विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
एतस्मिन्न् एव काले तु
स्मृत्वा गोपेषु यत्कृतम् ।
जगामैको व्रजं रामः
कृष्णस्यानुमते स्वयम् ॥ ह्व्_८३।१ ॥
मूलम्
{वैशम्पायन उवाच}
एतस्मिन्न् एव काले तु
स्मृत्वा गोपेषु यत्कृतम् ।
जगामैको व्रजं रामः
कृष्णस्यानुमते स्वयम् ॥ ह्व्_८३।१ ॥
विश्वास-प्रस्तुतिः
स तत्र गत्वा रम्याणि
ददर्श विपुलानि वै ।
भुक्तपूर्वाण्य् अरण्यानि
सरांसि सुरभीणि च ॥ ह्व्_८३।२ ॥
मूलम्
स तत्र गत्वा रम्याणि
ददर्श विपुलानि वै ।
भुक्तपूर्वाण्य् अरण्यानि
सरांसि सुरभीणि च ॥ ह्व्_८३।२ ॥
विश्वास-प्रस्तुतिः
स प्रविष्टः प्रवेगेन
तं व्रजं कृष्णपूर्वजः ।
वन्येन रमणीयेन
वेषेणालङ्कृतः प्रभुः ॥ ह्व्_८३।३ ॥
मूलम्
स प्रविष्टः प्रवेगेन
तं व्रजं कृष्णपूर्वजः ।
वन्येन रमणीयेन
वेषेणालङ्कृतः प्रभुः ॥ ह्व्_८३।३ ॥
विश्वास-प्रस्तुतिः
स तान् सर्वान् आबभाषे
यथापूर्वं यथाविधि ।
गोपंस् तेनैव विधिना
यथान्यायं यथावयः ॥ ह्व्_८३।४ ॥
मूलम्
स तान् सर्वान् आबभाषे
यथापूर्वं यथाविधि ।
गोपंस् तेनैव विधिना
यथान्यायं यथावयः ॥ ह्व्_८३।४ ॥
विश्वास-प्रस्तुतिः
तथैव प्राह तान् सर्वांस्
तथैव परिहर्षयन् ।
तथैव सह गोपीभी
रोचयन् मधुराः कथाः ॥ ह्व्_८३।५ ॥
मूलम्
तथैव प्राह तान् सर्वांस्
तथैव परिहर्षयन् ।
तथैव सह गोपीभी
रोचयन् मधुराः कथाः ॥ ह्व्_८३।५ ॥
विश्वास-प्रस्तुतिः
तम् ऊचुः स्थविरा गोपाः
प्रियं मधुरभाषिणः ।
रामं रमयतां श्रेष्ठं
प्रवासात् पुनरागतम् ॥ ह्व्_८३।६ ॥
मूलम्
तम् ऊचुः स्थविरा गोपाः
प्रियं मधुरभाषिणः ।
रामं रमयतां श्रेष्ठं
प्रवासात् पुनरागतम् ॥ ह्व्_८३।६ ॥
विश्वास-प्रस्तुतिः
स्वागतं ते महाबाहो
यदूनां कुलनन्दन ।
([क्: व्२ ins.: :क्])
जीवितस्य फलं प्राप्तम्
अद्य ते दर्शनेन च । ह्व्_८३।७अब्९४६ ।
अद्य स्मो निर्वृतास् तात
यत् त्वां पश्याम निर्वृतम् ॥ ह्व्_८३।७ ॥
मूलम्
स्वागतं ते महाबाहो
यदूनां कुलनन्दन ।
([क्: व्२ ins.: :क्])
जीवितस्य फलं प्राप्तम्
अद्य ते दर्शनेन च । ह्व्_८३।७अब्९४६ ।
अद्य स्मो निर्वृतास् तात
यत् त्वां पश्याम निर्वृतम् ॥ ह्व्_८३।७ ॥
विश्वास-प्रस्तुतिः
प्रीताश् चैव वयं वीर
यत् त्वं पुनर् इहागतः ।
विख्यातस् त्रिषु लोकेषु
रामः शत्रुभयङ्करः ॥ ह्व्_८३।८ ॥
मूलम्
प्रीताश् चैव वयं वीर
यत् त्वं पुनर् इहागतः ।
विख्यातस् त्रिषु लोकेषु
रामः शत्रुभयङ्करः ॥ ह्व्_८३।८ ॥
विश्वास-प्रस्तुतिः
([क्: व्२ ins.: :क्])
यादवाश् च बलोदग्राः
