०७१

विश्वास-प्रस्तुतिः

{वैशम्पायन उवाच}
ते तु युक्त्वा रथवरं
सर्व एवामितौजसः ।
([क्: after १अब्, अल्ल् म्स्स्। (एxचेप्त् श्१,Ñ१,म्१-३) ins.: :क्])
कृष्णेन सहिताः प्राप्तास्
तथा सङ्कर्षणेन च । ह्व्_७१।१अब्७९५ ।
([क्: Ñ२।३ व्१।२ ब् द्२-६ त्२-४ चोन्त्।: :क्])
अससाद पुरीं रस्यां
मथुरां कंसपालिताम् । ह्व्_७१।१अब्७९६ ।
विविशुः पूःप्रधानां वै
काले रक्तदिवाकरे ॥ ह्व्_७१।१ ॥

मूलम्

{वैशम्पायन उवाच}
ते तु युक्त्वा रथवरं
सर्व एवामितौजसः ।
([क्: after १अब्, अल्ल् म्स्स्। (एxचेप्त् श्१,Ñ१,म्१-३) ins.: :क्])
कृष्णेन सहिताः प्राप्तास्
तथा सङ्कर्षणेन च । ह्व्_७१।१अब्७९५ ।
([क्: Ñ२।३ व्१।२ ब् द्२-६ त्२-४ चोन्त्।: :क्])
अससाद पुरीं रस्यां
मथुरां कंसपालिताम् । ह्व्_७१।१अब्७९६ ।
विविशुः पूःप्रधानां वै
काले रक्तदिवाकरे ॥ ह्व्_७१।१ ॥

विश्वास-प्रस्तुतिः

तौ तु स्वभवनं वीरौ
कृष्णसङ्कर्षणाव् उभौ ।
प्रवेशितौ बुद्धिमता
अक्रूरेणार्कतेजसा ॥ ह्व्_७१।२ ॥

मूलम्

तौ तु स्वभवनं वीरौ
कृष्णसङ्कर्षणाव् उभौ ।
प्रवेशितौ बुद्धिमता
अक्रूरेणार्कतेजसा ॥ ह्व्_७१।२ ॥

विश्वास-प्रस्तुतिः

ताव् आह वरवर्णाङ्गौ
भीतो दानपतिस् तदा ।
त्यक्तव्या तात गमने
वसुदेवगृहे स्पृहा ॥ ह्व्_७१।३ ॥

मूलम्

ताव् आह वरवर्णाङ्गौ
भीतो दानपतिस् तदा ।
त्यक्तव्या तात गमने
वसुदेवगृहे स्पृहा ॥ ह्व्_७१।३ ॥

विश्वास-प्रस्तुतिः

युवयोर् हि कृते वृद्धः
कंसेन स निरस्यते ।
भर्त्स्यते च दिवा रात्रौ
नेह स्थातव्यम् इत्य् अपि ॥ ह्व्_७१।४ ॥

मूलम्

युवयोर् हि कृते वृद्धः
कंसेन स निरस्यते ।
भर्त्स्यते च दिवा रात्रौ
नेह स्थातव्यम् इत्य् अपि ॥ ह्व्_७१।४ ॥

विश्वास-प्रस्तुतिः

([क्: after ४, अल्ल् म्स्स्। (एxचेप्त् श्१,Ñ१,म्१-३) ins.: :क्])
तद् युवाभ्यां हि कर्तव्यं
पित्रर्थं सुखम् उत्तमम् । ह्व्_७१।४७९७:१ ।
यथा सुखम् अवाप्नोति
तद् वै कार्यं हितान्वितम् । ह्व्_७१।४७९७:२ ।
([क्: द्२ चोन्त्। (=भ्प् १०,४१।११।१२अब्।१३।१५-१६): :क्])
नाहं युवाभ्यां रहितः
प्रवेक्ष्ये मथुरां पुरीम् । ह्व्_७१।४७९८:१ ।
त्यक्तुं नार्हसि मां नाथ
भक्तं ते भक्तवत्सल ॥ ह्व्_७१।४७९८:२ ।

मूलम्

([क्: after ४, अल्ल् म्स्स्। (एxचेप्त् श्१,Ñ१,म्१-३) ins.: :क्])
तद् युवाभ्यां हि कर्तव्यं
पित्रर्थं सुखम् उत्तमम् । ह्व्_७१।४७९७:१ ।
यथा सुखम् अवाप्नोति
तद् वै कार्यं हितान्वितम् । ह्व्_७१।४७९७:२ ।
([क्: द्२ चोन्त्। (=भ्प् १०,४१।११।१२अब्।१३।१५-१६): :क्])
नाहं युवाभ्यां रहितः
प्रवेक्ष्ये मथुरां पुरीम् । ह्व्_७१।४७९८:१ ।
त्यक्तुं नार्हसि मां नाथ
भक्तं ते भक्तवत्सल ॥ ह्व्_७१।४७९८:२ ।

विश्वास-प्रस्तुतिः

आगच्छ याम गेहान् नः
सनाथान् कुर्व् अधोक्षज । ह्व्_७१।४७९८:३ ।
पुनीहि पादरजसा
गृहान् नो गृहमेधिनाम् । ह्व्_७१।४७९८:४ ।
यच्छौचेनानुतृप्यन्ति
पितरः साग्नयः सुराः ॥ ह्व्_७१।४७९८:५ ।

मूलम्

आगच्छ याम गेहान् नः
सनाथान् कुर्व् अधोक्षज । ह्व्_७१।४७९८:३ ।
पुनीहि पादरजसा
गृहान् नो गृहमेधिनाम् । ह्व्_७१।४७९८:४ ।
यच्छौचेनानुतृप्यन्ति
पितरः साग्नयः सुराः ॥ ह्व्_७१।४७९८:५ ।

विश्वास-प्रस्तुतिः

आपस् ते ऽङ्घ्र्यवनेजन्यस्
त्रीन् लोकान् शुचयो ऽपुनन् । ह्व्_७१।४७९८:६ ।
शिरसाधत्त याः शर्वः
स्वयं ताः सगरात्मजाः ॥ ह्व्_७१।४७९८:७ ।

मूलम्

आपस् ते ऽङ्घ्र्यवनेजन्यस्
त्रीन् लोकान् शुचयो ऽपुनन् । ह्व्_७१।४७९८:६ ।
शिरसाधत्त याः शर्वः
स्वयं ताः सगरात्मजाः ॥ ह्व्_७१।४७९८:७ ।

