विश्वास-प्रस्तुतिः
{जनमेजय उवाच}
भगवञ् श्रोतुम् इच्छामि
विस्तरेण महात्मनः ।
चरितं वासुदेवस्य
यदुश्रेष्ठस्य धीमतः ॥ ह्व्_८५।१ ॥
मूलम्
{जनमेजय उवाच}
भगवञ् श्रोतुम् इच्छामि
विस्तरेण महात्मनः ।
चरितं वासुदेवस्य
यदुश्रेष्ठस्य धीमतः ॥ ह्व्_८५।१ ॥
विश्वास-प्रस्तुतिः
किमर्थं च परित्यज्य
मथुरां मधुसूदनः ।
मध्यदेशस्य ककुदं
धाम लक्ष्म्याश् च केवलम् ॥ ह्व्_८५।२ ॥
मूलम्
किमर्थं च परित्यज्य
मथुरां मधुसूदनः ।
मध्यदेशस्य ककुदं
धाम लक्ष्म्याश् च केवलम् ॥ ह्व्_८५।२ ॥
विश्वास-प्रस्तुतिः
शृङ्गं पृथिव्याः स्वालक्ष्यं
प्रभूतधनधान्यवत् ।
आर्याढ्यजनभूयिष्ठम्
अधिष्ठानवरोत्तमम् ॥
मूलम्
शृङ्गं पृथिव्याः स्वालक्ष्यं
प्रभूतधनधान्यवत् ।
आर्याढ्यजनभूयिष्ठम्
अधिष्ठानवरोत्तमम् ॥
विश्वास-प्रस्तुतिः
अयुद्धेनैव दाशार्हस्
त्यक्तवान् द्विजसत्तम ॥ ह्व्_८५।३ ॥
मूलम्
अयुद्धेनैव दाशार्हस्
त्यक्तवान् द्विजसत्तम ॥ ह्व्_८५।३ ॥
विश्वास-प्रस्तुतिः
स कालयवनश् चापि
कृष्णे किं प्रत्यपद्यत ॥ ह्व्_८५।४ ॥
मूलम्
स कालयवनश् चापि
कृष्णे किं प्रत्यपद्यत ॥ ह्व्_८५।४ ॥
विश्वास-प्रस्तुतिः
द्वारकां च समाश्रित्य
वारिदुर्गां जनार्दनः ।
किं चकार महाबाहुर्
महायोगी महामनाः ॥ ह्व्_८५।५ ॥
मूलम्
द्वारकां च समाश्रित्य
वारिदुर्गां जनार्दनः ।
किं चकार महाबाहुर्
महायोगी महामनाः ॥ ह्व्_८५।५ ॥
विश्वास-प्रस्तुतिः
किंवीर्यः कालयवनः
केन जातश् च वीर्यवान् ।
यम् असह्यं समालक्ष्य
व्यपयातो जनार्दनः ॥ ह्व्_८५।६ ॥
मूलम्
किंवीर्यः कालयवनः
केन जातश् च वीर्यवान् ।
यम् असह्यं समालक्ष्य
व्यपयातो जनार्दनः ॥ ह्व्_८५।६ ॥
विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
वृष्णीनाम् अन्धकानां च
गुरुर् गार्ग्यो महातपाः ।
ब्रह्मचारी पुरा भूत्वा
न स्म दारान् स विन्दति ॥ ह्व्_८५।७ ॥
मूलम्
{वैशम्पायन उवाच}
वृष्णीनाम् अन्धकानां च
गुरुर् गार्ग्यो महातपाः ।
ब्रह्मचारी पुरा भूत्वा
न स्म दारान् स विन्दति ॥ ह्व्_८५।७ ॥
विश्वास-प्रस्तुतिः
तथा हि वर्तमानं तं
ऊर्ध्वरेतसम् अव्ययम् ।
([क्: द्४ ins.: :क्])
गार्ग्यं गोष्ठे द्विजं स्यालः
षण्ढम् इत्य् उक्तवान् द्विजः । ह्व्_८५।८अब्९६५:१ ।
यदूनां सन्निधौ सर्वे
जहसुर् यादवास् ततः ॥ ह्व्_८५।८अब्९६५:२ ।
मूलम्
तथा हि वर्तमानं तं
ऊर्ध्वरेतसम् अव्ययम् ।
([क्: द्४ ins.: :क्])
गार्ग्यं गोष्ठे द्विजं स्यालः
षण्ढम् इत्य् उक्तवान् द्विजः । ह्व्_८५।८अब्९६५:१ ।
यदूनां सन्निधौ सर्वे
जहसुर् यादवास् ततः ॥ ह्व्_८५।८अब्९६५:२ ।
विश्वास-प्रस्तुतिः
एवं वर्षसहस्रं मे
षट्शतं भूपसम्मितम् । ह्व्_८५।८अब्९६५:३ ।
वत्सरा द्वादशाश् चैव
चूर्णं लोहरजोद्भवम् । ह्व्_८५।८अब्९६५:४ ।
स्यालो ऽभिशप्तवान् गार्ग्यम्
अपुमान् इति भूपते ॥ ह्व्_८५।८ ॥
मूलम्
एवं वर्षसहस्रं मे
षट्शतं भूपसम्मितम् । ह्व्_८५।८अब्९६५:३ ।
वत्सरा द्वादशाश् चैव
चूर्णं लोहरजोद्भवम् । ह्व्_८५।८अब्९६५:४ ।
स्यालो ऽभिशप्तवान् गार्ग्यम्
अपुमान् इति भूपते ॥ ह्व्_८५।८ ॥
विश्वास-प्रस्तुतिः
सो ऽभिशप्तस् तदा राजन्
नगरे त्व् अमितञ्जये ।
लिप्सुः पुत्रं ततो गत्वा
तपस् तेपे सुदारुणम् ॥ ह्व्_८५।९ ॥
मूलम्
सो ऽभिशप्तस् तदा राजन्
नगरे त्व् अमितञ्जये ।
लिप्सुः पुत्रं ततो गत्वा
तपस् तेपे सुदारुणम् ॥ ह्व्_८५।९ ॥
विश्वास-प्रस्तुतिः
ततो द्वादश वर्षाणि
सो ऽयश् चूर्णम् अभक्षयत् ।
आराधयन् महादेवम्
अचिन्त्यं शूलपाणिनम् ॥ ह्व्_८५।१० ॥
मूलम्
ततो द्वादश वर्षाणि
सो ऽयश् चूर्णम् अभक्षयत् ।
आराधयन् महादेवम्
अचिन्त्यं शूलपाणिनम् ॥ ह्व्_८५।१० ॥
विश्वास-प्रस्तुतिः
रुद्रस् तस्मै वरं प्रादात्
समर्थं युधि निग्रहे ।
वृष्णीनाम् अन्धकानां च
सर्वतेजोमयं सुतम् ॥ ह्व्_८५।११ ॥
मूलम्
