलम्
न हि मे तृप्तिर् अस्तीह
शृण्वतस् तस्य धीमतः ।
कर्मणाम् अनुसन्धानं
पुराणस्य महात्मनः ॥ ह्व्_१०१।२ ॥
विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
नान्तः शक्यं प्रभावस्य
वक्तुं वर्षशतैर् अपि ।
गोविन्दस्य महाराज
श्रूयताम् इदम् उत्तमम् ॥ ह्व्_१०१।३ ॥
मूलम्
{वैशम्पायन उवाच}
नान्तः शक्यं प्रभावस्य
वक्तुं वर्षशतैर् अपि ।
गोविन्दस्य महाराज
श्रूयताम् इदम् उत्तमम् ॥ ह्व्_१०१।३ ॥
विश्वास-प्रस्तुतिः
शरतल्पे शयानेन
भीष्मेण परिचोदितः ।
गाण्डीवधन्वा बीभत्सुर्
माहात्म्यं केशवस्य यत् ॥ ह्व्_१०१।४ ॥
मूलम्
शरतल्पे शयानेन
भीष्मेण परिचोदितः ।
गाण्डीवधन्वा बीभत्सुर्
माहात्म्यं केशवस्य यत् ॥ ह्व्_१०१।४ ॥
विश्वास-प्रस्तुतिः
राज्ञां मध्ये महाराज
ज्येष्ठं भ्रातरम् अब्रवीत् ।
युधिष्ठिरं जितामित्रम्
इति तच् छृणु कौरव ॥ ह्व्_१०१।५ ॥
मूलम्
राज्ञां मध्ये महाराज
ज्येष्ठं भ्रातरम् अब्रवीत् ।
युधिष्ठिरं जितामित्रम्
इति तच् छृणु कौरव ॥ ह्व्_१०१।५ ॥
विश्वास-प्रस्तुतिः
{अर्जुन उवाच}
पुराहं द्वारकां यातः
सम्बन्धीन् अवलोककः ।
न्यवसं पूजितस् तत्र
भोजवृष्ण्यन्धकोत्तमैः ॥ ह्व्_१०१।६ ॥
मूलम्
{अर्जुन उवाच}
पुराहं द्वारकां यातः
सम्बन्धीन् अवलोककः ।
न्यवसं पूजितस् तत्र
भोजवृष्ण्यन्धकोत्तमैः ॥ ह्व्_१०१।६ ॥
विश्वास-प्रस्तुतिः
ततः कदाचिद् धर्मात्मा
दीक्षितो मधुसूदनः ।
एकाहेन महाबाहुः
शास्त्रदृष्टेन कर्मणा ॥ ह्व्_१०१।७ ॥
मूलम्
ततः कदाचिद् धर्मात्मा
दीक्षितो मधुसूदनः ।
एकाहेन महाबाहुः
शास्त्रदृष्टेन कर्मणा ॥ ह्व्_१०१।७ ॥
विश्वास-प्रस्तुतिः
ततो दीक्षितम् आसीनम्
अभिगम्य द्विजोत्तमः ।
कृष्णं विज्ञापयाम् आस
परित्राहीति चाब्रवीत् ॥ ह्व्_१०१।८ ॥
मूलम्
ततो दीक्षितम् आसीनम्
अभिगम्य द्विजोत्तमः ।
कृष्णं विज्ञापयाम् आस
परित्राहीति चाब्रवीत् ॥ ह्व्_१०१।८ ॥
विश्वास-प्रस्तुतिः
{ब्राह्मण उवाच}
रक्षाधिकारो भवतः
परिरक्षस्व मां विभो ।
चतुर्थांशं हि धर्मस्य
रक्षिता लभते फलम् ॥ ह्व्_१०१।९ ॥
मूलम्
{ब्राह्मण उवाच}
रक्षाधिकारो भवतः
परिरक्षस्व मां विभो ।
चतुर्थांशं हि धर्मस्य
रक्षिता लभते फलम् ॥ ह्व्_१०१।९ ॥
विश्वास-प्रस्तुतिः
{वासुदेव उवाच}
न भेतव्यं द्विजश्रेष्ठ
रक्षामि त्वां कुतो ऽनघ ।
ब्रूहि तत्त्वेन भद्रं ते
यद्य् अपि स्यात् सुदुष्करम् ॥ ह्व्_१०१।१० ॥
मूलम्
{वासुदेव उवाच}
न भेतव्यं द्विजश्रेष्ठ
रक्षामि त्वां कुतो ऽनघ ।
ब्रूहि तत्त्वेन भद्रं ते