सर्वे सङ्ग्रामलालसाः । ह्व्_८३।८९४७:१ ।
तिष्ठन्ति नृपशार्दूला
ह्य् अप्रमत्ता महाबलाः । ह्व्_८३।८९४७:२ ।
([क्: ब्२ इन्सेर्त्स् *९४७ after the फ़िर्स्त् ओच्चुर्रेन्चे of ९अब् :क्])
वर्धनीया वयं नूनं
त्वया यादवनन्दन ।
अथ वा प्राणिनस् तात
रमन्ते जन्मभूमिषु ॥ ह्व्_८३।९ ॥
मूलम्
([क्: व्२ ins.: :क्])
यादवाश् च बलोदग्राः
सर्वे सङ्ग्रामलालसाः । ह्व्_८३।८९४७:१ ।
तिष्ठन्ति नृपशार्दूला
ह्य् अप्रमत्ता महाबलाः । ह्व्_८३।८९४७:२ ।
([क्: ब्२ इन्सेर्त्स् *९४७ after the फ़िर्स्त् ओच्चुर्रेन्चे of ९अब् :क्])
वर्धनीया वयं नूनं
त्वया यादवनन्दन ।
अथ वा प्राणिनस् तात
रमन्ते जन्मभूमिषु ॥ ह्व्_८३।९ ॥
विश्वास-प्रस्तुतिः
त्रिदशानां वयं मान्या
ध्रुवम् अद्यामलानन ।
ये स्म दृष्टास् त्वया तात
काङ्क्षमाणास् तवागमम् ॥ ह्व्_८३।१० ॥
मूलम्
त्रिदशानां वयं मान्या
ध्रुवम् अद्यामलानन ।
ये स्म दृष्टास् त्वया तात
काङ्क्षमाणास् तवागमम् ॥ ह्व्_८३।१० ॥
विश्वास-प्रस्तुतिः
दिष्ट्या ते निहता मल्लाः
कंसश् च विनिपातितः ।
उग्रसेनो ऽभिषिक्तश् च
माहात्म्येनानुजेन वै ॥ ह्व्_८३।११ ॥
मूलम्
दिष्ट्या ते निहता मल्लाः
कंसश् च विनिपातितः ।
उग्रसेनो ऽभिषिक्तश् च
माहात्म्येनानुजेन वै ॥ ह्व्_८३।११ ॥
विश्वास-प्रस्तुतिः
([क्: क्३ व्२ द्न् द्१ (मर्ग्।) त्२ ग्२ म्४ चोन्त्।: क्१।२।४ Ñ२।३ व्१।३ ब् द्स् द्१ (ओरिग्।)। २-६ त्३।४ ग्१ (मर्ग्।)। ४।५ ins.: :क्])
गोमन्ते च श्रुतो ऽस्माभिः
क्षत्रियैः सह विग्रहः । ह्व्_८३।१२अब्९४९:१ ।
दरदस्य वधश् चैव
जरासन्धे च या मतिः । ह्व्_८३।१२अब्९४९:२ ।
([क्: त्१ ग्३ म्१-३ ins. *९४९ after ११ :क्])
तच् चायुधावतरणं
श्रुतं नः परमाहवे ॥ ह्व्_८३।१२ ॥
मूलम्
([क्: क्३ व्२ द्न् द्१ (मर्ग्।) त्२ ग्२ म्४ चोन्त्।: क्१।२।४ Ñ२।३ व्१।३ ब् द्स् द्१ (ओरिग्।)। २-६ त्३।४ ग्१ (मर्ग्।)। ४।५ ins.: :क्])
गोमन्ते च श्रुतो ऽस्माभिः
क्षत्रियैः सह विग्रहः । ह्व्_८३।१२अब्९४९:१ ।
दरदस्य वधश् चैव
जरासन्धे च या मतिः । ह्व्_८३।१२अब्९४९:२ ।
([क्: त्१ ग्३ म्१-३ ins. *९४९ after ११ :क्])
तच् चायुधावतरणं
श्रुतं नः परमाहवे ॥ ह्व्_८३।१२ ॥
([क्: क्२ Ñ२।३ व्१।३ ब्१।२ द्२।५ (मर्ग्।) ग्२ चोन्त्।: :क्])
तत्सुतस्याभिषेकश् च
नागराणां च सान्त्वनम् । ह्व्_८३।१२९५१ ।
([क्: व्२ द्स् द्६ चोन्त्। after ९५०*: :क्])
तत्पत्नीनां प्रलापश् च
शक्रदेवाभिषेचनम् । ह्व्_८३।१२९५२ ।
विश्वास-प्रस्तुतिः
([क्: व्२ चोन्त्।: Ñ२ व्३ चोन्त्। after *९५१: :क्])