रुद्रस् तस्मै वरं प्रादात्
समर्थं युधि निग्रहे ।
वृष्णीनाम् अन्धकानां च
सर्वतेजोमयं सुतम् ॥ ह्व्_८५।११ ॥
विश्वास-प्रस्तुतिः
ततः शुश्राव तं राजा
यवनाधिपतिर् वरम् ।
पुत्रप्रसवजं देवाद्
अपुत्रः पुत्रकामुकः ॥ ह्व्_८५।१२ ॥
मूलम्
ततः शुश्राव तं राजा
यवनाधिपतिर् वरम् ।
पुत्रप्रसवजं देवाद्
अपुत्रः पुत्रकामुकः ॥ ह्व्_८५।१२ ॥
विश्वास-प्रस्तुतिः
तम् उपानाय्य स नृपः
सान्त्वयित्वा द्विजोत्तमम् ।
गोपमध्ये यवनराड्
गोपस्त्रिषु समुत्सृजत् ॥ ह्व्_८५।१३ ॥
मूलम्
तम् उपानाय्य स नृपः
सान्त्वयित्वा द्विजोत्तमम् ।
गोपमध्ये यवनराड्
गोपस्त्रिषु समुत्सृजत् ॥ ह्व्_८५।१३ ॥
विश्वास-प्रस्तुतिः
गोपाली त्व् अप्सरास् तत्र
गोपस्त्रीवेषधारिणी ।
धारयाम् आस गार्ग्यस्य
गर्भं दुर्धरम् अच्युतम् ॥ ह्व्_८५।१४ ॥
मूलम्
गोपाली त्व् अप्सरास् तत्र
गोपस्त्रीवेषधारिणी ।
धारयाम् आस गार्ग्यस्य
गर्भं दुर्धरम् अच्युतम् ॥ ह्व्_८५।१४ ॥
विश्वास-प्रस्तुतिः
मानुष्यां गार्ग्यभार्यायां
नियोगाच् छूलपाणिनः ।
स कालयवनो नाम
जज्ञे शूरो महाबलः ॥
मूलम्
मानुष्यां गार्ग्यभार्यायां
नियोगाच् छूलपाणिनः ।
स कालयवनो नाम
जज्ञे शूरो महाबलः ॥
विश्वास-प्रस्तुतिः
अपुत्रस्याथ राज्ञस् तु
ववृधे ऽन्तःपुरे शिशुः ॥ ह्व्_८५।१५ ॥
मूलम्
अपुत्रस्याथ राज्ञस् तु
ववृधे ऽन्तःपुरे शिशुः ॥ ह्व्_८५।१५ ॥
विश्वास-प्रस्तुतिः
तस्मिन्न् उपरते राजन्
स कालयवनो नृपः ।
युद्धाभिकामो राजा तु
पर्यपृच्छद् द्विजोत्तमम् ॥
मूलम्
तस्मिन्न् उपरते राजन्
स कालयवनो नृपः ।
युद्धाभिकामो राजा तु
पर्यपृच्छद् द्विजोत्तमम् ॥
विश्वास-प्रस्तुतिः
वृष्ण्यन्धककुलं तस्य
नारदो वै न्यवेदयत् ॥ ह्व्_८५।१६ ॥
मूलम्
वृष्ण्यन्धककुलं तस्य
नारदो वै न्यवेदयत् ॥ ह्व्_८५।१६ ॥
विश्वास-प्रस्तुतिः
ज्ञात्वा तु वरदानं तन्
नारदान् मधुसूदनः ।
उपप्रैक्षत तेजस्वी
वर्धन्तं यवनेषु तम् ॥ ह्व्_८५।१७ ॥
मूलम्
ज्ञात्वा तु वरदानं तन्
नारदान् मधुसूदनः ।
उपप्रैक्षत तेजस्वी
वर्धन्तं यवनेषु तम् ॥ ह्व्_८५।१७ ॥
विश्वास-प्रस्तुतिः
स विवृद्धो यदा राजा
यवनानां महाबलः ।
तत एनं नृपा म्लेच्छाः
संश्रित्यानुययुस् तदा ॥ ह्व्_८५।१८ ॥
मूलम्
स विवृद्धो यदा राजा
यवनानां महाबलः ।
तत एनं नृपा म्लेच्छाः
संश्रित्यानुययुस् तदा ॥ ह्व्_८५।१८ ॥
विश्वास-प्रस्तुतिः
शकास् तुषारा दरदाः
पारदास् तङ्गणाः खशाः ।
पह्लवाः शतशश् चान्ये
म्लेच्छा हैमवतास् तथा ॥ ह्व्_८५।१९ ॥
मूलम्
शकास् तुषारा दरदाः
पारदास् तङ्गणाः खशाः ।
पह्लवाः शतशश् चान्ये
म्लेच्छा हैमवतास् तथा ॥ ह्व्_८५।१९ ॥
विश्वास-प्रस्तुतिः
स तैः परिवृतो राजा
दस्युभिः शलभैर् इव ।
नानावेषधरैर् भीमैर्
मत्रुराम् अभ्यवर्तत ॥ ह्व्_८५।२० ॥
मूलम्
स तैः परिवृतो राजा
दस्युभिः शलभैर् इव ।
नानावेषधरैर् भीमैर्
मत्रुराम् अभ्यवर्तत ॥ ह्व्_८५।२० ॥
विश्वास-प्रस्तुतिः
गजवाजिखरोष्ट्राणां
सहस्रैर् अयुतैर् अपि ।
पृथिवीं कम्पयाम् आस
सैन्येन महता तदा ॥ ह्व्_८५।२१ ॥
मूलम्
गजवाजिखरोष्ट्राणां
सहस्रैर् अयुतैर् अपि ।
पृथिवीं कम्पयाम् आस
सैन्येन महता तदा ॥ ह्व्_८५।२१ ॥
विश्वास-प्रस्तुतिः
रेणुना सूर्यमार्गं तु
समवच्छाद्य पार्थिवः ।
मूत्रेण शकृता चैव
सैन्येन ससृजे नदीम् ॥ ह्व्_८५।२२ ॥
मूलम्
रेणुना सूर्यमार्गं तु
समवच्छाद्य पार्थिवः ।
मूत्रेण शकृता चैव
सैन्येन ससृजे नदीम् ॥ ह्व्_८५।२२ ॥
विश्वास-प्रस्तुतिः
अश्वोष्ट्रशकृतो राशेर्
निःसृतेति जनाधिप ।
ततो ऽश्वशकृद् इत्येव
नाम नद्या बभूव ह ॥ ह्व्_८५।२३ ॥
मूलम्
अश्वोष्ट्रशकृतो राशेर्
निःसृतेति जनाधिप ।
ततो ऽश्वशकृद् इत्येव
नाम नद्या बभूव ह ॥ ह्व्_८५।२३ ॥
विश्वास-प्रस्तुतिः
तत् सैन्यं महद् आयाद् वै
श्रुत्वा वृष्ण्यन्धकाग्रणीः ।
वासुदेवः समानाय्य
