०८९

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
ततः काले व्यतीते तु
रुक्मी महति वीर्यवान् ।
दुहितुः कारयाम् आस
स्वयंवरम् अरिन्दमः ॥ ह्व्_८९।१ ॥

मूलम्

{वैशम्पायन उवाच}
ततः काले व्यतीते तु
रुक्मी महति वीर्यवान् ।
दुहितुः कारयाम् आस
स्वयंवरम् अरिन्दमः ॥ ह्व्_८९।१ ॥

विश्वास-प्रस्तुतिः

तत्राहूताश् च राजानो
राजपुत्राश् च रुक्मिणा ।
समाजग्मुर् महावीर्या
नानादिग्भ्यः श्रियान्विताः ॥ ह्व्_८९।२ ॥

मूलम्

तत्राहूताश् च राजानो
राजपुत्राश् च रुक्मिणा ।
समाजग्मुर् महावीर्या
नानादिग्भ्यः श्रियान्विताः ॥ ह्व्_८९।२ ॥

विश्वास-प्रस्तुतिः

जगाम तत्र प्रद्युम्नः
कुमारैर् अपरैर् वृतः ।
सा हि तं चकमे कन्या
स च तां शुभलोचनाम् ॥ ह्व्_८९।३ ॥

मूलम्

जगाम तत्र प्रद्युम्नः
कुमारैर् अपरैर् वृतः ।
सा हि तं चकमे कन्या
स च तां शुभलोचनाम् ॥ ह्व्_८९।३ ॥

विश्वास-प्रस्तुतिः

शुभाङ्गी नाम वैदर्भी
कान्तिद्युतिसमन्विता ।
पृथिव्याम् अभवत् ख्याता
रुक्मिणस् तनया तदा ॥ ह्व्_८९।४ ॥

मूलम्

शुभाङ्गी नाम वैदर्भी
कान्तिद्युतिसमन्विता ।
पृथिव्याम् अभवत् ख्याता
रुक्मिणस् तनया तदा ॥ ह्व्_८९।४ ॥

विश्वास-प्रस्तुतिः

उपविष्टेषु सर्वेषु
पार्थिवेषु महात्मसु ।
वैदर्भी वरयाम् आस
प्रद्युम्नम् अरिसूदनम् ॥ ह्व्_८९।५ ॥

मूलम्

उपविष्टेषु सर्वेषु
पार्थिवेषु महात्मसु ।
वैदर्भी वरयाम् आस
प्रद्युम्नम् अरिसूदनम् ॥ ह्व्_८९।५ ॥

विश्वास-प्रस्तुतिः

स हि सर्वास्त्रकुशलः
सिंहसंहननो युवा ।
रूपेणाप्रतिमो लोके
केशवस्यात्मजो ऽभवत् ॥ ह्व्_८९।६ ॥

मूलम्

स हि सर्वास्त्रकुशलः
सिंहसंहननो युवा ।
रूपेणाप्रतिमो लोके
केशवस्यात्मजो ऽभवत् ॥ ह्व्_८९।६ ॥

विश्वास-प्रस्तुतिः

वयोरूपगुणोपेता
राजपुत्री च साभवत् ।
नारायणी चन्द्रसेना
जातकामा च तं प्रति ॥ ह्व्_८९।७ ॥

मूलम्

वयोरूपगुणोपेता
राजपुत्री च साभवत् ।
नारायणी चन्द्रसेना
जातकामा च तं प्रति ॥ ह्व्_८९।७ ॥

विश्वास-प्रस्तुतिः

वृत्ते स्वयंवरे जग्मू
राजानः स्वपुराणि ते ।
उपादाय तु वैदर्भीं
प्रद्युम्नो द्वारकां ययौ ॥ ह्व्_८९।८ ॥

मूलम्

वृत्ते स्वयंवरे जग्मू
राजानः स्वपुराणि ते ।
उपादाय तु वैदर्भीं
प्रद्युम्नो द्वारकां ययौ ॥ ह्व्_८९।८ ॥

विश्वास-प्रस्तुतिः

([क्: क्३।४ द्२।५ (मर्ग्।) त्३ ins.: :क्])
रेमे सह तया वीरो
दमयन्त्या नलो यथा । ह्व्_८९।८१०२२ ।
स तस्यां जनयाम् आस
देवगर्भोपमं सुतम् ।
अनिरुद्धम् इति ख्यातं
कर्मणाप्रतिमं भुवि ॥

