विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
ततो युद्धानि वृष्णीनां
बभूव सुमहान्त्य् अथ ।
मागधस्य महामात्यैर्
नृपैश् चैवानुयायिभिः ॥ ह्व्_८२।१ ॥
मूलम्
{वैशम्पायन उवाच}
ततो युद्धानि वृष्णीनां
बभूव सुमहान्त्य् अथ ।
मागधस्य महामात्यैर्
नृपैश् चैवानुयायिभिः ॥ ह्व्_८२।१ ॥
विश्वास-प्रस्तुतिः
([क्: त्१।३(सेचोन्द् तिमे) ग्३।५ म् ग्(एद्।) ins.: :क्])
द्वन्द्वयुद्धं समभवत्
सेनयोर् उभयोस् तदा । ह्व्_८२।१९२९ ।
रुक्मिणा वासुदेवस्य
भीष्मकस्याहुकेन च ।
क्राथस्य वसुदेवेन
कौशिकस्य च बभ्रुणा ॥
मूलम्
([क्: त्१।३(सेचोन्द् तिमे) ग्३।५ म् ग्(एद्।) ins.: :क्])
द्वन्द्वयुद्धं समभवत्
सेनयोर् उभयोस् तदा । ह्व्_८२।१९२९ ।
रुक्मिणा वासुदेवस्य
भीष्मकस्याहुकेन च ।
क्राथस्य वसुदेवेन
कौशिकस्य च बभ्रुणा ॥
विश्वास-प्रस्तुतिः
गदेन चेदिराजस्य
दन्तवक्त्रस्य शम्भुना ॥ ह्व्_८२।२ ॥
मूलम्
गदेन चेदिराजस्य
दन्तवक्त्रस्य शम्भुना ॥ ह्व्_८२।२ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त्१।२।३(सेचोन्द् तिमे) ग्१।३-५ म् ins.: :क्])
विन्दानुविन्दाव् आवन्त्यौ
युयुधानेन सङ्गतौ । ह्व्_८२।२९३०:१ ।
एकलव्यो महाराज
प्रद्युम्नेनाथ सङ्गतः । ह्व्_८२।२९३०:२ ।
तथान्यैर् वृष्णिवीराणां
नृपाणां च महात्मनाम् ।
युद्धम् आसीद् धि सैन्यानां
सैनिकैर् भरतर्षभ ॥ ह्व्_८२।३ ॥
मूलम्
([क्: द्६ त्१।२।३(सेचोन्द् तिमे) ग्१।३-५ म् ins.: :क्])
विन्दानुविन्दाव् आवन्त्यौ
युयुधानेन सङ्गतौ । ह्व्_८२।२९३०:१ ।
एकलव्यो महाराज
प्रद्युम्नेनाथ सङ्गतः । ह्व्_८२।२९३०:२ ।
तथान्यैर् वृष्णिवीराणां
नृपाणां च महात्मनाम् ।
युद्धम् आसीद् धि सैन्यानां
सैनिकैर् भरतर्षभ ॥ ह्व्_८२।३ ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१ क्३ Ñ१) त्१।२।३(फ़िर्स्त् तिमे)।४ ग् म्४ ins., त्३(सेचोन्द् तिमे) ins. after ३अब्: :क्])
अहानि पञ्च चैकं च
षट् सप्ताष्टौ च दारुणम् । ह्व्_८२।३९३१ ।
गजैर् गजा हयैर् अश्वाः
पदाताश् च पदातिभिः ।
रथा रथैर् विमिश्रैश् च
योधा युयुधिरे नृप ॥ ह्व्_८२।४ ॥
मूलम्
([क्: न् (एxचेप्त् श्१ क्३ Ñ१) त्१।२।३(फ़िर्स्त् तिमे)।४ ग् म्४ ins., त्३(सेचोन्द् तिमे) ins. after ३अब्: :क्])
अहानि पञ्च चैकं च
षट् सप्ताष्टौ च दारुणम् । ह्व्_८२।३९३१ ।
गजैर् गजा हयैर् अश्वाः
पदाताश् च पदातिभिः ।
रथा रथैर् विमिश्रैश् च
योधा युयुधिरे नृप ॥ ह्व्_८२।४ ॥
विश्वास-प्रस्तुतिः
जरासन्धस्य रज्ञस् तु
रामेणासीत् समागमः ।
महेन्द्रस्येव वृत्रेण
दारुणो लोमहर्षणः ॥ ह्व्_८२।५ ॥
मूलम्
जरासन्धस्य रज्ञस् तु
