विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
क्षिप्तं यदुवृषं दृष्ट्वा
सर्वे ते यदुपुङ्गवाः ।
निपीड्य श्रवणान् हस्तैर्
मेनिरे तं गतायुषम् ॥ ह्व्_६६।१ ॥
मूलम्
{वैशम्पायन उवाच}
क्षिप्तं यदुवृषं दृष्ट्वा
सर्वे ते यदुपुङ्गवाः ।
निपीड्य श्रवणान् हस्तैर्
मेनिरे तं गतायुषम् ॥ ह्व्_६६।१ ॥
विश्वास-प्रस्तुतिः
अन्धस् त्व् अनाविग्नमना
धैर्याद् अविकृतं वचः ।
प्रोवाच वदतां श्रेष्ठः
समासात् कंसम् ओजसा ॥ ह्व्_६६।२ ॥
मूलम्
अन्धस् त्व् अनाविग्नमना
धैर्याद् अविकृतं वचः ।
प्रोवाच वदतां श्रेष्ठः
समासात् कंसम् ओजसा ॥ ह्व्_६६।२ ॥
विश्वास-प्रस्तुतिः
अश्लाघ्यो मे मतः पुत्र
तवायं वाक्परिश्रमः ।
अयुक्तो गर्हितः सद्भिर्
बान्धवेषु विशेषतः ॥ ह्व्_६६।३ ॥
मूलम्
अश्लाघ्यो मे मतः पुत्र
तवायं वाक्परिश्रमः ।
अयुक्तो गर्हितः सद्भिर्
बान्धवेषु विशेषतः ॥ ह्व्_६६।३ ॥
विश्वास-प्रस्तुतिः
अयादवो यदि भवाञ्
शृणु तावद् यद् उच्यते ।
न हि त्वां यादवा वीर
बलात् कुर्वन्ति यादवम् ॥ ह्व्_६६।४ ॥
मूलम्
अयादवो यदि भवाञ्
शृणु तावद् यद् उच्यते ।
न हि त्वां यादवा वीर
बलात् कुर्वन्ति यादवम् ॥ ह्व्_६६।४ ॥
विश्वास-प्रस्तुतिः
अश्लाघ्या वृष्णयः पुत्र
येषां त्वम् अनुशासिता ।
इक्ष्वाकुवंशजो राजा
विनिवृत्तः स्ववंशकृत् ॥ ह्व्_६६।५ ॥
मूलम्
अश्लाघ्या वृष्णयः पुत्र
येषां त्वम् अनुशासिता ।
इक्ष्वाकुवंशजो राजा
विनिवृत्तः स्ववंशकृत् ॥ ह्व्_६६।५ ॥
विश्वास-प्रस्तुतिः
भोजो वा यादवो वासि
कंसो वासि यथा तथा ।
सहजं ते शिरस् तात
जटी मुण्डो ऽपि वा भव ॥ ह्व्_६६।६ ॥
मूलम्
भोजो वा यादवो वासि
कंसो वासि यथा तथा ।
सहजं ते शिरस् तात
जटी मुण्डो ऽपि वा भव ॥ ह्व्_६६।६ ॥
विश्वास-प्रस्तुतिः
उग्रसेनस् त्व् अयं शोच्यो
यो ऽस्माकं कुलपांसनः ।
दुर्जातीयेन येन त्वम्
ईदृशो जनितः सुतः ॥ ह्व्_६६।७ ॥
मूलम्
उग्रसेनस् त्व् अयं शोच्यो
यो ऽस्माकं कुलपांसनः ।
दुर्जातीयेन येन त्वम्
ईदृशो जनितः सुतः ॥ ह्व्_६६।७ ॥
विश्वास-प्रस्तुतिः
न चात्मनो गुणांस् तात
प्रवदन्ति मनीषिणः ।
परेणोक्ता गुणा गौण्यं
यान्ति वेदार्तसम्मिताः ॥ ह्व्_६६।८ ॥
मूलम्
न चात्मनो गुणांस् तात
प्रवदन्ति मनीषिणः ।
परेणोक्ता गुणा गौण्यं
यान्ति वेदार्तसम्मिताः ॥ ह्व्_६६।८ ॥
