विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
कृष्णेन ह्रियमाणां तु
रुक्मी श्रुत्वा तु रुक्मिणीम् ।
प्रतिज्ञाम् अकरोत् क्रुद्धः
समक्षं भीष्मकस्य ह ॥ ह्व्_८८।१ ॥
मूलम्
{वैशम्पायन उवाच}
कृष्णेन ह्रियमाणां तु
रुक्मी श्रुत्वा तु रुक्मिणीम् ।
प्रतिज्ञाम् अकरोत् क्रुद्धः
समक्षं भीष्मकस्य ह ॥ ह्व्_८८।१ ॥
विश्वास-प्रस्तुतिः
अहत्वा युधि गोविन्दम्
अनानीय च रुक्मिणीम् ।
कुण्डिनं न प्रवेक्ष्यामि
सत्यम् एतद् ब्रवीमि ते ॥ ह्व्_८८।२ ॥
मूलम्
अहत्वा युधि गोविन्दम्
अनानीय च रुक्मिणीम् ।
कुण्डिनं न प्रवेक्ष्यामि
सत्यम् एतद् ब्रवीमि ते ॥ ह्व्_८८।२ ॥
विश्वास-प्रस्तुतिः
आस्थाय स रथं वीरः
समुदग्रायुधध्वजम् ।
जवेन प्रययौ क्रुद्धो
बलेन महता वृतः ॥ ह्व्_८८।३ ॥
मूलम्
आस्थाय स रथं वीरः
समुदग्रायुधध्वजम् ।
जवेन प्रययौ क्रुद्धो
बलेन महता वृतः ॥ ह्व्_८८।३ ॥
विश्वास-प्रस्तुतिः
तम् अन्वयुर् नृपाश् चैव
दक्षिणापथवासिनः ।
क्राथो ऽंशुमाञ् श्रुतर्वा च
वेणुदारिश्च वीर्यवान् ॥ ह्व्_८८।४ ॥
मूलम्
तम् अन्वयुर् नृपाश् चैव
दक्षिणापथवासिनः ।
क्राथो ऽंशुमाञ् श्रुतर्वा च
वेणुदारिश्च वीर्यवान् ॥ ह्व्_८८।४ ॥
विश्वास-प्रस्तुतिः
भीष्मकस्य सुतश् चापि
रथेन रथिनां वरः ।
क्रथकैशिकमुख्याश्च
सर्व एव महारथाः ॥ ह्व्_८८।५ ॥
मूलम्
भीष्मकस्य सुतश् चापि
रथेन रथिनां वरः ।
क्रथकैशिकमुख्याश्च
सर्व एव महारथाः ॥ ह्व्_८८।५ ॥
विश्वास-प्रस्तुतिः
ते गत्वा दूरम् अध्वानं
सरितं नर्मदाम् अनु ।
गोविन्दं ददृशुः क्रुद्धाः
सहैव प्रियया स्थितम् ॥ ह्व्_८८।६ ॥
मूलम्
ते गत्वा दूरम् अध्वानं
सरितं नर्मदाम् अनु ।
गोविन्दं ददृशुः क्रुद्धाः
सहैव प्रियया स्थितम् ॥ ह्व्_८८।६ ॥
विश्वास-प्रस्तुतिः
अवस्थाप्य च तत् सैन्यं
रुक्मी बलमदान्वितः ।
([क्: द्६ त् ग्१।३-५ म् ins.: :क्])
आदाय निशितं बाणम्
इदमाह जनार्दनम् ॥ ह्व्_८८।७अब्१०११:१ ।
मूलम्
अवस्थाप्य च तत् सैन्यं
रुक्मी बलमदान्वितः ।
([क्: द्६ त् ग्१।३-५ म् ins.: :क्])
आदाय निशितं बाणम्
इदमाह जनार्दनम् ॥ ह्व्_८८।७अब्१०११:१ ।
विश्वास-प्रस्तुतिः
अरे गोपकदायाद
परदारप्रधर्षण । ह्व्_८८।७अब्१०११:२ ।
विमुच्यताम् इयं बाला
स्थातव्यं च क्षणान्तरम् । ह्व्_८८।७अब्१०११:३ ।
शिरश्छेत्स्यामि ते बाणैः
