०९९

विश्वास-प्रस्तुतिः

{जनमेजय उवाच}
य एष भवता पूर्वं
शम्बरघ्नेत्य् उदाहृतः ।
प्रद्युम्नः स कथं जघ्ने
शम्बरं तद् ब्रवीहि मे ॥ ह्व्_९९।१ ॥

मूलम्

{जनमेजय उवाच}
य एष भवता पूर्वं
शम्बरघ्नेत्य् उदाहृतः ।
प्रद्युम्नः स कथं जघ्ने
शम्बरं तद् ब्रवीहि मे ॥ ह्व्_९९।१ ॥

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
रुक्मिण्यां वासुदेवस्य
लक्ष्मीकामो धृतव्रतः ।
शम्बरान्तकरो जज्ञे
प्रद्युम्नः कामदर्शनः ॥ ह्व्_९९।२ ॥

मूलम्

{वैशम्पायन उवाच}
रुक्मिण्यां वासुदेवस्य
लक्ष्मीकामो धृतव्रतः ।
शम्बरान्तकरो जज्ञे
प्रद्युम्नः कामदर्शनः ॥ ह्व्_९९।२ ॥

विश्वास-प्रस्तुतिः

([क्: श्१ द्५ ins.: :क्])
सनत्कुमार इति यः
पुराणे परिगीयते । ह्व्_९९।२अब्११०८ ।
तं सप्तरात्रे सम्पूर्णे
निशीथे सूतिकागृहात् ।
जहार कृष्णस्य सुतं
शिशुं वै कालशम्बरः ॥ ह्व्_९९।३ ॥

मूलम्

([क्: श्१ द्५ ins.: :क्])
सनत्कुमार इति यः
पुराणे परिगीयते । ह्व्_९९।२अब्११०८ ।
तं सप्तरात्रे सम्पूर्णे
निशीथे सूतिकागृहात् ।
जहार कृष्णस्य सुतं
शिशुं वै कालशम्बरः ॥ ह्व्_९९।३ ॥

विश्वास-प्रस्तुतिः

विदितं तच् च कृष्णस्य
देवमायानुवर्तिनः ।
ततो न निगृहीतः स
दानवो युद्धदुर्मदः ॥ ह्व्_९९।४ ॥

मूलम्

विदितं तच् च कृष्णस्य
देवमायानुवर्तिनः ।
ततो न निगृहीतः स
दानवो युद्धदुर्मदः ॥ ह्व्_९९।४ ॥

विश्वास-प्रस्तुतिः

स मृत्युना परीतायुर्
माययाभिजहार तम् ।
दोर्भ्याम् उत्क्षिप्य नगरं
स्वं जगाम महासुरः ॥ ह्व्_९९।५ ॥

मूलम्

स मृत्युना परीतायुर्
माययाभिजहार तम् ।
दोर्भ्याम् उत्क्षिप्य नगरं
स्वं जगाम महासुरः ॥ ह्व्_९९।५ ॥

विश्वास-प्रस्तुतिः

अनपत्या तु तस्यासीद्
भार्या रूपगुणान्विता ।
नाम्ना मायावती नाम
मायेव शुभदर्शन ॥ ह्व्_९९।६ ॥

मूलम्

अनपत्या तु तस्यासीद्
भार्या रूपगुणान्विता ।
नाम्ना मायावती नाम
मायेव शुभदर्शन ॥ ह्व्_९९।६ ॥

विश्वास-प्रस्तुतिः

ददौ तं वासुदेवस्य
पुत्रं पुत्रम् इवात्मजम् ।
तस्या महिष्या नाथिन्या
दानवः कालचोदितः ॥ ह्व्_९९।७ ॥

मूलम्

ददौ तं वासुदेवस्य
पुत्रं पुत्रम् इवात्मजम् ।
तस्या महिष्या नाथिन्या
दानवः कालचोदितः ॥ ह्व्_९९।७ ॥

विश्वास-प्रस्तुतिः

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
मायावती तु तं दृष्ट्वा
सम्प्रहृष्टतनूरुहा । ह्व्_९९।७११०९:१ ।
हर्षेण महता युक्ता
पुनः पुनर् उदैक्षत ॥ ह्व्_९९।७११०९:२ ।

मूलम्

([क्: अल्ल् म्स्स्। (एxचेप्त् श्१ Ñ१ म्१-३) ins.: :क्])
मायावती तु तं दृष्ट्वा
सम्प्रहृष्टतनूरुहा । ह्व्_९९।७११०९:१ ।
हर्षेण महता युक्ता
पुनः पुनर् उदैक्षत ॥ ह्व्_९९।७११०९:२ ।

विश्वास-प्रस्तुतिः

अथ तस्या निरीक्षन्त्याः
स्मृतिः प्रादुर्बभूव ह । ह्व्_९९।७११०९:३ ।
अयं स मम कान्तो ऽभूत्
स्मृत्वैवं चान्वचिन्तयत् ॥ ह्व्_९९।७११०९:४ ।

मूलम्

अथ तस्या निरीक्षन्त्याः
स्मृतिः प्रादुर्बभूव ह । ह्व्_९९।७११०९:३ ।
अयं स मम कान्तो ऽभूत्
स्मृत्वैवं चान्वचिन्तयत् ॥ ह्व्_९९।७११०९:४ ।

