०९६

विश्वास-प्रस्तुतिः

{वासुदेव उवाच}
भवतां पुण्यकीर्तीनां
तपोबलसमाधिभिः ।
अपध्यानाच् च पापात्मा
भौमः स नरको हतः ॥ ह्व्_९६।१ ॥

मूलम्

{वासुदेव उवाच}
भवतां पुण्यकीर्तीनां
तपोबलसमाधिभिः ।
अपध्यानाच् च पापात्मा
भौमः स नरको हतः ॥ ह्व्_९६।१ ॥

विश्वास-प्रस्तुतिः

मोक्षितं बन्धनाद् गुप्तं
कन्यापुरवरं महत् ।
मणिपर्वतम् उत्पाट्य
शिखरं चैतद् आहृतम् ॥ ह्व्_९६।२ ॥

मूलम्

मोक्षितं बन्धनाद् गुप्तं
कन्यापुरवरं महत् ।
मणिपर्वतम् उत्पाट्य
शिखरं चैतद् आहृतम् ॥ ह्व्_९६।२ ॥

विश्वास-प्रस्तुतिः

अयं धनौघः सुमहान्
किङ्करैर् आहृतो मया ।
ईशा भवन्तस् तस्येति
तान् उक्त्वा विरराम ह ॥ ह्व्_९६।३ ॥

मूलम्

अयं धनौघः सुमहान्
किङ्करैर् आहृतो मया ।
ईशा भवन्तस् तस्येति
तान् उक्त्वा विरराम ह ॥ ह्व्_९६।३ ॥

विश्वास-प्रस्तुतिः

तच् छ्रुत्वा वासुदेवस्य
भोजवृष्ण्यन्धका वचः ।
जहृषुर् हृष्टलोमानः
पूजयन्तो जनार्दनम् ॥ ह्व्_९६।४ ॥

मूलम्

तच् छ्रुत्वा वासुदेवस्य
भोजवृष्ण्यन्धका वचः ।
जहृषुर् हृष्टलोमानः
पूजयन्तो जनार्दनम् ॥ ह्व्_९६।४ ॥

विश्वास-प्रस्तुतिः

ऊचुश् चैनं नृवीरास् ते
कृताञ्जलिपुटास् ततः ।
नैतच् चित्रं महाबाहो
त्वयि देवकिनन्दन ॥ ह्व्_९६।५ ॥

मूलम्

ऊचुश् चैनं नृवीरास् ते
कृताञ्जलिपुटास् ततः ।
नैतच् चित्रं महाबाहो
त्वयि देवकिनन्दन ॥ ह्व्_९६।५ ॥

विश्वास-प्रस्तुतिः

यत् कृत्वा दुष्करं कर्म
देवैर् अपि सुदुष्करम् ।
लालयेः स्वजनं भोगै
रत्नैश् च स्वयम् अर्जितैः ॥ ह्व्_९६।६ ॥

मूलम्

यत् कृत्वा दुष्करं कर्म
देवैर् अपि सुदुष्करम् ।
लालयेः स्वजनं भोगै
रत्नैश् च स्वयम् अर्जितैः ॥ ह्व्_९६।६ ॥

विश्वास-प्रस्तुतिः

ततः सर्वदशार्हाणाम्
आहुकस्य च याः स्त्रियः ।
प्रीयमाणाः सभां जग्मुर्
वासुदेवदिदृक्षया ॥ ह्व्_९६।७ ॥

मूलम्

ततः सर्वदशार्हाणाम्
आहुकस्य च याः स्त्रियः ।
प्रीयमाणाः सभां जग्मुर्
वासुदेवदिदृक्षया ॥ ह्व्_९६।७ ॥

विश्वास-प्रस्तुतिः

देवकीसप्तमा देव्यो
रोहिणी च शुभानना ।
ददृशुः कृष्णम् आसीनं
रामं चैव महाभुजम् ॥ ह्व्_९६।८ ॥

मूलम्

देवकीसप्तमा देव्यो
रोहिणी च शुभानना ।
ददृशुः कृष्णम् आसीनं
रामं चैव महाभुजम् ॥ ह्व्_९६।८ ॥

विश्वास-प्रस्तुतिः

तौ तु पूर्वम् अतिक्रम्य
रोहिणीम् अभिवाद्य च ।
अभ्यवादयतां देवौ
देवकीं रामकेशवौ ॥ ह्व्_९६।९ ॥

मूलम्

तौ तु पूर्वम् अतिक्रम्य
रोहिणीम् अभिवाद्य च ।
अभ्यवादयतां देवौ
देवकीं रामकेशवौ ॥ ह्व्_९६।९ ॥

विश्वास-प्रस्तुतिः

सा ताभ्याम् ऋषभाक्षाभ्यां
पुत्राभ्यां शुशुभे ऽधिकम् ।
अदितिर् देवमातेव
मित्रेण वरुणेन च ॥ ह्व्_९६।१० ॥

मूलम्

सा ताभ्याम् ऋषभाक्षाभ्यां
पुत्राभ्यां शुशुभे ऽधिकम् ।
अदितिर् देवमातेव
मित्रेण वरुणेन च ॥ ह्व्_९६।१० ॥

विश्वास-प्रस्तुतिः

ततः प्राप्तौ नराग्र्यौ तु
तस्या दुहितरं तदा ।
एकानंशेति याम् आहुर्
नरा वै कामरूपिणीम् ॥ ह्व्_९६।११ ॥