विश्वास-प्रस्तुतिः

देवदेव जगन्नाथ
पुण्यश्रवणकीर्तन । ह्व्_७१।४७९८:८ ।
यदूनाम् उत्तमःश्लोक
नारायण नमो ऽस्तु ते । ह्व्_७१।४७९८:९ ।
तम् उवाच ततः कृष्णो
यास्यावो ऽवाम् अतर्कितौ ।
प्रेक्षन्तौ मथुरां वीर
राजमार्गं च धार्मिक ॥ ह्व्_७१।५ ॥

मूलम्

देवदेव जगन्नाथ
पुण्यश्रवणकीर्तन । ह्व्_७१।४७९८:८ ।
यदूनाम् उत्तमःश्लोक
नारायण नमो ऽस्तु ते । ह्व्_७१।४७९८:९ ।
तम् उवाच ततः कृष्णो
यास्यावो ऽवाम् अतर्कितौ ।
प्रेक्षन्तौ मथुरां वीर
राजमार्गं च धार्मिक ॥ ह्व्_७१।५ ॥

([क्: क्,Ñ,व्,ब्,द्,त्३।४ ins. after ५; त्१,ग्२-५ after ५अब्: :क्]) तस्यैव तु गृहं साधो गच्छावो यदि मन्यसे । *ह्व्_७१।५*७९९ ।
विश्वास-प्रस्तुतिः

([क्: द्२ चोन्त्। (=भ्प्१०,४१।१८]): :क्])
एवम् उक्तो भगवता
सो ऽक्रूरो विमना इव । ह्व्_७१।५८००:१ ।
पुरीं प्रविष्टः कंसाय
कर्मावेद्य गृहं ययौ । ह्व्_७१।५८००:२ ।
([क्: व्२,द्न्,द्६ चोन्त्। after *७९९; त्१।२,ग्,ग्(एद्।) ins. after ६अब्; म्१-३ after ५: :क्])
{वैशम्पायन उवाच}
अक्रूरो ऽपि नमस्कृत्य
मनसा विष्णुम् अव्ययम् । ह्व्_७१।५८०१:१ ।
जगाम कंसपार्श्वं तु
प्रहृष्टेनान्तरात्मना । ह्व्_७१।५८०१:२ ।
([क्: त्१।२,ग्,म् चोन्त्।: :क्])
तौ च देवौ जगन्नाथौ
बलकेशवसञ्ज्ञितौ । ह्व्_७१।५८०२ ।
अनुशिष्टौ च तौ वीरौ
प्रस्थितौ प्रेक्षकाव् उभौ ।
आलानाभ्याम् इवोत्सृष्टौ
कुञ्जरौ युद्धकाङ्क्षिणौ ॥ ह्व्_७१।६ ॥

मूलम्

([क्: द्२ चोन्त्। (=भ्प्१०,४१।१८]): :क्])
एवम् उक्तो भगवता
सो ऽक्रूरो विमना इव । ह्व्_७१।५८००:१ ।
पुरीं प्रविष्टः कंसाय
कर्मावेद्य गृहं ययौ । ह्व्_७१।५८००:२ ।
([क्: व्२,द्न्,द्६ चोन्त्। after *७९९; त्१।२,ग्,ग्(एद्।) ins. after ६अब्; म्१-३ after ५: :क्])
{वैशम्पायन उवाच}
अक्रूरो ऽपि नमस्कृत्य
मनसा विष्णुम् अव्ययम् । ह्व्_७१।५८०१:१ ।
जगाम कंसपार्श्वं तु
प्रहृष्टेनान्तरात्मना । ह्व्_७१।५८०१:२ ।
([क्: त्१।२,ग्,म् चोन्त्।: :क्])
तौ च देवौ जगन्नाथौ
बलकेशवसञ्ज्ञितौ । ह्व्_७१।५८०२ ।
अनुशिष्टौ च तौ वीरौ
प्रस्थितौ प्रेक्षकाव् उभौ ।
आलानाभ्याम् इवोत्सृष्टौ
कुञ्जरौ युद्धकाङ्क्षिणौ ॥ ह्व्_७१।६ ॥

विश्वास-प्रस्तुतिः

([क्: after ६, द्६,स्(एxचेप्त् त्३।४) ins.: :क्])
दारकाश् च तयोर् मार्गम्
अनुवव्रुः समन्ततः । ह्व्_७१।६८०३ ।
तौ तु मार्गगतं दृष्ट्वा
रजकं रङ्गकारकम् ।
अयाचेतां ततस् तानि
वासांसि विरजानि वै ॥ ह्व्_७१।७ ॥

मूलम्

([क्: after ६, द्६,स्(एxचेप्त् त्३।४) ins.: :क्])
दारकाश् च तयोर् मार्गम्
अनुवव्रुः समन्ततः । ह्व्_७१।६८०३ ।
तौ तु मार्गगतं दृष्ट्वा
रजकं रङ्गकारकम् ।
अयाचेतां ततस् तानि
वासांसि विरजानि वै ॥ ह्व्_७१।७ ॥

विश्वास-प्रस्तुतिः

रजकः स तु तौ प्राह
युवां कस्य वनेचरौ ।
राज्ञो वासांसि यौ मूर्खौ
याचेतां निर्भयाव् उभौ ॥ ह्व्_७१।८ ॥

मूलम्

रजकः स तु तौ प्राह
युवां कस्य वनेचरौ ।
राज्ञो वासांसि यौ मूर्खौ
याचेतां निर्भयाव् उभौ ॥ ह्व्_७१।८ ॥

विश्वास-प्रस्तुतिः

अहं कंसस्य वासांसि
नानादेशोद्भवानि च ।
कामरागाणि शतशो
रजामि विविधानि च ॥ ह्व्_७१।९ ॥

मूलम्

अहं कंसस्य वासांसि
नानादेशोद्भवानि च ।
कामरागाणि शतशो
रजामि विविधानि च ॥ ह्व्_७१।९ ॥

विश्वास-प्रस्तुतिः

युवां कस्य वने जातौ
मृगैः सह विवर्धितौ ।
जातरागाव् इदं दृष्ट्वा
रक्तम् आच्छादनं बहु ॥ ह्व्_७१।१० ॥

मूलम्

युवां कस्य वने जातौ
मृगैः सह विवर्धितौ ।
जातरागाव् इदं दृष्ट्वा
रक्तम् आच्छादनं बहु ॥ ह्व्_७१।१० ॥

विश्वास-प्रस्तुतिः

अहो वां जीवितं त्यक्तं
यौ भवन्ताव् इहागतौ ।
मूर्खौ प्राकृतविज्ञानौ
वासो याचितुम् अर्हथ ॥ ह्व्_७१।११ ॥