विश्वास-प्रस्तुतिः

अयं स नाथो भर्ता मे
यस्यार्थं हि दिवानिशम् । ह्व्_९९।७११०९:५ ।
चिन्ताशोकह्रदे मग्ना
न विन्दामि रतिं क्वचित् ॥ ह्व्_९९।७११०९:६ ।

मूलम्

अयं स नाथो भर्ता मे
यस्यार्थं हि दिवानिशम् । ह्व्_९९।७११०९:५ ।
चिन्ताशोकह्रदे मग्ना
न विन्दामि रतिं क्वचित् ॥ ह्व्_९९।७११०९:६ ।

विश्वास-प्रस्तुतिः

अयं भगवता पूर्वं
देवदेवेन शूलिना । ह्व्_९९।७११०९:७ ।
खेदितेन कृतो ऽनङ्गो
दृष्टो जात्यन्तरे मया ॥ ह्व्_९९।७११०९:८ ।

मूलम्

अयं भगवता पूर्वं
देवदेवेन शूलिना । ह्व्_९९।७११०९:७ ।
खेदितेन कृतो ऽनङ्गो
दृष्टो जात्यन्तरे मया ॥ ह्व्_९९।७११०९:८ ।

विश्वास-प्रस्तुतिः

कथम् अस्य स्तनं दास्ये
मातृभावेन जानती । ह्व्_९९।७११०९:९ ।
भर्तुर् भार्या त्व् अहं भूत्वा
वक्ष्ये वा पुत्र इत्य् उत ॥ ह्व्_९९।७११०९:१० ।

मूलम्

कथम् अस्य स्तनं दास्ये
मातृभावेन जानती । ह्व्_९९।७११०९:९ ।
भर्तुर् भार्या त्व् अहं भूत्वा
वक्ष्ये वा पुत्र इत्य् उत ॥ ह्व्_९९।७११०९:१० ।

विश्वास-प्रस्तुतिः

एवं सञ्चिन्त्य मनसा
धात्र्यास् तं सा समर्पयत् । ह्व्_९९।७११०९:११ ।
रसायनप्रयोगैश् च
शीघ्रम् एवान्ववर्धयत् ॥ ह्व्_९९।७११०९:१२ ।

मूलम्

एवं सञ्चिन्त्य मनसा
धात्र्यास् तं सा समर्पयत् । ह्व्_९९।७११०९:११ ।
रसायनप्रयोगैश् च
शीघ्रम् एवान्ववर्धयत् ॥ ह्व्_९९।७११०९:१२ ।

विश्वास-प्रस्तुतिः

धात्र्याः सकाशात् स च तां
शृण्वन् रुक्मिणिनन्दनः । ह्व्_९९।७११०९:१३ ।
मायावतीम् अविज्ञानान्
मेने स्वाम् एव मातरम् । ह्व्_९९।७११०९:१४ ।
सा तं संवर्धयाम् आस
कार्ष्णिं कमललोचनम् ।
मायाश् चास्मै ददौ सर्वा
दानवीः काममोहिता ॥ ह्व्_९९।८ ॥

मूलम्

धात्र्याः सकाशात् स च तां
शृण्वन् रुक्मिणिनन्दनः । ह्व्_९९।७११०९:१३ ।
मायावतीम् अविज्ञानान्
मेने स्वाम् एव मातरम् । ह्व्_९९।७११०९:१४ ।
सा तं संवर्धयाम् आस
कार्ष्णिं कमललोचनम् ।
मायाश् चास्मै ददौ सर्वा
दानवीः काममोहिता ॥ ह्व्_९९।८ ॥

विश्वास-प्रस्तुतिः

स यदा यौवनस्थस् तु
प्रद्युम्नः कामदर्शनः ।
चिकीर्षितज्ञो नारीणां
सर्वास्त्रविधिपारगः ॥ ह्व्_९९।९ ॥

मूलम्

स यदा यौवनस्थस् तु
प्रद्युम्नः कामदर्शनः ।
चिकीर्षितज्ञो नारीणां
सर्वास्त्रविधिपारगः ॥ ह्व्_९९।९ ॥

विश्वास-प्रस्तुतिः

तं सा मायावती कान्तं
कामयाम् आस कामिनी ।
इङ्गितैश् चापि वीक्षन्ती
प्रालोभयत सस्मिता ॥ ह्व्_९९।१० ॥

मूलम्

तं सा मायावती कान्तं
कामयाम् आस कामिनी ।
इङ्गितैश् चापि वीक्षन्ती
प्रालोभयत सस्मिता ॥ ह्व्_९९।१० ॥

विश्वास-प्रस्तुतिः

प्रसज्जन्तीं तु तां देवीं
बभाषे चारुहासिनीम् ।
मातृभावं परित्यज्य
किम् एवं वर्तसे ऽन्यथा ॥ ह्व्_९९।११ ॥

मूलम्

प्रसज्जन्तीं तु तां देवीं
बभाषे चारुहासिनीम् ।
मातृभावं परित्यज्य
किम् एवं वर्तसे ऽन्यथा ॥ ह्व्_९९।११ ॥