मथुरायावरोधश् च
जरासन्धेन धीमता । ह्व्_८३।१२९५३:१ ।
युद्धं सर्वैर् नरेन्द्रैश् च
यादवानां महात्मनाम् । ह्व्_८३।१२९५३:२ ।
मथुरायां प्रवेशश् च
कीर्तनीयः सुरैर् अपि ।
प्रतिष्ठिता च वसुधा
शङ्किताः सर्वपार्थिवाः ॥ ह्व्_८३।१३ ॥
मूलम्
([क्: व्२ चोन्त्।: Ñ२ व्३ चोन्त्। after *९५१: :क्])
मथुरायावरोधश् च
जरासन्धेन धीमता । ह्व्_८३।१२९५३:१ ।
युद्धं सर्वैर् नरेन्द्रैश् च
यादवानां महात्मनाम् । ह्व्_८३।१२९५३:२ ।
मथुरायां प्रवेशश् च
कीर्तनीयः सुरैर् अपि ।
प्रतिष्ठिता च वसुधा
शङ्किताः सर्वपार्थिवाः ॥ ह्व्_८३।१३ ॥
विश्वास-प्रस्तुतिः
तव चागमनं दृष्ट्वा
सभाग्याः स्म यथा पुरा ।
तेन स्म परितुष्टाश् च
हृषिताश् च सबान्धवाः ॥ ह्व्_८३।१४ ॥
मूलम्
तव चागमनं दृष्ट्वा
सभाग्याः स्म यथा पुरा ।
तेन स्म परितुष्टाश् च
हृषिताश् च सबान्धवाः ॥ ह्व्_८३।१४ ॥
विश्वास-प्रस्तुतिः
प्रत्युवाच ततो रामः
सर्वांस् तान् अभितः स्थितान् ।
यादवेष्व् अपि सर्वेषु
भवन्तो मम बान्धवाः ॥ ह्व्_८३।१५ ॥
मूलम्
प्रत्युवाच ततो रामः
सर्वांस् तान् अभितः स्थितान् ।
यादवेष्व् अपि सर्वेषु
भवन्तो मम बान्धवाः ॥ ह्व्_८३।१५ ॥
विश्वास-प्रस्तुतिः
सहास्माभिर् गतं बाल्यं
सहास्माभी रतं वने ।
भवद्भिर् वर्धिताश् चैव
कथं यास्याम विक्रियाम् ॥ ह्व्_८३।१६ ॥
मूलम्
सहास्माभिर् गतं बाल्यं
सहास्माभी रतं वने ।
भवद्भिर् वर्धिताश् चैव
कथं यास्याम विक्रियाम् ॥ ह्व्_८३।१६ ॥
विश्वास-प्रस्तुतिः
गृहेषु भवतां भुक्तं
गावश् च परिरक्षिताः ।
अस्माकं बान्धवाः सर्वे
भवन्तो बद्धसौहृदाः ॥ ह्व्_८३।१७ ॥
मूलम्
गृहेषु भवतां भुक्तं
गावश् च परिरक्षिताः ।
अस्माकं बान्धवाः सर्वे
भवन्तो बद्धसौहृदाः ॥ ह्व्_८३।१७ ॥
विश्वास-प्रस्तुतिः
एवं भुवति सत्त्वं वै
गोपमध्ये हलायुधे ।
संहृष्टवदनास् तत्र
बभूवुर् गोपयोषितः ॥
मूलम्
एवं भुवति सत्त्वं वै
गोपमध्ये हलायुधे ।
संहृष्टवदनास् तत्र
बभूवुर् गोपयोषितः ॥
विश्वास-प्रस्तुतिः
([क्: Ñ२ ins.: :क्])
एवं बहुविधालापं
कृत्वा गोपैस् तु लाङ्गली । ह्व्_८३।१८cd९५४:१ ।
जगाम यमुनातीरं
पश्यन् वृन्दावनं मुदा । ह्व्_८३।१८cd९५४:२ ।
ततो वनान्तरगतो
रेमे रामो महाबलः ॥ ह्व्_८३।१८ ॥
मूलम्
([क्: Ñ२ ins.: :क्])
एवं बहुविधालापं
कृत्वा गोपैस् तु लाङ्गली । ह्व्_८३।१८cd९५४:१ ।
जगाम यमुनातीरं
पश्यन् वृन्दावनं मुदा । ह्व्_८३।१८cd९५४:२ ।
ततो वनान्तरगतो
रेमे रामो महाबलः ॥ ह्व्_८३।१८ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्न् अन्तरे गोपा