मूलम्

अहो वां जीवितं त्यक्तं
यौ भवन्ताव् इहागतौ ।
मूर्खौ प्राकृतविज्ञानौ
वासो याचितुम् अर्हथ ॥ ह्व्_७१।११ ॥

विश्वास-प्रस्तुतिः

तस्मै चुक्रोध वै कृष्णो
रजकायाल्पमेधसे ।
प्राप्तारिष्टाय मूर्खाय
सृजते वाङ्मयं विषम् ॥ ह्व्_७१।१२ ॥

मूलम्

तस्मै चुक्रोध वै कृष्णो
रजकायाल्पमेधसे ।
प्राप्तारिष्टाय मूर्खाय
सृजते वाङ्मयं विषम् ॥ ह्व्_७१।१२ ॥

विश्वास-प्रस्तुतिः

तलेनाशनिकल्पेन
स तं मूर्धन्य् अताडयत् ।
गतासुः स पपातोर्व्यां
रजको व्यस्तमस्तकः ॥ ह्व्_७१।१३ ॥

मूलम्

तलेनाशनिकल्पेन
स तं मूर्धन्य् अताडयत् ।
गतासुः स पपातोर्व्यां
रजको व्यस्तमस्तकः ॥ ह्व्_७१।१३ ॥

विश्वास-प्रस्तुतिः

तं हतं परिदेवन्त्यो
भार्यास् तस्य विचुक्रुशुः ।
त्वरितं मुक्तकेश्यश् च
जग्मुः कंसनिवेशनम् ॥ ह्व्_७१।१४ ॥

मूलम्

तं हतं परिदेवन्त्यो
भार्यास् तस्य विचुक्रुशुः ।
त्वरितं मुक्तकेश्यश् च
जग्मुः कंसनिवेशनम् ॥ ह्व्_७१।१४ ॥

विश्वास-प्रस्तुतिः

([क्: after १४, द्६,स् (एxचेप्त् त्३।४) ins.: :क्])
कृष्णो ऽपि बलभद्रश् च
वासांस्य् आदाय सर्वतः । ह्व्_७१।१४८०४:१ ।
परिधाय तु तौ पूर्वं
शोभयेतां महामती ॥ ह्व्_७१।१४८०४:२ ।

मूलम्

([क्: after १४, द्६,स् (एxचेप्त् त्३।४) ins.: :क्])
कृष्णो ऽपि बलभद्रश् च
वासांस्य् आदाय सर्वतः । ह्व्_७१।१४८०४:१ ।
परिधाय तु तौ पूर्वं
शोभयेतां महामती ॥ ह्व्_७१।१४८०४:२ ।

विश्वास-प्रस्तुतिः

दारकेभ्यस् ततो दत्त्वा
सुश्लक्ष्णानि मृदूनि च । ह्व्_७१।१४८०४:३ ।
ते च सर्वे सुवसना
विरेजुः शतशस् तथा ॥ ह्व्_७१।१४८०४:४ ।

मूलम्

दारकेभ्यस् ततो दत्त्वा
सुश्लक्ष्णानि मृदूनि च । ह्व्_७१।१४८०४:३ ।
ते च सर्वे सुवसना
विरेजुः शतशस् तथा ॥ ह्व्_७१।१४८०४:४ ।

विश्वास-प्रस्तुतिः

शेषाणि तु तदा कृष्णो
वासांसि सुबहून्य् अपि । ह्व्_७१।१४८०४:५ ।
आच्छिछाच्छिद्य सहसा
चिच्छेद च पिपेष च ॥ ह्व्_७१।१४८०४:६ ।

मूलम्

शेषाणि तु तदा कृष्णो
वासांसि सुबहून्य् अपि । ह्व्_७१।१४८०४:५ ।
आच्छिछाच्छिद्य सहसा
चिच्छेद च पिपेष च ॥ ह्व्_७१।१४८०४:६ ।

विश्वास-प्रस्तुतिः

भस्मसाद् अकरोत् तस्य
रजकस्य निवेशनम् । ह्व्_७१।१४८०४:७ ।
ताव् अप्य् उभौ सुवसनौ
जग्मतुर् माल्यकारणात् ।
([क्: after १५अब्, व्२ ins.: :क्])
यथायोगं यथाभोग्यं
यथायोगं नि[दर्श्य] च । ह्व्_७१।१५अब्८०५ ।
वीथीं माल्यापणानां वै
गन्धाघ्रातौ द्विपाव् इव ॥ ह्व्_७१।१५ ॥

मूलम्

भस्मसाद् अकरोत् तस्य
रजकस्य निवेशनम् । ह्व्_७१।१४८०४:७ ।
ताव् अप्य् उभौ सुवसनौ
जग्मतुर् माल्यकारणात् ।
([क्: after १५अब्, व्२ ins.: :क्])
यथायोगं यथाभोग्यं
यथायोगं नि[दर्श्य] च । ह्व्_७१।१५अब्८०५ ।
वीथीं माल्यापणानां वै
गन्धाघ्रातौ द्विपाव् इव ॥ ह्व्_७१।१५ ॥

विश्वास-प्रस्तुतिः

गुणको नाम तत्रासीन्
माल्यवृत्तिः प्रियंवदः ।
प्रभूतमाल्यापणवाल्
लक्ष्मीवान् माल्यजीवनः ॥ ह्व्_७१।१६ ॥

मूलम्

गुणको नाम तत्रासीन्
माल्यवृत्तिः प्रियंवदः ।
प्रभूतमाल्यापणवाल्
लक्ष्मीवान् माल्यजीवनः ॥ ह्व्_७१।१६ ॥

विश्वास-प्रस्तुतिः

तं कृष्णः श्लक्ष्णया वाचा
माल्यार्थम् अभिसृष्टया ।
देहीत्य् उवाच तत्कालं
मालाकारम् अकातरम् ॥ ह्व्_७१।१७ ॥

मूलम्

तं कृष्णः श्लक्ष्णया वाचा
माल्यार्थम् अभिसृष्टया ।
देहीत्य् उवाच तत्कालं
मालाकारम् अकातरम् ॥ ह्व्_७१।१७ ॥

विश्वास-प्रस्तुतिः

ताभ्यां प्रीतो ददौ माल्यं
प्रभूतं माल्यजीवनः ।
भवतोः स्वम् इदं चेति
प्रोवाच प्रियदर्शनः ॥ ह्व्_७१।१८ ॥

मूलम्

ताभ्यां प्रीतो ददौ माल्यं
प्रभूतं माल्यजीवनः ।
भवतोः स्वम् इदं चेति
प्रोवाच प्रियदर्शनः ॥ ह्व्_७१।१८ ॥