रामेणासीत् समागमः ।
महेन्द्रस्येव वृत्रेण
दारुणो लोमहर्षणः ॥ ह्व्_८२।५ ॥
विश्वास-प्रस्तुतिः
([क्: after ५, त्१।३ ग्३।५ म् ins. अ पस्सगे गिवेन् इन् अप्प्।इ (नो।१७) :क्])
([क्: श्१ क् Ñ व् ब् द्न् द्स् द्१-४ त्४ ग्१।२ ins., द्५ ins. after ४: :क्])
अवेक्ष्य रुक्मिणीं कृष्णो
रुक्मिणं न व्यपोथयत् ॥ ह्व्_८२।५९३२:१ ।
मूलम्
([क्: after ५, त्१।३ ग्३।५ म् ins. अ पस्सगे गिवेन् इन् अप्प्।इ (नो।१७) :क्])
([क्: श्१ क् Ñ व् ब् द्न् द्स् द्१-४ त्४ ग्१।२ ins., द्५ ins. after ४: :क्])
अवेक्ष्य रुक्मिणीं कृष्णो
रुक्मिणं न व्यपोथयत् ॥ ह्व्_८२।५९३२:१ ।
विश्वास-प्रस्तुतिः
ज्वलनार्कांशुसङ्काशान्
आशीविषविषोपमान् । ह्व्_८२।५९३२:२ ।
वारयाम् आस कृष्णो वै
शरांस् तस्य तु शिक्षया । ह्व्_८२।५९३२:३ ।
([क्: द्६ त्२ ग्१।४।५ थेन् ins. अ पस्सगे गिवेन् इन् अप्प्।इ (नो।१७): :क्])
अन्येषां सुमहान् आसीद्
बलौघानां परिक्षयः ।
उभयोः सेनयो राजन्
मांसशोणितकर्दमः ॥ ह्व्_८२।६ ॥
मूलम्
ज्वलनार्कांशुसङ्काशान्
आशीविषविषोपमान् । ह्व्_८२।५९३२:२ ।
वारयाम् आस कृष्णो वै
शरांस् तस्य तु शिक्षया । ह्व्_८२।५९३२:३ ।
([क्: द्६ त्२ ग्१।४।५ थेन् ins. अ पस्सगे गिवेन् इन् अप्प्।इ (नो।१७): :क्])
अन्येषां सुमहान् आसीद्
बलौघानां परिक्षयः ।
उभयोः सेनयो राजन्
मांसशोणितकर्दमः ॥ ह्व्_८२।६ ॥
विश्वास-प्रस्तुतिः
कबन्धानि समुत्तस्थुः
सुबहूनि समन्ततः ।
([क्: त्३(सेचोन्द् तिमे) ग्३।५ म् ins.: :क्])
पिशाचा राक्षसाश् चैव
मांसशोणितलालसाः । ह्व्_८२।७अब्९३३ ।
तस्मिन् विमर्दे योधानां
सङ्ख्याव्यक्तिर् न विद्यते ॥ ह्व्_८२।७ ॥
मूलम्
कबन्धानि समुत्तस्थुः
सुबहूनि समन्ततः ।
([क्: त्३(सेचोन्द् तिमे) ग्३।५ म् ins.: :क्])
पिशाचा राक्षसाश् चैव
मांसशोणितलालसाः । ह्व्_८२।७अब्९३३ ।
तस्मिन् विमर्दे योधानां
सङ्ख्याव्यक्तिर् न विद्यते ॥ ह्व्_८२।७ ॥
विश्वास-प्रस्तुतिः
रथी रामो जरासन्धं
शरैर् आशीविषोपमैः ।
आवृन्वन्न् अभ्ययाद् वीरस्
तं च राजा स मागधः ॥ ह्व्_८२।८ ॥
मूलम्
रथी रामो जरासन्धं
शरैर् आशीविषोपमैः ।
आवृन्वन्न् अभ्ययाद् वीरस्
तं च राजा स मागधः ॥ ह्व्_८२।८ ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१ Ñ१) त्२।३(फ़िर्स्त् तिमे)।४ ग्१।२।४।५ ins.: :क्])
अभ्यवर्तत वेगेन
स्यन्दनेनाशुगामिना । ह्व्_८२।८९३४:१ ।
अन्योन्यं विविधैर् अस्त्रैर्
विध्वा विध्वा विनेदतुः । ह्व्_८२।८९३४:२ ।
तौ क्षीनशस्त्रौ विरथौ
हताश्वौ हतसारथी ।
गदे गृहीत्वा विक्रान्ताव्
अन्योन्यम् अभिधावताम् ॥ ह्व्_८२।९ ॥
मूलम्