ज्ञातीन् इदम् उवाच ह ॥ ह्व्_८५।२४ ॥
मूलम्
तत् सैन्यं महद् आयाद् वै
श्रुत्वा वृष्ण्यन्धकाग्रणीः ।
वासुदेवः समानाय्य
ज्ञातीन् इदम् उवाच ह ॥ ह्व्_८५।२४ ॥
विश्वास-प्रस्तुतिः
इदं समुत्थितं घोरं
वृष्ण्यन्धकभयं महत् ।
अवध्यश् चापि नः शत्रुर्
वरदानात् पिनाकिनः ॥ ह्व्_८५।२५ ॥
मूलम्
इदं समुत्थितं घोरं
वृष्ण्यन्धकभयं महत् ।
अवध्यश् चापि नः शत्रुर्
वरदानात् पिनाकिनः ॥ ह्व्_८५।२५ ॥
विश्वास-प्रस्तुतिः
सामादयो ऽभ्युपायाश् च
विहितास् तस्य सर्वशः ।
मत्तो मदबलाभ्यां च
युद्धम् एव चिकीर्षति ॥
मूलम्
सामादयो ऽभ्युपायाश् च
विहितास् तस्य सर्वशः ।
मत्तो मदबलाभ्यां च
युद्धम् एव चिकीर्षति ॥
विश्वास-प्रस्तुतिः
एतावान् इह वासश् च
कथितो नारदेन मे ॥ ह्व्_८५।२६ ॥
मूलम्
एतावान् इह वासश् च
कथितो नारदेन मे ॥ ह्व्_८५।२६ ॥
विश्वास-प्रस्तुतिः
([क्: Ñ२।३ व् ब् द्स् द्३।५।६ ग्२ ins. (द्न् after २७अब्): :क्])
एतावति च वक्तव्यं
सामैव परमं मतम् । ह्व्_८५।२६९६६ ।
जरासन्धश् च नो राजा
नित्यम् एव न मृष्यते ।
तथान्ये पृथिवीपाला
वृष्णिचक्रप्रतापिताः ॥ ह्व्_८५।२७ ॥
मूलम्
([क्: Ñ२।३ व् ब् द्स् द्३।५।६ ग्२ ins. (द्न् after २७अब्): :क्])
एतावति च वक्तव्यं
सामैव परमं मतम् । ह्व्_८५।२६९६६ ।
जरासन्धश् च नो राजा
नित्यम् एव न मृष्यते ।
तथान्ये पृथिवीपाला
वृष्णिचक्रप्रतापिताः ॥ ह्व्_८५।२७ ॥
विश्वास-प्रस्तुतिः
केचित् कंसवधाच् चापि
विरक्तास् तद्गता नृपाः ।
समाश्रित्य जरासन्धम्
अस्मान् इच्छन्ति बाधितुम् ॥ ह्व्_८५।२८ ॥
मूलम्
केचित् कंसवधाच् चापि
विरक्तास् तद्गता नृपाः ।
समाश्रित्य जरासन्धम्
अस्मान् इच्छन्ति बाधितुम् ॥ ह्व्_८५।२८ ॥
विश्वास-प्रस्तुतिः
बहवो ज्ञातयश् चैव
यदूनां निहता नृपैः ।
विवर्धितुं न शक्ष्यामः
पुरे ऽस्मिन्न् इति केशवः ॥
मूलम्
बहवो ज्ञातयश् चैव
यदूनां निहता नृपैः ।
विवर्धितुं न शक्ष्यामः
पुरे ऽस्मिन्न् इति केशवः ॥
विश्वास-प्रस्तुतिः
([क्: श्१ क्३।४ द्२ ins.: :क्])
ततो वृष्ण्यन्धकाः कृष्णं
पुरस्कृत्य महामतिम् । ह्व्_८५।२९cd९६७:१ ।
समेत्य मन्त्रयाम् आसुर्
जरासन्धभयेन च । ह्व्_८५।२९cd९६७:२ ।
कृत्वा च निश्चयं सर्वे
पलायनम् अरोचयन् ॥ ह्व्_८५।२९cd९६७:३ ।
मूलम्
([क्: श्१ क्३।४ द्२ ins.: :क्])
ततो वृष्ण्यन्धकाः कृष्णं
पुरस्कृत्य महामतिम् । ह्व्_८५।२९cd९६७:१ ।
समेत्य मन्त्रयाम् आसुर्
जरासन्धभयेन च । ह्व्_८५।२९cd९६७:२ ।
कृत्वा च निश्चयं सर्वे
पलायनम् अरोचयन् ॥ ह्व्_८५।२९cd९६७:३ ।
विश्वास-प्रस्तुतिः
विहाय मथुरां रम्यां
मानयन्तः पिनाकिनम् । ह्व्_८५।२९cd९६७:४ ।
कुशस्थलीं द्वारवतीं
निवेशयितुम् ईप्सवः । ह्व्_८५।२९cd९६७:५ ।
अपयाने मतिं कृत्वा
दूतं तस्मै ससर्ज ह ॥ ह्व्_८५।२९ ॥
मूलम्
विहाय मथुरां रम्यां
मानयन्तः पिनाकिनम् । ह्व्_८५।२९cd९६७:४ ।
कुशस्थलीं द्वारवतीं
निवेशयितुम् ईप्सवः । ह्व्_८५।२९cd९६७:५ ।
अपयाने मतिं कृत्वा
दूतं तस्मै ससर्ज ह ॥ ह्व्_८५।२९ ॥
विश्वास-प्रस्तुतिः
ततः कुम्भे महासर्पं
भिन्नाञ्जनचयोपमम् ।
घोरम् आशीविषं कृष्णं
कृष्णः प्राक्षेपयत् तदा ॥ ह्व्_८५।३० ॥
मूलम्
ततः कुम्भे महासर्पं
भिन्नाञ्जनचयोपमम् ।
घोरम् आशीविषं कृष्णं
कृष्णः प्राक्षेपयत् तदा ॥ ह्व्_८५।३० ॥
विश्वास-प्रस्तुतिः
ततस् तं मुद्रयित्वा तु
स्वेन दूतेन हारयत् ।
निदर्शनार्थं गोविन्दो
भीषयाणश् च तं नृपम् ॥
मूलम्
ततस् तं मुद्रयित्वा तु
स्वेन दूतेन हारयत् ।
निदर्शनार्थं गोविन्दो
भीषयाणश् च तं नृपम् ॥
विश्वास-प्रस्तुतिः
स दूतः कालयवनं
दर्शयाम् आस तं घटम् ॥ ह्व्_८५।३१ ॥
मूलम्
स दूतः कालयवनं
दर्शयाम् आस तं घटम् ॥ ह्व्_८५।३१ ॥
विश्वास-प्रस्तुतिः
([क्: त्१-३ ग्१।३-५ म् ins.: :क्])
इदं चोवाच राजानं