मूलम्

ततः प्राप्तौ नराग्र्यौ तु
तस्या दुहितरं तदा ।
एकानंशेति याम् आहुर्
नरा वै कामरूपिणीम् ॥ ह्व्_९६।११ ॥

विश्वास-प्रस्तुतिः

तथा क्षणमुहूर्ताभ्यां
यया जज्ञे सहेश्वरः ।
यत्कृते सगणं कंसं
जघान पुरुषोत्तमः ॥ ह्व्_९६।१२ ॥

मूलम्

तथा क्षणमुहूर्ताभ्यां
यया जज्ञे सहेश्वरः ।
यत्कृते सगणं कंसं
जघान पुरुषोत्तमः ॥ ह्व्_९६।१२ ॥

विश्वास-प्रस्तुतिः

सा कन्या ववृधे तत्र
वृष्णिसद्मनि पूजिता ।
पुत्रवत् पाल्यमाना वै
वासुदेवाज्ञया तदा ॥ ह्व्_९६।१३ ॥

मूलम्

सा कन्या ववृधे तत्र
वृष्णिसद्मनि पूजिता ।
पुत्रवत् पाल्यमाना वै
वासुदेवाज्ञया तदा ॥ ह्व्_९६।१३ ॥

विश्वास-प्रस्तुतिः

ताम् एकाम् आहुर् उत्पन्नाम्
एकानंशेति मानवाः ।
([क्: फ़ोर् १४अब्, न् (एxचेप्त् श्१) ग्२ सुब्स्त्।: :क्])
एकानंशेति याम् आहुर्
उत्पन्नां मानवा भुवि । ह्व्_९६।१४अब्१०८६ ।
योगकन्यां दुराधर्षां
रक्षार्थं केशवस्य च ॥ ह्व्_९६।१४ ॥

मूलम्

ताम् एकाम् आहुर् उत्पन्नाम्
एकानंशेति मानवाः ।
([क्: फ़ोर् १४अब्, न् (एxचेप्त् श्१) ग्२ सुब्स्त्।: :क्])
एकानंशेति याम् आहुर्
उत्पन्नां मानवा भुवि । ह्व्_९६।१४अब्१०८६ ।
योगकन्यां दुराधर्षां
रक्षार्थं केशवस्य च ॥ ह्व्_९६।१४ ॥

विश्वास-प्रस्तुतिः

तां वै सर्वे सुमनसः
पूजयन्ति स्म यादवाः ।
देववद् दिव्यवपुषा
क्र्ष्णः संरक्षितो यया ॥ ह्व्_९६।१५ ॥

मूलम्

तां वै सर्वे सुमनसः
पूजयन्ति स्म यादवाः ।
देववद् दिव्यवपुषा
क्र्ष्णः संरक्षितो यया ॥ ह्व्_९६।१५ ॥

विश्वास-प्रस्तुतिः

तां च तत्रोपसङ्गम्य
प्रियाम् इव सखीं सखा ।
दक्षिणेन कराग्रेण
परिजग्राह माधवः ॥ ह्व्_९६।१६ ॥

मूलम्

तां च तत्रोपसङ्गम्य
प्रियाम् इव सखीं सखा ।
दक्षिणेन कराग्रेण
परिजग्राह माधवः ॥ ह्व्_९६।१६ ॥

विश्वास-प्रस्तुतिः

तथैव सामो ऽतिबलस्
तां परिष्वज्य भाविनीम् ।
मूर्ध्न्य् उपाघ्राय सव्येन
परिजग्राह पाणिना ॥ ह्व्_९६।१७ ॥

मूलम्

तथैव सामो ऽतिबलस्
तां परिष्वज्य भाविनीम् ।
मूर्ध्न्य् उपाघ्राय सव्येन
परिजग्राह पाणिना ॥ ह्व्_९६।१७ ॥

विश्वास-प्रस्तुतिः

ददृशुस् तां प्रियां मध्ये
भगिनीं रामकृष्णयोः ।
रुक्मपद्मकरव्यग्रां
श्रियं पद्मालयाम् इव ॥ ह्व्_९६।१८ ॥

मूलम्

ददृशुस् तां प्रियां मध्ये
भगिनीं रामकृष्णयोः ।
रुक्मपद्मकरव्यग्रां
श्रियं पद्मालयाम् इव ॥ ह्व्_९६।१८ ॥

विश्वास-प्रस्तुतिः

अथाक्षतमहावृष्ट्या
पुष्पैश् च विविधैः शुभैः ।
अवकीर्य च लाजैस् तां
स्त्रियो जग्मुर् यथागतम् ॥ ह्व्_९६।१९ ॥

मूलम्

अथाक्षतमहावृष्ट्या
पुष्पैश् च विविधैः शुभैः ।
अवकीर्य च लाजैस् तां
स्त्रियो जग्मुर् यथागतम् ॥ ह्व्_९६।१९ ॥

विश्वास-प्रस्तुतिः

ततस् ते यादवाः सर्वे
पूजयन्तो जनार्दनम् ।
उपोपविविशुः प्रीताः
प्रशंसन्तो ऽद्भुतं कृतम् ॥ ह्व्_९६।२० ॥

मूलम्

ततस् ते यादवाः सर्वे
पूजयन्तो जनार्दनम् ।
उपोपविविशुः प्रीताः
प्रशंसन्तो ऽद्भुतं कृतम् ॥ ह्व्_९६।२० ॥