([क्: न् (एxचेप्त् श्१ Ñ१) त्२।३(फ़िर्स्त् तिमे)।४ ग्१।२।४।५ ins.: :क्])
अभ्यवर्तत वेगेन
स्यन्दनेनाशुगामिना । ह्व्_८२।८९३४:१ ।
अन्योन्यं विविधैर् अस्त्रैर्
विध्वा विध्वा विनेदतुः । ह्व्_८२।८९३४:२ ।
तौ क्षीनशस्त्रौ विरथौ
हताश्वौ हतसारथी ।
गदे गृहीत्वा विक्रान्ताव्
अन्योन्यम् अभिधावताम् ॥ ह्व्_८२।९ ॥
विश्वास-प्रस्तुतिः
कम्पयन्तौ भुवं वीरौ
ताव् उद्यतमहागदौ ।
ददृशाते महात्मानौ
गिरी सशिखराव् उभौ ॥ ह्व्_८२।१० ॥
मूलम्
कम्पयन्तौ भुवं वीरौ
ताव् उद्यतमहागदौ ।
ददृशाते महात्मानौ
गिरी सशिखराव् उभौ ॥ ह्व्_८२।१० ॥
विश्वास-प्रस्तुतिः
व्युपारमन्त युद्धानि
प्रेक्षन्तौ पुरुषर्षभौ ।
संरब्धाव् अभिधावन्तौ
गदायुद्धेषु विश्रुतौ ॥ ह्व्_८२।११ ॥
मूलम्
व्युपारमन्त युद्धानि
प्रेक्षन्तौ पुरुषर्षभौ ।
संरब्धाव् अभिधावन्तौ
गदायुद्धेषु विश्रुतौ ॥ ह्व्_८२।११ ॥
विश्वास-प्रस्तुतिः
उभौ तौ परमाचार्यौ
लोके ख्यातौ महाबलौ ।
मत्ताव् इव गजौ युद्धे
अन्योन्यम् अभिधावताम् ॥ ह्व्_८२।१२ ॥
मूलम्
उभौ तौ परमाचार्यौ
लोके ख्यातौ महाबलौ ।
मत्ताव् इव गजौ युद्धे
अन्योन्यम् अभिधावताम् ॥ ह्व्_८२।१२ ॥
विश्वास-प्रस्तुतिः
ततो देवाः सगन्धर्वाः
सिद्धाश् च परमर्षयः ।
समन्ततश् चाप्सरसः
समाजग्मुः सहस्रशः ॥ ह्व्_८२।१३ ॥
मूलम्
ततो देवाः सगन्धर्वाः
सिद्धाश् च परमर्षयः ।
समन्ततश् चाप्सरसः
समाजग्मुः सहस्रशः ॥ ह्व्_८२।१३ ॥
विश्वास-प्रस्तुतिः
([क्: व् ins.: :क्])
पितामहश् च भगवान्
युद्धं द्रष्टुं समागतः । ह्व्_८२।१३९३५ ।
तद् देवयक्षगन्धर्व
महर्षिभिर् अलङ्कृतम् ।
शुशुभे ऽभ्यधिकं राजन्
दिवं ज्योतिर् गणैर् इव ॥ ह्व्_८२।१४ ॥
मूलम्
([क्: व् ins.: :क्])
पितामहश् च भगवान्
युद्धं द्रष्टुं समागतः । ह्व्_८२।१३९३५ ।
तद् देवयक्षगन्धर्व
महर्षिभिर् अलङ्कृतम् ।
शुशुभे ऽभ्यधिकं राजन्
दिवं ज्योतिर् गणैर् इव ॥ ह्व्_८२।१४ ॥
विश्वास-प्रस्तुतिः
अभिदुद्राव रामं तु
जरासन्धो महाबलः ।
सव्यं मण्डलम् आवृत्य
बलदेवस् तु दक्षिणम् ॥ ह्व्_८२।१५ ॥
मूलम्
अभिदुद्राव रामं तु
जरासन्धो महाबलः ।
सव्यं मण्डलम् आवृत्य
बलदेवस् तु दक्षिणम् ॥ ह्व्_८२।१५ ॥
विश्वास-प्रस्तुतिः
तौ प्रजह्रुर् अन्योन्यं
गदायुद्धविशारदौ ।
दन्ताभ्याम् इव मातङ्गौ
नादयन्तौ दिशो दश ॥ ह्व्_८२।१६ ॥
मूलम्
तौ प्रजह्रुर् अन्योन्यं
गदायुद्धविशारदौ ।
दन्ताभ्याम् इव मातङ्गौ
नादयन्तौ दिशो दश ॥ ह्व्_८२।१६ ॥
विश्वास-प्रस्तुतिः
गदानिपातो रामस्य
शुश्रुवे ऽशनिनिस्वनः ।
जरासन्धस्य चरणे
पर्वतस्येव दीर्यतः ॥ ह्व्_८२।१७ ॥
मूलम्
गदानिपातो रामस्य
शुश्रुवे ऽशनिनिस्वनः ।
जरासन्धस्य चरणे
