विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
स नन्दगोपस्य गृहं
प्रविष्टः सहकेशवः ।
गोपवृद्धान् समानीय
प्रोवाचामितदक्षिणः ॥ ह्व्_६९।१ ॥
मूलम्
{वैशम्पायन उवाच}
स नन्दगोपस्य गृहं
प्रविष्टः सहकेशवः ।
गोपवृद्धान् समानीय
प्रोवाचामितदक्षिणः ॥ ह्व्_६९।१ ॥
विश्वास-प्रस्तुतिः
कृष्णं चैवाब्रवीत् प्रीतो
रौहिणेयेन सङ्गतम् ।
श्वः पुरीं मथुरां तात
गमिष्यामः शिवाय वै ॥ ह्व्_६९।२ ॥
मूलम्
कृष्णं चैवाब्रवीत् प्रीतो
रौहिणेयेन सङ्गतम् ।
श्वः पुरीं मथुरां तात
गमिष्यामः शिवाय वै ॥ ह्व्_६९।२ ॥
विश्वास-प्रस्तुतिः
यास्यन्ति च व्रजाः सर्वे
सगोकुलपरिग्रहाः ।
कंसाज्ञया समुचितं
करम् आदाय वार्षिकम् ॥ ह्व्_६९।३ ॥
मूलम्
यास्यन्ति च व्रजाः सर्वे
सगोकुलपरिग्रहाः ।
कंसाज्ञया समुचितं
करम् आदाय वार्षिकम् ॥ ह्व्_६९।३ ॥
विश्वास-प्रस्तुतिः
([क्: after ३, Ñ२।३,व्२,ब्१।२,द्स्,द्४,त्३।४ ins.: :क्])
वयं चैव प्रगन्तारो
रथम् आस्थाय सङ्गताः । ह्व्_६९।३७८३ ।
समृद्धस् तस्य कंसस्य
भविष्यति धनुर्महः ।
तं द्रक्ष्यथ समृद्धं च
स्वजनं च समेष्यथ ॥ ह्व्_६९।४ ॥
मूलम्
([क्: after ३, Ñ२।३,व्२,ब्१।२,द्स्,द्४,त्३।४ ins.: :क्])
वयं चैव प्रगन्तारो
रथम् आस्थाय सङ्गताः । ह्व्_६९।३७८३ ।
समृद्धस् तस्य कंसस्य
भविष्यति धनुर्महः ।
तं द्रक्ष्यथ समृद्धं च
स्वजनं च समेष्यथ ॥ ह्व्_६९।४ ॥
विश्वास-प्रस्तुतिः
पितरं वसुदेवं च
सततं दुःखभाजनम् ।
दीनं पुत्रवधश्रान्तं
युवाम् अथ समेष्यथः ॥ ह्व्_६९।५ ॥
मूलम्
पितरं वसुदेवं च
सततं दुःखभाजनम् ।
दीनं पुत्रवधश्रान्तं
युवाम् अथ समेष्यथः ॥ ह्व्_६९।५ ॥
विश्वास-प्रस्तुतिः
सततं पीड्यमानं च
कंसेनाशुभबुद्धिना ।
दशान्ते शोषितं वृद्धं
दुःखैः शिथिलतां गतम् ॥ ह्व्_६९।६ ॥
मूलम्
सततं पीड्यमानं च
कंसेनाशुभबुद्धिना ।
दशान्ते शोषितं वृद्धं
दुःखैः शिथिलतां गतम् ॥ ह्व्_६९।६ ॥
विश्वास-प्रस्तुतिः
कंसस्य च भयात् त्रस्तं
भवद्भ्यां च विनाकृतम् ।
दह्यमानं दिवा रात्रौ
सोत्कण्ठेनान्तरात्मना ॥ ह्व्_६९।७ ॥
मूलम्
कंसस्य च भयात् त्रस्तं
भवद्भ्यां च विनाकृतम् ।
दह्यमानं दिवा रात्रौ
सोत्कण्ठेनान्तरात्मना ॥ ह्व्_६९।७ ॥
विश्वास-प्रस्तुतिः
तां च द्रक्ष्यामि गोविन्द
पुत्रैर् अमृदितस्तनीम् ।
देवकीं देवसङ्काशां
सिदन्तीं विहतप्रभाम् ॥ ह्व्_६९।८ ॥