स्थितो ऽसि यदि मत्पुरः । ह्व्_८८।७अब्१०११:४ ।
इत्युक्त्वा निशितं बाणं
सन्दधे धनुषि प्रभो । ह्व्_८८।७अब्१०११:५ ।
चिकीर्षुर् द्वैरथं युद्धम्
अभ्ययान् मधुसूदनम् ॥ ह्व्_८८।७ ॥
मूलम्
अरे गोपकदायाद
परदारप्रधर्षण । ह्व्_८८।७अब्१०११:२ ।
विमुच्यताम् इयं बाला
स्थातव्यं च क्षणान्तरम् । ह्व्_८८।७अब्१०११:३ ।
शिरश्छेत्स्यामि ते बाणैः
स्थितो ऽसि यदि मत्पुरः । ह्व्_८८।७अब्१०११:४ ।
इत्युक्त्वा निशितं बाणं
सन्दधे धनुषि प्रभो । ह्व्_८८।७अब्१०११:५ ।
चिकीर्षुर् द्वैरथं युद्धम्
अभ्ययान् मधुसूदनम् ॥ ह्व्_८८।७ ॥
विश्वास-प्रस्तुतिः
स विव्याध चतुःषष्ट्या
गोविन्दं निशितैः श्रैः ।
तं प्रत्यविध्यत् सप्तत्या
बाणैर् युधि जनार्दनः ॥ ह्व्_८८।८ ॥
मूलम्
स विव्याध चतुःषष्ट्या
गोविन्दं निशितैः श्रैः ।
तं प्रत्यविध्यत् सप्तत्या
बाणैर् युधि जनार्दनः ॥ ह्व्_८८।८ ॥
विश्वास-प्रस्तुतिः
यतमानस्य चिच्छेद
ध्वजं चास्य महाबलः ।
जहार च शिरः कायात्
सारथेश् चास्य वीर्यवान् ॥ ह्व्_८८।९ ॥
मूलम्
यतमानस्य चिच्छेद
ध्वजं चास्य महाबलः ।
जहार च शिरः कायात्
सारथेश् चास्य वीर्यवान् ॥ ह्व्_८८।९ ॥
विश्वास-प्रस्तुतिः
तं कृच्छ्रगतम् आज्ञाय
परिवव्रुर् जनार्दनम् ।
दाक्षिणात्या जिघांसन्तो
राजानः सर्व एव ते ॥ ह्व्_८८।१० ॥
मूलम्
तं कृच्छ्रगतम् आज्ञाय
परिवव्रुर् जनार्दनम् ।
दाक्षिणात्या जिघांसन्तो
राजानः सर्व एव ते ॥ ह्व्_८८।१० ॥
विश्वास-प्रस्तुतिः
तम् अंशुमान् महाबाहुर्
विव्याध दशभिः श्रैः ।
श्रुतर्वा पञ्चभिः क्रुद्धो
वेणुदारिश् च सप्तभिः ॥ ह्व्_८८।११ ॥
मूलम्
तम् अंशुमान् महाबाहुर्
विव्याध दशभिः श्रैः ।
श्रुतर्वा पञ्चभिः क्रुद्धो
वेणुदारिश् च सप्तभिः ॥ ह्व्_८८।११ ॥
विश्वास-प्रस्तुतिः
ततो ऽंशुमन्तं गोविन्दो
बिभेदोरसि वीर्यवान् ।
निषसाद रथोपस्थे
व्यथितः स नराधिपः ॥ ह्व्_८८।१२ ॥
मूलम्
ततो ऽंशुमन्तं गोविन्दो
बिभेदोरसि वीर्यवान् ।
निषसाद रथोपस्थे
व्यथितः स नराधिपः ॥ ह्व्_८८।१२ ॥
विश्वास-प्रस्तुतिः
श्रुतर्वणो जघानाश्वांश्
चतुर्भिश् चतुरः शरैः ।
वेणुदारेर् ध्वजं छित्त्वा
भुजं विव्याध दक्षिणम् ॥ ह्व्_८८।१३ ॥
मूलम्
श्रुतर्वणो जघानाश्वांश्
चतुर्भिश् चतुरः शरैः ।
वेणुदारेर् ध्वजं छित्त्वा
भुजं विव्याध दक्षिणम् ॥ ह्व्_८८।१३ ॥
विश्वास-प्रस्तुतिः
तथैव च श्रुतर्वाणं