विश्वास-प्रस्तुतिः
पृथिव्यां यदुवंशो ऽयं
निन्दनीयो महीक्षिताम् ।
बालः कुलान्तकृन् मूढो
येषां त्वम् अनुशासिता ॥ ह्व्_६६।९ ॥
मूलम्
पृथिव्यां यदुवंशो ऽयं
निन्दनीयो महीक्षिताम् ।
बालः कुलान्तकृन् मूढो
येषां त्वम् अनुशासिता ॥ ह्व्_६६।९ ॥
विश्वास-प्रस्तुतिः
साधुस् त्वम् एभिर् वाक्यैश् च
त्वया साध्व् इति भाषितैः ।
न वाचा साधितं कार्यम्
आत्मा च विवृतः कृतः ॥ ह्व्_६६।१० ॥
मूलम्
साधुस् त्वम् एभिर् वाक्यैश् च
त्वया साध्व् इति भाषितैः ।
न वाचा साधितं कार्यम्
आत्मा च विवृतः कृतः ॥ ह्व्_६६।१० ॥
विश्वास-प्रस्तुतिः
गुरोर् अनवलिप्तस्य
मान्यस्य महताम् अपि ।
क्षेपणं कः शुभं मन्येद्
द्विजस्येव वधं कृतम् ॥ ह्व्_६६।११ ॥
मूलम्
गुरोर् अनवलिप्तस्य
मान्यस्य महताम् अपि ।
क्षेपणं कः शुभं मन्येद्
द्विजस्येव वधं कृतम् ॥ ह्व्_६६।११ ॥
विश्वास-प्रस्तुतिः
मान्याश् चैवाभिगम्याश् च
वृद्धास् तात यथाग्रयः ।
क्रोधो हि तेषां प्रदहेल्
लोकान् अन्तर्गतान् अपि ॥ ह्व्_६६।१२ ॥
मूलम्
मान्याश् चैवाभिगम्याश् च
वृद्धास् तात यथाग्रयः ।
क्रोधो हि तेषां प्रदहेल्
लोकान् अन्तर्गतान् अपि ॥ ह्व्_६६।१२ ॥
विश्वास-प्रस्तुतिः
बुधेन तात दान्तेन
नित्यम् अभ्युच्छ्रितात्मना ।
धर्मस्य गतिर् अन्वेष्या
मत्स्यस्य गतिर् अप्स्व् इव ॥ ह्व्_६६।१३ ॥
मूलम्
बुधेन तात दान्तेन
नित्यम् अभ्युच्छ्रितात्मना ।
धर्मस्य गतिर् अन्वेष्या
मत्स्यस्य गतिर् अप्स्व् इव ॥ ह्व्_६६।१३ ॥
विश्वास-प्रस्तुतिः
केवलं त्वं तु गर्वेण
वृद्धान् अग्निसमान् इह ।
वाचा दुनोषि मर्मघ्न्या
अमन्त्रोक्ता यथाहुतिः ॥ ह्व्_६६।१४ ॥
मूलम्
केवलं त्वं तु गर्वेण
वृद्धान् अग्निसमान् इह ।
वाचा दुनोषि मर्मघ्न्या
अमन्त्रोक्ता यथाहुतिः ॥ ह्व्_६६।१४ ॥
विश्वास-प्रस्तुतिः
वसुदेवं च पुत्रार्थे
यदि त्वं परिगर्हसे ।
तत्र मिथ्याप्रलापं ते
निन्दामि कृपणं वचः ॥ ह्व्_६६।१५ ॥
मूलम्
वसुदेवं च पुत्रार्थे
यदि त्वं परिगर्हसे ।
तत्र मिथ्याप्रलापं ते
निन्दामि कृपणं वचः ॥ ह्व्_६६।१५ ॥
विश्वास-प्रस्तुतिः
दारुणे ऽपि पिता पुत्रे
नैव दारुणतां व्रजेत् ।
([क्: फ़ोर् १६अब्, श्१ सुब्स्त्।: :क्])
दारुणो ऽपि पितुः पुत्रः
कः पुत्रे दारुणः पिता । ह्व्_६६।१६अब्७५८ ।