विश्वास-प्रस्तुतिः

प्रीतस् तु मनसा कृष्णो
गुणकाय वरं ददौ ।
श्रीस् त्वां मत्संश्रया सौम्य
धनौघैर् अभिवर्त्स्यते ॥ ह्व्_७१।१९ ॥

मूलम्

प्रीतस् तु मनसा कृष्णो
गुणकाय वरं ददौ ।
श्रीस् त्वां मत्संश्रया सौम्य
धनौघैर् अभिवर्त्स्यते ॥ ह्व्_७१।१९ ॥

विश्वास-प्रस्तुतिः

स लब्ध्वा वरम् अव्यग्रो
माल्यवृत्तिर् अधोमुखः ।
कृष्णस्य पतितो मूर्ध्ना
प्रतिजग्राह तं वरम् ॥ ह्व्_७१।२० ॥

मूलम्

स लब्ध्वा वरम् अव्यग्रो
माल्यवृत्तिर् अधोमुखः ।
कृष्णस्य पतितो मूर्ध्ना
प्रतिजग्राह तं वरम् ॥ ह्व्_७१।२० ॥

विश्वास-प्रस्तुतिः

यक्षाव् इमाव् इति तदा
स मेने माल्यजीवनः ।
स भृशं भयसंविग्नो
नोत्तरं प्रत्यपद्यत ॥ ह्व्_७१।२१ ॥

मूलम्

यक्षाव् इमाव् इति तदा
स मेने माल्यजीवनः ।
स भृशं भयसंविग्नो
नोत्तरं प्रत्यपद्यत ॥ ह्व्_७१।२१ ॥

विश्वास-प्रस्तुतिः

([क्: after २१, द्६,स् (एxचेप्त् त्३।४),ग्(एद्।) ins.: :क्])
अद्यापि तस्य प्रभवो
वंशो भवति रत्नवान् । ह्व्_७१।२१८०६:१ ।
कीर्तिमान् बलवान् नित्यं
केशवेन तदा कृतः ॥ ह्व्_७१।२१८०६:२ ।

मूलम्

([क्: after २१, द्६,स् (एxचेप्त् त्३।४),ग्(एद्।) ins.: :क्])
अद्यापि तस्य प्रभवो
वंशो भवति रत्नवान् । ह्व्_७१।२१८०६:१ ।
कीर्तिमान् बलवान् नित्यं
केशवेन तदा कृतः ॥ ह्व्_७१।२१८०६:२ ।

विश्वास-प्रस्तुतिः

विष्णोः प्रसादः सुमहान्
सदारक्षत् तदन्वयम् । ह्व्_७१।२१८०६:३ ।
वसुदेवसुतौ तौ तु
राजमार्गगताव् उभौ ।
कुब्जां ददृशतुर् भूयः
आनुलेपनभाजनाम् ॥ ह्व्_७१।२२ ॥

मूलम्

विष्णोः प्रसादः सुमहान्
सदारक्षत् तदन्वयम् । ह्व्_७१।२१८०६:३ ।
वसुदेवसुतौ तौ तु
राजमार्गगताव् उभौ ।
कुब्जां ददृशतुर् भूयः
आनुलेपनभाजनाम् ॥ ह्व्_७१।२२ ॥

विश्वास-प्रस्तुतिः

ताम् आह कृष्णः कुब्जेति
कस्येदम् अनुलेपनम् ।
नयस्य् अम्बुजपत्राक्षि
क्षिप्रम् आख्यातुम् अर्हसि ॥ ह्व्_७१।२३ ॥

मूलम्

ताम् आह कृष्णः कुब्जेति
कस्येदम् अनुलेपनम् ।
नयस्य् अम्बुजपत्राक्षि
क्षिप्रम् आख्यातुम् अर्हसि ॥ ह्व्_७१।२३ ॥

विश्वास-प्रस्तुतिः

सा स्थितावेक्षिणी भूत्वा
प्रत्युवाचाम्बुजेक्षणम् ।
कृष्णं जलदगम्भीरं
विद्युत्कुटिलगामिनी ॥ ह्व्_७१।२४ ॥

मूलम्

सा स्थितावेक्षिणी भूत्वा
प्रत्युवाचाम्बुजेक्षणम् ।
कृष्णं जलदगम्भीरं
विद्युत्कुटिलगामिनी ॥ ह्व्_७१।२४ ॥

विश्वास-प्रस्तुतिः

राज्ञः स्नानगृहं यामि
तद् गृहाणानुलेपनम् ।
([क्: after the फ़िर्स्त् ओच्चुर्रेन्चे of २५अब्, बोम्।, पोओन एद्स्। ins.: :क्])
दृष्ट्वैव त्वारविन्दाक्ष
विस्मितास्मि वरानन । ह्व्_७१।२५अब्८०७ ।
स्थितास्म्य् आगच्छ भद्रं ते
हृदयस्यासि मे प्रियः ॥ ह्व्_७१।२५ ॥

मूलम्

राज्ञः स्नानगृहं यामि
तद् गृहाणानुलेपनम् ।
([क्: after the फ़िर्स्त् ओच्चुर्रेन्चे of २५अब्, बोम्।, पोओन एद्स्। ins.: :क्])
दृष्ट्वैव त्वारविन्दाक्ष
विस्मितास्मि वरानन । ह्व्_७१।२५अब्८०७ ।
स्थितास्म्य् आगच्छ भद्रं ते
हृदयस्यासि मे प्रियः ॥ ह्व्_७१।२५ ॥

विश्वास-प्रस्तुतिः

कुतश् चागम्यते सौम्य
यन् मां त्वं नावबुध्यसे ।
महाराजस्य दयितां
नियुक्ताम् अनुलेपने ॥ ह्व्_७१।२६ ॥

मूलम्

कुतश् चागम्यते सौम्य
यन् मां त्वं नावबुध्यसे ।
महाराजस्य दयितां
नियुक्ताम् अनुलेपने ॥ ह्व्_७१।२६ ॥

ताम् उवाच हसन्तीं तु कृष्णः कुब्जाम् अवस्थिताम् । ([क्: फ़ोर् २७अब्, क्१।२ सुब्स्त्।: :क्]) ताम् उवाच ततः कृष्णः सैरन्ध्रीं प्रहसन्न् इव । *ह्व्_७१।२७अब्*८०८ ।
विश्वास-प्रस्तुतिः