शरैर् विव्याध पञ्चभिः ।
शिश्रिये स ध्वजं क्लान्तो
न्यषीदच्च व्यथान्वितः ॥ ह्व्_८८।१४ ॥
मूलम्
तथैव च श्रुतर्वाणं
शरैर् विव्याध पञ्चभिः ।
शिश्रिये स ध्वजं क्लान्तो
न्यषीदच्च व्यथान्वितः ॥ ह्व्_८८।१४ ॥
विश्वास-प्रस्तुतिः
मुञ्चन्तः शरवर्षाणि
वासुदेवं ततो ऽभ्ययुः ।
क्रथकैशिकमुख्यास् ते
रथवंशेन सर्वशः ॥ ह्व्_८८।१५ ॥
मूलम्
मुञ्चन्तः शरवर्षाणि
वासुदेवं ततो ऽभ्ययुः ।
क्रथकैशिकमुख्यास् ते
रथवंशेन सर्वशः ॥ ह्व्_८८।१५ ॥
विश्वास-प्रस्तुतिः
बाणैर् बाणांश् च चिच्छेद
तेषां युधि जनार्दनः ।
जघान चैषां संरब्धो
यतमानांश् च ताञ् शरान् ॥ ह्व्_८८।१६ ॥
मूलम्
बाणैर् बाणांश् च चिच्छेद
तेषां युधि जनार्दनः ।
जघान चैषां संरब्धो
यतमानांश् च ताञ् शरान् ॥ ह्व्_८८।१६ ॥
विश्वास-प्रस्तुतिः
पुनर् अन्यांश् चतुःषष्ट्या
जघान निशितैः शरैः ।
क्रुद्धान् आद्रवतो वीरान्
आद्रवत् स महाबलः ॥ ह्व्_८८।१७ ॥
मूलम्
पुनर् अन्यांश् चतुःषष्ट्या
जघान निशितैः शरैः ।
क्रुद्धान् आद्रवतो वीरान्
आद्रवत् स महाबलः ॥ ह्व्_८८।१७ ॥
विश्वास-प्रस्तुतिः
विद्रुतं स्वबलं दृष्ट्वा
रुक्मी क्रोधवशं गतः ।
पञ्चभिर् निशितैर् बाणैर्
विव्याधोरसि केशवम् ॥ ह्व्_८८।१८ ॥
मूलम्
विद्रुतं स्वबलं दृष्ट्वा
रुक्मी क्रोधवशं गतः ।
पञ्चभिर् निशितैर् बाणैर्
विव्याधोरसि केशवम् ॥ ह्व्_८८।१८ ॥
विश्वास-प्रस्तुतिः
सारथिं चास्य विव्याध
सायकैर् निशितैस् त्रिभिः ।
आजघान ध्वजं चास्य
शरेण नतपर्वणा ॥ ह्व्_८८।१९ ॥
मूलम्
सारथिं चास्य विव्याध
सायकैर् निशितैस् त्रिभिः ।
आजघान ध्वजं चास्य
शरेण नतपर्वणा ॥ ह्व्_८८।१९ ॥
विश्वास-प्रस्तुतिः
केशवश् चापि तं षष्ट्या
क्रुद्धो विव्याध मार्गणैः ।
धनुश् चिच्छेद चाप्य् अस्य
यतमानस्य रुक्मिणः ॥ ह्व्_८८।२० ॥
मूलम्
केशवश् चापि तं षष्ट्या
क्रुद्धो विव्याध मार्गणैः ।
धनुश् चिच्छेद चाप्य् अस्य
यतमानस्य रुक्मिणः ॥ ह्व्_८८।२० ॥
विश्वास-प्रस्तुतिः
अथान्यद् धनुर् आदाय
रुक्मी कृष्णजिघांसया ।
प्रादुश् चकार दिव्यानि
दीप्तान्य् अस्त्राणि वीर्यवान् ॥ ह्व्_८८।२१ ॥
मूलम्
अथान्यद् धनुर् आदाय
रुक्मी कृष्णजिघांसया ।
प्रादुश् चकार दिव्यानि
दीप्तान्य् अस्त्राणि वीर्यवान् ॥ ह्व्_८८।२१ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त् ग्१।४।५ म् ins.: :क्])