राज्ञां सम्सदि दूतकः । ह्व्_८५।३१९६८:१ ।
भो राजन्न् आह कृष्णस् त्वां
किम् एभिः शलभैस् तव । ह्व्_८५।३१९६८:२ ।
अहम् एकस् तवैतेषां
समर्थो वारणे प्रभुः ॥ ह्व्_८५।३१९६८:३ ।
मूलम्
([क्: त्१-३ ग्१।३-५ म् ins.: :क्])
इदं चोवाच राजानं
राज्ञां सम्सदि दूतकः । ह्व्_८५।३१९६८:१ ।
भो राजन्न् आह कृष्णस् त्वां
किम् एभिः शलभैस् तव । ह्व्_८५।३१९६८:२ ।
अहम् एकस् तवैतेषां
समर्थो वारणे प्रभुः ॥ ह्व्_८५।३१९६८:३ ।
विश्वास-प्रस्तुतिः
त्वां च हत्वा नृपश्रेष्ठ
सबलं ससुहृद्गणम् । ह्व्_८५।३१९६८:४ ।
इदं तव बलं राजन्
ग्रहीष्यामीति निश्चितम् ॥ ह्व्_८५।३१९६८:५ ।
मूलम्
त्वां च हत्वा नृपश्रेष्ठ
सबलं ससुहृद्गणम् । ह्व्_८५।३१९६८:४ ।
इदं तव बलं राजन्
ग्रहीष्यामीति निश्चितम् ॥ ह्व्_८५।३१९६८:५ ।
विश्वास-प्रस्तुतिः
अन्यथा गच्छ राजंस् त्वं
बलेनानेन संयुतः । ह्व्_८५।३१९६८:६ ।
इत्य् उक्त्वा दर्शयाम् आस
घटं कृष्णप्रचोदितम् । ह्व्_८५।३१९६८:७ ।
कालसर्पोपमः कृष्ण
इत्य् उक्त्वा भरतर्षभ ।
तत् कालयवनो बुध्वा
त्रासनं यादवैः कृतम् ॥
मूलम्
अन्यथा गच्छ राजंस् त्वं
बलेनानेन संयुतः । ह्व्_८५।३१९६८:६ ।
इत्य् उक्त्वा दर्शयाम् आस
घटं कृष्णप्रचोदितम् । ह्व्_८५।३१९६८:७ ।
कालसर्पोपमः कृष्ण
इत्य् उक्त्वा भरतर्षभ ।
तत् कालयवनो बुध्वा
त्रासनं यादवैः कृतम् ॥
विश्वास-प्रस्तुतिः
पिपीलिकानां चण्डानां
पूरयाम् आस तं घटम् ॥ ह्व्_८५।३२ ॥
मूलम्
पिपीलिकानां चण्डानां
पूरयाम् आस तं घटम् ॥ ह्व्_८५।३२ ॥
विश्वास-प्रस्तुतिः
([क्: द्स्१ (मर्ग्।) ins.: :क्])
श्लोकम् एकं लिखित्वा तु
घटमध्ये ऽक्षिपत् तदा । ह्व्_८५।३२९६९ ।
स सर्पो बहुभिस् तीक्ष्णैः
सर्वतस् तैः पिपीलिकैः ।
भक्ष्यमाणः किलाङ्गेषु
भस्मीभूतो ऽभवत् तदा ॥ ह्व्_८५।३३ ॥
मूलम्
([क्: द्स्१ (मर्ग्।) ins.: :क्])
श्लोकम् एकं लिखित्वा तु
घटमध्ये ऽक्षिपत् तदा । ह्व्_८५।३२९६९ ।
स सर्पो बहुभिस् तीक्ष्णैः
सर्वतस् तैः पिपीलिकैः ।
भक्ष्यमाणः किलाङ्गेषु
भस्मीभूतो ऽभवत् तदा ॥ ह्व्_८५।३३ ॥
विश्वास-प्रस्तुतिः
तं मुद्रयित्वाथ घटं
तथैव यवनाधिपः ।
प्रेषयाम् आस कृष्णाय
बाहुल्यम् उपवर्णयन् ॥ ह्व्_८५।३४ ॥
मूलम्
तं मुद्रयित्वाथ घटं
तथैव यवनाधिपः ।
प्रेषयाम् आस कृष्णाय
बाहुल्यम् उपवर्णयन् ॥ ह्व्_८५।३४ ॥
विश्वास-प्रस्तुतिः
([क्: द्स्१ (मर्ग्।) ins.: :क्])
दूतानीतं हरिर् दृष्ट्वा
पत्रं तद् वाचयंस् तदा । ह्व्_८५।३४९७०:१ ।
बहुभिर् न विरोद्धव्यं
दुर्जयो ऽपि महाजनः । ह्व्_८५।३४९७०:२ ।
स्फुरन् तम् अपि नागेन्द्रं
भक्षयिष्यन्ति कीटिकाः । ह्व्_८५।३४९७०:३ ।
वासुदेवस् तु तं दृष्ट्वा
योगं विहितम् आत्मनः ।
उत्सृज्य मथुराम् आशु
द्वारकाम् अभिजग्मिवान् ॥ ह्व्_८५।३५ ॥
मूलम्
([क्: द्स्१ (मर्ग्।) ins.: :क्])
दूतानीतं हरिर् दृष्ट्वा
पत्रं तद् वाचयंस् तदा । ह्व्_८५।३४९७०:१ ।
बहुभिर् न विरोद्धव्यं
दुर्जयो ऽपि महाजनः । ह्व्_८५।३४९७०:२ ।
स्फुरन् तम् अपि नागेन्द्रं
भक्षयिष्यन्ति कीटिकाः । ह्व्_८५।३४९७०:३ ।
वासुदेवस् तु तं दृष्ट्वा
योगं विहितम् आत्मनः ।
उत्सृज्य मथुराम् आशु
द्वारकाम् अभिजग्मिवान् ॥ ह्व्_८५।३५ ॥
विश्वास-प्रस्तुतिः
वैरस्यान्तं विधित्संस् तु
वासुदेवो महायशाः ।
निवेश्य द्वारकां राजन्
वृष्णीन् आश्वास्य चैव ह ॥ ह्व्_८५।३६ ॥
मूलम्
वैरस्यान्तं विधित्संस् तु
वासुदेवो महायशाः ।
निवेश्य द्वारकां राजन्
वृष्णीन् आश्वास्य चैव ह ॥ ह्व्_८५।३६ ॥
विश्वास-प्रस्तुतिः
पदातिः पुरुषव्याघ्रो
बाहुप्रहरणस् तदा ।
आजगाम महायोगी
मथुरां मधुसूदनः ॥ ह्व्_८५।३७ ॥
मूलम्
पदातिः पुरुषव्याघ्रो
बाहुप्रहरणस् तदा ।
आजगाम महायोगी
मथुरां मधुसूदनः ॥ ह्व्_८५।३७ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा निर्ययौ हृष्टः
