विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
स कृष्णस् तत्र बलवान्
रौहिणेयेन सङ्गतः ।
मथुरां यादवाधीनां
पुरीं तां सुखम् आवसत् ॥ ह्व्_७९।१ ॥
मूलम्
{वैशम्पायन उवाच}
स कृष्णस् तत्र बलवान्
रौहिणेयेन सङ्गतः ।
मथुरां यादवाधीनां
पुरीं तां सुखम् आवसत् ॥ ह्व्_७९।१ ॥
विश्वास-प्रस्तुतिः
([क्: क्२।४ ॐ। the रेफ़्। after the रेफ़्।, द्२ ins.: :क्])
अथ नन्दं समासाद्य
भगवान् देवकीसुतः । ह्व्_७९।०८७६:१ ।
सङ्कर्षणश् च राजेन्द्र
परिष्वज्येदम् ऊचतुः ॥ ह्व्_७९।०८७६:२ ।
मूलम्
([क्: क्२।४ ॐ। the रेफ़्। after the रेफ़्।, द्२ ins.: :क्])
अथ नन्दं समासाद्य
भगवान् देवकीसुतः । ह्व्_७९।०८७६:१ ।
सङ्कर्षणश् च राजेन्द्र
परिष्वज्येदम् ऊचतुः ॥ ह्व्_७९।०८७६:२ ।
विश्वास-प्रस्तुतिः
पितुर् युवाभ्यां स्निग्धाभ्यां
पोषितौ ललितौ भृशम् । ह्व्_७९।०८७६:३ ।
पित्रोर् अभ्यधिका प्रीतिर्
आत्मजेष्व् आत्मनो ऽपि हि ॥ ह्व्_७९।०८७६:४ ।
मूलम्
पितुर् युवाभ्यां स्निग्धाभ्यां
पोषितौ ललितौ भृशम् । ह्व्_७९।०८७६:३ ।
पित्रोर् अभ्यधिका प्रीतिर्
आत्मजेष्व् आत्मनो ऽपि हि ॥ ह्व्_७९।०८७६:४ ।
विश्वास-प्रस्तुतिः
स पिता सा च जननी
यौ पुष्णीतां स्वपुत्रवत् ॥ ह्व्_७९।०८७६:५ ।
मूलम्
स पिता सा च जननी
यौ पुष्णीतां स्वपुत्रवत् ॥ ह्व्_७९।०८७६:५ ।
विश्वास-प्रस्तुतिः
शिशून् बन्धुभिर् उत्सृष्टान्
आकल्पैः पोषरक्षणैः ॥ ह्व्_७९।०८७६:६ ।
मूलम्
शिशून् बन्धुभिर् उत्सृष्टान्
आकल्पैः पोषरक्षणैः ॥ ह्व्_७९।०८७६:६ ।
विश्वास-प्रस्तुतिः
यात यूयं व्रजं तात
वयं च स्नेहदुःखितान् । ह्व्_७९।०८७६:७ ।
ज्ञातीन् वो द्रष्टुम् एष्यामो
विधाय सुहृदां सुखम् ॥ ह्व्_७९।०८७६:८ ।
मूलम्
यात यूयं व्रजं तात
वयं च स्नेहदुःखितान् । ह्व्_७९।०८७६:७ ।
ज्ञातीन् वो द्रष्टुम् एष्यामो
विधाय सुहृदां सुखम् ॥ ह्व्_७९।०८७६:८ ।
विश्वास-प्रस्तुतिः
एवं सान्त्वय्य भगवान्
स नन्दव्रजम् अच्युतः । ह्व्_७९।०८७६:९ ।
वासोलङ्काररूपाग्र्यै
रञ्जयाम् आस सादरम् ॥ ह्व्_७९।०८७६:१० ।
मूलम्
एवं सान्त्वय्य भगवान्
स नन्दव्रजम् अच्युतः । ह्व्_७९।०८७६:९ ।
वासोलङ्काररूपाग्र्यै
रञ्जयाम् आस सादरम् ॥ ह्व्_७९।०८७६:१० ।
विश्वास-प्रस्तुतिः
इत्य् उक्तस् तौ परिष्वज्य
नन्दः प्रणयविह्वलः । ह्व्_७९।०८७६:११ ।
पूरयन्न् अश्रुभिर् नेत्रे
सह गोपैर् व्रजं ययौ । ह्व्_७९।०८७६:१२ ।
([क्: ७९।०*८७६ = (वर्।) भागवत प्।, १०।४५।२०-२५। :क्])
