विश्वास-प्रस्तुतिः
{वैशम्पायन उवाच}
कृष्णं व्रजगतं श्रुत्वा
वर्धमानम् इवानलम् ।
उद्वेगम् अगमत् कंसः
शङ्कमानस् ततो भयम् ॥ ह्व्_६५।१ ॥
मूलम्
{वैशम्पायन उवाच}
कृष्णं व्रजगतं श्रुत्वा
वर्धमानम् इवानलम् ।
उद्वेगम् अगमत् कंसः
शङ्कमानस् ततो भयम् ॥ ह्व्_६५।१ ॥
विश्वास-प्रस्तुतिः
पूतनायां हतायां च
कालिये च पराजिते ।
धेनुके प्रलयं नीते
प्रलम्बे च निपातिते ॥ ह्व्_६५।२ ॥
मूलम्
पूतनायां हतायां च
कालिये च पराजिते ।
धेनुके प्रलयं नीते
प्रलम्बे च निपातिते ॥ ह्व्_६५।२ ॥
विश्वास-प्रस्तुतिः
धृते गोवर्धने चैव
विफले शक्रशासने ।
गोषु त्रातासु च तथा
स्पृहणीयेन कर्मणा ॥ ह्व्_६५।३ ॥
मूलम्
धृते गोवर्धने चैव
विफले शक्रशासने ।
गोषु त्रातासु च तथा
स्पृहणीयेन कर्मणा ॥ ह्व्_६५।३ ॥
विश्वास-प्रस्तुतिः
ककुद्मिनि हते ऽरिष्टे
गोपेषु मुदितेषु च ।
दृश्यमाने विनाशे च
सन्निकृष्टे महाभये ॥ ह्व्_६५।४ ॥
मूलम्
ककुद्मिनि हते ऽरिष्टे
गोपेषु मुदितेषु च ।
दृश्यमाने विनाशे च
सन्निकृष्टे महाभये ॥ ह्व्_६५।४ ॥
विश्वास-प्रस्तुतिः
कर्षणेन च वृक्षाभ्यां
बालेनाबालकर्मणा ।
अचिन्त्यं कर्म तच् छ्रुत्वा
वर्धमानेषु शत्रुषु ॥ ह्व्_६५।५ ॥
मूलम्
कर्षणेन च वृक्षाभ्यां
बालेनाबालकर्मणा ।
अचिन्त्यं कर्म तच् छ्रुत्वा
वर्धमानेषु शत्रुषु ॥ ह्व्_६५।५ ॥
विश्वास-प्रस्तुतिः
प्राप्तारिष्टम् इवात्मानं
मेने स मथुरेश्वरः ।
विसञ्ज्ञेन्द्रियभूतात्मा
गतासुप्रतिमो ऽभवत् ॥ ह्व्_६५।६ ॥
मूलम्
प्राप्तारिष्टम् इवात्मानं
मेने स मथुरेश्वरः ।
विसञ्ज्ञेन्द्रियभूतात्मा
गतासुप्रतिमो ऽभवत् ॥ ह्व्_६५।६ ॥
विश्वास-प्रस्तुतिः
ततो ज्ञातीन् समानाय्य
पितरं चोग्रशासनः ।
निशि स्तिमितमूकायाम्
मथुरायां जनाधिपः ॥ ह्व्_६५।७ ॥
मूलम्
ततो ज्ञातीन् समानाय्य
पितरं चोग्रशासनः ।
निशि स्तिमितमूकायाम्
मथुरायां जनाधिपः ॥ ह्व्_६५।७ ॥
विश्वास-प्रस्तुतिः
वसुदेवं च देवाभं
कह्वं चाहूय यादवम् ।
सत्यकं दारुकं चैव
कह्वावरजम् एव च ॥ ह्व्_६५।८ ॥
मूलम्
वसुदेवं च देवाभं
कह्वं चाहूय यादवम् ।
सत्यकं दारुकं चैव
कह्वावरजम् एव च ॥ ह्व्_६५।८ ॥
विश्वास-प्रस्तुतिः
भोजं वैतरणं चैव
विकद्रुं च महाबलम् ।
भयेसखं च राजानं
विपृथुं च पृथुश्रियम् ॥ ह्व्_६५।९ ॥
मूलम्
भोजं वैतरणं चैव
विकद्रुं च महाबलम् ।
भयेसखं च राजानं
विपृथुं च पृथुश्रियम् ॥ ह्व्_६५।९ ॥
विश्वास-प्रस्तुतिः
बभ्रुं दानपतिं चैव
कृतवर्माणम् एव च ।
भूरितेजसम् अक्षोभ्यं
भूरिश्रवसम् एव च ॥ ह्व्_६५।१० ॥
मूलम्
बभ्रुं दानपतिं चैव
कृतवर्माणम् एव च ।
भूरितेजसम् अक्षोभ्यं
भूरिश्रवसम् एव च ॥ ह्व्_६५।१० ॥
विश्वास-प्रस्तुतिः
एतान् स यादवान् सर्वान्
आभाष्य शृणुतेति च ।
उग्रसेनसुतो राजा
प्रोवाच मथुरेश्वरः ॥ ह्व्_६५।११ ॥
मूलम्
एतान् स यादवान् सर्वान्
आभाष्य शृणुतेति च ।
उग्रसेनसुतो राजा
प्रोवाच मथुरेश्वरः ॥ ह्व्_६५।११ ॥
विश्वास-प्रस्तुतिः
भवन्तः सर्वकार्यज्ञाः
सर्वशास्त्रविशारदाः ।
न्यायवृत्तान्तकुशलास्
त्रिवर्गस्य प्रवर्तकाः ॥ ह्व्_६५।१२ ॥
मूलम्
भवन्तः सर्वकार्यज्ञाः
सर्वशास्त्रविशारदाः ।
न्यायवृत्तान्तकुशलास्
त्रिवर्गस्य प्रवर्तकाः ॥ ह्व्_६५।१२ ॥
विश्वास-प्रस्तुतिः
कर्तव्यानां च कर्तारो
लोकस्य विबुधोपमाः ।
पर्वता इव निष्कम्पा
वृत्ते महति तस्थुषः ॥ ह्व्_६५।१३ ॥
मूलम्
कर्तव्यानां च कर्तारो
लोकस्य विबुधोपमाः ।
पर्वता इव निष्कम्पा
वृत्ते महति तस्थुषः ॥ ह्व्_६५।१३ ॥
विश्वास-प्रस्तुतिः
([क्: फ़ोर् १३cd, क्,Ñ२।३,व्१।३,ब्,द्(एxचेप्त् द्६),त्३।४ सुब्स्त्।: :क्])
तस्थिवांसो महावृत्ते
निष्कम्पा इव पर्वताः । ह्व्_६५।१३७४० ।
अदम्भवृत्तयः सर्वे
गुरुकर्मसु चोद्यताः ।
राजमन्त्रधराः सर्वे
सर्वे धनुषि पारगाः ॥ ह्व्_६५।१४ ॥
मूलम्
([क्: फ़ोर् १३cd, क्,Ñ२।३,व्१।३,ब्,द्(एxचेप्त् द्६),त्३।४ सुब्स्त्।: :क्])
तस्थिवांसो महावृत्ते
निष्कम्पा इव पर्वताः । ह्व्_६५।१३७४० ।
अदम्भवृत्तयः सर्वे
गुरुकर्मसु चोद्यताः ।
राजमन्त्रधराः सर्वे
सर्वे धनुषि पारगाः ॥ ह्व्_६५।१४ ॥
विश्वास-प्रस्तुतिः
यशःप्रदीपा लोकानां
वेदार्थानां विवक्षवः ।
आश्रमाणां निसर्गज्ञा
वर्णानां क्रमपारगाः ॥ ह्व्_६५।१५ ॥
मूलम्
यशःप्रदीपा लोकानां
वेदार्थानां विवक्षवः ।
आश्रमाणां निसर्गज्ञा
वर्णानां क्रमपारगाः ॥ ह्व्_६५।१५ ॥
विश्वास-प्रस्तुतिः
प्रवक्तारः सुनियता
नेतारो नयदर्शिनः ।
भेत्तारः परराष्ट्राणां
त्रातारः शरणार्थिनाम् ॥ ह्व्_६५।१६ ॥
मूलम्
प्रवक्तारः सुनियता
नेतारो नयदर्शिनः ।
भेत्तारः परराष्ट्राणां
त्रातारः शरणार्थिनाम् ॥ ह्व्_६५।१६ ॥