स कालयवनो रुषा ।
प्रेक्षापूर्वं च कृष्णो ऽपि
निश्चक्राम महाबलः ॥ ह्व्_८५।३८ ॥
मूलम्
तं दृष्ट्वा निर्ययौ हृष्टः
स कालयवनो रुषा ।
प्रेक्षापूर्वं च कृष्णो ऽपि
निश्चक्राम महाबलः ॥ ह्व्_८५।३८ ॥
विश्वास-प्रस्तुतिः
अथान्वगच्छद् गोविन्दं
जिघृक्षुर् यवनेश्वरः ।
न चैनम् अशकद् राजा
ग्रहीतुं योगधर्मिणम् ॥ ह्व्_८५।३९ ॥
मूलम्
अथान्वगच्छद् गोविन्दं
जिघृक्षुर् यवनेश्वरः ।
न चैनम् अशकद् राजा
ग्रहीतुं योगधर्मिणम् ॥ ह्व्_८५।३९ ॥
विश्वास-प्रस्तुतिः
([क्: द्२ ins.: :क्])
हस्तप्राप्तम् इवात्मानं
हरिणा स पदे पदे । ह्व्_८५।३९९७१:१ ।
नीतो दर्शयता दूरं
यवनेशो ऽद्रिकन्दरम् ॥ ह्व्_८५।३९९७१:२ ।
मूलम्
([क्: द्२ ins.: :क्])
हस्तप्राप्तम् इवात्मानं
हरिणा स पदे पदे । ह्व्_८५।३९९७१:१ ।
नीतो दर्शयता दूरं
यवनेशो ऽद्रिकन्दरम् ॥ ह्व्_८५।३९९७१:२ ।
विश्वास-प्रस्तुतिः
{कालयवन उवाच}
पलायनं यदुकुले
जातस्य तव नोचितम् । ह्व्_८५।३९९७१:३ ।
इति क्षिपन्न् अनुगतो
नैनं प्रापाहताशुभः । ह्व्_८५।३९९७१:४ ।
एवं क्षिप्तो ऽपि भगवान्
प्राविशद् गिरिकन्दरम् । ह्व्_८५।३९९७१:५ ।
([क्: द्६ त् ग्१।३-५ म् ins.: :क्])
को हि नाम जगन्नाथं
बलाद् यातुं प्रियाद् ऋते । ह्व्_८५।३९९७२:१ ।
हस्तप्राप्त इवाभाति
तस्य गच्छञ् जनार्दनः । ह्व्_८५।३९९७२:२ ।
मान्धातुस् तु सुतो राजा
मुचुकुन्दो महायशाः ।
([क्: त्४ ins.: :क्])
यत्र तिष्ठति राजेन्द्रस्
तत्र चाशु विवेश वै । ह्व्_३५।४०अब्९७३ ।
पुरा देवासुरे युद्धे
कृतकर्मा महाबलः ॥ ह्व्_८५।४० ॥
मूलम्
{कालयवन उवाच}
पलायनं यदुकुले
जातस्य तव नोचितम् । ह्व्_८५।३९९७१:३ ।
इति क्षिपन्न् अनुगतो
नैनं प्रापाहताशुभः । ह्व्_८५।३९९७१:४ ।
एवं क्षिप्तो ऽपि भगवान्
प्राविशद् गिरिकन्दरम् । ह्व्_८५।३९९७१:५ ।
([क्: द्६ त् ग्१।३-५ म् ins.: :क्])
को हि नाम जगन्नाथं
बलाद् यातुं प्रियाद् ऋते । ह्व्_८५।३९९७२:१ ।
हस्तप्राप्त इवाभाति
तस्य गच्छञ् जनार्दनः । ह्व्_८५।३९९७२:२ ।
मान्धातुस् तु सुतो राजा
मुचुकुन्दो महायशाः ।
([क्: त्४ ins.: :क्])
यत्र तिष्ठति राजेन्द्रस्
तत्र चाशु विवेश वै । ह्व्_३५।४०अब्९७३ ।
पुरा देवासुरे युद्धे
कृतकर्मा महाबलः ॥ ह्व्_८५।४० ॥
विश्वास-प्रस्तुतिः
वरेण च्छन्दितो देवैर्
निद्राम् एव गृहीतवान् ।
श्रान्तस्य तस्य वाग् एवं
तदा प्रादुर् अभूत् किल ॥ ह्व्_८५।४१ ॥
मूलम्
वरेण च्छन्दितो देवैर्
निद्राम् एव गृहीतवान् ।
श्रान्तस्य तस्य वाग् एवं
तदा प्रादुर् अभूत् किल ॥ ह्व्_८५।४१ ॥
विश्वास-प्रस्तुतिः
प्रसुप्तम् बोधयेद् यो मां
तं दहेयम् अहं सुराः ।
चक्षुषा क्रोधदीप्तेन
एवम् आह पुनः पुनः ॥ ह्व्_८५।४२ ॥
मूलम्
प्रसुप्तम् बोधयेद् यो मां
तं दहेयम् अहं सुराः ।
चक्षुषा क्रोधदीप्तेन
एवम् आह पुनः पुनः ॥ ह्व्_८५।४२ ॥
विश्वास-प्रस्तुतिः
एवम् अस्त्व् इति शक्रस् तम्
उवाच त्रिदशैः सह ।
स सुरैर् अभ्यनुज्ञातो
लोकं मानुषम् आगमत् ॥ ह्व्_८५।४३ ॥
मूलम्
एवम् अस्त्व् इति शक्रस् तम्
उवाच त्रिदशैः सह ।
स सुरैर् अभ्यनुज्ञातो
लोकं मानुषम् आगमत् ॥ ह्व्_८५।४३ ॥
विश्वास-प्रस्तुतिः
स पर्वतगुहां काञ्चित्
प्रविश्य श्रमकर्शितः ।
सुष्वाप कालम् एतं वै
यावत् कृष्णस्य दर्शनम् ॥ ह्व्_८५।४४ ॥
मूलम्
स पर्वतगुहां काञ्चित्
प्रविश्य श्रमकर्शितः ।
सुष्वाप कालम् एतं वै
यावत् कृष्णस्य दर्शनम् ॥ ह्व्_८५।४४ ॥
विश्वास-प्रस्तुतिः
तत् सर्वं वासुदेवस्य
नारदेन निवेदितम् ।
वरदानं च देवेभ्यस्
तेजस् तस्य च भूपतेः ॥ ह्व्_८५।४५ ॥
मूलम्
तत् सर्वं वासुदेवस्य
नारदेन निवेदितम् ।
वरदानं च देवेभ्यस्
तेजस् तस्य च भूपतेः ॥ ह्व्_८५।४५ ॥
विश्वास-प्रस्तुतिः
अनुगम्यमानः कृष्णश् च
तेन म्लेच्छेन शत्रुणा ।
तां गुहां मुचुकुन्दस्य