रामाय विदितात्मने ।
गोपालैर् देशकालज्ञैर्
उपानीयत वारुणी ॥ ह्व्_८३।१९ ॥
मूलम्
एतस्मिन्न् अन्तरे गोपा
रामाय विदितात्मने ।
गोपालैर् देशकालज्ञैर्
उपानीयत वारुणी ॥ ह्व्_८३।१९ ॥
विश्वास-प्रस्तुतिः
सो ऽपिबत् पाण्डुराभ्राभस्
तत्कालं ज्ञातिभिर् वृतः ।
वनान्तरगतो रामः
पानं मदसमीरणम् ॥ ह्व्_८३।२० ॥
मूलम्
सो ऽपिबत् पाण्डुराभ्राभस्
तत्कालं ज्ञातिभिर् वृतः ।
वनान्तरगतो रामः
पानं मदसमीरणम् ॥ ह्व्_८३।२० ॥
विश्वास-प्रस्तुतिः
उपजह्रुस् ततस् तस्मै
वन्यानि विविधानि च ।
प्रत्यग्ररमणीयानि
पुष्पाणि च फलानि च ॥ ह्व्_८३।२१ ॥
मूलम्
उपजह्रुस् ततस् तस्मै
वन्यानि विविधानि च ।
प्रत्यग्ररमणीयानि
पुष्पाणि च फलानि च ॥ ह्व्_८३।२१ ॥
विश्वास-प्रस्तुतिः
मेध्यांश् च विविधान् भक्षान्
गन्धांश् च हृदयं गमान् ।
सद्योद्धृतावमुक्तं च
प्रभूतं कमलोत्पलम् ॥ ह्व्_८३।२२ ॥
मूलम्
मेध्यांश् च विविधान् भक्षान्
गन्धांश् च हृदयं गमान् ।
सद्योद्धृतावमुक्तं च
प्रभूतं कमलोत्पलम् ॥ ह्व्_८३।२२ ॥
विश्वास-प्रस्तुतिः
शिरसा चारुकेशेन
किञ्चिद् आवृत्तमौलिना ।
श्रवणैकावलम्बेन
कुण्डलेन विराजता ॥ ह्व्_८३।२३ ॥
मूलम्
शिरसा चारुकेशेन
किञ्चिद् आवृत्तमौलिना ।
श्रवणैकावलम्बेन
कुण्डलेन विराजता ॥ ह्व्_८३।२३ ॥
विश्वास-प्रस्तुतिः
चन्दनागरुशीतेन
वनमालावलम्बिना ।
विबभाव् उरसा रामः
कैलासेनेव मन्दरः ॥ ह्व्_८३।२४ ॥
मूलम्
चन्दनागरुशीतेन
वनमालावलम्बिना ।
विबभाव् उरसा रामः
कैलासेनेव मन्दरः ॥ ह्व्_८३।२४ ॥
विश्वास-प्रस्तुतिः
नीले वसानो वसने
प्रत्यग्रजलदप्रभे ।
रराज वपुषा शुभ्रः
शशीव घनमालया ॥ ह्व्_८३।२५ ॥
मूलम्
नीले वसानो वसने
प्रत्यग्रजलदप्रभे ।
रराज वपुषा शुभ्रः
शशीव घनमालया ॥ ह्व्_८३।२५ ॥
विश्वास-प्रस्तुतिः
लाङ्गलेनावसक्तेन
भुजगाभोगवर्तिना ।
तथा भुजाग्रश्लिष्टेन
मुसलेन च भास्वता ॥ ह्व्_८३।२६ ॥
मूलम्
लाङ्गलेनावसक्तेन
भुजगाभोगवर्तिना ।
तथा भुजाग्रश्लिष्टेन
मुसलेन च भास्वता ॥ ह्व्_८३।२६ ॥
विश्वास-प्रस्तुतिः
स मत्तो बलिनां श्रेष्ठो
रराजाघूर्णिताननः ।
शैशिरीष्व् इव रात्रीषु
यथा खेदालसः शशी ॥ ह्व्_८३।२७ ॥
मूलम्
स मत्तो बलिनां श्रेष्ठो
रराजाघूर्णिताननः ।
शैशिरीष्व् इव रात्रीषु
यथा खेदालसः शशी ॥ ह्व्_८३।२७ ॥
विश्वास-प्रस्तुतिः
स मत्तो यमुनाम् आह
स्नातुम् इच्छे महानदि ।
इहैव माभिगच्छस्व
रूपिणी सागरङ्गमे ॥ ह्व्_८३।२८ ॥
मूलम्
स मत्तो यमुनाम् आह
स्नातुम् इच्छे महानदि ।