विश्वास-प्रस्तुतिः
एवम् अक्षतचारित्रैः
श्रीमद्भिर् उदितोदितैः ।
द्यौर् अपि अनुगृहीता स्याद्
भवद्भिः किं पुनर् मही ॥ ह्व्_६५।१७ ॥
मूलम्
एवम् अक्षतचारित्रैः
श्रीमद्भिर् उदितोदितैः ।
द्यौर् अपि अनुगृहीता स्याद्
भवद्भिः किं पुनर् मही ॥ ह्व्_६५।१७ ॥
विश्वास-प्रस्तुतिः
ऋषीणाम् इव वो वृत्तं
प्रभावो मरुताम् इव ।
रुद्राणाम् इव वः क्रोधो
दीप्तिर् अङ्गिरसाम् इव ॥ ह्व्_६५।१८ ॥
मूलम्
ऋषीणाम् इव वो वृत्तं
प्रभावो मरुताम् इव ।
रुद्राणाम् इव वः क्रोधो
दीप्तिर् अङ्गिरसाम् इव ॥ ह्व्_६५।१८ ॥
विश्वास-प्रस्तुतिः
व्यावर्तमानं सुमहद्
भवद्भिः ख्यातकीर्तिभिः ।
धृतं यदुकुलं वीरैर्
भूतलं पर्वतैर् इव ॥ ह्व्_६५।१९ ॥
मूलम्
व्यावर्तमानं सुमहद्
भवद्भिः ख्यातकीर्तिभिः ।
धृतं यदुकुलं वीरैर्
भूतलं पर्वतैर् इव ॥ ह्व्_६५।१९ ॥
विश्वास-प्रस्तुतिः
एवं भवत्सु युक्तेषु
मम चित्तानुवर्तिषु ।
वर्धमानो ममानर्थो
भवद्भिः किम् उपेक्षितः ॥ ह्व्_६५।२० ॥
मूलम्
एवं भवत्सु युक्तेषु
मम चित्तानुवर्तिषु ।
वर्धमानो ममानर्थो
भवद्भिः किम् उपेक्षितः ॥ ह्व्_६५।२० ॥
विश्वास-प्रस्तुतिः
एष कृष्ण इति ख्यातो
नन्दगोपसुतो व्रजे ।
वर्धमान इवाम्भोदो
मूलं नः परिकृन्तति ॥ ह्व्_६५।२१ ॥
मूलम्
एष कृष्ण इति ख्यातो
नन्दगोपसुतो व्रजे ।
वर्धमान इवाम्भोदो
मूलं नः परिकृन्तति ॥ ह्व्_६५।२१ ॥
विश्वास-प्रस्तुतिः
अनमात्यस्य शून्यस्य
चारान्धस्य ममैव तु ।
कारणान् नन्दगोपस्य
स सुतो गोपितो गृहे ॥ ह्व्_६५।२२ ॥
मूलम्
अनमात्यस्य शून्यस्य
चारान्धस्य ममैव तु ।
कारणान् नन्दगोपस्य
स सुतो गोपितो गृहे ॥ ह्व्_६५।२२ ॥
विश्वास-प्रस्तुतिः
उपेक्षित इव व्याधिः
पूर्यमाण इवाम्बुदः ।
नदन्मेघ इवोष्णान्ते
स दुरात्मा विवर्धते ॥ ह्व्_६५।२३ ॥
मूलम्
उपेक्षित इव व्याधिः
पूर्यमाण इवाम्बुदः ।
नदन्मेघ इवोष्णान्ते
स दुरात्मा विवर्धते ॥ ह्व्_६५।२३ ॥
विश्वास-प्रस्तुतिः
तस्य नाहं गतिं जाने
न योगं न परायणम् ।
नन्दगोपस्य भवने
जातस्याद्भुतकर्मणः ॥ ह्व्_६५।२४ ॥
मूलम्
तस्य नाहं गतिं जाने
न योगं न परायणम् ।
नन्दगोपस्य भवने
जातस्याद्भुतकर्मणः ॥ ह्व्_६५।२४ ॥
विश्वास-प्रस्तुतिः
किं तद्भूतं समुत्पन्नं
देवापत्यं न विद्महे ।
अतिदेवैर् अमानुष्यैः
कर्मभिः सो ऽनुमीयते ॥ ह्व्_६५।२५ ॥
मूलम्
किं तद्भूतं समुत्पन्नं
देवापत्यं न विद्महे ।
अतिदेवैर् अमानुष्यैः
कर्मभिः सो ऽनुमीयते ॥ ह्व्_६५।२५ ॥
विश्वास-प्रस्तुतिः
पूतना शकुनी बाल्ये
शिशुना स्तनपायिना ।
स्तनपानेप्सुना पीता
प्राणैः सह दुरासदा ॥ ह्व्_६५।२६ ॥
मूलम्
पूतना शकुनी बाल्ये
शिशुना स्तनपायिना ।
स्तनपानेप्सुना पीता
प्राणैः सह दुरासदा ॥ ह्व्_६५।२६ ॥
विश्वास-प्रस्तुतिः
([क्: द्६,त्१।२,ग्२-५,म्२।४,ग् ins. after २६ एइन्; ग्१ ins. after २५: :क्])
तथैव तेन बालेन
पादाङ्गुष्ठेन लीलया । ह्व्_६५।२६७४१:१ ।
शयने वै शयानेन
शकटं परिवर्तितम् ॥ ह्व्_६५।२६७४१:२ ।
मूलम्
([क्: द्६,त्१।२,ग्२-५,म्२।४,ग् ins. after २६ एइन्; ग्१ ins. after २५: :क्])
तथैव तेन बालेन
पादाङ्गुष्ठेन लीलया । ह्व्_६५।२६७४१:१ ।
शयने वै शयानेन
शकटं परिवर्तितम् ॥ ह्व्_६५।२६७४१:२ ।
विश्वास-प्रस्तुतिः
तथा बालेन बलिना
अने जातौ बृहत्तरौ । ह्व्_६५।२६७४१:३ ।
समूलविटपौ भग्नौ
सहजौ यमलार्जुनौ । ह्व्_६५।२६७४१:४ ।
यमुनायां ह्रदे नागः
कालियो दमितस् तथा ।
रसातलचरो नीतः
क्षणेनादर्शनं ह्रदात् ॥
मूलम्
तथा बालेन बलिना
अने जातौ बृहत्तरौ । ह्व्_६५।२६७४१:३ ।
समूलविटपौ भग्नौ
सहजौ यमलार्जुनौ । ह्व्_६५।२६७४१:४ ।
यमुनायां ह्रदे नागः
कालियो दमितस् तथा ।
रसातलचरो नीतः
क्षणेनादर्शनं ह्रदात् ॥
विश्वास-प्रस्तुतिः
नन्दगोपसुतो योगं
कृत्वा च पुनर् उत्थितः ॥ ह्व्_६५।२७ ॥
मूलम्
नन्दगोपसुतो योगं
कृत्वा च पुनर् उत्थितः ॥ ह्व्_६५।२७ ॥
विश्वास-प्रस्तुतिः
धेनुकस् तालशिखरात्
पातितो जीवितं विना ।
([क्: after २८, द्६,स् (एxचेप्त् त्३।४) ins.: :क्])
तस्याग्रजो महावीर्यो
बलभद्रो दुरात्मवान् । ह्व्_६५।२८७४२ ।
प्रलम्बं यं मृधे देवा
न शेकुर् अभिवीक्षितुम् ॥
मूलम्
धेनुकस् तालशिखरात्
पातितो जीवितं विना ।
([क्: after २८, द्६,स् (एxचेप्त् त्३।४) ins.: :क्])
तस्याग्रजो महावीर्यो
बलभद्रो दुरात्मवान् । ह्व्_६५।२८७४२ ।
प्रलम्बं यं मृधे देवा
न शेकुर् अभिवीक्षितुम् ॥
विश्वास-प्रस्तुतिः
बालेन मुष्टिनैकेन
स हतः प्राकृतो यथा ॥ ह्व्_६५।२९ ॥
मूलम्
बालेन मुष्टिनैकेन
स हतः प्राकृतो यथा ॥ ह्व्_६५।२९ ॥
विश्वास-प्रस्तुतिः
वासवस्योत्सवं भङ्क्त्वा
वर्षं वासवरोषजम् ।
निर्जलं गोकुलं कृत्वा