विश्वास-प्रस्तुतिः

अहो दुष्टस्वभावासि
स्त्रीत्वेन चलमानसा ।
या पुत्रभावम् उत्सृज्य
मयि कामात् प्रवर्तसे ॥ ह्व्_९९।१२ ॥

मूलम्

अहो दुष्टस्वभावासि
स्त्रीत्वेन चलमानसा ।
या पुत्रभावम् उत्सृज्य
मयि कामात् प्रवर्तसे ॥ ह्व्_९९।१२ ॥

विश्वास-प्रस्तुतिः

ननु ते ऽहं सुतः सौम्ये
को ऽयं शीलव्यतिक्रमः ।
तत् त्वम् इच्छाम्य् अहं देवि
कथितं कस् त्व् अयं विधिः ॥ ह्व्_९९।१३ ॥

मूलम्

ननु ते ऽहं सुतः सौम्ये
को ऽयं शीलव्यतिक्रमः ।
तत् त्वम् इच्छाम्य् अहं देवि
कथितं कस् त्व् अयं विधिः ॥ ह्व्_९९।१३ ॥

विश्वास-प्रस्तुतिः

विद्युत्सम्पातचपलः
स्वभावः खलु योषिताम् ।
या नरेषु प्रसज्जन्ते
नगाग्रेषु घना इव ॥ ह्व्_९९।१४ ॥

मूलम्

विद्युत्सम्पातचपलः
स्वभावः खलु योषिताम् ।
या नरेषु प्रसज्जन्ते
नगाग्रेषु घना इव ॥ ह्व्_९९।१४ ॥

विश्वास-प्रस्तुतिः

यदि ते ऽहं सुतः सौम्ये
यदि वा नात्मजः शुभे ।
कथितं तत् त्वम् इच्छामि
किम् इदं ते चिकीर्षितम् ॥ ह्व्_९९।१५ ॥

मूलम्

यदि ते ऽहं सुतः सौम्ये
यदि वा नात्मजः शुभे ।
कथितं तत् त्वम् इच्छामि
किम् इदं ते चिकीर्षितम् ॥ ह्व्_९९।१५ ॥

विश्वास-प्रस्तुतिः

एवम् उक्ता तु सा भीरुः
कामेन व्यथितेन्द्रिया ।
प्रियं प्रोवाच वचनं
विविक्ते केशवात्मजम् ॥ ह्व्_९९।१६ ॥

मूलम्

एवम् उक्ता तु सा भीरुः
कामेन व्यथितेन्द्रिया ।
प्रियं प्रोवाच वचनं
विविक्ते केशवात्मजम् ॥ ह्व्_९९।१६ ॥

विश्वास-प्रस्तुतिः

न त्वं मम सुतः सौम्य
नापि ते शम्बरः पिता ।
रूपवान् असि विक्रान्तस्
त्वं जात्या वृष्णिनन्दनः ॥

मूलम्

न त्वं मम सुतः सौम्य
नापि ते शम्बरः पिता ।
रूपवान् असि विक्रान्तस्
त्वं जात्या वृष्णिनन्दनः ॥

विश्वास-प्रस्तुतिः

पुत्रस् त्वं वासुदेवस्य
रुक्मिण्या नन्दिवर्धनः ॥ ह्व्_९९।१७ ॥

मूलम्

पुत्रस् त्वं वासुदेवस्य
रुक्मिण्या नन्दिवर्धनः ॥ ह्व्_९९।१७ ॥

विश्वास-प्रस्तुतिः

दिवसे सप्तमे बालो
जातमात्रो ऽपवाहितः ।
सूतिकागारमध्यात् त्वं
शिशुर् उत्तानशायितः ॥ ह्व्_९९।१८ ॥

मूलम्

दिवसे सप्तमे बालो
जातमात्रो ऽपवाहितः ।
सूतिकागारमध्यात् त्वं
शिशुर् उत्तानशायितः ॥ ह्व्_९९।१८ ॥

विश्वास-प्रस्तुतिः

मम भर्त्रा हृतो वीर
बलवीर्यप्रवर्तिना ।
पितुस् ते वासुदेवस्य
धर्षयित्वा गृहं महत् ॥

मूलम्

मम भर्त्रा हृतो वीर
बलवीर्यप्रवर्तिना ।
पितुस् ते वासुदेवस्य
धर्षयित्वा गृहं महत् ॥

विश्वास-प्रस्तुतिः

पाकशासनकल्पस्य
हृतस् त्वं शम्बरेण ह ॥ ह्व्_९९।१९ ॥

मूलम्

पाकशासनकल्पस्य
हृतस् त्वं शम्बरेण ह ॥ ह्व्_९९।१९ ॥

विश्वास-प्रस्तुतिः

सा च ते करुणं माता
त्वां बालम् अनुशोचती ।
अत्यर्थं श्राम्यते वीर
विवत्सा सौरभी यथा ॥ ह्व्_९९।२० ॥

मूलम्

सा च ते करुणं माता
त्वां बालम् अनुशोचती ।
अत्यर्थं श्राम्यते वीर
विवत्सा सौरभी यथा ॥ ह्व्_९९।२० ॥

विश्वास-प्रस्तुतिः

स हि शक्राद् अपि महान्
पिता ते गरुडध्वजः ।
इह त्वां नाभिजानाति
बालम् एवापवाहितम् ॥ ह्व्_९९।२१ ॥