पुत्रार्थे ह्य् आपदः कष्टाः
पितरः प्राप्नुवन्ति हि ॥ ह्व्_६६।१६ ॥
मूलम्
दारुणे ऽपि पिता पुत्रे
नैव दारुणतां व्रजेत् ।
([क्: फ़ोर् १६अब्, श्१ सुब्स्त्।: :क्])
दारुणो ऽपि पितुः पुत्रः
कः पुत्रे दारुणः पिता । ह्व्_६६।१६अब्७५८ ।
पुत्रार्थे ह्य् आपदः कष्टाः
पितरः प्राप्नुवन्ति हि ॥ ह्व्_६६।१६ ॥
विश्वास-प्रस्तुतिः
([क्: फ़ोर् १६cd, त्१,ग्२,म्१-३ सुब्स्त्।: :क्])
पुत्रास् ते ह्य् आपदः कष्टात्
पितरं तारयन्ति तु । ह्व्_६६।१६७५९ ।
छादितो वसुदेवेन
यदि पुत्रः शिशुस् तदा ।
मन्यसे यद्य् अकर्तव्यं
पृच्छस्व पितरं स्वकम् ॥ ह्व्_६६।१७ ॥
मूलम्
([क्: फ़ोर् १६cd, त्१,ग्२,म्१-३ सुब्स्त्।: :क्])
पुत्रास् ते ह्य् आपदः कष्टात्
पितरं तारयन्ति तु । ह्व्_६६।१६७५९ ।
छादितो वसुदेवेन
यदि पुत्रः शिशुस् तदा ।
मन्यसे यद्य् अकर्तव्यं
पृच्छस्व पितरं स्वकम् ॥ ह्व्_६६।१७ ॥
विश्वास-प्रस्तुतिः
गर्हता वसुदेवं च
यदुवंशं च निन्दता ।
त्वया यादवपुत्राणां
वैरजं विषम् अर्जितम् ॥ ह्व्_६६।१८ ॥
मूलम्
गर्हता वसुदेवं च
यदुवंशं च निन्दता ।
त्वया यादवपुत्राणां
वैरजं विषम् अर्जितम् ॥ ह्व्_६६।१८ ॥
विश्वास-प्रस्तुतिः
अकर्तव्यं यदि कृतं
वसुदेवेन पुत्रजम् ।
किमर्थम् उग्रसेनेन
शिशुस् त्वं न विनाशितः ॥ ह्व्_६६।१९ ॥
मूलम्
अकर्तव्यं यदि कृतं
वसुदेवेन पुत्रजम् ।
किमर्थम् उग्रसेनेन
शिशुस् त्वं न विनाशितः ॥ ह्व्_६६।१९ ॥
विश्वास-प्रस्तुतिः
पुन् नाम्नो नरकात् पुत्रो
यस्मात् त्राता पितॄन् सदा ।
तस्माद् ब्रुवन्ति पुत्रेति
पुत्रं धर्मविदो जनाः ॥ ह्व्_६६।२० ॥
मूलम्
पुन् नाम्नो नरकात् पुत्रो
यस्मात् त्राता पितॄन् सदा ।
तस्माद् ब्रुवन्ति पुत्रेति
पुत्रं धर्मविदो जनाः ॥ ह्व्_६६।२० ॥
विश्वास-प्रस्तुतिः
([क्: after २०, द्६,त्१।२,ग्,म्,ग्(एद्।) ins.: :क्])
पित्रा पुत्रस् तु गोप्तश् चेत्
को दोषो वद साम्प्रतम् । ह्व्_६६।२०७६०:१ ।
रक्षितस् तव पित्रासि
किमर्थं वद बालिश ॥ ह्व्_६६।२०७६०:२ ।
मूलम्
([क्: after २०, द्६,त्१।२,ग्,म्,ग्(एद्।) ins.: :क्])
पित्रा पुत्रस् तु गोप्तश् चेत्
को दोषो वद साम्प्रतम् । ह्व्_६६।२०७६०:१ ।
रक्षितस् तव पित्रासि
किमर्थं वद बालिश ॥ ह्व्_६६।२०७६०:२ ।
विश्वास-प्रस्तुतिः
अनेन तव वाक्येन