धृतो गोवर्धनो गिरिः ॥ ह्व्_६५।३० ॥
मूलम्
वासवस्योत्सवं भङ्क्त्वा
वर्षं वासवरोषजम् ।
निर्जलं गोकुलं कृत्वा
धृतो गोवर्धनो गिरिः ॥ ह्व्_६५।३० ॥
विश्वास-प्रस्तुतिः
हतस् त्व् अरिष्टो बलवान्
विशृङ्गश् च कृतो व्रजे ।
([क्: द्६,त्१,ग्२।३।५,म् ins. after ३१अब्; त्२,ग्१।४ after ३०: :क्])
केन वा नररूपेण
शक्यो गोवर्धनो गिरिः । ह्व्_६५।३१अब्७४३:१ ।
उद्धर्तुं गोव्रजे सत्यं
न जाने ऽप्य् अद्भुतं ततः ॥ ह्व्_६५।३१अब्७४३:२ ।
मूलम्
हतस् त्व् अरिष्टो बलवान्
विशृङ्गश् च कृतो व्रजे ।
([क्: द्६,त्१,ग्२।३।५,म् ins. after ३१अब्; त्२,ग्१।४ after ३०: :क्])
केन वा नररूपेण
शक्यो गोवर्धनो गिरिः । ह्व्_६५।३१अब्७४३:१ ।
उद्धर्तुं गोव्रजे सत्यं
न जाने ऽप्य् अद्भुतं ततः ॥ ह्व्_६५।३१अब्७४३:२ ।
विश्वास-प्रस्तुतिः
इदम् अत्यद्भुतं सर्वं
वर्षं वासवनिर्मितम् । ह्व्_६५।३१अब्७४३:३ ।
निवारितं सप्तदिनं
किम् अतः परम् अद्भुतम् । ह्व्_६५।३१अब्७४३:४ ।
अबालो बाल्यम् आस्थाय
रमते बाललीलया ॥ ह्व्_६५।३१ ॥
मूलम्
इदम् अत्यद्भुतं सर्वं
वर्षं वासवनिर्मितम् । ह्व्_६५।३१अब्७४३:३ ।
निवारितं सप्तदिनं
किम् अतः परम् अद्भुतम् । ह्व्_६५।३१अब्७४३:४ ।
अबालो बाल्यम् आस्थाय
रमते बाललीलया ॥ ह्व्_६५।३१ ॥
विश्वास-प्रस्तुतिः
प्रबन्धः कर्मणाम् एष
तस्य गोव्रजवासिनः ।
सन्निकृष्टं भयं चैव
केशिनो मम च ध्रुवम् ॥ ह्व्_६५।३२ ॥
मूलम्
प्रबन्धः कर्मणाम् एष
तस्य गोव्रजवासिनः ।
सन्निकृष्टं भयं चैव
केशिनो मम च ध्रुवम् ॥ ह्व्_६५।३२ ॥
विश्वास-प्रस्तुतिः
भूतपूर्वश् च मे मृत्युः
स नूनं पूर्वदैहिकः ।
युद्धकाङ्क्षी हि स यथा
तिष्ठतीव ममाग्रतः ॥ ह्व्_६५।३३ ॥
मूलम्
भूतपूर्वश् च मे मृत्युः
स नूनं पूर्वदैहिकः ।
युद्धकाङ्क्षी हि स यथा
तिष्ठतीव ममाग्रतः ॥ ह्व्_६५।३३ ॥
विश्वास-प्रस्तुतिः
क्व च गोपत्वम् अशुभं
मानुष्यं मृत्युदुर्बलम् ।
क्व च देवप्रभावेन
क्रीडितव्यं व्रजे मम ॥ ह्व्_६५।३४ ॥
मूलम्
क्व च गोपत्वम् अशुभं
मानुष्यं मृत्युदुर्बलम् ।
क्व च देवप्रभावेन
क्रीडितव्यं व्रजे मम ॥ ह्व्_६५।३४ ॥
विश्वास-प्रस्तुतिः
अहो नीचेन वपुषा
च्छादयित्वात्मनो वपुः ।
को ऽप्य् एष रमते देवः
श्मशानस्थ इवानलः ॥ ह्व्_६५।३५ ॥
मूलम्
अहो नीचेन वपुषा
च्छादयित्वात्मनो वपुः ।
को ऽप्य् एष रमते देवः
श्मशानस्थ इवानलः ॥ ह्व्_६५।३५ ॥
विश्वास-प्रस्तुतिः
([क्: Wहिले द्६,त्१।२,ग्म्१-३ ins. after ३५: :क्])
इदम् अप्य् अपरं मन्ये
श्रोतव्यं यदुपुङ्गवाः । ह्व्_६५।३५७४५:१ ।
यथा मम तथा यूयं
जानीथ सकलं वचः । ह्व्_६५।३५७४५:२ ।
श्रूयते हि पुरा विष्णुः
सुराणां कारणान्तरे ।
वामनेन तु रूपेण
जहार पृथिवीम् इमाम् ॥ ह्व्_६५।३६ ॥
मूलम्
([क्: Wहिले द्६,त्१।२,ग्म्१-३ ins. after ३५: :क्])
इदम् अप्य् अपरं मन्ये
श्रोतव्यं यदुपुङ्गवाः । ह्व्_६५।३५७४५:१ ।
यथा मम तथा यूयं
जानीथ सकलं वचः । ह्व्_६५।३५७४५:२ ।
श्रूयते हि पुरा विष्णुः
सुराणां कारणान्तरे ।
वामनेन तु रूपेण
जहार पृथिवीम् इमाम् ॥ ह्व्_६५।३६ ॥
विश्वास-प्रस्तुतिः
([क्: after ३६, द्६,त्१।२,ग्१-३।५,म्,ग् ins.: :क्])
देवराजाय तु तदा
दत्तवान् किल केशवः । ह्व्_६५।३६७४६ ।
कृत्वा केसरिणो रूपं
विष्णुना प्रभविष्णुना ।
हतो हिरण्यकशिपुर्
दानवानां पितामहः ॥ ह्व्_६५।३७ ॥
मूलम्
([क्: after ३६, द्६,त्१।२,ग्१-३।५,म्,ग् ins.: :क्])
देवराजाय तु तदा
दत्तवान् किल केशवः । ह्व्_६५।३६७४६ ।
कृत्वा केसरिणो रूपं
विष्णुना प्रभविष्णुना ।
हतो हिरण्यकशिपुर्
दानवानां पितामहः ॥ ह्व्_६५।३७ ॥
विश्वास-प्रस्तुतिः
([क्: ग्(एद्।) चोन्त्। after *७४६; द्६,त्१।२,ग्,म् ins. after ३७: :क्])
हत्वा तु दानवं सङ्ख्ये
राजानं कृतवान् हरिः । ह्व्_६५।३७७४७ ।
अचिन्त्यं रूपम् आस्थाय
श्वेतशैलस्य मूर्धनि ।
भवेन च्याविता दैत्याः
पुरा तत् त्रिपुरं घ्नता ॥ ह्व्_६५।३८ ॥
मूलम्
([क्: ग्(एद्।) चोन्त्। after *७४६; द्६,त्१।२,ग्,म् ins. after ३७: :क्])
हत्वा तु दानवं सङ्ख्ये
राजानं कृतवान् हरिः । ह्व्_६५।३७७४७ ।
अचिन्त्यं रूपम् आस्थाय
श्वेतशैलस्य मूर्धनि ।
भवेन च्याविता दैत्याः
पुरा तत् त्रिपुरं घ्नता ॥ ह्व्_६५।३८ ॥
विश्वास-प्रस्तुतिः
पालितो गुरुपुत्रेण
भार्गवो ऽङ्गिरसेन वै ।
प्रविश्य चासुरीं मायाम्
अनावृष्टिं चकार ह ॥ ह्व्_६५।३९ ॥
मूलम्
पालितो गुरुपुत्रेण
भार्गवो ऽङ्गिरसेन वै ।
प्रविश्य चासुरीं मायाम्
अनावृष्टिं चकार ह ॥ ह्व्_६५।३९ ॥
विश्वास-प्रस्तुतिः
अनन्तः शाश्वतो देवः
सहस्रवदनो ऽव्ययः ।
वाराहं रूपम् आस्थाय
उज्जहारार्णवान् महीम् ॥ ह्व्_६५।४० ॥
