विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
महामात्रं ततः कंसो
बभाषे हस्तिजीविनम् ।
हस्ती कुवलयापीडः
समाजद्वारि तिष्ठतु ॥ ह्व्_७३।१ ॥
मूलम्
{वैशम्पायन उवाच}
महामात्रं ततः कंसो
बभाषे हस्तिजीविनम् ।
हस्ती कुवलयापीडः
समाजद्वारि तिष्ठतु ॥ ह्व्_७३।१ ॥
विश्वास-प्रस्तुतिः
बलवान् मदलोलाक्षश्
चपलः क्रोधनो नृषु ।
दानोत्कटकटश् चण्डः
प्रतिवारणरोषणः ॥ ह्व्_७३।२ ॥
मूलम्
बलवान् मदलोलाक्षश्
चपलः क्रोधनो नृषु ।
दानोत्कटकटश् चण्डः
प्रतिवारणरोषणः ॥ ह्व्_७३।२ ॥
विश्वास-प्रस्तुतिः
स सञ्चोदयितव्यस् ते
ताव् उद्दिश्य वनौकसौ ।
वसुदेवसुतौ नीचौ
यथा स्यातां गतायुषौ ॥ ह्व्_७३।३ ॥
मूलम्
स सञ्चोदयितव्यस् ते
ताव् उद्दिश्य वनौकसौ ।
वसुदेवसुतौ नीचौ
यथा स्यातां गतायुषौ ॥ ह्व्_७३।३ ॥
विश्वास-प्रस्तुतिः
त्वया चैव गजेन्द्रेण
यदि तौ गोषु जीविनौ ।
भवेतां घातितौ रङ्गे
पश्येयम् अहम् उत्कटौ ॥ ह्व्_७३।४ ॥
मूलम्
त्वया चैव गजेन्द्रेण
यदि तौ गोषु जीविनौ ।
भवेतां घातितौ रङ्गे
पश्येयम् अहम् उत्कटौ ॥ ह्व्_७३।४ ॥
विश्वास-प्रस्तुतिः
ततस् तौ पतितौ दृष्ट्वा
वसुदेवः सबान्धवः ।
छिन्नमूलो निरालम्बः
सभार्यो विनशिष्यति ॥ ह्व्_७३।५ ॥
मूलम्
ततस् तौ पतितौ दृष्ट्वा
वसुदेवः सबान्धवः ।
छिन्नमूलो निरालम्बः
सभार्यो विनशिष्यति ॥ ह्व्_७३।५ ॥
विश्वास-प्रस्तुतिः
ये चेमे यादवा मूर्खाः
सर्वे कृष्णपरायणाः ।
विनशिष्यन्ति छिन्नाशा
दृष्ट्वा कृष्णं निपातितम् ॥ ह्व्_७३।६ ॥
मूलम्
ये चेमे यादवा मूर्खाः
सर्वे कृष्णपरायणाः ।
विनशिष्यन्ति छिन्नाशा
दृष्ट्वा कृष्णं निपातितम् ॥ ह्व्_७३।६ ॥
विश्वास-प्रस्तुतिः
एतौ हत्वा गजेन्द्रेण
मल्लैर् वा स्वयम् एव वा ।
पुरीं निर्यादवां कृत्वा
विचरिष्याम्य् अहं सुखी ॥ ह्व्_७३।७ ॥
मूलम्
एतौ हत्वा गजेन्द्रेण
मल्लैर् वा स्वयम् एव वा ।
पुरीं निर्यादवां कृत्वा
विचरिष्याम्य् अहं सुखी ॥ ह्व्_७३।७ ॥
विश्वास-प्रस्तुतिः
पितापि मे परित्यक्तो
यो यादवकुलोद्वहः ।
शेषाश् च मे परित्यक्ता
यादवाः कृष्णपक्षिणः ॥ ह्व्_७३।८ ॥
मूलम्
पितापि मे परित्यक्तो
यो यादवकुलोद्वहः ।
शेषाश् च मे परित्यक्ता
यादवाः कृष्णपक्षिणः ॥ ह्व्_७३।८ ॥
विश्वास-प्रस्तुतिः