प्राप्तयौवनदेहस् तु
युक्तो राजश्रिया ज्वलन् ।
चकार मथुरां वीरह्।
स रत्नाकरभूषणाम् ॥ ह्व्_७९।२ ॥
मूलम्
इत्य् उक्तस् तौ परिष्वज्य
नन्दः प्रणयविह्वलः । ह्व्_७९।०८७६:११ ।
पूरयन्न् अश्रुभिर् नेत्रे
सह गोपैर् व्रजं ययौ । ह्व्_७९।०८७६:१२ ।
([क्: ७९।०*८७६ = (वर्।) भागवत प्।, १०।४५।२०-२५। :क्])
प्राप्तयौवनदेहस् तु
युक्तो राजश्रिया ज्वलन् ।
चकार मथुरां वीरह्।
स रत्नाकरभूषणाम् ॥ ह्व्_७९।२ ॥
विश्वास-प्रस्तुतिः
कस्यचित् त्व् अथ कालस्य
सहितौ रामकेशवौ ।
गुरुं सन्दीपनिं काश्यम्
अवन्तिपुरवासिनम् ॥
मूलम्
कस्यचित् त्व् अथ कालस्य
सहितौ रामकेशवौ ।
गुरुं सन्दीपनिं काश्यम्
अवन्तिपुरवासिनम् ॥
विश्वास-प्रस्तुतिः
धनुर्वेदचिकीर्षार्थम्
उभौ ताव् अभिजग्मतुः ॥ ह्व्_७९।३ ॥
मूलम्
धनुर्वेदचिकीर्षार्थम्
उभौ ताव् अभिजग्मतुः ॥ ह्व्_७९।३ ॥
विश्वास-प्रस्तुतिः
निवेद्य गोत्रं स्वाध्यायाम्
आचारेणाभ्यलङ्कृतौ ।
शुश्रूशू निरहङ्काराव्
उभौ रामजनार्दनौ ॥
मूलम्
निवेद्य गोत्रं स्वाध्यायाम्
आचारेणाभ्यलङ्कृतौ ।
शुश्रूशू निरहङ्काराव्
उभौ रामजनार्दनौ ॥
विश्वास-प्रस्तुतिः
([क्: द्च् त्१।२ ग् म् ins.: :क्])
चक्रतुः पुण्डरीकाक्षौ
विद्याग्रहणलालसौ । ह्व्_७९।४cd८७७ ।
प्रतिजग्राह ताउ काश्यो
विद्याः प्रादाच् च केवलाः ॥ ह्व्_७९।४ ॥
मूलम्
([क्: द्च् त्१।२ ग् म् ins.: :क्])
चक्रतुः पुण्डरीकाक्षौ
विद्याग्रहणलालसौ । ह्व्_७९।४cd८७७ ।
प्रतिजग्राह ताउ काश्यो
विद्याः प्रादाच् च केवलाः ॥ ह्व्_७९।४ ॥
विश्वास-प्रस्तुतिः
तौ च श्रुतिधरौ वीरौ
यथावत् प्रतिपद्यताम् ।
अहोरात्रैश् चतुःषष्ट्या
साङ्गं वेदम् अधीयताम् ॥ ह्व्_७९।५ ॥
मूलम्
तौ च श्रुतिधरौ वीरौ
यथावत् प्रतिपद्यताम् ।
अहोरात्रैश् चतुःषष्ट्या
साङ्गं वेदम् अधीयताम् ॥ ह्व्_७९।५ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त्१।२ ग् म् सुब्स्त्। फ़ोर् ५cd: :क्])
साङ्गं वेदम् अधीयतां
चतुःषष्ट्या दिनैस् तथा । ह्व्_७९।५८७८ ।
चतुष्पादे धनुर्वेदे
चास्त्रग्रामे ससङ्ग्रहे ।
([क्: द्६ स् (एxचेप्त् त्३।४) ग्(एद्।) ins.: :क्])
लेख्यं च गणितं चोभौ
प्राप्नुतां यदुनन्दनौ । ह्व्_७९।६अब्८७९:१ ।
गान्धववेदं कृत्स्नं च
तथा लेख्याश् च ताव् उभौ । ह्व्_७९।६अब्८७९:२ ।
हस्तिशिक्षाश्वशिक्षाश् च
द्वादशाहेन चाप्नुताम् ॥ ह्व्_७९।६अब्८७९:३ ।
मूलम्
([क्: द्६ त्१।२ ग् म् सुब्स्त्। फ़ोर् ५cd: :क्])