पर्वतस्येव दीर्यतः ॥ ह्व्_८२।१७ ॥
विश्वास-प्रस्तुतिः
न स्म कम्पयते रामं
जरासन्धकरच्युता ।
गदा गदाभृतां श्रेष्ठं
विन्ध्यं गिरिम् इवाचलम् ॥ ह्व्_८२।१८ ॥
मूलम्
न स्म कम्पयते रामं
जरासन्धकरच्युता ।
गदा गदाभृतां श्रेष्ठं
विन्ध्यं गिरिम् इवाचलम् ॥ ह्व्_८२।१८ ॥
विश्वास-प्रस्तुतिः
रामस्य तु गदावेगं
वीर्यात् स मगधेश्वरः ।
सेहे धैर्येण महता
शिक्षया च व्यपोहयत् ॥ ह्व्_८२।१९ ॥
मूलम्
रामस्य तु गदावेगं
वीर्यात् स मगधेश्वरः ।
सेहे धैर्येण महता
शिक्षया च व्यपोहयत् ॥ ह्व्_८२।१९ ॥
विश्वास-प्रस्तुतिः
([क्: क् Ñ२।३ व् ब् द्न् द्स् द्१-५ त्३(फ़िर्स्त् तिमे)।४ ग्२ ins., द्६ त्२ ग्१।४।५ चोन्त्। after ८२।१९*९३७: :क्])
एवं तौ तत्र सङ्ग्रामे
विचरन्तौ महाबलौ । ह्व्_८२।१९९३६:१ ।
मण्डलानि विचित्राणि
विचेरतुर् अरिन्दमौ ॥ ह्व्_८२।१९९३६:२ ।
मूलम्
([क्: क् Ñ२।३ व् ब् द्न् द्स् द्१-५ त्३(फ़िर्स्त् तिमे)।४ ग्२ ins., द्६ त्२ ग्१।४।५ चोन्त्। after ८२।१९*९३७: :क्])
एवं तौ तत्र सङ्ग्रामे
विचरन्तौ महाबलौ । ह्व्_८२।१९९३६:१ ।
मण्डलानि विचित्राणि
विचेरतुर् अरिन्दमौ ॥ ह्व्_८२।१९९३६:२ ।
विश्वास-प्रस्तुतिः
व्यायच्छन्तौ चिरं कालं
परिश्रान्तौ च तस्थतुः । ह्व्_८२।१९९३६:३ ।
समाश्वास्य मुहूर्तं तु
पुनर् अन्योन्यम् आहताम् ॥ ह्व्_८२।१९९३६:४ ।
मूलम्
व्यायच्छन्तौ चिरं कालं
परिश्रान्तौ च तस्थतुः । ह्व्_८२।१९९३६:३ ।
समाश्वास्य मुहूर्तं तु
पुनर् अन्योन्यम् आहताम् ॥ ह्व्_८२।१९९३६:४ ।
विश्वास-प्रस्तुतिः
एवं तौ योधमुख्यौ तु
समं युयुधतुश् चिरम् । ह्व्_८२।१९९३६:५ ।
न च तौ युद्धवैमुख्यम्
उभाव् एव प्रजग्मतुः ॥ ह्व्_८२।१९९३६:६ ।
मूलम्
एवं तौ योधमुख्यौ तु
समं युयुधतुश् चिरम् । ह्व्_८२।१९९३६:५ ।
न च तौ युद्धवैमुख्यम्
उभाव् एव प्रजग्मतुः ॥ ह्व्_८२।१९९३६:६ ।
विश्वास-प्रस्तुतिः
अथापश्यद् गदायुद्धे
विशेषं तस्य वीर्यवान् । ह्व्_८२।१९९३६:७ ।
रामः क्रुद्धो गदां त्यक्त्वा
जग्राह मुसलोत्तमम् ॥ ह्व्_८२।१९९३६:८ ।
मूलम्
अथापश्यद् गदायुद्धे
विशेषं तस्य वीर्यवान् । ह्व्_८२।१९९३६:७ ।
रामः क्रुद्धो गदां त्यक्त्वा
जग्राह मुसलोत्तमम् ॥ ह्व्_८२।१९९३६:८ ।
विश्वास-प्रस्तुतिः
तम् उद्यतं तदा दृष्ट्वा
मुसलं घोरदर्शनम् । ह्व्_८२।१९९३६:९ ।
अमोघं बलदेवेन
क्रुद्धेन तु महारणे । ह्व्_८२।१९९३६:१० ।
([क्: द्६ त्१।२।३(सेचोन्द् तिमे) ग्१।३-५ म् ins.: :क्])
क्रुद्धो ऽथ रामभद्रस् तु
गदया तं जगाम ह । ह्व्_८२।१९९३७:१ ।
जरासन्धो ऽथ गदया
बलभद्रं समाहनत् ॥ ह्व्_८२।१९९३७:२ ।
मूलम्
तम् उद्यतं तदा दृष्ट्वा