वायव्यं वारुणं चैव
माहेन्द्रम् अथ नैरृतम् । ह्व्_८८।२११०१२:१ ।
पैशाचं राक्षसं चैव
रौद्रं माहेश्वरं तथा ॥ ह्व्_८८।२११०१२:२ ।
मूलम्
([क्: द्६ त् ग्१।४।५ म् ins.: :क्])
वायव्यं वारुणं चैव
माहेन्द्रम् अथ नैरृतम् । ह्व्_८८।२११०१२:१ ।
पैशाचं राक्षसं चैव
रौद्रं माहेश्वरं तथा ॥ ह्व्_८८।२११०१२:२ ।
विश्वास-प्रस्तुतिः
एतान्यस्त्राणि दव्यानि
विव्याद्र युधि केशवे । ह्व्_८८।२११०१२:३ ।
तैर् एव तानि गोविन्दो
निजघान जनार्दनः । ह्व्_८८।२११०१२:४ ।
अस्त्रैर् अस्त्राणि संवार्य
तस्य कृष्णो म्हाबलः ।
पुनश् चिच्छेद तं चापं
रथेषां च त्रिभिः शरैः ॥ ह्व्_८८।२२ ॥
मूलम्
एतान्यस्त्राणि दव्यानि
विव्याद्र युधि केशवे । ह्व्_८८।२११०१२:३ ।
तैर् एव तानि गोविन्दो
निजघान जनार्दनः । ह्व्_८८।२११०१२:४ ।
अस्त्रैर् अस्त्राणि संवार्य
तस्य कृष्णो म्हाबलः ।
पुनश् चिच्छेद तं चापं
रथेषां च त्रिभिः शरैः ॥ ह्व्_८८।२२ ॥
विश्वास-प्रस्तुतिः
स च्छिन्नधन्वा विरथः
खड्गम् आदाय चर्म च ।
उत्पपात रथाद् वीरो
गरुत्मान् इव वीर्यवान् ॥ ह्व्_८८।२३ ॥
मूलम्
स च्छिन्नधन्वा विरथः
खड्गम् आदाय चर्म च ।
उत्पपात रथाद् वीरो
गरुत्मान् इव वीर्यवान् ॥ ह्व्_८८।२३ ॥
विश्वास-प्रस्तुतिः
तस्याभिपततः खड्गं
चिच्छेद युधि केशवः ।
नाराचैश् च त्रिभिः क्रुद्धो
बिभेदैनम् अथोरसि ॥ ह्व्_८८।२४ ॥
मूलम्
तस्याभिपततः खड्गं
चिच्छेद युधि केशवः ।
नाराचैश् च त्रिभिः क्रुद्धो
बिभेदैनम् अथोरसि ॥ ह्व्_८८।२४ ॥
विश्वास-प्रस्तुतिः
([क्: क्४ सुब्।: :क्])
क्रुद्धो बिभेदैनम् अथो
शरैर् उरसि पञ्चभिः । ह्व्_८८।२४cd१०१३ ।
स पपात महाबाहुर्
वसुधाम् अनुनादयन् ।
विसञ्ज्ञो मूर्छितो राजा
वज्रेणेव हतो गिरिः ॥ ह्व्_८८।२५ ॥
मूलम्
([क्: क्४ सुब्।: :क्])
क्रुद्धो बिभेदैनम् अथो
शरैर् उरसि पञ्चभिः । ह्व्_८८।२४cd१०१३ ।
स पपात महाबाहुर्
वसुधाम् अनुनादयन् ।
विसञ्ज्ञो मूर्छितो राजा
वज्रेणेव हतो गिरिः ॥ ह्व्_८८।२५ ॥
विश्वास-प्रस्तुतिः
तांश् च राज्ञः शरैः सर्वान्
पुनर्विव्याध केशवः ।
([क्: क्१ द्३ ins.: :क्])
साश्वध्वजरथांश् चैव
ससूतान्सपदानुगान् । ह्व्_८८।२६अब्१०१४ ।
रुक्मिणं पतितं दृष्ट्वा
व्यद्रवन्त नराधिपाः ॥ ह्व्_८८।२६ ॥
मूलम्
तांश् च राज्ञः शरैः सर्वान्
पुनर्विव्याध केशवः ।