साङ्गं वेदम् अधीयतां
चतुःषष्ट्या दिनैस् तथा । ह्व्_७९।५८७८ ।
चतुष्पादे धनुर्वेदे
चास्त्रग्रामे ससङ्ग्रहे ।
([क्: द्६ स् (एxचेप्त् त्३।४) ग्(एद्।) ins.: :क्])
लेख्यं च गणितं चोभौ
प्राप्नुतां यदुनन्दनौ । ह्व्_७९।६अब्८७९:१ ।
गान्धववेदं कृत्स्नं च
तथा लेख्याश् च ताव् उभौ । ह्व्_७९।६अब्८७९:२ ।
हस्तिशिक्षाश्वशिक्षाश् च
द्वादशाहेन चाप्नुताम् ॥ ह्व्_७९।६अब्८७९:३ ।
विश्वास-प्रस्तुतिः
ताव् उभौ जग्मतुर् वीरौ
गुरुं सान्दीपनिं ततः । ह्व्_७९।६अब्८७९:४ ।
धनुर्वेदचिकीर्षार्थं
धर्मज्ञौ धर्मचारिणौ ॥ ह्व्_७९।६अब्८७९:५ ।
मूलम्
ताव् उभौ जग्मतुर् वीरौ
गुरुं सान्दीपनिं ततः । ह्व्_७९।६अब्८७९:४ ।
धनुर्वेदचिकीर्षार्थं
धर्मज्ञौ धर्मचारिणौ ॥ ह्व्_७९।६अब्८७९:५ ।
विश्वास-प्रस्तुतिः
ताव् इष्वासवराचार्यम्
अभिगम्य प्रणम्य च । ह्व्_७९।६अब्८७९:६ ।
तेन तौ सत्कृतौ राजन्
विचरन्ताव् अवन्तिषु ॥ ह्व्_७९।६अब्८७९:७ ।
मूलम्
ताव् इष्वासवराचार्यम्
अभिगम्य प्रणम्य च । ह्व्_७९।६अब्८७९:६ ।
तेन तौ सत्कृतौ राजन्
विचरन्ताव् अवन्तिषु ॥ ह्व्_७९।६अब्८७९:७ ।
विश्वास-प्रस्तुतिः
पञ्चाशद्भिर् अहोरात्रैर्
दशाङ्गं सुप्रतिष्ठितम् । ह्व्_७९।६अब्८७९:८ ।
सरहस्यं धनुर्वेदं
सकलं ताव् अवाप्नुताम् । ह्व्_७९।६अब्८७९:९ ।
अचिरेणैव कालेन
गुरुस् ताव् अभ्यषिक्षयत् ॥ ह्व्_७९।६ ॥
मूलम्
पञ्चाशद्भिर् अहोरात्रैर्
दशाङ्गं सुप्रतिष्ठितम् । ह्व्_७९।६अब्८७९:८ ।
सरहस्यं धनुर्वेदं
सकलं ताव् अवाप्नुताम् । ह्व्_७९।६अब्८७९:९ ।
अचिरेणैव कालेन
गुरुस् ताव् अभ्यषिक्षयत् ॥ ह्व्_७९।६ ॥
विश्वास-प्रस्तुतिः
अतीवमानुषीं मेधां
तयोश् चिन्त्य गुरुस् तदा ।
मेने ताव् आगतौ देवाव्
उभौ चन्द्रदिवाकरौ ॥ ह्व्_७९।७ ॥
मूलम्
अतीवमानुषीं मेधां
तयोश् चिन्त्य गुरुस् तदा ।
मेने ताव् आगतौ देवाव्
उभौ चन्द्रदिवाकरौ ॥ ह्व्_७९।७ ॥
विश्वास-प्रस्तुतिः
ददर्श च महात्मानाव्
उभौ ताव् अपि पर्वसु ।
पूजयन्तौ महादेवं
साक्षात् त्र्यक्षम् अवस्थितम् ॥ ह्व्_७९।८ ॥
मूलम्
ददर्श च महात्मानाव्
उभौ ताव् अपि पर्वसु ।
पूजयन्तौ महादेवं
साक्षात् त्र्यक्षम् अवस्थितम् ॥ ह्व्_७९।८ ॥
विश्वास-प्रस्तुतिः
गुरुं सान्दीपनिं कृष्णः
कृतकृत्यो ऽभ्यभाषत ।
गुर्वर्थं किं ददानीति
रामेण सह भारत ॥ ह्व्_७९।९ ॥
मूलम्
गुरुं सान्दीपनिं कृष्णः
कृतकृत्यो ऽभ्यभाषत ।
गुर्वर्थं किं ददानीति
रामेण सह भारत ॥ ह्व्_७९।९ ॥