मूलम्
तां च द्रक्ष्यामि गोविन्द
पुत्रैर् अमृदितस्तनीम् ।
देवकीं देवसङ्काशां
सिदन्तीं विहतप्रभाम् ॥ ह्व्_६९।८ ॥
विश्वास-प्रस्तुतिः
पुत्रशोकेन शुष्यन्तीं
त्वद्दर्शनपरायणाम् ।
वियोगशोकसन्तप्तां
विवत्साम् इव सौरभीम् ॥ ह्व्_६९।९ ॥
मूलम्
पुत्रशोकेन शुष्यन्तीं
त्वद्दर्शनपरायणाम् ।
वियोगशोकसन्तप्तां
विवत्साम् इव सौरभीम् ॥ ह्व्_६९।९ ॥
विश्वास-प्रस्तुतिः
उपप्लुतेक्षणां नित्यं
नित्यं मलिनवाससम् ।
स्वर्भानुवदनग्रस्तां
शशाङ्कस्य प्रभाम् इव ॥ ह्व्_६९।१० ॥
मूलम्
उपप्लुतेक्षणां नित्यं
नित्यं मलिनवाससम् ।
स्वर्भानुवदनग्रस्तां
शशाङ्कस्य प्रभाम् इव ॥ ह्व्_६९।१० ॥
विश्वास-प्रस्तुतिः
त्वद्दर्शनपरां नित्यं
तवागमनकाङ्क्षिणीम् ।
त्वत्प्रवृत्तेन शोकेन
सीदन्तीं वै तपस्विनीम् ॥ ह्व्_६९।११ ॥
मूलम्
त्वद्दर्शनपरां नित्यं
तवागमनकाङ्क्षिणीम् ।
त्वत्प्रवृत्तेन शोकेन
सीदन्तीं वै तपस्विनीम् ॥ ह्व्_६९।११ ॥
विश्वास-प्रस्तुतिः
त्वत्प्रलापेष्व् अकुशलां
त्वया बाल्ये वियोजिताम् ।
अरूपज्ञां तव विभो
वक्त्रस्यास्येन्दुवर्चसः ॥ ह्व्_६९।१२ ॥
मूलम्
त्वत्प्रलापेष्व् अकुशलां
त्वया बाल्ये वियोजिताम् ।
अरूपज्ञां तव विभो
वक्त्रस्यास्येन्दुवर्चसः ॥ ह्व्_६९।१२ ॥
विश्वास-प्रस्तुतिः
यदि त्वां जनयित्वा सा
क्लिश्यते कृष्ण देवकी ।
अपत्यार्थो नु कस् तस्या
वरं ह्य् एवानपत्यता ॥ ह्व्_६९।१३ ॥
मूलम्
यदि त्वां जनयित्वा सा
क्लिश्यते कृष्ण देवकी ।
अपत्यार्थो नु कस् तस्या
वरं ह्य् एवानपत्यता ॥ ह्व्_६९।१३ ॥
विश्वास-प्रस्तुतिः
एकः शोको हि नारीणाम्
अपुत्राणां विधीयते ।
सपुत्रा त्व् अफले पुत्रे
धिक् प्रजातेन तप्यते ॥ ह्व्_६९।१४ ॥
मूलम्
एकः शोको हि नारीणाम्
अपुत्राणां विधीयते ।
सपुत्रा त्व् अफले पुत्रे
धिक् प्रजातेन तप्यते ॥ ह्व्_६९।१४ ॥
विश्वास-प्रस्तुतिः
त्वं तु शक्रसमः पुत्रो
यस्यास् त्वत्सदृशो गुणैः ।
परेषाम् अप्य् अभयदो
न सा शोचितुम् अर्हति ॥ ह्व्_६९।१५ ॥
मूलम्
त्वं तु शक्रसमः पुत्रो
यस्यास् त्वत्सदृशो गुणैः ।
परेषाम् अप्य् अभयदो
न सा शोचितुम् अर्हति ॥ ह्व्_६९।१५ ॥
विश्वास-प्रस्तुतिः
वृद्धौ तवाम्बापितरौ
परभृत्यत्वम् आगतौ ।
त्वत्कृते भर्त्स्यमानौ तौ
कंसेनादीर्घदर्शिना ॥ ह्व्_६९।१६ ॥
मूलम्
वृद्धौ तवाम्बापितरौ
परभृत्यत्वम् आगतौ ।