शत्रवो यादवाः कृताः । ह्व्_६६।२०७६०:३ ।
जात्या हि यादवः कृष्णः
स च सङ्कर्षणो युवा ।
त्वं चापि विधृतस् ताभ्यां
जातवैरेण चेतसा ॥ ह्व्_६६।२१ ॥
मूलम्
अनेन तव वाक्येन
शत्रवो यादवाः कृताः । ह्व्_६६।२०७६०:३ ।
जात्या हि यादवः कृष्णः
स च सङ्कर्षणो युवा ।
त्वं चापि विधृतस् ताभ्यां
जातवैरेण चेतसा ॥ ह्व्_६६।२१ ॥
विश्वास-प्रस्तुतिः
उद्धूतानीह सर्वेषां
यदूनां हृदयानि वै ।
वसुदेवे त्वया क्षिप्ते
वासुदेवे च कोपिते ॥ ह्व्_६६।२२ ॥
मूलम्
उद्धूतानीह सर्वेषां
यदूनां हृदयानि वै ।
वसुदेवे त्वया क्षिप्ते
वासुदेवे च कोपिते ॥ ह्व्_६६।२२ ॥
विश्वास-प्रस्तुतिः
कृष्णे च भवतो द्वेषाद्
वसुदेवविगर्हणात् ।
([क्: after २३अब्, द्६,त्१।२,ग्१-३।५,म्,ग्(एद्।) ins.: :क्])
त्यक्ष्यामहे वयं सर्वे
भवन्तं यदि साधवः । ह्व्_६६।२३अब्७६१:१ ।
असन्तो वयम् एवात्र
लोके ख्याता नराधम ॥ ह्व्_६६।२३अब्७६१:२ ।
मूलम्
कृष्णे च भवतो द्वेषाद्
वसुदेवविगर्हणात् ।
([क्: after २३अब्, द्६,त्१।२,ग्१-३।५,म्,ग्(एद्।) ins.: :क्])
त्यक्ष्यामहे वयं सर्वे
भवन्तं यदि साधवः । ह्व्_६६।२३अब्७६१:१ ।
असन्तो वयम् एवात्र
लोके ख्याता नराधम ॥ ह्व्_६६।२३अब्७६१:२ ।
विश्वास-प्रस्तुतिः
यदि सक्ताः परित्यक्तुं
पुत्र त्वां साम्प्रतं वयम् । ह्व्_६६।२३अब्७६१:३ ।
सर्वान् अस्मान् परित्यज्य
गच्छसीति न संशयः । ह्व्_६६।२३अब्७६१:४ ।
शंसन्ति हीमानि भयं
निमित्तान्य् अशुभानि ते ॥ ह्व्_६६।२३ ॥
मूलम्
यदि सक्ताः परित्यक्तुं
पुत्र त्वां साम्प्रतं वयम् । ह्व्_६६।२३अब्७६१:३ ।
सर्वान् अस्मान् परित्यज्य
गच्छसीति न संशयः । ह्व्_६६।२३अब्७६१:४ ।
शंसन्ति हीमानि भयं
निमित्तान्य् अशुभानि ते ॥ ह्व्_६६।२३ ॥
विश्वास-प्रस्तुतिः
सर्पाणां दर्शनं तीव्रं
स्वप्नानां च निशाक्षये ।
पुर्या वैधव्यशंसीनि
कारणैर् अनुमीमहे ॥ ह्व्_६६।२४ ॥
मूलम्
सर्पाणां दर्शनं तीव्रं
स्वप्नानां च निशाक्षये ।
पुर्या वैधव्यशंसीनि
कारणैर् अनुमीमहे ॥ ह्व्_६६।२४ ॥
विश्वास-प्रस्तुतिः
एष घोरो ग्रहः स्वातीम्
उल्लिखन् खे गभस्तिभिः ।
वक्रम् अङ्गारकश् चक्रे
व्याहरन्ति खरं द्विजाः ॥ ह्व्_६६।२५ ॥
मूलम्
एष घोरो ग्रहः स्वातीम्
उल्लिखन् खे गभस्तिभिः ।
वक्रम् अङ्गारकश् चक्रे