मूलम्

([क्: क्३।४ द्२।५ (मर्ग्।) त्३ ins.: :क्])
रेमे सह तया वीरो
दमयन्त्या नलो यथा । ह्व्_८९।८१०२२ ।
स तस्यां जनयाम् आस
देवगर्भोपमं सुतम् ।
अनिरुद्धम् इति ख्यातं
कर्मणाप्रतिमं भुवि ॥

विश्वास-प्रस्तुतिः

धनुर्वेदे च वेदे च
नीतिशास्त्रे च पारगम् ॥ ह्व्_८९।९ ॥

मूलम्

धनुर्वेदे च वेदे च
नीतिशास्त्रे च पारगम् ॥ ह्व्_८९।९ ॥

विश्वास-प्रस्तुतिः

अभवत् स यदा राजन्न्
अनिरुद्धो वयोन्वितः ।
तदास्य रुक्मिणः पौत्रीं
रुक्मिणी रुक्मसन्निभां ॥

मूलम्

अभवत् स यदा राजन्न्
अनिरुद्धो वयोन्वितः ।
तदास्य रुक्मिणः पौत्रीं
रुक्मिणी रुक्मसन्निभां ॥

विश्वास-प्रस्तुतिः

पत्न्यर्थं वरयाम् आस
नाम्ना रुक्मवतीति सा ॥ ह्व्_८९।१० ॥

मूलम्

पत्न्यर्थं वरयाम् आस
नाम्ना रुक्मवतीति सा ॥ ह्व्_८९।१० ॥

विश्वास-प्रस्तुतिः

अनिरुद्धं गुणैर् दातुं
कृतबुद्धिर् नृपस् तदा ।
प्रीत्या च रौक्मिणेयस्य
रुक्मिण्याश् चाप्य् उपग्रहात् ॥ ह्व्_८९।११ ॥

मूलम्

अनिरुद्धं गुणैर् दातुं
कृतबुद्धिर् नृपस् तदा ।
प्रीत्या च रौक्मिणेयस्य
रुक्मिण्याश् चाप्य् उपग्रहात् ॥ ह्व्_८९।११ ॥

विश्वास-प्रस्तुतिः

विस्पर्धन्न् अपि कृष्णेन
वैरं तद् अपहाय सः ।
ददानीत्य् अब्रवीद् राजा
प्रीतिमाञ् जनमेजय ॥ ह्व्_८९।१२ ॥

मूलम्

विस्पर्धन्न् अपि कृष्णेन
वैरं तद् अपहाय सः ।
ददानीत्य् अब्रवीद् राजा
प्रीतिमाञ् जनमेजय ॥ ह्व्_८९।१२ ॥

विश्वास-प्रस्तुतिः

केशवः सह रुक्मिण्या
पुत्रैः सङ्कर्षणेन च ।
अन्यैश् च वृष्णिभिः सार्धं
विदर्भान् सबलो ययौ ॥ ह्व्_८९।१३ ॥

मूलम्

केशवः सह रुक्मिण्या
पुत्रैः सङ्कर्षणेन च ।
अन्यैश् च वृष्णिभिः सार्धं
विदर्भान् सबलो ययौ ॥ ह्व्_८९।१३ ॥

विश्वास-प्रस्तुतिः

संयुक्ता ज्ञातयश् चैव
रुक्मिणः सुहृदश् च ये ।
आहूता रुक्मिणा ते ऽपि
तत्राजग्मुर् नराधिपाः ॥ ह्व्_८९।१४ ॥

मूलम्

संयुक्ता ज्ञातयश् चैव
रुक्मिणः सुहृदश् च ये ।
आहूता रुक्मिणा ते ऽपि
तत्राजग्मुर् नराधिपाः ॥ ह्व्_८९।१४ ॥

विश्वास-प्रस्तुतिः

शुभे तिथौ महाराज
नक्षत्रे चाभिपूजिते ।
विवाहायानिरुद्धस्य
बभूव परमोत्सवः ॥ ह्व्_८९।१५ ॥

मूलम्

शुभे तिथौ महाराज
नक्षत्रे चाभिपूजिते ।
विवाहायानिरुद्धस्य
बभूव परमोत्सवः ॥ ह्व्_८९।१५ ॥

विश्वास-प्रस्तुतिः

पाणौ गृहीते वैदर्भ्यास्
त्व् अनिरुद्धेन भारत ।
([क्: क्२।३ Ñ२।३ व् ब्१।२ द्न् द्स् द्१।२।४-६ त्४ ग्२ ins.: :क्])
वैदर्भयादवानां च
बभूव परमोत्सवः । ह्व्_८९।१६अब्१०२३ ।
रेमिरे वृष्णयस् तत्र
पूज्यमाना यथामराः ॥ ह्व्_८९।१६ ॥