मूलम्

स हि शक्राद् अपि महान्
पिता ते गरुडध्वजः ।
इह त्वां नाभिजानाति
बालम् एवापवाहितम् ॥ ह्व्_९९।२१ ॥

विश्वास-प्रस्तुतिः

कान्त वृष्णिकुमारस् त्वं
न हि त्वं शम्बरात्मजः ।
वीर नैवंविधान् पुत्रान्
दानवा जनयन्ति हि ॥ ह्व्_९९।२२ ॥

मूलम्

कान्त वृष्णिकुमारस् त्वं
न हि त्वं शम्बरात्मजः ।
वीर नैवंविधान् पुत्रान्
दानवा जनयन्ति हि ॥ ह्व्_९९।२२ ॥

विश्वास-प्रस्तुतिः

ततो ऽहं कामयामि त्वां
न हि त्वं जनितो मया ।
रूपं ते सौम्य पश्यन्ती
सीदामि हृदि दुर्बला ॥ ह्व्_९९।२३ ॥

मूलम्

ततो ऽहं कामयामि त्वां
न हि त्वं जनितो मया ।
रूपं ते सौम्य पश्यन्ती
सीदामि हृदि दुर्बला ॥ ह्व्_९९।२३ ॥

विश्वास-प्रस्तुतिः

यन् मे व्यवसितं कान्त
यच् च मे हृदि वर्तते ।
तन्मे मनसि वार्ष्णेय
प्रतिसन्धातुम् अर्हसि ॥ ह्व्_९९।२४ ॥

मूलम्

यन् मे व्यवसितं कान्त
यच् च मे हृदि वर्तते ।
तन्मे मनसि वार्ष्णेय
प्रतिसन्धातुम् अर्हसि ॥ ह्व्_९९।२४ ॥

विश्वास-प्रस्तुतिः

एष ते कथितः सौम्य
सद्भावस् त्वयि यो मम ।
यथा न मम पुत्रस् त्वं
न पुत्रः शम्बरस्य च ॥ ह्व्_९९।२५ ॥

मूलम्

एष ते कथितः सौम्य
सद्भावस् त्वयि यो मम ।
यथा न मम पुत्रस् त्वं
न पुत्रः शम्बरस्य च ॥ ह्व्_९९।२५ ॥

विश्वास-प्रस्तुतिः

([क्: ब्३ ins.: :क्])
कामदेवश् च वीर त्वं
रतिं मां विद्धि वै प्रभो । ह्व्_९९।२५१११०:१ ।
शङ्करस्य च शापेन
त्वम् अनङ्गगतिः पुरा ॥ ह्व्_९९।२५१११०:२ ।

मूलम्

([क्: ब्३ ins.: :क्])
कामदेवश् च वीर त्वं
रतिं मां विद्धि वै प्रभो । ह्व्_९९।२५१११०:१ ।
शङ्करस्य च शापेन
त्वम् अनङ्गगतिः पुरा ॥ ह्व्_९९।२५१११०:२ ।

विश्वास-प्रस्तुतिः

तत् कालमायया रूपं
कृत्वा दैत्यस्य वेश्मनि । ह्व्_९९।२५१११०:३ ।
विशीर्णा साहम् उषिता
दैत्यस्यास्य च वेश्मनि । ह्व्_९९।२५१११०:४ ।
श्रुत्वैतन् निखिलं सर्वं
मायावत्या प्रभाषितम् ।
चक्रायुधात्मजः क्रुद्धः
शम्बरं स समाह्वयत् ॥ ह्व्_९९।२६ ॥

मूलम्

तत् कालमायया रूपं
कृत्वा दैत्यस्य वेश्मनि । ह्व्_९९।२५१११०:३ ।
विशीर्णा साहम् उषिता
दैत्यस्यास्य च वेश्मनि । ह्व्_९९।२५१११०:४ ।
श्रुत्वैतन् निखिलं सर्वं
मायावत्या प्रभाषितम् ।
चक्रायुधात्मजः क्रुद्धः
शम्बरं स समाह्वयत् ॥ ह्व्_९९।२६ ॥

विश्वास-प्रस्तुतिः

समस्तमायामायाज्ञो
विक्रान्तः समरे ऽव्ययः ।
अष्टम्यां निहतो युद्धे
मायया कालशम्बरः ॥ ह्व्_९९।२७ ॥

मूलम्

समस्तमायामायाज्ञो
विक्रान्तः समरे ऽव्ययः ।
अष्टम्यां निहतो युद्धे
मायया कालशम्बरः ॥ ह्व्_९९।२७ ॥

विश्वास-प्रस्तुतिः

तमृक्षवन्ते नगरे
निहत्यासुरसत्तमम् ।
गृह्य मायावतीं देवीं
स्वाम् अगच्छत् पुरीं पितुः ॥ ह्व्_९९।२८ ॥

मूलम्

तमृक्षवन्ते नगरे
निहत्यासुरसत्तमम् ।
गृह्य मायावतीं देवीं
स्वाम् अगच्छत् पुरीं पितुः ॥ ह्व्_९९।२८ ॥