विश्वास-प्रस्तुतिः

पूज्यमानो महाबाहुः
पौराणां रतिवर्धनः ।
विजहार महाकीर्तिर्
देवैर् इव स तैः सह ॥ ह्व्_९६।२१ ॥

मूलम्

पूज्यमानो महाबाहुः
पौराणां रतिवर्धनः ।
विजहार महाकीर्तिर्
देवैर् इव स तैः सह ॥ ह्व्_९६।२१ ॥

विश्वास-प्रस्तुतिः

समासीनेषु सर्वेषु
यादवेषु जनार्दनम् ।
नियोगात् त्रिदशेन्द्रस्य
नारदो ऽभ्यागमत् सभाम् ॥ ह्व्_९६।२२ ॥

मूलम्

समासीनेषु सर्वेषु
यादवेषु जनार्दनम् ।
नियोगात् त्रिदशेन्द्रस्य
नारदो ऽभ्यागमत् सभाम् ॥ ह्व्_९६।२२ ॥

विश्वास-प्रस्तुतिः

सो ऽथ सम्पूजितः पूज्यः
शूरैस् तैर् यदुपुङ्गवैः ।
करे संस्पृश्य गोविन्दं
विवेश महद् आसनम् ॥ ह्व्_९६।२३ ॥

मूलम्

सो ऽथ सम्पूजितः पूज्यः
शूरैस् तैर् यदुपुङ्गवैः ।
करे संस्पृश्य गोविन्दं
विवेश महद् आसनम् ॥ ह्व्_९६।२३ ॥

विश्वास-प्रस्तुतिः

([क्: द्स्१ (मर्ग्।) ins.: :क्])
ततः प्राह महाबाहुर्
आहुको नृपतिर् मुनिम् । ह्व्_९६।२३१०८७:१ ।
मुने वाचय किं चिद् वै
पुराणं परमोत्तमम् ॥ ह्व्_९६।२३१०८७:२ ।

मूलम्

([क्: द्स्१ (मर्ग्।) ins.: :क्])
ततः प्राह महाबाहुर्
आहुको नृपतिर् मुनिम् । ह्व्_९६।२३१०८७:१ ।
मुने वाचय किं चिद् वै
पुराणं परमोत्तमम् ॥ ह्व्_९६।२३१०८७:२ ।

विश्वास-प्रस्तुतिः

तथेति हरिणा भूप
हरिवंशस्य पुस्तकम् । ह्व्_९६।२३१०८७:३ ।
निक्षिप्तम् आसने पुण्ये
नारदो ऽवाचयत् तदा ॥ ह्व्_९६।२३१०८७:४ ।

मूलम्

तथेति हरिणा भूप
हरिवंशस्य पुस्तकम् । ह्व्_९६।२३१०८७:३ ।
निक्षिप्तम् आसने पुण्ये
नारदो ऽवाचयत् तदा ॥ ह्व्_९६।२३१०८७:४ ।

विश्वास-प्रस्तुतिः

श्रोतव्यो ऽप्य् उद्धवश् चाशु
भूत्वा मौनम् उपाश्रितः । ह्व्_९६।२३१०८७:५ ।
सुखोपविष्टस् तूष्णीं तां
नारदो ऽवाचयत् कथां । ह्व्_९६।२३१०८७:६ ।
सुखोपविष्टस् तान् वृष्णीन्
उपविष्टान् उवाच ह ।
आगतं शक्रवचनाज्
जानीध्वं मां नरर्षभाः ॥ ह्व्_९६।२४ ॥

मूलम्

श्रोतव्यो ऽप्य् उद्धवश् चाशु
भूत्वा मौनम् उपाश्रितः । ह्व्_९६।२३१०८७:५ ।
सुखोपविष्टस् तूष्णीं तां
नारदो ऽवाचयत् कथां । ह्व्_९६।२३१०८७:६ ।
सुखोपविष्टस् तान् वृष्णीन्
उपविष्टान् उवाच ह ।
आगतं शक्रवचनाज्
जानीध्वं मां नरर्षभाः ॥ ह्व्_९६।२४ ॥

विश्वास-प्रस्तुतिः

शृणुध्वं राजशार्दूलाः
कृष्णस्यास्य पराक्रमम् ।
यानि कर्माणि कृतवान्
बाल्यात् प्रभृति केशवः ॥ ह्व्_९६।२५ ॥

मूलम्

शृणुध्वं राजशार्दूलाः
कृष्णस्यास्य पराक्रमम् ।
यानि कर्माणि कृतवान्
बाल्यात् प्रभृति केशवः ॥ ह्व्_९६।२५ ॥

विश्वास-प्रस्तुतिः

उग्रसेनसुतः कंसः
सर्वान् निर्मथ्य बान्धवान् ।
राज्यं जग्राह दुर्बुद्धिर्
बध्वा पितरम् आहुकम् ॥ ह्व्_९६।२६ ॥

मूलम्

उग्रसेनसुतः कंसः
सर्वान् निर्मथ्य बान्धवान् ।
राज्यं जग्राह दुर्बुद्धिर्
बध्वा पितरम् आहुकम् ॥ ह्व्_९६।२६ ॥

विश्वास-प्रस्तुतिः

समाश्रित्य जरासन्धं
श्वशुरं कुलपांसनः ।
भोजवृष्ण्यन्धकान् सर्वान्
अवमन्यत दुर्मतिः ॥ ह्व्_९६।२७ ॥

मूलम्

समाश्रित्य जरासन्धं
श्वशुरं कुलपांसनः ।
भोजवृष्ण्यन्धकान् सर्वान्
अवमन्यत दुर्मतिः ॥ ह्व्_९६।२७ ॥