मूलम्

पाणौ गृहीते वैदर्भ्यास्
त्व् अनिरुद्धेन भारत ।
([क्: क्२।३ Ñ२।३ व् ब्१।२ द्न् द्स् द्१।२।४-६ त्४ ग्२ ins.: :क्])
वैदर्भयादवानां च
बभूव परमोत्सवः । ह्व्_८९।१६अब्१०२३ ।
रेमिरे वृष्णयस् तत्र
पूज्यमाना यथामराः ॥ ह्व्_८९।१६ ॥

विश्वास-प्रस्तुतिः

अथाश्मकानाम् अधिपो
वेणुदारिर् उदारधीः ।
अक्षः श्रुतर्वा चाणूरः
क्राथश् चैवांशुमान् अपि ॥ ह्व्_८९।१७ ॥

मूलम्

अथाश्मकानाम् अधिपो
वेणुदारिर् उदारधीः ।
अक्षः श्रुतर्वा चाणूरः
क्राथश् चैवांशुमान् अपि ॥ ह्व्_८९।१७ ॥

विश्वास-प्रस्तुतिः

जयत्सेनः कलिङ्गानाम्
अधिपश् च महाबलः ।
पाण्ड्यश् च नृपतिः श्रीमान्
ऋषीकाधिपतिस् तथा ॥ ह्व्_८९।१८ ॥

मूलम्

जयत्सेनः कलिङ्गानाम्
अधिपश् च महाबलः ।
पाण्ड्यश् च नृपतिः श्रीमान्
ऋषीकाधिपतिस् तथा ॥ ह्व्_८९।१८ ॥

विश्वास-प्रस्तुतिः

एते सम्मन्त्र्य राजानो
दाक्षिणात्या महर्द्धयः ।
अभिगम्याब्रुवन् सर्वे
रुक्मिणं रहसि प्रभुम् ॥ ह्व्_८९।१९ ॥

मूलम्

एते सम्मन्त्र्य राजानो
दाक्षिणात्या महर्द्धयः ।
अभिगम्याब्रुवन् सर्वे
रुक्मिणं रहसि प्रभुम् ॥ ह्व्_८९।१९ ॥

विश्वास-प्रस्तुतिः

भवान् अक्षेषु कुशलो
वयं चापि रिरंसवः ।
प्रियद्यूतश् च रामो ऽसाव्
अक्षेष्व् अनिपुणो ऽपि च ॥ ह्व्_८९।२० ॥

मूलम्

भवान् अक्षेषु कुशलो
वयं चापि रिरंसवः ।
प्रियद्यूतश् च रामो ऽसाव्
अक्षेष्व् अनिपुणो ऽपि च ॥ ह्व्_८९।२० ॥

विश्वास-प्रस्तुतिः

ते भवन्तं पुरस्कृत्य
जेतुम् इच्छाम तं वयम् ।
इत्य् उक्तो रोचयाम् आस
द्यूतं रुक्मी महारथः ॥ ह्व्_८९।२१ ॥

मूलम्

ते भवन्तं पुरस्कृत्य
जेतुम् इच्छाम तं वयम् ।
इत्य् उक्तो रोचयाम् आस
द्यूतं रुक्मी महारथः ॥ ह्व्_८९।२१ ॥

विश्वास-प्रस्तुतिः

ते शुभां काञ्चनस्तम्भां
कुसुमैर् भूषिताजिराम् ।
सभाम् आविविशुर् हृष्टाः
सिक्तां चन्दनवारिणा ॥ ह्व्_८९।२२ ॥

मूलम्

ते शुभां काञ्चनस्तम्भां
कुसुमैर् भूषिताजिराम् ।
सभाम् आविविशुर् हृष्टाः
सिक्तां चन्दनवारिणा ॥ ह्व्_८९।२२ ॥

विश्वास-प्रस्तुतिः

तां प्रविश्य ततः सर्वे
शुभ्रस्रगनुलेपनाः ।
सौवर्णेष्व् आसनेष्व् आसां
चक्रिरे विजिगीषवः ॥ ह्व्_८९।२३ ॥

मूलम्

तां प्रविश्य ततः सर्वे
शुभ्रस्रगनुलेपनाः ।
सौवर्णेष्व् आसनेष्व् आसां
चक्रिरे विजिगीषवः ॥ ह्व्_८९।२३ ॥

विश्वास-प्रस्तुतिः

आहूतो बलदेवस् तु
कितवैर् अक्षकोविदैः ।
बाढम् इत्य् अब्रवीद्द् हृष्टः
सह दीव्याम पण्यताम् ॥ ह्व्_८९।२४ ॥