मुसलं घोरदर्शनम् । ह्व्_८२।१९९३६:९ ।
अमोघं बलदेवेन
क्रुद्धेन तु महारणे । ह्व्_८२।१९९३६:१० ।
([क्: द्६ त्१।२।३(सेचोन्द् तिमे) ग्१।३-५ म् ins.: :क्])
क्रुद्धो ऽथ रामभद्रस् तु
गदया तं जगाम ह । ह्व्_८२।१९९३७:१ ।
जरासन्धो ऽथ गदया
बलभद्रं समाहनत् ॥ ह्व्_८२।१९९३७:२ ।
विश्वास-प्रस्तुतिः
प्रथमस् त्व् अथ रामेण
गदापादः समाददे । ह्व्_८२।१९९३७:३ ।
द्वितीयो मगधेन्द्रेण
तृतीयं तु हलायुधः । ह्व्_८२।१९९३७:४ ।
चतुर्थं तु जरासन्धः
पञ्चमं तु यदूद्वहः ॥ ह्व्_८२।१९९३७:५ ।
मूलम्
प्रथमस् त्व् अथ रामेण
गदापादः समाददे । ह्व्_८२।१९९३७:३ ।
द्वितीयो मगधेन्द्रेण
तृतीयं तु हलायुधः । ह्व्_८२।१९९३७:४ ।
चतुर्थं तु जरासन्धः
पञ्चमं तु यदूद्वहः ॥ ह्व्_८२।१९९३७:५ ।
विश्वास-प्रस्तुतिः
तयोः पादप्रहारश् च
चालयाम् आस मेदिनीम् ॥ ह्व्_८२।१९९३७:६ ।
मूलम्
तयोः पादप्रहारश् च
चालयाम् आस मेदिनीम् ॥ ह्व्_८२।१९९३७:६ ।
विश्वास-प्रस्तुतिः
ततो देवाः सगन्धर्वा
यक्षाश् च परमर्षयः । ह्व्_८२।१९९३७:७ ।
भीताः स्वस्तीति चैवाहुर्
लोकानां ब्रह्मणश् च ह ॥ ह्व्_८२।१९९३७:८ ।
मूलम्
ततो देवाः सगन्धर्वा
यक्षाश् च परमर्षयः । ह्व्_८२।१९९३७:७ ।
भीताः स्वस्तीति चैवाहुर्
लोकानां ब्रह्मणश् च ह ॥ ह्व्_८२।१९९३७:८ ।
विश्वास-प्रस्तुतिः
ततः क्रुद्धो जरापुत्रस्
ताडयाम् आस वक्षसि । ह्व्_८२।१९९३७:९ ।
शोणितं चोद्वमन् रामः
श्रमं च समवाप ह ॥ ह्व्_८२।१९९३७:१० ।
मूलम्
ततः क्रुद्धो जरापुत्रस्
ताडयाम् आस वक्षसि । ह्व्_८२।१९९३७:९ ।
शोणितं चोद्वमन् रामः
श्रमं च समवाप ह ॥ ह्व्_८२।१९९३७:१० ।
विश्वास-प्रस्तुतिः
विश्रम्य भूमौ किञ्चित् तु
पुनर् उत्थाय यादवः । ह्व्_८२।१९९३७:११ ।
आहत्य गदया मूर्ध्नि
सिंहनादं समानदत् ॥ ह्व्_८२।१९९३७:१२ ।
मूलम्
विश्रम्य भूमौ किञ्चित् तु
पुनर् उत्थाय यादवः । ह्व्_८२।१९९३७:११ ।
आहत्य गदया मूर्ध्नि
सिंहनादं समानदत् ॥ ह्व्_८२।१९९३७:१२ ।
विश्वास-प्रस्तुतिः
पपात च महीं वीरो
गतासुर् इव निःश्वसन् । ह्व्_८२।१९९३७:१३ ।
हतो हतो जरासन्ध
इत्य् ऊचुर् यादवेश्वराः ॥ ह्व्_८२।१९९३७:१४ ।
मूलम्
पपात च महीं वीरो
गतासुर् इव निःश्वसन् । ह्व्_८२।१९९३७:१३ ।
हतो हतो जरासन्ध
इत्य् ऊचुर् यादवेश्वराः ॥ ह्व्_८२।१९९३७:१४ ।
विश्वास-प्रस्तुतिः
सञ्ज्ञां च प्रतिलभ्याशु
जरासन्धः प्रतापवान् । ह्व्_८२।१९९३७:१५ ।
गदया च समाजघ्ने
वक्षस्य् एव हलायुधम् ॥ ह्व्_८२।१९९३७:१६ ।
मूलम्
सञ्ज्ञां च प्रतिलभ्याशु
जरासन्धः प्रतापवान् । ह्व्_८२।१९९३७:१५ ।
गदया च समाजघ्ने
वक्षस्य् एव हलायुधम् ॥ ह्व्_८२।१९९३७:१६ ।
विश्वास-प्रस्तुतिः