विश्वास-प्रस्तुतिः

ज्ञातिकार्यं चिकीर्षंस् तु
वसुदेवः प्रतापवान् ।
उग्रसेनस्य रक्षार्थं
स्वपुत्रं पर्यरक्षत ॥ ह्व्_९६।२८ ॥

मूलम्

ज्ञातिकार्यं चिकीर्षंस् तु
वसुदेवः प्रतापवान् ।
उग्रसेनस्य रक्षार्थं
स्वपुत्रं पर्यरक्षत ॥ ह्व्_९६।२८ ॥

विश्वास-प्रस्तुतिः

([क्: Ñ२ ins.: :क्])
नन्दगोपस्य भवने
गोव्रजेषु च वर्धितः । ह्व्_९६।२८१०८८ ।
स गोपैः सह धर्मात्मा
मथुरोपवने वसन् ।
अत्यद्भुतानि कर्माणि
कृतवान् मधुसूदनः ॥ ह्व्_९६।२९ ॥

मूलम्

([क्: Ñ२ ins.: :क्])
नन्दगोपस्य भवने
गोव्रजेषु च वर्धितः । ह्व्_९६।२८१०८८ ।
स गोपैः सह धर्मात्मा
मथुरोपवने वसन् ।
अत्यद्भुतानि कर्माणि
कृतवान् मधुसूदनः ॥ ह्व्_९६।२९ ॥

विश्वास-प्रस्तुतिः

प्रत्यक्षं शूरसेनानां
श्रूयते महद् अद्भुतम् ।
यथानेन शयानेन
शकटान्तरचारिणा ॥ ह्व्_९६।३० ॥

मूलम्

प्रत्यक्षं शूरसेनानां
श्रूयते महद् अद्भुतम् ।
यथानेन शयानेन
शकटान्तरचारिणा ॥ ह्व्_९६।३० ॥

विश्वास-प्रस्तुतिः

राक्षसी निहता रौद्रा
शकुनीवेषधारिणी ।
पूतना नाम घोरा सा
महाकाया महाबला ॥

मूलम्

राक्षसी निहता रौद्रा
शकुनीवेषधारिणी ।
पूतना नाम घोरा सा
महाकाया महाबला ॥

विश्वास-प्रस्तुतिः

विषदिग्धं स्तनं क्षुद्रा
प्रयच्छन्ती महात्मने ॥ ह्व्_९६।३१ ॥

मूलम्

विषदिग्धं स्तनं क्षुद्रा
प्रयच्छन्ती महात्मने ॥ ह्व्_९६।३१ ॥

विश्वास-प्रस्तुतिः

ददृशुस् तां विनिहतां
राक्षसीं ते वनेचराः ।
([क्: Ñ२ व्२ ब्१ द्न् द्स् द्१ ins.: :क्])
बलेः सुतां महाघोरां
भीषणां विकृताननाम् । ह्व्_९६।३२अब्१०८९ ।
पुनर्जातो ऽयम् इत्य् आहुर्
उक्तस् तस्माद् अधोक्षजः ॥ ह्व्_९६।३२ ॥

मूलम्

ददृशुस् तां विनिहतां
राक्षसीं ते वनेचराः ।
([क्: Ñ२ व्२ ब्१ द्न् द्स् द्१ ins.: :क्])
बलेः सुतां महाघोरां
भीषणां विकृताननाम् । ह्व्_९६।३२अब्१०८९ ।
पुनर्जातो ऽयम् इत्य् आहुर्
उक्तस् तस्माद् अधोक्षजः ॥ ह्व्_९६।३२ ॥

विश्वास-प्रस्तुतिः

अत्यद्भुतम् इदं चासीद्
यच् छिशुः पुरुषोत्तमः ।
पादाङ्गुष्ठेन शकटं
क्रीडमानो व्यलोडयत् ॥ ह्व्_९६।३३ ॥

मूलम्

अत्यद्भुतम् इदं चासीद्
यच् छिशुः पुरुषोत्तमः ।
पादाङ्गुष्ठेन शकटं
क्रीडमानो व्यलोडयत् ॥ ह्व्_९६।३३ ॥

विश्वास-प्रस्तुतिः

([क्: त्१-३ ग्१।३-५ म्४ ins. (त्४ म्१-३ चोन्त्। after १०९१*): :क्])
भक्षयन् दधि गोविन्दः
पयःपानं च साग्रजः । ह्व्_९६।३३१०९० ।
दाम्ना चोलूखले बद्धो
विप्रकुर्वन् कुमारकान् ।
([क्: त्४ म्१-३ ins.: :क्])
उलूखले परामृद्गाद् (सिच्)
वृक्षौ सत्योपचायिनौ । ह्व्_९६।३४अब्१०९१ ।
दामोदर इति ख्यातो
वसुदेवसुतस् ततः ॥ ह्व्_९६।३४ ॥

मूलम्

([क्: त्१-३ ग्१।३-५ म्४ ins. (त्४ म्१-३ चोन्त्। after १०९१*): :क्])
भक्षयन् दधि गोविन्दः
पयःपानं च साग्रजः । ह्व्_९६।३३१०९० ।
दाम्ना चोलूखले बद्धो
विप्रकुर्वन् कुमारकान् ।
([क्: त्४ म्१-३ ins.: :क्])
उलूखले परामृद्गाद् (सिच्)
वृक्षौ सत्योपचायिनौ । ह्व्_९६।३४अब्१०९१ ।
दामोदर इति ख्यातो
वसुदेवसुतस् ततः ॥ ह्व्_९६।३४ ॥