मूलम्

आहूतो बलदेवस् तु
कितवैर् अक्षकोविदैः ।
बाढम् इत्य् अब्रवीद्द् हृष्टः
सह दीव्याम पण्यताम् ॥ ह्व्_८९।२४ ॥

विश्वास-प्रस्तुतिः

निकृत्या तं जिगीषन्तो
दाक्षिणात्या नराधिपाः ।
मणिमुक्ताः सुवर्णं च
तत्रानिन्युः सहस्रशः ॥ ह्व्_८९।२५ ॥

मूलम्

निकृत्या तं जिगीषन्तो
दाक्षिणात्या नराधिपाः ।
मणिमुक्ताः सुवर्णं च
तत्रानिन्युः सहस्रशः ॥ ह्व्_८९।२५ ॥

विश्वास-प्रस्तुतिः

ततः प्रावर्तत द्यूतं
तेषाम् अरतिनाशनम् ।
कलहायास्पदं घोरं
दुर्मतीनां क्षयावहम् ॥ ह्व्_८९।२६ ॥

मूलम्

ततः प्रावर्तत द्यूतं
तेषाम् अरतिनाशनम् ।
कलहायास्पदं घोरं
दुर्मतीनां क्षयावहम् ॥ ह्व्_८९।२६ ॥

विश्वास-प्रस्तुतिः

निष्काणां तु सहस्राणि
सुवर्णस्य दशादितः ।
रुक्मिणा सह सम्पाते
बलदेवो ग्लहं ददौ ॥ ह्व्_८९।२७ ॥

मूलम्

निष्काणां तु सहस्राणि
सुवर्णस्य दशादितः ।
रुक्मिणा सह सम्पाते
बलदेवो ग्लहं ददौ ॥ ह्व्_८९।२७ ॥

विश्वास-प्रस्तुतिः

तं जिगाय ततो रुक्मी
यतमानं महारथम् ।
तावद् एवापरं भूयो
बलदेवं जिगाय सः ॥ ह्व्_८९।२८ ॥

मूलम्

तं जिगाय ततो रुक्मी
यतमानं महारथम् ।
तावद् एवापरं भूयो
बलदेवं जिगाय सः ॥ ह्व्_८९।२८ ॥

विश्वास-प्रस्तुतिः

असकृज् जीयमानस् तु
रुक्मिणा केशवाग्रजः ।
सुवर्णकोटिं जग्राह
ग्लहं तस्य महात्मनः ॥ ह्व्_८९।२९ ॥

मूलम्

असकृज् जीयमानस् तु
रुक्मिणा केशवाग्रजः ।
सुवर्णकोटिं जग्राह
ग्लहं तस्य महात्मनः ॥ ह्व्_८९।२९ ॥

विश्वास-प्रस्तुतिः

जितम् इत्य् एव हृष्टो ऽथ
तम् आह्वृतिर् अभाषत ।
श्लाघमानश् च चिक्षेप
प्रहसन् मुसलायुधम् ॥ ह्व्_८९।३० ॥

मूलम्

जितम् इत्य् एव हृष्टो ऽथ
तम् आह्वृतिर् अभाषत ।
श्लाघमानश् च चिक्षेप
प्रहसन् मुसलायुधम् ॥ ह्व्_८९।३० ॥

विश्वास-प्रस्तुतिः

अविद्यो दुर्बलः श्रीमान्
हिरण्यम् अमितं मया ।
अजेयो बलदेवो ऽयम्
अक्षद्यूते पराजितः ॥ ह्व्_८९।३१ ॥

मूलम्

अविद्यो दुर्बलः श्रीमान्
हिरण्यम् अमितं मया ।
अजेयो बलदेवो ऽयम्
अक्षद्यूते पराजितः ॥ ह्व्_८९।३१ ॥

विश्वास-प्रस्तुतिः

कलिङ्गराजस् तच् छ्रुत्वा
प्रजहास भृशं तदा ।
दन्तान् विदर्शयन् हृष्टस्
तत्राक्रुध्यद्द् हलायुधः ॥ ह्व्_८९।३२ ॥

मूलम्

कलिङ्गराजस् तच् छ्रुत्वा
प्रजहास भृशं तदा ।
दन्तान् विदर्शयन् हृष्टस्
तत्राक्रुध्यद्द् हलायुधः ॥ ह्व्_८९।३२ ॥

विश्वास-प्रस्तुतिः

रुक्मिणश् च वचः श्रुत्वा
पराजयनिमित्तजम् ।
निगृह्यमाणस् तीक्ष्णाभिर्
वाग्भिर् भीष्मकसूनुना ॥