([क्: क्१ द्३ ins.: :क्])
साश्वध्वजरथांश् चैव
ससूतान्सपदानुगान् । ह्व्_८८।२६अब्१०१४ ।
रुक्मिणं पतितं दृष्ट्वा
व्यद्रवन्त नराधिपाः ॥ ह्व्_८८।२६ ॥
विश्वास-प्रस्तुतिः
([क्: त् ग्१,३-५ म्४ ins.: :क्])
कृष्णबाणविभिन्नाङ्गा
वीक्षमाणाः परस्परम् । ह्व्_८८।२६१०१५ ।
विवेष्टमानं भूमौ तं
भ्रातरं वीक्ष्य रुक्मिणी ।
पादयोर् न्यपतद् भर्तुर्
भ्रातुर् जीवितकाङ्क्षिणी ॥ ह्व्_८८।२७ ॥
मूलम्
([क्: त् ग्१,३-५ म्४ ins.: :क्])
कृष्णबाणविभिन्नाङ्गा
वीक्षमाणाः परस्परम् । ह्व्_८८।२६१०१५ ।
विवेष्टमानं भूमौ तं
भ्रातरं वीक्ष्य रुक्मिणी ।
पादयोर् न्यपतद् भर्तुर्
भ्रातुर् जीवितकाङ्क्षिणी ॥ ह्व्_८८।२७ ॥
विश्वास-प्रस्तुतिः
तामुत्थाप्य परिष्वज्य
सान्त्वयामास केशवः ।
अभयं रुक्मिणे दत्त्वा
प्रययौ स्वां पुरीं ततः ॥ ह्व्_८८।२८ ॥
मूलम्
तामुत्थाप्य परिष्वज्य
सान्त्वयामास केशवः ।
अभयं रुक्मिणे दत्त्वा
प्रययौ स्वां पुरीं ततः ॥ ह्व्_८८।२८ ॥
विश्वास-प्रस्तुतिः
वृष्णयो ऽपि जरासन्धं
भङ्क्त्वा तांश् चापि पार्थिवान् ।
([क्: स् (एxचेप्त् ग्२) ins.: :क्])
जित्वा तु सात्यकिर्वीरः
शिशुपालं महाबलम् । ह्व्_८८।२९अब्१०१६:१ ।
बलदेवो ऽपि वार्ष्णेयो
जित्वा मगधपुङ्गवम् । ह्व्_८८।२९अब्१०१६:२ ।
ते ऽपि वीरा यथायोगं
जित्वा तान् यादवोत्तमाः । ह्व्_८८।२९अब्१०१६:३ ।
प्रययुर् द्वारकां हृष्टाः
पुरस्कृत्य हलायुधम् ॥ ह्व्_८८।२९ ॥
मूलम्
वृष्णयो ऽपि जरासन्धं
भङ्क्त्वा तांश् चापि पार्थिवान् ।
([क्: स् (एxचेप्त् ग्२) ins.: :क्])
जित्वा तु सात्यकिर्वीरः
शिशुपालं महाबलम् । ह्व्_८८।२९अब्१०१६:१ ।
बलदेवो ऽपि वार्ष्णेयो
जित्वा मगधपुङ्गवम् । ह्व्_८८।२९अब्१०१६:२ ।
ते ऽपि वीरा यथायोगं
जित्वा तान् यादवोत्तमाः । ह्व्_८८।२९अब्१०१६:३ ।
प्रययुर् द्वारकां हृष्टाः
पुरस्कृत्य हलायुधम् ॥ ह्व्_८८।२९ ॥
विश्वास-प्रस्तुतिः
प्रयाते पुण्डरीकाक्षे
श्रुतर्वाभ्येत्य संयुगे ।
रुक्मिणं रथम् आरोप्य
प्रययौ स्वपुरं ततः ॥ ह्व्_८८।३० ॥
मूलम्
प्रयाते पुण्डरीकाक्षे
श्रुतर्वाभ्येत्य संयुगे ।
रुक्मिणं रथम् आरोप्य
प्रययौ स्वपुरं ततः ॥ ह्व्_८८।३० ॥
विश्वास-प्रस्तुतिः
अनानीय स्वसारं तु
रुक्मी वीर्यमदान्वितः ।
हीनप्रतिज्ञो नैच्छत् स
प्रवेष्टुं कुण्डिनं पुरम् ॥ ह्व्_८८।३१ ॥