मूर्च्छां चैव समापेदे
सञ्ज्ञां च प्रतिलब्धवान् । ह्व्_८२।१९९३७:१७ ।
ततो रुधिरराशिस् तु
बभौ जलम् इवोद्गतः ॥ ह्व्_८२।१९९३७:१८ ।
मूलम्
मूर्च्छां चैव समापेदे
सञ्ज्ञां च प्रतिलब्धवान् । ह्व्_८२।१९९३७:१७ ।
ततो रुधिरराशिस् तु
बभौ जलम् इवोद्गतः ॥ ह्व्_८२।१९९३७:१८ ।
विश्वास-प्रस्तुतिः
गदाजर्जरसर्वाङ्गौ
रेजतुः किंशुकाव् इव । ह्व्_८२।१९९३७:१९ ।
समादीप्तौ तु राजेन्द्र
विरथौ विधनुर्धरौ ॥ ह्व्_८२।१९९३७:२० ।
मूलम्
गदाजर्जरसर्वाङ्गौ
रेजतुः किंशुकाव् इव । ह्व्_८२।१९९३७:१९ ।
समादीप्तौ तु राजेन्द्र
विरथौ विधनुर्धरौ ॥ ह्व्_८२।१९९३७:२० ।
विश्वास-प्रस्तुतिः
गदाहतौ महावीरौ
केवलौ युद्धरङ्गिनौ । ह्व्_८२।१९९३७:२१ ।
शुशुभाते गदाहस्तौ
परस्परवधैषिणौ ॥ ह्व्_८२।१९९३७:२२ ।
मूलम्
गदाहतौ महावीरौ
केवलौ युद्धरङ्गिनौ । ह्व्_८२।१९९३७:२१ ।
शुशुभाते गदाहस्तौ
परस्परवधैषिणौ ॥ ह्व्_८२।१९९३७:२२ ।
विश्वास-प्रस्तुतिः
द्वाव् एव मृत्यू राजेन्द्र
सङ्गताव् इव शोभितौ ॥ ह्व्_८२।१९९३७:२३ ।
मूलम्
द्वाव् एव मृत्यू राजेन्द्र
सङ्गताव् इव शोभितौ ॥ ह्व्_८२।१९९३७:२३ ।
विश्वास-प्रस्तुतिः
ततः क्रुद्धो हलधरश्
छेत्तुम् ऐच्छज् जरासुतम् । ह्व्_८२।१९९३७:२४ ।
ऊरू च पोथयाम् आस
गदया राजसंसदि ॥ ह्व्_८२।१९९३७:२५ ।
मूलम्
ततः क्रुद्धो हलधरश्
छेत्तुम् ऐच्छज् जरासुतम् । ह्व्_८२।१९९३७:२४ ।
ऊरू च पोथयाम् आस
गदया राजसंसदि ॥ ह्व्_८२।१९९३७:२५ ।
विश्वास-प्रस्तुतिः
ऊर्वो रक्तं समापेदे
मज्जा समभवत् ततः । ह्व्_८२।१९९३७:२६ ।
ततो हली जरासन्धं
शिरश् छेत्तुम् उदैक्षत । ह्व्_८२।१९९३७:२७ ।
ततो ऽन्तरिक्षे वाग् आसीत्
सुस्वरा लोकसाक्षिणी ।
([क्: श्१ क्२ Ñ२।३ व्१।२ ब् द्न् द्स् द्२।५।६ ins.: :क्])
उवाच बलदेवं तं
समुद्यतहलायुधम् । ह्व्_८२।२०अब्९३८ ।
न त्वया राम वध्यो ऽयम्
अलं खेदेन माधव ॥ ह्व्_८२।२० ॥
मूलम्
ऊर्वो रक्तं समापेदे
मज्जा समभवत् ततः । ह्व्_८२।१९९३७:२६ ।
ततो हली जरासन्धं
शिरश् छेत्तुम् उदैक्षत । ह्व्_८२।१९९३७:२७ ।
ततो ऽन्तरिक्षे वाग् आसीत्
सुस्वरा लोकसाक्षिणी ।
([क्: श्१ क्२ Ñ२।३ व्१।२ ब् द्न् द्स् द्२।५।६ ins.: :क्])
उवाच बलदेवं तं
समुद्यतहलायुधम् । ह्व्_८२।२०अब्९३८ ।
न त्वया राम वध्यो ऽयम्
अलं खेदेन माधव ॥ ह्व्_८२।२० ॥
विश्वास-प्रस्तुतिः
विहितो ऽस्य मया मृत्युस्
तस्मात् साधु व्युपारम ।
अचिरेणैव कालेन
प्राणांस् त्यक्ष्यति मागधः ॥ ह्व्_८२।२१ ॥
मूलम्
विहितो ऽस्य मया मृत्युस्
तस्मात् साधु व्युपारम ।
अचिरेणैव कालेन
प्राणांस् त्यक्ष्यति मागधः ॥ ह्व्_८२।२१ ॥
विश्वास-प्रस्तुतिः
जरासन्धस् तु तच् छ्रुत्वा