प्रविवेश विनीतवत् ॥ ह्व्_८५।४६ ॥
मूलम्
अनुगम्यमानः कृष्णश् च
तेन म्लेच्छेन शत्रुणा ।
तां गुहां मुचुकुन्दस्य
प्रविवेश विनीतवत् ॥ ह्व्_८५।४६ ॥
विश्वास-प्रस्तुतिः
([क्: द्स्१ (मर्ग्।) ins.: :क्])
पीताम्बरेण स्वीयेन
तम् आच्छाद्य स भूपतिम् । ह्व्_८५।४६९७४ ।
शिरःस्थाने तु राजर्षेर्
मुचुकुन्दस्य केशवः ।
सन्दर्शनपथं त्यक्त्वा
तस्थौ बुद्धिमतां वरः ॥ ह्व्_८५।४७ ॥
मूलम्
([क्: द्स्१ (मर्ग्।) ins.: :क्])
पीताम्बरेण स्वीयेन
तम् आच्छाद्य स भूपतिम् । ह्व्_८५।४६९७४ ।
शिरःस्थाने तु राजर्षेर्
मुचुकुन्दस्य केशवः ।
सन्दर्शनपथं त्यक्त्वा
तस्थौ बुद्धिमतां वरः ॥ ह्व्_८५।४७ ॥
विश्वास-प्रस्तुतिः
अनुप्रविश्य यवनो
ददर्श पृथिवीपतिम् ।
प्रस्वपन्तं कृतान्ताभम्
आससाद सुदुर्मतिः ॥ ह्व्_८५।४८ ॥
मूलम्
अनुप्रविश्य यवनो
ददर्श पृथिवीपतिम् ।
प्रस्वपन्तं कृतान्ताभम्
आससाद सुदुर्मतिः ॥ ह्व्_८५।४८ ॥
विश्वास-प्रस्तुतिः
वासुदेवं तु तं मत्वा
घट्टयाम् आस पार्थिवम् ।
पादेनात्मविनाशाय
शलभः पावकं यथा ॥ ह्व्_८५।४९ ॥
मूलम्
वासुदेवं तु तं मत्वा
घट्टयाम् आस पार्थिवम् ।
पादेनात्मविनाशाय
शलभः पावकं यथा ॥ ह्व्_८५।४९ ॥
विश्वास-प्रस्तुतिः
मुचुकुन्दश् च राजर्षिः
पादस्पर्शविबोधितः ।
चुकोप निच्राच्छेदेन
पादस्पर्शेन तेन च ॥ ह्व्_८५।५० ॥
मूलम्
मुचुकुन्दश् च राजर्षिः
पादस्पर्शविबोधितः ।
चुकोप निच्राच्छेदेन
पादस्पर्शेन तेन च ॥ ह्व्_८५।५० ॥
विश्वास-प्रस्तुतिः
संस्मृत्य च वरं शक्राद्
अवैक्षत तमग्रतः ।
स दृष्टमात्रः क्रुद्धेन
सम्प्रजज्वाल सर्वतः ॥ ह्व्_८५।५१ ॥
मूलम्
संस्मृत्य च वरं शक्राद्
अवैक्षत तमग्रतः ।
स दृष्टमात्रः क्रुद्धेन
सम्प्रजज्वाल सर्वतः ॥ ह्व्_८५।५१ ॥
विश्वास-प्रस्तुतिः
ददाह पावकस् तं तु
शुष्कं वृक्षम् इवाशनिः ।
क्षणेन कालयवनं
नेत्रतेजोविनिर्गतः ॥ ह्व्_८५।५२ ॥
मूलम्
ददाह पावकस् तं तु
शुष्कं वृक्षम् इवाशनिः ।
क्षणेन कालयवनं
नेत्रतेजोविनिर्गतः ॥ ह्व्_८५।५२ ॥
विश्वास-प्रस्तुतिः
तं वासुदेवः श्रीमन्तं
चिरसुप्तं नराधिपम् ।
कृतकार्यो ऽब्रवीद् धीमान्
इदं वचनम् उत्तमम् ॥ ह्व्_८५।५३ ॥
मूलम्
तं वासुदेवः श्रीमन्तं
चिरसुप्तं नराधिपम् ।
कृतकार्यो ऽब्रवीद् धीमान्
इदं वचनम् उत्तमम् ॥ ह्व्_८५।५३ ॥
विश्वास-प्रस्तुतिः
राजंश् चिरप्रसुप्तो ऽसि
कथितो नारदेन मे ।
कृतं मे सुमहत् कार्यं
स्वस्ति ते ऽस्तु व्रजाम्य् अहम् ॥ ह्व्_८५।५४ ॥
मूलम्
राजंश् चिरप्रसुप्तो ऽसि
कथितो नारदेन मे ।
कृतं मे सुमहत् कार्यं
स्वस्ति ते ऽस्तु व्रजाम्य् अहम् ॥ ह्व्_८५।५४ ॥
विश्वास-प्रस्तुतिः
वासुदेवम् अथालक्श्य
राजा ह्रस्वं प्रमाणतः ।
परिवृत्तं युगं मेने
कालेन महता ततः ॥ ह्व्_८५।५५ ॥
मूलम्
वासुदेवम् अथालक्श्य
राजा ह्रस्वं प्रमाणतः ।
परिवृत्तं युगं मेने
कालेन महता ततः ॥ ह्व्_८५।५५ ॥
विश्वास-प्रस्तुतिः
([क्: द्२ ins.: :क्])
तम् आलोक्य घनश्यामं
पीतकौशेयवाससम् । ह्व्_८५।५५९७५:१ ।
श्रीवत्सवक्षसं भ्राजत्
कौस्तुभेन विराजितम् ॥ ह्व्_८५।५५९७५:२ ।
मूलम्
([क्: द्२ ins.: :क्])
तम् आलोक्य घनश्यामं
पीतकौशेयवाससम् । ह्व्_८५।५५९७५:१ ।
श्रीवत्सवक्षसं भ्राजत्
कौस्तुभेन विराजितम् ॥ ह्व्_८५।५५९७५:२ ।
विश्वास-प्रस्तुतिः
चतुर्भुजं रोचमानं
वैजयन्त्या च मालया । ह्व्_८५।५५९७५:३ ।
चारुप्रसन्नवदनं
स्फुरन् मकरकुण्डलम् ॥ ह्व्_८५।५५९७५:४ ।
मूलम्
चतुर्भुजं रोचमानं
वैजयन्त्या च मालया । ह्व्_८५।५५९७५:३ ।
चारुप्रसन्नवदनं
स्फुरन् मकरकुण्डलम् ॥ ह्व्_८५।५५९७५:४ ।
विश्वास-प्रस्तुतिः
प्रेक्षणीयं त्रिलोकेशं
सानुरागस्मितेक्षणम् । ह्व्_८५।५५९७५:५ ।
अपीच्यवयसं मत्त+
+मृगेन्द्रोदारविक्रमम् ॥ ह्व्_८५।५५९७५:६ ।
मूलम्
प्रेक्षणीयं त्रिलोकेशं