विश्वास-प्रस्तुतिः

सो ऽन्तरिक्षगतो भूत्वा
मायया शीघ्रविक्रमः ।
आजगाम पुरीं रम्यां
रक्षितां तेजसा पितुः ॥ ह्व्_९९।२९ ॥

मूलम्

सो ऽन्तरिक्षगतो भूत्वा
मायया शीघ्रविक्रमः ।
आजगाम पुरीं रम्यां
रक्षितां तेजसा पितुः ॥ ह्व्_९९।२९ ॥

विश्वास-प्रस्तुतिः

सो ऽन्तरिक्षात् प्रपतितः
केशवान्तःपुरे शिशुः ।
मायावत्या सह तया
रूपवान् इव मन्मथः ॥ ह्व्_९९।३० ॥

मूलम्

सो ऽन्तरिक्षात् प्रपतितः
केशवान्तःपुरे शिशुः ।
मायावत्या सह तया
रूपवान् इव मन्मथः ॥ ह्व्_९९।३० ॥

विश्वास-प्रस्तुतिः

तस्मिंस् तत्रावपतिते
महिष्यः केशवस्य याः ।
विस्मिताश् चैव हृष्टाश् च
भीराश् चैवाभवंस् तदा ॥ ह्व्_९९।३१ ॥

मूलम्

तस्मिंस् तत्रावपतिते
महिष्यः केशवस्य याः ।
विस्मिताश् चैव हृष्टाश् च
भीराश् चैवाभवंस् तदा ॥ ह्व्_९९।३१ ॥

विश्वास-प्रस्तुतिः

ततस् तं कामसङ्काशं
कान्तया सह सङ्गतम् ।
प्रेक्षन्त्यो हृष्टवदनाः
पिबन्त्यो नयनासवम् ॥ ह्व्_९९।३२ ॥

मूलम्

ततस् तं कामसङ्काशं
कान्तया सह सङ्गतम् ।
प्रेक्षन्त्यो हृष्टवदनाः
पिबन्त्यो नयनासवम् ॥ ह्व्_९९।३२ ॥

विश्वास-प्रस्तुतिः

तं व्रीडितमुखं दृष्ट्वा
सज्जमानं पदे पदे ।
अभवन् स्निग्धसङ्कल्पाः
प्रहृष्टाः कृष्णयोषितः ॥ ह्व्_९९।३३ ॥

मूलम्

तं व्रीडितमुखं दृष्ट्वा
सज्जमानं पदे पदे ।
अभवन् स्निग्धसङ्कल्पाः
प्रहृष्टाः कृष्णयोषितः ॥ ह्व्_९९।३३ ॥

विश्वास-प्रस्तुतिः

रुक्मिणी त्व् एव तं दृष्ट्वा
शोकार्ता पुत्रगृद्धिनी ।
सपत्नीशतसङ्कीर्णा
सबाष्पा वाक्यम् अब्रवीत् ॥ ह्व्_९९।३४ ॥

मूलम्

रुक्मिणी त्व् एव तं दृष्ट्वा
शोकार्ता पुत्रगृद्धिनी ।
सपत्नीशतसङ्कीर्णा
सबाष्पा वाक्यम् अब्रवीत् ॥ ह्व्_९९।३४ ॥

विश्वास-प्रस्तुतिः

([क्: Ñ२।३ व् ब् द्न् द्स् द्१।३।५(मर्ग्।)।६ त्१।२।४ ग् म्४ ins. (क्१ द्४ after ४०): :क्])
यादृक् स्वप्नो मया दृष्टो
निशाया यौवने गते । ह्व्_९९।३४११११:१ ।
कंसारिणा समानीय
दत्तं साहारपल्लवम् ॥ ह्व्_९९।३४११११:२ ।

मूलम्

([क्: Ñ२।३ व् ब् द्न् द्स् द्१।३।५(मर्ग्।)।६ त्१।२।४ ग् म्४ ins. (क्१ द्४ after ४०): :क्])
यादृक् स्वप्नो मया दृष्टो
निशाया यौवने गते । ह्व्_९९।३४११११:१ ।
कंसारिणा समानीय
दत्तं साहारपल्लवम् ॥ ह्व्_९९।३४११११:२ ।

विश्वास-प्रस्तुतिः

शशिरश्मिप्रतीकाशं
मुक्तादाम च शोभनम् । ह्व्_९९।३४११११:३ ।
केशवेनाङ्कम् आरोप्य
मम कण्ठे न्यबध्यत ॥ ह्व्_९९।३४११११:४ ।

मूलम्

शशिरश्मिप्रतीकाशं
मुक्तादाम च शोभनम् । ह्व्_९९।३४११११:३ ।
केशवेनाङ्कम् आरोप्य
मम कण्ठे न्यबध्यत ॥ ह्व्_९९।३४११११:४ ।

विश्वास-प्रस्तुतिः

श्यामा सुचारुकेशा स्त्री
शुक्लाम्बरविभूषिता । ह्व्_९९।३४११११:५ ।
पद्महस्ता निरीक्षन्ती
प्रविष्टा मम वेश्मनि ॥ ह्व्_९९।३४११११:६ ।

मूलम्

श्यामा सुचारुकेशा स्त्री
शुक्लाम्बरविभूषिता । ह्व्_९९।३४११११:५ ।
पद्महस्ता निरीक्षन्ती
प्रविष्टा मम वेश्मनि ॥ ह्व्_९९।३४११११:६ ।