विश्वास-प्रस्तुतिः

([क्: क् व् ब् द्न् द्स् द्१।४-६ ग्२ सुब्स्त्। फ़ोर् ३४cd (त्१-३ ग्१।३।५ म्४ ins. after ३४अब्): :क्])
बभञ्जार्जुनवृक्षौ द्वौ
ख्यातो दामोदरस् ततः । ह्व्_९६।३४१०९२ ।
कालियश् च महानागो
दुराधर्षो महाबलः ।
क्रीडता वासुदेवेन
निर्जितो यमुनाह्रदे ॥ ह्व्_९६।३५ ॥

मूलम्

([क्: क् व् ब् द्न् द्स् द्१।४-६ ग्२ सुब्स्त्। फ़ोर् ३४cd (त्१-३ ग्१।३।५ म्४ ins. after ३४अब्): :क्])
बभञ्जार्जुनवृक्षौ द्वौ
ख्यातो दामोदरस् ततः । ह्व्_९६।३४१०९२ ।
कालियश् च महानागो
दुराधर्षो महाबलः ।
क्रीडता वासुदेवेन
निर्जितो यमुनाह्रदे ॥ ह्व्_९६।३५ ॥

विश्वास-प्रस्तुतिः

अक्रूरस्य च प्रत्यक्षं
यन् नागभवने प्रभुः ।
पूज्यमानस् तदा नागैर्
दिव्यं वपुर् अधारयत् ॥ ह्व्_९६।३६ ॥

मूलम्

अक्रूरस्य च प्रत्यक्षं
यन् नागभवने प्रभुः ।
पूज्यमानस् तदा नागैर्
दिव्यं वपुर् अधारयत् ॥ ह्व्_९६।३६ ॥

विश्वास-प्रस्तुतिः

शीतवातार्दिता गाश् च
दृष्ट्वा कृष्णेन धीमता ।
धृतो गोवर्धनः शैलः
सप्तरात्रं महात्मना ॥

मूलम्

शीतवातार्दिता गाश् च
दृष्ट्वा कृष्णेन धीमता ।
धृतो गोवर्धनः शैलः
सप्तरात्रं महात्मना ॥

विश्वास-प्रस्तुतिः

शिशुना वासुदेवेन
गवां त्राणार्थम् इच्छता ॥ ह्व्_९६।३७ ॥

मूलम्

शिशुना वासुदेवेन
गवां त्राणार्थम् इच्छता ॥ ह्व्_९६।३७ ॥

विश्वास-प्रस्तुतिः

तथा सुदुष्टो ऽतिबलो
महाकायो नरान्तकृत् ।
गोपतिर् वासुदेवेन
निहतो ऽरिष्टकः क्षितौ ॥ ह्व्_९६।३८ ॥

मूलम्

तथा सुदुष्टो ऽतिबलो
महाकायो नरान्तकृत् ।
गोपतिर् वासुदेवेन
निहतो ऽरिष्टकः क्षितौ ॥ ह्व्_९६।३८ ॥

विश्वास-प्रस्तुतिः

धेनुकः स महाकायो
दानवः सुमहाबलः ।
निहतो वासुदेवेन
गवां त्राणाय दुर्मतिः ॥ ह्व्_९६।३९ ॥

मूलम्

धेनुकः स महाकायो
दानवः सुमहाबलः ।
निहतो वासुदेवेन
गवां त्राणाय दुर्मतिः ॥ ह्व्_९६।३९ ॥

विश्वास-प्रस्तुतिः

सुनामानम् अमित्रघ्नं
सर्वसैन्यपुरस्कृतम् ।
वृकैर् विद्रावयाम् आस
ग्रहीतुं समुपागतम् ॥ ह्व्_९६।४० ॥

मूलम्

सुनामानम् अमित्रघ्नं
सर्वसैन्यपुरस्कृतम् ।
वृकैर् विद्रावयाम् आस
ग्रहीतुं समुपागतम् ॥ ह्व्_९६।४० ॥

विश्वास-प्रस्तुतिः

रौहिणेयेन सङ्गम्य
वने विचरता पुनः ।
गोपवेषधरेणैव
कंसस्य भयम् आहृतम् ॥ ह्व्_९६।४१ ॥

मूलम्

रौहिणेयेन सङ्गम्य
वने विचरता पुनः ।
गोपवेषधरेणैव
कंसस्य भयम् आहृतम् ॥ ह्व्_९६।४१ ॥

विश्वास-प्रस्तुतिः

तथा वनगतः शौरिर्
दंष्ट्रायुधबलं हयम् ।
प्रग्रहं भोजराजस्य
जघान पुरुषोत्तमः ॥ ह्व्_९६।४२ ॥

मूलम्

तथा वनगतः शौरिर्
दंष्ट्रायुधबलं हयम् ।
प्रग्रहं भोजराजस्य
जघान पुरुषोत्तमः ॥ ह्व्_९६।४२ ॥

विश्वास-प्रस्तुतिः

प्रलम्बश् च महाकायो
रौहिणेयेन धीमता ।
दानवो मुष्टिनैकेन
कंसामात्यो निपातितः ॥ ह्व्_९६।४३ ॥

मूलम्

प्रलम्बश् च महाकायो
रौहिणेयेन धीमता ।
दानवो मुष्टिनैकेन
कंसामात्यो निपातितः ॥ ह्व्_९६।४३ ॥