सानुरागस्मितेक्षणम् । ह्व्_८५।५५९७५:५ ।
अपीच्यवयसं मत्त+
+मृगेन्द्रोदारविक्रमम् ॥ ह्व्_८५।५५९७५:६ ।
विश्वास-प्रस्तुतिः
पर्यपृच्छन् महाबुद्धिस्
तेजसा तस्य धर्षितः । ह्व्_८५।५५९७५:७ ।
शङ्कितः शनकैः कृष्णं
दुर्धर्षम् इव तेजसा । ह्व्_८५।५५९७५:८ ।
उवाच राजा गोविन्दं
को भवान् किम् इहागतः ।
कश् च कालः प्रसुप्तस्य
यदि जानासि कथ्यताम् ॥ ह्व्_८५।५६ ॥
मूलम्
पर्यपृच्छन् महाबुद्धिस्
तेजसा तस्य धर्षितः । ह्व्_८५।५५९७५:७ ।
शङ्कितः शनकैः कृष्णं
दुर्धर्षम् इव तेजसा । ह्व्_८५।५५९७५:८ ।
उवाच राजा गोविन्दं
को भवान् किम् इहागतः ।
कश् च कालः प्रसुप्तस्य
यदि जानासि कथ्यताम् ॥ ह्व्_८५।५६ ॥
विश्वास-प्रस्तुतिः
([क्: द्२ ins.: :क्])
निःशङ्को गतभीः प्राप्तो
विपिने गिरिगह्वरे । ह्व्_८५।५६९७६:१ ।
पद्भ्यां पद्मपलाशाभ्यां
विचरस्य् उरुकण्टके ॥ ह्व्_८५।५६९७६:२ ।
मूलम्
([क्: द्२ ins.: :क्])
निःशङ्को गतभीः प्राप्तो
विपिने गिरिगह्वरे । ह्व्_८५।५६९७६:१ ।
पद्भ्यां पद्मपलाशाभ्यां
विचरस्य् उरुकण्टके ॥ ह्व्_८५।५६९७६:२ ।
विश्वास-प्रस्तुतिः
किं स्वित् तेजस्विनां तेजो
भगवांस् त्वं विभावसुः । ह्व्_८५।५६९७६:३ ।
सूर्यः सोमो महेन्द्रो वा
लोकपालो ऽपरो ऽपि वा ॥ ह्व्_८५।५६९७६:४ ।
मूलम्
किं स्वित् तेजस्विनां तेजो
भगवांस् त्वं विभावसुः । ह्व्_८५।५६९७६:३ ।
सूर्यः सोमो महेन्द्रो वा
लोकपालो ऽपरो ऽपि वा ॥ ह्व्_८५।५६९७६:४ ।
विश्वास-प्रस्तुतिः
मन्ये त्वां देवदेवानां
त्रयाणां पुरुषर्षभम् । ह्व्_८५।५६९७६:५ ।
यद् बाधसे गुहाध्वान्तं
प्रदीपः प्रभया यथा ॥ ह्व्_८५।५६९७६:६ ।
मूलम्
मन्ये त्वां देवदेवानां
त्रयाणां पुरुषर्षभम् । ह्व्_८५।५६९७६:५ ।
यद् बाधसे गुहाध्वान्तं
प्रदीपः प्रभया यथा ॥ ह्व्_८५।५६९७६:६ ।
विश्वास-प्रस्तुतिः
{वासुदेव उवाच}
सोमवंशोद्भवो राजा
ययातिर् नाम नाहुषः ।
तस्य पुत्रो यदुर् ज्येष्ठश्
चत्वारो ऽन्ये यवीयसः ॥ ह्व्_८५।५७ ॥
मूलम्
{वासुदेव उवाच}
सोमवंशोद्भवो राजा
ययातिर् नाम नाहुषः ।
तस्य पुत्रो यदुर् ज्येष्ठश्
चत्वारो ऽन्ये यवीयसः ॥ ह्व्_८५।५७ ॥
विश्वास-प्रस्तुतिः
यदुवंशे समुत्पन्नं
वसुदेवात्मजं विभो ।
वासुदेवं विजानीहि
नृपते माम् इहागतम् ॥ ह्व्_८५।५८ ॥
मूलम्
यदुवंशे समुत्पन्नं
वसुदेवात्मजं विभो ।
वासुदेवं विजानीहि
नृपते माम् इहागतम् ॥ ह्व्_८५।५८ ॥
विश्वास-प्रस्तुतिः
त्रेतायुगे समुत्पन्नो
विदितो मे ऽसि नारदात् ।
इदं कलियुगं विद्धि
किम् अन्यत् करवाणि ते ॥ ह्व्_८५।५९ ॥
मूलम्
त्रेतायुगे समुत्पन्नो
विदितो मे ऽसि नारदात् ।
इदं कलियुगं विद्धि
किम् अन्यत् करवाणि ते ॥ ह्व्_८५।५९ ॥
विश्वास-प्रस्तुतिः
मम शत्रुस् त्वया दग्धो
देवदत्तवरो नृप ।
अवध्यो यो मया सङ्ख्ये
भवेद् वर्षशतैर् अपि ॥ ह्व्_८५।६० ॥
मूलम्
मम शत्रुस् त्वया दग्धो
देवदत्तवरो नृप ।
अवध्यो यो मया सङ्ख्ये
भवेद् वर्षशतैर् अपि ॥ ह्व्_८५।६० ॥
विश्वास-प्रस्तुतिः
([क्: द्स्२ ins.: :क्])
{मुचुकुन्द उवाच}
यदुवंशोद्भवं देवं
जानामि शाश्वतं विभुम् । ह्व्_८५।६०९७७:१ ।
आद्यं पुरुषम् ईशानम्
अच्युतं मधुसूदनम् ॥ ह्व्_८५।६०९७७:२ ।
मूलम्
([क्: द्स्२ ins.: :क्])
{मुचुकुन्द उवाच}
यदुवंशोद्भवं देवं
जानामि शाश्वतं विभुम् । ह्व्_८५।६०९७७:१ ।
आद्यं पुरुषम् ईशानम्
अच्युतं मधुसूदनम् ॥ ह्व्_८५।६०९७७:२ ।
विश्वास-प्रस्तुतिः
पुरा गर्गेण कथितम्
अष्टाविंशतिमे युगे । ह्व्_८५।६०९७७:३ ।
द्वापरादौ हरेर् जन्म
यदुवंशे भविष्यति ॥ ह्व्_८५।६०९७७:४ ।
मूलम्
पुरा गर्गेण कथितम्
अष्टाविंशतिमे युगे । ह्व्_८५।६०९७७:३ ।
द्वापरादौ हरेर् जन्म
यदुवंशे भविष्यति ॥ ह्व्_८५।६०९७७:४ ।
विश्वास-प्रस्तुतिः
नमस् तस्मै भगवते
पुरुषाय महात्मने । ह्व्_८५।६०९७७:५ ।
अनन्ताय महाबाहो