न चाहम् उग्रसेनेन
जातः किल सुतार्थिना ।
मानुषेणाल्पवीर्येण
यथा माम् आह नारदः ॥ ह्व्_७३।९ ॥
मूलम्
न चाहम् उग्रसेनेन
जातः किल सुतार्थिना ।
मानुषेणाल्पवीर्येण
यथा माम् आह नारदः ॥ ह्व्_७३।९ ॥
विश्वास-प्रस्तुतिः
([क्: after ९, न्(एxचेप्त् श्१ Ñ१) स् (एxचेप्त् म्१-३) ins. अ पस्सगे गिवेन् इन् अप्प्। इ (नो। १४)। :क्])
सुयामुनं नाम गिरिं
मम माता रजस्वला ।
प्रेक्षितुं सह सा स्त्रीभिर्
गता वनकुतूहलात् ॥ ह्व्_७३।१० ॥
मूलम्
([क्: after ९, न्(एxचेप्त् श्१ Ñ१) स् (एxचेप्त् म्१-३) ins. अ पस्सगे गिवेन् इन् अप्प्। इ (नो। १४)। :क्])
सुयामुनं नाम गिरिं
मम माता रजस्वला ।
प्रेक्षितुं सह सा स्त्रीभिर्
गता वनकुतूहलात् ॥ ह्व्_७३।१० ॥
विश्वास-प्रस्तुतिः
सा तत्र रमणीयेषु
रुचिरद्रुमसानुषु ।
चचार नगशृङ्गेषु
कन्दरेषु नदीषु च ॥ ह्व्_७३।११ ॥
मूलम्
सा तत्र रमणीयेषु
रुचिरद्रुमसानुषु ।
चचार नगशृङ्गेषु
कन्दरेषु नदीषु च ॥ ह्व्_७३।११ ॥
विश्वास-प्रस्तुतिः
किन्नरोद्गीतमधुराः
प्रतिश्रुत्यानुनादिताः ।
शृण्वन्ती कामजननीर्
वाचः श्रोत्रसुखावहाः ॥ ह्व्_७३।१२ ॥
मूलम्
किन्नरोद्गीतमधुराः
प्रतिश्रुत्यानुनादिताः ।
शृण्वन्ती कामजननीर्
वाचः श्रोत्रसुखावहाः ॥ ह्व्_७३।१२ ॥
विश्वास-प्रस्तुतिः
बर्हिणानां च विरुतं
खगानां च विकूजितम् ।
अभीक्ष्णम् अभिशृण्वन्ती
स्त्रीधर्मम् अभिरोचयत् ॥ ह्व्_७३।१३ ॥
मूलम्
बर्हिणानां च विरुतं
खगानां च विकूजितम् ।
अभीक्ष्णम् अभिशृण्वन्ती
स्त्रीधर्मम् अभिरोचयत् ॥ ह्व्_७३।१३ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्न् अन्तरे वायुर्
वनराजिविनिःसृतः ।
हृद्यः कुसुमगन्धाढ्यो
ववौ मन्मथबोधनः ॥ ह्व्_७३।१४ ॥
मूलम्
एतस्मिन्न् अन्तरे वायुर्
वनराजिविनिःसृतः ।
हृद्यः कुसुमगन्धाढ्यो
ववौ मन्मथबोधनः ॥ ह्व्_७३।१४ ॥
विश्वास-प्रस्तुतिः
द्विरेफाभरणाश् चैव
कदम्बा वायुघट्टिताः ।
मुमुचुर् गन्धम् अधिकं
सन्ततासारमूर्छिताः ॥ ह्व्_७३।१५ ॥
मूलम्
द्विरेफाभरणाश् चैव
कदम्बा वायुघट्टिताः ।
मुमुचुर् गन्धम् अधिकं
सन्ततासारमूर्छिताः ॥ ह्व्_७३।१५ ॥
विश्वास-प्रस्तुतिः
केसराः पुष्पवर्षैश् च
ववृषुः मदबोधनाः ।
नीपा दीपा इवाभान्ति