([क्: after २७अब्, ग्४ ins.: :क्])
सुगन्धम् एतद् राजार्हं
रुचिरं रुचिरानने । ह्व्_७१।२७अब्८०९ ।
आवयोर् गात्रसदृशं
दीयताम् अनुलेपनम् ॥ ह्व्_७१।२७ ॥

मूलम्

([क्: after २७अब्, ग्४ ins.: :क्])
सुगन्धम् एतद् राजार्हं
रुचिरं रुचिरानने । ह्व्_७१।२७अब्८०९ ।
आवयोर् गात्रसदृशं
दीयताम् अनुलेपनम् ॥ ह्व्_७१।२७ ॥

विश्वास-प्रस्तुतिः

वयं हि देशातिथयो
मल्लाः प्राप्ता वरानने ।
द्रष्टुं धनुर्महं दिव्यं
राष्ट्रं चैव महर्द्धिमत् ॥ ह्व्_७१।२८ ॥

मूलम्

वयं हि देशातिथयो
मल्लाः प्राप्ता वरानने ।
द्रष्टुं धनुर्महं दिव्यं
राष्ट्रं चैव महर्द्धिमत् ॥ ह्व्_७१।२८ ॥

विश्वास-प्रस्तुतिः

प्रत्युवाचाथ सा कृष्णं
प्रियो ऽसि मम दर्शने ।
([क्: after २९अब्, द्५ (मर्ग्।) ins.: :क्])
ततः सा प्रणता भूत्वा
प्रददाव् अनुलेपनम् । ह्व्_७१।२९अब्८१० ।
राजार्हम् इदम् अग्र्यं च
तद् गृहाणानुलेपनम् ॥ ह्व्_७१।२९ ॥

मूलम्

प्रत्युवाचाथ सा कृष्णं
प्रियो ऽसि मम दर्शने ।
([क्: after २९अब्, द्५ (मर्ग्।) ins.: :क्])
ततः सा प्रणता भूत्वा
प्रददाव् अनुलेपनम् । ह्व्_७१।२९अब्८१० ।
राजार्हम् इदम् अग्र्यं च
तद् गृहाणानुलेपनम् ॥ ह्व्_७१।२९ ॥

विश्वास-प्रस्तुतिः

([क्: त्१,ग्,म्,ग्(एद्।) ins. after २९; त्२ after the सेचोन्द् ओच्चुर्रेन्चे of २९: :क्])
कृष्णो ऽथ बलभद्रश् च
तदादायानुलेपनम् । ह्व्_७१।२९८११:१ ।
अङ्गानि चाप्य् अलिम्पेतां
शुभं च सुसुगन्धि च ॥ ह्व्_७१।२९८११:२ ।

मूलम्

([क्: त्१,ग्,म्,ग्(एद्।) ins. after २९; त्२ after the सेचोन्द् ओच्चुर्रेन्चे of २९: :क्])
कृष्णो ऽथ बलभद्रश् च
तदादायानुलेपनम् । ह्व्_७१।२९८११:१ ।
अङ्गानि चाप्य् अलिम्पेतां
शुभं च सुसुगन्धि च ॥ ह्व्_७१।२९८११:२ ।

विश्वास-प्रस्तुतिः

मालयाथ तदा विष्णुर्
बद्धया बहुपुष्पया । ह्व्_७१।२९८११:३ ।
गोविन्दो गोपतिः कृष्णो
रराज कृतशेखरः । ह्व्_७१।२९८११:४ ।
सङ्कर्षणो ऽथ बलवान्
रराज बहुमालया । ह्व्_७१।२९८११:५ ।
ताव् उभाव् अनुलिप्ताङ्गाव्
आर्द्रगात्रौ विरेजतुः ।
तीर्थगौ पङ्कदिग्धाङ्गौ
यमुनायां यथा वृषौ ॥ ह्व्_७१।३० ॥

मूलम्

मालयाथ तदा विष्णुर्
बद्धया बहुपुष्पया । ह्व्_७१।२९८११:३ ।
गोविन्दो गोपतिः कृष्णो
रराज कृतशेखरः । ह्व्_७१।२९८११:४ ।
सङ्कर्षणो ऽथ बलवान्
रराज बहुमालया । ह्व्_७१।२९८११:५ ।
ताव् उभाव् अनुलिप्ताङ्गाव्
आर्द्रगात्रौ विरेजतुः ।
तीर्थगौ पङ्कदिग्धाङ्गौ
यमुनायां यथा वृषौ ॥ ह्व्_७१।३० ॥

विश्वास-प्रस्तुतिः

([क्: after ३०, द्६,स्(एxचेप्त् त्३।४),ग्(एद्।) ins.: :क्])
दारकाश् च तथा सर्वे
विरेजुः कृतशेखराः । ह्व्_७१।३०८१२:१ ।
विकृतं भूषयन्तो ऽपि
प्रभावाच् छार्ङ्गधन्वनः । ह्व्_७१।३०८१२:२ ।
तां तु कुब्जां ततः कृष्णो
द्व्यङ्गुलेनाग्रपाणिना ।
शनैः सन्तोलयामास
कृष्णो लीलाविधानवित् ॥ ह्व्_७१।३१ ॥

मूलम्

([क्: after ३०, द्६,स्(एxचेप्त् त्३।४),ग्(एद्।) ins.: :क्])
दारकाश् च तथा सर्वे
विरेजुः कृतशेखराः । ह्व्_७१।३०८१२:१ ।
विकृतं भूषयन्तो ऽपि
प्रभावाच् छार्ङ्गधन्वनः । ह्व्_७१।३०८१२:२ ।
तां तु कुब्जां ततः कृष्णो
द्व्यङ्गुलेनाग्रपाणिना ।
शनैः सन्तोलयामास
कृष्णो लीलाविधानवित् ॥ ह्व्_७१।३१ ॥

विश्वास-प्रस्तुतिः

सा तु मग्नस्तनयुगा
स्वायताङ्गी शुचिस्मिता ।
जहासोच्चैः स्तनतटा
ऋजुयष्टिर् लता यथा ॥ ह्व्_७१।३२ ॥

मूलम्

सा तु मग्नस्तनयुगा
स्वायताङ्गी शुचिस्मिता ।
जहासोच्चैः स्तनतटा
ऋजुयष्टिर् लता यथा ॥ ह्व्_७१।३२ ॥

विश्वास-प्रस्तुतिः

प्रणयाच् चापि कृष्णं सा
बभाषे मत्तकाशिनी ।
क्व यास्यसि मया रुद्धः
कान्त तिष्ठ गृहाण माम् ॥ ह्व्_७१।३३ ॥