विश्वास-प्रस्तुतिः

एतौ हि वसुदेवस्य
पुत्रौ सुरसुतोपमौ ।
ववृधाते महात्मानौ
ब्रह्मगार्ग्येण संस्कृतौ ॥ ह्व्_९६।४४ ॥

मूलम्

एतौ हि वसुदेवस्य
पुत्रौ सुरसुतोपमौ ।
ववृधाते महात्मानौ
ब्रह्मगार्ग्येण संस्कृतौ ॥ ह्व्_९६।४४ ॥

विश्वास-प्रस्तुतिः

जन्मप्रभृति चाप्य् एतौ
गार्ग्येण परमर्षिणा ।
याथातथ्येन विज्ञाय
संस्कारं प्रतिपादितौ ॥ ह्व्_९६।४५ ॥

मूलम्

जन्मप्रभृति चाप्य् एतौ
गार्ग्येण परमर्षिणा ।
याथातथ्येन विज्ञाय
संस्कारं प्रतिपादितौ ॥ ह्व्_९६।४५ ॥

विश्वास-प्रस्तुतिः

यदा त्व् इमौ नरश्रेष्ठौ
स्थितौ यौवनगौ मुखे ।
सिंहशावाव् इवोदीर्णौ
मत्तौ हैमवतौ यथा ॥ ह्व्_९६।४६ ॥

मूलम्

यदा त्व् इमौ नरश्रेष्ठौ
स्थितौ यौवनगौ मुखे ।
सिंहशावाव् इवोदीर्णौ
मत्तौ हैमवतौ यथा ॥ ह्व्_९६।४६ ॥

विश्वास-प्रस्तुतिः

ततो मनांसि गोपीनां
हरमाणौ महाबलौ ।
आस्तां गोष्ठचरौ वीरौ
देवपुत्रसमद्युती ॥ ह्व्_९६।४७ ॥

मूलम्

ततो मनांसि गोपीनां
हरमाणौ महाबलौ ।
आस्तां गोष्ठचरौ वीरौ
देवपुत्रसमद्युती ॥ ह्व्_९६।४७ ॥

विश्वास-प्रस्तुतिः

नैतौ जवे वा युद्धे वा
क्रीडासु विविधासु वा ।
नन्दगोपस्य गोपालाः
शेकुः प्रतिसमीक्षितुम् ॥ ह्व्_९६।४८ ॥

मूलम्

नैतौ जवे वा युद्धे वा
क्रीडासु विविधासु वा ।
नन्दगोपस्य गोपालाः
शेकुः प्रतिसमीक्षितुम् ॥ ह्व्_९६।४८ ॥

विश्वास-प्रस्तुतिः

व्यूढोरस्कौ महाबाहू
सालस्कन्धाव् इवोद्गतौ ।
श्रुत्वेमौ व्यथितः कंसो
मन्त्रिभिः सहितो ऽभवत् ॥ ह्व्_९६।४९ ॥

मूलम्

व्यूढोरस्कौ महाबाहू
सालस्कन्धाव् इवोद्गतौ ।
श्रुत्वेमौ व्यथितः कंसो
मन्त्रिभिः सहितो ऽभवत् ॥ ह्व्_९६।४९ ॥

विश्वास-प्रस्तुतिः

नाशकच् च यदा कंसो
ग्रहीतुं बलकेशवौ ।
निजग्राह ततः क्रोधाद्
वसुदेवं सबान्धवम् ॥ ह्व्_९६।५० ॥

मूलम्

नाशकच् च यदा कंसो
ग्रहीतुं बलकेशवौ ।
निजग्राह ततः क्रोधाद्
वसुदेवं सबान्धवम् ॥ ह्व्_९६।५० ॥

विश्वास-प्रस्तुतिः

सहोग्रसेनेन तदा
चोरवद् गाढबन्धनम् ।
कालं महान्तम् अवसत्
कृच्छ्रम् आनकदुन्दुभिः ॥ ह्व्_९६।५१ ॥

मूलम्

सहोग्रसेनेन तदा
चोरवद् गाढबन्धनम् ।
कालं महान्तम् अवसत्
कृच्छ्रम् आनकदुन्दुभिः ॥ ह्व्_९६।५१ ॥

विश्वास-प्रस्तुतिः

कंसस् तु पितरं बध्वा
शूरसेना? शशास ह ।
जरासन्धं समाश्रित्य
तथैवाह्वृतिभीष्मकौ ॥ ह्व्_९६।५२ ॥

मूलम्

कंसस् तु पितरं बध्वा
शूरसेना? शशास ह ।
जरासन्धं समाश्रित्य
तथैवाह्वृतिभीष्मकौ ॥ ह्व्_९६।५२ ॥

विश्वास-प्रस्तुतिः

कस्यचित् त्व् अथ कालस्य
मथुरायां महोत्सवम् ।
पिनाकिनं समुद्दिश्य
कंसश् चक्रे नराधिपः ॥ ह्व्_९६।५३ ॥

मूलम्

कस्यचित् त्व् अथ कालस्य
मथुरायां महोत्सवम् ।
पिनाकिनं समुद्दिश्य
कंसश् चक्रे नराधिपः ॥ ह्व्_९६।५३ ॥

विश्वास-प्रस्तुतिः

तत्र मल्लाः समापेतुर्
नानादेश्या विशां पते ।
नर्तका गायकाश् चैव
कुशला नृत्तसामसु ॥ ह्व्_९६।५४ ॥