पुष्पकण्टकधारिणः ॥ ह्व्_७३।१६ ॥
मूलम्
केसराः पुष्पवर्षैश् च
ववृषुः मदबोधनाः ।
नीपा दीपा इवाभान्ति
पुष्पकण्टकधारिणः ॥ ह्व्_७३।१६ ॥
विश्वास-प्रस्तुतिः
मही नवतृणच्छन्ना
शक्रगोपविभूषिता ।
यौवनस्थेव वनिता
खं दधारार्तवं वपुः ॥ ह्व्_७३।१७ ॥
मूलम्
मही नवतृणच्छन्ना
शक्रगोपविभूषिता ।
यौवनस्थेव वनिता
खं दधारार्तवं वपुः ॥ ह्व्_७३।१७ ॥
विश्वास-प्रस्तुतिः
अथ सौभपतिः श्रीमान्
द्रुमिलो नाम दानवः ।
([क्: after १८अब्, न्(एxचेप्त् श्१,Ñ१),स्(एxचेप्त् म्१-३) ins. अप्प्। इ (नो। १५)। :क्])
उग्रसेनस्य रूपेण
मातरं मे प्रधर्षयत् ॥ ह्व्_७३।१८ ॥
मूलम्
अथ सौभपतिः श्रीमान्
द्रुमिलो नाम दानवः ।
([क्: after १८अब्, न्(एxचेप्त् श्१,Ñ१),स्(एxचेप्त् म्१-३) ins. अप्प्। इ (नो। १५)। :क्])
उग्रसेनस्य रूपेण
मातरं मे प्रधर्षयत् ॥ ह्व्_७३।१८ ॥
विश्वास-प्रस्तुतिः
सा पतिस्निग्धहृदया
भावेनोपससर्प तम् ।
शङ्किता चाभवत् पश्चात्
तस्य गौरवदर्शनात् ॥ ह्व्_७३।१९ ॥
मूलम्
सा पतिस्निग्धहृदया
भावेनोपससर्प तम् ।
शङ्किता चाभवत् पश्चात्
तस्य गौरवदर्शनात् ॥ ह्व्_७३।१९ ॥
विश्वास-प्रस्तुतिः
सा तम् आहोत्थिता भीता
न त्वं मम पतिर् ध्रुवम् ।
कश् च त्वं विकृताकारो
येनास्मि मलिनीकृता ॥ ह्व्_७३।२० ॥
मूलम्
सा तम् आहोत्थिता भीता
न त्वं मम पतिर् ध्रुवम् ।
कश् च त्वं विकृताकारो
येनास्मि मलिनीकृता ॥ ह्व्_७३।२० ॥
विश्वास-प्रस्तुतिः
एकपत्नीव्रतम् इदं
मम सन्दूषितं त्वया ।
पत्युर् मे रूपम् आस्थाय
नीच नीचेन कर्मणा ॥ ह्व्_७३।२१ ॥
मूलम्
एकपत्नीव्रतम् इदं
मम सन्दूषितं त्वया ।
पत्युर् मे रूपम् आस्थाय
नीच नीचेन कर्मणा ॥ ह्व्_७३।२१ ॥
विश्वास-प्रस्तुतिः
किं मां वक्ष्यन्ति रुषिता
बान्धवाः कुलपांसनीम् ।
जुगुप्सिता च वत्स्यामि
पतिपक्षैर् निराकृता ॥ ह्व्_७३।२२ ॥
मूलम्
किं मां वक्ष्यन्ति रुषिता
बान्धवाः कुलपांसनीम् ।
जुगुप्सिता च वत्स्यामि
पतिपक्षैर् निराकृता ॥ ह्व्_७३।२२ ॥
विश्वास-प्रस्तुतिः
धिक् त्वाम् ईदृशम् अक्षान्तं
दौष्कुलं व्युत्थितेन्द्रियम् ।
अविश्वास्यम् अनायुष्यं
परदाराभिमर्शनम् ॥ ह्व्_७३।२३ ॥
मूलम्
धिक् त्वाम् ईदृशम् अक्षान्तं
दौष्कुलं व्युत्थितेन्द्रियम् ।