मूलम्

प्रणयाच् चापि कृष्णं सा
बभाषे मत्तकाशिनी ।
क्व यास्यसि मया रुद्धः
कान्त तिष्ठ गृहाण माम् ॥ ह्व्_७१।३३ ॥

विश्वास-प्रस्तुतिः

तौ जातहासाव् अन्योन्यं
सतलाक्षेपम् अव्ययौ ।
वीक्षमाणौ प्रहसितौ
कुब्जायाः श्रुतविस्तरौ ॥ ह्व्_७१।३४ ॥

मूलम्

तौ जातहासाव् अन्योन्यं
सतलाक्षेपम् अव्ययौ ।
वीक्षमाणौ प्रहसितौ
कुब्जायाः श्रुतविस्तरौ ॥ ह्व्_७१।३४ ॥

विश्वास-प्रस्तुतिः

कृष्णस् तु कुब्जां कामार्तां
सस्मितं विससर्ज ह ।
([क्: after ३५अब्, द्६,त्१।२,ग्,म्,ग्(एद्।)इन्स्।: :क्])
यथेष्टं गम्यतां भद्रे
नाहं तादृग्विधो नरः । ह्व्_७१।३५अब्८१३ ।
ततस् तौ कुब्जया मुक्तौ
प्रविष्टौ राजसंसदम् ॥ ह्व्_७१।३५ ॥

मूलम्

कृष्णस् तु कुब्जां कामार्तां
सस्मितं विससर्ज ह ।
([क्: after ३५अब्, द्६,त्१।२,ग्,म्,ग्(एद्।)इन्स्।: :क्])
यथेष्टं गम्यतां भद्रे
नाहं तादृग्विधो नरः । ह्व्_७१।३५अब्८१३ ।
ततस् तौ कुब्जया मुक्तौ
प्रविष्टौ राजसंसदम् ॥ ह्व्_७१।३५ ॥

विश्वास-प्रस्तुतिः

ताव् उभौ व्रजसंवृद्धौ
गोपवेषविभूषितौ ।
गूढचेष्टाननौ भूत्वा
प्रविष्टौ राजवेष्म तत् ॥ ह्व्_७१।३६ ॥

मूलम्

ताव् उभौ व्रजसंवृद्धौ
गोपवेषविभूषितौ ।
गूढचेष्टाननौ भूत्वा
प्रविष्टौ राजवेष्म तत् ॥ ह्व्_७१।३६ ॥

विश्वास-प्रस्तुतिः

धनुःशालां गतौ तौ तु
बालाव् अपरिशङ्कितौ ।
हिमवद्वनसम्भूतौ
सिंहाव् इव बलोत्कटौ ॥ ह्व्_७१।३७ ॥

मूलम्

धनुःशालां गतौ तौ तु
बालाव् अपरिशङ्कितौ ।
हिमवद्वनसम्भूतौ
सिंहाव् इव बलोत्कटौ ॥ ह्व्_७१।३७ ॥

विश्वास-प्रस्तुतिः

दिदृक्षन्तौ महत् तत्र
धनुर् आयागभूषितम् ।
पप्रच्छतुश् च तौ वीराव्
आयुधागारिकं तदा ॥ ह्व्_७१।३८ ॥

मूलम्

दिदृक्षन्तौ महत् तत्र
धनुर् आयागभूषितम् ।
पप्रच्छतुश् च तौ वीराव्
आयुधागारिकं तदा ॥ ह्व्_७१।३८ ॥

विश्वास-प्रस्तुतिः

भोः कंसधनुषां पाल
श्रूयताम् आवयोर् वचः ।
कतरत् तद् धनुः सौम्य
महो ऽयं यस्य वर्तते ॥

मूलम्

भोः कंसधनुषां पाल
श्रूयताम् आवयोर् वचः ।
कतरत् तद् धनुः सौम्य
महो ऽयं यस्य वर्तते ॥

विश्वास-प्रस्तुतिः

आयागभूतं कंसस्य
दर्शयस्व यदीच्छसि ॥ ह्व्_७१।३९ ॥

मूलम्

आयागभूतं कंसस्य
दर्शयस्व यदीच्छसि ॥ ह्व्_७१।३९ ॥

विश्वास-प्रस्तुतिः

स तयोर् दर्शयामास
तद् धनुः स्तम्भसन्निभम् ।
अनारोप्यम् असम्भेद्यं
देवैर् अपि सवासवैः ॥ ह्व्_७१।४० ॥

मूलम्

स तयोर् दर्शयामास
तद् धनुः स्तम्भसन्निभम् ।
अनारोप्यम् असम्भेद्यं
देवैर् अपि सवासवैः ॥ ह्व्_७१।४० ॥

विश्वास-प्रस्तुतिः

तद् गृहीत्वा ततः कृष्णस्
तोलयामास वीर्यवान् ।
दोर्भ्यां कमलपत्राक्षः
प्रहृष्टेनान्तरात्मना ॥ ह्व्_७१।४१ ॥

मूलम्

तद् गृहीत्वा ततः कृष्णस्
तोलयामास वीर्यवान् ।
दोर्भ्यां कमलपत्राक्षः
प्रहृष्टेनान्तरात्मना ॥ ह्व्_७१।४१ ॥

विश्वास-प्रस्तुतिः

तोलयित्वा यथाकामं
तद् धनुर् दैत्यपूजितम् ।
आरोपयामास बली
नामयामास चासकृत् ॥ ह्व्_७१।४२ ॥

मूलम्

तोलयित्वा यथाकामं
तद् धनुर् दैत्यपूजितम् ।
आरोपयामास बली
नामयामास चासकृत् ॥ ह्व्_७१।४२ ॥

विश्वास-प्रस्तुतिः

आनम्यमानं कृष्णेन
प्रकर्षाद् उरगोपगम् ।
द्विधाभूतम् अभून् मध्ये
धनुर् आयागभूषितम् ॥ ह्व्_७१।४३ ॥

मूलम्

आनम्यमानं कृष्णेन
प्रकर्षाद् उरगोपगम् ।
द्विधाभूतम् अभून् मध्ये
धनुर् आयागभूषितम् ॥ ह्व्_७१।४३ ॥

विश्वास-प्रस्तुतिः

([क्: after ४३, द्२ ins. (=भ्प् १०,४२।१८-२२): :क्])
धनुषो भज्यमानस्य
शब्दः खं रोदसी दिशः । ह्व्_७१।४३८१४:१ ।
पूरयाम् आस यं श्रुत्वा
कंसस् त्रासम् उपागमत् ॥ ह्व्_७१।४३८१४:२ ।