मूलम्
अनन्तः शाश्वतो देवः
सहस्रवदनो ऽव्ययः ।
वाराहं रूपम् आस्थाय
उज्जहारार्णवान् महीम् ॥ ह्व्_६५।४० ॥
विश्वास-प्रस्तुतिः
([क्: after ४०, द्६,स् (एxचेप्त् त्३।४) ins.: :क्])
सभूधरवनाम् उर्वीं
शक्राय प्रददौ हरिः । ह्व्_६५।४०७४८ ।
अमृते निर्मिते पूर्वं
विष्णुः स्त्रीरूपम् आस्थितः ।
सुराणाम् असुराणां च
युद्धं चक्रे सुदारुणम् ॥ ह्व्_६५।४१ ॥
मूलम्
([क्: after ४०, द्६,स् (एxचेप्त् त्३।४) ins.: :क्])
सभूधरवनाम् उर्वीं
शक्राय प्रददौ हरिः । ह्व्_६५।४०७४८ ।
अमृते निर्मिते पूर्वं
विष्णुः स्त्रीरूपम् आस्थितः ।
सुराणाम् असुराणां च
युद्धं चक्रे सुदारुणम् ॥ ह्व्_६५।४१ ॥
विश्वास-प्रस्तुतिः
अमृतार्थे पुरा चापि
देवदैत्यसमागमे ।
दधार मन्दरं विष्णुर्
अकूपार इति श्रुतिः ॥ ह्व्_६५।४२ ॥
मूलम्
अमृतार्थे पुरा चापि
देवदैत्यसमागमे ।
दधार मन्दरं विष्णुर्
अकूपार इति श्रुतिः ॥ ह्व्_६५।४२ ॥
विश्वास-प्रस्तुतिः
([क्: न् (एxचेप्त् श्१) त्ग्१।३-५,म्४ ins. after ४२; ग्२ after ४१अब्: :क्])
वपुर् वामनम् आस्थाय
निन्दनीयं पुरा वपुः । ह्व्_६५।४२७४९:१ ।
त्रिभिः क्रमैस् तु त्रीलोकाञ्
जहार त्रिदिवालयम् । ह्व्_६५।४२७४९:२ ।
चतुर्धा तेजसो भागं
कृत्वा दाशरथे गृहे ।
स एव रामसञ्ज्ञो वै
रावणं व्यशसत् तदा ॥ ह्व्_६५।४३ ॥
मूलम्
([क्: न् (एxचेप्त् श्१) त्ग्१।३-५,म्४ ins. after ४२; ग्२ after ४१अब्: :क्])
वपुर् वामनम् आस्थाय
निन्दनीयं पुरा वपुः । ह्व्_६५।४२७४९:१ ।
त्रिभिः क्रमैस् तु त्रीलोकाञ्
जहार त्रिदिवालयम् । ह्व्_६५।४२७४९:२ ।
चतुर्धा तेजसो भागं
कृत्वा दाशरथे गृहे ।
स एव रामसञ्ज्ञो वै
रावणं व्यशसत् तदा ॥ ह्व्_६५।४३ ॥
विश्वास-प्रस्तुतिः
([क्: after ४३, द्६,स् (एxचेप्त् त्३।४) ins.: :क्])
स एव भगवान् विष्णुर्
भूत्वा भार्गवनन्दनः । ह्व्_६५।४३७५०:१ ।
परश्वधने शातेन
जघान कृतवीर्यजम् ॥ ह्व्_६५।४३७५०:२ ।
मूलम्
([क्: after ४३, द्६,स् (एxचेप्त् त्३।४) ins.: :क्])
स एव भगवान् विष्णुर्
भूत्वा भार्गवनन्दनः । ह्व्_६५।४३७५०:१ ।
परश्वधने शातेन
जघान कृतवीर्यजम् ॥ ह्व्_६५।४३७५०:२ ।
विश्वास-प्रस्तुतिः
त्रिःसप्तकृत्वः पृथिवीं
हत्वा क्षत्रियपुङ्गवान् । ह्व्_६५।४३७५०:३ ।
हयमेधे तदा यज्ञे
काश्यपाय ददौ किल । ह्व्_६५।४३७५०:४ ।
एवम् एष निकृत्या वै
तत्तद्रूपम् उपागतः ।
साधयत्य् आत्मनः कार्यं
सुराणाम् अर्थसिद्धये ॥ ह्व्_६५।४४ ॥
मूलम्
त्रिःसप्तकृत्वः पृथिवीं
हत्वा क्षत्रियपुङ्गवान् । ह्व्_६५।४३७५०:३ ।
हयमेधे तदा यज्ञे
काश्यपाय ददौ किल । ह्व्_६५।४३७५०:४ ।
एवम् एष निकृत्या वै
तत्तद्रूपम् उपागतः ।
साधयत्य् आत्मनः कार्यं
सुराणाम् अर्थसिद्धये ॥ ह्व्_६५।४४ ॥
विश्वास-प्रस्तुतिः
तद् एष नूनं विष्णुर् वा
शक्रो वा मरुतां वरः ।
मत्साधनेप्सया प्राप्तो
नारदो मां यद् उक्तवान् ॥ ह्व्_६५।४५ ॥
मूलम्
तद् एष नूनं विष्णुर् वा
शक्रो वा मरुतां वरः ।
मत्साधनेप्सया प्राप्तो
नारदो मां यद् उक्तवान् ॥ ह्व्_६५।४५ ॥
विश्वास-प्रस्तुतिः
अत्र मे शङ्कते बुद्धिर्
वसुदेवं प्रति प्रभो ।
अस्य बुद्धिविशेषेण
वयं कातरतां गताः ॥ ह्व्_६५।४६ ॥
मूलम्
अत्र मे शङ्कते बुद्धिर्
वसुदेवं प्रति प्रभो ।
अस्य बुद्धिविशेषेण
वयं कातरतां गताः ॥ ह्व्_६५।४६ ॥
विश्वास-प्रस्तुतिः
अहं हि खट्वाङ्गवने
नारदेन समागतः ।
द्वितीयं स हि मां विप्रः
पुनर् एवाब्रवीद् वचः ॥ ह्व्_६५।४७ ॥
मूलम्
अहं हि खट्वाङ्गवने
नारदेन समागतः ।
द्वितीयं स हि मां विप्रः
पुनर् एवाब्रवीद् वचः ॥ ह्व्_६५।४७ ॥
विश्वास-प्रस्तुतिः
यत् त्वयानुष्ठितो यत्नः
कम्स गर्भकृते महान् ।
वसुदेवेन ते रात्रौ
कर्म तद् विफलीकृतम् ॥ ह्व्_६५।४८ ॥
मूलम्
यत् त्वयानुष्ठितो यत्नः
कम्स गर्भकृते महान् ।
वसुदेवेन ते रात्रौ
कर्म तद् विफलीकृतम् ॥ ह्व्_६५।४८ ॥
विश्वास-प्रस्तुतिः
दारिका या त्वया रात्रौ
शिलायां कम्स पातिता ।
तां यशोदासुतां विद्धि
कृष्णं च वसुदेवजम् ॥ ह्व्_६५।४९ ॥
मूलम्
दारिका या त्वया रात्रौ
शिलायां कम्स पातिता ।
तां यशोदासुतां विद्धि
कृष्णं च वसुदेवजम् ॥ ह्व्_६५।४९ ॥
विश्वास-प्रस्तुतिः
रात्रौ व्यावर्तिताव् एतौ
गर्भौ तव वधाय वै ।
वसुदेवेन सन्धाय
मित्ररूपेण शत्रुणा ॥ ह्व्_६५।५० ॥
मूलम्
रात्रौ व्यावर्तिताव् एतौ
गर्भौ तव वधाय वै ।
वसुदेवेन सन्धाय
मित्ररूपेण शत्रुणा ॥ ह्व्_६५।५० ॥
विश्वास-प्रस्तुतिः
सा तु कन्या यशोदाया
विन्ध्ये पर्वतसत्तमे ।
हत्वा शुम्भनिशुम्भौ द्वौ
दानवौ नगचारिणौ ॥ ह्व्_६५।५१ ॥
मूलम्
सा तु कन्या यशोदाया
विन्ध्ये पर्वतसत्तमे ।
हत्वा शुम्भनिशुम्भौ द्वौ