मूलम्

तत्र मल्लाः समापेतुर्
नानादेश्या विशां पते ।
नर्तका गायकाश् चैव
कुशला नृत्तसामसु ॥ ह्व्_९६।५४ ॥

विश्वास-प्रस्तुतिः

ततः कंसो महातेजा
रङ्गवाटं महाधनम् ।
कुशलैः कारयाम् आस
शिल्पिभिः साधुनिष्ठितैः ॥ ह्व्_९६।५५ ॥

मूलम्

ततः कंसो महातेजा
रङ्गवाटं महाधनम् ।
कुशलैः कारयाम् आस
शिल्पिभिः साधुनिष्ठितैः ॥ ह्व्_९६।५५ ॥

विश्वास-प्रस्तुतिः

तत्र मञ्चसहस्राणि
पौरजानपदैर् जनैः ।
समाकीर्णान्य् अदृश्यन्त
ज्योतिर्भिर् गगनं यथा ॥ ह्व्_९६।५६ ॥

मूलम्

तत्र मञ्चसहस्राणि
पौरजानपदैर् जनैः ।
समाकीर्णान्य् अदृश्यन्त
ज्योतिर्भिर् गगनं यथा ॥ ह्व्_९६।५६ ॥

विश्वास-प्रस्तुतिः

भोजराजः श्रिया जुष्टं
राजमञ्चं महर्द्धिमत् ।
अरुरोह ततः कंसो
विमानं सुकृती यथा ॥ ह्व्_९६।५७ ॥

मूलम्

भोजराजः श्रिया जुष्टं
राजमञ्चं महर्द्धिमत् ।
अरुरोह ततः कंसो
विमानं सुकृती यथा ॥ ह्व्_९६।५७ ॥

विश्वास-प्रस्तुतिः

रङ्गद्वारे गजं मत्तं
प्रभूतायुधकल्पितम् ।
शूरैर् अधिष्ठितं कंसः
स्थापयाम् आस वीर्यवान् ॥ ह्व्_९६।५८ ॥

मूलम्

रङ्गद्वारे गजं मत्तं
प्रभूतायुधकल्पितम् ।
शूरैर् अधिष्ठितं कंसः
स्थापयाम् आस वीर्यवान् ॥ ह्व्_९६।५८ ॥

विश्वास-प्रस्तुतिः

यदा हि स महाभोजो
रामकृष्णौ समागतौ ।
शुश्राव पुरुषव्याघ्रौ
सूर्याचन्द्रमसाव् इव ॥ ह्व्_९६।५९ ॥

मूलम्

यदा हि स महाभोजो
रामकृष्णौ समागतौ ।
शुश्राव पुरुषव्याघ्रौ
सूर्याचन्द्रमसाव् इव ॥ ह्व्_९६।५९ ॥

विश्वास-प्रस्तुतिः

तदाप्रभृति यत्तो ऽभूद्
रक्षां प्रति नराधिपः ।
न च शेते सुखं रात्रौ
रामकृष्णौ विचिन्तयन् ॥ ह्व्_९६।६० ॥

मूलम्

तदाप्रभृति यत्तो ऽभूद्
रक्षां प्रति नराधिपः ।
न च शेते सुखं रात्रौ
रामकृष्णौ विचिन्तयन् ॥ ह्व्_९६।६० ॥

विश्वास-प्रस्तुतिः

श्रुत्वा तु रामकृष्णौ च
तं समाजम् अनुत्तमम् ।
उभौ विविशतुर् वीरौ
शार्दूलौ गोव्रजं यथा ॥ ह्व्_९६।६१ ॥

मूलम्

श्रुत्वा तु रामकृष्णौ च
तं समाजम् अनुत्तमम् ।
उभौ विविशतुर् वीरौ
शार्दूलौ गोव्रजं यथा ॥ ह्व्_९६।६१ ॥

विश्वास-प्रस्तुतिः

ततः प्रवेशे संरुद्धौ
रक्षिभिः पुरुषर्षभौ ।
हत्वा कुवलयापीडं
ससादिनम् अरिन्दमौ ॥

मूलम्

ततः प्रवेशे संरुद्धौ
रक्षिभिः पुरुषर्षभौ ।
हत्वा कुवलयापीडं
ससादिनम् अरिन्दमौ ॥

विश्वास-प्रस्तुतिः

अवमृद्य दुराधर्षौ
रङ्गं विविशतुस् तदा ॥ ह्व्_९६।६२ ॥

मूलम्

अवमृद्य दुराधर्षौ
रङ्गं विविशतुस् तदा ॥ ह्व्_९६।६२ ॥

विश्वास-प्रस्तुतिः

चाणूरान्ध्रौ विनिष्पिष्य
केशवेन बलेन च ।
औग्रसेनिः स दुष्टात्मा
सानुजो विनिपातितः ॥ ह्व्_९६।६३ ॥

मूलम्

चाणूरान्ध्रौ विनिष्पिष्य
केशवेन बलेन च ।
औग्रसेनिः स दुष्टात्मा
सानुजो विनिपातितः ॥ ह्व्_९६।६३ ॥

विश्वास-प्रस्तुतिः

यत् कृतं यदुसिंहेन
देवैर् अपि सुदुःसहम् ।
कर्म तत् केशवाद् अन्यः
कर्तुम् अर्हति कः पुमान् ॥ ह्व्_९६।६४ ॥