मूलम्

([क्: after ४३, द्२ ins. (=भ्प् १०,४२।१८-२२): :क्])
धनुषो भज्यमानस्य
शब्दः खं रोदसी दिशः । ह्व्_७१।४३८१४:१ ।
पूरयाम् आस यं श्रुत्वा
कंसस् त्रासम् उपागमत् ॥ ह्व्_७१।४३८१४:२ ।

विश्वास-प्रस्तुतिः

तद्रक्षिणः सानुचरा
कुपिता आततायिनः । ह्व्_७१।४३८१४:३ ।
गृहीतुकामा आवव्रुर्
गृह्यतां वध्यताम् इति ॥ ह्व्_७१।४३८१४:४ ।

मूलम्

तद्रक्षिणः सानुचरा
कुपिता आततायिनः । ह्व्_७१।४३८१४:३ ।
गृहीतुकामा आवव्रुर्
गृह्यतां वध्यताम् इति ॥ ह्व्_७१।४३८१४:४ ।

विश्वास-प्रस्तुतिः

अथ तान् दुरभिप्रायान्
विलोक्य बलकेशवौ । ह्व्_७१।४३८१४:५ ।
क्रुद्धौ धन्वन आदाय
शकले तांश् च जघ्नतुः ॥ ह्व्_७१।४३८१४:६ ।

मूलम्

अथ तान् दुरभिप्रायान्
विलोक्य बलकेशवौ । ह्व्_७१।४३८१४:५ ।
क्रुद्धौ धन्वन आदाय
शकले तांश् च जघ्नतुः ॥ ह्व्_७१।४३८१४:६ ।

विश्वास-प्रस्तुतिः

बलं च कंसप्रहितं
हत्वा शालामुखात् ततः । ह्व्_७१।४३८१४:७ ।
निष्क्रम्य चेरतुर् दृप्तौ
निरीक्ष्य पुरसम्पदः ॥ ह्व्_७१।४३८१४:८ ।

मूलम्

बलं च कंसप्रहितं
हत्वा शालामुखात् ततः । ह्व्_७१।४३८१४:७ ।
निष्क्रम्य चेरतुर् दृप्तौ
निरीक्ष्य पुरसम्पदः ॥ ह्व्_७१।४३८१४:८ ।

विश्वास-प्रस्तुतिः

तयोस् तद् अद्भुतं वीर्यं
निशम्य पुरवासिनः । ह्व्_७१।४३८१४:९ ।
तेजः प्रागल्भ्यरूपं च
मेनिरे विबुधोत्तमौ । ह्व्_७१।४३८१४:१० ।
भङ्क्त्वा तु तद् धनुः श्रेष्ठं
कृष्णस् त्वरितविक्रमः ।
निश्चक्राम महावेगः
स च सङ्कर्षणो युवा ॥ ह्व्_७१।४४ ॥

मूलम्

तयोस् तद् अद्भुतं वीर्यं
निशम्य पुरवासिनः । ह्व्_७१।४३८१४:९ ।
तेजः प्रागल्भ्यरूपं च
मेनिरे विबुधोत्तमौ । ह्व्_७१।४३८१४:१० ।
भङ्क्त्वा तु तद् धनुः श्रेष्ठं
कृष्णस् त्वरितविक्रमः ।
निश्चक्राम महावेगः
स च सङ्कर्षणो युवा ॥ ह्व्_७१।४४ ॥

विश्वास-प्रस्तुतिः

अनुयुक्तौ ततस् तौ च
भग्ने धनुषि रक्षिभिः ।
धनुषो भङ्गनादेन
वायुनिर्घोषकारिणा ॥

मूलम्

अनुयुक्तौ ततस् तौ च
भग्ने धनुषि रक्षिभिः ।
धनुषो भङ्गनादेन
वायुनिर्घोषकारिणा ॥

विश्वास-प्रस्तुतिः

चचालान्तःपुरं सर्वं
दिशश् चैव पुपूरिरे ॥ ह्व्_७१।४५ ॥

मूलम्

चचालान्तःपुरं सर्वं
दिशश् चैव पुपूरिरे ॥ ह्व्_७१।४५ ॥

विश्वास-प्रस्तुतिः

([क्: after ४५, बोम्।, पोओन एद्स्।, ग्(एद्।) ins.: :क्])
निर्गम्य त्व् आयुधागाराज्
जग्मतुर् गोपसन्निधौ ॥ ह्व्_७१।४५८१५:१ ।

मूलम्

([क्: after ४५, बोम्।, पोओन एद्स्।, ग्(एद्।) ins.: :क्])
निर्गम्य त्व् आयुधागाराज्
जग्मतुर् गोपसन्निधौ ॥ ह्व्_७१।४५८१५:१ ।

विश्वास-प्रस्तुतिः

वेगेनायुधपालस् तु
गच्छन् सम्भ्रान्तमानसः । ह्व्_७१।४५८१५:२ ।
स त्व् आयुधागारनरो
भीतस् त्वरितविक्रमः ।
समीपं नृपतेर् गत्वा
काकोच्छ्वासो ऽभ्यभाषत ॥ ह्व्_७१।४६ ॥

मूलम्

वेगेनायुधपालस् तु
गच्छन् सम्भ्रान्तमानसः । ह्व्_७१।४५८१५:२ ।
स त्व् आयुधागारनरो
भीतस् त्वरितविक्रमः ।
समीपं नृपतेर् गत्वा
काकोच्छ्वासो ऽभ्यभाषत ॥ ह्व्_७१।४६ ॥

विश्वास-प्रस्तुतिः

श्रूयतां मम विज्ञाप्यम्
आश्चर्यं धनुषो गृहे ।
निर्वृत्तम् अस्मिन् काले यज्
जगतः सम्भ्रमोपमम् ॥ ह्व्_७१।४७ ॥

मूलम्

श्रूयतां मम विज्ञाप्यम्
आश्चर्यं धनुषो गृहे ।
निर्वृत्तम् अस्मिन् काले यज्
जगतः सम्भ्रमोपमम् ॥ ह्व्_७१।४७ ॥

विश्वास-प्रस्तुतिः

नरौ कस्यापि सहितौ
शिखाविततमूर्धजौ ।
नीलपिताम्बरधरौ
पीतश्वेतानुलेपनौ ॥ ह्व्_७१।४८ ॥

मूलम्

नरौ कस्यापि सहितौ
शिखाविततमूर्धजौ ।
नीलपिताम्बरधरौ
पीतश्वेतानुलेपनौ ॥ ह्व्_७१।४८ ॥