मूलम्

रुक्मिणश् च वचः श्रुत्वा
पराजयनिमित्तजम् ।
निगृह्यमाणस् तीक्ष्णाभिर्
वाग्भिर् भीष्मकसूनुना ॥

विश्वास-प्रस्तुतिः

रोषम् आहारयाम् आस
जितरोषो ऽपि धर्मवित् ॥ ह्व्_८९।३३ ॥

मूलम्

रोषम् आहारयाम् आस
जितरोषो ऽपि धर्मवित् ॥ ह्व्_८९।३३ ॥

विश्वास-प्रस्तुतिः

सङ्क्रुद्धो धर्षणां प्राप्य
रौहिणेयो महाबलः ।
धैर्यान् मनः सन्नियम्य
ततो वचनम् अब्रवीत् ॥ ह्व्_८९।३४ ॥

मूलम्

सङ्क्रुद्धो धर्षणां प्राप्य
रौहिणेयो महाबलः ।
धैर्यान् मनः सन्नियम्य
ततो वचनम् अब्रवीत् ॥ ह्व्_८९।३४ ॥

विश्वास-प्रस्तुतिः

दशकोटिसहस्राणि
ग्लह एको ममापरः ।
एतं सम्परिगृह्णीष्व
पातयाक्षान् नराधिप ॥

मूलम्

दशकोटिसहस्राणि
ग्लह एको ममापरः ।
एतं सम्परिगृह्णीष्व
पातयाक्षान् नराधिप ॥

विश्वास-प्रस्तुतिः

कृष्णाक्षांल् लोहिताक्षांश् च
देशे ऽस्मिंस् त्वम् अपांसुले ॥ ह्व्_८९।३५ ॥

मूलम्

कृष्णाक्षांल् लोहिताक्षांश् च
देशे ऽस्मिंस् त्वम् अपांसुले ॥ ह्व्_८९।३५ ॥

विश्वास-प्रस्तुतिः

इत्य् एवम् आह्वयाम् आस
रुक्मिणं रोहिणीसुतः ।
अनुक्त्वा वचनं किञ्चिद्
बाढम् इत्य् अब्रवीत् पुनः ॥ ह्व्_८९।३६ ॥

मूलम्

इत्य् एवम् आह्वयाम् आस
रुक्मिणं रोहिणीसुतः ।
अनुक्त्वा वचनं किञ्चिद्
बाढम् इत्य् अब्रवीत् पुनः ॥ ह्व्_८९।३६ ॥

विश्वास-प्रस्तुतिः

अक्षान् रुक्मी ततो हृष्टः
पातयाम् आस पार्थिवः ।
चातुरक्षे निवृत्ते तु
निर्जितः स नराधिपः ॥ ह्व्_८९।३७ ॥

मूलम्

अक्षान् रुक्मी ततो हृष्टः
पातयाम् आस पार्थिवः ।
चातुरक्षे निवृत्ते तु
निर्जितः स नराधिपः ॥ ह्व्_८९।३७ ॥

विश्वास-प्रस्तुतिः

बलदेवेन धर्मेण
नेत्य् उवाच ततो बलम् ।
धैर्यान् मनः सन्नियम्य
स न किञ्चिद् उवाच ह ॥

मूलम्

बलदेवेन धर्मेण
नेत्य् उवाच ततो बलम् ।
धैर्यान् मनः सन्नियम्य
स न किञ्चिद् उवाच ह ॥

विश्वास-प्रस्तुतिः

([क्: स् (एxचेप्त् ग्२) ins.: :क्])
एते ब्रुवन्तु राजानो
ये तथ्यवचना इह । ह्व्_८९।३८cd१०२४ ।
बलदेवं ततो रुक्मी
मया जितम् इति स्मयन् ॥ ह्व्_८९।३८ ॥

मूलम्

([क्: स् (एxचेप्त् ग्२) ins.: :क्])
एते ब्रुवन्तु राजानो
ये तथ्यवचना इह । ह्व्_८९।३८cd१०२४ ।
बलदेवं ततो रुक्मी
मया जितम् इति स्मयन् ॥ ह्व्_८९।३८ ॥

विश्वास-प्रस्तुतिः

बलदेवस् तु तच् छ्रुत्वा
जिह्मं वाक्यं नराधिपात् ।
भूयः क्रोधसमाविष्टो
नोत्तरं व्याजहार ह ॥ ह्व्_८९।३९ ॥

मूलम्

बलदेवस् तु तच् छ्रुत्वा
जिह्मं वाक्यं नराधिपात् ।
भूयः क्रोधसमाविष्टो
नोत्तरं व्याजहार ह ॥ ह्व्_८९।३९ ॥