व्याहरन्ति खरं द्विजाः ॥ ह्व्_६६।२५ ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१) त्१-३ ins. after २५; त्४ after ६५।४६अ: :क्])
बुधेन पश्चिमा सन्ध्या
व्याप्ता घोरेण तेजसा । ह्व्_६६।२५७६२:१ ।
वैश्वानरपथे शुक्रो ह्य्
अतिचारं चचार ह ॥ ह्व्_६६।२५७६२:२ ।
मूलम्
([क्: न् (एxचेप्त् श्१) त्१-३ ins. after २५; त्४ after ६५।४६अ: :क्])
बुधेन पश्चिमा सन्ध्या
व्याप्ता घोरेण तेजसा । ह्व्_६६।२५७६२:१ ।
वैश्वानरपथे शुक्रो ह्य्
अतिचारं चचार ह ॥ ह्व्_६६।२५७६२:२ ।
विश्वास-प्रस्तुतिः
केतुना धूमकेतोस् तु
नक्षत्राणि त्रयोदश । ह्व्_६६।२५७६२:३ ।
भरण्यादीनि भिन्नानि
नानुयन्ति निशाकरम् । ह्व्_६६।२५७६२:४ ।
शिवा श्मशानान् निष्क्रम्य
निःश्वासाङ्गारवर्षिणी ।
उभे सन्ध्ये पुरीं घोरा
पर्येति बहु वाशती ॥ ह्व्_६६।२६ ॥
मूलम्
केतुना धूमकेतोस् तु
नक्षत्राणि त्रयोदश । ह्व्_६६।२५७६२:३ ।
भरण्यादीनि भिन्नानि
नानुयन्ति निशाकरम् । ह्व्_६६।२५७६२:४ ।
शिवा श्मशानान् निष्क्रम्य
निःश्वासाङ्गारवर्षिणी ।
उभे सन्ध्ये पुरीं घोरा
पर्येति बहु वाशती ॥ ह्व्_६६।२६ ॥
विश्वास-प्रस्तुतिः
उल्का निर्घातनादेन
पपात धरणीतले ।
चलत्य् अपर्वणि मही
गिरीणां शिखराणि च ॥ ह्व्_६६।२७ ॥
मूलम्
उल्का निर्घातनादेन
पपात धरणीतले ।
चलत्य् अपर्वणि मही
गिरीणां शिखराणि च ॥ ह्व्_६६।२७ ॥
विश्वास-प्रस्तुतिः
प्राक्सन्ध्या परिघग्रस् ता
भाभिर् बध्नाति भास्करम् ।
प्रतिलोमं च यान्त्य् एते
व्याहरन्तो मृगद्विजाः ॥ ह्व्_६६।२८ ॥
मूलम्
प्राक्सन्ध्या परिघग्रस् ता
भाभिर् बध्नाति भास्करम् ।
प्रतिलोमं च यान्त्य् एते
व्याहरन्तो मृगद्विजाः ॥ ह्व्_६६।२८ ॥
विश्वास-प्रस्तुतिः
ग्रस्तः स्वर्भानुना सूर्यो
दिवा नक्तम् अजायत ।
धूमोत्पातैर् दिशो व्याप्ताः
शुष्काशनिसमाहताः ॥ ह्व्_६६।२९ ॥
मूलम्
ग्रस्तः स्वर्भानुना सूर्यो
दिवा नक्तम् अजायत ।
धूमोत्पातैर् दिशो व्याप्ताः
शुष्काशनिसमाहताः ॥ ह्व्_६६।२९ ॥
विश्वास-प्रस्तुतिः
प्रस्रवन्ति घना रक्तं
साशनिस्तनयित्नवः ।
चलिता देवताः स्थानात्
त्यजन्ति विहगा नगान् ॥ ह्व्_६६।३० ॥
मूलम्
प्रस्रवन्ति घना रक्तं
साशनिस्तनयित्नवः ।
चलिता देवताः स्थानात्
त्यजन्ति विहगा नगान् ॥ ह्व्_६६।३० ॥
विश्वास-प्रस्तुतिः