विश्वास-प्रस्तुतिः

([क्: after ४८, Ñ२।३,व्,ब्,द्स्,द्२।४-६,त्१।३।४ ins.: :क्])
ताव् अन्तःपुरम् अज्ञातौ
प्रविष्टौ कामवेगिनौ । ह्व्_७१।४८८१६ ।
देवपुत्रोपमौ वीरौ
बालाव् इव हुताशनौ ।
स्थितौ धनुर्गृहे सौम्यौ
सहसा खाद् इवागतौ ॥

मूलम्

([क्: after ४८, Ñ२।३,व्,ब्,द्स्,द्२।४-६,त्१।३।४ ins.: :क्])
ताव् अन्तःपुरम् अज्ञातौ
प्रविष्टौ कामवेगिनौ । ह्व्_७१।४८८१६ ।
देवपुत्रोपमौ वीरौ
बालाव् इव हुताशनौ ।
स्थितौ धनुर्गृहे सौम्यौ
सहसा खाद् इवागतौ ॥

विश्वास-प्रस्तुतिः

([क्: after ४९cd, द्३ ins.: :क्])
सौम्यौ महस्य चोद्युक्ताव्
आगतौ पुरुषर्षभौ । ह्व्_७१।४९cd८१७ ।
मया दृष्टौ परिव्यक्तं
रुचिराच्छादनस्रजौ ॥ ह्व्_७१।४९ ॥

मूलम्

([क्: after ४९cd, द्३ ins.: :क्])
सौम्यौ महस्य चोद्युक्ताव्
आगतौ पुरुषर्षभौ । ह्व्_७१।४९cd८१७ ।
मया दृष्टौ परिव्यक्तं
रुचिराच्छादनस्रजौ ॥ ह्व्_७१।४९ ॥

विश्वास-प्रस्तुतिः

ताभ्याम् एकस् तु पद्माक्षः
श्यामः पीताम्बरस्रजः ।
जग्राह तद् धनूरत्नं
दुर्ग्रहं दैवतैर् अपि ॥ ह्व्_७१।५० ॥

मूलम्

ताभ्याम् एकस् तु पद्माक्षः
श्यामः पीताम्बरस्रजः ।
जग्राह तद् धनूरत्नं
दुर्ग्रहं दैवतैर् अपि ॥ ह्व्_७१।५० ॥

विश्वास-प्रस्तुतिः

तत् स बालो बृहद्रूपं
बलाद् यन्त्रम् इवायसम् ।
आरोपयित्वा वेगेन
नामयामास लीलया ॥ ह्व्_७१।५१ ॥

मूलम्

तत् स बालो बृहद्रूपं
बलाद् यन्त्रम् इवायसम् ।
आरोपयित्वा वेगेन
नामयामास लीलया ॥ ह्व्_७१।५१ ॥

विश्वास-प्रस्तुतिः

कृष्यमाणं तु तत् तेन
विबाणं बाहुशालिना ।
मुष्टिदेशे विकूजित्वा
द्विधाभूतम् अभज्यत ॥ ह्व्_७१।५२ ॥

मूलम्

कृष्यमाणं तु तत् तेन
विबाणं बाहुशालिना ।
मुष्टिदेशे विकूजित्वा
द्विधाभूतम् अभज्यत ॥ ह्व्_७१।५२ ॥

विश्वास-प्रस्तुतिः

([क्: after ५२, क्१-३,Ñ२।३,व्,ब्,द्,स्(एxचेप्त् म्१-३) ins.: :क्])
ततः प्रचलिता भूमिर्
नैव भाति च भास्करः । ह्व्_७१।५२८१८:१ ।
धनुषो भङ्गनादेन
भ्रमतीव नबह्स्तलम् ॥ ह्व्_७१।५२८१८:२ ।

मूलम्

([क्: after ५२, क्१-३,Ñ२।३,व्,ब्,द्,स्(एxचेप्त् म्१-३) ins.: :क्])
ततः प्रचलिता भूमिर्
नैव भाति च भास्करः । ह्व्_७१।५२८१८:१ ।
धनुषो भङ्गनादेन
भ्रमतीव नबह्स्तलम् ॥ ह्व्_७१।५२८१८:२ ।

विश्वास-प्रस्तुतिः

तद् अद्भुतम् अहं दृष्ट्वा
विस्मयं परमं गतः । ह्व्_७१।५२८१८:३ ।
भयाद् भयदसत्रूणां
तद् इहाख्यातुम् आगतः ॥ ह्व्_७१।५२८१८:४ ।

मूलम्

तद् अद्भुतम् अहं दृष्ट्वा
विस्मयं परमं गतः । ह्व्_७१।५२८१८:३ ।
भयाद् भयदसत्रूणां
तद् इहाख्यातुम् आगतः ॥ ह्व्_७१।५२८१८:४ ।

विश्वास-प्रस्तुतिः

न जानामि महाराज
कौ ताव् अमितविक्रमौ । ह्व्_७१।५२८१८:५ ।
एकः कैलाससङ्काश
एको ऽञ्जनगिरिप्रभः । ह्व्_७१।५२८१८:६ ।
स तु तच् चापरत्नं वै
भङ्क्त्वा स्तम्भम् इव द्विपः ।
निष्पपातानिलगतिः
सानुगो ऽमितविक्रमः ॥

मूलम्

न जानामि महाराज
कौ ताव् अमितविक्रमौ । ह्व्_७१।५२८१८:५ ।
एकः कैलाससङ्काश
एको ऽञ्जनगिरिप्रभः । ह्व्_७१।५२८१८:६ ।
स तु तच् चापरत्नं वै
भङ्क्त्वा स्तम्भम् इव द्विपः ।
निष्पपातानिलगतिः
सानुगो ऽमितविक्रमः ॥

विश्वास-प्रस्तुतिः

जगाम तद् द्विधा कृत्वा
न जाने को ऽप्य् असौ नृप ॥ ह्व्_७१।५३ ॥

मूलम्

जगाम तद् द्विधा कृत्वा
न जाने को ऽप्य् असौ नृप ॥ ह्व्_७१।५३ ॥

विश्वास-प्रस्तुतिः

श्रुत्वैव धनुषो भङ्गं
कंसो ऽप्य् उद्विग्नमानसः ।
विसृज्यायुधपालं वै
प्रविवेश गृहोत्तमम् ॥ ह्व्_७१।५४ ॥

मूलम्

श्रुत्वैव धनुषो भङ्गं
कंसो ऽप्य् उद्विग्नमानसः ।
विसृज्यायुधपालं वै
प्रविवेश गृहोत्तमम् ॥ ह्व्_७१।५४ ॥