विश्वास-प्रस्तुतिः

ततो गम्भीरनिर्घोषा
वाग् उवाचाशरीरिणी ।
बलदेवस्य तं कोपं
वर्धयन्ती महात्मनः ॥

मूलम्

ततो गम्भीरनिर्घोषा
वाग् उवाचाशरीरिणी ।
बलदेवस्य तं कोपं
वर्धयन्ती महात्मनः ॥

विश्वास-प्रस्तुतिः

सत्यम् आह बलः श्रीमान्
धर्मेणैष पराजितः ॥ ह्व्_८९।४० ॥

मूलम्

सत्यम् आह बलः श्रीमान्
धर्मेणैष पराजितः ॥ ह्व्_८९।४० ॥

विश्वास-प्रस्तुतिः

अनुक्त्वा वचनं किञ्चित्
प्राप्तो भवति कर्मणा ।
मनसा समनुज्ञातं
तत् स्याद् इत्य् अवगम्यताम् ॥ ह्व्_८९।४१ ॥

मूलम्

अनुक्त्वा वचनं किञ्चित्
प्राप्तो भवति कर्मणा ।
मनसा समनुज्ञातं
तत् स्याद् इत्य् अवगम्यताम् ॥ ह्व्_८९।४१ ॥

विश्वास-प्रस्तुतिः

इति श्रुत्वा वचस् तथ्यम्
अन्तरिक्षात् सुभाषितम् ।
सङ्कर्षणस् तदोत्थाय
सौवर्णेनोरुणा बली ॥

मूलम्

इति श्रुत्वा वचस् तथ्यम्
अन्तरिक्षात् सुभाषितम् ।
सङ्कर्षणस् तदोत्थाय
सौवर्णेनोरुणा बली ॥

विश्वास-प्रस्तुतिः

([क्: द्२ ins.: :क्])
ताम् अनादृत्य वैदर्भो
दुष्टराजन्यनोदितः । ह्व्_८९।४२अब्१०२५:१ ।
सङ्कर्षणं परिहसन्
बभाषे कालनोदितः ॥ ह्व्_८९।४२अब्१०२५:२ ।

मूलम्

([क्: द्२ ins.: :क्])
ताम् अनादृत्य वैदर्भो
दुष्टराजन्यनोदितः । ह्व्_८९।४२अब्१०२५:१ ।
सङ्कर्षणं परिहसन्
बभाषे कालनोदितः ॥ ह्व्_८९।४२अब्१०२५:२ ।

विश्वास-प्रस्तुतिः

नैवाक्षकोविदा यूयं
गोपाला वनगोचराः । ह्व्_८९।४२अब्१०२५:३ ।
अक्षैः क्रीडन्ति राजानो
बाणैश् च न भवादृशाः ॥ ह्व्_८९।४२अब्१०२५:४ ।

मूलम्

नैवाक्षकोविदा यूयं
गोपाला वनगोचराः । ह्व्_८९।४२अब्१०२५:३ ।
अक्षैः क्रीडन्ति राजानो
बाणैश् च न भवादृशाः ॥ ह्व्_८९।४२अब्१०२५:४ ।

विश्वास-प्रस्तुतिः

रुक्मिणैवम् अधिक्षिप्तो
राजभिश् चोपहासितः । ह्व्_८९।४२अब्१०२५:५ ।
रुक्मिण्या भ्रातरं ज्येष्ठं
निष्पिपेष महीतले ॥ ह्व्_८९।४२ ॥

मूलम्

रुक्मिणैवम् अधिक्षिप्तो
राजभिश् चोपहासितः । ह्व्_८९।४२अब्१०२५:५ ।
रुक्मिण्या भ्रातरं ज्येष्ठं
निष्पिपेष महीतले ॥ ह्व्_८९।४२ ॥

विश्वास-प्रस्तुतिः

विवादे कुपितो रामः
क्षेप्तारं क्रूरभाषिणम् ।
जघानाष्टापदेनैव
प्रसह्य यदुपुङ्गवः ॥ ह्व्_८९।४३ ॥

मूलम्

विवादे कुपितो रामः
क्षेप्तारं क्रूरभाषिणम् ।
जघानाष्टापदेनैव
प्रसह्य यदुपुङ्गवः ॥ ह्व्_८९।४३ ॥

विश्वास-प्रस्तुतिः

ततो ऽपसृत्य सङ्क्रुद्धः
कलिङ्गाधिपतेर् अपि ।
दन्तान् बभञ्ज संरम्भाद्
उन्ननाद च सिंहवत् ॥