दानवौ नगचारिणौ ॥ ह्व्_६५।५१ ॥
विश्वास-प्रस्तुतिः
कृताभिषेका वरदा
भूतसङ्घनिषेविता ।
अर्च्यते दस्युभिर् घोरैर्
महापशुबलिप्रिया ॥ ह्व्_६५।५२ ॥
मूलम्
कृताभिषेका वरदा
भूतसङ्घनिषेविता ।
अर्च्यते दस्युभिर् घोरैर्
महापशुबलिप्रिया ॥ ह्व्_६५।५२ ॥
विश्वास-प्रस्तुतिः
सुरापिशितपूर्णाभ्यां
कुम्भाभ्याम् उपशोभिता ।
मयूराङ्गदचित्रैश् च
बर्हभारैश् च भूषिता ॥ ह्व्_६५।५३ ॥
मूलम्
सुरापिशितपूर्णाभ्यां
कुम्भाभ्याम् उपशोभिता ।
मयूराङ्गदचित्रैश् च
बर्हभारैश् च भूषिता ॥ ह्व्_६५।५३ ॥
विश्वास-प्रस्तुतिः
दृप्तकुकुटसन्नादं
वनं वायसनादितम् ।
छागयूथैश् च सम्पूर्णम्
अविरुद्धैश् च पक्षिभिः ॥ ह्व्_६५।५४ ॥
मूलम्
दृप्तकुकुटसन्नादं
वनं वायसनादितम् ।
छागयूथैश् च सम्पूर्णम्
अविरुद्धैश् च पक्षिभिः ॥ ह्व्_६५।५४ ॥
विश्वास-प्रस्तुतिः
सिंहव्याघ्रवराहाणां
नादेन प्रतिनादितम् ।
वृक्षगम्भीरनिबिडं
कान्तारैः सर्वतो वृतम् ॥ ह्व्_६५।५५ ॥
मूलम्
सिंहव्याघ्रवराहाणां
नादेन प्रतिनादितम् ।
वृक्षगम्भीरनिबिडं
कान्तारैः सर्वतो वृतम् ॥ ह्व्_६५।५५ ॥
विश्वास-प्रस्तुतिः
दिव्यभृङ्गारचमरैर्
आदर्शैश् च विभूषितम् ।
देवतूर्यनिनादैश् च
शतशः प्रतिनादितम् ॥
मूलम्
दिव्यभृङ्गारचमरैर्
आदर्शैश् च विभूषितम् ।
देवतूर्यनिनादैश् च
शतशः प्रतिनादितम् ॥
विश्वास-प्रस्तुतिः
स्थानं तस्या नगे विन्ध्ये
निर्मितं स्वेन तेजसा ॥ ह्व्_६५।५६ ॥
मूलम्
स्थानं तस्या नगे विन्ध्ये
निर्मितं स्वेन तेजसा ॥ ह्व्_६५।५६ ॥
विश्वास-प्रस्तुतिः
रिपूणां त्रासजननी
नित्यं तत्र मनोरमे ।
वसते परमप्रीता
दैवतैर् अपि पूजिता ॥ ह्व्_६५।५७ ॥
मूलम्
रिपूणां त्रासजननी
नित्यं तत्र मनोरमे ।
वसते परमप्रीता
दैवतैर् अपि पूजिता ॥ ह्व्_६५।५७ ॥
विश्वास-प्रस्तुतिः
यस् त्व् अयं नन्दगोपस्य
कृष्ण इत्य् उच्यते सुतः ।
अत्र मे नारदः प्राह
सुमहत् कर्म कारणम् ॥ ह्व्_६५।५८ ॥
मूलम्
यस् त्व् अयं नन्दगोपस्य
कृष्ण इत्य् उच्यते सुतः ।
अत्र मे नारदः प्राह
सुमहत् कर्म कारणम् ॥ ह्व्_६५।५८ ॥
विश्वास-प्रस्तुतिः
द्वितीयो वसुदेवाद् वै
वासुदेवो भविष्यति ।
स हि ते सहजो मृत्युर्
बान्धवश् च भविष्यति ॥ ह्व्_६५।५९ ॥
मूलम्
द्वितीयो वसुदेवाद् वै
वासुदेवो भविष्यति ।
स हि ते सहजो मृत्युर्
बान्धवश् च भविष्यति ॥ ह्व्_६५।५९ ॥
विश्वास-प्रस्तुतिः
स एव वासुदेवो वै
वसुदेवसुतो बली ।
बान्धवो धर्मतो मह्यं
हृदयेनान्तको रिपुः ॥ ह्व्_६५।६० ॥
मूलम्
स एव वासुदेवो वै
वसुदेवसुतो बली ।
बान्धवो धर्मतो मह्यं
हृदयेनान्तको रिपुः ॥ ह्व्_६५।६० ॥
विश्वास-प्रस्तुतिः
यथा हि वायसो मूर्ध्नि
पद्भ्यां यस्यैव तिष्ठति ।
नेत्रे तुदति तस्यैव
वक्त्रेणामिषगृद्धिना ॥ ह्व्_६५।६१ ॥
मूलम्
यथा हि वायसो मूर्ध्नि
पद्भ्यां यस्यैव तिष्ठति ।
नेत्रे तुदति तस्यैव
वक्त्रेणामिषगृद्धिना ॥ ह्व्_६५।६१ ॥
विश्वास-प्रस्तुतिः
वसुदेवस् तथैवायं
सपुत्रः सहबान्धवः ।
च्छिनत्ति मम मूलानि
भुङ्क्ते च मम पार्श्वतः ॥ ह्व्_६५।६२ ॥
मूलम्
वसुदेवस् तथैवायं
सपुत्रः सहबान्धवः ।
च्छिनत्ति मम मूलानि
भुङ्क्ते च मम पार्श्वतः ॥ ह्व्_६५।६२ ॥
विश्वास-प्रस्तुतिः
भ्रूणहत्यापि सन्तार्या
गोवधः स्त्रीवधो ऽपि वा ।
न कृतघ्नस्य लोको ऽस्ति
बान्धवस्य विशेषतः ॥ ह्व्_६५।६३ ॥
मूलम्
भ्रूणहत्यापि सन्तार्या
गोवधः स्त्रीवधो ऽपि वा ।
न कृतघ्नस्य लोको ऽस्ति
बान्धवस्य विशेषतः ॥ ह्व्_६५।६३ ॥
विश्वास-प्रस्तुतिः
पतितानुगतं मार्गं
निषेवत्य् अचिरेण सः ।
यः कृतघ्नो ऽनुबन्धेन
प्रीतिं वहति दारुणाम् ॥ ह्व्_६५।६४ ॥
मूलम्
पतितानुगतं मार्गं
निषेवत्य् अचिरेण सः ।
यः कृतघ्नो ऽनुबन्धेन
प्रीतिं वहति दारुणाम् ॥ ह्व्_६५।६४ ॥
विश्वास-प्रस्तुतिः
नरकाध्युषितः पन्था
गन्तव्यस् तेन दारुणः ।
अपापे पापहृदयो
यः पापम् अनुतिष्ठति ॥ ह्व्_६५।६५ ॥
मूलम्
नरकाध्युषितः पन्था
गन्तव्यस् तेन दारुणः ।
अपापे पापहृदयो
यः पापम् अनुतिष्ठति ॥ ह्व्_६५।६५ ॥
विश्वास-प्रस्तुतिः
([क्: after ६५, द्६,त्१।२,ग्१-३।५,म्१।२ ins.: :क्])
स याति नरकं घोरं
पुनरावृत्तिदुर्लभम् । ह्व्_६५।६५७५१ ।
अहं वा स्वजनः श्लाघ्यः
स वा श्लाघ्यतरः सुतः ।
नियमैर् गुरुवृत्तेन
त्वया बान्धवकाम्यया ॥ ह्व्_६५।६६ ॥
मूलम्
([क्: after ६५, द्६,त्१।२,ग्१-३।५,म्१।२ ins.: :क्])
स याति नरकं घोरं
पुनरावृत्तिदुर्लभम् । ह्व्_६५।६५७५१ ।
अहं वा स्वजनः श्लाघ्यः
स वा श्लाघ्यतरः सुतः ।
नियमैर् गुरुवृत्तेन
त्वया बान्धवकाम्यया ॥ ह्व्_६५।६६ ॥
विश्वास-प्रस्तुतिः
हस्तिनां कलहे घोरे
वधम् ऋच्छन्ति वीरुधः ।
युद्धव्युपरमे ते तु
सहाश्नन्ति महावने ॥ ह्व्_६५।६७ ॥