विश्वास-प्रस्तुतिः

तया पुनर् अहं गृह्य
स्नापिता रुचिराम्बुना ॥ ह्व्_९९।३४११११:७ ।

मूलम्

तया पुनर् अहं गृह्य
स्नापिता रुचिराम्बुना ॥ ह्व्_९९।३४११११:७ ।

विश्वास-प्रस्तुतिः

कुशेशयमयीं मालां
स्त्री सङ्गृह्याथ पाणिना । ह्व्_९९।३४११११:८ ।
मम मूर्धन्य् उपाघ्राय
दत्ता स्रक् सा तया मम ॥ ह्व्_९९।३४११११:९ ।

मूलम्

कुशेशयमयीं मालां
स्त्री सङ्गृह्याथ पाणिना । ह्व्_९९।३४११११:८ ।
मम मूर्धन्य् उपाघ्राय
दत्ता स्रक् सा तया मम ॥ ह्व्_९९।३४११११:९ ।

विश्वास-प्रस्तुतिः

एवं स्वप्नं कीर्तयन्ती
रुक्मिणी हृष्टमानसा । ह्व्_९९।३४११११:१० ।
सखीजनवृता देवी
कुमारं वीक्ष्य तं मुहुः । ह्व्_९९।३४११११:११ ।
([क्: Ñ२ चोन्त्।: :क्])
इत्य् अतो ऽनन्तरं तत्र
अब्रवीद् वाक्यम् एव तत् । ह्व्_९९।३४१११२ ।
धन्यायाः खल्व् अयं पुत्रो
दीर्घायुः प्रियदर्शनः ।
इदृशः कामसङ्काशो
यौवने प्रथमे स्थितः ॥ ह्व्_९९।३५ ॥

मूलम्

एवं स्वप्नं कीर्तयन्ती
रुक्मिणी हृष्टमानसा । ह्व्_९९।३४११११:१० ।
सखीजनवृता देवी
कुमारं वीक्ष्य तं मुहुः । ह्व्_९९।३४११११:११ ।
([क्: Ñ२ चोन्त्।: :क्])
इत्य् अतो ऽनन्तरं तत्र
अब्रवीद् वाक्यम् एव तत् । ह्व्_९९।३४१११२ ।
धन्यायाः खल्व् अयं पुत्रो
दीर्घायुः प्रियदर्शनः ।
इदृशः कामसङ्काशो
यौवने प्रथमे स्थितः ॥ ह्व्_९९।३५ ॥

विश्वास-प्रस्तुतिः

जीवपुत्रा त्वया पुत्र
का सा भाग्यविभूषिता ।
किम् अर्थं चाम्बुदश्याम
सभार्यस् त्वम् इहागतः ॥ ह्व्_९९।३६ ॥

मूलम्

जीवपुत्रा त्वया पुत्र
का सा भाग्यविभूषिता ।
किम् अर्थं चाम्बुदश्याम
सभार्यस् त्वम् इहागतः ॥ ह्व्_९९।३६ ॥

विश्वास-प्रस्तुतिः

अस्मिन् वयसि सुव्यक्तं
प्रद्युम्नो मम पुत्रकः ।
भवेद् यदि न नीतः स्यात्
कृतान्तेन बलीयसा ॥ ह्व्_९९।३७ ॥

मूलम्

अस्मिन् वयसि सुव्यक्तं
प्रद्युम्नो मम पुत्रकः ।
भवेद् यदि न नीतः स्यात्
कृतान्तेन बलीयसा ॥ ह्व्_९९।३७ ॥

विश्वास-प्रस्तुतिः

व्यक्तं वृष्णिकुमारो ऽयं
न मिथ्या मम तर्कितम् ।
विज्ञातो ऽसि मया चिह्नैर्
विना चक्रं जनार्दनः ॥ ह्व्_९९।३८ ॥

मूलम्

व्यक्तं वृष्णिकुमारो ऽयं
न मिथ्या मम तर्कितम् ।
विज्ञातो ऽसि मया चिह्नैर्
विना चक्रं जनार्दनः ॥ ह्व्_९९।३८ ॥

विश्वास-प्रस्तुतिः

मुखं नारायणस्येव
केशाः केशान्त एव च ।
मूर्धवक्षोभुजैस् तुल्यो
हलिनः श्वशुरस्य मे ॥ ह्व्_९९।३९ ॥

मूलम्

मुखं नारायणस्येव
केशाः केशान्त एव च ।
मूर्धवक्षोभुजैस् तुल्यो
हलिनः श्वशुरस्य मे ॥ ह्व्_९९।३९ ॥

विश्वास-प्रस्तुतिः

कस् त्वं वृष्णिकुलं सर्वं
वपुषा द्योतयन् स्थितः ।
अहो जनार्दनस्यास्य
दिव्या त्वम् अपरा तनुः ॥ ह्व्_९९।४० ॥

मूलम्

कस् त्वं वृष्णिकुलं सर्वं
वपुषा द्योतयन् स्थितः ।
अहो जनार्दनस्यास्य
दिव्या त्वम् अपरा तनुः ॥ ह्व्_९९।४० ॥