मूलम्

ततो ऽपसृत्य सङ्क्रुद्धः
कलिङ्गाधिपतेर् अपि ।
दन्तान् बभञ्ज संरम्भाद्
उन्ननाद च सिंहवत् ॥

विश्वास-प्रस्तुतिः

खड्गम् उद्यम्य तांश् चापि
त्रासयाम् आस पार्थिवान् ॥ ह्व्_८९।४४ ॥

मूलम्

खड्गम् उद्यम्य तांश् चापि
त्रासयाम् आस पार्थिवान् ॥ ह्व्_८९।४४ ॥

विश्वास-प्रस्तुतिः

([क्: द्६ त् ग्१।३-५ म् ins.: :क्])
रङ्गमध्ये हलधरः
परिबभ्राम सिंहवत् । ह्व्_८९।४४१०२६ ।
स्तम्भं सभायाः सौवर्णम्
उत्पाट्य बलिनां वरः ।
गजेन्द्र इव तं स्तम्भं
कर्षन् सङ्कर्षणस् ततः ॥

मूलम्

([क्: द्६ त् ग्१।३-५ म् ins.: :क्])
रङ्गमध्ये हलधरः
परिबभ्राम सिंहवत् । ह्व्_८९।४४१०२६ ।
स्तम्भं सभायाः सौवर्णम्
उत्पाट्य बलिनां वरः ।
गजेन्द्र इव तं स्तम्भं
कर्षन् सङ्कर्षणस् ततः ॥

विश्वास-प्रस्तुतिः

([क्: त् ग्१।३-५ म् ins.: :क्])
तेनैव तु जघानाशु
तत्रस्थान् क्रथकैशिकान् । ह्व्_८९।४५cd१०२७ ।
निर्जगाम सभाद्वारात्
त्रासयन् क्रथकैशिकान् ॥ ह्व्_८९।४५ ॥

मूलम्

([क्: त् ग्१।३-५ म् ins.: :क्])
तेनैव तु जघानाशु
तत्रस्थान् क्रथकैशिकान् । ह्व्_८९।४५cd१०२७ ।
निर्जगाम सभाद्वारात्
त्रासयन् क्रथकैशिकान् ॥ ह्व्_८९।४५ ॥

विश्वास-प्रस्तुतिः

([क्: त्१।३।४ ग्१।३।५ म् (त्२ ग्४ after ४५cd) ins.: :क्])
केशेषु रुक्मिणं गृह्य
चकर्ष च पुनः पुनः । ह्व्_८९।४५१०२८:१ ।
तम् आदाय सभाद्वाराच्
छरपातं ससर्ज ह । ह्व्_८९।४५१०२८:२ ।
रुक्मिणं निकृतिप्रज्ञं
स हत्वा यादवर्षभः ।
वित्रास्य द्विषतः सर्वान्
सिंहः क्षुद्रमृगान् इव ॥ ह्व्_८९।४६ ॥

मूलम्

([क्: त्१।३।४ ग्१।३।५ म् (त्२ ग्४ after ४५cd) ins.: :क्])
केशेषु रुक्मिणं गृह्य
चकर्ष च पुनः पुनः । ह्व्_८९।४५१०२८:१ ।
तम् आदाय सभाद्वाराच्
छरपातं ससर्ज ह । ह्व्_८९।४५१०२८:२ ।
रुक्मिणं निकृतिप्रज्ञं
स हत्वा यादवर्षभः ।
वित्रास्य द्विषतः सर्वान्
सिंहः क्षुद्रमृगान् इव ॥ ह्व्_८९।४६ ॥

विश्वास-प्रस्तुतिः

जगाम शिबिरं रामः
स्वम् एव स्वजनावृतः ।
न्यवेदयत कृष्णाय
तच् च सर्वं यथाभवत् ॥ ह्व्_८९।४७ ॥

मूलम्

जगाम शिबिरं रामः
स्वम् एव स्वजनावृतः ।
न्यवेदयत कृष्णाय
तच् च सर्वं यथाभवत् ॥ ह्व्_८९।४७ ॥

विश्वास-प्रस्तुतिः

नोवाच स तदा किञ्चित्
कृष्णो रामं महाद्युतिम् ।
([क्: Ñ२ व्२ ब्२ द्न् द्स् द्६ ins.: :क्])
रुक्मिणी तु ततः श्रुत्वा
निहतं भ्रातरं प्रियम् । ह्व्_८९।४८अब्१०२९ ।
निगृह्य च तदात्मानं
क्रोधाद् अश्रूण्य् अवर्तयत् ॥ ह्व्_८९।४८ ॥