इहैव माभिगच्छस्व
रूपिणी सागरङ्गमे ॥ ह्व्_८३।२८ ॥
विश्वास-प्रस्तुतिः
सङ्कर्षणस्य मत्तोक्तां
भारतीं परिभूय सा ।
नाभ्यवर्तत तं देशं
स्त्रीस्वभावेन मोहिता ॥ ह्व्_८३।२९ ॥
मूलम्
सङ्कर्षणस्य मत्तोक्तां
भारतीं परिभूय सा ।
नाभ्यवर्तत तं देशं
स्त्रीस्वभावेन मोहिता ॥ ह्व्_८३।२९ ॥
विश्वास-प्रस्तुतिः
ततश् चुक्रोध बलवान्
रामो मदसमीरितः ।
चकार च हलं हस्ते
कर्षणाधोमुखं बली ॥ ह्व्_८३।३० ॥
मूलम्
ततश् चुक्रोध बलवान्
रामो मदसमीरितः ।
चकार च हलं हस्ते
कर्षणाधोमुखं बली ॥ ह्व्_८३।३० ॥
विश्वास-प्रस्तुतिः
तस्यां तु पानमेदिन्यां
पेतुस् तामरसस्रजः ।
मुमुचुः पुष्पकोशैश् च
स्वं रजोरञ्जितं जलम् ॥ ह्व्_८३।३१ ॥
मूलम्
तस्यां तु पानमेदिन्यां
पेतुस् तामरसस्रजः ।
मुमुचुः पुष्पकोशैश् च
स्वं रजोरञ्जितं जलम् ॥ ह्व्_८३।३१ ॥
विश्वास-प्रस्तुतिः
स हलेनानन्ताग्रेण
तीरे गृह्य महानदीम् ।
चकर्ष यमुनां रामो
व्युत्थितां वनिताम् इव ॥ ह्व्_८३।३२ ॥
मूलम्
स हलेनानन्ताग्रेण
तीरे गृह्य महानदीम् ।
चकर्ष यमुनां रामो
व्युत्थितां वनिताम् इव ॥ ह्व्_८३।३२ ॥
विश्वास-प्रस्तुतिः
सा विह्वलजलस्रोता
ह्रदप्रस्थितसञ्चया ।
व्यावर्तत नदी भीता
हलमार्गानुसारिणी ॥ ह्व्_८३।३३ ॥
मूलम्
सा विह्वलजलस्रोता
ह्रदप्रस्थितसञ्चया ।
व्यावर्तत नदी भीता
हलमार्गानुसारिणी ॥ ह्व्_८३।३३ ॥
विश्वास-प्रस्तुतिः
लाङ्गलाकृष्टमार्गा सा
वेगवक्रानुगामिनी ।
सङ्कर्षणभयत्रस्ता
योषेवाकुलतां गता ॥ ह्व्_८३।३४ ॥
मूलम्
लाङ्गलाकृष्टमार्गा सा
वेगवक्रानुगामिनी ।
सङ्कर्षणभयत्रस्ता
योषेवाकुलतां गता ॥ ह्व्_८३।३४ ॥
विश्वास-प्रस्तुतिः
स्रोतःपुलिनबिम्बोष्ठी
मृदितैस् तोयताडितैः ।
फेनमेखलसूत्रैश् च
चिह्नैस् तीरानुहासिभिः ॥ ह्व्_८३।३५ ॥
मूलम्
स्रोतःपुलिनबिम्बोष्ठी
मृदितैस् तोयताडितैः ।
फेनमेखलसूत्रैश् च
चिह्नैस् तीरानुहासिभिः ॥ ह्व्_८३।३५ ॥
विश्वास-प्रस्तुतिः
तरङ्गविषमापीडा
चक्रवाकोन्मुखस्तनी ।
वेगगम्भीरवक्राङ्गी
त्रस्तमीनवहङ्गमा ॥ ह्व्_८३।३६ ॥
मूलम्
तरङ्गविषमापीडा
चक्रवाकोन्मुखस्तनी ।
वेगगम्भीरवक्राङ्गी
त्रस्तमीनवहङ्गमा ॥ ह्व्_८३।३६ ॥
विश्वास-प्रस्तुतिः
सा तु हंसेक्षणापाङ्गी
काशक्षौमोज्झिताम्बरा ।
तीरजोद्धूतकेशान्ता
जलस्खलितगामिनी ॥ ह्व्_८३।३७ ॥
मूलम्
सा तु हंसेक्षणापाङ्गी
काशक्षौमोज्झिताम्बरा ।
तीरजोद्धूतकेशान्ता
जलस्खलितगामिनी ॥ ह्व्_८३।३७ ॥
विश्वास-प्रस्तुतिः
लाङ्गलोल्लिखितापाङ्गी
क्षुभिता सागरङ्गमा ।
([क्: त्३ म्४ (म्१-३ after ३७) ins.: :क्])