मूलम्
अनानीय स्वसारं तु
रुक्मी वीर्यमदान्वितः ।
हीनप्रतिज्ञो नैच्छत् स
प्रवेष्टुं कुण्डिनं पुरम् ॥ ह्व्_८८।३१ ॥
विश्वास-प्रस्तुतिः
विदर्भेषु च वासार्थं
निर्ममे ऽन्यत् पुरं महत् ।
तद्भोजकटम् इत्य् एव
बभूव भुवि विश्रुतम् ॥ ह्व्_८८।३२ ॥
मूलम्
विदर्भेषु च वासार्थं
निर्ममे ऽन्यत् पुरं महत् ।
तद्भोजकटम् इत्य् एव
बभूव भुवि विश्रुतम् ॥ ह्व्_८८।३२ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त्१-३ ग्१।३-५ म् ins.: :क्])
जन्मास्पदं भगवतो
भृगुसूनोर् महात्मनः । ह्व्_८८।३२१०१७:१ ।
तच्छशास महावीर्यो
रुक्मी जीवति तत्र वै । ह्व्_८८।३२१०१७:२ ।
तत्रौजसा महातेजसाः
सो ऽन्वशाद् दक्षिणां दिशम् ।
भीष्मकः कुण्डिने चैव
राजोवास महामनाः ॥ ह्व्_८८।३३ ॥
मूलम्
([क्: द्६ त्१-३ ग्१।३-५ म् ins.: :क्])
जन्मास्पदं भगवतो
भृगुसूनोर् महात्मनः । ह्व्_८८।३२१०१७:१ ।
तच्छशास महावीर्यो
रुक्मी जीवति तत्र वै । ह्व्_८८।३२१०१७:२ ।
तत्रौजसा महातेजसाः
सो ऽन्वशाद् दक्षिणां दिशम् ।
भीष्मकः कुण्डिने चैव
राजोवास महामनाः ॥ ह्व्_८८।३३ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त् ग्१।३-५ म् ins.: :क्])
जरासन्धो ऽपि सम्प्राप्य
सञ्ज्ञां प्राप स्वकं पुरम् । ह्व्_८८।३३१०१८:१ ।
सर्वैर् नृपतिभिः सार्धं
सज्जयावनताननः ॥ ह्व्_८८।३३१०१८:२ ।
मूलम्
([क्: द्६ त् ग्१।३-५ म् ins.: :क्])
जरासन्धो ऽपि सम्प्राप्य
सञ्ज्ञां प्राप स्वकं पुरम् । ह्व्_८८।३३१०१८:१ ।
सर्वैर् नृपतिभिः सार्धं
सज्जयावनताननः ॥ ह्व्_८८।३३१०१८:२ ।
विश्वास-प्रस्तुतिः
शिशुपालो ऽपि मन्दात्मा
लज्जाविष्टः सबान्धवः । ह्व्_८८।३३१०१८:३ ।
पौरजानपदैर् दृष्टः
सो ऽयं भोजसुतापतिः । ह्व्_८८।३३१०१८:४ ।
इदानीम् अन्यथा वृत्तः
स्वां पुरी निर्ययौ बहिः ॥ ह्व्_८८।३३१०१८:५ ।
मूलम्
शिशुपालो ऽपि मन्दात्मा
लज्जाविष्टः सबान्धवः । ह्व्_८८।३३१०१८:३ ।
पौरजानपदैर् दृष्टः
सो ऽयं भोजसुतापतिः । ह्व्_८८।३३१०१८:४ ।
इदानीम् अन्यथा वृत्तः
स्वां पुरी निर्ययौ बहिः ॥ ह्व्_८८।३३१०१८:५ ।
विश्वास-प्रस्तुतिः
को नु नाम समर्थो ऽत्र
कृष्णे जीवति साम्प्रतम् । ह्व्_८८।३३१०१८:६ ।
रुक्मिणीम् अन्यथाकर्तुं
सबले सहसात्यकौ ॥ ह्व्_८८।३३१०१८:७ ।
मूलम्
को नु नाम समर्थो ऽत्र
कृष्णे जीवति साम्प्रतम् । ह्व्_८८।३३१०१८:६ ।