विमनाः समपद्यत ।
न प्रजह्रे ततस् तस्मै
पुनर् एव हलायुधः ॥
मूलम्
जरासन्धस् तु तच् छ्रुत्वा
विमनाः समपद्यत ।
न प्रजह्रे ततस् तस्मै
पुनर् एव हलायुधः ॥
विश्वास-प्रस्तुतिः
तौ व्युपारमतां चैव
वृष्णयस् ते च पार्थिवाः ॥ ह्व्_८२।२२ ॥
मूलम्
तौ व्युपारमतां चैव
वृष्णयस् ते च पार्थिवाः ॥ ह्व्_८२।२२ ॥
विश्वास-प्रस्तुतिः
प्रसक्तम् अभवद् युद्धं
तेषाम् एव महात्मनाम् ।
दीर्घकालं महाराज
निघ्नताम् इतरेतराम् ॥ ह्व्_८२।२३ ॥
मूलम्
प्रसक्तम् अभवद् युद्धं
तेषाम् एव महात्मनाम् ।
दीर्घकालं महाराज
निघ्नताम् इतरेतराम् ॥ ह्व्_८२।२३ ॥
विश्वास-प्रस्तुतिः
([क्: त्१।३(सेचोन्द् तिमे) ग्३ म्४ ins.: :क्])
ते सर्वे निर्जिता राजन्
कृष्णेन रिपुघातिना । ह्व्_८२।२३९३९:१ ।
जरासन्धेन सहिता
विप्रजग्मुर् यथागतम् । ह्व्_८२।२३९३९:२ ।
पराजिते त्व् अपक्रान्ते
जरासन्धे महीपतौ ।
अस्तं याते दिनकरे
नानुसस्रुस् तदा निशि ॥ ह्व्_८२।२४ ॥
मूलम्
([क्: त्१।३(सेचोन्द् तिमे) ग्३ म्४ ins.: :क्])
ते सर्वे निर्जिता राजन्
कृष्णेन रिपुघातिना । ह्व्_८२।२३९३९:१ ।
जरासन्धेन सहिता
विप्रजग्मुर् यथागतम् । ह्व्_८२।२३९३९:२ ।
पराजिते त्व् अपक्रान्ते
जरासन्धे महीपतौ ।
अस्तं याते दिनकरे
नानुसस्रुस् तदा निशि ॥ ह्व्_८२।२४ ॥
विश्वास-प्रस्तुतिः
([क्: त्१।३(सेचोन्द् तिमे) ग्३ म्४ ins.: :क्])
वृष्णयश् च महाभागाः
कृष्णसङ्कर्षणाश्रयाः । ह्व्_८२।२४९४० ।
समानीय स्वसैन्यं तु
लब्धलक्ष्या महाबलाः ।
पुरीं प्रविविशुर् हृष्टाः
केशवेनाभिपूजिताः ॥ ह्व्_८२।२५ ॥
मूलम्
([क्: त्१।३(सेचोन्द् तिमे) ग्३ म्४ ins.: :क्])
वृष्णयश् च महाभागाः
कृष्णसङ्कर्षणाश्रयाः । ह्व्_८२।२४९४० ।
समानीय स्वसैन्यं तु
लब्धलक्ष्या महाबलाः ।
पुरीं प्रविविशुर् हृष्टाः
केशवेनाभिपूजिताः ॥ ह्व्_८२।२५ ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१ क्२ Ñ१) त्२।३(फ़िर्स्त् तिमे)।४ ग्१।२।४।५ ins.: :क्])
खाच् च्युतान्य् आयुधान्य् एव
तान्य् एवान्तर्दधुस् तदा ॥ ह्व्_८२।२५९४१:१ ।
मूलम्
([क्: न् (एxचेप्त् श्१ क्२ Ñ१) त्२।३(फ़िर्स्त् तिमे)।४ ग्१।२।४।५ ins.: :क्])
खाच् च्युतान्य् आयुधान्य् एव
तान्य् एवान्तर्दधुस् तदा ॥ ह्व्_८२।२५९४१:१ ।
विश्वास-प्रस्तुतिः
जरासन्धो ऽपि नृपतिर्
विमनाः स्वपुरं ययौ । ह्व्_८२।२५९४१:२ ।
राजानश् चानुगा ये ऽस्य
स्वराष्ट्राण्य् एव ते ययुः । ह्व्_८२।२५९४१:३ ।
जरासन्धं तु ते जित्वा
मन्यन्ते नैव तं जितम् ।
वृष्णयः कुरुशार्दूल
राजा ह्य् अतिबलः स वै ॥ ह्व्_८२।२६ ॥
मूलम्
जरासन्धो ऽपि नृपतिर्
विमनाः स्वपुरं ययौ । ह्व्_८२।२५९४१:२ ।
