०९०

विश्वास-प्रस्तुतिः

{जनमेजय उवाच}
भूय एव तु विप्रर्षे
बलदेवस्य धीमतः ।
माहात्म्यं श्रोतुम् इच्छामि
शेषस्य धरणीभृतः ॥ ह्व्_९०।१ ॥

मूलम्

{जनमेजय उवाच}
भूय एव तु विप्रर्षे
बलदेवस्य धीमतः ।
माहात्म्यं श्रोतुम् इच्छामि
शेषस्य धरणीभृतः ॥ ह्व्_९०।१ ॥

विश्वास-प्रस्तुतिः

अतीव बलवन्तं हि
तेजोराशिम् अनिर्जितम् ।
कथयन्ति महात्मानं
ये पुराणविदो जनाः ॥ ह्व्_९०।२ ॥

मूलम्

अतीव बलवन्तं हि
तेजोराशिम् अनिर्जितम् ।
कथयन्ति महात्मानं
ये पुराणविदो जनाः ॥ ह्व्_९०।२ ॥

विश्वास-प्रस्तुतिः

तस्य कर्माण्य् अहं विप्र
श्रोतुम् इच्छामि तत्त्वतः ।
अनन्तं यं विदुर् नागम्
आदिदेवं महौजसम् ॥ ह्व्_९०।३ ॥

मूलम्

तस्य कर्माण्य् अहं विप्र
श्रोतुम् इच्छामि तत्त्वतः ।
अनन्तं यं विदुर् नागम्
आदिदेवं महौजसम् ॥ ह्व्_९०।३ ॥

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
पुराणे नागराजो ऽसौ
पठ्यते धरणीधरः ।
शेषस् तेजोनिधिः श्रीमान्
अकम्प्यः पुरुषोत्तमः ॥ ह्व्_९०।४ ॥

मूलम्

{वैशम्पायन उवाच}
पुराणे नागराजो ऽसौ
पठ्यते धरणीधरः ।
शेषस् तेजोनिधिः श्रीमान्
अकम्प्यः पुरुषोत्तमः ॥ ह्व्_९०।४ ॥

विश्वास-प्रस्तुतिः

योगाचार्यो महावीर्यः
सुबलो बलवान् बली ।
जरासन्धं गदायुद्धे
जितवान् यो न चावधीत् ॥ ह्व्_९०।५ ॥

मूलम्

योगाचार्यो महावीर्यः
सुबलो बलवान् बली ।
जरासन्धं गदायुद्धे
जितवान् यो न चावधीत् ॥ ह्व्_९०।५ ॥

विश्वास-प्रस्तुतिः

बहवश् चैव राजानः
पार्थिवाः पृथिवीपते ।
अन्वयुर् मागधं सङ्ख्ये
ते चापि विजिता रणे ॥ ह्व्_९०।६ ॥

मूलम्

बहवश् चैव राजानः
पार्थिवाः पृथिवीपते ।
अन्वयुर् मागधं सङ्ख्ये
ते चापि विजिता रणे ॥ ह्व्_९०।६ ॥

विश्वास-प्रस्तुतिः

नागायुतसमप्राणो
भीमो भीमपराक्रमः ।
असकृद् बलदेवेन
बाहुयुद्धे पराजितः ॥ ह्व्_९०।७ ॥

मूलम्

नागायुतसमप्राणो
भीमो भीमपराक्रमः ।
असकृद् बलदेवेन
बाहुयुद्धे पराजितः ॥ ह्व्_९०।७ ॥

विश्वास-प्रस्तुतिः

दुर्योधनस्य कन्यां तु
हरमाणो न्यगृह्यत ।
साम्बो जाम्बवतीपुत्रो
नगरे नागसाह्वये ॥ ह्व्_९०।८ ॥

मूलम्

दुर्योधनस्य कन्यां तु
हरमाणो न्यगृह्यत ।
साम्बो जाम्बवतीपुत्रो
नगरे नागसाह्वये ॥ ह्व्_९०।८ ॥

विश्वास-प्रस्तुतिः

([क्: क्१ (मर्ग्।)।२ Ñ२।३ व् ब् द्स् द्२-६ त् ग् म्४ ins.: :क्])
राजभिः सर्वतो रुद्धो
हरमाणो बलात् किल । ह्व्_९०।८१०३२ ।
तम् उपश्रुत्य सङ्क्रुद्ध
आजगाम हलायुधः ।
रामस् तस्य विमोक्षार्थम्
आगतो नालभच् च तम् ॥

मूलम्

([क्: क्१ (मर्ग्।)।२ Ñ२।३ व् ब् द्स् द्२-६ त् ग् म्४ ins.: :क्])
राजभिः सर्वतो रुद्धो
हरमाणो बलात् किल । ह्व्_९०।८१०३२ ।
तम् उपश्रुत्य सङ्क्रुद्ध
आजगाम हलायुधः ।
रामस् तस्य विमोक्षार्थम्
आगतो नालभच् च तम् ॥

विश्वास-प्रस्तुतिः

ततश् चुक्रोध बलवान्
अद्भुतं चाकरोन् महत् ॥ ह्व्_९०।९ ॥

मूलम्

ततश् चुक्रोध बलवान्
अद्भुतं चाकरोन् महत् ॥ ह्व्_९०।९ ॥

विश्वास-प्रस्तुतिः

अनिवार्यम् अभेद्यं च
दिव्यम् अप्रतिमं बली ।
लाङ्गलास्त्रं समुद्यम्य
ब्रह्मदण्डानुमन्त्रितम् ॥ ह्व्_९०।१० ॥