शैवालमलदिग्धाङ्गी
घनबुद्बुदविक्लवा । ह्व्_८३।३८अब्९५५ ।
मत्तेव कुटिला नारी
राजमार्गेण गच्छती ॥ ह्व्_८३।३८ ॥
मूलम्
लाङ्गलोल्लिखितापाङ्गी
क्षुभिता सागरङ्गमा ।
([क्: त्३ म्४ (म्१-३ after ३७) ins.: :क्])
शैवालमलदिग्धाङ्गी
घनबुद्बुदविक्लवा । ह्व्_८३।३८अब्९५५ ।
मत्तेव कुटिला नारी
राजमार्गेण गच्छती ॥ ह्व्_८३।३८ ॥
विश्वास-प्रस्तुतिः
कृष्यते सा स्म वेगेन
स्रोतःस्खलितगामिनी ।
उन्मार्गानीतमार्गा सा
येन वृन्दावनं वनम् ॥ ह्व्_८३।३९ ॥
मूलम्
कृष्यते सा स्म वेगेन
स्रोतःस्खलितगामिनी ।
उन्मार्गानीतमार्गा सा
येन वृन्दावनं वनम् ॥ ह्व्_८३।३९ ॥
विश्वास-प्रस्तुतिः
वृन्दावनस्य मध्येन
सा नीता यमुना नदी ।
रोरूयमाणैः खगमैर्
अन्विता तीरवासिभिः ॥ ह्व्_८३।४० ॥
मूलम्
वृन्दावनस्य मध्येन
सा नीता यमुना नदी ।
रोरूयमाणैः खगमैर्
अन्विता तीरवासिभिः ॥ ह्व्_८३।४० ॥
विश्वास-प्रस्तुतिः
सा यदा समतिक्रान्ता
नदी वृन्दावनं वनम् ।
ततः स्त्रीविग्रहा भूत्वा
यमुना रामम् अब्रवीत् ॥ ह्व्_८३।४१ ॥
मूलम्
सा यदा समतिक्रान्ता
नदी वृन्दावनं वनम् ।
ततः स्त्रीविग्रहा भूत्वा
यमुना रामम् अब्रवीत् ॥ ह्व्_८३।४१ ॥
विश्वास-प्रस्तुतिः
प्रसीद राम भीतास्मि
प्रतिलोमेन कर्मणा ।
विपरीतम् इदं रूपं
तोयं च मम जायते ॥ ह्व्_८३।४२ ॥
मूलम्
प्रसीद राम भीतास्मि
प्रतिलोमेन कर्मणा ।
विपरीतम् इदं रूपं
तोयं च मम जायते ॥ ह्व्_८३।४२ ॥
विश्वास-प्रस्तुतिः
असत्यहं नदीमध्ये
रौहिणेय त्वया कृता ।
([क्: Ñ१ सुब्स्त्।: :क्])
रौहिणेय हसिष्यति
मां नन्दः सङ्गता त्वया । ह्व्_८३।४३अब्९५६ ।
कर्षणेन महाबाहो
स्वमार्गव्यभिचारिणी ॥ ह्व्_८३।४३ ॥
मूलम्
असत्यहं नदीमध्ये
रौहिणेय त्वया कृता ।
([क्: Ñ१ सुब्स्त्।: :क्])
रौहिणेय हसिष्यति
मां नन्दः सङ्गता त्वया । ह्व्_८३।४३अब्९५६ ।
कर्षणेन महाबाहो
स्वमार्गव्यभिचारिणी ॥ ह्व्_८३।४३ ॥
विश्वास-प्रस्तुतिः
प्राप्तां मां सागरे नूनं
सपत्न्यो वेगगर्विताः ।
फेनहासैर् हसिष्यन्ति
तोयव्यावृत्तगामिनीम् ॥ ह्व्_८३।४४ ॥
मूलम्
प्राप्तां मां सागरे नूनं
सपत्न्यो वेगगर्विताः ।
फेनहासैर् हसिष्यन्ति
तोयव्यावृत्तगामिनीम् ॥ ह्व्_८३।४४ ॥
विश्वास-प्रस्तुतिः
प्रसादं कुरु मे वीर
याचे त्वां कृष्णपूर्वज ।
([क्: क्२ Ñ२।३ व् ब् द्न् द्स् द्४।६ त्३।४ ग्२ (ग्(एद्।) after ४४अब्) ins.: :क्])
सुप्रसन्नमना नित्यं
भवस्व त्वं सुरोत्तम । ह्व्_८३।४५अब्९५७ ।
कर्षणायुधकृष्टास्मि
रोषो ऽयं विनिवर्त्यताम् ॥ ह्व्_८३।४५ ॥