यद्य् अपि स्यात् सुदुष्करम् ॥ ह्व्_१०१।१० ॥
विश्वास-प्रस्तुतिः
{ब्राह्मण उवाच}
जातो जातो महाबाहो
पुत्रो मे ह्रियते विभो ।
त्रयो हृताश् चतुर्थं त्वं
कृष्ण रक्षितुम् अर्हसि ॥ ह्व्_१०१।११ ॥
मूलम्
{ब्राह्मण उवाच}
जातो जातो महाबाहो
पुत्रो मे ह्रियते विभो ।
त्रयो हृताश् चतुर्थं त्वं
कृष्ण रक्षितुम् अर्हसि ॥ ह्व्_१०१।११ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण्याः सूतिकालो ऽद्य
तत्र रक्षा विधीयताम् ।
यथा ध्रियेद् अपत्यं मे
तथा कुरु जनार्दन ॥ ह्व्_१०१।१२ ॥
मूलम्
ब्राह्मण्याः सूतिकालो ऽद्य
तत्र रक्षा विधीयताम् ।
यथा ध्रियेद् अपत्यं मे
तथा कुरु जनार्दन ॥ ह्व्_१०१।१२ ॥
विश्वास-प्रस्तुतिः
{अर्जुन उवाच}
ततो माम् आह गोविन्दो
दीक्षितो ऽस्मि क्रताव् इति ।
रक्षा च ब्राह्मणे कार्या
सर्वावस्थागतैर् अपि ॥ ह्व्_१०१।१३ ॥
मूलम्
{अर्जुन उवाच}
ततो माम् आह गोविन्दो
दीक्षितो ऽस्मि क्रताव् इति ।
रक्षा च ब्राह्मणे कार्या
सर्वावस्थागतैर् अपि ॥ ह्व्_१०१।१३ ॥
विश्वास-प्रस्तुतिः
श्रुत्वाहम् एवं कृष्णस्य
ततो ऽवोचं नरोत्तम ।
मां नियोजय गोविन्द
रक्षिष्यामि द्विजं भयात् ॥ ह्व्_१०१।१४ ॥
मूलम्
श्रुत्वाहम् एवं कृष्णस्य
ततो ऽवोचं नरोत्तम ।
मां नियोजय गोविन्द
रक्षिष्यामि द्विजं भयात् ॥ ह्व्_१०१।१४ ॥
विश्वास-प्रस्तुतिः
इत्य् उक्तः स स्मितं कृत्वा
माम् उवाच जनार्दनः ।
रक्ष्यसीत्य् एवम् उक्तस् तु
व्रीडितो ऽस्मि नराधिप ॥ ह्व्_१०१।१५ ॥
मूलम्
इत्य् उक्तः स स्मितं कृत्वा
माम् उवाच जनार्दनः ।
रक्ष्यसीत्य् एवम् उक्तस् तु
व्रीडितो ऽस्मि नराधिप ॥ ह्व्_१०१।१५ ॥
विश्वास-प्रस्तुतिः
ततो मां व्रीडितं ज्ञात्वा
पुनर् आह जनार्दनः ।
गम्यतां कौरवश्रेष्ठ
शक्यते यदि रक्षितुम् ॥ ह्व्_१०१।१६ ॥
मूलम्
ततो मां व्रीडितं ज्ञात्वा
पुनर् आह जनार्दनः ।
गम्यतां कौरवश्रेष्ठ
शक्यते यदि रक्षितुम् ॥ ह्व्_१०१।१६ ॥
विश्वास-प्रस्तुतिः
त्वत्पुरोगाश् च गच्छन्तु
वृष्ण्यन्धकमहारथाः ।
ऋते रामं महाबाहुः
प्रद्युम्नं च महाबलम् ॥ ह्व्_१०१।१७ ॥
मूलम्
त्वत्पुरोगाश् च गच्छन्तु
वृष्ण्यन्धकमहारथाः ।
ऋते रामं महाबाहुः
प्रद्युम्नं च महाबलम् ॥ ह्व्_१०१।१७ ॥
विश्वास-प्रस्तुतिः
ततो ऽहं वृष्णिसैन्येन
महता परिवारितः ।
तम् अग्रतो द्विजं कृत्वा
प्रयातः सह सेनया ॥ ह्व्_१०१।१८ ॥
मूलम्
ततो ऽहं वृष्णिसैन्येन
महता परिवारितः ।
तम् अग्रतो द्विजं कृत्वा
प्रयातः सह सेनया ॥ ह्व्_१०१।१८ ॥