विश्वास-प्रस्तुतिः
तयोः प्रभावं स ज्ञात्वा
गुरुः प्रोवाच हृष्टवत् ।
पुत्रम् इच्छाम्य् अहं दत्तं
यो मृतो लवणाम्भसि ॥ ह्व्_७९।१० ॥
मूलम्
तयोः प्रभावं स ज्ञात्वा
गुरुः प्रोवाच हृष्टवत् ।
पुत्रम् इच्छाम्य् अहं दत्तं
यो मृतो लवणाम्भसि ॥ ह्व्_७९।१० ॥
विश्वास-प्रस्तुतिः
पुत्र एको हि मे जातः
स चापि तिमिना हृतः ।
प्रभासे तीर्थयात्रायां
तं मे त्वं पुनर् आनय ॥ ह्व्_७९।११ ॥
मूलम्
पुत्र एको हि मे जातः
स चापि तिमिना हृतः ।
प्रभासे तीर्थयात्रायां
तं मे त्वं पुनर् आनय ॥ ह्व्_७९।११ ॥
विश्वास-प्रस्तुतिः
तथेत्य् एवाब्रवीत् कृष्णो
रामस्यानुमते स्थितः ।
गत्वा समुद्रं तेजस्वी
विवेशान्तर्जलं हरिः ॥ ह्व्_७९।१२ ॥
मूलम्
तथेत्य् एवाब्रवीत् कृष्णो
रामस्यानुमते स्थितः ।
गत्वा समुद्रं तेजस्वी
विवेशान्तर्जलं हरिः ॥ ह्व्_७९।१२ ॥
विश्वास-प्रस्तुतिः
समुद्रः प्राञ्जलिर् भूत्वा
दर्शयाम् आस तं तदा ।
तम् आह कृष्णः क्वासौ भोः
पुत्रः सान्दीपनेर् इति ॥ ह्व्_७९।१३ ॥
मूलम्
समुद्रः प्राञ्जलिर् भूत्वा
दर्शयाम् आस तं तदा ।
तम् आह कृष्णः क्वासौ भोः
पुत्रः सान्दीपनेर् इति ॥ ह्व्_७९।१३ ॥
विश्वास-प्रस्तुतिः
समुद्रस् तम् उवाचेदं
दैत्यः पञ्चजनो महान् ।
तिमिरूपेण तं बालं
ग्रस्तवान् इति माधव ॥ ह्व्_७९।१४ ॥
मूलम्
समुद्रस् तम् उवाचेदं
दैत्यः पञ्चजनो महान् ।
तिमिरूपेण तं बालं
ग्रस्तवान् इति माधव ॥ ह्व्_७९।१४ ॥
विश्वास-प्रस्तुतिः
([क्: द्स् ग्५ ins.: :क्])
उन्मथ्य सलिलाद् अस्माद्
ग्रस्तवान् इति भारत । ह्व्_७९।१४८८० ।
स पञ्चजनम् आसाद्य
जघान पुरुषोत्तमः ।
न चाससाद तं बालं
गुरुपुत्रं तदाच्युतः ॥ ह्व्_७९।१५ ॥
मूलम्
([क्: द्स् ग्५ ins.: :क्])
उन्मथ्य सलिलाद् अस्माद्
ग्रस्तवान् इति भारत । ह्व्_७९।१४८८० ।
स पञ्चजनम् आसाद्य
जघान पुरुषोत्तमः ।
न चाससाद तं बालं
गुरुपुत्रं तदाच्युतः ॥ ह्व्_७९।१५ ॥
विश्वास-प्रस्तुतिः
स तु पञ्चजनं हत्वा
शङ्खं लेभे जनार्दनः ।
यः स देवमनुष्येषु
पाञ्चजन्य इति श्रुतः ॥ ह्व्_७९।१६ ॥
मूलम्
स तु पञ्चजनं हत्वा
शङ्खं लेभे जनार्दनः ।
यः स देवमनुष्येषु
पाञ्चजन्य इति श्रुतः ॥ ह्व्_७९।१६ ॥
विश्वास-प्रस्तुतिः
([क्: द्६ त्१।२ ग्१-३।४(after १३)।५ म् ins.: :क्])
गत्वा यमपुरं विष्णुः
क्रोधसंरक्तलोचनः । ह्व्_७९।१६८८१:१ ।
आसनस्थं ततो विष्णुः
प्रोवाच यमम् ऊर्जितम् । ह्व्_७९।१६८८१:२ ।
दीयतां पुत्र इत्य् एवं