अविश्वास्यम् अनायुष्यं
परदाराभिमर्शनम् ॥ ह्व्_७३।२३ ॥
विश्वास-प्रस्तुतिः
स ताम् आह प्रसज्जन्तीं
क्षिप्तः क्रोधेन दानवः ।
अहं वै द्रुमिलो नाम
सौभस्य पतिर् ऊर्जितः ॥ ह्व्_७३।२४ ॥
मूलम्
स ताम् आह प्रसज्जन्तीं
क्षिप्तः क्रोधेन दानवः ।
अहं वै द्रुमिलो नाम
सौभस्य पतिर् ऊर्जितः ॥ ह्व्_७३।२४ ॥
विश्वास-प्रस्तुतिः
किं मां क्षिपसि दोषेण
मूढे पण्डितमानिनि ।
मानुषं पतिम् आश्रित्य
हीनवीर्यपराक्रमम् ॥ ह्व्_७३।२५ ॥
मूलम्
किं मां क्षिपसि दोषेण
मूढे पण्डितमानिनि ।
मानुषं पतिम् आश्रित्य
हीनवीर्यपराक्रमम् ॥ ह्व्_७३।२५ ॥
विश्वास-प्रस्तुतिः
व्यभिचारान् न दुष्यन्ति
स्त्रियः स्त्रीमान् अगर्विते ।
न्य् ह्य् आसीन्न् इयता बुद्धिर्
मानुषीणां विशेषतः ॥ ह्व्_७३।२६ ॥
मूलम्
व्यभिचारान् न दुष्यन्ति
स्त्रियः स्त्रीमान् अगर्विते ।
न्य् ह्य् आसीन्न् इयता बुद्धिर्
मानुषीणां विशेषतः ॥ ह्व्_७३।२६ ॥
विश्वास-प्रस्तुतिः
श्रूयन्ते हि स्त्रियो बह्व्यो
व्यभिचारव्यतिक्रमैः ।
प्रसूता देवसङ्काशान्
पुत्रान् अमितविक्रमान् ॥ ह्व्_७३।२७ ॥
मूलम्
श्रूयन्ते हि स्त्रियो बह्व्यो
व्यभिचारव्यतिक्रमैः ।
प्रसूता देवसङ्काशान्
पुत्रान् अमितविक्रमान् ॥ ह्व्_७३।२७ ॥
विश्वास-प्रस्तुतिः
अतीव त्वं हि लोके ऽस्मिन्
पतिधर्मवती सती ।
शुद्धा केशान्विधुन्वन्ती
भाषसे यद् यद् इच्छसि ॥ ह्व्_७३।२८ ॥
मूलम्
अतीव त्वं हि लोके ऽस्मिन्
पतिधर्मवती सती ।
शुद्धा केशान्विधुन्वन्ती
भाषसे यद् यद् इच्छसि ॥ ह्व्_७३।२८ ॥
विश्वास-प्रस्तुतिः
कस्य त्वम् इति यच् चाहं
त्वयोक्तो मत्तकाशिनी ।
कंसो नाम रिपुध्वंशी
तव पुत्रो भविष्यति ॥ ह्व्_७३।२९ ॥
मूलम्
कस्य त्वम् इति यच् चाहं
त्वयोक्तो मत्तकाशिनी ।
कंसो नाम रिपुध्वंशी
तव पुत्रो भविष्यति ॥ ह्व्_७३।२९ ॥
विश्वास-प्रस्तुतिः
सा सरोषा पुनर् भूत्वा
निन्दती तस्य तं वरम् ।
उवाच व्यथिता देवी
दानवं दुष्टवादिनम् ॥ ह्व्_७३।३० ॥
मूलम्
सा सरोषा पुनर् भूत्वा
निन्दती तस्य तं वरम् ।
उवाच व्यथिता देवी
दानवं दुष्टवादिनम् ॥ ह्व्_७३।३० ॥
विश्वास-प्रस्तुतिः
धिक् ते वृत्तं सुदुर्वृत्त
यः सर्वा निन्दसे स्त्रियः ।
सन्ति स्त्रियो नीचवृत्ताः
सन्ति चैव पतिव्रताः ॥ ह्व्_७३।३१ ॥