त्वत्कृते भर्त्स्यमानौ तौ
कंसेनादीर्घदर्शिना ॥ ह्व्_६९।१६ ॥
विश्वास-प्रस्तुतिः
यदि ते देवकी मान्या
पृथिवीवात्मधारिणी ।
तां शोकसलिले मग्नाम्
उत्तारयितुम् अर्हसि ॥ ह्व्_६९।१७ ॥
मूलम्
यदि ते देवकी मान्या
पृथिवीवात्मधारिणी ।
तां शोकसलिले मग्नाम्
उत्तारयितुम् अर्हसि ॥ ह्व्_६९।१७ ॥
विश्वास-प्रस्तुतिः
तं च वृद्धं प्रियसुतं
वसुदेवं महाबलम् ।
पुत्रयोगेन संयोज्य
कृष्ण धर्मम् अवाप्स्यसि ॥ ह्व्_६९।१८ ॥
मूलम्
तं च वृद्धं प्रियसुतं
वसुदेवं महाबलम् ।
पुत्रयोगेन संयोज्य
कृष्ण धर्मम् अवाप्स्यसि ॥ ह्व्_६९।१८ ॥
विश्वास-प्रस्तुतिः
यथा नागः सुदुर्वृत्तो
दमिनो यमुनाह्रदे ।
विपुलश् च धृतः शैलो
यथा वै भूधरस् त्वया ॥ ह्व्_६९।१९ ॥
मूलम्
यथा नागः सुदुर्वृत्तो
दमिनो यमुनाह्रदे ।
विपुलश् च धृतः शैलो
यथा वै भूधरस् त्वया ॥ ह्व्_६९।१९ ॥
विश्वास-प्रस्तुतिः
दर्पोद्वृत्तश् च बलवान्
अरिष्टो विनिपातितः ।
परप्राणहरः केशी
दुष्टात्मा च हतस् त्वया ॥ ह्व्_६९।२० ॥
मूलम्
दर्पोद्वृत्तश् च बलवान्
अरिष्टो विनिपातितः ।
परप्राणहरः केशी
दुष्टात्मा च हतस् त्वया ॥ ह्व्_६९।२० ॥
विश्वास-प्रस्तुतिः
एतेनैव प्रयत्नेन
वृद्धाव् उद्धृत्य दुःखितौ ।
यथा धर्मम् अवाप्नोषि
तत् कृष्ण परिचिन्त्यताम् ॥ ह्व्_६९।२१ ॥
मूलम्
एतेनैव प्रयत्नेन
वृद्धाव् उद्धृत्य दुःखितौ ।
यथा धर्मम् अवाप्नोषि
तत् कृष्ण परिचिन्त्यताम् ॥ ह्व्_६९।२१ ॥
विश्वास-प्रस्तुतिः
निर्भर्त्स्यमानो यैर् दृष्टः
पिता ते कृष्ण संसदि ।
ते सर्वे चक्रुर् अश्रूणि
नेत्रैर् दुःखान्विता भृशम् ॥ ह्व्_६९।२२ ॥
मूलम्
निर्भर्त्स्यमानो यैर् दृष्टः
पिता ते कृष्ण संसदि ।
ते सर्वे चक्रुर् अश्रूणि
नेत्रैर् दुःखान्विता भृशम् ॥ ह्व्_६९।२२ ॥
विश्वास-प्रस्तुतिः
([क्: after २२ द्६,त्१।२,ग्१-३।५,म्,ग्(एद्।) ins.: :क्])
अन्धेन किञ्चिद् उक्त्वैव
कंसो निर्भर्त्सितः किल । ह्व्_६९।२२७८४ ।
गर्भावकर्तनादीनि
दुःखानि सुबहूनि सा ।
माता ते देवकी कृष्ण
कंसस्य सहते ऽवशा ॥ ह्व्_६९।२३ ॥
मूलम्
([क्: after २२ द्६,त्१।२,ग्१-३।५,म्,ग्(एद्।) ins.: :क्])
अन्धेन किञ्चिद् उक्त्वैव
कंसो निर्भर्त्सितः किल । ह्व्_६९।२२७८४ ।
गर्भावकर्तनादीनि
दुःखानि सुबहूनि सा ।
माता ते देवकी कृष्ण
कंसस्य सहते ऽवशा ॥ ह्व्_६९।२३ ॥