मूलम्

अनिवार्यम् अभेद्यं च
दिव्यम् अप्रतिमं बली ।
लाङ्गलास्त्रं समुद्यम्य
ब्रह्मदण्डानुमन्त्रितम् ॥ ह्व्_९०।१० ॥

विश्वास-प्रस्तुतिः

प्राकारवप्रे विन्यस्य
पुरस्य स महाबलः ।
प्रक्षेप्तुम् ऐच्छद् गङ्गायां
नगरं कौरवस्य तत् ॥ ह्व्_९०।११ ॥

मूलम्

प्राकारवप्रे विन्यस्य
पुरस्य स महाबलः ।
प्रक्षेप्तुम् ऐच्छद् गङ्गायां
नगरं कौरवस्य तत् ॥ ह्व्_९०।११ ॥

विश्वास-प्रस्तुतिः

तद् आघूर्णितम् आलक्ष्य
पुरं दुर्योधनो नृपः ।
साम्बं निर्यातयाम् आस
सभार्यं तस्य धीमतः ॥ ह्व्_९०।१२ ॥

मूलम्

तद् आघूर्णितम् आलक्ष्य
पुरं दुर्योधनो नृपः ।
साम्बं निर्यातयाम् आस
सभार्यं तस्य धीमतः ॥ ह्व्_९०।१२ ॥

विश्वास-प्रस्तुतिः

ददौ शिष्यं तदात्मानं
रामस्य सुमहात्मनः ।
गदायुद्धे कुरुपतिः
प्रतिजग्राह तं च सः ॥ ह्व्_९०।१३ ॥

मूलम्

ददौ शिष्यं तदात्मानं
रामस्य सुमहात्मनः ।
गदायुद्धे कुरुपतिः
प्रतिजग्राह तं च सः ॥ ह्व्_९०।१३ ॥

विश्वास-प्रस्तुतिः

ततः प्रभृति राजेन्द्र
पुरम् एतद् विघूर्णितं ।
आवर्जितम् इवाभाति
गङ्गाम् अभिमुखं नृप ॥ ह्व्_९०।१४ ॥

मूलम्

ततः प्रभृति राजेन्द्र
पुरम् एतद् विघूर्णितं ।
आवर्जितम् इवाभाति
गङ्गाम् अभिमुखं नृप ॥ ह्व्_९०।१४ ॥

विश्वास-प्रस्तुतिः

इदम् अत्यद्भुतं कर्म
रामस्य प्रथितं भुवि ।
भाण्डीरे कथ्यते राजन्
यत् कृतं शौरिणा पुरा ॥ ह्व्_९०।१५ ॥

मूलम्

इदम् अत्यद्भुतं कर्म
रामस्य प्रथितं भुवि ।
भाण्डीरे कथ्यते राजन्
यत् कृतं शौरिणा पुरा ॥ ह्व्_९०।१५ ॥

विश्वास-प्रस्तुतिः

प्रलम्बं मुष्टिनैकेन
यज् जघान हलायुधः ।
धेनुकं च महाकायं
चिक्षेप नगमूर्धनि ॥ ह्व्_९०।१६ ॥

मूलम्

प्रलम्बं मुष्टिनैकेन
यज् जघान हलायुधः ।
धेनुकं च महाकायं
चिक्षेप नगमूर्धनि ॥ ह्व्_९०।१६ ॥

विश्वास-प्रस्तुतिः

([क्: क्२।३ Ñ२।३ व् ब् द् त्४ ग्२ ins.: :क्])
स गतासुः पपातोर्व्यां
दैत्यो गर्दभरूपधृक् । ह्व्_९०।१६१०३३ ।
लवणजलगमा महानदी
द्रुतजलवेगतरङ्गमालिनी ।
नगरम् अभिमुखा यद् आहृता
हलविधृता यमुना यमस्वसा ॥ ह्व्_९०।१७ ॥

मूलम्

([क्: क्२।३ Ñ२।३ व् ब् द् त्४ ग्२ ins.: :क्])
स गतासुः पपातोर्व्यां
दैत्यो गर्दभरूपधृक् । ह्व्_९०।१६१०३३ ।
लवणजलगमा महानदी
द्रुतजलवेगतरङ्गमालिनी ।
नगरम् अभिमुखा यद् आहृता
हलविधृता यमुना यमस्वसा ॥ ह्व्_९०।१७ ॥

विश्वास-प्रस्तुतिः

बलदेवस्य माहात्म्यम्
एतत् ते कथितं मया ।
अनन्तस्याप्रमेयस्य
शेष्यस्य सुमहात्मनः ॥ ह्व्_९०।१८ ॥

मूलम्

बलदेवस्य माहात्म्यम्
एतत् ते कथितं मया ।
अनन्तस्याप्रमेयस्य
शेष्यस्य सुमहात्मनः ॥ ह्व्_९०।१८ ॥

विश्वास-प्रस्तुतिः

इति पुरुषवरस्य लाङ्गलेर्
बहुविधम् उत्तमम् अन्यद् एव च ।
यद् अकथितम् इहाद्य कर्म ते
तद् उपलभस्व पुराणविस्तरात् ॥ ह्व्_९०।१९ ॥

मूलम्

इति पुरुषवरस्य लाङ्गलेर्
बहुविधम् उत्तमम् अन्यद् एव च ।
यद् अकथितम् इहाद्य कर्म ते
तद् उपलभस्व पुराणविस्तरात् ॥ ह्व्_९०।१९ ॥

([क्: म्३ ins.: :क्]) आलोलतुलसीमालम् आरूढविनतासुतम् । *ह्व्_९०।१९*१०३४:१ । ज्योतिरिन्दीवरश्यामम् आविर् अस्तु ममाग्रतः । *ह्व्_९०।१९*१०३४:२ ।