मूलम्

यत् कृतं यदुसिंहेन
देवैर् अपि सुदुःसहम् ।
कर्म तत् केशवाद् अन्यः
कर्तुम् अर्हति कः पुमान् ॥ ह्व्_९६।६४ ॥

विश्वास-प्रस्तुतिः

यद् धि नाधिगतं पूर्वैः
प्रह्रादबलिशम्बरैः ।
तद् इदं शौरिणा चित्तं
प्रापितं भवताम् इह ॥ ह्व्_९६।६५ ॥

मूलम्

यद् धि नाधिगतं पूर्वैः
प्रह्रादबलिशम्बरैः ।
तद् इदं शौरिणा चित्तं
प्रापितं भवताम् इह ॥ ह्व्_९६।६५ ॥

विश्वास-प्रस्तुतिः

एतेन मुरम् आक्रम्य
दैत्यं पञ्चजनं तथा ।
शैलसङ्घान् अतिक्रम्य
निसुन्दः सगणो हतः ॥ ह्व्_९६।६६ ॥

मूलम्

एतेन मुरम् आक्रम्य
दैत्यं पञ्चजनं तथा ।
शैलसङ्घान् अतिक्रम्य
निसुन्दः सगणो हतः ॥ ह्व्_९६।६६ ॥

विश्वास-प्रस्तुतिः

नरकश् च हतो भौमः
कुण्डले चाहृते शुभे ।
प्राप्तं च दिवि देवेषु
केशवेन महद् यशः ॥ ह्व्_९६।६७ ॥

मूलम्

नरकश् च हतो भौमः
कुण्डले चाहृते शुभे ।
प्राप्तं च दिवि देवेषु
केशवेन महद् यशः ॥ ह्व्_९६।६७ ॥

विश्वास-प्रस्तुतिः

वीतशोकभयाबाधाः
कृष्णबाहुबलाश्रयाः ।
यजन्तु बहुभिर् यज्ञैर्
यादवा वीतमत्सराः ॥ ह्व्_९६।६८ ॥

मूलम्

वीतशोकभयाबाधाः
कृष्णबाहुबलाश्रयाः ।
यजन्तु बहुभिर् यज्ञैर्
यादवा वीतमत्सराः ॥ ह्व्_९६।६८ ॥

विश्वास-प्रस्तुतिः

देवानां सुमहत् कार्यं
कृतं कृष्णेन धीमता ।
क्षिप्रम् आवेदये चेदं
भवतां भद्रम् अस्तु वः ॥ ह्व्_९६।६९ ॥

मूलम्

देवानां सुमहत् कार्यं
कृतं कृष्णेन धीमता ।
क्षिप्रम् आवेदये चेदं
भवतां भद्रम् अस्तु वः ॥ ह्व्_९६।६९ ॥

विश्वास-प्रस्तुतिः

यद् इष्टं वो यदुश्रेष्ठाः
कर्तास्मि तद् अतन्द्रितः ।
भवताम् अस्मि यूयं च
मम युष्मास्व् अहं स्थितः ॥ ह्व्_९६।७० ॥

मूलम्

यद् इष्टं वो यदुश्रेष्ठाः
कर्तास्मि तद् अतन्द्रितः ।
भवताम् अस्मि यूयं च
मम युष्मास्व् अहं स्थितः ॥ ह्व्_९६।७० ॥

विश्वास-प्रस्तुतिः

इति सम्बोधयन् कृष्णम्
अब्रवीत् पाकशासनः ।
माम् अप्रैषीत् सुरश्रेष्ठः
प्रीतास् तुष्टास् तथा वयम् ॥ ह्व्_९६।७१ ॥

मूलम्

इति सम्बोधयन् कृष्णम्
अब्रवीत् पाकशासनः ।
माम् अप्रैषीत् सुरश्रेष्ठः
प्रीतास् तुष्टास् तथा वयम् ॥ ह्व्_९६।७१ ॥

विश्वास-प्रस्तुतिः

यत्र ह्रीः श्रीः स्थिता तत्र
यत्र श्रीस् तत्र सन्नतिः ।
सन्नतिर् ह्रीस् तथा श्रीश् च
नित्यं कृष्णे महात्मनि ॥ ह्व्_९६।७२ ॥

मूलम्

यत्र ह्रीः श्रीः स्थिता तत्र
यत्र श्रीस् तत्र सन्नतिः ।
सन्नतिर् ह्रीस् तथा श्रीश् च
नित्यं कृष्णे महात्मनि ॥ ह्व्_९६।७२ ॥

विश्वास-प्रस्तुतिः

([क्: द्६ त्२-४ ग् म् ins.: :क्])
हता ब्रह्मद्विषः सर्वे
यजध्वं ब्राह्मणाः सदा । ह्व्_९६।७२१०९३:१ ।
नमस्कुरुध्वं हरये
सदा नमत माधवम् ॥ ह्व्_९६।७२१०९३:२ ।

मूलम्

([क्: द्६ त्२-४ ग् म् ins.: :क्])
हता ब्रह्मद्विषः सर्वे
यजध्वं ब्राह्मणाः सदा । ह्व्_९६।७२१०९३:१ ।
नमस्कुरुध्वं हरये
सदा नमत माधवम् ॥ ह्व्_९६।७२१०९३:२ ।

यजध्वं सततं यज्ञैर् एनं लोकनमस्कृतम् । *ह्व्_९६।७२*१०९३:३ । आरण्यकाः सदा सन्तु भवतां ज्ञानहेतवः । *ह्व्_९६।७२*१०९३:४ ।