काश्यसान्दीपनेर् इति ॥ ह्व्_७९।१६८८१:३ ।
मूलम्
([क्: द्६ त्१।२ ग्१-३।४(after १३)।५ म् ins.: :क्])
गत्वा यमपुरं विष्णुः
क्रोधसंरक्तलोचनः । ह्व्_७९।१६८८१:१ ।
आसनस्थं ततो विष्णुः
प्रोवाच यमम् ऊर्जितम् । ह्व्_७९।१६८८१:२ ।
दीयतां पुत्र इत्य् एवं
काश्यसान्दीपनेर् इति ॥ ह्व्_७९।१६८८१:३ ।
विश्वास-प्रस्तुतिः
तम् उवाच ततो विष्णुं
मृत्युना चाहृतो हरे । ह्व्_७९।१६८८१:४ ।
एवम् उक्तस् तदा कृष्णो
यमेनामितविक्रमः । ह्व्_७९।१६८८१:५ ।
अहो धार्ष्ट्यं ततो मृत्योर्
इत्य् उक्त्वा धनुर् आददे ॥ ह्व्_७९।१६८८१:६ ।
मूलम्
तम् उवाच ततो विष्णुं
मृत्युना चाहृतो हरे । ह्व्_७९।१६८८१:४ ।
एवम् उक्तस् तदा कृष्णो
यमेनामितविक्रमः । ह्व्_७९।१६८८१:५ ।
अहो धार्ष्ट्यं ततो मृत्योर्
इत्य् उक्त्वा धनुर् आददे ॥ ह्व्_७९।१६८८१:६ ।
([क्: द्न् ins.: :क्])
शङ्खम् आपूर्य गोविन्दस्
त्रासयाम् आस वै जनम् । ह्व्_७९।१७अब्८८३ ।
विश्वास-प्रस्तुतिः
([क्: द्न् चोन्त्।, क्१ Ñ२।३ व्१।२ ब्२।३ द्२ ins. after फ़िर्स्त् ओच्चुर्रेन्चे of १७अब्: :क्])
ततो यमो ऽभ्युपागम्य
ववन्दे तं गदाधरम् । ह्व्_७९।१७अब्८८४:१ ।
किम् आगमनकृत्यं ते
किं करोमीति चाब्रवीत् ॥ ह्व्_७९।१७अब्८८४:२ ।
मूलम्
([क्: द्न् चोन्त्।, क्१ Ñ२।३ व्१।२ ब्२।३ द्२ ins. after फ़िर्स्त् ओच्चुर्रेन्चे of १७अब्: :क्])
ततो यमो ऽभ्युपागम्य
ववन्दे तं गदाधरम् । ह्व्_७९।१७अब्८८४:१ ।
किम् आगमनकृत्यं ते
किं करोमीति चाब्रवीत् ॥ ह्व्_७९।१७अब्८८४:२ ।
विश्वास-प्रस्तुतिः
तम् उवाचाथ वै कृष्णो
गुरुपुत्रः प्रदीयताम् । ह्व्_७९।१७अब्८८४:३ ।
तयोस् तत्र तदा युद्धम्
आसीद् घोरतरं महत् । ह्व्_७९।१७अब्८८४:४ ।
आनिनाय गुरोः पुत्रं
चिरनष्टं यमक्षयात् ॥ ह्व्_७९।१७ ॥
मूलम्
तम् उवाचाथ वै कृष्णो
गुरुपुत्रः प्रदीयताम् । ह्व्_७९।१७अब्८८४:३ ।
तयोस् तत्र तदा युद्धम्
आसीद् घोरतरं महत् । ह्व्_७९।१७अब्८८४:४ ।
आनिनाय गुरोः पुत्रं
चिरनष्टं यमक्षयात् ॥ ह्व्_७९।१७ ॥
विश्वास-प्रस्तुतिः
ततः सान्दीपनेः पुत्रः
प्रसादाद् अमितौजसः ।
दीर्घकालगतः प्रेतः
पुनर् आसीच् छरीरवान् ॥ ह्व्_७९।१८ ॥
मूलम्
ततः सान्दीपनेः पुत्रः
प्रसादाद् अमितौजसः ।
दीर्घकालगतः प्रेतः
पुनर् आसीच् छरीरवान् ॥ ह्व्_७९।१८ ॥
विश्वास-प्रस्तुतिः
तद् अशक्यम् अचिन्त्यं च
दृष्ट्वा सुमहद् अद्भुतम् ।
सर्वेषाम् एव भूतानां
विस्मयः समजायत ॥ ह्व्_७९।१९ ॥
मूलम्
तद् अशक्यम् अचिन्त्यं च