मूलम्
हस्तिनां कलहे घोरे
वधम् ऋच्छन्ति वीरुधः ।
युद्धव्युपरमे ते तु
सहाश्नन्ति महावने ॥ ह्व्_६५।६७ ॥
विश्वास-प्रस्तुतिः
बान्धवानाम् अपि तथा
भेदकाले समुत्थिते ।
वध्यते यो ऽन्तरप्रेप्सुः
स्वजनो याति विक्रियाम् ॥ ह्व्_६५।६८ ॥
मूलम्
बान्धवानाम् अपि तथा
भेदकाले समुत्थिते ।
वध्यते यो ऽन्तरप्रेप्सुः
स्वजनो याति विक्रियाम् ॥ ह्व्_६५।६८ ॥
विश्वास-प्रस्तुतिः
कलिस् त्वं हि विनाशाय
मया पुष्टो विजानता ।
([क्: after ६९अब्, त्१।२,ग्,म्१-३ ins.: :क्])
गच्छ गच्छ यथाकामं
वसुदेव नराधम ॥ ह्व्_६५।६९अब्७५२:१ ।
मूलम्
कलिस् त्वं हि विनाशाय
मया पुष्टो विजानता ।
([क्: after ६९अब्, त्१।२,ग्,म्१-३ ins.: :क्])
गच्छ गच्छ यथाकामं
वसुदेव नराधम ॥ ह्व्_६५।६९अब्७५२:१ ।
विश्वास-प्रस्तुतिः
तद् दत्तं कृपणं पिण्डं
यद् दत्तं तव जानता । ह्व्_६५।६९अब्७५२:२ ।
तच् छ्वभ्यो यदि दत्तं स्याच्
छ्रेयो मम भविष्यति । ह्व्_६५।६९अब्७५२:३ ।
वसुदेव कुलस्यास्य
यद् विरोधयसे भृशम् ॥
मूलम्
तद् दत्तं कृपणं पिण्डं
यद् दत्तं तव जानता । ह्व्_६५।६९अब्७५२:२ ।
तच् छ्वभ्यो यदि दत्तं स्याच्
छ्रेयो मम भविष्यति । ह्व्_६५।६९अब्७५२:३ ।
वसुदेव कुलस्यास्य
यद् विरोधयसे भृशम् ॥
विश्वास-प्रस्तुतिः
अमर्षी वैरशीलश् च
सदा पापमतिः शठः ॥ ह्व्_६५।६९ ॥
मूलम्
अमर्षी वैरशीलश् च
सदा पापमतिः शठः ॥ ह्व्_६५।६९ ॥
विश्वास-प्रस्तुतिः
स्थाने यदुकुलं मूढ
शोचनीयं त्वया कृतम् ।
वसुदेव वृथावृद्ध
यन् मया त्वं पुरस्कृतः ॥ ह्व्_६५।७० ॥
मूलम्
स्थाने यदुकुलं मूढ
शोचनीयं त्वया कृतम् ।
वसुदेव वृथावृद्ध
यन् मया त्वं पुरस्कृतः ॥ ह्व्_६५।७० ॥
विश्वास-प्रस्तुतिः
श्वेतेन शिरसा वृद्धो
नैव वर्षशती भवेत् ।
यस्य बुद्धिः परिणता
स वै वृद्धतमो नृणाम् ॥ ह्व्_६५।७१ ॥
मूलम्
श्वेतेन शिरसा वृद्धो
नैव वर्षशती भवेत् ।
यस्य बुद्धिः परिणता
स वै वृद्धतमो नृणाम् ॥ ह्व्_६५।७१ ॥
विश्वास-प्रस्तुतिः
([क्: after ७१, बोम्।, पोओन एद्स्। ins.: :क्])
न तेन वृद्धो भवति
येनास्य पलितं शिरः । ह्व्_६५।७१७५३ ।
त्वं तु कर्कशशीलश् च
बुद्ध्या च न बहुश्रुतः ।
केवलं वयसा वृद्धो
यथा शरदि तोयदः ॥ ह्व्_६५।७२ ॥
मूलम्
([क्: after ७१, बोम्।, पोओन एद्स्। ins.: :क्])
न तेन वृद्धो भवति
येनास्य पलितं शिरः । ह्व्_६५।७१७५३ ।
त्वं तु कर्कशशीलश् च
बुद्ध्या च न बहुश्रुतः ।
केवलं वयसा वृद्धो
यथा शरदि तोयदः ॥ ह्व्_६५।७२ ॥
विश्वास-प्रस्तुतिः
किं च त्वं साधु जानीषे
वसुदेव वृथामते ।
हते कंसे मम सुतो
मथुरां पालयिष्यति ॥ ह्व्_६५।७३ ॥
मूलम्
किं च त्वं साधु जानीषे
वसुदेव वृथामते ।
हते कंसे मम सुतो
मथुरां पालयिष्यति ॥ ह्व्_६५।७३ ॥
विश्वास-प्रस्तुतिः
छिन्नाशस् त्वं वृथावृद्ध
मिथ्या ह्य् एवं विचारितम् ।
जिजीविषुर् न स ह्य् अस्ति
यो हि तिष्ठेन् ममाग्रतः ॥ ह्व्_६५।७४ ॥
मूलम्
छिन्नाशस् त्वं वृथावृद्ध
मिथ्या ह्य् एवं विचारितम् ।
जिजीविषुर् न स ह्य् अस्ति
यो हि तिष्ठेन् ममाग्रतः ॥ ह्व्_६५।७४ ॥
विश्वास-प्रस्तुतिः
प्रहर्तुकामो विश्वस्ते
यस् त्वं स्वस्थेन चेतसा ।
तत् ते प्रतिकरिष्यामि
पुत्रयोस् तव पश्यतः ॥ ह्व्_६५।७५ ॥
मूलम्
प्रहर्तुकामो विश्वस्ते
यस् त्वं स्वस्थेन चेतसा ।
तत् ते प्रतिकरिष्यामि
पुत्रयोस् तव पश्यतः ॥ ह्व्_६५।७५ ॥
विश्वास-प्रस्तुतिः
न मे वृद्धवधः कश्चिद्
द्विजस्त्रीवध एव वा ।
कृतपूर्वः करिष्ये वा
विशेषेण तु बान्धवे ॥ ह्व्_६५।७६ ॥
मूलम्
न मे वृद्धवधः कश्चिद्
द्विजस्त्रीवध एव वा ।
कृतपूर्वः करिष्ये वा
विशेषेण तु बान्धवे ॥ ह्व्_६५।७६ ॥
विश्वास-प्रस्तुतिः
इह त्वं जातसंवृद्धो
मम पित्रा विवर्धितः ।
पितृष्वसुर् मे भर्ता च
यदूनां प्रथमो गुरुः ॥ ह्व्_६५।७७ ॥
मूलम्
इह त्वं जातसंवृद्धो
मम पित्रा विवर्धितः ।
पितृष्वसुर् मे भर्ता च
यदूनां प्रथमो गुरुः ॥ ह्व्_६५।७७ ॥
विश्वास-प्रस्तुतिः
कुले महति विख्यातः
प्रथिते चक्रवर्तिनाम् ।
गुर्वर्थं पूजितः सद्भिर्
यदुभिर् धर्मबुद्धिभिः ॥ ह्व्_६५।७८ ॥
मूलम्
कुले महति विख्यातः
प्रथिते चक्रवर्तिनाम् ।
गुर्वर्थं पूजितः सद्भिर्
यदुभिर् धर्मबुद्धिभिः ॥ ह्व्_६५।७८ ॥
विश्वास-प्रस्तुतिः
किं करिष्यामहे सर्वे
सत्सु वक्तव्यतां गताः ।
यदूनां यूथमुख्यस्य
यस्य ते वृत्तम् ईदृशम् ॥ ह्व्_६५।७९ ॥
मूलम्
किं करिष्यामहे सर्वे
सत्सु वक्तव्यतां गताः ।
यदूनां यूथमुख्यस्य
यस्य ते वृत्तम् ईदृशम् ॥ ह्व्_६५।७९ ॥
विश्वास-प्रस्तुतिः
मद्वधो वा जयो वाथ
वसुदेवस्य दुर्णयैः ।
सत्सु यास्यन्ति पुरुषा
यदूनाम् अवगुण्ठिताः ॥ ह्व्_६५।८० ॥
मूलम्