मूलम्
धिक् ते वृत्तं सुदुर्वृत्त
यः सर्वा निन्दसे स्त्रियः ।
सन्ति स्त्रियो नीचवृत्ताः
सन्ति चैव पतिव्रताः ॥ ह्व्_७३।३१ ॥
विश्वास-प्रस्तुतिः
यास् त्व् एकपत्न्यः श्रूयन्ते
ऽरुन्धतीप्रमुखाः स्त्रियः ।
धृतास् ताभिस् त्रयो लोकाः
सर्वे वै कुलपांसन ॥ ह्व्_७३।३२ ॥
मूलम्
यास् त्व् एकपत्न्यः श्रूयन्ते
ऽरुन्धतीप्रमुखाः स्त्रियः ।
धृतास् ताभिस् त्रयो लोकाः
सर्वे वै कुलपांसन ॥ ह्व्_७३।३२ ॥
विश्वास-प्रस्तुतिः
यस् त्वया मम पुत्रो वै
दत्तो वृत्तविनाशनः ।
न मे बहुमतस् त्व् एष
शृणु चापि यद् उच्यते ॥ ह्व्_७३।३३ ॥
मूलम्
यस् त्वया मम पुत्रो वै
दत्तो वृत्तविनाशनः ।
न मे बहुमतस् त्व् एष
शृणु चापि यद् उच्यते ॥ ह्व्_७३।३३ ॥
विश्वास-प्रस्तुतिः
उत्पत्स्यति पुमान् नीच
पतिवंशे ममाव्ययः ।
भविष्यति स ते मृत्युर्
यश् च दत्तस् त्वया सुतः ॥ ह्व्_७३।३४ ॥
मूलम्
उत्पत्स्यति पुमान् नीच
पतिवंशे ममाव्ययः ।
भविष्यति स ते मृत्युर्
यश् च दत्तस् त्वया सुतः ॥ ह्व्_७३।३४ ॥
विश्वास-प्रस्तुतिः
द्रुमिलस् त्व् एवम् उक्तस् तु
जगामाकाशम् एव तु ।
([क्: after ३५अब्, न्(एxचेप्त् श्१,Ñ१), स्(एxचेप्त् म्१-३) ins.: :क्])
तेनैव रथमुख्येन
दिव्येनाप्रतिगामिना । ह्व्_७३।३५अब्८२१ ।
जगाम च पुरीं दीना
माता तद् अहर् एव मे ॥ ह्व्_७३।३५ ॥
मूलम्
द्रुमिलस् त्व् एवम् उक्तस् तु
जगामाकाशम् एव तु ।
([क्: after ३५अब्, न्(एxचेप्त् श्१,Ñ१), स्(एxचेप्त् म्१-३) ins.: :क्])
तेनैव रथमुख्येन
दिव्येनाप्रतिगामिना । ह्व्_७३।३५अब्८२१ ।
जगाम च पुरीं दीना
माता तद् अहर् एव मे ॥ ह्व्_७३।३५ ॥
विश्वास-प्रस्तुतिः
([क्: after ३५, न्(एxचेप्त् श्१,Ñ१),स्(एxचेप्त् म्१-३) ins.: :क्])
माम् एवम् उक्त्वा भगवान्
नारदो मुनिसत्तमः । ह्व्_७३।३५८२२:१ ।
दीप्यमानस् तपोवीर्यात्
साक्षाद् अग्निर् इव ज्वलन् ॥ ह्व्_७३।३५८२२:२ ।
मूलम्
([क्: after ३५, न्(एxचेप्त् श्१,Ñ१),स्(एxचेप्त् म्१-३) ins.: :क्])
माम् एवम् उक्त्वा भगवान्
नारदो मुनिसत्तमः । ह्व्_७३।३५८२२:१ ।
दीप्यमानस् तपोवीर्यात्
साक्षाद् अग्निर् इव ज्वलन् ॥ ह्व्_७३।३५८२२:२ ।
विश्वास-प्रस्तुतिः
वल्लकीं वाद्यमानस् तु