मूलम्

नोवाच स तदा किञ्चित्
कृष्णो रामं महाद्युतिम् ।
([क्: Ñ२ व्२ ब्२ द्न् द्स् द्६ ins.: :क्])
रुक्मिणी तु ततः श्रुत्वा
निहतं भ्रातरं प्रियम् । ह्व्_८९।४८अब्१०२९ ।
निगृह्य च तदात्मानं
क्रोधाद् अश्रूण्य् अवर्तयत् ॥ ह्व्_८९।४८ ॥

विश्वास-प्रस्तुतिः

न हतो वासुदेवेन
यः पूर्वं परवीरहा ।
([क्: क्१ (मर्ग्।) व्३ द्२।३ ins.: :क्])
ज्येष्ठो भ्राताथ रुक्मिण्या
रुक्मिणीस्नेहकारणात् । ह्व्_८९।४९अब्१०३० ।
स रामकरमुक्तेन
निहतो द्यूतमण्डले ॥

मूलम्

न हतो वासुदेवेन
यः पूर्वं परवीरहा ।
([क्: क्१ (मर्ग्।) व्३ द्२।३ ins.: :क्])
ज्येष्ठो भ्राताथ रुक्मिण्या
रुक्मिणीस्नेहकारणात् । ह्व्_८९।४९अब्१०३० ।
स रामकरमुक्तेन
निहतो द्यूतमण्डले ॥

विश्वास-प्रस्तुतिः

अष्टापदेन बलवान्
राजा वज्रधरोपमः ॥ ह्व्_८९।४९ ॥

मूलम्

अष्टापदेन बलवान्
राजा वज्रधरोपमः ॥ ह्व्_८९।४९ ॥

विश्वास-प्रस्तुतिः

तस्मिन् हते महामात्रे
नृपतौ भीष्मकात्मजे ।
द्रुमभार्गवतुल्ये वै
द्रुमभार्गवशिक्षिते ॥ ह्व्_८९।५० ॥

मूलम्

तस्मिन् हते महामात्रे
नृपतौ भीष्मकात्मजे ।
द्रुमभार्गवतुल्ये वै
द्रुमभार्गवशिक्षिते ॥ ह्व्_८९।५० ॥

विश्वास-प्रस्तुतिः

कृतौ च युद्धकुशले
नित्ययाजिनि पातिते ।
वृष्णयश् चान्धकाश् चैव
सर्वे विमनसो ऽभवन् ॥ ह्व्_८९।५१ ॥

मूलम्

कृतौ च युद्धकुशले
नित्ययाजिनि पातिते ।
वृष्णयश् चान्धकाश् चैव
सर्वे विमनसो ऽभवन् ॥ ह्व्_८९।५१ ॥

विश्वास-प्रस्तुतिः

([क्: श्१ क्३ द्४।५ त्४ ins.: :क्])
{वैशम्पायन उवाच}
रुक्मिणी च महाभागा
विलपन्त्य् आर्तया गिरा । ह्व्_८९।५११०३१:१ ।
विलपन्तीं तथा दृष्ट्वा
सान्त्वयाम् आस केशवः । ह्व्_८९।५११०३१:२ ।
एतत् ते सर्वम् आख्यातं
रुक्मिणो निधनं यथा ।
वैरस्य च समुत्थानं
वृष्णिभिर् भरतर्षभ ॥ ह्व्_८९।५२ ॥

मूलम्

([क्: श्१ क्३ द्४।५ त्४ ins.: :क्])
{वैशम्पायन उवाच}
रुक्मिणी च महाभागा
विलपन्त्य् आर्तया गिरा । ह्व्_८९।५११०३१:१ ।
विलपन्तीं तथा दृष्ट्वा
सान्त्वयाम् आस केशवः । ह्व्_८९।५११०३१:२ ।
एतत् ते सर्वम् आख्यातं
रुक्मिणो निधनं यथा ।
वैरस्य च समुत्थानं
वृष्णिभिर् भरतर्षभ ॥ ह्व्_८९।५२ ॥

विश्वास-प्रस्तुतिः

वृष्णयो ऽपि महाराज
धनान्य् आदाय सर्वशः ।
रामकृष्णौ समाश्रित्य
ययुर् द्वारवतीं पुरीम् ॥ ह्व्_८९।५३ ॥

मूलम्

वृष्णयो ऽपि महाराज
धनान्य् आदाय सर्वशः ।
रामकृष्णौ समाश्रित्य
ययुर् द्वारवतीं पुरीम् ॥ ह्व्_८९।५३ ॥

([क्: after ८९।५३, व्१।३ द्स् द्६ ins. अ पस्सगे गिवेन् इन् अप्प्। इ (नो। २४) :क्])