दृष्ट्वा सुमहद् अद्भुतम् ।
सर्वेषाम् एव भूतानां
विस्मयः समजायत ॥ ह्व्_७९।१९ ॥
विश्वास-प्रस्तुतिः
स गुरोः पुत्रम् आदाय
पाञ्चजन्यं च माधवः ।
रत्नानि च महार्हाणि
पुनर् आयाज् जगत्पतिः ॥ ह्व्_७९।२० ॥
मूलम्
स गुरोः पुत्रम् आदाय
पाञ्चजन्यं च माधवः ।
रत्नानि च महार्हाणि
पुनर् आयाज् जगत्पतिः ॥ ह्व्_७९।२० ॥
विश्वास-प्रस्तुतिः
रक्षसस् तस्य रत्नानि
महार्हाणि बहूनि च ।
आनाय्यावेदयाम् आस
गुरवे वासवानुजः ॥ ह्व्_७९।२१ ॥
मूलम्
रक्षसस् तस्य रत्नानि
महार्हाणि बहूनि च ।
आनाय्यावेदयाम् आस
गुरवे वासवानुजः ॥ ह्व्_७९।२१ ॥
विश्वास-प्रस्तुतिः
गदापरिघयुद्धेषु
सर्वास्त्रेषु च ताव् उभौ ।
अचिरान् मुख्यतां प्राप्तौ
सर्वलोके धनुर्भृताम् ॥ ह्व्_७९।२२ ॥
मूलम्
गदापरिघयुद्धेषु
सर्वास्त्रेषु च ताव् उभौ ।
अचिरान् मुख्यतां प्राप्तौ
सर्वलोके धनुर्भृताम् ॥ ह्व्_७९।२२ ॥
विश्वास-प्रस्तुतिः
ततः सान्दीपनेः पुत्रं
तद्रूपवयसं तदा ।
प्रादात् कृष्णः प्रतीताय
सह रत्नैर् उदारधीः ॥ ह्व्_७९।२३ ॥
मूलम्
ततः सान्दीपनेः पुत्रं
तद्रूपवयसं तदा ।
प्रादात् कृष्णः प्रतीताय
सह रत्नैर् उदारधीः ॥ ह्व्_७९।२३ ॥
विश्वास-प्रस्तुतिः
चिरनष्टेन पुत्रेण
काश्यः सान्दीपनिस् तदा ।
समेत्य मुमुदे राजन्
पूजयन् रामकेशवौ ॥ ह्व्_७९।२४ ॥
मूलम्
चिरनष्टेन पुत्रेण
काश्यः सान्दीपनिस् तदा ।
समेत्य मुमुदे राजन्
पूजयन् रामकेशवौ ॥ ह्व्_७९।२४ ॥
विश्वास-प्रस्तुतिः
कृतास्त्रौ ताव् उभौ वीरौ
गुरुम् आमन्त्र्य सुव्रतौ ।
आयातौ मथुरां भूयो
वसुदेवसुताव् उभौ ॥ ह्व्_७९।२५ ॥
मूलम्
कृतास्त्रौ ताव् उभौ वीरौ
गुरुम् आमन्त्र्य सुव्रतौ ।
आयातौ मथुरां भूयो
वसुदेवसुताव् उभौ ॥ ह्व्_७९।२५ ॥
विश्वास-प्रस्तुतिः
ततः प्रत्युद्ययुः सर्वे
यादवा यदुनन्दनौ ।
सबाला हृष्टमनस
उग्रसेनपुरोगमाः ॥ ह्व्_७९।२६ ॥
मूलम्
ततः प्रत्युद्ययुः सर्वे
यादवा यदुनन्दनौ ।
सबाला हृष्टमनस
उग्रसेनपुरोगमाः ॥ ह्व्_७९।२६ ॥
विश्वास-प्रस्तुतिः
श्रेण्यः प्रकृतयश् चैव
मन्त्रिणो ऽथ पुरोहिताः ।
सबालवृद्धा सा चैव
पुरी समभिवर्तत ॥ ह्व्_७९।२७ ॥
मूलम्
श्रेण्यः प्रकृतयश् चैव
मन्त्रिणो ऽथ पुरोहिताः ।
सबालवृद्धा सा चैव
पुरी समभिवर्तत ॥ ह्व्_७९।२७ ॥
विश्वास-प्रस्तुतिः
नन्दितूर्याण्य् अवाद्यन्त
तुष्टुवुश् च जनार्दनम् ।
रथ्याः पताकामालिन्यो
भ्राजन्ति स्म समन्ततः ॥ ह्व्_७९।२८ ॥
मूलम्
नन्दितूर्याण्य् अवाद्यन्त