विष्णवे प्रभविष्णवे ॥ ह्व्_८५।६०९७७:६ ।
मूलम्
नमस् तस्मै भगवते
पुरुषाय महात्मने । ह्व्_८५।६०९७७:५ ।
अनन्ताय महाबाहो
विष्णवे प्रभविष्णवे ॥ ह्व्_८५।६०९७७:६ ।
विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
एवं स्तुतस् तदा विष्णुर्
मुचुकुन्देन धीमता । ह्व्_८५।६०९७७:७ ।
वरेण च्छन्दयाम् आस
भगवान् अच्युतस् तदा ॥ ह्व्_८५।६०९७७:८ ।
मूलम्
{वैशम्पायन उवाच}
एवं स्तुतस् तदा विष्णुर्
मुचुकुन्देन धीमता । ह्व्_८५।६०९७७:७ ।
वरेण च्छन्दयाम् आस
भगवान् अच्युतस् तदा ॥ ह्व्_८५।६०९७७:८ ।
विश्वास-प्रस्तुतिः
पुनर् अप्य् अब्रवीत् कृष्णो
मुचुकुन्दं महाभुजम् । ह्व्_८५।६०९७७:९ ।
त्वदर्थे ऽप्य् आगतो वीर
नारदेन प्रबोधितः । ह्व्_८५।६०९७७:१० ।
उत्तिष्ठोत्तिष्ठ भद्रं ते
यथाकामं चरत्व् इह । ह्व्_८५।६०९७७:११ ।
इत्युक्तः स तु कृष्णेन
निर्जगाम गुहामुखात् ।
([क्: कृष्जेन चोर्रेच्तेद् :क्])
अन्वीयमानः कृष्णेन
कृतकार्येण धीमता ॥ ह्व्_८५।६१ ॥
मूलम्
पुनर् अप्य् अब्रवीत् कृष्णो
मुचुकुन्दं महाभुजम् । ह्व्_८५।६०९७७:९ ।
त्वदर्थे ऽप्य् आगतो वीर
नारदेन प्रबोधितः । ह्व्_८५।६०९७७:१० ।
उत्तिष्ठोत्तिष्ठ भद्रं ते
यथाकामं चरत्व् इह । ह्व्_८५।६०९७७:११ ।
इत्युक्तः स तु कृष्णेन
निर्जगाम गुहामुखात् ।
([क्: कृष्जेन चोर्रेच्तेद् :क्])
अन्वीयमानः कृष्णेन
कृतकार्येण धीमता ॥ ह्व्_८५।६१ ॥
विश्वास-प्रस्तुतिः
ततो ददर्श पृथिवीम्
आवृतां ह्रस्वकैर् नरैः ।
अल्पोत्साहैर् अल्पबलैर्
अल्पवीर्यपराक्रमैः ॥
मूलम्
ततो ददर्श पृथिवीम्
आवृतां ह्रस्वकैर् नरैः ।
अल्पोत्साहैर् अल्पबलैर्
अल्पवीर्यपराक्रमैः ॥
विश्वास-प्रस्तुतिः
परेणाधिष्ठितं चैव
राज्यं केवलम् आत्मनः ॥ ह्व्_८५।६२ ॥
मूलम्
परेणाधिष्ठितं चैव
राज्यं केवलम् आत्मनः ॥ ह्व्_८५।६२ ॥
विश्वास-प्रस्तुतिः
([क्: द्स् ins.: :क्])
यत् स्यात् त्वद्दर्शने पुण्यं
तन् मे कृष्ण भवेद् इति । ह्व्_८५।६२९७८ ।
विसर्जयित्वा गोविन्दं
प्रविवेश महद् वनम् ।
हिमवन्तम् अगाद् राजा
तपसे धृतमानसः ॥ ह्व्_८५।६३ ॥
मूलम्
([क्: द्स् ins.: :क्])
यत् स्यात् त्वद्दर्शने पुण्यं
तन् मे कृष्ण भवेद् इति । ह्व्_८५।६२९७८ ।
विसर्जयित्वा गोविन्दं
प्रविवेश महद् वनम् ।
हिमवन्तम् अगाद् राजा
तपसे धृतमानसः ॥ ह्व्_८५।६३ ॥
विश्वास-प्रस्तुतिः
ततः स तप आस्थाय
विनिर्मुच्य कलेवरम् ।
आरुरोह दिवं राजा
कर्मभिः स्वैर् जितं शुभैः ॥ ह्व्_८५।६४ ॥
मूलम्
ततः स तप आस्थाय
विनिर्मुच्य कलेवरम् ।
आरुरोह दिवं राजा
कर्मभिः स्वैर् जितं शुभैः ॥ ह्व्_८५।६४ ॥
विश्वास-प्रस्तुतिः
वासुदेवो ऽपि धर्मात्मा
उपायेन महामनाः ।
घातयित्वात्मनः शत्रुं
तत् सैन्यं प्रत्यपद्यत ॥ ह्व्_८५।६५ ॥
मूलम्
वासुदेवो ऽपि धर्मात्मा
उपायेन महामनाः ।
घातयित्वात्मनः शत्रुं
तत् सैन्यं प्रत्यपद्यत ॥ ह्व्_८५।६५ ॥
विश्वास-प्रस्तुतिः
([क्: द्स्१ (मर्ग्।) ins.: :क्])
मुचुकुन्देन महात्मना । ह्व्_८५।६५अब्च्९७९:१ ।*
मथुरां पुनरागत्य । ह्व्_८५।६५अब्च्९७९:२ ।*
प्रभूतरथहस्त्यश्व+
+वर्मशस्त्रायुधध्वजम् ।
आदायोपययौ धीमांस्
तत् सैन्यं निहतेश्वरम् ॥ ह्व्_८५।६६ ॥
मूलम्
([क्: द्स्१ (मर्ग्।) ins.: :क्])
मुचुकुन्देन महात्मना । ह्व्_८५।६५अब्च्९७९:१ ।*
मथुरां पुनरागत्य । ह्व्_८५।६५अब्च्९७९:२ ।*
प्रभूतरथहस्त्यश्व+
+वर्मशस्त्रायुधध्वजम् ।
आदायोपययौ धीमांस्
तत् सैन्यं निहतेश्वरम् ॥ ह्व्_८५।६६ ॥
विश्वास-प्रस्तुतिः
निवेदयाम् आस ततो नराधिपे
तद् उग्रसेने प्रतिपूर्णमानसः ।
जनार्दनो द्वारवतीं च तां पुरीम्
अशोभयत् तेन धनेन भूरिणा ॥ ह्व्_८५।६७ ॥
मूलम्
निवेदयाम् आस ततो नराधिपे
तद् उग्रसेने प्रतिपूर्णमानसः ।
जनार्दनो द्वारवतीं च तां पुरीम्
अशोभयत् तेन धनेन भूरिणा ॥ ह्व्_८५।६७ ॥