रुक्मिणीम् अन्यथाकर्तुं
सबले सहसात्यकौ ॥ ह्व्_८८।३३१०१८:७ ।
विश्वास-प्रस्तुतिः
इति पौराश् च तं दृष्ट्वा
सुनीथं मन्दविक्रमम् । ह्व्_८८।३३१०१८:८ ।
आहुः परस्परं सर्वे
गच्छन्तं स्वपुरं नृपम् । ह्व्_८८।३३१०१८:९ ।
द्वारकाम् अभिसम्प्राप्ते
रामे वृष्णिबलान्विते ।
रुक्मिण्याः केशवः पाणिं
जग्राह विधिवत् प्रभुः ॥ ह्व्_८८।३४ ॥
मूलम्
इति पौराश् च तं दृष्ट्वा
सुनीथं मन्दविक्रमम् । ह्व्_८८।३३१०१८:८ ।
आहुः परस्परं सर्वे
गच्छन्तं स्वपुरं नृपम् । ह्व्_८८।३३१०१८:९ ।
द्वारकाम् अभिसम्प्राप्ते
रामे वृष्णिबलान्विते ।
रुक्मिण्याः केशवः पाणिं
जग्राह विधिवत् प्रभुः ॥ ह्व्_८८।३४ ॥
विश्वास-प्रस्तुतिः
([क्: after ८८।३४, द्६ स् (एxचेप्त् ग्२) ins. अ पस्सगे गिवेन् इन् अप्प् इ (नो। २३) :क्])
ततः सह तया रेमे
प्रियया प्रीयमाणया ।
सीतयेव पुरा रामः
पौलोम्य् एव पुरन्दरः ॥ ह्व्_८८।३५ ॥
मूलम्
([क्: after ८८।३४, द्६ स् (एxचेप्त् ग्२) ins. अ पस्सगे गिवेन् इन् अप्प् इ (नो। २३) :क्])
ततः सह तया रेमे
प्रियया प्रीयमाणया ।
सीतयेव पुरा रामः
पौलोम्य् एव पुरन्दरः ॥ ह्व्_८८।३५ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त्१-३ ग्१।३-५ म् ins.: :क्])
दमयन्त्या यथा राजा
पुण्यश्लोको नलस्तथा । ह्व्_८८।३५१०१९ ।
सा हि तस्याभवज् ज्येष्ठा
पत्नी कृष्णस्य भामिनी ।
पतिव्रता गुणोपेता
रूपशीलगुणान्विता ॥ ह्व्_८८।३६ ॥
मूलम्
([क्: द्६ त्१-३ ग्१।३-५ म् ins.: :क्])
दमयन्त्या यथा राजा
पुण्यश्लोको नलस्तथा । ह्व्_८८।३५१०१९ ।
सा हि तस्याभवज् ज्येष्ठा
पत्नी कृष्णस्य भामिनी ।
पतिव्रता गुणोपेता
रूपशीलगुणान्विता ॥ ह्व्_८८।३६ ॥
विश्वास-प्रस्तुतिः
तस्याम् उत्पादयामास
पुत्रान् दश महारथान् ।
चारुदेष्णं सुदेष्णं च
प्रद्युम्नं च महाबलम् ॥ ह्व्_८८।३७ ॥
मूलम्
तस्याम् उत्पादयामास
पुत्रान् दश महारथान् ।
चारुदेष्णं सुदेष्णं च
प्रद्युम्नं च महाबलम् ॥ ह्व्_८८।३७ ॥
विश्वास-प्रस्तुतिः
सुषेणं चारुगुप्तं च
चारुबाहुं च वीर्यवान् ।
चारुविन्दं सुचारुं च
भद्रचारुं तथैव च ॥ ह्व्_८८।३८ ॥
मूलम्
सुषेणं चारुगुप्तं च
चारुबाहुं च वीर्यवान् ।
चारुविन्दं सुचारुं च
भद्रचारुं तथैव च ॥ ह्व्_८८।३८ ॥
विश्वास-प्रस्तुतिः
चारुं च बलिनां श्रेष्ठं
सुतां चारुमतीं तथा ।