तुष्टुवुश् च जनार्दनम् ।
रथ्याः पताकामालिन्यो
भ्राजन्ति स्म समन्ततः ॥ ह्व्_७९।२८ ॥
विश्वास-प्रस्तुतिः
प्रहृष्टमुदितं सर्वम्
अन्तःपुरम् अशोभत ।
गोविन्दागमने ऽत्यर्थं
यथैवेन्द्रमहे तथा ॥ ह्व्_७९।२९ ॥
मूलम्
प्रहृष्टमुदितं सर्वम्
अन्तःपुरम् अशोभत ।
गोविन्दागमने ऽत्यर्थं
यथैवेन्द्रमहे तथा ॥ ह्व्_७९।२९ ॥
विश्वास-प्रस्तुतिः
मुदिताश् चाप्य् अगायन्त
राजमार्गेषु गायनाः ।
स्तवाशीःप्रथमा गाथा
यादवानां प्रियङ्कराः ॥ ह्व्_७९।३० ॥
मूलम्
मुदिताश् चाप्य् अगायन्त
राजमार्गेषु गायनाः ।
स्तवाशीःप्रथमा गाथा
यादवानां प्रियङ्कराः ॥ ह्व्_७९।३० ॥
विश्वास-प्रस्तुतिः
गोविन्दरामौ सम्प्राप्तौ
भ्रातरौ लोकविश्रुतौ ।
स्वे पुरे निर्भयाः सर्वे
क्रीडध्वं सह बान्धवैः ॥ ह्व्_७९।३१ ॥
मूलम्
गोविन्दरामौ सम्प्राप्तौ
भ्रातरौ लोकविश्रुतौ ।
स्वे पुरे निर्भयाः सर्वे
क्रीडध्वं सह बान्धवैः ॥ ह्व्_७९।३१ ॥
विश्वास-प्रस्तुतिः
([क्: त्१।२ ग्१।३-५ म्४ ग्(एद्।) ins.: :क्])
तेभ्यो ऽगच्छन् विदेशेभ्यः
कंसेनोद्विजिताश् च ये । ह्व्_७९।३१८८५ ।
न तत्र कश् चिद् दीनो वा
मलिनो वा विचेतनः ।
मथुरायां बभौ राजन्
गोविन्दे समुपस्थिते ॥ ह्व्_७९।३२ ॥
मूलम्
([क्: त्१।२ ग्१।३-५ म्४ ग्(एद्।) ins.: :क्])
तेभ्यो ऽगच्छन् विदेशेभ्यः
कंसेनोद्विजिताश् च ये । ह्व्_७९।३१८८५ ।
न तत्र कश् चिद् दीनो वा
मलिनो वा विचेतनः ।
मथुरायां बभौ राजन्
गोविन्दे समुपस्थिते ॥ ह्व्_७९।३२ ॥
विश्वास-प्रस्तुतिः
वयांसि साधुवाक्यानि
प्रहृष्टा गोहयद्विपाः ।
नरनारीगणाः सर्वे
भेजिरे मनसः सुखम् ॥ ह्व्_७९।३३ ॥
मूलम्
वयांसि साधुवाक्यानि
प्रहृष्टा गोहयद्विपाः ।
नरनारीगणाः सर्वे
भेजिरे मनसः सुखम् ॥ ह्व्_७९।३३ ॥
विश्वास-प्रस्तुतिः
शिवाश् च वाताः प्रववुर्
विरजस्का दिशो दश ।
दैवतानि च सर्वाणि
हृष्टान्य् आयतनेष्व् अपि ॥ ह्व्_७९।३४ ॥
मूलम्
शिवाश् च वाताः प्रववुर्
विरजस्का दिशो दश ।
दैवतानि च सर्वाणि
हृष्टान्य् आयतनेष्व् अपि ॥ ह्व्_७९।३४ ॥
विश्वास-प्रस्तुतिः
यानि लिङ्गानि लोकस्य
बभुः कृतयुगे पुरा ।
तानि सर्वाण्य् अदृश्यन्त
पुरीं प्राप्ते जनार्दने ॥ ह्व्_७९।३५ ॥
मूलम्
यानि लिङ्गानि लोकस्य
बभुः कृतयुगे पुरा ।
तानि सर्वाण्य् अदृश्यन्त
पुरीं प्राप्ते जनार्दने ॥ ह्व्_७९।३५ ॥
विश्वास-प्रस्तुतिः
ततः काले शिवे पुण्ये
स्यन्दनेनारिमर्दनः ।
हरियुक्तेन गोविन्दो
विवेश मथुरां पुरीम् ॥ ह्व्_७९।३६ ॥