विश्वास-प्रस्तुतिः

एतस्मिन्न् अन्तरे कृष्णः
सहसा प्रविवेश ह ।
नारदस्य वचः श्रुत्वा
शम्बरस्य वधं प्रति ॥ ह्व्_९९।४१ ॥

मूलम्

एतस्मिन्न् अन्तरे कृष्णः
सहसा प्रविवेश ह ।
नारदस्य वचः श्रुत्वा
शम्बरस्य वधं प्रति ॥ ह्व्_९९।४१ ॥

विश्वास-प्रस्तुतिः

सो ऽपश्यत् तं सुतं ज्येष्ठं
सिद्धं मन्मथलक्षणैः ।
स्नुषां मायावतीं चैव
हृष्टचेता जनार्दनः ॥ ह्व्_९९।४२ ॥

मूलम्

सो ऽपश्यत् तं सुतं ज्येष्ठं
सिद्धं मन्मथलक्षणैः ।
स्नुषां मायावतीं चैव
हृष्टचेता जनार्दनः ॥ ह्व्_९९।४२ ॥

विश्वास-प्रस्तुतिः

सो ऽब्रवीत् सहसा देवीं
रुक्मिणीं देवताम् इव ।
अयं ते देवि सम्प्राप्तः
पुत्रश् चापधरः प्रभुः ॥ ह्व्_९९।४३ ॥

मूलम्

सो ऽब्रवीत् सहसा देवीं
रुक्मिणीं देवताम् इव ।
अयं ते देवि सम्प्राप्तः
पुत्रश् चापधरः प्रभुः ॥ ह्व्_९९।४३ ॥

विश्वास-प्रस्तुतिः

अनेन शम्बरं हत्वा
मायायुद्धविशारदम् ।
हता मायाश् च ताः सर्वा
याभिर् देवान् अबाधत ॥ ह्व्_९९।४४ ॥

मूलम्

अनेन शम्बरं हत्वा
मायायुद्धविशारदम् ।
हता मायाश् च ताः सर्वा
याभिर् देवान् अबाधत ॥ ह्व्_९९।४४ ॥

विश्वास-प्रस्तुतिः

सती चेयं शुभा साध्वी
भार्या वै तनयस्य ते ।
मायावतीति विख्याता
शम्बरस्य गृहोषिता ॥

मूलम्

सती चेयं शुभा साध्वी
भार्या वै तनयस्य ते ।
मायावतीति विख्याता
शम्बरस्य गृहोषिता ॥

विश्वास-प्रस्तुतिः

मा च ते शम्बरस्येयं
पत्नीत्य् एवं व्यथा भवेत् ॥ ह्व्_९९।४५ ॥

मूलम्

मा च ते शम्बरस्येयं
पत्नीत्य् एवं व्यथा भवेत् ॥ ह्व्_९९।४५ ॥

विश्वास-प्रस्तुतिः

मन्मथे तु गते नाशं
गते चानङ्गतां पुरा ।
([क्: त्१।२।४ ग्१।३-५ म् ins.: :क्])
नेत्राग्निना त्र्यम्बकस्य
शूलपाणेः पुरा युगे । ह्व्_९९।४६अब्१११३ ।
कामपत्नी हि कन्यैषा
कामकामा रतिः शुभा ॥

मूलम्

मन्मथे तु गते नाशं
गते चानङ्गतां पुरा ।
([क्: त्१।२।४ ग्१।३-५ म् ins.: :क्])
नेत्राग्निना त्र्यम्बकस्य
शूलपाणेः पुरा युगे । ह्व्_९९।४६अब्१११३ ।
कामपत्नी हि कन्यैषा
कामकामा रतिः शुभा ॥

विश्वास-प्रस्तुतिः

मायारूपेण तं दैत्यं
मोहयत्य् असकृच् छुभा ॥ ह्व्_९९।४६ ॥

मूलम्

मायारूपेण तं दैत्यं
मोहयत्य् असकृच् छुभा ॥ ह्व्_९९।४६ ॥

विश्वास-प्रस्तुतिः

न चैषा तस्य कौमारे
वशे तिष्ठति शोभना ।
अत्ममायामयं रूपं
कृत्वा शम्बरम् आविशत् ॥ ह्व्_९९।४७ ॥

मूलम्

न चैषा तस्य कौमारे
वशे तिष्ठति शोभना ।
अत्ममायामयं रूपं
कृत्वा शम्बरम् आविशत् ॥ ह्व्_९९।४७ ॥

विश्वास-प्रस्तुतिः

पत्न्य् एषा मम पुत्रस्य
स्नुषा तव वराङ्गना ।
लोककान्तस्य साहाय्यं
करिष्यति मनोमयम् ॥ ह्व्_९९।४८ ॥

मूलम्

पत्न्य् एषा मम पुत्रस्य
स्नुषा तव वराङ्गना ।
लोककान्तस्य साहाय्यं
करिष्यति मनोमयम् ॥ ह्व्_९९।४८ ॥

विश्वास-प्रस्तुतिः

प्रवेशयैनां भवनं
पूज्या ह्य् एषा स्नुषा मम ।
चिरप्रनष्टं च सुतं
भजस्य पुनरागतम् ॥ ह्व्_९९।४९ ॥