यानि राजविनाशाय
दैवज्ञाः कथयन्ति हि ।
तानि सर्वाणि पश्यामो
निमित्तान्य् अशुभानि वै ॥ ह्व्_६६।३१ ॥
मूलम्
यानि राजविनाशाय
दैवज्ञाः कथयन्ति हि ।
तानि सर्वाणि पश्यामो
निमित्तान्य् अशुभानि वै ॥ ह्व्_६६।३१ ॥
विश्वास-प्रस्तुतिः
त्वं चापि स्वजनद्वेषी
राजधर्मपराङ्मुखः ।
अनिमित्तागतक्रोधः
सन्निकृष्टभयो ह्य् असि ॥ ह्व्_६६।३२ ॥
मूलम्
त्वं चापि स्वजनद्वेषी
राजधर्मपराङ्मुखः ।
अनिमित्तागतक्रोधः
सन्निकृष्टभयो ह्य् असि ॥ ह्व्_६६।३२ ॥
विश्वास-प्रस्तुतिः
यस् त्वं देवोपमं वृद्धं
वसुदेवम् धृतव्रतम् ।
मोहात् क्षिपसि दुर्बुद्धे
कुतस् ते शान्तिर् आत्मनः ॥ ह्व्_६६।३३ ॥
मूलम्
यस् त्वं देवोपमं वृद्धं
वसुदेवम् धृतव्रतम् ।
मोहात् क्षिपसि दुर्बुद्धे
कुतस् ते शान्तिर् आत्मनः ॥ ह्व्_६६।३३ ॥
विश्वास-प्रस्तुतिः
त्वद्गतो यो हि नः स्नेहस्
तं त्यजामो ऽद्य वै वयम् ।
अहितं स्वस्य वंशस्य
न त्वां वयम् उपास्महे ॥ ह्व्_६६।३४ ॥
मूलम्
त्वद्गतो यो हि नः स्नेहस्
तं त्यजामो ऽद्य वै वयम् ।
अहितं स्वस्य वंशस्य
न त्वां वयम् उपास्महे ॥ ह्व्_६६।३४ ॥
विश्वास-प्रस्तुतिः
स हि दानपतिर् धन्यो
यो द्रक्ष्यति वनेगतम् ।
पुण्डरीकपलाशाक्षं
कृष्णम् अक्लिष्टकारिणम् ॥ ह्व्_६६।३५ ॥
मूलम्
स हि दानपतिर् धन्यो
यो द्रक्ष्यति वनेगतम् ।
पुण्डरीकपलाशाक्षं
कृष्णम् अक्लिष्टकारिणम् ॥ ह्व्_६६।३५ ॥
विश्वास-प्रस्तुतिः
([क्: after ३५ द्६,स् (एxचेप्त् त्३।४,)ग्(एद्।) ins.: :क्])
बालं चाबालसद्वृत्तम्
ईश्वरं सकलेश्वरम् । ह्व्_६६।३५७६३:१ ।
योगिध्येयं सदादृश्यं
सन्तं सदसदात्मकम् ॥ ह्व्_६६।३५७६३:२ ।
मूलम्
([क्: after ३५ द्६,स् (एxचेप्त् त्३।४,)ग्(एद्।) ins.: :क्])
बालं चाबालसद्वृत्तम्
ईश्वरं सकलेश्वरम् । ह्व्_६६।३५७६३:१ ।
योगिध्येयं सदादृश्यं
सन्तं सदसदात्मकम् ॥ ह्व्_६६।३५७६३:२ ।
विश्वास-प्रस्तुतिः
यो हि द्रक्ष्यति तं कृष्णं
तस्मै भूयो नमो नमः ॥ ह्व्_६६।३५७६३:३ ।
मूलम्
यो हि द्रक्ष्यति तं कृष्णं
तस्मै भूयो नमो नमः ॥ ह्व्_६६।३५७६३:३ ।
विश्वास-प्रस्तुतिः
आद्यानाम् आद्यम् आदिं च
सकलं निष्कलं हरिं । ह्व्_६६।३५७६३:४ ।
यो हि द्रक्ष्यति तं देवं
तस्मै भूयो नमो नमः ॥ ह्व्_६६।३५७६३:५ ।
मूलम्
आद्यानाम् आद्यम् आदिं च