मद्वधो वा जयो वाथ
वसुदेवस्य दुर्णयैः ।
सत्सु यास्यन्ति पुरुषा
यदूनाम् अवगुण्ठिताः ॥ ह्व्_६५।८० ॥
विश्वास-प्रस्तुतिः
त्वया हि मद्वधोपायं
तर्कयानेन वै मृधे ।
अविश्वास्यं कृतं कर्म
वाच्याश् च यदवः कृताः ॥ ह्व्_६५।८१ ॥
मूलम्
त्वया हि मद्वधोपायं
तर्कयानेन वै मृधे ।
अविश्वास्यं कृतं कर्म
वाच्याश् च यदवः कृताः ॥ ह्व्_६५।८१ ॥
विश्वास-प्रस्तुतिः
अशाम्यं वैरम् उत्पन्नं
मम कृष्णस्य चोभयोः ।
शान्तिम् एकतरे शान्तिं
गते यास्यन्ति यादवाः ॥ ह्व्_६५।८२ ॥
मूलम्
अशाम्यं वैरम् उत्पन्नं
मम कृष्णस्य चोभयोः ।
शान्तिम् एकतरे शान्तिं
गते यास्यन्ति यादवाः ॥ ह्व्_६५।८२ ॥
विश्वास-प्रस्तुतिः
([क्: after ८२, द्६,स् (एxचेप्त् त्३,त्४ ins.: :क्])
तिष्ठ वा गच्छ वा मूढ
यथेष्टं मम पार्श्वतः ॥ ह्व्_६५।८२७५४:१ ।
मूलम्
([क्: after ८२, द्६,स् (एxचेप्त् त्३,त्४ ins.: :क्])
तिष्ठ वा गच्छ वा मूढ
यथेष्टं मम पार्श्वतः ॥ ह्व्_६५।८२७५४:१ ।
विश्वास-प्रस्तुतिः
हन्तुं स्वजनम् उद्वृत्तं
सो ऽयं यदुकुलोद्वहः । ह्व्_६५।८२७५४:२ ।
मा भूद् अयं परीवादो
लोके यादवसत्तमाः । ह्व्_६५।८२७५४:३ ।
अन्यथा वधयोग्यो ऽसि
नात्र कार्या विचारणा । ह्व्_६५।८२७५४:४ ।
गच्छत्व् अयं दानपतिः
क्षिप्रम् आनयितुं व्रजात् ।
नन्दगोपं च गोपांश् च
करदान् मम शासनात् ॥ ह्व्_६५।८३ ॥
मूलम्
हन्तुं स्वजनम् उद्वृत्तं
सो ऽयं यदुकुलोद्वहः । ह्व्_६५।८२७५४:२ ।
मा भूद् अयं परीवादो
लोके यादवसत्तमाः । ह्व्_६५।८२७५४:३ ।
अन्यथा वधयोग्यो ऽसि
नात्र कार्या विचारणा । ह्व्_६५।८२७५४:४ ।
गच्छत्व् अयं दानपतिः
क्षिप्रम् आनयितुं व्रजात् ।
नन्दगोपं च गोपांश् च
करदान् मम शासनात् ॥ ह्व्_६५।८३ ॥
विश्वास-प्रस्तुतिः
वाच्यश् च नन्दगोपो वै
करम् आदाय वार्षिकम् ।
शीघ्रम् आगच्छ नगरं
गोपैः सर्वैः समन्वितः ॥ ह्व्_६५।८४ ॥
मूलम्
वाच्यश् च नन्दगोपो वै
करम् आदाय वार्षिकम् ।
शीघ्रम् आगच्छ नगरं
गोपैः सर्वैः समन्वितः ॥ ह्व्_६५।८४ ॥
विश्वास-प्रस्तुतिः
कृष्णसङ्कर्षणौ चैव
वसुदेवसुताव् उभौ ।
द्रष्टुम् इच्छति वै कंसः
सभृत्यः सपुरोहितः ॥ ह्व्_६५।८५ ॥
मूलम्
कृष्णसङ्कर्षणौ चैव
वसुदेवसुताव् उभौ ।
द्रष्टुम् इच्छति वै कंसः
सभृत्यः सपुरोहितः ॥ ह्व्_६५।८५ ॥
विश्वास-प्रस्तुतिः
एतौ युद्धविदौ रङ्गे
कालनिर्माणयोधिनौ ।
दृढप्रतिकृती चैव
शृणोमि व्यायतोद्यमौ ॥ ह्व्_६५।८६ ॥
मूलम्
एतौ युद्धविदौ रङ्गे
कालनिर्माणयोधिनौ ।
दृढप्रतिकृती चैव
शृणोमि व्यायतोद्यमौ ॥ ह्व्_६५।८६ ॥
विश्वास-प्रस्तुतिः
अस्माकम् अपि मल्लौ द्वौ
सज्जौ जयधृतोत्सवौ ।
ताभ्यां सह नियोत्स्येते
तौ युद्धकुशलाव् उभौ ॥ ह्व्_६५।८७ ॥
मूलम्
अस्माकम् अपि मल्लौ द्वौ
सज्जौ जयधृतोत्सवौ ।
ताभ्यां सह नियोत्स्येते
तौ युद्धकुशलाव् उभौ ॥ ह्व्_६५।८७ ॥
विश्वास-प्रस्तुतिः
द्रष्टव्यौ च मयावश्यं
बालौ ताव् अमरोपमौ ।
पितृष्वसुः सुतौ मुख्यौ
व्रजवासौ वनेचरौ ॥ ह्व्_६५।८८ ॥
मूलम्
द्रष्टव्यौ च मयावश्यं
बालौ ताव् अमरोपमौ ।
पितृष्वसुः सुतौ मुख्यौ
व्रजवासौ वनेचरौ ॥ ह्व्_६५।८८ ॥
विश्वास-प्रस्तुतिः
वक्तव्यं च व्रजे तस्मिन्
समीपे व्रजवासिनाम् ।
राजा धनुर्महं नाम
कारयिष्यति वै सुखी ॥ ह्व्_६५।८९ ॥
मूलम्
वक्तव्यं च व्रजे तस्मिन्
समीपे व्रजवासिनाम् ।
राजा धनुर्महं नाम
कारयिष्यति वै सुखी ॥ ह्व्_६५।८९ ॥
विश्वास-प्रस्तुतिः
सन्निकृष्टे व्रजास् तत्र
निवसन्तु यथासुखम् ।
जनस्यामन्त्रितस्यार्थे
यथा स्यात् सर्वम् अव्ययम् ॥ ह्व्_६५।९० ॥
मूलम्
सन्निकृष्टे व्रजास् तत्र
निवसन्तु यथासुखम् ।
जनस्यामन्त्रितस्यार्थे
यथा स्यात् सर्वम् अव्ययम् ॥ ह्व्_६५।९० ॥
विश्वास-प्रस्तुतिः
पयसः सर्पिषश् चैव
दध्नो दध्युत्तर्स्य च ।
यथाकामप्रदानाय
भोज्याधिश्रयणाय च ॥ ह्व्_६५।९१ ॥
मूलम्
पयसः सर्पिषश् चैव
दध्नो दध्युत्तर्स्य च ।
यथाकामप्रदानाय
भोज्याधिश्रयणाय च ॥ ह्व्_६५।९१ ॥
विश्वास-प्रस्तुतिः
अक्रूर गच्छ शीघ्रं त्वं
ताव् आनय ममाज्ञया ।
सङ्कर्षणं च कृष्णं च
द्रष्टुं कौतूहलं हि मे ॥ ह्व्_६५।९२ ॥
मूलम्
अक्रूर गच्छ शीघ्रं त्वं
ताव् आनय ममाज्ञया ।
सङ्कर्षणं च कृष्णं च
द्रष्टुं कौतूहलं हि मे ॥ ह्व्_६५।९२ ॥
विश्वास-प्रस्तुतिः
ताभ्याम् आगमने प्रीतिः
परा मम कृता भवेत् ।
दृष्ट्वा तु तौ महावीर्यौ
तद् विधास्यामि यद् धितम् ॥ ह्व्_६५।९३ ॥
मूलम्
ताभ्याम् आगमने प्रीतिः
परा मम कृता भवेत् ।
दृष्ट्वा तु तौ महावीर्यौ
तद् विधास्यामि यद् धितम् ॥ ह्व्_६५।९३ ॥
विश्वास-प्रस्तुतिः
स्यान् नाम वाक्यं श्रुत्वैवं
मम तौ परिभाषितम् ।
न गच्छेतां यथाकालं
निग्राह्याव् अपि तौ मम ॥ ह्व्_६५।९४ ॥