मूलम्

प्रवेशयैनां भवनं
पूज्या ह्य् एषा स्नुषा मम ।
चिरप्रनष्टं च सुतं
भजस्य पुनरागतम् ॥ ह्व्_९९।४९ ॥

विश्वास-प्रस्तुतिः

([क्: Ñ२।३ व् ब् द्न् द्स् द्१-३।५(मर्ग्।)।६ त्२।४ ग् म्४ ins. (त्१ after ४९अ): :क्])
{वैशम्पायन उवाच}
श्रुत्वा तु वचनं देवी
कृष्णेनोदाहृतं तदा । ह्व्_९९।४९१११४:१ ।
प्रहर्षम् अतुलं लेभे
रुक्मिणी वाक्यम् अब्रवीत् ॥ ह्व्_९९।४९१११४:२ ।

मूलम्

([क्: Ñ२।३ व् ब् द्न् द्स् द्१-३।५(मर्ग्।)।६ त्२।४ ग् म्४ ins. (त्१ after ४९अ): :क्])
{वैशम्पायन उवाच}
श्रुत्वा तु वचनं देवी
कृष्णेनोदाहृतं तदा । ह्व्_९९।४९१११४:१ ।
प्रहर्षम् अतुलं लेभे
रुक्मिणी वाक्यम् अब्रवीत् ॥ ह्व्_९९।४९१११४:२ ।

विश्वास-प्रस्तुतिः

अहो धन्यतरास्मीति
वीरपुत्रसमागमात् । ह्व्_९९।४९१११४:३ ।
अद्य मे सफलः कामः
पूर्णश् चाद्य मनोरथः । ह्व्_९९।४९१११४:४ ।
चिरप्रनष्टपुत्रस्य
दर्शनं प्रियया सह ॥ ह्व्_९९।४९१११४:५ ।

मूलम्

अहो धन्यतरास्मीति
वीरपुत्रसमागमात् । ह्व्_९९।४९१११४:३ ।
अद्य मे सफलः कामः
पूर्णश् चाद्य मनोरथः । ह्व्_९९।४९१११४:४ ।
चिरप्रनष्टपुत्रस्य
दर्शनं प्रियया सह ॥ ह्व्_९९।४९१११४:५ ।

विश्वास-प्रस्तुतिः

आगच्छ पुत्र भवनं
विशस्व सह भार्यया ॥ ह्व्_९९।४९१११४:६ ।

मूलम्

आगच्छ पुत्र भवनं
विशस्व सह भार्यया ॥ ह्व्_९९।४९१११४:६ ।

विश्वास-प्रस्तुतिः

ततो ऽभिवाद्य चरणौ
गोविन्दं मातरं च सः । ह्व्_९९।४९१११४:७ ।
प्रद्युम्नः पूजयाम् आस
हलिनं च महाबलम् ॥ ह्व्_९९।४९१११४:८ ।

मूलम्

ततो ऽभिवाद्य चरणौ
गोविन्दं मातरं च सः । ह्व्_९९।४९१११४:७ ।
प्रद्युम्नः पूजयाम् आस
हलिनं च महाबलम् ॥ ह्व्_९९।४९१११४:८ ।

विश्वास-प्रस्तुतिः

उत्थाप्य तं परिष्वज्य
मूर्ध्न्य् उपाघ्राय वीर्यवान् । ह्व्_९९।४९१११४:९ ।
प्रद्युम्नं बलिनां श्रेष्ठं
केशवः परवीरहा ॥ ह्व्_९९।४९१११४:१० ।

मूलम्

उत्थाप्य तं परिष्वज्य
मूर्ध्न्य् उपाघ्राय वीर्यवान् । ह्व्_९९।४९१११४:९ ।
प्रद्युम्नं बलिनां श्रेष्ठं
केशवः परवीरहा ॥ ह्व्_९९।४९१११४:१० ।

विश्वास-प्रस्तुतिः

स्नुषां चोत्थाप्य तां देवीं
रुक्मिणी रुक्मभूषणां । ह्व्_९९।४९१११४:११ ।
परिष्वज्योपसङ्गृह्य
स्नेहाद् गद्गदभाषिणी ॥ ह्व्_९९।४९१११४:१२ ।

मूलम्

स्नुषां चोत्थाप्य तां देवीं
रुक्मिणी रुक्मभूषणां । ह्व्_९९।४९१११४:११ ।
परिष्वज्योपसङ्गृह्य
स्नेहाद् गद्गदभाषिणी ॥ ह्व्_९९।४९१११४:१२ ।

समेतं भवनं पत्न्या शच्येन्द्रम् अदितिर् यथा । *ह्व्_९९।४९*१११४:१३ । प्रवेशयाम् आस तदा रुक्मिणी सुतम् आगतम् । *ह्व्_९९।४९*१११४:१४ । ([क्: द्२।३ चोन्त्।: :क्]) एवम् उक्ता तु कृष्णेन रुक्मिणी योषितां वरा । *ह्व्_९९।४९*१११५:१ । पुत्रं प्रीत्या परिष्वज्य मूर्ध्नि चाघ्राय तां स्नुषाम् । *ह्व्_९९।४९*१११५:२ । गृहं प्रवेशयाम् आस स्नुषया सह भामिनी । *ह्व्_९९।४९*१११५:३ ।