मूलम्
प्रसादं कुरु मे वीर
याचे त्वां कृष्णपूर्वज ।
([क्: क्२ Ñ२।३ व् ब् द्न् द्स् द्४।६ त्३।४ ग्२ (ग्(एद्।) after ४४अब्) ins.: :क्])
सुप्रसन्नमना नित्यं
भवस्व त्वं सुरोत्तम । ह्व्_८३।४५अब्९५७ ।
कर्षणायुधकृष्टास्मि
रोषो ऽयं विनिवर्त्यताम् ॥ ह्व्_८३।४५ ॥
विश्वास-प्रस्तुतिः
एषा मूर्ध्नाभिगच्छामि
चरणौ ते हलायुध ।
मार्गम् आदिष्टम् इच्छामि
क्व गच्छामि महाभुज ॥ ह्व्_८३।४६ ॥
मूलम्
एषा मूर्ध्नाभिगच्छामि
चरणौ ते हलायुध ।
मार्गम् आदिष्टम् इच्छामि
क्व गच्छामि महाभुज ॥ ह्व्_८३।४६ ॥
विश्वास-प्रस्तुतिः
ताम् एवं ब्रुवतीं द्र्ष्ट्वा
यमुनां लाङ्गलायुधः ।
प्रत्युवाचार्णववधूं
मदाक्रान्तालसो बलः ॥ ह्व्_८३।४७ ॥
मूलम्
ताम् एवं ब्रुवतीं द्र्ष्ट्वा
यमुनां लाङ्गलायुधः ।
प्रत्युवाचार्णववधूं
मदाक्रान्तालसो बलः ॥ ह्व्_८३।४७ ॥
विश्वास-प्रस्तुतिः
लाङ्गलाकृष्टमार्गा त्वम्
इमं मे प्रियदर्शने ।
देशम् अम्बुप्रदानेन
निखिलं भावयस्व नः ॥ ह्व्_८३।४८ ॥
मूलम्
लाङ्गलाकृष्टमार्गा त्वम्
इमं मे प्रियदर्शने ।
देशम् अम्बुप्रदानेन
निखिलं भावयस्व नः ॥ ह्व्_८३।४८ ॥
विश्वास-प्रस्तुतिः
एष ते सुभ्रु सन्देशः
कथितः सागरङ्गमे ।
शान्तिं व्रज महाभागे
गम्यतां च यथासुखम् ॥
मूलम्
एष ते सुभ्रु सन्देशः
कथितः सागरङ्गमे ।
शान्तिं व्रज महाभागे
गम्यतां च यथासुखम् ॥
विश्वास-प्रस्तुतिः
लोका हि यावत् स्थास्यन्ति
तावत् स्थास्यति मे यशः ॥ ह्व्_८३।४९ ॥
मूलम्
लोका हि यावत् स्थास्यन्ति
तावत् स्थास्यति मे यशः ॥ ह्व्_८३।४९ ॥
विश्वास-प्रस्तुतिः
([क्: त्१।३ ग्३।५ म्४ ins.: :क्])
{वैशम्पायन उवाच}
इत्य् उक्ता सा तथा चक्रे
यमुना रामशासनम् । ह्व्_८३।४९९५८:१ ।
अनुज्ञाता तु रामेण
यथामार्गं जगाम सा । ह्व्_८३।४९९५८:२ ।
यमुनाकर्षणं दृष्ट्वा
सव्रे ते व्रजवासिनः ।
साधु साध्व् इति रामाय
प्रणामं चक्रिरे तदा ॥ ह्व्_८३।५० ॥
मूलम्
([क्: त्१।३ ग्३।५ म्४ ins.: :क्])
{वैशम्पायन उवाच}
इत्य् उक्ता सा तथा चक्रे
यमुना रामशासनम् । ह्व्_८३।४९९५८:१ ।
अनुज्ञाता तु रामेण
यथामार्गं जगाम सा । ह्व्_८३।४९९५८:२ ।
यमुनाकर्षणं दृष्ट्वा
सव्रे ते व्रजवासिनः ।
साधु साध्व् इति रामाय
प्रणामं चक्रिरे तदा ॥ ह्व्_८३।५० ॥
विश्वास-प्रस्तुतिः
([क्: त्१-३ ग्१।३।५ म् ins.: :क्])
नमो ऽस्तु ते जगन्नाथ
बलभद्र हलायुध । ह्व्_८३।५०९५९:१ ।
प्रसीद देवदेवेश
राम रामेति गोपकाः । ह्व्_८३।५०९५९:२ ।
तां विसृज्य महावेगां
तांश् च सर्वान् व्रजौकसः ।