राजानश् चानुगा ये ऽस्य
स्वराष्ट्राण्य् एव ते ययुः । ह्व्_८२।२५९४१:३ ।
जरासन्धं तु ते जित्वा
मन्यन्ते नैव तं जितम् ।
वृष्णयः कुरुशार्दूल
राजा ह्य् अतिबलः स वै ॥ ह्व्_८२।२६ ॥
विश्वास-प्रस्तुतिः
([क्: त्१।३(सेचोन्द् तिमे) ग्३ म् ins.: :क्])
को नाम हि जरासन्धं
रणे जेतुं महीपतिः । ह्व्_८२।२६९४२:१ ।
शक्नुयाल् लोकविख्यातः
साक्षाद् अपि शतक्रतुः । ह्व्_८२।२६९४२:२ ।
दश चाष्टौ च सङ्ग्रामाञ्
जरासन्धस्य यादवाः ।
ददुर् न चैनं समरे
हन्तुं शेकुर् महारथाः ॥ ह्व्_८२।२७ ॥
मूलम्
([क्: त्१।३(सेचोन्द् तिमे) ग्३ म् ins.: :क्])
को नाम हि जरासन्धं
रणे जेतुं महीपतिः । ह्व्_८२।२६९४२:१ ।
शक्नुयाल् लोकविख्यातः
साक्षाद् अपि शतक्रतुः । ह्व्_८२।२६९४२:२ ।
दश चाष्टौ च सङ्ग्रामाञ्
जरासन्धस्य यादवाः ।
ददुर् न चैनं समरे
हन्तुं शेकुर् महारथाः ॥ ह्व्_८२।२७ ॥
विश्वास-प्रस्तुतिः
([क्: त्१।३(सेचोन्द् तिमे) ग्३।५ म्१।२।४ ins.: :क्])
कृष्णस् तु समरे राजञ्
शक्तिमान् अपि मागधम् । ह्व्_८२।२७९४३:१ ।
अन्यो मृत्युर् इति ज्ञात्वा
न च हिंसितवान् प्रभुः । ह्व्_८२।२७९४३:२ ।
अक्षौहिण्यो हि तस्यासन्
विंशतिर् भरतर्षभ ।
जरासन्धस्य नृपतेस्
तदर्थं याः समागताः ॥ ह्व्_८२।२८ ॥
मूलम्
([क्: त्१।३(सेचोन्द् तिमे) ग्३।५ म्१।२।४ ins.: :क्])
कृष्णस् तु समरे राजञ्
शक्तिमान् अपि मागधम् । ह्व्_८२।२७९४३:१ ।
अन्यो मृत्युर् इति ज्ञात्वा
न च हिंसितवान् प्रभुः । ह्व्_८२।२७९४३:२ ।
अक्षौहिण्यो हि तस्यासन्
विंशतिर् भरतर्षभ ।
जरासन्धस्य नृपतेस्
तदर्थं याः समागताः ॥ ह्व्_८२।२८ ॥
विश्वास-प्रस्तुतिः
अल्पत्वाद् अभिभूतास् तु
वृष्णयो भरतर्षभ ।
बार्हद्रथेन राजेन्द्र
राजभिः सहितेन वै ॥ ह्व्_८२।२९ ॥
मूलम्
अल्पत्वाद् अभिभूतास् तु
वृष्णयो भरतर्षभ ।
बार्हद्रथेन राजेन्द्र
राजभिः सहितेन वै ॥ ह्व्_८२।२९ ॥
विश्वास-प्रस्तुतिः
([क्: Ñ२ बोम्। पोओन एद्स्। ग्(एद्।) ins., क्२ after the फ़िर्स्त् ओच्चुर्रेन्चे of लिने ९ of अप्प्।इ (नो। १८): :क्])
भूयः कृत्वोद्यमं प्रायाद्
यादवान् कृष्णपालितान् । ह्व्_८२।२९९४४ ।
जित्वा तु मागधं सङ्ख्ये
जरासन्धं महीपतिम् ।
विहरन्ति स्म सुखिनो
वृष्णिसिंहा महारथाः ॥ ह्व्_८२।३० ॥
मूलम्
([क्: Ñ२ बोम्। पोओन एद्स्। ग्(एद्।) ins., क्२ after the फ़िर्स्त् ओच्चुर्रेन्चे of लिने ९ of अप्प्।इ (नो। १८): :क्])
भूयः कृत्वोद्यमं प्रायाद्
यादवान् कृष्णपालितान् । ह्व्_८२।२९९४४ ।
जित्वा तु मागधं सङ्ख्ये
जरासन्धं महीपतिम् ।
विहरन्ति स्म सुखिनो
वृष्णिसिंहा महारथाः ॥ ह्व्_८२।३० ॥