धर्मार्थकुशलास् ते तु
कृतास्त्रा युद्धदुर्मदाः ॥ ह्व्_८८।३९ ॥
मूलम्
चारुं च बलिनां श्रेष्ठं
सुतां चारुमतीं तथा ।
धर्मार्थकुशलास् ते तु
कृतास्त्रा युद्धदुर्मदाः ॥ ह्व्_८८।३९ ॥
विश्वास-प्रस्तुतिः
महिषीः सप्त कल्याणीस्
ततो ऽन्या मधुसूदनः ।
उपयेमे महाबाहुर्
गुणोपेताः कुलोद्भवाः ॥ ह्व्_८८।४० ॥
मूलम्
महिषीः सप्त कल्याणीस्
ततो ऽन्या मधुसूदनः ।
उपयेमे महाबाहुर्
गुणोपेताः कुलोद्भवाः ॥ ह्व्_८८।४० ॥
विश्वास-प्रस्तुतिः
कालिन्दीं मित्रविन्दां च
सत्यां नाग्नजितीम् अपि ।
सुतां जाम्बवतश् चापि
रोहिणीं कामरूपिणीम् ॥ ह्व्_८८।४१ ॥
मूलम्
कालिन्दीं मित्रविन्दां च
सत्यां नाग्नजितीम् अपि ।
सुतां जाम्बवतश् चापि
रोहिणीं कामरूपिणीम् ॥ ह्व्_८८।४१ ॥
विश्वास-प्रस्तुतिः
मद्रराजसुतां चापि
सुशीलां शुभलोचनाम् ।
सत्राजितीं सत्यभामां
लक्ष्मणां चारुहासिनीम् ॥
मूलम्
मद्रराजसुतां चापि
सुशीलां शुभलोचनाम् ।
सत्राजितीं सत्यभामां
लक्ष्मणां चारुहासिनीम् ॥
विश्वास-प्रस्तुतिः
शैब्यां सुदत्तां रूपेण
श्रिया ह्य् अप्सरसोपमाम् ॥ ह्व्_८८।४२ ॥
मूलम्
शैब्यां सुदत्तां रूपेण
श्रिया ह्य् अप्सरसोपमाम् ॥ ह्व्_८८।४२ ॥
विश्वास-प्रस्तुतिः
स्त्रीसहस्राणि चान्यानि
षोडशातुलविक्रमः ।
उपयेमे हृषीकेशः
सर्वा भेजे स ताः समम् ॥
मूलम्
स्त्रीसहस्राणि चान्यानि
षोडशातुलविक्रमः ।
उपयेमे हृषीकेशः
सर्वा भेजे स ताः समम् ॥
विश्वास-प्रस्तुतिः
परार्ध्यवस्त्राभरणाः
कामैह् सर्वैः समेधितः ॥ ह्व्_८८।४३ ॥
मूलम्
परार्ध्यवस्त्राभरणाः
कामैह् सर्वैः समेधितः ॥ ह्व्_८८।४३ ॥
विश्वास-प्रस्तुतिः
जज्ञिरे तस्य पुत्राश् च
तासु वीराः सहस्रशः ।
([क्: श्१ द्२ ins.: :क्])
अशीतिं च सहस्राणि
षोडशान्यानि भारत । ह्व्_८८।४४अब्१०२० ।
सर्वास्त्रकुशलाः सर्वे
बलवन्तो महारथाः ॥
मूलम्
जज्ञिरे तस्य पुत्राश् च
तासु वीराः सहस्रशः ।
([क्: श्१ द्२ ins.: :क्])
अशीतिं च सहस्राणि
षोडशान्यानि भारत । ह्व्_८८।४४अब्१०२० ।
सर्वास्त्रकुशलाः सर्वे
बलवन्तो महारथाः ॥
विश्वास-प्रस्तुतिः
यज्वानः पुण्यकर्माणो
महाभागा महाबलाः ॥ ह्व्_८८।४४ ॥
मूलम्
यज्वानः पुण्यकर्माणो
महाभागा महाबलाः ॥ ह्व्_८८।४४ ॥
([क्: after ८८।३४, द्६ स् (एxचेप्त् ग्२) ins. अ पस्सगे गिवेन् इन् अप्प् इ (नो। २३) :क्])