ततः सञ्चिन्त्य मनसा
बुद्ध्या निश्चित्य चैव ह ॥
मूलम्
([क्: त्१-३ ग्१।३।५ म् ins.: :क्])
नमो ऽस्तु ते जगन्नाथ
बलभद्र हलायुध । ह्व्_८३।५०९५९:१ ।
प्रसीद देवदेवेश
राम रामेति गोपकाः । ह्व्_८३।५०९५९:२ ।
तां विसृज्य महावेगां
तांश् च सर्वान् व्रजौकसः ।
ततः सञ्चिन्त्य मनसा
बुद्ध्या निश्चित्य चैव ह ॥
विश्वास-प्रस्तुतिः
पुनः प्रतिजगामाशु
मथुरां रोहिणीसुतः ॥ ह्व्_८३।५१ ॥
मूलम्
पुनः प्रतिजगामाशु
मथुरां रोहिणीसुतः ॥ ह्व्_८३।५१ ॥
विश्वास-प्रस्तुतिः
स गत्वा मथुरां रामो
भवने मधुसूदनम् ।
परिवर्तमानं ददृशे
पृथिव्याः सारम् अव्ययम् ॥ ह्व्_८३।५२ ॥
मूलम्
स गत्वा मथुरां रामो
भवने मधुसूदनम् ।
परिवर्तमानं ददृशे
पृथिव्याः सारम् अव्ययम् ॥ ह्व्_८३।५२ ॥
विश्वास-प्रस्तुतिः
तथैव वनवेषेण
सोपसृप्तो जनार्दनम् ।
प्रत्यग्रवनमालेन
वक्षसाभिविराजता ॥ ह्व्_८३।५३ ॥
मूलम्
तथैव वनवेषेण
सोपसृप्तो जनार्दनम् ।
प्रत्यग्रवनमालेन
वक्षसाभिविराजता ॥ ह्व्_८३।५३ ॥
विश्वास-प्रस्तुतिः
स दृष्ट्वा तूर्णम् आयान्तं
रामं लङ्गलधारिणम् ।
सहसोत्थाय गोविन्दो
ददाव् आसनम् उत्तमम् ॥ ह्व्_८३।५४ ॥
मूलम्
स दृष्ट्वा तूर्णम् आयान्तं
रामं लङ्गलधारिणम् ।
सहसोत्थाय गोविन्दो
ददाव् आसनम् उत्तमम् ॥ ह्व्_८३।५४ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त्१-३ ग्१।३।४ (बोथ् तिमेस्)।५ म् ins.: :क्])
अभिवाद्य महात्मानं
बलभद्रं जनार्दनः । ह्व्_८३।५४९६०:१ ।
पुनः प्रणामम् अकरोत्
स्वागतं ते हलायुध । ह्व्_८३।५४९६०:२ ।
उपविष्टं ततो रामं
पप्रच्छ कुशलं व्रजे ।
बान्धवेषु च सर्वेषु
गोषु चैव जनार्दनः ॥ ह्व्_८३।५५ ॥
मूलम्
([क्: द्६ त्१-३ ग्१।३।४ (बोथ् तिमेस्)।५ म् ins.: :क्])
अभिवाद्य महात्मानं
बलभद्रं जनार्दनः । ह्व्_८३।५४९६०:१ ।
पुनः प्रणामम् अकरोत्
स्वागतं ते हलायुध । ह्व्_८३।५४९६०:२ ।
उपविष्टं ततो रामं
पप्रच्छ कुशलं व्रजे ।
बान्धवेषु च सर्वेषु
गोषु चैव जनार्दनः ॥ ह्व्_८३।५५ ॥
विश्वास-प्रस्तुतिः
प्रत्युवाच ततो रामो
भ्रातरं साधुभाषिणम् ।
सर्वत्र कुशलं कृष्ण
येषां कुशलम् इच्छसि ॥ ह्व्_८३।५६ ॥
मूलम्
प्रत्युवाच ततो रामो
भ्रातरं साधुभाषिणम् ।
सर्वत्र कुशलं कृष्ण
येषां कुशलम् इच्छसि ॥ ह्व्_८३।५६ ॥
विश्वास-प्रस्तुतिः
ततस् तयोर् विचित्राश् च
पौराण्यश् च कथाभवन् ।
वसुदेवाग्रतः पुण्या
रामकेशवयोस् तदा ॥ ह्व्_८३।५७ ॥
मूलम्
ततस् तयोर् विचित्राश् च
पौराण्यश् च कथाभवन् ।
वसुदेवाग्रतः पुण्या
रामकेशवयोस् तदा ॥ ह्व्_८३।५७ ॥