सकलं निष्कलं हरिं । ह्व्_६६।३५७६३:४ ।
यो हि द्रक्ष्यति तं देवं
तस्मै भूयो नमो नमः ॥ ह्व्_६६।३५७६३:५ ।
विश्वास-प्रस्तुतिः
वयम् एव निरानन्दास्
वया गुप्ता यतः सदा । ह्व्_६६।३५७६३:६ ।
येषां त्वम् ईश्वरो ऽधन्यस्
तेषां शान्तिः कुतो रतिः । ह्व्_६६।३५७६३:७ ।
छिन्नमूलो ह्य् अयं वंशो
यदूनां त्वत्कृते कृतः ।
कृष्णो ज्ञातीन् समानाय्य
स सन्धानं करिष्यति ॥ ह्व्_६६।३६ ॥
मूलम्
वयम् एव निरानन्दास्
वया गुप्ता यतः सदा । ह्व्_६६।३५७६३:६ ।
येषां त्वम् ईश्वरो ऽधन्यस्
तेषां शान्तिः कुतो रतिः । ह्व्_६६।३५७६३:७ ।
छिन्नमूलो ह्य् अयं वंशो
यदूनां त्वत्कृते कृतः ।
कृष्णो ज्ञातीन् समानाय्य
स सन्धानं करिष्यति ॥ ह्व्_६६।३६ ॥
विश्वास-प्रस्तुतिः
क्षान्तम् एव तदानेन
वसुदेवेन धीमता ।
कालसम्पक्वविज्ञानो
ब्रूहि त्वं यद् यद् इच्छसि ॥ ह्व्_६६।३७ ॥
मूलम्
क्षान्तम् एव तदानेन
वसुदेवेन धीमता ।
कालसम्पक्वविज्ञानो
ब्रूहि त्वं यद् यद् इच्छसि ॥ ह्व्_६६।३७ ॥
विश्वास-प्रस्तुतिः
मह्यं तु रोचते कम्स
वसुदेवसहायवान् ।
गच्छ कृष्णस्य निलयं
प्रीतिस् ते तेन रोचताम् ॥ ह्व्_६६।३८ ॥
मूलम्
मह्यं तु रोचते कम्स
वसुदेवसहायवान् ।
गच्छ कृष्णस्य निलयं
प्रीतिस् ते तेन रोचताम् ॥ ह्व्_६६।३८ ॥
विश्वास-प्रस्तुतिः
([क्: after ३८, श्१,क्,Ñ,व्,ब्,द्न्,द्स्,द्१-५,त्।३।४ ins. the चोलोफोन्। Wहिले द्६,स् (एxचेप्त् त्३।४),ग्(एद्।) ins.: :क्])
अन्यथा तु गतिः कम्स
तव नास्तीति निश्चयः । ह्व्_६६।३८७६४ ।
अन्धकस्य वचः श्रुत्वा
कंसः संरक्तलोचनः ।
किञ्चिद् अप्य् अब्रुवन् क्रोधाद्
विवेश स्वं निवेशनम् ॥ ह्व्_६६।३९ ॥
मूलम्
([क्: after ३८, श्१,क्,Ñ,व्,ब्,द्न्,द्स्,द्१-५,त्।३।४ ins. the चोलोफोन्। Wहिले द्६,स् (एxचेप्त् त्३।४),ग्(एद्।) ins.: :क्])
अन्यथा तु गतिः कम्स
तव नास्तीति निश्चयः । ह्व्_६६।३८७६४ ।
अन्धकस्य वचः श्रुत्वा
कंसः संरक्तलोचनः ।
किञ्चिद् अप्य् अब्रुवन् क्रोधाद्
विवेश स्वं निवेशनम् ॥ ह्व्_६६।३९ ॥
विश्वास-प्रस्तुतिः
ते च सर्वे यथावेश्म
यादवाः श्रुतविस्तराः ।
जग्मुर् विगतसङ्कल्पाः
कंसवैकृतशंसिनः ॥ ह्व्_६६।४० ॥
मूलम्
ते च सर्वे यथावेश्म
यादवाः श्रुतविस्तराः ।
जग्मुर् विगतसङ्कल्पाः
कंसवैकृतशंसिनः ॥ ह्व्_६६।४० ॥