विश्वास-प्रस्तुतिः
मातापितृभ्यां सर्वेण
जातेन निभृतेन वै ।
ऋणं वै प्रतिकर्तव्यं
यथायोगम् उदाहृतम् ॥ ह्व्_६९।२४ ॥
मूलम्
मातापितृभ्यां सर्वेण
जातेन निभृतेन वै ।
ऋणं वै प्रतिकर्तव्यं
यथायोगम् उदाहृतम् ॥ ह्व्_६९।२४ ॥
विश्वास-प्रस्तुतिः
एवं ते कुर्वतः कृष्ण
मातापित्रोर् अनुग्रहम् ।
परित्यजेतां तौ शोकं
स्याच् च धर्मस् तवातुलः ॥ ह्व्_६९।२५ ॥
मूलम्
एवं ते कुर्वतः कृष्ण
मातापित्रोर् अनुग्रहम् ।
परित्यजेतां तौ शोकं
स्याच् च धर्मस् तवातुलः ॥ ह्व्_६९।२५ ॥
विश्वास-प्रस्तुतिः
([क्: after २५, त्३ ins.: :क्])
धर्मस् ते विपुलो ऽनन्तो
भविष्यति न संशयः । ह्व्_६९।२५७८५ ।
कृष्णस् तु विदितार्थो वै
तम् आहामितदक्षिणम् ।
बाढम् इत्य् एव तेजस्वी
न च चुक्रोध केशवः ॥ ह्व्_६९।२६ ॥
मूलम्
([क्: after २५, त्३ ins.: :क्])
धर्मस् ते विपुलो ऽनन्तो
भविष्यति न संशयः । ह्व्_६९।२५७८५ ।
कृष्णस् तु विदितार्थो वै
तम् आहामितदक्षिणम् ।
बाढम् इत्य् एव तेजस्वी
न च चुक्रोध केशवः ॥ ह्व्_६९।२६ ॥
विश्वास-प्रस्तुतिः
ते च गोपाः समागम्य
नन्दगोपपुरोगमाः ।
अक्रूरवचनं श्रुत्वा
सञ्चेलुः कंसशासनात् ॥ ह्व्_६९।२७ ॥
मूलम्
ते च गोपाः समागम्य
नन्दगोपपुरोगमाः ।
अक्रूरवचनं श्रुत्वा
सञ्चेलुः कंसशासनात् ॥ ह्व्_६९।२७ ॥
विश्वास-प्रस्तुतिः
गमनाय च ते सज्जा
बभूवुर् व्रजवासिनः ।
सज्जं चोपायनं कृत्वा
गोपवृद्धाः प्रतस्थिरे ॥ ह्व्_६९।२८ ॥
मूलम्
गमनाय च ते सज्जा
बभूवुर् व्रजवासिनः ।
सज्जं चोपायनं कृत्वा
गोपवृद्धाः प्रतस्थिरे ॥ ह्व्_६९।२८ ॥
विश्वास-प्रस्तुतिः
करं चानडुहः सर्पिर्
महिषांश् चोपनायिकान् ।
यथासारं यथायूथम्
उपनीय पयो घृतम् ॥ ह्व्_६९।२९ ॥
मूलम्
करं चानडुहः सर्पिर्
महिषांश् चोपनायिकान् ।
यथासारं यथायूथम्
उपनीय पयो घृतम् ॥ ह्व्_६९।२९ ॥
विश्वास-प्रस्तुतिः
तं सज्जयित्वा कंसस्य
करं चोपायनानि च ।
ते सर्वे गोपपतयो
गमनायोपतस्थिरे ॥ ह्व्_६९।३० ॥
मूलम्
तं सज्जयित्वा कंसस्य
करं चोपायनानि च ।
ते सर्वे गोपपतयो
गमनायोपतस्थिरे ॥ ह्व्_६९।३० ॥
विश्वास-प्रस्तुतिः
अक्रूरस्य कथाभिस् तु
सह कृष्णेन जाग्रतः ।
रौहिणेयतृतीयस्य
सा निशा व्यत्यवर्तत ॥ ह्व्_६९।३१ ॥
मूलम्
अक्रूरस्य कथाभिस् तु
सह कृष्णेन जाग्रतः ।
रौहिणेयतृतीयस्य
सा निशा व्यत्यवर्तत ॥ ह्व्_६९।३१ ॥