मूलम्
स्यान् नाम वाक्यं श्रुत्वैवं
मम तौ परिभाषितम् ।
न गच्छेतां यथाकालं
निग्राह्याव् अपि तौ मम ॥ ह्व्_६५।९४ ॥
विश्वास-प्रस्तुतिः
सान्त्वम् एव तु बालेषु
प्रधानं प्रथमो नयः ।
मधुरेणैव तौ मन्दौ
स्वयम् एवानयाशु वै ॥ ह्व्_६५।९५ ॥
मूलम्
सान्त्वम् एव तु बालेषु
प्रधानं प्रथमो नयः ।
मधुरेणैव तौ मन्दौ
स्वयम् एवानयाशु वै ॥ ह्व्_६५।९५ ॥
विश्वास-प्रस्तुतिः
अक्रूर कुरु मे प्रीतिम्
एतां परमदुर्लभाम् ।
यदि वा नोपजप्तो ऽसि
वसुदेवेन सुव्रत ॥ ह्व्_६५।९६ ॥
मूलम्
अक्रूर कुरु मे प्रीतिम्
एतां परमदुर्लभाम् ।
यदि वा नोपजप्तो ऽसि
वसुदेवेन सुव्रत ॥ ह्व्_६५।९६ ॥
विश्वास-प्रस्तुतिः
([क्: त्१।२,ग्१।४।५,म्४ चोन्त्।; द्६,ग्२।३ ins. after ९५; म्१-३ ins. after ९३ अब्: :क्])
इत्य् उक्त्वा विररामैव
कंसः स मधुरेश्वरः । ह्व्_६५।९६७५६ ।
एवम् आक्रुष्यमानस् तु
वसुदेवो वसूपमः ।
सागराकारम् आत्मानं
निष्प्रकम्पम् अधारयत् ॥ ह्व्_६५।९७ ॥
मूलम्
([क्: त्१।२,ग्१।४।५,म्४ चोन्त्।; द्६,ग्२।३ ins. after ९५; म्१-३ ins. after ९३ अब्: :क्])
इत्य् उक्त्वा विररामैव
कंसः स मधुरेश्वरः । ह्व्_६५।९६७५६ ।
एवम् आक्रुष्यमानस् तु
वसुदेवो वसूपमः ।
सागराकारम् आत्मानं
निष्प्रकम्पम् अधारयत् ॥ ह्व्_६५।९७ ॥
विश्वास-प्रस्तुतिः
वाक्शल्यैस् ताड्यमानस् तु
कंसेनादीर्घदर्शिना ।
क्षमां मनसि सन्ध्याय
नोत्तरं प्रत्यभाषत ॥ ह्व्_६५।९८ ॥
मूलम्
वाक्शल्यैस् ताड्यमानस् तु
कंसेनादीर्घदर्शिना ।
क्षमां मनसि सन्ध्याय
नोत्तरं प्रत्यभाषत ॥ ह्व्_६५।९८ ॥
विश्वास-प्रस्तुतिः
ये तु तं ददृशुस् तत्र
क्षिप्यमाणम् अनेकशः ।
धिग् धिग् इत्य् असकृत् ते वै
शनैर् ऊचुर् अवाङ्मुखाः ॥ ह्व्_६५।९९ ॥
मूलम्
ये तु तं ददृशुस् तत्र
क्षिप्यमाणम् अनेकशः ।
धिग् धिग् इत्य् असकृत् ते वै
शनैर् ऊचुर् अवाङ्मुखाः ॥ ह्व्_६५।९९ ॥
विश्वास-प्रस्तुतिः
अक्रूरस् तु महातेजा
जानन् दिव्येन चक्षुषा ।
जलम् दृष्ट्वेव तृषितः
प्रेषितः प्रीतिमान् अभूत् ॥ ह्व्_६५।१०० ॥
मूलम्
अक्रूरस् तु महातेजा
जानन् दिव्येन चक्षुषा ।
जलम् दृष्ट्वेव तृषितः
प्रेषितः प्रीतिमान् अभूत् ॥ ह्व्_६५।१०० ॥
विश्वास-प्रस्तुतिः
([क्: after १००, द्६,त्१।२,ग्,म्,ग्(एद्।) ins.: :क्])
पश्यामि देवदेवेशं
शङ्खचक्रगदाधरम् । ह्व्_६५।१००७५७:१ ।
योगिनां योगगम्यं तम्
ईश्वरं सकलेश्वरम् ॥ ह्व्_६५।१००७५७:२ ।
मूलम्
([क्: after १००, द्६,त्१।२,ग्,म्,ग्(एद्।) ins.: :क्])
पश्यामि देवदेवेशं
शङ्खचक्रगदाधरम् । ह्व्_६५।१००७५७:१ ।
योगिनां योगगम्यं तम्
ईश्वरं सकलेश्वरम् ॥ ह्व्_६५।१००७५७:२ ।
विश्वास-प्रस्तुतिः
पश्यामि बालं गोविन्दं
गोपवेषविभूषितम् । ह्व्_६५।१००७५७:३ ।
सङ्कर्षणसहायं तं
पद्मपत्रनिभेक्षणम् ॥ ह्व्_६५।१००७५७:४ ।
मूलम्
पश्यामि बालं गोविन्दं
गोपवेषविभूषितम् । ह्व्_६५।१००७५७:३ ।
सङ्कर्षणसहायं तं
पद्मपत्रनिभेक्षणम् ॥ ह्व्_६५।१००७५७:४ ।
विश्वास-प्रस्तुतिः
अद्य मे सफलं जन्म
दृष्टो येन मया हरिः ॥ ह्व्_६५।१००७५७:५ ।
मूलम्
अद्य मे सफलं जन्म
दृष्टो येन मया हरिः ॥ ह्व्_६५।१००७५७:५ ।
विश्वास-प्रस्तुतिः
मयूराङ्गदचित्राङ्गं
तुम्बवीणाविमिश्रितम् । ह्व्_६५।१००७५७:६ ।
द्रक्ष्यामि लोकनाथं तं
गोपीस्तनविलालसम् ॥ ह्व्_६५।१००७५७:७ ।
मूलम्
मयूराङ्गदचित्राङ्गं
तुम्बवीणाविमिश्रितम् । ह्व्_६५।१००७५७:६ ।
द्रक्ष्यामि लोकनाथं तं
गोपीस्तनविलालसम् ॥ ह्व्_६५।१००७५७:७ ।
विश्वास-प्रस्तुतिः
यदि मां चक्षुषा सम्यक्
प्रीतियुक्तेन पश्यति । ह्व्_६५।१००७५७:८ ।
तदानीं सफलं जन्म
मम तं पश्यतो हरिम् ॥ ह्व्_६५।१००७५७:९ ।
मूलम्
यदि मां चक्षुषा सम्यक्
प्रीतियुक्तेन पश्यति । ह्व्_६५।१००७५७:८ ।
तदानीं सफलं जन्म
मम तं पश्यतो हरिम् ॥ ह्व्_६५।१००७५७:९ ।
विश्वास-प्रस्तुतिः
यं दृष्ट्वा मुनयः सर्वे
विरमन्ते तपोबलात् । ह्व्_६५।१००७५७:१० ।
स मां वक्ष्यति किञ्चित् तु
वचनं वाग्विदां वरः ॥ ह्व्_६५।१००७५७:११ ।
मूलम्
यं दृष्ट्वा मुनयः सर्वे
विरमन्ते तपोबलात् । ह्व्_६५।१००७५७:१० ।
स मां वक्ष्यति किञ्चित् तु
वचनं वाग्विदां वरः ॥ ह्व्_६५।१००७५७:११ ।
विश्वास-प्रस्तुतिः
एवं विचिन्त्य मनसा
गन्तुं शीघ्रतरो ऽभवत् । ह्व्_६५।१००७५७:१२ ।
तस्मिन्न् एव मुहूर्ते तु
मथुरायाः स निर्ययौ ।
प्रीतिमान् पुण्डरीकाक्षं
द्रष्टुं दानपतिः स्वयम् ॥ ह्व्_६५।१०१ ॥
मूलम्
एवं विचिन्त्य मनसा
गन्तुं शीघ्रतरो ऽभवत् । ह्व्_६५।१००७५७:१२ ।
तस्मिन्न् एव मुहूर्ते तु
मथुरायाः स निर्ययौ ।
प्रीतिमान् पुण्डरीकाक्षं
द्रष्टुं दानपतिः स्वयम् ॥ ह्व्_६५।१०१ ॥