मूलम्
ततः काले शिवे पुण्ये
स्यन्दनेनारिमर्दनः ।
हरियुक्तेन गोविन्दो
विवेश मथुरां पुरीम् ॥ ह्व्_७९।३६ ॥
विश्वास-प्रस्तुतिः
विशन्तं मथुरां रम्यां
तम् उपेन्द्रम् अरिन्दमम् ।
अनुजग्मुर् यदुगणाः
शक्रं देवगणा इव ॥ ह्व्_७९।३७ ॥
मूलम्
विशन्तं मथुरां रम्यां
तम् उपेन्द्रम् अरिन्दमम् ।
अनुजग्मुर् यदुगणाः
शक्रं देवगणा इव ॥ ह्व्_७९।३७ ॥
विश्वास-प्रस्तुतिः
वसुदेवस्य भवनं
ततस् तौ यदुनन्दनौ ।
प्रविष्टौ हृष्टवदनौ
चन्द्रादित्याव् इवाचलम् ॥ ह्व्_७९।३८ ॥
मूलम्
वसुदेवस्य भवनं
ततस् तौ यदुनन्दनौ ।
प्रविष्टौ हृष्टवदनौ
चन्द्रादित्याव् इवाचलम् ॥ ह्व्_७९।३८ ॥
विश्वास-प्रस्तुतिः
([क्: क्स् Ñ२।३ व् ब् द्न् द्स् द्४ त्४ ins.: :क्])
परेण तेजसोपेतौ
सुरेन्द्राव् इव रूपिनौ । ह्व्_७९।३८८८६ ।
ताव् आयुधानि विन्यस्य
गृहे स्वे स्वैरचारिणौ ।
मुमुदाते यदुवरौ
वसुदेवसुताव् उभौ ॥ ह्व्_७९।३९ ॥
मूलम्
([क्: क्स् Ñ२।३ व् ब् द्न् द्स् द्४ त्४ ins.: :क्])
परेण तेजसोपेतौ
सुरेन्द्राव् इव रूपिनौ । ह्व्_७९।३८८८६ ।
ताव् आयुधानि विन्यस्य
गृहे स्वे स्वैरचारिणौ ।
मुमुदाते यदुवरौ
वसुदेवसुताव् उभौ ॥ ह्व्_७९।३९ ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१ Ñ१) स् (एxचेप्त् म्१-३) ins.: :क्])
उद्यानेषु विचित्रेषु
फलपुष्पावनामिषु । ह्व्_७९।३९८८७:१ ।
चेरतुः सुमहात्मानौ
यादवैः परिवारितौ ॥ ह्व्_७९।३९८८७:२ ।
मूलम्
([क्: न् (एxचेप्त् श्१ Ñ१) स् (एxचेप्त् म्१-३) ins.: :क्])
उद्यानेषु विचित्रेषु
फलपुष्पावनामिषु । ह्व्_७९।३९८८७:१ ।
चेरतुः सुमहात्मानौ
यादवैः परिवारितौ ॥ ह्व्_७९।३९८८७:२ ।
विश्वास-प्रस्तुतिः
रैवतस्य समीपेषु
सरित्सु विमलासु च । ह्व्_७९।३९८८७:३ ।
पद्मपत्रसमृद्धासु
कारण्डवयुतासु च । ह्व्_७९।३९८८७:४ ।
([क्: द्६ त्१ ग् म्४ चोन्त्।, म्१-३ ins.: :क्])
एवं तौ बाल्यम् उत्तीर्णौ
बलभद्रजनार्दनौ । ह्व्_७९।३९८८८ ।
एवं ताव् एकनिर्माणौ
मथुरायां शुभाननौ ।
उग्रसेनानुगौ भूत्वा
कं चित् कालं मुमोदतुः ॥ ह्व्_७९।४० ॥
मूलम्
रैवतस्य समीपेषु
सरित्सु विमलासु च । ह्व्_७९।३९८८७:३ ।
पद्मपत्रसमृद्धासु
कारण्डवयुतासु च । ह्व्_७९।३९८८७:४ ।
([क्: द्६ त्१ ग् म्४ चोन्त्।, म्१-३ ins.: :क्])
एवं तौ बाल्यम् उत्तीर्णौ
बलभद्रजनार्दनौ । ह्व्_७९।३९८८८ ।
एवं ताव् एकनिर्माणौ
मथुरायां शुभाननौ ।
उग्रसेनानुगौ भूत्वा
कं चित् कालं मुमोदतुः ॥ ह्व्_७९।४० ॥