सप्तस्वरविमूर्छिताम् । ह्व्_७३।३५८२२:३ ।
गायनो लक्ष्यवीथीं च
जगाम ब्रह्मणो ऽन्तिकम् ॥ ह्व्_७३।३५८२२:४ ।
मूलम्
वल्लकीं वाद्यमानस् तु
सप्तस्वरविमूर्छिताम् । ह्व्_७३।३५८२२:३ ।
गायनो लक्ष्यवीथीं च
जगाम ब्रह्मणो ऽन्तिकम् ॥ ह्व्_७३।३५८२२:४ ।
विश्वास-प्रस्तुतिः
शृणुष्वेदं महामात्र
निबोध वचनं मम । ह्व्_७३।३५८२२:५ ।
तथ्यं चोक्तं नारदेन
त्रैकालज्ञेन धीमता ॥ ह्व्_७३।३५८२२:६ ।
मूलम्
शृणुष्वेदं महामात्र
निबोध वचनं मम । ह्व्_७३।३५८२२:५ ।
तथ्यं चोक्तं नारदेन
त्रैकालज्ञेन धीमता ॥ ह्व्_७३।३५८२२:६ ।
विश्वास-प्रस्तुतिः
अहं बलेन वीर्येण
नयेन विनयेन च । ह्व्_७३।३५८२२:७ ।
प्रभावेणैव शौर्येण
तेजसा विक्रमेण च ॥ ह्व्_७३।३५८२२:८ ।
मूलम्
अहं बलेन वीर्येण
नयेन विनयेन च । ह्व्_७३।३५८२२:७ ।
प्रभावेणैव शौर्येण
तेजसा विक्रमेण च ॥ ह्व्_७३।३५८२२:८ ।
विश्वास-प्रस्तुतिः
सत्येन चैव दानेन
नान्यो ऽस्ति सदृशः पुमान् । ह्व्_७३।३५८२२:९ ।
विदित्वा सर्वम् आत्मानं
वचनं श्रद्दधाम्य् अहम् । ह्व्_७३।३५८२२:१० ।
क्षेत्रजो ऽहं सुतस् त्व् एवम्
उग्रसेनस्य हस्तिप ।
मातापितृभ्यां सन्त्यक्तः
स्थापितः स्वेन तेजसा ॥ ह्व्_७३।३६ ॥
मूलम्
सत्येन चैव दानेन
नान्यो ऽस्ति सदृशः पुमान् । ह्व्_७३।३५८२२:९ ।
विदित्वा सर्वम् आत्मानं
वचनं श्रद्दधाम्य् अहम् । ह्व्_७३।३५८२२:१० ।
क्षेत्रजो ऽहं सुतस् त्व् एवम्
उग्रसेनस्य हस्तिप ।
मातापितृभ्यां सन्त्यक्तः
स्थापितः स्वेन तेजसा ॥ ह्व्_७३।३६ ॥
विश्वास-प्रस्तुतिः
([क्: Wहिले द्६,त्१।२,ग्,म्१-२ ins. after ३७अब्: :क्])
बध्वा च पितरं राज्ये
स्थितो ऽस्मि च बलीयसा । ह्व्_७३।३७अब्८२४ ।
एतान् अपि हनिष्यमि
हत्वा गोपालकाव् उभौ ॥ ह्व्_७३।३७ ॥
मूलम्
([क्: Wहिले द्६,त्१।२,ग्,म्१-२ ins. after ३७अब्: :क्])
बध्वा च पितरं राज्ये
स्थितो ऽस्मि च बलीयसा । ह्व्_७३।३७अब्८२४ ।
एतान् अपि हनिष्यमि
हत्वा गोपालकाव् उभौ ॥ ह्व्_७३।३७ ॥
विश्वास-प्रस्तुतिः
तद् गच्छ गजम् आरुह्य
साङ्कुशप्रासतोमरः ।
स्थिरो भव महामात्र
समाजद्वारि मा चिरम् ॥ ह्व्_७३।३८ ॥
मूलम्
तद् गच्छ गजम् आरुह्य
साङ्कुशप्रासतोमरः ।
स्थिरो भव महामात्र
समाजद्वारि मा चिरम् ॥ ह्व्_७३।३८ ॥